परिचयः
- ज्ञानं; तज्जनकं करणम् उभयमपि प्रमाणमिति शब्देन उच्यते एव ।
- प्र इत्युपसर्गपूर्वकात् मेङ् धातोः ल्युट् प्रत्यये कृते प्रमाणशब्दो निष्पद्यते । भावार्थकश्चेज् ज्ञानमुच्यते । यदा करणार्थको भवति ल्युट् प्रत्ययः तदा ज्ञानकरणम् उच्यते इति विवेकः।
- प्रमा द्विविधम्
- स्मृतिसाधारण-प्रमा - अबाधित-अर्थ-विषयकं ज्ञानम्।
- स्मृतेर् व्यावृत्ता प्रमा - अज्ञात-अबाधित-अर्थ-विषयकं ज्ञानम् प्रमा। तज्जनकम् प्रमाणम् (मतानुसारं चतुर्विधम्, पञ्चविधम्…)।
- वैदिकप्रमा - पहलवत्त्वम् अपीष्यते - अज्ञात-अबाधित-फलवद्-अर्थ-विषयकं ज्ञानम्। एष हि वेदभाग-तात्पर्यविषयः।
- जैमिनीसूत्रं १,१.५ इति दृश्यताम्।
- इदं हि ज्ञाने मूर्धन्यम्।
सूत्राणि
- यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्॥२१॥
- तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्॥ (वस्तुतः त्रिविध इति प्रामाणिकोऽभिप्रायः।)
प्रमाणाङ्गीकारे भेदाः
- चार्वाकाः। प्रत्यक्षम्। (1प्रमाणम्)
- बौद्धाः, वैशेषिकाः। प्रत्यक्षानुमाने। (2 प्रमाणे)
- साङ्ख्याः। प्रत्यक्षानुमानशब्दाः। (3प्रमाणानि)
- नैययायिका:। प्रत्यक्षानुमानोपमानशब्दाः। (4प्रमाणानि)
- प्राभाकराः। प्रत्यक्षानुमानशब्दोपमानार्थापत्तयः। (5प्रमाणानि)
- भाट्टाः, वेदान्तिनश्च। प्रत्यक्षानुमानशब्दोपमान-अर्थापत्ति-अनुपलब्धयः। (6प्रमाणानि)
- पौराणिकाः। प्रत्यक्षानुमानशब्दोपमानार्थापत्ति-अनुपलब्धि-सम्भव- ऐतिह्यानीति। (8 प्रमाणानि)
प्रकाराः
- उपमिताव् अभिधापत्रं दृश्यताम्।