०४ सनातनप्राणिविज्ञानम्

सनातन - पश्वादिप्राणिविज्ञानम्
Zoology with Physiological and Biological Principles
ॐ (प्रकेतः = Motto)
यस्तु सर्वाणि भूतानि ह्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥
शास्त्रम् (Zoological Knowledge or Zoological Work)
येन पश्वादिप्राणिशरीरस्य आब्यन्तररूपगुणक्रियादिज्ञानं भवति, तच्छास्त्रस्य प्राणिविज्ञानमिति संज्ञा । (Cf. Zoology concerned with the structures of the bodies of animals and their behaviour. Latin anima- wind, hence animal - for breath is the cause of animal life.) Cf. प्राणः - निःश्वासोच्छवासरूपो वायुः अस्यास्तीति प्राणी ॥
प्रथमो भागः Part I
आपस्तंबकृत अजपाकल्पे एतत्तत्त्वं सुविशदमुक्तमिति ज्ञायते । (Professor V. S. Apte says that “Ajapa” is a mantra called (हंसः) “Hamsa” which consists of a number of inhalations and exhalations.) श्वासप्रश्वासयोः बहिर्गमनागमनाभ्यां अक्षरनिष्पादनरूपो जपः । स च हंसः सोऽहम् इत्याकार एव । उच्छ्वासैरेव निःश्वासैः हंस इत्यक्षरद्वयम् । तस्मात्प्राणश्चहंसाख्य आत्माकारेण संस्थित इति वामनशिवराम आप्टे पंडितेन दर्शितम् ।
उपक्रमः
(Introduction of General Description)
इह जगत्यां विद्यमानं सर्वं पदार्थजातं पञ्चभूतात्मकमेव । पृथिव्यप्तेजोवय्वाकाशानि पञ्चमहाभूतानि । तेषां संयोगात्सर्वे पदार्ह्तास्समुत्पद्यन्ते । (The source of all things is matter made up of five elements viz. the Earth, Water, Heat, Air, Ether ; - by their various combinations in different proportions.)तथा चोक्तम् अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु यास्स्मृताः । ताभिस्सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः इति मनुवचनम् । पञ्चमहाभूतानां यास्सूक्ष्माः पञ्चतन्मात्ररूपाः (Electrons) विनाशिन्यः (Changing) पञ्चमहाभूतरूपतया विपरिणामिन्यः ताभिस्सह सूक्ष्ंआत्स्थूलं स्थूलात्स्थूलतरमित्यादिक्रमेण सर्वं चेदमुत्पद्यते इति कुल्लकमट्टोऽभिप्रैति । तथैव तं वेधा विदधे नूनं महाभूतसमाधिना इति रघुवंशे कालिदासोऽपि । अतः पञ्चमहाभूतोत्पन्नत्वात् सर्वस्यापि भूत (Being) पदेन निर्देशः । भवतीति भूतम् (Existence) । तस्मात् गिरिः भूतम्, तरुः भूतम्, कृमिः भूतम्, पशुः भूतम्, नरीऽपि भूतमेव ।
इदं भूतजातं पुनः स्थावरजङ्गमरूपेण द्विधा भवति - स्थावरं गिरिवृक्षादि, जङ्गमं पशुपक्ष्यादि । स्थावरपदार्थानां विचारः सनातनवनस्पतिविज्ञाना ख्यग्रन्थे (Ancient Botany) सनातनभूतत्त्वविज्ञाना ख्यग्रन्थे च (Ancient Geology) कृतः । जङ्गमपदार्थस्तु - अस्मिन् ग्रन्थे (Ancient Zoology) यथामति यथासाध्यं विचार्यते ।
प्राणिशास्त्रस्य मूलम्
(The Source of Zoology)
वेदेषु एतच्छास्त्रस्य नामनिर्देशः सम्यग्विशदीकृतः । यथा - (mention is made in Vedas regarding Zoology etc.) वागेव विज्ञापयति (It is speech i.e., works on several subjects - that teach) मनुष्यांश्च (Physiology), पशूंश्च (All about cattle), वयांसि च (All about birds), तृणवनस्पतींश्च (Botany), श्वापदानि (All about wild beasts), आकीटपिपीलिकम् । (And all about creeping creatures, worms, insects, basilli etc.) ततः प्राणीशास्त्रप्रादुर्भावः । (Therefore these Zoological works appeared). तथा - यत्रौषधीः समग्मत राजानस्समिताविव । विप्रस्स उच्यते भिषग्‌रक्षोहामीव चातनः (ऋ. सं. १० - ९७) यश्चेकारसनिस्करत् स एव सुभिषक्तमः (अथ. २ - ९) एवं श्रुतितः - मनुष्यपशुपक्षीणां निखिल स्थावरजङ्गमानां चतुर्योनिसमुद्भूतानां विज्ञानपुरस्सरं तेषां श्रेयसे पाञ्चभौतिकशरीराणां स्वास्थ्यसमालोचनया सर्ववेदाङ्गभूतमायुर्वेदमुपवेदम् ऋग्वेदस्य, अथर्ववेदोपाङ्गं चिंतयामासु इत्युक्तत्वात् अथा त आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः इति ह स्माह भगवान् आत्रेयः इति दर्शितत्वाच्च प्राणिशास्त्रसायनशास्त्रादीनां (for Physiology, Zoology, Botany and Chemistry), वेदा एव मूलम् अतः । तानि शास्त्राण्यतिप्राचीनानीत्यर्यो निर्गलितः । (The Vedas are the source of these sciences and therefore these are very ancient.)
प्राणिशास्त्रप्रवर्तकाः
(Authors of Ancient Zoology)
प्राणिविज्ञाननिबन्धकाराः - भगवान् पराशरः, गर्गः, वररुचिः, समुद्रः, वराहमिहिरः, इति सामान्येन विदितं भवति । अथ च आयुर्वेदश्च, मनुष्याणां ब्रह्मसनत्कुमाराश्विनीकुमारादिभिर्बहुभिः ऋषिभिरिव गजाश्वादीनां तिरश्चामपि पालिकाप्यशालिहोत्रादिभिर्महत्या कृपया निर्मितः । यथा - पराशरः बृहद्रथाय गोलक्षणं प्राह । शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् । पालिकाप्यः अङ्गराजाय गजायुर्वेदमब्रवीत् । गोवृषभसम्बन्धतत्वं विश्वामित्रेण दृष्टम् । तैत्तिरीयारण्यके वैद्यग्रन्थेषु च पक्षिकृमिकीटादीनां विचारः कृतः । एवमेवोक्तमन्यैश्शास्त्रकारैः ।
तत्कृतग्रन्थास्तु - नकुलचिकित्सा, सारसिन्धुः, सारसङ्ग्रहः, भोजराजकृतहयलीलावती, शार्ङ्गदेवकृतवाजिचिकित्सासंङ्ग्रहः, जयदेवकृतग्रन्थः वृषकल्पद्रुम शार्ङ्गदेवकृतवाजिचिकित्सासंङ्ग्रहः, जयदेवकृतग्रन्थः वृषकल्पद्रुम इत्यादयः अन्ये च बहवो ग्रन्था विद्यन्ते । तेषां समग्रावलोकनेन बहवो विषया गोचरा भवन्तीति सूच्यते ।
प्राणिनां प्रवृत्तिः
सर्वेषां विविधविचित्रप्राणिनां पृवृत्तिः केवलं स्वोदरपूरणार्थं स्वेन्द्रियतृप्त्यर्थं स्वदेहपरिपालनार्थमेवेति मतिमतां भावना । मनुष्यपशुपक्षिकृमिकीटादयस्सर्वे स्वशक्तिमुपयुज्य येन केन वा प्रकारेण स्वजीविकां संपादयन्ति । पिपीलिकासु वानरादिषु च सङ्घीभूयावस्थानं परिदृश्यते । सर्वप्रवृत्तीनां मुख्यफलं स्वसुखमेव नान्यत् ।
जङ्गमप्राणिविभागः
(Theory of Evolution)
जायते इति जन्तुरिति व्यत्पत्या सर्वे प्राणिनः जङ्गमपदार्था एव (All moveable beings are (जन्तवः) living beings that are born.) अथवा प्राणिनः - प्राणावन्तः - प्राणः प्राणापानरूपक्रियावान् । एते जन्तवः विविधविचित्ररूपगुणक्रियोपेताः । (These beings are of different forms endowed with different characters and functions.) रूपवैचित्र्यं शरीरावयवनिमित्तकम् । तथा चोक्तम् - विचित्ररूपाः विचित्रवयवाः इति । (Difference in forms is due to difference in the organs possessed by the body.) गुणक्रियावैचिन्त्र्यं कालदेशवर्तमाननिमित्तम् । (It is time and place and also environment that cause wonderful difference in the characters and functions of animals.) अणोरणुत्वम्, महतो महत्वम् । स्थावरजङ्गमान् कालः प्रवर्धयति । अतः प्राणिनः अनेके इति आयुर्वेदोक्तया जात्याकृतिव्यक्तिभेदाऽवगम्यास्ते । (Creatures can be distinguished by knowing to what genus, species and individuality they belong.) तथा चोक्तं मनुना - कृमिकीटयूकामक्षिकमत्कुणदंशमशकपतङ्गव्यालमत्स्यविहङ्गमपशुमृगवानरमनुष्याद्यनेकप्रकाराः प्राणीनः इति तस्मात्तेषां विभागः आवश्यकः । (Therefore their classification.) अयत्र - स्थावरास्त्रिंशल्लक्षाश्च जलजो नवलक्षकः । कृमिजा दशलक्षाश्च रुद्र (एकादश) लक्षाश्च पक्षिणः । पशवो विंशतिलक्षाश्च चतुर्लक्षाश्च मानवाः । इति तत्तत्प्राणिसामान्यङ्ख्याश्च निर्दिष्टाः । (number of species) भवतु सङ्ख्यायां कदाचिद्विप्रतिपत्तिः तावता शास्त्रकृदुद्यमस्य नोपधातः । अशरीरी नान्नपत्ति सति शरीरे भागाय इत्याद्यायुर्वेदसूत्रबलेन शरीरे सति सर्वविषयभोगार्हत्वम् । शरीराङ्गानि इन्द्रियाणि । अङ्गी शरीरी । शरीरस्य भोगः विषयविज्ञानं च इन्द्रियाधीनम् । इन्द्रियाणि च शरीराधिष्ठितानि । अतः सर्वविषयकभोगविज्ञानसाधनानि । विविधप्राणिषु यावद्यावदिन्द्रियसङ्कोचः तावत्तावद्विषयभोगविज्ञानसङ्कोचः । अतः शरीरभेदाः । (Cf. “The more obvious and easily discovered characteristics which distinguish animals from one another are those of their internal appearance - body, shaping nature of appendages, sense organs, character of the skin and its derivatives, colours, size etc.
विचारिते भूतोत्पत्त्यारोहणक्रमे पिपीलिकादिमनुष्यपर्यन्तं भूतेषु मनुष्य एव परमोधिकः श्रेष्ठश्च इति व्यज्यते । कुतः ? पूर्णशरीरावयवित्वम्, धर्मपरता, ज्ञानवैशद्यम्, एतदादीन्येव, तत्र कारणानि । तथा चोक्तं महाभारते - भूतानां (भूतारब्धस्थावरजङ्गमानां) प्राणिनः (कीटादयः - कदाचित्सुखलेशादयस्तेषाम्) श्रेष्ठाः (Among all things in the world, living beings are in higher order), प्राणिषु बुद्धि जीविनः (Next come those creatures that live by instinct) (सार्थनिरर्थदेशोपसर्पणकारिणः पश्वादयः) । बुद्धिमत्सु नरा (प्रकृष्टज्ञानसम्बन्धात्) श्रेष्ठाः (Man is the highest in the order of evolution.) जन्तूनां नरजन्म दुर्लभम् (It is the greatest gift or privilege for any being to be born as a man) इति शङ्करः ।
प्राणिनां जात्यादिविभागः
(Classification of Animals)
एतादृशभूतानि चतुर्धा विभक्तानि - उद्भिञ्जस्वेदजाण्डजजरायुजभेदेन । (Plants, Insects, Birds and Animals). तत्र उद्भिञ्जाः - स्थावराः - पर्वतवृक्षादयः । अन्ये जङ्गमाः - पशुपक्ष्यादयः । ते पुनः - योनिजाः अयोनिजा इति द्विविधाः । योनिजास्तु - मनुष्यपश्वादयः (जरायुजाः) पक्ष्यादयश्च (अण्डजाः) अयोनिजास्तु - कृमिकीटादयः (स्वेदजाः) । वृक्षादयश्च (उद्भिजाः) । उद्भिञ्जानामपि शरीरव्यवहारः भवत्येव आध्यात्मिकवायुसबन्धेन । तत्सत्वे - भग्रक्षतसंरोहणादय एव प्रमाणमिति सनातनवृक्षादिविज्ञानशास्त्रे दर्शितं भवति । सर्वेषु जीवो (Life) वर्तते । परं तु स्थावरेषु स नोद्बुद्धः । जङ्गमेषु स उद्बुद्धः । अत एव चेतनाचेतनव्यवहारः । अत्र, विञ्जडयोर्ग्रन्थिः जीवः । (The connection (ग्रन्थिः) of matter (जड) with life principle (चित्) is called soul) इति विवेकः । अयं विभागः प्राणिनां गर्भतत्त्वमधिकृत्य निश्चितः ॥
गर्भतत्त्वमधिकृत्य प्राणिविभागः
(Classification of Animals based on Embryology)
स्वेदजाः यूकादयः । अण्डजाः पक्ष्यादयः । जरायुजाः पशुसृगनरादयः इत्येको विभागः । खेचराः - भूचराः - जलचराः इति अन्यो विभागः । तेषु खेचराः पक्ष्यादयः, भुचराः पश्वादयः, जलचराः मत्स्यादयः । अयं विभागः प्राणिनां निवासव्यापारसहकृतः । मनुष्यस्तु - प्रायेण भूचरोऽपि स्वबुद्धिबलेन नौकादिसाधनानि परिकल्प्य तैः प्लवनद्वारा जलचरोऽपि भवति, विभानादियन्त्रद्वारा खेचरोऽपि भवितुमर्हतीति विशेषः । केचित्प्राणिनः भूचराः खेचराश्च भवन्ति यथा - कादादयः । अन्ये केचित् भूचराः जलचराश्च भवन्ति यथा - भेकादयः । अन्योऽपि विभागो यथा - मानववर्गः, पशुवर्गः, पक्षिवर्गः, कीटवर्गः, कृमिवर्गः, मिश्रवर्गश्चेति । अयं विभागः प्राणिनामाकारविशेषाननुसृत्य (Structure) विहितः (Cf. Cytology discovers and elucidates the visible structure of cells themselves.) अत्र एकैकस्मिन्पुनः अनेके अन्तर्वर्गाश्च भवन्ति । यथा - पशुवर्गे गोजातिः अश्वजातिरित्यादि । अत्र जात्यादिविचारः शास्त्रकारैरनेकधा कृतः । जातिः व्यक्तिः इति द्वावेव भेदाविति वैयाकरणादयः । जातिः (Genus) आकृतिः (Species) व्यक्तिरिति (Individuality) त्रयो भेदाः परिगृह्यन्ते इति नैयायिकादयः । अयं विषयो दुरुपपादः । यथा - यदा सृष्टिजातं भूतत्त्वेन जातिरित्युच्यते तदा चेतनमचेतनं चेति आकृतिर्भवति । यदि चेतनपदार्थाः जातिर्भवन्ति तदा पश्वादिपदार्थाः आकृतिविशेषा इति वक्तव्यम् । यदि पशुः जातिवाचकः तदा गवाश्वादयः आकृतिवाचका भवेयुः । अतः यत्रानेकेषु प्राणिषु सामान्यधर्मः दृश्यते तत्र जातित्वेन, यत्र विशेषधर्मः तत्र आकृतित्वेन व्यवहारस्सुगम इति केषाञ्चिन्मतम् । अयं विचारः पुरतो यथासन्दर्भं विशदीक्रियते ।
शरीरतत्त्वम् (It must be noted that the scheme of classification is not fixed, since it depends entirely on our present knowledge which may be considerably extended day by day” says W. Roe Sherriff; cf. also the main classification in modern Zoology viz. kingdom, phylum, class, order, family, genus and species.)
शरीरम्
(Physical and Physiological Laws)
शरीरं पञ्चभूतात्मकमित्युक्तम् (Corporeal body is made up five gross elements.) शरीरे पञ्चभूतानां कार्याणि - आकाशस्य अवकाशदानम् (Ether provides space for growth etc.) वायोर्व्यूहनम् (The act of arraying structures of different organs and carrying alimentation, blood circulation, respiration and nervous action belongs to air) नेजसः प्रकाशनम्, पाचनम् । (Transmuting energy and giving light and causing chemical combination belong to heat and light.) अपां सङ्ग्रहणं पिण्डीकरणम् । (Blending, accumulating and uniting functions by cohesive and addhesive forces belong to liquids i.e. to water element.) पृथिव्याः धारणम् । (The element Earth holds, sustains and preserves the body and its organs.) एतेषां पञमहाभूतानां कारणानि पञ्चतन्मात्राणि । (Subtle or atomic elements and their causes called electrons.) तेषां कारणं अहङ्कारतत्त्वम् । (Ego or the “I” principle) तस्य च कारणं महदाख्यं तत्त्वम् । (The great principle viz. Intellect.) तत् अव्याकृतपरिणामि अथवा प्रकृतिजन्यम् । (It is the first change or effect of the Primordial Matter brought about by the proximity or influence of Spiritual Power.) इति हि सृष्टिक्रमः ॥
चिञ्जडतत्त्वम् (Matte and Soul)
तथापि सर्वमेतञ्जडमेव (All this is inactive due to its innate nature viz. Inertia) । तस्मात्तदव्याकृतं चैतन्यरूपमिति कृत्वा तद्भलेन शरीरे समस्तकार्याणि प्रचलन्तीति वदन्ति शास्त्राणि (All actions take place in matter by the presence of the All - Pervading Spiritual Power.) । एतत्तत्वमेव प्रकृत्यपरनामकम् अव्यक्तमिति वदन्ति केचिच्छास्त्रकाराः (Primordial Matter) । न व्यज्यते स्मेति अव्यक्तं मूलप्रकृत्यपरपर्यायपदं सर्वभूतानां समवायिकारणम् । न विद्यते कारणं यस्य तदकारणम् । इदं सत्वरजस्तमोरुपम् । तस्य अष्टरूपं तु - (१) अव्यक्तम् (unmanifested), (२) महत् त्रिगुणं सत्वबहुलं निर्मलं स्फटिकोपमं बुद्धितत्वम् (Sense of likes and dislikes) चिच्छाया प्राप्तचैतन्यं तदिच्छामयमीरितम् इत्यत्र प्रमाणम् । (३) अहङ्कारः - अभिमानव्यापारः (The “I”, Ego) । अहङ्कारस्य रजोबाहुलकगुणान्वितस्य मनोधर्मत्वात् अहङ्कारोऽपि सात्विको राजसस्तामस इति त्रिगुणात्मकः । (४ - ८) पञ्चतन्मात्राणि (Five kinds of atomic subtle elemental matter or material forces or powers called electorns from which the five gross elements viz. Ether, Air, Fire, Water and Earth arise and from the combination of these, the whole world.)
एषा प्रकृतिः पुरुष (चैतन्य) योगेन जगत्सृजति । (The process of creation is only possible when matter or atoms are acted upon by an unknown power which is called by the Aryas चैतन्य life giving spiritual energy.) । अतः सर्वे प्राणिनः सचेतनाः सजीवाः (Hence all animals are endowed with life and soul. If this all - convincing theory of Aryas is not accepted, as in modern science, then it is not possible to account for the motion and change in the matter which is Jada (जड) i.e. full of inertia and then the moderen science remains to be imperfect, since it cannot trace the first cause that effects a change in the universal matter.)
एतत्तत्त्वमेव पालकाप्यमहर्षिणा एवमुक्तं भवति । शरीरे पुनह् पृथिवी धारणे, आपः क्लेदने, तेजः पाचने, वायुः व्यूहेन, आकाशमवकाशदाने उपकुर्वन्ति । कथम् ? आकाशात् शब्दः (Sound), सौषिर्यम् (Empty space or vacuum for the existence and development of organs) अनिलात् स्पर्शः (Touch) प्राणादयश्च (Five - fold functions of Air) तेजसः दृष्टिः (Sight), पाकः (Cambustion), प्रकाशः (Light), ऊष्मा (Heat and gas forming property), पित्तं च (And formation of Bile) । अद्भ्यः - स्नेहः (Cohesion, Adhesion and Viscidity), क्लेदः (Melting and dissolving property), शैत्यम् (Cooling property), रसः (Liquefaction), रसनं च (and taste) । भूमेः - घ्राणवान् - गन्धः (Smell), सङ्घातं च (Accumulating and collecting property.) । एतानि शरीरे पञ्चमहाभूतकार्याणि (These are the principal functions and properties of the five gross elements in the body.)
अन्यत्र - पृथिवी अस्थिमांसत्वङ्नाडीरोमापादनरूपपञ्चकार्यात्मिका शरिरे । आपः रसशोणितमञ्जालालामूत्रापादकपञ्चकार्यात्मिकाः । तेजः - क्षुधातृष्णानिद्राशान्त्यालस्यापादकपञ्चकार्यात्मकम् । वायुः - धारणचालनसन्धिसंकोचनप्रसरणापादकपञ्चकार्यात्मकः । नभः - रागद्वेषलञ्जाभयक्रोधापादकपञ्चकार्यात्मकमित्युक्तम् ।
वायुतेजोऽपां विशेषकार्याणि
(Three - fold Special Functions of Air, Fire and Water in the Body)
आपः (Water) श्लेष्मद्रव्यप्रवर्तकाः (Causes the food mixed with saliva and gastric juice etc.) बलवत्पुष्ट्युपचयकराः (Causes Alimentation) श्लेषाः (Endowed with adhesive power) एतदपां कार्यम् । तेजसः पित्तं भवति (Formation of Bile by the combustion of fire) । पित्तमाहारं पचति एतत्तेजसः कार्यम् ॥ वायुश्चेष्टाप्रवर्तकः (Air causes all activities in the body viz. Alimentation, Respiration, Blood circulation, Digestion, Excretion etc.) वातप्रवर्तकश्च (Causes wind as one of the three humours of the body) । एतैश्शरीरं धार्यते (The body is sustained mainly by these three elements), - साम्यं समैः, वैषम्यं विपरीतैः (If they are in order, health and tranquillity are assured. If they are in disorder, all kinds of diseases, both bodily and mental, occur) । आहारोपचाराभ्यामिष्टदेशकालोपपन्नाभ्यां वातादयस्समीभवन्तीति (Proper food at proper time and right conduct help these elements to be in order and to do their functions properly) ॥
शरीरे चेष्टानिर्णयः
(Activities in the Body)
प्राणापानव्यानोदानसमानाः, मानसचेतनाधातुबुद्धयः इत्येते नव शरीरचेष्टाप्रयोजकाः । तत्र ऊर्ध्वः प्राणः - सः ऊर्ध्वगोऽभिन्यस्तनिश्वास (Inspiration) क्षवथुकर्मा शरीरं श्रेयसे निर्युनकित् । अपानः (Expiration) अधस्तात् पक्वं पक्वं मूत्रपुरीषम् (Urine and exretion) उत्सृजति । उच्छ्वासमुपकरोति च । समानः पुनः मध्ये चाभ्यवहृतं पचति धारयति (Digestion of the food sustains the system by the help of Samana Air i.e. equal pressure, caused by inspiration and expiration) । व्यानः - अभिवहच्छरीरं धातुष्वाहारमनुपक्वं संयोजयति (Blood circulation caused by air called Vyana pervading on all sides of the body helps huilding and growth of the body and sustains life) । उदानस्त्वाहारमनुपक्वमुपनयत्यामाशयमूर्ध्वम् (Alimentation is caused by air called Udana which does its functions in stomach etc.) । एवमेते योगवाहाः प्रविभक्ताः पञ्च धातुषु प्रतिपद्यन्ते (These are the five - fold functions of one and the same Air in different forms requisite for different functions) । विप्रतिपन्नास्ते मध्ये तिर्यगूर्ध्वबहिरन्तरमवस्थिताः भ्रमन्तो वा विविधान् रोगानुत्पादयन्ति (If they are disturbed they cause all kinds of diseases). अन्यत्र एवमुक्तं भवति । प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जयाः दश वायवः । एतद्वायुसंसर्गकोपाधिभेदेन रेचकः - पाचकः - शोषकः - दाहकः - प्लावकः इति प्राणमुख्यत्वे जाठराग्निर्भवति । क्षारकः - उद्गारकः - क्षोभकः - जृम्भकः - मोहक इति नागप्राधान्येन पञ्चविधाः ।ते मनुष्याणां देहगाः भक्ष्यभोज्यचोष्यलेह्यपेयात्मकं पञ्चविधमन्नं प्राचयन्ति ॥
तथैवोक्तमुपनिषत्सु - यत्पुरुषेणाशितमन्नं कठिनं पीता आपः नयन्ते - द्रवीकृत्य रसादिभावेन विपरिणमयन्ते । तदा भुक्तमन्नं जीर्यति । तत्रैवं सत्यद्भिः रसादिभावेन नीतेनाशितेनान्नेन निष्पादितमिदं शरीरम्, वटकणिकायामिव शुङ्गोङ्कुरः उद्गतः तमिमं शुङ्गं कार्यं शरीराख्यं वटादि शुङ्गावदुत्पतितं हे सोम्य ! विजानीहि । तस्य क्व मूलं स्यादन्यत्रान्नादेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छ । अद्भिस्सोम्य शुङ्गेन तेजोमूलमन्विच्छ । तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ । सन्मूलात्सोम्येमाः सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः । (Here by describing the principle of alimentation, existence of soul which is nothing but a kind of existence Absolute is logically traced and proved and thus it is calculated that every thing - the whole nature - has its living and being in “That” which is called the great spirit or existence Absolute. Here lies the speciality of the theory of Aryan science. For further details refer to Sankara’s commentary (on the above quotation) which elucidates the principle to the satisfaction of every Physiologist and Philosopher.)
जीवतत्त्वम् (Principle of Life)
पूर्वोक्तानामहङ्कारतन्मात्राणां ये सूक्ष्मावयवाः तान् आत्ममात्रासु (Principles of Life) षण्णां स्वविकारेषु योजयित्वा सृष्टिकर्ता (The Creator) मनुष्यतिर्यक्स्थावरादीनां सर्वभूतानां सृष्टिं कृतवान् । तथा चोक्तं मनुना - तेषां त्ववयवान्सूक्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु (Life energies) सर्वभूतानि निर्ममे (I. 16) । किन्नरान् वानरान्मत्स्यान् विविधांश्च विहङ्गमान् । पशून् मृगान्मनुष्यांश्च व्याळांश्चोभयतोदतः ॥ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणान् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ (मनुः I. 39 - 40) ॥ अत्र सर्वम् पृथग्विधम् इति पदाभ्यां सर्वासु व्यक्तिष्वपि परस्परभेदः आकारतो वा, गुणतो वा, कर्मतो वा, भवत्येव । इत्यनेन व्यक्तिवैशिष्टयं सूचितम् (Cf. No two animals even belonging to the same blood are alike) ॥ शरीरजीवयोर्योगः जीवनम् इति आयुर्वेदेऽप्युक्तम् ॥
तेषां जन्मादिक्रमस्तु मनुष्याः, पशवः, मृगाः, व्यालाः एते सर्वे उभयतोदन्ताः (Those that have two rows of teeth) ते सर्वे जरायुजाः (Born from the womb viviparous beings) । जरायुर्नाम गर्भावरणचर्म (The outer skin of the Embryo) । तत्र मनुष्यादयः प्रादुर्भवन्ति पश्चान्मुक्ताः जायन्ते । (Cf. Mammals have diaphragm. Theybring forth their mammals) । पक्षिणस्सर्वे अण्डजाः । अण्डः आदौ सम्भवति ततस्ते जायन्ते (Born from egg, Oviparous beings) । एतञ्जातीयाः जलजेषु नक्रकुम्भीरशङ्खादयः । स्थलजेषु कृकलासादयः । दंशमशकादयस्तु स्वेदजाः । स्वेदः - पार्थिवद्रव्याणां तापेन क्लेदः । ततः दंशादयो जायन्ते । (Those that are generated by warm vaporu - sweat, such as insects) । ऊष्मणश्च हेतुतापादपि अन्यद्दंशादिसदृशाः पुत्तिकापिपीलिका दयो जायन्ते (Ants, white ants, and the like take their birth from mere heat or heated vapour) । उद्भिञ्जास्तु ऊर्ध्वं बीजं भूमिं भित्वा जायन्ते इति शरीरोत्पत्तितत्त्वम् ॥
आयुर्वेदे पाणितत्वम्
(Biological Principles)
इदं समस्तं जगत्, आब्रह्मकीटं पुंस्त्रीप्रयोगेण बद्धम् इति बृहत्संहितायां वराहमिहिरः ॥ अयमेवार्थः आयुर्वेदे यथा - शुक्रशोणितसन्निपातो योनिः (प्र. २, सू. ५१) पुरुषजन्यं शुक्रम् । स्त्रीजन्यम् शोणितम् । तयोर्हेतुभूतं योनिः । सान्निपात्यं संसर्गहेतुभूतात्मकं तयोस्सान्निपात्यमित्यभिधीयते । (Cf. “Reproduction is a kind of activity giving rise to new beings - a process which may be asexual as when the single parent form breaks usually into parts, each of which in time becomes an adult, or more usually sexual, when two parents are concerned each of which liberates special germ cells (प्राणिबीजानि) Sperms (शुक्रम्) from male and ova (शोणितम्) from female. From the union of these, a new individual arises” cf. also “with very rate exception all metazoa reproduce sexually the male and female gamuts. The spermatozoa and ova being formed in definite organs, the gonads, and possessing markedly divergent characters.)
शुक्रस्य सर्वदा बीजोत्पादकत्वं वक्तुमशक्यम् । किंतु आशयाः (Protoplasms) परिशुद्धास्सन्तः (being favourable or becoming fertilized) तथा प्रजननहेतुभूता भवन्ति (Become causes for the reproduction of fertilized cells) । ननु अस्मिन् कार्ये आशयाः परिशुद्धा भवन्तु शुक्रशोणिते अपि परिशुद्धे । तयोरेव बीजात्मकत्वात् कथं तदेधते (How does it develop ? कथं विवर्धते (How does it grow ? ) कथं चेष्टाश्रयं चलनाश्रयं चेति वक्तुं शक्यते (How do activity and movement take place ? ) । योन्यामाविरभूदजो विधिचोदितः (तत्रैव सू. ५२) अजः - जीवात्मा योनिं प्रविश्य गर्भाशये आविरभूत् अदृश्यत । रेतोमात्रं विजहाति योनिं प्रविशदिन्द्रियं गर्भो जरायुवृतः इत्येनेन योनावेव सत्वः गर्भस्सन् तदनन्तरं गर्भाशयं प्रविश्य विवर्धत इत्युक्तम् (cf. Contractibility, irritability, nutrition, respiration and excretion - these five activities are common in all animals. In the case of single - celled Amoeba, movement is accomplished by the protoplasm streaming onwards only, projecting the pseudopods. Protoplasm is sensitive to stimulii. The digestion takes place within the first vacuole, and respiration and excretion take place over the general surface of the cell.) “(By excretion is meant to get rid of certain acid gas)” The cell, the unit of living matter is a drop (विंदु - Bindu) of a very complex translucent gelly - like substance named Protoplasm (उल्बम् - Ulbam - and it may be bounded by a definite cell wall.) उल्वं जहाति जन्मना (It breaks out its bag or binding membrane and comes out). ऋतेन सत्यमिन्द्रियम् (It may in time multiply by itself in cells or develop itself with definite organs) इति श्रुतिः । समस्तभूतानां शरीरं पञ्चभूतात्मकम् (Every body is constituted of five elements.)
एकावयवभूतविषयेऽपि पाञ्चभौतिकं शरीरम् इत्यनेन पञ्चभूतेषु कानिचिन्मातृस्थानीयानि, कानिचित्पितृस्थानीयानि भवन्ति इति शुक्रशोणितसंसर्गं विनापि पिण्डान्तराविर्भावश्शक्यते । इदमेकावयवभूतेऽपि सत्यम् (This is true even in the case of a single living cell called protoplasm, for there is a vacuum or etherial space calle d “Akasa” for its occupation and development. There is air (वायु - Vayu) respiratory or otherwise, which causes its movements however slow it may be. There is heat or तेजस् (Tajas) which gives stimulus for all kinds of activity. There are liquid and solid elements in the nutritious substance (आपः - पृथिवी - Apah Prithivi) son which it lives and grows. “On account of these, all activities such as contractibility, irritability, nutirtion, respiration and excretion in all cases and growth and reproduction in special cases are possible.”) तथा चोक्तम् - पिण्डे तावत्, एधन - विवर्धन - चेष्टा - चलनादिव्यापाराः पञ्चभूतानुगृहीता इति । तथापि पञ्चभूतानि, जडानि, तेषां मूलकारणभूता प्रकृतिरपि जडा । एवं स्थिते पिण्डानामाविर्भावः केन प्रकारेण भाव्यः ? इत्युक्ते, जीवात्मसान्निध्येनैवेति वक्तव्यम् । अतः - अजो ह्यधिष्ठाता स एव भुङ्क्ते (तत्रैव सू. १७ - १६) सर्वविषानुभवो जीवः सर्वमश्नुते । अत्र श्रुतिः - द्वा सुपर्णा सयुजा सखायौ समानं वृक्षं परिषम्बजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति । (All the five elements, being the modifications of Prakriti - the primordial matter, which is जडा - insentient, are themselves insentient. Without the presence of some sentient being any kind of activity even nutrition is not possible. Hence the Aryans say that not only the spiritual energy or power which is omnipotent, omnipresent, is present, but also an individual soul which is also sentient is present in every body. (Cf. “The life history of protozoa (एकावयवी) is often very elaborate and the group exhibits many stages in the development of a sexual mode of reproduction, from some simple cases as those in ciliotes where two identical feeding individuals come into association and exchange nuclii, to a fully developed sexuality where a large egg is fertilized by a small mobile spermatozoa as in the Malarial Parasite.) (W. Roe Sheriffs.)
पिण्डाविर्भावः (Reproduction - Ontology)
अन्नाद्भूतानि जायन्ते इति श्रुत्या पिण्डाङ्कुराविर्भावहेतुकयावद्द्रव्यादनं मातरि शोणितरूपेण पितरि शुक्ररूपेण परिणम्य, योग्यकाले तयोस्संसर्गेण पिण्डोत्पत्तेः कारणं भवति । पिण्डश्च - यावदाहारानुगुणरूपवान् भवति (आ. प्र. सू. २ - ५३) । यावद्द्रव्यादनयावत्कार्यानुगुणानलादिद्रव्यम्, यावद्रसवद्द्रव्यादनजन्यस्वादुरसोद्भूतद्रव्यगुणकं रसनेन्द्रियविषयकम् । तच्च जिह्वाग्रवर्ति सर्वरसादिभेदं विविच्य गृह्णाति । यथा - पृथिवीत्वविशिष्टद्रव्यं पृथिव्यप्संयोगजन्यस्वादुरसवज्ज्ञानविषयकम् । एवमन्यत्र । (Cf. Reproduction means the giving rise to new beings by special germ cells - Sperms from the male and ova from the female - which are fertilized by means of proper food absorbed in nutrition.)
पिण्डाभिवृद्धिः (Growth of the Egg)
यावदभ्यवहृतरसेभ्यो मातृजं पालयेत् (आ. सू. २ - ५५) यावदभ्यवहृतरसेभ्यः = यावद्भूक्तरसेभ्यः मातृजं मातृपिण्डं यावत्सप्तधातून् पालयेत् रक्षेत् । रसेभ्यो जातधातूनां संरक्षणं कारयेदित्यर्थः । (cf. Growth is common to all young forms.)
पुंव्यक्त्याविर्भावः
(Reproduction of a Male Individual)
रेतोऽधिकात्पितुः पुत्रो भवति (आ. प्र. सू. २. ५६.) यदा पुरुषस्थितं तेजः गर्भे आविर्भवति तत्कालादारभ्य पुरुषविकारकार्यैकफलं सामर्थ्यं रसादयः प्रयच्छन्ति । माता स्वादुरसवद्रद्रव्यादनकला स्वादुरसहेतुकशुक्लधातुप्रवर्धनं कुर्वती अद्यात् । तस्मात्पितृसदृशः पुत्रो लभ्यते । अत एव श्रुतिः - आत्मा वै पुत्रनामासि इति । (cf. Muller’s Theory - “Every animal in its growth from the eggly to the adult condition passes in turn through stages which recapitulate its evolution from a primitive form i.e. that Ontogeny (The Individual development) repeats Phylogeny (That of a race).
स्त्रीव्यक्त्याविर्भावः
(Reproduction of a Female Individual)
रक्ताधिकान्मातुः पुत्रिका भवति (आ. प्र. सू. २ - ५७.) मातुस्स्वादुरसवद्द्रव्यादनजातशोणितस्यापि पिण्डं शरीराभिवर्धकम् । तेन स्वादुरसजन्यकार्यफलप्रदानस्य तस्य स्वभावत्वात् । यावदन्तर्वत्नी पत्नी भवति तावत्कालं रसादयः पुरुषाणामिव स्त्रीणामपि धातुप्रदा भवन्ति । तच्छोणितस्यापि स्वादुरसजन्यत्वेन पिण्डं शरीराभिवर्धककार्यहेतुभूतं भवति । रक्ताधिकप्रवेशनात् अतिरक्तप्रवेशनात् मातृसदृशः जातपिण्डे दृश्यते ।
स्वेदजोद्भिञ्जादिविषये तत्तद्रव्यादनरस एव स्वकार्यं करोति रसो ह्यसृक् इत्यनेन रसासृजोरैक्येन विवक्षितत्वात् । तत्र शुक्रशोणितसंयोगहेतुभूतमातापित्रोरभावेनापि तत्कार्यं पञ्चमहाभूतैरेव निर्वर्त्यते इति रहस्यम् ॥
धातुप्षकान्नम् (Nutrition)
ये रसास्तद्धेतुभूतास्तदुद्भूतजातानलास्तदुद्भूतधातुपोषकाः - (आ. प्र. सू. १ - ७३) । तद्धेतुकार्यहेतुभूताः तद्धेतुभूता इत्यर्थः । तत्तदुद्भूतरसादनकार्यजातानलत्वं पाचकपित्तमेव । अनलपाचितरसाः तत्तद्भूतहितधातुपोषणं कुर्वन्ति । तत्र वचनम् - भौमाप्याग्नेयवायव्याः पञ्चोष्माणस्सनाभसाः । पञ्चाहारगुणान् स्वान् पार्थिवादीन् पचन्त्यनु । यथा स्वं ते च पुष्णन्ति पक्वा भूतगुणान् पृथक् । पार्थिवा पार्थिवानेव शेषाशोषांश्च देहगान् (अष्टाङ्गहृदये - शारीर ३ - ५९, ६०) ।
सर्वशरीरवद्रद्रव्यं पञ्चभूतात्मकमिति तत्पार्थिवभूताधिकं व्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य पार्थिवावयवं पोषयति । अब्भूताधिकव्यञ्जनान्नं भोक्तुमिच्छतः शरीरस्य अब्भूताधिकवृद्धिं करोति । एवं वह्निभूताधिकव्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य वह्निभूतावयववृद्धिं करोति । एवमनिलस्य च । एवं नभप्तोऽप्यभिवृद्धिं करोतीति । यावद्द्रव्यान्वितो रसः ततद्द्रव्यगुणपदः । पञ्चभूताधिकद्रव्येभ्यः तत्तद्द्रव्याधिव्यञ्जनावयवाः अभिवर्धन्ते । तस्माद्रमादीनां कार्पकारणभावः । यथा - रसाद्रक्तम् -रक्तान्मांसम् - मांसान्मेदः - मेदसोऽस्थि, अस्थ्नो मञ्जा- मञ्जायाश्शुक्रम् - शुब्राद्गर्भः । शरीरावयवाः (Morphology)
शरीरे पुनः बहवः अवयवास्सन्ति । ते सर्वे सर्वेषु शरीरेषु अनैकान्तिकाः प्रादुर्भवन्ति । (With uncertainly in different forms and numbers.) अत एव शरीरभेदाः (Cf. In the ordinary fish which have more or less blade - like bodies the optic chiasma is absent ; in insectivorous birds, the optic chiasma is extremely large.) तद्भेदादेव प्राणिनां व्यापारभेदाः । मनुष्येषु पुनस्सर्वेऽवयवाः सम्पूर्णः । अतो मनुष्यस्सर्वकार्यक्षमः । तस्य शरीरावयवाः के इति प्रथमं विदित्या तेषां के अवयवाः केषु केषु प्राणिषु उद्भूताः के अनुद्भूताः के च विशेषावयवाः सन्ति इति ज्ञातं चेत् तदा प्राणिनां विचित्रव्यापारानवगमयितुं सुशकं भवति । अतोऽत्र प्रथमं मनुष्यशरीरावयवाः साकल्येन निर्दिश्यन्ते (Cf. The various groups of animals which are almost nearly allied to man have bodies made up of the same parts as our own bodies. The study of morphology reveals this truth since it expresses the blood relationship between animals.)
मनुष्यशरीरतत्वम्
(Human Physiology)
शिरोभागाः - शिर्षम् (Head) शिरः (Skull) शिखादेशः (Upper part of the head) सीमन्तः (The Scrotum) केशाः (Hair) अलकाः (Curle of hair). ललाट भागाः - ललाटम् (Forehead), ललाटपट्टः (The flat surface of the face), ललाटतलम् (Ridge), ललाटरेखाः (The lmes or wrinkles on the forehead). कर्णभागाः - कर्णमूलम् (The root of the ear, viz., the auditory nerve), कर्णाग्रसन्धिः (Cocclia or its end close to the ear), कर्णाञ्जलिः (The auditory passage of the ear), कर्णपालिः (The lobe of the ear), कर्णशष्कुलो (The outer part of the ear.) नेत्रभागाः - नेत्रम् (The eye), नेत्रान्तम् (The outer corner of the eye) भ्रूयुग्मन् (Brows), पक्ष्मणि (Eyelids), अक्षिकूमै (Hollow places where eye balls are placed), आक्षगोलम् (Eye balls), नेपर्त्यं (The optic passage), कनीनिके (Corneas), दृष्टिः (Sight or optic nerve), अपाङ्गः (The outer angle of the eye). नासाभागाः - नासा (Nose), नासाग्रम् (The tip of the nose), नासारन्ध्रे (Nostrils), नासावंशः (The ridge of the nose), नासामर्यादा (The septum of the nose.) कपोलभागाः - कपोलौ (The cheeks), कपोलभित्तिः (Temples), चिबुकम्, हनुः - कपोलाधोभागः (The chin.) वक्त्त्रभागाः - वक्त्त्रम् (Mouth), सृक्विणी (The corners of the mouth), वक्त्त्रदलम् अथवा तालु (The palate), वक्त्त्ररन्ध्रम् (the aperture of the mouth), जिह्वा (Tongue), दन्ताः (Teeth), ओष्ठौ (Lips) - इयुत्तरकायः (Head), कण्ठः (Throat), कन्धरा (Neck), ग्रीवा (The back part of the neck), कण्ठतटम् (The side of the neck), कण्ठघाटा = ग्रीवायाः उन्नतग्रन्थिभागः (Medula oblangata). वक्षः (Breast or chest), वक्षोजः (The woman’s Breast), क्रोडम् (Cavity of chest), चूचुकम् (The nipple), वक्षस्थलम् (The bosom), हृदयम् (Heart), पृष्ठम् (Back), पृष्ठस्त्स्थि- पृष्ठवंशः (The backbone), उदरम् (Stomach), नितम्बः कटः - श्रोणीफलकम् (The posterior part of a woman), गुदम् - विण्‌निर्गममार्गः (Anus), मध्यः (Waist), जघनम् (Hips or loins), योनिः (Womb, Uterus - Vulva. The female organ of eneration), वस्ती - मूत्राशयपुटे (The bladder), लिङ्गम् (The male organ of generation) - इति पूर्वकायः (Trunk). भूजौ (Shoulders), बाहु (The arms), कक्षः - बाहुमूलम् (The arm - pit), पार्श्वम् (Sides), कूर्परः (Elbow), प्रगण्डः (Upper part of the arm), प्रकोष्ठः (The forearm), मणिबन्धः - करस्य बहिर्भागः (Wrist), पाणिः (Hand), अङ्गुल्यः - पञ्च (Fingers), अङ्गुष्ठः (Thumb), प्रदेशिनी अथवा तर्जनी (The forefinger), मध्यमा (Middle finger), अनामिका (The ring finger), कनिष्ठिका (The little finger) । इति हस्तभागाः । वंक्षणः - ऊरुसन्धिः (Groin), सक्थि ऊरुः (The Thigh), जानु (Knees), जङ्घा (Leg), गुल्फौ (Ankle), पार्ष्णिः (Heel), पादः (Foot), पादाग्रम् (The fore part of the foot), पादाङ्गुल्यः (Five toes of the foot corresponding to the five fingers in hand), नखाः (Nails) - इति पादभागाः । एते शरीरस्य वाह्यावयवाः (Outer organs) । अन्ये केचिद्विशेषावयवाः अभिलषितार्थचिन्तामण्यादिग्रन्थेषु बृहत्संहितादिग्रन्थेषु आलेक्ष्य (चित्र) विद्यायां प्रदर्शिताः ॥
आन्तरावयवास्सर्वे सप्तधातुप्रकारा वा विकारा वा भवन्ति (एतञ्जरायुजेषु सर्वप्राणिसामान्यम्) यथा - सत्पत्वक् (Seven layers of the skin). १. अवभागिनी - सिध्म कुष्ठस्थानम् । २. लोहिता - तिलकालकजन्मभूमिः । ३. श्वेताचर्मदलः । ४. ताम्रा - श्वित्रभूमिका । ५. वेदिनी - सर्वकुष्ठोद्भवः । ६. लोहिता - ग्रन्थिगण्डास्थानम् । ७. स्थूला - विद्रध्यर्शोभगन्धरादियोनिः । (Note - Moderen physiology enumerates only three layers of the skin vuz. Epidermis, Dermis and Epithelium) । सप्तकलाः शरीरान्तरस्थक्लेदः - ऊष्मणा विपक्वः यः सा कला । ताः मांसम् (Flesh), मेदः (Fat or marrow in the abdomen), यकृत् (Liver), प्लीहा (The Spleen), अन्त्राणि (Intestines), अग्निधरा (That which produces heat), रेतोधराः (Those that bear semen and strength - giving energy), सप्ताशयाः - श्लेष्माशयः उरसि (Lungs in the chest or Thorax), आमाशयः तस्मादधः (Stomach below Diaphragm), अग्न्याशयः नाभेरूर्ध्वं वामभागे (Pancreas on the left side), तस्योपरि तिलम् (Probably the lower entrance of the belly), तदधः पवनाशयः तदधः मलाशयः (Intestines), तदधः वस्ति (Bladder), मूत्राशयः (Kidneys), रक्ताशयः हृदयम् (Heart), स्त्रोणां गर्भाशयः, स्तनाशय इति द्वौ अधिकौ । आमाशवादयः वैद्यग्रन्थेषु सम्पग्विशदीकृताः । तेषु - रक्ताशयः (Heart), नारायणोपनिषदि - पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् निर्दिष्टः ।
शरीरे व्यापाराः
शरीरे तावत् - प्राणन - जीवन विज्ञान प्रजननादिव्यापाराः (Alimentation, blood circulation, respiration, excretion, nervous action etc.) प्रचलन्त्येव । तेषु शरीराभिवर्धक, सप्तधातुपोषकः अन्नादनव्यापारः, सप्तधातुजनकः । (Cf. Such vital phenomena as respiration, digestion, circulation, excretion and reproduction are found to be essential to all animal life. If food is not present and is not properly distributed the muscle itself is consumed. Digestion is the process by which food is made ready for oxidation to the body. Food is masticated between the teeth and mixed with digestive salivary juice in the mouth, gastric juice and pancreatic juice in the Stomach, and hapatic juice in the Intestines. The food is distributed to the muscles by the blood, which flows into every part of the body through the tubes such as Arteries, Capillaries and Veins and thus the food is distributed to all parts of the body. The business of geting oxygen into the body and properly distributed to various parts, is called respiration.) । सप्तधातवस्तु - रस - रक्त - मांस - मेदोऽस्थि - मञ्जाशुक्ररूपाः । एतेषु पूर्वपूर्वः उत्तरोत्तरस्य जनकः । यथा - भूक्तान्नपानपरिणामो रसः, रसाद्रक्तम्, रक्तान्मांसम्, मांसान्मेदः, मेदसोऽस्थि, अस्थ्‌नो मञ्जा, मञ्जायाः शुक्रमिति । सर्वे आशया अवयवा धातवश्च, पेश (Tissue) मयाः, पेशाश्च मात्राबिन्दुचिताः (Made up of cells) । मात्राबिंदुवस्तु मूलभूताः भुक्तान्नपरिणामेन जाताः (Cells being primary constituent of all organs of the body, are formed from the food taken.) । तथाचोक्तम् - अन्नं धातुपदम् पुष्टिप्रदम् अवयवाभिवर्धनकरम् (Each organ consists of a variety of tissues (पेशाः) themselves being constructed of small units the cells मात्राबिंदवः) ॥
भुक्तान्नपानपरिणामः
(Hystology)
भुक्तान्नपरिणामो जाठराग्निना सम्पद्यते । जाठराग्नि स्वरूपं तत्कार्यं च भावप्रकाशे एवं दर्शितम् - सूर्यो दिवि यथा तिष्ठन् तेजोयुक्तैर्गभस्तिभिः । विशेषयति सर्वाणि पल्वलानि सरांसि च । तद्वच्छरीरिणां भुक्तं ज्वलनेनाभिमन्त्रितम् मयूखैः पचति क्षिप्रं नानाव्यञ्जनसंस्कृतम् ॥ स्थूलकायेषु सत्वेषु (जाठराग्निः) यवमात्रप्रमाणतः । हृस्वकायेषु सत्वेषु तिलमात्रप्रमाणतः । कृमिकीटपतङ्गेषु वालप्तात्रोऽवतिष्ठते ॥ (Cf. Various substances of which cells are made have different chemical and electrical offinities for digestion. This is called Hystology.)
