[[व्यासतीर्थप्रदर्शितानां-नैयायिकोक्तव्याप्तिलक्षमदूषणानां-परिहारप्रकाराः Source: EB]]
[
ॐ
NYAYAVAIRESHIKA
***व्यासतीर्थप्रदर्शितानां नैयायिकोक्तव्याप्तिलक्षमदूषणानां परिहारप्रकाराः\
एन्.एस्. रामानुजताताचार्यः
नवीनन्यायशास्त्रप्रवर्तकाः श्रीगङ्गेशोपाध्यायाः तत्त्वचिन्तामणावनुमानखण्डे प्राचीनोक्तानि बहूनि व्याप्तिलक्षणानि दूषयित्वा स्वयं निर्दोषाण्यनेकानि व्याप्तिलक्षणानि प्रदर्शयांबभूवुः। तानि लक्षणान्यपि संदोषाण्येवेति द्वैतमतप्रवर्तकाचार्याः तार्किकाग्रगण्याः व्यासतीर्थस्वामिनः(1) तर्कताण्डवाख्ये ग्रन्थे न्यरूरुपन्। तेषां दोषाणां के परिहारप्रकारा इति अस्मिन् लघुनिबन्धे प्रतिपादयामः।
तत्रादौ गङ्गेशोक्तानि लक्षणानि संग्रहेणानूद्यन्ते। आदौ `अव्यभिचरितः सम्बन्धो व्याप्ति’ इत्यस्य विवरणरूपाणि कानिचिल्लक्षणानि प्रदर्शितानि। तत्राप्यत्यन्ताभावगर्भाणि कानिचित् अन्योन्याभावगर्भाणि कानिचिल्लक्षणानि। तत्रापि धूमजातीयानं सर्वेषां धूमानां वह्निजातीयैः सर्वैर्वह्निभिर्व्याप्तिरिति मतावलम्बीनि कानिचिल्लक्षणानि। समानाधिकरणयोरेव वह्निधूमव्यक्तिविशेषयोर्व्याप्तिरिति मतविशेषाश्रितानि कानिचिल्लक्षणानि। एवम् अनौपाधिकः सम्बन्धो व्याप्तिः इत्यस्य विवरणरूपाणि तत्रापि साध्यव्यापकेषु साधनाव्यापकत्वनिषेधे पर्यंवसितानि कानिचित्, साधनाव्यापकेषु साध्यव्यापकत्वनिषेधे पर्यवभितानि कानिचित्। `स्वाभाविकः सम्बन्धो व्याप्तिः’ इत्यस्य विवरणरूपाणि कानिचित्। सर्वेष्वपि व्याप्तिलक्षणेषु वाध्यहेत्वोः सामानाधिकरण्यं प्रवेशितमस्ति। क्रमशस्तानि विवृणुमः।
प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः। `पर्वतो वह्निमान् धूमात्’ इत्यादौ यच्छब्दनिर्दिष्टसाधनधूमाधिकरणवृत्तिः प्रतियोग्यसमानाधिकरणश्च योऽत्यन्ताभावः घटाद्यत्यन्ताभावः तत्प्रतियोगितावच्छेदकं घटत्वादिकं तदवच्छिन्नो न भवति यः वह्निः तेन सामानाधिकरण्यं धूमस्यास्तीति लक्षणसमन्वयः। इयं व्याप्तिः वह्निजातीयेन साकं धूमजातीयस्य व्याप्तिरिति मतमाश्रित्य।
पर्वतीयवह्निपर्वतीयधूमयोर्व्याप्तिरिति मते तु प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगि यन्न भवति तेन समं तस्य सामानाधिकरण्यमिति। प्रतियोग्यसमानाधिकरणः यत्पदग्राह्यपर्वतीयधूमसमानाधिकरणो योऽप्यन्ताभावः घटाद्यत्यन्ताभावः तत्प्रतियोगी घटादिः तद्भिन्नः पर्वतीयवह्निः तत्सामानाधिकरण्यं पर्वतीयधूमस्यास्तीति समन्वयः। उभयोरप्यनयोर्लक्षणयोः अव्याप्यवृत्तिकपिसंयोगादिसाध्यकसद्धेतावव्याप्तिवारणाय प्रतियोग्यसमानाधिकरणेति अत्यन्ताभावे विशेषणां दत्तम्।
