[[कण्टकोद्वारवाक्यम् Source: EB]]
[
कण्टकोद्वारवाक्यम्
गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे अवयवप्रकरणस्यान्ते `कण्टकोद्वारस्य न सर्वात्रिकत्वं समयविशेषोपयोगित्वात्’ इति पङ्क्तिर्द्दश्यते। इयं च पङ्क्तिः तार्किकाग्रगण्येन कृष्णम्भट्टेनेत्थं व्याख्याता—-
`कण्टकोद्वारस्य। को वह्निमान् कुतो वह्निमान् कथमस्य गमकत्वमित्यादिप्रश्नसमूहस्य। समयेति। प्रकारान्तरेण प्रतिवादिनस्तथाविधाकाङ्क्षाबोधेन क्रमिकपञ्चवाक्यप्रयोगस्थले कण्टकोद्धारासंभवादिति भावः।’
इति। श्रीमान्मधुरानाथभट्टचार्योऽपीत्थमेव व्याचख्यौ। अध्यापका अपीत्थमेव पाठयन्ति। मम तु पठनकालादारभ्यात्र विषये तृप्तिर्नोपजायते स्म, यतः तत्तदवयवोत्थापकप्रश्नपञ्चकस्य कण्टकोद्धारश्बदवाच्यत्वे न कामप्यौचीतीं पश्यामः। अतः पूर्वोक्तमणिग्रन्थस्य तात्पर्यमन्यदेव भविष्यति कण्टकोद्धारशब्दार्थश्चान्य एव भविष्यतीति मन्यमान एवासम्। यदा पुनर्दैवात् वेदान्तदेशिकविरचितं तत्त्वमुक्ताकलापमपश्यं तदा तत्रत्येन एकेन श्लोकेन तत्त्वमावागच्छम्। तत्सांप्रतं विदुषां पुरत उपहरामि।
`आभासोद्धारवाक्ये स्वयमिह पठितेऽप्यक्षतान्यस्य शङ्का
स्याच्चेद्व्यर्थोपनीतिर्निगमनमपि ते तत्तदर्थे यदात्थ।
तस्मादुद्धाटितानां परिहृर्तिरुचिता जेतुमिच्छोर्विशेषात्
उक्ते माने विमर्शो यदि भवति परं तत्र तर्कोऽपिं वाच्यः॥’
(तत्त्वमुक्ताकलापे बुद्धिसरे—-श्लो.59)
इति कश्चन् श्लोकः। तस्य च नृसिंहराजीया टीका—
`पर्वतो वह्निमान्, धूमात्, यो यो धूमवान्
सोऽग्निमान् यथा महानसः, तथा चायं,
तस्मात्तथेति पञ्चावयवप्रयोगानन्तरं नाय—
मत्राभासस्तल्लक्षणरहितत्वादिति कण्टकोद्धारवाक्य—
माक्षपादाः प्रयुञ्जते। तत्र किमिदं वाक्यं
प्रयोजनरहितं प्रयोजनवद्वा? नाद्यः, प्रयोजन—
रहितस्य प्रयोगायोगात्। न द्वितीयः, तत्रापि
किमाभासशङ्कानिरासः प्रयोजनमुत तदन्यत्।
न द्वितीयः, तथाभूतस्यादर्शनात्। नाद्य इत्याह
—-आभासोद्धारवाक्य इति’
इत्यादिः परिदृश्यते। अनेन च संदर्भेण स्पष्टमिदमवगच्छामः यत् पञ्चावयववाक्याप्रयोगानन्तरं `नायमत्राभासस्तल्लक्षणरहितत्वात्’ इति वाक्यं प्रयोक्तव्यम्। तदेव च हेतुदोषरूपकण्टकोद्धारकत्वेन कण्टकोद्धारवाक्यपदेन आभासोद्धारवाक्यपदेन च व्यपदिश्यत इति। न्यायपरिशुद्धौ च—
`ये तु प्रतिज्ञादित्रयानन्तरं हेतोरसिद्ध्य—
न्यथासिद्धिपरिहारार्थ उपनयः निगमने
हेत्वंशः सिद्धसाधनतापरिहाराय, साध्यांशस्तु
बाधपरिहारायेति वर्णयन्ति तैर्नूनं तत्तद्दोष—
परिहाराय मन्त्रपाठोऽयमिष्टः। प्रतिज्ञाहेतु—
भ्यामेव तदर्थाभिधानसिद्धेः। अन्यथा नाय—
मसिद्धो नापि बाधित इति व्यक्तमेव वक्तव्य—
त्वादाभासोद्धारनिर्बन्धः पुनरुक्तिश्च’
(chow. Ed.p.161)
इति प्रत्यपादि। तत्रत्यायां व्याख्यायां च—
`आभासोद्धारेति। नायमाभासस्तल्लक्षण—-
रतहित्वादिति कण्टकोद्धारवाक्येनैवाशेष—-
