[[नामान्थविवेचनम् Source: EB]]
[
नामान्थविवेचनम्
(लेखकः—-एन्. एस्. रामानुजताताचार्यः, रीडन्, केन्द्रीयसंस्कृतविद्यापीठम्. तिरुपतिः)
[अस्मिन् लघुनिबन्धे न्याय—मीमांसा–व्याकरणशास्त्रेषु सूत्रभाष्यादिग्रन्थेषु नामार्थविषये निर्धारणार्थ या या युक्तयः प्रोक्ताः तासां संकलनं कृत्वा अन्ते युक्तायुक्तविवेचनं कृतम्]
नैयायिकमतसंग्रहः
आदौ नैयायिकमतमुपन्यस्यते। नामपदेन सुबन्तं प्रातिपदिकमुच्यते। तस्य प्रातिपदकस्यार्थः कः? किं व्यक्तिः? किं वा अवयवसंयोगविशेषरूपा आकृतिः? अथवा जातिरिति संदेहः। संदेहस्य कारणं तु अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौरिति शब्दः प्रयुज्यते। तत्र न ज्ञायते किं तासामन्यतमः शब्दार्थः? अथवा ताः तिस्रोऽपि? इति। तत्र व्यक्तिवादी आह–शब्दप्रयोगसामर्थ्याद्धि पदार्थो निश्चेतव्यः। शब्दप्रयोगश्च व्यक्तिमुद्दिश्यैव भवति। तथा हि या गौर्निषण्णा इति गोशब्दार्थस्य स्थित्यादीनि विशेषणानि दीयन्ते। जातेः शब्दार्थत्वे तस्या एकत्वात् विशेषणमनुपपन्नम्। व्यावर्तनीयान्तराभावात्। व्यक्तेः पदार्थत्वे तु या गोव्यक्ति र्न तिष्ठते तद्व्यावर्तनार्थ तिष्ठतीति विशेषणमिति सङ्गच्छते। एवं गौर्वधते, अपचीयते, गां ददाति, प्रतिगृह्णाति इत्यादौ वृद्धिदानादिक्रियासम्बन्धः व्यक्तेरेव भवति न तु जातेः। गौः शुक्ला कपिला इत्यादौ शुक्लादिगुणसम्बन्धः व्यक्तेरेवोपपद्यते। एवं गोत्वजातेरेकत्वात् एकत्वातिरिक्तसंख्यावत्वं तस्या नास्तीति विशतिर्गाव इत्यादि वाक्यार्थबोधो न भवति जातेः पदार्थत्वे। एवं गोसुख मित्यादिसमासे सुखाद्यन्वयो गोव्यक्तेरेव श्लिष्यते। गौर्गां जनयतीत्यादौ जन्मान्वयः गोव्यक्तेः न गोत्वजातेः तस्मात् व्यक्तिरेव पदार्थ इति।
आकृतिवादी तु प्राह—न व्यक्तिः पदार्थः, अयं गौः, अयमश्वः, इति प्राणिनां या व्यवस्था स अवयवसंयोगरूपाकृतिमपेक्ष्य हि भवति। तस्मात् आकृतिः पदार्थ इति। जातिवादी तु न व्यक्तिः नाप्याकृतिः पदार्थः तासामानन्त्येन तत्र शक्तिग्रहासम्भवात्। अपि च मृद्गवके व्यक्तेराकृतेश्च सद्भावेऽपि `गां प्रोक्षय, गामनये’ त्यादिवाक्योक्तप्रोक्षणानयनादिकं न क्रियते। व्यक्तिवादे आकृतिवादे च तत्रापि प्रसङ्गः। जातेः पदर्थत्वे तु मृद्गवके गोत्वजात्यभावात् न प्रोक्षणादिकमिति।
परन्तु जातिपक्षेऽपि अगृह्यमाणायां व्यक्तावाकृतौ च जातेरग्रहात् जातिज्ञानस्य व्यक्त्याकृतिविषयकत्वनियमात् जातिमात्रं न पदवाच्यं भवितुमर्हतीत्याक्षेपौ वर्तते। अतः कः पदार्थ इति जिज्ञासायामुक्तं सूत्रकारेण " व्यक्त्याकृतिजातयस्तु पदराथः’ (न्या सू) अस्यैवं व्याख्यानम्—त्रिष्वेका शक्तिरिति सूचनाय पदार्थ इत्येकवचनम्। कदाचित् व्यक्तेः प्राधान्यम्, कदाचिदाकृतेः, कदाचिज्जातेः इति प्राधान्यानुसारेण पदार्थत्वमिति विशेषसूचनाय तु शब्दः। यदा भेदविवक्षा व्यक्तिविशेषावगतिश्च गौस्तिष्ठति गौर्निषण्णेति तदा व्यक्तिः पदार्थः अङ्गे जात्याकृती। यदा तु भेदोऽविवक्षितः पदार्थः अङ्गे जात्याकृती। यदा तु भेदोऽविवक्षितः सामान्यवगतिश्च तदा जातिः पदार्थ, यथा गौ र्न पदा स्प्रष्टव्येत्यादौ। पिष्टकमप्योगाव क्रियन्तामित्यादौ आकृतेः पदार्थत्वमिति।
