निर्विकल्पकज्ञानविचारः

[[निर्विकल्पकज्ञानविचारः Source: EB]]

[

निर्विकल्पकज्ञानविचारः

एन्.एस्. रामानुजाताताचार्यः
बोद्धाः सर्वमपि प्रत्यक्षं निर्विकल्पकमेवेति ब्रुवते। जैनाः सर्वं प्रत्ययक्षं सविकल्पकमेवेत्यातिष्ठन्ते। न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते’ इति वदन् भर्तृ हरिरपि सर्वं प्रत्यक्षं शब्दावच्छिन्नार्थविषयकत्वात् सविकल्पकमेव इत्यभिर्पैति। निर्विकल्पकं सविकल्पक्षं चेति प्रत्यक्षद्वयं नैयायिकादयोऽङ्गीकुर्वन्ति। एतत्तत्त्वमधुना विवेचयामः।
न्यायसूत्रे न क्वापि निर्विकल्पकसविकल्पकशब्दाभ्यां प्रत्यक्षविभागः प्रदर्शितः। `इन्द्रियार्थसंनिकर्षोत्पन्नम्’ इति प्रत्यक्षलक्षरगसूत्रस्थाभ्यां `अव्यपदेश्यम्’ `व्यवसायात्मकम्’ इति पदाभ्यां निर्विकल्पकसविकल्पके विवक्षिते इति तात्पर्यटीकाकारा निरूपयन्ति। परं तु भाष्ये वार्तिके वा नैवंविधं निरूपागमुपलभ्यते।
वस्तुतस्तु `पृथिव्यादिगुरगस्तदर्था’ (न्याo सूo 1-1-14) इति न्यायसूत्रे पृथिव्यादिनिष्ठानां गन्धादिगुरगनामिन्द्रियजन्यप्रत्यक्षविषयत्वमुक्तम्। अनेन च प्रत्यक्षविषयस्य घटादेः गुरगनिष्ठप्रकारतानिरूपितविशेष्यत्वं सूचितम्। तथा च गुरगविशिष्टद्रव्यविषयकप्रत्यक्षं सविकल्पकात्मकं सूत्रसंमतमेव। तदुक्तं न्यायभूषरगे—
`सविकल्पकमपि प्रत्यक्षं `पृथिव्यादिगुरगस्तदर्थाः’ इत्यनेन लेशतः सूचितम्’(1) इति। अव्यपदेश्यशब्देन च निर्विकल्पकं सूचितम्। परं तु निर्विकल्पकसविकल्पकशब्दौ सूत्रे भाष्ये च न क्वापि दृश्येते।
टीकाकारमतम् (2)
सूत्रस्थेन अव्यपदेश्यशब्देन निर्विकल्पकं ज्ञानमुच्यते। तत्र व्यपदेशो विशेषरगमुपलक्षरगं वा नामजात्यादि तत्कर्म व्यपदेश्यम्, विशेष्यमिति यावत्। अविद्यमानं व्यपदेश्यं यस्मिस्तत् अव्यपदेश्यम्। यत् प्रत्यक्षं जात्यादिस्वरूपामात्रं विषयीकरोति, न तु जातिव्यक्त्यादीनां मिथो विशेषरगविशेष्यभावं तत् निर्विकल्पकपदवाच्यं प्रत्यक्षमव्यपदेश्यपदेन व्यपदिश्यते। व्यवसायात्मकपदेन च सविकल्पकं प्रत्यक्षमुच्यत इति टीकाकाराः। यद्यप्येवंव्याख्यानं भाष्यवार्तिकयोर्न विद्यते, तथापि स्वगुरुरगा त्रिलोचनाचार्येरग उन्नीतं मार्गमवलम्ब्य ईदृशं व्याख्यानं कृतिमिति ते प्रोचुः।
निर्विकल्पकज्ञानविचारः
न्यायमञ्जर्यां(3) न्यायसारे (4) च निर्विकल्पकं सविकल्पकं चेति प्रत्यक्षद्वयं यद्यपि सपुक्तिकं प्रसाधितम्, तथापि सूत्रात्तादृशविभागस्य लाभप्रकारस्तत्र न प्रदर्शितः। न्यायभूषरणे तु अव्यपदेश्यपदेन निर्विकल्पकस्य व्यवसायात्मकपदेन सविकल्पकस्य च ग्रहरणमिति सयुक्तिकं प्रत्यपादि।
प्रशस्तपादभाष्ये—-
`द्रव्ये तावद्विविधे महत्यनेकद्रव्यवत्त्वोदूभूतरूपप्रकाशचतुष्टयसंनिकर्षाद्धर्मादिसामग्रये च स्वरूपालोचनमात्रम्’(5) इति ग्रन्थेन निर्विकल्पकप्रत्यक्षं प्रदर्शितम्। स्वरूपालोचनमात्रमित्यस्य स्वरूपमात्रस्य ग्रहरणमित्यर्थः। मात्रशब्देन जात्यादिसंबन्धविषयकत्वव्यवच्छेदः। ततः—
सामान्यविशेषद्रव्यगुरणकर्मविशेषरणपेक्षात् आत्ममनस्संनिकर्षात् प्रत्यक्षमुत्पद्यते सद् द्रव्यं पृथिवी विषारणी शुक्लो गौर्गच्छतीति(6) इति ग्रन्थेन सविकल्पकप्रत्यक्षं सोदाहररणमुपदर्शितम्। कुमारिलभट्टा अपि—
`अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥ (7)
इति श्लोकेन निर्विकल्पकम्,
`ततः परं वस्तु धर्मैर्जात्यादिभिर्यया।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता॥’
इति श्लोकेन सविकल्पकं च प्रत्यक्षमङ्गीकुर्वन्ति। प्रभाकरमतानुसारिरणः शालिकनाथमिश्रा अपि प्रकररणपञ्चिकायाम्—-
`सविकल्पाविकल्पा च द्विविधा बुद्धिरिष्यते।
आद्या विशिष्टविषया स्वरूपविषयेतरा॥ (8)
इति ग्रन्थेन प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदेन द्वैविध्यं प्रादर्शयन्.