शरीरे पुनस्त्रयो धातवः - वातपित्तश्लेष्माणस्सन्ति । तैः शरीरं धार्यते । समैस्समं, वैषम्यं विपरीतैः । तत्र बलवत्पुष्ट्युपचयकरः श्लेष्मा । पित्तमाहारं पचति । वायुश्चेष्टाप्रवर्तकः पञ्चधा प्रविभक्तः । द्वावित्याहारोपचारौ । ताभ्यां इष्टदेशकालोपपन्नाभ्यां वातादयस्समीभवन्ति ॥
अन्नरसतत्त्वम् (Alimentation)
सर्वशरीरवद्द्रव्यं पञ्चभूतात्मकमपि पार्थिवभूताधिकं व्यञ्जनान्नं पार्थिवावयवं पुष्णातीति पूर्वमुक्तम् । तथा चोक्तम् - खण्डजीरकघृताम्लसैन्धवस्वादुसूपसमरीचिसंस्कृतैः । व्यञ्जनैस्सह बहूपदंशकैः मानवार्थमपचस्त्वमोदनम् इत्यनेन अन्नशब्दार्थो विशदो भवति । एवमन्यत्र ।
एतत्सर्वमन्नादनमाहात्म्यम् । अपामोपधीनां चरसः अन्नम् । अन्नं च षड्सोपेतम् । स्वाद्वम्ललवणतिक्तोषणकषायाः षड्रसाः । एते शरीरस्थपित्तानिलेन त्रिविधविपाकात् स्वाद्वम्लकटुभावास्सम्पद्यन्ते । तत्र रक्ताधातुजनकरसासृगभिवर्धककार्यस्य कषायरसो हेतुर्भवति । तादृग्रसासृग्धातुजन्यैव त्वक् । सा श्वासोछ्‌वासावहा । सा सर्वजातिशरीरेषु विभिन्नरूपेण वर्तत एव । (This is the principal description of alimentation, blood circulation and respiration in brief.)
हृदयम् (Heart)
हृदयम् - रक्तविसर्पणव्यापारस्य केन्द्रम् (Heart is the centre of blood circulation) इदमतिमुख्यमङ्गं शरीरे । तदेवं प्रदर्शितं नारायणसूक्ते (Heart is an important organ in the body. Its description is given in a prayer dedicated to Narayana - the final destination of all men) यथा पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् (Heart is like a lotus bud turned downwards) अधोनिष्ठ्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति (It is placed on the left side at a foot above the navel and below the neck joint) । ज्वालमालाकुलं भाति विश्वस्यायतनं महत् (The interior of the heart shines with bright rays as if it were electrified and it is the abode of the whole body - system) । सन्ततग्‌सिंराभिस्तु लंबत्याकोशसन्निभम् (Being filled with arteries and veins always it is hanging like a sheath) । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् (In the middle, there are small cavities - auricles and ventricles and all the life - functions take place there) । तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः (In the middle again a great fire [Heat of the boold] is burning,spreading its rays on all sides) । सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरःकविः (Heat produced by that fire is the effect of digestion) । सन्तापयति स्वं देहमापादतलमस्तकः (It keeps the body warm from head to foot) । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः (There is a small ray of flame moving upwards - probably a thread of light caused by the rush of purified blood, hence charged with oxygen in the lungs and it finds its way from the left ventricle through the Aorta - it is natural that purified blood laden with oxygen flowing through blood vessels coverd with their delicate layers of epithelium coating produces a glow on its rushing march especially when it is pumped out) । नीलतोयदमध्यस्था विद्युल्लेखेन भास्वरा (As impure blood flowing through the veins around, presents a dark or blue appearance due to the presence of abundant carbonic acid gas, the gas shines bright all the more just as a astreak of lightning shines in the midst of clouds) । नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा (This streak of light is as thin as the awn of barley, and is endued with a tinge of golden yellow) । तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः (At the very end of that streak of light which is identified as life essence (or जीव or soul) is the spiritiual power or energy which influence all the material forces to act in this body. Note though the spiritual power is all pervading and consequently serves as unseen substratum to all the organs and their functions, yet here an important place is assigned to it to fix the mind on it in contemplation and commune with it during prayer.) एवमेव यकृत्क्लोमप्लीहादिस्वरूपाणि शरीरे तेषां कार्याणि प्रयोजनानि च वैद्यग्रन्थेषु बहुत्र प्रदर्शितानि (Likewise different structures, functions and uses in the body of liver, pancreas, spleen, etc. are explained exhaustively in many ancient medical works.) अन्यत्र रसरक्तविसर्पणम् (Alimentation, blood circulation) सङ्ग्रहेणोक्तं भवति ।
ओजोवहाः (Those blood - vessels that carry blood endowed with vitality to every part.) शरीरेस्मिन् विधम्यन्ते (विसर्प्यन्ते) समन्ततः । येनौजसा वर्तयन्ति प्रीणिताः सर्वजन्तवः । यदृते सर्वभूतानां जीवितं नाव तिष्ठति । तत्फला बहुधाभूताः फलन्तीव महाफलाः । महाफलाः धमन्यः । ताः हृदयाश्रिताः (Arteries that carry purified blood to various parts of the body.) दशधमन्यः बहुधा अनेकप्रकारं फलन्ति - निष्पाद्यन्ते एतेन मूले हृदये दशरूपास्सत्यः इत्यर्थः (Ten arteries) महासंख्याश्शरीरे प्रतानभेदा भवन्तीत्युक्तम् (Many are the blood vessels) । ध्मानात् (पूरणात् बाह्येन रसेन) धमन्यः (Arteries) स्रवणात् (रसादेरेव पोष्यस्य स्रवणात्) स्रोतांसि (Veins) सरणात् (देशांतरगमनात्) सिराः (Common name to both arteries and veins.)
एतद्विचारः वैद्यग्रन्थेषु बहुधाविशदीकृतः । शरीरे पुनः रसरक्तविसर्पणम् (Bllod circulation), उच्छ्वासनिश्वासक्रमः (Respiration), वृत्ति (ज्ञा‌अस्य अथवा संवेदनस्य) व्यापारः (Nervous action) यथा प्रचलतीति उत्तरत्र यथासंदर्भं विशदीक्रियते । इत्थं च पूर्वोक्तशरीरबाह्याभ्यन्तरावयवानामुद्भववृद्धिह्वासमूलं विविधप्राणिनामाकारवैचित्र्यमिति सूचितम् (This is the Biological and Physiological principle in brief) ॥
गर्भतत्त्वम् (Embryology)
गर्भतत्त्वं गर्भावतरणक्रमं सुविशदमुपदिशति (Embryology is the science which deals with the modes of origin, manner of growth, and ultimate birth of an entirely new being - says a Zoologist) । प्रकृतिपुरुषसंयोगेनैव सृष्टिः (The male germ cell must unite with the female germ cell to produce a living cell. (सजीवबिन्दुः अथवा सजीवकणः) (By means of a certain energy.) हिरण्यगर्भः - अश्वत्थः (The nervous system in the body.) । हिरण्यगर्भः (The egg is the producer of a species to which it belongs । हिरण्यम् means semen virile, the result of the union of sperm and ovum in a single cell, which produces an egg - fertilized ovum in a single cell. अत एवोक्तमायुर्वेदे यथा -
गर्भावतरणक्रमः
(Embryology in Animal Development)
आब्रह्मकीटान्तमिदं निबद्धंपुंस्त्रीप्रयोगेण जगत्समस्तम् इत्यादिना, स्त्रीपुरुषव्यक्त्योः कामात् ऋतौ मिथुनसंयोगे सति नार्याः गर्भाशये शुद्धशोणितशुक्रजः गर्भस्सञ्जायते । कथम् ? मेढ्रयोन्यभिसङ्घर्षात् शरीरे विद्यमानोष्मा (Bodily heat or energy) वायुना हतस्सन् पुंसः शरीरस्थं रेतो द्रावयते । अथ तद्वायुः मेहनमार्गेण स्त्रियाः भगे पातयति । तत् संश्रित्य व्यात्तमुखं गर्भाशयं प्रतियाति । तत्र शुक्रवदायातेन आर्तवेन युतं भवति । इति भावप्रकाशे (९९ तमपुटे २९ - ३१ श्लोकाः) ।
प्राणापानतत्त्वम् (Respiration)
वायोः प्रेरणविशेषादग्निर्जायते - इति भट्टभास्करः । तथा च भुतिः - प्राणो वै वायुरपानो नियुत् प्राणापानौ खलु वा एतस्य प्रजायाः - (तै. सं. कां. ३, प्र. १, अ. १) उपर्यधोभागाभ्यां प्राणापानत्वमनयोः । अनयोरवक्रमणात् प्रजानोत्पद्यते । सत्यामेव प्रजननशक्तौ प्रजां न लभते, प्राणापानाननुग्रहात् । नियुत्वान् वायुः प्राणापानरूपत्वेन प्रजां जनयति (Cf. Neither Anabolism nor Catabolism can take place in the absence of oxygen - (प्राण) Prana which is supplied by respiration (श्वासोच्छ्वासाक्रिया). Heat is generally pervading all parts of the body of all animals.) तथा च श्रुतिः - अङ्गे अङ्गे शोचिषा शिश्रियाणम् अङ्गे अङ्गे - सर्व प्राणिशरीरेषु शोचिषा - दीप्त्या शिश्रियाणं व्यावर्तमानंप्राणात्मना व्यावर्तमानम् । अथ च सूर्यात्साक्षाच्च प्राणिनः शोचींषि लभन्ते । तथा चोक्तम् - प्राणः प्रजानामुदयत्येष सूर्यः इति (Cf. A very minute egg is produced in the ovary of the female and as it descends into the womb or uterus, it meets by a sperm cell produced in the testes of the male which has been injected into the uterus during sexual intercourse. The fertilized egg in the uterus develops into an embryo by a process of growth, and differentiation of tissues and is fed by means of the placental tube (जरायुणा) which brings its blood into contact with the food in the blood of the mother. Oxygen is supplied to the embryo in the same fashion.)
निश्वासोच्छ्वासरूपवायोः तिस्रोऽवस्था आम्नायन्तेऽन्यत्र । तासां पूरकः कुम्भकः रेचक इति संज्ञाः । पूरकः - पुष्टीः (Develops organs by supplying oxygen) धातुसाम्यं च कुरुते । कुम्भकः स्तम्भनं जीवरक्षाविवर्धनं च करोति । रेचकः पापं हरते । (Removes carbonic acid gas ; if this gas is retained in the body, it proves fatal to the system. Hence it is called पापम् or sinful or harmful substance.) योगपदं व्रजति (helps concentration.)
सर्वेषां जरायुजानामुत्पत्तौ समानोऽयं व्यापारः । मातृजानि - रसरक्तमांसमेदांसि । एषां सान्निपात्यं योनिः । अस्थिमज्जाशुक्रधातूनां सान्निपात्यं पितृजम् । एतत्सप्तधातुजं शरीरम् । मातृजं रक्तमांसादिकं मृदु । पैतृकं धमन्यस्थिकचादिकं स्थिरम् । आदौ स्त्रीपुरुषयोर्धातुरेव योन्यां प्रविश्य नार्याः पित्तपक्वाशयान्तरस्थगर्भाशये गर्भं जनयति । यथा - प्रथमे मासि कललम् । द्वितीये घनीभावः । तृतीये अवयवनिर्माणम् । चतुर्थे त्वक्प्रादुर्भावः । पञ्चमे रोम्णां समुद्भवः । पष्ठे सप्तमे च मातुराहारपीताशनम् । अष्टमे नवमे च उद्वेजः । दशमे जननं - इति हि पिण्डोदयक्रमः ।
एवं पिण्डाविर्भावे पञ्चभूतानां कार्याणि यथा - स्रोतांसि, श्रोत्रम्, विविस्तरा, इत्येतदाकाशजम् । श्वासोच्छ्वासौ, परिस्पन्दः, वाक्, संस्पर्शनमित्यादि वायुकार्यम् । रूपं, सन्दर्शनं, पक्तिः, पित्तम्, ऊष्मा, मेधा, बलं, वर्णः, छाया, तेजः, शौर्यं चेति तेजसः परिणामः । रसनम्, स्वेदः, क्लेदः, वसा, रसासृक्, शुक्रम्, मूत्रम्, शैत्यम्, स्नेहः, श्लेष्मा इत्येतानि अम्भसां कार्याणि । घ्राणम्, केशाः, नखाः, अस्थीनि, धैर्यम्, गौरवम्, स्थिरता, इत्यादयः पार्थिवद्रव्योद्भवाः । देहे - रसः- प्रीणनः, रुधिरः - जीवनः, मांसम् - लेपनम्, मेदः - स्नेहकरः,अस्थि - धारणम्, मज्जा - पूरणम्, शुक्रम् - गर्भोत्पादकम्, तेजः - प्राणनकरमिति विवेकः ॥ त्वचः षड्विधाः - अधरा - रुधिरधारिणी - विलासकारिणी - कुष्ठकारिणी - विद्रधिस्थानम् - प्राणधरा इति, एतदुपचिताः ।
शरीरे कलास्तु - यत्र धमन्यः संस्थिताः तत्र मांसधराः कलाः । यकृत्प्लीहाश्रयास्तु असृग्धराः । सूक्ष्मस्थूलाश्रयाः मेदोधराः । श्लेष्मधराः - मज्जाश्रयाः । पक्वाशयस्थिता पुरीषधारिणी । जठराग्निसमाश्रिता पित्तधरा । शुक्राश्रया शुक्रधरा इति सप्तकलाः ॥
प्राणस्य दशायतनानि - मूर्धा - हृदयम् - नाभिः - कण्ठः - जिह्वा- निबन्धनम् - रक्तम् - शुक्रम् - गुदः - वस्ति - गुल्फौ इति ॥
कण्डराः षोडश - पृथक् पृथक् द्वे द्वे करस्थे । द्वे द्वे चरणस्थे । चतस्रः पृष्ठगाः । चत्स्रो ग्रीवायाः ॥
अथ एतेषामुत्पत्तिः गर्भे कथं भवतीत्यत्र आयुर्वेदे एवमुक्तम् - स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं चौजः स्वं स्वं स्वस्य स्वयमेव हेतुर्भवति इत्यायुर्वेदसूत्रेणोक्तप्रकारेण भवति । गर्भाशयगतोष्मणा मातुः शिरःपादपार्श्वपृष्ठोदरजङ्घाशिश्नोपस्थेभ्यः साराः स्रवन्ति । तत्सारजन्यसाराः गर्भस्थपिण्डस्य शिरःपादपाणिपार्श्वपृष्ठोदरजङ्घाशिश्नोपस्थपाय्वङ्गानि भवन्ति । अङ्गाविर्भावानन्तरं मातुस्स्वशरीरस्थितपञ्चभूतानाम् आहारद्रव्यसाररूपेण गर्भाशये उपलभ्यमानत्वात् इन्द्रियादीनां तत्तद्गुणत्वादेव गुणिनमन्तरेण गुणावस्थानस्य वक्तुमयोग्यत्वात् तत्तद्भूतानि तत्तदिन्द्रियसहितान्येव गर्भाशयं प्रविशन्ति । तैः पिण्डस्य श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाश्चोत्पद्यन्ते । आशयाश्च - दोषाश्च - अनलाश्च - इन्द्रियाणि च मातुराहारस्थितवार्धिकद्रव्यादनात्परिशुद्धास्सन्तः शरीरं पुष्णान्ति इति सारार्थः ।
अत्र अनुग्राहिका श्रुतिरेवं भवति - प्रैवाग्नेयेन वापयति रेतस्सौम्येन दधाति रेत एव हितं त्वष्टा रूपाणि विकरोति सारस्वतौ भवत एतद्दैवं मिथिनम् दैव्यमेवास्मै मिथुनम् मध्यतो दधाति पुष्ट्यै प्रजननाय सिनीवाल्यै चरुर्भवति वाग्वै सिनीवाली पुष्टिः खलु वै वाक्‌पुष्टिमेव वाचमुपेत्यैन्द्र उत्तमो भवति तेनैव तन्मिथुनम् (तै. सं. कां. २, प्र. ४, अ. ६) अत्र भाष्यम् - आग्नेयेन प्रवापयति - प्रजनने रेतस्सिञ्चति । सेचयति पुम्भिः स्त्रीषु । तत्सिक्तं सौम्येन दधाति धारयति । तत्र हितम् - धारितम्, त्वष्टा रूपाणि विकरोति - विविधेन मात्राविन्दुपेशादिरूपेण परिणतं करोति । (Cf. The nucleus is usually a rather compact body of oval or spherical (बिन्दुरूप) shape. But in exceptional cases it may take the form of a round or even of a spherical thread or it may be represented by a cloud of granules, protoplasm nucleus, chromatum and cytiphism.) सारस्वताभ्यां दैव्यं मिथुनम् - सरस्वत्सरस्वतीति सम्बन्धाभ्यां दैव्यं मिथुनम्, गर्भस्थजन्तोः पुष्ट्यर्थं काले प्रजननार्थं च मध्यतः अन्तर्दधाति स्थापयति । ततो वाक्प्रवृत्तिहेतुभूतायाः सिनीवाल्याः चरुणा वाचश्च पुष्टिविशेषत्वात् पुष्टिं वाचं च प्राप्नोति गर्भस्थो जीवः । उत्तमस्यैन्द्रस्य भावात् = सिनीवाल्या हि तदपरं मिथुनं अन्ते भवति । ततस्तदपि पुष्ट्यै प्रजननाय च सम्पद्यते इति भावः । (For the purpose of reproduction the fine virile matter caused by the final change of food taken becomes seed or sperm, and under the influence of heat finds passage in the male generating organ. This seed or sperm is poured or injected into the female organ called ovum. Then the injected sperm is retained by the cohesive force in the liquid and then is led by the air to the “Garbha” or womb. Then in the womb, foetus or embryo is formed by the concerned elements specially be heat energy called “Tvashta”. This fetus takes different forms at different periods of conception till all the organs are developed. The sperm of the male and blood of the female form a kind of combination again and this is developed by the materials supplied by the food of the mother and this is called “Sarasvati”. This process is very essential for the growth of the embryo in the womb and for the birth of the child at the proper time. The above combination enters into the body of the embryo. The nutrition supplied by the mother’s food with an unknown power generates in the embryo the power of speech or sound called “Sinivali” i.e. the effect similar to that produced when the moon’s last digit conjoins with the sun on the new moon - day. Thus the life and the animal soul fo the embryo in the womb is nourished and all the senses in the organs of the being to be born are brought about by the virile power viz. “Indriya” or “Indra” simply called in scriptures. This process occurs in the case of animals also which belong to seven domestic animals also which belong to seven domestic animal types viz. Human, Kine, Horse, Goat, Sheep, Ass and Camel, and also to seven forest animals types viz. cloven - hoofed animals, beasts of prey, birds, creeping beings, elephants, monkeys and sea animals.)
आयुर्वेदेऽप्येवमुक्तम् - महाशरीरपिपीलिकाशरीराणां (सर्वजन्तूनाम्) त्रिकोणपद्मे बीजम् (Fertilized spermatozoa in male and female gamuts in animals) सर्वरसाश्रयं प्रजननहेतुभूतसुखैकाश्रयत्वात् । तच्च यथा योनौ तथा मेद्रे च भवति । अतः स्त्रीणां पुंयोगे सति प्रजननकार्यं शक्यते । इदं बीजजन्यं पिण्डतत्त्वम् अण्डजविषयेऽपि समानम् । तत्र अण्डजानाम् अन्तस्थितपेश्यां बीजं भवत्येव । अतः अण्डजोऽपि बीजजन्यः । अण्डजानां शरीराणाम् अण्डजत्वम् समानम् । कृमिकीटादिष्वपि इदं तत्वं समानम् । स्त्रीपुंसबीजसंयोगस्य सत्वात् । अवकादयः (Amoeba) बिन्दुमात्रावयवाः । तेषु बिन्दौ (In the cell) बीजद्वयशक्तिरस्त्येव । सा बिन्दुं यदा भिनत्ति तदा तद्भागा अपि तद्रूपा एव भवन्ति जीवन्ति च (Cf. Reproduction is a process giving rise to beings - a process which may be asexual as when a single parent form breaks up into parts each of which in time becomes an adult, or more usually sexual when two parents are concerned each of which liberates special germ cells (प्राणिबीजम्) - sperm from the male and ova from the female - from the union of one of each which the new individual arises. - Zoology. Note that this passage which is already quoted is repeated here to emphasize the fact.)
इदं शरीरोत्पत्तितत्त्वं सौत्रामणिकौकिलीहोत्रे उप होमप्रकरणे सुस्पष्टमभिहितम् (तै. ब्रा. अ. २, प्र. ६, अ. ४) यथा - सरस्वती मनसा पेशलं वसु । नासत्याभ्यां वयति दर्शतं वपुः । रसं परिसृता न रोहितम् । नग्रहुधीरस्त्रसरं न वेम । पयसा शुक्रममृतं जनित्रं । सुरया मूत्राज्जनयन्ति रेतः । अपामतिं दुर्मतिं बाधमानाः । ऊबध्यं सबुवं तदारात्, - अस्य भाष्यम् - इयं सरस्वती नासत्याभ्याम् आश्विदेवताभ्यां सहिता वपुर्वयति शरीरं मनसा निष्पादयति । कीदृशं वपुः ? पेशलं वसु देवतात्मनो निवासयोग्यं दर्शतं दर्शनीयं दृष्टिप्रियमित्यर्थः । परिसृता न परिसृतेव धारया ( स्रवत् सुराद्रव्यं परिसृदित्युच्यते) तया परिसृतेव शरीरस्थं रसं जलं रोहितं रक्तं वयति सम्पादयति । स्रवन् स एव रक्तस्थानीय इत्यर्थः । नग्रहुशब्देन यवानां स्थूलचूर्णानि संस्रवेणाभिषिक्तानि कथ्यन्ते । सोऽयं नग्रहुरवयवान्तरस्थानीय इत्यर्थः । धीर इत्यादि दृष्टान्तः । लोके धीरो बुद्धिमान् कुविन्दः त्रसरं न नववस्त्रमिव । वेमशब्देन वस्त्रनिर्माणकाले प्रहारदण्दोऽभिधीयते । यथा कुविन्दः प्रहारदण्डेन वस्त्रं निष्पादयति तद्वदित्यर्थः ।
यदेतदत्र पयोद्रव्यं यच्च सुराद्रव्यं तेन द्रव्यद्वयेन मूत्रात् मूत्रद्वारात् सकाशात् निर्गमनयोग्यं रेतो देवता जनयन्ति । कीदृशं रेतः - दीप्तिमच्छ्वेतवर्णम् अमृतं विनाशरहितम् अत एव जनित्रम् अपत्योत्पादकम् । या देवताः रेतो जनयन्ति ताः कीदृश्यः ? अमतिं दुर्मतिं चापबाधमानाः । अमतिः - कर्तव्यविषयज्ञानाभावः । दुर्मतिः - विपरीतज्ञानम् । किं च ताः देवताः तत्तस्मिन् संपादयितव्ये शरीरे आरात्समीपे उदरमध्ये ऊवध्यं जनयन्ति । अर्धं जीर्णमन्नं अपरिपक्वं पुरीषमूवध्यशब्दवाच्यम् । पयस्सुराभ्यामेव तज्जनयन्ति । तथा सबुवं वातं जनयन्ति । वातं प्राणवायुः । बुवशब्दः श्वासकालिकं शब्दमनुकरोति । तेन शब्देन सहितमित्यर्थः ॥
अस्यार्थः सङ्ग्रहेणैवं निरूप्यते । यथा - इन्द्रः देहः (इदि परमैश्वर्ये (to be powerful) लक्षणया शरीरावयवसम्पादकशक्तिविशेषः (The bodily virile power.) आश्विनौरात्र्युदयसन्धिसम्पादकयोः अविनाभूतयोः सूर्यरश्मिविशेषयोः शक्तिविशेषः - रोगनिवर्तकः (The energy produced by the Sun’s two special united rays which cause all the organs to grow in the body uninterruptedly and remove the unnecessary and unessential parts of nutrition is heat energy.) । सरस्वती (From सृ-सर् to move सृ-गतौ) The material cause that picks up essence from nutrition to build up cells, tissues, and of every organ in the body.) परिसृत् - धारया सुराद्रव्यम् (Flow of solid and liquid elements in the nutrition caused by alimentation.) । द्वावश्विनौ एका सरस्वतीति तिस्रो देवताः स्वकीयशक्तिभिः इद्रंस्य रूपं विनाशरहितं यथा भवति तथा सम्पादयामासुः (Heat energy uniting with the energy in the liquid nutrition in the body gives birth to all the organs of the body.) । तोक्मभिः बहुधा लोमानि निष्पादितवन्तः (First hairs grow out of the essence of nutrition) तदाधारभूता त्वक् तोक्माधारभूतबीजविशेषैर्जायते । (Skin is composed of seven layers सप्तत्वक् and is formed out of the essence of liquid for the growth of hair especially in the head) । अश्विनौ व्याधिं नाशयितुं समर्थौ (Heat energy keeps away all harmful elements in the nutrition.) । सरस्वती शरीरमध्ये पेशं वयति (Out of the essential portion of nutrition, cells and tissues are formed.) । मासरैः अस्थिमज्जानां च (वयति) (From certain elements in the nutrition, bones and marrow of the bones and flesh are formed.) । सरस्वती अश्विभ्यां वयति दर्शतं वपुः (Heat energy acting upon on uniting with the powers in the nutrition produce a beautiful body. How ?) । स्रवत्सुराद्रव्येण शरीरस्थं रसं रक्तं वयति (By alimentation which takes place in the body, chyle is formed and also blood.) । लोके बुद्धिमान् कुविन्दः सूत्रैः जीववस्त्रमिव नवशरीरं जनयति सा शक्तिः (As a weaver weaves a new cloth by means of threads, so through blood particles, cells and tissues, flesh and muscles, bones and marrow, in short, the new body, arises.)
This sexual Physiological principle is explained here in detail, simply to show how a scientific and true description is given in our “Sastras” after keen and accurate observations and practical tests are made by the Aryans of yore - be they sages or Rishis with divine sight serving for the modern instruments of observation, or Scientists or ‘Sastrakaras’ who made actual experiments with the then known instruments, however crude they might be and found the facts true according to the information contained in the most ancient Vedic Lore.
It may be noted here that in रेतःशोधनयन्त्रे “Retassodhanayanthra” by some seer, it is said, रेतस्सिंचन् । प्रजाः प्रजनयन् इत्युक्तम्, that the act of cohabitation gives birth to a new being.
इन्द्रियमनोव्यापारः
(Nervous System - Brain Centre)
कर्मात्मा चिद्रपः (Consciousness is light in man). आत्मा सहैति मनसा (It identifies with mind or Brain centre). मन इन्द्रियेण (The Brain centre imparts stimulus to a particular nerve.) स्वार्थे चेन्द्रियम् - इन्द्रियं स्वात्मीयार्थेन सहैति - यो यस्य इन्द्रियस्य विषयः तेन सह गच्छति (The sensory nerve comes in contact with the intended object and takes it to the Brain centre where it produces the sensation of a particular object related to it.) अनन्तरमिन्द्रियास्वादितमर्थं मनः आत्मानं निवेदयति (Recognition of that object takes place in the consciousness through mind.) आत्मा अर्थक्रियाकारितां तस्य स्मृत्वा मनः आज्ञां ददाति । मनः कर्मेन्द्रियाणि आदाने त्यागे वा विनियुङ्क्ते । (Consciousness then, induces the Brain centre or mind to give stimulus to a particular motor nerve to do or not to do a particular act and the latter acts so. Then action takes place through a motor organ such as, hand, foot, tongue etc.) अनेन प्रक्रियैषाऽवलंबिता (In this way every action is done.) एष क्रमः शीघ्रः (All these processes of nervous action are done very quickly.)
अत्र कणादसूत्रोक्त्या च इन्द्रियमनोव्यापारस्सम्यगवबुध्यते । यथा -
Notes from Kanada Sutra and its Vritti
इन्द्रियलक्षणं - यद्धि शरीराश्रयं सत्, स्वसंयुक्ते अर्थे, ज्ञातुः अपरोक्षप्रतीतिसाधनं द्रव्यं, तदिन्द्रियमुच्यते - (मनसि घ्राणादौ चेतल्लक्षणं समानं) तत्र संयोगो गुणः तद्वत्वात् क्रियावत्वाच्च द्रव्यम् । आमोक्षं स्थायित्वाद्द्रव्यत्वेन नित्यं च मनः - वायुवत् इति प्राचीनाः - नव्यास्तु अत्मभिन्नत्वे सति, ज्ञानकारणमनस्संयोगाश्रयत्वमिन्द्रियत्वम् । अथवा शब्देतरोद्भूतगुणानाश्रयत्वे सति, ज्ञानकारणमनस्संयोगाश्रयत्वमिति (क. सू. अ. ३) आत्मेन्द्रियसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैवम् (Note) येनाङ्गेन येनेन्द्रियेण च मनः संयुज्यते, तदङ्गक्रियाहेतुः प्रयत्नः, तेनेन्द्रियेण च तद्विषयविषयं ज्ञानमात्मनि समुत्पद्यते इति हि वैशेषिकी सरणिः । आत्मलिङ्गं - प्राणापाननिमिषोन्मेषजीवनमनोगतीन्द्रियविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि ॥
अस्मिन् संदर्भे बृहदारण्यकोपनिषदि चतुर्थाध्याये प्रथमब्राह्मणे यद्दर्शितं तदपि सम्यग्वेदितव्यम् । यथा - वाक्‌तत्त्वस्य, आत्मशक्तिरेव (ब्रह्मौव) वाग्रूपप्रकृतौ व्याप्नोति । तस्य आकाशे स्थितिः प्रज्ञेति नाम, तेन सर्वं ऋग्वेदादि प्रजायते इति जित्वना शैलिन्याचार्येण दृष्टम् । प्राणात्मनः प्राणप्रकृतिसंयोगादाकाशे प्रियनाम्ना प्राननिमित्तकसर्वकार्यस्य प्राणातत्त्वस्य कारणं भवतीति उदङ्केन शौल्बायनाचार्येण दृष्टम् । तथा चक्षुषः आत्मा प्रकॄतिश्च चक्षूरूपमेव तस्यापि आकाश एव प्रतिष्ठा, सत्यमिति नाम, अतः यदद्राक्षीत् तत् सत्यं भवतीति बर्कुणा वार्ष्णाचार्येण दृष्टम्, श्रोत्रात्मनः श्रोत्रमेव आयतनम्, आकाशः प्रतिष्ठा, अनन्त इति नाम, यतः दिशामन्तो न विद्यते तदनन्तमिति, विभुत्वं भवतीति भारद्वाजेन गर्दभीविपीताचार्येण दृष्टम्, तथा सतकामेन जाबालाचार्येण मनस्तत्त्वं दृष्टम्, यथा - मनसोऽपि आत्मा (Spiritual form) प्रकृतिश्च (Material form also) मनोरूपमेव तस्य प्रतिष्ठा (Abode) आकाशः (Ether) नाम आनन्दः यतः स्त्र्यादि भोगेन आनन्दो जायते (Mind is the chief instrument for all kinds of enjoyments. - This principle was discovered by a sage called Jabala) एवं हृदयस्यापि आत्मा हृदयं प्रकृतिश्च हृदयरूपम्, तस्यापि आकाशः प्रतिष्ठा नाम स्थितिः तच्च हृदयं सर्वेषां भूतानां स्थितिकारणमिति विदग्धेन शाकल्याचार्येण दृष्टम् । एवं वाक्प्राणचक्षुश्श्रोत्रमनोहृदयानां तत्त्वानि शैलिन्युदङ्कवार्ष्ण गर्दभीविपीतजाबालशाकल्याचार्यैः दृष्टानीति दर्शितम् । (Here note that Acharya is the discoverer of truth, Brahma or Atma - spiritual power, Ayatana material form, Pratishtha abode or support, nama name, and karana is source.)
आत्मभावाः
इन्द्रियमनोव्यापारतत्त्वनिर्धारावसरे तन्त्रागमाद्युक्तयोऽपिसाधकाः । अतः ग्राह्याः । यथा - पराशक्तिः ब्रह्मरन्ध्रादिमूलाढारपर्यन्तं मूलाधारादिब्रह्मरन्ध्रपर्यन्तं, हंसयोः यातायातगतिवशात् स्वाधिष्ठानाग्निं भित्वा स्वाधिष्ठानवेधया घनीभूतसुधामण्डलास्रवदमृतधाराप्रवाहैः द्विसप्ततिसहस्रनाडी संचयं स्नपति, तदमृत सेचनेन सर्वा नाड्यस्तृप्ताः । तदा देहिनां स्वस्थावस्था । (वामकेश्वरतन्त्रे शारीरकमीमांसा) । त्वगसृङमांसदोश्थिधातवः शक्तिमूलकाः । मज्जाशुक्लप्राणजीवधातवः शिवमूलकाः । नवधातुमयोदेहो नवयोनिसमुद्भवः । दशमीधातुरेकैव पराशक्तिस्तदीश्वरी ॥ पञ्चभूतानि शाक्तानि मायादीनि शिवस्य तु । माया च शुद्धविद्या च महेश्वरसदाशिवौ । पञ्चविंशतितत्वानि तत्रैवान्तर्भवन्ति वा । शिवशक्त्यात्मकं विद्धि जगदेतच्चराचरम् ॥
मृतितत्त्वम्
अत्रैव जीवात्मनः शरीरवियोगः अथवा प्राकृतैर्लोके यन्मरणमिति कथ्यते, तत्कथं भवतीति विचारणीयः । अत्र श्रुतिः, यथा - (बृ. ४ - ३- ३५ - ३६). अनः सुसमाहितमुत्सर्जद्यायात् । एवमेवायं शरीर आत्मा प्राज्ञेनात्मनान्वारूढः उत्सर्जन् यानि यत्रैतदूर्ध्वोछ्वासी भवति अस्यार्थः तेन लिङ्गोपाधिरात्मा, उत्सर्जन्मर्मसु निकृत्यमानेषु दुःखवेदनयार्तः शब्दं कुर्वन्याति (गच्छति) तत्कस्मिन् काले इति । उच्यते - यत्रैतद्भवति । यत्र ऊर्ध्वोच्छ्वासित्वमस्य भवति । दृश्य मानस्याप्यनुवदनं वैराग्यहेतोः । ईदृशः कष्टः खल्वयं संसारः । येनोत्क्रान्तिकाले मर्मसूत्कृत्यमानेषु स्मृतिलोपो दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशीकृतचित्तस्य । तस्माद्यावदियमवस्था नागमिष्यति तावदेव पुरुषार्थ साधनकर्तव्यतायां अप्रमत्तो भवेदित्याह कारुण्याच्छ्रुतिः । तदस्य ऊर्ध्वोच्छ्वासित्वं कस्मिन् काले किं निमित्तं कथम् किमर्थं वा स्यात् ? स यत्रायं (शिरःपाण्यादिमान् पिण्डः) अणिमानंन्येति जरया वोपतपतावाणिमानं (कार्श्यं) निगच्छति, तद्यथाम्रं वोदुंबरं वा पिप्पलं वा बन्धनात्प्रमुच्यते एवमेवायं पुरुषः एभ्योङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्या द्रवति प्राणायैव । (तत्रैव ३६) (अस्यार्थंः) ।
जरयावा - कालपक्वफलवज्जीर्णः कार्श्यं गच्छति । उपतपन् ज्वरादिरोगः तेन उपतपता वा । उपतप्यमानो हि रोगेण विषमाग्नितया अन्नं भुक्तं न जरयति । ततोऽन्नरसेन अनुपचीयमानः पिण्डः कार्यमापद्यते यदा अत्यन्तं कार्श्यं प्रतिपन्नः ज्वरादि निमित्तैः तदा ऊर्ध्वोच्छ्वासी भवति । यदा ऊर्ध्वोछ्वासी तदा भृशाहितसम्भारशकटवदुत्सर्जन् याति । जराभिभवो, रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतः अवश्यंभाविनः एतेऽनर्थाः इति वैराग्यायेदमुच्यते ।
यदा वागादिप्राणाः सर्वे हृदये एकीभवन्ति तदा तस्य ह्रैतस्य हृदयस्याग्रम् प्रद्योतते तेन प्रद्योतेन, एष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणाः अनूत्क्रामन्ति सविज्ञानो भवति । स विज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ (बृ. ४ - ४- २).
अन्यत्र (तै. आ. प्र. ३. अ. १४. म. ४५.) यथा : -
असज्जजान सत आ बभूव । यं यं जजान स उ गोपो अस्य । यदा भारं तन्द्रयते स भर्तुम् । परास्य भारं पुनरस्तमेति तद्वै त्वं प्राणो अभवः अस्यार्थः - असदितिः - अस्पष्टभावविकारं परमेश्वरलक्षणं वस्तु असज्जजान - परमाकाशरूपेण प्रादुरभूत् सतः तस्मात् सद्रूपात् सर्वपरिस्पन्दाधाराद्वाताख्यात् प्राणोऽयं आबभूव सर्वविकारव्यापी उदपद्यत । अथ अयं सर्वभूतात्मा यं यं पदार्थं जजान जनयति अस्य सर्वस्य स एव प्राणः गोपः गोपायिता रक्षिता । अथ स प्राणॊ विश्वं बिभ्रत् यदा इमं भारं भर्तुं तन्द्रयते आलस्यं प्रतिपद्यते तदानीं भारमिमं परास्य उत्सृज्य पुनरस्तमेति परमाकाशात्मना तिष्ठति । तत्तस्मात्कारणात् त्वं प्राणो अभवः प्राणव्यपदेशोऽभवः । It briefly means that from some invisible omnipotent spiritual power space was created, from it air which is the cause for all movements in the universe appeared, which entering all bodies serves as a protector of them by its various functions of which respiration is predominant, then the beings are said to be living. Again, when it leaves those bodies it goes back and becomes absorbed in the great etherial space, then the beings are termed dead. Hence air is called breath or respiration element Prana - the life.)
द्वितीयो भागः Part II
पश्चादिवर्गः (जरायुजादिः) (Zoology)
पशुस्वामी गोपालो वा रुद्रो वा भवति । यज्ञवास्तौ, हीनं गोसहस्रं रुद्रस्यैव. पशुपतित्वात् यज्ञावशिष्टस्वामित्वाच्च (अत्र नाभानेदिष्ठस्य चरितं प्रमाणम्) (ऐ. ब्रा. अ. २२, स्व. ९) तत्रैव (अ. २२. खं. १) मिथुनं वै पशवः परस्परविलक्षणयोः स्त्रीपुरुषयोः मेलने मिथुनं भवति । गवाश्वादिपशवश्च मिथुनरूपाः विराडन्नं विराट् पशवः अन्नसाधनत्वात् विराडन्नम् । तच्चान्नं क्षीरादिरूपम् । पशुषूत्पन्नत्त्वात् पशव एव ।
भद्रा च कल्याणी च - भद्रा तत्सोमः कल्याणी तत्पशवः इति श्रुत्या पशुशब्दः प्रजापतेर्मूर्तिविशेषस्य तनुरित्यवधेयम् ।
सामान्यतः पशुजातिस्वरूपमेवं दर्शयति श्रुतिः (ऐ. ब्रा. अ. ३३, खं. १) - यदध्यासवत् विक्षुद्रा एव पशवः पशुरूपस्य बहुविधत्वमेवं श्रुतौ प्रपंच्यते । यथा - याज्ञिकप्रकरणे तावत् - अध्यासो नाम अधिकपादय्स् प्रक्षेपः । प्रकृतौ यावदस्ति तावतोप्यधिकपादोपेतं अध्यासवत् (मन्त्रसूक्तम्) पशूनामपि चतुर्भ्य पादेभ्योऽधिकं मुखमेकं परिगण्यते । अतोऽध्यासवत्पशुरूपम् । तदेव विक्षुद्राः - विविधाः क्षुद्राः एकस्मादन्यो न्यूनः तस्मादन्यो न्यूनः । यथा - गजापेक्षया अश्वः क्षुद्रः । अश्वापेक्षया महिषः क्षुद्रः । ततो गौः । ततोऽजेत्येवं । पशुषुक्षुद्रत्वं द्रष्टव्यम् । तत्रैव पशुस्वरूपमनेकधा वर्णितम् भवति । क्षीराज्यादिहविस्सधनभूतत्वात् पशूनां स्वरूपगुणादिवर्णनं यज्ञादिकर्मसु आवश्यकमासीत् । अतः वेदेषु पशुविषयाः विस्पष्टं निरूपिता भवन्ति ।
भावप्रकाशकारमते द्विविधा पश्वादिजातयः ।
जाङ्गलाः - अनूपजाश्चेति । जाङ्गलाः, अष्टविधाः - जाङ्गलाः, बिलेशयाः, गुहाशयाः, पर्णमृगाः, विष्किराः, प्रतुदाः, प्रसहाः, ग्राम्याः इति । तत्र जाङ्गलाः - हरिणाः, एणाः, कुरङ्गाः मृगादयः ।
बिलेशयाः - गोधाः, शशाः, भुजङ्गाः, आख्वादयः ।
गुहाशयाः - सिंहाः, व्याघ्राः, वृकाः, ऋक्षादयः ।
पर्णमृगाः - वानराः, वृक्षमार्जारादयः ।
विष्किराः - वार्तिकलावतित्तिरविकिरकपिञ्जलादयः ।
प्रतुदाः - हारीतकपोतसारसिकखञ्जरीटपिकादयः ।
प्रसहाः - काकोलूकगृध्रशशघ्नचिक्लचाषादयः ।
ग्राम्याः - छागमेषवृषोश्वादयः ।
अथ अनूपजाः । कुलेचराः, महिषाः, गण्डवराहाः, चमरीवारणादयः ।
प्लवाः - हंससारसबकबृहद्बकक्रौञ्चादयः ।
कोशस्थाः - शुक्तिशङ्खशम्बूकादयः ।
पादिनः - कूर्मनक्रघण्टिकाशिंशुमारकर्कटादयः ।
मत्स्याः - रोहितादयः ।
तत्र पशुवर्गः - जरायुजः । पशवस्तावत् एकोनविंशत्यधिकशतसङ्ख्याका अपरिमिता वा भवान्ते । तथाचोक्तं वेदे - (तै. आ. प्र. ३. अ. ११.) ये ग्राम्याः पशवो (गवादयः) विश्वरूपाः (विश्वप्रकाराः - नानाजातीयाः) विरूपाः (विविधरूपाः विविधव्यक्तयः) । तेषां सप्तानामिहरन्तिरस्तु गोऽश्वाजाविपुरुषगर्दभोष्ट्राणाम् अस्मासु रतिरस्तु । ये आरण्याः पशवो विश्वरूपा तेषां सप्तानामिह (द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयानाम्) रन्तिरस्तु = (गगार्थः) । तेऽपि नानाजातीयाः विविधा व्यक्तय इति पूर्ववदेवार्थोऽभिधेयः ।
ते पुनर्द्विविधाः ग्राम्या आरण्या इति । ग्राम्याणां पशुशब्देनैव व्यवहारः । आरण्यकानां भृगशब्देन व्यपदेशः । वेदेषु सप्तग्राम्याः पशवः प्रदर्शिताः । गावः, अजाः, अवयः, पुरुषाः गर्दभाः अश्वाः उष्ट्राः इति, एते बलशालिनः । सप्तारणकास्तु - द्विखुराः, श्वापदाः, पक्षिणः, सरीसृपाः, हस्तिनः, मर्कटाः, नादेयाः । ग्राम्येषु पुनः साधुप्राणिनः गोऽश्वादयः । दुष्टप्राणिनः श्वमार्जारादयः । पुच्छावयवित्वादेतेषां मनुष्येभ्यो वैशिष्ट्यम् । तत्वे विचारिते पुच्छोऽपि पृष्ठवंशान्तस्थत्रिकप्रदेशे बहिर्गतोऽवशिष्टो भागः (Tail in animals is nothing but a continuous elongation of hind and lower part of the spine above the hipjoint) पृष्ठवंशस्तु सर्वावयवाधारभूतं गात्रम् (Spine is the main prop that supports the whole frame of the body.)
