केवलान्वयिलिङ्गविचारः

[[केवलान्वयिलिङ्गविचारः Source: EB]]

[

केवलान्वयिलिङ्गविचारः

[एन्. एस्. रामानुजताताचार्येण लिखितः]
तत्त्वचिन्तामणौ अनुमानखण्डे परामर्शनिरूपणानन्तरम् अनुमितिकरणं लिङ्गं त्रिविधं केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि चेति लिङ्गस्य विभागमुक्वा प्रत्येकं लक्षणादिकं पूर्वपक्षसिद्धान्ताभ्यां निरूपितम्। तदनुसारेणैव सुगमया शैल्या केवलान्वय्यादिलक्षणं परिशील्यते।
अत्र असद्धिपक्षंकेवलान्वयि। असन्= अनिद्यमानः विपक्षः=अभाववान् यस्य तत्त असद्धिपक्षम्। यत्प्रतियोगिकात्यन्ताभाववान् नास्ति तत् केवलान्वयीत्यर्यः। तादृशकेवलान्वयिसाध्यकं लिङ्गं केवलान्ययीत्युच्चते। यथा इदम् अभिधेयं ज्ञेन्यत्वादित्यत्र साध्यम् अभिधेयत्वं केवलान्वयि। अभिधेयत्वाभाववतः असत्त्वात्। तादृशाभिधेयत्वसाध्यकं ज्ञेयत्वं केवलान्वयि लिङ्गम्।
ननु अभिध्येत्वाभावनान् प्रकिद्धो न वा। आद्ये तस्य नास्तीति निषेधो न संभवति। द्वितीये प्रतियोग्यप्रसिद्धया निषेधो ल संभवति। तथा च सिद्ध्यसिद्धिभ्यां व्याघात इति चेत्-न। अत्यलाभावप्रतिमोगितानवच्छेदको यो धर्मः तट्वत्त्वं केवलान्वयित्वमिति तात्यर्याव्। अथिघोयत्वत्वम् अत्मन्ताभावप्रतियोगितानवच्छेदकं, तट्वत् अभिधेयत्वम् इति तकेबलान्वमि। तस्माध्यकं ज्ञेयत्वं केवलान्वयि लिङ्गम्। तत्सध्यकत्वं च तट्विधेयकानुमितिकरणत्वम्। तथा च अत्यन्तभानप्रतियोगिताननच्छेदकधर्मानच्छिलविधेयताकानुमितिकरणत्वं केवलान्वयिलिङ्गस्य लक्षणम्। अत्यन्ताभावप्रतियोगितानवच्छेदकधर्मः अभिधेयत्वत्वम्, तदजच्छिन्ता विधेयता, अभिधेयत्वनिष्ठा निधेयता, तलिरूपकानुमितिः उदमभिधेयमित्याकारकानुमितिः नत्करणत्वम् ज्ञेयत्वेऽस्तीति लक्षणसमन्वयः।
ननु असन् विपक्षो यस्य तत् इति विग्रहे विपक्षपदस्याभाव्रपरत्वेनापि यस्याभविः असन् तत् केवलान्वयीत्यपि वक्तुं शक्यतया विपक्षपदस्याभाववत्यरत्वं विफलमिति चेत्—-न। तता सति क गगनाभावस्य केवलान्वयित्वानुपपत्तेः। गगनरूपस्य गगनाभावाभावस्य विद्यमानत्वात्। विपक्षपदस्याभाववत्परत्वे तु गगनस्यावृत्तिपदार्थत्वात् गगनाभावाभाववतो न कुत्रापि सत्त्वमिति अविद्यमानविपक्षकत्वात् गगनाभावस्य केवलान्वयित्वमुपपद्यते।
ननु अभिधेयत्वात्युन्ताभाववान् कोऽपि कुतो नास्ति इति चेत्—श्रूयताम्। यः अभिधेयत्वात्यन्ताभाववान अभिमतः सः किंचिछब्दाभिधेयो न वा? आद्ये तस्मिन् अभिधेयत्वस्यैव सत्त्वेव स कथम् अभिधेयत्वात्यन्ताभाववान् भवेत्। द्वितीये शब्दानभिधेयस्य तस्यालीकतया—अवस्तुतया अभिधेयत्वात्यन्ताभावाधिकरणत्वायोगात्। अत एनाभिधेयत्वात्पन्ताभाववान् अप्रसिद्ध इत्युच्यते। तथा च यत् पदाभिधेयं न भवति तत् पदजन्यज्ञाननिषयो न भवति। यक्ष पदजन्यज्ञानविषयो न भवति तत् अलीकं तुच्छम्। तुच्छस्य तु नास्तिं लिचिलिरूपिताधिकरणत्वमिति भावः।
ननु यथा आकाशशब्दाशक्यमपि शब्दाश्रयत्वं आकाशशब्दजन्यशाब्दबोधविषयो भवति तथा वस्त्वादिपदानभिधेयभपि अभिधेयत्वं शाब्दबोधनिषयो भवितुमर्हति, तथा च नालीकत्वमभिधेयत्वस्येति. तदेवाभिधेयत्वात्यन्तभावाधिकरणम्। अक्ष अभिधेयत्वं नासद्विपक्षमिति कथं तत् केवलान्वायि? नच शब्दाश्रयत्वं कुतः आकाशशब्दानभिधेयमिति वाच्यम्। आकाशमरूपीत्यादौ कादलित् अष्टट्रव्यातिरिक्तमस्ति इत्याकारको बोधः। कदालिच्च शब्दाश्रयोऽस्तीत्याकारको बोध इति आकाशशब्दस्य न किचिद्धर्मनिशिष्टे शक्तिः। किं तु आकाशापदात् आकाशस्य यदा यद्धर्मरूपेणोपस्थितिः तदा तद्धर्मेनैव प्रकारेण शाब्देबोध इति स्वीकारात् तथा चाभिधेयत्वं कुतक्षित् व्यावृत्तं= किचिन्निरूपितवृत्तित्वाभाववत् धर्मत्वात् गोत्ववत् इत्यनुमाने अभिधेयत्वात्यन्ताभावाधिकरणं किंचित् सिध्यतीति चेत्—-न। साध्यमानं किंचन्नरूपितवृत्तित्वाभाववत् न वा? न चेत्, तस्यव्यावृत्तत्वस्य किंचिलिरूपितवृत्तित्वाभावाभाववत्तया तदेव केवलान्वयि। किंचिदवृत्तित्वस्य किंचिद्वलित्वाभावे, सर्ववृलित्वे पर्यवसानात्। आद्ये किंचिलिरूपितवृत्तित्वाभावरूपं व्यावृत्तत्वं यतो व्यावृत्तं=यन्निरूपितवृत्तित्वाभाववत् तदेव केवलान्वयि’ तस्मिन् किंचिन्तिरूपितवृत्तित्वाभावरूपस्य व्यावृत्तत्वस्याभावेन तदभावरूपस्य सर्ववृत्तित्वात्मकस्य केवलान्वयित्वस्य आवश्यकत्वात्। तथा च व्यावृरूपसाध्याभाववति व्यावृत्तत्वे व्यावृत्तत्वाभाववति च धर्मत्वस्य च सत्वात् व्यभिचारः उकानुमाने दोषः इति।