अत्यन्ताभावस्याव्याप्यवृत्तित्वेऽप्यन्योन्याभावस्य व्याप्यवृत्तित्वेन अन्योन्याभावघटिते लक्षणे कृते प्रतियोग्यसामानाधिकरण्यविशेषणस्य नास्त्यावश्यकतेति मत्वा तथैव कानिचित् लक्षणानि कृतानि। यथा–यत्समानाधिकरणान्योन्याभाव प्रतियोगितावच्छेदकं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः। यत्पदेन साधनं धूमादि गृह्यते, तदधिकरणं पर्वतादि तद्वृत्तिर्योऽन्योन्याभावः घटादिभेदः न तु वह्निमद्भेदः पर्वंतः घटादिर्नेतिवत् वह्निमान्नेत्यप्रतीतेः—घटादिभेद प्रतियोगितावच्छेदकं घटत्वादि तद्भिन्नः वह्निः तेन समं सामानाधिकरण्यं धूमस्यास्तीति समन्वयः।
अथवा यत्समानाधिकरणान्योन्याभाव प्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः। यत् धूमादि तत्समानाधिकरणो योऽन्योन्याभावः घटवद्भेदः न तु वह्निमद्भेदः, पर्वतो घटवान्नेतिवत् वह्निमान्नेत्यप्रतीतेः। तादृशभेदप्रतियोगी घटवान् न तु वह्निमानिति तेन वह्निना समानाधिकरणत्वं (एकाधिकरणवृत्तित्वं) धूमेऽस्तीति समन्वयः।
अथ `अनौपाधिकः सम्बन्धः’ इत्यस्य विवरणरूपा व्याप्तिरुच्यते। हैतौ यः साध्यसम्बन्धः तस्यानौपाधिकत्वं तत्रोपाध्यभावे भवति। उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापकः। तादृशोपाध्यभावश्च साध्यव्यापकानां साधनव्यापकत्वेन वा साधनाव्यापकानां साध्याव्यापकत्वेन वा इति द्वेधेति हृदि निधाय लक्षणद्वयं कृतम्।
तत्र साध्यव्यापकेषु साधनाव्यापकत्वाभावपर्यवसितं लक्षणं यथा–यावन्तः साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगिनः तत्प्रतियोगिकात्यन्ताभावासामानाधिकरण्यं व्याप्तिरिति। अप्रतियोगिन इत्यस्य साध्यव्यापका इत्यर्थः। वह्निमान् धूमादित्यादौ साध्यो वह्निः तदधिकरणं पर्वतादि तद्वृत्तिर्योऽत्यन्ताभावः घटाद्यत्यन्ताभावः तत्प्रतियोगिनः घटादयः तदप्रतियोगिनः द्रव्यत्वपृथिवीत्वादयः तत्प्रतियोगिकात्यन्ताभावः द्रव्यत्वाभावपृथिवीत्वाभावादिः तदधिकरणगुणजलाद्यवृत्तितया धूमस्य तदसामानाधिकरण्यमस्तीति समन्वयः। सोपाधिके तु धूमवान् वह्नेरित्यादौ साध्यधूमवन्निष्ठात्यन्ताभावाप्रतियोगी आर्द्रेन्धनसंयोगादिः तत्प्रतियोगिकाभावसामानाधिकरण्यमेव वह्नावस्तीति नातिव्याप्तिः।