ग्राम्याणां कानिचिञ्जातिलिङ्गानि चोक्तानि । यथा - यच्छ्रमश्रुणः तत् पुरुषाणाम् । यत्तूपरः (शृङ्गहीनत्वं) तदश्वानाम्, यदन्यतोदन् (दन्ता) तद्गवाम्, यदव्या इव शफाः तदवीनाम्, यदजस्तदजानाम्, एतावन्तो वै ग्राम्याः पशवः (तै. सं. कां. २. प्र. १. अ. १) ॥ उष्ट्रगर्दभयोरसत्प्रायत्वम् । पशुवर्गे तावत् केचिदेकशफाः - खराश्वादयः । केचिद्द्विशफाः - अजाविकादयः । केचित् त्रिशफाः - शृङ्गनासादयः । (Rhinoceros) केचिच्चतुश्शफाः - मृगविशेषाः । केचित्पञ्चशफाः - हस्त्यादयः (Cf. The horse’s hoof is composed of a single claw. Hoofs of cattle, deer, sheep, of two, that of rhinoceros, of three, while tapiza has four toes and elephant has five.) । ग्राम्याः पशवः प्रायेण सस्यादिनः आरण्यकास्तु मांसादिनः (Cf. Cattle, deer, goats, sheep are ruminants. They are striet vegetarians. But swine, pigs etc. are carnivorous. The carnivorous mammals are Fox (cat family), Panther, Lion, Leopard, Tiger, etc. The primates are monkeys, apes and men.) प्रायेणेत्यनेन ग्राम्येषु श्वमार्जारादीनाम्, मांसादनत्वं च आरण्यकेषु हरिणादीनां सस्यादनत्वं चोपपद्यते । लुलुपः गण्डवराहः चमरी वारणः एते ग्राम्या अपि तेषां कुलेचरा इति व्यपदेशः । एते कुले चरन्तीति कुलेचराः ।
अन्नरसतत्त्वम् (Alimentation)
अत्र कश्चिद्विचारः - आहारस्तावत् तृणादिकं वा भवतु, मांसादिकं वा भवतु तस्य शरीरे रसरक्तरूपेण क्षीरादिरूपेण च कथं परिणामः इति । उच्यते - द्रव्याणि द्रव्यान्तरसंयोगे सति तत्तत्संयोगजन्यफलं प्रयच्छन्ति । बहुद्रव्यसंयोगे बहु फलं प्रयच्छन्ति । यथा - यवक्षारहरितद्रव्यसंयोगेन स्वस्वरूपं विहाय रक्तरूपं भवति । अनेन द्रव्यं द्रव्यान्तरसंयोगे सति तत्तद्द्रव्यविहिताधिकगुणं विधत्ते इत्युक्तम् । अन्नरसस्तावत् पञ्चभूतात्मकः । तथा चोक्तम् - रसोऽपि पाञ्चभौतिकः । यतः तत्र पार्थिवांशः अन्नजः (carbon) अबंशः जलम् (Hydrogen), तेजोंशः अग्निः (Burning or oxygen) वाय्वंशस्सारः (Nitrogenous element) खांशः अवकाशः (Ether that allows space for their occupation) भवन्त्येव । तेषां समवायः (Their combination) रसः (Animo - Acid) तस्य द्रव्यान्तरसंसर्गेण (By the combination of bile) पाकेन च (By the chemical action in the body) रसः रक्तं भवति (It becomes blood) तथा - पञ्चभूतगुणाः एवं निर्दिष्टाः - भूगुणौ - गुरुमन्दौ । स्निग्धहिमवापां गुणौ । श्लक्ष्णसान्द्रताऽग्नेः । मृदुगुरुस्थिरः मारुतः । सूक्ष्मविशदः आकाशः इति ॥
प्रायो रसाः पुनः षड्विधाः । मधुराम्ललवणकटुतिक्तकषायरूपाः । द्विधा विपाकः - कटुविपाकः - मधुरविपाकश्चेति । ताभ्यां षडास्वादो भवति । तत्र आग्नेयाः कट्वम्ललवणाः । ते लघु पच्यन्ते । अतस्ते कटुविपाका इति । मधुरतिक्तकषायास्तु सौम्याः । ते गुरु पच्यन्ते । अतस्ते मधुरविपाका इति । अग्नीषोमीयं जगदिति वेदेषु यदुच्यते तत्तत्त्वस्येदमेव बीजम् । तत्र देहे श्लेष्मा सोमात्मकः, स्निग्धः, शीतः, मृदुः, मधुरः, लवणानुबन्धी, श्वेतः, पिच्छलश्चेति । सत्वं पुनराग्नेयम् । उष्णम्, तीक्ष्णम्, रूक्षं, लघु, कट्वम्ललवणानुबन्धि, पीतं, रक्तं, विदाहि, कृष्णं चेति । तत्र उष्णमम्लं द्रवं, पित्तं, विवर्णं, दारुणं, भृशम्, मधुरः, शितवीर्यश्च घनश्वेतः, कफोगुरुः । बलवान् लवणाम्लश्च स्निग्धः, प्राणविवर्धनः । मारुतः, सूक्ष्मः, विचारी, कटुः । आत्मैव योनिर्वातस्य । (Some wind substance is caused by wind) पित्तमाग्नेयमुच्यते । (Bile is formed by the influence of heat) कफः सोमात्मकं विद्यात् (Phlegm is brought about by cold liquid elements) । एतान् त्रीन् देहसंश्चितान् विद्याम् ।
धातूनां रसानां जन्यजनकभावः । (The seven main constituent elements - semen, bones, marrow, fat, flesh, blood and liquid food essence, are formed from six flavours - viz., Sugar, Salt, Acid or Sour, Pungent, Bitter or caustic. Astringent - contained in the food taken or created by alimentation.)
मधुररस प्रचालयन् शुक्रधातुस्थाने स्वतेजसा भाति - मधुररसम् - मधुररसवद्द्रव्यम् । मधुररसः पित्तेन पच्यमानस्सन् तत्पाचकपित्तपाकजन्यक्रियासंस्कारवशात् शुक्ल धातुत्वेन वर्धते । लवणरसं विपाचयत्, अस्थिधातुस्थाने स्वेतजसा भाति - लवणरसं (लवणरसवद्द्रव्यम्) पाचकपित्तेन विपाचितम् । अस्थि धातुस्वरूपं भजत् सकलभारं वहति । लवणरसयोगद्रव्यादनं अस्थिधातुबलप्रदम् सकलरसानां धातुपोषकत्वं च । लवणरसेन विना पाकं कर्तुम् अशक्यमिति भोज्ययोग्यद्रव्यजनकद्रव्यादिषु लवणरसस्य, पाकं कर्तुं योग्यत्वात् प्राधान्यम् । अत एव अस्थिधातोः लवणद्रव्यात्मकत्वेन लवणं समुद्रजलविकारबडबानलकार्यान्तःप्रविष्टत्वेन तद्भडबानलात्मकमिति सुप्रसिद्धम् । सकलरसयोगवत्वेन हि सकलधातुपोषकम् । अत एव लवणरसस्य षड्रसानामपि बलप्रधायकत्वम् । अत एवोक्तम् षण्णां रसानां लवणं प्रधानम् इति ।
अम्लरसं विपाचयन् मज्जाधातुस्थाने स्वतेजसा भाति अम्लरसद्रव्यं पित्तेन विपाचितं यावदन्नस्य भुक्तस्य प्रथमद्रव्यनिष्ठतत्तद्विधिविहितगुणान् प्रयच्छति । सर्वरससंसर्गयुक्तान्नादनत्वेऽपि तत्पाचकपित्तं तत्तद्रसवद्द्रव्यमेकदा बिभज्य पचति । तादृशाम्लरसद्रव्यं मज्जाधातुत्वेन प्रवर्धते । एवं पाचकपित्तं निक्तरसं विपाचयत् मेदोधातुगतं पित्तविकारं हरत् तत्स्थाने स्वतेजसा पाचकपित्ततेजसा स्वयमेव भाति ।
तथा कटुरसवद्द्रव्यं पित्तेन विपाचितं मांसधातुजनकं पवनप्रकोपकार्यनिवर्तकं कृमिदोषनिवर्तकं च भवति । तथैव कषायरसद्रव्यादनं रसासृग्धातुविकारनिवर्तकं तत्पोषकबलवत्तेजसा युक्तं च भवति । इत्यनेन शुक्रं - स्वादु, मञ्जा-अम्लम्, अस्थि-लवणम्, मेदः-तिक्तम्, मांसं-उष्णम्, कषायरसाः रसासृग्धातुपोषकाः इति सङ्ग्रहेणोक्तं भवति ।
सप्तधातूनाम् ऋषिसम्बन्धो यथा -
रसः - आत्रेयः । शोणितम् - वासिष्ठम् । मांसं - काश्यपम् । मेदः - गौतमम् । अस्थीनि - भारद्वाजानि । मज्जा - कौशिकी । शुक्रं - जामदग्न्यम् । एतेनैते सप्तर्षय एव सप्तधातुतत्त्वज्ञा इति प्राणिशरीरतत्त्वबोधकम् शास्त्रमतिप्राचीनमिति च वेद्यते । अथवा एते शब्दाः सप्तधातुजनक्द्रव्यशक्तिविशेषा इति तत्तच्छब्दव्युत्पत्या निर्धार्यते । यथा - अत्रिः - अद - भक्षणे इति धातोरुत्पन्नश्शब्दः । यदद्यते तत्प्रथमं रसात्मना परिणमते इत्यर्थः सुगमः । (Food essence in the body) तथा - जामदग्न्यशब्दः - जमति (अत्ति) अङ्गति (ऊर्ध्वं गच्छति) इति धातुद्वयसंयोगजनितः । अतः यदद्यते पक्वाशये पच्यते च तदिति अर्थोऽभिधातुं शक्यते । (The essence of food that is digested i.e., Semen) । एवमेवान्यत्रापि शब्दानां धातुव्युत्पत्तिबलेन तत्तदर्थाः विद्वद्भिः वेदनीयाः भवन्ति ।
अत्र पयोगुणविचारः (Milk as Food)
पयः - पित्तकफपवनस्पन्दहरम् - श्वासखासज्वरविनाशनम् । गव्यं धातुविवर्धनम् । आजं श्वासखासजित् । औष्ट्रकं कफपित्तनुत् । मानुषं सर्वदोषघ्नं सन्निपातज्वरनिवारणम् ।
रसरक्तविसर्पणम् (Blood Circulation)
पश्वादीनां शरीरं तु अस्थिपूयासृङ्मांसस्नायुसिराश्रयम् । (सिरा - Arteries and veins.) । रसरक्तविसर्पणम् सिराद्वारा प्रचलति । तथा चोक्तम् वामकेश्वरतन्त्रे - पराशक्तिः (Spiritual energy in blood circulation) ब्रह्मरन्ध्रादिमूलाधारपर्यंतं मूलाधारादिब्रह्मरन्ध्रपर्यंतम् (From nervous centre in the head to the Intestines and vice versa) हंसयोः (Inspiration and expiration by breath) यातायातगीतवशात् (an account of breathing in and breathing out) स्वाधिष्ठानाग्निं भित्वा स्वाधिष्ठानवेधया घनीभूतसुधामण्डलाग्रस्रवदमृतधाराप्रवाहैः द्विसप्ततिसहस्रनाडीसञ्चयं (through 72,000 blood vessels) स्वपिति तदमृतसेचनेन सर्वा नाड्यः सुप्ताः तदा देहिनां स्वस्थावस्था इति ।
सिराविवरणम्
यथा - गर्भस्य हृदयं पूर्वं सह प्राणेन वर्धते । ततस्सिरास्सम्भवन्ति सूर्यादिव गभस्तयः । सर्वाश्शरीरसंसृष्टास्तिर्यगूर्ध्वमधस्तथा । सर्वाश्चेष्टाः (All activities) प्रकृर्वन्ति (Take place) सिरा वै यन्त्रवर्धते (Through the arteries and veins and through nerves also the growth of body machine is ensured) । तस्मात्तु मातृके (Main ones) द्वे द्वे हृदयात्कण्ठमाश्रिते । जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम् । ततः कण्ठे च मध्ये च धमन्योऽष्टौ समाश्रिताः । कर्णयोस्तु तथा विद्याद्दशभिः परिबीजति । ततस्सिरावस्तकोशमुरोबालं गुदस्तथा । मातृका प्राप्नुवन्त्येता स्तलगात्रपरं तथा । एवमङ्गेषु सर्वेषु मातृकाः देहगोचराः । काये शिरास्सप्तशतं विभागाः श्रुणु पार्थिव । (Sage Palikapya narrates thus to Romapada king of Anga in connection with “Hastyayurveda”) मेदोगुदमधोनाभिं तत्र बस्तिं समाश्रिताः । ताभिस्संमूर्छितो वायुर्धमनीः प्रतिपद्यते । शतार्धमेव ता विद्याच्छिरा वै देहगोचराः (As for as it is seen in the body) । या रसान् प्रविभागेन (Chyle, Limph etc.) वायुमेव वहन्ति ताः । नाभेस्तु हृदयं यावदपराः परतस्तु याः । ताभिस्संमूर्छितं पित्तं (Impure blood) धमनीः प्रतिपद्यते । शतार्धमेवं तु सिराः पित्तमेव वहन्ति याः । उरस्सन्धिश्शिरोग्रीवं मर्माणि च समन्ततः । ततस्संमूर्छितः श्लेष्मा (Gummy substance that binds cartilages at several joints in the body.) धमनीः प्रतिपद्यते । विद्धि पञ्चाशदेवैताः सिराः श्लेष्मवहा गणे । तावत्यः फुस्फुसयकृद्धृदयानां च मध्यतः । या रसानुविभागेन प्रसरन्ति शरीरगाः । Convert chyle into blood) । त्वङ्मांसबह्वयो विज्ञेयाः सिरारसवहाः पृथक् । यथास्थानविभागेन धातूनाप्याययन्ति याः । । मांसमेदोऽस्थिमज्जानां शुक्रस्य च नराधिप । एकैकस्य शतार्धं तु सिरा ज्ञेयाः पृथक् पृथक् ॥
एवं आहारसारः समानवायुजन्योष्मणा पक्वाशये पाचितः अग्न्याशये पित्तरसेन सुपाचितः रक्तरूपो भवति । रक्ते स्नेहगुणं च प्रयच्छति । तृनाद्यन्नेन क्षीरपरिणामोऽप्येवमेव । स्तन्याशये द्रव्यविशेषसंयोगो भवति । अतः स्नेहवत्‌द्रव्यादनं प्रशस्तम् । तच्च घृतमेव । तस्मात् घृतादनं प्रशस्तम् । पशुपक्ष्यादिविषये तेषामाहारद्रव्येषु घृतत्वापादकगुणाः वर्तन्त एव इति दिक् ॥
घृतप्रयोजनम्
आयुर्वै घृतम् - इति श्रुतिः । तेजो वा एतत्पशूनां यद्घृतम् (ऐ. ब्रा. अ. ३९. खं. ६) घृतस्य स्निग्धभास्वरत्वेन पशुतेजस्त्वम् । तथा अन्या श्रुतिः - तेजो वा आज्यम् इन्द्रियं वै दधि पयः पशूनां रूपम् इति । तृनाद्याहारपरिणामेन क्षीरदधिघृतादिकं भवतीति निरूपितम् । अत्रैव नवनीतोद्धारक्रमः - गवां द्रोणपरिमाणे प्रस्थं घृतम् । महिषीणां पञ्चभागोऽधिकः । अजाविकानां द्विभागोऽधिकः । मन्थो वा सर्वेषां प्रमाणम् । भूमितृणोदकविशेषाद्धि क्षीरघृतवृद्धिर्भवति । आज्यं जलगतं चेत्कठिनं भवति । अग्निना द्रवति ॥
॥ पशूनां प्रजननतत्त्वम् ॥
(Causes of Reproduction in Animals)
श्रुतौ यथा - सोमा पौष्णं त्रैतमालभेत (तै. सं. कां. ३, प्र. १. अ. १) त्रयाणां वत्सानां युगपञ्जातानां यः स त्रितः । तत्र भवः त्रैतः । तत्रैव - सोमो वा रेतोधाः । पूषा पशूनां प्रजनयिता । अन्यत्र - अग्निः प्रजां प्रजनयति इति । अस्यार्थः - सिक्तस्य रेतसः धाता, रेतोधाः, सोमः । सिक्तस्य रेतसः पशुत्वेन परिणामयिता पूषा । कथं तत्परिणम इति पूर्वमेव गर्भावतरणक्रमविचारे सम्यक् प्रदर्शितं भवति ॥
एतत्तत्त्वमेव यजुर्वेदे एवं प्रदर्शितम् - चित्रया यजेत पशुकामः । इयं वै चित्रा - यद्वा अस्यां विश्वं भूतमधिप्रजायते । तेनेयं चित्रा । य एवम् चित्रया पशुकामो यजते । प्रहि प्रजया पशुभिर्मिथुनैर्जायते इति । एतत्प्रजननतत्त्वं ऋषिणा नाभानेदिष्ठेन प्रथमं दृष्टम् ॥ तथा च श्रुतिः - रेतो वै नाभानेदिष्ठो - रेतस्तत्सिञ्चति । तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते । सरेतो मिश्रो भवति क्ष्मयाः सञ्जग्मानो निषिञ्चति रेतस्समृध्द्या एव इति ॥
॥ पश्वादिषु प्रजननविवेकः ॥
(Principle of Crossing)
नापुत्रस्य लोकोऽस्तीति पशवो विदुः । तथा च श्रुतिः - तं पश्यन्ति पशवो वयांसि - तं पुत्रसुखानुभवरूपं पशवो गवादयः, वयांसि पक्षिणः पश्यन्ति - जानन्ति । खराणां अश्वानां च शतव्रजे ऋषभाः (पुंपशवः) पञ्च । अजावीनां दश । गोमहिषोष्ट्राणां चत्वारः परिक्लृप्यन्ते प्रायशः प्रजननार्थम् ॥
पश्चादिषु चेष्टास्वरूपम्
(Movements in Animals, Respiration etc.)
चेष्टास्वरूपं हिताहितप्राप्तिपरिहारार्थस्पन्दनम् । नतु स्पन्दनमात्रम्, हितप्राप्त्यर्थम् अहितपरिहारार्थमेव स्पन्दनकरणमीश्वरप्रेरितम् । क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् इत्यनुमानप्रमाणेन ईश्वरप्रेरणं साध्यते । तथैवोक्तम् - आत्मामनसा संयुज्यते - मन इन्द्रियेण - इन्द्रियमर्थेन इति । चेष्टाश्रययोग्याङ्गानि प्राणिषु बहुधा सन्ति ।
तत्र प्राणादिपञ्चकस्य फलीभूतं कार्यं नाम प्राणवायुः देहचलनकर्म विधत्ते । स पवनः अविकृतस्सन् गतागतत्वं च कर्म, निमिषोन्मेषादिकं च, आपादमस्तकं कर्म कुर्वन् चलनात्मकं कर्म कुरुते । अपानवायोश्च प्रयोजमनस्ति ।

मेढ्रगुदप्रदेशेषु स्थितस्सन् स्वयमविकृतस्सन् तथा विक्रियते । व्यानानिलः पाचकपित्तेन स्वयमपि पञ्चधा भूत्वा पाचकपित्तमपि पञ्चधा कुर्वन् अन्नं गृह्णाति पचति विवेशयति । सारकिट्टतया भुक्तान्नं विभजति मुञ्चति च । आशयप्रवेशं करोति । स सर्वशरीरं व्याप्य तिष्ठति । उदानः नासादिपर्यंतं सञ्चरन् वाक्प्रवृत्तिं करोति । बलवर्णयोश्च वृद्धिं विधत्ते । समानवायुः जठरानिलस्य समीपे स्थितस्सन् भुक्तान्नरसं पक्वान्नं कायं प्रवेशयन् प्रतिमुञ्चति । एवं पञ्चवायूनां फलम् ॥
पश्वादीनां वाग्व्यवहारविवेकः
(Speach in Animals)
वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचीमा विश्वा भुवनान्यर्पिताः (तै. ब्रा. अ. २, प्र. ७, अ. ८) इत्यनेन पशूनामपि हम्भा रवादिरूपया वाचैव व्यवहारो दृश्यते इत्युक्तम् । किक्किटेति पशूनां रतिजनितो ध्वनिविशेषः । किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते [इति ब्राह्मणम्]
पश्वादीनां मनुष्याणामिव ताल्वोष्ठपुटव्यापारस्य समानत्वात् वर्णात्मकशब्दः कथं न स्यादिति चेत्, मनुश्ःयाणामिव पश्चादीनां अविरलकण्ठाभावत्वेन वर्णात्मकशब्दो न श्रूयते । नार्थबोधोऽप्यस्ति । अविरलकण्ठत्वमेवात्र प्रयोजकमित्युच्यते । तर्हि अविरलकण्ठत्वं खेचराणामप्यस्ति तत्र वर्णात्मकशब्दनिष्पत्तिः कथं न स्यादित्युक्ते - यत्किञ्चिच्छब्दाः श्रूयन्ते । मनुष्याणां तद्विषयकज्ञानाभावेऽपि तत्तज्जातीयानां तदुच्चारितशब्दविषयकज्ञानमस्ति । अन्यथा तेषां प्रवृत्तिरेव न स्यात् । तदन्यथानुपपत्या शब्दविषयकज्ञानं कल्प्यते । तस्मादाविरलकण्ठवज्जातीविशिष्टजन्तूनां तत्तज्जातिविधिविहितविषयकज्ञानानुभवानुसारितप्रवृत्तिर्भवतीत्युक्तम् ॥
वाक्तत्त्वम्
(Real Nature of Speech)
वाक्तत्त्वतुं - वाक् - परा - पश्यन्ती मध्यमा वैखरीति चतुर्धा भवति । तासु परा (चैतन्यप्रेरिता) शक्तिरूपा मूलाधारादुद्भवति । पश्यन्ती वाय्वाग्निशक्तिबलात् सा शक्तिरेव यावत्कण्ठदेशं समुत्सरति । सैव मध्यमारूपेण वक्क्रे वाय्वग्न्युत्पादनभूतरसनादिकरणैरभिहता ताल्वादिप्रदेशानाश्रिता वैखरी नाम्ना सा वर्णात्मिका भवतीति तत्त्वम् । अश्वादीनां एतत्समस्तसामग्रयभावात् ध्वन्यात्मिकैव वाक्प्रवृत्तिरिति विज्ञेयम् ॥
पश्वादिषु आत्मास्तित्वम्
(Existence of Soul in Animals)
वृषाकपिसूक्ते एवं दर्शितम् - आत्मा वै वृषाकपिः इति वृषाकपिसूक्तस्य (जागतो वा अतिजागतो वा) जीवात्मस्थानीयत्वम् सर्वम् इति जागतं वा अतिजागतं वा - सर्वमेव प्राणिजातं (गच्छतीति - जगत् इति व्युत्पत्या) जगज्छब्दाभिधेयत्वात् जागतमतिजागतं वा भवति । जागताः पशवः इति च श्रुतिः ।
आयुर्वेदेप्येवमुक्तम् - ईश्वर (Spiritual power) प्रेरितचेष्टाश्रयं हिताहितकार्योद्देश्यविषयप्रवर्तकचेष्टाश्रयं शरीरम् । अस्यायमर्थः - अङ्कुरादिकं सकर्तृकं, कार्यत्वात् घटवत् इति ईश्वरसद्भावे अनुमानं प्रमाणमिति हेतुनोपलभ्यते ।
अत्र आक्षेपः - बीजभूमिजीवनसामग्रयां सत्यां कार्यमुत्पद्यत इति न तेनापीश्वरसिद्धिः । शरीरावच्छेदकं चेष्टाश्रयम् । चेष्टाश्रययोग्याङ्गानि बहूनि सन्ति । सर्वदा चलनप्रसङ्गस्यैवोचितत्वात् इति । अत्रोत्तरम् - चेष्टास्वरूपं, हिताहितप्राप्तिपरिहारार्थस्पन्दनम् । नतु स्पन्दनमात्रम् । तत्सर्वं ईश्वरप्रेरितचेष्टाश्रयम् । तथा सति, यस्य यावत्कर्मानुगुणभाग्यं यदधिष्ठानाधीनं तत्सर्वं अनुभवयोग्यं कर्तुं प्रतिभूर्भवतीत्यर्थः । प्रयोजकत्वा चेष्टारूपेण ईश्वरसद्भावस्य प्रेरितत्वादित्यर्थः ।
तदुपर्याक्षेपः - ननु शरीरावच्छेदकं चेष्टाश्रयमित्युक्तम् । तथा सति, सर्वदा चेष्टाकरणप्रसङ्गत्वात् । ईश्वरस्य सर्व शरीराङ्गव्यापकत्वेन सिद्धत्वात् तस्य चेष्टाकरणमेव प्रयोजकं भवतीति । अस्याप्युत्तरं यथा - हितप्राप्त्यर्थं अहितपरिहारार्थमेव स्पन्दनकरणम् ईश्वरप्रेरितम् । आत्मा मनसा संयुज्यते - मन इन्द्रियेण - इन्द्रियमर्थेन इति इन्द्रियाणां प्राप्यकारित्वनियमात्. ईश्वरः यदर्थकर्मकरणमिच्छति तादर्थानुभवज्ञानेन अनुभववान् भवति । इति शरीरे आत्मास्तित्वं साध्यते । तथैवान्यत्र - योरुद्रोऽग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमः यो देवः अग्न्यादिष्ववस्थितः, ततश्च विश्वानि भूतजातानि विवेश तस्मै रुद्राय नमः (तै. सं. का. ५, प्र. ५, अ. ५.) (Materialists - Eastern or Western - say that there is no spiritual power to act upon material power in the body. Since sensory organs stimulated by sensory nerves give stimulus in their turn to motor nerves which through the respective organs such as hand, foot etc., do all kinds of actions. Here the spiritualists ask how the stimuli are caused in the sensory nerves themselves ? To this question, the former should say or would say that something takes place in the brain centres. If asked what that something is, they would say nature. When further asked what that nature is, no reasonable reply will come out. But the spiritualists convince by their cogent reasons that there is a spiritual power, Self - Existent, All - Pervading, All - Intelligent, which induces matter to act, and the latter identified with the spirit, acts in the body everywhere. Such identified principle is called the soul or “I” principle which is experienced by everybody. When this is admitted, then, it is easy to prove that spiritual power which causes the soul to desire or work for what is good or useful, and to avoid what is bad or useless. This is the pivot of Ancient Aryan Philosophy.)
इन्द्रियव्यापारः (Nervous Action)
अत्र कामाधिकारे - करणांशे रागतः प्रवृत्तिः, अङ्गे वैधीति च बोद्धव्यम् । (It simply means that when any desire arises in a soul or “I” “Ego”, there is some activity in the brain centre (mind) exhibited through sensory nerves which gives stimulus to motor nerves which in obedience to such stimulus act through motor organs.)
पशुपक्ष्यादिशरीरबाह्यान्तरङ्गज्ञानम्
(Morphology)
सन्तु नाम बहवो विधयः वेदशास्त्रोक्ताः । साध्यसाधनभावप्रतीतिमात्रपर्यवसितो हि विधिव्यापारः (Theories end only in general conclusion as to by what methods the desired objects are shown to be achieved), न प्रयोगपर्यवसितः । (But they do not end in practical or experimental methods.) इति पर्यालोच्यैव अस्मत्पूर्वजास्सर्वत्र प्रयोगकुशला अभवन् । तथापि, इदानींतनशास्त्रज्ञानां (Scientists) सूक्ष्मदर्शकयन्त्रादिद्वारा यथा स्थितानां मात्रा (protoplasm) बिन्द्वादीनां (cells etc.) सूक्ष्माणाम् अवयवानां ज्ञानं भवत्येव, प्राचीनार्याणां तादृश साधनोपकरणाभावात् कथं तिर्यग्जन्तूनां अन्तस्थ सूक्ष्मावयवादीनां विज्ञानमभुदिति समस्या यस्य कस्य वा सहजा भवति । अत्रेदं तत्त्वम् - प्राचीनार्येषु केचित् (१) तपोमहिमयुक्ताः - केचित् (२) यज्ञादिकर्मानुष्ठानपराः - केचित् (३) प्राणिनामाहारभूत मांसादिपदार्थानां गुणागुणज्ञाः । तेषु प्रथमे (१) स्वतपःप्रभावेन अन्तर्ज्ञानदृष्ट्या त्रिकालज्ञास्सन्तः समस्तकृतिविज्ञानधुरींणा अभवत् । तथाचोक्तं पतञ्जलिमहर्षिणा योगशास्त्रे - सू - देशबन्धश्चित्तस्य धारणा धारणाध्यानसमाधिरूपतृतीयमन्तरङ्गं सयमसंज्ञं भवतीति । तत्र धारणा - नाभिचक्रहृदयनासाग्रादौ देशे चित्तबन्धस्थिरीकरणेन भवतीति मणिप्रभाख्यव्याख्यायां रामानन्दसरस्वती यतिवर्यः । मैत्र्यादिचित्तपरिकर्मवासितान्तः -करणेन यमनियमवता, जितासनेन, परिहृतप्राणविशेषेण, प्रत्याहृतेन्द्रियग्रामेण निर्जने प्रदेशे ऋजुकायेन, जितद्वन्द्वेन योगिना नासाग्रादौ सम्प्रज्ञातस्य समाधेः अभ्यासाय चेतसस्स्थिरीकरणं धारणा इति राजमार्ताण्डव्याख्यायां भोजराजः ।
सू - तत्र प्रत्ययैकतानता ध्यानम् - यत्र चित्तं धृतं तत्र प्रत्ययस्य - ज्ञानस्य निरन्तरमुत्पत्तिः ध्यानमितिचोक्तम् । सू - तदेवार्थमात्रनिर्मासं स्वरूपशून्यमिव समाधिः - अतिस्वच्छचित्तवृत्तिप्रवाहरूपं ध्यानमेव अर्थमात्रस्वरूपेण निर्भासमानं समाधिः । ध्येयध्यानध्यातृमध्ये ध्येयमात्रस्फूर्तिमान् समाधिः । इत्युक्तत्वान् धारणा-ध्यान-समाधित्रयं यदा एकविषयकं भवति तदा तत्फलं संयम इति व्यवह्रियते । तथा च सूत्रम् - त्रयमेकत्र संयमः । अनन्तरम् - तज्जयात्प्रज्ञालोकः इत्यनेन संयमस्य जपेन ज्ञातव्यस्य स्वरूपं यथावत्सम्यगवभासते इत्युक्तम् । तस्य भूमिषु विनियोगः इति निर्देशेन स्थूलसूक्ष्मपदार्थज्ञानविषये नियोजितव्य इत्यादेशः । ते संयमाः पुनः अनेके अनेकविषगाः । प्रकृते - नाभिचक्रे कायव्यूहज्ञानम् इत्युपदेशबलात् कायस्य मध्यभागे संयमात् देहस्य सन्निवेशं जानाति । वातपित्तश्लेष्माणः त्रयो दोषाः । त्वग्रुधिरमांसस्नाय्वस्थिमज्जाशुक्राणि सप्तधातवः । तेषां पूर्वपूर्वं बाह्यं, इत्येष कायविन्यासः । तं योगी ज्ञानदृष्ट्या सम्यग्जानातीति अभिप्रायः । सप्तर्षिभिः, पराशर - गर्ग - वररुचि - समुद्र - वराहमिहिरप्रभृतिभिर्महर्षिभिः तथैव पश्वादिकायतत्वं दृष्टमिति बहुत्र सूचितम् ॥
(२) यज्ञयागादिषु गवाजादि पश्वालम्भनसमये तत्तत्पशुविशसनद्वारा तत्तदङ्गज्ञानेन तन्निष्ठवपादिद्रव्यमाहृत्य अङ्गहोमादिकं कुर्वन्ति ऋत्विजः । इत्यनेन गवाश्वमेषादीनां एकोनविंशतिपञ्चशतसंख्याक (५१९) पशूनां अन्तरङ्गज्ञानं तेषां सम्यगभूदिति च वेदेष्वनेकत्र प्रस्तावितम् । तथैवायुर्वेदसूत्रम् - ४७ - चाक्षुषप्रतीतिः प्रमाणम् प्रत्यक्षप्रमाणेन संशयभ्रमयोर्निवारणस्य शक्त्यत्वात् इति ॥
तथा च श्रुतिः - स एषोऽन्तर्हृदय आकाशः इत्यत्र भाष्यम् । हृदयस्यान्तर्हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायनमः अनेकनाडीसुषिरः ऊर्ध्वनाळः अदोमुखः विशस्यमाने (पशौ) प्रसिद्ध उपलभ्यते । तस्य अन्तः य एष आकाशः प्रसिद्ध एव । करकाकाशवत् । तस्मिन् सोऽयं पुरुषः - इत्यादिना च पश्वादि प्राण्यन्तरङ्गपरीक्षा प्राचीनार्यैस्सम्यक्कृता, तत्तदङ्गरूपगुणक्रियादयश्च सम्यगवधारिता इति वेद्यते । (Cf. The Rishis, priests in their animal sacrifices must have studied the Anatomy of even human dead bodies and they observed minutely by dissection both the inner world and the outer world to be alike) । अनेन ब्रह्माण्दपिण्डाण्डयोः सृष्टिरेकरूपेति तैरवधारितम् ॥
तत्र पशुविशसनप्रकारः
(Method of Dissecting)
श्रुतिः - (तै. सं. कां. ५, प्र. ३, अ. ११, १२.) अश्वस्य वाजिनस्त्वचि सूचिभिः शिम्यन्तु त्वा (Remove the skin and other organs of animals like horse by means of dissecting instruments.) । अत्र भाष्यम् - वेगवतोऽन्नवतस्तव त्वचि विशसनाय प्रवर्तन्ते (They, the experts are engaged in removing the skin of the animals and dissecting certain useful portions which serve as oblations for sacrifices, and as food for men, with various instruments (सूचीभिः) made of silver, gold and steel.) (रजत - हरिणी - सीसाः) ताः युजनसंहिताः - युज्यन्ते कर्मभिः - कर्मसुयोग्याः (Fit for the purpose) क उ ते शमिता (Who is able to dissect the body ?) कविः - मेधावी अवयवविभागज्ञः (The expert in anatomy and dissection who knows well how to dissect carefully and how to remove the different organs of the body, and to study their nature, their composition and quality and their use.) शिम्यन्तु लोम विचिन्वन्तु असिमार्गेभ्य उपनयन्तु (They may remove the skin and separate the wool in order that instruments may be as easily applied as they like into the body of the animal to be dissected.) । ततः स त्वा छ्यति - त्वा - विशास्ति ते गात्राणि शिम्यति । सः त्वां (पशुशरीरम्) छिनत्ति । त्वां विशसति - भूयुक्तं करोति । तव गात्राणि शिम्यति = सुखेन विशसति अविनाशेन अङ्गानि विशस्य स्थापयति (The expert dissects the body carefully with sword - like sharp instruments, separates different organs, and keeps them on table unmutilated, for study and use.) अध्वर्यवः छयन्तु - विचशसतु - गात्राणि पर्वशस्ते शिमाः कृण्वन्तु शम्यन्तः अध्वरस्य नेतारः (Experts in anatomy and dissection take up different organs one by one, so much by so much and limb by limb for the purpose) ऋतवः (proper time and place.) पर्वशः (May help you to dissect part by part and joint by joint.) बलिष्ठं सूदयन्तु (The expert may prepare, roast or season the best portions required for oblation) विरूपं विशसितं विनाशयन्तु (And remove and destroy the useless portions. May air in the wide open space preserve the parts thus removed from co-agulation or decay and keep their quality intact and unchanged.) । परेभ्यो गात्रेभ्य अस्थभ्यो मज्जाभ्यः शमस्तु - एतेभ्यः सुखमस्तु (Thus be happy by knowing and having parts such as various major and minor organs, bones, marrow, etc. removed for the intended purpose.) एतत्पद्धतिमुद्दिश्य श्रुतिः - तामुहा प्रोच्यैवास्माल्लोकादुच्चक्रामत्, तामुहा गिरिजाय बाभ्रव्याय प्रोवाच । ततो ह वै नामैतदर्वाङ्मनुष्याः अधीयन्तेऽधीयन्ते । (Some divine being came to the earth, taught this science of anatomy and dissection, and disappeared. The first Rishi who learnt this science was Babhravya son of Giri and he taught the same to modern men who were qualified to learn, and they in their turn to their followers and so on. It is plain from this that the science of anatomy is very ancient one.)
अग्नौ ग्राम्यान्पशून्प्रदधाति । शुचाऽरण्यार्नपयति । (तै. सं. कां. ५, प्र. ५, अ. ५.) ग्राम्याः पशवो अग्नौ निधीयन्ते दह्यन्ते । अरण्याः शोकेन योज्यन्ते । इति च ग्राम्यारण्यपशूनां श्रोतोपयोगः वेदितव्यः ।
अस्मिन् विशसनकार्ये उपदेशः - सर्वेऽपि पशवः प्राणापानवन्तः । यद्विकर्तितव्यं पश्वङ्गं विश्लिष्टं तत्सर्वं त्वया अर्हतया एकीकार्यम् । विषरूपा हि एते सन्तः सलक्ष्माणः एतर्हि भवन्ति ।
इदं पशुविशसनतत्त्वं (Dissection principle of animals) प्रथमं शातर्षिणा देवभागेन दृष्टमिति विज्ञायते । तथा चोक्तम् - तां वा एतां पशोर्विभक्तिं शातर्षिर्देवभागो विदांचकार (ऐ. ब्रा. अ. ३१, खं १) । अनन्तरम् ऋत्विजः पशोर्भक्तभागान् स्वेभ्य एवं विभजन्ति । यथा - अथातः पशोर्विभक्तिः । तस्य विभागं वक्ष्यामः । हन् (Chin with tounge) सजिह्वे प्रस्तोतुः । श्येनं (श्येनाकारम्) वक्षः (Chest) उद्गातुः । कण्ठः (Neck) काकुद्रः (काकुदः - Palate) प्रतिहर्तुः । दक्षिणा श्रोणिः (The right hip) होतुः । सव्या (Left hip) ब्रह्मणः । दक्षिणं सक्थि (Right hip-joint) मैत्रावरुणस्य । सव्यं (Left hip-joint) ब्राह्मणाच्छंसिनः । दक्षिणं पार्श्वं (Right side muscle) सांसं (With shoulders) अध्वर्योः । सव्यं (Left side muscle) उपगातॄणाम् । सव्योंऽसः (Left shoulder) प्रतिप्रस्थातुः । दक्षिणं दोः (Right hand muscle) नेष्टुः । सव्यं (Left hand muscle) पोतुः । दक्षिणा उरुः (Right thigh) अच्छावाकस्य । सव्यम् (Left thigh) अग्नीध्रस्य । दक्षिणो बाहुः (Right arm) आत्रेयस्य । सव्यं (Left arm) सदस्यस्य । सदं चानूकं च (पृष्ठवंशः - (Back bone or Spinal column - मूत्रबस्ति - kydney) गृहपतेः । दक्षिणौ पादौ (Right legs) गृहपतेर्व्रतप्रदस्य (भोजनदायिनः) । सव्यौ पादौ (Left legs) गृहपतेर्भार्यायै । व्रतप्रदत्वम् - एतयोस्साधारणं भवति । तं गृहपतिरेव प्रशिंष्यात् ज्याघनीं (पुच्छं The tail) पत्नीभ्यः तवायं तवायमिति विभज्य प्रदद्यात् । हरन्त्यः तां ब्राह्मणाय दद्युः । स्कन्ध्याश्च - स्कन्धे भवाः पदार्थाः, मणिकास्तिस्रश्च मणिसदृशा मांसपदार्थाः), कीकसाः (Bones) ग्रावस्तुतः तिस्रश्चैव कीकस्यः अर्धं वैकतस्यो नेतुः (प्रौढः मांसखंडः (Ball of flesh) । अर्धं चैव क्लोमा च (हृदयपार्श्ववर्ति मांसखंडः - Pancreas) शमितुः । तद्ब्राह्मणाय दद्यात् - यद्ब्राह्मणस्स्यात् । शिरः सुब्रह्मण्यायै । यः श्वः स्तुत्या प्राह तस्याजनमिळा (अन्नम् food) सर्वेषां होतुर्वा ।
अथ तेषामङ्गानां वैदिकपारिभाषिकोक्तानां पर्यायशब्दाः । अत्र भाष्यकारः - सायणः । ता वै हन्वादयः इळान्ता श्रुत्योक्ताः अस्माभिरपि दृश्यमानाः (observed even by us) षट्त्रिंशत्संख्याकाः (36 organs) हनुर्जिह्वेत्येकेन पदेनाभिधीयमानाः पशुविभक्ताः ये यज्ञस्य निर्वाहं कुर्वन्ति । संख्या चेयं पूर्वाचार्यैर्व्याख्याता । ये सत्रिणः एनं पशुं एवमुक्त प्रकारेण विभक्तं कुर्वन्ति तेषां सत्रिणां स एव स्वर्ग्यः । स्वर्गाय हितो भवति । अत्र बहुस्वारस्यमस्ति तत्वविदाम् । अन्येषां तु दुरवगाहत्वात् शुष्कजल्पमिव प्रतिभायात् ।
अर्हिसा परमो धर्मः इति सामान्यधर्मम् अतिलंध्य अग्नीषोमीयं पशुमालभेत इति विशेषविधिबलेन यज्ञादिषु पशुविशसनं न हिंसाकार्यमिति मन्यन्ते आर्याः । परं तु तथा विशस्तपशुः देवत्वं प्राप्तस्सन् स्वबन्धुभिरनुज्ञातः देवलोकं प्राप्नोतीति श्रद्धा । यथा देव त्रायन्तमवसे सखायोनुमाता पितरो वदन्तु ते बन्धवः मातरश्च पितरश्च त्वानुमन्यन्ताम् - अनुमोदन्तामिति यावत् - अहो अयमस्मत्सम्बन्धी पशुः विरूपमापन्नो देवान् तर्पयितुं आत्मनो रक्षणाय याति । ततस्स्वयमपि देवो भवति । वयमपि देवीभूय तेन सह स्वर्गे मोदितास्महे । ततस्सर्वं कुलमनुगृहीतं भविष्यतीति । अनेन यज्ञे एकपशुविशसनेन तत्सम्बन्धिनामनेकेषां सद्गतिर्भवतीति सूचितम् ॥
एवं प्रत्यक्षपरीक्षया पशुशरीरेषु समीक्षितान्यङ्गान्येतानि - दन्ताः, हन्, ओष्ठौ, मुखम्, नासिके, अक्षिणी, पक्ष्मणी, भ्रुवौ, कर्णौ, ललाटम्, मूर्धा, मस्तिष्कम्, केशाः, वहनदेशः - ग्रीवा वा, स्कन्धौ, धमन्यः, कीकसाः (ग्रीवाया आरभ्य पृष्ठवंशस्थगुलिकाः (Vertibrae in the back bone), पृष्ठयः (हस्तयोरुपरि पृष्ठवंशस्योभयस्थितान्यस्थीनि - Ribs), पाजः (हृदयम्), पार्श्वौ, असौं (Shoulders), दोषौ (Arms), बाहू (Hands) जङ्घे, श्रोणी, ऊरू, अष्टीवती (Knee bones), भासत् (अपान - प्रदेशः), शिखण्डाः (चूडाः), वालधानम् (पुच्छः), अण्डौ, शेफः, रेतः, प्रजननं, प्रजाभ्यः, पादाः, शफाः, लोमानि, लोहितम् (Blood), मांसम् (Flesh), स्नावानः (Muscles), अस्थानि (अस्थीनि Bones), मज्जा (Marrow), अङ्गानि (Other organs or organic parts such as tissues, cells, arteries, veins, nerves, brain matter, etc.,) आत्मा (Life principle), सक्थः (ऊरुमूलस्थानि अस्थीनि सक्थीनि), ककुद् (Projecting corner and, varieties of horns etc.), अञ्ज्येतः (White and black substance probably chyle, limph and nutrious fluid and also several kinds of juices), कृष्णैतः (Black and white substance - probably excretion substances), रोहितैतः (Red and white substance probably pure blood), अरुणैतः (Reddish and white substance impure blood), कृष्णः, श्वेतः, पिशङ्गः - (गोरोचनवर्णः), सारङ्गः (चातकर्वणः), गौरः, अरुणः, बभ्रुः (कपिलपाण्डुः), रोहितः, नकुलः (नकुलवर्णः), शोणः (पित्तरक्तः), श्यामः (पीतकृष्णः), सुरूपः (Shining substance), शबलः (व्यामिश्ररूपः), कमलः (सारस - पक्षिवर्णः), पृश्निः (चित्रवर्णः) । एते वर्णाः विशसितानां अश्वादीनां शरीररूपवर्णा वा भवन्तु । तच्छ्रीरस्थद्रव्याणां रूपाणि वा भवन्तु ।
(३) अथच चरकसुश्रुतप्रभृतयो वैद्यशिरोमणयः मृतपशूनामङ्गानि विशोध्य स्वचक्षुर्भिरेव तानि सम्यक्‌दृष्ट्वा तज्जनितज्ञानेन अनेकपश्वादिजन्तूनां बाह्याभ्यन्तरावयवतत्वानि स्यीयग्रन्थेषु उपदिष्टवन्तः । तत्त्वनिर्धारणार्थं प्रत्यक्षेण तत्तत्प्राणिनां अन्तरावयवशोधनमावश्यकमिति च बोधयन्ति ते । अस्यैव कर्मणः शस्त्रचिकित्सेति संज्ञा । एवं विविधपशुपक्षिमत्स्यमांसानां विविधान्तरङ्गोद्भवानां गुणान् परीक्षातो निश्चित्य आहारार्थं योग्यानि तानि बहुमानितानि च । अत्र विशेषांशाः योगरत्नाकराभिलषितार्थचिनामण्यादिग्रन्थेषु द्रष्टव्याः । तेषां सर्वेषां महाभागानाम् अध्यवसायविशेषेण एतानि तत्त्वान्यवगतानि यथा - ओजस्सर्वशरीरस्थं शीतं स्निग्धं स्थिरं मतम् । सोमात्मकं शरीरस्थं बलपुष्टिकरं मतम् । इत्यनेन सर्वशरीरं अग्नीषोमीयमिति विज्ञातं विज्ञापितं च ।
अथ च सप्तत्वगित्यादि पूर्वं यदुक्तं तत्सर्वं परीक्षामुखेन ज्ञातभित्यवधार्यम् । एतेन प्राचीनार्याणां पश्वादिप्राणिविज्ञानं सम्यगासीदिति फलितोऽर्थः । उत्तरत्र गवाश्वादीनां शरीरविभागविषये यथोक्तं तत्त्वं निर्दिश्यते ।
पश्वादि - प्राणिनां शरीरोपचयः
(Food and Drink)
सर्वे प्राणिनः स्वस्वप्राणधारणार्थं स्वोचितमन्नाख्यम् आहारद्रव्यं भक्षयन्ति । तत्र पशूनामन्नं तृणाङ्कुरपल्लवपत्रादयः । तथा च श्रुतिः - यच्छष्पाणि चितोत्कानि च भवन्ति रायै पुष्ट्यै (ऐ. ब्रा.) । अनेन, तृणानामङ्कुराणां च पश्वन्नत्वात् तद्भक्षणेन पशुषु पुष्टिप्रजोत्पादनयोः दृष्टत्वात्, इति दर्शितम् । इरायाः पुष्टिप्रदान्नत्वम् - (दधिघृतयोः पशुभक्षिततृणोदकजन्यत्वात् ओषधीरसत्वम्) । तेनान्नेन शरीरान्तस्थसप्तधातवः सप्ताशयाः नाडीधमन्यादयश्च शरीरबाह्यावयवभूताः करचरणादयश्च उपचयं प्राप्नुवन्ति ।
त्रिवृत्करणतत्त्वम् - तेजोवन्नकार्यम्
(Alimetation and Blood Circulation)
तदेवं दर्शितं छान्दोग्योपनिषदि - अन्नमशितं त्रेधाविधीयते । तस्य यस्स्थविष्ठो धातुस्तत्पुरीषं भवति (Excretion) । यो मध्यमस्तन्मांसम् (Flesh) । योऽणिष्ठस्तन्मनः (Mind and brain matter) । आपः पीतास्त्रेधा विधीयन्ते । तासां यस्थविष्ठो धातुस्तन्मूत्रं (Urine) भवति । यो मध्यमस्तल्लोहितम् (Blood) । योऽणिष्ठस्सप्राणः (Vital air) । तेजोऽशितं त्रेधा विधीयते । तस्य यस्थविष्ठो धातुस्तदस्थि भवति (Bones) । यो मध्यमस्सा मज्जा (Fat and marrow) । योऽऽणिष्ठस्सा वाक् (Power of vocal organs of speech) । अन्नमयं हि सोम्य मनः । आपो मयः प्राणः । तेजोमयी वाक् । एतदुक्तं भवति । अशितम् अन्नं अद्भिः द्रवीकृतं सत् जाठरेणाग्निना पच्यमानं सत् रसभावेन परिणमते । तत्कथम् ? एक एव वायुः शरीरे वृत्तिभेदेन प्राणापानव्यानोदानसमानसंज्ञया पञ्चधा भवति । एतद्वायुसंसर्गकोपाधिभेदेन, रेचकः, पाचकः, शोषकः, दाहकः, प्लावकः, इति प्राणमुख्यत्वे जठराग्निर्भवति । तथा नागकूर्मकृकरदेवदत्तधनञ्जयाख्यवृत्तिभेदेन क्षारकः उद्गारकः क्षोभकः जॄम्भकः मोहकः भवति इति पूर्वमेवोक्तम् । एते पञ्चविधाः वायवः प्राणिनां देहस्थाः भक्ष्यभोज्यचोष्यलेह्यपेयात्मकपञ्च विधमन्नं पाचयन्ति । तस्मादशितं पीतं च रसो (Chyle) भवति । रसाच्छोणितम् (Blood) । शोणितान्मांसम् (Muscles etc.) । मांसान्मेदः (Brain matter) । मेदसोऽस्थीनि (Bones) । अस्थिभ्यो मज्जा (Marrow) । मज्जायाश्शुक्रम् (Semen and male energy), स्त्रीणां शोणितम् (Blood in the uterus and female energy) । शुक्रशोणिताभ्यां अन्नकार्याभ्यां संयुक्ताभ्यां अन्नेनैवं प्रत्यहं भुज्यमानेन आपूर्यमाणाभ्यां, कुड्यमिव मृत्पिण्डैः प्रत्यहमुपचीयमानो देहः परिनिष्पन्नः ।
आहारपदार्थस्त्रिविधः - तेजोऽवन्नरूपः । एतत्रयाणामपि अन्नमित्येव व्यवहारः । तथापि तेषां परिणामः प्रत्येकशास्त्रिविधः । तत्र कठिनभागस्य अशितस्यान्नस्य (Of food eaten) स्थूलोंशः पुरीषम् (Excretion) भवति । मध्यमांशः रसादि क्रमेण मांसं (Flesh and muscles) भवति । अणुतमो धातुः ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडी (Through nerves) ष्वनुप्रविश्य वागादिकरणसंधातस्य स्थितिमुत्पादयन् मनो (Brain matter or mind) भवति । अन्नं गुरु, स्थिरम्, धारणम्, कृष्णम् (Food or nutrition is substantive, enduring, helping, development, sustaining and black in colour) ।
तथा पीतानामपां (Of water drunk) स्थविष्ठोधातुः मूत्रं (Urine) भवति । मध्यमः लोहितं (Blood) भवति । अणिष्ठः प्राणो (Vital energy) भवति । आपः, द्रवाः, स्निग्धाः, स्यन्दिन्यः, शुक्लाश्च (Water is fluid, adhisive, flowing and clear) ।
एवमशितस्य तेजसः प्रधानपदार्थस्य (Fatty matter used for food) तैलघृतादेः स्थविष्ठोधातुः अस्थि (Bone) भवति । मध्यमः मज्जा (अस्थ्यन्तर्गतस्नेहः - Marrow) भवति । अणिष्ठः वाक् (Vocal principle) भवति । तेज इति प्रसिद्धं लोके, दग्धृ, पक्त्तृ, प्रकाशकं, रोहितं चेति (Fire is the energy of the sun appears in the world, as burning or combustion ; and in the body, it is stimulating, digesting and ripening heat energy, light or brightening and glowing principle and appears as heat energy.)