एवमभिधेयत्वमत्यभावप्रतियोगीति साधनेऽपि साध्यमानमत्यतन्ताभाव प्रतियोगित्वम् अत्यन्ताभावाप्रतियोगि चेत् तत्र साध्याभाववति धर्मत्वरूपहेतुसत्त्वात् व्यभिचारः। तत् अत्यन्ताभावप्रतियोगि चेत्, तत् यन्तिष्ठात्यन्ताभावप्रतियोगितदेव अत्यन्ताभावप्रतियोगित्वाभाबवत् इति तत्र हेतुसत्त्वात् व्यभिचारः। अवृत्तावत्यन्ताभावजप्रतियोगित्वाभावा संभवेन तदधिकरणे वृत्तिमत्त्वरूपधर्मत्वस्याङ्गीकरणीयत्वात्। सर्वथा केवलान्वयी धर्मः सिध्यत्येव।
न चात्यन्ताभावप्रतियोगित्वं व्यावृत्तत्वं च व्यक्तिभेदान्ताना एवं च तत्तद्व्यत्तिनिष्ठानाम् अत्यन्ताभावप्रतियोगित्वानां व्यावृत्तत्वानां च प्रत्येकं चालिनीन्यायेन व्यक्त्यन्तरनिष्ठात्यन्ताभावप्रतियोगित्वस्य व्यक्त्यन्तरव्यावृत्तत्वस्य च सत्त्वेन तयोः साध्यसन्तान्नव्यभिलारः, साध्याभाववति हेतुसत्त्व एव व्यभियारादिति वाच्यम्। इदम् अत्यन्ताभावप्रतियोगि, इदं व्यावृत्तिमिति चानुगतप्रतीतिबलेन गोत्ववत् अनुगतयोस्तयोः सिद्धला व्यक्तिभेदेन नानात्वाभावात् न व्यभिचारपरिहार इति।
अथ पूर्वपक्षः
नन्वेतावता केवलान्वसिसाध्यकं केवलान्वयि। केवलान्वमितं चात्यन्ताभावाप्रतियोगित्वमिति यदुकं तन्त संगच्छते। अव्याप्यवृत्त्भत्यन्तभावे कपिसंयोगादवव्याप्तेः। कपिसंयोगाभावो हि प्रवियोगिकपिसंयोगवत्यपि वृक्षे वर्तत इति सुतरां तच्छून्ये वर्तते। एवं च वृक्षे कपिसंयोगाभावस्य मूलावछेदेन, तदभावस्य चाग्रावच्छेदन सत्त्वात् कपिसंयोगाभावः कपिसंयोगात्मकात्यन्ताभावप्रतियोगीति अत्यन्ताभावाप्रतियोगित्वरूपस्य केवलान्वयिलक्षणस्य कपिसंयोगाभावेऽमापिः।
एवमाश्रयनाशजन्यो यो गुणाशाः, तदत्यन्ताभावेऽव्याप्तिः। स हि केवलात्वयित्वेन संमतः। आश्रयनाशक्षणे तावत् तद्गतगुणनाशः नक्तुं न शक्यते, आश्रयनाशस्य कारणत्वात्। आश्रयनाशोन्तरक्षणे च आश्रयस्याभावात् गुणनाशः न भवितुमर्हति, नाशस्य स्चप्रतिमोग्यधिकरणवृत्तित्वनियमात्। एवं च गुणाश्रये गुणनाशो नास्ति चेत् सुताशमन्यत्र नास्तीति गुणनाशात्मन्तभावः केवलान्वयी। तञाव्यापिः। तथा हि ध्वंसप्रागभावाधिकारणेऽत्यन्ताभावो नाङ्गीक्रियते। गुणनाशात् पूर्वक्षणे गुणवति द्रव्ये गुणनाशप्रागभावः वर्तते। अतस्तदानीं तत्र गुणनाशात्यन्ताभावो भवितुं नार्हति। एवं च गुणनाशात्यन्ताभावस्यात्यन्तभावः गुणनाशप्राक्क्षणावच्छिन्ते द्रव्येऽस्तीति तन्तिष्ठात्यन्ताभावप्रतियोगित्वात् आक्षयनाशजन्यगुणनाशात्यन्ताभावस्य, अत्यन्ताभावाप्रतियोगित्वरूपस्य केवलान्वयिलक्षणस्य तत्राव्याप्तिः।
न च गुणानाशप्रागभावाधिकरणे गुणनाशात्यन्ताभावास्वीकारे तत्र गुणानशो वाति (गुणनाशस्य वत्निप्रसङ्गः) इति वाच्यम्। पूर्वं तत्र गुणनाशप्रागभावस्य सत्त्वेन गुणनाशवृत्तेः आपादयितुमशक्यत्वात्। न हि घटप्रागभावसत्त्वादशायां घटसत्ता आपादयितुं शक्यते। उत्तरकाले तु आश्रयस्यैनाभावात् गुणनाशः कुत्र वर्ति।
एवमाकाशात्यात्यन्ताभावेऽपि केवलान्वमिलक्षणस्याव्याप्तिः। तस्य आकाशरूपो य आकाशाभावाभावः तत्प्रतियोगित्वेव अत्यन्ताभावाप्रतियोगित्वविरहात्।
ननु अभावात्यन्ताभावो न प्रतियोगिस्वरूपः,तथा सति घटान्योन्याभावांत्यन्ताभावोऽपि घटरूपः स्यात्। तथा च घटवति भूतले घटोमोन्माभावः—-घटभेदः इष्यते, स न स्यात्। घटरूपस्य घटान्योन्माभावात्यन्ताभावस्यैव तत्र सत्त्वात्। स्त्रात्यन्तभावेन ससाकं स्वस्य विरोधादिति चेत्—न। अत्यन्ताभावात्यन्ताभावस्यैन प्रतियोगिरूपत्वाङ्गीकारात्। अन्योन्माभावात्यन्ताभावस्यैव प्रतियोगिरूपत्वाङ्गीकारात्। अन्योन्माभावात्यन्ताभावस्तु प्रतियोगिवृत्त्यसाधारणधर्मरवरूपः। तथा च घटात्यन्ताभावात्यन्ताभावः घटस्वरूपः। घटान्योन्याभावात्यन्ताभावस्तु घटत्वरूपः। घटवति भूतले घटत्वविरहात् घटत्वात्मकः घटान्योन्याभावात्यन्ताभावो नास्तीति विरोधिविरहात् घटोन्मोन्माभावो भवितुमर्हति।
सिद्धान्ताः
वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। वृत्तिमान्। योऽत्यन्ताभावः तदप्रतियोगित्वं केवलान्वयिनो लक्षणम्। केवलान्वयिसाध्यकं लिङ्गंकेवलान्वयीति तु पूर्वोक्त योजनीयम्। आकाशात्यन्तभावस्य आकाशरूपो योऽत्यन्ता भावः तत्प्रतियोगित्वेऽपि आकाराः वृत्तिमान् न भवतीति वृत्तिमदत्यन्ताभावप्रतियोगि यद्यत् तद्भिलत्वरूपस्य वृत्तिमदत्यन्ताभावाप्रतियोगित्वस्य आकाशात्यन्ताभावे सत्वात् तत्र नाव्याप्तिः। एवम् अत्यन्ताभावे स्वविरोधित्वमपि निवेशनीयम्। तेनाव्याप्यवृत्तिसंयोगात्यन्ताभावे नाव्याप्तिः। तस्य हि वृत्तिमान् यः संयोगात्मकोऽत्यन्ताभावः तत्प्रतियोगित्वेऽपि संयोगस्य संयोगात्यन्ताभावविरोधित्वाभावात् स्विरोधी वृत्तिमांक्ष योऽत्यन्ताभावः तदप्रति योगित्वमस्तीति नाव्याप्तिः।
आश्रमनाशजन्यगुणनाशात्यन्ताभावे तु अव्याप्तिरेवं परिहरणीया प्रागभावस्यात्यन्ताभावाविरोधित्वे मानाभावात् प्रतियोगिसमवायिदेशेऽपि गुणकशात्यन्ताभावो नवर्त एवेति गुणनाशात्यन्ताभावात्यन्ताभावो न तत्र वतति इति अत्यन्ताभावाप्रतियोगित्वरूपं केवलान्वययित्वं तस्य विर्वाधमिति।
एवं प्रमेयलाभिधायत्वादिकमपिकेवलान्वयि। वृन्तिमात् मोऽत्यन्ताभावः न प्रमेयत्वाद्यभावः प्रमेमत्वादेः सर्वत्र सन्तेन कुत्रापि तदत्युमाभावविरहात्। अपि तु घटाधत्यन्ताभावः, तदप्रतियोगित्वं प्रमेमत्वादावस्तीति।
न च प्रमेयत्वं प्रमाविषयत्वम्, तत्र विषयभेदेन भिन्तं न केवलान्वयीति वाच्यम्। स्वाश्रयनिरूपितनिषयत्वसंबन्धेन प्रमात्ववत्त्वमेव प्रमेमत्वम्। प्रमात्वस्य चैकस्य ताट्टशपरंपरासंबन्धेन सर्ववृन्तितया केवलान्वयित्वात्। न च तद्वद्विशेष्यकत्वावछिन्ततत्प्रकारकज्ञानत्वरूपप्रमात्वस्य विषयविशेषनियन्त्रितत्वात्। नानुगतत्वमिति कथं तस्य केवलान्वयित्वमिति वम्यम्। प्रमात्वपदेनानुभवत्वजातेर्विवक्षितत्वात्।
न च प्रमेमत्वस्य परंपरासंबन्धेन प्रमात्वरूपत्वे प्रमेत्येव धीः स्मात्, न तु प्रमेयमिति, विशेषणस्यैव प्रकारत्वेन संबन्धस्याप्रकारत्वादिति वाच्यम्। तर्हि प्रमाजातीयनिरूपितविषयत्वस्य प्रमेयत्वरूपत्वात्। विषयत्वत्वेन विषयत्वानुगमाच्च न पूर्वोलः दोषः।
वस्तुतस्तु भावतोऽस्मदादेर्योगिनां वा या सर्वविषयक प्राव्यक्तिः तलिरूपितविषयत्वस्यानुगतस्य प्रमेमत्वरूपतया यथाश्रुतमपि प्रमेयत्वं केवलान्वयि।
ननु केवलान्वयिसाध्यके इदं प्रमेमं वाच्यत्वात् इत्यादौ साध्याभावस्य अप्रसिद्धला इदं प्रमेयत्ववत् नवेति साध्यसंशयरूपक्षतायाः असंभावत् कथं तत्रानुमितिः। न च तत्र पक्षविशेव्यकसाध्यतदभावप्रकारकसंशयस्यासंभवेऽपि साध्यविशेष्यकस्य पक्षवृन्तित्वतदभावकोटिकस्य प्रमेयत्वमत्र वर्तते नवेत्याकारकस्य संशयस्य संभव इति वाच्यम्। तस्य प्रमेयनिशेष्यकप्रमेयत्वसाध्यकानुमितावनुपयोगित्वात्। पक्षविशेष्यकसाध्यतदभावप्रकारकसंशयस्यैव पक्षतारूपत्वात्
न च प्रमेयत्वं घटवृन्ति न वेति संशयात् घटपक्षकप्रमेयत्वसाध्यकानुमितिर्मा भूत्। प्रमेयत्वपक्षकघटवृत्तित्वसाध्यकानुमितिः संभवत्येव। सैव केवलान्वायिसाध्यकानुमितिरिति वाच्यम्। घटवृत्तित्वरूपस्य साध्यस्य केवलान्वयित्वाभावात्। घटवृत्तित्वस्य कुत्रचित् घटत्वादौ सत्त्वेन, कुत्रचित् पटत्वादावसत्त्वेन च तस्य सर्वत्र वृत्तित्वाभावात्।
न च पक्षः साध्यवान्त वा’ `पक्षे साध्यमस्ति न वा’ इति संशयौ समानविषयकौ, तदस्यास्त्यास्मिलित्यर्थे मतुपो विधानात्। तथा र्च पक्षे साध्यमस्ति न वेति संशयादनुमितिः संभवतीति वाच्यम्। विशेष्यप्रकारभेदेन तयोः समानविषयकत्वाभावत्। एकस्मिन् संशये पक्षः विशेष्यः, साध्यतदभावौ प्रकारौ। अपरास्मिन् संवाये साध्यं विशेष्यम्, पक्षवृत्तित्वतदभावौ प्रकाराविति। तथा च घटः प्रमेयः वाच्यत्वादित्य स्य केवलान्वयिसाध्यकत्वात् केवलान्वयित्वम्। घटः प्रमेय इत्यनुमितौ च घटः प्रमेयो ननेति संशय एव पक्षता। स च न संभवति, प्रमेयत्वाभावरूपकोटयप्रसिद्धेरिति चेत्—
उच्यते। य एव हि संशयः साध्यसिद्धिनिरोधी=साध्यनिश्रयप्रतिबध्यः स एवानुमित्यङ्गम्, आवश्यकत्वात्। साध्यतदभावप्रकारकपक्षविष्यकसंशयत्वमात्रेण नानुमित्यङ्गताः; आहार्यसंशयस्य उत्कटदोषाधीनसंशयस्य चानुमित्यप्रतिबध्यत्वेन तदङ्गत्वाभावात्। तथा च साध्यसिद्धिप्रतिवध्यत्वमपि विशेषणंदेयम्। अवश्यकत्वात् लाघवाच्च, न तु समानविशेष्यकसमानप्रकारकत्वमपि निवेश्यम्, अनावश्यकत्वात् गौरवाच्च। एवं च पक्षः साध्यवानिवि साध्यनिश्रये सति `पक्षः साध्यवान्नवा’ `साध्यपक्षवृत्तिनवा’ इति संशययोरनुत्पत्त्या तयोः साध्यनिश्रयप्रतिबध्यतया पक्षः साध्यनानित्यनुमित्यङ्गत्वम्। प्रमेमत्वासध्यकस्थले साध्याभावाप्रसिद्ध्या पक्षः साध्यनान्त वेत्याकारकसंशयासंभवेऽपि साध्यनिश्रयप्रतिबध्यात् `साध्यं पक्षवृत्ति न वा’ इत्याकारकसंशयात् घटः प्रमेयः इत्यनुमितिर्निशिबाधा। एवं `साध्यं पक्षनिष्ठाभावप्रतियोगि न वा’ इत्याकारकसंशयोऽपि साध्यनिश्रयनिवर्त्यत्वात् पक्षता। तद्वलाच्चानुमितिः संभवति।
