[[उपाधिविमर्शः Source: EB]]
[
** ॐ**
** NYAYAVAISESHIKA**
** उपाधिविमर्शः**
** प्रो.यन्.यस्. रामानुजताताचार्यः**
अस्मिन् प्रबन्धे उपाधेर्लक्षणम्, उपाधेर्विभागः, उपार्धेर्दूषकताबीजं चेत्येतान् त्रीन् विषानधिकृत्य विविधतार्किकमतानुसारेण विमृश्यते।
उपाधिलक्षणम्
उदयनाचार्यैः न्यायकुसुमाञ्चलौ साधनाव्यापकत्वे सति साध्यसमव्याप्तो धर्म उपाधिरिति लक्षणमुक्तम्। समशब्दं परित्यज्य साधनाव्यापकत्वे सति साध्यव्यापको धर्म उपाधिरिति महाविद्याविडम्बनकर्तृवादीन्द्रादिभिरुक्तम्। मणावुभयमनूदितमन्यच्च। तत्र समशब्दं घटयित्वा लक्षणं वदतामुदयनादीनामयमाशयः उप आधत्त इत्युपाधिः। स्वसमीपस्थे स्वधर्मं य आधत्ते स उपाधिः। यथा जापाकुसुमं स्वगतां रक्ततां स्वसमीपस्थे स्फटिके आधत्त इति तत् उपाधिः। एवमनुमाने उपाधित्वेन अभिमतः पदार्थः स्वगतां साध्यव्याप्तिं हेताववभासयति। उपाधिनिष्ठा व्याप्तिरेव हेतौ चकास्तीति स उपाधिः। तदुक्तं भट्टपादैः–
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः।
तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा ॥ (मी.श्लो.वा)
सद्धेतवस्तावत् स्वभावत एव व्याप्तिमन्तः। अन्ते तु स्वतो व्याप्तिरहिताः उपाधिप्रयुक्ताम् उपाधिसंनिधानसिद्धां साध्यव्याप्तिमुपजीवन्ति। तादृशहेतुरूपधर्मदर्शनेन व्यापकस्य साध्यस्य धर्मस्यावधारणं नैवेष्टमिति। तदिदं परत्र स्वगतधर्मा धायकत्वरूपमुपाधिशब्दप्रवृत्तिनिमित्तम् उपाधेर्व्याप्यत्व एव संगच्छत इति सूचनार्थमेव साध्यव्याप्यत्वस्याप्यवगमकः समशब्दः लक्षणे निवेशितः इति। यद्यपि कुसुमाञ्जलौ–
``तत्रोपाधिस्तु साधनाव्यापकत्वे सति साध्यव्यापकः’’
इति समशब्दं विनैव पठितम्। तथापि तदनन्तरवाक्ये–
``तद्धर्मभूता हि व्याप्तिः जपाकुसुमरक्ततेव स्फटिके
साधनाभिमते चकास्तीत्युपाधिरसावुच्यते''
इति व्याप्यत्वस्योपपादनात् समव्याप्तत्वनिवेशः तदभिप्रेत इत्युन्नीयते अत एव समशब्दघटितं लक्षणमुदयनाभिमतमिति सर्वार्थसिद्धौ वेदान्तदेशिकैरनूदितम्।
ननु तर्हि साध्यव्याप्यत्वे सति साधनाव्यापक इत्येवास्तु साध्यव्यापकत्वनिवेशः किमर्थ इति चेत्–उच्यते। व्यापकाभावात् व्याप्याभाव इति रीत्या हि साध्यव्यापक उपाधिः पक्षे व्यावर्तमानः साध्यं व्यावर्तयन् दूषको भवति। तथा च दूषकोपयोगित्वात् लक्षणे साध्यव्यापकत्वस्य निवेश इति। अतश्च उपाधिशब्दप्रवृत्तिनिमित्तानुसारेण साध्यव्याप्यत्वस्य, दूषकत्वानुसारेण साध्यव्यापकत्वस्य च लक्षणे निवेशनमुचितमित्याशये न साध्यसमव्याप्तत्वमुक्तमिति।
