सृष्टिनिरूपणम्-न्यायवैशेषिकदर्शनानुसारेण

[[सृष्टिनिरूपणम्-न्यायवैशेषिकदर्शनानुसारेण Source: EB]]

[

     **         ॐ**

**
NYAYAVAISESHIKA**

** संस्कृत-विमर्शः**

** श्रीः**

** न्यायवैशेषिकदर्शनानुसारेण सृष्टिनिरूपणम्**

** डा. रामानुजताताचार्यः**

लेखस्य सारांशः
अस्मिन् प्रबन्धे भागत्रयं भवति। प्रथमभागे न्यायदर्शनानुसारेण जगत्सृष्टिप्रकारो निरूप्यते। द्वितीयभागे वैशेषिकदर्शनानुसारेण जगत्सृष्टिप्रकारो निरूप्यते। तृतीयभागे न्यायवैशेषिकदर्शनानुसारिजगत्सृष्टिप्रकारे वेदान्तिभिः कृतानामाक्षेपाणां परिहारप्रकारः समुपस्थाप्यते। न्यायभाष्यवार्तिक-तात्पर्यटीकान्यायमञ्जरी-प्रशस्तपादभाष्य-कन्दली-दिनकरीग्रन्थान् पर्यालोड्य विषयसंकलनमकारि।

