[[कारणत्रयविभागविमर्शः Source: EB]]
[
** कारणत्रयविभागविमर्शः**
तर्कसंग्रह—दीपिका—कारिकावली–मुक्तावलीप्रभृतिषु न्यायवैशेषिकानुसारिषु ग्रन्थेषु समवायिकाराणं असमवायिकारणं निमिक्तकारणं चेति कारणं त्रेधा विभज्य तस्य प्रत्येकं लक्षणमपि परिष्कृत्य प्रतिपादितमस्तीत्ययं विषयः मन्ये प्रायः सर्वेषां संस्कृतविदुषां विदितचर इति। अत्र केचन पाश्चात्यविद्वांसः पाश्चात्यरीत्या विमर्शकाश्च विद्वांसः एवं कारणस्य त्रेधा विभागः न सूत्रादिषु प्राचीनेषु ग्रन्थेषु उल्लिखितः, केवलं नव्यनैयायिकैः सविजृम्भणं प्रतिपादितः इत्यलिखन् इत्यश्रृणवम्। एतत्तत्त्वं प्रतिबोधयितुमयं लेखः।
वैशेषिकसूत्रेष्वेव कारणत्रयप्रस्तावो विद्यते इति आदौ निरूपयामः। दशमेऽध्याये द्वितीयाह्निके आदिमानि सप्त सूत्राणि विमृशेम। तत्र प्रथमं सूत्रम्—
`कारणमिति द्रव्ये कार्यसमवायात्’
इति। इदं च सूत्रं उपस्कारे इत्थं व्याख्यातम्—
`कारणं—समवायिकारणमिदमिति
प्रतीतिप्रयोगौ द्रव्ये द्रष्टव्यौ। कुत एवम्?
अत आह—-कार्यसमवायात्। कार्याणि
द्रव्यगुणकर्माणि तत्रैव समवयन्ति यतः।
इति। पटादिरूपं द्रव्यं तन्त्वादिद्रव्ये समवायसंबन्धेन वर्तते। शुक्लादिगुणः पटादिद्रव्ये समवायेन वर्तते। उत्क्षेपणादिरूपा क्रिया हस्तादिद्रव्ये समवायसंबन्धेनास्ति। एवं च कार्याणां द्रव्यगुणकर्मणां समवायसंबन्धेन द्रव्ये वर्तमानत्वात् द्रव्यं समवायिकारणमिति सूत्रार्थः। यद्यपि सूत्रे कारणमिति सामान्यत उक्तम्; तथापि कार्यसमवायात् इति हेतुमहिम्ना कारणपदेन समवायिकारणमेव विवक्षितमिति निश्चीयते। न हि समवायिकारणादन्यस्मिन् कारणे कार्यसमवायोऽस्ति। तता चानेन सूत्रेण समवायिकारणं कणादस्य संमतमित्युन्नीयते। अस्य सूत्रस्य न कोऽप्यन्योऽर्थः संभवति। कारणपदं हि यदि कारणसामान्यपरं स्यात् तदा द्रव्यं, कारणमिति प्रतीतिव्यवहारयोर्विषयः, कार्यसमवायात् इत्यर्थः सूत्रस्य वक्तव्यः स्यात्। स चासंगतः। कार्यसमवायरहितेषु गुणक्रियादिष्वपि तन्तुरूपं पटरूपस्य कारणमित्यादिप्रतीते र्यवहारस्य च सत्त्वेन कार्यसमवायस्य कारणमिति प्रतीतिव्यवहाराप्रयोजकत्वात्। अतः समवायिकारणपरत्वमेव सूत्रस्थकारणपदस्य योयुज्यते। अनेन च सूत्रेण कार्यसमवायाश्रयत्वं समवायेन कार्याश्रयत्वं वा समवायिकारणत्वमिति लक्षणमपि सूचितम्।