साधनाव्यापकेषु साध्यव्यापकत्वनिषेधपर्यवसितं लक्षणं यथा–यावन्तः साधनसमानाधिकरणात्यन्ताभावप्रतियोगिनः तत्प्रतियोगिकात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यं व्याप्तिरिति। वह्निमान धूमादित्यादौ साधनधूमाधिकरणपर्वतादिवृत्त्यत्यन्ताभावप्रतियोगिनः घटादयः तत्प्रतियोगिकात्यन्ताभावाधिकरणपर्वतादिवृत्ति यत् साध्यं वह्निः तदधिकरणवृत्तित्वं धूमेऽस्तीति लक्षमसमन्वयः। सोपाधौ धूमवान् वह्नेरित्यादौ साधनवह्न्यधिकरणपक्षपर्वतवृत्त्यत्यन्ताभावप्रतियोगियावदन्तर्गतः आर्द्रेन्धनसंयोगोऽपि तत्प्रतियोगिकात्यन्ताभावसमानाधिकरणत्वं साध्ये धूमे नास्ति, धूमस्यार्द्रेन्धनसंयोगसमानाधिकरणत्वात्, अतो नातिव्याप्तिः।
अथ `स्वाभाविकः सम्बन्धो व्याप्तिः’ इत्यस्य बिवरणरूपं लक्षणं यथा–साध्यसामानाधिकरण्यावच्छेदकरूपवत्त्वमिति। धूमे वह्निसामानाधिकरण्यावच्छेदकं रूपं धूमत्वमस्तीति समन्वयः। सोपाधौ तु धूमवान् वह्नेरित्यादौ धूमसामानाधिकरण्यावच्छेदकं वह्नित्वं न भवति, धूमसामानाधिकरण्यशून्ये अयोगोलकीयवह्नावपि वह्नित्वसत्त्वेन वह्नित्वस्यातिप्रसक्तत्वात्, अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकतवादिति नातिव्याप्तिः।
एवमेतावता मण्युक्तानि लक्षणान्यनूदितानि। एतेषु लक्षणेषु तर्कताण्डवे चतुर्दशदूषणान्युक्तानि। तानि प्रत्येकशोऽनूद्य तेषां नैयायिकमतानुसारेण परिहारार्थं प्रयत्यते।
प्रथमं दूषणम्।
सर्वेष्वप्येतेषु लक्षणेषु साध्यहेत्वोः सामानाधिकरण्यस्य प्रवेशात् व्यधिकरणसाध्यसाधनयोरपि व्याप्तेरिष्टत्वात् तत्राव्याप्तिः। अधोदेशे नदीपूर्त्या ऊर्ध्वदेशे वृष्टिरनुमीयते, पद्मस्य विकासेन सूर्यस्योदयोऽनुमीयते, समुद्रस्य वृद्धया चन्द्रस्योदयोऽनुमीयते। तथा भूमिष्ठेन आलोकेन उपरिष्ठः सविता, चक्रस्य भ्रमणेन भ्रामकस्य कुलालस्य संनिहितत्वम्, कृत्तिकोदयेन रोहिण्युदयासत्तिः ऊर्ध्वभागस्थधूमेनाधोभागस्थवह्निश्चानुमीयते। एतादृशस्थलेषु सामानाधिकरणण्यगर्भव्याप्तेरभावात् लक्षणाव्याप्तिः।
एवं तर्काङ्गभूतायामापादकनिष्ठायामापाद्यनिख्पितायां व्याप्तौ उक्तलक्षणायोगः। आपाद्यस्य आरोप्यत्वेन आपादकसमानाधिकरणतया क्वचित् प्रमितत्वाभावात्। प्रमितत्वे वा अनिष्टत्वायोगेन आपाद्यत्वस्यैवासम्भवात्। अनिष्टं ह्यापाद्यम्। एवं व्यतिरेकव्याप्तिमत्सु साधनेषु साध्याप्रसिद्ध्या साध्यसामानाधिकरण्याभावेनाव्याप्तिरित्येवमव्याप्तिरूपं प्रथमं दूषणमुक्तम्।
तत्समाधानम्
तस्येदं समाधानम्। व्यधिकरणतया भवदुदाहृतस्थलेष्वपि नदी वृष्टिमदूर्ध्वदेशसम्बद्धा पूरवदधोदेशसम्बद्धत्वात्, अयं कालः सूर्योदयवान् पद्मविकासवत्कालत्वात्, अयं प्रदेशः कुलालासत्तिमान् भ्रमच्चक्राधि करणत्वात् इत्याद्यनुमानानां विवक्षितत्वात् तत्र सामानाधिकरण्यस्योपपत्तिः। देशतः व्यधिकरणेषूक्तस्थलेषु कालतः सामानाधिकरण्यसद्भावात् कालिकसम्बन्धस्य साध्यहेतुतावच्छेदकत्वं स्वीकृत्य व्याप्तिः सम्पादनीयेति।