एवमपि लाघवात् जातावेव शक्तिरस्तु, इतरयो र्लक्षणयैव बोध भवतु इति शङ्का जायते। अत्रोक्तं तात्पर्यटी कायां—गोशब्दश्रवणानन्तरं विदितसंगतेः पुरुषस्य एककाले व्यक्त्याकृतिजातीनां बोधो भवति। न पुन र्यथा गङ्गायां घोषः प्रतिवसतीत्यत्र वा गौर्वाहीक इत्यत्र वा गङ्गात्वगोत्वावगमोत्रं वाक्यार्थे तत्सम्बन्धानुपपत्तेः तदविनाभावेन वा लक्ष्यमाणगुणयोगेन वा तीरं वाहीको वावगम्यते तथेहावगतिः। अपितु युगपदेवावगतिः। अतोऽवगतिरूपेण कार्येण कल्पनीया पदशक्तिस्त्रिषु पदार्थेषु विश्राम्यति, त्रयाणामेककालावगत्यविशेषणात् इति। इयं प्राचीन न्यायग्रन्थरीतिः।
नव्यनैयायिकास्त घटादिपदात् घटत्वघटाकृति प्रकारतव्यक्तिविशेष्यकबोधोदयात् जात्याकृतिविशिष्टव्यक्तौ घटादि पदानां शक्तिः आत्मादावाकृत्यभावात् जातिविशिष्टव्यक्तौ शक्ति। आकाशादि पदानामुपाधिविशिष्टशक्तिः आकाशत्वजात्यभावात्। तत्रापि घटत्वादेः शक्यत्वे सति शक्यतावच्छेदकत्वमप्यङ्गीक्रियते। अवयवसंयोगविशेषरूपाकृतेः शक्यत्वे अपि शक्यतावच्छेदकत्वं चाङ्गीक्रियते। जातेरिव साक्षात्सम्बन्धेन शक्यव्यक्त्यवृत्तित्वात्। इत्याहुः।
अन्ये तु संख्थानानुपस्थितावपि गोत्वादिना गवाद्यन्वयबोधात् जातिविशिष्टव्यक्तावेव गवादिपदानां शक्तिः। संस्थाने च पृथगेव शक्तिरित्याहुः। परंतु अस्मिन् पक्षे सूत्रस्थमेकवचनमस्वरसं भवति।
अत्र प्राचीनमतं प्राचीनवैयाकरणमतेन संवदते। नव्यमतं तु नव्यवैयाकरणमतेनेति वैयाकरणमतप्रक्रिया वर्णनावसरे स्फुटीभविष्यति।
तन्त्रवार्तिके आकृत्यधिकरणे गोशब्दस्यार्थः कि माकृतिरेव, व्यक्तिरेव, उताकृतिर्वा, व्यक्तिर्वा, अथाकृतिश्च व्यक्तिश्च किमुभयोस्सम्बन्धः उत समुदायः किमाकृतिविशिष्टा व्यक्तिः उत व्यक्ति विशिष्टा आकृतिरित्यादिनां शताधिकाच् पक्षानुपन्यस्य—
अत्र चाकृतिरेवेति दृढः पक्षोऽयमेकतः।
इतरे त्वन्यतः सर्वे व्यक्तिपक्षानुशायिनः॥
व्यक्तौ निराकृतायां च समस्तानां निराक्रिया।
सुलभेति न सर्वेऽमी भाष्यकारेण दर्शिताः॥
न चैतस्मान्न सन्त्येव न चैते निष्प्रयोजनाः।
विकल्पिता हि जिज्ञासोः प्रज्ञाविकासनक्षमाः॥
दर्शितेष्वपि सर्वेषु विचारः क्रियते द्वयोः।
का शब्देनाकृतिव्यक्त्योरुच्यते कानुगम्यते॥
इत्यादिना आकृतिः पदार्थः इत्येकः पक्षः। अन्ये पक्षाः व्यक्तिपक्षविततिरूपा एव। अतः किमाकृतिः पदार्थः उत व्यक्तिरित्येव विचारणीयमित्युक्तम्। अत्राकृति शब्देन नावयवसंस्थानमुच्यते, वाय्वाक्राशात्मादिषु गुणकर्मादिषु च तदभावात्। अपितु नित्या एका अनेकानुगता जातिः आकृतिपदे नोच्यते। तथा च भाष्यम्—-`द्रव्यगुणकर्माणां सामान्यमात्रमाकृतिः। असाधारणविशेषा व्यक्तिः" इति। असाधारणा विशेषा यस्यां सेत्यर्थः। तत्र किमाकृतिः पदार्थः किं वा व्यक्तिरिति जिज्ञासायां अमूर्तायां नित्यायां च जातौ `व्रीहिनवहन्ति’ `पशुं संतपयति’ इत्यादि चोदना चोदिता नामहननादिकार्याणां विनाशिमूर्तिमद्विषयकानासम्भवात् क्रियान्वययोग्यव्यक्तेः पदार्थत्वमेव युक्तम्। एवं `ब्राह्मणो