[[विरुद्धाव्यभिचारी Source: EB]]
[
** ॐ**
** NYAYAVAISESHIKA**
** विरुद्धाव्यभिचारी**
श्रीमद्भिः शंकराचार्यैः बृहदारण्यकभाष्ये सत्कार्यवादसमर्थनावसरे इत्थमन्वग्राहि–
`मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादि-
निवृत्तावनुवृत्तिदशीनात्। सादृश्यादन्वयदर्शनं
न कारणानुवृत्तेरिति चेन्न; पिण्डादिगतानां
मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमाना-
भासात् सादृश्यादिकल्पनानुपपत्तेः। न च प्रत्यक्षा-
नुमानयोर्विरुद्धाव्यभिचारिता। प्रत्यक्षपूर्वकत्वादनुमानस्य।'
इति। अस्य च भाष्यसंदर्भस्यायमाशयः- मृदयं घट इति प्रत्यभिज्ञारूपेण प्रत्यक्षेण घटे मृदैक्यावगाहनात् कारणाभिन्नं कार्यत्। न च यत् सत् तत् क्षणिकं यथा दीपः सन्तश्चेमे भावा इत्यनुमानेन सर्वार्थानां क्षणिकत्वसिद्धेः ऐक्यप्रत्यभिज्ञा सादृश्यमूलभ्रान्तिरिति वाच्यम्। ऐक्यग्राहिणा प्रत्यक्षेण भेदग्राहिणोऽनुमानस्य बाधात्। न च प्रत्यक्षानुमेनयोर्विरुद्धाव्यभिचारित्वादनुमानेन प्रत्यक्षबाधोऽप्यस्तु इति वाच्यम्। प्रत्यक्षपूर्वकत्वे नानुमानभ्य दुर्बलतया समानबलयोरेव विरुद्धाव्यभिचारित्वस्य स्वीकाराद् अनुमानेन प्रत्यक्षबाधायोगादिति। एतत्समानप्रकरणेबृहदारण्यकवार्तिकेऽप्येवमेव प्रत्यपादि–
`प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे।
लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धमित्॥
विरुद्धाव्यभिचारित्वं न च प्रत्यक्षलिङ्गयोः।
प्रत्यक्षापाश्रयान्नित्यं नानपेक्षं तदक्षवत्॥
विरुद्धाव्यभिचारित्वं समानबलयोर्यतः।
दृष्टं सर्वत्र लोकेऽस्मिन्न तु सिंहश्रृगालयोः॥'
इति। अत्रोभयत्र विरुद्धाव्यभिचारित्वमित्यस्य कोऽर्थ इति निर्धारणीयम्। यतस्तस्ययथावदर्थपरिज्ञानं विना भाष्यवार्तिकयोस्तात्पर्यमपि दुर्ग्रहम्। आनन्दगिरीयटीकायां तावत्-
`प्रत्यक्षात् कारणक्यं गम्यते, अनुमानात्तद्भेदः।
अतो द्वयोर्विरुद्धत्वस्याव्यभिचारित्वान्नाध्य-
क्षेणानुमानबाधो वैपरीत्यस्यापि संभवादित्याशङ्क्याह-विरुद्धेति।'
इति कथितम्। तथाच विरुद्धाव्यभिचारित्वमित्यस्य नियतविरोधवत्त्वमित्यर्थं मत्वा कथंचिद्भाष्यवार्तिकयोरर्थों वर्णितः श्रीमद्भिंरानन्दगिरिभिः।
प्राचीननैयायिकबहुतरग्रन्थालोडने तु विरुद्धाव्यभिचारिपदं सत्प्रतिपक्षपर्यायमित्य वगम्यते। प्रकृतेऽपि सत्प्रतिपक्षत्वमित्यर्थकथनमेव स्वारसिकं वर्तते। तथाहिभासर्वज्ञविरचिते न्यायसारे-
`प्रकरणसमस्योदाहरणं यथा अनित्यः शब्दः पक्षस-
पक्षयोरन्यतरत्वात् सपक्षवत्। एकत्र तुल्यलक्षण-
विरुद्धहेतुद्वयोपनिपातो विरुद्धाव्यभिचारीत्येके।