समशब्दं परित्यज्य साध्यव्यापकत्वं लक्षणे निवेशयतां तु अयमाशयः-उपधिशब्दार्थो यः कोऽप्यस्तु। लक्षणे व्याप्यत्वनिवेशनमनावश्यकम्। साध्याभावसाधकत्वोपयुक्तव्यापकत्वमात्रोपादनस्यैव पर्याप्तत्वादिति।
अथ तत्त्वचिन्तामण्यनुसारेण उपाधिलक्षणानि परामृशामः। उपाधिज्ञानस्य व्यभिचारज्ञानद्वारा व्याप्तिनिश्चयविघटनेनानुमितिप्रतिबन्धकत्वात् अनौपाधिकत्वज्ञानस्य अव्यभिचारज्ञानद्वाराव्याप्तिधीहेतुत्वाच्च उपाधिज्ञानस्य प्रतियोगिज्ञानविधया व्यप्तिनिश्चयोपयोगितया उपाधिलक्षणमादौ निष्कृष्य ज्ञातव्यं भवति।
अत्र केचित्–उपाधिः साध्यत्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकः। साध्यत्वसाधनत्वे व्यापकत्वव्याप्यत्वे। सोपाधिस्थले वस्तुतस्तयोरभावात् अभिमतपदम्। न च व्यापकत्वं व्याप्तिनिरूपकत्वम्। तथा च व्याप्तौ गृहीतायामुपाधिज्ञानम्, उपाधिज्ञाने च उपाध्यभावरूपानौपाधिकत्वज्ञानात् व्याप्तिग्रह इत्यन्योन्याश्रय इति वाच्यम्। व्यापकत्वं हि न व्याप्तिरूपकत्वम्, अपि तु तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम्। अव्यापकत्वं च तद्विन्निष्ठात्यन्ताभावप्रतियोगित्वमित्यन्योन्याश्रयाभावात्। न च प्रतियोगित्वं विरोधित्वम्; तच्च सहानवस्थाननियमः स च व्याप्तिरिति पनरप्यन्योन्याश्रय इति वाच्यम्। प्रकृते प्रतियोगित्वस्य तदधिकरणानधिकरणकत्वरूपत्वात् इति वदन्ति।
साधनावच्छिन्नसाध्यव्यापके पक्षधर्मावच्छिन्नसाध्यव्यापके चोपाधावव्याप्तेः। स श्यामः मित्रातनयत्वात् इत्यत्र शाकपाकजत्वमुपाधिः। अयं च मित्रातनतयत्वरूपसाधनावच्छिन्नश्यामत्वरूपसाध्यव्यापकोऽपि श्यामत्वव्यापको न भवति, श्यामत्ववति घटादावभावात्। एवं वायुः प्रत्यक्षविषयः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षविषयत्वव्यापकमपि उद्भूतरूपवत्त्वं न प्रत्यक्षविषयत्वव्यापकम्, प्रत्यक्षविषये आत्मन्यभावादिति।
अन्ये तु साध्यप्रयोजको धर्म उपाधिरिति वदन्ति। तदपि चिन्त्यम्। दूषणौपयिकं हि प्रयोजकत्वमिह विवक्षितम्। तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति तत्पक्षोक्तदोषप्रसङ्गात्।
साधनाव्यापकत्वे सति साध्यसमव्याप्तो धर्म उपाधिः इति औदयनमपि लक्षणं विमृश्यम्। विषमव्याप्तोपाधावव्याप्तेः। तथाहि–पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वात् आप्यपरमाणुरूपवत् इत्यादौ पृथिवीविशेषगुणत्वाभावस्य विषमव्याप्तस्याप्युपाधित्वस्वीकारात्। यत्र नित्यत्वं तत्र पृथिवीविशेषगुणत्वाभावः जलपरमाण्वादाविति साध्यव्यापकत्वमिव, यत्र पृथिवीविशेषगुणत्वाभावः तत्र नित्यत्वमिति उपाधिव्यापकत्वं