तर्काङ्गभूतव्याप्तावपि-प्रकृतपक्षे पर्वते आपादकापाद्यभूतयोर्वह्न्यभाव धूमाभावयोः सामानाधिकरण्याभावेऽपि ह्रदादौ सामानाधिकरण्यसत्त्वेन व्याप्तिनिर्वाहात् पर्वते धूमाभावस्यानिष्टत्वमात्रेणोद्यत्वस्य सम्भवाच्च न दोषः। व्यतिरेकव्याप्तिमद्धेतावपि पक्षातिरिक्ते साध्यस्याप्रसिद्धावपि वस्तुतः पक्षान्तर्भावेन हेतौ साध्यसामानाधिकरण्यस्य सत्त्वेन नाव्याप्तिः। तर्हि व्यतिरेकी अन्वयीति हेतुविभागः किंनिबन्धन इति चेत्–अन्वयमात्रव्याप्तिकं केवलान्वयि, निश्चितव्यतिरेकव्याप्तिकं केवलव्यतिरेकीति व्याप्तिनिश्चयनिबन्धनः स विभागः। तावता व्यतिरेकव्याप्तिमद्धेतावन्वयव्याप्तिर्नास्तीति न मन्तव्यम्। स्पष्टमिद(2) मणिदीधित्यादिषु ग्रन्थेषु। तस्मादव्याप्तिदोषो न भवति।
द्वितीय दूषणम्
नीलधूमस्यापि वह्निसामानाधिकरण्यमस्तीति वह्निव्याप्यत्वापत्तिः, तथाचातिव्याप्तिर्दोष इति द्वितीयं दूषणम्।
तत्समाधानम्
नीलधूमस्यापि वह्निव्याप्यत्वमिष्टमेवेति नातिप्रसङ्गाख्यो दोषः। व्यर्थविशेषणघटितहेतौ न व्याप्यत्वासिद्धिर्हेत्वाभासः, पुरुषस्तु अधिकोक्तिरूपनिग्रहस्थानेन निगृह्यत इति स्पष्टं दिनकर्यादौ।(3)
तृतीयं दूषणम्
महानसीयवह्नेः पर्वतीयधूमसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकेन महानसीयवह्नित्वेनावच्छिन्नत्वम्, एवं पर्वतीयवह्नेः महानसीयधूमसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकेन पर्वतीयवह्नित्वेनावच्छिन्नत्वमिति रीत्या सर्वेषामेव वह्नीनां धूमसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नत्वेन तद्भिन्नत्वाभावादसम्भवः। यत् प्रतियोगितानवच्छेदकावच्छिन्नं भवति तत्सामानाधिकरण्यमिति नञ्व्यत्यासेन परिष्कारेऽपि धूमवान् वह्नेरित्यादौ धूमस्यापि वह्निसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकप्रमेयत्वावच्छिन्नत्वात् तत्समानाधिकरणत्वं वह्नावस्तीति वह्निरपि धूमव्याप्यः स्यादिति।
तत्समाधानम्
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति विवक्षितत्वेन दोषद्वयस्याप्यनवकाशात्। महानसीयवह्नित्वादेः धूमसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वेऽपि वह्नित्वरूपसाध्यतावच्छेदकस्य तादृशाभावप्रतियोगितानवच्छेदकत्वात् तादृशवह्नित्वावच्छिन्नवह्निसमानाधिकरणत्वाच्च धूमस्य नासम्भवः। धूमवान् वह्नेरित्यादौ प्रमेयत्वस्य वह्निसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वेऽपि साध्यतावच्छेदकस्य धूमत्वस्य वह्नयधिकरणायोगोलकवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकत्वान्नातिव्याप्तिरिति।