न हन्तव्यः’ `न कलञ्जं भक्षयेत्’ इत्यादि प्रतिषेधविधानमपि प्राप्तिसापेक्षत्वात् प्रतिषेधस्य व्यक्त हननादिप्राप्तिसंभवात् जातौ तदसंभवात् असत्यां प्राप्तौ अनर्थकमेव स्यात्। एवं जातेः एकत्वेन तस्यां एकत्वातिरिक्तसंख्यान्वयः अलिङ्गत्वेन `पशुना यजेत’ इत्यादौ `पुंस्त्वादि लिगान्वयः क्रियाजन्यफलाश्रयत्वरूपकर्मत्वादिकारकत्वासंभवेन `गां दद्यात्’ इत्यादि द्वितीयादिविभक्त्यार्थकारकत्वान्वयश्च न संभवतीति न जातिः पदार्थः। व्यक्तौ तु सर्वमिदं संभवतीति व्यक्तिरेव पदार्थः। किं च `अरुणया पिंगाक्ष्या गवा’ इत्यादि वाक्येषु श्रुतानामारुण्यादिगुणानां व्यक्तावेव संभवात् व्यक्ति रेव गवादिशब्दार्थः। तदुक्तम्—
न हि गोत्वाकृतिः शुक्ला नारुणा चापि षड्गुणा।
व्यक्तिस्त्वेवंगुणा तस्माद्व्यक्तेरेवाभिधेयता॥
इति। अपि च `यदि पशुरूपाकृतः पलायेतान्यं तद्वर्णं तद्वयसमालभेत’ इति श्रूयते। यदि पशुशब्दोऽत्राकृति वाचकः स्यात् तर्हि तस्याः एकत्वात् अन्यं पशुमिति निर्दशो नोपपद्यते। यदि व्यक्तिवाचित्वं गवादि शब्दानां तर्हि आकृतिबोधः कथमिति चेत्—-अत्रोक्तं अविभागात् इति। जातिव्यक्त्योर्भेदाभेदस्वीकारात् व्यक्तिरबिहिता सती स्वामिन्नां जातिमप्यवगमयतीति अथवा गोपदश्रवणानन्तरं गोत्वविशिष्टव्यक्तिविषयक शाब्दबोधोदयात् गोपदशक्तिज्ञानस्य गोव्यक्तिमात्र विषयकस्य कार्यतावच्छेदकं गोत्वविशिष्टव्यक्ति विषयकशाब्दबोधत्वमिति कल्पनात् न जातिबोधानुपपत्तिः। अस्मिन् पक्षे अविभागादित्यस्य कार्यतावच्छेदकैक्यादित्यर्थः। अतो व्यक्तिरेव पदार्थ इति पूर्वपक्षे—-
सिद्धान्तितम्—–आकृतिस्तु क्रियार्थत्वादिति। अस्यायं भावः न गवादयः शब्दाः व्यक्तिवाचकाः। तथा हि सति किं सकलव्यक्तिवाचकाः किं वा एकव्यक्तिवाचकाः? नाद्य। व्यक्तीनामानन्त्येन शक्यभेदात् अनन्तशक्तिकल्पनापत्ते। न च गवादिशब्दानां नोत्वादिजात्युपलक्षितव्यक्तौ शक्तिः; उपलक्षणभूतायाः जातेरेकत्वात् शक्तेरेकत्वमिति वाच्यम्। न ह्युपलक्षणैक्यं शक्त्येकत्वनियामकम्। यत्र सैन्धवपदवाच्याः लवणाश्वादयः एकस्मिन्नपवरके स्थिताः तत्र यदा एकापवरकस्थितत्वोपलक्षितेषु लवणाश्वादिषु सैन्धवपदशक्तिग्रहः तदा उपलक्षणीभूतस्य एकापवरकस्थितत्वस्यैकत्वेऽपि शक्तेरेकत्वाभावात्। शक्यतावच्छेदकलणत्वादिभेदेन शक्तिभेदस्यैवाङ्गीकारात् यदि तूपलक्षणीभूतायाः जातेः शक्यतावच्छेदकत्वमपि स्वीकृत्य तदेकत्वात् शक्यतेकत्व मित्युच्येत तदापि शक्यमूतव्यक्तेर्भेदात् शक्तितनानान्वमावश्यकम्। न हि नानाव्यक्तिषु एका शक्तिः सम्भवति।
किं च शब्दाः व्यक्तिवाचकाः इति यो वदति तेनापि जातिः शब्दादवश्यं भासत इत्यङ्गीकार्यम्। अन्यथा `श्येनचितं चिन्वीत’ इति विधिवाक्यार्था नुपपत्तिः। तथा हि श्येतश्चित इत्यस्मिन्नर्थे `कर्मण्यग्न्याख्यायाम्’ (पा.