यथा नित्यमाकाशममूर्तद्रव्यत्वात् आत्मवदिति,
अनित्यमाकाशं अस्मदादिबाह्येन्द्रियग्राह्यगुणा-
धारत्वात् घटादिवदिति। स खलु पुरुषविशेष-
मपेक्षमाणो हेत्वाभासो भवति, अन्यतरासिद्धवत्।’
इत्युक्तम्। अनेन च ग्रन्थसंदर्भेण, यद्येक एव हेतुः साध्यं तद्विपरीतं च साधयेत्तदा सत्प्रतिपक्षः। यदा पुनर्द्वौ हेतु साध्यं तद्विपरीतं च साधयितुमुपनिपततस्तदा विरुद्धाव्यभिचारी नाम हेत्वाभासः। अयं चानित्यदोषः। वादी यदा विपक्षबाधनद्वारेण स्वहेतोः साध्याविनाभावित्वसमर्थनं इतरहेतोश्च कालात्ययापदिष्टतोद्भावनं कर्तुं पारयते तदा विरुद्धाव्यभिचारी हेत्वाभासो भवति नान्यदेति विशेषः प्रतीयते।
जयन्तभट्टविरचितायां न्यायमञ्जर्यां हेत्वाभासप्रकरणे–
`विरुद्धाव्यभिचार्यपि न वाच्य एव। एकत्र
धर्मिणि परस्परविरुद्धद्वयप्रयोजकहेतुद्वयोप-
निपातस्यानुपपत्तेः। अपि च संशयजनन-
मनैकन्तिकलक्षणमुच्यते चेत् काममसाधा-
रणस्य विरुद्धाव्यभिचारिणो वा यथा तथा
संशयहेतुतामधिरोप्य कथ्यतामनैकान्तिकता
न तु संशयजनकत्वं तल्लक्षममिन्द्रियादा-
वतिव्याप्तेः। अपि तु पक्षद्वयवृत्तित्वमनैका-
न्तिकलक्षणम्। स तु पक्षद्वयवृत्तित्वात्
संशयमपि जनयतीति वस्तुस्वभावोऽयम्।
अतोऽसाधारणविरुद्धाव्यभिचारिणोः कथं-
चित्संशयहेतुत्वेऽपि पक्षद्वयवृत्त्यभावन्ना-
नैकान्तिकवर्गेऽन्तर्भावः।'
इति प्रतिपादनमवलोक्यते। विरुद्धाव्यभिचारिणोऽनैकान्तिकेऽन्तर्भावं वदन्तो मीमांसका अनेन ग्रन्थेन निरस्ता भवन्ति। तत्रैव स्थलान्तरे–
`अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्ष-
प्रतिपक्षोपन्यासमात्रं विरुद्धाव्यभिचारिणो
रूपमुच्यते सोऽयं विप्रतिपत्तेः संशयो भवति
न हेत्वाभासादस्मादिति।…..एवमिमौ
हेतु पक्षद्वयोऽपि बुद्धिं जनयन्तौ संशयमा-
वहतो नानैकान्तिकवद्विपक्षवृत्तित्वेनेति हेत्वा—
भासान्तरत्त्वं प्रकरणसमस्य। एवं विधस्य
चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति
नाम यदि क्रियते, तदपि भवतु। न पुन-
रनैकान्तिकप्रभेदतामवलम्बते, तल्लक्षणासं-
स्पर्शात्। उभयप्रतीतिजनकौ हीमौ हेतु
नौभयपक्षवृत्ती इति।'
इति निरूपणं दृश्यते। एतत्संदर्भपरिशीलनेन च विरुद्धाव्यभिचारी नानैकान्तिकेऽन्तर्भवति, अपि तु सत्प्रतिपक्षे। सत्प्रतिपक्षस्यैव च विरुद्धाव्यभिचरीति नामान्तरमिति स्पष्टमवगच्छामः। नूनमिमं न्यायमञ्जरीग्रन्थसंदर्भं वक्ष्यमाणतार्किकरक्षासंदर्भं च मनसिकृत्य न्यायपरिशुद्धौ वेदान्तदेशिकाः—
`प्रकरणसममेव विरुद्धाव्यभिचारिपदेन केचिदुपचरन्ति’ इत्यभ्यधुः। मानमेयोदयनामके ग्रन्थे तु–
`एवं परोदितैरेव पक्षहेतुनिदर्शनैः।
विरुद्धसाधनेऽस्माकं विरुद्धाव्यभिचारिता॥’