साध्ये नास्ति, घटादौ व्यभिचारात्। एवं ध्वंशो विनाशी जन्यत्वात् इत्यत्र भावत्वमुपाधिः। तदपि विषमव्याप्तम्। भावत्वे विनाशित्वव्यापकत्वसत्वेऽपि विनाशित्वे भावत्वव्यापकत्वविरहात्। आत्मनि व्यभिचारात्। उपाधिव्यापकत्वं साध्ये नास्ति, घटादौ व्यभिचारात्। ननु विषमव्याप्तस्य नोपाधित्वमिति चेत्-तत् किं विषमव्याप्तस्य दूषकताबीजाभावान्नोपाधिशब्दवाच्यत्वम्? अथवा उपाधिपदप्रवृत्तिनिमित्ताभावात्। नाद्यः तस्यापि व्यभिचाराद्युन्नायकत्वात्। न द्वितीयः न हि लोके समव्याप्त एव, अन्यत्र स्वधर्मप्रतिबिन्बजनके एव उपाधिपदप्रयोगः लाभाद्युपाधिना कृतम् इत्यादौ अतादृशे लाभादावुपाधिपदप्रयोगात्। लक्षणया रूढ्या वा तत्र प्रयोगवत्, विषमव्याप्तेऽपि व्यभिचाराद्युन्न्नायकतया दूषकत्वमात्रेण लक्षणया उपाधिपदप्रयोगसंभवात्। विषमव्याप्तिकस्य दूषकत्व एवास्माकमभिनिवेशः न तु तत्रोपाधिशब्दस्य मुख्यत्वेऽपि।
किं च शास्त्रे न लौकिकव्यवहारार्थमुपाधिव्युत्पादनम्, अपि तु अनुमानदूषणार्थम्। दूषणं च साध्याव्यापकत्वे सति साधनाव्यापकत्वमात्रमिति शास्त्रे तत्रोपाधिशब्दप्रयोगः। विषमव्याप्तेऽपि साध्यव्यापकत्वमादाय दूषकत्वं समानमिति लक्षणे समपदघटने विषमव्याप्तोपाधावव्याप्तिर्दुरुद्धरा।
अन्ये तु समव्याप्तस्यैवोपाधित्वं मन्यमानाः एवं लक्षणं वदन्ति-यदभावो व्यभिचारविरोधी स उपाधिः। यदभाव इत्यस्य यस्य साध्यव्यापकस्य साधनाव्यापकतया अभावः साधनव्यापकत्वमिति यावत्। एतदपि प्रसञ्जितं बोध्यम्। अन्यथा असंभवात्, उपाधेः साधनाव्यापकत्वात्। एवं च येन प्रसञ्जितेन साधनव्यापकत्वेन हेतुसाध्ययोर्व्यभिचाराभावः आपादयितुं शक्यते स साधनाव्यापकः तत्र हेतावुपाधिरिति फलति। तादृशश्च साध्यसमव्याप्त एव। साध्यसमव्याप्तस्य साध्याभावव्याप्यतया तस्मिन् साधनव्यापकत्वे आपाद्यमाने साधने साध्यव्याप्योपाधिव्याप्यत्वमप्यापादितं भवतीति साध्यव्याप्यस्य सुतरां साध्यव्याप्यत्वमिति तेन व्यभिचाराभावस्य आपादयितुं शक्यत्वात्। विषमव्याप्तस्य तु साध्यव्यापकत्वमेवास्ति, न तु साध्यव्याप्यत्वम्। तथा च साध्यव्यापके तस्मिन् साधनव्यापकत्वे आपादिते साध्यव्यापकव्याप्यत्वमेव साधने आपादितं भवति। तेन च साध्यव्यभिचाराभावः साधने आपादयितुं न शक्यते। तद्व्यापकव्याप्ये तद्व्यभिचारसत्त्वात् व्यभिचाराभावानियमात्। यथा अनित्यत्वव्यापकप्रमेयत्वव्याप्ये गुणत्वे अनित्यत्वव्यभिचारात्। ननु सर्व6 व्यभिचारिहेतौ समव्याप्तस्योपाधेरभावात् `व्यभिचारे चावश्यमुपाधिः’ इति नियमभङ्गः इति चेन्न। साध्यसाम्र्यादीनां बहूनां साध्यसमव्याप्तानां सुलभत्वात्। अन्ततः साध्यसमव्याप्तस्य साध्यस्यैवोपाधित्वसंभवात्। अभेदेऽपि व्याप्यव्यापकभावानपायात्-इति।