सू.3-2-12) इति सूत्रेण कर्मवाचके शब्दे उपपदे कर्मण्यर्थे चिधातो। क्विप् इत्यर्थकेन कर्मवाचके श्येनशब्दे उपपदे अग्न्याधारस्थलविशेषस्याख्यायां चिधातोः क्विप्प्रत्ययेन श्येनचिच्छब्दो निष्पद्यते। इष्टकाचयनेन श्येनं संपादये दिति वाक्यार्थः संपद्यते। तत्र श्येनव्यक्तेर्वा श्येनत्वजातेर्वा इष्टकाभिः कर्तुमशक्यतया श्येनशब्दस्य सदृशलक्षणमा स्येनसदृशं चयनेन सम्पादयेदिति बाक्यार्थो वर्णनीयः। तत्रापि सादृश्यं वा स्यात् सर्वव्यक्तिसादृश्यं वा। कया एकव्यक्त्या इति विनिगमनाविरहात् अनिर्धारितस्वरूपव्यक्तिसादृश्यस्येष्टकाभिः सम्पादयितुमशक्यत्वाच्च प्रथमपक्षो न युक्तः। सर्वव्यक्तीनां परस्परविलक्षणत्वात् अग्रहणाच्च तावत्सादृश्यमेकत्रेष्ठकाभिः सम्पादयितु मशक्यमिति द्वितीयपक्षोऽप्ययुक्तः। अतः श्येनत्वजातीयं संपादये दित्येव वाक्यार्थो लक्षणया वक्त्व्य इति अवश्यं जातिरपि श्येनशब्दात् प्रतीयत इत्यङ्गीकरणीयम्। अतश्च प्रथमोपस्थितत्वाल्लाघवाच्च जातेरेव शक्तिविषयकत्वकल्पनं युक्तम्। न त्वनन्तानां व्यक्तीनामनुपस्थिततत्वात् गौरवाच्चेति।
ननु यदि चातेरेव पदशक्या तर्हि व्यक्तिबोधः कथ मिति चेत्—अत्राहुर्भाष्यवार्तिककारादयः प्राचीनाः जातेर्व्यक्त्या सह `इह गोत्वम्’ इत्यादि व्यधिकरण प्रतीतिबलाद्भेदवत् `इयं गौः’ इति सामानाधिकरणप्रतीतिबलादभेदस्यापप्यङ्गीकारात् जातिशक्तिज्ञानमेव जात्यभिन्नव्यक्तिबोधमपि जनयतीति।
अन्ये तु—जातौ विद्यमाना या पदशक्तिः स विषयतासम्बन्धेन जातावस्ति; उद्देश्यतासम्बन्धेन व्यक्तावस्ति, व्यतिप्रतीतिमुद्दिश्यैव शब्दप्रयोगात् यथा वा `यजेत स्वर्गकामः’ इत्यत्र एकैव कृति विषयतासम्बन्धेन यागेन उद्देश्यतासम्बन्धेन स्वर्गेण च सम्बध्यमाना उभयोर्यागयोरुत्पादिका एवमेव घटपदशक्तिः विषयतासम्बन्धेन घटत्वेन उद्देश्यत सम्बन्धेन घटेन च सम्बध्यमाना घटत्वं घटं प्रत्याययति। अतः यथा कृतेः कार्यतावच्छेदकं यागत स्वर्गत्वं च तथा शक्तिज्ञानस्य कार्यतावच्छेदकं जाति बोधत्व व्यक्तिबोधत्व च तस्मान्न काचिदनुपपत्ति रित्याहुः।
अपरे तु कार्यतावच्छेदकभेदे प्रमाणाभावात् इदमयुक्तम्। कृतिस्थले हि उत्पाद्यो यागः स्वर्गश्च विलक्षणाविति कार्यतावच्छेदकभेदो युज्यते। अत्र तु गवादिपदात् गोत्वविशिष्टव्यक्तिबोध एक एवेति कार्यतावच्छेदकभेदो न युक्तः। किन्तु जातिशक्तिज्ञानस्य जातिविशिष्टशक्तिविषयकज्ञानत्वं कार्यतावच्छेदकम्। अतो व्यक्तिबोध उपपद्यत इत्याहुः।
परन्त्वत्र मतेऽपि `अरुणया पिङ्गाक्ष्या गवा’ इत्यादौ अरुणापदात् आरुण्यविशिष्टव्यक्तिबोधे सित तस्या एव क्रयेऽन्वयेन अनुपपत्यभावात् अरुणाधिकरुणोत्थितिरेवन स्यात्। अतो लक्षणयैव व्यक्तिबोध इति खण्डदेवभट्टाचार्याः निरूपयन्ति कौस्तुभे। एवं जातिवाचित्वे, पदानां निश्चिते अवहननाद्यन्वयः लक्षितव्यक्तिमादायोपपादनीय इति मीमांसकमतसारः।
वैयाकरणमतम्
सरूपाणामेकशेष एकविभक्तौ (पा.सू.1-2-64) इति सूत्रे आकृत्यभिधानाद्वा एकं विभक्तौ वाजप्यायनः’ इति वार्तिकम्। जातिः शब्दार्थः तस्या एकत्वात् अनेकशब्दप्रयोगप्रसङ्गः एव नास्ति, किमेक शेषेणेति तदर्थः। ततः द्रव्यातिरिक्ता जातिरेव नास्ति, अनुपलक्ष्यादित्याशङ्कायामुक्तं `प्रख्याविशेषात्’ इति। गुणपरिणामादिभ्यः भिन्नेष्वपि गोपिण्डेषु गौर्गौरित्येकाकारप्रतीत्युदयात् अवश्यमेकेन सामान्येनालम्बनेन भाव्यमिति जातिस्तस्या