प्रथम भागः
आदौ न्यायदर्शनमनुसृत्य सृष्टिर्निरूप्यते। न्यायदर्शंने चतुर्थेऽध्याये `अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात्’(न्या.सू.4-1-14) इत्यादिसूत्रैः शून्यमेव जगदुपादानमिति मतमनूद्य दूषयित्वा,
`इश्वरः कारणं पुरुषकर्माफल्यदर्शनात्’(न्या.सू.4-1-16)
`न पुरुषकर्माभावे फलानिष्पत्तेः’ (न्या.सू.4-1-20)
`न तत्कारितत्वादहेतुः’(न्या.सू.4-1-21)
इति त्रिभिः सूत्रैः ईश्वरस्य जगत्कारणत्वं स्थापितम्। तथा हि पुरुषोऽयं समीहमानः नावश्यं समीहाफलमाप्नोति तेनानुमीयते पराधीना पुरुषस्य कर्मफलप्राप्तिरिति। यदि परापेक्षां विना पुरुषः कर्मफलभोगे समर्थः स्यात् न कदाचित् अफला क्रिया भवेत्। तस्मात् यदधीना पुरुषस्य कर्मफलप्राप्तिः स ईश्वरः कारणमिति प्रथमसूत्रार्थः। ईश्वराधीना चेत् फलनिष्पत्तिः स्यात् तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्येत, ततश्च कर्मलोपः स्यादित्याक्षेपपरं द्वितीयसूत्रम्। न ब्रूमः पुरुषकर्मानपेक्ष ईश्वरः कारणमिति, अपि तु पुरुषकर्म ईश्वरोऽनुगृह्णाति। फलाय यतमानस्य पुरुषस्येश्वरः फलं संपादयति। तस्मादीश्वरकारितत्वात् पुरुषकर्माभावे फलानिष्पत्तेरित्यहेतुरिति तृतीयसूत्रार्थः।
अत्र प्रकरणे वार्तिककारा उद्योतकराचार्याः महता प्रपञ्चेन ईश्वरस्य जगत्कारणत्वमुपापीपदन्। सर्वं संकलय्य संग्रहेणात्र लिख्यते। `तत्कारितत्वात्’ इति ब्रुवता सूत्रकारेण निमित्तकारणमीश्वर इत्युपगतं भवति। यच्च निमित्तं तदितरयोः समवायिकारणासमवायिकारणयोरनुग्राहकं यथा तुरीवेमादि तन्तूनां तत्संयोगानां च। ईश्वरश्चेज्जगतो निमित्तं जगतः साक्षादुपादानकारणं किमिति चेत्–परमसूक्ष्मं परमाणुसंज्ञितं पृथिव्यादिद्रव्यमिति। परमाणुकर्माणि प्राक् प्रवृत्तेः बुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्यादिवदिति। यथा वास्यादि अचेतनं बुद्धिमता तक्ष्णा अधिष्ठितं प्रवर्तते तता अचेतनानि परमाणुकर्माणि जगत्सृष्टौ प्रवर्तमानानि बुद्धिमत्कारणाधिष्ठितान्येव प्रवर्तन्त इति।
ये परमाणून् पुरुषकर्माधिष्ठितान् जगतः कार्णत्वेन वर्णयन्ति तान् प्रति ब्रूमः परमाणवः प्रवर्तमानाः सततं प्रवर्तेरन्। अथ कालविशेषापेक्षाः प्रवर्तन्ते, तन्न। कालस्याप्यचेतनत्वात् बुद्धिमन्तमधिष्ठातारमन्तरेण प्रवृत्तिर्दुर्घटा। अतोऽधिष्ठातेश्वरोऽपेक्षितः।
एवं धर्माधर्मौं बुद्धिमत्कारणाधिष्ठितौ पुरुषस्योपभोगं कुरुतः कारणत्वात् वास्यादिवत्। न चात्मैवाधिष्ठाता धर्माधर्मयोरिति वाच्यम्। न हि यस्य धर्माधर्मौ स एव तयोरधिष्ठाता भविष्यतीति युक्तम्। शरीरोत्पत्तेः प्राक् तदसंभवात्। शरीरोत्पत्तेः प्राक् अज्ञोऽयमात्मा उपलम्भयोग्यान् रूपादीनपि तावन्नोपलभते कुत उपलम्भानर्हौं धर्माधर्मावुपलप्स्यत इति। न च धर्माधर्माभ्यामेवाधिष्ठिताः परमाणवः प्रवर्तन्तामिति वाच्यम्। धर्माधर्मयोरप्यचेतनत्वात्। न हि किंचिदचेतनं स्वतन्त्रतया इतराघिष्ठायकं दृष्टम्। तस्मात् जगत्सृष्टिहेतु धर्माधर्माधिष्ठातृतया ईश्वरः सिध्यति।
ननु क्रियावतामेव कारणत्वं लोके दृश्यते। ईश्वरस्य तु क्रियासून्यत्वान्न कारणत्वमिति चेन्न। परिस्पन्दरूपक्रियाशून्यत्वेऽपि आख्यातवाच्यज्ञानचिकीर्षाप्रयत्नरूपक्रियावत्त्वादीश्वरस्य कारणतोपपत्तेः। किं च परिस्पन्दरूपक्रियाशून्यानामपि कारणत्वं लोके दृश्यते। यथा कदाचित् द्रव्यामि उपरतक्रियाणि द्रव्यमारभन्ते संयोगात् निवृत्ते कर्मणि संयोगोपकरणानि द्रव्याणि द्रव्यमारभन्ते इति निष्क्रियाणामारम्भकत्वम्। उत्पन्नक्रियेषु क्रियोपरतौ द्रव्योत्पत्तेरिदमुदाहरणम्। क्वचित् अनुत्पन्नक्रियेष्वपि द्रव्येषु पूर्वद्रव्योपरतौ द्रव्यान्तरोत्पादो दृश्यते यथा एकावयवविभागे द्रव्यनिवृत्तौ शेषाणि द्रव्यान्तराणि द्रव्यमारभन्त इति। कानिचित् पुनः क्रियावन्त्यारभन्ते यथा अन्यतरकर्मजात् नोदनात् संयोगात् निवृत्ते कर्मणि इतरस्मिन् द्रव्ये द्रव्यमुत्पद्यत इति।