अन्नमयमेव मनः (Mind is material i.e., brain matter endowed with thinking energy) । ततः अन्नोपचितत्वान्मनसो भौतिकत्वमेव, न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्मते । आपोमयः प्राणः (Vital energy is developed by the essence of liquid matter consumed) । तेजोमयी वाक् - तैलघृतादि भक्षणाद्धि वाग्विशदा भाषणे समर्था भवति ॥ अत्र विचारः - केवलान्नभक्षिणः आखुप्रभृतयः वाग्मिनः प्राणवन्तश्च । तथा अब्मात्रभक्ष्याः सामुद्राः मीनमकरप्रभृतयः मनस्विनः वाग्मिनश्च । तथा केवलस्नेहपदार्थपायिनां मक्षिकादीनामपि प्राणवत्वं मनस्वित्वं - एतत्कथम् ? (If the essence of solid, liquid and fatty nutritions are direct causes for the development of the mind, vitality and vocal function, respectively, then how is it that mice, rats etc. which generally eat solid grains live and make noise, that the sea animals such asdifferent kinds of fish, alligators, which live generally upon liquid substance, have mind and vocal organs, and that flies and other insects which draw up for their food mostly viscid matter, live and have mind ? -) । उच्यते - सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तिः । नहि, अत्रिवृत्कृतमन्नमश्नाति कश्चित्, आपोवा अत्रिवृत्कृताः पिबति, तेजो वा अत्रिवृत्कृतमश्नाति । अनेन अन्नादिनां आखुप्रभृतीनां वाग्मित्वं प्राणवत्वं चेत्याद्यविरुद्धम् । परन्तु अन्नं पार्थिवांशबहुलम् । आपः द्रवांशबहुलाः । तेजः स्नेहांशबहुलम् । इत्येवाकूतम् । (Every kind of food consists of three elements viz., solid, liquid and heat or viscid matter directly or indirectly combined. But one or other of these three elements may predominate. So there is no inconsistency in the above statement. In other words the predominance of solid substance in the nutrition contributes to the growth of mental power, that of liquid substance increases the vital energy and that of heat or viscidity helps greatly the vocal functions) । तथा चोक्तमन्यत्र रसः पाञ्चभौतिकः यतः तत्र पार्थिवांशः अन्नजः (Carbon), अबंशः - जलम् (Hydrogen), तेजोंशः अग्निः (Oxygen) । इदमेव त्रिवृत्कृतमन्नम् (The combination of these three elements is food) । वाय्वंशः (Principle of movement) चलनात्मकत्वात् भवत्येव । सर्वत्र अवकाशार्थं आकाशांशः अवश्यक एव । तेषां समवायः रसः (Their combination is nutrition in the form of various acids) । तस्य द्रव्यान्तरसंसर्गेण पाकेन च रसो रक्तं भवति (By chemical combination and infusion of bile, it becomes blood.)
मनसि एवमन्नसारेणोपचिते, जीवविशिष्टः पुरुषः द्रष्टा, श्रोता, मन्ता, बोद्धा, कर्ता, विज्ञाता, सर्वक्रियासमर्थो भवति । इदमेवाहारतत्त्वं रसरक्तपरिणामतत्वं च । (This is what is called Alimentation, blood circulation and nervous action and their effects in the body) । सर्वमिदं कार्यं नाडीद्वारा प्रचलति । नाड्यस्तु धमन्यः, सिराः, नाड्यः एवं रूपेण शतशो भवंति (Innumarable are arteries, veins and nerves in the body) । ते प्राणेन्द्रियमनःप्रचारभूताः (They are concerned with respiration, blood - circulation and nervous action in the body.)
तथा बृहदारण्यकोपनिषदि चतुर्थाध्याये द्वितीयब्राह्मणे तृतीय कण्डिकायां य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं इत्यादिमूलस्य भाष्ये श्रीशङ्कराचार्यः - अन्नं जग्धं द्वेधा परिणमते । यत्स्थूलं तदधो गच्छति । यदन्यत्तत्पुनरग्निना पच्यमानं द्वेधा परिणमते । यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति । योऽणिष्ठो रसः स एष लोहितपिंडः इन्द्रस्य लिङ्गात्मनः हृदये मिथुनीभूतस्य । यं तैजसमाचक्षते स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीषु अनुप्रविष्टः स्थितिहेतुर्भवति । तदेतदुच्यते अथैनयोरेतदन्नमित्यादि …. अथैनयोरेतत्प्रावरनम् । ….. यदेतदन्तर्हृदये जालाकमिवानेकनाडीच्छिद्रबहुलत्वाञ्जालाकमिव …. अथैनयोरेपासृतिः … हृदयदेशादूर्ध्वाभिमुखीसत्युद्धरति नाडी । … यथा लोके केशः सहस्रधा भिन्नोऽत्यंतसूक्ष्मो मवत्येवं सूक्ष्मा अस्य देहस्य सम्बन्धिन्यो हितानाम…. नाड्यस्ता अन्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति । हृदयाद्विप्ररूढास्तास्सर्वत्र कदम्बकेसरवदेताभिर्नाडीभिरत्यन्तसूक्ष्माभिरेतदन्नमास्रवति …. । तदेतद्देवता शरीरमनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति । तस्माद्यस्मास्थूलेनान्नेनोपचितः पिण्डः, इदं तु देवताशरीरं लिङ्गम् सूक्ष्मेणान्नेनोपचितं तिष्ठति । पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादि स्थूलमपेक्ष्य लिङ्गस्थितिकरं त्वन्नं ततोपि सूक्ष्मतरं । अतः प्रविविक्ताहारः पिण्डः । तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गामा …. ।
तत्रैव तृतीयब्राह्मणे विंशतितमकण्डिकायामेवमुक्तम् । ता वा अस्यैताहितानामनाड्यो यथाकेशः सहस्रधा भिन्नः तावता अणिम्ना तिष्ठंति शुक्लस्य नीलस्य पिंङ्गलस्य हरितस्य लोहितस्य (रसेन) पूर्णाः कथं अन्नरसस्य वर्णविशेषप्राप्तिः । (शं) एते च रसानां वर्णविशेषाः वातपित्तश्लेष्मणां इतरेतरसंयोगवैषम्यविशेषाद्विचित्रा बहवश्च भवंति । यथा - भुक्तस्य अन्नस्य परिणामविशेषः वातबाहुल्ये नीलो भवति पित्तवाहुल्ये पिंगळः जायते । श्लेष्माधिक्ये शुक्लो भवति । पित्ताल्पत्वे हरितः, साम्ये च धातूनां लोहितः । अरुणाः शिराः वातवहाः नीलाः पित्तवहाःश्शिराः । असृग्वहास्तु रोहिण्यो गौर्यश्लेष्मवहा श्शिराः ॥ इति सुश्रुतवाक्यमपि भाष्यव्याख्याने दर्शितम् ।
अथ वायुतत्त्वम् (Vital Airs in the Body)
वददो वात ते गृहे । अमृतस्य विधिर्हितः । ततो नो देहि जीवसे । ततो नो धेहि भेषजस (तै. ब्रा. अ. २, प्र. ४, अनु. १) । भाष्यम् - हे वात ! तव गृहे अमृतस्य निधिः यत् = यस्मात्कारणात्, अदः - असौ निहितः (Air contains enough of oxygen), ततः कारणात्ततो वाति । ततो वा निधेरादाय नः अस्मभ्यं देहि । जीवसे - अस्मान् जीवयितुम् । (It means that without oxygen no one lives. Air supplies it through respiration (inspiration) प्राणः । Hence all beings live) वायुः निश्वासरूपेण प्राणाधारकशक्तिं जनयतीति सारार्थः । किञ्च तत एवास्माकं भेषजम् - अनिष्टशमनं धेहि अस्मासु स्थापय (Remove what is undersirable in us viz., accumulation of carbonic acid gas) । स एव वायुः उच्छ्‌वासरूपेण अपानाभिधस्सन् आहारविकारजनितम् अशुद्धपदार्थं बहिर्निर्गमय्य दोषशमनं करोतीत्यर्थः (Through expiration carbonic acid gas is got rid of and thereby the system is made healthy - महत्वम्) । अत्र अमृतमिति प्राणाधारकः शक्तिसम्पादकः तेजोविशेषोऽवगम्यते । तादृशतेजोविशेषः आधुनिकविज्ञानकुशलैः आक्सिजन् (Oxygen) इति कथ्यते (Oxygen means acid-producer, and here, that acid is called अमृत nectar, which is very essential for life) । अत एव सूर्यरश्मिविशेषस्य अमृतमिति नाम । तथा भेषजम् अनिष्ट्‌अशमनम् अस्मासु स्थापय इत्यनेन अनिष्टम् अस्मासु यत्, आधुनिकैः कार्बानिक् आसिढ् ग्यास् (Carbonic acid gas) इति व्यवह्रियमाणं वस्तु तत् प्राणापहार कत्वादनिष्टमित्युच्यते । तन्निरसनेनैवानिष्टशमनमारोग्यं प्राणिषु स्थापयितुं शक्यते (Health can be brought to the body by only removing what is unhealthy in it generally and that is evidently carbonic acid gas, the accumulation of which is dangeous to life) । अत एवोक्तमन्यत्र - प्राणापानयोर्विच्छेदः मरणम् इति (Death is nothing but the stoppage of respiration) ।
वायुकार्यम् (Respiration)
एक एव वायुः प्रवहणादिरूपेण सप्तधा भवति । एतैः प्रवहणादिभिः सप्तभिर्वायुमण्डलैः लोकाः धार्यन्ते । स एवान्तश्शरीरे प्राणात्मना देहधारको भवति । शरीरे पुनः पञ्चधा भूत्वा शरीरकार्याणि निर्वर्तयति । यथा प्राणः (Expiration) मूलाधारादुत्थितः (Navel region) सूर्यवदूष्माश्रयस्सन् (Carrying carbonic acid) नासिकाभ्यां द्वाराभ्यां बहिर्देहाद्गत्वा (Passing through nostrils) द्वादशाङ्गुलिमात्रे देशे लीयते । लयम् अदर्शनं गच्छति (Disappears at the distance of 12 inches straight from the nostrils - that is becomes obsorbed in the external air) । स एव प्राणः अपानं प्रणुदन् (Inspiration) सोमात्मा (Carrying refreshing and cooling property of air i.e., Oxygen) । अश्ःटाङ्गुलिदेशेनागत्य नासिकाच्छिद्राभ्यां (Having entered the nostrils from outside from a distance of eight inches) अन्तश्शरीरम्ध्ये आविशति (Pervades all the internal parts of the body) तत्र अपानो वायुः मलादि विसृजेत् गुदद्वारा (Passing below under the name ‘Apana’ it helps the discharge of urine and excreta through the respective organs - Cf. “By excreation is meant to get rid of carbonic acid gas”) अग्नीषोममयोभूत्वा (Pure air) सुषुम्नारन्ध्रमाश्रितः (Passing through the spinal card), आब्रह्मरन्ध्रमुद्गच्छन् (Goes up to the centre of the brain) उदानात्मा विजृम्भते (Refreshes the whole system under the name ‘Udana’) । स एव वायुः भुक्तान्नरसं प्रत्यहं देहनाडीषु प्रचारयन् व्यानात्मा आसमन्तात् प्रापयेत् । सर्वनाडीर्व्याप्नोतीत्यर्थः (Under the name ‘Vyana’ its function is to help circulation of blood throughout the body by means of several arteries, etc.) । सर्व प्राणिषु अनेन व्यानवायुना निष्पन्नैः तत्तदवयवसङ्कोचविकासैः चलनात्मकव्यापारास्सम्भवन्ति (Cf. In all animal movement, the muscles of the moving parts become shortened and thick) । स एव समानो भूत्वा कायाग्नेः प्रज्वलनानुकूलव्यापारं करोति (The same in different form under the name ‘Samana’ causes heat and digestion and distributes heat etc., through the food contents to all parts of the body) ।
शरीरे वायोः इतरकार्याणि (Other functions of Air in the body) यथा - नागः - हिक्कारः (It causes Hiccough under the name ‘Naga’ entrance vocal card) । कूर्मः निमेषोन्मेषकारकः (‘Kurma’ air does the twinkling function of the eye) । क्षुतं करोति कृकरः (Causes sneezing under the name ‘Krukara’) देवदत्तो विजृम्भणम् (Yawning is produced by air known as ‘Devadatta’) धनञ्जयः स्थौल्यं करोति मृतं चापि न मुञ्चति (Dhananjaya form of air does not leave even the dead body and makes it bulging and swollen) इति मानसोल्लासे सुरेश्वराचार्यः तट्टीकाकारः रामतीर्थश्च । (अनेनैव ग्रन्थकर्त्रा स्वेनैव रचिते जीवसञ्जीविनीनाटके प्राणापानतत्वं सम्यक्प्रदिपादितम् ।
शरीरे अग्निः (Heat Energy)
शरीरे सर्वनाडीषु ऊष्मधातुः प्रवर्तत एव (Heat is pervading the whole body inside through arteries veins, and nerves) तथापि मूलाधारे - अस्थिकूटान्तराले - नाभीमण्डले - हृदि - ललाटे - नेत्रादीन्द्रियेषु - विशेषेण तस्योपलब्धिः (Fire in the stomach, digestive faculty, gastric - fluid, bile, perspiration, light in the eye, heat in the anus, forehead etc, are all the effects of heat).
आयुर्वेदे प्राणादिविचारः
प्राणादिपञ्चके प्राणवायुः देहचलनकर्म विधत्ते । स पवनः अविकृतस्सन् पादाभ्यां गगागतत्वं च कर्म निमेषोन्मेषादिकं च आपादमस्तकं कर्म कुर्वन् चलनात्मकं कर्म कुरुते । अपानवायोश्च प्रयोजनमस्ति - मेढ्रगुदप्रदेशेषु स्थितस्सन् स्वयमविकृतसन् तथा विक्रियते । व्यानानिलकार्यं च पाचकपित्तेन स्वयमपि पञ्चधा भूत्वा पाचकपित्तमपि पञ्चधाकुर्वन् अन्नं गृह्णाति पचति विवेशयति सारकिट्टतया भुक्तान्नं विभज्य मुञ्चति आशयप्रवेशं करोति । उदानवायोश्च प्रयोजनम् - नासादिपर्यन्तं सञ्चरन् वाक्प्रवृत्तिं करोति । बलवर्णयोश्च वृद्धिं विधत्ते । समानवायोश्च प्रयोजनम् - जठरानिलस्य समीपे स्थितस्सन् भुक्तान्नरसं पक्वान्नं, कायं प्रवेशयन् प्रतिमुञ्चति ।
शरीरे अन्नपचनम्
(Digestion in the Body)
अन्नं पञ्चभूतोद्भूतषड्रसात्मकम् । षड्सस्तु स्वाद्वम्ल लवण तिक्त कटु (ऊषण) कषायात्मकाः । तेषुस्वादुरसः - शुक्लपोषकः । अम्लरसः - मज्जाप्रवर्धकः । लवणरसः अस्थिदृढकरः । तिक्तरसः मेदःप्रबर्धकः । (कटु) ऊषणरसः - मांसाधिक्यप्रदः । कषायरसः - असृक्‌धात्वाधिक्यप्रदः । इति शास्त्रान्तरोक्तमेव अत्रापि सूचितम् । एते षड्रसाः समरसाः कलारूपाः । अस्मिन् पाककार्ये पञ्चभूतानि परस्परोपकारकाणि । यथा - क्षितिः (Solid food) अब्भक्तकलाः पुष्णन्ति । आपोऽनलपोषिताः । अनलादनिलः । अनिलादाकाशः । अनन्तरं मनः ॥ यद्रसाज्जातोऽनलः (Heat) तद्रसं पचति ।
शरीरे आकाशः (Ether)
आकाशश्शरीरान्तरे अवकाशप्रदः (Space, for all the organs in the body and for their growth and for their functions, is due to the existence of ether.)

तृतीयो भागः PART III

पाञ्चभौतिकपश्वादिशरीरतत्त्वम्
(Differences in the Constitution of Animals)
सकलप्राणिनां शरीरं पाञ्चभौतिकमपि भूचरजलचरखेचरप्राणिषु शरीरभेदः भवत्येव । एतद्भेदस्य हेतुः तत्तद्भूताधिक्यमेव । यथा - भूगुणौ गुरुमन्दौ । स्निग्धहिमौ अपां गुणौ । श्लक्ष्णसान्द्रता - अग्नेः । मृदुगुरुस्थिराः मारुताः । सूक्ष्माः विशदाः वियतः इति पूर्वमेव दर्शितम् ।
शरीरोत्पत्तौ यस्य भूतस्य आधिक्यं (यत् तत्) तद्भूते गुणविशिष्टरसवद्द्रव्यादनप्रयुक्तम् । अतः पार्थिवावयवाधिक्यपञ्चभूतात्मकानि शरीराणी कानिचित् । जलावयवाधिक्यपञ्चभूतात्मकान्यन्यानि । वह्निभूतावयवाधिक्यपञ्चभूतात्मकानीतराणि । एवं वाय्वाकाशयोः निषयेऽपि । सर्वत्र तत्तद्भूतावयवाधिक्यपञ्चभूतात्मकमिति तादृशगुणविशिष्टपञ्चभूतात्मकद्रव्याधिक्यादनं पञ्चभूतावयवविकारहेतुकमिति आयुर्वेदे व्यवस्था कृता । तथा चोक्तं - यद्भूताधिकजाता धातवः तद्भूताधिकगुणाभिवर्धकाः इति नियमेन पार्थिवादिशरीरभेदाः ॥
पशूनां रूपलक्षणपोषणादिविवरणम्
(Zoology with Animal Husbandry)
अथ गौः (Cow)
सुरभिः सौरभेयी माहेयी गौः इति गोनामानि । पराशरमुनिः स्वशिष्याय बृहद्रथाय शार्ङ्गरवनाम्ने गोलक्षणं प्राह । मुनिप्रणीताच्छास्त्रात् वराहमिहिरेण यदुक्तं तद्भट्टोत्पलेन व्याख्यातम् ।
सास्नादिमत्त्वं गोर्लक्षणम् (The dewlap of a cow or an ox is indication of the Genus, cow) गोपदं स्त्रीपुरुषोभयवाचकम् - धेनुबलीवर्दार्थबोधकम् । तूपुराः शृङ्गहीना गावः । तूपुरा वार्षिकौ मासौ वर्त्वा चरन्ति इत्यनेन तूपुराणां वार्षिकौ मासौ वृद्धिकरौ मासाविति ज्ञायते । तत्र धेनुः बहूपकारिणी विशेषेण क्षीरप्रदत्वात् । तया भक्षिततृणादिपरिणामात्मकं क्षीरम् । तथा च श्रुतिः - अन्नं वै गौः - अदनीयानां क्षीरादीनां हेतुः (Cow supplies food in the form of milk etc.)
गवां वर्णादिभेदेन क्षीरगुणभेदः
कृष्णाः, पीताः, चित्राः, श्वेताः, बालवत्स विवत्साः बष्कयिण्यः (प्रतिवर्षत्रये एकैकगर्भः वासां ताः) पिण्याकाद्यशनाः इति गोः वर्णादिभेदेन तत्क्षीरगुणविशेषाः - इति वैद्यशास्त्रोक्तिः । एतासु कृष्णगव्याः दोहनेन लब्धं क्षीरं श्रेष्ठमित्याहुः । आरण्यानां च सर्वेषां मृगाणां महिषीं विना क्षीरमपेयम् । क्षीरप्रदेषु गवादिषु या नितान्तग्रन्थिस्तनी यमलापत्या वा गर्भिणी वा अथवा एकवेलामन्तरीकृत्य या दुह्यते सा स्यन्दिनीत्युच्यते । सकृद्दोह्या गौः (न पुनः पुनः) सर्वेभ्यः कार्येभ्यः पर्याप्तं क्षीरं दुग्धे । क्षीरं च आयुरभिवर्धकम् । तथा चोक्तम् - जरायुजानां सत्वानां जन्मप्रभृति पार्थिव । सात्मीभूतं पयस्तस्मात्पयस्तु श्रेष्ठमुच्यते इति । तस्य पयसः अष्टा योनयः - गौः, करेणुः, हयी, खरी, महिषी, करभी, छागी अविः । क्षीरस्य परिणामः दधि । दधि मांसादिपोषकद्रव्यम् । दध्नः नवनीतम् । ततो घृतम् । घृतं धातुषु स्नेहगुणापादकम् । वृद्धिवर्धकं च । आयुर्वै घृतम् इति श्रुतिः । तथैवोक्तमन्यत्र । घृतेन वर्धते बुद्धिः क्षीरेणायुष्यवर्धनम् - इति । दध्नो रूपान्तरमेव तक्रम् । तक्रपानं वैद्यशास्त्रेषु सुविहितम् । यथा - तक्रपानं सदा कार्यं बलवर्णाऽग्निशुद्धये । स्रोतस्सु तक्रशुद्धेषु सम्यक्चरति तद्रसः । तेन पुष्टिस्तथा तुष्टिः बलं वर्णश्च जायते इति । अत एवोक्तम् - क्षीरिण्यस्सन्तु गावः इति । गोदोहनविचारः श्रुतिषु बहुधा प्रपञ्चितः । यथा - यां वै त्रिरेकस्याह्ने उपसीदंति (दुहन्ति) (द्वितीय- तृतीयाभ्यां) दह्वं वै (अल्पमेव वै) सापराभ्यां दोहाभ्यां दुहे (तै. सं. कां. ७, प्र. ५, अ. ३) - सकृद्दोह्या गौः न पुनः पुनर्दोह्या । सर्वेभ्यः कार्येभ्यः क्षीरं दुग्धे । गोक्षीरं, गोदधि, गोघृतं, गोमयं, गोमूत्रमिति पञ्चगव्यानि परिशुद्धिकराणीति मन्यन्ते आर्याः । गोमयगोमूत्रप्रयोजनं सस्यानां दोहदविषये कृषीबलैस्सम्यग्विदितम् । गोचर्मगोमांसगोरोचनादिकं बहुप्रयोजनकरं जनानाम् । अतः गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश इत्युक्तम् ॥
वेहत् गर्भनाशिनी पशुः । सुरभिसम्बन्धादियं सौरभेयी । हीनसम्बन्धात् हेया । पशूनां पतिः रुद्रः - वायुरूपप्रत्यक्षदेवः । तस्मात्तं गोरक्षणविषये श्रुतिरेवं प्रार्थयते - (१) वात उस्रा अभिवातु = वायुः गाः अभिमुखेन सेवताम् (May fresh air enliven cows - which stands for cattle in general) । (२) गाः ऊर्जस्वतीः ओषधीरारिशन्तां गावः रसवन्ति तृणादीन्याश्वादयन्तु (May cattle feed on nourishing food, viz. green grass etc.) (३) पीवस्वतीः जीवधन्याः पिबन्तु - स्थौल्यवत्यः (अकृशाः) जीववत्साः स्वादूदकं पिबन्तु । याभिर्जीवधन्या भवन्ति ताः अपः पिबन्तु (May cows etc., become fatty and well developed and bear living calves, and for that, they may drink sweet and pure water that gives life and energy) । (४) अवसाय पद्वेत रुद्र मृड - हे रुद्र ! (वायो !) अविव्याय (अबाध) सञ्जातगमनसामर्थ्याय गाः सुखय (May wind and air enable cattle to roam about without any hindrance.)
गोस्वरूपम्
(अत्र गोशब्दः धेनुवृषभयोस्सामान्यवाचकः)
वैडूर्यमल्लिकाबुद्बुदेक्षणाः । शुक्लराजिपरिक्षिप्ललोचनाः महाकृष्णातारकाः प्रशस्ता इति शालिहोत्रः । मृदुसंहतताम्रोष्ठाः तनुजिह्वाः तनुस्फिजः वैडूर्यमधुवर्णलोचनाः रक्तस्निग्धनयनाः रक्तकनीनिकाः सिंहस्कन्धाः महोरस्काः दृढपृष्ठाः उच्छ्रितककुदाः प्रलम्बलाङ्गूलाः प्रलम्बस्थूलवालधराः पुरस्तादुन्नताः पुष्ठतो नीचाः सुसमाहिताः वृत्ताङ्गाः स्थूलगात्राः विस्तीर्णजघनाः स्पष्टताम्रतनुश्लक्ष्णविरलदृढशफाः समास्फुरितपार्ष्णयः वृत्तस्थूलोद्धतग्रीवाः एते भारसहाः धुरि याने च प्रशस्ताः । दक्षिणपार्श्वे दक्षिणावर्तैः वामपार्श्वे वामावर्तैश्च युक्ताः विस्तीर्णवक्षोजघनाः स्निग्धपिङ्गेक्षणाः श्वेतताम्रशृङ्गाः महानसाः ताः पद्मकाख्याः गोसहस्रप्रवर्धनाः भारे याने च पूजिता इति गोसामान्यस्वरूपमाह पराशरः । एवं शुभलक्षणयुताः शुभदा भवन्ति ।
गोः अशुभलक्षणानि
सास्राविलरूक्षाक्ष्यः, मूषकनयनाः, प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः दशसप्तचतुर्दत्यः प्रलम्बमुण्डाननाः विनतपृष्ठयह् ह्वस्वस्थूलग्रीवाः यवमध्याः दारितखुराश्च अशुभदा इति पराशरः वराहमिहिरश्च ॥
गवां वर्णाः
काश्चित् शुक्लवर्णविन्दुचिताः चित्रवर्णाः । काश्चित् लोहितरोमाणः - लवणवर्णाः - शुक्लाः, श्यामाः, अरुणललामाः नानावर्णः - श्यामललामाः, धूम्रललामाः, शितबाहवः, शितरन्ध्राः, शुद्धपादाः, मणिवालाः, शुक्लाशुक्लवालाः, शितपदाः, शितककुदः, कृष्णोदराः, श्वेतललामाः, नकुलवर्णाः, अधिवेष्टितकर्णाः कर्णोपरिप्ररूढकर्णाः, गौरललामाः, कृष्णललामाः, रोहिता इति अनेकरूपाः । प्रत्यग्रप्रसवा गावः धेनवः ॥
गोप्रभेदाः
गावस्सप्तविधाः - (१) वेतनोपग्राहिकाः = वेतनदानेन भृत्यमुखात्पालिताः । (२) करप्रतिकराः = क्षीरादिप्रतिग्रहाय पालकायत्तं नीताः । (३) भग्नोत्सृष्टकाः = अनुपयोगात् परित्यक्ताः । प्रसूत्याम् - वत्सधेनुर्मम, वत्सवृषभस्तव इति नियमेन स्वामित्वमपरित्यज्य केवलं पालनार्थमन्यायत्तं कृताः । (५) व्रजपर्यग्राः - विवीतेषु (गोचरेष्विति यावत् आकृष्य भूमिषु धासार्थं विसृष्टभूमिषु समवेताः । (६) नष्टाः - कुत्रचित्परिधाविताः । (७) विनष्टाः - प्रतिग्रहणा - शक्याः इत्यर्थशास्त्रे कौटिल्यः । गवामायुःपरिमितिरेवं दर्शिता - शतायुं गामकरिष्यम् (ऐ. ब्रा. अ. ३९. खं. ७) । एतत्प्रायः कृतयुगविषयकं भवेत् । गोजतेः मूलभूत देवलोकस्थिता सर्वेष्टप्रदा कामधेनुरित्यार्याणां श्रद्धा ।
गवादिपशूनामन्तरावयवसंज्ञा
पुरीततम् (उदरम्) क्रोडः प्लीहा, क्लोमा, प्लाशी, पाजस्यम्, हृदयम् (बलस्य स्थानम्) जत्रवः, ग्रीवायाः अधस्तात्, धमन्यः, हृदये स्थितं मांसम्, हृदयाकाशम्, हृदयस्थानमिति यावत् । पुरीततं (हृदयस्य परिवारणं मांसमेव) अन्त्राणि इत्येके । उदर्यम् - उदरे भवं मांसम् । प्लीहा - पिण्डितो मांसविशेषः । क्लोमा - आम्रफलसदृशं मांसम् । प्लाशिनः - पद्मवर्णाकाराणि मांसानि एतेषु सर्वाङ्गेषु सूक्ष्मावयवाः । पेशी (Tissue) बिन्दु (Nucleus) बिन्दूमात्रा - अथवा बिन्दुबीजम् (Cells and protoplasm are common in every animal.) गवादिभिः भक्षिततृणपल्लवादिरस एव घृतमांसतैलरूपः अन्नरस इति मन्तव्यम् ।
पशूनां प्राणापानत्वं सम्भवति यथा - प्राणो अङ्गे अङ्गे निदेध्यत् इति यजुषा पशूनां सर्वेष्ववयवेषु प्राणः तिष्ठतीति द्योत्यते । स प्राणः प्राणापानात्मकः (Respiration) । तथा चोक्तं - ऐन्द्रः प्राणः, ऐन्द्रोऽपानः अत्र ऐन्द्रशब्दार्थः शारीर आत्मा (Life energy) । प्रजानामिव पशूनां प्राणापानौ मित्रावरुणौ । तेन प्रजास्वेव प्रजातासु प्राणापानौ दधाति (All living beings inhale Mitra i.e., oxygen - acid - producer अमृतम् life - giving energy, which is pleasing, and exhale carbonic acid gas i.e., Varuna which enlivens the vegetable. If it is retained in the body it envelopes or pervades the whole system causing harm to the life. The root meaning of these two words viz. Mitra from मिदि स्नेहने and Varuna from वृञ् वरणे explains the above idea very clearly. This is the secret of respiration. (See तै. सं. १-३-१०-११-१२.)
गोमाहात्म्यम्
गौरतिपवित्रप्राणीति आर्यास्तां पूजयति । गोपालकान् प्रशंसन्ति । गोघ्नान् द्विषन्ति । तथा चोक्तं धन्वन्तरिणा - गोविप्रपालनं कार्यं राज्ञा गोशान्तिरेव च । गावः पवित्रा माङ्गल्याः गोषु लोकाः प्रतिष्ठिताः । शकृन्मूत्रं परं तासामलक्ष्मीनाशनं परम् । गवां कण्डूयनं वारि शृङ्गपृष्ठेषु मर्दनम् । गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च रोचनम् । तत्षडङ्गपदं चोक्तमस्वप्नादिनिवारणम् । अन्नमेव परं गावो देवानां हविरुत्तमम् । गावः प्रतिष्ठा भूतानां गावस्स्वस्त्यनं परम् ॥
गोरक्षणार्थमिन्द्रप्रार्थना
(Prayer for Rainfall)
यास्सरूपा विरूपा एकरूपाः । यासामग्निरिष्टया नामानि वेद । या अङ्गिरसस्तपसेह चक्रुः । ताभ्यः पर्जन्य महि शर्म यच्छ (तै. सं. ७-४-१७) । अस्यार्थः - याः गावः सरूपाः समानसंस्थानाः । विरूपाः विविधशुक्लादिवर्णाः, एकरूपाः - एकजात्यवच्छिन्नाः । यासां नमनप्रकारान् - साधनभावान् पयोदधिलक्षणान् अग्निः यागेन जानाति । याः अङ्गिरसः तपसा शोधितवन्तः ताभ्यः गोभ्यः हे पर्जन्य महत्सुखं प्रयच्छ । (This simply means that plenty of rainfall causes grass and crops to grow in abundance. Cattle (cows etc.) which feed on them supply plenty of milk, curd, ghee, which are very necessary for sacrifices in fire and for the food of men. This truth was found out by Angiras, a set of sages. So this prayer - may rainfall help and protect the cattle.)
तत्रैवान्या श्रुतिः - या देवेषु तनुवमैरान्त । यासां सोमो विश्वारूपाणि वेद । ता अस्माभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि - याः गावः देवेषु देवनिमित्तम्, तनुवम् आत्मशरीरम्, ऐरयन्त गमितवत्यः (देवयागार्थमेव सन्तीत्यर्थः) यासां रूपाणि दध्यादिलक्षणानि विश्वान्यपि सोमो वेद जानाति, ताः पयसा सर्वाः प्रजाः पिन्वमानाः - तर्पयन्ति ताः हे इन्द्र प्रजावतीः - शोभनपुत्रपौत्रादिमतीः, गोष्ठे = व्रजे अस्मभ्यम् अस्मदर्थम्, रिरीहि = समागमय (It means that the moon influences the cattle, to bear calves etc. and to produce plenty of milk etc. Therefore they should not be troubled by rain. So the prayer - may they come safe to the cow - stall and settle there.) । वयं प्रजया संसरेम वयं तासां गवां प्रजया पुत्रपौत्रादिकया संसिसीमहि । गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते - इति चाणक्यः (Cattle shunning the company of other animals always keep the company of their own breed.)
वृषभः (Ox)
श्रुतिः - देवानामिदमस्तु हव्यम् । देवानामेव उपनाह आसीत् इन्द्रियाणाम् एष गौः (वृषभः) उपकारकोऽस्तु । अतः अस्य भद्र इति नाम (The ox is very useful for the satisfaction of one’s desires) । कथम् ? (How?) अपां गर्भः ओषधीषु न्यक्तः - आदित्यरश्मिषु गर्भीभूतः अपां राशिः ओषधिनिमित्तं वृष्ट्या न्यक्पातितः (Rain enshrined in the sun’s rays falls on the earth to nourish various crops.) सोमस्य द्रप्समवृणित पूषा सोमस्य अन्नस्य पृथिव्यां रसं सविता रश्मिभिः आदत्तवान् (Water on earth evaporates and is absorbed by the sun’s rays.) बृहन्नद्रिरभव त्तदेषाम् तदा महामेघो भवति (The vapour thus collected in the atmosphere becomes great clouds) । पिता वत्सानां पतिरध्नियानामथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतमस्य रेतः अर्भकाणां जनकः गवां पतिः पाता जनयिता रमयिता च महोक्षाणां महाशब्दानां पतिरयं वृषभः । अतः गौः उक्षा । अस्य रेतसः परिणामः गर्भस्थः वत्सः । जरायु तदाधारम् । दोहनस्थं दुग्धमूधस्थं पीयूषम् । आमिक्षा आतञ्जनवत् (A mixture of milk boiled and whey) मस्तु नवनीतम् । घृतं तदेवाग्निपाकवत् उपलक्षणात् दधितक्रादीन्यपि । एवं महाभागोऽयं देवांस्तर्पयति (Ox is the progenitor of calves, enjoyer of cows, and the best among bulls. Its seed or sperm is responsible for producing a calf, the outer skin of the embryo, milk, curd, butter, ghee etc. which are very useful. Therefore the ox is a very useful animal for men and gods.) (तै. सं. ३. ३. ९.)
वृषभभेदाः
बलीवर्दः - वृषभः - ऋषभः - वृषः - अनड्वान् - सौरभेयः - गौः उक्षा - भद्रः इति वृषभनामानि । तेषु वृषभाः सेचनसमर्थाः । तेषु वत्साः - वत्सतराः - दभ्याः - वशिनः - वृषाः - उक्षाणः - युगवाहाः शकटवाहाः (अत एव अनड्वाहः) सूना इति बहुभेदा वर्तन्ते । वृषभाः - अनोवहाः - प्रासङ्गस्य (Yoke for carts) वोढारः हलस्य वोढारः । आरण्यास्तुदीर्घशृङ्गाः सेक्तारः । वृषभाः कृष्यादिकार्येष्वतिप्रयोजनकराः । ते गोजातिप्रविष्टाः ।
वहति ह वै वह्निर्धुरो यासु युज्यते इति श्रुत्या अश्वो वा बलीवर्दो वा शकटसम्बन्धिनीषु यासु धूर्षु युज्यते बध्यते वा ता धुरः वहंत्येवेत्यर्थेन आर्याः बहुकालात्प्रागेव अश्वबलीवर्दानां प्रयोजनं शकटादिनिर्माणमित्यादिकमजानन्निति ज्ञायते ।
बलीवर्दानां वर्णाः
केचित्सितिककुद्वृषभाः । केचित् सितिपादाः । कृष्णोदराः, श्वेतललामाः, नकुलवर्णाः, आवेष्टितकर्णाः, कर्णोपरिप्ररूढकर्णाः, गौरललामाः, कृष्णललामाः, रोहिताः, रोहितललामाः, गोरोचनवर्नाः, नभोरूपाः । बलीवर्दः, पिङ्गलः, पुङ्गवः, पृश्निसक्थः, श्वेतजानुः, श्वेतोरुः, श्वेतकटिप्रदेशो वेति वर्णितं श्रुतौ ।
गोवृषभयोस्स्वाभाविकसम्बन्धः
(Crossing)
निह्वियन्ते यत वृषभं वाशितायै - इति श्रुत्या गर्भग्रहणमिच्छन्ती धेनुः वाशिता । तदर्थमृषभम् - पुङ्गवमाह्वयति । इत्यर्थेन गोवृषभयोस्स्वाभाविकसम्बन्धो विदितो भवति । वृषभस्य सेक्तृत्वादैन्द्रत्वम् । ईदृशतत्त्ववित् विश्वामित्रः । स पशुसूक्तं चकारेति श्रुतिः । यथा - तदृषभवत् पशुमद्भवति पशूनामवरुन्ध्यै तत्सूक्तं वृषभशब्दोपेतम् । वृषभस्य च पशुत्वात् सूक्तं पशुमद्भवति । अतः पशूनां प्राप्त्यै संपद्यते । (ऐ. ब्रा.)