चतुर्थं दूषणम्
मण्युक्तं प्रतियोग्यसामानाधिकरण्यघटितं लक्षणं गुरुभूतम्। साध्यात्यन्ताभावासमानाधिकरणत्वे सति साध्यसामानाधिकरण्यं व्याप्तिरिति लघुलक्षणसम्भवात्। तथा च मण्युक्तलक्षणे गौरवं दोष इति।
तत्समाधानम्
यल्लघुत्वेन विवक्षितं तद्यदि गुरुत्वेन विवक्षिते धर्मे घटकं स्यात् तदानीमेव गौरवं दोषः। अन्यथा लक्षणस्य लक्षणान्तरादूषकत्वमित्येव न्यायविदां सम्प्रदायः। भवदुक्तलघुलक्षणस्य मण्युक्तलक्षणाघटकस्य लक्षणान्तरत्वेन न तद्दूषकं भवति। अपि च केवलानन्वयिसाध्यकस्थले साध्यात्यन्ताभावस्याप्रसिद्धतया तत्राव्याप्त्या भवदुक्तलक्षणमेव दुष्टमिति।
पञ्चमं दूषणम्
हेतुसमानाधिकरणात्यन्ताभावेत्यत्र हेत्वधिकरणपदेन हेत्वाश्रयभूतो देश एव वा काल एव वा उभयं वा उभयानुगतमधिकरणसामान्यं वा विवक्षितम्। आद्ये यदा गोत्वं तदा अश्वत्वमिति कालिकव्याप्तियुक्ते अयमश्वत्ववान् गोत्वादित्यत्राव्याप्तिः। गोत्वाधिकरणकालवृत्त्यत्यन्ताभावाप्रतियोगिनोऽप्यश्वत्वस्य गो त्वाधिकरणदेशवृत्त्यत्यन्ताभावप्रतियोगित्वात्। द्वितीये यत्र पाकजं रूपं तत्र पाक इति दैशिकव्याप्तियुक्ते अयं पाकवान् पूर्वरूपविजातीयरूपवत्त्वादिति हेतावव्याप्तिः। पाकजरूपाधिकरणकालवृत्त्यत्यन्ताभावप्रतियोगित्वात् पाकस्य। तृतीये अयं रूपवान् रसात् इत्यादिस्थलादन्यत्र हेत्वधिकरणदेशकालोभयवृत्त्यत्यन्ताभावाप्रतियोगित्वस्य साध्येऽसम्भवेन अव्याप्तिः। चतुर्थे अयम् अश्वत्ववान् गोत्वादित्यत्र गोत्वरूपहेतोर्देशरूपाधिकरणे गवि वर्तते योऽत्यन्ताभावः अश्वत्वाभावः तत्प्रतियोगित्वाधश्वत्वस्याव्याप्तिः। ननुं कालिकव्याप्तौ कालोऽधिकरणं, दैशिकव्याप्तौ देशोऽधिकरणमिति चेत्–तर्हि उभयानुगतव्याप्तेर्दुर्वचतया अननुगमो दोष इति।
तत्समाधानम्
साध्यतदधिकरणादिभेदेन व्याप्तिभेदस्येष्टतया नाननुगमो दोषः। अपि च हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणत्वेन रूपेण देशकालयोरुभयोरप्यनुगम क्रियते, अतो नाननुगमः, न वा कालिकसम्बन्धेन हेतुतास्थले देशरूपाधिकरणमादायाव्याप्तिः।
षष्ठं दूषणम्
दैशिकव्याप्तौ देशोऽधिकरणमित्युक्तावात्माश्रयः। देशघटितव्याप्तिर्हि दैशिकव्याप्तिः, तज्ज्ञाने देशज्ञानापेक्षेति।
तत्समाधानम्
वह्निमान् धूमादित्यादौ धूमाधिकरणपर्वतादिवृत्त्यत्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः। अयमश्वत्ववान् गोत्वादित्यत्र गोत्वाधिकरणकालवृत्त्यत्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरिति विशिष्टोक्तौ को वा आत्माश्रयः?