ततो द्वितीयं सूत्रं—`संयोगाद्वा’ इति। न केवलं समवायिकारणत्वमेव द्रव्यस्य, अपि तु निमित्तकारणत्वमपीत्यनेन सूत्रेण प्रतिपाद्यते। पूर्वसूत्रादत्र `कारणमिति द्रव्ये’ इत्यनुवर्तते। अनुवृत्तस्य च कारणशब्दस्य पूर्वसूत्रे समवायिकारणपरस्यापि अत्र सूत्रे निमित्तकारणपरत्वमौचित्यादाश्रीयते। तथा च द्रव्ये निमित्तकारणमिति प्रतीतिव्यवहारौ संयोगात् हेतोर्भवतः इति सूत्रार्थः। `तुरीतन्तुसंयोगस्यापि पटकारणत्वात् तद्द्वरा तुर्यास्तन्तोश्च पटनिमित्तकारणत्वमपि’ इति उपस्कारग्रन्थोऽत्रानुसन्धेयः। अस्यापि सूत्रस्य समञ्जसमर्थान्तरं पश्यामः।
यद्वा वाशब्दः समुच्चयार्थकः। पूर्वसूत्रादनुवृत्तस्य कारणपदस्यात्र सूत्रेऽपि समवायिकारणमित्येवार्थः। द्रव्यस्य तन्त्वादेः पटादिकं प्रति यत्समवायिकारणत्वं वर्तते तत् तुरीतन्तुसंयोगाच्च भवति। तुरीतन्तुसंयोगो नास्ति चेत् संयुज्यमानेष्वपि तन्तुषु पटो नोत्पद्येत। तन्तोः पटसमवायिकारणत्वं च न स्यात्। तथा च समवायिकारणासमवायिकारणानुग्राहकत्वरूपं निमित्तकारणलक्षणमपि अत्र सूत्रे सूचितमिति मन्तव्यम्।
ततस्तृतीयं सूत्रं `कारणे समवायात् कर्माणि’ इति अनेन सूत्रेण कर्मणां कारणत्वं प्रतिपाद्यते। कर्माणि कारणानि। कस्मात्? कारणे समवायात्। कस्य कारणे इत्याकाङ्कायां कार्यस्येति अर्थात् सिध्यति। तथा च या क्रिया यत्कार्यस्य कारणं भवति, सा तत्कार्यकारणे समवेता सती तत्कार्यकारणं भवतीतिर्थः। यथा सूत्रा हस्तगतक्रियया हस्तपुस्तकसंयोगो जायते। तत्र कार्यं संयोगः तस्य कारणं ( समवायिकारणं) हस्तः तत्र समवेता सती क्रिया संयोगकारणं भवति। तथा च कार्यसमवायिकारणे समवेतं सत् यत् कारणं तत् प्रथमसूत्रोक्तसमवायिकारणविलक्षणत्वात्। असमवायिकारणमिति व्यपदिश्यते। अनेन च सूत्रेण कार्यैकार्थप्रत्यासत्त्या कारणत्वरूपं असमवायिकारणत्वं सूचितम्।
अत्र सूत्रे `कर्मणि’ इति सप्तम्येकवचनान्तपाठः साधीयान्। प्रथमसूत्रे `द्रव्ये’ इति पाठात्, तथा उपरि सूत्रे `रूपे’ इति पाठाच्च। तथा चात्र प्रथमसूत्रात् `कारणमिति’ इति भागः अनुवर्तते। कर्मणि—क्रियायां कारणमिति प्रतीतिव्यवहारौ कारणे समवायात् भवतः इति सूत्रार्थः।
ततश्चतुर्थं सूत्रम्—-
`तथा रूपे कारणैकार्थसमवायाच्च’
इति। अत्रापि प्रथमसूत्रात् `कारणमिति’ इत्यनुवर्तते। तथा शब्देन वा स भागो विवक्षितः। रूपे कारणमिति प्रतीतिव्यवहारौ कारणैकार्थसमवायात् भवतः इति सूत्रार्थः। नन्तुगतं रूपं हि कार्यभूतस्य पटरूपस्य यत् कारणं पटः तेन सह एकस्मिन्नर्थे तन्तौ समवेतम्। तथा च कारणैकार्थप्रत्यासत्त्या कारणत्वरूपसमवायिकारणत्वमत्र सूत्रे सूचितम्।