यथा ऋषभो वासिता । यथा वा गौः प्रज्ञातगोष्ठम् यथा दीर्घाऽध्वनि दूरमार्गे गच्छन् पुरुषः उपविमोकं रथशकटादौ योजितम् अश्वबलीवर्दादिकं तत्र तत्र परिमुच्य यायात्, शान्तिपरिहारेण शनैर्गच्छेत् (एवं कृते मार्गे वहनश्रमः विमोकेन निवर्तते), एवं वरुणा ऋषिणापि महासूत्रोक्तं पशुतत्त्वं दृष्टम् । तथा च श्रुतिः - ऐन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवः इन्द्रदेवताके कस्मिन् सूक्ते पशुप्राप्त्यर्थं द्रुरोहणं रोहेत् शंसेत् । इन्द्रस्य वृष्टिद्वारा पशुपोषकत्वात् पशव एव इन्द्राः । पशवो विवाहाः (ऐ. ब्रा. अ. ३३. ख. १) पशवः गवाश्वादयः, विवाहाः, विशेषेण निर्वाहकाः ॥
पुङ्गवशब्दः भट्टभास्करेण एवं निरूपितः प्रानिनः बाधमानश्चरन् यो मृगः वर्तते स पुङ्गवः ग्राम्य इति । हिंस्रत्वात्तस्य न ग्राम्यत्वं युज्यते । ग्रामचरत्वादारण्यत्वं न घटते इति च केचित् ॥
वृषभाणां शुभाशुभलक्षणानि
मार्जाराक्षाः, मार्जारकरटाः, कृष्णोष्ठतालुजिह्वाः, त्रसनाः (त्रासयुक्ताः), यूथघातकाः, श्यामाकपुष्पचिताङ्गाः, भस्मारुणसन्निभाः, तथा स्थूलातिलम्बवृषणाः, यवमध्याः, दारितखुराः, विनतपृष्ठाः शिराततक्रोडाः स्थूलशिराचितगण्डाः, त्रिस्थानमेहाः स्थूलशकृन्मणिशृङ्गाः, सितोदराः, कृष्णसारवर्णाश्च अशुभदाः । तनुह्रस्वोचितकर्णाः, सुकुक्षयः, स्पष्टजङ्घाः, आताम्रसंहतखुराः, व्यूढोरस्काः, बृहत्ककुदाः, स्निग्धश्लक्ष्णतनुत्वग्रोमाणः, ताम्रतनुशृङ्गाः, तनुभूस्पृग्वालधयः, रक्तविलोचनाः, महोच्छ्वासाः सिंहस्कन्धाः, तन्वल्पकम्बलाः, शुभदा भवन्ति ॥
वृषभलक्षणपरीक्षा
शुक्लराजिपरिक्षिप्ते रक्तान्तलोचने शुभे । मल्लिकाक्षो महाधन्यः स महाकृष्णतारकः - इति अश्वपरीक्षायां शालिहोत्रेण यदुक्तं तदेव वैडूर्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्माणः पार्श्वभि (पर्शुकाभिः) रस्फुटिताभिः युक्ताः वृषभाः शस्ताः इति वराहमिहिरेणोक्तम् । एते सर्वे भारवहाः । अन्यत्र - यः कमलोत्पललाक्षामः, सोभनपुच्छधरः, जवे वाजितुल्यः (शिघ्रगतिरित्यर्थः) लम्बमानवृषणैर्युक्तः, मेषोदरः, सः भारार्धसहो भवति । उक्षा = उलुपभोजी (उलुपं - बल्बजतृणादिकं) सितचरणयुक्तः सितवर्णः, पिङ्गलाक्षः, ताम्रविषाणेक्षणः, महावक्त्रः यो वृषभः स हंस इति कथ्यते । स यूथस्य विवर्धकः । शुभफलश्च भवति । यस्य पुच्छवालाः भूस्पृशो भवन्ति, यः लोहित शृङ्गः, रक्तदृष्टिः, ककुद्मान्, सितरक्तपीतव्यामिश्रवर्णः सः स्वामिनं शीघ्रमेव श्रीपतिं करोति, वत्सानां समृध्द्या स्वामी धनवान् भवति । वृषभस्य जङ्घालक्षणमेवमुक्तम् - वामावर्तैर्वामे दक्षिणावर्तैर्दक्षिणपार्श्वे च एणकभाभिः युक्तः शुभदः ॥ एवं वृषभलक्षणसम्पत्तिं विश्वामित्रपराशरशालिहोत्रवरुप्रभृतयो मुनिवराः विचारयन्ति स्म ।
आहारप्रमाणम्
बलीवर्दानामश्वसमगतिवाहिनां यवसस्यार्धभारः तृणस्य द्विगुणं तुलाघाणपिण्डाकस्य दशाढकम् कणकुण्डस्य पञ्चपलिकं मुखलवणं तैलकुडुम्बो नस्यं प्रस्थः पानं मांसतुला दध्नश्चाढकं यवद्रोणं माषाणां पुलाकः क्षीरद्रोणम् अर्धाढकं वा सुरायाः
स्नेहप्रस्थः क्षारदशपलं शृङ्गिवेरपलं च प्रतिपानम् । अश्वतरगोखराणां पादोनम् । महिषोष्ट्राणां द्विगुणम् । कर्मकरबलीवर्दानां पायनार्थं च । धेनूनां कर्म कालतः फलतश्च विधानम् । सर्वेषां तृणोदकप्राकाम्यम् । बालवृद्धव्याधिनां गोपालकाः प्रतिकुर्युः(Veterinary treatment used to be done by the cowherds.) । यदि कालमरणमापद्येत पशूनां तदा गोमहिषयोश्चर्म विश्लिष्य तदुपरि चिह्नं कारयेत् । तथा वस्ति (Fat) पित्तम् (Bile) स्नायुः (Sinew) दन्ताः (Teeth) खुरः (Hoofs) शृङ्गम् (Horns) अस्थि चैतानि (Bones) हरेत् ॥
हलकर्षणविधिः
हलम् अष्टगवं धर्म्यं षड्गवं मध्यमम् चतुर्गवं नृशंसानां द्विगवं वृषधातिनः - इति पराशरमतम् ।
त्रस्नूनां गवां कण्ठे घण्टातूर्यबन्धनं सर्पव्यालत्रासनार्थम् । गोचरानुपातज्ञानार्थं च ॥
अथ अश्वः (Horses and mares)
अश्वशब्दनिरुक्तिः श्रुतौ यथा - अथ योऽसौ तपतीम् एषोऽश्वः श्वेतोरूपं कृत्वा अश्वाभिधान्यपिहितेनात्मना प्रतिचक्रमे (ऐ. ब्रा. अ. ३०, खं. ९) । अश्वः अश्नुते अध्वानं व्याप्नोति - महादनो वा भवति । (अश् क्वन् उणादि २. १४९) इति व्याकरणे । तान् ह स्मान्वेवाऽगच्छन्ति समेव सृज्यन्ते । तानश्वा भूत्वा पद्भिरपाघ्नत । यदश्वा भूत्वा पद्भिरपाघ्नत तदश्वानामश्वत्वम् (ऐ. ब्रा. अ. २१. खं. १.) अस्यार्थः - देवशापात्कुरूपं प्राप्ताः असुराः पुनरपि तान् देवान् अनु - पश्चात् आगच्छन्त्येव न तु परित्यजन्ति । आगत्य च दैवैस्संसृजन्त एव न तु दूरे तिष्ठन्ति । तदानीं देवाः सर्वेप्यश्वरूपधारिणो भूत्वा पृष्ठत आगतानसुरानपाघ्नत - स्वकीयपादताडनैर्हतवन्तः । यस्मादेवमश्वा भूत्वा पद्भिः हतवन्तः तस्माल्लोकेऽपि पादताडनेन कुशलानां चतुष्पदामश्वनाम सम्पन्नम् । इति अश्वानां पादताडनगुणः स्वाभाविक इति दर्शयितुमियमाख्यायिका । (This Vedic episode furnishes a reason for the chracteristic of a horse to kick with its hind legs.) शीघ्रगमनादयं तुरगः - तुरङ्गमः । रक्षणात् घोटकः । वहनात् वाहः । अर्हणात् अर्हः । सिन्धुदेशोत्पन्नत्वात् सैन्धवः । बलेन वाजी । गन्धेन गन्धर्वः । युगवहेन सप्तिरित्यस्य गुणकर्मनिमित्तकनामान्तराणि ।
अश्वानां भेदाः
अश्वाश्च सप्तविधाः - (१) पण्यागारिकाः क्रय्याः (Fit for sale), (२) क्रयोपगताः - विक्रीताः (Sold), (३) आहवलब्धाः - युद्धवशात्प्राप्ताः (Captured in wars), (४) आजाताः - गृहे जनिताः (Born in house - stables). (५) साहाय्यकागताः - सहायभूताः परकीयाः (Hired or borrowed), (६) पणस्थिताः - पणत्वेन स्थापिताः परकीयाः (Kept as pawn or mortgaged), (७) यावत्कालिकाः दमनार्थं कञ्चित्कालं मन्दुरायां स्थापिताः परकीयाः (Received for training) । तेषां कुलवयोवर्णचिह्नवर्गागमान् अश्वपालको निर्णयेत् (The groom or the master of the horse should know the breed, age, colour, marks, class, the country where they come from etc. of the horse.)
अश्वानामाहारः
(Food or Fodder)
अश्वास्त्रिविधाः - बाडबाः (Mares), वृषाः (Horses), किशोराः (Colts and fillies) । बाडबायाः - प्रजातायाः त्रिरात्रं घृतप्रस्थपानम् (Ghee for three days) अत ऊर्ध्वं सक्तुपस्थः (Thereafter flour) । स्नेहभैषज्यप्रतिपानं दशरात्रम् (Oil with medicine till ten days). ततः पुलाको यवसम् आर्तवश्चाहारः (Afterwards boiled rice green grass, and things available at season may be given as food) । दशरात्रानन्तरं किशोरस्य घृतचतुर्भागः सक्तुकुडबः । आषण्मासात् क्षीरप्रस्थाहारः । ततः परं मासोत्तरमर्धवृद्धिः । यवप्रस्थः आत्रिवर्षात् । द्रोणः आचतुर्वर्षात् अत ऊर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्वप्रमाणः ।
उत्तमाश्वस्य (For the best class of horses.) द्विद्रोणं शालिव्रीहियवप्रियङ्गूणाम्, अर्धशुष्कम् (जले सिक्तम्) अर्धसिद्धम् (पक्वम्) मुद्रमाषाणां वा पुलाकाः स्नेहप्रस्थश्च पञ्चपलं लवणम्, पञ्चशतपलिकं मांसम्, रसस्य (Broth or water) आढकम् । द्विगुणं वा दघ्नः । पिण्डक्लेदनार्थं क्षारः पञ्चपलिकः सुरायाः प्रस्थः । पयसो वा द्विगुणः प्रतिपानम्, दीर्घपथभारक्लान्तानां च स्वादनार्थं स्नेहप्रस्थोऽनुवासनं - वस्तिशोधनम् (Treatment by enima) । कुडुम्बो नस्यकर्मणः - नासिकायै हितं यत् । यवस्यार्धभारः तृणस्य द्विगुणः । षडरत्निः परिक्षेपः (Bed) पुञ्चलिग्राहो वा तृणस्य परिष्वङ्गः ग्राह्यः । पादावरमेतन्मध्यावरयोः (One - fourth less in the case of second and third class horses) मध्यमो वृषाश्वः रथ्यश्चेदुत्तमसमः (The second class horse is equal to the first class one if it is used for drawing carriages) तदा तथैव अवरः मध्यमसमः । पादहीनं बडबानाम् अतोऽर्धं किशोराणाम् (One - half of the above quantity for the food of colts and fillies) इति कौटिल्यः (So says Kautilya in his Arthasastra or work on the politics) । इति संग्रहेण अश्वविषयक विचारः कृतः । विशेषस्तु शास्त्रेषु च यथा -
अश्वानां जातिनिर्णयः
(Classification)
प्रयोग्यानामुत्तमाः काम्बोजिकाः (Breed of Kanouj) सैन्धवाः (of Sindh) । आरट्टकाः (of north - west of Punjab as Rawalpindi) वनायुजाः (and of Vanayuja - country of that name or Persia) ।
मध्यमाश्वाः बाह्लीकाः (Of Bactria or Balkh) पापेयकाः - सौवीरकाः तैतलाश्च (May be Kathiwad) शेषाः प्रत्यवराः (The rest are of low breed) ॥
अश्वानाम् उत्पत्तिक्रमः
अमृताद्बाष्पतो वह्नेः वेदेभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिस्सप्तधा परिकीर्तिता ॥ अन्यो विभागः - उत्तमाश्वाः ताजकाः खुशाणाः उत्तराः । मध्यमाः - गोजिकाणाः केकणाः, प्रौढाहाराः । कनीयांसः, गोह्वाराः, शावराः, सिन्धुपाशाः । नीचनीचाः अन्यदेशस्थाः । अन्यो विभागो यथा - (१) जलजाः, विवेकिनः सघृणाः । (२) वह्निजाताः, तेजस्विनः, बलिनः । (३) समीरप्रभवाः, दुष्टभावाः (उपादानेन वश्याः) समवाहिनः । (४) यूकमृगजाः, निस्सत्वकातराः (दण्डेन ताडिताः) ॥
अश्वानां चिह्नानि ॥
अश्वः - खुरचतुष्कः, श्यामलग्रन्थिपादः, कुक्कुटस्कन्धबन्धः, किटिकठिणोरुः, विकसितनेत्रः, गम्भीरघोषः, त्वरितगामी, अत एव वायुवेगः, विपुलकायः, सवेगमूत्रधारः, विजयकरः, सम्पत्करः इति शार्ङ्गधरः ।
देशभेदादश्वभेदाः
ताजकाः, केक्कणाः, पृष्ठजाः, तुररुजाः, कीराः, भूरुष्ठाः,भाण्डजाः, पार्वताः, सैन्धवाः, मध्याः, सारस्वताः, स्तम्बलाः, कुशाः, जाटदेशोद्भवाः - एते उत्तमाश्वाः । प्राग्दक्षिणदेशोद्भवास्त्ववराः ॥
अश्ववर्णः
सितः, पिकः, रक्तः, पीतः, सारङ्गः, पिशङ्गः, नीलः, कृष्णः । तेषु श्वेतश्श्रेष्ठः । अश्ववर्णानां श्रौतसङ्केतनामानि अञ्ज्येतः (White and blue), कृष्णैतः (Blue and white), रोहितैतः (Red and white), अरुणैतः (Reddish and white), कृष्णः, श्वेतः, पिङ्गः (गोरोचनवर्णः), सारङ्गः (चातकवर्णः), गौरः, अरुणः, बभ्रुः (कपिलपाण्डुः), रोहितः, नकुलः, शोणः, (पीतरक्तः), श्यावः, (पीतकृष्णः), श्यामः (नीलः), पाकलः (अव्यक्तकृष्णः), सुरूपः शबलः (व्यामिश्रवर्णः), कमलः, पृश्निः, चित्रवर्णः । अन्यत्र - एके शुक्लवर्णचिताः, त्रिवर्णाः । एके लोहितरोमाणः । अन्ये लवणावर्णाः, शुक्लाः, श्यामाः, अरुणललामाः, ननावर्णाः, श्यामललामाः, धूम्रललामाः, पीतिवाहाः, सितिरन्ध्राः, शुद्धवाहाः, मणिवालाः, शुक्लवाहाः इति ।
अश्वानां शरीरप्रदेशाः
जिह्वा, (तदधः) सूना, (उपरि) तालु, (तदन्ते) दन्ताः । चिबुकः, अधरोष्ठः, हनुः, सृक्कद्वयम्, उत्तरोष्ठः, प्रोथः, नासाच्छिद्रे, घोणा, गण्डौ, क्षीरके, अपाङ्गम्, कनीनिका, नेत्रमण्डलम्, अक्षिकूटः, भ्रुवौ, ललाटः, केशान्तः, श्रुवः, शिरः, कर्णौ, शष्कुली, शङ्खम्, शङ्खकर्णान्तरे, कटाक्षः, मर्म, निगालः, गलः, कण्ठः, वक्षः, क्रोडः, हृदयम्, कुक्षिः, ग्रीवा, (तस्योपरि) केसरः, वाहः, जत्रु, काकसः, ककुदः, असंके, वाहू, किणः, जानु, मन्दिरम्, कराचि, (जानुनोऽग्रिमभागः) जङ्घाः, एषिकः, परिहस्तः, कूर्चः, किणः, कुष्टिकः, खुरसन्धिः, खुरः, पर्ष्णिः, शङ्खः, मण्डूकी (खुरस्याधस्तलम्), क्षीरिका, कुक्षिः, रन्ध्रम्, उपरन्ध्रम्, जठरः, नाभिः, स्फिजौ (पुटौ) मांसलम्, पुच्छमूलम्, वायुः, सेवनी, मुष्कौ, कटिसंधिः, ऊरुसन्धिः, सक्थिनी, ऊरुप्रान्तः, स्थुरम्, मन्दिरम्, किणः, कला, कूर्चम्, पुष्टिकः, मण्डूकम् (खुरान्तसङ्गम्) ॥ इति ॥
अन्यत्र पशुविशसनेन निश्चिताः अश्वानाम् आन्तरावयवनिर्देशाः श्रौतोक्ताः यथा -
दंष्ट्रे उन्नते दन्ते (Cutting teeth) जम्भाः पार्श्वदन्ताः (Grinding teeth), खाददन्तः (येन खाद्यते - Canine teeth), संसूदः, सन्ततक्षरणः, नासिकादिः, लाला (Saliva) जाम्बीलं - भक्षिततृणादि यत्र निधीयते । बसनः - दन्तमूलमांसादीनि । शर्कराः - तत्सदृशान्यस्थीनि । अवकाः - शैवालसदृशानि, अस्थिविशेषाणि वा । उत्सादः - उच्चप्रदेशः । जिह्वा - रसना । अवक्रन्दः - अन्तःकायिकः । तालु - शब्दाभिव्यञ्जकस्थानम् । जिह्वाग्रम् । हन्वौ । आस्यम् । श्मश्रूणी । अधरोष्ठम् । उत्तरोष्ठम् । ओष्ठयोर्मध्यम् । प्रकाशः - आभ्यन्तरं प्रकाशस्थानम् । कर्णशब्दः । चक्षुषी । कनीनिके - अक्षिस्थे कृष्णमण्डले । मस्तिष्कं - शिरोमांसम् । मज्जा । शफाः अच्छलाः, शफलमूलमांसानि । कुष्टिका - प्रकोष्ठजङ्घाभ्योर्मध्यसन्धी । कुहः - हस्तयोर्मध्यसन्धिः । प्रचालौ - पादयोरुपरिप्रदेशौ । उपपक्षौ - पार्श्वे । असौं । शीर्ष्णं - शिरः । मन्याः - ग्रीवारेखाः । प्राणाः - चक्षुरादयः । प्रकाशः - वाह्यं रूपम् । त्वक् - त्वगिन्द्रियादीनि । पराकाशः - आभ्यन्तररूपम् । केशाः । स्वपः । कण्ठावलम्बः । शकुनिसादः । यत्र शकुनाः शक्ताः धीराः सीदन्ति पृष्ठम् । उष्णिहाः - शिरोवेष्टासदृशाः केशनिवहाः । श्रोणी । शिखण्डं केशचूडम् । ऊरु । जानु । पुच्छम् । शेफम् । मुष्के । बीजे । पायू । प्रोत्रे - घोणास्थीनि । स्थूरौ - पादापरार्धमणी । कुष्ठौहस्तापरार्धमणी । क्रोडः - उदरम् । पाजस्यं - हृदयम् (पाजो - बलं तस्मै हितं - पाजस्यस्थानम्) जत्रवः - ग्रीवायाः अधस्ताद्धमन्यः । हृदयौवशं - मांसविशेषः । हृदये स्थितं मांसम्) हृदयस्थानमिति यावत् - तत्स्थानम्, यत्रोदेत्य शेते तदुवशम् अन्तस्थानविशेषात्मकं मांसविशेषः । पुरीतति - हृदयस्य परिवारणं मांसमेव । (अन्त्राणीत्येके) । पुरि - शरीरमध्ये तायत इति । उदयनमुदरे भवं मांसम् । प्लीहा - पिण्डितमांसविशेषः । क्लोमा - आम्रफलसदृशं मांसम् । प्लाशिनी - पद्मवर्णाकाराणि मांसानि । उदरम् - उदरस्थम् मांसम् । भस्म - दभ्यतृणादि अथवा जीर्णतृणादि । वनिष्ठं - गुदसदॄशं मांसम् । स्थूरगुदा - गुदमूलम् । पृष्ठयः - बाह्वोरुपरिष्ठान्यस्थीनि । पृष्ठम् - ग्रीवोपरिस्थितं वंशास्थि । (Madula oblangata) । कीकसा - ग्रीवाया आरभ्य वंशास्थितान्यस्थिगोळकानि (Vertebrae) ग्रीवाः तदवयवाः । अस्थीनि - तत्रत्यानि । स्वपावहः - वहनयोग्यप्रदेशः । (स्वपाः - शोभनकर्म । वहेनात्यन्तं स्वपाः) । स्कन्धः - स षोढा भिन्नः तत्र विचलत्‌स्कन्धः - अत्यन्तचञ्चलोऽवयवः । तदनन्तरभाविनः पञ्चान्ये । नन्दस्थु - प्रजननसुखम् । प्रत्यासौ - प्रास्यौ त्वचौ, प्रत्यस्यते - प्रक्षिप्यते याभ्यां प्रजननम् । शितिम्नी - शुक्रस्थाने द्रव्ये वा । प्रशासौ - अक्षिगोळके । वृक्ये - स्वल्पाम्रफलसदृशमांसे । मतस्ने - महासिरे । पीवः - रेतःप्रावरणचर्म । यूषापक्वमांसान्निस्सृतं जलम् । रसः । वसा - स्नेहविशेषः । यूषिका अक्षिमलम् । ह्नादुनिम् - हृदयस्थलम् । अश्रु - बाष्पम् । रूपम् । मुख्यं रूपम् । प्रतिरूपम् - मुखसदृशम् । चर्म । छरिः - आकारशोभा । सूक्ष्मचर्मपुटम् (Epithelium) । पक्षतयः पार्श्ववंक्त्त्रिणां द्वादशपक्षमूलानि (Joints of ribs) । पार्श्वं पर्शवः - पार्श्वपंक्तयः (Ribs) अनूवृत्ते - अनुवृत्तौ मांसविशेषौ । स्नावानः - सिराः (स्नावभ्योऽभितः) स्नावन्यौ - सर्वसिरानुग्रहिण्यौ सिराविशेषौ पार्श्वयोः । पित्तं हरिमाणम् (Bile) । यकन् - यकृत् - वर्तुलाकारमांसपिण्डम् (Liver) । पापवाताः - आमवालजाः क्षुद्रजन्तवः । शकन् - शकृत् (Excrement of an animal) Cf. शष्पान्यत्ति प्रकिरति शकृत्पिण्डिकानाम्रमात्रान् (उत्तररामचरित्रनाटके) - ४ - २७ । ऊबध्यम् उदरस्थं पुरीषम् । विशसनम् - शस्त्रादिलग्नं मांसम् (Which when cattered satisfies dogs etc.) अनेन शास्त्रादिद्वारा अश्वादिपशून् विशस्य तच्छरीरान्तस्थंद्रव्याणां स्वाभिविकस्थितिं प्रत्यक्षतो दृष्ट्वाबहुभिर्विशसनकुशलैः निश्चितः अनुभवो यः स एवात्र प्रतिपाद्यते इत्यसंशयं निश्चिन्वन्त्वाधुनिकवैज्ञानिकाः) । गन्धः रुधिरगन्धः (Which when smelt satisfies cirtain birds) । प्रशादं - भूमौ विशीर्णं मांसम् । (Which when grasped satisfies ants etc.) यथेदं सुविशदं पशुशरीरविन्यासपरीक्षा तथा अतिसङ्ग्रहेण मनुष्यशरीरविन्यासोक्तिरपि परीक्षासहा । (Note how precisely the details are given in the case of the dissection of a horse and compare how briefly the human organs are enumerated in the following statement.) । यथा - पुरुषस्य द्वादशाङ्गानि - द्वादशो वै पुरुषो द्वे सक्थ्यौ द्वौ बाहू आत्मा च शिरश्च चत्वार्यङ्गानि स्तनौ द्वादशौ (तै. सं. ७. ४. ११.) (Two hip joints, two arms, two hands, two legs, head, neck, thorax and abdomen.)
अश्वानां बाह्यावयवाः
बृहत्संहितायां अश्वलक्षणव्याख्याने अश्वस्य बाह्यावयवाः सविस्तरं निर्दिष्टाः । यथा - कण्ठे जिह्वा निबद्धा । गलनालं च निबद्धम् । जिह्वायाः अधस्तात्सूना । तस्योपरि तालु । हनुनिबद्धाः - पीठ्यः । तासामग्रजे दंष्ट्रे । ततो द्विजाः व्यञ्जनिनस्तेषामुपरि उत्तराः । अधस्तात्तद्वत् । द्विजदंष्ठ्राणां मध्ये तु चिबुकम् । दशनाच्छादनावोष्ठौ । तयोः पार्श्वे सृक्विणी । उत्तरोष्ठस्य ऊर्ध्वं प्रयाणं प्रोथं च । प्रोथपार्श्वे नासापुटौ । प्रोथाक्षिमध्यतः घोणा । नासावंशोद्भवौ गल्लौ । तथोपरि क्षीरिके । घोणाहन्वन्तरे गण्डौ । तयोर्मध्येऽश्रुपातनम् । तथोपरि नेत्रे । ततस्तयोः प्रच्छादनम् । आभ्यन्तरं सितं कृष्णं दृष्टिमण्डलं बाह्यतः कनीनिके । अन्तकोणे अपाङ्गौ च । वर्त्मोपरि पक्ष्माणि । अक्षिकूटे । तथोपरि भ्रुवौ । तथापेरिष्टाल्ललाटम् - भ्रूश्रुवान्तरम् । श्रुवं ललाटोपरि । ततः शिरः कर्णोत्तरं भवेत् । तदाश्रितः मस्तकः । तस्यैव पार्श्वयोः कर्णौ । कर्णमूले शष्कुली । कर्णशङ्खान्तरे कटः । कटापाङ्गान्तरे शङ्खः । शङ्खयोः बाह्ये घटी । चिबुकस्योपरि हनू । तयोरुपरि गण्डौ । हन्वोश्च गळनाड्योश्च मध्ये निगालः । निगालाधो गलः । ततः कण्ठः, बक्षः, क्रोडः, अथ हृत् । ततः कर्णस्याधः षडङ्गुले विदुः मन्दविदुश्च । विद्वोरुभयतः अधस्तात् मध्ये कण्ठनिबन्धनम् । शिरोबाहान्तरे ग्रीवा । जत्रुग्रीवान्तरे बहः । स्कन्धस्य उपरि ग्रीवा । तस्योपरि केसरम् । जत्रुतः वाहतश्च अनन्तरं कीकसम् । ततः ककुदम् । तत आसनं पृष्ठं पृष्ठवंशश्च । ततः ककुदौ (अस्थितौ) असौं । असंनिबन्धनौ बाहू । क्रोडाधस्ताद्बाहू । बाह्योरभ्यन्तरे कक्ष्या । वक्षसः अभ्यन्तरे किणौ । अधस्ताज्जानुनी । जान्वोरधः कापालिके । जानुपृष्ठतः मन्दिरम् । जानुनोऽधस्ताज्जङ्घे । पृष्ठतः कले । जङ्घाकलान्तरे ईषे । तथाग्रतः परिहः । परिहस्तस्य पृष्ठतः कूर्चौ । तन्मध्यगौ किणौ । कूर्चाधस्तात्कुट्टिके खुरसन्धिश्च । ततः खुरः । पृष्ठतः पार्ष्णिशीर्षे । पार्ष्णी - नखशिखातलञ्च । तलमध्ये मण्डूक्यौ । तलान्तरे क्षीरिके । हृत्परो नाभिवंशः । नाभेः परं जठरम् । हृन्नाभिमूत्रकोशानामन्तरे रोमराजी । तदधो मेहनम् । ततः मुष्कफलम् । कटिसन्धेरधस्तदूरुसन्धिः । तथोपरि सक्थिनी फलबन्धश्च । ऊरुपाण्डुः ऊरोरूर्ध्वं पाण्डुपिण्डौ वक्त्रसन्धी । ततः स्थुरम् । स्थुराधो मन्दिरम् । तन्मध्यजौ किणौ शङ्कूः । स्थूराधस्तात्पृष्ठतः पूर्वं गात्रद्वयं शिरोग्रीवं पूर्वकाय उच्यते । जघनं त्रिकपुच्छम्, द्वे पश्चिमे गात्रे, मध्यमाः प्रदेशाः ये सोऽन्तकायः । शरीरस्य मुखं गात्राणि बालधिः नखरोमाणि वालाः केशाश्चेति षडवयवाः प्रोक्ताः । अत्र यत्किञ्चिन्नोक्तं तदपि युक्तितः विन्द्यात् ।
अश्वानां लक्षणाम्
दीर्घग्रीवाः, दीर्घाक्षिकूटाः, पृथुकटिभाराः, पृथुहृदयाः, ताम्रताल्वोष्ठजिह्वाः, सूक्ष्मत्वक्केशवालाः, सुशफाः, सुगतयः, सुमुखाः, ह्रस्वकर्णाः, ह्रस्वोष्ठाः, ह्रस्वपुच्छाः, वृत्तजङ्घाः, वृत्तजानवः, वृत्तोरवः, सप्नासितदशनाः, चारुसंस्थानरूपाः वाजिनः सर्वाङ्गशुद्धा भवन्ति ।
महाघोणाः, महाकायाः, महोरस्काः, महानखाः, स्निग्धाङ्गाः, ये तेषामायुर्बहु भवेत् । शोणिताक्तजिह्वाः स्थिरजीविनो भवन्ति । ये नभो जिघ्रन्ति, भास्करार्पितदृष्टयः ये, पृथुकुक्षिकटीकक्षा ये, ये न विष्किरन्ति ग्रासं, ये सुभक्षाः ह्रस्वमेहनाः, महाशिरोललाटाश्च ये, ते सुनिद्राः चिरजीविनश्च भवन्ति । एवमश्वशरीरस्थानां केषांञ्चिद्रेखाणां परीक्षया तत्फलानि च दर्शितानि ॥
अश्वानाम् आवर्ताः
वक्षसि मुखे च रोमावर्तो भवेच्चेत् तादृशाश्वस्य श्रीवृक्षकीति सञ्ज्ञा । तथा चोक्तम् - वक्षोभवावर्तचतुष्टयं च कण्ठे भवेद्यस्य च रोचमानम् । श्रीवृक्षकी नाम हयस्य भर्तुश्श्रीपुत्रपौत्रादिविवृद्धये स्यात् इति विशेषोऽत्र दर्शितः । सामान्यतः अश्वानां षट्सप्ततिसङ्ख्याकाः आवर्ताः भवन्ति । तेषु विंशतिः प्रशस्ताः । तत्र द्वौ उरसि, द्वौ शिरसि, द्वौ रन्ध्रयोः, द्वौ उपरन्ध्रयोः, एकः फाले, एकः प्रपाणे इति ध्रुवाख्याः दशावर्ताः स्मृताः । वक्षस्थावर्तस्य शुक्तिरिति सञ्ज्ञा । निगाळावर्तस्य देवमणिरिति (निगाळः गलोद्देशः) । कण्ठावर्तस्य रोचमान इति सञ्ज्ञा । आवर्तसाम्यादावर्तो रोमसंस्थानमिति रहस्यम् ।
अथाश्वप्रमाणम्
जघन्यानामश्वानाम् आयतिः शतङ्गुलप्रमाणम् । मध्यानां विंशत्यधिकशताङ्गुलम् । ज्येष्ठानां त्रिंशदधिकशताङ्गुलम् । परिणाहस्तु तेषां क्रमेण सप्ततिः - सप्तसप्ततिः - एकाशीतिः । उच्छ्रायः क्रमशः, षष्टिः, चतुष्षष्टिः, अष्टषष्टिः । तथा मुखायतिः द्वाविंशतिः, पञ्चविंशतिः, सप्तविंशतिः । श्मश्रुहीनं मुखं, कान्तं, प्रगल्भं, तुङ्गनासिकं, ह्रस्वप्रोथं, तनुश्रोत्रं, रक्तगम्भीरतालुकं, षडद्वमाद्वादशकं, मृदुनासापुटं, दृढं, दीर्घोद्धतमुखग्रीवं, ह्रस्वकुक्षिखुरं, विवशं, चण्डवेगं, हंसमेघसमस्वनं, हरितं, शुकवर्णं, श्वेतं कृष्णसमण्डलं । ईदृशमश्वम् आरोहेत् । एकेन वर्णेन स्निग्धवर्णो भवेच्चेत् स देहः वर्णजान् दोषान् हन्यात् । स सर्वत्र शस्यत इति भगवान् पराशरः । अन्यत्रद्वात्रिंशदङ्गुलं मुखमुत्तमाश्वस्य (Face length of the best horse is 32 inches.) । तत्पञ्चगुणकं आयामः (Length of the body is five times that of the face) विंशत्यङ्गुलाः जङ्घाः (Shank 20 inches) चतुर्जङ्घः उत्सेधः (Height 80 inches) । त्र्यङ्गुलावरप्रमाणं मध्यमावरजातीयाश्वस्य । शताङ्गुलः परिणाहः (Circumference 100 inches) । पञ्चभागावरः मध्यमावरयोः (In the case of ordinary and of a low breed horse one - fifth of the above measure of circumference and three inches in the above measure of face length is deducted.)
अत्र वररुचिः -
ज्ञानं त्रैलोक्यविद्भिर्मुनिभिरभिहितं लक्षणं यद्विशालं
दुर्ज्ञेयं तद्बहुत्वादपि विमलधिया किं पुनर्वुद्धिहीनैः ।
तस्मादेतत्समासात् स्फुटमधुरपदं श्रूयतामश्वसंस्थं
वर्णावर्तप्रभाङ्गस्वरगतिसहितैस्सत्वगन्धैरुपेतम् ॥
इति प्रतिज्ञाय, एवं सङ्ग्रहेणाश्वलक्षणमभिवदति -
रोमत्वक्केशवालैर्सितहरिशितैस्तप्तहेमप्रभैश्च
कृष्णश्शोणोपलक्षो हरिरिति कथिता मूलवर्णास्तुरङ्गाः ।
ते चान्योन्यानुषङ्गात्पवनवशगता यान्ति भूयो बहुत्वं
निर्देशस्तेषु वाच्यो विमलपटुधिया द्रव्यसत्वानूरूपः ॥
अश्वानां वयोमानम्
हयशिशोः दन्तपाल्यां दंष्ट्राद्वयमध्ये सिताः षड्दन्ताः यदा भवन्ति तदा स एकवर्षीयः । त एव दन्ताः यदा कृष्णलोहिता भवन्ति तदा स द्विवर्षः । द्वयोरपि दन्तपाल्योः सममध्यवर्तिनौ द्वौ द्वौ दन्तौ सन्दंशौ । तत्पार्श्ववर्तिनमेकैकं मध्यमम् । द्वयोरपि पार्श्वद्वयवर्तिनम् एकैकम् अन्त्यसञ्ज्ञम् । एवं सन्दंशाः पतिताः पुनरुत्थिताः यदा भवन्ति तदा त्र्यब्दिकोऽश्वः । तथा मध्यमदन्ताः पतिताः पुनरुत्थिताः यदा तदा सः चतुर्वार्षिकः । अन्त्यदन्ताः यदा समुदिताः सः पञ्चाब्दिकः । यदा सन्दशदन्तयोः कृष्णो बिन्दुर्भवति तदा षड्वार्षिकः । मध्यमदन्ताः यदा कृष्णवर्णाः तदा सप्तवार्षिकः । एवमन्त्या यदा कृष्णा भवन्ति तदा अष्टाब्दः । सन्दंशाः पीताश्चेन्नववर्षः । मध्यमाः पीताश्चेद्दशवर्षः । अन्त्याः पोताश्चेदेकादशवर्षः । तथैव सन्दंशाः मध्यमाः अन्त्याश्च क्रमेण शुक्लाश्चेत्, द्वादश, त्रयोदश, चतुर्दश वर्षीयोऽश्व इति मन्तव्यम् । एवं ते काचवर्णयुक्ताश्चेत् क्रमेण सः, पञ्चदश षोडश - सप्तदशवर्षीयो भवति । मक्षिकावर्णाश्चेत् क्रमेण अष्टादश - एकोनविंशति - विंशतिवर्षीयः । शङ्खवर्णा यदा ते एकविंशति - द्वाविंशति - त्रयोविंशतिवर्षीयः । ते अवटाः - छिद्ररूपा यदा भवन्ति तदा तद्वत् चतुर्विंशति - पञ्चविंशति - षड्विंशतिवर्षीयः । ते दन्ताः यदा चलन्ति तदा क्रमेण सप्तविंशति - अष्टाविंशति - एकोनत्रिंशद्वर्षीयः । अनन्तरं यदा ते दन्ताः क्रमेण पतन्ति तदा तदनुक्रमादेव त्रिंशदेकत्रिंशद्वात्रिंशद्वर्षीयो भवतीति वराहमिहिरेण वररुचिना च दर्शितं भवति ।
अश्वानां शुभाशुभरोमावर्तकान्तिगतिसत्वादिविषयाः वराहमिहिरकृतबृहत्संहितायां शालिहोत्रकृताश्वचिकित्सायां नकुलतन्त्रादिषु च ज्ञेयाः ।
अश्वतत्त्वविचारः - वेदेषु
श्रीर्वा एकशफम् इति श्रुत्या एकशफपशूनां मध्ये अश्वः श्रेष्ठ इत्यवगम्यते (Horse is the best among the single - hoofed animals.)