ननु ईश्वरश्चेत् स किं सापेक्षः करोति उत निरपेक्षः? यदि सापेक्षः यदपेक्षः करोति तस्याकर्तेति कृत्वा अन्यत्राप्यकर्तृत्वप्रसङ्गः। अथायं किंचिदनपेक्ष्य करोति तदा पुरुषकर्मणो वैफल्यं स्यात् इति चेत्–न। नायं नियमोऽस्ति यो येन करोति स तन्न करोतीति। यथानेकशिल्पनिपुणः पुरुषः कारणान्तरसापेक्षः वास्यादि करोति, वास्यादिसापेक्षः दण्डादि करोति दण्डादिसापेक्षो घटादि। न च पर्यायेण कर्तृत्वे सति अकर्तृत्वम्। तथेश्वरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखादि, आत्ममनः संयोगशुद्धाशुद्धाभिसन्धिसाधनश्च धर्माधर्मौं, सुखदुःखस्मृत्यपेक्षः तत्साधनापेक्षश्च शुद्धमशुद्धं चाभिसन्धिमिति। यदा करोति तदा साधनस्याकर्तेति चेत्, न ब्रूमो वयं सर्वार्थानयमेकस्मिन् काले करोतीति। अपि तु पर्यायेण। पर्यायकर्तृत्वे च नायं दोषः।
अथायमीश्वरः कुर्वाणः किमर्थं करोति। लोके हि ये कर्तारो भवन्ति ते किंचिदुद्दिश्य कुर्वन्ति इदमाप्स्यामि इदं हास्यामि चेति। न तावदीश्वरस्य हेयमस्ति, दुःखाभावात्। नोपादेयमस्ति, आप्तकामत्वात्। केचिद्वदन्ति क्रीडार्थमीश्वरः करोतीति। तन्न युक्तम्। हि नाम विनाक्रीकडया रतिमविन्दतां रत्यर्थं भवति। न च रत्यर्थी भगवान्, दुःखाभावात्। दुखिनो हि सुखोपभोगार्थं क्रीडन्ति। विभूतिख्यापनार्थं सृजति, सृष्ट्या हि विश्वरूपत्वं ख्यापितं भवतीति केचिदाहुः। तदपि न युक्तम्। नहि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते, न वा विभूत्यख्यापनेन किंचिद् हीयते। अतः किमर्थमीश्वरः सृजतीति चेत्–अत्रोच्यते। यथा भूम्यादीनि धारणादिक्रियां स्वाभाव्यात् कुर्वन्ति, तथेश्वरोऽपि स्वाभाव्यात् प्रवर्तते प्रवृत्तिस्वभावकत्वादीश्वरस्येति न कोऽपि दोषः। यदि स्वाभाव्यात् प्रवतते सततं प्रवर्तताम्, तथा च निवृत्तिर्न युज्यत इति चेत्–ईश्वरस्य बुद्धिमत्त्वात् धर्माधर्म सापेक्षत्वाच्च न सततं प्रवृत्तिरिति। एवमादिरीत्या जगत्सृष्टौ निमित्तकारणमीश्वर इति पक्षे संभवन्तो दोषा यथासंभवं परिहृताः।
न्यायमञ्जर्यां जरन्नैयायिकैः जयन्तभट्टैः सृष्टिप्रकारनिरूपणमित्थं कृतम्–पार्थिवम् आप्यं तैजसं वायवीयम् इति चतुर्विधमिदं कार्यं स्वावयवाश्रितमुपलभ्यते। तत्र यथा घटः सावयवः कपालेष्वाश्रितः एवं कपालान्यपि सावयवत्वात् स्वावयवेष्वाश्रितानि, तदवयवा अपि तदवयवान्तरेषु इत्येवं द्व्यणुकपर्यन्ताः स्वावयवाश्रिताः। यत्र यावतः कार्यजातस्यस्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम्। अन्यत्रानुमानम्। यस्य तु कार्यस्य स्वावयवाश्रितत्वं प्रत्यक्षेण न गृह्यते तस्य त्र्यणुकस्य च द्व्यणुकस्य च सावयवत्वमनुमानेन साधनीयम्–त्र्यणुकं स्वावयवाश्रितं सावयवत्वात् परिदृश्यमानकार्यवत् निरवयत्वे तु तस्य परमाणुत्वमेव परमाणुषु तु सावयवस्वस्य हेतोरसिद्धत्वात् नावयवान्तरकल्पना। एवम् उत्पत्तिक्रमवत् विनाशक्रमेणापि परमाणवोऽनुमीयन्ते। लोष्टस्य प्रविभज्यमानस्य भागाः तद्भागानां भागान्तराणीत्येवं तावत् यतः परमवयव विभागो न भवति ते परमाणव उच्यन्ते।
अत्र हि त्रयी गतिः। अस्य घटादेः कार्यस्य निरवयवत्वमेव वा अवयवानन्त्यं वा परमाण्वन्तता वा। तत्र निरवयवत्वमनुपपन्नम्। पटे अवयवानां तन्तूनां घटे च कपालानां प्रत्यक्षमुपलम्भात्। अनन्तावयवयोगित्वमपि न युक्तम्, मेरुसर्षपयोरनन्तावयवयोगित्वेन तुल्यपरिमाणत्वप्रसङ्गात्। तस्मात् परमाण्वन्ततैव युक्तिमती।
त इमे परमाणवोऽचेतनत्वात् चेतनेच्छाधीनं प्रेरणमन्तरेण विशिष्टक्रमयुक्तमितरेतरसंयोगमलभमानाः कार्यसिद्धये नालम्। अत एषामधिष्ठाता चेतनः सकलभुवन निर्माणनिपुणमतिरीश्वरोऽङ्गीकृतः। न च सर्वे परमाणवः सकृदेव निर्वर्त्यमानकार्यपरिमाणानुगुणसंख्याकाः एकत्र संयुज्य घटादिकार्यमारभन्ते, किं तु द्व्यणुकादिक्रमेण। सकृदारम्भे हि कुम्भे भज्यमाने कपालशर्कराकण चूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत्। सर्वसंयोगस्य सर्वविभागेन सहसैव विनाशात्। अतश्च कर्परादिक्रमदर्शनं विरुध्येत। अविनष्टेऽपि पटादौ तन्त्वाद्यवयवाश्रितत्वमुपलभ्यमानं कथं वा समर्थ्येत। परमाणूनामप्रत्यक्षत्वेन तदाश्रितत्वस्य ग्रहीतुमशक्यत्वात्। परमाणूनां पटस्य च मध्ये कार्यान्तराभावादिति। तस्मात् द्व्यणुकादिक्रमेण परमाणवः कार्यमारभन्ते।