ततः सप्तमं सूत्रं—`संयुक्तसमवायादग्नेर्वैशेषिकम्’ इति। अत्र कारणमिति पदमध्याहार्यम्। अग्नेः वैशेषिकं—विशेषगुणरूपमौष्ण्यं पाकजरूपादिषु कारणम्, रूपाद्याश्रयवस्तुसंयुक्ते अग्नौ समवायात्। इदं च कारणं पूर्वोक्तकारणद्वयविलक्षणत्वात् निमित्तकारणमिति व्यपदिश्यते।
इत्थं च एतैः सूत्रैः नव्यनैयायिकैः यत् कारणत्रयस्य लक्षणमुक्तम्, तत् स्ववाचा उक्ता कारणत्वं प्रतिपादितमिति कारणत्रयमपि सूचितमित्येव निर्णीयते। यद्यपि सूत्राण्येतानि, द्रव्यस्य कारणत्वे कार्यसमवायो हेतुः, कर्मणः कारणत्वे कार्यैकार्थसमवायः प्रयोजकः, रूपस्य कारणत्वे कारणैकार्थसमवायः प्रयोजकः औष्ण्यस्य कारणत्वे कारणसंयुक्तसमवायः प्रयोजकः इत्येतावन्मात्रकथनेन तस्य तस्य कारणत्वप्रकारमेव स्पष्टीकुर्वन्तीति प्रतीयते, तथापि प्रयोजकवैलक्षण्यात् कारणत्वेऽपि वैलक्षण्यमाश्रित्य कारणत्वस्य समवायिकारणत्वासमवायिकारणत्वनिमित्तकारणत्वरूपेण त्रैविध्यमनन्तरकालिकाः आशिश्रियिरे इति युक्तं मन्यामहे।
तथापि सूत्रकारेण समवायिकारणं असमवायिकारणं निमित्तकारणमिति शब्दाप्रयोगात् एतैः शब्दैर्विभागः सूत्रानारूढ इति चेत्—-अत्र ब्रूमः। अध्यायान्तरे ते शब्दाः प्रयुक्ताः सन्ति। दशमाध्याये लक्षणकथनमिति विवेक इति। तथा हि प्रथमाध्यायप्रथमाह्निके पञ्चदशं सूत्रम्—
`क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्’ इति। अत्र स्पष्टमेव समवायिकारणं सूत्रकृता निर्दिष्टम्। तथा पञ्चमाध्यायद्वितीयाह्निके चतुर्विसं सूत्रम्—
`कारणं त्वसमवायिनो गुणाः’
इति। अनेन हि गुणानामसमवायिकारणत्वं वदता सूत्रकारेण असमवायिकारणमपि कण्ठरवेण निर्दिष्टम्। तथा तत्रैव षड्विशं सूत्रम्—`कारणेन कालः’ इति। अत्र च कालस्य निमित्तकारणत्वमुक्तम्।
अथ प्रशस्तपादभाष्येऽपि कारणत्रयं प्रतिपादितमस्तीति निरूपयामः। गुणग्रन्थे—
`रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणैकपृथक्त्वस्नेहशब्दानामस—
मवायिकारणत्वम्। बुद्धिसुखदुः खेच्छाद्वेषप्रयत्नधर्माधर्मभाव—
नानां निमिक्तकारणत्वम्।’
इति। भाष्यम्। अत्र कारणद्वयं स्पष्टमेव निरदेशि। अत्र च न्यायकन्दल्यां श्रीधराचार्यः—
समावयिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम्। प्रत्या—
सत्तिश्च समवायिकारणसमवायः समवायिकारणैकार्थसमवायाश्च’
इति। लक्षणमपि प्रत्यपीपदत्। तथा परत्वापरत्वनिरूपणप्रकरणे प्रशस्तपादभाष्ये कारणत्रयमपि स्पष्टं निर्दिष्टम्। तथा हि तत्र भाष्यम्—-
`एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसमवायबह्वल्पभावे
सत्येकस्य द्रष्टुः संनिकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति
परत्वाधारेऽसंनिकृष्टा बुद्धिरुत्पद्यते। ततस्तामपेक्ष्य परेण
दिक्प्रदेशेन संयोगात् परत्वस्योत्पत्तिः।’
इति। अत्र च न्यायकन्दली—
`तां विप्रकृष्टां बुद्धि निमित्तकारणीकृत्य दिक्प्रदेशेन संयोगादस—
मवायिकारणात् विप्रकृष्टे पिण्डेसमवायिकारणभूते परत्वस्योत्पत्तिः’
इति प्रशस्तपादभाष्यं व्यवृणोत्। अनेन च संदर्भेण परत्वोत्पतिं प्रति परत्वाश्रयवस्तु समवायिकारणम्, दिग्वस्तुनोः संयोगः असमवायिकारणम्, अयमस्माद्विप्रकृष्ट इति बुद्धिर्निमित्तकारणमिति ज्ञायते। यद्यप्यत्र भाष्ये एतेषां त्रयाणां बुद्धिसंयोगद्रव्याणां समवाय्यसमवायिनिमित्तकारणपदैर्न व्यपदेशः कृतोऽस्ति, केवलं न्यायकन्दल्यामेव तथास्ति व्यपदेश इति आपाततो भायात्; तथापि परत्वापरत्वयोः अपेक्षाबुद्धि—संयोग—द्रव्याणां त्रयाणां युगपन्नाशादपि नाशो भवतीति प्रतिपादनसंदर्भे—
`विनाशस्त्वपेक्षाबुद्धिसंयोगद्रव्यविनाशात्।………..युगपत्
त्रयाणां समवाय्यसमवायिंनिमित्तकारणानां विनाशात् पस्त्वस्य
विनाशः।’
इति प्रशस्तपादभाष्ये स्पष्टं कारणत्रयमपि निर्दिष्टमिति सुधियो विभावयन्तु। किमितोऽपि स्पष्टवचनमपेक्ष्यते।
तथा किरणावल्यामुदयनाचार्यः कारणत्रयमपि कण्ठरवेण निरदिक्षत्। `द्रव्याश्रितत्वं च द्रव्यसमवायिकारणकता’ (p.147, calcutta edition) इति ग्रन्थेन प्रशस्तपादभाष्यस्थद्रव्याश्रितत्वपदव्याख्यानपरेण द्रव्यं गुणादीनां समवायिकारणमिति प्रतिपादयाम्बभूव। `असमवायिकारणत्वं गुणकर्मणोरेव’ (p.155) इति ग्रन्थेन गुणकर्मणोरसमवायिकारणत्वं प्रतिपादयता असमवायिकारणमनुमेने। `दिशिकाले च सर्वोत्पत्तिमतां निमित्तकारणत्वम्’ (p.177) इति ग्रन्थेन दिशः कालस्य च सर्वकार्यनिमित्तकारणत्वं वदन् निमित्तकारणमप्यङ्गीचक्रे। एवं च करणत्रयविभागः उदयनाचार्यस्यापि संमतः इति सिद्धम्।
एतावता वैशेषिकदर्शने प्राचीनग्रन्थेषु कारणत्रयविभागः संमत इति न्यरूरुपाम। अथ न्यायदर्शनेऽपि तत्र संमतिरस्तीति प्रतिपादयामः। यद्यपि न्यायसूत्रेषु कारणत्रयप्रस्तावो न दृश्यते, तथापि वात्स्यायनभाष्ये तत्सूचनं वर्तते। तथा हि न्यायदर्शने चतुर्थाध्याये प्रथमाह्निके अष्टादशं सूत्रम्—
`क्रमनिर्देशादप्रतिषेधः’
इति। इदं च सूत्रं शून्यमेव जगदुपादानकारणमिति मतनिराकरणसंदर्भे विद्यते। अत्रचभाष्यम्—
`बीजावयवाः कुतश्चिन्निमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति
व्यूहान्तरं चापद्यन्ते। व्यूहान्तरात् अङ्कुर उत्पद्यते। दृश्यन्ते
