ख्यातिसमीक्षा

[[ख्यातिसमीक्षा Source: EB]]

[

ख्यातिसमीक्षा

The problem of illusory perception had always drawn the attention of scholars and had been a very favourite topic of Indian Philosophy.
The different theories advanced in the respect are Anyathakhyati or Viparitakhyati of the Jains. Nyaya-Vaisesika philosophers and of the Bhattas. The followers of Prabhakara broach the Akhyativada. The Bauddhas other than the Madhyamikas sponsor Atmakhyativada whereas the latter use Asatkhyati. The Vedantins say it is Anirvacaniyakhyati i.e. at the root. Hence the principal theories propounded are (i) Atmakhyati. (ii) Asatkhyati. (iii) Akhyati. (iv) Anvathakhyati and Anirvacaniyakhyati.
In the following paper Pt. N.S. Ramanuja Tatacharya has discussed these and has tried to establish Anyathakhyati of the Logicians.

श्रीवेंकटाद्रिनिलयं श्रीनिवासं दयानिधिम्।
प्रणम्य ख्यातितत्त्वस्य समीक्षां प्रविदध्महे॥
उपोद्धातः
भ्रमात्मकज्ञानस्य ख्यातिरिति व्यपदेशः शास्त्रग्रन्थेषु वर्तते। तत्र विषये वादिनो बहुधा वदन्ति। लोके यस्य यस्य यद्यत् ज्ञानं भवति तत्सर्वं प्रमेति वक्तुं न शक्यते। तथा सति प्रतिवादिनो ज्ञानमपि प्रमा स्यात्। तथा च प्रतिवाद्यपि विजयेत। तथा सर्वं ज्ञानमप्रमा इत्यपि वक्तुं न पार्यते। तथा सति वादिनो यत् ज्ञानं तदप्यप्रमा स्यात्। तथा च वादी पराजितो भवेत। तस्मात किंचित ज्ञानं प्रमा, किंचित् ज्ञानमप्रमेति विभागः अवश्यं सर्वैरभ्युपगन्तव्यः। तत्र अप्रमात्मके ज्ञाने अन्यस्य अन्यथाभानात्मिकामन्यथाख्यातिं नैयायिका जैना भाट्टाश्च उररीकुर्वन्ति। अन्यथाख्यातेः या सामग्री भेदाज्ञानरूपा अख्यातिः तयैव व्यवहारोपपत्तेः अख्यातिपक्ष एव युक्त इति प्राभाकरा आशेरते। क्षणिकविज्ञानरूपः आत्मैव बाह्यवस्त्वाकारेण प्रतीयत इत्यात्मख्यातिमङ्गीकुर्वन्ति माध्यमिकव्यतिरिक्ता बौद्धाः। भ्रमस्थले असदेव प्रतीयत इत्येवम् असत्ख्यातिं स्वीकुर्वन्ति माध्यमिकाः। भ्रमे सदसदनिर्वचनीयं वस्तूत्पद्य प्रतीयत इत्येवम् अनिर्वचनीयख्यातिं वदन्ति अद्वैतिनः। तथा चोक्तम्—-(1)
`आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा।
तथानिर्वचनख्यातिरित्येतत् ख्यातिपञ्चकम्॥’
इति। एतत् ख्यातिपञ्चकं शङ्कराचार्य-मण्डनमिश्रपर्यन्तं प्रसिद्धमासीत्। अनन्तरकालिका रामानुजमतानुयायिनस्तु यथार्थख्यातिमुपगच्छन्ति। एवमन्या अपि काश्चन् ख्यातयः ग्रन्थान्तरपरामर्शेनावगम्यन्ते। ता यथा अभिनवान्यथाख्यातिः, प्रसिद्धार्थख्यातिः अलौकिकार्थख्यातिः, सदसत्ख्यातिः इति। अघुना तत्तत्ख्यातिस्वरूपं तत्र गुणदोषविवेकं सर्वेषां वादिनाम् अन्यथाख्यातेरवर्जनीयत्वं च प्रतिपाद्य नैयायिकमतं समर्थयिष्यामहे।
आत्मख्यातिः
तत्र आत्मख्यातिवादिनः बौद्धेषु सौत्रान्तिक-वैभाषिक-योगाचाराः। तदुक्तं भामत्याम्’—
`सौत्रान्तिकनये तावत् बाह्यमस्ति वस्तुसत्। तत्र
ज्ञानाकारस्यारोपः। विज्ञानवादिनामपि यद्यपि न
बाह्यमस्ति वस्तुसत्। तथाप्यनाद्यविद्यावासनारोपित—
मलोकं बाह्यम्, तत्र ज्ञानाकारस्यारोपः’ इति।
तत्र परिमले अप्ययदौक्षितैः—-(2)
`बाह्यास्तित्ववादिनोः सौत्रान्तिकवैभाषिकयोः सत्
शुक्तिशकलादिकमधिष्ठानम्। तन्नास्तित्ववादिनो
योगाचारस्य तु अविद्याकल्पितं तत् अधिष्ठानम्’
इत्यभिहितम्। एवं च त्रयाणामेतेषात् अधिष्ठानांशे भेदसद्भावेऽपि आरोप्यः ज्ञानाकार एवेति आत्मख्यातिरेवामीषां त्रयाणामिति लभ्यते। आत्मत्वेनाभिमतस्य ज्ञानस्य यः आकारः तस्य प्रतीतिरात्मख्यातिः। तत्रेयं युक्तिः—-यत् यादृशमनुभवसिद्ध तत् तादृशमेवाङ्गीकरणीयमित्युत्सर्गः। क्वचिदन्यथात्वं बलवदबाधकज्ञानवशाद्भवति। तत्र नेदं रजतमिति बाधकज्ञानम्। अत्र रजतं नेदमित्येवं रजते इदन्त्वं बाध्यते, न तु रजतरूपस्य धर्मिणोऽपि बाधः। तथा सति रजतरूपस्य धर्मिणः तद्‌गतायाः इदन्तायाश्च बाधो वक्तव्य इति गौरवम्। तदपेक्षया लाघवात् इदन्त्वस्यैव बाधः। तथा च रजते इदन्त्वरूपस्य बाह्यत्वस्य निषेधे सति रजतमान्तरज्ञानगतमिति सिध्यति। ततश्च बाधकज्ञानवशात् ज्ञानगततया निर्णीतस्य रजताद्याकारस्य इदं रजतम् इत्येवं बाह्यतया प्रतीतिः सिद्धा। तस्मात् आत्मख्यातिरेव युक्ता इति।