अपि च हेतुतावच्छेदकसम्बन्धावच्छिन्नहेत्वधिकरणत्वेनैव देशकालयोर्व्याप्तिघटकता न देशत्वेन वा कालत्वेनेत्युक्तौ नात्माश्रयस्य प्रसक्तिरिति भाति।
सप्तमं दूषणम्
विभुद्रव्याणां नैयायिकमतेऽवृत्तिपदार्थतया निरधिकरणत्वात् यदा आकाशः तदा दिक् इति व्याप्तिर्न स्यात्, आकाशरूपहेतोरधिकरणस्याप्रसिद्धेरिति षष्ठं दूषणम्।
तत्समाधानम्
नैयायिकानां मते नित्यबिभुद्रव्याणां कालिकातिरिक्तसम्बन्धेनैव वृत्तिर्नाङ्गीक्रियते। कालिकसम्बन्धेन तेषां कालवृत्तित्वं तु अङ्गीक्रियते। अत एवात्मादेः ज्ञानादिसमवायिकारणत्वोपपत्तिः। अन्यथा कार्याव्यवहित पूर्वकालवृत्तित्वरूपस्य कारणत्वस्यानुपपत्तेः। एवं च कालिकसम्बन्धेन आकाशरूपहेत्वधिकरणे काले कालिकसम्बन्धेन दिशो वर्तमानतया यदा आकाशस्तदा दिगिति व्याप्तौ न काप्यनुपपत्तिः। नित्येषु कालिकायोगादिति प्रवादस्यापि कालातिरिक्तनित्यपदार्थेषु कालिकसम्बन्धेन किमपि नास्तीत्येवार्थः, न तु कालेऽपि कालिकसम्बन्धेन किमपि नास्तीति। स्पष्टं चेदं गदाधरादिग्रन्थपरिचयवतामिति नेह विस्तार्यते।
अष्टमं दूषणम्
प्रतियोग्यसमानाधिकरणेति विशेषणं व्यर्थम्। न च तदभावे अयं कपिसंयोगी एतद्वृक्षत्वादित्यत्राव्याप्तिरिति वाच्यम्। कपिसंयोगस्य वा तदभावस्य वा वृक्षावयववृत्तित्वमेव, न तु वृक्षाख्यावयविवृत्तित्वम्।
तत्समाधानम्
अग्रे वृक्षः कपिसंयोगी न तु मूले इति प्रतीत्या वृक्षस्यापि कपिसंयोगवत्त्वतदभाववत्त्वयोरवगाहनात् वृक्षरूपेऽवयविन्यपि कपिसंयोगतदभावयोरवश्याङ्गीकरणीयत्वात्। तथा चायं कपिसंयोगी एतद्वृक्षत्वादिति प्रयोक्तुं शक्यतया तत्राव्याप्तिवारणाय प्रतियोग्यसमानाधिकरणेति विशेषणं सार्थकमेवेति।
नवमं दूषणम्
भवन्मते प्रतियोगित्वस्य स्वरूपसम्बन्धरूपत्वात् सम्बन्धत्वस्य च व्याप्तिरूपनियमघटितविशिष्टप्रतीतिजनकत्वरूपत्वात् आत्माश्रयो नाम दोषः प्रतियोगित्वघटितव्याप्तिलक्षणेष्विति नवमं दूषणम्।
तत्समाधानम्
प्रतियोगित्वस्य स्वरूपसम्बन्धविशेषत्वेऽपि न सम्बन्धत्वेन रूपेण व्याप्तिशरीरे, तत्प्रवेशः, अपि तु प्रतियोगितात्वेनैव। अतो नात्माश्रयोऽनवस्था वा। सम्बन्धत्वेन तन्निवेशेऽपि सम्बन्धत्वं न नियमघटितम्। अपि तु तत्प्रतियोगिकत्वविशेषस्तत्सम्बन्धत्वम्, तदनुयोगिकत्वविशेषस्तत्र सम्बन्धत्वमिति नियमघटनं विनैवसम्बन्धत्वनिर्वचनात्। तदुक्तं सिद्धान्तलक्षणे दीधितौ——