एकत्वं चावगम्यत इत्यर्थः। अस्त्वनुगतप्रतीत्या जातिसिद्धिः। जातेः शब्दवाच्यत्वं कुत इति शङ्कायां उक्तम् `अव्यपवर्गगतेश्च इति। विशेषानवगतिपूर्वकं सामान्यस्य शब्दतोऽवगतिः अवय्पवर्गगतिः। गौरित्युक्ते गो सामान्यं हि प्रतीयते न तु व्यक्तिः। तस्या विशेषरूपत्वेन गोशब्दात् अविशेषितात् विसेषानवगमात्। `ब्राह्मणो न हन्तव्यः’ सुरा न पेया’ इत्यादि धर्मशास्त्र मपि जातिमेव विषयीकरोति। ब्राह्माणमात्रं च न हन्यते सुरामात्रं च न पीयते। यदि व्यक्तिः पदार्थः स्यात् तदा एकं ब्राह्मणमहत्वा एकां च सुरामपीत्वा अन्यत्र कामचारः स्यात्। एकः क एति चेत् यो यस्य तद्वाक्यश्रवणकाले बुद्धिस्थः स एव। अथ—-`द्रव्याभिधानं व्याडिः’ इत्यादिना व्यक्तिरेव पदार्थः न जातिरिति पक्षान्तरमुक्तम्। वृत्तिविकल्पासम्भवेन जातेरेवासद्भावः। तथाहि—-जाति र्न तावत् द्रव्येषु व्यासज्यवृत्तिः, एकाश्रयनाशेऽप्रतीत्यापत्तेः। नाप्यव्यसज्यवृत्तिः, जातेर्निरवयवत्वात्। तस्मात् तत्तत्संस्थानाद्युपलक्षितं द्रव्यमेव पदार्थ इति व्याडेराशयः। किं च लिङ्कसंख्याकारकक्रियादीनामपि व्यक्तावेवान्वयः सम्भवतीति व्यक्तिरेव पदार्थः।
ततो भाष्यकारैः जातेः सर्वगतत्वेऽपि पदार्थानां विचित्रशक्तियोगात् कश्चित् पदार्थः कांचिदेव जातिमभिव्यनक्ति इति नाश्वादौ गोत्वप्रतीतिः। एक गोव्यक्तिनाशेऽपि गोव्यक्त्यन्तरात् गोत्वाभिव्यक्तिरुपपद्यते। लिङ्गसंख्यादीनामपि एकार्थसमवायसम्बन्धेन जातौ अन्वयान्न दोषः इत्यादि युक्तिकथनपूर्वकं जातिपक्षः समर्थितः। ततः न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः। द्रव्यपदार्थकस्य वा आकृति र्न पदार्थ उभयोरुभयं पदार्थः। कस्यचित् किंचित् प्रधानभूतम्। आकृतिपदार्थकस्य आकृतिः प्रधानभूताद्रव्यं गुणभूतम्। द्रव्यपदार्थकस्य द्रव्यं प्रधानभूतमाकृतिः गुणभूता इति भाष्यकारैर्द्वयोरपि पदार्थत्वं प्रत्यपादि। पस्पशाह्निके अपि लक्ष्यानुसारेण आकृतेर्व्यक्तेश्चोभयोरपि पदार्थत्वमावश्यकमिति समर्थितम्।
भूषणसारे—
एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा।
नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः॥
इत्युक्तम्। जातिरेव पदार्थः व्यक्तिरेव पदार्थः इति एकमित्यनेन विवक्षितम्। जातिर्व्यक्तिश्च द्विकं पदार्थ इति द्वितीयपक्षः। जातिरव्यक्तिः लिङ्गं चेति त्रिकं प्रातिपदिकार्थः इति तृतीयपक्षः। जातिव्यक्तिलिङ्गसंख्याचतुष्कं प्रातिपदिकार्थ इति चतुर्थपक्षः। जातिव्यक्तिलिङ्गसंख्याकारकपञ्चकं नामार्थ इति पञ्चमः पक्षः। तत्र जातिव्यक्त्योः पदार्थत्वे पूर्वोक्ता युक्तय एव प्रायेगोक्ताः। संख्यादित्रिकस्य नामार्थत्वे प्रत्ययकानां द्योतकत्वामङ्गीकरणायम्। प्रत्ययानां वाचकत्वपक्षे तु संख्यादि त्रिकस्य न नामार्थत्वमित्युक्तम्। संख्यादित्रिकस्य नामार्थत्वे वैयाकरणानां नैर्भर्य नास्तीत्येव तेनावगम्यते। वाक्यपदीयेऽपि—–`द्योतिका वाचिका वा स्युर्दित्वादीनां विभक्तयः।’ इत्यनास्थायां वाकारप्रयोगेणेदमेव समसूचि। `वस्तुतस्तु न हयाकृतिपदार्थकस्य द्रव्यं न पदार्थः इति भाष्यात् विशिष्टं वाच्यं’ इति वद्भिर्भूषणसारकारैः जातिविरिष्टव्यक्तौ शक्तिरिति नव्यनैयायिकमतमेव सिद्धान्नत्वेन स्वीकृतमिति वैयाकरणानां नैयायिकानां च नातीव विवाद इति निर्णीयते।