अद्वैतपरिभाषायामपि (9) अयं विभागः प्रतिपादितः। परं तु विशिष्टबुद्धौ विशेषरणज्ञानस्य काररणत्वे मानाभावात् इन्द्रियजन्यं प्रत्यक्षं सर्वमपि सविकल्पकमेव। तत्त्वमसि इत्याद्यखण्डार्थपरवाक्यजन्यं प्रत्यक्षमेव निर्विकल्पकमिति परिभाषाकारा आशेरते।
विशिष्टाद्वैतवेदान्तिनस्तु—सर्वमपि प्रत्यक्षं सप्रकारकमेव। अथापि निर्विकल्पकसविकल्पकभेदोऽस्त्येव। उभयोरपि जातिविशिष्टविषयकत्वेऽपि जातेरनुवृत्ताकारता सविकल्पके प्रतीयते, न तु निर्विकल्पक इत्यनयोर्भेद इति निरूपयन्ति। विवेचयिष्यते चैतत्तत्त्वमुपरिष्टात्।
निर्विकल्पकलक्षरणम्
एवं स्थिते अधुना निर्विकल्पकलक्षरणं तत्तद्‌ग्रन्थोक्तं परामृशामः। नामजातिगुरणद्रव्यक्रियाविशिष्टविषयकं प्रत्यक्षं सविकल्पकम्। जात्यादीनां व्यक्त्या सह विशेषरगविशेष्यभावावागाहि प्रत्यक्षं सविकल्पकमिति यावत्। यत्र तु ज्ञाने जात्यादिकं तदाधारव्यक्तिश्च भासते, परं तु तयोर्विशेषरणविशेष्यभावो न भासते, तन्निर्विकल्पकं प्रत्यक्षमिति तात्पर्यटीकातोऽवगम्यते।(10)
न्यायसारे—
`तत्र संज्ञादिसंबन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकम्, यथा देवदत्तोऽयं दण्डीत्यादि’ (11) इति ग्रन्थेन नामद्रव्यादिवैशिष्ट्यविषयकं प्रत्यक्षं सविकल्पकमिति सोदाहररणं सविकल्पकलक्षरणमभिधाय, `वस्तुमात्रावभासकं निर्विकल्पकम्, यथा प्रथमाक्षसंनिपातजं ज्ञानम्, युक्तावस्थायां योगिज्ञानं च’ इति ग्रन्थेन निर्विकल्पकज्ञानं लक्षितम्।
तत्त्वसंग्रहे धर्मकीर्तिः—-
`प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी।
प्रतीतिः कल्पनाक्लृप्तिहेतुत्वाद्यात्मिका न तु॥ (12)
इति निर्विकल्पकलक्षरणमाह। कल्पनाया अपोढं कल्पनापोढम्। कल्पना नामजात्यादियोजना, नामादिसंसर्ग इत्यर्थः। तत्र देवदत्त इत्यादिर्नामयोजना, गौरित्यादिर्जातियोजना, गच्छतीत्यादिः क्रियायोजना, शुक्ल इत्यादिर्गुरणयोजना, दण्डीत्यादिर्द्रव्ययोजना इत्येषा पञ्चविधा कल्पना, एतच्छून्यं ज्ञानं निर्विकल्पकमिति तदर्थः।
तत्त्वचिन्तामरणौ तु—-
`नामजात्यादियोजनारहितं वैशिष्ट्यानवगाहि निष्प्रकारकं निर्विकल्पकम्। (13) इति निर्विकल्पकलक्षरणं प्रादर्शि। वैशिष्ट्यानवागाहीत्यस्यैव विवरणं निष्प्रकारकमिति। निर्विकल्पके प्रकारताख्यविषयताशून्यत्वमिव विशेष्यताख्यविषयताशून्यत्वमपि वर्तते। तथा च निर्विशेष्यकं ज्ञानं निर्विकल्पकमित्यपि शक्यते वक्तुम्। तथा अनुक्त्वा निष्प्रकारकमिति वदतां मरणिकारारणमयमाशयः—यथा सविकल्पकस्य विशिष्टज्ञानत्वात् ततः पूर्वं विशेषरणज्ञानं कल्प्यते, तथा निर्विकल्पकस्य हेतुतया ज्ञानान्तरं नापेक्षितमिति।
निर्विकल्पकज्ञानविचारः
तर्कसङ्ग्रहेऽपि—-`निष्प्रकारकं ज्ञानं निर्विकल्पकम्’ (14) इति लक्षरणं प्रोक्तम्। प्रकारताशून्यं ज्ञानमिति तदर्थः। व्याख्यातृभिः प्रकारताशून्यं ससर्गताशून्यं विशेष्यताशून्यं च ज्ञानं निर्विकल्पकमित्युपपादितम्।