आत्मख्यातिखण्डनम्
इदं मतं न युक्तम् हि—किं रजतादेर्विज्ञानाकारत्वम् अनुभवबलात् व्यवस्थाप्यते अनुमानाद्वा? आद्येऽपि किम् अनुभव पदेन इदं रजतमित्यनुभवो विवक्षितः? नेदं रजतमिति बाधकप्रत्ययो वा? न तावद्रजतानुभवः। स हि इदमिति बाह्यतयैव रजतमावेदयति न त्वान्तरतया। आन्तरत्वे हि अहं रजतमिति वा अहं रजतवानिति वा अनुभवः स्यात्, ज्ञानस्यैव अहमर्थत्वात् भवन्मते। ननु वस्तुतो ज्ञानाकारमेव रजतं `इदं रजतम्’ इति भ्रमात्मकं ज्ञानं बाह्यतया प्रदर्शयति। अत `इदं रजतम्’ इति ज्ञान न रजतस्य ज्ञानाकारत्वे प्रमाणम्, अपि तु `नेदं रजतम्’ इति ज्ञानमेव रजते इदन्तां निषेधत् अर्थात् ज्ञानाकारतामावेदयतीति चेत्—न। नेदं रजतम्’ इति प्रत्ययो हि इदंपदार्थे पुरोवर्तिद्रव्ये रजताद्भेदं ज्ञापयति न पुना रजतस्य ज्ञानाकारतामपि प्रदर्शयति। रजतं नेदम् इत्यन्वयपक्षेऽपि रजतं पुरोवर्ति न भवतीत्येव ज्ञायते। तावता आपणादिस्थत्वं रजतस्य सिध्यतु, ज्ञानाकारत्वं तु कथ सिध्येत्? तात्पयटीकायाम्—(3)
`पुरोवर्तित्वनिषेधादर्थात् ज्ञानाकारतासिद्धिरिति चेत्
तन्निषेधो वणिग्वीथ्यादावुपलब्धस्य रजतस्य
व्यवस्थापने हेतुः आन्तरत्वं त्वस्यानुपलब्धचरं कुतस्त्यम्

इति। अतोऽनुभवात् रजतादेर्ज्ञानाकारत्वं न सिध्यति। अनुमानात्तदाकारत्वं विस्तरेण दूषितं टीकायाम्।
असत्ख्यातिः
नेदं रजतमिति बाधकप्रत्ययः इदं रजतमिति ज्ञाने विषयस्य रजतस्य असत्त्वमावेदयति। न चासतः कथं विषयत्वमित्याशङ्कनीयम्। विषयत्वं हि नाम न कारणत्वम्, येनास्ति न स्यात्। किं तु स्वकारणाधीनः ज्ञानगतः सामर्थ्यातिशयो विषयत्वम्। स च सन्तमिव असन्तमपि गोचरयति। तथा च असद्विषयकप्रतीतिरेव भ्रम इति माध्यमिकाः।
तत्खण्डनम
तन्मतमपि न युक्तम्। किं भ्रमात्मकज्ञानं असत् सदात्मना हृह्णाति इत्यसद्विषयकमित्युच्यते? उत सदेव इतरसदात्मना गृह्णाति, सतश्च इतरसद्रपेण असत्त्वादसद्विषयकमित्युच्यते? तत्र न तावदाद्यः पक्षः, इदं रजतमिति ज्ञाने रजतात्मना असत्त्वमेव यदि विषयः, तर्हि रजतार्थिनः कथं शुक्तौ प्रवृत्तिः न पुना रजताभावे? अतो रजतात्मना अभावो न विषयः। यदि तु शुक्तिरेव रजतात्मना असतीति तदाकारतया शुक्तिं विषयीकरोतीति द्वितीयः पक्ष उच्यते, तदा इष्टापत्तिः। अन्यथाख्यातावेव पर्यवसानात्।
किं च असत्ख्यातिरित्यस्य कोऽर्थः? किं सर्वत्रावर्तमानस्य प्रतीतिरिति, किं वा देशान्तरादौ विद्यमानस्यात्रासतः प्रतीतिरिति। सर्वत्राविद्यमानस्य प्रतीतिर्न सम्भवति, आकाशपद्मादेर्न खलु प्रतीतिरस्ति। अतः प्रथमः कल्पो न कल्पने। द्वितीयकल्पे तु अन्यथाख्यातिरेवाङ्गीकृता भवति, देशान्तरे विद्यमानस्य देशान्तरे प्रतीतिर्हि अन्यथाख्यानिर्नाम इति। तदुक्तं न्यायमञ्जर्याम्—(4)
नात्यन्तमसतोऽर्थस्य सामर्थ्यमवकल्पते।
व्यवहारधुरं वोढुमियतीमनुपप्लुताम्॥’ इति।
अख्यातिवादः
प्राभाकरास्तु पुरोवर्तिविशेष्यकं रजतप्रकारकमेकं विशिष्टज्ञानं नाङ्गीकुर्वन्ति। अपि तु इदमित्यनुभवरूपं रजतमिति स्मरणरूपं च ज्ञानद्वयमेव इदं रजतमिति। तत्र इदमिति पुरोवर्तिवस्तुमात्रस्य ग्रहणम्। दोषवषात् तन्निष्ठं न गृह्यते। तच्च वस्तु आपणादिस्थितपूर्वदृष्टरजतसदृशमिति तद्‌ग्रहणानन्तरं पूर्वरजतानुभवजन्यसंस्कारोद्‌बोधात् रजतस्मृतिर्जायते। तस्यां स्मृतौ दोषवशात् तत्तांशो न भासते। तत्र ग्रहणस्मरणयोर्भेदो न ज्ञायते। तथा ग्रहणस्मरणविषययोः पुरोवर्तिरजतयोश्च भेदो न ज्ञायते। तथा चैतादृशभेदाग्रहसहकारेण’ भिन्ने अपि ग्रहणस्मरणे रजतमित्यभेदव्यवहारं रजतार्थिनः प्रवृत्तिं च सम्पादयतः तत्र नेदं रजतमिति पुरोवर्तिरजतयोर्भेदे बाधकज्ञानेन गृहीते सति भेदाग्रहो निवर्तते। तन्निवृत्त्या अभेदव्यवहारो बाध्यते। तथा च बाधितव्यवहारहेतुत्वमेव भ्रमत्वं न बाधितविषयकत्वम्। ग्रहणस्मरणयोरुभयोरपि अबाधितविषयकत्वात् यथार्थत्वमेव। अतः सर्वमपि ज्ञानं यथार्थमिति तत्सिद्धान्तः।