खलु अवयवास्तत्संयोगाश्चाङ्कुरोत्पतिहेतवः।
इति। अत्र च कुतश्चिन्निमित्तदित्यनेन अदृष्टादिरूपं निमित्तकारणं सूचितम्। `अवयवास्तत्संयोगाश्चाङ्कुलोत्पत्तिहेतवः’ इत्यनेन अवयवरूपं समवायिकारणं, अवयवसंयोगरूपं असमवायिकारणं च सूचितम्।
तथा न्यायवार्तिके उद्योतकरः `तत्कारितत्वादहेतुः’ (न्या.सू.4.1.21) इति सूत्रव्याख्यानावसरे—-
`तत्कारितत्वापित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं
भवति। यच्च निमित्तं तदितरयोः समवायिकारणासमवायि—
कारणयोरनुग्राहकम्, यथा तुर्यादि तन्तूनां तत्संयोगानां च’
इति सुस्पष्टं कारणत्रयं निरदिशत्। अत्र हि निमित्तकारणस्य समवायिकारणासमवायिकारणानुग्राहकत्वरूपं लक्षणमपि समसूसुचत्। `यथा तुर्यादि तन्तूनां तत्संयोगानां च’ इत्यनेन पटं प्रति तुर्यादिकं निमित्तकारणं तन्तवः समवायिकारणं तन्तूनां संयोगः असमवायिकारणमिति च अभ्यधात्। तथा उत्तरत्र—
`ईश्वरश्चेज्जगतो निमित्तकारणं, जगतः साक्षादुपादानकारणं
किम्? उक्तं पृथिव्यादि परमसूक्ष्मं परमाणुसंज्ञितं द्रव्यमिति’
इति ग्रन्थेन ईश्वरः जगत् प्रति निमित्तकारणम्, परमाणवः समवायिकारणमिति अचकथत्। तथा स एव न्यायवार्तिककारः—-
`घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः’ (न्या.सू.1.1.12) इति सूत्रव्याख्यानसंदर्भे—
`न किंचिदप्येककारणकं कार्यं दृष्टम्। सर्वं हि कार्यं प्रादुर्भवत्
समवाय्यसमवायिनिमित्तकारणेभ्यो भवतीति’
इति ग्रन्थेन सर्वस्यापि कार्यस्योत्पत्तौ त्रीणि कारणान्यपेक्षितानीति स्पष्टं प्रतिपादयाम्बभूव। तथा च न्यायदर्शनान्तर्गतेषु प्राचीनग्रन्थेष्वपि समवायिकारणासमवायिकारणनिमित्तकारणरूपेण कारणं त्रिविधमिति विषयः प्रतिपादितोऽस्तीति। सिद्धम्। नव्यग्रन्थेषु तेषां लक्षणान्येव परिष्कृत्य प्रदर्शितानीति विद्धांसो विदांकुर्वन्तु।
अत्र काचिदाशङ्का अवतरति—-यथा वेदान्तिप्रभृतयः उपादानकारणं निमित्तकारणं चेति कारणं द्विविधमित्यातिष्ठन्ते तथा किमिति नैयायिका नाङ्गीकुर्वन्ति इति। तत्र ब्रूमः। नैयायिका अवयवातिरिक्तमवयविनं स्वीकुर्वन्ति। वेदान्तिनस्तु तन्तूनां संयोगविशेष एव पटः न तदतिरिक्त इति प्राहुः। वेदान्तिनां मते संयोगः कार्यकोटौ निविशते। नैयायिकानां मते तु पटनामकः अवयवी कार्यभूतः। स च तन्तुसंयोगविशेषादुत्पद्यते। अतस्तन्तुसंयोगोऽपि कारणमिति स्वीकर्तव्यम्। तस्य च समवायिकारणत्वासंभवेन असमवायिकारणत्वं प्रतिपादितम् इति। तदेतत् श्रीमद्वेदान्तदेशिकश्रीचरणाः न्यायसिद्धाञ्जने—-(p.233,P.B.A.ed.)