अस्य च निर्विकल्पकज्ञानस्य आकारो नास्ति। यद्यपि `इदं किंचित्’ इति ज्ञानं निर्विकल्पकमिति क्वचित्तर्कसंग्रहे पाठो दृश्यते, तथापि नामजात्याद्यविषयकं ज्ञानं इत्यत्रैव तस्य ग्रन्थस्य तात्पर्यं वक्तव्यम्, न तु स ग्रन्थो निर्विकल्पकाकारप्रदर्शनपरः। तथा सति किंचित्त्वप्रकारकत्वेन तस्यापि सविकल्पकत्वापत्तेः।
निर्विकल्पके प्रमारणम्
एतादृशनिर्विकल्पकसद्भावे किं प्रमारणमिति जिज्ञासायां प्राचीनग्रन्थेषु स्पष्टतया समाधानं न लभ्यते। मरिणकारा एवात्र विषये स्वकीयां दृष्टिं राक्षिपन्। अतो गहने मरिणग्रन्थे उक्ता युक्तयोऽत्र संगृह्यन्ते। तदुपरि शास्त्रान्तरकारैः प्रदर्शितानां दूषरणामामपि परामर्शं कपिष्यामः। तत्र यद्यपि—
(1) वैशिष्ट्यानवगाहिनि निर्किल्पकात्मके ज्ञाने न प्रत्यक्षं प्रमारणम्। निर्विकल्पकज्ञानस्यातीन्द्रियत्वाङ्गीकारात्।
(2) नापि `अयं गौः’ इत्यादिशब्दप्रयोगात्मको व्यवहारो निर्विकल्पके प्रमारणम्। शब्दप्रयोगं प्रति सविकल्पकज्ञानस्यैव काररणत्वेन व्यवहारः सविकल्पकसद्भावे एव प्रमारणं भवेन्न निर्विकल्पकसत्त्व इति।
(3) `इदं पूर्वं मया संमुग्धतया ज्ञातम्, अधुना तु सम्यग्जानामि’ इत्याकारकोऽनुभवस्तत्र प्रमारणम्। पूर्वम् अल्पविशेषरणवत्तया ज्ञातम्, अधुना बहुविसेषरणवत्तया जानामीत्येवं तदर्थात् निष्प्रकारकज्ञानस्य तेनानुभवेनासिद्धेः।
(4) नापि `अयं गौः’ इति ज्ञानं विशेषरणज्ञानजन्यं विशिष्टज्ञानत्वात् `दण्डीपुरुषः’ इति ज्ञानवदित्यनुमानेन गोत्वमात्रविषयकं निर्विकल्पकज्ञानं सिध्यतीति शङ्गनीयम्। दृष्टान्तस्य साध्यविकलत्वात्। दण्डपुरुषयोरुभयोरपि युगपदिन्दिरयसंनिकर्षे सति दण्डज्ञानं विनैव युगपदेव दण्डीति ज्ञानस्यानुभवात्। तथापि—
एतज्जन्मनि प्राथमिकं गौरिति प्रत्यक्षं जन्यविशेषरणज्ञानजन्यम् जन्यविशिष्टज्ञानत्वात् अनुमितिवत् इत्यनुमानं तत्र प्रमारणम्। यथा `पर्वतो वह्निमान्’ इत्यनुमितिः वह्निविशिष्टपर्वतविषयिरणी वह्निरूपविशेषरणएज्ञानात्मकसाव्यप्रसिद्धिजन्या तथा प्राथमिकं गौरिति विशिष्टप्रत्यक्षमपि गोत्वात्मकविशेषरणज्ञानादेवोदयमासादयतीति वक्तव्यम् तदेव गोत्वज्ञानं वैशिष्ट्याविषयकं निर्विकल्पकमित्यर्थात्सिध्यति।
न च तत्र प्राथमिकविशिष्टप्रत्यक्षं प्रति गोत्वरूपविशेषरणस्मररणमेव हेतुः, तथा च न निर्विकल्पकप्रत्यक्षं सिध्यतीति वाच्यम्। एतज्जन्मनि पूर्वं गोत्वस्याननुभवेन तत्स्मररणसंभवात्।
चारुदेवशास्त्र्यभिनन्दग्रन्थः
न च आद्यस्तन्यपानादौ अदृष्टेनोद्‌बोधितः जन्मान्तरीयानुभवजनितः संस्कारः यथा इष्ठसाधानतां स्मारयति, तथा अदृष्टविशेषोद्‌बोधितः जागान्तरीयसंस्कारः गोत्वस्मृतिमुत्पादयति, तद्‌बलाच्च आद्यं विशिष्टप्रत्यक्षं भवितुमर्हतीति न निर्विकल्पकसिद्धिरिति। वाच्यम्। आद्यस्तन्यपानादौ गत्यन्तराभावेन जन्मान्तरीयसंस्कारोद्‌बोधकल्पनेऽपि प्रकृते इन्द्रियसंनिकृष्टगोत्वविषयकनिर्विकल्पकेनापि स्वीकृतेन विशिष्टज्ञानस्योपपत्त्या जन्मान्तरीयानुभवजनितसंस्कारोद्‌बोधादृष्टस्य कल्पनाया अन्याय्यत्वात्। अन्यथा जन्मान्तरानुभूतानाम् एतज्जन्मनि इन्द्रियसंनिकृष्टानामर्थानां स्मररणमेव भवेन्न त्वनुभवः।