यद्वा संशमयोग्यतैवानुमानाङ्गम्, न तु संशयः। अनुमित्यव्यवहितप्राक्क्षणे तस्य नाशात् । तत्र साध्यसंशयानन्तरं लिङ्गदर्शन—व्यादिस्मरण–परामर्शानुमितयः क्रमेण भवन्ति, तत्र लिङ्गदर्शनव्याक्षिस्मरणाभ्यां परामर्शोत्पात्तिक्षणे साध्यसंशयस्य नाशात्।
ननु संशययोग्यता नाम साधकबाधकमानाभावः। साधकमानं साध्यनिक्षयः, बाधकमानं साध्याभावनिक्षयः। तयोः सतोः संशयानुदयात् तटोरभाव एव संशययोग्यता। प्रमेयत्वाभावस्याप्रसिद्धया बाधकमानाप्रसिद्ध्या तदभावरूपयोग्यताविरहात् कथं प्रमेयत्वसाध्यकानुमितिः इति चेन्त। साध्यविशेष्यकपक्षनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकज्ञानाभावस्यैव प्रतिबन्धकाभावबिधया साध्यानुमितिहेतुत्वेन साधकमानतया तस्यैव संशययोग्यतारूपत्वात्, अनुमितेः पूर्वं साट्टशयोग्यतासत्त्वेन प्रमेयत्वसाध्यकानुमितेः निरावाधत्वात्।
अन्ये तु घटाद्यत्यन्ताभावे प्रतियोगित्वसंबन्धेन प्रमेमत्वप्रकारकभ्रमवतः पुरुषस्य प्रमेयत्वं प्रतियोगितासंबन्धेनाभावान्तरे प्रकारः अभावश्र पक्षे प्रकार इत्येवंक्रमेण पक्षः प्रमेयत्ववान्तवेति संशयो भवितुमर्हतीत्याहुः।
ननु केवलान्वयिसाध्यकलिङ्गे विपक्षाप्रसिद्ध्या विपक्षासत्त्ववैकल्यात् पक्षसत्त्व—सपक्षसत्त्व-विपक्षासत्त्व-अबाधितत्व—असत्प्रतिपक्षत्वात्मकप़ञ्चरूपमध्ये एकरूपविकलं तत् लिङ्गं कथं गमकं—साध्यसाधकं भवेत्? एकरूपविकलस्यापि गमकत्वाङ्गीकारे व्यतिरेकविकलवत्=विपक्षासत्त्वरहितभिव रूपान्तरविकलमपि=पक्षसत्त्वाबाधितत्वादिविकलमपि गमकं स्यादिति चेत् न। अन्वयव्यतिरेकव्यादयोरन्यनरनिक्षयेनानुमितेरनुभवात् यत्र द्वयोरापि व्यादयोरूपस्थितिः तत्र द्वयोरपि व्याप्तोरनुमितिप्रयोजकत्वं वक्तव्यम्, विनिगमनाविरहात् तत्र व्यतिरेकव्यासिज्ञानसम्यादकतया व्यतिरेकोपासना=विपक्षव्यावृन्तत्वज्ञानस्यापेक्षा। व्यतिरेकक्ष विपक्षासत्त्वज्ञानं च विपक्षवृत्तित्वशङ्कानिवृत्तिद्वाश व्यतिरेकव्याप्तिग्रहे उपयुज्यते। केवलान्वयिसाध्यकस्थले तु विपक्षाभावेन विपक्षवृत्तित्वशङ्कैव नोदेतीति विपक्षासत्त्वमपेक्षितम्, न केवलान्वयिनीत्युक्तं भवति।
अत्रेत्यं मणिपङ्गिः—-
अन्वयव्यतिरेकव्याप्त्योरन्यतरनिक्षयोनानु–
मित्यनुभवात् युगपदुभयव्याप्त्युपस्थितौ
विनिगमकाभावेन उभयोरपि प्रयोजकत्वे
व्यतिरेकोपासना। व्यतिरेकक्ष विपक्षवृत्तित्व—
शङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तानुपयुज्यते।
अत्र तु विपक्षाभावेन शङ्कैव नोदेति—
इति। अत्र मथुरानाभाः—-` अन्वयव्यतिरेकिस्थल एव विपक्षव्यावृत्तत्वज्ञानम् अङ्गमिति सामाधत्ते, अन्तूमेति। अनुभवादित्यन्तं उभयोरपि प्रयोजकत्वे इत्यत्र हेतुः। युगपदिति। संभेदे वान्यतरवैयर्थ्यमिति भावः। प्रयोजकत्वे=प्रयोजकत्वस्थले। एतावता अन्वय व्यतिरेकी लब्धः। व्यतिरेकोपासनेति। विपक्ष व्यावृत्तत्वज्ञानापेक्षेटार्भः। न तु केवलान्वयिनीति भावः। अत्र हेतुमाह—व्यतिरेकश्रेति। चः हेतौ। व्यातिरेकः—-विपक्षसत्त्वव्यतिरेकः। विपक्षवृत्तित्वसङ्कानिवृत्तिद्वारेति सावधारणम्। तद्वृत्तित्वशङ्कानिवृत्तिद्वारैवेत्यर्थः। व्यतिरेकव्याप्तौ—साध्याभावहेत्वभावयोः यौ व्यतिरेकौ साध्येहेत् तयोर्व्याप्तिग्रहे—अन्वयव्याप्रिग्रह इति यावत्। अत्र तु= केलान्वमिनि तु। वय्तिरेकव्याप्ताविति यथाश्रुतं तु न संगच्छते, व्यतिरेकव्याप्तिग्रहं प्रत्येव तस्य विपक्षवृत्तित्वशङ्कानिवृत्तिमात्रद्वारा उपयोगितया केवलान्वयिनि तन्निवृत्त्यसंभवेऽपि तस्यान्वयव्याप्तिग्रहोपायत्वे बाधकाभाकत्। न च व्यतिरेकव्याप्तावित्यस्य व्यतिरेकव्याप्तिग्रह एवेत्यर्थ इति वाच्यम्। अन्वयव्याप्तिग्रहं प्रत्यपि इति वाच्यम्। अन्वयव्याप्तिग्रहं प्रत्यपि ताट्टशशङ्कानिवृत्तिद्वारा उपयोगित्वस्य सर्वसिद्धतया अवधारणासंगतेः। अत्र तु विपक्षाभावेन शङ्कैव नोदेतीत्यभिधानस्य असंगतत्वापत्तेश्र। `अत्र तु व्यतिरेकव्याप्रिज्ञानमेव नेत्येव वक्तुमुचितत्वात्—
