विध्यर्थविमर्शः

[[विध्यर्थविमर्शः Source: EB]]

[

** ॐ**

** NYAYAVAISESHIKA**

** विध्यर्थविमर्शः**

** एन्.एस्. रामानुजतानताचार्यः**

[क्रियासु प्रवृत्तिः चिकोर्षामन्तरेण न भवति। चिकीर्षा च इयं क्रिया इष्टसाधनम्, अनिष्टाननुबन्धिनी, कृतिसाध्या चेति ज्ञानमन्तरेण न जायते। अतः उक्तज्ञानस्य चिकीर्षाद्वारा प्रवृत्तिजनकत्वात् तज्ज्ञानविषयाणाम् इष्टसाधनत्व-बलवदनिष्टाननुबन्धित्वकृतिसाध्यत्वानां त्रयाणां प्रर्वतना प्रेरणादिपदवाच्यता। तेषां त्रयाणामेव च विधिलिङर्थतापि।`विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्’ इति (पाo सूo 3-3-161) सूत्रे `विधिः प्रेरणा’ इति भाष्यम्। करणे युजन्तः प्रेरणा-शब्दः प्रवृत्त्यनुकूलधर्मवाची। ते च धर्माः पूर्वोक्ताः त्रयः। अतः सूत्रस्यविधिपदेनापि तेषामेवाभिधानम् इति नैयायिमकतम्। एतन्मतोपरि मीमांसादिशास्त्रान्तरग्रन्थेषु ये दोषाः उक्ताः तेषां परिहारोऽस्ति न वेति विमृश्य निर्धारणं कृतमस्ति अस्मिन्निबन्धे]
इतरस्य प्रवृत्तिमुत्पादयितुं लिङ्लोट्तव्यप्रत्ययघटितानाम् `अयं पचेत् पचतु’ इत्यादीनां वाक्यानां प्रयोगो लोके दृश्यते। अत एवं जातीयकानां वाक्यानां विधायकत्वात् प्रवर्तकत्वाद् विधिरिति शब्देन व्यपदेशो भवति। तथा च न्यायसूत्रम्(1)–`विधिर्विधायकः’ इति। `यद्वाक्यं विधायकं चोदकं स विधिः। विधिस्तु नियोगः अनुज्ञा वा’ इति च भाष्यम्(2)। `यद्वाक्यं विधायकं चोदकं स विधिः’। इति वार्तिकम्(3)। एवं च प्रवर्तकं वाक्यं विधिरिति फलति। वाक्यस्य प्रवर्तकत्वं च प्रवृत्त्यनुकूलज्ञानोत्पादनद्वारा न स्वतः। शब्दस्य ज्ञापकत्वेन कारकत्वाभावात्। तदुक्तं तात्पर्यटीकायाम्(4)–`शब्दस्य ज्ञापकत्वाद् अनुत्पादकत्वाच्च’ इति। ततश्च `यजेत’ इत्यादिशब्दश्रवयणानन्तरं यमर्थं ज्ञात्वा प्रवर्तते तदर्थज्ञापकं वाक्यं विधिरिति सिध्यति। यद्यपि लिङादिः प्रत्यय एव प्रवृत्तिहेतु’ ज्ञानं जनयतीति स एव विधिशब्दवाच्य इति प्रतीयते, तथापि तादृशलिङादिप्रत्ययघटितत्वात् वाक्यमपि विधिशब्देन व्यपदिश्यत इति भाष्यवार्त्तिकयोरभिप्रायः। `विधिनिमन्त्रण’(पाoसूo 3-3-161) इत्यादिपाणिनिसूत्रपर्यालोचने विधिर्लिङर्थ इति प्रतीते र्लिङर्थोऽपि कश्चिद्विधिशब्देनि व्यवह्नियते। तथा च लिङर्थो लिङ् तद्धटितं वाक्यं चेति त्रयाणां विधिशब्देन व्यवहारो भवति।
तत्र लिङाद्यर्थभूतस्य विधेः स्वरूपमधिकृत्य विमृशामः। तत्र महाभाष्यम्(5)–`विधिः प्रेषणम्’इति। करणार्थकल्युडन्तोऽयं प्रेषणशब्दः प्रवृत्त्यनुकूलव्यापारवाची। यमर्थं ज्ञात्वा लोकः प्रवर्तते स विधिरिति यावत्। लोके च सर्वोऽपि क्रियायामिष्टसाधनत्वं ज्ञात्वैव प्रवर्तत इति इष्टसाधनत्वमेव प्रवर्तना विधिश्च। `प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’इति च प्रसिद्धम्। प्रयोजनलक्षणं व्याचक्षाणो न्यायवार्त्तिककारश्च(6)
`इदं सुखसाधनमिति बुद्ध्वा सुकावाप्तये यतते।
इदं दुःखसाधनमिति चावगम्य दुःखहानाय'

इति स्पष्टं इष्टसाधनताज्ञानं प्रवृत्तिहेतुरित्यग्यधात्। ततश्च गामानयेदिति वाक्यश्रवणानन्तरं गवानयने प्रवर्तमानं प्रयोज्यवृद्धं दृष्टवा मव्यस्यो व्युत्पित्सुरेवमनुमिनोति `अस्य प्रवृत्तिरिष्टसाधनताज्ञानपूर्विका, प्रवृत्तित्वात्, मदीयप्रवृत्तिवद्’ इति। तां चेष्टसाधनतां यतो लिङादिश्रवणानन्तरं प्रयोज्यवृद्धः अवगच्छति, ततः इष्टसाधनताबोधको लिङादिरिति इष्टसाधनता लिङाद्यर्थ इति सिध्यति। तदुक्तं न्यायवार्तिकतात्पर्यटीकायां(7) वाचस्पतिमिश्रैः—
`तस्मादपेक्षितोपायता प्रवर्तना स्वात्मनि सिद्धा वृद्धस्यापि
प्रवृत्तिहेतुरित्यवगच्छति व्युत्पित्सुर्बालः। सा च लिङादिश्रवण-
समनन्तरमुपजायमाना लिङाद्यर्थ इति निश्चिनोति’
इति।
महाभाष्यकारोऽपि `हेतुमति च’ इति सूत्रे भाष्ये इष्टसाधनताज्ञानं प्रवृत्तिहेतुरिति स्पष्टमभिहितवान्। तत्र हीत्थं भाष्यम्(8)—
`नेह कश्चित्परोऽनुग्रहीतव्य इति प्रवर्तते। सर्व इमे स्वभूत्यर्थं
प्रवर्तन्ते। ये तावदेते गुरुशुश्रूषवो नाम तेऽपि स्वभूत्यर्थं प्रवर्तन्ते।
पारलौकिकं च नो भविष्यति। इह च नः प्रीतो गुरुरध्यापयि-
ष्यतीति। तथा य एते दासाः कर्मकरा नाम तेऽपि स्वभूत्यर्थ
प्रवर्तन्ते भक्तं चैलं च लप्स्यामहे परिभाषाश्च न नो भविष्यन्तीति।
तथा य एते शिस्पिनो नाम एतेऽपि स्वभूत्यर्थं प्रवर्तन्ते वेतनं च
लप्स्यामहे मित्राणि च नो भविष्यन्तीति’ इति।

`सर्वत्र स्वेष्टसाधनताज्ञानमेव प्रवर्तकमिति भावः’ इति तत्रत्यः डद्योत्ग्रन्थः’(9)। निदर्शितं भाष्यं संगृह्वानो हरिरप्याह(10)–
`निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये।
अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये॥’
इति। अस्य हि भाष्यसंदर्भस्य सूक्ष्ममीक्षणेन सर्वस्यापि स्वेष्टसाधनताज्ञानपूर्विकैव तत्तत्क्रियायां प्रवृत्तिरिति भाष्यकृदाशय स्पष्टीभवति। ततश्च `विधिः प्ररेणा’ इति `विधिनिमन्त्रण’ सूत्रे वदतो भाष्यकारस्य प्रवृत्तिजनकज्ञानविषयभूतमिष्टसाधनत्वमेव प्रवर्तनेत्यभिप्रायोऽवगम्यते। सर्वमेतन्मनसि कुर्वद्भिर्मण्डनमिश्रै(11)—
पुंशां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम्॥
इति प्रोक्तम्। अद्वैतविद्याचार्याः संक्षेपशारीरककाराश्च(12)–
`श्रेयोहेतुत्ववाची यदि भवति तदा संभवत्येकरूपा।
शक्तिस्तस्याभिधाने, न तु भवति तदा कारकोऽयं प्रवृत्तेः॥
श्रेयोहेतुश्च वाच्यः श्रुतिवचसि तदा पौरुषेये च तुल्यः।
क्लृप्तश्चासौ न कल्प्यः श्रुतिवचसि यथा भावना लिङ् निबद्धा॥’
इति श्लोकेनेममर्थं स्पष्टं न्यवेदयन्। विशिष्टाद्वैताचार्याः श्रीरामानुजाचार्याश्च(13)—
`स्वर्गकामो यजेतेत्येवमादौ हि कामिनः कर्तव्यतया यागाद्यु पदेशाद्
यागादेः स्वर्गादिसाधनत्वमवगम्य फलरागत एव यागादौ प्रवर्तते।
लौकिक्यामपि हिंसायां केनचित्प्रमाणेन हिंसाया स्वसमीहित-
साधनत्वमवगम्य रागात्प्रवर्तत इति न कश्चन विशेषः’
इत्यभिदधानाः इष्टसाधनताज्ञानं प्रवृत्तिहेतुरिति स्वाशयमाविश्चक्रुः। श्रीमन्मध्वाचार्या अप्येवमेवाशेरत इति विष्णुतत्त्वनिर्णयास्थात्(14)—
`इष्टसाधनतां ज्ञात्वैव हि प्रवर्तते’
इति तदीयाद्वाक्यादवगम्यते।
वैयाकरणभूष्मसारेऽपि(15)—
प्रवर्तनात्वं च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् तच्चेष्ट-
साधनत्वस्यस्यातीति तदेव विध्यर्थः'