न च गोत्वरूपविशेषरणनुभवः सविकल्पक एव `अयं गौः’ इति विशिष्टप्रत्यक्षं जनयतु, तथा च गतं निर्विकल्पकेनेति वाच्यम्। तथात्वे तस्यापि विशिष्टज्ञानत्वेन विशेषरणज्ञानजन्यत्वं, तस्यापि तथेत्यनवस्थाप्रसङ्गात्। तथा च गोत्वविषयकं निर्विकल्पकमर्थतः सिध्यति।
न च उक्तानुमाने विशिष्टज्ञानत्वमस्तु विशेषरणज्ञानजन्यत्वं मास्तु इत्यप्रयोजकसङ्कायां तद्वारकतर्ताभावात् नोक्तानुमानं साधकमिति वाच्यम्। अनुमित्यादिकं प्रतिसाध्यप्रसिद्धयाद्यात्मकविशेषरणज्ञानस्य काररणत्वात् `यद्विसेषयोः कार्यकाररणभावः स तत्सामान्ययोः’ इति न्यायेन विशिष्टज्ञानत्वावच्छिन्नं प्रति विशेषरणज्ञानत्वावच्छिन्नं काररणमिति कार्यकाररणभावस्य स्वीकर्तव्यतया तद्भङ्गप्रसङ्गलक्षरणस्यानुकूलतर्कस्योक्तानुमाने सद्भावादिति मरिणग्रन्थे निर्विकल्पकसाधनप्रकारस्य सारांशः।
अथात्र विषये मतान्तरारिण पर्यालोचयामः
भाट्टमतम्
श्लोकवार्तिके—-
`अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥ (15)
इत्यभिहितम्। अनेन च बालमूकादीनां केनचिद्वस्तुना इन्द्रियसंनिकर्षानन्तरम् `इदमित्थम्’ इति नामजात्यादिप्रकारानवगाहि संमुग्धाकारं किंचिज्ज्ञानं जायते तदेव निर्विकल्पकमिति भण्यते। अत्र `शुद्धवस्तुजम्’ इत्यस्य जात्यादिवैशिष्ट्यानापन्नवस्तु मात्रविषयकमित्यर्थः। तदुक्तं शास्त्रदीपिकायामपि—
`प्रतीमो हि वयमक्षसंनिपातानन्तरमविविक्तसामान्यविशेषविभागं संमुग्धवस्तुमात्रगोचरमालोचनज्ञानम्’ (16) इति। एतादृशनिर्विकल्पकसद्भावे प्रमारणं विशिष्टबुद्धौ विशेषरणज्ञानस्य काररणत्वमिति मरिणकारोक्तमेव मीमांसकानामपि संमतम्। अत एव शास्त्रदीपिकायां (17) पूर्वनिदर्शितवाक्यानन्तरम्—
निर्विकल्प ज्ञानविचारः
`तदभावे तु विकल्प एव न जायेत। विकल्पयता हि पूर्वानुभूतं जातिविशेषं संज्ञाविशेषं चानुस्मृत्य तेन पुनः स्थितं वस्तु विकल्पयितव्यम्। न चार्थमदृष्टवत इति निरूपरणं संघटते । यद्यपि—
`न विशेषो न सामान्यं तदानीमनुभूयते।
तयोराधारभूता तकु व्यक्तिरेवावगम्यते॥ (18)
इति श्लोकवार्तिकेन निर्विकल्पके जात्यादिकं न भासते, अपि तु जात्याद्याधार इति श्लोकवार्तिकेन निर्विकल्पके तथापि पूर्वोदाहृतशास्त्रदीपिकानुरोधात् जात्यादिकं विशेषरणतया न भासते, व्यक्तिश्च जात्यादिविशेष्यतया न भासते, अपि तु जात्यादिकं व्यक्तिश्च स्वरूपतः विशेष्यविशेषरणभावमन्तरा भासेते इत्येवंरूपार्थे श्लोकवार्तिकस्य तात्पर्यं द्रष्टव्यम्।
अद्वैतिसिद्धान्तः
परिभाषाकारास्तु—प्रत्यक्षं निर्विकल्पकसविकल्पकभेदेन द्वेधा विभज्य, वैशिष्ट्यावगाहि ज्ञानं सविकल्पकाम्, संसर्गानवगाहि ज्ञानं निर्विकल्पकम् इति लक्षयित्वा `सोऽयं देवदत्तः’ `तत्त्वमसि’ इत्यादिवाक्यजन्यं ज्ञानं निर्विकल्पकस्योदाहररणतया प्रदर्शयांबभूवुः। (19) अत्राखण्डार्थवाक्यजन्यज्ञानस्य उदाहररणतया प्रदर्शनात् नैयायिकोदाहृतं घटत्वादिनिर्विकल्पकं स्वानभ्युपगतमिति सूचयन्ति। विशिष्टबुद्धिं प्रति विशेषरणज्ञानस्य काररणत्वे हि घटत्वादिनिर्विकल्पकं सिध्येत्। वस्तुतस्तादृशकार्यकाररणभावोऽप्रामारिणक इति परिभाषाकृतामाशयः। अत एव तद्व्याख्यायां शिकामरणौ—-
`सविकल्पकं वैशिष्ट्यावगाहीति। न तु विशेषरणज्ञानजन्यम्, तज्जन्यत्वस्य प्रमारणाभावेन अनभ्युपगमादित्यर्थः(20) इत्युक्तम्। तथा शाङ्करभाष्यवार्तिके—
`घ्रारणचक्षुर्भ्यां संयुक्ते सुरभिचन्दने सुरभि चन्दनमिति चाक्षुषविज्ञाने सौरभांशे ज्ञानप्रत्यासत्तिर्नाङ्गीक्रियते, उभयेन्द्रियसंनिकर्षाभ्यां विशिष्टैकज्ञानसंभवात्। (21)
इति प्रत्यपादि। अत्र भिन्नसामग्रीवेद्ययोरपि सौरभचन्दनयोर्विशिष्टैकज्ञानं संभवतीति वदन्तो वार्तिककारा एकसामग्रीवेद्ययोः घटघटत्वयोरेकविशिष्टज्ञानसंभवं कैमुत्यन्यायेन सूचयन्ति। तथा च विशेषरणज्ञानस्य हेतुत्वे मानाभावात् लौकिकप्रत्यक्षात्मकं सर्वमपि ज्ञानं विशिष्टविषयकमेवेति सविकल्पकमेव। केवलमखण्डार्थवाक्यजन्यं प्रत्यक्षमेव निर्विकल्पकम् इत्यद्वैतिनामाशयः। अत एव शाङ्करभाष्यवार्तिकेऽन्यत्र—
`विशेषरणज्ञानस्य विशिष्टव्यवहाराहेतुत्वात्, उभयभानसामग्रीत एव तत्सिद्धेः इत्युपपादितम्।
रामानुजमतम्
रामानुजमतानुयायिनस्तु सर्वमपि ज्ञानं सप्रकारकमेवेत्यातिष्ठन्ते। इह जन्मनि प्रथमोत्पन्ने `अयं गौः’ इति विशिष्टज्ञाने गोत्वस्यानेकवस्तुवृत्तित्वात्मक्रमनुवृत्ताकारत्वं न भासते। द्वितीयादिज्ञाने तु `अयमपि गौः’ इत्येवं गोत्वस्यानुवृत्ताकारत्वं प्रतीयते। तत्र च प्रथमोत्पन्नज्ञानजन्यः संस्कारः सहकारि कारणम्। तथा च इह जन्मनि प्रथमोत्पन्नं ज्ञानं निर्विकल्पकम्, द्वितीयादिज्ञानं सविकल्पकम्। निर्विकल्पकशब्दस्य प्रकारसामान्यशून्यमिति नार्थः। तत्र विकल्पशब्दः अनुवृत्ताकारत्वविशिष्टप्रकारपरः। तथा च निर्विकल्पकमित्यस्य अनुवृत्ताकारत्वविशिष्टप्रकारशून्यमित्यर्थः। यथा अल्पधनेऽपि पुरुषे धनाभाववद्वाची दरिद्रशब्दः प्रयुज्यमानः विवक्षितबहुधनाभावे पर्यवस्यति तद्वत्। तथा च संस्कारासहकृतेन्द्रियजन्यं ज्ञानं निर्विकल्पकम्, संस्कारसहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम् इति निर्विकल्पकसविकल्पकयोः लक्षरणे पर्यवस्यतः। तदुक्तं तत्त्वमुक्ताकलापे श्रीमद्वेदान्तदेशिकैः—(22)
`तस्मात्संस्कारशून्येन्द्रियजनितमतिर्निर्विकल्पेति वाच्या’ इति। `कथं तस्य निर्विकल्पकशब्दवाच्यत्वम्? विवक्षितविकल्पाभावामात्रात्, अल्पधने दरिद्रव्यवहारवत् इति च तत्त्वमुक्ताकलापव्याख्यां सर्वार्थसिद्धौ (23) प्राहुः। एवं रीत्या स्वसिद्धान्तं प्रदर्श्य निर्विकल्पकसंज्ञकनिष्प्रकारकज्ञानवादिनां मतमित्थं खण्डयन्ति श्रीमद्वेदान्तदेशिकाः—- यदुक्तं कुमारिलपादैः—
`अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्।
बालमूकादि विज्ञानसदृशं शुद्धवस्तुजम्॥ (24)
इति। तत्र दृष्टान्तः असिद्धः। बालमूकादिविज्ञानस्यापि विशिष्टविषयकत्वात्। अन्यथा तत्र तत्र तेषां प्रवृत्तेरसंभवात्। बालमूकादीनां संकेतज्ञानाभावेन अस्यार्थस्येदं नामधेयमिति ज्ञानाभावात् संज्ञासंबद्धतया यद्यपि वस्तुज्ञानं न भवति तथापि यत्किंचिद्विशिष्टविषयकमेव ज्ञानं तेषामुत्पद्यते। इतरथा हेयोपादेयविभागपूर्वकं प्रवृत्तिविशेषस्तेषां नोपपद्येत। प्रवृत्तिं प्रति सप्रकारकज्ञानस्य हेतुत्वात्। अतः कुमारिलोक्तः बालमूकादिदृष्टान्तः असिद्धः। यच्चोक्तं शुद्धवस्तुजं निर्विकल्पकमिति, तदपि वस्तुजत्वमात्रं असहितवस्तुजत्वं वा अनारोपितवस्तुजत्वं वा निर्विशेषवस्तुजत्वं वा, सर्वेष्वपि पक्षेषु दोषसद्भावान्न युक्तमिति देशिकचररणा आहुः।