`असमवायीत्यवान्तरविभागस्तु नास्मदीयैरभ्युपगतः ; पारिभाषि—
कत्वात्। पटाद्यसमवायितया तन्तुसंयोगादयस्तु असिद्धा एव;
अवयविभङ्गात्’
इति संदर्भेण स्पष्टीचक्रुः।
तर्हि समवायिकारणं निमित्तकारणं चेति द्वेधा विभागोऽस्तु। तन्तुसंयोगस्यापि निमित्तकारणत्वमेवास्तु इति चेत्। अत्रोच्यते। निमित्तकारणभूततन्तुवायनाशेऽपि पटरूपं कार्यं तिष्ठति। तन्तुसंयोगानाशे तु न पटस्तिष्ठति अपि तु नश्यति। अतः प्रसिद्धनिमित्तकारणवैधर्म्यात् समवायिकारणवैधर्म्याच्च तन्तुसंयोगः असमवायिकारणत्वेन स्वीकृत इति।
किं च असमवायिकारणानभ्युपगमे द्रव्यनाशं प्रति किं कारणमिति वक्तव्यम्। न तावत् निमित्तकारणनाशः, कुलालादिसद्भावेऽपि घटनाशदर्शनात् कुलालादिनाशेऽपि घटसद्भवदर्शनाच्च। नापि समवायिकारणनाशः प्रयोजकः, द्व्यणुकनाशानुपपत्तेः। द्व्यणुकस्य हि परमाणुः समवायिकारणम्। न हि तस्य नाशः संभवति, तस्य नित्यत्वात्। अतः द्व्यणुकस्य समवायिकारणनाशान्नाशो न संभवतीति असमवायिकारणभूतस्य परमाणुद्वयसंयोगस्य नाशादेव नाशो वक्तव्यः। तथा च द्व्यणुकनाशस्य असमवायिकारणनाशो हेतुः इतरकार्यद्रव्यनाशस्य समवायिकारणनाशो हेतुरिति कल्पनामपेक्ष्य अनुगततया कार्यद्रव्यसामान्यनाशं प्रति असमवायिकारणनाशः कारणमिति कल्पनमेव ज्यायः। तथा च एतदर्थमपि असमवायिकारणस्वीकारः आवश्यकः।
तर्हि समवायिकारणं असमवायिकारमं चेति द्वेधा विभागोऽस्तु, निमित्तकारणं मास्तु इति चेत्—-श्रूयताम्। यदि समवायिकारणभिन्नं सर्व कारणं असमवायिकारणमिति वर्गेऽन्तर्भाव्यते तर्हि असमवायिकारणनाशस्य पूर्वोक्तरीत्या द्रव्यनाशहेतुत्वात् कुलालादिनाशेऽपि घटनाशापत्तिः स्यात्। अतः निमित्तकारणमतिरिक्तता स्वीकरणीयमिति।
तदेतत् सर्वं मनसि निधाय दिनकरीये (P.110, Nirnaya Sagar edition)—
`तुरीतन्तुसंयोगस्य निमित्तकारणस्य पटं प्रति कुतो नासमवायि
कारणत्वमिति नाशङ्कनीयम्। तुरीतन्तुसंयोगनाशे पटनाशापत्तेः।
असमवायिकारणनाशस्य द्रव्यनाशजनकत्वात्। न चासमवायि—
कारणनाशस्य द्रव्यनाशकत्वे प्रमाणाभाव इति वाच्यम्। द्व्यणुक—
नाशान्यथानुपपत्तेरेव प्रमाणत्वात्।’
इति प्रतिपादितम्।
तस्मात् नैयायिकमतेन कारणत्रमपि स्वीकारणीयमिति, तच्च कारणत्रयं प्राचीनग्रन्थारूढमिति च सिद्धम्॥
—————*****************————
]