इति ग्रन्थेन इष्टसाधनत्वं विध्यर्थ इति प्रत्यपादि। इत्थं प्राचीनानां ग्रन्थानामालोडनेन इष्टसाधनताज्ञानं प्रवृत्तिहेतुरित्यत्र विषये न कस्यापि विप्रतिपत्तिरिति प्रतीयते। तादृशज्ञानजनकत्वाच्च लिङादेरिष्टसाधनत्वं लिङादिप्रत्ययार्थ इत्यपि प्रायः सर्वेषां संमतमेव।
एवंरीत्या इष्टसाधनताज्ञानमात्रस्य प्रवृत्तिहेतुत्वे इष्टसाधनतामात्रस्य लिङाद्यर्थत्वे च काश्चन अनुपपत्तीः पश्यन् मणिकारः गङ्गेशोपाध्यायः इष्टसाधनत्वं बलवदनिष्टाननुबन्धित्वं कृतिसाध्यत्वं चेति त्रितयं लिङर्थः, त्रितयज्ञानं च प्रवृत्तिहेतुः इति न्यरूपयत्। तथा हि चन्द्रानयनादौ इष्टसाधनताज्ञानद्भौवेऽपि पुरुषो त प्रवर्तते। अतः कृतिसाध्यताज्ञानमपि प्रवर्तकमित्यङ्गीकरणीयम्। चन्द्रानयनं कृतिसाध्यमिति ज्ञानविरहात् तत्र न प्रवर्तते। एवं मधुविषसंमिश्रान्नभोजने तृप्तिरूपेष्टसाधनत्वेकृतिसांध्यत्वे च ज्ञातेऽपि तत्र पुरुषो न प्रवर्तते। अतो बलवदनिष्टाजनकत्वज्ञानत्वे कृतिसांध्यत्वे च ज्ञातेऽपि तत्र पुरुषो न प्रवर्तते। अतो बलवदनिष्टाजनकत्वज्ञानमपि प्रवृत्तिहेतुरिति स्वीकर्तव्यम्। मधुविषसंमिश्रान्नभोजनं तत्काले इष्टं जनयदपि मरणोदर्कं भवतीति अनिष्टजनकत्वज्ञानमेव तत्रास्तीति न प्रवर्तते। अतः इष्टसाधनताज्ञानमपि प्रवृत्तिहेतुरिति सिद्धे गामानयेत्यादिवाक्यश्रवणसमनन्तरजायमानां प्रयोज्यवृद्धस्य प्रवृत्तिं दृष्ट्वा तदीया प्रवृत्तिरिष्टसाधनत्वकृतिसाध्यत्वबलवदनिष्टाजनकत्वज्ञानपूर्विका, प्रवृत्तित्वात्, मत्प्रत्तिवद् इति व्युत्पित्सुर्बालः अनुमिमीते। तादृशत्रितयज्ञानस्य च लिङादिश्रवणसमनन्तरजातत्वाद् इष्टसाधनत्वादित्रितयमपि लिङाद्यर्थ इति निश्चिनोति।
तथा चायमत्र क्रमः। आदौ फलेच्छा ततः फलसाधनक्रियायां फलसाधनत्वज्ञानं बलवदनिष्टाजनकत्वज्ञानं कृतिसाध्यत्वज्ञानं च। तत इदं कुर्यामिति चिकीर्षा। ततः प्रवर्तते इति।
एवं तावत् नैयायिकमतस्थितिः। एतन्मतोपरि उदयनाचार्यैः मीमांसकैः वैयाकरणैः कैश्चिद्वेदान्तिभिश्च यानि यानि दूषणान्युपन्यस्तानि तेषामुद्धारपूवकं नैयायिकमतं स्थापयिष्यामः। इदमेव अस्य लेखस्य मुख्यद्देश्यम्।
तत्रादो इष्टसाधनत्वविषये परीक्षां प्रवर्तयामः।

इष्टसाधनत्वविचारः

अत्राहुरुदयनाचार्याः इष्टसाधनत्वं न विध्यर्थः। कुतः?
हेतुत्वादनुमानाच्च मध्यमादौ प्रयोगतः।
अन्यत्र क्लृप्तसामर्थ्यान्निषेधानुपपत्तितः॥(16)–इति।

अस्यां च कारिकायामिष्टसाधनत्वं न विध्यर्थ इत्यत्र पञ्च हेतब उपन्यस्ताः। तथा हि–

(1) हेतुत्वात्। `यागं कुर्याद् इष्टसाधनत्वात् इति प्रामाणिको व्यवहारो वर्तते। तत्र `यागं कुर्यात्’ इति वाक्यार्थं प्रति इष्ट साधनत्वं हेतुतया कथ्यते। यदि लिङइष्टसाधनत्वमर्थतदा यागं कुर्याद् इति वाक्यस्य याग इष्टसाधनमित्यर्थो भवेत्। ततश्च यागं कुर्याद् इष्टसाधनत्वाद् इति वाक्याद् याग इष्टसाधनम् इष्टसाधनत्वाद् इति बोधः प्रसजेत्। स च न युक्तः। इष्टसाधनत्वे इष्टसाधनतस्य हेतुत्वासम्भवात्। हेतोः साध्याविशिष्टत्वात्। तथा च इष्टसाधनत्वस्य लिङाद्यर्थत्वे यागं कुर्याद् इष्टसाधनत्वाद् इति प्रमाणिकव्यवहारो नोपपद्येत। एतावानभिप्रायो `हेतुत्वात्, इत्ययेन सूच्यते।

(2) अनुमानाच्च। `तरति ब्रह्माहत्यां योऽश्वमेधेन यजते’ इत्यर्थवादात् `ब्रह्महत्यातरणकामोऽश्वमेधेन यजेत’ इति विधिरनुमीयते इति अर्थवादाधिकरणे स्थापितम्। तत्र विधिवाक्यानुमानं व्यर्थं यदीष्टसाधनत्वं विध्यर्थः स्यात्। अनुमीयमानेन विधिवाक्येन हि अश्वमेधयागो ब्रह्महत्यातरणरूपेष्टसाधनमिति बोधनीयम्। स च बोधः अर्थवादवाक्यादेव जात इति विध्यनुमानवैयर्थं स्यात्।

(3) मध्यमादौ प्रतोगतः। मध्यमपुरुषे उत्तमपुरुषे च लिङः संकल्पापरपर्यायाभिप्रायवाचकत्वमवगम्यते। तथा हि याग इष्टसाधनमिति ज्ञात्वा तदनन्तरं यजेय इति यागविषयकं संकल्पं लिङा अभिलपति। ततश्च मध्यमोत्तमपुरुषयो संकल्पबाचकत्वस्य क्लृप्तत्वात्। अन्यत्र–प्रथमपुरुषस्यापि तद्वाचकत्वमेव युक्तम्।

(4) अन्यत्र क्लृप्तसामर्थ्यात्। आज्ञा अध्येषणा अनुज्ञा इत्यादावर्थेऽपि लिङ् प्रयुज्यते तत्र आज्ञा नाम वक्तुरबिप्रायविशेष यमनुविदधान, तत्क्षोभाद् बिभेति। श्रोतुः पूजासंमानव्यञ्जकोऽभिप्रायविशेषोऽध्येषणा। वारणाभावसूचकोऽभिप्रायविशेषोऽनुज्ञा। एवमन्यत्रेच्छाविशेषवाचकत्वेन सामर्थ्यस्य क्लृप्तत्वाद् बिधिस्थलेऽपि लिङ इच्छाविशेषवाचकत्वमेव युक्तं नेष्टसाधनतावाचित्वम्।

(5) निषेधानुपपत्तितः। `न कलञ्जं भक्षयेत्’ इति निषेधवाक्यार्थ इष्टसाधनत्वस्य लिङर्थत्वे नोपपद्यते। तदा हि कलञ्जभक्षणमिष्टसाधनत्वाभाववद् इति बोधो निषेधवाक्याद् भवेत्। स च न संगच्छते। कलञ्जभक्षणस्य तृप्तिरूपेष्टसाधनत्वेन तदभावस्य बाधितत्वेन बोधयितुमशक्यत्वात्।

तस्तादेवमादिवाधकसद्भावाद् इष्टसाधनवं न `विधिनिमन्त्रण’ इति सूत्रोपात्तविधिशब्दार्थः। कस्तर्हि विध्यर्थ इति चेत्, श्रूयताम्–
`बिधिर्वक्तुरभिप्रायः प्रवृत्यादौ लिंङादिभिः।
अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता॥’(17)?

प्रवृत्तिविषयकः `अयमस्मिनृ कर्मणि प्रवर्ततामित्याकारक आप्तस्य रक्तुरभिप्राय एव विधिः। स एव च लिङादिभिरभिधीयते। तेन चाभिप्रायविशेषेण इष्टसाधनता अनुमीयते, न सा लिङादिभिरभिधीयते। तथा च `गामानय’ इति पितुर्वाक्यं शृण्वन् पुत्रो मत्पिता गवानयनेऽयं प्रवर्तामितीच्छति इति पितुरिच्छां जानाति, तदनन्तरं गवानयनं मदिष्टसाधनं मत्कर्तव्यतया आप्तेनेष्यमाणत्वाद् इति इष्टसाधनत्वमनुमिनोति, ततः प्रवर्तते। `न कलञ्जं भक्षयेत्’ बोध्यते। तेन च कलञ्जभक्षणं मदनिष्टसाधनं मत्कृतिविषयत्वेन आप्तेष्टत्वाभावादित्यनुमिनोति। ततो निवर्तते अतः सर्वत्र लिङाप्ताभिप्राय एवार्थः नेष्टसाधनत्वमिति उदयनाचार्याणामाशयः।

अत्र प्रतिविदध्महे। इष्टसाधनत्वस्य विध्यर्थत्वे यानि बाधकान्युपन्यस्तानि तान्युद्धरामः।