त्रये केवलव्यक्तिरेव पदार्थ इति वादिनः न्यायसूत्रादिषु निर्दिष्ठाः ये च केवलजातिः पदार्थ इति वादिनो मीमासकाः तेषां मते युक्तभावे निरूपिते सति नैयायिकमतं समर्थितं भवति। अस्तदि दानीं विमृश्यते।
ततः प्राक् इदमत्र सूक्ष्मेक्षिकमा अवलोकनेनावगम्यते; यत् न्यायदर्शने जात्याकृतिव्यक्तीनां त्रयणां पदार्थत्वविषयको विचारः प्रवर्तितः, मीमांसायां व्याकरणे च जातिव्यक्त्योः पदार्थत्वमेव चिन्तितम्। अवयवसंयोगविशेषरूपाकृतेः पादार्थत्वप्रस्ताव एव न कृतः। तत्रेदं कारणं स्यात् आकृतेरपि व्यक्तिवत् नानात्वात् वय्क्तिपक्षे यद्दूषणं भूषणं वा तत्सर्वमाकृतिपक्षेऽपि समानमिति अवयवसंस्थानरूपाकृतिपक्ष उपेक्षित इति। अपि च न्यायभाष्यव्याकरणभाष्ययोः सामानाभिप्रायो लक्ष्यते—-
न्यायभाष्यम्
जात्यकृतिव्यक्तमस्तु पदार्थः
(न्या.सू.)
`तु शब्दो विशेषणार्थः। किं विशिष्यते?’
प्रधानाङ्गभावस्यानियमेन पदार्थत्वमिति।
यदा हि भेदविवक्षा विशेषावगतिश्च
तदा व्यक्तिः प्रधानामङ्गं जात्याकृती।
यदा तु भेदोऽविवक्षितः सामान्यगतिश्च
तदा जातिः प्रधानं, अङ्गं तु व्यक्त्याकृती।
व्याकरणाभाष्यम्
(सरूपसूत्रे)
`न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः।
द्रव्यपदार्थकस्य वा आकृति र्न पदार्थः
उभयोरुभयं पदार्थः। कस्यचित् किञ्चित्
प्रधानभूतम्। आकृतिपदार्थकस्य आकृतिः
प्रधानभूता द्रव्यं गुणभूतम्।
द्रव्यपदार्थकस्य द्रव्यं प्रधानभूतमाकृतिर्गुणभूता।’
नैयायिकमतस्य समर्थनम्
कैवलव्यक्तिशक्तिवादे अनिर्धारितयत्किंचिद्व्यक्तेः शक्यत्वे का व्यक्तिः शक्येत्यनिश्चयेन `गांदद्यात्’ इत्यादि वाक्यात् प्रवृत्ति र्न स्यात्। सर्वस्याः तत्तद्रूपेण प्रत्येकं शक्यत्वे यत्र शक्तिग्रहः तस्या एव शाब्दबोधः स्यात् अन्यस्यां तु शक्तयग्रहात् बोधो न स्यात्। सर्वत्वेन सर्वास्वपि व्यक्तिषु शक्तिस्वीकारे गामिति पदेन सर्वगोव्यक्तीनामुपस्थित्या सर्वासामपि दानकर्मत्वं बोध्येत । तत्तु अशक्यानुष्ठानमिति अननुष्ठानलक्षणप्रामाण्यं स्यात्। अपि च नीलो गौरित्यत्र द्वयोरपि पदयोर्व्यक्तिशक्तत्वेन पर्यायतया सह प्रयोगो न स्यात्। किं च हस्तिपकान्तरे हस्तिपकपशक्तिग्रहात् यत्र हस्तिपके शक्तिः न गृहीता तस्यापि हस्तिदर्शनात् स्मरणप्रसङ्गवारणाय तद्व्यक्तिविषयो कोपस्थितं प्रति तद्व्यक्तिविषयकसम्बन्धज्ञानं कारणमिति कार्यकारणभावस्य वक्तव्यतया एकव्यक्तिविषयकशक्ति ज्ञानात् अपूर्वव्यक्त्यन्तरविषयकोपस्थितिशाब्दबोधौ न स्याताम् इत्यनुपपत्तयो विराजन्ते।
केवलजातिशक्तिवादे व्यक्तेर्लक्षणया बोधो वाच्यः। लक्षणा च न सम्भवतीति पूर्वमेव नैयायिक मतप्रस्तावावसरे वाचस्पतिग्रन्थप्रदर्शनपूर्वकमुपपादितम्। अपि च गङ्ग9ात्वादिरूपात् वाच्यार्थादन्येन तीरत्वादिरूपेणोपस्थित एव तीरादौ गङ्गापदस्य लक्षणा दृष्टा। शक्यतावच्छेदकातिरिक्तधर्मान्तरावच्छिन्न एव लक्षणेति यावत्। न चात्र जातिं विना रूपान्तरेण व्यक्तिरुपस्थिता’ गौरिति प्रतीत्या जाति व्यक्त्योरेवोल्लेखात्। अतो व्यक्तौ लक्षणा दुरुपपादा।