``प्रतियोगित्वादिश्च स्वरूपसम्बन्धविशेषो न
सम्बन्धत्वेन निविष्टः। सामानाधिकरण्येऽपि
सम्बन्धः संयोगत्वादिनैव निविशते। दर्शितं च
नियमाघटितमपि सम्बन्धत्वम्।’’
इति। दीधितिव्याख्यानेषु चैतद्विस्तरो द्रष्टव्यः।
दशमं दूषणम्
समानाधिकरणयो साध्यसाधनव्यक्तिविशेषयोरेव व्याप्तिरिति मते अयं गन्धवान् पृथिवीत्वादित्यत्राव्याप्तिः। सर्वस्यापि गन्धस्य प्रत्येकं पृथिवीत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वात्, न हि पृथिवीत्वमिव एकैव गन्धव्यक्तिः सर्वपृथिवीनिष्ठेति दशमं दूषणम्।
तत्समाधानम्
इमामेवाशङ्कामनूद्य(4) दीधितिकारैरित्थं समाधानमुक्तम्–``अप्रतियोगित्वं प्रतियोगितानवच्छेदकधर्मवत्त्वम्।
न चैवं पूर्वस्मादभेदः। तत्र साध्यजातीयसमाना-
धिकरणसाधनजातीयत्वस्य, अत्र साध्यसाधनयोः
सामानाधिकरण्यस्य व्याप्तित्वे तात्पर्यान्’’ इति।
एकादशं दूषणम्
`अपि च अयं कालः गोमान् गोत्वात्’ इत्यत्र व्यभिचारिणी कालिकी व्याप्तिः स्यात। गोत्वाधिकरणे प्रलयकाले योऽत्यन्ताभावः गवात्यन्ताभावो न भवति। तत्र गोध्वंसस्य सत्त्वेन गवात्यन्ताभावस्यासम्भवात्, ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावस्य भवद्भिरनभ्युपगमात्। तथा च तत्र हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वस्य साध्ये सत्त्वादतिव्याप्तिः। एवं पृथिवीत्वस्य गन्धेन सह कालिकी व्याप्ति स्यात्, गन्धोत्पत्तेः प्राक् गन्धप्रागभावस्य सत्त्वेन गन्धात्यन्ताभावस्यासम्भवादिति एकादशं दूषणम्।
तत्समाधानम्
घटादिरूपप्रतियोगिमत्यपि काले घटानधकरणदेशावच्छेदेन यथा कालिकसम्बन्धावच्छिन्नघटात्यन्ताभावो वर्तते तथैव घटध्वंसाधिकरणे प्रलयकाले घटात्यन्ताभावोऽस्त्येव। तथा च ध्वंसप्रागभावयोरत्यन्ताभावविरोधित्वाभावात् नात्तिव्याप्तिरिति नव्यन्यायग्रन्थेषु स्पष्टम्।
द्वादशं दूषणाम्
वह्निमान् दूमादित्यादिसद्धेतुस्थले धूमाधिकरणे पर्वतादौ समवायेन वह्न्यभावस्य सत्त्वेन तत्प्रतियोगित्वमेव साध्येऽस्तीत्यव्याप्तिरित्यादि द्वादशं दूषणम्।
तत्समाधानम्
प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशे एतद्दूषणं नैव प्रसरतीति।
त्रयोदशं दूषणम्