[1] त्वं यजेथा इतिसाधनत्वादिति व्यवहारे लिङर्थे इष्टसाधनत्वे इष्टसाधनत्वस्य हेतुत्वं नोपपद्यते इति यदुक्तम्, तद् आप्ताभिप्रायस्य विध्यर्थत्वेऽपि समानम्। कुतोऽहं यजेय इति प्रश्ने त्वं यजेथा आत्ताभिप्रेतत्वादिति समाधानमुच्यते। त्व यजेथा इत्यस्य च त्वत्वर्तृकयाग आप्ताभिप्रायविषय इत्यर्थः। तत्र च आप्ताभिप्रेतत्वं हेतूक्रियते। तथा चाप्ताभिप्रेतत्वादाप्ताभिप्रायविषय इति वक्तव्यमिति पौनरूक्त्यं हेतोः साध्याविशिष्टत्वं वा भवन्मतेऽपि समानम्। अथ एतत्परिजिहीर्षया आप्ताभिप्रेतत्वस्य द्विः कथनेन आवश्यकर्तव्यता ज्ञाप्यत इति यदि कथ्यते तर्हि इष्टसाधनत्वं लिङर्थइति वादिनोऽपि द्विरिष्टसाधनत्व कथनेन यागादेरवश्यकर्तव्यता ज्ञाप्यत इति समाधानं तुल्यम्। अतः प्रथमबाधकं न युज्यते।

[2] द्वितीयबाधकमपि न युज्यते। `तरित ब्रह्महत्यां योऽश्वमेधेन यजेत’ इत्यर्थवादेनैव ब्रह्महत्यातरणरूपेष्टसाधनत्वस्यावगमात् तत्समानार्थकस्य `ब्रह्महत्यातरणकामोऽश्वमेधेन यजेत’ इति विधिवाक्यस्य कल्पनं व्यर्थमिति यदुक्तम् तन्न। इष्टसाधनत्वमात्रं विध्यर्थं इति मते उक्तदोषस्य प्रसक्तावपि बलवदनिष्टाननुबन्धित्वमपि विध्यर्थ इति मते उक्तदोषाप्रसक्ते। अर्थवादवाक्येन इष्टसाधनत्वमात्रावगमेऽपि बलवदनिष्टाननुबन्धित्वस्यानवगमात् तद्वोधनार्थं विधिवाक्यानुमानस्य सार्थकत्वात्। अनुमीयमानस्य `ब्रह्महत्यातरणकामोऽश्वमेधेनयजेत’ इति विधिवाक्यस्य अश्वमेधयागः ब्रह्महत्यातरणसाधनं बलवदनिष्टाजनकं चेत्यर्थः। न चायमथोऽर्थेवादवाक्याद्बुध्यत इति।

किं च इष्टसाधनत्वामात्रं लिङर्थ इति मते उक्तस्थले अर्थवादादेव इष्टसाधनत्वस्य ज्ञातत्वाद् विधिवाक्यं नैवानुमीयते। आप्ताभिप्रायो लिडर्थ इति मतेऽति तत्र विधिवाक्यानुमानं व्यर्थम्। विधिवाक्येन हि आप्ताभिप्रायो ज्ञातव्यः। तेन चेष्टसाधनत्वमनुमातव्यम्। सर्वंथा विधिवाक्यस्य फलमिष्टसाधनत्वानुमितिरेव। तच्चेष्टसाधनत्वमर्थवादादेवावगतमियि इष्टसाधनत्वानुमितिफलकं विधिवाक्यानुमानं भवन्मतेऽपि व्यर्थमिति।

[3] यदुक्तं यागं कुर्यां कुर्या इत्यत्रोत्तममध्यमपुरुषयोः संकल्परूपेच्छावाचित्वस्य क्लृप्तत्वात् प्रथमपुरुषस्यापीच्छावाचित्वं युक्तमिति तदपि न। उत्तमपुरुषेण स्वात्मानं प्रति इष्टासाधनत्वस्य, मध्यमपुरुषेण संबोध्यचेतनेष्टसाधनत्वस्य च बोधनात् तत्रापि इच्छावाचित्वस्याक्लृप्तत्वात्। अस्तु वा तात्रेच्छायां लिङो लक्षणा। तदुक्तं तर्कताण्डवे(18)
`इष्टसाधनत्ववाचिनो लिङ एकदेशभूतायाम्
इच्छायां लक्षणासंभवात्’ इति।
[4] अध्येष्णादिस्थले लिङ इच्छावाचित्वं क्लृप्तमिति यदुक्तं तदस्तु नाम। तावता विध्यर्थकलिङोऽपि इच्छैवार्थ इति कुत एष निर्बन्धः। यदि विधिलिङ इच्छार्थकत्वे बाधकं न भवेत् तदा कथंचिदभ्युपगन्तुं शक्येतापि तदर्थकत्वम्। वस्तुतस्तत्र बाधकमस्तीति उपरिष्टात् समर्थयिष्यामहे।

[5] यच्चोक्तं `न कलञ्जं भक्षयेत्’ इत्यादौ इष्टसाधनत्वाभावबोधासंभवात् नेष्टसाधनत्व लिङर्थ इति। तत्र ब्रूमः। इष्टसाधनत्वमात्रं विध्यर्थ इति मते उक्तदोषप्रसक्तावपि बलवदनिष्टाननुबन्धित्वमपि लिङर्थ इति मणिकृन्मते। तस्यैवाभावः बलवदनिष्टजनकत्वरूपो निषेधेन बोध्यत इति स्वीकारे नञ् स्थलेऽपि वाक्यार्थोपपत्तेः। एतत्तत्त्ववमग्रे सविस्तरं विवेचयिष्यामः।
तस्मादिष्टसाधनत्वं विध्यर्थ इति पक्षे यानि कुसुमाञ्जलौ पञ्च बाधकान्युपन्यस्तानि तानि पर्यहारिष्म। अथ एतत्पक्षे भाट्टरहस्ये खण्डदेवभट्टाचार्यैः यानि दूषमानि प्रादर्शिषत तानि संकलय्य स्ववाचा स्पष्टमनूद्य उद्धरामः। इमानि दूषणानि परिहारश्च–

[1] इष्टसाधनत्वस्य विध्यर्थत्वे `चैत्रः पचेत्’ इति वाक्यात् कीदृशः शाब्दबोधो जायते? यदि इष्टसाधनपाकानुकूलकृतिमांश्चैत्र इति बोध., तर्हि चैत्रस्य पाकानुकूलकृतेर्वर्तमानतादशायामपि चैत्रः पचेद् इति प्रयोगापत्तिः, इष्टसाधनपाकानुकूलकृतिमत्त्वस्य चैत्रे तदानीमबाधादिति प्रथमं दूषणम्।(18)
तस्य परिहारः– लिङ् घटितप्रयोगे धात्वर्थानकूलकृते स्वरूपसीत भविष्यत्ता नियामिका यद्यपि सा शब्दबोधे न भासते, तथाप्यज्ञायमाना सा वस्तुतः विद्यमाना लिङ प्रयोगे अपेक्ष्यते। धात्वर्थानुकूलप्रयत्नस्य भविष्यत्कालिकत्व एव लिङ घटितवाक्यस्य प्रयुज्यमानत्वात्। यथा हि `चर्मणि द्वीपिनं हन्ति’ इत्यत्र निमित्तात्कर्मयोगे(20) इति वार्तिकेन निमित्तत्वार्थिका सप्तमीं भवति। चर्मनिमित्तकं व्याघ्रकर्मकं हननमिति शाब्दबोधः। परं तु मृगचर्मोद्देशेन कश्चिदरण्यं प्रतिप्रतिष्ठते। तत्र च मध्ये व्याघ्रो दृष्टः। तमहत्वा वनं प्रवेष्टुभशक्तः तं व्याघ्रं हत्वा पश्चान्मृगं हत्वा चर्म ग्रहीष्यतीति मन्यताम्। तत्र `चर्मणि द्वीपितं हन्ति’ इति प्रयोगो न साधुः। यदि तु चर्मोद्देश्यकं व्याघ्रहननमिति तद्वाक्यात् बोधः तदा व्याघ्रहननस्य मृगचर्मोद्देस्यकत्वेन वाक्यार्थाबाधाद् उक्तस्थलेऽपि `चर्मणि द्वीपिनं हन्ति’ इति वाक्यस्य साधुत्वं स्यात्। तद्वारणाय वार्त्तिके `कर्मयोगे’ इत्युक्तम्। निमित्तस्य कर्मसंबन्धे सत्येव निमित्तवाचकशब्दात् सप्तमी साधुरिति तदर्थः। मृगच्रमोद्देशेन मध्यस्थितव्याघ्रहननस्थले मृगचर्मणो हननकर्मभूतव्याघ्रसंबन्धाभावान्न तथा प्रयोगः। व्याघ्रचर्मोद्देशेन व्याघ्रहननस्थल एव तथा प्रयोगः। स च कर्मसंबन्धः शाब्दबोधे अभासमानोऽपि स्वरूपसन् वाक्यप्रयोगे नियामक इति उक्तवाक्यपर्यालोचनया अवगम्यते। तथा लिङ्प्रयोगेऽपि क्रियानुकूलकृतेः स्वरूपसती भविष्यत्ता नियामिकेति न पाकवर्तमानतादशायां चत्रः पचेद् इति प्रयोगापत्तिरिति।