अस्ति कश्चिदश्वायुर्वेद इति (Veterinary science) श्रूयते । न तु दृश्यते । शालिहोत्रमहर्षिः अश्वचिकित्साशास्त्रस्य कर्ता । तत्र ६० अध्यायाः १८०० श्लोकाः वर्तन्ते (Salihotra was the Author of Veterinary Science. His compitation contains 60 chapters with 1800 verses) तस्मिन्नश्वविचारः सम्यक् सुविशदं प्रतिपादितः -
तस्मादश्वः पशूनां जविष्ठः । तस्मादश्वः प्रत्यङ्पदा हिनस्ति (ऐ. ब्रा.) यस्मादश्वरूपैर्देवैः वेगेन गमनं पद्भिस्ताडनं चाचरितं तस्माल्लोकेऽपि पशूनां मध्ये अश्वोऽत्वन्तं वेगवान् । तस्मात्पादेन पुरुषं ताडयतीति श्रुतौ उक्तम् । साक्षात्परब्रह्मैव अश्वरूपेण भवतीति अश्वमेघप्रकरणे वेदितं भवति । अतः अश्वमेघः क्रतुराट् सर्वपापाप्रबोदन इति श्रुतिः । मन्त्राः - (तै. ब्रा. १ - ७) । उच्चैःश्रवाः दिव्याश्वः अश्वजातेर्मूलम् । (A prototype of the genus of horse) । अस्य अश्वराजः अश्वरत्नमिति च व्यपदेशः इति प्रसिद्धिः
नकुलाश्वचिकित्सा - सारसिन्धुः सारसंङ्ग्रहः - भोजकृतहयलीलावती - जयदेवकृतवाजिचिकित्सासंङ्ग्रहः इत्येतेऽन्ये । अश्वतत्त्वविषयकग्रन्थेषु अश्वतन्त्रे अश्वहृदयादिग्रन्थेषु च अश्वविचारः कृत इत्यवगम्यते ॥
अश्वानां धाराः
विक्रमः, भद्राश्वासः, भारवाह्य इति अश्वगतेः त्रिप्रकाराः धाराः । तदन्तर्भेदास्तु - वल्गितम्, उपकण्ठम्, उपजवः, जवश्च इति कौटिल्यः । अन्यत्र यथा - गतिधारा = विक्रमा, चतुष्पादप्लुता = पुलका । मुखपादसमायुक्ता = पूर्णकण्ठी । स्वेच्छाधारा - त्वरिता । स्पर्शलोकं वहा = निरालम्बा । विक्रमा गतिधारा = चतुष्पादप्लुतेति च वदन्ति । अन्यत्र अश्वानां गतिधारा एवमुपदिष्टाः आस्कन्दितं, धौरितकं, रेचितं, बल्गितं, प्लुतं इति पञ्चधा धारा । गतिः - पुला, चतुष्का, मध्यमजवा पूर्ववेगा इति सञ्ज्ञान्तरं निश्चितम् । तास्वेकैका - लध्वी, मध्या, दीर्घा, चेति त्रिविधा ।
बल्गाः
पुष्पदन्ती, गोकर्णी, तूलोन्मूला, तूलोद्धृता, नागपीडी, पुष्पधारी, दुर्मृष्टी, रजस्तनी, द्विहस्ती, एकहस्तीति ।
कृमिकोष्टकः
कृशस्य यस्य वाहस्य जन्तुभिः परिवेष्टितम् । पुरीषं जायते भिन्नं तं विद्यात्कृमिकोष्टकम् । वाजिनां कीटवेधस्तु भवेन्निरुपचारतः । तदा - महानिम्बपलाशानां बीजैस्सकृमिशत्रुभिः (चिकित्सितश्चेत्) एवं कीटा न जायन्ते हयानामुदरे ध्रुवम् ।
अश्वचिकित्सा
शरीरह्रासवृद्धिप्रकारम् ऋतुविभक्तिम् आहारमश्वचिकित्सकाः यथा शास्त्रं निश्चिन्वन्ति ।
अश्वजवः (Quick march)
जवो हि सप्तः (अश्वस्य) प्रथमं विभूषणं त्रपाङ्गनायाः कृशता तपस्विनः । द्विजस्य वेदोऽथ मुनेरपि क्षमा पराक्रमश्शस्त्रबलोपजीविनः इत्यादिना सम्यङ्निर्दिष्टः । स च एवं वर्णितः - आकर्षन्निव गां वमन्निव खुरौ पश्चार्धमुद्यन्निव स्वीकुर्वन्निव खं पिबन्निव दिशो वायुं समश्नन्निव । साङ्गारप्रकरान् स्पृशन्निव महीच्छायामपर्षन्निव चञ्ज्चच्चामरवीज्यमानवदनः श्रीमान् हयो धावति । कथं धावति ? शङ्खः क्रौञ्चमृगेण दुन्दुभिधनव्याघ्रेण तुल्यस्वनः । किंच - वक्त्रे ये हरिणाधिपप्रतिनिभा व्याघ्रोपमा बाहुभिरावर्तैश्च शुभैः प्रधानकुलजाः सुस्निग्धवर्णप्रभाः । उष्ट्राक्षाः प्रियदर्शनाश्च सुभगाः श्वासैस्सुगन्धैश्च ये धन्यास्ते जयराज्यवित्तसुखदाः संवाहका भूपतेः ॥ इत्यश्वबलवर्णनम् ।
अश्वस्य दन्तादिपरीक्षा
यदा अश्वः षट्सितदन्तोपेतः तदा हयशिशुरित्युच्यते । यदा दन्ताः कषायवर्णा भवन्ति तदा स द्विरदः । त्रिचतुष्पञ्चवर्षेषु यस्य दन्ताः पतन्ति पुनरुद्भवन्ति स सन्दशः । यदास्य दन्ताः काचवत्कालिकाः, मक्षीकावत्पीताः, शङ्खवच्छुक्लाः भवन्ति तदायं बहुचलनवान् इति अश्वदन्तपरीक्षा । महाघोणाः महोरस्काः महास्वनाः स्निग्धाङ्गाश्च, ये ते दीर्घायुषो भवन्ति - इति आयुःपरीक्षा । शोणिताक्तजिह्वाः स्थिरजीविनो ये नभो जिघ्रन्ति, ये भास्करार्पितदृष्टयः, ये पृथुकुक्षिकटिकक्षयः, ते सुनिद्राश्चिरजीविनश्च । ये ग्रासं सम्यग्भक्षयन्ति, ये ग्रासं न विकिरन्ति, ये ह्रस्वं मेहन्ति, ये महाशिरसः, महाललाटाश्च तेऽपि चिरजीविनः । अर्धप्रोतस्थिता रेखाः दशवासरे म्रियन्ते । पञ्चाङ्गुलयुक्तस्य पञ्चवर्षजीवितम् । चतुरङ्गुलयुक्तस्य त्रयोदशवर्षायुः । विनतपूर्वकायस्य स्थूलजानोः सूनाक्षिणः कूटाक्षिणः स्तब्धाक्षिणश्च स्वल्पायुः - इति सामुद्रिकपरीक्षा ॥
मनुजानां षष्टिवर्षाणि आयुः । तथा गजानाम् । हयानां द्वात्रिंशत् । खरकरभयोः पञ्च । वृषभमहिषयोः पञ्च । छागादीनां दश इति जयदेवः ॥
अश्वानां प्रकृतिः
अश्वानां तीक्ष्णभद्रमन्दवशेन सान्नाह्यमौपवाह्यकं च कर्म प्रयोजयेत् । चतुरश्रं (रमणीयम्) कर्माश्वस्य सान्नाह्यम् - (Trained for war purpose), आहवयोग्यम् (Dancing movement or trot), वल्गनः (Slow march), नीचैर्गतः (Slow march), लङ्घनः (Jumping), धोरणः (Galloping), नादोष्ट्रश्चौपवाह्याः (Fit for riding etc.) ॥
अश्वगतिविशेषभेदाः
उपवेणुकः, वर्धमानकः, यमकः, आलीढप्लुतः, पृथुगः, स्रुचाली च वल्गनगतिभेदाः (Six kinds of trot) । स एव शिरःकर्णविशुद्धो नीचैर्गतः षोडशमार्गो वा भवति । यथा - प्रकीर्णकः, प्रकीर्णोत्तरः, निषण्णः, पार्श्वानुवृत्तः ऊर्मिभागः शरभक्रीडिकः, शरभप्लुतः, त्रितालः, वाह्यानुवृत्तः, पञ्चपाणिः सिंहायतः, स्वाधुतः, क्लिष्टः, श्लाधितः, बृंहितः, पुष्टाभिकीर्णश्चेति नीचैर्गतिमार्गगतिभेदाः (Sixteen kinds of slow - march) । कपिप्लुतः, भेकप्लुतः, एकप्लुतः, एकपादप्लुतः, कोकिलसञ्चारी, उरस्यः, बकसञ्चारी इति अष्टौ लङ्घनगतिभेदाः (Eight kinds of jump) । काङ्कः, वारिकाङ्कः, मयूरः, अर्धमयूरः, नाकुलः ; अर्धनाकुलः ; वाराहः, अर्धवाराहश्चेति धोरणगतिभेदाः (Eight kinds of gallop) अश्वगतेः ऊर्मिरिति संज्ञा । तथा चोक्तम् - पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतीवेगसमायुक्ता गतिरूर्मिरुदाहृता इति वैजयन्तीकारः । अश्वस्य तेजीति नाम । तेजः अस्यास्तीति तेजी । तेजो नाम दर्पापरनामा सत्वगुणविकारः प्रकाशकोऽन्तस्सरविशेषः । तथा चोक्तम् - तेजो निसर्गजं सत्वं वाजिनां स्फुरणं रजः । क्रोधस्तम इति ज्ञेयस्त्रयोऽपि सहजा गुणाः ॥ तच्च द्विविधम् सततोत्थितं, भयोत्थितं चेति । धारासु योजितानां च निसर्गात्प्रेरणं विना । अविच्छिन्नमिवाभाति तत्तेजस्सततोत्थितम् । कशापातादिघातेर्यत्साध्वसात्स्फुरितं तु तत् । तेजसः कार्यं वेगः ।
अश्वगतिलक्षणम्
अश्वस्य गतेः पुला इति नाम । तल्लक्षणं हयलीलावत्यां यथा - यायन् गत्या अश्वः समविशेषान् क्षिपति, अग्रपादानुत्क्षिपति, धाराः, पुरतः, पुरतः प्रसरति समपादोत्क्षेपणाकुञ्चनानां धाराभिर्विलसति सा पुला प्लुता इति निगद्यते । अश्वः पार्ष्णिप्रधानं प्रविहाय रागात् वल्गां श्लथीकृत्य यदा धावति तदा पुलाख्यां वहति । पुलया अयितं (गतिः) पुलायितमिति कथ्यते । तच्च शतसङ्ख्याकैर्वा अर्धशतसङ्ख्याकैर्वा अर्धार्धशतसङ्ख्याकैर्वा क्रमात् मण्डलाकारवल्गितैः उन्मुखस्याश्वमुख्यस्य अर्धपुलायितमुच्यते ॥
वीथयः
(Grounds specially prepared with roads for the training of horses)
अश्वानां सञ्चारस्थानानां वीथय इति संज्ञा । तथा चोक्तम् - नवाश्वानां सर्वत्र धारादाढ्यार्थाः परिमिताः प्रचारदेशाः । वीथेः प्रमाणम् - वीथिः प्रोक्ताथ धाराणां लध्वी मध्योत्तमा क्रमात् । तासां स्याद्धनुषा मानमशीतिर्नवतिश्शतम् - इति भोजः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्येषामपि सर्वत्र गतिदार्ढ्यार्थमीरिताः । समोन्नता, समविषमा, अम्बुकीर्णा, शुद्धा, नगाग्रा, तृनवीरुधाढ्या, स्थाणुप्रकीर्णा, उपलप्रकीर्णा, पार्श्वोन्नताः इति । सर्ववीथिषु यो वाजी, दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृगयायां मुदं व्रजेत् । अन्ये चाहुः - उरसाली, वरश्वाली, पृथुला, मध्या, शोभनाङ्गा, लीढा, प्रत्यालीढा, उपधेनुः, पाञ्चालीति नववीथयः ।
कशाघातः
अश्वादेस्ताडनी कशा । अश्वाजनीति प्रसिद्धा (A whip) कशाघातस्तु - उत्तमाश्वेषु मृदुः, मध्यमाश्वेषु समः, अधमाश्वेषु निष्ठुरः । कशादण्डः मृदुना एकेन घातेन उत्तमाश्वे मृदुना तीक्ष्णेन च मध्यमाश्वे मृदुना तीक्ष्णेन निष्ठुरेण च जघन्याश्वविषये कार्यः । कशादण्डः अश्वानामङ्गेष्वेव । यथा - भीतं त्रस्तं च ग्रीवायाम् । विभ्रान्तं त्यक्तशिक्षकं चाधरे । प्रहेषितं बडबालोकनं च स्कन्धबाह्वोः । दुश्चेष्टितं उन्मार्गप्रस्थितं च मुखे । स्खलितं जघने । दुरुत्थितं नेत्रमार्गे । कुण्ठप्रकृतिं सर्वाङ्गेषु ।
दण्डकालः
उपदेशे, निद्रायाम्, स्खलिते, दुष्टचेष्टिते, बडबालोकनौत्सुक्ये, बहुगर्वेण हेषिते, सन्त्रासे, दुरुत्थाने, विमार्गगमने, भये शिक्षात्यागस्य समये चित्तविभ्रमे एतेषु द्वादशकालेषु दण्डः ।
अश्वपरिकराः (Equipment of a horse)
दन्तालिका = मुखरज्जुः (Reins) । पल्याणम् = पल्ययनम् (Saddle) । वध्री = वरत्रा (Thong) । दामाञ्चलः = पादपाशः (Tether) । मुखरज्जुः = चतुर्दशविधा । यथा - उत्क्षिप्ता, शिथिला, उत्तरवती, मन्दा, वैहायसी, विक्षिप्ता, एककरा, अर्धकन्धरा, समाकीर्णा, विभक्ता, अत्युत्क्षिप्ततला, उद्धृता, व्यागूढा, गोकर्णिका इति हयलीलावत्याम् । कृकाटिका = अवटुः, अश्वस्य मस्तकपृष्ठम् (Round the neck of a horse) । घोटा = नासाप्रदेशः (Nose of a horse) । सादिबलम् = तौरङ्गिकसैन्यम् । मृषामृधम् = मिथ्यायुद्धम्, युद्धनाटकम् (Parade of cavalry) । सेनाचराः विहारदेशमवाप्य भूरितुरङ्गमान् मण्डलीमकारयन् इति श्रीहर्षः नैषधे (१. ७१) अश्वधासः - अश्वानां घासार्थं विसृष्टा भूः (Pasture for horses) । तत्र अश्वनायाः अश्वपालकाः (A horseherd) अश्वान् नयन्ति घासार्थम् । अश्वचिकित्सकाः (Farriers) अश्वान् चिकित्सन्ति । चिकित्सायाः पूर्वं ते अश्वानां शरीरह्वासवृद्धिप्रतीकारं ऋतुविभक्तिम् आहारं च निश्चिन्वन्ति । अश्वबन्धकः - अश्वानाम् अश्वगोष्ठे उपचरति । अश्वसारथ्यं सूतानाम् - जातिविशेषजनानाम् (It is their profession of car driving) अश्वषङ्गवं - षण्णाम् अश्वानां समूहः (A teem of six horses) ।
अश्वयानभोगः
अश्वतरीं - पदन्यासे अस्खलन्ती याने वरा । वाहस्तुमयूरगतिकः । तित्तिरिगतिसन्निभः मरालगमनः चतुष्कगतिशोभितः वरः । गच्छतोऽश्वस्य पुच्छग्रीवं विशेषतः यदा कम्पते गतिश्च अत्यर्थं त्वरिता भवति सा मायूरी गतिः । यदा पुच्छं न कम्पने पदानि च शीघ्रं तनुते तदा तित्तिरीगतिः । पार्श्वदोलनेन यदा शिरो विधुनुते तदा मरालगतिः । सञ्चारे चतुर्भिः पादैः ललितं यथा तथा यदा गच्छति हयः तदा सा चतुष्कगतिः उत्तमा सुखदायिनी ॥
महिषः
महिषः ग्राम्यपशुः । द्विशफः । अश्वशत्रुः । पीनस्कन्धः । पृष्ठतोऽवलम्बितशृङ्गः । कृष्णकायः । अयं लुलाय इति च कथ्यते । लुलं (यथेच्छागतः) यथेच्छागतम् आप्नोतीति वा लुला विलोडिता आपः तासु अयतीति वा - लुलायः । तथा चोक्तम् - खुरविधुतधरित्रीचित्रकायो लुलाय इति । अयं निपानसलिलप्रियः । अत एवोक्तं कालिदासेन - गाहन्तां महिषा निपानसलिलम् इति (मह - पूजायां) महतीति महिषः अस्य वर्षपातः महाह्लादकरः । रजसि लुण्ठनमतिप्रियम् अतोऽयं रजस्वलः ॥
महिषाः द्विविधाः - शकटवाहिनः, पृष्ठस्कन्धवाहिनः इति । केषुचिद्देशेषु क्षेत्रकर्षणव्यापारे महिषा अप्युपयुज्यन्ते । महिषी बहुक्षीरप्रदा । तस्याः क्षीरेण प्रभूते नवनीतमुत्पद्यते । तत्क्षीरपरिणामिदधि शीतगुणान्वितमपि तुष्टिपुष्टिप्रदम् । तद्वर्णनम् - माहिषं च शरच्चन्द्रचन्द्रिकाधवलमिति वर्णितम् । तद्गुणास्तु - माहिषं मधुरं गव्यात् स्निग्धं गुरु बलप्रदम् । निद्राशुक्रकरं शीतमभिष्यन्द्यग्निमान्द्यकृत् - इत्युक्ताः । कृषीवलानां ग्राम्यपशुषु अयं मुख्यः । महिषशकृत् सस्यानामुपयुक्तं दोहदद्रव्यं सम्पादयति । महिषचर्मणा पादरक्षादिकं क्रियते । महिषमांसं केषञ्चिदिष्टं भवति । महिषस्य आन्तरावयवाः
गवाश्वावयवसदृशा भवन्ति । इयं महिषी गवाश्वाविव एकदा एकमेव वत्सं प्रसूते ॥
अम्बे अम्बाल्यम्बिके न मा नयति कश्चन । ससस्त्यश्वकः । सुभगो काम्पीलवासिनि सुवर्गे लोके सम्प्रोर्ण्वाथम् इत्यादिबहुग्रन्थेन महिषीचर्यं, विशेषेण प्रजनकार्यं प्रतिपादितम् । तत्प्रकरणे श्रुतौ तस्याः रहस्याङ्गस्थानानि यथावत्प्रकाशितानि भवन्ति । अयं कूलेचरवर्गप्रविष्टः - अत एव अनूपजभेदः ॥
अजः (Goat)
अज गतौ इति धातुजोऽयम् अजशद्बः गतिसूचकः । अतः अयं पशुः सर्वत्र चरतीति अज इति प्रसिद्धिः । अजेन = ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपग्रहणेन पलायितत्वात् अजाधिष्ठितरूपत्वादजः इति पौराणिकी कथा । अस्य छागः, कर्कटच्छागः, क्ष्वेलिकः, स्तुभः, मेषः, उरणः, एडकः इति नामान्तराणि । छागः पूतैरामलकैर्धैतः प्रभूतवर्णः भवति । अयं हस्वोर्ध्वलाङ्गलः सर्वाङ्गसुसमाहितः । अजा, छागी, क्ष्वेलिका (गलस्तनी), इति स्त्रीव्यक्तेः व्यवहारः । अजासुतमांसं विशेषेण प्रशंसन्ति वैद्यगणाः । अजैर्यष्टव्यमित्यनेन यज्ञयागादिष्वजानां बहूपयोगः ॥
अजस्वरूपम्
श्वेताः, कृष्णचरणाः, श्वेतशफाः, पीताः, ताम्रेक्षणाः, मूर्घ्नि गले वा बिन्दुयुक्ताः, मन्दशब्दाः, कृष्णाण्डसंयुताः, मध्यप्रदेशे कृष्णपट्टयुक्ताः इति गर्गोक्तिः ॥
छागभेदाः
कुट्टुकाः, कुटिलाः, जटिलाः, वामनाः, इति चत्वारो भेदाः । ते सर्वे श्रीप्रदाः ।
खरतुल्यनादाः, प्रदीप्तपुच्छाः, कुनखाः, विवर्णाः, निकृत्तकर्णाः, द्विपमस्तकाः, असिततालुजिह्वाः, अप्रशस्ता भवन्तीति वराहमिहिरः । प्रशस्तवर्णाः, एकेन द्वाभ्यां वा मणिभिर्युक्ताः मुण्डाः (विषाणरहिताः) लोहितनयना - प्रशस्ता इति भट्टेत्पलः ।
अजादिपशूनां सामान्याङ्गनिर्देशः
दन्ताः, हनू, ओष्ठौ, मुखम्, नासिके, अक्षिणी, कर्णौ, पक्ष्मणी, भ्रुवौ, ललाटम्, मूर्धा, मस्तिष्कम्, केशाः, वहनदेशः, ग्रीवा, धमन्यः, स्कन्धः, कीकसाः (ग्रीवाया आरभ्य पृष्ठवंशस्थगुलिकाः) पृष्टयः (हस्तयोरुपरिपृष्ठवंशस्योभयतस्स्थितान्यस्थीनि (Ribs), पायः, हृदयम्, पार्श्वौ, असौं, दोषौ (Arms), बाहू, जङ्घे, श्रोणी, ऊरू, अष्ठीवतः (Knee bones), भसत् (अपानप्रदेशः), शिखण्डाः (चूडाः), वालधानं, पुच्छः, अण्डौ, शफः, रेतः (प्रजननं प्रजाभ्यः), पादाः, शफाः, लोमानि, त्वक्, लोहितम् (Blood), मांसम् (Flesh), स्तावानः (Muscles), अस्थानि = अस्थीनि (Bones), मज्जा (Marrow), अङ्गाः (अङ्गानि) (other organs), लित्मा, सक्थः (ऊरुमूलस्थान्यस्थीनि) = सक्थीनि, ककुद् (Projecting corner) शॄङ्गम् - एतान्यङ्गानि सामान्यतः सर्वपशूनां केषाञ्चिन्मृगाणां च भवन्त्येव । बाह्याभ्यन्तरतः विशेषाङ्गानि तु तत्तज्जातिनिमित्तकादीनीति बोध्यम् ।
अजका = अजायाः स्त्रीशिशुः । छगलिः छागिका । अजाविकमजाश्वमिति छागैढ्रयोः छागाश्वयोश्च बोधः (Goats and sheep and goats and horses) अजान्तरङ्गेषु या वपासा अग्नौ हूयते (Diaphragm of goats is very useful for sacrificial purpose) । अजस्य शृङ्गाणि प्रायशः ऊर्ध्वलम्बितानि क्वचित्पृष्ठलम्बितानि च । अतः प्राक्‌शॄङ्गः लम्बितशृङ्ग इति बोधः । अजायाः विकारः अवयवः गलस्तनः अजिकेत्युच्यते । तद्वत्याः अजायाः मल्हा इति वेदेषु प्रसिद्धिः । कण्ठावलम्बितस्तनयुग्मा इत्यर्थः ।
वर्णादयः
केचिन्महाकायाः, कृष्णग्रीवाः, कृष्णबिन्दवः । केचिल्लाञ्छितग्रीवाः, केचित् श्वेताः, केचिद्रोहितवर्णाः, केचिन्नभोरूपाः, केचिच्छुक्लाः, केचिद्बभ्रुवर्णाः, कपिलश्यामाः । केचित् कृष्णललामाः, रोहितललामाः, श्वेतललामाः । ललाटुः श्वेतपुण्ड्रलाञ्छितललाटः ।
अजाधिष्ठितदेवता अग्निः । अजपाद्रुद्रः । यो देशः अजमारैः (अजं मारयन्ति विक्रयार्थमिति अजमाराः By butchers) पूर्णः स एव अजमारः ।
श्रुतौ अजातत्त्वम्
अजायाः द्वौ स्तनौ क्षीरप्रवर्णौ । तयोर्द्वयोरूर्जं रसम्, क्षीरलक्षणम्, अभि, अभिलक्ष्य द्वौ वत्सौ जायेते । नानैव, पृथक्स्वभावौ अनियतस्तनपायिनौ जायेते । तृतीयस्तु वत्सः पृष्टिमभिजायते । पुष्ट्यतिशयनिर्दिष्टत्वात्तस्य । एवं रसपुष्टिप्रसवत्वात् सोमा - पूष्णोः स्वो भागः त्रैतः (त्रयाणां वत्सानां युगपज्जातानां यः स त्रेतः । तत्र भवः त्रैतः) । अतः सोमापौष्णं त्रैतमालभेत इति श्रुतिः । अत्र तत्त्वम् - सोमो वा रेतोधा - पूषा पशूनां प्रजयिता सिक्तस्य रेतसः धाता रेतोधाः सोमः (Liquid substance with semen), पूष्णः सिक्तस्य रेतसः परिणमयिता (Heat) । अतः अन्यत्र - अग्निः प्रजां प्रजनयति - इति श्रुतिः । अत अजाः यागादिषु बहुधा पशुत्वेन स्थाप्यन्ते ।
अजाक्षीरमत्यन्तारोग्यकरम् । अजाः समस्तपर्णपल्लवानि भक्षयन्ति । तत्परिणाम एव तक्षीरम् । अतः तत् सर्वदा पथ्यं बलवीर्यकरम् ॥
अविः (Sheep)
अविः - मेषः । मेषस्य स्त्री मेषी । तावेव - अविकः अविका । अयं मेषजातीयः पूर्णोर्णः । अतः अयं ऊर्णायुः पृथुशॄङ्गः अतः एडकः । बृकभक्ष्यः । नतशिराः । शूद्रादीनामाहारभूतः । अस्य मेदः घृतमिव स्निग्धम् । अयं तृणपलाशजीवी । अस्य पालकः अविपः । तस्य अवीनाम् ऋद्धिह्रासज्ञानं सम्यग्भवति । अवेः ऊर्णेन निर्मितः पटः कम्बलः । ऊर्णाक्रयविक्रयेण बहुमूल्यं भवति । अविक्षीरं पुष्टिकरम् । अयं सेचकः । तस्मात् वृष्णिरित्यस्य नाम । उरभ्रकं मेषवृन्दम् । उरु भ्रमतीति उरभ्रः ।
मेषः द्वादशराशिषु प्रथमः । तद्रूपत्वात् तत्प्रियत्वाद्वा अजावीभूम इति श्रुत्या - अजाविभ्यां पुष्टिः बृद्धिः भवति । अजावीनां षाण्मासिकीमूर्णां ग्राहयेत् इत्यनेन अवीनाम् ऊर्णाग्रहणकालः विहितः ।
श्रुतौ अवितत्त्वम्
स्वर्भानुर्नाम असुरः सूर्यं तमसा अविध्यत (अबाधत) (Umbra and Penumbra) । अतः प्रायश्चित्तिः । सा दोषनिर्धातार्थो यत्नः । देवाः प्रथमं यत्तमो अपाघ्नन् सा कृष्णवर्णा अविरजायत । द्वितीयं यदपाघ्नन् सा फल्गुनी = नीलवर्णा । यत्तॄतीयमपाघ्नन्, सा बलक्षी (बलक्षी) शुक्लवर्णा । अथा ध्यस्तात् अस्थिभ्यो यत्तमोऽपाघ्नन् - अपाच्छदन् सा वशावन्ध्याऽविरजायत । सा देवास्थिसम्भूतत्वात् देवानां वशः - देवपशुरभवत् । तस्मिन् काले पृथिवी अल्पा सङ्कुचिता आसीत् । ओषधयश्च अजाता आसन् । वशालम्भनेन पृथ्व्याः पृथुत्वम् - ओषधीनां जायमानत्वं सम्पादितवन्तो देवाः इत्यनेन सूर्याचन्द्रमसोः ग्रहणतत्त्वं विद्वद्भिरुन्नेयम् ।
तस्माज्जाता अजावयः इति श्रुत्या अवयः पुरुषयज्ञाज्जाता इति च वेद्यते ।
खरः (Ass)
खरः अश्वजातीयः । एकशफः । अस्य रासभः गर्दभः बालेयः चक्रीवान् (चक्रवद्भ्रमणं अस्य अस्तीति) इत्यादिनामानि भवन्ति । प्रायशः गर्दभाः धुसरवर्णाः । तेषु अश्वोत्पन्नाः (अश्वश्च खरी च, अश्वा च खरश्च वाताभ्यां उत्पन्नाः) अश्वखरजाः (Mules) । ते अनेकवर्णाः । गर्दभशब्दः कठोरः । अतस्स अप्रियः । अत एव - वाक्पारुष्यात्सर्वलोकाऽप्रियत्व मित्युक्तिः । तथापि शकुनशास्त्रे गर्दभध्वनिः शुभसूचक इत्युच्यते । अयं कण्टकतृणादिजीवी । रजकानां पटभरवहने अतीव प्रयोजकः । धान्यादिभारवहने च अस्योपयोगः प्रसिद्धः । गर्दभस्य स्त्री गर्दभी । अयं यथेच्छं सञ्चरणशीलः । अस्य बाह्यान्तराङ्गानि प्रायशः अश्ववदेव । अयमपि अश्ववत्पादताडनस्वभावः । वाजीवायं धुरवहः । तथा चोक्तम् - गर्दभा वाजीधुरा वहन्ति इति । गर्दभादपि मनुजानां त्रिषु विषयेषु शिक्षणं भवेत् । अविश्रान्तं भारवहनम् (सन्ततोद्योगधर्मः), शीतोष्णसहनम् (तितिक्षा), नित्यसन्तोषः (शान्तमनस्कत्वम्) । गर्दभः ग्राम्यपशुः - साधुप्राणी - परन्तु अशुचिः । तस्य क्षीरं विषमज्वरदोषादीनां केषाञ्चिद्रोगाणामौषधकरणे उपयुक्तं भवति । ऊर्णाग्रहणविषये अजावीनामिव गर्दभादीनामपि षाण्मासिकीमूर्णां ग्राहयेदिति बुध्यते ॥
उष्ट्रः
(Camel)
अयं विरूपी प्राणी । लम्बकण्ठः । ऊर्ध्वमुखः । ककुद्द्वयमण्डितः । उच्छूनपृष्ठः । दीर्घपादः । पशुवर्गे गजजात्याम् आकृतिविशेषप्रविष्टः । अस्य दासेरक इत् नामान्तरम् । अयं दीर्घाध्वगमने अतीवोपयुक्तः । अतः अस्य क्रमेलक इति नाम । अस्याङ्गानि इतरपश्वपेक्षया महान्तीत्यस्य महाङ्ग इति प्रसिद्धिः । अयं क्षुद्रमृगान् हिनस्तीत्यस्य मय इति नामान्तरम् । उष्ट्राणां वृन्दं औष्ट्रकम् । उष्ट्रशिशुः करभः । अस्याहारः प्रायेण पल्लवादयः । उष्ट्रस्य स्त्री उष्ट्री - उष्ट्रिका इतिनाम । उष्ट्रद्वयस्य उष्ट्रगोयुगामिति परिभाषा । शकटादिवहने तयोरुपयोगः । आरब्भदेशीयानां सैकतप्रचुरारण्यसञ्चारः उष्ट्रयानादेव भवति । तेषामयम् आर्याणां गौरिव परमपवित्रः पशुः । मृतोष्ट्रमांसं केषाञ्चिज्जनानामदनीयम् । उष्ट्राः राज्ञां परिकरालङ्कारभूताः । मृतगजानां अस्थ्याद्यङ्गेभ्यः यथा प्रयोजनं तथा मृतोष्ट्राङ्गेभ्यः न भवति । उष्ट्रः अरण्ये वसति । ग्रामेषु च वसति । दम्यते च । उष्ट्रक्षीरं कदाचिद्भौषज्यं भवति । अजावीनां षाण्मासिकीमूर्णां ग्राहयेत् - तथाश्वखरोष्ट्रविषयेऽपि - इत्यनेन उष्ट्रस्य ऊर्णां क्वचित् ग्राहयन्ति जना इति वेद्यते । उत्ष्ट्रस्य आन्तरावयवाः प्रायेण गजस्य आन्तरावावसदृशा भवन्ति ॥
अथारण्यास्सस्यादिनो मृगाः
(Herbivorous Beasts)
तत्र दन्तजातयः । गजः
(Elphas indicus - Elephant)
गजाः प्रायेणारण्यजा अपि ते नगरेषु आनीय दम्यन्ते स्थाप्यन्ते विशेषतः राज्ञां निकटे इति तस्यात्र प्रथमो विचारः ॥
गजोत्पत्तिस्थानानि
(Forests where Elephants Abound)
प्राच्यम् (A forest that lies between the Ganges, Allahabad and the Sumeru mountain), कारूशकम् (Forest between Jabbalpur and Kosala), अङ्गिरेयम् [(A forest between Gouda and Vanga (Begal)] कालिङ्गकम् (A forest in the Vindhya mountains), दशार्णवम् (The forest of Srisaila, vedasaila and Malaya mountains), अपरान्तिकम् (A forest in Sahya mountain extending to the sea in the west), सौराष्ट्रवनम् [The forest which extends from Avanti (Ujjayini) to Dwaraka in Gujerat), पञ्चनदम् (A forest that extends from Kurukshetra near Delhi to Himalaya on one side and the sea on the west near Karachi. Probably it lies amidst the five tributaries of the Sindhu.)
इत्यष्टौ वनानि गजोत्पत्तिहेतुभूतानि । तेषु कारूशकं कालिङ्गकं दशार्णं च श्रेष्ठम् । आङ्गिरेयं प्राच्यं च मध्यमम् । अपरान्तं पञ्चनदं सौराष्ट्रं च अधमं इति विदितम् ॥
गजबन्धः
(Operation of Catching Elephants)
वारिबन्धः, वशाबन्धः, अनुगतो बन्धश्चेति त्रिविधबन्धैः गजाः वशीक्रियन्ते । तेषां विधानानि गजोत्पत्तिवनस्थाननिर्देशाश्च अभिलषितार्थाचिन्तामण्यादिग्रन्थतो ज्ञेयाः । आपातश्च अवपातश्च द्वौ निन्दितौ । कुतः ? गजाः ताभ्यां विनश्यन्ति (Because the animals may become injured by such operations as driving them to the pit or causing them to fall into a pit by rearing a temporary green pasture on the unstable and made up soil created on the pit.)
गजप्रमाणम्
सप्तारत्निसमुत्सेधः (10 feet in height) नवारत्न्यायतः (13 feet in length) दशारत्निपरीणाहः (15 feet in circumference of the waist or middle part of the body) एवंलक्षणोपेतः गजः शुभः । एकद्व्यरत्न्याधिक्यात् क्रमेण अरालः अत्यरालः भवति । द्वावपि निन्द्यौ । एकारत्निहीनस्तु मध्यमः । द्व्यरत्निहीनः कनिष्ठः । कनिष्ठादपि हीनः वामनः । ततोऽपि हीनः कुब्जः । पञ्चोनतिः सप्तदैर्ध्यमष्तहस्तपरिणाहः यस्य सः कर्णनागः । एकद्विवृध्द्या भद्रः मन्द्रः इति अन्यत्र कथ्यते ॥
गजानां नामान्तराणि
गजः दीर्घस्थूलकायः बलिष्ठः सूक्ष्मबुद्धिः शुण्डावान् (Having a trunk) द्विरदः (Having two tusks) अतिशयितदन्तः मदोदकशाली । अयं हस्तेन (शुण्डया) जलमाकृष्य वक्त्रे निक्षिपति । अतः अनेकपः । अथवा द्वाभ्यामङ्गाभ्यां पिबति इति द्विपः । अयं मतङ्ग‌ऋषेर्जात इति मतङ्गजः । नगेषु (पर्वतेषु) चरति अतः नागः । अयं नागशब्दः अनेकार्थकः । यथा - नागो मतङ्गजे सर्पे पुन्नागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलवेशेषे च श्रेष्ठे स्यादुत्तरस्थितः । नागं रङ्गे सीसपात्रे स्त्रीबन्धे करणान्तरे इति हैमः ॥
गजगर्जितं बॄंहणं निषादमिति व्यपदिश्यते । प्रकर्षगर्जने मत्तः । मदवमनोद्गीर्णः विमदः । गजगण्डः कटः । तस्य मदोदकं दानम् । शुण्डानिर्गतजलस्य वमने वमथुः । यूथनाथः यूथपः ।
गजानां बाह्यावयवादयः
गजस्य शिरसः पिण्डौ - कुम्भौ । तयोर्मध्यभागः विदुः (The middle of the frontal globes on an elephant’s forehead) । ललाटमवग्रहः । अक्षिकूटकम् ईषिका अथवा इषीका । अपाङ्गदेशः निर्याणम् । कर्णमूलं = चूलिका कुम्भाधोभागः = वाहित्थम् (वहनयोग्यं स्थलम्) । तदधःप्रदेशः प्रतिमानम् । स्कन्धदेशः आसनम् । गजमुखादिस्थबिन्दुसमूहः पद्मकम् । पार्श्वभागः - पक्षभागः । पूर्वजङ्घाभागः गात्रम् । पश्चाज्जङ्घाभागः अवरम् । वैणुकं तोत्रम् । बन्धस्तम्भः आलानम् । शृङ्खलायाः - अन्दुकः निगडः । अङ्कुशः - सृणिः । गजमध्यबन्धनं कक्ष्या - वरत्रा । पल्याणाद्यारोपणसज्जीकरणं कल्पना अथवा सज्जना । गजोपर्यास्तरणचित्रकम्बलस्य प्रवेणी, वर्णं कुथा - इति गजस्य बाह्यावयवादिविभागाः । अस्यान्तरावयवास्तु पूर्वमेव पशुसामान्यान्तरावयववर्णनसन्दर्भे विचारिताः ॥
गजस्य स्त्रियाः करिणी - वशेति,करिशाबकस्य कलभ इति प्रसिद्धिः । अयं सुखस्पर्शवेदी । अतः शिक्षितकरिणीस्पर्शेनैव वनस्थस्याप्यस्य बन्धः । अत एवोक्तम् - कुरङ्गमातङ्गपतङ्गभृङ्गमीनाहताः पञ्चभिरेव (पञ्चोन्द्रियैः) पञ्च इति । गजाः राज्ञां महोपयोगिनः - उत्सवादिषु वाहनार्थं समरे युद्धार्थम् । चतुरङ्गबलेषु हस्तिबलं प्रथमम् । बहवो राजानः हस्तियुद्धे गृहीतदन्तक्षता इति श्रूयते । हस्तिप्राप्तिः लक्ष्मीप्राप्तिरिति मन्यन्ते भारतीयाः । कुतः ? जीवन् वा मृतो वा भवतु गजः तेन सहस्राधिकधनलाभः भवत्येव । तस्य रदनाः, दन्ताः, अस्थीनि, चर्म इत्यादयः सर्वे विविधवस्तुरचनोपयोगिनः । अयं मन्दगतिः । तेनोपमीयते सुभगस्त्रीणां मन्दगमनम् । अत्र गजानां विशेषविज्ञानं पालिकाप्यमुनिविरचितहस्त्यायुर्वेदादिग्रन्थान्तरेषु सुविचारितमुदाह्रियते ।
हस्तिनः प्रमाणम्
सप्तारत्निः उत्सेधः (Height) । नव आयामः (Length) । दश परिणाहः (Circumference at the middle portion) । प्रमाणतः चत्वारिंशद्वर्षो भवत्युत्तमः । त्रिंशद्वर्षो मध्यमः । पञ्चविंशतिवर्षोऽवरः ।
अग्राह्याः गजाः
विक्कः (कलभः) - मूढः (मुग्धः - मदयुक्तो वा) मत्कुणः - (अनुदितदन्तः) - व्याधितः (व्याधियुक्तः) गर्भिणी धेनुका (क्षीरवती हस्तिनी) ॥
ग्रहणकालः
ग्रीष्मो गजानां ग्रहणकालः ।
हस्तिभेदाः
सात्विको राजसस्तामसश्चेति त्रिविधः । देवसत्वः गन्धर्वसत्वः - विप्रसत्वः - क्षत्रसत्वश्चेति सात्विकेषु चत्वारो भेदाः । वैश्यसत्वः - शूद्रसत्वः - सर्पसत्वश्चेति त्रिविधा राजसाः । पैशाचसत्त्वः रक्षस्सत्वश्चेति द्वौ भेदौ तामसेषु ।
गजानां जातिभेदाः
भद्राः - मन्दाः - मृगाः - मिश्राः इति गजेषु चतस्रो जातयः । तत्र ये मधुसदृशदन्ताः सुविभक्तदेहाः - नातिस्थूलाः - नातिकृशाः कार्ययोग्याः - समशरीरावयवाः - चापसदृशपृष्ठाः - वराहतुल्यजघनैर्युक्ताः ते गजा भद्राः ।
शिथिलकक्षाः - शिथिलशरीरमध्याः प्रलम्बजठराः - स्थूलचर्माणः - स्थूलकण्ठाः स्थूलकुक्षयः मेचकवर्णकुक्षिमूलाः सिंहसदृशदृष्टयः एते मन्दाख्याः मतङ्गजाः ।
हस्वाधरवालमेढ्राः तनुचरणाः ह्रस्वकण्ठाः ह्रस्वदन्ताः ह्रस्वकराः ह्रस्वश्रोत्राः स्थूलेक्षणाः एते मृगजातिगजाः । भद्रमन्दमृगजात्युक्तैः एतैश्चिह्नैर्युक्ताः सङ्कीर्णाः गजा मिश्रा इत्युच्यन्ते ।
अन्योऽपि विभागो यथा - दस्याः, सान्नाह्याः, औषवाह्याः, व्यालाश्चेति हस्तिस्कन्धाश्चत्वारः । तत्र दम्याः पञ्चविधाः - स्कन्धगतः, स्तम्भगतः, वारिगतः, अवपातगतः, यूथगतश्चेति । एते कलभवदुपचरितव्याः । सान्नाह्याः - आहवयोगिनः सान्नाह्याः । तेषां सप्तक्रियापथः - उपस्थानम्, संवर्तनम्, संयानम्, वधावधः, हस्तियुद्धम्, नागरायणम्, सांग्रामिकं च ।
औपवाह्याः - औपवाह्योऽष्टविधः - आचरणः, कुञ्जरौपवाह्यः, धोरणः, आधानगतिकः, यष्ट्युपवाह्यः, नेत्रोपवाह्यः, शुद्धोपवाह्यः, मार्गायुकश्चेति ।
व्यालाः - क्रियाविपन्नो व्यालः । एकक्रियापथः । गजप्रभेदास्तु आरण्यः, दम्यमानः, दान्तः, प्रभावितः, पुराणश्चेति ।
अनीकस्थगजानां बन्धनोपकरणादिवर्णनम्
आलान, ग्रैवेय, कक्ष्यापारायण, परिक्षेपोत्तरादिकं बन्धनम् । अङ्कुशवेणुयन्त्रादिकमुपकरणम् । वैजयन्तीक्षुरप्रमालास्तरणकुथादिकं भूषणम् । मर्मतोमरशरावापयन्त्रादिकस्साङ्ग्रामिकालङ्कारः ॥
गजानामुपयोगाः
गुरुभाराभिवहनम्, विषेमेषु गमनम्, सलिलस्य तरसा मर्दनम्, सलिलतरणम्, तोयौधस्य तीव्रधाताः विधाताश्च अवतारणम्, सर्वगात्रायुधत्वं च वारणेष्वेव दृश्यते ॥
आहारः
अरण्येषु नागानां तृणम्, ओषधयः, फलानि, वल्यः, मूलानि एते आहाराः । कडङ्गरः पानम् । स्वच्छन्दतः कर्दमपांसुधातादिनिषेवणम्, सलिलसेवनम्, पद्मप्रकर्षः, वृक्षभङ्गः, करेणुसङ्गश्च भवति । यदा गजाः क्षेत्राणि प्रविश्य सस्यादीनि लुठन्ति तदा खरैरुष्ट्रैर्मनुष्यैश्च वाहयेद्दण्डकं नृपः - इति राजनीत्या तान्नगरमानीय बन्धने स्थापयति । तदा प्रयुक्ताभिः द्रोणीभिस्तान् पाययेत् । जलयन्त्रैः शीतेन जलेन तान् परिषेचयेत् । मृणालैः इक्षुविशेषैः मधुरैरन्यपदार्थैः कडङ्गरैः वेणुभिः घासैः पल्लवैः यवसैश्च आहारं कल्पयेत् । एवं कृते एतैरुचितां ग्रहणीं मारुतः न निरुणाद्धि । गजाः जलप्रवेशेन घृततैलसेकादिभिश्च संस्कार्याः । तेषां यथासमयं यथापरिमाणं गुडतण्डुलदानं बलतेजोवर्धनम् इति पालिकाप्यः ॥
गजानामाहारपरिमाणम् एवं विधीयते कौटिल्येन - द्रोणमितं तण्डुलम् - अर्धाढकं तैलम् - त्रिप्रस्थं सर्पिः - दशपलिकं लवणम्, पञ्चाशत्पलिकं मांसम् (गजस्स्वभावतस्सस्यादनोऽपि स्वामीच्छया समरवलप्रदानार्थं मद्यमांसप्रदानमिति ग्राह्यम्) आढकमितो रसः, तद्द्विगुणं दधि, दशपलिकं पिण्डक्लेदनार्थं क्षारम् (शर्करा अथवा गुडमिति केचित्) आढकमितं मद्यम्, तद्द्विगुणं पयसः प्रतिपानम् । गात्रावसेकः, तैलप्रस्थः, शिरसोऽष्टभागः, प्रदीपिकाद्या यवसस्य द्वौ भारौ, सपादौ शष्पस्य, शुष्कस्यार्धतृतीयो भारः, कडङ्गरस्य अनियमः ॥
अन्यत्र गजानां स्नेहपानम्
सर्पिः, तैलम्, वसा, मज्जा, संस्कृतमसंस्कृतं च । एतच्चतुर्विधं स्नेहजातं वारणेभ्यः प्रदातव्यम् । एतत्पानं वर्नकरम्, वल्यम्, सर्वव्याधिविनाशकरं भवति ॥
गजचिकित्सा
गजानां रोगप्रकाराः एवं दर्शिताः । ७६ वातिका गदाः । २७ पैत्तिकाः । ३२ श्लेष्मिकाः । १५ रक्तात् । २२ सान्निपातकाः । १४ वातपित्तात्मकाः । १६ वातश्लेष्मसमुत्थानाः । ७ वातरक्तजाः । ३ श्लेष्मरक्तोत्थिताः । ३ पित्तकफजाः । २ वातासृक्पित्तजाः । ३ कफासृक्पवनोद्धताः । १ पित्तासृक्कफसम्भूतः । एतेषां भैषज्यं सुविशदं निर्दिष्टं भवति गजचिकित्साशास्त्रेषु ॥
गजानां मदप्रादुर्भावः
दोषधातुप्रकर्षेण हर्षेण च बलेन च । मदस्सज्जायते राजन् स्वभावादेव दन्तिनाम् । शतार्धमेव तु सिराः पृथङ्मदवहाः स्मृताः । या रसानुविभागेन कटौ मेढ्रे च संस्थिताः । समासात्कण्डशाह्यष्टौ विद्धि गात्रापरे तथा । पश्चात्पुरस्ताच्चैकैकं पादं प्रत्येकमाश्रिताः । हस्तिनां मददशायां हास्तिपकः बहुजागरूकतया तं देशान् प्रतिनयेत् । अन्यथा - मदान्धो हस्ती मदान्धेनाधिष्ठितो यद्यदासादयति तत्तत्सर्वं प्रमृद्गाति ॥
सिरादिविवरणम्
स्वेदोवहाः सिराः व्यायामे निदाधे मुखतः स्रवन्ति स्नायवः (६५०००) । आश्रयाच्छोणितादस्य यकृत्तस्य विवर्धते । रक्तदोषात्मिका चैव प्लीहावृक्कौ च दन्तिनः । शोणितस्य तु या धेनुः फुस्फुसं तस्य जायते । शोणिते वर्धमाने तु बलं तेजश्च वर्धते । षण्णां रसानां यत्तेजः कायं पुष्णाति हस्तिनाम् । सर्वासां सरितां यद्वत् प्रतिष्ठा वरुणालयः । तद्वत्सिराणां सर्वासां प्रतिष्ठा हृदयं स्मृतम् (Heart is the centre and source for blood circulation through various arteries, for details of the heart and its functions consult ‘Narayana Suktam’ biginning with पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् etc. ॥
गजशोभा
सञ्जातलोहिता, प्रतिच्छिन्ना, सल्ँलिप्तपक्षा, समकक्ष्या, अति प्रकीर्णमांसा, समतल्पलता, जातद्रोणिकेति शोभा । भद्रमन्दजातीयानां गजानां शोभामनुसृत्य व्यायामं कारयेत् । कर्मसु ऋतुवशेन मृगसङ्कीर्णलिङ्गं च कारयेत् । गजस्य कुम्भयोरधः प्रदेशस्य आरक्ष इति संज्ञा । हस्तिनां शरीरे ये ये भागास्सन्ति, तेषां रचनक्रमा ये तेषां व्यापाराः ये इत्यादयः हस्त्यायुर्वेदे विशेषतो ज्ञेयाः ॥
गजशिक्षा
शिक्षयेच्च ततो भाषां कर्मज्ञानं च दन्तिनाम् । अनालस्येन निर्बन्धान् प्रत्यहं गजपोषकः ॥ यथा - वही वही इति सञ्चारे, हे हे इति स्थितौ, अवसारणे ह्रेट् इति, पार्श्वद्वयावसारे फल् इति, उपवेशे चिञ्चि इति, स्थापने गुग्गुलु इति, करस्योत्क्षेपणे जडा च जडा च पडिहारपडिहार भिरह भिरह इति, स्तम्भादिलगने भिज भीज इति, गात्रस्योत्क्षेपणे भल्ल भल्ल इति, प्रवरानमने किकित् इति, याचनार्थं ये ये इति, करप्रधारणे दे देहि इति, कबलग्रहणे दिर्दिः इति, परित्यागे बुद्ध बुद्ध इति, निवारणे मा मा इति, भूमौ दन्ताभिधातने हिगे हिगे इति, बहिर्दण्डाभिधाते द्रु द्रु इति, शनैस्सञ्चारणे लेच लेच इति, आह्वाने छ छ भी भ इति, कस्यापि ग्रहणे धे धे इति भाषां शिक्षयेत् मतङ्गजम् अथवा देशभेदेन यथासन्तर्भं यथेप्सिता भाषासंज्ञाः शिक्षयेत् गजान् । एवं गजानां सङ्ग्रामशिक्षणमपि बहुधा प्रयञ्चितं शास्त्रेषु ॥
यानभोगः
समग्रं विपुलस्कन्धं मृदुसञ्चारशोभितम् । जवेन त्वरितं नागं याने शंसन्ति कोविदाः ॥ करिणी लघुसञ्चारा वेशदेशेष्वकम्पना । उपवेशे स्थिरा धीरा गमने च जवाधिका । गतौ तु ललिता रम्या सर्वतस्त्रासवर्जिता । चारुचामीकरच्छन्नपुष्पकेणोपशोभिता ॥
गजारण्यानि भारते तत्र तत्र वर्तन्ते । विशेषतः मलयमैसूरुनेपालदेशेषु ॥
हस्त्यायुर्वेदप्रादुर्भावः
आयुर्वेदश्च मनुष्याणां ब्रह्मसनत्कुमाराश्चिनीकुमारादिभिः बहुभिः ऋषिभिरिव गजाश्वादीनां तिरश्चामपि पालिकाप्यशालिहोत्रादिभिः महत्या कृपया निर्मितः । अङ्गदेशे चम्पानगरे रोमपादो नाम महीपतिरासीत् । सः श्रीमान् महाप्राज्ञः । स सभायामासीनः पालिकाप्यमुखेन हस्त्यायुर्वेदमधिगतवान् । स पालिकाप्यः अरण्ये हस्तिनां मध्ये निवसन् गाजाज्ञया सस्यनाशकगजानां गरहणानयनसमये अङ्गराजसमीपमानीतवान् । अतोऽस्य हस्तिविषयकज्ञानमकुण्ठितं सर्वस्तुत्यमिति विशेषः ॥
अथ जाङ्गलेषु आरण्याः मांसादनमृगाः
सिंहः - सिंही (Lion - Lioness)
पृथ्वी सिंही भूत्वा विजृम्भन्ती जनानचरम् (ऐ. ब्रा. अ. ३०, खं. ९) इति श्रुत्या सिंहस्वभावस्सूचितः । सिंहः गुहाशयेषु प्रथमः । अस्य मुखं विस्तृतं केसरयुतम् । अतोऽयं पञ्चास्य इति केसरी इति च कथ्यते । अस्य पादाः विस्तृताः । नेत्रे पिङ्गले । स्कन्धाः वालबहुलाः । मध्यः अल्पः । पुच्छः दीर्घः - गुच्छसदृशश्च । अस्यान्तरावयवाः गवाश्वावयवसदृशाः । अयं मांसादी - गजशत्रुः - गम्भीरदृष्टिः - सदर्पः - अरण्यमृगः । मृगेष्वयं प्रधान इति अस्य मृगराज इति व्यपदेशः । अयं बलशाली । सिंहशब्दः - हन हिंसागत्योः इति धातोः व्युत्पादितः । हिंस शब्दस्य वर्णव्यत्ययेन साधितः । तथा चोक्तम् - भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् इति । अतः अयं हिंस्रमृगः । क्षुद्रमृगान् हरिणादीन् हत्वा भक्षयति ।
केवलभयादयं अरण्येषु मृगेन्द्रो भवति ।
सिंहाः हिमालयप्रदेशेषु आफ्रिकाखण्डे च विशेषतो भवन्ति । सिंहः बलिष्ठः श्रेष्ठ इति स शब्दः अन्यत्रापि श्रेष्ठवाचको भवति । यथा - पुरुषसिंहः - नृसिंहः इत्यादि । भयादितरे मृगाः सिंहसमीपं न गच्छन्ति । अत एवोक्तं - न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः इति । महाविष्णुः नरसिंहरूपेणाविर्भूय दुष्टं हिरण्यकशिपुं संहृत्य तत्पुत्रं भक्तं प्रह्लादं परिपालयामासेति भारतीया कथा । अयं दुर्गाया वाहनमिति पौराणिकी गाथा । बलिष्ठस्याप्यस्य जेता शरभाख्यः अतिबलिष्ठोऽन्यो मृगो वर्तत इति श्रूयते । सोऽपि सिंहजातिरेव । महासिंह इति केचित् । सिंहः जरायुजः । स्त्रीसिंहव्यक्तेः सिंहीति व्यपदेशः । सिंहादयो बिलेशयास्सर्वे बलशालिनः ॥