तत्खण्डनं अन्यथाख्यातिश्च
स न युज्यते। तथा हि—अस्ति तावत् रजतार्थिनः पुरोवर्तिनि द्रव्ये प्रवृत्तिः। सा च भेदाग्रहसहितग्रहणस्मरणात्मकज्ञानद्वयमात्रात् भवितुं नार्हति। न हि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते। इदं कारास्पदाभिमुखी खलु रजतार्थिना प्रवृत्तिरनुभूयते। इदंकारास्पदे प्रवृत्तिश्च इदंकारास्पदविषयकेच्छां विना न घटते। तद्विषयकेच्छा च इदंकारास्पदे रजतत्वज्ञाने सत्येव भवेत्। न च इदंकारास्पदं रजतत्वेनाजानतोऽपि इदंकारास्पदे अरजतत्वाज्ञानमात्रात् प्रवृत्तिर्भवितुमर्हतीति वाच्यम्। तर्हि इदंकारास्पदस्य रजतत्वेनाज्ञानात् निवृत्तिः कुतो न भवति? अतः इदंकारास्पदविशेष्यकरजतत्वप्रकारकज्ञानरूपात् अन्यथाख्यातिशब्दिताम् विशिष्टज्ञानादेव भ्रमस्थले प्रवृत्तिर्जाघटीति नान्यथेत्यन्यथाख्यातिरवर्जनीया। तदुक्तं तात्पर्यटीकायाम्—-(5)
`सोऽयमुभयतो भेदाभेदग्रहसारूप्यात् प्रवृत्तिनिर्वृत्तिभ्यां
युगपदाकृष्यमाणः प्रतिपत्ता कष्टां दशामावेशितः
प्रज्ञाशालिभिरतिव्याख्यया।’ इति।
तथा च पुरोवर्तिनि रजतभेदाग्रहात् इदं रजतमिति रजतत्वारोपात्मकं ज्ञानं भवति। ततो रजतजातीयस्य इष्टसाधनतां स्मृत्वा इदंकारास्पदे रजतेऽपि इष्टसाधनत्वमनुमाय ततस्तत्र प्रवर्तत इति क्रमः। न खलु अख्यातिवादे इदंकारास्पदे रजतत्वज्ञानं विना इष्टसाधनताज्ञानं भवितुमर्हिति। तथा चायमनुमानप्रयोगः—`विवादाध्यासितं रजतज्ञानं पुरोवर्तिवस्तुविशेष्यकम्, रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात्, यत् यदर्थिनं नियमेन यत्र प्रवर्तयति तज्ज्ञानं तद्विशेष्यकम्, यथोभयवादिसिद्धं समीचीनरचतज्ञानम्, तथा चेदम्, तस्मात्तथा, इति। अयम् अनुमानप्रयोगस्तात्पर्यटीकायां (6) प्रदर्शितः।
न्यायभूषणे—-(7) भ्रमज्ञानं निरालम्बनम्, तस्यैवाख्यातिपदेन व्यपदेशः। यदिदं मरीचिषु जलप्रतिभानं तत्र न जलसत्ता विषयः, अभ्रान्तत्वप्रसङ्गात् जलाभावस्तु न प्रतिभातोति न विषयः। अप्रतिभासनादेव मरीचयोऽपि न विषयः। जलत्वेन रूपेण मरीचिप्रतिभानमित्यपि न युक्तम्, मरीचीनां जलान्यत्वात्। न हि घटान्यस्य पटादेः घटत्वेन रूपेण प्रतिभानं दृष्टचरम्। तस्मात् जलादिविपर्ययज्ञानं स्वाप्नविपर्ययवन्निरालम्बनमित्यख्यातिवादिनः इति पूर्वपक्षं प्रापय्य, यदि भ्रमे किमपि न भासते कथं तर्हि जलज्ञानं रजतज्ञानम् इत्येवं व्यपदेशो भवेत्? किं च भ्रान्तिसुषुप्त्योर्भेदोऽपि न स्यादिति समाधानमुक्तम्। तेन निर्विषयकज्ञानस्य अख्यातिपदेन व्यपदेशो माघ्यमिकैकदेशिनामिति न्यायभूषणटिप्पणीकारः आहः।
अन्यथाख्यातौ सूत्रादिसंमतिः
इयं चान्यथाख्यातिः न्यायसूत्रकारादीनामपि सम्मता। तथा हि—प्रथमसूत्रेण तत्त्वज्ञानान्निः श्रेयसप्राप्तिमभिधाय `दुः खजन्म’ इत्यादिद्वितीयसूत्रेण मिथ्याज्ञानं परम्परया संसारहेतु रिति प्रतिपादितम्। तत्र `मिथ्याज्ञानमनेकप्रकारकं वर्तते आत्मनि तावन्नास्तीति अनात्मन्यात्मेति दुः खे सुखमिति’ इत्यादि भाषमाणः वात्स्यायनः अतस्मिस्तदिति ज्ञानं मिथ्याज्ञानमित्यभिप्रैति। प्रत्यक्षलक्षणपरे चतुर्थसूत्रे—`अव्यभिचारिपदेन मृगतृष्णिकायां जलज्ञानं व्यावर्त्यते। यदतस्मिंस्तदिति ज्ञानं तद् व्यभिचारि’ इति प्रतिपादयन् भाष्यकारः अन्यस्मिन्नन्यतादात्म्यज्ञानं भ्रम इति स्पष्टं स्वाशयं ज्ञापयति।
वार्तिककारोऽपि(8) कः पुनरयं विपर्ययः? अतस्मिंस्तदिति प्रत्ययः’ इति कथयति। अस्य विपर्ययस्य अन्यथाख्यातिरिति संज्ञा तु पश्चात्कालिकी। तात्पर्यटीकायामुक्तवार्तिकव्याख्यावसरे—(9)
`सम्प्रति संदिहानो विपर्ययस्वरूपं पृच्छति
कः पुनरयं विपर्यय इति। परीक्षकाणां विप्रतिपत्तेः
संशयः। केचित् स्वाकारबाह्यत्वविषयं ज्ञानं
विपर्यय इत्याचक्षते। अन्येऽसद्विषयं ज्ञानम्।…..