तत्समाधानम्
परं तु शुद्धवस्तुजमित्यस्य वस्तुनिष्ठा या किंचिन्निष्ठप्रकारतानिरूपिताविशेष्यता तदनिरूपकमिति तात्पर्यार्थः। तथा च देशिकैर्विकल्प्योक्ता दोषा अत्र न प्रसजन्तीत्यवधेयम्।
देशिककृतं महिणदूषरणम्
यदुक्तं विशिष्टबुद्धेर्विशेषरणज्ञानपूर्वकत्वात् निर्विकल्पकं सिध्यतीति। तन्न। गौरिति विशिष्टज्ञानं विशेषरणज्ञानजन्यं विशिष्टज्ञानत्वात् इति भवदुक्तानुमाने भिन्नसामग्रीवेद्यत्वस्योपाधित्वात्। यत्र विशेषरणं विशेष्यं च भिन्नसामग्रीवेद्यं तत्रैव विशिष्टज्ञानं विशेषरणज्ञानपूर्वकं दृष्टम्, यथा `सुरभि चन्दनम्’ इति विशिष्टप्रत्यक्षम्। तत्र हि विशेषरणं सौरभं घ्रारणेन्द्रियवेद्यं विशेष्यं चन्दनं चक्षुर्वेद्यमिति भिन्नसामग्रीवेद्यत्वात् आदौ सौरभरूपविशेषरणज्ञनम्, तेन च सुरभि चन्दनमिति विशिष्टप्रत्यक्षं भवति। एकेन्द्रिययोग्ययोर्गोगोत्वयोरेककाले विशिष्टज्ञानसंभवात् आदौ गत्वज्ञानं ततः गोत्वविशिष्टव्यक्तिज्ञानमिति कल्पनं न युज्यते।
ननु एकचक्षुर्वेद्ययोरपि दण्‍डतद्वतोर्विषये आदौ दण्डरूपविशेषरणज्ञानम्, ततो दण्डी पुरुषः’ इति विशिष्टज्ञानं चोत्पद्यत इति दृष्टम्। तद्वत् गौरिति विशिष्टप्रत्यक्षमप्यस्तु इति चेत्—-न। तत्रापि सामग्रीप्रवाहवशात् प्रथमं प्रत्येकग्रहरणसामग्रीप्रवृत्तिः। ततः विसिष्टग्रहरणं स्वमामग्रीवशात् इति विशेषरणज्ञानस्याकाररणत्वात्। विशेषरणज्ञानानन्तर्यमात्रस्य काररणतानिश्चायकत्वाभावात्। युगपत् योग्यैकेन्द्रियसंबद्धानां विशेष्यविशेषरणतत्सबन्धानां युगपद्विशिष्टप्रत्ययस्य विशेषरणज्ञानं विनाप्युत्पत्त्या व्यतिरेकव्यभिचारेरण विशिष्टबुद्धिं प्रति काररणत्वाभावात्। सर्वमिदं मनसिकृत्योक्तं तत्त्वमुक्ताकलापे—-
`ईदृक्त्वात्यन्तशून्ये न हि मिषति मतिर्नापि युक्तिस्तथात्वे।
सामग्रीभेदवेद्ये पृथगवगतिरस्त्वत्र नैषान्यथात्वात्॥ (25) इति।
ननु विशेषरणविशेष्ययोः गोत्वगोव्यक्त्योरेकेन्द्रिययोग्यत्वेन एकज्ञानविषयत्वेऽपि तयोः सम्बन्धस्यातथात्वात् प्रथमज्ञाने तयोः संबन्धो न भासते। तथा च निर्विकल्पकमनाबाधं सिध्यति। संबन्धानवगाहिनो विशेषरणविशेष्यमात्रविषयकज्ञानस्यैव अस्माभिर्निर्विकल्पकशब्दवाच्यत्वाभ्युपगमादिति चेत्—न। संबन्दपदेन किं स्वरूपं विवक्षितम्? उत समवायः? आद्ये विशेषरणविशेष्यस्वरूपग्रहरणे संबन्धोऽपि गृहीत एवेति। क्व निर्विकल्पकम्। द्वितीयेऽपि चक्षुषा संयुक्तविशेषरणतासंबन्धेन समावायो गृह्यत इति भवत्सिद्धान्तात् गोगोत्वसमवायानम् एकेन्द्रिययोग्यत्वात् एककाल एव त्रयारणां ग्रहरणं भवितुमर्हति। अन्यथा योग्यस्यापि समवायस्य प्रथममग्रहरणे पश्चादपि ग्रहरणं न संभवेत्। तथा च संसर्गानवगाहि निर्विकल्पकज्ञानं न युक्तिसहम्। तदुक्तं देशिकचररणैरेव न्यायपरिशुद्धौ—-
