परिचयः
- पदस्य अर्थः।
सप्तैव?
- केचिदाहुः - “सप्तैव पदार्थाः इति गणनं “मोक्षोपयोगिपदार्थानां”। यदि च “युक्तिसिद्धाः” (इदमेव नवीनानां नवीनत्व) तदतिरिक्ताः अपि पदार्थाः, तदा “अगत्या” तेषां मोक्षानुपयोगित्वं। तेन, न सप्तेतिविभागः अफलः। नापि केषांचित् पदार्थानां तदनन्तर्भावेsपि क्षतिः।” इति केचित्। परम्परया वाऽपि द्रव्यकेन्द्रिता एव दृश्यन्ते पदार्थविभागाः, आत्मनस् तत्रान्तर्भावात्। नेतीतरे।
१५शतमानस्य स्थूलविभागाः
- द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाऽभावाः।
- लौकिकः - द्रव्य-गुण-कर्म-सामान्यानि अभावश्च
- शास्त्रीयः - विशेष-समवायौ। नानुभवगोचराः, नानुभवविरोधिनः।
- भावः - द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः।
- सत्ता - द्रव्य-गुण-कर्माणि।
- कर्मसु - उत्क्षेपणम् अपक्षेपणम् आगुच्छनम् प्रसारणम् गमनम्।
- धर्मः - सामान्यविशेषौ। द्रव्यगुणकर्मसु भेदकः तत्-तद्-धर्मः।
- मुक्त्यै मुख्यपदार्थाः - आत्मा, शरीरम्, इन्द्रियः, अर्थः, बुद्धिः, मनः, प्रवृत्तिः, दोषः, प्रेत्यभावः, फलम्, दुःखम्, अपवर्गः।
विशेषः
- नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः॥
- नित्य-द्रव्य-वृत्तित्वे सति व्यावर्तकत्वं विशेषस्य स्वरूपम्।
- प्रत्येकस्मिन् नित्यद्रव्ये (विशिष्य परमाणौ) विद्यमानं वैशिष्ट्यम्। पुनः सः विशेषः स्वप्रकाशः। [तस्य विशिष्टस्य अवगमनं न अपेक्षितं ।] तेनैव ““वैशेषिकम्”” दर्शनम्। विशेषाः अनन्ताः। genius.।
- स्वप्रतिपत्तिः - अनावश्यकः, अवकाशावधिभेदात्।
नाशः कर्मसु
- मध्यम-परिमाणानाम् नश्वरता।
- क्रियाश्रयस्य नश्वरता। मध्यमपरिमाणानाम् एव क्रिया।
- प्रलये परमाणवस् तिष्ठन्तीति केचित्। आधुनिकविज्ञानविरोधो ऽत्र।