अन्यथाख्यातिं तु वृद्धाः’
इति प्रतिपादनात् अन्यथाख्यातिपक्षः नैयायिकानामिति ज्ञायते।
`इन्द्रियदोषात् संस्कारदोषाच्चाविद्या’ (वैo सूo 9-2-10)
`तद्दुष्टज्ञानम्(वैo सूo 9-2-11)
इति वैशेषिकसूत्राभ्याम् अविद्याशब्देन दुष्टज्ञानशब्देन च भ्रमात्मकज्ञानमपि संगृहीतम्। प्रशस्तपादभाष्ये(10)—-
`अतस्मिस्तदिति प्रत्ययो विपर्ययः’ इति प्रतिपादितम्।
अनिर्वचनीयख्यातिः
अद्वैतदेवान्तिनः भ्रमे सदसदनिर्वचनीयं वस्तु भासते इति वदन्ति। परं तु यत्र आरोप्यं न संनिहितं तत्रैव इन्द्रियसनिकर्षाभावात् अन्यत्र स्थितस्य वस्तुनः अन्यत्र ख्यातिरूपा अन्यथाख्यातिर्न भवति। यत्र तु आरोप्यं सनिहितं यथा स्फटिकमणौ जपाकुसुमलौहित्यारोपस्थले, तत्रान्यथाख्यातिरेवाद्वैतिनामपीष्टा। तथा चारोप्यस्य असनिधानस्थले अनिर्वचनीयं वस्तु प्रतीयत इति तेषां सिद्धान्तः।
तत्परिशीलनम्।
अत्रेदं विचार्यते। यद्यपि लोहितः स्फटिकः, पीतः शङ्खः इत्यादौ लौहित्यपीतादाविन्द्रियसंनिकर्षसत्त्वेन अनिर्वचनीयवस्तुनः अनङ्गीकारेणैव प्रत्यक्षं निर्वहति, तथापि शुक्तिरजतभ्रमस्थले आपणस्थरजतस्यासंनिकर्षात् तद्भानासंभवात् रजतं साक्षात्करोमीत्यनुव्यसायानुरोधेन रजतसाक्षात्कारस्य वस्तव्यत्वात् अनिर्वचनीयरजतमुत्पद्यते साक्षात्क्रियते चेति हि भवतां मतम्। तत्र रजते कल्पितेऽपि प्रत्यक्षानुपपत्तिः स्यादेव। इन्द्रियसंनिकर्षजन्यं हि ज्ञानं साक्षात्कारो नाम। रजतं पूर्वमुत्पन्नं पश्चादिन्द्रियसंनिकृष्टं तदनन्तरं साक्षात्क्रियत इति स्वीकारे तदुपपत्तिः स्यात्। प्रातिभासिकपदार्थानां च प्रतिभासकाल एव सत्त्वमिति वादिभिश्च प्रतिभासात्पूर्वं रजतस्यासतः इन्द्रियसंनिकर्षाभावात् इन्द्रियसनिकर्षजन्यत्वं प्रतिभासस्य दुर्वचमिति प्रत्यक्षत्वं नोपपादितं भवति। यदि तु संनिकर्षं विनापि साक्षिभास्यत्वमिति प्रत्यक्षत्वमुपपाद्यते तदा संनिकर्षाभावेऽपि दोषवशात् रजतसाक्षात्कारो भवतीति स्वीकारो युक्ततरः अपूर्वरजत—तदुत्पत्तिकारण—-तद्भानकारणानामनेकेषां कल्पनमपेक्ष्य रजतसाक्षात्कारस्य दोषजन्यत्वकल्पनमेव लघु इति।
तात्पर्यटीकाया(11) तु—अनिर्वचनीयतावादो न युज्यते, मिथ्याज्ञानसमये सत्त्वेन बाधकसमये चासत्त्वेन निर्वचनीयत्वात्। किं च सर्वथा अनिर्वचनीयस्य केनचित् सादृश्याभावात् भ्रमो न सभवति, भ्रमस्य सादृश्यमूलकत्वात्। तस्मान्नानिर्वचनीयख्यातिरिति दूषणमभ्यधायि।
प्रसिद्धार्थख्यातिः
भूषणे(13) प्रसिद्धार्थख्यातिः, अलौकिकार्थख्यातिः, स्मृतिप्रमोषः इति ख्यातित्रयं टीकादावदृश्यमानम् अनूद्य खण्डितम्। तत्र प्रसिद्धार्थख्यातिवादश्चार्वाकाणाम्। तेषामयमाशयः—भ्रान्तावपि प्रमणसिद्ध एवार्थः प्रतिभाति। करतलादेरपि प्रतिभासबलेनैव सत्त्वं सिध्यति। स च प्रतिभासः स च प्रतिभासः भ्रमेऽप्यस्ति। यद्यप्युत्तरकालं न सोऽर्थः प्रतिभाति, तथापि यदा प्रतिबाति तदा सोऽर्थोऽस्त्येव। अन्यथा विद्युदादेरपि कालान्तरेऽप्रतिभानात् सत्ता न सिघ्येत्। तस्मात् प्रामाणिकस्यैवार्थस्य प्रतीतिर्भ्रमेऽपि इति।
नैतदुपपन्नम्। सर्वेषु ज्ञानेषु यदि यथावस्थितार्थ एव प्रतीयेत तर्हि इदं 5ानं भ्रान्तम्। इदमभ्रान्तमिति व्यवस्था विलुप्येत। बाध्यबाधकभावश्च न प्राप्नोति, सर्वज्ञानानां प्रसिद्धाथंविषयकत्वाविशेषात् अपि चार्थक्रियाकारित्वमपि भवेत् इति।
अलौकिकार्थख्यातिः
केचित् भ्रान्तावलौकिक एवार्थः प्रतीयत इति वदन्ति। तेषामाशय इत्थं श्लोकवार्तिकव्याख्याने भट्टोम्बेकेनानूदितः—-(14) `संवित्परामर्शकुशलस्त्वाह सत्यमेकमेवेदं विज्ञानम्। अपरोक्षतया चात्र रजतमेवावभासते। तथापि नैवेदं विज्ञानमप्रमाणम्, प्रतिभासाविशेषात् इतररजतविज्ञानवत् अत्राप्यपरोक्षरजतसद्भावात्। लौकिकालौकिकत्वे तु विशेषः प्रतिभासाविशेषेऽपि व्यवहारप्रवर्तकं हि लोके संमतं रजतम्। यत्तु रजतव्याहं न प्रवर्तयति, अथ रजतज्ञानसंवेद्यं तदलौकिकरजतम्’ इति।
इदमप्यसारम्। अलौकिकरजते प्रमाणाभावात्। किं च रजतप्रतिभासकाले तद्धर्मतया लौकिकत्वमलौकिकत्वं वा न प्रतिभासते। न हि लौकिकमिदं रजतम्, अलौकिकमिदं रजतमिति वा प्रतियन्ति केऽपि। अपि च लोकसंमताद्विलक्षणमिदमलौकिकसंज्ञकं रजतम्। तद्यदि स्वप्रतिभासोत्पत्तिकाले वैलक्षण्येनावभासते तदा नेदं रजतम्, न लौकिकम्’ इति प्रत्ययोत्पत्तिः प्राप्नोति। अथावैलक्षण्येनावभासते, तदा विलक्षणमविलक्षणत्वेनावभासितमिति विपरीतख्यातावेव पर्यवसानम् इत्यादीनि दूषणानि उम्बेकेन(15) प्रदर्शितानि।