इदं मतमपि न क्षोदक्षमम्। एतन्मते हि हेतोः साध्यव्याप्यव्याप्यत्वमेव साध्याव्यभिचारे तन्त्रम्। न तु साध्यव्यापकव्याप्यत्वमपि, तस्य साध्याव्यभिचारानापादकत्वेन तस्यानुपयोगात्। भवतैव साध्यव्यापकव्याप्ये साध्यव्यभिचारितायाः प्रदर्शितत्वात्। तथा च साध्यसमव्याप्तस्यैवोपाधित्वमित्येतद् भग्नमिति।
केचित्तु पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिरित्याहुः। तदपि न। साधनावच्छिन्नसाध्यव्यापके उपाधौ अव्याप्तेः। शब्दोऽभिधेयः प्रमेयत्वादित्यत्र सद्धेतौ अश्रावणत्व स्योपाधित्वापत्तेश्च। शब्दधर्मगुणत्वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्राश्रावणत्वं व्यापकम् पक्षे प्रमेयत्वरूपसाधनाव्यपकं हि तत्।
अथ साधनावच्छिन्नसाध्यव्यापकत्वे साधनाव्यापक उपाधिः। तेन ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वविशिष्टविनाशित्वव्यापकं भावत्वमुपाधिः, स श्यामो मित्रातनयत्वादित्यत्र मित्रातनयत्वविशिष्टश्यामत्व व्यापकं शाकपाकजत्वमुपाधिरिति चेन्न। पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधावव्याप्तेः। जलं प्रमेयं रसवत्त्वादित्यत्र रसवत्त्वविशिष्टप्रमेयत्वव्यापकस्य पृथिवीत्वस्य उपाधित्वापत्तेश्च।
सिद्धान्तः
मणिकारा अत्रैवं निष्कर्षं चक्रु :– केचनोपाधयः शुद्धसाध्यव्यापकाः, केचन पक्षधर्मावच्छिननसाध्यव्यापकाः, केचन साधनावच्छिन्नसाध्यव्यापकाः। त्रयाणां साधारणं लक्षणं तावत् पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वम्। यद्धर्मावच्छेदेन साध्यं प्रसिद्धं तत् पर्यवसितं साध्यम्। साध्यप्रसिद्ध्यवच्छेदकधर्मावच्छिन्नत्वं पर्यवसितत्वमिति यावत्। स च साध्यप्रसिद्ध्यवच्छेदकीभूतो धर्मः क्वचित् साधनम्, क्वचित् द्रव्यत्वादि, क्वचिन्महानसत्वादि। आद्ये ध्वंसो विनाशी जन्यत्वात् इत्यत्र जन्यत्वावच्छिन्नविनाशित्वव्यापकं पक्षान्तर्भावेण जन्यत्वाव्यापकं च भावत्वमुपाधिः। द्वितीये वायुः बहिरिन्द्रियजन्यप्रत्यक्षविषयः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र पक्षधर्मः द्रव्यत्वं साध्यप्रसिद्ध्यवच्छेदकं तदवच्छिन्नबहिरिन्द्रियजन्यप्रत्यक्षविषयत्वव्यापकं प्रत्यक्षस्पर्शाश्रयत्वाव्यापकं च रूपवत्त्वमुपाधिः। तृतीये अयं धूमवान् वह्नेः इत्यादौ महानसत्वं व्यञ्जनवत्त्वं वा तादृशो धर्मः, तदवच्छेदेन धूमस्य प्रसिद्धत्वात्। तथा च महानसत्वावच्छिन्नधूमव्यापकः वह्न्यव्यापकश्च आर्द्रेन्धनसंयोग उपाधिः।