[2] यदि इष्टसाधनताज्ञानं प्रवृत्तिहेतुः स्यात् तर्हि इष्टसाधनताज्ञानमेव प्रवर्तकपदव्यपदेश्यं स्यात्। `आचार्यंप्रेरितोऽहं गामानयामि’ इति व्यवहारबलेन आचार्यस्य प्रवर्तकत्वमवगम्यते। तत्कथं घटेत? प्रवर्तनात्मकव्यापारवान् हि प्रवर्तकः। प्रवर्तनं च प्रवृत्तिप्रयोजको धर्मः। स च नेष्टसाधनत्वम्। तस्य क्रियानिष्ठत्वेन पुरुषनिष्ठत्वाभावात्। अतः पुरुषस्य प्रवर्तकत्वानुरोधेन पुरुषनिष्ठः कश्चन धर्म एव प्रवर्तना स एव च लिङर्थ इप्यभ्युपगन्तव्यम्। स च धर्मः अयमस्यां क्रियायां प्रवर्ततामित्याकारकाभिप्रायविशेष एव। तस्माद् अभिप्रायविशेष एव प्रवर्तना नेष्टसाधनत्वमिति द्वितीयं दूषणम्(21)।
तस्य परिहारः। `आचार्यप्रेरितोऽहम्’ इत्यत्र आचार्यस्य यत् प्रवर्तकत्वं तत् प्रवृत्तिजनकेष्टसाधनताबोधकलिङुच्चारयितृत्वरूपम्। न च राजप्रेरितपदातेस्तादृशलिङुच्चरयितृत्वेन प्रवर्त्तकत्वापत्तौ `पदातिप्रेरितोऽहं न गामानयामि किं तु राजप्रेरितः’ इति पदातौ प्रवर्तकत्वव्यवहारानुपपत्तिः। अन्याप्रेरितत्वे सति तादृशलिङुच्चारयितृत्वं प्रवर्तकत्वमिति स्वीकारे च पितृप्रेरिते राज्ञि प्रवर्तकत्वानुपपत्तिरिति वाच्यम्। इष्टसाधनमाबोधकलिङाद्युच्चारयितृत्वे सति स्वातन्त्र्यं प्रवर्तकत्वमिति स्वीकारे बाधकाभावात्। पित्रादिना प्रेरितस्यापि राज्ञः स्वातन्त्र्यमस्तीति तस्य प्रवर्तकत्वमुपपद्यते। पदातेस्तु स्वातन्त्र्यं नास्तीति न प्रवर्तकत्वमतो न दोषः। स्पष्टं चेदं लघुमञ्जूषाताम्।(22)
यच्चोक्तम् इष्टसाधनतायाः क्रियानिष्ठायाः प्रवर्तकपुरुषनिष्ठत्वाभावेन कथं प्रवर्तनात्वमिति। तत्रोच्यते। इष्टसाधनत्वमपि स्वबोधकलिङ् प्रयोगानुकूलकृतिमत्त्वसंबन्धेन पुरुषे वर्तत इति प्रवर्तकनिष्टत्वात् तस्य प्रवर्तनात्वोपपत्तेः। तथा च `आचार्यो गवानयने प्रेरयति’ इत्यस्य गवानयननिष्ठाम् इष्टसाधनता बोधयतीत्येवार्थः। न चास्य संबन्धस्य वृत्त्यनियामकत्वात् कथमनेन संबन्धेन इष्टसाधनतायाः प्रवर्तकनिष्ठत्वमिति वाच्यम्। निष्ठत्वांशं परित्यज्य प्रवर्तकपुरुषसंबन्धिधर्मः प्रवर्तना इति स्वीकारे बाधकाभावात्।
किं च प्रेरणा प्रवर्तंकपुरुषनिष्ठैवेति न नियमः।

`नावश्यं स एव वासं प्रयोजयति यः इहोष्यतामिति ब्रवीति।
किं तर्हि? तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽपि वासं
प्रयोजयति। भिक्षाश्चापि प्रचुरा व्यञ्जनवत्यो लभ्यमाना वासं
प्रयोजयन्ति’(23)

इति `हेतुमति च’ इति सूत्रस्थभाष्यपर्यालोचनेन अचेतननिष्ठव्यापारस्यापि प्रेरणात्वावगमात्।

[3] इष्टसाधनत्वस्यान्यलभ्यत्वादपि तन्न लिङर्थः। `अनन्यलभ्यः शब्दार्थः’ इति न्यायात्। कथमन्यलभ्यत्वमिति चेत् श्रूयताम्। याग इष्टसाधनम्, अयमत्र प्रवर्ततामित्याकारकाप्तेच्छाविषयत्वाद् इत्यनुमानेनैव इष्टसाधनत्वं लभ्यते। यां यां क्रियाम् अयमत्र प्रवर्ततामिति प्रवृत्तिविषयत्वेन आप्त इच्छति सा सा इष्टसाधनमिति व्याप्तिः पित्राद्यभिप्रायावगमानन्तरभोजनादौ अनुभवसिद्धा अत उक्तविधाप्ताभिप्रायविषयत्वहेतुकानुमितिलब्धत्वाद् इष्टसाधनत्वस्यानन्यलभ्यत्वाभावेन विध्यर्थता नोपपनीपद्यते इति तृतीयं दूषणम्।(24)
तस्य परिहारः– `अनन्यलभ्यः शब्दार्थः’ इत्यस्य हि यः प्रमाणान्तरेण ज्ञायते स शब्दार्थो न भवतीति नार्थः। तथा सति वह्निपदार्थत्वं वह्येर्न स्यात्। वह्नेरनुमानप्रमाणगम्यत्वात्। तथा घटोऽपि घटशब्दार्थो न भवेत् घटस्य प्रत्यक्षावगतत्वात्। अपि तु समभिव्याहृतपदान्तरेण यो न ज्ञायते, यस्य समभिव्याहाररूपाकाङ्क्षया न ज्ञायते स शब्दार्थो न भवतीत्येव अनन्यलभ्यन्यायाथः। अत एव यजेत इत्यत्र प्रवृत्त्यनुकूलव्यापाररूपप्रवर्तनायाः लिङथत्वेऽपि तत्र प्रवृत्तेराख्यातत्वांशेन अनुकूलत्वस्य च संसर्गमर्यादया( आकाङ् क्षया) लब्धत्वाद् अनन्यलभ्यव्यापारमात्रं लिङर्थ इति खण्डदेवभट्टाचार्यैरुवतम्।(25) `ग्रामं गच्छति’ इति वाक्ये कर्मत्वं द्वितीयार्थः। कर्मत्वं च क्रियाजन्यफलशालित्वम्। तत्र क्रियाया धातुना जन्यजनकभावरूपसंबन्धस्य आकाङ् क्षया च लाभाद् अनन्यलभ्यं फलमात्रं द्वितीयार्थ इति व्युत्पत्तिवादे(26) प्रत्यपादि।

तथा च यस्य पदस्य योऽर्थो वाच्यत्वेनेष्यते सोऽर्थः तत्समभिव्याहृतपदान्तरेण आकाङ्क्षया वा न लभ्यो भवेदति अनन्यलभ्यन्यायसारार्थः। यजेत इत्यत्र इष्टसाधनत्वं लिङ्‌र्थतयेष्यते। तच्च न लिङ् समभिव्याहृतेन पदान्तरेण लभ्यते नवासमभिव्याहाररूपाकाङ्क्षया लभ्यत इति अनन्यलभ्यत्वात् तस्य लिङर्थत्वे को विरोध इति न जानींमः। अतोऽनुमानगम्यत्वादिष्टसाधनत्वं न लिङर्थ इति दूषणं न लगति।
एवमिष्टसाधनत्वस्य लिङर्थत्वे प्राधान्येन खण्डदेवोद्भावितानां दोषाणां परिहारमपश्याम। अनेनैव नागेशोद्भावितदोषस्यादि परिहार उक्तप्राय इति न तत्र लेखनीं व्यापारयामः। अथ बलविदनिष्टाननुबन्धित्वमधिकृत्य विचारयामः।

बलवदनिष्टाननुबन्धित्वविचारः

अत्रादौ तर्कताण्डवोत्थापितानां दूषणानां स्पष्टानुवादपूर्वकं परिहारं वदामः।

(1) बलवदनिष्टाजनकत्वं किमर्थं लिङर्थतया स्वीक्रियते? न तावद्यागादौ प्रवृत्त्यर्थम्। इष्टसाधनताज्ञानेनैव तदुपपत्तेः। न हि यागे बलवदनिष्टजनकत्वं प्रसक्तम्। येन तदभावो यजेतेत्यने बोध्येत।

(2) नापि `न कलञ्जं भक्षयेत्’ इतिवाक्यार्थोपपत्त्यर्थम्। यदि हि नञा लिङर्थेष्टसाधनत्वान्वितोऽभावः कलञ्जभक्षणे प्रत्याय्येत तथा कलञ्जभक्षणे तृप्तिरूपेष्टसाधनत्वस्य सद्धावेन तदभावस्य बाधिततया वाक्यार्थो नोपपद्येतेति बलवदनिष्टाजनकत्वं लिङर्थ इति स्वीकृत्य तदभावः बलवदनिष्टनरकजनकत्वरूप उक्तवाक्यात् प्रत्यायनीय इति वक्तव्यं भवेत्। वयं तु अन्ययैव उक्तवाक्यार्थं वर्णयामः। कलञ्जकर्मकस्य धात्वर्थस्य भक्षणस्य नञर्थाभावेऽन्वयं स्वीकृत्य तत्रेष्टसाधनत्वस्यान्वयात् कलञ्जभक्षणाभाव इष्टसाधनमिति बोध उक्तवाक्यात् जायत इति स्वीकुर्मः। तथा चात्यथैव निषेधवाक्यार्थोपपत्ते बलवदनिष्टाजनकत्वं निषेधवाक्यार्थोपपत्त्यर्थं लिङर्थतया न स्वीकरणीयम्।

(3) नापि मधुविषसंमिश्रान्नभोजनेऽप्रवृत्यर्थ तस्य लिङर्थत्वामावश्यकम्। प्रवृत्तिं प्रति फलेच्छाया अपि कारणत्वेन मधुविषसंपृक्तान्नभोजनजन्ये दुःखे उत्कटद्वेषसद्भावात् तत्काले तद्भोजनजन्ये तृप्तिरूपे फले इच्छैव नोदेतीति फलेच्छाविरहादेव तत्र प्रवृत्त्यभावनिर्वाहे न तदर्थं बलवदनिष्टाजनकत्वस्य लिङर्थत्वं स्वीकरणीयम् इति।