स्मृतिप्रमोषवादस्तु प्राभाकराणाम्, प्रमुष्टतत्ताकरजतस्मरणस्य भ्रमस्थले तैरभ्युपगमात्।
अन्यथाख्यातौ भाट्टसंमतिः
श्लोकावार्तिके(16) निरालम्बनवादनिरसनावसरे—
`तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते।
तन्निरालम्बनं ज्ञानमभावालम्बनं च तत्॥’
इति अन्यथाख्यातिरेव स्थिरीकृता। शास्त्रदीपिकायाम्—(17)
`सर्वत्र संसर्गमात्रमसदेवावभासते। संसर्गिणस्तु सन्त एव।
सेयं विपरीतख्यातिरुच्यते मीमांसकैः। शुक्तिरजतवेदनेऽपि
विद्यमानैव रजतत्वजातिर्विद्यमानस्यैव शुक्तिशकलस्य
अनात्मभूतैवात्मतया अवगम्यते। तथा वन्ध्यासुतादिष्वपि
विद्यमान एव सुतशब्दार्थो वन्ध्यान्विततया तत्पदसंनिधिदोषादवगम्यते’।
इति संदर्भेण नैयायिकसंमता अन्यथाख्यातिरेव समर्थिता विपरीतख्यातिशब्देन व्यवहृता च।
प्रमेयकमलमार्तण्डाख्ये (18) जैनग्रन्थेऽपि विपरीतख्यातिरेवाङ्गीकृता—
`ननु विपरीतख्यातिरपि प्रतिभासविरोधान्न युक्तेति।
क एवमाह विपरीतोऽयमर्थ इति ख्यातिः? किं तर्हि
पुरुषविपरीते स्थाणौ पुरुषोऽयमिति ख्यातिर्विपरीतख्यातिः
इति च तद्‌ग्रन्थः।
अन्यथाख्यातौ आरोप्यस्य रजतादेर्भाने हेतुः
`इदं रजतम्’ इत्यादि भ्रमे आपणादिस्थस्य रजतस्य इन्द्रियसंनिकर्षाभावात् कथं भानं भवितुमर्हति? अतः अन्यत्र स्थितस्य रजतस्य अन्यत्रभानरूपा अन्यथाख्यातिनं युज्यत इत्याक्षेपः अन्यथाख्यतिवादोपरि सर्वैः क्रियते। तत्परिहारे मतभेदाः वरीवृतति। तथा हि न्यायमञ्जरीकारः(19)
`तस्माद्दोषकलुषितादिन्द्रियात् पुरोवस्थितधर्मिगत—-
त्रिकोणत्वादिविशेषावमर्शकौशलशून्यात् सामान्य—
धर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृतात्
भवति विपरीतप्रत्ययः’ इति,
`उक्तमत्र सदृशपदार्थदर्शनोद्‌भूतस्मृत्युपस्थापितस्य
रजतस्यात्रप्रतिभासनमिति’
इति च भाषमाणः रजतस्मृतिसहितात् दुष्टादिन्द्रियात् रजतस्य भानमिति स्वमतं सूचयति। इयमेव रजतस्मृतिः ज्ञानलक्षणप्रत्यासत्तित्वेन व्यवह्रियते मणिकारैः। प्रशस्तपादभाष्ये(20) तु—–
`प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्य
अयथार्थालोचनात् असंनिहितविषयज्ञानजसंस्कारा—
पेक्षात् आत्ममनसोः संयोगात् अधर्माच्च
अतस्मिस्तदिति प्रत्ययो विपर्ययः
इति ग्रन्थेन संस्कारसहिताद्‌दुष्टादिन्द्रियात् रजतादिकमतस्मिन् भासत इति प्रतिपादितम्। अयमस्याभिप्रायः—शुक्तिसंयुक्तमिन्द्रियं पित्तादिदोषवशात् शुक्तित्वमज्ञापयदपि रजतसादृश्यविशिष्टतया ज्ञापयति। तेन च शुक्तौ अनुभवरूपं रजतज्ञानं जनयति। तथा च पूर्वानुभवजनितः संस्कारः रजतभाने हेतुरिति।
पार्थसारथिमिश्रास्तु शास्त्रदीपिकायाम्—-(21)
`न हि सुक्तिकायां रजतज्ञानमिन्द्रियसम्प्रयोगजम्।
किं तर्हि? इन्द्रियसम्प्रयोगाच्छुक्तिशकलं रजत—
साधारणेन भास्वरत्वादिरूपेण गृहीतम्। असाधारणं
तु शुक्तिकात्वमिन्द्रियदौर्बल्यादगृहीतम्। अनन्तर च
संस्कारोद्‌बोधाद्रजतं स्मृतम्। ततः स्मृतरजतात्मना
शुक्तिव्यक्तिर्दोषवशाद् गृह्यते। अतो नेन्द्रियसंप्रयोगजं
रजतविज्ञानम्’
इति ब्रुवाणाः भ्रमे रजतभानं प्रति दोष एव कारणम्, नेद्रियसंयोगः इति स्वाभिप्रायमावेदयन्ति। अन्यसंयुक्तेनेन्द्रियेण अन्यकारं ज्ञानं भवेत्, भवद्वा कथमन्यांशे प्रत्यक्षं स्यादिति शङ्कायाम्, प्रत्यक्षप्रमायामेव इन्द्रियसंनिकर्षोऽपेक्षितः, प्रत्यक्षाभासे तु अन्यसंयुक्तमंपीन्द्रियं दोषसहकृतमन्यज्ञानं जनयितुमर्हति। दृश्यते हि स्वप्ने मनोदोषादवर्तमानस्यापि वर्तमानवद्भानमिति युक्तिस्नेहप्रपूरणीकारो निरूपयति।
प्रमेयकमलमार्तण्‍डे(22) च—
`दोषसमवधाने चक्षुरादिभिरिदं ज्ञानं विधीयते।
दोषाणां चेदमेव सामर्थ्यं यत् तत्सनिधानेऽविद्यमानेऽपि
अर्थे ज्ञानमुत्पादयन्ति चक्षुरादीनि। दोषाद्वि
संस्कारसहायादनुभूतस्यैव रजतस्यायमाकारः
पुरोवर्तिन्यर्थे प्रतिभासते’
इति ग्रन्थेन संस्कारसहितो दोषः रजतभाने हेतुरिति प्रत्यपादि।