ननु द्वावेव परमाणू प्रथमं संयुज्येते इत्यत्र का युक्तिः? बहुत्वसंख्यायाः महत्परिमाणकारणत्वदर्शनात् त्रिषु परमाणुषु प्रथमं मिलत्सु तद्गतबहुत्वसंख्याया तत्कार्ये महत्त्वे जाते तस्य प्रत्यक्षत्वं प्रसज्येत। न च तस्य प्रत्यक्षता, अतिसूक्ष्मत्वात्। अतः द्वाभ्यां परमाणुभ्यां द्यणुकमादावुत्पद्यते। तच्च परमाणुवत् अप्रत्यक्षमेव, महत्त्वानुत्पादात्। तर्हि द्वाभ्यां द्व्यणुकाभ्यां त्र्यणुकारम्भोऽस्तु, कुतस्त्रिंभिद्‌र्व्यणुकैस्त्र्यणुकारम्भ इष्यत इति चेत्–न। द्व्यणुक इव तत्रापि महत्वोत्पत्तौ कारणाभावात्। अतः त्रिभिः द्व्यणुकैः त्र्यणुकमारभ्यते। द्व्यणुकगतबहुत्वसंख्याया त्र्यणुके महत्त्वमारभ्यते, अतस्तस्य प्रत्यक्षता भवति। त्र्यणुकानन्तरं तु अल्पपरिमाणादवयवात् महापरिमाणोऽवयवी भवतीति नियमः न त्ववयवसंख्यानियमः।
ननु परमाणव एव प्रथमं द्व्यणुकमुत्पाद्य तदनु त एवोत्तरोत्तरकालं कार्याण्युत्पादयन्तु इति चेत्–न। तथा सति उत्तरोत्तरकार्योत्पत्तौ पूर्वपूर्वकार्यानपायात् मूर्तानामेकदेशत्वं स्यात्। न च तत् दृश्यत इति यथोक्त एव क्रमः श्रेयान्।
तदेवमनेकात्मसमवेतधर्माधर्मसंस्कारपरिपाकानुरूपेण प्रसरन्त्या ईश्वरेच्छया प्रेर्यमाणानां परमाणूनां क्रियाभिः क्रमशः द्व्यणुकादिकार्यक्रमेण जगत्सृष्टिः इति।
नन्वीश्वरः किं सशरीरः जगत् सृजति अशरीरो वा। न तावदशरीरः, लोके अशरीरस्य कर्तृत्वादर्शनात्। सशरीरश्चेत् शरीरत्वात् चैत्रादिशरीरवत् उत्पत्तिमत् तच्छरीरं तदीश्वरकर्तृकं वा स्यादीश्वरान्तरकर्तृकं वा? आद्ये सशरीरं स्वशरीरं सृजति अशरीरो वा? आद्ये आत्माश्रयः। द्वितीये पूर्वोक्तदोषः (लोके तथाऽदर्शनादिति) ईश्वरान्तरकर्तृकं चेत् ईश्वरानन्त्यप्रसङ्ग इति।
अत्रोच्यते। अशरीर एव स्रष्टेति। लोके तथा न दृष्टमिति यदुक्तम्, तन्न। कर्तृत्वं ज्ञानचिकीर्षाप्रयत्नवत्त्वम्। तच्चाशरीरस्यापि संभवति। स्वशरीरप्रेरणे च दृष्टमात्मनः अशरीरस्य कर्तृत्वम्।
ननु किमीश्वरः कुलालादिरिव सव्यापारो जगत् सृजति निर्व्यापारो वा? आद्ये सृज्यानामानन्त्यात् युगशतैरपि जगत्सृष्टिर्नोपपद्यते। द्वितीये अचेतनाः परमाणवः कथमीश्वरेच्छामनुसरेयुरिति चेन्न। इच्छामात्रेण कर्तृत्वात् अनेकव्यापारनिर्वर्तनोपात्तक्लेशादेरप्रसक्तेः। अचेतनं स्वशरीरं यथा आत्मेच्छामनुवर्तते तथा अचेतनाः परमाणवः ईश्वरेच्छामनुवर्त्स्यन्ति।
नन्ववाप्तसमस्तकाम ईश्वरः किं प्रयोजनमभिसन्धाय जगत् सृजति? स्वभाव एवैष भगवतः यत् कदाजित् सृजति कदाचित् संहरति विश्वमिति। अथ वा अनुकम्पया सृष्टिसंहारौ करोति। नन्वनुकम्पया सृजन् सुखस्वभावमेव सृजेत्। न। प्राणिकर्मणां सहकारित्वादिति।
अत्रेदमालोचनीयम्। सर्वं कार्यद्रव्यं घटपटगृहगोपुरादिकं स्वापेक्षया निकृष्टपरिमाणस्वगतरूपादिसजातीयरूपादिशालिनानाद्रव्यारब्धं दृष्टम्। एवं च जालसूर्यमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः स त्रसरेणुरपि तादृशद्रव्यारब्ध इत्यनुमीयते। न च तस्य कार्यत्वमसिद्धम्। परिच्छिन्नमहत्त्ववत्तया कार्यत्वानुमानात्। महत्त्वं च चाक्षुषद्रव्यत्वात् सिद्धम् त्रसरेणु महत्त्वं च नावयवमहत्त्वजन्यम्, तेषामप्रत्यक्षत्वेनामहत्त्वात्। किं तु अवयवबहुत्वाधीनम्। अतस्त्रीणि द्व्यणुकानि त्रसरेणोरवयवाः समवायिकारणानि। द्वयोः कारणत्वे द्व्यणुकानि त्रसरेणोरवयवाः समवायिकारणानि। द्वयोः कारणत्वे अवयवबहुत्वाभावेन महत्त्वासंभवात्। तत्र कपालद्वयात्। घटवत् परमाणुद्वयादपि कार्यसंभवात् तन्निषेधे प्रमाणाभावात् द्व्यणुके स्वीकर्तव्ये त्रसरेणौ महत्त्वोपपादनाय त्रिभिर्द्व्यणुकैः त्रसरेणोरुत्पत्तिः कल्प्यते। इयं न्यायदर्शने प्रतिपादिता रीतिः।