दीधितिकारमुक्तावलीकारादिभिः यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमुपाधित्वमित्युक्तम्। तेषामयमाशयः– मणिकारैः साध्यव्यापकत्वशरीरे साध्य प्रसिद्ध्यवच्छेदकधर्मावच्छिन्नसाध्यव्यापकत्वं निवेशितम्। साधनाव्यापकत्वशरीरेऽपि तद्धर्मावच्छिन्नत्वं निवेशनीयम्। अन्यथा पर्वतो वह्निमान् धूमात् इत्यत्र सद्धेतौ पर्वतीयवह्निरूपाधिः स्यात्। पर्वतत्वात्मकः यः पक्ष धर्मः तद्विरिष्टवह्निव्यापकत्वात् धूमवति महानसे पर्वतीयवह्नेः अभावेन साधनाव्यापकत्वाच्च। धर्मैक्यविवक्षणे तु पर्वतत्वविशिष्टवह्निव्यापकस्य पर्वतीयवह्नेः पर्वतत्वविशिष्टधूमाव्यापकत्वं नास्ति। पर्वतत्वविशिष्टधूमवति पर्वते पर्वतीयवह्नेः सत्त्वात्। अतो नातिव्याप्तिः। परं त्वेवं सत्यपि पर्वतो धूमवान् वह्नेरित्यत्र शुद्धसाध्यव्यापके आर्द्रेन्धनसंयोगे कथं समन्वयः कार्यः इत्याशङ्क्येक्तं मुक्तावल्याम् - व्यभिचारिणि तु उपाध्यधिकरणं यत् साध्याधिकरणं यच्च उपाधिशून्यं साध्यव्यभिचाराधिकरणं तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वं साधनस्य चाव्यापकत्वमुपाधेरन्ततः सं भवतीति। तथा च तत्र महानसायोगोलकान्यतरत्वरूपं धर्ममादाय तदवच्छिन्नसाध्यव्यापकत्वं तदवच्छिन्नसाधनाव्यापकत्वं चोपाधेः संपादनीयम्-इति।
इदमत्रालोचनीयम् - पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधिस्थले पक्षवृत्तिः साध्यप्रसिद्ध्यवच्छेदकधर्मपद एव ग्राह्याः पक्षधर्मपदेनेति मणिकारहृदयम्। पर्वतत्वं त्वतादृशम्। तस्य साध्यप्रसिद्ध्यनवच्छेदकत्वात्। अतः धर्मैक्यविवक्षणस्य नेदं फलम्। किं तु पर्वतो वहिनमान् धूमादित्यादौ साध्यप्रसिद्ध्यनवच्छेदकमहानसत्वावच्छिन्नवहनिव्यापके धूमाव्यापके च व्यञ्जनत्त्वादावुपाधित्वप्रसङ्गवारणमेव तत्फलं वाच्यम्। तत्तु साधने साध्यव्यभिचारित्वविशेषणेनापि वारयितुं शक्यते। तथा च पर्यवसितसाध्यव्यापकत्वे सति साध्यव्यभिचारिसाधनाव्यापकत्वमुपाधेर्लक्षणमित्युक्तौ दोषाप्रसक्तेः धर्मैक्यविवक्षणमनावश्यकमिति रुचिदत्तमिश्रकृतप्रकाशव्याख्यानात् अवगम्यते।
तर्कचूडामणिकाराः एवं निर्णयन्ति। साधननिष्ठसाध्याव्याप्यत्वानुमापकाव्याप्यत्वप्रतियोगित्वे सति साध्यसमानाधिकरणत्वमुपाधेर्लक्षणम्। इदमपि `यद्यव्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः’क इति मणिग्रन्थलभ्यम्। साधननिष्ठस्य उपाधिव्याप्तिविरहस्य साधननिष्ठसाध्यव्याप्तिविरहे लिङ्गत्वात् नासंभवः। वह्निर्धूमव्यभिचारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात्। आकाशसाध्यकहेतौ घटादेः उपाधित्ववारणाय साध्यसमानाधिकरणत्वविशेषणम्। साध्याव्याप्यत्वं च शुद्धसाध्याव्याप्यत्वम्। तेन विशिष्टसाध्याव्याप्यत्वानुमापका व्याप्यत्वप्रतियोगिनि व्यञ्जनवत्त्वादौ नातिव्याप्तिः। विशिष्टसाध्ये च तस्यो पाधित्वमिष्टमेव। अवच्छिन्नसाध्यव्यापकस्थलेऽपि ध्वंसो विनाशी जन्यत्वात् इत्यादौ, वायुः बहिरिन्द्रियजन्यप्रत्यक्षविषयः प्रत्यक्षस्पर्शा श्रयत्वादित्यादौ च, जन्यत्वं जन्यत्वविशिष्टविनाशित्वाव्याप्यं जन्यत्वविशिष्टविनाशित्वव्यापकाभावत्व - व्यभिचारित्वात्, प्रत्यक्षस्पर्शा श्रयत्वं द्रव्यत्वविशिष्टबहिरिन्द्रियजन्यप्रत्यक्षविषयत्वव्यभिचारि तद्व्यापकरूपवत्त्वव्यभिचारित्वात् इत्यनुमानमिष्यते। अत्र यद्यपि विशिष्टव्यभिचारित्वमेव साध्यम्। तथापि विशेषणाव्यभिचारिणः विशिष्टव्यभिचारित्वस्य विशिष्यव्यभिचारित्वरूपतया विशिष्यव्यभिचार एवानुमानपर्यवसानम्। तदुक्तं मणौ-विशेषणाव्यभिचारित्वेन ज्ञाते साधने विशिष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव सिध्यति पक्षधर्मताबलात् - इति। इत्थं चावच्छिन्नसाध्यव्यापकोपाधेरपि शुद्धसाध्याव्याप्यत्वानुमापकतायाः सत्त्वान्नाव्याप्तिः - इति।
मुक्तावल्यां तत्त्वचिन्तामणौ च शुद्धसाध्यव्यापकानां पक्षधर्मावच्छिन्नसाध्यव्यापकानां साधनावच्छिन्नसाध्यव्यापकानां चोपाधीनामुदाहृतत्वात् उपाधेस्त्रैविध्यं प्रतियते। परं तु तर्कसंग्रहदीपिकायाम्-
``उपाधिश्चतुर्विधः केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति। तत्राद्यो यथा आर्द्रेन्धनसंयोगः। द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम्। तृतीयो यथा प्रागभावो विनाशी जन्यत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा प्रागभावो विनाशी प्रमेयत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्''
इत्यक्तम्। अत्र सूक्ष्मेक्षिकया दर्शने प्राचीनग्रन्थोक्तं साधनावच्छिन्नसाध्यव्यापकत्वस्य ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वस्यो दाहरणत्वं न युक्तमिति सूच्यते। तत्र जन्यत्वस्य पक्षधर्मत्वेन पक्षधर्मावच्छिन्नसाध्यव्यापकप्रभेदेऽन्तर्भावात्। उदासीनपदेन पक्षधर्मसाधनाभ्यां व्यतिरिक्तो धर्मः गृह्यते।
उपाधिद्वैविध्यम्
पुनश्च उपाधिः द्विविधः निश्चितोपाधिः संदिग्धोपाधिश्चेति। साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितः व्यभिचारनिश्चयजनकः निश्चितोपाधिः। यथा पर्वतो धूमवान् वह्नेरित्यत्र आर्द्रेन्धनसंयोगः। यत्र साध्यव्यापकत्वसंदेहो वा साधनाव्यापकत्वसंदेहो वा तदुभयसंदेहो वा स व्यभिचारसंशयजनकतया संदिग्धोपाधिरित्युच्यते। यथा सा श्यामो मित्रातनयत्वादित्यत्र शाकाद्याहारपरिणतिजन्यत्वमिति मण्यादिग्रन्थेषु निरूपितम्।
