व्युत्पत्तिवादप्रथमवाक्यार्थविचारः

[[व्युत्पत्तिवादप्रथमवाक्यार्थविचारः Source: EB]]

[

  ***व्युत्पत्तिवादप्रथमवाक्यार्थविचारः***

** डा. के.ई.देवनाथन्**

``शाब्दवोधे चैकपदार्थे ऽ परपदार्थस्य संसर्गः संसर्गमर्यादया भासत’’ इति व्युत्पत्तिवादस्य प्रथमवाक्यम्। अस्य वाक्यस्यार्थवर्णने क्लेश आपाततो न दृश्यते। परन्तु व्याख्यातृभिः ग्रन्थस्यास्य तात्पर्यवर्णने महान् प्रयासो विहितः। अस्मिन् निबन्धे प्राचीनव्याख्यातृभिः दर्शितया दिशा तद्वाक्यार्थवर्णनं क्रियते।
प्रथममत्र सामान्यतो वाक्यार्थो लिख्यते। शाब्दबोध इत्यत्र निरूपितत्वं सप्तम्यर्थः। एकपदार्थ इत्यत्र सप्तम्या अनुयोगित्वमर्थः, अपरपदार्थस्येति षष्ठ्या अनुयोगित्वमर्थः संसर्गमर्यादापदस्य संसर्गस्य मर्यादा यया सेति व्युत्पत्या संसर्गभासकाकाङ्क्षा अर्थः। मर्यादा शब्दस्यावभासार्थकत्वात्। तृतीयायाः प्रयोज्यत्वमर्थः, तस्य भास्धात्वर्थविषयतायामन्वयः। तस्याश्चाख्यातार्थाश्रयत्वे। तस्य प्रथमान्तार्थे संसर्गेऽन्वयः। एवं सामान्यतः पदार्थेषु निर्दिष्टेषु वाक्यार्थ एवं संपद्यते ``एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकः संसर्गः शब्दबोधनिरूपिताकाङ्क्षाप्रयोज्यविषयताश्रय इति। अत्र तु उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्यौत्सर्गिकत्वात् एकपदार्थानुयोगिकापरदार्थप्रतियोगिकसंसर्गत्वावच्छेदेन शाब्दबोधीय-आकाङ्क्षाभास्यसंसर्गत्वाभिन्नविषयत्ववत्त्वं वक्तव्यम्। एवं चोद्देश्यतावच्छेदकव्यापकत्वस्य विधेये लाभात् वृत्तिविषयसंसर्गसामान्य माकाङ्क्षाभास्यमित्यर्थो लभ्यते।
अथवा शाब्दबोधनिरूपितत्वं एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्ग इत्यत्र संसर्गपदार्थैकदेशे संसर्गत्वेऽन्वेति। तथाच शाब्दबोधनिरूपितैकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गताश्रयः आकाङ्क्षाप्रयोज्यविषयताश्रय इति बोधः। अत्र पक्षद्वयेऽपि अकाङ्क्षाप्रयोज्यविषयत्वस्य तादृशसंसर्गत्वाभिन्नत्वं लभ्यते। यथा शान्तो गुणीभवतीत्यत्रोद्देश्यतावच्छेदकस्य शान्तत्वस्य विधेयस्य चगुणि भवनस्य चैक्यं प्रतीयते। तेनोद्देश्यतावच्छेदकविधेययोरैक्यं व्युत्पद्यते। तद्वत् प्रकृतेऽपि एकपदार्थनिष्ठानुयोगिताकापरपदार्थनिष्ठप्रतियोगिताकसंसर्गताया उद्देश्यतावच्छेदिकायाः विधेयस्य चाकाङ्क्षाप्रयोज्यविषयत्वस्य चैक्यं लभ्यते। तथाच सामान्यतः प्राप्तविषयतायाः संसर्गतारूपत्वं व्युत्पत्तिबललभ्यम्। शान्तो गुणी भवतीत्यत्र तु घटो नीलो भवतीत्यत्रेव वाक्यार्थो वर्णनीयः।
अत्र शाब्दबोधनिरूपितत्वस्य विधेयकोटिप्रवेशे एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गः शाब्दबोधनिरूपिताकाङ्क्षाप्रयोज्यसंसर्गत्वाभिन्नविषयाताश्रय इति फलति। तथासति प्रत्यक्षविषयीभूतसंसर्गस्यापि तादृशोद्देश्यतावच्छेदकाक्रान्तत्वात् तत्र शाब्दबोधीयाकाङ्क्षाप्रयोज्यविषयत्वाभावात् अनुपपत्तिः। उद्देश्यतावच्छेदकावच्छेदेन विधेयभानस्य हि प्रायिकत्वं स्वीकृतम्। यदिच ``पदार्थ’’ इत्यनेन पदविशिष्टोऽर्थः स्वीक्रियते, पदवैशिष्ट्यं च स्वनिष्ठवृत्यधीनोपस्थितिविषयत्वसंबन्धेन। विषयत्वं च विशेष्यत्वरूपं, तेन शक्ति भास्ययोः घटत्वघटयोः संबन्धस्य नाकाङ्क्षाभास्यत्वापत्तिः। एवं च प्रत्यक्षादि साधारणत्वाभावात् पदार्थत्वस्य नोद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्यानुपपत्तिरिति वाच्यम्। शाब्दबोध इत्यस्य ग्रन्थस्य व्यर्थत्वापातात्। अतः शाब्दबोधनिरूपितत्व मुद्देश्यकोटावेव निवेशनीयम्। नच तथापि ``एकपदार्थेऽपरपदार्थस्य’’ इत्युभयत्र पदार्थ

]