दोषनिवृत्तिबोधसिद्धेस्तदर्थं वाक्यान्तर—
प्रयोगस्तेन पुनरुक्तः स्यादित्यर्थः’
इत्यभ्यधायि अयं संदर्भोऽपिं पूर्वोमर्थमुपोद्बलयति॥
किं च न्यायाचार्या उदयनाचार्याः न्यायपरिशिष्टनामके ग्रन्थे `अवयवविपर्यासवचनमप्राप्तकालम्’ (न्या.सू.5.1.11) इति न्यायसूत्रव्याख्यानावसरे—
`अवयवशब्दस्त्वत्र समस्तकथाभाग—
संग्रहार्थः। वादिना हि प्रयोगोऽभिधेयः।
तदनन्तरं संक्षेपतो विस्तरतो वा हेत्वाभा—
सोद्धारः कार्यः। प्रतिवादिनापि जल्पे
वादिप्रयुक्तं हेतुमुपालभ्य स्वपक्षसाधनं
वक्तव्यं, अथ हेत्वाभासा उद्भरणीया
इति क्रमः।
इति प्रत्यपादयन्। अनेनापिं ग्रन्थेन न्यायप्रयोगानन्तरं हेत्वाभासोद्धारकं वाक्यं प्रयोक्तव्यमिति प्रतीत्या तदेव च हेत्वाभासोद्धाररूपं परार्थानुमानरूपं वाक्यं कण्टकोद्धारशब्देन व्यवह्नियते इति निर्णयः सुशक एव॥
मणिकारसामकालिकेन मणिकण्ठेन विरचिते न्यायरत्नेऽपि स्पष्टमुक्तम्—
`अन्यथा दूषणाभावप्रतिज्ञामपि कुर्यात्। ननु
नायमसिद्धो न विरुद्ध इत्यादि कण्टोकोद्वरण—
व्याजेन दूषणाभावः प्रतिज्ञायत एव। मैवम्।
एवं सत्यधिकावयवत्वप्रसङ्गः। नवा कण्टकोद्धारस्य सार्वत्रिकत्वम्’ इति
(Madras Govt. Or. Mss. Ed.p.143)
तथा श्रीमद्ब्यासतीर्थकृते तर्कताण्डवेऽवयवप्रकरणे–
`अपि चस्मिन् पक्षे कण्टकोद्धारोऽपि
पृथङ् न कर्तव्यः स्यात्’
इत्यभिहितम्। ताद्व्याख्याने च—
`नायमसिद्धस्तल्लक्षणरहितत्वाद्’ इत्यादि—
कण्टकोद्धारानुमानेषु पञ्चावयवतां
विनाप्युच्यमानेषु त्वयैव नियमस्त्यक्तः’
इत्युक्तम्॥
इत्थमेभिर्ग्रन्थसंदर्भैः पञ्चावयवप्रयोगानन्तरं वक्तव्यं `नायमाभासस्तल्लक्षणरहितत्वाद्’ इत्याकारकं हेतुदोषोद्धारकमनुमानरूपं वाक्यं कण्टकोद्धारवाक्यमिति स्पष्टं प्रतीमः। तत्र च तादृशं वाक्यं नियमेन प्रयोक्तव्यमुत नेति संशये यं पुरुषमुद्दिश्य न्यायः प्रयुज्यते तस्य चेदस्ति न्यायवाक्यश्रवणानन्तरमप्यनिवृत्ता हेतुदोषशङ्का तदा प्रयोक्तव्यम्, इतरथा तु न प्रयोक्तव्यमित्येवमनियमभिप्रेत्यैव `कण्टकोद्धारस्य न सार्वत्रिकत्व’ मिति मणिकारा अभिदधिरे। सूचितं चैतत् `तस्मादुद्धाटितानां परिहृतिरुचिता’ इत्यनेन वेदान्तदेशिकैः॥
अयमत्र निष्कर्षः। उदयनाचार्याः कण्टकोद्धारस्य आवश्यकत्वमवोचन्। मणिकारास्तस्यानियतत्वमूचुः। निगमान्तदेशिकास्तु वाद्युक्तहेतौ दोषशङ्कायां तर्काप्रयोगे तन्निवृत्त्यसंभवात् तर्कोऽपि प्रयोक्तव्य इत्यावश्यकतर्तादेव तन्निवृत्तिसिद्धेः कण्टकोद्धारवाक्यमेव नावश्यकमिति मेनिरे। सर्वेषामपि कण्टकोद्धारशब्दार्थः पूर्वोक्त एवाभिमतो न तत्र विमतिरिति॥
अतः प्राचीननैयायिकपरंपरागतं कण्टकोद्धारशब्दार्थं संप्रदायविच्छेदात् यथावदगृह्णन्तौ स्वबुद्ध्या संदर्भाननुगुणं शब्दशवत्यलभ्यं च कंचिदर्थं परिकल्प्य पूर्वोक्तं मणिग्रन्थं व्याकुरुतां कृष्णम्भट्टमधुरानाथभट्टचार्याविति सिद्धम्॥
———*************————
]