द्वितीय भागः
वैशेषिकसूत्रेषु न तथा सृष्टिप्रकारः स्पष्टमुक्तो यथा प्रशस्तपादभाष्ये इति भाष्यानुसारेण सृष्टिप्रलयप्रकारः कथ्यते।
अस्माकं पञ्चदशनिमेषाः काष्ठा। विशतिः काष्ठाः कला। पञ्चदश कलाः नाडिका। त्रिंशत्कलो मुहूर्त्तः। त्रिंशता मुहूर्तैरहोरात्रः। पञ्चदशाहोरात्राः पक्षः। द्वौ पक्षौ मासः। द्वौ मासावृतुः। षडृतवो द्वादशमासाः संवत्सरः। ऋतुत्रयेणोत्तरायणम्। ऋतुत्रयेण दक्षिणायनम्। उत्तरायणं च देवानां दिनम्, दक्षिणायनं रात्रिः। तथाभूताहोरात्रशतत्रयेण षष्ट्यधिकेन वर्षम् द्वादशसहस्रैश्च वर्षैश्चतुर्युगम्। चतुर्युगसहस्रेण ब्रह्मणो दिनकेकम्। इत्यनेन मानेन वर्षशतस्यान्ते, वर्तमानस्य ब्रह्मणो मुक्तिकाले संसारे नानास्थानेषु भूयोभूयः शरीरादिपरिग्रहेम खिन्नानां गर्भवासादिविविघदुःखेन दुःखितानां प्राणिनां कंचित्कालं विश्श्रामार्थं(दुःखोपशमार्थं) सकलभुवनपतेः महेश्वरस्य संजिहीर्षा भवति। तदनन्तरं शरीरेन्द्रियमहाभूतारम्भकाणां सर्वेष्वात्मसु समवेतानामदृष्टानां शक्तिप्रतिबन्धः स्यात्। तस्मिन् सति अनागतानां शरीरेन्द्रियमहाभूतानामनुत्पत्तिः। उत्पन्नानां च विनाशार्थ महेश्वरेच्छया आत्मनां परमाणूनां च संयोगेभ्यश्च परमाणुषु क्रियाः जायन्ते। ततः शरीराणामिन्द्रियाणां च ये परम्परयाकारणभूताः परमाणवः तेषु विभागा भवन्ति। विभागेभ्यस्तेषामणूनां संयोगा निवर्तन्ते। संयोगनिवृत्तौ सत्यां तेषामापरमाण्वन्तो नाशः। एवमेव पृथिव्यप्तेजोवायूनामपि अनेनैव क्रमेण उत्तरस्मिन्नुत्तरस्मिन् सति पूर्व पूर्वस्य विनाशः। जले तिष्ठति पूर्वं पृथिव्या विनाशः, तेजसि तिष्ठिति जलस्य, वायौ तिष्ठति तेजसः। ततः प्रविभक्ताः परमाणवः अवतिष्ठन्ते। धर्माधर्म भावनाक्यसंस्कारैश्चानुविद्धा आत्मानश्च ब्रह्मणो वर्षशतं यावद वतिष्ठन्ते। अयं संहारक्रमः।
ततः पुनः आत्मनां सुखदुःखानुभवोत्पत्तये महेश्वरस्य सिसृक्षा जायते। ततः सर्वेष्वात्मसु विद्यमानानि अदृष्टानि वृत्तिं लभन्ते। तदपेक्षेभ्यः आत्मपरमाणुसंयोगेभ्यः पवनपरमाणुषु कर्माण्युत्पद्यन्ते। पवनपरमाणवस्तत्र समवायिकारणम्। लब्धवृत्त्यदृष्टवदात्मपरमाणुसंयोगोऽसमवायिकारणम्। यदृष्टं निमित्तकारणम्। एवं कर्मोत्पत्तौ तेषां पवनपरमाणूनां परस्परसंयोगेभ्यश्च द्व्यणुकानि जायन्ते, तदनु त्र्यणुकानीत्यनेन क्रमेण महान् वायुः समुत्पद्यमानः आकाशे दोधूयमानो वेगातिशययुक्तस्तिष्ठति। तदनन्तरं तस्मिन्नेव वायौ आप्येभ्यः परमाणुभ्यः द्व्यणुकादिक्रमेण महान् सलिलतिधिरुत्पन्नः सर्वत्र पोप्लूयमानस्तिष्ठति। ततस्तस्मिन्नेव जलधौ पार्थिवेभ्यः परमाणुभ्यो महापृथिवी समुत्पन्ना स्थिरस्वभावावतिष्ठते। तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्योऽमुभ्यो द्व्यणुकादिक्रमेणोत्पन्नो महांस्तेजोराशिः देदीप्यमानस्तिष्ठति। यद्यपि पयः पावकयोः स्वाभाविको विरोधस्तथाप्यदृष्टवशेनाधाराधेयभावः।
एवमुत्पन्नेषु महाभूतेषु महेश्वरस्य संकल्पमात्रात् पार्थिवपरमाणु सहितेभ्यस्तैजसेभ्यः परमाणुभ्यः महदण्डमारभ्यते। तस्मिन्नण्डे चतुर्वदनकमलं सर्वलोकपितामहं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते। स च महेश्वरेण विनियुक्तो ब्रह्मा अतिशयितज्ञानवैराग्यैश्वर्यसंपन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुगुणज्ञानभोगायुषः सुतान् दक्षादीन् प्रजापतीन् मानसान् मनस्संकल्पप्रभवान् मनून् देवान् ऋषीन् पितृगणान्, मुखबाहूरुपादतश्चतुरो वर्णात् अन्यानि चोच्चावचानि क्षुद्रक्षुद्रतराणि च भूतानि सृष्ट्वा कर्मानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैर्योजयति। इत्ययं सृष्टिक्रमः।
अत्र युक्तिरेषा परमाणुसद्भावे ततो जगत्सृष्टौ चोक्ता कन्दल्याम्—अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् महत्परिमाणतारतम्यवत्। यत्रेदं विश्रान्तं यतः परमणुर्नास्ति स परमाणुः। स चैको न जनकः। एकस्य नित्यस्य चारम्भकत्वे कार्यस्य सततोत्पत्तिः स्यात् अपेक्षणीयाभावात्। अविनाशित्वं च प्रसज्येत। आश्रयविनाशस्य अवयवविभागस्य विनाशहेतोरभावात्। त्रयाणां परमाणूनामारम्भकत्वं च न संभवति। महत्कार्यद्रव्यस्योत्पत्तौ स्वपरिमाणपेक्षया अल्पपरिमाणस्य कार्यद्रव्यस्यैव सामर्थ्यदर्शनात्। त्र्यणुकं कार्यद्रव्येणैव जायते महत्परिमाणत्वात् घटवत्। इत्थं च त्रयाणामेकस्य चारम्भकत्वे प्रतिक्षिप्ते द्वाभ्यामेव परमाणुभ्यामारभ्यते यत् तत्‌ द्व्यणुकमुच्यते। द्वाभ्यां द्व्यणुकाभ्यां त्र्यणुकोत्पत्तौ त्र्यणुकस्य महत्त्वं न स्यात्, अवयवबहुत्वस्यापेक्षितत्वात्। अतस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति। न चैवं सति द्व्यणुकानामेव घटारम्भकत्वापत्तिः। घटस्य भङ्गोऽल्पतरतमादिभावदर्शनेन तथैवारम्भकत्वात्। अतस्त्र्यणुकादिक्रमेण घटाद्युत्पत्तिः।
एतेन दिनकर्याम् ``अत्रेदं चिन्त्यम्–त्रिभिः परमाणुभिरेव त्र्यणुकमस्तु। परमाणुभ्यामनारम्भस्तु सिद्धान्तिनां द्व्यणुकाभ्यामनारम्भ इव मानाभावात्। फलबलेन त्रयाणामेव युगपद्द्रव्यारम्भकसंयोगकल्पनात्’’ इति यदुक्तं तत्समाहितं भवति।