यत्तु भट्टारदीपिकायाम्—प्रथमोपस्थितत्वाज्जाता वेव शक्तिरिति। तद्विपरीतम्। आश्रयप्रतीतिमन्तराजातिगुणयोरेवाप्रतीतेः व्यक्तिर्हि प्रथमतो ज्ञायते। ततो व्यक्तिगतव्यञ्जकाकृतिविशेषदर्शनानन्तरं व्यङ्ग्यायाः जातेः प्रतीतिरित्यनुभवसिद्धम्। किं च संयुक्तसमवेतविषयकचाक्षुषं प्रति चक्षुस्संयुक्तसमवायः कारणम्। तस्य च संयोगपूर्वकत्वात् द्रव्यचाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयोगस्य कारणतया जात्यादिप्रत्ययात् प्राक् सामग्रीवशाज्जायमानं द्रव्यप्रत्यक्षं नापलपितुं शक्यम्।
ननु अयं दण्डीति ज्ञानवत् अयं घट इति ज्ञानमपि विशिष्टज्ञानत्वात् विशेषणज्ञानपूर्वकमास्थेयम्। विशेषणज्ञानं च न विशिष्टार्थविषकम्; अनवस्थाप्रसङ्गात्। अतो जातिमात्रविषयकं तदित्यवश्यमङ्गी करणीयमति जात्यादेः प्रथमोपस्थितत्वं वक्तव्य मिति चेत् सत्यं विशिष्टज्ञानं विशेषणज्ञानजन्यमिति। तदेव च विशेषज्ञानं न जातिमात्रविषयकम्, जातिभासकसंनिकर्षस्य संयुक्तसमवायरूपस्य तदाश्रयव्यक्तिभासकसंयोगाख्यसन्निकर्षघटिततया तज्जन्यज्ञानस्य जातिविषयकत्ववत् तदाश्रयव्यक्तिविषयकत्वस्यापि दुर्वारत्वात्। न चैवमनवस्था, विशेषज्ञानस्य जातिव्यक्त्युभयविषयकस्यापि वैशिष्ट्याविषयकतया विशिष्टज्ञानत्वाभावेन तत्र विशेषणज्ञानान्तरस्यानपेक्षणात्। अतो विशेषणज्ञानकारणत्वबलात् जातेः प्रथमोपस्थितत्वं भवेदिति प्रत्याशा न कार्या।
एवं लाघवाज्जातिमात्रे सक्तिरित्यप्यनुपपन्नम्। व्यक्तिपरप्रयोगस्यैव बाहुल्येन बहुत्र व्यक्तिलक्षणायाः। कल्पनीयतया गौरवात्। तदपेक्षया विशिष्टव्यक्तौ शक्तिं स्वीकृत्य क्वाचित्कजातिपरप्रयोगस्य लाक्षणिकताया एव युक्तत्वात्। `व्रीहिभि र्यजेत’ इत्यादि विधिवाक्येषु सर्वत्र व्रीह्यादिपदानाव्यक्तिलाक्षणिकत्वे सति `न विधौ परः शब्दार्थ’ इति न्यायस्य विषय एव दुर्लभः स्यात्।
अपि च शक्तिग्राहकेषु व्याकारणादिषु गवादि पदानां जातिमात्रशक्तौ न किमपि प्रमाणमुपलक्षामहे। व्यक्तिवाचकत्वमुपजीव्य प्रवृत्तेषु सरूपादिसूत्रेषु व्यक्त्याख्यायामित्यनभिधानात् जातिवाचकत्वमुपजीव्य प्रवृत्तेषु `जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्’ (पा.सू.1-2-58) इत्यादि सूत्रेष क्वचिदेव जात्याख्यायामिति निर्देशाच्च सर्वत्र व्यक्तेरभिधेयत्वं गम्यते। `चादयोऽसत्त्वे’ इत्यादिपर्युदासाच्च द्रव्यवाचित्वं गम्यते। `तस्यापत्यम् (पा.सू.4-1-92) `तत आगतः’ (पा.सू 4-3-74) इत्यादीनि बहूनि सूत्राणि व्यक्तिपर्यन्तवाचकत्वे स्वरसानि न जातिवाचकत्वे सादृश्यप्रतीतिमुपजीव्य प्रवर्तमानमुपमानं च व्यक्ति वाचकतामन्तरेण न घटते। `गो सदृशो गवय इत्यतिदेशवाक्यगतगवयपदार्थव्यक्तौ सादृश्यग्रहादिवयो लिङ्गविशेष निर्णयपुरस्कारेण प्रवृत्तः कोशोऽपि तद्योग्यव्यक्तिवाचकत्वमेव कल्पयति। आप्तवाक्यं च `गामानय’ न सुरां पिब’ इत्यादिकं प्रवृत्तिनिवृत्त्यन्वयिपदार्थगोचरं व्यक्तिशक्तिं व्यनक्ति। व्यवहारोऽपि गवानयनप्रवृत्त्यदिर्व्यक्तिवाचकत्व एवोपपद्यते।