इति प्राहुः—
एतावता केवलान्वमि मणिग्रन्भेन निष्कृष्टो विषयस्तावत्—
(1) वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयिलक्षणम्, वृत्तिमदत्यन्ताभावाप्रतियोगिसाध्यकत्वं केवलान्वयिलिङ्गस्य लक्षणम्।
(2) अव्याप्यवृत्तिसंयोगात्यन्ताभावः, आकाशात्यन्ताभावः, प्रमेयत्वाभिधेयत्वादिकं च केवलान्वयि। इदं प्रमेयं वाच्यत्वात् घटत्वादित्यादिकं केवलान्वयिलिङ्गम्।
(3) केवलान्वयिसाध्यकस्यले साध्याभावस्याप्रसिद्ध्या पक्षः साध्यवान्त वेत्याकारकसंशयरूपपक्षतायाः असंभवेऽपि `साध्यं पक्षवृत्ति न वा’ `साध्यं पक्षनिष्ठाभावप्रतियोगि न वा’ इत्याकारसंशयौ तत्र पक्षता। तद्बलाच्चानुमितिः। अन्यत्र प्रसिद्धयोः पक्षवृत्तित्वाभावपक्षनिष्ठाभावप्रतियोगित्वयोः साध्ये प्रमेयत्वेऽवगाहनेन तात्संशयसंभवात्।
अथ वा संशययोग्यता पक्षता। संशययोव्यताय साध्यविशेष्यकपक्षनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकज्ञानाभावः।
(4) केवलान्वयिसाध्यकलिङ्गं विपक्षावृत्तित्वविकलं कथं गमकं भवेत्? अन्वयव्यतिरेकिलिङ्गे अन्वयव्याप्तिग्रहे विपक्षावृत्तित्वज्ञानस्यापेक्षितत्वदर्शनेन केवलान्वायि लिङ्गेऽपि अन्वयव्याप्तिग्रहं प्रति विपक्षावृत्तित्वज्ञानस्य अपेक्षितत्वात् इत्याशङ्क्य, अन्वयव्यतिरेकिस्थलेऽपि विपक्षस्य सद्भावात् विपक्षवृत्तित्वशङ्कानिरसनद्वारैव विपक्षस्यैवाभावात् विपक्षवृत्तित्वशङ्कैव नोदेतीति तच्छङ्गानिवृत्तिरूपद्वारठोपात् न विपक्षावृत्तित्वज्ञानापेक्षा। अतः एकाङ्गाविकलामपि केवलान्वयिलिङ्गं गमकमेव इति।
दिधितिकारैस्तु—-
" असद्विपक्षं केवलान्वायि" इति मणिग्रन्यस्म " अत्यन्ताभावाप्रतियोगिसाध्यकं केवलान्वयि" इत्ययौ वार्णितः। एवं केवलव्याति रेकिप्रकरणे मणिकारैः " केवलव्यतिरेकीत्वासत्सपक्षः, यत्र व्यतिरेकसहचारमात्रेण व्याप्तिग्रहः" इत्युक्तम्। तदनुसारेण यत्र अन्वयसहचारमात्रेण व्याप्तिग्रहः तस्य केवलान्वय्यनुमानत्वम् उचितमित्याशयेन—" व्याप्तिग्रहाकसहचारभेदात् भेदे तु अन्वयसहचारमात्रगृहीतव्याप्रिकत्वं केवलान्वयित्वम्" इति केवलान्वयिलिङ्गस्य लक्षणान्तरमुक्तं दीधितिकारैः। अस्य ग्रन्थस्यायं यथाश्रुतार्थः—अन्वयसहचारज्ञानमात्रजन्यज्ञानविषयव्याप्रिमत्त्वं केवलान्वयिनो लक्षण्। व्यतिरेकसहचारज्ञानाजन्यत्व—अन्वयसहचारज्ञानजन्यत्वोभयविशिष्टज्ञानविषयव्याप्याश्रयत्वमिति यावत्। अन्वयव्यतिरेकिण्यतिव्याप्तिवारणाम अजन्यत्वान्तम्। ताट्टशज्ञानजन्यं यत् वह्निव्याप्यो धूम इत्याकारकशब्दजन्यं च ज्ञानं तद्विषयव्याप्तिनिशिष्टे धूमे (अन्वयव्यतिरेकिणि) अतिव्याप्तिवारणाय अन्वयसहचारज्ञानजन्मत्वनिवेशः। व्यतिरेकसहचारज्ञानजन्यज्ञानविषयत्वशून्यव्याप्तिमत्त्वं वा तल्लक्षणार्थः। शाब्दज्ञानविषयधूमादिनिष्ठव्याप्तेः कदाचित् व्यतिरेकसहचारज्ञानजन्यज्ञानविषयत्वात् नातिव्याप्तिः—इति। परिष्कारास्तु नापेक्षिता इति नेहलिख्यन्ते।
एवम् " वृत्तिमदत्पन्ताभावाप्रतियोगित्वं केवलान्वयितम्" इति मणिः। अत्र वृत्तिमत्पदनिवेशेन आकाशाभावस्य केवलान्वायित्वोपपादनेऽपि संयोगात्यन्ताभावस्य केवलान्वयित्वं न निर्वहति, वृत्तिमत्संयोगात्मकात्यन्ताभावप्रतियोगित्वात् इत्याशयेन दीधितिकारैरूक्तम्—-" संयोगाद्यभाबोपसंग्रहाय च प्रतिमोग्यसमानाधिकरणत्वेनाभावो विशेष्यः" (p1354) इति। संयोगात्मकोऽत्यन्तभावः प्रति योगिसमानाधिकरण इति प्रतियोग्यसमानाधिकरणोऽत्यन्ताभावः घटाद्यभावः तदप्रतियोगित्वस्य संयोगात्यन्ताभावे सत्त्वात् तस्य केवलान्वयि त्वोपपत्तिरिति तदाशंयः।