तृतीयो भागः
न्यायवैशेषिकदर्शनसंमतेऽस्मिन् ईश्वराधिष्ठितेभ्यः परमाणुभ्यो जगत्सृष्टिरिति पक्षे वेदान्तिभिरुद्भावितान् दोषानिदानीं पर्यालोचयामः।
ब्रह्ममीमांसायां तर्कपादख्ये द्वितीयाध्यायद्वितीयपादे—
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्
उभयथापि न कर्मातस्तदभावः
समवायाभ्युपगमाच्च साम्यादनवस्थिते
नित्यमेव च भावात्
रूपादिमत्त्वाच्च विपर्ययो दर्शनात्
उभयथा च दोषात्
अपरिग्रहाच्चात्यन्तमनपेक्षा

इति सप्तभिः सूत्रैः वैशेषिकमतं दूषितम्। तत्र शांकरभाष्ये महद्दीर्घवद्वेति प्रथमसूत्रम् अणुवादिना ब्रह्मवादिनि उत्प्रेक्ष्यमाणस्य दोषस्य प्रतिसमाधानपरतया व्याख्यातम्। `उभयथापि न कर्मातस्तदभावः’ इति द्वितीयं सूत्रं परमाणुकारणवादनिरासपरता या व्याख्यातम्। तथाहिप्रलयकाले विभागावस्थानां तावत् परमाणूनां संयोगः कर्मापेक्षोऽभ्युपगतः कर्मवतां तन्त्वदीनां संयोगदर्शनात्। कर्मणश्च निमित्तं तस्यामवस्थायां प्रयत्नाभिघातादेरसंभवात् अदृष्टमेवेत्यभ्युपगतम्–`अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणुमनसोश्चाद्यं कर्मेंत्यदृष्टकारितानि’ (वै.सू.) इति वदद्भिः। तत्र पृच्छामः किमात्मसमवेतमदृष्टं परमाणुष्वाद्यकर्मणो निमित्तमुत परमाणुसमवेतम्। उभयथापि नादृष्टनिमित्तकमणुषु कर्मावकल्पते, अदृष्टस्याचेतनवात्। न ह्यचेतनं चेतनानधिष्ठितं स्वतन्त्रं प्रवर्तेत। आत्मनश्च तस्यामवस्थायामचेतनत्वाभ्युपगमात्। किं चात्मसमवेतमदृष्टमणुषु कथं कर्मोत्पादयेत्। कार्यकारणयोः सामानाधिकरण्यस्यावश्यकत्वात्। आत्म समवेतमदृष्टं स्वाश्रयसंयोगसंबन्धेनाणुषु संबध्यमानं कर्मोत्पादयतीति चेत् न। संयोगस्य सातत्यात् प्रवृत्तिसातत्यप्रसङ्गात्।
किं च परमाणूनां परस्परं संयोगो न घटते। एकस्य परमाणोरन्येन परमाणुना सह किं कार्त्स्न्येन संयोगः किं वा एकदेशेन। नाद्यः उपचयानुपपत्तेरणुमात्रत्वप्रसङ्गात्। दृष्टविपर्ययाच्च। प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात्। द्वितीये परमाणूना सावयवत्वप्रसङ्गः। ततश्च संयोगरूपासमवायिकारणाभावात् द्वयणुकादिकार्यद्रव्यं नोत्पद्येत।
यथा चादिसर्गे निमित्ताभावात् संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवति एवं महाप्रलयेऽपि बिभागोत्पत्त्यर्थं कर्म नैवाणूनां भवेत्। अदृष्टं हि भोग प्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमित्यतो निमित्ताभावात् न स्यादणूनां विभागार्थमपि कर्मेति।
अत्र समाधानप्रकार एवम्-अदृष्टवशादेव परमाणुष्वाद्यं कर्म। अद्रष्टं तु यद्यपि चैतन्यशून्यैर्जीवात्मभिः प्रलयकाले नाधिष्ठीयन्ते, तथापि ईश्वरेणाधिष्ठीयन्त इत्यभ्युपगमान्नानुपपत्तिः। अदृष्टाधिष्ठातृताया अपि ईश्वरसाधकयुक्तिष्वन्यतमतया न्यायवार्तिककुसुमाञ्जल्यादावुक्त्वात्। यदत्र भामत्यामुक्तम्-निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठातृत्वमुपरिष्टान्निराकरिष्यते इति। तत्रोच्यते। `पत्युरसामञ्जस्यात्’ इत्यधिकरणोक्तानि दूषणानि भामतीकारहृद्गतानि। तानि च किमशरीर ईश्वरः सृजति उत सशरीर इत्यादिदूषणानि न्यायवार्तिके समाहितानि पूर्वमस्माभिरनूदितानि चेति न पुनः प्रतन्यते।
संयोगविषये यद्दूषणमुक्तम्, तस्यापि विपक्वादृष्टावच्छिन्नात्मसंयोगस्य सततमविद्यमानत्वात् न सृष्टिसातत्यादिप्रसङ्ग इति परिहारः।
`समवायाभ्युपगामाच्च साम्यादनवस्थितेः’ इति सूत्रे–द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानम् अणुभ्यामत्यन्तभिन्नमण्वोः समवैतीति भवताङ्गीक्रियते। यथैव ह्यणुभ्यामत्यन्तभिन्नं सत् द्वयणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यते एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् अन्येनैव समवायेन समवायिभिः संबध्येत, अत्यन्तभेदसाम्यात्। तथा च तस्य तस्यान्योऽन्यः संबन्धः कल्पयितव्य इत्यनवस्था प्रसज्यते। तस्मादनुपपन्नः परमाणुकारणवाद इति भगवत्पादैरुक्तम्।