वाक्यशेषोऽपि यत्रान्या ओषधयो म्लायन्ते अथैते मोदमानास्तिष्ठन्ति’ इत्यादिः मोदमानत्वादिविशेषणार्हिव्यक्तिवाचकता मेव द्र ढयति। विवरणमपि पाकं करोतित्यादिः क्रियादिव्यक्तिवाचकतापक्षस्वरसः। प्रसिद्धपदसान्निध्यमपि `इह सहकारतरौ मधुरं पिको रौति’ इत्यादि द्रव्यावाचकत्व एव स्वरसम्। अतो गवादिशब्दानां जातिशक्तत्वे न किमपि प्रमाणं स्वारसिकम्। वाधकानि च भूयांसि लिङ्गसंख्यानन्वयादीनि पूर्वमेवोपक्षिप्तानि।
किञ्च जातिरेव यदि गवादिसब्दार्थः तर्हि गोत्वं व्यक्तिनिष्ठमितिवत् गौर्व्यक्तिनिष्केत्यपि प्रयोगः प्रसज्यते। गवादिपदाना जातिमात्रविवक्षया प्रयोगे त्वतलाद्यपेक्षा च न स्यात्। किञ्च खण्डो शुक्लो गौः इत्यादि सामानाधिकरण्यं न घटते, खण्डत्वादेर्जातावनन्वयात्। यत्त्वत्रोच्यते मीमांसकः लक्ष्यार्थव्यक्तौ तदन्वय इति तदपि न। कुत्रापि वाक्येलक्ष्यार्थे विशेषणाप्रयोगात्। न हि गङ्गायां घोष इत्यादौ गङ्गापदलक्ष्यार्थतीरासाधारणविशेषणं केनापि वाक्ये प्रयुज्यते। प्रत्युत गभीरायां नद्यां घोष इत्यादौ शक्यार्थान्वय्येव विशेषणं प्रयुज्यते। तस्माज्जातिविशिष्टव्यक्तौ पदानां शक्तिरित्येव युक्तम्।
यदपि भाट्टदीपिकायामुक्तम् (आकृत्यधिकरण) विशिष्टाशक्तिवादिनां मते गोत्वावच्छिन्नविशेष्यकं शक्यत्वसम्बन्धेन गोपदप्रकारकं गौर्गौपदवती’ इत्याकारकज्ञानं वा गोपदत्वावच्छिन्नविशेष्यकं शक्तत्वसम्बन्धेन गोत्वावच्छिन्नप्रकारकं `गोपदं गोमत्’ इत्याकारकं वा ज्ञानं कारणमित्यत्र विनिगमनाभावात् कार्यकारणभावद्वयं कल्पनीयम्। जातिशक्तिवादिनां मते तु गोपदत्वावच्छिन्नधर्मिकं शक्तत्वसम्बन्धेन गोत्वप्रकारकं `गोपदं गोत्ववत्’ इत्याकारकज्ञानमेव गोत्वविशिष्टबोधे कारणं कल्प्यते। गोत्वधऱ्मिकं शक्यत्वसम्बन्धेन गोपदप्रकारकं `गोत्वं गोपदवत्’ इत्याकरकज्ञानं तु कारणत्वेन न कल्प्यते। जातेर्यत्र विशेष्यतया भानं तत्र किञ्चिद्रूपेणैव भावमिति नियमात् गोत्वस्य गोत्वत्वेनैव विशेष्यत्वं वक्तव्यमिति गोत्वत्वस्य गवेतारावृत्तित्वे सति निखिलगोवृत्तित्वरूपतया गवेतारावृत्तित्वे सति निखिलगोवृत्तित्वरूपतया निखिलगोव्यक्तीनां विशेष्यतावच्छेदकत्वेन गौरवप्रसङ्गात्। अत एक एव कार्यकारणभाव इति लाघवं जातिशक्तिवाद इति।
तदपि चिन्त्यम्। अन्यविशेष्यकशक्तिग्रहात् अन्यविशेष्यकोपस्थितिशब्दबोधयोर्वारणाय तद्विशेष्यकोपस्थिति प्रति तद्विशेष्यकशक्तिज्ञानं कारणमितिकार्यकाणभावस्य वक्तव्यतया पदविशेष्यकशक्तिज्ञानात् कथं जातिविशेष्यकोपस्थितिशाब्दबोधौ स्याताम्। अतो जातिविशेष्यकशक्तिज्ञानस्य कारणतायाः वक्तव्यतया तत्र धर्मितावच्छेदकशरीरे निखिलगवां प्रवेशेन गौरवमस्त्येवेति।
अपि च यत्र गोपदस्य गोत्वविशिष्ठे लक्षणाग्रहः तत्र गोत्वविशिष्टबोधस्य सर्वानुभवसिद्धतया तत्र शक्तत्वसम्बन्धेन गोपदविशेष्यक गोत्वप्रकारकज्ञानाभावेन व्यतिरेकव्यभिचारात् उक्तकात्रयकारणभावो न भवति।
तस्मात् जात्यकृतिविशिष्टव्यक्तौ शक्तिरिति नैयायियिकमतमेव युक्तं भाति।
—————*************—————
]