(1) अत्र ब्रूमः। यागे प्रवृत्त्यर्थं बलवदनिष्टाजनकत्वं लिङर्थ इति वक्तव्यम्। यागस्य पशुहिंसागर्भत्वेन अनिष्टजनकत्वशङ्कायां कस्यचिज्जातायां तन्निवृत्यर्थं यागे अनिष्टाजनकत्वस्य बौधनीयत्वात्। यथा हि मङ्गलं सफलम् अवगीतशिष्टाचारविषयत्वाद् इत्यनुमाने श्येनयागे व्यभिचारवारणाय बलवदनिष्टाजनकत्वरूपे अविगीतत्वे हेतौ निविष्टे तदुपरि श्येनयागे शत्रुवधरूपफलवत्त्वेन सफलत्वरूपं साध्यमस्तीति साध्याभाववत्त्वाभावात् कथं व्यभिचारप्रसक्तिरित्याशङ्कायां, साध्येऽप्यविगीतत्वं प्रवेशनीयम्। श्येने च अविगीतत्वाभावेन अविगीतत्वविशिष्टसफलत्वरूपं साध्यं नास्तीति साधअयाभाववति तत्र शिष्टाचारविषयत्वरूपहेतुसत्त्वाद् व्यभिचार इति तद्वारणाय हेतौ अविगीतत्वं देयमित्युक्तम्। तदुपरि साध्ये किमर्थं तद्विशेषणं देयमित्याकाङ् क्षायां, यथा श्येनयागस्तत्काले शत्रुवधरूपेष्टं जनयन्नपि कालान्तरे नरकरूपं बलवदनिष्टं जनयति तथा मङ्गलमपि तत्काले ग्रन्थसमाप्तिं जनयदपि कालान्तरे अनिष्टं जनयेद्वा इति शङ्कायां मङ्गले प्रवृत्तिर्न जायेतेति तदर्थं मङ्गले बलवदनिष्टाजनकत्वविशिष्टं सफलत्वमेव साधनीयम्। तदेतत् सकलमभिसंधायोक्तं दिनकरीये–(28)
`तेन श्येनादौ प्रवृत्त्युपयुक्तबलवदनिष्टा-
ननुबन्धीष्टसाधनत्वरूपसाध्याभावेऽपि न व्यभिचारः'

इति। तथा यागस्यापि पशुहिंसामिश्रत्वेन कालान्तरे यागः बलवदनिष्टं जनयेद्वेति शङ्कया प्रवृत्तिर्विघट्येत। प्रवृत्युत्पादनार्थमवश्यं बलवदनिष्टाजनकत्वं यागे बोघनीयमिति तदपि लिङर्थ इत्यवश्य वाच्यम्। ततश्च `न हि यागे बलवदनिष्टानुबन्धित्वं प्रसक्तम्, येन तदभावो लिङा बोध्येत’ इति दूषणं न प्रसजतीति सिद्धम्।

(2) तथा `न कलञ्जं भक्षयेत्’ इति वाक्यार्थोपपत्त्यर्थं च बलवदनिष्टाजनकत्वं लिङर्थं इति वक्तव्यम्। तत्र यदुक्त कलञ्जभक्षणाभाव इष्टसाधनमिति वाक्यार्थ इति। तत्रेदं विमर्शनीयम्। प्रवृत्तिं प्रतीष्टसाधनताज्ञानमिव निवृत्तिं प्रति अनिष्टसाधनताज्ञानं कारणम्। कलञ्जभक्षणाभाव इष्टसाधनमिति ज्ञाने सत्यपि कलञ्जभक्षणं अनिष्टसाधनमिति ज्ञानाभावात् कथं कलञ्जभक्षणात् निवर्तेत पुरुष इति।

ननु यस्याभाव इष्टसाधनं तद् अनिष्टसाधनं इति व्याप्तेः सर्पदंशाभावादौ दृष्टत्वात् तादृशव्याप्तिसहकृतेन कलञ्जभक्षणमनिष्टसाधनम्, इष्टसाधनीभूताभावप्रतियोगित्वाद् इत्यनुमानेन कलञ्जभक्षणमनिष्टसाधनमिति ज्ञात्वा ततो निवर्तते पुरुष इति चेन्न। `नातिरात्रे षोडशिनं गृह् णाति’ इति श्रुत्या षोडशिग्रहणाभावस्येष्टसाधनत्वमवगम्यते। तावता षोडशिग्रहणस्यानिष्टसाधनत्वं नास्ति। `अतिरात्रे षोडशिनं गृह् णाति’ इति वाक्येन षोडशिग्रहणमिष्टसाधनमित्यवगतेः। ततश्चाभावस्येष्टसाधनत्वे प्रतियोगि अनिष्टसाधनमिति व्याप्तिः षोडशिग्रहणे व्यभिचरितेति उक्तानुमानासंभवात्। न च यत्र प्रतियोगिन इष्टसाधनत्वं प्रमाणेन नावगम्यते तत्राभावस्येष्टसाधनत्वे न च यत्र प्रतियोगिन इष्टसाधनत्वं प्रमाणेन नावगम्यते तत्राभावस्येष्टसाधनत्वे प्रतियोगिनोऽनिष्टसाधनत्वमिति नियम इति वाच्यम्। उपेक्षणीयानामपि क्रियाणां सद्भावेन तदभावस्येष्टसाधनत्वेऽपि तादृशजलताडनादिक्रियाणामनिष्टसाधनत्वाभावात्।
तदुक्तं कुसुमाञ्जलौ–(29)
`तथा चानिष्टसाधनत्वं कुतो लभ्यते’ इति।

किं च व्याप्तिप्रतिसन्धानादिपूर्वकानुमानक्लेशापेक्षया अनिष्टसाधनत्वं यथा वाक्येनैवावगम्येत तथा अर्थवर्णनमेव युक्तम्। तच्च प्रदर्शितमस्माभिः।

(3) तथा मधुविषसंमिश्रान्नभोजनेऽप्रवृत्त्यर्थमपि बलवदनिष्टाजनकत्वज्ञानं प्रवृत्तिहेतुरिति वक्तव्यम्। तत्र फलेच्छाविरहादेव न प्रवृत्तिरिति यदुक्तम्, तत्र वदामः। तादृसान्नभोजनजन्यदुःखे उत्कटद्वेषदशायां तज्जन्यसुखे इच्छा नोदेति तदिच्छायां तादृशद्वेषस्य प्रतिबन्धकत्वादिति हि भवतामाशयः। स च न युज्यते। एकत्र फले विद्यमानो द्वेषः तत्रैवेच्छां प्रतिबध्नाति न फलान्तरे। एकत्र फले द्वेषकालेऽपि फलान्तरे इच्छोत्पत्तौ बाधकाभावात्। तदुक्त व्युत्पत्तिवादे–(30)
`तज्जन्ये फले उत्कटरागदशायां च तज्जन्यदुःखरूपफलान्तरे
उत्कटद्वेषे न किंचिद्बाधकम्’ इति। अयं च ग्रन्थः समानन्यायात्
`तज्जन्ये दुःखे उत्कटद्वेषदशायां च तज्जन्यसुखरूपफलान्तरे
उत्कटरागे न किंचिद्बाधकम्'

इत्यस्याप्यपलक्षणम्। एवं च मधुविषसंमिश्रान्नभोजने फलेच्छाया अपि संभवेन प्रवृत्तिः स्यादिति तद्वारणाय बलवदनिष्टाजनकत्वज्ञानस्य प्रवर्तकत्वं तद्विषयस्य लिङर्थत्वं चावश्यकमिति।
ननु अगम्यस्त्रीगमनं नरकसाधनमिति जानान एव पुरुषस्तज्जन्यसुखे उत्कटरागेण तत्र प्रवर्तते। तत्र च उत्कटरागस्तज्जन्यनरके द्वेषं प्रतिरुन्धे इत्यवश्यं वक्तव्यम्। अन्यथा तत्र प्रवृत्त्यसंभवात्। तथा च तेनैव न्यायेन मधुविषसंमिश्रान्नभोजनजन्यदुःखे द्वेषः तज्जन्यसुखे इच्छां विघटयतीति स्वीकर्तव्यमिति फलेच्छाविरहादेव तत्र प्रवृत्त्यभावनिर्वाहे कृतं बववदनिष्टाजनकत्वज्ञानहेतुत्वेन। तदेतन्मनसिकृत्यैव व्युत्पत्तिवादे–(31)
`अस्तु वा फलविषयोत्कटरागघटिता उपायगोचरोत्कटरागसामग्री
तत्रेव तज्जन्यतया ज्ञाते फलान्तरेऽप्युत्कटद्वेषविरोधिनी'