व्याघ्रः - व्याघ्री (Tiger - Tigress)
श्रुतिः - क्षत्रं वा एतदारण्यानां पशूनां व्याघ्रः अरण्य एवावस्थिता आरण्याः पशवः हरिणादयः । यो व्याघ्रोऽस्ति स आरण्यानां पशूनां मध्ये क्षत्रं क्षत्रियवच्छूरः (ऐ. ब्रा. अ. ३७. खं. २) । व्याघ्रः मार्जाराकृतिकः । क्रूरमुखः । क्रूरदृष्टिः । द्वीपं चर्म अस्यास्तीति द्वीपी । अथवा द्वौ वर्णौ ईयते इति द्वीपीति व्युत्पत्या रेखाकारवर्णद्वयशोभी । हिंसकः - अतः शार्दूल इति नामान्तरम् । अयं तीक्ष्णनखः तीक्ष्णदंष्ट्रः, प्रकोपी, मांसादनः, गोशत्रुः भयङ्करः, वनवासी, तिर्यग्जन्तुषु अतिक्रूरः, पशुघातकः । स्त्रीव्याघ्रव्यक्तेः व्याघ्रीति नाम । सा अतिकोपना । विशेषतः प्रसूत्यनन्तरम् । व्याघ्रीव तिष्ठति जरा परितर्जयन्ती इति भारविः । व्याघ्रशब्दोऽपि उत्तरस्थः श्रेष्ठवाचकः । यथा पुरुषव्याघ्रः । अयं कर्कशं गर्जति । गन्धोपादाने प्रगल्भः । अतः गन्धसंज्ञया तत्र तत्राटन् आहारं सम्पादयति । बलिष्ठो जन्तुः मनुष्यमपि हत्वा भक्षयति ॥
तरक्षुः (Cheeta or Hyena)
व्याघ्रजातिक एव तरक्षुः । अयम् केवलमृगादनः । अन्यथा व्याघ्रसदृशः । स आहारार्थं मृगाणां मार्गं रुध्वा क्षुद्रमृगांल्लब्ध्वा भक्षयति । सिंह इव वाघ्रतरक्षवोऽपि गुहाशयाः । तथापि तस्य तैस्सह न विरोधः । अयमपि प्राणी दुर्गाया वाहनमिति गाथा ॥
व्याघ्रः गोशत्रुः । गोहनने मनुष्याणामिव व्याघ्रस्य न पापदूषणम् । तथा चोक्तम् - यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः इति मनुः (१. २७) । अनेन व्याघ्रदिकं हरिणमारणादिक्रियायां प्रथमं नियुक्तवान् जगत्स्रष्टा । स तस्य स्वभाव इत्युक्तम् । अतः एतत् हिंस्राकर्म अज्ञानाऽसहकृतत्वान्नपापम् ॥ तथाचोक्तम् - अज्ञानसहकृतं कर्म बन्धाय भवति न केवलं कर्म । अन्यथा गोहत्यादिजन्यं पापं व्याघ्रादीनामपि स्यात् । तथा न, व्याघ्रस्वाभाव्याद्गोहत्यायाः ॥
व्याघ्राणां सामान्यतो द्वीपीति व्यपदेशः । तथापि द्वीपीति अन्यो व्याघ्रजातीयो मृगविशेषः वर्तते (A Leopard) । चर्मणि द्वीपिनं हन्ति - इति व्याकरणे दर्शितत्वात् अयं चर्मार्थं मृगयुभिर्व्याधैश्च हन्यते इति विज्ञायते । तथाऽस्य नखानि च सङ्गृह्यन्ते । द्वीपिनखः भयरक्षार्थं शिशुभिः धार्यते ॥
भल्लूकः (Bear)
भल्लूकः बहुलवालचर्मवान् । सूकरमुखः । पृष्ठदृष्टिः । ऊर्ध्वकर्णः । तीक्ष्णनखः । मांसादी । गुहावासः । हिंसकः । अस्य भल्ल - भल्लक - भाल्लूक इति नामान्तराणि । अयं सङ्घातविगृहीतः । अतः ऋक्षः । तथा चोक्तम् - दधति कुहरभाजां यत्र भल्लूकयूनाम् इति भवभूतिः । अयं क्षुद्रमृगाणां आभिमुख्येन स्थित्वा हिंसां करोतीति, मृतजन्तून् न भक्षयतीति वा अस्य अच्छ इति नाम । अच्छभल्लपरिषद्विहरन्तीति कविप्रयोगः । अयमपि वानर इव सङ्घवासी । वराहजातौ आकृतिभेदवान् । वनभल्लूकस्य दन्ताः पटवः तीक्ष्णाश्च । अयं अरण्ये चरतां पान्थानां हिंसकः ॥
खड्गमृगः (Rhinoceros)
अस्य, खड्गः - खड्गमृगः इति नामव्यपदेशः । तत्र खड्गवत् नासिकोपरि शृङ्गं भवतीति निमित्तम् । अयं संहतो भवतीति गण्डक इति व्यपदिश्यते । अस्याम् आकृतौ प्रविष्टानां मध्ये, केचिदेकशॄङ्गिणः, केचिद्विशृङ्गिणः । अयं हस्तिजातिप्रविष्ट इति वक्तुं शक्यते इति केचित् । एतच्चिंत्यम् । अयं विवृतवक्त्रः, अकेशकठिनत्वक्, त्र्यङ्गुलिपादः । स्त्रीखड्गस्य खड्गधेनुरिति नाम । अयमहिंसकः । तृणभक्षकः । एते कामरूपारण्येषु (Assam) विशेषतः प्रचरन्ति ॥
वराहः (Wild Pig - Boar)
वराहः = वराय अभीष्टाय मुस्तादिलाभाय आहन्ति भूमिं इति व्युत्पत्या अस्य प्राणिनश्चेष्टा दर्शिता । तथा च कालिदासः विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले (शाकुन्तल २ ६) । वराहः दंष्ट्राधरः । उग्रदर्शनः । करेणुगात्रः । रक्ताक्षः । अयं खररोमवान् । अतः सूकरः । (A hog) । तथा चोक्तम् - दशनशिखरे धरणी तव लग्ना शशिनि कलङ्गकलेव निमग्रा केशव धृतसूकररूप जय जय जगदीश हरे इति गीतगोविन्दे जयदेवः । पटुदन्तेन मुस्तादिमूलानि घर्षतीति अयं घृष्टिः । पीनः, अतः कोलः । भूमिं दारयति अतः किरिः । भयदः - अतः किटिः । पोत्रं - लम्बतुण्डं अस्यास्तीति पोत्री । दंष्ट्रजातीयः (Their dentilation being the general character or the genus called mammals.) लम्बनासः अतः घोणी । तस्य रोमाणि स्तब्धानि (Having the hair erect) कुहरवद्भुजान्तरः - अतः क्रोडः । अयममेध्यजीवी । अस्य मांसमतिप्रीत्या भुञ्जते केचित् । केचित् अपवित्रमिति दूरीकुर्वन्ति । क्रोडीमुखनामा मृगविशेषः । (Rhinoceros) । एतज्जातीयः मृगविशेषः । तथैव वराहोऽपि (Hippopotamus is also of the same genus.) एतज्जातीयः भूचरो जलचरश्च (Omnivorous) । एतज्जातीय एव शल्यः - शल्यसदृशरोमविशेषैराच्छादितशरीरः (Porcupine)। स श्वावित् - श्वानं स्वशल्यैर्विध्यति । कण्टकवराहः वराहजातिविशेष एव शल्यक इत्युच्यते । कण्टकाकृतिशल्यान्येव तस्य पक्षस्थानीयानि भवन्ति । स तैः अरण्ये शत्रून् जेतुं शक्नोति ॥
जम्बुकः (Fox - Velpus)
जम्बुकः वराहजात्यामाकृतिविशेषवान् मृगः । अयं कुक्कुटादीनपहृत्य खादति । वञ्चकः । बहुमायिकः - अतः भूरिमायः । गां - विकृतां वाचं मिनोति - इति गोमायुः । मृगेषु धूर्तः । असृग्लिट् - अतः सृगालः शृगाल इति लोके विदितः । कदाचित्क्रोशति - कदाचित् फे इति रौति । तथाह साहसाङ्कः - गुहारूपं वृषभेरुः फेरवस्तारकाशिशवा । सूकरोति रुजः फेरुः श्वभीरुर्मण्डलाहितः इति । सर्वथा दुर्गुणोऽपि, दुष्टचरितो भवत्यपि अयं शकुनशास्त्रे पुञ्चम्बुकस्य शिव इति स्त्रीजम्बुकस्य शिवा इति शकुनावेदकत्वान्निर्देशः । अस्य वराहजातिप्रविष्टत्वात् अवयवादयः सामान्यतः तत्तज्जातिरूपमेव भजन्तीति रहस्यम् ।
वृकः (Wolf)
वृकोप्येतज्जातीयः । अयमविकुलं भिनत्ति । अविवत्सानादाय धावति । अतः अस्य कोक इति नाम । वृकविशेषःईहामृगः । यस्य मृगेषु सदा ईहा । अथवा ईहाप्रधानो मृगः । यः वाताभिमुखं धावति स वातप्रमीः । यः वात इवातिवेगेन धावति स वातमृगः । एतौ द्वौ वृकविशेषौ । अथवा मृगालविशेषौ । अयमपि मृगालजातिप्रविष्टः । आकृतिशेषेऽन्तर्भूतः ।
बभ्रुः (Mungoose)
बभ्रुः स्थूलपुच्छः । रक्तनेत्रः । सर्पहन्ता । अस्य नकुल इति नामान्तरम् ।
एते सिंहादयो मृगाः गुहाशया इत्युच्यन्ते । एते बलशालिनः ।
ग्राम्येषु पुनः मांसादिनौ श्वामार्जारौ, बिलेशयः आखुः, सस्यफलादी वानरश्चान्तर्भूता इति मत्वा तेषामत्र विवरणम् ॥
श्वा (Dog)
अयं कुले भवतीति कौलेयकः । सरमा इति दैवी श्वा देवशुनी । तदपत्यमिति सारमेयः । कुकु इति कुरति - शब्दं करोति इति कुक्कुरः (कू कुर इति शब्दस्य कर्ता कूकुरः) अत एव भषकः । अयम् अन्नादी मांसादी च भवति । मृगयायामतिप्रयोजकः । गन्धग्राही । अतः चोरादिभ्यः गृहं पालयति । वृकादीन् गन्धेन विदित्वा तत्स्थानं नयति मृगयुम् । अयं मार्जारशत्रुः । चञ्चलस्वाभावः । मेध्यामेध्यभक्षकः । अस्य स्वभावः विशेषतः बुभुक्षासमये एवं भवतीति वर्णितम् - यथा - लाङ्गूलचालनमधश्चरणावधातो भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते - इति नीतिविदः ।
ग्रामश्वा वनश्वेति द्विविधो मुख्यो भेदः । तयोरपि जातिवर्णस्वभावादिभ्यः देशवासादिभ्यश्च अनेके प्रभेदा वर्तन्ते । अयं न परोपकारी । स्वसुखाभिलाषी । अतः श्वजन्म अतिनिकृष्टमिति मन्यन्ते । अयममेध्यः प्राणीति बहुमतं वर्तते । तथापि तेन गृहपश्वादिरक्षणं भवतीति तम् अतिस्नेहेन पालयन्ति केचित् ॥
यस्य शुनः त्रिषु पादेषु पञ्चनखाः, चतुर्थे षण्नखाः, यः उग्रगः, दक्षिणः, ताम्रनासः, ताम्रोष्ठः, सिंहविक्रमः, यः महीं जिघ्रन् मुदा याति, यस्य लाङ्गूलं जटिलं, यस्य चक्षुषी ऋक्षाभे, यस्य कर्णौ मृदू अतिप्रलम्बितौ च स प्रशस्य इति । तथा कुक्कुर्याः त्रिषु पादेषु पञ्चनखाः चतुर्थे वामे पादे षण्नखाः, पुच्छं वक्रम्, कर्णौ पिङ्गलालम्बकौ, नयने मल्लिकाक्षसदृशे सा प्रशस्ता इति गर्गः ।
अत्रेतिहासः वेदेषु - असुराः देवगवीरपहृत्य गिरिदुर्गे स्थापयित्वा द्वारं अपिदधुः । ततः इन्द्रः सरमापुत्रं सुवीरणमाहूयाब्रवीत् - हे सुबीरण गत्वा जानीहि कैरपहृता गावः ? क्व तिष्ठन्तीति । गत्वा च, अपहर्तॄन् बाधयित्वा लब्ध्वै व गाः आगच्छेति । स तथा अकरोत् । तस्मै चागताय - कुमारा नहं बाधये इति तदीप्सितवरमदादिन्द्रः इति । सुबीरणस्य सरमा माता = रोहितो नाम पिता । अमी एके सरस्यका अवधावत तृतीयस्या इतो दिवः । यूयं अथा ये श्वानः एके केचित् । ते के ससरमतण्डः, तूलः, वितूलः, अर्जुनः, रोहितः इति येषां माता दुला, पिता मन्थाकाकः रसनीयेन मांसादिना सहिताः अवधावत अधोमुखा गच्छत कुतः ? तृतीयस्या इतो दिवः इति यदुक्तं इन्द्रेण तत् श्वजातीयेषु सर्वेषु सत्यं भवति । स एव तत्स्वभावो भवतीत्यत्र प्रकरणसङ्गतिः ॥
मार्जारः (Cat)
अयं व्याघ्रजातीय इति केचित् । अल्पोऽप्ययं प्राणी आकारे व्याघ्रसदृशो भवतीत्यत्र हेतुः । अयं गृहेषु मूषकान् भक्षयति । अतोऽयं आखुभुक् । आखुभ्यः गृहभवति रक्षति इति हेतोः ओतुरित्यस्यापरं नाम । मुखं मार्ष्टि इति मार्जारः । एषा क्रियाऽस्य स्वाभाविकी । अयं बुभुक्षासमये वेडति आक्रोशति इति बिडालः अथवा बिडाल इति संज्ञां लभते । स्त्रीमार्जारस्य मार्जारीति नाम । इयमेकदा पञ्चषाण्यपत्यानि प्रसूते । तेषु केषुचित् पुंबिडालेनापहृतेषु सा माता भृशमाक्रोशति । तस्याः अपत्यप्रेम अन्यादृशम् । एकैकमपत्यं स्ववत्क्रेण गृहीत्वा तद्रक्षणार्थं स्थालात्स्थलं नयति । अतः मार्जारकिशोरन्यायेन भगवान् स्वभक्तान् स्वयमेवागत्य परिपालयतीति न्यायोऽपि विदितचरः । अयं अपवित्रः प्राणीति केषाञ्चिन्मतम् । गृहे पुत्रपौत्राभिवृद्धिर्भवतीति मार्जारान् पोषयन्ति केचित् । घृतक्षीराद्यपहरणे अयमतिकुशलः । अयं श्वशत्रुः । दृष्टे शुनि अयं भीतभीतो भवति । पालकानां पुरतः अतिसाधुरिव नाटयति । अरण्ये पुनः एतञ्जातीयानां वनमार्जारा इति व्यपदेशः । ते शाखामृगा इव वृक्षेषु वसन्तीति श्रूयते । अयं पर्णमृगजातीयः । गृहमार्जारस्तु ओकस्सारी । तथा चोक्तम् - ओकस्सारीव पूर्वं गच्छत्येव तत्रापरं गच्छति (ऐ. ब्रां. अ. २९. स्वं. ७) ओकांसि - स्थानानि गृहाणि तेषु सरति सर्वदा सञ्चरतीत्योकस्सारी । मार्जारः पूर्वस्मिन् दिने येषु गृहेषु सञ्चरति तेष्वेव गृहेषु परेद्युरपि सञ्चरति । इति मार्जारस्य वृत्तं सूचितम् ।
आखुः (Rat)
आ समन्तात् भूमिं खनतीति आखुः । एतज्जातीयास्सर्वत्र वर्तन्ते । आखुः स्वोदरम्भरिः । धान्यादी । बिलेशयः । अस्य भद्रमूषकः, आसुन्दी, वज्रदशनः इति च नामान्तराणि । अयं सर्पाणां भक्ष्यं भवति । अयं मार्जारशत्रुः । मूषकेष्वनेके प्रभेदाः वर्तन्ते । वनेष्वपि विविधाः मूषकास्सन्ति । तत्प्रचुरस्थलस्य मूषकोत्कर इति नाम । मूषकवृद्धिः यत्र - तत्र इतिबाधा ह्यनिवार्या । अत एवोक्तम् - अतिवृष्टिरनावृष्टिर्मूषकाश्शलभाश्शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयस्स्मृताः इति । वनाखुः, गोधाशशभुजङ्गशल्लकीवत् बिलेशयजातिप्रविष्टः । एतज्जातीयास्सर्वे वीर्योष्मगुणशालिन इति वैद्यग्रन्थेषु मांसगुणविचारावसरे प्रदर्शितम् ॥
वानरः (Monkey)
वानरः पशुमनुष्यजात्योर्मध्यस्थ इति केचित् । अयं चञ्चलस्वभावः अत एव कपिः । उत्प्लवनशीलः अतः प्लवगः । वृक्षशाखासु विलीनः अतः शाखामृगः । वने भवं वानं फलादिकं तद्राति आददातीति वानरः । वनमेव ओकः अस्येति वनौकाः । अयं सस्यादी । वानरस्य स्त्री वानरी । सा किशोरमपि त्यक्त्या स्वेच्छया गच्छति । यदि स एव तामाश्रयते तदा तं रक्षति अत एव मर्कटकिशोरन्यायेन भक्तः स्वयमेव भगवन्तमाश्रयेत चेत् तदा तं भगवान् रक्षति । न तु स्वयमेव मार्जारकिशोरन्यायेन भक्तस्य समीपं गत्वा रक्षति इति न्यायः प्रवृत्तः । अस्य आन्तरावयवाः मनुष्यावयवसदृशा एव । परन्तु वाग्व्यवहाराभावात् पुच्छरूपविषेशाङ्गस्य सत्त्वात् अस्य पश्वादिष्वन्तर्भावः । अयं फलान्नादी नतु तृणभक्षकः नापि मांसादनः । अयं ग्रामेषु सञ्चरति । वनेष्वपि वर्तते । अतः ग्राम्यारण्ययोर्मध्यवर्तीति विज्ञायते । अयं पवित्रो मृग इति कैश्चिद्भाव्यते । गिरिकन्दरेष्वस्य स्थितिः प्रसिद्धा । एतज्जातीयेषु नीलमुखाः, पिङ्गलमुखाः, लोहितमुखा इति अनेके आकृतिविशेषा भवन्ति । वानरा अपि पर्णमृगजातीयाः । तेषां वनीकाः, वृक्षमर्कटाः इति च व्यपदेशः । वृक्षमर्कटकानां वननराः (Orang - outang) इति लोके प्रसिद्धिः । नाडायनः शैलुषाय वानरोत्पत्तिं जगादेति श्रूयते । वानरेषु अनेकभेदा वर्तन्ते - दीर्घपुच्छाः, पुच्छहीनाः, नरसदृशाः इति (Cf. Lemurs are long - tailed little monkeys. Chirpinjas, tailless apes, gorillas man - like apes, ordinary monkeys belong to the fourth type) ॥
आरण्येषु पुनः सस्यादिनो मृगा अनेके वर्तन्ते । तेषु -
हरिणः (Deer)
अयं व्याधैर्मृग्यत इति मृगः । कौ - भूम्यां रङ्गति - चरति इति कुरङ्गः । वाताभिमुखमयति - गच्छतीति वातायुः । साधुत्वेन गीतेन वा मनः ह्रियते - इति हरिणः । अयमजिनयोनिरित्युक्ते, - अस्य चर्म बहुभिर्बहुधा उपयुज्यत इति भावः । अयं विश्वतः अञ्चति इति विश्वाची । नयनशोभया चारुलोचनः । कदली - कन्दली चीनः - चमुरुः प्रियकः - समूरुश्चेत्येते अजिनयोनयः । अस्य एण इति च संज्ञा । तस्य स्त्री एणी । हरिणभेद एव शबलवर्णः कृष्णसारः । अयं साधुमृगः तृणादि भक्षकः । अस्य स्वभावचेष्टादिकमेवं वर्णितं महाकविना कालिदासेन - ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः, पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढैश्श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति - इति शाकुन्तलनाटके ।
हरिणाः - एणाः - कुरङ्गाः - सारङ्गा इत्यादयः प्रायशः हरिणभेदा एव । ते सर्वे जाङ्गलाः । तेषु हरिणः - ताम्रवर्णः । एणः कृष्णः । कुरङ्गः ईषत्ताम्रः एणतुल्याकृतिरपि महाशरीरवान् । ऋष्यः नीलाङ्गकः । पृषतः - चन्द्रबिन्दुः - हरिणात्किञ्चिदल्पकः । न्यङ्कुः बहुविषाणः । शम्बरः - गवयः - महान् । राजीवः - राजिभिः परितो वृतः । मुण्डी शृङ्गहीनः । मांसाहारिणामेतेषां मांसं लघु बलवर्धनं च भवति ।
वेदोक्ताः मृगाः
सूकरः वराहः (A Hog or Pig) । कृष्णः = कृष्णमृगः (A Black Antelope) । ऋष्यः - मृगविशेषः (A whitefooted Antelope) । गवयः = गोसदृशो मृगः सास्नारहितः (A species of Ox) । गौरः = गौरमृगः (A kind of buffalo or deer) । शार्दूलः = आरण्यानां राजा (A Tiger) । मर्कटः वानरः (Monkey) । हस्ती = गजः (An Elephant) । मयुः = हरिणविशेषः (A Deer) । मयूरः = अरण्यमयूरः (A wild peacock or a kind of beast) । ऊलुः = कुररः (An osprey) । पृषदंशः = मार्झारसदृशः अथवा दीर्घकर्णो मृगः (A wild cat or wolf - like beast) । अजः = मेषः = आरण्यजः (A beast) । नकुलः (The Mungoose) । पुरुषमृगः = पुरुषमुखो मृगः (Orangoutang) । एणी = स्त्रीमृगविशेषः (A female Deer) । क्षिंका = रक्तमुखवानरी (A wild female monkey) । नीलशीर्षी = कृष्णमुखवानरी (A kind of monkey) । कर्कटः = बिलवासी मृगः - जम्बुको वा (Jackal) । सृमरः = चामरः (A kind of deer) । पृषतः - श्वेतबिन्दुशबलाङ्गो मृगः (A kind of deer) । एत्वः मृगविशेषः (A kind of deer) । न्यङ्कुः - हरिणविशेषः (A kind of deer) । कशः = नकुलजातिः - लोमवपुश्श्वा वा (A wild dog) । कुटरुः = मृगसिंहः । शित्पुटः - मार्जारसदृशो मृगविशेषः । पान्त्रः मृगविशेषः । पालवः - शललजातीयः । जहकः = बिलवासी (A beast that lives in a pit) । लोपा अथवा लोमाविका = मृगविशेषः । शशः = मृगविशेषः (A Hare) । रुरुः = मृगविशेषः । हरिणः = अक्ष्णोरुपरिबिन्दुद्वयवान् (A kind of deer) । तरक्षुः = मृगविशेषः - गर्दभाकृतिः = कृष्णवर्णः (A cheetah or hyena) । गर्धभः (A wild ass) । वाघ्राणसः = खड्गमृगः (Rhinoceros) । श्वावित् = शलली = सूचिरोमा (Porcupine) । कृष्णाश्वा - अस्यैव विलेशयमृगेषु शल्लकीति प्रसिद्धिः । इति एकोनचत्वारिंशन्मृगभेदाः वेदेषु निर्दिष्टाः । तेषु केषाञ्चिन्मृगविशेषाणां विचारः सम्यगुपरि निर्दिष्टाः । अन्येषां प्रायशः तथाविधावयवित्वात् तादृशस्वभाववत्यात् ते पूर्वोक्तमृगाणां जातिविशेषेषु वा आकृतिविशेषेषु वा प्रविष्टा एवेति मत्या तेषामपि विचारः कृत एवेति विभावयन्तु सुधियः । अनेन एतेषां मृगविशेषाणां बाह्यान्तरावयवान्, तच्छीलस्वभावान्, तत्क्रियाविशेषांश्च प्रत्यक्षतोऽवगतवन्तो७स्मत्प्राचीना इति सङ्ग्रहेणोक्तिः । एतेष्वनेके जाङ्गलाः । तेषु हरिणः - ताम्रवर्णः । एणः - कृष्णः । कुरङ्गः - ईषत्ताम्रः - एणतुल्याकृतिरपि महाशरीरवान् । ऋष्यः - नीलाङ्गकः । पृषतिः - चन्द्रबिन्दुः । हरिणात्किञ्चिदल्पकः । न्यङ्कुः - बहुविषाणः । शम्बरः गवयः महान् । राजीवः राजिभिः परितो वृतः - मुण्डी शृङ्गहीनः । इति तेषां स्थूलभेदाः वेदितव्याः ॥
मांसाहारिणामेतेषां मांसं लघु, बलवर्धनं च भवति । तथा बिलेशयजातीयेषु गोधाशशयोर्मांसमपि तदशनानां वीर्योष्मगुणकं भवति ॥
शशः
शशः - लम्बकर्णः, शूली, लोमकर्णः । अयं मृगयाविनोदिनां व्याधादीनामतिप्रियः । मांसगुणवर्णने - शशः शीतो लघुः स्वादुर्ग्राही पथ्योऽग्निदीपनः । सन्निपातज्वरश्वासरक्तपित्तकफापहः - इति वर्णितं भवति । अयं सामान्यारण्येषु च वर्तते । तस्य मांसं सुखाद्विति बुध्द्या व्याधास्तं मृगयालीलया मारयन्ति । अयमाकारे ह्रस्वोऽपि सूक्ष्मज्ञानबलमन्त्रशक्तियुक्तः । अत एव - शशकेनेव सिंहव्यापादनमत्र दृष्टान्तः इति सोमदेवसूरिः नीतिवाक्यामृते (XXIX, 114 - 115) भणति ।
कुलेचराः
लुलुपः, गण्डवराहः, चमरी, वारणः एते कुले चरन्तीति कुलेचराः समूहचरा भवन्ति । लुलुपः = वनमहिषः । गण्डवराहः खड्गमृगभेदः । चमरी - बालप्रधानानां चमरमृगाणां स्त्रीव्यक्तिविशेषः । चमरमृगास्तु कुरङ्गप्रभेदा एव । वारणः, गजः प्रसिद्धः । एतेषां विचारः अनूपजविचारावसरे सम्यक्कृतोऽपि मृगवर्गे तेऽपि प्रविष्टा एवेति सूचयितुमत्र निर्देशः ॥

चमरीमृगः
एतज्जातीयाः केशिन इत्युच्यन्ते । तेषां केशाः स्निग्धाः, लम्बाः, स्थिराश्च । ते भूषणार्थं व्यजनार्थं चोपयुज्यन्ते । हिमालयप्रान्तेषु प्रायशस्तेषां स्थितिर्भवति ॥
अथ पक्षिणः (Birds)
पक्षी, खगः, विहङ्गः, विहगः, विहङ्गमः, शकुनिः, विः, पतत्री, विष्किरः, विकिरः, अण्डजः, एते शब्दाः पक्षिणां सामन्यवाचकाः । सर्वे पक्षिणः अण्डजाः ॥
पक्षिणां शरीरव्यवस्था
तैत्तिरीयारण्यके (प्र. ५. अ. १४.) अन्नात्पुरुषः अन्नरसमयं शरिरमित्युक्त्वा अन्नरसपरिणामः शुक्लमिति दर्शितत्वात् पक्षिशरीरमपि शुक्लशोणितजन्यमिति स्पष्टमुक्तम् । किं च तत्रैव कारणान्तरेण पुरुषस्य पक्षिरूपेण विधानावसरे शिरः पक्षात्मपुच्छाः प्रधानाश्चतुरवयवाः प्रदर्शिताः । यथा - तस्येदमेव शिरः, अयं दक्षिणः पक्षः, अयमुत्तरपक्षः, अयमात्मा, इदं पुच्छं प्रतिष्ठा इति । तत्र शिरः प्रसिद्धः उपरिभागः । पक्षौ हस्तस्थानीयौ । आत्मा मध्यमो देहभागः । पश्चाद्भागत्वात् पादौ पुच्छं प्रतिष्ठा प्रतिष्ठानहेतुत्वात् तयोः प्रतिष्ठानत्वमिति दर्शितम् । अनेन सर्वेषां पक्षिणां शिरः पाणिपादमध्यभागपुच्छरूपाणि पञ्चाङ्गानि भवन्तीत्युक्तम् । (Cf. Birds are distinguished from all loving creatures by their covering of feathers and by the peculiar arrangement of bones in the pelvis and shoulders and simple and loose naked beak.)
अन्यत्र - परार्धं लघु पुंसां स्यात् स्त्रीणां पुर्वार्धमादिशेत् । देहमध्यं गुरुप्रायं सर्वेषां प्राणिनां स्मृतम् । पक्षक्षेपाद्विहङ्गानां तदेव लघु कथ्यते । गुरूण्यङ्गानि सर्वेषां गुर्वी ग्रीवा च पक्षिणः । उरस्स्कन्धोदरे कुक्षिः पादौ पाणी कटी तथा । पृष्ठत्वग्यकृदन्त्राणि गुरूणीह यथोत्तरम् । इति सङ्ग्रहेण निरूपितम् ॥
पक्षिणां सामान्यस्वरूपम्
यवग्रीवाः, सुपक्ववदरफलाभाः, बृहन्मूर्धानः, बहुवर्णाः, रुचिराः, विहगाः शस्ताः । कृशतनवः, कृशरवाः, खञ्जचरणाः नशस्ता इति वराहमिहिरः ॥
पक्षिणां कालदिग्बलम्
कृकवाकुः, पिरिली, मयूरः, वञ्जुलः, सिंहनादः (पक्षिविशेषः), कटायिका एतेषां पूर्वदिशि बलम् । उलूकः, हरितः, वायसः, कोकः, पिङ्गलः, कपोतः एते दक्षिणस्यां दिशि बलिनो भवन्ति । क्रौञ्चः, हंसः, कपिञ्जलः एतेषां पश्चिमायां दिशि बलम् । दार्वाघाटः, कोकिलः, चाषः, पुण्याहरवः एते उत्तरस्यां दिशि बलिनः ॥
पक्षिभेदाः
विष्किराः, प्रतुदाः, प्रसहाः, प्लवा इति चत्वारो भेदाः । तत्र विष्किराः - वर्तकः, लावः, वर्तीरकः, कपिञ्जलः, तित्तिरिः, कुळिङ्गः, कुक्कुटः इत्यादयो वीकीर्य भक्षयन्त्येते यस्मात्तस्माद्विष्किराः । गौरतित्तिरस्य कपिञ्जल इति लोके प्रसिद्धिः । एते लघुशरीरिणः ॥
अथ प्रतुदाः - तुण्डेन प्रतुद्य भक्षयन्तीति प्रतुदाः । हारीतः, धवलः, पाण्डुः, चित्रपक्षः, बृहच्छुकः, पारावतः, खञ्जरीटः, पिकः इत्यादयः । अत्र धवलशब्देन कपोतः ग्राह्यः बृहच्छुकः, शतपत्रः, दार्वाघाट इति चास्य नामान्तरम् । एते वर्चस्काः ॥
अथ प्रसहाः - एते प्रस्य - आच्छिद्य भक्षयन्तीति प्रसहाः । काकः, गृध्रः, उलूकः चिल्लकः, शशघातकः चाषः, भासः, कुरर इत्यादयः । तेषु - चाषः नीलकण्ठः । भासः गृध्रविशेषः । एते त्रिविधा अपि जाङ्गलाः ।
अथ प्लवाः - हंसः, सारसः, बकः, बृहद्बकः, क्रौञ्चः, कारण्डः, शराटकः, नन्दीमुखी कादम्बः इत्यादयः । कपर्दिकाख्यः बृहद्धंसभेदः । स्थूला कठोरा वृत्ता च यस्याश्चञ्चूपरिस्थिता । गुटिका जम्बुसदृशी प्रोक्ता नन्दीमुखेति सा । प्लवन्ति सलिले एते इति प्लवाः । एते अनूपजाः ॥
अथ विष्किराः - विष् वेष्टने इति धातोः जुहोत्यादिगणे वेवेष्टीति रूपम् । अतः आहारवस्तुनः परित आवृत्य भक्षयतीत्यर्थो लभ्यते । तेषां गतिरपि तथैव ॥
विष्किरवर्गेषु लावाः चतुर्धा भवन्ति पांशुलः, गौरकः, पौण्डरीकः (पौण्ड्रकः), गदाधर्मरश्चेति । तित्तिरिः कृष्णवर्णः, अन्यः चित्रवर्णः, अन्यः गौरः । चटकः कलविङ्कः, कुळिङ्गः, कालकण्टक इति चटकनामानि । कुक्कुटस्य - कृकवाकुः, ताम्रचूडः, काळीयः, चरणायुधः । पाण्डुः द्विविधः - चित्रपक्षः, कलध्वनिरिति । अन्यः धवलः । कपोतः स्फुटस्वनः । मयूरस्य चन्द्रकी, केकी, मेधरावः, भुजङ्गभुक्, शिखी, शिखावलः, बर्ही, शिखण्डी, नीलकण्ठिकः, शुक्लापाङ्गः, कलापी, मेधनादः इति नामानि ॥
अथ पक्षिणां मांसपरीक्षा
मांसपरीक्षायां विहङ्गेषु पुमान् श्रेष्ठः स्त्री चतुष्पदजातिषु इत्युक्तं भवति । अत्र विशेषः - धान्यचारिणां खगानां मांसं लघु वातकरम् । मत्स्याशिनां तु पित्तकरं वातघ्नं - गुरु कीर्तितम् । पलाशिनां श्लेष्मकरं, लघु रूक्षम् । तुल्यजातिषु अल्पदेहाः पूजिताः । अल्पदेहेषु स्थूलदेहिनः प्रशस्ताः ॥
वेदोक्ताः पक्षिणः
वर्तिका = चटकसदृशी (A bird like hen - sparrow) श्येनः - क्षिप्रगतिश्शकुन्तराजः (A hawk, falcon । कुलुङ्गः (कुलिङ्गः - A kind of bird) । हलीक्षणः = हरितचटकः (A green - sparrow) । शारिः - शारिका (A kind of bird) । श्येतः - तत्सदृशः पक्षी (A kind of bird) । पुरुषवाक् - पटुवाक् पक्षिविशेषः । शुकः - पक्षी (Parrot) । क्रौञ्चः - पक्षिविशेषः (A heron) । कुषीतकः - समुद्रकाकः (A water bird) । आती - चाषः (The blue jay) । वाहसः धूमलेखः । दर्वीदा - जलपक्षी (A water bird) । चक्रवाकः दिवाविरही (A ruddy goose) । दार्वाघाटः - द्रुमकुक्कुटः (A wild cock) पिकः - कोकिलः (Indian cuckoo) । बलाका - प्रावृट्प्रिया (A crane) । मयूरः - बर्ही (A peacock) । श्येनः (A hawk) । कपिञ्जलः - तित्तिरिजातीयः । तित्तिरिः (A partridge) । गोलतिका - चञ्चरीटका (The wagtail) । पैङ्गराजः - चकोरः (The Greek partridge) । महा उदभुक्-शकुनिः । कपोतः रक्तपादः (A dove or pigeon) । उलूकः दिवाभीतः (An owl) । कृकवाकुः - अरण्यकुक्कुटः (A wild cock) । कृकलासः - कामरूपी (A wild bird) । शकुनिः - काकः (Crow) । वीर्यका - शकुन्तिका (A kind of bird, a locust or cricket) । शार्ङ्गः - अरण्यचटकः (A wild sparrow) । धूंक्षाणः - श्वेतकाकी (White crow) । अलजः (A kind of bird) । हंसः - सर्वश्वेतो हंसः (White goose) कीर्शा - कुलली गृध्रः (Hawk) । शितिकाक्षी - पाण्डुरोदरः - गृध्रः । सुपर्णः - गरुडः (King of birds) ॥
वैद्यग्रन्थोक्तपक्षिणः
पारावतः, चटकः, वेश्मचटकः, लावः, पौण्ड्रकः, गौरः, दर्भकः, तित्तिरिः, गौरः, मयूरः, कपोतः, शुकः, कुक्कुटः, वन्यकुक्कुटः, पानीयकुक्कुटः, चक्रः, कङ्कः, बकोटः, एतेषु केषाञ्चिद्विचारः अवश्यं ज्ञेयः ॥ तत्र -
गरुडः
अयं पक्षिराज इत्युच्यते । तार्क्ष्यात् काश्यपाज्जातत्वात् तार्क्ष्यः । विनतायास्सम्भवात् वैनतेयः । अयं नागानामन्तकः । अस्य समीचीनाः पर्णास्सन्तीति सुपर्णः । सर्पाशनः । पक्षिषु अयं श्रेष्ठ इत्यार्यैः भाव्यते । अस्य चञ्च्वैव पक्षिणां चञ्जूवैशिष्ट्यं ज्ञायते । (cf. Loose naked beak is the peculiar arrangement of birds.) ॥ पक्षिपतिः - संपातिः । पक्षिपुङ्गवः - जटायुः । एतौ द्वौ पक्षिजातिषु गरुडाकृतिप्रविष्टौ ॥
हंसः
हन्ति - गच्छतीति हंसः । मानससरोवासी । श्वेतपक्षः । चक्राकाराणि अङ्गानि अस्य सन्तीति चक्राङ्गः । यस्य हंसस्य चञ्चुः चरणौ च लोहितवर्णाः सः हंसानां राजा - राजहंस इति कादम्ब इति चोच्यते । अयं मन्दगमनः मनोहरगतिकः । अतः मनोहरमन्दगतिमत्यः स्त्रियः हंसगमना इति वर्ण्यन्ते ।
चक्रवाकः
अस्य चक्र इति नाम कोकः, रथाङ्गः इति च नामन्तरे । अयं दिवा विरही ॥
शारिका
शारिका पक्षिविशेषः जनैः पाल्यते । भाषणं शिक्ष्यते । सन्देशश्च प्रेष्यतेऽनया । अनया गुप्तमन्त्रोऽपि प्रकटितो भवति कदाचित् । तथाचोक्तम् - शुकशारिकाभिः श्वभिः अन्यैश्च तिर्यग्योनिभिः मन्त्रो भिन्नो भवति इति अर्थशास्त्रे चाणक्यः ॥
शुकः
अयं पक्षिविशेषः । मनुश्ःयवद्भाषणसमर्थः । फलाशी । अनेकैः पञ्जरे पोष्यते । अस्य गात्रं पलाशवर्णम् । चञ्चूपुटं शोणितम् । शुकजातौ पञ्चवर्णाः, चित्रवर्णाश्च शुकास्सन्ति । शुकसङ्घः ईतिकारी । शुकमुखाद्वार्ताप्रेषणं पूर्वस्मिन् काले प्रसिद्धमासीत् । शुकालापः श्रव्यः । शिक्षितः शुकः शिशुवत् मञ्जु मञ्जु गुञ्जति । अस्पष्टं भाषते । अयमहिंसकः । मार्जारदर्शनादस्य भयं भवति । अयं बालानां प्रीतिदः । अस्य कण्ठमूले हरितपीतलोहितात्मकत्रिवर्णरञ्जितशोभा भवतीति विषये कण्ठमूलोल्लसद्वर्णराजित्रयम् इति श्यामलादण्डके शुकवर्णनप्रसङ्गे दर्शितं वर्तते ।
मयूरः
मह्यां रौति इति मयूरः । अस्य बर्हाणि सन्तीति बर्ही । अस्य कण्ठः नीलः । अतोऽयं नीलकण्ठः । शिरस्युपरि अस्य शिखास्स्थाने चूडा अस्तीति शिखी । अयं के - का इति रवं करोतिति केकीत्यस्य व्यपदेशः । मेधोदये सति अयं नृत्यति । नर्तनकाले बर्हीषि प्रसारयति । बर्हिषु नीलादिचित्रवर्णास्सन्ति । कविभिरयं विशेषेण वर्णितः । वने स्थितानामेषां वनमयूराः वनबर्हिणः इति व्यपदेशः । अस्य - के - का इति द्विस्वरध्वनिः श्राव्यो मधुरश्च ॥
सारसः
अयं पक्षिभेदः । पुष्कर इत्यस्य नामान्तरम् । अयं च शुकवद्भाषणे समर्थः अनेन पुरा दूतकार्यं निवर्तितमासीत् । एतेष्वनेके भेदा वर्तन्ते । केचित्सरस्सु च वर्तन्ते । अतोऽयमनूपजेषु प्लववर्गीयः ॥
बकः
अयं लम्बकण्ठः, जलवासी, मत्स्यादी, प्रायः, शुक्लवर्णः । एतञ्जात्यां अनेके भेदा वर्तन्ते । तेषु यः अङ्गारान्भक्षयति सः अग्निबक इति कथ्यते । स मत्स्यभक्षकः । व्यलीकेन मीलिताक्षः । अतः केवलवञ्चकानां मौनव्यापारस्य बकध्यानमिति लोके प्रसिद्धिः । एतज्जातीयाः अन्ये पक्षिणः जले प्लवनव्यापारं कुर्वन्ति ।मत्स्यादीन्भक्षयन्ति च । (cf. Drakes and geese are web - footed swimming birds with slender beaks. So also herons, batters, etc.)
पिकः
अस्य वनं बहुप्रियम् - अतः वनप्रियः । पिकशाबकान् काकः स्वापत्यानि मत्वा स्वनीडेषु बहुकालं पोषयति इति होतोः अस्य परभृत इति नाम (cf. “Cuckoos lay their eggs in the next of other birds”) । अयं काकसद्रुशो नीलवर्णः पक्षिविशेषः । अयं मधुरं कूजति । अतः कुसुमशरासनवादिनि पिकनिकटव्रजभावम् इति गीतगोविन्दे अभिहितम् । अतः कोकिलालापः सर्वेषां प्रीतिकरः । अत एवोक्तम् - पुँस्कोकिलोऽयं मधुरं चुकूज इति । अस्य कूजितं सङ्गीतशास्त्रे पञ्चमस्वरस्य लाक्षणिकं भवति । अतः गीतगोविन्दे - उन्मीलन्ति कुहूः कुहूरिति कलोत्तारकाः पिकानां गिरः इत्युक्तम् । वसन्ते कोकिलालापः सर्वजनप्रियदः । अतः इयमन्यापदेशोक्तिः - काको नीलः पिको नीलः को भेदः पिककाकयोः । वसन्तकाले संप्राप्ते काकः काकः पिकः पिकः इति ॥
चकोरः
अयं पक्षिविशेषः । दिवाविरही । ज्योत्स्नापायी तद्दर्शनस्य विषनाशकत्वात् जीवं जीवयतीति अस्य जीवंजीव इति नामान्तरम् ॥
चक्रवाकः
(The ruddy goose)
अस्य कोकः, चक्रः, रथाङ्गः इति नामान्तराणि । कुकवादाने इत्यनेन अयं क्षुद्रजन्तून् आदाय अत्तीति कोकः । जनानां तृप्तिं करोतीति चक्रः । अयं चक्रशब्देन कूजति । अथचक्रसदृशाङ्गः । निशाविरही । अयं बहुधा प्रशंसितः ।
काकः
कृष्णकायः । शकुनपक्षी । कर्कशस्वरः । अत एवोक्तम् - काको नीलः पिको नीलः को भेदः पिककाकयोः । वसन्तकाले संप्राप्ते काकः काकः पिकः पिकः इति ॥ अस्य एकाक्षीति प्रसिद्धिः । पर्यायेण एकामेव दृष्टिं द्वयोरपि नेत्रगोळयोः प्रसारयतीत्यत्र हेतुः । शकुनशास्त्रे अस्य व्यापारः बहुधा वर्णितः । प्रसार्य सक्थौ पतसि सव्यमक्षि निपेषि च इति श्रुत्या काकः जानुनी वितत्य सव्यम् अक्षि नितरामाप्यायमानं कृत्वा पततीत्युक्तम् ॥
गृध्रः
अयं वृक्षकोटरेषु वसति । सूर्यं न पश्यति । दिवा अन्धो स्वति । रात्र्यां तु तत्र तत्र सञ्चरन् कृमिकीटान् भक्षयति । अस्य दर्शनमशुभम् अपवित्रमिति मन्यन्ते जनाः । अयं वायसारातिः । गृध्रादयः मांसादिनः, हिंसकाश्च (cf. “Flesh - eating birds are eagles, hawks, fowls, vultures and they feed on carrion) । अस्य ऊलूक इति नामान्तरम् । अयं हिरण्यसदृशाक्षः । अयस्सदृशतुण्डः इति श्रुतिः ॥
श्येनः
श्येनः शशभक्षकः । आकाशे अत्युन्नतप्रदेशे प्लवते । अस्य पत्रमत्यन्तप्रशस्तमिति अस्य पत्रीति व्यवहारः ॥
चटकः
गृहपक्षी । मन्दं कलं च गच्छतीति अस्य कलविङ्ग इति नाम । अयं विकीर्णानि धान्यादीन्यत्ति । अस्य स्त्रियाः चटका इति नाम ॥
कपोतः (Dove or pigeon)
अयं सर्वत्र वर्तते । सुप्रसिद्धः । गृहपालिकासु वसति । स्निग्धवर्णः । धान्यभक्षकः । अस्य धातुकः गृध्रः । अयं परं जीवं अवतीति पारावतः । कलं मधुरं कूजतीति कलरवः । कस्य = वायोः पोतः - शिशुरिति कपोतः । अयं चटकवत् सर्वत्र सञ्चरति ॥
कुक्कुटः
श्वेतताम्रनखः, शुक्लताम्राक्षः, ऋजुबालधिः, अनावृताङ्गुलिः, स्वङ्गः, प्रशस्यः, अत्यालापी, यवग्रीवः, दधिवर्णः, शुभाननः, स्थूलशिराः, हारिद्रचरणः, अखञ्जः, ताम्रवक्त्रः, स्निग्धवर्णश्च पूजितः । दीनः, विवर्णः, विस्वरः, यः सः विगर्हितः इति च गर्गः । कुक्कुटी च स्निग्धमूर्तिः रुचिराननेक्षणा, मृदुचारुभाषिणी प्रशस्तेति वराहमिहिरः । जलकुक्कुटस्य कारण्डव इति नाम । तथैव निर्देशः - तप्तं वारि विहाय तीरनलिनीं कारण्डवस्सेवते इति ॥
ग्रामकुक्कुटः, वनकुक्कुटः, जलकुक्कुट इति अनेकविधाः कुक्कुटा वर्तन्ते । अयं कृकेन गलेन वक्तीति कृकवाकुः । ग्रामकुक्कुटः कालदर्शकः अयमर्धरात्रौ - अरुणोदयकाले च कूजित्वा तत्तत्कालं सूचयति । अस्य चूडा ताम्रवर्णा । अस्य चरणावेवायुधमिति अयं चरणायुधः । अस्य कूचिते त्रिधा गतिभेदो वर्तते । ते त्रिविधाः कालाः ह्रस्वदीर्घप्लुतकालत्वेन अङ्गीक्रियन्ते वैयाकरणैः । कुक्कुटमांसं स्निग्धं वीर्यवृद्धिकरमिति भक्षयन्ति केचित् ॥
सामान्यतः, सप्तविंशतिपक्षिभेदेषु, हारीतः, मद्गुः, कारण्डवः, प्लवः, तित्तिरिः, कुक्कुभः, लावः, जीवंजीवः, चकोरः, कोयष्टिकः, टिट्टिभकः, वर्तकः, वर्तिकादयः एते पक्षिजातिविशेषा इति नैघण्टुकोक्तिः । जलकुक्कुटेषु अनेके प्रभेदा वर्तन्ते । ते लम्बकण्ठाः, प्लवनशीलाः । (cf. Drakes, geese are webfooted swimmers with slender beak. Hawks, cranes and others are some of the varieties.)
शकुनशास्त्रे विरुताध्याये वराहमिहिराचार्येण एते पक्षिणः प्रदर्शिताः - श्यामः, श्येनः, शशघ्नः, बञ्जुलः, श्रीकर्णः, चक्राह्वयः, चाषः, अण्डीरकः, स्वञ्जरीटः, शुकः, काकः, कपोतः, चित्रकपोतः, आपाण्डुरकपोतः, कुङ्कुमधूम्रकपोतः, भारद्वाजः, कुलालकुक्कुटः, हारीतः, गृध्रः, पूर्णकूटः, फेण्टः, चटकः एते दिवासञ्चाराः । लोमाशिका, उलूकचेटी, छिप्पिका, चर्मचटिका, उलूकः एते रात्रौ चरन्ति । अत्र इन्द्रशुक्रवागीशकपिष्ठलवैनतेयमतानि - भागुरिदेवलादिमुनिमतानि सप्तर्षीणां मतानि यानि विशेषेण भारद्वाजमतं च वीक्ष्य तत्तच्छास्त्रावलोकनेन विज्ञातं यत्, तत् वराहमिहिरेण बृहत्संहितायां भट्टोत्पलेन तद्विवृत्तौ च सम्यक्प्रदर्शितमस्ति ॥
पक्षिणां खेचरतत्त्वम्
खेचराणां जनयतस्सह सर्पिषा पक्षिशरीरे (आ. सू. अ. २. सू, ८१) तैजसद्रव्याधिक्याश्रिताः ऊर्ध्वमार्गगत्याश्रितत्वात् अग्नेः प्रज्वलनवत् तैजसाधिक्यशरीरादेव ते जीवाः अण्डस्था एवाभिवर्धन्ते । अण्डोत्पत्तिहेतुभूतौ पवनानलाधिकद्रव्यशरीरात्मकौ । तावेव पितरौ । तञ्जातीयपिण्डानि स्वयमेवाभिवर्धन्ते च तेन इत्यर्थः ॥
आरोहणं गगनवर्त्मसु व्रजताम् (आ. सू. अ. २. सू. ८२) खगानामारोहणकर्म अनलानिलात्मकद्रव्यगुणाधिकशरीरत्वात् । खे गमनं सूक्ष्मार्थगोचरत्वं शीतोष्णसुखसहिष्णुत्वं च तेन लभ्यते ॥
घृतप्लुतान्नादनाद्वायुस्तेजोरेतांसि दधाति (आ. सू. अ. २. सू. ८३) खेचराणां शरीराणां स्वतस्सिद्धधातुदार्ढ्यवत्वम् ।
पक्ष्यादिषु वाग्व्यहारः
मनुष्याणामिव अविरलकण्ठत्वस्य खेचराणामपि समानधर्मत्वात् वर्णात्मकशब्दः कथं नोपलभ्यते तेषाम् ? इत्युक्ते - यत्किञ्चिच्छब्दाः श्रूयन्ते । मनुष्याणां तद्विषयकज्ञानाभावेऽपि तत्तञ्जातीयानां तत्तदुच्चरितशब्दविषयकज्ञानमस्ति । अन्यथा तेषां प्रवृत्तिरेव न स्यात् । तदन्यथानुपपत्या शब्दविषयकज्ञानं कल्प्यते ॥
पक्षिणां प्रजननतत्त्वम्
सर्वजन्तूनां त्रिकोणाकारयोनिः सर्वरसाश्रया प्रजननहेतुभूतसुखैकाश्रयत्वात् अण्डजानां तादृशावयवाभावेऽपि बीजजन्यं पिण्डमिति व्यवहारः साधुरेव । अण्डजानां च योनिस्थाने अन्तस्थितपेशी वर्तत एवेति केचित् । अतः अण्डजानां शरीराणामण्डजत्वं समानम् । अतः महाशरीरादिपिपीलिकाशरीराणां च योनिस्सुखसाधनमिति तत्प्रवृत्या निश्चीयते ॥
अथ कीटाः
कीटाः अनेकप्रकाराः । व्यालास्सर्पाश्च कीटविशेषा एव । तत्र गोधा (Alligator) मुसलिका, कारिका (A lizard) सरटः - स्वादुफलखादिनी गौळिकः (A kind of lizard) एते गृहेषु, वनेषु सर्वत्र वर्तन्ते । गोलत्तिका (कीटविशेषः) । वृश्चिकः, लूता एतयोः अष्टपद इति संज्ञा (अष्टौः पादाः यस्य सः) । गृहगोधिकायाः मुसलेति नाम । (Archimids have four pairs of legs such as scorpions, spiders.) तन्तुवायः, लूता इति कीटविशेषौ । तन्तून् वयतीति तन्तुवायः अस्यैव ऊर्णनाभिरिति पर्यायवाचकः । अयं कीटः नामेर्बहिः तन्तु प्रसार्य समयान्तरे तमेव नाभौ पुनर्गृहीत्वा धरतीति तस्य ऊर्णनाभिरिति नाम् । तथा च श्रुतिः - यथोर्णनाभिस्सृजते गृह्णते च इति । कर्णजलौकायाः शतपदीतिनाम । शतं पादाः यस्यास्सा इत्यन्वर्थनाम ॥
वृश्चिकः
वृश्चिकश्शूकयुक्तः । अनेन स प्राणिनः दशति । तस्य पुच्छे विषमस्तीति प्रसिद्धिः । अतोऽयं शूककीटः ।
एतेषां पूर्वकाये शिरोनेत्रश्रोत्रवत्क्रादिभागाः उत्तरकाये हृदयपक्षपादादयो भवन्ति । उदरम् आदाविसर्जनभागः - (In insects head and thorax are separate. Head bears ears, feelers, eyes, mouthparts, and thorax carries wings and legs and abdomen contains most of the digestion organs and excretary apparatus - says a Zoologist.)