चिन्तामणिकारास्तु—-(23) `न च हेत्वभावः, प्रत्यभिज्ञानवत् संस्कारेन्द्रियाभ्यां विशिष्टवीसंभवात्’ इति ग्रन्थेन रजतभाने संस्कारः कारणमिति प्रशस्तपादभाष्यमवलम्ब्य प्रत्यपादयन्। तर्हि इन्द्रियसंनिकर्षजन्यत्वाभावात् कथं रजतज्ञानं प्रत्यक्षमिति शङ्कायां प्रत्यक्षत्वे इन्द्रियसंनिकर्षजन्यत्वं न प्रयोजकम्, अपि तु इन्द्रियजन्यत्वमिति समाधानमवोचन्।
किं च प्रत्यक्षे विशेष्येणेन्द्रियसंनिकर्ष एव कारणम्, न विशेषणेनापि। तथा सति अयं घट इति प्रत्यक्षे घटत्वं संयुक्तसमवायात् भासत इति सिद्धान्तस्य का गतिरिति चेत्—श्रूतयाम्। संयुक्तसमवायाख्यसंनिकर्षात् आदौ विशेषणस्य घटत्वस्य प्रत्यक्षं भवति। ततः विशेषणज्ञानविशेष्येन्द्रियसंनिकर्ष—-भेदाग्रहैः कारणैः अयं घट इति विशिष्टप्रत्यक्षं जायते। तथा च संयुक्तसमवायाख्यसंनिकर्षस्य विशेषणज्ञानेपक्षीणत्वात् विशिष्टज्ञाने विशेषणभानं प्रति न संनिकर्षस्यापेक्षा।
अपि च भ्रमं प्रति दोशस्य हेतुत्वं सर्वसम्प्रतिपन्नम्। तथा च संनिकर्षं विनापि दोषादेव रजतभानमित्यस्तु। प्रत्यक्षप्रमायां संनिकर्षस्य प्रयोजकत्वेऽपि प्रत्यक्षाभासे दोषस्यैव हेतुत्वात्। तदुक्तं मणौ—-
`भ्रमोऽसत्यज्ञानमित्यसंनिकृष्टमपि दोषाद्भासत इत्युपेयम्’
इति। अयं पक्षः शास्त्रदीपिकायां पार्थसारथिमिश्रैरपि प्रोक्तः।
अथवा संस्कारः तज्जन्या स्मृतिर्वा संनिकर्षः। तज्जन्यत्वात् रजतज्ञानस्य प्रत्यक्षत्वमुपपद्यत इत्यपि कथितं मणौ(24)— `संस्कारस्य स्मृतेर्वा संनिकर्षत्वाच्च’ इति ग्रन्थेन। मुक्तावलीकारोऽपि—-(25)
`इत्थं च रङ्गे रजतत्वविशिष्टबुद्ध्यनुरोधेन
ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपि न क्षतिः’
इति वदन् भ्रमस्य प्रत्यक्षत्वनिर्वाहार्थमेव ज्ञानरूपोऽलौकिकः संनिकर्षोऽपि स्वीकर्तव्य इति सूचयति।
अद्वैतसिद्धौ अन्यथाख्यात्यनुवादसंदर्भे(26) `न च संस्कारस्मृतिदोषाणां संनिकर्षत्वम्’ इत्यभ्यधीयत। तत्र ब्रह्मानन्दीये—–`इदं रूप्यम् इत्यादिभ्रमः रूप्याद्यंशे उपनयसंनिकर्षजन्य इति प्राञ्चः। संस्कार एव संनिकर्ष इति तदाशयः। संस्कारस्यो नयत्वे तज्जन्यप्रत्यक्षस्य स्मृतित्वापत्त्या स्मृतिरेवोपनयो न संस्कार इत्यन्ये वदन्ति। नव्यास्तु उपनयप्रयोज्यस्य विषयत्वस्य लौकिकत्वासंभवेन `इदं रूप्यं साक्षात्करोमि’ इति प्रत्ययानुपपत्तेः दोषाणामेव भ्रमीयलौकिकविषयत्वे नियामकत्वमिति’ इत्याहुः।
अख्यात्यन्यथाख्यात्योर्विशेषः
अयमत्र निष्कर्षः—आदौ शुक्त्या इन्द्रियसंयोगानन्तरम् अयं शुक्लभास्वर इत्याकारकं ज्ञानम्, ततः उद्‌बुद्धसंस्कारात् रजतस्मरणम्, पुरोवर्तिरजतयोर्भेदाग्रहः इत्येतावत्पर्यन्तम् अख्यात्यन्यथाख्यातिवादिनोः। ततः `इदं रजतम्’ इत्याकारकं रजतत्वाभाववद्विशेष्यकरजतत्वप्रकारकं विशिष्टज्ञानमुत्पद्यते, तत एव प्रवृत्तिरिति नैयायिकाः। तादृशविशिष्टज्ञानकारणत्वेनाभिमताभ्यां भेदाग्रहसहिताभ्यां पुरोवर्तिवस्तुप्रत्यक्षरजतस्मरणाभ्यामेव प्रवृत्त्यादिनिर्वाहे मध्ये विशिष्टज्ञानमनावश्यकमिति प्राभाकराः इति।
अन्यथाख्यातिसाधकयुक्तयः
सत्यस्तले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतुत्वत् असत्यस्थलेऽपि विशिष्टज्ञानमेव प्रवर्तकं वाच्यम्। तथा च विसंवादिप्रवृत्तिः विशिष्टज्ञानजन्या प्रवृत्तित्वात् सत्यप्रवृत्तिवत् इत्यनुमानमन्यथाख्यातौ प्रमाणम्। तथा रजतेच्छाजन्यशुक्तिविषयप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञानं शुक्तिविशेष्यकं शुक्तिप्रवृत्तिप्रयोजकएज्ञानत्वात् शुक्तौ शुक्त्यर्थिप्रवृत्तिप्रयोजकज्ञानवत् इत्यादीन्यनुमानान्यपि अन्यथाख्यातिसाधकतया मणौ उपन्यस्तानि। एवमनुव्यवसायात्मकप्रत्यक्षमप्यन्यथाख्यातौ मानम्। तथा हि—शुक्तौ इदं रजतमिति भ्रमानन्तरम् इदं रजततया जानामि इत्यनुव्यवसायो भवति। इदंविशेष्यकरजतत्वप्रकारकज्ञानवानुहम् इति हि तदर्थः। तत्र व्यवसायस्य इदंविशेष्यकरजतत्वप्रकारकत्वाभावे उक्तानुव्यवसायः कथं घटेते? ज्ञानद्वयपक्षे `इदं जानामि’ `रजतं जानामि’ इत्याकारको ह्यनुव्यवसायः स्यात्, न तु `इदं रजतं जानामि’ इति।
अन्यथाख्यातिबाधकयुक्तयः तत्परिहाराश्च
(1) यदुक्तं दोषसहितानामिन्द्रियाणां भ्रमजनकत्वमिति। तन्न। दोषाणां कार्योपजननसामर्थ्यविघातमात्रे हेतुत्वात्। तथा चेन्द्रियगतो दोषः इन्द्रिये वर्तमानं यत् यथार्थज्ञानजननसामर्थ्यं तद्विहन्यात् न त्वयथार्थज्ञानरूपकार्यान्तरं जनयेत्। न हि दुष्टादपि कुटजबीजात् वटाङ्कुर उत्पद्यते। कुटजगतो हि दोषः कुटजाङ्कुरजननसामर्थ्यं विहन्ति न वटाङ्कुरमुत्पादयति इति कैश्चिद्दूषणमभिधीयते।