ननु प्रतियोग्यसामानाधिकरण्यं यदि स्वप्रतियोगि समानाधिकरणो यस्तदन्यत्वं तदा संयोगादेरपि केवलान्वयित्वापत्तिः, संयोगाभावस्य द्रव्ये प्रतियोगिसमानाधिकरणतया तदन्यत्वविरहात् तदन्यमभावान्तरमादाय तदप्रतियोगित्वस्यसंयोगे सुघटत्वात्। किं तु स्वप्रतियोग्यनधिकरणवृत्तित्वमेव। एवं च तद्विशेषणकाभावस्यैव स्वपदार्थतया गगनाद्यभावप्रतियोग्यधिकरणाप्रसिद्ध्या न तदभावस्य स्वप्रतियोग्यनधिकरणवृत्तित्वमिति तथाविधाभावान्तराप्रतियोगित्वमादायगगनादेः केवलान्वयित्वापत्तिः इति चेत्—मैवम्। केबलान्वयितावच्छेदकसंबन्धसामान्ये यदभावप्रतियोगिप्रतियोगिकत्वयत्किंचिदधिकरणानुयोगिकत्वोभयाभावः तत्त्वम्, यत्किंचिदधिकरणवृत्तितानवच्छेदकावच्छिन्नप्रतियोगिकत्वरूपप्रतियोगिवैयधिकरण्यं वा निवाक्षणीयम्। आद्ये केवलान्वायितावच्छेदकसंयोगे गगनाभावप्रतियोगिगगनप्रतियोगिकत्वसत्त्वेऽपि यत्किं चिदथिकरणानुयोगिकत्वनिरहेण उभयाभावसत्त्वात् ताट्टशप्रतियोगिवैयधिकरण्याश्रयोऽभावः गगनाभावः तत्प्रतियोगित्वस्यैव गगने सत्त्वात् न तस्य केवलान्वयित्वम्। द्वितीये यत्किंयिदधिकरणवृत्तितानवच्छेदकं गगनत्वं तदवच्चिन्नप्रतियोगिताकोऽभावः गगनाभावः तत्प्रतियोगित्वस्यैन सत्त्वात् गगनस्य न केवलान्वयित्वम्। तदप्रतियोगित्वस्य गगनाभावादौ सत्त्वात्। गगनाभावादेः केवलान्वयित्वम्। तथा च स्वप्रतियोगिव्यथिकरणबृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्।
न्यायबोधिन्यादौ संयोगाभावस्य केवलान्वयित्वोपपादनाय स्वनिरोधित्वमत्मन्ताभावे विशेषणं दत्तम्। स्वविशेधित्वं च स्वाधिकरणावृत्तित्वम्। तथा च स्वाधिकरणावृत्तिः वृत्तिमाश्र योऽत्यन्ताभावस्त दप्रतियोगित्वं केवलान्वयित्वम्।
वृत्तिमदित्यस्य निरवच्छिन्नवृत्तिकेत्यर्थात् संयोगाभावादेः केवलान्वयित्योंपपन्तेः किं प्रतियोगिवैयधिकरण्यनिवेशकुशेनेति नीलकणप्रकाशिकादानुक्तम्।
तत्तु नोचितम्—अनवच्छिन्नवृत्तिकत्वनिवेशे कालिकं संबन्धानच्छिन्नप्रतियोगिताकघटत्वाद्यभावस्य कालिकेन घटत्ववति कालेऽपि तदनधिकरणदेशावच्छेदेन वर्तमानतया केवलान्वयिनोऽसंग्रहापत्तेः। तदभावस्य घटत्वादेः समवायेन निरवच्छिन्नवृत्तिकत्वात्। येन संबन्धेनाभाववत्ताज्ञानं यत्प्रतियोगिमत्ताज्ञानविरोधि तेन संबन्धेन व्याप्यवृत्त्याभावीयतत्प्रतियोग्यन्यत्वनिवेशे च गौरवमिति गदधरभट्टाचार्यैर्न्यरूप्यत। वृत्तिमत्वे सति प्रतियोग्यनधिकरणवृत्त्यभावाप्रतियोगित्वं वा कैवलान्वयित्वम्। गगनादेर्नृत्तिमत्त्वनिरहात् न केवलान्वमित्वम्।
दीधितिकारैरपरोऽपि नूतनो विषयः निरूपितः। तथा हि—नास्त्येव केवलान्वयिसाध्यकानुमानम्। साध्याभाववदवृत्तित्वमेव व्याप्तिः। सैव चानुमित्यौपयिकी। हेतुव्यापकसाध्यसामानाधिकरण्यापेक्षया लघुशरीरत्वात्। व्यापकतागर्भव्याप्तौ वहित्वादिरूपसाध्यतावच्छेदकविशेषणस्य हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकत्वाभावस्य साध्याभाववदवृत्तित्वरूपव्याप्तौ हेतुविशेषणस्य साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावनद्वृत्तित्वाभावस्य च तुल्यशरीरत्वेऽपि—-व्यापकतागर्भव्याप्तौ अनवच्छेदकत्वधर्मिताबच्छेदकतया वह्नित्वत्वादेः हेतौ साध्यसामानाधिकरण्यस्या चाधिकस्य निवेशेन गौरवम्। एवं च हेतुव्यापकसामानाधिकरण्यरूपव्याप्तिविशिष्टहेतुमत्ताज्ञानम् अनुमितिकारणमिति मते अधिकपदार्थनिषयतानां द्विधा हेतुविषयतामाश्र निवेशात् कारणतावच्छेदकगौरवम्। अतो विनिगमनाविरहात् उभयव्याप्योरनुमितिप्रयो जकतेति नाशङ्कनीयम्। लाद्यवरूपविनिगमकसत्त्वात् साध्याभाववदवृत्तित्वज्ञानमेवानुमितिहेतुः।
अपि च साध्याभाववदवृत्तित्वस्य वायप्तित्वे तस्य साधनतावच्छेदकभेदेऽप्यभेद इति लाघवान्तरम्। तथा हि धूमत्वालोकत्वावच्छिन्नलिङ्गकबहुविधपरामर्शानां वह्न्यभाववदवृत्तित्वावच्छिन्नप्रकारकपक्षविशेष्यकनिश्रयत्वेन एकमेवानुमितिहेतुत्वं कल्प्यते। व्यापकसामानाधिकरण्यरूप व्याप्रेस्तु हेतुतावच्छेदकविशेषघटिततया तदवच्छिन्नप्रकाश्कपरामर्शनिष्ठहेतुतायाः हेतुतावच्छेदकधुमत्वादिभेदेन भेद इति गौरवम्। इति।
ननु व्याप्तेः साध्यसाधनसामानाधिकरण्याघटितत्वे पक्षे कदाचित् संयोगेन हेतुमत्ताज्ञानादनुमितिः, कदाचित् समवायादिनेत्यत्र किं नियामकम्। व्याप्तेस्तद्वटितत्वे च ताद्वशसामानाधिकरण्यघटकसाधनीयसंबन्धेन पक्षे साधनवत्ताज्ञानस्यानुमितिहेतुतया तन्तियम इति चेत्—-ना साध्याभाववदवृत्तित्वज्ञानस्यानुमितिहेतुत्वेऽपि यत्संबन्धावच्छिन्नसाध्याभावनति हेतोरवृत्तित्वं गृह्यते, तेन संबन्धेन साध्यानुमितिः फलम्। साध्याभाववलिरूपितयत्संबन्धाबच्छिन्नवृत्तित्वाभावो हेतौ गृत्यते। तत्संबन्धेन पक्ष धर्मताज्ञानं कारणमिति स्वीकारात् पूर्वोक्तनियमोपपत्तेः।