इति पक्षान्तरमवलम्बितमिति चेत्। अस्तु नाम फलेच्छाविरहादेवोक्तस्थले प्रवृत्तिवारणम्, तथापि बलवदनिष्टाननुवन्धित्वस्य लिङर्थत्वमावश्यकम्, यागे प्रवृत्त्यर्थं निषेधवाक्यार्थोपपत्त्यर्थं चेति पूर्वमुक्तमेव। अन्यार्थमप्यावश्यकमित्यधुना निरूपयामः।
`न हिंस्यात्सर्वा भूतानि’ इति श्रुतिः हिंसासामान्यस्यानिष्टसाधनत्वं न बोधयति। अग्नीषोमीयपशुहिंसायाः इष्टसाधनत्वबोधिकया `अग्नीषोमीयं पशुमालभेत’ इति श्रुत्या विरोधात्। अतो विरोधपरिहारार्थं `न हिंस्यात्’ इति श्रुतिर्विहितपशुहिंसाव्यतिरिक्तहिंसाया एव अनिष्टसाधनत्वं बोधयतीति सर्वे शास्त्रकारा अभ्युपगच्छन्ति। तत्रेदं विमर्शनीयं द्वयोः श्रुत्योर्विरोधः कथं भवतीति। यदि हि इष्टसाधनत्वमात्रं लिङर्थः तदा नैव विरोधः। `अग्नीषोमीयं पशुमालभेत’ इति श्रुत्या यागीयहिंसायाः स्वर्गरूपेष्टसाधनत्वं बोध्यते। `न हिंस्यात्’ इति श्रुत्या च तस्या अनिष्टसाधनत्वं प्रत्याय्यते। तावता कथं विरोधः। यथा हि कलञ्जभक्षणं तृप्तिरूपेष्टसाधनं भवति नरकरूपानिष्टसाधनमपि भवति। तथा पशुहिंसा स्वर्गसाधनं नरकसाधनं च भवतु। तथा च इष्टसाधनत्वानिष्टसाधनत्वयोर्विरोधाभावात् `न हिंस्यात्’ इति श्रुतेः विहितव्यतिरिक्तविषयकतया संकोचो नोपपद्येत। अतः बलवदनिष्टाजनकत्वमपि लिङर्थतया स्वीकरणीयम्, तथा सति `अग्नीषोमीयं पशुमालभेत’ इति श्रुत्या पश्वालम्भस्य बववदनिष्टाजनकत्वमपि बोधितमिति तद्विरुद्धमनिष्टजनकत्वं `न हिंस्यात्’ इति श्रुतिः बोधयितुं न शक्नोतीति तस्याः पश्वालम्भव्यतिरिक्तविषयकतया संकोच उपपन्नो भवति। तथा च `न हिंस्यात्’ इति श्रुतिसंकोचप्रयोजक-श्रुतिद्वयविरोध-संपादनार्थमपि बलवदनिष्टाजनकत्वं लिङर्थ इत्यवश्यं वाच्यमिति।
ननु सामान्यशास्त्रस्य विशेषेतरपरत्वं सामान्यविशेषशास्त्रयोर्विरोधे सत्येवेति न नियमः। अविरोधेऽपि `ब्राह्मणेभ्यो दधि दीयतां तक्रं कोण्डिन्याय’ इत्यत्र ब्राह्मणेभ्यो दधि दीयतामिति सामान्यविधेः कौण्डिन्यव्यतिरिक्तब्राह्मणविषयकतया संकोचस्य दर्शनात्। स्पष्टं चेदं व्युत्पत्तिवादान्ते प्रोक्तमिति चेत्;
अत्रोच्यते। उपसर्गापवादन्यायः सामान्यविशेषन्यायः, गोबलीवर्दन्याय इत्यस्ति न्यायत्रयम्। तत्र त्रयाणामपि न्यायानामसंकरेण एवं विषयव्यवस्था तान्त्रिकैराश्रीयते–यत्र विरोधपरिहारार्थं सामान्यशास्त्रस्य विहितविशेषव्यतिरिक्तविषयकत्वं तत्रोत्सर्गापवादन्यायः। यत्र विरोधाभावेऽपि सामान्यशब्दस्य उपात्त विशेषव्यतिरिक्तविषयकत्वं तत्र गोबलीवर्दन्यायः। यथा ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय इत्यादौ यत्र सामान्यशब्दस्य उपात्ते विशेषे पर्यवसानं तत्र सामान्यविशेषन्यायः। यथा `पशुनायजेत’ इत्यत्र सामान्यस्य पशुशब्दस्य `छागस्य वपायाः’ इति वाक्यशेषोपात्ते छागरूपे विशेषे पर्यवसानम्। तत्र `न हिंस्यात्’ इति वाक्यमुत्सर्गापवादन्यायस्य विषयतया यतः सर्वेषां संमतम्, अतस्तत्र विरोधोऽवश्यं भवेत्। स च विरोधः पूर्वोक्तरीत्या बलवदनिष्टाजनकत्वस्य लिङर्थत्वे सत्येव भवतीति संक्षेपः।
एतावता तर्कताण्डवोक्तानां प्रधानदूषणानां समाधानमपश्याम। अथ भाट्टरहस्योद्भावितानां दोषाणां समीक्षणं कुर्मः।
(1) बलवदनिष्टाजनकत्वज्ञानं न प्रवृत्तिहेतुः। अपि तु बलवदनिष्टजनकत्वज्ञानं प्रवृत्तिप्रतिबन्धकम्। तदभावः प्रवृत्तिहेतुः। तथा च तज्ज्ञानस्य प्रवर्तकत्वाभात् तद्विषयभूतं बलवदनिष्टाजनकत्वं न लिङर्थ इति प्रथमं दूषणम्।(32)
तस्य परिहारः– अस्त्वेवं तज्ज्ञानस्याप्रवर्तकत्वम्। अथापि निषेधवाक्यार्थोपपत्त्यर्थं `न हिंस्यात्’ इति निषेधस्य संकोचोपपत्त्यर्थं च तद्विषयस्य बलवदनिष्टाजनकत्वस्य लिङर्थत्वमावश्यकम्। उपपादितं चैतदधस्तात्।
(2) `न कलञ्जं भक्षयेत्’ इत्यत्र नञर्थेऽभावे लिङर्थस्य बलवदनिष्टाजनकत्वस्यान्वयः। नञर्थस्य च धात्वर्थे भक्षणेऽन्वय इति बलवदनिष्टाजनकत्वाभाववत् (बलवदनिष्टजनकं) कलञ्जभक्षणमिति बोधेऽपि लिङर्थस्य इष्टसाधनत्वस्यापि धात्वर्थे भक्षणेऽन्वयेन कलञ्जभक्षणमिष्टसाधनमित्यपि बोधस्य स्वीकृतत्वात्, तत्र च तृप्तिरूपेष्टसाधनत्वस्य बोधने लोकत एव तस्य ज्ञातत्वाद् अज्ञातज्ञापनरूपविधिवैयर्थ्यापत्तेः तत्सार्थक्याय स्वर्गरूपेष्टसाधनत्वस्य बोधापत्तिः। न च कलञ्जभक्षणे बलवदनिष्टानुबन्धित्वस्य स्वर्गसाधनत्वस्य चोभयोर्विरुद्धत्वात् कथं लिङा उभयबोधनमिति वाच्यम्। स्वर्गसाधनस्यापि कलञ्जभक्षणस्य स्वर्गापेक्षया अधिकनरक जनकत्वस्यापि स्वीकारेणोभयोर्बोधने विरोधाभावादिति द्वितीय दूषणम्।(33)
तस्य परिहारः—नञ् समभिव्याहृतेन लिङा बलवदनिष्टाजनकत्वमात्रं बोध्यते। तदभावश्च धात्वर्थेऽन्वेति। इष्टसाधनत्वं कृतिसाध्यत्वं च नैव बोध्यते। तदभावस्य बाधितत्वात्। धात्वर्थे तयोरन्वयस्वीकारे च अर्थत्रयमध्ये एकस्य नञर्थेऽन्वय इतरयोर्धात्वर्थेऽन्वय इति वैरूप्यापत्तेः। तथा च उक्तवाक्येन इष्टसाधनत्वस्यावोधितत्वात् खण्डदेवोक्तदूषणस्य न प्रसक्तिः। उक्तं च मुक्तावल्यां(34) विश्वनाथपञ्चाननेन—
`तत्र बाधादिष्टसाधनत्वं कृतिसाघ्यत्वं च न विध्यर्थः, किं तु
बलवदनिष्टाननुबन्धित्वमात्रम्। तदभावश्च नञा बोध्यते।’
इति। अस्तु वा तत्रापीष्टसाधनत्वं लिङर्थः, तस्य च धात्वर्थेऽन्वयः। तथापि नोक्तदोषप्रसह्गः। लोकावगततृप्तिसाधनत्वस्यैव बोधस्वीकारात्। न च विधिवैयर्थ्यम्। तदंशेऽनुवादत्वाङ्गीकारात्। विधिवाक्यजन्यशाब्दबोधे अनेकेषां पदार्थानां भानेऽपि यदंशस्य प्रमाणान्तरेणाप्राप्तिः तदंशमात्रे विधिव्यापारस्य, मीमांशकैः `दध्ना जुहोति’ इत्यादौ होमांशेऽनुवादस्य दध्यंशे विधेश्च प्रतिपादयितृभिः स्वीकृतत्वात्। यदपि विश्वजिन्न्यायेन स्वर्गकल्पनापत्तिरित्युक्तम्। तत्रापि विमर्शनीयम्। यत्र हि वाक्यं प्रवर्तकं फलं च नश्रुतं यथा `विश्वजिता यजेत’ इति तत्र पुरुषस्य प्रवृत्त्युत्पादनाय अश्रुतोऽपि स्वर्गः सर्वेषामिच्छाविषयत्वात् फलमिति कल्प्यते। यत्र हि वाक्यं निवर्तकं तत्र किमर्थं क्रियायां स्वर्गफलकत्वं कल्पनीयम्। अतश्च निषेधवाक्ये विश्वजिन्न्यायानवकाशात् स्वर्गफलकत्वापादनं कलञ्जभक्षणादीनां न संगच्छत इति।
(3) `श्येनेनाभिचरन् यजेत’ इत्यत्र लिङा यागे बलवदनिष्टाननुबन्धित्वं बोध्यते न वा। यदि बोध्यते तर्हि तत्र आस्तिका अपि प्रवर्तेरन्नित्यापद्यते। यदि न बोध्यते तत्र कारणं वक्तव्यम्। श्येनफलस्याभिचारस्य शत्रुवधाख्यस्य हिंसात्वेन `न हिंस्यात्’ इति निषेधेन शत्रुवधस्यानिष्टसाधनत्वात् परंपरया श्येनस्याप्यनिष्टसाधनत्वेन बलवदनिष्टाननुबन्धित्वस्य श्येन बाधात् लिङा तत्र तन्न बोध्यत इति चेन्न। `श्येनेन यजेत’ इति विधिना बलवदनिष्टाननुबन्धित्वस्य बोधितत्वेन तदविरोधाय `न हिंस्यात्’इति श्रुतेः रागप्राप्तहिंसाविषयकतयापि चरितार्थतया यागीयहिंसायामिव श्येनेऽप्यप्रवृत्तेः संभवादिति तृतीयं दूषणम्।(35)