इत्याद्युक्तम्। तदीयव्याख्यायां च–
`संशयहेतुरनैकान्तिक इत्यनैकान्तिकस्य लक्षण-
माश्रीयते। साधारणधर्मादसाधारणधर्माद्विप्र-
तिपत्तेश्च संश्यो भवति। तत्र विप्रतिपत्तिहेतुकः
संशयः प्रतिसाधनप्रयोगे प्राप्त इत्यनैकान्तिकेष्वेव
प्रकरणसमोऽन्तर्भावयितव्यः। तस्य चास्य
सप्ततिसाधनस्य एकेनैव हेतुना प्रतिकूल-
साधने विरुद्धाव्यभिचारी नामावान्तरजातिः।’
इति न्यरूपि। इदं तु निरूपणं पूर्वनिदर्शितन्यायसारग्रन्थविरुद्धम्। न्यायसारे हि `एकत्र विरुद्धहेतुद्वयोपनिपातो विरुद्धाव्यभिचारी’ इत्युक्तम्। अत्र तु(मानमेयोदये) `तस्य चास्य सत्प्रतिसाधनस्य एकेनैव हेतुना प्रतिकूलसाधने विरुद्धाव्यभिचारी नामावान्तरजातिः’ इति कथनात् न्यायसारविरोधः स्पष्ट एव। किं च यदत्र मानमेयोदये संशयजनकत्वरूपानैकान्तिकलक्षणाक्रान्तत्वात् विरुद्धाव्यभिचारिणोऽनैकान्तिकेऽन्तर्भावप्रतिपादनम्, तदपि न्यायमञ्जर्या संशयजनकत्वस्येन्द्रियाद्यतिव्यापकत्वेन अनैकान्तिकलक्षणत्वमुद्दूष्य पक्षद्वयवृत्तित्वस्य तल्लक्षणत्वमुपपादयन्त्या दूषितमेवेत्यवधेयं विद्वद्भिः। तत्सिद्धं विरुद्धाव्यभिचारिपदेनापि सत्प्रतिपक्ष एवाभिधीयत इति।
भवतु नामैवम्। तथापि पूर्वप्रदर्शिते शांकरभाष्ये तद्वार्तिके च सत्प्रतिपक्षस्य कथमवसरः, विरुद्धहेतुद्वयोपनिपाते हि सत्प्रतिपक्षः। अत्र तु प्रत्यक्षानुमानरूपविरुद्धप्रमाणद्वयोपनिपातः। तत्कथं सत्प्रत्तिपक्षत्त्वमत्रोपपादनीयमित्याशङ्का अवशिष्यते। अत्र प्रतिविधीयते। न केवलं विरुद्धहेतुद्वयोपनिपात एव सत्प्रतिपक्षः, अपि तु विरुद्धप्रमाणद्वयोपनिपाते। प्रमाणद्वयं च हेतुद्वयरूपं वा भवतु सजातीयप्रमाणद्वयं वा भवतु विजातीयप्रमाणद्वयं वा भवतु न तत्र निर्भरः।
तदुक्तं तार्किकरक्षायां–
`वास्तवतुल्यबलत्वाभावेऽपि अगृह्यमाण-
विशेषत्वेनाभिमानसिद्धसाम्येन प्रतिप्रमाणेन
प्रतिरोधो विवक्षित इतिन कश्चिद्दोषः।
ततश्च नानुमाननैव प्रतिरोधोऽनुमानस्याभि-
मानसाम्येन प्रत्यक्षादिनापि तत्संभवात्।
……तमिमं प्रकरणसमं विरुद्धाव्यभि-
चारीति केचिद्व्यपदिर्शान्त।'
इति। अनेनापि ग्रन्थेन सत्प्रतिपक्षस्यैव विरुद्धाव्यभिचारीति नामान्तरमिति स्पष्टमेव बुद्ध्यते। तत्त्वचिन्तामणौ तु सत्प्रतिपक्षप्रकरणे–`प्रत्यक्षादेर्लिङ्गभावेनैवानुमानप्रतिरोधः’ इत्युक्तम्। अस्यायमर्थः–ह्रदो वह्निमान् धूमादित्यत्र वह्न्यभावप्रत्यक्षेणानुमानप्रतिरोध इति व्यवहारस्थलेऽपि ह्रदो वह्न्यभाववान् वह्न्यभावग्राहकप्रत्यक्षप्रमाणवत्त्वादिति प्रत्यनुमानेन प्रतिरोध इत्येव तात्पर्यमिति। नैतावता प्रत्यक्षस्य प्रतिरोधकत्वमपलपितम्, अपि तु लिङ्गविधया तस्य प्रतिरोधकत्वमित्येतावदुक्तं भवति।