ननु साध्याभाववदवृत्तित्वरूपव्याप्तेः अवृत्तिगगनादिसाधारणतया गगनादिहेतुकापि अभ्रान्तस्यानुमितिः स्यात् इति चेन्न। अभ्नान्तस्य पुंसः आकाशे पक्षदर्मताज्ञानाभावादेवानुमित्यप्रसङ्गात्। यद्वा वृत्तिमत्त्वे सति साध्याभाववदवृत्तित्वं व्याप्तिरिति स्वीकारात् अवृत्तिगगनादेर्न व्याप्तिमत्त्वम्। एवं च साध्याभावाप्रसिद्धचा तद्वटितव्यादयभावात् केवलान्वयी नानुमापकः।
ननु केवलान्वयिसाध्यकानुमितेर्भ्रमं विनोपपादनार्थमेव गुरुशरीरापि हेतुव्यापकसाध्यसामानाधिकरण्यरूपा व्याप्तिः अनुमितिप्रयोजिका वाच्येति चेत्—न। व्यापकताघटितव्यप्तिज्ञानात् अनुमितेः अनुभवसिद्धत्वावात् यौक्तिकत्वाभावाच्च। तथा हि आत्मत्वेव बेतुना स्वरूपतो ज्ञानत्वप्रकारिका अयं ज्ञानवानित्यनुमितरनुंभवसिद्धा। साच स्वरूपतो स्वरूपतो ज्ञानत्वप्रकारकात् पूर्वपक्षव्याप्तिविषयकात् अयं ज्ञानाभाववदवृत्त्‌यात्मत्ववान् इत्याकारकपरामर्शान्निर्वहति। व्यापकसामानाधिकरण्यरूपव्याप्तिशरीरे तु साध्यतावच्छेदके हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वस्य विवेशात् अयं आत्मत्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकज्ञानत्वानच्छिन्नसमानाधिकरणात्मत्वबान् इत्याकारकपरामर्शस्यैव हेतुत्वं नाच्यम्। तत्र ज्ञानत्वस्य प्रतियोगितानवच्छेदकत्वं प्रति विशेष्यतया भानात्, जातेर्यत्र विशेष्यतया भानं तत्र किंचिद्रूपेणैव भानमिति नियमात् ज्ञानत्वत्वेनैव ज्ञानत्वभानं वक्तव्यम्। तथा सति ज्ञानत्वत्वावच्छिन्नेऽनणच्छेदकत्वावगाहिव्याप्तिज्ञानात् ज्ञानत्वत्वावच्छिन्नज्ञानत्वप्रकारिका अयं ज्ञानत्ववद्वान् इत्येवानुमितिर्भवेत्, न तु स्वरूपतो ज्ञानत्वप्रकारिका ज्ञानवानित्यनुमितिः। यद्वर्मावच्छिन्ने साध्यतावच्छेदके व्यापकतावच्छेदकत्वग्रहः तेन रूपेण साध्यतावच्छेदकम् अनुमितेर्विषयः इति नियमात्।
न च व्यतिरेकिसाध्यकस्थले साध्याभाववदवृत्तित्वज्ञानम्, केवलान्वयिसाध्यकस्थले तु व्यापकसामानाधिकरण्यज्ञानमनुमितिहेतुरित्युलौ नायं दोषः, समवायसंबन्धावच्छिन्नज्ञानाभाववदवृत्तित्वज्ञानात् स्वरूपतो ज्ञानत्वप्रकारिकायाः ज्ञाववान् इत्यनुमितेर्निविहिदिति वाच्यम्। विषयतासंबन्धेन केवलान्वयिनो ज्ञानस्य साध्यत्वे साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्याभावाप्रसिद्ध्या साध्याभाववदवृत्तित्वज्ञानस्य हेतुत्वासंभवात् व्यापकसामानधिकरण्यज्ञानस्यैव हेतुतायाः वाच्यतया तत्र च स्वरूपतो ज्ञानत्वस्योक्तरीत्या भानासंभनेव स्वरूपतो ज्ञानत्वप्रकारकानुमितेरनिर्वाहात्।
एवं केवलव्यतिरेक्यनुमानमपि न यौलिकम्। व्यतिरेकव्याप्रिज्ञानस्य साध्याभानव्यापकीभूताभावनप्रतियोगी हे हुरित्याकारकस्य व्यभिचारज्ञानाविरोधित्वात्। व्यतिरेक व्याप्तिग्रहाथीना धीर्नानुमितिः तत्त्वेन—अनुमितित्वेन अनुव्यवसामविरहात्। किं तु विजातीया, अर्भापयामीत्यनुव्यवसायस्यैव तत्रोत्पत्तेः। तत्करणं प्रमाणान्तरमर्भापत्तिरेव—इति निरूपितम्।
गदधरभट्टाचार्यास्तु–व्यतिरेकिसाध्यकस्थले पूर्वपक्षव्यात्तिज्ञानमनुमितिहेतुः। केवलान्वयिसाध्यकस्थले च व्यापकसामानाधिकरण्यरूपसिद्धान्तव्याप्तिज्ञानम्। कदाचित् ज्ञानवान् इति, कदातिश्र ज्ञानत्ववद्वान् इति चानुमित्योर्निविहस्तु इत्थम्—तद्धर्मावच्छिन्तेतरावृत्तित्वेन व्यापकतावच्छेदकत्वज्ञानात् तद्धर्मप्रकारेण साध्यानुमितिः, तत्रेतरत्वप्रतियोगितावच्छेदकत्वज्ञानात् तद्धर्मप्रकारेण साध्यानुमितिः, तत्रेतरत्वप्रतियोगितावच्छेदकतया तद्धर्मस्य याट्टशं भानम्, अनुमितानपि तस्य ताद्वशं भावमिति वियमः। अतो व्यापकतावच्छेदकशानत्ववदितरावृत्तिधर्मवत्समानाधिकरणहेतुमानममित्यादिशानात् ज्ञानत्ववानयमित्य नुमितिः। व्यापकतावच्छेदकज्ञानेतसवृत्तिधर्मवत्समानाधिकरणहेतु—मानयमिति ज्ञानात् ज्ञानवानयम् इत्यनुमितिरिति तु सूक्षादार्शीनिः—-इति प्राहुः। तेषामयमाशयः—ज्ञानत्वत्वेन रुपेण ज्ञानत्वस्य व्यापकताघटितव्यप्तिज्ञाने भावेऽपि द्वयो रनुमित्योः निर्वाहः संभवति। तथा हि ज्ञानत्वत्वं द्विविधं ज्ञानत्ववादितरावृत्तित्वं ज्ञानेतरावृत्तित्वं चेति। आद्ये ज्ञानत्वत्वेन ज्ञानत्वस्य घटकता। द्वितीये खरूपतो ज्ञानत्वस्य घटकता। ज्ञानत्ववदितरावृत्तित्वावच्छिन्ने हेतुव्यापकताबच्छेदकत्वाबगाहिपरामर्शात् ज्ञानत्वत्वेन ज्ञानत्वप्रकारकानुमितिः ज्ञानत्वस्य घटकता। ज्ञानत्ववदितरावृत्तित्वावच्छिन्ने हेतुव्यापकताबच्छेदकत्वाबगाहिपरामर्शात् ज्ञानत्वत्वेन ज्ञानत्वप्रकारकानुमितिः ज्ञानत्ववद्वान् इत्याकारा। ज्ञानेतरावृत्तित्वावच्छिन्ने तदवगाहिपशामर्शात् स्वरूपतो ज्ञानत्वप्रकारिकानुमितिः ज्ञानवानित्माकारा—इति।