पक्षेतरत्वस्योपाधित्वम्
मणिग्रन्थे पक्षेतरत्वमुपाधिर्भवति न वेति सुदूरं विवेचितम्। तत्रायं निष्कर्षः। बाधोन्नीतपक्षेतरत्वमुपाधिः बाधानुन्नीतपक्षेतरत्वं तु नोपाधिः। अयमाशयः - यत्र पक्षे साध्याभावरूपो बाधो निश्चितः तत्र वह्निरनुष्णः पदार्थत्वात् इत्यादौ पक्षेतरत्वं वह्नीतरत्वम् उपाधिः, साध्यव्यापकत्वनिश्चयात्। यत्र तु पक्षे साध्याभावो न निश्चितः तत्र पक्षेतरत्वं नोपाधिः तथा सति सर्वेष्वप्यनुमानेषु पक्षेतरत्वस्योपाधित्वसंभवेन अनुमितिमात्रोच्छेदापत्त्या उपाधेर्व्यभिचारानुमापकत्वरूपं दूषकत्वमेव भज्येत।
उक्तं हि मणावेव-
``अत एव बाधानुन्नीतपक्षेतरत्वस्यानुपाधित्वम्,
स्वव्याघातकत्वेन तद्व्यतिरेकस्यसाध्याव्यावर्तकत्वात्''
इति। तत्र स्वव्याघातकत्वेनेत्यस्य उपाधिसामान्यस्य दूषकत्वव्याघातकत्वेनेत्यर्थः। बाधोन्नीतपक्षेतरत्वं नाम बाधेन पक्षे साध्याभावनिश्चयेन उन्नीतं साध्यव्यापकत्वेन निश्चितं पक्षेतरत्वमित्यर्थः। पक्षे साध्याभावसंदेहदशायां साध्यव्यापकत्वेन संदिग्धत्वात् पक्षेतरत्वस्य, संदिग्धोपाधित्वसंभवेऽपि तत् कथायां नोद्भावनीयम्, कथकसंप्रदायानुरोधात् इति मणिकारादयः।
अद्वैतसिद्धिव्याख्यायां लघुचन्द्रिकायां तु वस्तुतस्तु तादृशसंप्रदायः युक्त्यभावात् हेयः। अत एव दीधितावेवोक्तम्–तादृशसंप्रदायमननुरुन्धानस्य शपथनिराकरणीयतापत्तेः इति। ईश्वरवादे च मणावुक्तम्। पक्षेतरत्वादौ विपक्षबाधकतर्काभावान्न साध्यव्यापकतानिश्चय इत्येवानुपाधित्वे बीजम् इति, यत्रोपाधिसाध्ययोः साध्यहेत्वोश्च व्याप्तिग्राहकसाम्यात् नैकत्र व्याप्तिनिश्चयः तत्रैव संदिद्धोपाधित्वम् व्यभिचारसंशयाधायकत्वात्। यत्र तु एकत्र तर्कावतारः तत्र हेतुत्वमुपाधित्वं वा निश्चितम् इति च।
उपाधेर्दूषकताबीजम्
उपाधिः कया विधया अनुमानं दूषयति इति बहुधा विचारितम्। तस्य तु साक्षादनुमितिं प्रति तत्करणपरामर्शं प्रति वा प्रतिबन्धकत्वविरहात् न हेत्वाभासत्वम्। अपि तु हेत्वाभासभूतसत्प्रतिपक्षोन्नायकतया तादृशव्यभिचारोन्नायकतया वा दूषकत्वं वक्तव्यम्। तत्रोपाधेः साधनाव्यापकतया साधनवत्पक्षावृत्तित्वेन उपाध्यभावः पक्षवृत्तिरित्यायाति। स च उपाध्यभावः साध्यव्यापकाभावरूपः व्याप्यस्य साध्यस्य अभावं साधयन् सत्प्रतिपक्षतया दूषणं भवति पर्वतो धूमाभाववान् आर्द्रेन्धनसंयोगाभावात् इति। परं तु इदं न युज्यते। सत्प्रतिपक्षानुमाने तथा सत्युपाध्युद्भावनं न स्यात्, सत्प्रतिपक्षे सत्प्रतिपक्षान्तरोद्भावनवत्। न हि प्रकृतहेतोः सत्प्रतिपक्षरूपे प्रत्यनुमाने उद्भाविते तस्यापि पुनः सत्प्रतिपक्षान्तरमुद्भाव्यते।