`निर्विकल्पके धर्मधर्मिवत् तत्संबन्धस्याप्यैन्द्रियकत्वाविशेषेरण ग्रहरणसंभवात्’ (26) इति।
देशिकोक्तदूषणपरामर्शः
अत्रेदं विचार्यते। निर्विकल्पकज्ञाने जात्यादिरूपं विशेषग्णां व्यक्तिरूपं विशेष्यं च भासते। संबन्धस्तु न भासते। संबन्धज्ञानं प्रति सम्बन्धिज्ञानस्य काररणतया पूर्वं तदभावात्। तथा च पूर्वं विशेषरणविशेष्यरूपसंबन्धिनोर्ज्ञानं निर्विकल्पात्मकं जायते ततस्तयोः सम्बन्धस्य समवायस्यावगाहि सविकल्पकात्मकं ज्ञानं जायत इति प्राचीननैयायिकाः। तथा चोक्तमुदयनाचार्यैः—
`सहकारिवैकल्यात्तु निर्विकल्पके समवायाग्रहरणम्’ इति।
तथा च समवायोऽपि कुतो निर्विकल्पके न भासत इति चोद्यस्य नावसरः।
यदपि भिन्नसामग्रीवेद्यत्वमुपाधिरित्युक्तम्। तत्रेदं वक्तब्यम्। अनुमितिशाब्दादौ साध्यप्रसिद्ध्यादेः काररणतया `यद्विशेषयोः’ इति न्यायेन विशिष्टज्ञानत्वावच्छिन्नं प्रति विशेषरणज्ञानत्वावच्छिन्नं काररणमिति सामान्यकार्यकाररणभावस्य सिद्धौ एकसामग्रीवेद्येष्वपि विशेषरणज्ञानकल्पेन तज्जन्यैव विशिष्टबुद्धिः। तथा च भिन्नसामग्रीवेद्यत्वस्य साध्यव्धापकत्वभङ्गात् उपाधित्वं न संभवतीति मरणिकृतामाशयः इतिः।
निर्विकल्पके योगदर्शनसंमतिः
योगदर्शनेऽपि समाधिर्निर्विकल्पकसविकल्पकभेदेन द्विविध इति निरूपरणात् निर्विकल्पकज्ञानमङ्गीकृतम्।
यत्तु भर्तृहरिरणा—
`न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते॥’
इति सर्वं विज्ञानं शब्दानुविद्धार्थविषयकमिति वदता निर्विकल्पकमप्रामारिणकमित्युक्तम्। तन्न। न हि सर्वत्र ज्ञाने शब्दानुविद्धत्वमर्थस्य भासत इति समर्थयितुं शक्यम्। बालमूकादि विज्ञानेषु तदसम्भवात्। अन्यथा व्युत्पत्तिमन्तरेरणापि तेषां तत्तद्वाचकपरिज्ञानप्रसङ्गात्। अयं च विषयो विस्तरेरण परामृष्टः सर्वार्थसिद्धौ।
निर्विकल्पकविषयविवेचनम्
अत्रेदं तत्त्वम्। विशेषरणज्ञानत्वेन सिध्यदपि निर्विकल्पकं न विशेषरणभूतघटत्वादिमात्रं विषयीकरोति। अपि तु विशेष्यं घटादिकं समवायरूपं संबन्धं च विषयीकरोति। तथा च निर्विकल्पके घटः घटत्वं समवायश्चेति त्रितयं विषयः। त्रिष्वपि इन्द्रियसंनिकर्षस्य सद्भावेन घटत्वमात्रं विषय इत्यत्र नियामकाभावात्। परं तु त्रितयमपि विशकलिततया भासते। प्रकारविशेष्यभावो नास्ति। अतस्तत्र प्रकारताशून्यत्वं विशेष्यताशून्यत्वं संसर्गताशून्यत्वं च निर्विकल्पकस्य लक्षरणं ब्रुवते नवीनतमा नैयायिकाः।
तर्कताण्डवप्रदर्शितानि निर्विकल्पकदूषरणनि’(28)
मरिणकारानन्तरकालिकाः द्वैताचार्याः व्यासतीर्थश्रीचररणाः मरिणग्रन्थं तत्र तत्र दूषयन्ति तर्कताण्डवग्रन्थे। निर्विकल्पकविषयेऽपि मरिणग्रन्थस्य परामर्शं कृतवन्तः। विशिष्टाद्वैतिन इव द्वैतिनोऽपि भवन्ति। निर्विकल्पकसिद्धौ तेन निर्विशेषं ब्रह्म सिध्येदिति बिभ्यतः द्वैतिनो विशिष्टाद्वैतिनश्च निर्विकल्पकदूषरणे आदरं विभ्रतीति तु तत्त्वम्। तत्राधुना तर्कताण्डवोक्तानि निर्विकल्पकदूषरणानि विमृशामः। यथाशक्ति दूषरणानां समाधानं च प्रदर्शयामः।