एवं साध्याभावा प्रसिद्धावपि केवलान्वयिसाध्यकस्थले पूर्वपक्षव्याद्विज्ञानादेवाभ्रान्तस्यानुमितिर्भवितुंमर्हतीत्यपि भट्टाचार्यैन्येरूपि। तथा हि—साध्यवदनिरूपितत्वावच्छिन्नाधेयत्वाभावः व्याप्तिः। पर्वतो वाह्निमान् धूमादित्यादौ वह्विमदनिरूपितमाधेयत्वं वाह्निशून्यह्रदादिनिरूपितं शैवालादिनिष्ठमाधेयत्वं तदभावः धूमेऽस्तीति समन्वयः। धूमवान् वह्नेरित्यादौ धूमवदनिरूपितत्वावच्छिन्नस्यायोगोलकनिरूपिताधेयत्वस्य वह्नौ सत्त्वेन तदभावनिरहात् नातिव्याप्तिः। केबलान्वयिसाध्यके इदं वाच्यं ज्ञेयत्वादित्यादौ घटादिपदार्थनिष्ठानां भूतलादिनिरूपिताधेयत्वानां साध्यवाच्यत्ववन्तिरूपितत्वेन वाच्यत्ववदनिरूपितमाधेयत्वं यद्यप्यप्रसिद्धम्, तथापि वाच्यत्ववदनिरूपितत्वं किचिदनिरूपिते घटादौ प्रसिद्धं व्यधिकरणधर्मं कृत्वा वाच्यत्ववदनिरूपितत्वावच्छिन्नाधेमत्वनिष्ठप्रतियोगिताकाभावः व्यधिकरणाधर्मावच्छिन्नप्रतियोगिताकाभावः संपाद्यः। स हेतावस्तीति नाव्याप्तिः। धूमवान्वह्नेरित्यादिव्यभिचारिणि धूमनिष्ठे व्यभिचारनिरूपकायोगोलकनिरूपिताधेयत्वे साध्यधूमवदनिरूपितत्वसत्त्वेन धूमवदनिरूपितत्वानिच्छिन्ताधेयत्वनिष्ठप्रतियोगिताकाभावः समानाधिकरणधर्मावच्छिन्नाभाव एव भवति। स च वह्निरूपहेतौ नास्तीति नातिव्याप्तिः।
यद्वा साध्याभाववद्वृत्तित्वाभाव इत्यस्य यथाश्रुतार्थ स्वीकारे अव्याप्यनुत्तिसाध्यकसद्वेतावव्याप्तिर्भवति। अतः साध्यवद्वृत्तित्वान्यवृत्तित्वाभावः इति तदर्थो विंवक्षणीयः। एवं च केवलान्वयिसाध्यके साध्यबद्वृत्तित्वान्यस्य वृत्तित्वस्याप्रसिद्ध्या अव्याप्तिः प्रसजति। तद्वारणाय साध्यवन्निरूपितवृत्तित्वे हेतुनिष्ठत्वं निवेशनीयम्। तथा च साध्यवन्निरूपितहेतुनि ष्ठवृत्तित्वान्यवृत्तित्वाभावो व्याप्रिः। इदं वाच्यं ज्ञेयत्वादित्यत्र ज्ञेयत्वरू पहेतुनिष्ठं यत् साध्यवाच्यत्ववद्वृत्तित्वं तदन्यत् वृत्तित्वं आकाशाभावादौ प्रसिद्धम्, तदभावः ज्ञेयत्वरूपहेतावरत्तीति लक्षणसमचयः।
यद्यप्येवमपि इदं वाच्यं प्रमेयादित्यादौ सर्वासामपि वृत्तीनां (आधेयतानां अभवा वृत्तित्वानाम्) प्रमेयरूपहेतुनिष्ठतया साध्यवन्निरूपितप्रमेयनिष्ठवृत्तित्वभिन्नवृत्तित्वाप्रसिद्ध्या अव्याप्रिर्दुर्वारैव आकाशाभावनिष्ठवृत्तित्वस्यापि प्रमेयनिष्ठत्वात्; तभापि स्वनिष्ठं यत् साध्यवद्वृत्तिन्वं तद्भिन्नवृत्तित्वाभावनिवेशेन सामञ्जस्यम्। यदा यत्र हेतुव्यक्तौ लक्षणं संगमनीयम्, तदा स्वपदेन तस्यैवोपादेयतया तत्प्रमेयव्यक्तौ, साध्यवन्निरूपिततन्निष्ठवृत्तित्वभिन्ना या प्रमेयान्तरनिष्ठा वृत्तिः तदभावस्य सत्त्वाल्लक्षणसमन्वयः। यदि तु अवच्छेदकभेदेनाधेयता भिद्यत इति स्वीक्रियते तदा तदा हेतुनिष्ठत्वस्थाने हेतुवाबच्छेदकावच्छिन्नत्वं निवेश्य साध्यवन्निरूपितहेतुतावच्छेदकावच्छिन्नाधेयत्वान्याधेयत्वाभावो व्याप्तिरिति नक्तव्यम्। उक्तस्थले शाध्यवन्निरूपिता या प्रमेयत्वावच्छिन्ना आधेयता तदन्या आधेयता घटत्वाद्यवच्छिन्ना आधेसता प्रसिद्धैवेति नाप्रसिद्धिनिबन्धनो दोषः। तथापि ताट्टशरूपान्तरघटत्वावच्छिन्नाधेयत्वानानस्य प्रमेयरूपहेतावभावादव्याप्तिरिति शङ्का अवाशिष्यते। अतः साध्यवन्निरूपितहेतुतानच्छेदकावच्छिन्तवृत्तित्वान्या या वृत्तिः तदनवच्छेदकहेतुतावच्छेदकवत्त्वं व्याप्तिरिति निवक्षणीयम्। उक्तस्थले वाच्यत्वबन्निरूपितप्रमेयत्वावच्छिन्नवृत्तित्वान्या वृत्तिः घटत्वावाच्छिन्ना वृत्तिः। तदनवच्छेदकं हेतुतावच्छेदकं प्रमेयत्वमिति समन्वयः कार्यः।
अवच्छेदकभेदेऽप्याधेयतायाः अभेदे तु हेतुतावच्छेदकनिष्ठं यत् साध्यवन्निरूपितवृत्तितावच्छेदकत्वं तदन्या या वृत्तितावच्छेदकता तच्छन्यहेतुतावच्छेदकवच्छं व्याप्तिः। घटत्वनिष्ठात् वृत्तितावच्छेदकत्वात् प्रमेयत्वनिष्ठं वृत्तितावच्छेदकत्वमन्यदेवेति नोक्तस्थलेऽव्यमाप्तिरिति गदाधरभट्टाचार्यप्रदर्शिति पूर्वपक्षव्याप्तेर्निर्दोषत्वसमर्भिका नूतना सरणिः।
————-********————-

]