तस्य तात्पर्यटीकायामयं परिहार उक्त—-(27) केषांचिद्दुष्टानामपि करणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यमपि दृश्यते यथा दावाग्निदग्धानां वेत्रवीजानां कदलीकाण्डजनकत्वम्, यथा च भस्मकदुष्टस्य औदर्यस्य तेजसः बह्वन्नपाचकत्वम्, तथा दुष्टस्येन्द्रियस्य यथार्थज्ञानप्रतिबन्धेनायथार्थज्ञानजनकत्वमपि भवितुमर्हति इति। भस्मकं नाम रोगविशेषः। सः अशितमन्नं सद्य एव जरयित्वा नरस्य दुस्सहां क्षुद्‌बाधां जनयति।
(2) अन्यदन्यथा प्रकाशत इत्यनुभवविरुद्धम्। यत् प्रतिभासते तदेव ह्यालम्बनम्। तत्र शुक्तिः प्रतिभासते न वा? प्रतिभासते चेत् रजतप्रतीतिर्न स्यात्। न प्रतिभासते चेत् अप्रतिभासमाना शुक्तिः कथं रजतप्रतीतेरालम्बनं भवेत? इति कश्चन आक्षेपः।
तत्रेत्थं वाचस्पतिमिश्राः समादधते—सत्यं शुक्तिकात्वेन आकारेण सुक्तिका न प्रकाशते, सितभास्वरत्वेन आकारेण पुरोवर्ति द्रव्य भासत एव। इदमिति पुरोवर्तिनो द्रव्यस्य अङ्गुल्या निर्देशात्। तथा च सितभास्वरत्वेन भासमाना शुक्ती रजतप्रतीतेरालम्बनं भवितुमर्हितीति।
(3) वेदान्तदेशिकास्तत्त्वमुक्ताकलापे—-(28)
`रत्नांशौ रत्नबुद्ध्या विदुरनवगते रत्न एव प्रवृत्तिं
ज्ञातस्वेष्टानुषङ्गादविदितमपि खल्वाददीतात्र चैवम्।’
इति श्लोकार्धेन अन्यथाख्यातौ बाधकमुपन्यास्थन्। तस्यायमाशयः—यत् इष्टतावच्छेदकरूपेण प्रतीयते तत्रैव लोके उपादानार्थ प्रवृत्तिर्दृश्यते। ता तथा च पुरोवर्ति शुक्तिशकलं यदि इष्टतावच्छेदकरजत्वरूपेण न ज्ञायेत तदा तत्र प्रवृत्तिर्न स्यात्। अतः प्रवृत्त्यनुरोधेन रजततया शुक्तिज्ञानमावश्यकमिति ह्यन्यथाख्यातिः साधयितुमिष्यते नैयायिकैः। तन्न युज्यते। क्वचिदिष्टतावच्छेदकरूपेण पूर्वमज्ञातेऽपि वस्तुनि प्रवृत्तिर्दृश्यते। तथा च रजतत्वप्रकारकज्ञाने शुक्तिविशेष्यकत्वसाधने व्यभिचारो भवति। तथा हि कश्चित् रत्नप्रभायां रत्नमिति बुद्ध्या प्रसारितहस्तः तत्रस्थितं पूर्वमज्ञातं रत्नमुपादत्ते। तत्र रत्नार्थिप्रवृत्तिविषयभूतं रत्नं न पूर्वतने रत्नत्वप्रकारके ज्ञाने विशेष्यम्। रत्नप्रभाया एव तत्र विशेष्यत्वात् तता च रत्नेच्छाजन्यरत्नविषयकप्रवृत्तिहेतुभूते रत्नत्वप्रकारकज्ञाने रत्नप्रभाविशेष्यके रत्नविशेष्यकत्वरूपसाघ्याऽभाववति रत्नप्रवृत्तिप्रयोजकज्ञानत्वरूपहेतुसत्त्वात् व्यभिचारः। ननु तत्रापि तेजस्त्वेन सामान्याकारेण प्रवृत्तिविषयभूतं रत्नमपि विषय एव, अतो न व्यभिचार इति मनसिकृत्य स्थालन्तरे व्यभिचारमाह—ज्ञातस्वेष्टानुषङ्गादिति। अयमर्थः—-कस्यचित् क्षीरमिष्टं भवति। अतस्तज्ज्ञात्वा तदुपादत्ते। तत्र क्षीरानुषक्तं तोयतृणादिकमप्युपात्तं भवति। तच्च तोयतृणादिकं पूर्व क्षीरज्ञानवेलायां सामान्यरूपेणापि न ज्ञातम्। तत्र व्यभिचार इति। एवं च सामान्यरूपेणआप्यविदितस्य यदि प्रवृत्तिविषयत्वं भवति, तदा इदन्त्वेन विदितस्य रजतत्वेनाविदितस्यापि प्रवृत्तिविषयत्वं कैमुत्यसिद्धमिति तदाशयः।
तत्समाधानम्
उक्तस्थले प्रवृत्तिविषयत्वमस्माभिर्नाङ्गीक्रियते। यथा हि ग्रामं गन्छंस्तृणं स्पृशति इत्यादौ ग्रामगमनस्यैव प्रवृत्तिविषयत्वम्, प्रवृत्तिफलभूतगमनव्यापार एव तृणस्पर्शः कर्म। तथा क्षीरमेव प्रवृत्तिविषयः न तु तदनुषक्तं तृणादिकमति। उपादानवेलायां तु अविनाभूतत्वात्तदप्युपादत्ते। अतो न दोषः। तदुक्तं प्रामाण्यवादे मणौ—-(29)
`मणिप्रभाविषयज्ञानेन भिन्नविषयतया मणिगोचर—
प्रयत्नानुत्पादात्। मणिप्राप्तिस्तु नान्तरीयकत्वात्’ इति।
यथार्थख्यातिः
रामानुजमतानुयायिनः सर्वं ज्ञानं यथार्थमिति कंचन पक्षमपि समाश्रयन्ते। यद्यपि प्राभाकरा अपि सवं ज्ञानं यथार्थमित्येव आतिष्ठन्ते तथापि ते इदमिति ज्ञानमनुभवरूपं यथार्थम्, रजतमिति स्मरणरूपं ज्ञानमपि यथार्थमित्येवं भ्रमस्थले ज्ञानयाथार्थ्यमुपपादयन्ति। रामानुजमतस्थास्तु इदं रजतमित्याकारकं विशिष्टज्ञानमपि नैयायिकवदङ्गीकुर्वन्ति। तत् विशिष्टज्ञानमयथार्थमिति नैयायिकाः, यथार्थमिति तु रामानुजीयाः। तस्य यथार्थत्वं यथार्थमेव तज्ज्ञानम् इति। तत्र पञ्चीकरणप्रक्रियां मीमांसादिग्रन्थांश्च प्रमाणयन्ति। सविषयो विस्तरेण श्रीभाष्यश्रुतप्रकाशिका—तत्त्वमुक्ताकलाप दौ विवेचितः।