किं च पक्षवृत्तिरपि उपाधिरिष्यते। सत्प्रतिपक्षतया दूषकत्वे तत्र तदनुपपत्तिः। उपाधेः पक्षावृत्तित्व एव उपाध्यभावेन पक्षे साध्याभावः साधयितुं शक्यते। पक्षवृत्तिरुपाधिर्यथा घटोऽनित्यः द्रव्यत्वादित्यत्र कार्यत्वम्, अन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वात् इत्यत्र अश्रावणत्वम्। स्वातन्त्र्येण प्रतीयमानत्वं च स्वाश्रयविषयवलौकिकसाक्षात्कारविषयान्यत्वे सति लोकिकसाक्षात्कारविषयत्वम्। त्रसरेणुरात्मा च दृष्टान्तः, व्यभिचारश्च गन्धादौ। शब्दे चास्य साधनाव्यापकत्वम्।
किं चोपाधिः प्रकृतसाध्यव्याप्यत्वेन निश्चितस्य साधनस्य अव्यापकः इति निश्चिते सति कथं साध्याभावग्रहः। न हि अव्यापकतया गृहीतस्य व्यतिरेकात् अव्याप्यतया गृहीतस्य व्यतिरेकग्रहः। किं तु व्यापकतया गृहीतस्य व्यतिरेकग्रहादेव व्याप्यतया गृहीतस्य व्यतिरेकग्रहः संभवति।
नापि व्यभिचारोन्नायकत्वेन दूषकत्वम्। यो यद्व्यापकव्यभिचारी स तद्व्यभिचारी इति व्याप्तिमवलम्ब्य यथा हि साध्यव्यापको पाधिव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमीयते, तथा साध्यव्याप्यसाधनव्यभिचारित्वेन उपाधेः अपि साध्यव्यभिचारित्वमप्यनुमीयताम्। यो यद्व्याप्यव्यभिचारी स तद्व्यभिचारीति व्याप्तेः सत्त्वात्। तस्मादुपाधेर्दोषविधया अनुमितिप्रतिबन्धकैत्वं स्वीकृत्य हेत्वाभासान्तरत्वस्वीकार उचित इति पूर्वपक्षः।
सिद्धान्तस्तु - ग्राह्याभावाद्यवगाहितया प्रतिबन्धकत्वे सत्येव हेत्वाभासत्वम्। अत उपाधेर्हेत्वाभासत्वं दुरुपपादम्। आर्द्रेन्धनवत्त्वादेः तर्कादिना साध्यव्यापकत्वे साधनाव्यापकत्वे च निश्चिते सत्येव तयोः कया विधया दूषकत्वमिति चिन्तनस्य अवकाशः। तस्मात् सत्प्रतिपक्षोतथापकतया व्यभिचारोन्नायकतया स्वातन्त्र्येण वा उपाधेर्दोषत्वमिति कल्पत्रयेऽपि सर्वथा उपाधेः साध्यव्यापकतानिश्चयः आवश्यकः। तदभावे सत्प्रतिपक्षाद्यनुत्थितेः। तस्मात् साध्यव्यापकत्वसाधनाव्यापकत्वयोर्निश्चयात् व्यभिचारनिश्चयः, तयोः संशयात् व्यभिचारसंशय इति मानसव्यभिचारज्ञानोत्पादनद्वारा अनुमितिप्रतिबन्धेन उपाधेर्दूषकत्वम्। यद्वा साधअयव्यापकोपाध्यभाववद्वृत्तित्वेन हेतुना साध्यव्यभिचारित्वमुपाधेरनुमेयम्। एवं चोपाधिस्थले हेतौ साध्यव्याप्यत्वनिश्चयविरहात् पूर्वोक्तप्रतिबन्द्योर्नावकाशः। शिष्टं पश्चात्।
]