तस्य परिहारः— `नाभिचरेत वैरिम्’ इति अभिचारनिषेधश्रुत्या अभिचारस्य (शत्रुवधजनककर्मणः) अनिष्टसाधनत्वबोधनेन तद्विरुद्धस्य अनिष्टाजनकत्वस्य `श्येनेन यजेत’ इति लिङा बोधयितुमशक्यत्वात् तत्र लिङर्थो बलवदनिष्टाजनकत्वं परित्यज्य इष्टसाधनत्वं कृतिसाध्यत्वं चेत्यर्थद्वयमात्रमिति।
न च `न हिंस्यात्’ इति शास्त्रस्य यथा रागप्राप्तहिंसायामेवानिष्टसाधनताबोधकत्वं न वैधहिंसायाम्, तथा `नाभिचरेत’ इति श्रुतिरपि वैधाभिचारभिन्नाभिचारस्यैवानिष्टसाधनत्वमवगमयति न वैधस्य श्येनस्येति वाच्यम्। सर्वस्याप्यभिचारकर्मणः श्रुतिमात्रविहितत्वेनन अविहिताभिचाराप्रसिद्धया `नाभिचरेत’ इति निषेधस्य निर्विषयत्वापत्तिभिया वैधेऽभिचार एवानिष्टसाधनत्वबोधकताया अवश्यं स्वीकरणीयत्वात्।
किं च `अभिचारमहीनं च त्रिभिः कृच्छैर्व्यपोहति’ इति अभिचारस्य प्रायश्चित्तं विहितम्। तेनापि ज्ञायते अभिचारोऽनिष्टसाधनमिति।
न चाभिचारशब्दस्य शत्रुवध इत्यर्थः। स च श्येनयागफलतया `श्येनेनाभिचरन् यजेत्’ इति श्रुतः। तथा च `नाभिचरेत’ इति श्रुत्या श्येनफलस्य शत्रुवधस्यैवानिष्टसाधनत्वं बोध्यते, तस्यैव च प्रायश्चित्तं न तु श्येनस्येति वाच्यम्। `नाभिचरेत’ इति क्षश्रुतौ अभिचारपदेन शत्रुवधजनकश्येनादियागस्यैव विवक्षितत्वात्। अन्यथा यत्र श्येनयागकरणानन्तरं शत्रुः प्रत्यभिचारं करोति तत्र शत्रुवधो नोपपद्यते। तथापि तत्र श्येनयागकर्तुः प्रायश्चित्तमिष्यते प्रामाणिकैः। अभिचारपदेन शत्रुवधस्यैव विवक्षितत्वे शत्रुवधस्य तत्राजातत्वेन प्रायश्चितं न स्यात्। अतः शत्रुवधजनकः श्येनादिरेवाभिचारपदेन विवक्षित इति वक्तव्यम्। तथा चोक्तस्थले शत्रुवधस्याजातत्वेऽपि तज्जनकश्येनस्यानुष्ठित्वात् प्रायश्चित्तोपपत्तिः। इत्थं च श्येनयागस्य अभिचारत्वात्–`नाभिचरेत’ इति निषेधेन प्रायश्चित्तमहिम्ना च तस्यानिष्टसाधनत्वावगमेन तद्विरुद्धं बलवदनिष्टाननुवन्धित्वं `श्येनेन यजेत’ इत्यत्र लिङा बोधयितुं न शक्यत इति तत्परित्यज्य इतरार्थद्वयस्य तत्र लिङा बोध इति नोक्तदोषः। तदेतत्सर्वं मनसि कुर्वाणैर्गदाधरभट्टाचार्यैः व्युत्पत्तिवादे(36)—
`यत्तु दीक्षाङ्गशुघातस्य नरकासाधनतया मा हिंस्यादित्यत्रावैधहिंसैव
विवक्षितेति श्येनस्य नरकासाधनत्वोपपादनम्। तदपि न।
तावताप्यभिचारविधया तथात्वस्य दुर्वारत्वात्’
इति अभ्यध्यायि। दिनकर्यां(37) च प्रोक्तम्—
`अभिचारमहीनं चेत्यत्राभिचारपदेन तज्जनकश्येनादेर्ग्रहणात्। अन्यथा
यत्र प्रत्यभिचारेण न खङ्गघाताद्युत्पत्तिः तत्र प्रायश्चित्तं न स्यात्’
इति।
(4) बलवदनिष्टाननुबन्धित्वं हि बलवद्वेषविषयनरकादिजनकत्वाभावः। द्वेषे बलवत्त्वं च औत्कट्याख्यो जातिविशेषः। स च द्वेषः प्राचीनकर्मानुरोधेन भवति। अतश्च यागादिजन्ये तत्कालिके दुःखे प्राचीनपापकर्मवशाद् यस्य पुरुषस्य यदा द्वेषस्तदा तस्य बलवद्द्वेषविषयतादृशदुःखजनकत्वज्ञानमेवास्तीति स यागादौ न प्रवर्तते। यदा तु न द्वेषः तदा तादृशद्वेषविषयाननुबन्धित्वज्ञानसत्त्वात् तत्र प्रवर्तते। ततश्च यागादौ नैयत्येन बलवदनिष्टाननुबन्धित्वस्य विधिना बोधयितुमशक्यत्वात् न तत्र लिङादेः शक्तिरिति चतुर्थं दूषणम्।(38)
तस्य परिहारः—वैदिकलिङादेः पापाजनकत्वमर्थः। तत्र पापस्य न द्वेषविषयत्वेन प्रवेशो येनोक्तदोषः स्यात्। ततश्च यागादिजन्यदुःखे द्वेषोऽस्तु मा वा सर्वथा पापाजनकत्वमबाधितमिति तदेव लिङा बोध्यते। लौकिकलिङस्तु यथायथं विशिष्य तत्तदनिष्टाजनकत्वमर्थः। न चाननुगम इति वाच्यम्। नरकत्वपापत्वरोगत्वादीनां द्वेषविषयतावच्छेदकत्वेनोपलक्षणीभूतेन अनुगमं कृत्वा तदवच्छिन्नप्रतियोगिताकाभावकूटे लिङादेरेकशक्त्यभ्युपगमात्। स्पष्टं चेदं व्युत्पत्तिवादे इति नेह प्रतन्यते।
एष्टव्यश्चायमेव प्रकारः खण्डदेवभट्टाचार्याणामपि। तथा हि वेदबोधितेष्टसाधनताकत्वं धर्मत्वं, वेदबोधितानिष्टसाधनताकत्वमधर्मत्वमिति हि धर्माधर्मयोर्लक्षणे तैः प्रत्यपादिषाताम्। तत्रापि इष्टसाधनत्वम् इच्छाविषयजनकत्वम्, अनिष्टसाधनत्वं द्वेषविषयजनकत्वमिति वक्तव्यम्। तत्रापि भवदुक्तरीत्या इच्छाया द्वेषस्य च प्राचीनकर्माधीनत्वाद् यस्य प्राचीनकर्मवशाद् यागजन्ये स्वर्गे इच्छा तदा इच्छाविषयजनकत्वाद् यागस्य धर्मत्वम्, यदा तु तद्वशात् तज्जन्यतात्कालिकदुःखे द्वेषः तदा द्वेषविषयसाधनत्वाद् अधर्मत्वमिति धर्मत्वमधर्मत्वं वा कस्यापि नैयत्येन न संभवति इत्याक्षेपे कृते भवद्भिरपि इत्थमेव समाधातव्यम्—यत् स्वर्गादेरिच्छाविषयत्वेन न धर्मलक्षणे प्रवेशः, येनोक्तदोषः स्यात्। किं तु स्वर्गत्वादिना विशिष्टैव। इच्छाविषयतावच्छेदकत्वं तु स्वर्गत्वादीनामुपलक्षणम्। तथा च स्वर्गे इच्छा अस्तु मा वा स्वर्गसाधनत्वं यागस्य नियतमिति वेदबोधितस्वर्गसाधनताकत्वाद् यागस्य नियतं धर्मत्वमिति। तथा च न कस्यापि दूषणस्यावसर इति।
अत्राह भूषणकारः(39)–बलवनिष्टाजनकत्वज्ञानं न प्रवृत्तिहेतुः, द्वेषाभावेनान्यथासिद्धत्वादिति। तस्यायमाशयः। कस्यांचित् क्रियायां यस्य द्वेषो वर्तते स न तत्र प्रवर्तते न वा तां चिकीर्षति। तता च चिकीर्षायां प्रवृत्तौ च द्वेषाभावः कारणमिति तेन अन्यथासिद्धत्वात् बलवदनिष्टाजनकत्वज्ञानं न प्रवृत्तिहेतुरिति।
परं तु स्वतन्त्रान्वयव्यतिरेकयोरुभयत्राविशिष्टत्वात् कस्य केनान्यथासिद्धिरित्यत्र विनिगमकमन्वेषणीयम्। `न कलञ्जं भक्षयेत्’इति निषेधवाक्यार्थोपपत्तये तु बलवदनिष्टाजनकत्वस्य लिङर्थत्वमावश्यकमेवेति तज्ज्ञानस्य प्रवृत्तिहेतुत्वे अस्ति विनिगमकम्। अस्तु वा प्रवृत्तिं प्रति द्वेषाभाव एव कारणम्। अङ्गीकृतं च तथैव मुक्तावलीकारेणापि। तथापि बलवदनिष्टाननुबन्धित्वस्य लिङर्थत्वं नापलपितुं शक्यते इत्येव गदाधरभट्टाचार्याशयोऽवगम्यते। इत्थं हि व्युत्पत्तिवादपङ्क्तिर्दृश्यते(40)—
`न कलञ्जं भक्षयेदित्यादिनिषेधविधेः प्रामाण्यानुरोधतो बलवद-
निष्टाननुबन्धित्वस्य विध्यर्थप्रवेशः’
इति।