सदसत्ख्यातिः
`सदसत्ख्यातिर्बाधाबाधात्’ (5-56) इति साङ्ख्यसूत्रदर्शनेन साङ्ख्याः भ्रमे सदसत्ख्यातिं स्वीकुर्वन्तीति ज्ञायते। स्वरूपेण सतः संसर्गतः अवस्थारूपेण अध्यस्तरूपेण वा असतः प्रतीतिः सदसत्ख्यातिः इति तत्र विज्ञानभिक्षुः प्रतिपादयति।
अभिनवान्यथाख्यातिः
माध्वास्तु अन्यथाख्याति स्वीकुवंन्तोऽपि शुक्तौ आपस्थरजतभानं नाङ्गीकुर्वन्ति। अपि तु अत्यन्तासतः रजतस्य शुक्तौ भानं प्रतिपादयन्ति। सत्याः शुक्तेः अत्यन्तासद्रजतरूपेण भानादन्यथाख्यातिर्भवति। अथापि नैयायिकापेक्षया भासमानरजतस्वरूपविषये मतभेदसद्भावात् इयमभिनवान्यथाख्यातिपदेन न्यायसुधायां (30) जयतीर्थेः व्यवाह्रियत। न चासतः कथं प्रतीतिरिति वाच्यम्। `असदेव रजतं प्रत्यभात्’ इत्यनुभवानुसारेण असतोऽपि प्रतीत्यङ्गीकारात्।
अन्यथाख्यातिशब्दार्थविचारः
अत्रेदं विचार्यते। केयमन्यथाख्यातिर्नाम? न तावदन्यत्र सतोऽन्यत्र प्रतीतिः। खण्डे दृष्टस्य गोत्वस्य मुण्डे दर्शनस्यापि भ्रमत्वप्रसङ्गात्। नाप्यन्यत्रैव सतोऽन्यत्र प्रतीतिरन्यथाख्यातिः, तर्हि अन्यत्रैव सत्त्वं कथं निश्चीयते? इह बाधादिति चेन्न। भ्रान्तिज्ञानेन बाधितस्य सत्यरजतस्याप्यत्रासत्त्वनिश्चयप्रसङ्गात्। न च प्रवृत्तिबाधादन्यत्रैव सत्त्वं निश्चीयत इति वाच्यम्। मन्त्रौषधादिप्रतिबद्धस्याग्नेरपि स्फोटजननादिप्रवृत्तिबाधेन मिथ्यात्वनिशअचयप्रसङ्गात्। न चु दुष्टकारणजन्यज्ञानविषयत्वादिहासत्त्वमन्यत्र सत्त्वं च निश्चीयत इति वाच्यम्। दुष्टकारणजन्यत्वस्यापि निश्चेतुमशक्यत्वात्। न च बाधकज्ञानात्तन्निश्चय इति वाच्यम्। पूर्वज्ञानस्य दुष्टकारणजन्यत्वनिश्चये पश्चात्तनज्ञानस्य बाधकत्वनिश्चयः, तस्य बाधकत्वनिश्चये पूर्वस्य दुष्टकारणजन्यत्वनिश्चय इत्यन्योन्याश्रयात्। किं च यत्तावद्रजनं पुरोवर्तिनि भातं तस्यान्यत्र सत्त्वे किं प्रमाण्? न तावत् पूर्वज्ञानम्, अत्र सत्त्वेन हि तदवगमयति नापि बाधकज्ञानम्, तद्धि पुरोवर्तिन्यसत्त्वमवगमयति नान्यत्र सत्तामित्यादीनि दूषणानि श्रुतप्रकाशिकायामुक्तानि। ((31) तेषां प्रतिविधानमपि तत्रैव एवं कृतम्—अन्यत्रैव सता आकारेण पुरोवर्तिनो विशिष्टताज्ञानमन्यथाख्यातिः। अन्यत्रैव सत्त्वं तु प्रवृत्तिबाधसहकृतात् नास्तीति बाधकप्रत्ययान्निश्चीयते। अतो भ्रान्तिज्ञानबाधितस्य सत्यरजतस्यात्रासत्त्वमापादयितुं न शक्यते, प्रवृत्तिबाधविरहात्। न वा म त्रादिप्रतिबद्धस्याग्नेः स्फोटजननादिप्रवृत्तिबाधात् मिथ्यात्वनिश्चयप्रसङ्गः। तत्र नास्तीति बाधकप्रत्ययस्याभावात्। अतो न कोऽपि दोष इति।
ख्यात्यन्नरवादिनामप्यन्यथाख्यातेरवर्जनीयता
ख्यात्यन्तरवादिभिरप्यन्ततो गत्वा अन्यथाख्यातिरवश्याश्रयणीया। तथा हि—असत्ख्यातिमते किमसत् असदिति सदिति वा? असदिति चेत् भ्रमत्वासंभवः। असतः असत्त्वेन भानस्य प्रमात्वात्। बाधप्रवृत्ती च नोपपद्येयाताम्। सदिति प्रतीयते चेत्, असतः सत्त्वेन भानात् अन्यस्यान्यथाभानमेव स्यात्।
आत्मख्यातिपक्षे आत्मशब्दितं ज्ञानं किं ज्ञानमिति प्रतीयते उतार्थ इति? आद्ये भ्रमत्वबाधप्रवृत्तीनामसम्भवः। द्वितीये ज्ञानस्य अर्थात्मना भानादन्यथाख्यातिरेव स्वीकृता स्यात्।
प्राभाकरमतेऽपि ग्रहणस्मरणात्मकज्ञानद्वयाभ्युपगमात् तत् ज्ञानद्वयं किं ज्ञानद्वयमिति प्रतीयते किं वा एकत्वेन? आद्ये बाधप्रवृत्त्योरसम्भवः। द्वितीये एकत्वेन भानादन्यथाख्यातिः। ज्ञानमस्ति विषयो नास्तिति पक्षे विषयः किमविद्यमानत्वेन प्रतीयते उत विद्यमानत्वेन? आद्ये प्रवृत्त्याद्यसम्भवः। न जातु कश्चित् अविद्यमानत्वेन प्रतीते वस्तुनि प्रवर्तते। द्वितीये अविद्यमानस्य विद्यमानत्वेन भानादन्यथाख्यातिः तदुक्तं श्रीभाष्ये—-(32)
`ख्यात्यन्तरवादिनां च सुदूरमपि गत्वा
अन्यथावभासोऽवश्याश्रयणीयः’ इति।
अन्यथाख्यातौ प्रमाणानि
`शुक्तिशकलमेव मया रजततया गृहीतम्’ इत्यनुव्यवसायः, पूर्वोक्तान्यनुमानानि, `योऽन्यथासन्तमात्मानमन्यथा प्रतिपद्यते’ `अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी’ `अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः’ इत्यादीन्याप्तवचनानि च अन्यथाख्यातौ प्रमाणानि। तस्मादन्यथाख्यातिर्निराबाधेति सिद्धम्॥
————–***********————

]