हेतुद्वयोपनिपात इत्यस्य स्थाने प्रमाणद्वयोपनिपात इति वक्तव्यमित्येतत् न्यायपरिशुद्धावपि–
`अतुल्यं तुल्यमपि वा यं तुल्यमभिमन्यते।
तेन यः प्रतिरुध्येत तमाहुः प्रक्रियासमम्॥
रोधश्च हेतुनैवेति हेतोरेवेति वा पुनः।
नियमो नाभिमन्तव्यः सर्वैः सर्वत्र संभवात्॥’
इत्यनेन संदर्भेण आवेदितम्। विरुद्धाव्यभिचारीत्यस्य निर्वचनं च तार्किकरक्षायाः मल्लिनाथकृतायां टीकायामेवं कृतम्–
`विरुद्धः प्रतिहेतुना प्रतिरुद्धः अव्यभिचारी चेति।'
एवमेषु संदर्भेषु सम्यगालोचितेषु पूर्वोंक्तशांकरभाष्यद्वार्तिकयोरेवं तात्पर्यं वर्णनीयमिति भाति–प्रत्यक्षेण कार्यकारणयोरैक्यमवगम्यते, अनुमानेन च भेदः अतो विरुद्धमानद्वयोपनिपातेन सत्प्रतिपक्षत्वात् अभेदो वा भेदो वा न सिध्यतीत्याशङ्कयां समानबलप्रमाणद्वयोपनिपात एव सत्प्रतिपक्षत्वाङ्गीकारात् अत्र च प्रत्यक्षस्योपजीव्यत्वेन प्रबलत्वात् सत्प्रतिपक्षत्वाप्रसक्तेः प्रत्यक्षेणैवानुमानं बाध्यते इति समाधानमिति। सर्वमिदं वार्तिकेऽपि
`विरुद्धाव्यभिचारित्वं समानबलयोर्यतः।'
इति समानबलपदप्रयोगेण सूचितमेव।
यद्वा आनन्दगिरिवाक्यस्याप्येवं भावो वर्णयीयः। `द्वर्योर्विरुद्धत्वस्याव्यभिचारित्वात्’ इति ह्यानन्दगिरिग्रन्थः। एतदुत्तरं च सत्प्रतिपक्षत्वमिति शेषपूरणं कर्तव्यम्। विरुद्धत्वस्याव्यभिचारित्वादित्यनेन विरुद्धाव्यभिचारीति पदनिर्वचनमात्रं कृतम्। न तावता विरुद्धत्वाख्यो हेत्वाभासस्तेषां विवक्षित इति भ्रमितव्यमिति।
यद्यपि पूर्वोक्त ल्लिनाथग्रन्थपरामर्शे विरुद्धश्चासौ अव्यभिचारीति विरुद्धाव्यभिचारी। विरुद्धः प्रतिहेतुना प्रतिरुद्धः अव्यभिचारी–प्रकृतसाध्यव्याप्य इत्यर्थो विरुद्धाव्यभिचारिपदनिर्वचनलभ्य इति प्रतीयते। तथापि इदं निर्वचनान्तरं प्रदर्शितमानन्दगिरिभिः। विरुद्धमिति भावप्रधानो निर्देशः। विरुद्धत्वं न व्यभिचरतीति विरुद्धाव्यभिचारी। सत्प्रतिपक्षस्थले ही द्वयोः प्रमाणयोर्विरुद्धत्वे नियतं समबलत्वात् इति आनन्दगिरिदर्शितनिर्वचनरीत्यापि विरुद्धाव्यभिचारिशब्दवाच्यत्वं सत्प्रतिपक्षस्य नानुपपन्नम्।
इदं च निर्वचनं न्यायसारव्याख्याने–
`एकस्मिन् धर्मिणि तुल्यलक्षणयोः अनिरूपित-
वैकल्योः विरुदधयोर्हेत्वोः संनिपातः विरुद्धाव्यभिचारी।
विरुद्धं न व्यभिचारतीत्यर्थः।'
इति संदर्भेणानुमतमेव। शास्त्रदीपिकाव्याख्यायां सिद्धान्तचन्द्रिकायां तर्कपादे–
`धर्म्यन्तरेषु विरुद्धार्थव्याप्तहेतुद्वयमेकत्रैकदेशिनि
दृश्यमानं विरुद्धाव्यभिचारीत्युच्यते’ इति
निर्वचनान्तरमपि प्रदर्शितमिति सर्वमवदातम्॥
——-****——
]