यदुक्तमन्योन्याभावघटितेषु व्याप्तिलक्षणेषु प्रतियोग्यसमानाधिकरणत्वविशेषणादानाल्लाघवमिति। तन्न। मूले वृक्षे कपिसंयोगो नास्तीति प्रतितिबलेन कपिसंयोगाभावस्य यथा अव्याप्यवृत्तित्वम्, तथैव मूले वृक्षो न कपिसंयोगीति प्रतितिबलेन कपिसंयोगवदन्योन्याभावस्यापि अव्याप्यवृत्तित्वमङ्गीकरणीयम्। तथा चायं कपिसंयोगी एतद्वृक्षत्वादित्यत्र हेत्वधिकरणे वृक्षे वर्तते योऽन्योभावः मूलावच्छेदेन कपिसंयोगंवदन्योन्याभावः तत्प्रतियोगितावच्छेदकत्वस्यैव कपिसंयोगे सत्त्वात् प्रसक्तायाः अव्याप्तेर्वारणाय अन्योन्याभावगर्भे लक्षणेऽपि अन्योन्याभावे प्रतियोग्यसामानाधिकरण्यविशेषणस्यावश्यकतया न लाघवावकाश इति त्रयोदशं दूषणम्।
तत्समाधानम्
यः कपिसंयोगोभाववान् वृक्षः स एव कपिसंयोगीति अबाधितप्रत्यभिज्ञया अभेदस्यावगम्यमानतया कपिसंयोगवदभेदी वृक्षे न भवति। मूले वृक्षो न कपिसंयोगीति प्रतितिस्तु शिखी विनष्ट इति प्रतीतिवत् विशेषणान्योन्याभावविषयिणी विशेषणात्यन्ताभावविषयिणी वा। अथवा यथा घटो न श्याम इत्यादिप्रतीतिः श्यामत्वविशिष्टवैधर्म्यं विषयीकरोति विशिष्टवैधर्ग्यं च विशिष्टावृत्तिधर्मवस्वरूपम्। स च धर्मों रक्तत्वादिः। तथैव मूले न कपिसंयोगी वृक्ष इति प्रतीतिरपि कपिसंयोगविशिष्टवैधर्म्य विषयीकरोति। तच्च कपिसंयोगाद्यभाव एव। तस्य कपिसंयोगाद्यवच्छिन्नावृत्तित्वात्। विभिन्नकालावच्छेदेनेव विभि नदेशावच्छदेनापि वर्तमानयोरेकाधिकरणतायामपरस्यानवच्छेदकत्वादिति नोक्तप्रतौतिबलात् दैशिकाव्याप्यवृत्तित्वं भेदस्येति(5) गदाधरभट्टाचार्या निरूपयन्ति स्म।
चतुर्दश दूषणम्
अनुमितिहेतुः किमत्यन्ताभावादिगर्भांणामुक्तसर्वव्याप्तीनां ज्ञानम्? किं वा लव्व्याः अन्योन्याभावगर्भाया एव व्याप्तेर्ज्ञानम्? यद्वा कदाचित् कस्याश्चित् ज्ञानम्? नाद्यः, एकैकज्ञानेऽप्यनुमितिदर्शनात्। न द्वितीयः, अत्यन्ताभावगर्भव्याप्तिज्ञानेऽप्यनुमितिदर्शनात्। न तृतीयः अननुगमादिति चतुर्दशं दूषणम्।
तत्समाधानम्
तृतीयपक्षे न दोषः अननुगमस्येष्टत्वात्। तदुक्त(6) मणावेव–
``न चैवमननुगमो दोषाय। कस्य का व्याप्ति-
रित्यननुगतस्यैव लक्ष्यत्वात्॥’’ इति।
दीधितावपि–अननुगताया अपि व्याप्तेर्ज्ञानं यथानुमितिहेतु स्तथा वक्ष्यते।’’ इति
वस्तुतस्तु व्याप्त्यनुगमप्रकरणम्’ इति अनुमानचिन्तामणावेकं प्रकरणमस्ति। तत्र दीधितौ सुदूरं विमृश्य व्याप्तीनां व्याप्तिज्ञानस्य चानुगमप्रकारः प्रदर्शित इति ततो बिस्तरो ज्ञातव्यः। तस्मात् ब्याप्तिलक्षणादिविषये नैयायिकप्रदर्षितः पन्थः समीचीन एवेति प्रतिभाति।
———****———
]