सामान्यम्/ जातिः

परिचयः

  • नित्यम् एकम् अनेकानु-गतं सामान्यं द्रव्य-गुण-कर्म-वृत्ति। तद्-विविधं पराऽपर-भेदात्। परं सत्ता। अपरं द्रव्यत्वादिः॥
  • नित्यम्, एकम्, अनेकानुगतम् सामान्यम्।
  • त्वत्व - इत्येव सम्भवति न त्वत्वत्वम् इति।
  • परा जातिः = superset, अपरा = subset। परा सत्ता। अपरा द्रव्यत्वादिः॥
  • कुतो न सामान्यस्य गुणेष्वन्तर्भावः? नीलो वर्णो गुणो नीलघटस्य। नीलत्व-जातिर् इति चेद् गुणः, गुणस्यापि गुणाश्रयत्वं स्यात्। नेष्यते तत् - द्रव्यलक्ष्णम् गुणवत्त्वम्।

जातेर् अवगतिः

आकृत्यैव न। किञ्चाकृत्या प्रायेण। पस्तपादमत्त्वं मनुष्यलक्षणञ्चेद् विकलाङ्गः कः? अतः “हस्तपादमत्सु वर्तमाना जातिर् यस्मिन्नस्ति सः” इति परिष्कारः।

जातेर् अनाधारापेक्षा

  • घटे नष्टे तज्जातिः क्व याति? इत्याक्षिप्य बौद्धा इतरवस्तुव्यावर्तनम् आहुर् अपोहम्।
  • किन्तु जातेर् आधारापेक्षा नास्तीत्यन्ये।

लक्षणम्