कृतिसाध्यत्वविचारः

कृत्यसाध्ये चन्द्रानयनादौ प्रवृत्तिवारणाय कृतिसाध्यताज्ञानस्यापि प्रवृत्तिहेतुत्वं वाच्यमिति प्रवृत्तिजनकज्ञानविषयत्वरूपस्य प्रवर्तनात्वस्य कृतिसाध्यत्वेऽपि सत्त्वात् तदपि प्रवर्तनात्वेन रूपेण लिङर्थ इति स्वीक्रियते।
अत्राहुस्तर्कताण्डवकाराः(41)–प्रयत्नासाध्ये कर्मणि प्रवृत्तिः, कृत्यसाध्यताज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वादेव न भवति। किं च कृत्यसाध्यताज्ञानदशायां `फलं कृत्या साधयिष्यामि’ इत्याकारिका फलेच्छा न भवितुमर्हति। न हि उपाये कृत्यसाध्यत्वेन ज्ञायमाने `उपायफलं कृत्या साधयेयमिति’ इच्छा भवेत्। तथा च फलेच्छाविरहादेव तत्र न प्रवृत्तिरिति।
अत्र ब्रूमः। कृत्यसाध्यताज्ञानं प्रतिबन्धकं तदभावः कारणमिति कल्पनापेक्षया लाघवात्कृति साध्यताज्ञानं प्रवृत्तिहेतुरिति कल्पनमेव ज्यायः। किं च स्वर्गो भवतु’ `पुत्रो भवतु’ इत्याद्याकारिका फलेच्छैव प्रवृत्तिकारणं न तु `स्वर्गं कृत्या साधयिष्यामि’ इत्याद्याकारिका। तथा अननुभवात्। आदौ स्वर्गो भवतु इति इच्छति, ततः तदुपायमन्विष्य तमिच्छति, ततः प्रवर्तते इति हि क्रमः। किं च कृतिनिरूपितोद्देश्ताख्यविषयतायाः स्वर्गे सद्भावेऽपि तन्निरूपितसाध्यताख्यविषतायाः याग एव सद्भावेन स्वर्गेऽभावात् कथं साध्यताख्यविषयत्वावगाहिनी `स्वर्गं कृत्या साधयिष्यामि’ इतीच्छा भवेदिति।
खण्डदेवभट्टाचार्यास्तु(42)– कृतिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वेऽपि तन्न लिङर्थः। आख्यातत्वेन लिङ् वाच्यायां कृतौ धात्वर्थस्य यागादेरनुकूलतासंबन्धेनान्वयाद् यागानुकूला कृतिरिति शाब्दबोधे जाते तुल्यवित्तिवेद्यतया कृतिजन्यो याग इति भानाद् अन्यलभ्यत्वेन कृतिसाध्यत्वं न लिङर्थ इत्याहुः। एवमेव व्युत्पत्तिवादे(43) `अन्ये तु’ इत्यादिना गदाधरभट्टाचार्यैरपि प्रत्यपाद्यत।

वस्तुतस्तु तुल्यवित्तिवेद्यतया कृतिजन्यत्वस्य यागादौ भानेऽपि विधेयताख्यविषयताविशेषरूपस्य कृतिसाध्यत्वस्यान्यतोऽलाभात् तादृशस्य तस्य लिङर्थत्वम् आवश्यमिति प्रतिभाति।
एवमियता प्रबन्धेन इष्टसाधनतादिविषये प्रत्येकश उपादाय अन्यैरुद्भावितानां दूषणानां प्रतिविधानं य थाशक्ति अकार्ष्म। अथ समुदायरूपेण उद्भावितानां दूषणानां परिहारार्थं प्रयतामहे।
अत्र तर्कताण्कडवकाराः(44) ब्रुवते–इष्टसाधनत्वं कृतिसाध्यत्वं च न लिङर्थः, साध्यत्वसाधनत्वयोर्विरोधात्। साध्यत्वसाधनत्वयोर्युगपदन्वयबोधस्वीकारे वाजपेयाधिकरणविरोधाच्च इति।
अयमेषामभिप्रायः—पूर्वमीमांसायां प्रथमाध्ययचतुर्थपादपञ्चमाधिकरणे `वाजपेयेन स्वाराज्यकामो यजेत’ इति वाक्ये किं वाजपेयशब्दः कर्मनामधेयमुत पेयं पातु योग्यं वाजमन्नमिति द्रवद्रव्याख्यगुणविधिपरः इति संदेहे पानार्हान्नेन यागं भावयेत् यागेन स्वाराज्यं भावयेद् इत्यन्वयं स्वीकृत्य यागोद्देशेन वाजपेयरूपगुणस्य स्वाराज्योद्देशेन यगस्य च विधिरिति पूर्वपक्षं प्रापय्य एकस्मिन्नेव वाक्ये यागस्य वाजपेयं प्रति साध्यत्वेन स्वाराज्यं प्रति साधनत्वेन चान्वये साध्यत्वसाधनत्वादिविरुद्धधर्मसमावेशापत्तिरिति स्वाराज्योद्देशेन यागमात्रविधिः तस्य च यागस्य वाजपेयशब्दो नामधेयमिति सिद्धान्तितम्। तेन न्यायेन यजेत इत्यादौ लिङा यागे इष्टसाधनत्वकृतिसाध्यत्वयोर्बोधे एकस्मिन्नेव यागे इष्टं प्रति साधनत्वस्य कृतिं प्रति साध्यत्वस्य चान्वयाद् विरुद्धधर्मसमावेशः प्रसज्येत इति लिङा युगपद् उभयबोधनं न शक्यत इति।
अत्र समाधानं परिक्षिन्महाराजेनोक्तम्,(45) तत् किंचिद् विस्तृणीमहे। वाजपेयवाक्ये हि वाजपेयशब्दस्य गुणपरत्वे तृतीयान्तार्थवाजपेयजन्यत्वविशिष्टस्य यागस्य स्वाराज्यसाधनत्वं बोधनीयम्। उद्देश्यतावच्छेदकविशिष्टे विधेयान्वयस्थले च उद्देश्यतावच्छेदकसमानकालिकत्वं विधेये भासत इति व्युत्पत्तिः `धनवान् सुखी’ इत्यादौ धनसमानकालिकत्वस्य सुखे भानात् प्रसिद्धा। तता प्रकृतेऽपि वाजपेयजन्यत्वविशिष्टयाग उद्देश्यः स्वाराज्यसाधनत्वं विधेयम्। उद्देश्यतावच्छेदकं वाजपेयजन्यत्वं, तत्समानकालिकत्वं स्वाराज्यसाधनत्वे भासते। तच्च वाधितम्। वाजपेयजन्यत्वं हि वाजपेयाव्यवहितोत्तरकालसंबन्धः। स्वाराज्यसाधनत्वं च स्वाराज्याव्यवहितपूर्वकालसंबन्धः। न च तदुभयमेककाले संभवति। अत उक्तव्युत्पत्तिलभ्यस्य समानकालिकत्वस्य बाधाद् वाजपेयजन्यत्वविशिष्टयागे स्वाराज्यसाधनत्वं बोधयितुं न शक्यमिति वाजपेयशब्दस्य कर्मनामधेयत्वं स्वीकृत्य वाजपेयनामकयागस्य स्वाराज्यसाधनत्वमात्रं बोध्यत इति वाजपेयाधिकरणसारार्थः। प्रकृते च कृतिसाध्यत्वविशिष्टे यागे नेष्टसाधनत्वान्वयः, येन तयोः समानकालिकत्वं भासेत। अपि तु एकत्र द्वयमिति रीत्या यागे उभयोरन्वयेन यागः कृतिसाध्यः इष्टसाधनं च इति बोधः। तत्र चेष्टसाधनत्वकृतिसाध्यत्वयोस्समानकालिकत्वं न भासते। तथा च भिन्नकालिकयोस्तयोरेकशाब्दबोधविषयत्वे बाधकं किमपि नास्तीति तदुभयं लिङर्त इत्यक्तौ नोक्तदोषोऽवसरं लभते इति।
अयमत्रावधानीयोंऽशः–त्रितयं लिङर्थ इति स्वीकुर्वाणा अपि नैयायिकाः `श्येनेनाभिचरन् यजेत्’ इत्यादौ बाधाद् बलवदनिष्टाननुवन्धित्वं नार्थः, अपि तु इष्टसाधनत्वं कृतिसाध्यत्वं चेति द्वयमेव। `कुर्यात्’ इत्यादौ धात्वर्थकृतेः कृतिसाध्यत्वं बाधितमिति तत्परित्यज्य इतरद् द्वयं तत्र लिङर्थः। इष्टसाधनत्वं तु न क्वापि बाधितमिति तत् सर्वत्र लिङर्थः। अबाधितस्थले च त्रितयमपि लिङर्थ इत्येव आशेरति इति।
अत्रायमपरः सारांशः–ये मीमांसकाः उदयनाचार्याश्च प्रवर्तकनिष्ठः अभिप्रायविशेषः लिङर्थ इति स्वीकुर्वन्ति, ये च नागेशप्रभृतयो वैयाकरणाः प्रवृत्त्यनुकूलशब्दप्रयोगरूपः तादृशशब्दो वा विधिः लिङर्थ इति अभ्युपगच्छन्ति, ते सर्वेऽपि तादृशलिङर्थज्ञानानन्तरम् इष्टसाधनत्वानुमानं तदनन्तरं प्रवृत्तिरित्येव निरूपयन्ति। इष्टसाधनत्वस्यानुमेयत्वे व्याप्तिज्ञानादि क्लेशसापेक्षत्वात् शाब्दबोधस्य, महद् गौरवं भवतीति तदपेक्षया इष्टसाधनताज्ञानस्य शाब्दत्वं तदर्थम् इष्टसाधनताया लिङर्थत्वमेव च ज्यायः इति युक्तमुत्पश्यामः।
अत्र इष्टसाधनत्वपरिष्कारविषये बलवदनिष्टाननुबन्धित्वपरिष्कारविषये त्रिषुविशिष्टशक्तिर्वा प्रत्येकशक्तिर्वा इति विषये च बहु पराक्रमन्त गदाधरभट्टाचार्यप्रभृतय इति तादृशं परिष्कारमार्गं पिष्टपेषणभिया परित्यज्य इष्टसाधनत्वादीनां त्रयाणां लिङर्थत्वे खण्डदेवादिभिरुद्धावितानां दोषाणां परिहारो न्यायनये अस्ति न वेति विमर्शार्थमेवायं लघुर्ग्रन्थोऽस्माभिः न्यवन्धि।
———–*****———–

]