समवायमधिकृत्य पृथगेव वक्तव्यमस्ति बहु। प्रकृतविषये तस्यनातीवोपकार इति विरम्यते।
`नित्यमेव च भावात्’ इति सूत्रे–अणवः किं प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वा अनुभयस्वभावा वा। प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात् प्रलयाभावप्रसङ्गः। निवृत्तिस्वभावत्वे नित्यमेव निवृत्तेर्भावात् सर्गाभावप्रसङ्गः। उभयस्वभावत्वं च विरोधादसमञ्जसम्। अनुभयस्वभावत्वे तु निमित्तवशात् प्रवृत्तिनिवृत्त्योरङ्गीकार्यतया तन्निमित्तमदृष्टमेवेति अदष्टस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गः। अदृष्टस्यानिमित्तत्वे नित्याप्रवृत्तिप्रसङ्गः। तस्मादप्यनुपपन्नः परमाणुकारणवाद इति भगवत्पादैर्भाषितम्।
अत्र प्रशस्तपादाचार्यैरेवं समाहितम्–परमेश्वरेच्छावशात् प्रलयकालेऽदृष्टं प्रतिबद्धशक्तिकम्, सृष्टिकाले च लब्धवृत्तिकं भवतीति स्वीकारान्न सर्वदा प्रवृत्तेर्न वा सर्वदा निवृत्तेः प्रसङ्ग इति। अथवा ब्रह्म कारण वादेऽप्येवं विकल्पे ब्रह्मा स्वेच्छायां सत्यां प्रवर्तते इतरथा निवर्तत इति हि वक्तव्यम्। तथा ईश्वरेच्छया कालविशेषे प्रवर्तन्ते निवर्तन्ते च परमाणव इति तुल्यमुत्तरम्।
`रूपादिमत्त्वाच्च विपर्ययो दर्शनात्’ इति सूत्रे रूपादिमतां घटादीनां स्वकारणापेक्षया स्थूलत्वस्य, अनित्यत्वस्य च दर्शनात् रूपादिमतां परमाणूनामपि स्वकारणापेक्षया स्थूलत्वस्य अनित्यत्वस्य च प्रसङ्ग इति भाषितम्।
अत्रैवं समाधानम्–अनवस्थाभयात् अवयवपरंपरायाः परमाणौ विश्रान्तत्वे सति रूपादिमत्त्वं न स्थूलताया अनित्यत्वस्य च प्रयोजकम्, अपि तु अवयवबहुत्वादेः स्थूलतायां प्रयोजकत्वम्, अवयवनाशावयवसंयोग विनाशयोश्च अनित्यत्वे प्रयोजकत्वमिति स्वीकारान्न दोष इति।
अथ रामनुजभाष्योक्तदूषणान्यालोचयेमहि। अदृष्टकारितेन कर्मणा संयुज्यमानाभ्यां निरवयवाभ्यां परमाणुभ्यां द्व्यणुकाद्युत्पत्तिक्रमेण जगदुपत्तिकल्पनेयं न युज्यते। परमाणूनां निरवयवत्वे संयोगासंभवात् यथाङ्गलिद्वयं प्रत्येकं दशदिक्संबन्धिदशप्रदेशावच्छिन्नं परस्परं संयुज्यमानमेकया महादिशा विदिग्द्वयेन चावच्छिन्नैः प्रत्येकं त्रिभिस्त्रिभिः प्रदेशैः संयुज्यते इत्येवं षड्भिः पार्श्वैः संयुज्यते, एवं पटारम्भकाः तन्तवः संयुज्यमानाः षड्भिः पार्श्वेः संयुज्यमानाः प्रत्येकमसंयुक्त संप्तपार्श्वयुक्ताः सन्तः स्वाधिकपरिमाणं पटमारभन्त इति दृष्टम्। एवं परमाणवोऽपि षड्भिः पार्श्वैः संयुज्यमाना एव पारिमाण्डल्याख्यस्वपरिमाणाधिकपरिमाणम् अणुत्वह्रस्वत्वयुक्तद्व्यणुक-महत्त्वदीर्घत्वयुक्तत्र्यणुकादिकार्यमारभन्त इति वक्तव्यमिति परमाणूनां प्रदेशभेदोऽवश्यमङ्गीक्रणीयः। तथा त्र्यणुकोत्पादकद्व्यणुकत्रयसंयोगनिर्वाहार्थमपि सोऽभ्युपेयः। स हि हस्त पुस्तकसंयोगात् कायपुस्तकसंयोग इति वक्तव्यम्। कारणाकारणसंयोगात् कार्या कार्यसंयोग इति त्वयाभ्युपगमात् तथा च द्वय्णुकारम्भकपरमाणौ तदारम्भकपरमांण्वन्तरसंयोगे स्थिते प्रदेशभेदं बिना कथं त्र्यणुकोत्पत्तिसमये द्व्यणुकान्तर संयोगः स्यात्‌ मूर्तानां समानदेशताविरोधात्। यदि तु मूर्तत्वेऽपि परमाणुषु समानदेशता नेत्यते, तदा षण्णां परमाणूनां पिण्डरूपं त्र्यणुकं परमाणु परिमाणमेव भवेत्। तदाहुः—
षट्केनयुगपद्योगात् परमाणोः षडंशता।
षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः॥