प्रथमं दूषरणम्
यदुक्तं मरणौ साध्यात्मकविशेषरणज्ञानरूपायाः साध्यप्रसिद्धैः अनुमिति प्रति हेतुतया यद्विशेषयोरिति न्यायेन विशिष्टज्ञानसामान्यं प्रति विशेषरणज्ञानं हेतुरिति कार्यकाररणभावमवलम्ब्य निर्विकल्पकं साध्यत इति तन्न। सति व्याप्तिज्ञाने साध्यप्रसिद्धिं विनाप्यनुमित्युदयेन साध्यज्ञानस्यानुमिति प्रति हेतुत्वाभावेन यद्विशेषयोरिति न्यायानवकाशात्। न च साध्यज्ञानाभावे व्याप्तिज्ञानमेव नोदियादिति वाच्यम्। तर्हि अनुमितिहेतुव्याप्तिज्ञानहेतुः साध्यप्रसिद्धिरित्यायाति। तता च व्याप्तिज्ञानादिना अन्यथासिद्धायाः साध्यप्रसिद्धेरनुमितिहेतुत्वाभावादिति प्रथमं दूषरणम्।
तत्समाधानम्
नेदमपूर्वं दूषरणम्। तत्त्वचिन्तामरिणप्रकाशकारै रुचिदत्तमिश्रैरस्य दोषस्य सूचितत्वात्। अत एवास्वारस्यान्मरणौ पदार्थोपस्थितिवाच्यज्ञानतत्तानुभवानां विशिष्टज्ञानहेतुत्वं निदर्शितम्। तथा च तदूदृष्टान्तेन विशेषरणज्ञानस्य हेतुत्वसिद्धेः को निवारयिता?
द्वितीयदूषरणम्
अस्तु वा साध्यप्रसिद्धिरनुमितिहेतुः। तथापि वह्निमानित्यनुमिति प्रति वह्निज्ञानस्य न विशेषरणज्ञानत्वेन हेतुता। द्रव्यत्वेन वह्न्यवगाहिनि द्रव्यमित्याकारकज्ञानेऽपि विशेषरणज्ञानत्वसत्त्वेन तस्य वह्निमानित्यनुमिति प्रति हेतुत्वाभावात्। अतो विह्निज्ञानस्य विशेषरणतावच्छेदकप्रकाराकज्ञानत्वेनैव अनुमिति प्रति हेतुता वाच्या। तथा च साध्यप्रसिद्धिदृष्टान्तेन सप्रकारकज्ञानमेव सिध्येत् न निर्विकल्पकमिति द्वितीयं दूषरणम्।
तत्परिहारः
अयं दोषो मरणावेवोत्थाप्य विशिष्टवैशिष्ट्यावगाहिज्ञाने विशेषरणतावच्छेदकप्रकारकज्ञानं हेतुः, विशिष्टज्ञानं प्रति तु विशेषरणज्ञानमेव हेतुः। प्रत्यभिज्ञारूपे तत्ताविशिष्टज्ञाने तत्तानुभवस्य कारणत्वानुरोधात् इति पर्यहारि।
तृतीयदूषरणम्
किं च यद्विशेषयोः कार्यकारणभावः स तत्सामान्ययोरपीति न्यायेन निर्विकल्पकसाधनं न युक्तम्। तथा सति करणविशेषरूपलिङ्गज्ञानस्यानुमितिरूपज्ञानविशेषं प्रति हेतुत्वात् यद्विशेषयोरिति न्यायेन जन्यज्ञानसामान्यं प्रति करणसामान्यज्ञानं हेतुः स्यात्। तथा च प्रत्यक्षं प्रत्यपिर चक्षुरादिकररणविषयकं ज्ञानमेव काररणं स्यादिति तृतीयं दूषरणमभ्यधायि ताण्डवकारैः।
तत्समाधानम्
अत्राभिदध्महे। यतश्चक्षुरादिज्ञानमन्तरेरणापि स्वरूपसता चक्षुरादिना प्रत्यक्षं जायते अत एव व्यतिरेकव्यभिचारात् जन्यज्ञानसामान्यं प्रति कररणज्ञानं काररणमिति कार्यकारणभावो न संभवति। तथा च असति बाधके यद्विशेषयोः कार्यकारणाभावः स तत्सामान्ययोः इत्येव न्यायः। उक्तस्थले च व्यतिरेकव्यभिचाररूपबाधकसद्भावान्न भवदुक्तकार्यकाररणभावः कल्प्यते। अतो नोक्तापत्तिः संभवति। विशिष्टबुद्धौ विशेषरणज्ञानस्य कारणत्वे तु न किमपि व्यभिचारादिरूपं बाधकं दरीदृश्यते। अतो न दोष इति।
अन्यानि दूषरणान्यपि मरणौ प्रकाशे च कानिचित् स्वयमेवोद्भाव्य परिहृतानि, अन्यानि च मरिणदीधित्यादिग्रन्थाभ्यासजनितवासनावासितान्तः कररणानां सुलभसमाधेयानि चेति एतावतायं विषयः समाप्यते॥
———–************————

]