इति। प्रागादिचतुर्दिगूर्ध्वाधोदेशवर्तिभिः षड्भिः परमाणुभिः संबध्यमानो मध्यस्थः परमाणुः षडंशः प्राप्नोति। भिन्नदेशत्वात् संबन्धानाम्। अथ समानदेशाः सर्वे संबन्धाः तदा सर्वेषामेषां पिण्डः परमाणुमात्रधः प्राप्नोतीति तदर्थः। समानमिदं दूषणं द्व्यणुकेभ्यस्त्र्यणुकोत्पत्तावपि।

तस्मात् द्व्यणुकत्र्यणुकादिजनन-तत्परिमाणातिशययोः सिद्ध्यर्थं परमाणुषु षडंशत्वमनिच्छतापि अङ्गीकार्यम्। अथ सांशत्वेऽनवस्थेति बिभेषि तर्हि परमाणुकारणवादं परित्यज्य ब्रह्माकारणवादं परिगृहण। इति मुख्यं दूषणं रामानुजमतीयग्रन्थेषु प्रत्यपादि।
अत्र समाधानम्–सावयवाः पदार्था यदा संयुज्यन्ते तदैव षट्पार्श्वावश्यकता। निरवयवास्तु प्रदेशभेदं विनापि संयोगं प्राप्नुवन्ति। अन्यथा निरवयवे ब्रह्मणि कथमितरद्रव्यसंयोगा भवन्तीति चोद्ये कः परिहारः। उक्तं हि न्यायसिद्धाञ्जने–
``एवमारम्भकाणामणूनां कृत्स्नैकदेशसंयोगविकल्पेन
अधिकपरिमाणद्रव्यानारम्भकत्वसभागत्वादि चोद्यं
परमाणुदूषकैः सर्वैरपि क्रियते। भाष्यकारैश्च महद्दीर्घां-
धिकरणे तदेव चोद्यं कृतम्। तदेतन्माध्यमिकानामेवोप-
पद्यते। न त्वन्येषाम्।……..कथं तर्हि भाष्यम्?
दृश्यमानातिरिक्तकल्पनानिरासाभिप्रायम्।''

इति। अपि च सिद्धान्ते प्रमाणुस्थानीयं त्र्यणुकं निरवयवम्, महत्वशून्यमपि तत् उद्भूतरूपवत्त्वादेव प्रत्यक्षमिति स्वीक्रियते। तथा सति ब्रह्मत्र्यणुकयोर्विरवयवयोः कथंसंयोग इति प्रश्नः कथं समाधेयः।
अतः परमाणुकारणवादोऽपि न्यायवैशेषिकदृष्ट्या समीचीन एव।
इति शम्
———****———-

]