मक्षिकाः
मक्षिका अपि कीटभेदा एव । तत्र मधुमक्षिकाः - तासु, मक्षिकाः, भ्रमरः, क्षुद्रः, पुत्तिकः, छत्रः, उद्दालकः, दालः इति सप्तभेदाः (cf. There are seven orders, viz., Orthoptera, Neuroptera, Hemeptera, Lepidoptera, Deptra, Coleoptra.) ते सर्वे मधु सृजन्ति । अत एव ते मधुकराः । यत्र मधुरसं च्यावयन्ति स मधुकोशः (Bee hive or honey comb.) मधुकराणां समूहः मधुश्रेणी (Swarms of Bees) । तत्र मक्षिकाः नीलवर्णाः । मध्यमाकृतयः । भ्रमरः मक्षिकाया अल्पाकृतिः क्षुद्रः पीतवर्णः । अस्य क्षुद्रमधुकर इति सामान्यतो व्यपदेशः । तद्वर्णजातीयः बृहदाकृतिकः पुत्तिकः । छत्रः कपिलवर्णः पीतवर्णश्च । एतञ्जातीयाः हिमवत्पर्वतप्रान्तेषु छत्राकारेण मधुनीडं कल्पयन्तीति प्रसिद्धिः । (cf. “Bees do all the labour of the house - gathering the pollen, building comb, feeding the young and fighting the enimies.” Hence they are called workers.) उद्दालकः पुत्तिकासदृशाल्पाकृतिमक्षिका । एतैः पुष्परसान्मधु निर्वर्त्यते । कीटेषु ह्रस्वकायाः दीर्घकायाः शतपदाः दशपदाः अष्टपदाश्च भवन्ति (cf. Cephalopods breathe by means of gills. Octopods and Decapods belong to this class. Adept is 30 feet from tip to toe.) ॥
पल्ली (Lizard)
पल्लीजातिरनेकविधा । गृहस्थायाः (House lizard) पल्लिकेति, अन्यत्रस्थायाः गोधिकेति (A kind of lizard) व्यवहारः । गोधिस्तु (Alligator) जलचरः महाकायः पल्लीजातिमनुकरोति, (cf. Lizards, turtles, alligators crocodiles are but large lizards) । परन्तु अयमहिंसकः । पल्ली अहिंसिकेति भेदः । पल्लीजातीयाः कीटाः अनेके वर्तन्ते । केषाञ्चिदेतेषां पृष्ठभागे रेखास्सन्ति । एतेष्वपि रसरक्तविसर्पणादिदेहव्यापाराः प्रलचन्त्येव । (cf. Reptiles have lungs and their bodies are covered with scales. The nurvous and circulatory systems are developed and four - chambered heart is found.)
शलभादयोऽपि कीटविशेषा एव । परन्तु ते पक्षीव पक्षाभ्यां डयन्ते ॥
सर्पाः
सर्पेषु अनेकप्रभेदाः वर्तन्ते । तत्र जाङ्गलाः जलौकसः इति मुख्यौ द्वौ भेदौ । आङ्गलेषु अजगरः मुख्यः । अयम् अजं छागं गिरति - भक्षयति अजगरः (A huge serpent - Boa constrictor.) । सृजया इति शुक्लसर्पस्य नाम (A white serpent) । असितः कृष्णसर्पः (Black serpent) । स्वजः सर्पविशेषः पलालादी । स्वयं जायते इति स्वजः लोहिताहिः - श्वेतलोहितसर्पः । वाहसः अल्पगात्रसर्पः । सर्पा स्सर्वे भजाभ्यां गच्छंतीति तेषां भुजङ्गाः भुजगाः इति संज्ञा । सर्पस्य दंष्ट्रायां विषमस्ति । अतोऽयं विषधरः । दंष्ट्रा तालुगता । तस्या आशीरिति संज्ञा । तया विद्धो न जीवति । अतः सर्पस्य आशीविव इति नाम । अयं देहं चक्राकारेण धारयतीति तस्य कण्डलीति संज्ञा । पादरहितोऽपि अस्य गूढपात् इति नामान्तरम् । गूढाः पादाः अस्येति गूढपात् । अयं चक्षुषैव शृणोतीति चक्षुःश्रवाः । असिताः कृष्णसर्पाः प्राग्देशप्रचुराः । पृदाकवः - अजगराः दक्षिणदेशप्रचुराः । (Abound in the Eastern parts where heat is predominant.) स्वजाः - स्वस्मिन् जायन्त इति स्वजाः = स्वायत्तबलाः (Can be found in the western parts where rain is very heavy.) । तिरश्चिरादयः - तिरश्चीनाः राजयः येषां सन्ति । (Are found in the northern parts where rain is normal.) अस्य उदरं काकोदरमिव भवतीत्ययं काकोदरः । अस्य शिरसि फणा वर्तते अतः फणी । अयं पवनाहारी । कदाचिन्मूषकभक्षकः । अतः मूषकारिः । सर्पाः प्रायशः बिलेषु वसन्ति । सर्पेश्वरस्य शेषः अनन्तः इति व्यपदेशः । सर्पराजः वासुकिः = वसु रत्नं के मूर्ध्नि अस्य भवतीति वासुकिः । गोरिव नासिका यस्य सः गोनसः । तस्य मण्डल इति नामान्तरम् । यस्य काये रेखा भवन्ति स राजिरः । यः तुण्डेन भाति सः डुण्डुभः । एते सर्वे विषजन्तवः । लीनस्सर्पो यस्माद्भयं पश्यति तत्र विषमुत्सृजति । निर्विषस्य द्विमुखस्य सर्पस्य मालुधानः, मातुलाहिः इति नामान्तरे । अयं चित्रसर्पः । जलौकस्सर्पाणां व्याला इति सामान्यनाम । तेष्वपि अनेके भेदा वर्तन्ते । यस्य कीटविशेषस्य अनेके पादाः वर्तन्ते सोऽपि सर्पजातीयः । किन्तु निर्विषः ॥
वेदेषु सर्पबलिप्रकरणे - सर्पदर्शननिवारणार्थम् एवमिन्द्रप्रार्थना - इन्द्र ! जहि दन्दशूकं पक्षिणां यस्सरीसृपः दक्ष्णन्तं च दशन्तं च सर्वांस्तानिन्द्र जम्भय - हे इन्द्र ! अस्माकं बाधकं दन्दशूकं सर्पपक्षिणं पक्षाकाराभ्यां पार्श्वाभ्यां युक्तं यस्सरीसृपः सर्पणस्वभावः तं दक्ष्णन्तं दंशने प्रवर्तिष्यमाणं दशन्तं प्रवर्तमानं च सर्वांस्तानेवंविधान् जम्भय = स्तम्भय इति ॥
हे अग्ने सर्पान् गर्तेन त्रायसे इत्यनेन मन्त्रेण गर्ते सूर्यांशुसन्तप्ता हि भूमिः बिलानि दर्शयति । तस्मिन् रात्रौ सूर्यरूपोऽग्निः सर्पान् रक्षतीति दर्शितम् । बिलाच्च निर्गतानां सर्पाणां सुकरो वध इति तात्पर्यम् ॥
नमो अस्तु सर्पेभ्यो ये पार्थिवा य अन्तरिक्ष्या ये दिव्या ये दिश्याः । ये अदोरोचने ये वा सूर्यस्य रश्मिषु । येषामप्सु सदः कृतम् । या इषवो यातुधानानाम् । ये वा वनस्पती रनु । ये बावटेषु शेरते । तेभ्यस्सर्पेभ्यो नमः इत्यनेन सर्पाणां वासस्थानानि सम्यङ्निर्दिष्टानि ॥
तक्षकः, अहिंसकः, अतिबलः, श्वेतः इत्यादयस्सर्पविशेषा भवन्ति । तत्र श्वेतः नागराजः पञ्चन मनुष्यं न हिनस्ति । सर्पेषु दश जातयो भवन्ति । तासु ब्राह्मणजातयस्तिस्रः । राजसम्बन्धिन्यस्तिस्रः । वैश्याः द्वे । शूद्राः द्वे इति । एतेन सर्पविषयकविचारः बहुकालादेव प्राक् सनातनार्यैः सम्यक्कृत इत्यवगम्यते ॥
अथ कृमयः (Insects and Worms)
कृमिवर्गे तावत् प्रायशस्सर्वे पृष्ठवंशरहिताः । अवकाद, जलाणुक, शङ्ख, जलोशिराः शरीरान्तर्जन्तव । वृश्चिकादयः भेकादयः षट्पदशतपदसहस्रपदजन्तवश्च पृष्ठवंशरहिता एव । (The invertebrates or animals with no backbones are in great majority. They are included in ten classes. -
१. अवकादाः (Protozoa) । २. जलाणुकाः (Porofera) । ३. शुण्डजलोरगादयः (Coelentera) । ४. शरीरान्तस्थजन्तवः (Worms) । ५. मत्स्यविशेषाः (The Echinoderms) । ६. भेकादयः (The Crustaceans) । ७. शतपदादयः (The Myropods) । ८. वृश्चिकादयः (Archimids) । ९. कृमयः (Insects) । १०. शङ्खादयः (Molluscas) । शारिशाकनामककृमयः, क्षणेन सहस्रशोऽभिवर्धमाना प्राणिविशेषा इति अथर्ववेदभाष्ये दर्शितम् । (Basilli that multiply themselves in thousands in a moment.)
कृमिभेदाः
कृमयः पुनः द्विविधाः - आभ्यन्तराः बाह्याश्चेति । आभ्यन्तरास्तु चतुर्विधाः - मलजाः , कफजाः, असृग्जाः, विड्जा इति । तत्र मलोद्भवाः विंशतिविधाः । तेषु त्वग्लग्नाः बहिर्मलसम्भवाः स्वेदसम्भवाः बाह्याः । ते तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः, बहुपादाः, सूक्ष्माश्च ये ते यूकाः लिख्याः इति कथ्यन्ते । लिख्या अथवा लिक्षा (A Nit - the egg of a louse) । यूकः (A louse.) एतेषु यूकाः कृष्णाः बहुपादाः केशाश्रयाः । लिख्याः - सूक्ष्माः श्वेताः वस्त्राश्रयाः । द्विविधा एते कोटपिटकान् कण्डूंश्च गण्डांश्च कुर्वन्ति (cf. “Blood - worms, hook - worms, round - worms, tape - worms, fin - worms, sequerrated worms, earth - worms and minor worms” - Zoology.)
आभ्यन्तरमलजानां निदानम्
अजीर्णभोजनम्, मधुराम्लसेचनम्, द्रवे प्रीतिः, विष्टभोजनम्, गुडभोजनम्, व्यायामवर्जनम्, दिवास्वापः, विरुद्धभोजनम् एतेभ्यः कृमय उत्पद्यन्ते । तेभ्यः ज्वरः - विवर्णता, शूलं, हृद्रोगः, सदनं, भ्रमः, अन्नद्वेषः, अतिसारः इत्यादिरोगा उत्पद्यन्ते ।
अथ कफजाः कृमयः
मांसश्लेष्मजाः, माषश्लेष्मजाः, गुडश्लेष्मजाः, क्षीरश्लेष्मजाः, दधिश्लेष्मजाः शुक्तश्लेष्मजाश्चेति । कालान्तरेण अम्लीभूतेक्षुरसविकारः शुक्तम् तत्र आमाशये कफाज्जाताः ऋद्धिं गताः सर्वतो विसर्पन्ति । तेषु केचित् पृथुब्रध्नरूपाः, गण्डूपदसदृशाः (Excresence on the neck) । केचित् रूढधान्याङ्कुराकाराः । केचित् दीर्घतनवः केचिदणवः । वर्णे - श्वेताः केचित्ताम्राः केचित् । तेषां सप्तनामानि - अन्त्रादा, उदरावीष्टाः, हृदयादाः, महागुहाः, छुरवः, दर्भकुसुमाः, सुगन्धाश्चेति । एते हृल्लासम्, आस्यस्रवणम्, अविपाकं, अरोचकं, मूर्च्छां, छर्दिं, ज्वरं, अनाहं, कासं, क्षवथुं, पीनसं च उत्पादयन्ति ।
अथ रक्तजाः कृमयः
रक्तवाहिनीनां सिराणां स्थानेषु रक्तजा जन्तवः अणुप्रमाणका वर्तन्ते । तेषु केचित्प्रपादाः केचिद्वृत्ताः ताम्रवर्णाः । तेषु केचित् सौक्ष्म्यात् दृष्टिगोचरा न भवन्ति । केचित्केशादाः अन्ये लोमनाशिनः । परे रोमकूपस्थाः इतरे उदुम्बरसंज्ञकमशकाः । एते षड्विधाः कुष्ठकारिणः । ते सारसमातृभ्यां सह वर्तन्त इति सहसारसमातर इति विदिताः (Live in association with those that produce them and that are borne along with them.) ।
अथ पुरीषजाः
पक्वाशये पुरीषे जाताः कृमयः (Worms) अधः विसर्पन्ति । ते वृद्धिं गताः आमाशयाभिमुखागता भवन्ति । तेषाम् आस्योद्गारनिश्वासैः विड्गन्धं विधास्यन्ति । ते पृथुवृत्ताकाराः । केचिऽस्थूलाः, केचित्सूक्ष्माः, श्याववर्णाः, पीतवर्णाः, कृष्णवर्णाः श्वेतवर्णाः भवन्ति । ते नाम्ना पञ्चधा - ककेरुकाः, मकेरुकाः, सौसुरादाः, मलूनाः, लेलिहा इति । तेषां कर्माणितु विड्भेदः - शूलविष्कम्भकार्श्यपारुष्यपाण्डुता करणम् - रोमहर्षाग्निसदनगुदकण्डूजननम् । ते विविधमार्गेषु गच्छन्ति । अतः क्षीराणि मांसानि घृतानि चापि दधीनि शाकानि च वर्णवन्ति । अम्लं च मिष्टं च रसं विशेषात् कृमीन् जिघांसुः परिवर्जयेद्धि इत्यनुशासनम् ।
एते कृमयः ताम्रपीतकाः कपिलारुणहरितनीलाः, सितकुमुदपत्रनलिनदलसवर्णाभाः नीलमुखाः, सङ्कुचितत्वचः विपुलमुखाः, सूचीमुखाः अरोमशाः रोमशा वारूक्षाः स्थूलाः कृशाः दीर्घाः ह्रस्वाश्च भवन्ति । पाण्डुरारुणाश्च कफवातसंसर्गात् । श्लेष्मणा शुद्धवर्णाः । ते आमाशयात्पक्वाशयमनुप्रपन्नाः, हृदयप्लीहायकृद्वक्षस्थलान्त्रनाभिवङ्क्ष्मणशकृत्स्थानमूत्रवस्त्यण्डकोशप्रदेशान् भक्षयन्ति । उपेक्षिताः प्राणहरा भवन्ति । कोष्ठे कृमयः प्रवृद्धाश्चेत् तान् शास्त्रविधिप्रदिष्टैः भेषजैर्निवारयेत् ।
बाह्याः कृमयः (Insects)
बाह्याः कृमयः स्वेदजा एव । तेषु केचित् ऊष्मजा अपि भवन्ति । मक्षिकाः मशकाः मत्कुणाः पिपीलिकादयश्च स्वेदजा एव । तेषु अनेके प्रभेदा वर्तन्ते । तेषु केचित् साङ्क्रान्तिकरोगापादकाः विशेषतः मशकविशेषा एव । ते सर्वे स्थलात्स्थलान्तरं बहुवेगेन प्रचलन्ति । मेध्यामेध्यसंसर्गं कारयन्ति । तेषामपि शिरोहृदयादिमुख्यावयवा भवन्ति । तेषां प्रायेण आहार - रस एव रक्तस्थाने भवति । तेषामपि प्राणास्सन्ति । परन्तु ते सर्वज्ञानाभावात् तमसावृता भवन्ति । अतः अनायासेन अल्पकालेन नश्यन्ति ।
अन्तः प्रविष्टश्शास्ता जनानाम् (तै. आ. प्र. ३, अ. ११) परमात्मा मशकादिमूलकारणान्तानां सर्वेषां सूक्ष्मरूपेण अन्तरवस्थितः शासिता, स्वेच्छया प्रेरयिता भवतीत्युक्तत्वात् कृमिकीटादिशरीरेष्वपि आत्मसन्निधानमस्तीति बोद्धव्यम् । तथैवोक्तं विष्णुधर्मोत्तरे - वायुभूतस्तथाजीवः त्यक्त्वा भोगविवर्धनम् । स्वर्गाद्वा नरकाद्देहं तिर्यग्योनावथापि वा । कर्मवशानुबन्धाज्जीवो गर्भे प्रवेशं करोति । तिरश्चां मरणानन्तरं गर्भसम्भवः नियत इत्यादिना कृमयोऽपि जीवसहिता एव ।
स्वेदस्तु तापजनितः । तापः अग्निसूर्यादिकृतः । अथवा पाककृतः - अथवा कालकृतः । धान्यादिषु यो ऊष्मा तेनापि कृमिविशेषाः जायन्ते । केचित्कृमयः दशनशक्तियुताः रक्तचोषणसमर्थाः यथा मत्कुणाः । केचिज्जलजाता भवन्ति । अन्ये वायुजाः । परे पृथ्वीजाः जलवायुपृथ्वीष्वपि अव्यक्तः ऊष्मा वर्तत एव पाञ्चभौतिकत्वात् । तेनोष्मणा अनुकूलकालविशेषे कृमिजननं स्वाभाविकम् । तेऽपि यथा स्वेदोष्मवशाञ्जायन्ते तथा पाकेन नश्यन्ति - यथा उष्णोदके शीतजलगतकृमिनाश । आतपसंसर्गेण वायुजपृथ्वीजकृमिनाशः । पदार्थेषु अदृश्या केचित्कृमिविशेषा वर्तन्ते । ते शास्त्रविज्ञानसाधनेन परीक्षितव्याः चिकित्सितव्याश्च । केषाञ्चित्कृमीणां बाहुस्थाने पक्षा वर्तन्ते । केचिदपादाः केचित्सपादाः । तेषां वक्त्रस्थरसनाविशेष एव हस्तस्थानीयः । तेनैव तदन्नं गृह्यते । प्राण्यन्तराणि, तेनैव दृश्यन्ते । विविधप्रकारेण बाध्यन्ते इति सङ्ग्रहेणोक्तम् ॥
अथ कृमितत्त्वम्
इदं तत्त्वं तैत्तिरीय‌आरण्यके प्रथमप्रपाठके अष्टमानुवाके मृत्युतत्त्वविचारावसरे विशदीकृतम् । यथा - अमुमाहुः परं मृत्युम् - अनाभोगाः परं मृत्युं । पापास्संयन्ति सर्वदा । अस्यार्थः - अमुपादित्यं परं मृत्युम् आहुः मन्त्रदृशः । जन्ममरणव्याध्यादिनिकृष्टकारणत्वात् । अनाभोगाः - आभोगवर्जिताः क्षुद्रजन्तवः । कृमिकीटादयः पापाभिभूताः परं मृत्युमादित्यं सर्वदा असकृत् संयन्ति - प्राप्नुवन्ति । तद्रश्मिस्पर्शमात्रेण मृत्युं प्राप्नुवन्तः, तं मृत्युं प्राप्नुवन्तीत्युच्यते । ते हि पापाः पापमात्रवन्तः आभोगवर्जिताः अहरहः जायन्ते म्रियन्ते चेति आभोग्यपुण्यसम्पादनायोग्या भवन्ति । ते असकृदावर्तिनो जन्तवः परं मृत्युं संयन्ति । कश्यपादुदितास्सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः । तेऽशरीराः प्रपद्यन्ते - इति श्रुत्या लब्धज्योतिषः सूर्याः (सूर्यरश्मयः) क्षुद्रजन्तून् निष्कृष्य नाशयन्ति । पुनः पुनः जातान् द्यावापृथिव्योः स्थलजलान्तरिक्षजातान् रश्मिसंस्पर्शमात्रेण नाशयन्ति । अथ तत्रैव ते जन्तवः पुनरपि जायमानास्स्थाप्यन्ते । सूर्यरश्मय एव स्वेदपाकादिकारिणो भूत्वा पुनरपि स्वप्रभावाञ्जन्तून् जनयन्ति । ते विकृतशरीराः आत्मीयपापसदृशं यत्कर्म तदनुसारिपाकं प्रपद्यन्ते । यथा - केचित् पाणिरहिता जायन्ते । केचित्पादरहिताः । केचित्केशरहिताः । केचित्सर्वरहिता इति । अथवा केचित्पाणिरहिताः । केचित्पाणिपादरहिताः । केचित्पादकेशरहिताः । केचित्पाणिकेशरहिताः । केचित्पाणिपादकेशरहिताः । एवं स्थलजलादिषु स्वेदादिप्रभवजन्तवो जायन्ते । अथापि अवशाः पुनः पुनः जननात् आत्मीयैः पापरूपकर्मभिः भक्ष्यमाणाः बलादवशतां नीयमानाः पुनः पुनः जायन्ते म्रियन्ते च । अत एव ते आशातिकाः कृमयः आगत्य शातयन्ति
नाशयन्ति इति शातनमात्रफलजीविनः । तदानीमेव नश्यन्ति क्षुद्राः कृमयः । अथ ते जन्तवः उत्तरकालं क्षीणपापाः क्रियन्त एव । निवृत्तक्लेशाः क्रियन्त इत्यभिप्रायः ॥
तथा तैत्तिरीयारण्यके (प्र. ४. अ. ३७.) अत्रिणा त्वा कृमे हन्मि । कण्वेन जमदग्निना । विश्वावसोर्ब्रह्मणा हतः । कृमीणां राजा । अप्येषां स्थपतिर्हतः । अथो माताऽथो पिता । अथो स्थूरा अथो क्षुद्राः । अथो कृष्णा अथो श्वेताः । अथो आशातिकाहताः । श्वेताभिस्सह सर्वे हताः आशातिकाः - अशिते भवाः अन्नदोषप्रभाश्च । अत्र्यादयः ऋषिविशेषाः । तैस्सर्वे कृमयः हताः - धर्मेण हता भवन्तीति तात्पर्यम् ॥
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् । अल्गंहून् सर्वान् छलुनान् कृमीन् वचसा जंभयामसि (अथर्व. कां. २. अ. ५. सू. ३९. ऋ. २.) दृष्टं चक्षुर्गोचरम्, अदृष्टम् तदगोचरम्, अन्तरवस्थितं कृमिजातं अतृहं हन्मि । कुरूरुं - जालं तद्वत् अन्तरवस्थितम् । अल्गंहून् कृमिविशेषान्, शोणितमांसदूषकान्, शल्गान्, एतन्नाम्नश्च, जंभयामः - नाशयामः । अन्वान्त्र्यमनुक्रमेण अन्त्रेषु भवं, शीर्षण्यं शिरसि भवं, पार्ष्णेयं पार्ष्णिभवम्, अवास्कवम् अवाग्गमनस्वभावम्, अन्तः अन्तप्रविश्य वर्तमानं, ये अन्नपानादिद्वारेण प्रविष्टाः, ये पर्वतेषु वनेषु ओषधीषु पशुषु अस्मच्छरीरेषु भवाः, गवि ये कृमयः तान् आदित्यरश्मयः ध्नन्तु । ये विश्वरूपाः, ये चतुरक्षाः, ये शबलवर्णाः, ये शुभ्रवर्णाः तेषां पार्श्वावयवान् शरीरान्तर्गतमांसादिभक्षकानि प्रधानान्यन्यानि भिनद्मि ॥
गवि येकृमयः, अत्रिवत्, कण्ववत्, जमदग्निवत्, अगस्त्यस्य मन्त्रेणाहं सर्वान् कृमीन् पिनष्मि । अत्र्यादयः मन्त्रसामर्थ्यात् कृमीन् निघ्नन्तो लोकोपकारमकुर्वन् (They are entomologists of Ancient India).
अथ कृमिवर्गः
अत्र कृमिवर्गे - सर्वप्राणिवर्गेषु च आद्या प्राणिजातिः अवकादजातिः । अवकं - शैबालं (Moss) अत्तीति अवकादः (Amoeba, Paramecium and Noctiluca (night light) । सः अतिसूक्ष्मः अतः अणुकः (Smaller than an atom) अदृश्यः (Cannot be seen by naked eye.) शैवलादभिन्नः तस्मात् शैवालमेव तदन्नम् (It cannot be distinguished from moss on which it feeds) । एतज्जातौ पुनः रेखाकृतिः (Paramecium) रजनीप्रकाशः (Noctiluca) इत्यादिभेदा वर्तन्त इति केचित् । परंतु सर्वे बिन्दुमात्ररूपाः । (Belongs to protozoa class - consisting of a single cell which Huxley defined as the unit of living matter is a drop of protoplasm). जलज्योतिरपि एतज्जातीयः (Noctiluca) अतः अवका गन्धर्वा इत्युक्तम् । अवकः बिन्दुमात्राकृतिरपि स्वदेहेनैव चलनवलनान्नादनप्राणनविसर्जनैधनप्रजननरूपाणि सर्वाणि कर्माणि निर्वर्तयति । (Cf. Protozoa type such as Amoeba is a single cell or phylum in which the body when fully developed, carries out all the activities of the animal.)
कृमिषु जात्यादिविभागः
जात्याकृतिकुलवर्गानुवर्गगणनिबन्धना हि बीजादवयवोपचयापचयाः प्राणिषु (Cf. Cytology discovers and elucidates visible structure of cells themselves. It is clear through the investigation of Anatomy of man tha within certain limits the structure of all individuals of any particular kind of animals is the same. (Whether जाति Genus आकृतिः Species कुल Family माहाकुल Superfamily अनुवर्ग Sub - order वर्ग Order अन्तर्वर्ग Colony and गण Phylum or group.)
Animal development is treated in Embryology (गर्भतत्त्व) and Morophology रक्तसम्बन्धतत्त्व) expresses the blood relationship between animals - single cell or phylum (Protozoa) in which the body when fully developed carries out all the activities of the animal (Protoplasm and cytoplasm).
(Cf. The life history of protozoa is often very elaborate and the group exhibits many stages in the development of a sexual mode of reprodcution from some simple cases as those in ciliata where two identical feeding individuals come into association and exchange nuclii to a fully developed sexuality where a large egg is fertilized by a small mobile spermatozoa as in the malarial parasite.)
अन्ये सूक्ष्मजन्तवः
जलनीलिजा इव फेनजाः विद्रुमजा अपि सूक्ष्मजन्तवः बिन्दुमात्राकाराः जले प्लवमाना वर्तन्ते । (Cf. “Sponges and coral polyps are animals though they are classed as plants. But they swim about as swiftly as fishes. Their cells consist of only protoplasm which is an organic compound made of some fifteen chemical elements that exist in air, water and soil and which may be analyzed but which cannot be put together so as to form a protoplasm.”)
बहुबिन्दुचितप्राणिनः (Perifera) अनेके वर्तन्ते । ते आकारबुध्द्या अनेकविधा भवन्ति । स्त्रीपुंव्यक्तिसंयोगकार्यमप्येतेषु विविधविचित्ररूपेण निर्वर्त्यते । (Cf. Modern Zoology - “Metazoa (multicellular animal with very rare exception) reproduces sexually male and female gamuts, the spermatozoa and ova beign formed in definite organs, the gonads and possesses some food reserves. The group ‘parazoa’ includes only the sponge. The group ‘enterzoa’ includes the remainder of the animal kingdom.”
अथ कोशस्थाः
कोशेषु शङ्खशुक्तयादिरूपेषु तिष्ठन्तीति कोशस्थाः । एते जलचरेषु क्षुद्रजन्तवः अवकात् स्थूलाः ऊर्मिजा अपि (Sponges) अब्‌चरजातीयाः सुसूक्ष्माः । एतेषां प्राणनादिव्यापाराः अन्यत्र निर्दिष्टाः ।
जलोरगाः
शुण्डाः अथवा जलोरगा अपि (Coelentera) अब्‌चराः सर्पाकृतयः सूक्ष्मप्राणिनः । सर्व एते - कोशजा वा अकोशजा वा - अपादाः अथवा अव्यक्तपादाः (Pseudopods), पादिभ्यो नक्रकूर्मादिभ्यो भिन्नाः । कृमिशङ्खाः (Coral insects) जलजाः । एतेषां व्यापारात् शुक्तिजा मुक्ताः (Coeloria) । कृमिकण्टकाः प्रबाललताः (Coralium rubium) उत्पद्यन्ते । केचित् कृमिगरजनकाः (Some produce poisonous fluid.)
अथ पादिनः
कुम्भीरः, कूर्मः, नक्रः, गोधा, मकरः, शङ्खः, घण्टिकः, शिंशुमारः इत्यादयः पादिनः । पादाः एषां सन्तीति पादिनः । एतेषां तिमिप्रभेदानां केचिदपृष्ठवंशाः, केचित्सपृष्ठवंशाः (Cf. Sea - squirt and lancelet, sharks, skates, rays are without bony skeletons. The higher fishes have bony skeletons. The fromgs, the toads and salamanes or newts belong to the type called Bactrochians among the fishes.) । एतच्चिह्नमेव एतेषां मत्स्येभ्यो वैशिष्ट्यं द्योतयति । तेषु कुम्भीरकः मारकजन्तुः । कुम्भिनं - हस्तिनमीरयतीति कुम्भीरकः । कूर्मः कच्छपः अस्य पृष्ठं बहुकठिनं - भारसनम् । नावोऽपि पृष्ठेन धर्तुं क्षमः कूर्मः । अत एवोक्तम् - जातः कूर्मस्स
एकः पृथुभुवनभरायार्पितं येन पृष्ठम् इति भतृहरिणा । अयं स्फटिकरजतवर्णः । नीलराजिभिः विचित्रितः । कुम्भतुल्यशरीरः । अस्य पृष्ठास्थि शोभनं भवति । लोहितशरीरः सर्पपाकारश्चेतबिन्दुभिश्चितः । अन्यः एतज्जातीयः श्यामशरीरः । बिन्दुभिरञ्चितः । परिपूर्णावयवः । सर्पसदृशमूर्धा । स्थूलगलः । विस्तीर्णकण्ठः । अन्यः वैडूर्यसदृशकान्तिः, पीनगलः, शृङ्गाटकाकृतिः, गूढच्छिद्रः, चारुवंशः । अत्र गर्गः - शङ्खदर्भप्रतीकाशः, छत्राभः, रजतप्रभः । तथा वैडूर्याभः कोकिलभासः राजीवाभः, पीतकाञ्चनवर्णः पूण्डरीकसमप्रभः । तेषु कस्यचिद्गोधामुखम् अन्यस्य मुखं त्रिकोणाकारम्, अन्यस्य मण्डलाकृतिः एवं कूर्मलक्षणमिति । अस्य नामान्तराणि - कमठः, कच्छपः, के जले मठति वमति इति कमठः । कच्छेन पिबतीति कच्छपः । कौ उदके ऊर्मिः वेगः अस्येति कूर्मः । इति कूर्मशब्दव्युत्पत्तिः ॥
नक्रः (Crocodile)
नक्रः जले बलशाली तले बलहीनः । स्नानर्थं जले स्थितान् नरान् स्ववक्त्रेणाकृष्य आस्वादयत्ययमिति अनेकत्र दृष्टविषयः । अत एवोक्तम् - नक्रस्स्वस्थानमासाद्य गजेन्द्रमपि कर्षति इति । रामति दूरस्थलमिति नलोपेन व्युत्पत्तिः । अस्यापि कुम्भीर इति व्यपदेशः । ग्राहः वराहः इति ग्राहविशेषस्य नाम्नी । गुध्यतीति गोधा । गुध परिवेष्टने । अस्या एव गोधिका, विहाका, जलगोधिका इति नामान्तराणि । शं खनयति, जनयति इति शङ्खः जलजन्तुविशेषः । तज्जातीयाः क्षुद्राः शङ्खनखा इत्युच्यन्ते ॥
जलचराः
जलहस्तिनः, जलाश्वाः, जलवराहाः, इत्यादिजलजन्तवोऽपि अनूपजातिप्रभेदाः । जलौका इति कीटविशेषः प्रसिद्धः । जलमोकः अस्या इति जलौकाः । इयं रक्तपा । अस्या एव जलूका जलजन्तुका इति व्यपदेशः ।
शिशून् मारयतीति शिशुमारः अम्बुसम्भूतजन्तुः । शङ्खुः यादोभेदः ।
घण्ट इति रोचमानस्य कस्यचिज्जलजन्तोः नाम ।
महिषाः, गण्डवराहाः, चमरीमृगाः, वारणादयः कूलेचरा इति प्रथिताः । कूले - जलाश्रयस्थानसमीपे चरन्ति इति कूलेचराः ॥
अथ प्लवाः
हंससारसवकबृहद्बकक्रौञ्चादयः । एतेषु केषाञ्चिद्विचारः पूर्वमेव कृतः ।
अथ मत्स्याः (Pisces - Fishes)
मत्स्याः लघुसूक्ष्माकाराः, सपक्षाः, अपादाः, अव्यक्तपादा वा । प्लवनशीलाः । जलचराः जलाहाराः । ते अनेकविधाः । तेष्वेव एका मत्स्यजातिः न्तेताङ्गहीना । (The optic chiasma is absent.) अन्या जातिः मूकाण्डजा । अन्या अण्डालुः (Phesasant or cod lay 9000000 eggs in one second.) (Cf. Echinodernm starfish, sealily. Starfish feed upon crabs, snails, oysters. The crustaceans are segmented horned sharks, animals which have gills and live in water. They have eight - jointed legs - cray fish.)
पॄथुरोमा, झषः, मत्स्यः, मीनः, वैसारिणः, अण्डजः, विसारः, शकली इति मत्स्यसामान्यस्य नामानि । तत्र शकुलार्भकस्य गण्डक इति । सहस्रदंष्ट्रस्य पाठीन इति व्यपदेशः । मत्स्यविशेषस्य - उलूपी, शिशुक इति, नलमीनस्य चिलिचिम इति, प्रोष्ठ्याः मत्स्यविशेषायाः शफरी इति च । क्षुद्रमत्स्यसंधातस्य पोतोधानमिति नाम । एतानि सामान्येन मत्स्यानामाकारगुणचेष्टाविशेषान् द्योतयन्ति ॥

अथ झषाः
रोहितः (A kind of fish of red variety) मद्गुरः (Sheat fish) शालः (A shining fish) राजीवः (Lotus - eyed fish) शकुलः (A kind of fish) तिमिः (A kind of whale) तिमिङ्गिलः (A kind of fish that swallow whales) झषाशनः (A porpoise) इति मत्स्यविशेषाणां भेदाः । (cf. Echinoderm ‘Starfish, Sea archin, Sealily. Starfishes feed upon Crabs, Snails and Oysters. Starfishes masticate food in the stomach, not in the throat. The Myria pods have an elangated long tail - form - Thousand - legged worm.)
मत्स्येषु रोहितः श्रेष्ठः । स रक्तोदरः, रक्तमुखः, रक्ताक्षः, रक्तपक्षतिः, कृष्णपुच्छः ॥
सिन्धलः, भक्कुरः, मोचिका, पाठीनः, शृङ्गी, हल्लिशः, सौरी, शष्कुल्याकारवान्, गर्गरः, कविका, वर्मी, दण्डमत्स्यः, एरङ्गी, महाशफरः, गरघ्नी, मदुरः, सपादमत्स्यः, शफरी, इति क्षुद्रमत्स्यानां प्रभेदाः । क्षुद्रमत्स्याः, स्वादुरसाः, दोषत्रयविनाशनाः, लघुपाकाः, रुचिपाकाः, रुचिकराः, बलदाः हिता भवन्ति । अतिक्षुद्रमत्स्याश्च तथैव । मत्स्याण्डः, स्निग्धः, पुष्टिकरः, वृष्यः, लघुः ॥
स्थलभेदेन मत्स्यभेदाः यथा - कूपमत्स्याः, सरोजमत्स्याः, नादेयाः, चौञ्चाः, ताडागाः । हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः । वसन्तर्तौ तु नादेयाः ग्रीष्मे चौञ्चसमुद्भवाः । तडागजाता वर्षासु तास्वपथ्या नदीभवाः । निर्झरा शरदि श्रेष्ठाः विशेषोऽयमुदाहृतः । (Close study of these names indicate the shape, characteristics and behavious of various fishes. All types of fish such as Elasmo branch type - shark (Carcharias) etc., Teleost type - seaperch (Serranus) and Dipnoan type - Coratodus fosteri and various animals belonging to these types may be identified with those mentioned here, by an expert Zoologist.)
अथ भेकाः (Amphibia)
मण्डूकः, प्लवगः, भेकः, वर्षाभूः, दर्दुरः, हरिणः, शालूरः एते पर्यायवाचिनः । वर्षासु एतेषां विशेषेणोत्पत्तिः । बिभेतीति भेकः । जलाशयं मण्डयतीति मण्डूकः । वर्षासु भवतीति वर्षाभूः । शाडते शब्दं करोतीति शालूरः । प्लवते गच्छतीति प्लवगः । दृणाति शब्दं करोतीति दर्दुरः । इति भेकनामानि । भेकस्य बाह्याभ्यन्तरावयवपरीक्षायां मनुष्यशरीराक्रियासमक्रिया अङ्गविन्यासाश्च विज्ञायंते । भेकी वर्षाभ्वी इति स्त्रीभेकस्य नामनी । भेकप्रभेदास्तु अन्यत्र विज्ञेयाः । (Anura - Frog or Toad, Uorodela - Tylototriton verrucosus, and Apoda - Ichthyophis glutionsus come under Amphibia according to modern zoology.)
कर्कटकः (Toad)
अयं भेकविशेष एव जात्या । परंतु अनूपप्रदेश एव विशेषतो निलीयते । अस्य कटकप्रायाः पादाः भवन्ति । तेषु केचित् हस्तस्थानीयाश्च भवन्ति । तानुपमृद्य केचिञ्जाताः कर्कटकानपि भक्षयन्तीति प्रसिद्धिः ॥
कृमिकीटादीनां चेष्टाविशेषाः
कृमिकीटादिषु केचिद्रसपायिनः, केचिद्रक्तपायिनः, केचिन्मलमूत्रपायिनः, केचिन्मधुररसास्वादिनः, केचिन्मांसादिषु जायन्ते, केचित्पूतिगन्धिपदार्थेषूत्पद्यन्ते, अन्ये बीजेषु, परे फलेषु, केचिद्दीर्घरसनया (Fangs) दशन्ति । अन्ये पुच्छेन दशन्ति । अन्ये दंष्ट्राभिः । एतादृशविचित्रव्यापाराणां किं निदानमित्याशङ्खा यस्य कस्यापि जायेत । तत्रेदमेवोत्तरम् | एते चेष्टाविशेषाः प्रवृत्तिभेदविशेषनिमित्तकाः चित्तसहकृताः । चित्तं तु एकमनेकेषां प्रयोजकं प्रवृत्तिभेदे प्रवृत्तिस्तु जन्मान्तरकृतपुण्यपापकर्मायत्तेति जन्मान्तरप्रादुर्भावतत्त्ववादिनः (Those that uphold the doctrine of transmigration of soul) । सा प्रकृतिः तत्तच्छरीरसदृशेत्यन्ये । शरीरं पुनः सप्तधात्वात्मकं पश्वादिशरीरं रसरक्तमज्जामांसरूपचतुर्धात्वात्मकमिति केचित् । कृमिकीटादिषु रस एव एकधातुः अन्तस्थितस्सन् रक्तव्यापारं करोतीति केचित् । सर्वथा शरीरान्तस्स्थितरसा हि धातुरूपेण परिणमन्ति । रसधातुः असृग्भवति एकरसजन्यत्वात् । सः अन्तस्स्थितस्सन् रक्तमित्यभिधीयते । बहिर्गतश्चेत्स्वेदरूपो भवति । कृमिकीटादयः स्वेदजाः । अतस्तेषां प्रवृत्तिभेदः तत्तज्जातिस्वभावनिमित्तक इति वदन्ति । अत्र मनुरपि एवं कारणं दर्शयति - यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् इत्यनेन यस्य जन्तोः यादृशं कर्म तदनुरूपं तस्य देवमनुषतिर्यगादियोनिषु उत्पादनम् । तत्तज्जात्युत्पन्नत्वात् तत्तत्स्वभाव एव तत्तज्जन्तुविशेषमनुसरतीति तात्पर्यम् ॥
उपसंहारः
यद्यपि पशुवर्गे सन्त्यनेकभेदाः, तथा पक्षिवर्गे अपरिमिता भेदाः, कृमिकीटादिवर्गेषु च अनन्ताश्च भेदाः । तान् सर्वान् साकल्येन विशदीकर्तुं नात्र उद्यमः असाध्यत्वात् । (Cf. The total number of living animals is unknown, for every year additions are made to the list of described species. As vast tracts of this world remais as yet unexplored, large numbers have to be added time after time.) पशुविचारमचिकृत्य प्रवृत्ताः ग्रन्थाः अनेके वर्तन्ते । तेषु निरूपितान् सर्वविषयानधिगन्तुं वा, समाहर्तुं वा नावकाशः । तादृशयत्नोऽपि न साध्यश्च । अतः ये ये मुख्यविषयाः ते ते सङ्गृह्य अस्मिन् ग्रन्थे यथामति यथासाध्यं सङ्ग्रहेण निरूपिताः । विस्तृतग्रन्थलेखने अस्त्येवावकाशः महामतीनां दृढसङ्कल्पानां पुरुषधौरेयाणामिति सूचयित्वा अत्र ग्रन्थोपरमः कियते शुभाशंसनपूर्वकं लोकोपकारबुद्धिपूर्वकं चेति सर्वमनवद्यं भवतु भगवत्प्रसादेन ॥
ॐ तत्सम्
प्रथमोऽनुबन्धः (Appendix I)
गोमाहात्म्यम्
(Importance of Cattle and Cattle Breeding)
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनस्सुताः ।
यदिदं तिष्ठति लोके जगत्स्थावरजङ्गमम् ॥
गावस्तत्रापि तिष्ठन्ति गोलोके पुण्यदर्शनाः ।
मातरः सर्वभूतानां विश्वस्य जगतोऽस्य ह ॥
रुद्राणामिह साध्यानां गाव एव तु मातरः ।
रुद्राणां मातरो ह्येता आदित्यानां स्वसुस्सुतः ॥
वसूनां दुहितरस्ताः ब्रह्मसन्तानमूलजाः ।
यासामधिपतिः पूषा मरुतो वालबन्धनाः ।
ऐश्वर्यं वरुणो राजा विश्वेदेवास्समाश्रिताः ।
य एवं वेद ता गावो मातरो देवपूजिताः ।
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः ॥
गास्तु वै नावमन्येत कर्मणा मनसा गिरा ।
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम् ॥
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना ।
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम् ॥
मातॄणामन्ववाये च न गोमध्ये न गोव्रजे ।
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम् ॥
शुद्धाश्चन्दनशीताङ्ग्यः चन्द्ररश्मिसमप्रभाः ।
सौम्याः सुरभ्यस्सुभगाः गावो गुग्गुलुगन्धयः ॥
सर्वे देवाऽविशन् गा वै समुद्रमिव सिन्धवः ।
दिवं चैवान्तरिक्षंच गवां व्युष्टिं समश्नुते ॥
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति ।
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते ॥
क्षीरं दधि घृतं यासां रसानामुत्तमो रसः ।
अमृतप्रभवा गावः त्रैलोक्यं येन जीवति ॥
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥
पुष्ट्यर्थमेतास्सेवेत शान्त्यर्थमपि चैव ह ॥
पयो दधि घृतं चासां सर्वपापप्रमोचनम् ।
गावस्तेजः परं प्रोक्तं इह लोके परत्र च ॥
न गोभ्यः परमं किंचित्पवित्रं भरतर्षभ ॥
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव ।
एताभिश्च विना यज्ञो न वर्तेत कथञ्चन ॥
धारयन्ति प्रजाश्चैताः पयसा हविषा तथा ।
एतासां तनयाश्चापि कृषियोगमुपासते ॥
जनयन्ति च धान्यानि बीजानि विविधानि च ।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥
पयो दधि घृतं चैव पुण्याश्चैतास्सुराधिप ।
वहन्ति विविधान्भोगान् क्षुत्तृष्णापरिपीडिताः ॥
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा ।
वासवाऽकूटवाहिन्यः कर्मणा सुकृतेन च ॥
उपरिष्टात्ततोऽस्माकं वसन्त्येतास्सदैव हि ।
पितरो वृषभा ज्ञेयाः गावो लोकस्य मातरः ।
तासां तु पूजया राजन् पूजिताः पितृदेवताः ॥
सभाप्रपागृहाश्चापि देवतायतनानि च ।
शुध्यन्ति शकृदा यासां किंभूतमधिकं ततः ॥
ग्रासमुष्टिं परगवे दद्यात्संवत्सरन्तु यः ।
अकृत्वा स्वयमाहारं प्राप्तस्तत्स‌आर्वकालिकम् ॥
गावो मे मातरस्सर्वाः पितरश्चैव गोवृषाः ।
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः ॥
इति ।

द्वितीयोऽनुबन्धः (Appendix II)
आयुर्वेदसमितिः
आमयोत्पत्तिनिर्णयः
वामकः - भो ब्रह्मर्षिराजर्षयः ! किन्तु स्यात्पुरुषो यञ्जः तज्जास्तस्यामयाः न वा ?
आत्रेयः पुनर्वसुः - अमितज्ञानविज्ञानविच्छिन्नसंशयाः भवन्तः सर्वे काशिराजस्य संशयं छेत्तुमर्हन्ति ।
पारीक्षिर्मौद्गल्यः - आत्मजः पुरुषः, रोगाश्च आत्मजाः । स च कर्म. कर्मफलानि च चिनोति उपभूङ्क्ते । स हि कारणम् । चेतनाधातोरृते सुखदुःखयोर्न हि प्रवृत्तिः ॥
शरलोमा - न । दुःखद्वेषी आत्मा, आत्मना आत्मानं व्याधिभिः दुःखैः, कदाचन न योजयेत् । सत्वं रजस्तमोभ्यां परीतं मनः कारणम् ॥
बार्यविदः - न । मनः एकं हि न कारणम् । शरीरादृते शारीररोगाः न भवन्ति, मनसः स्थितिश्च न भवति । भूतानि तु रसजानि ; पृथग्विधाः व्याधयश्च रसजाः । आपः रसवत्यः ता एव निर्वृतिहेतवस्स्मृताः ॥
हिरण्याक्षः - न । आत्मा रसजः न स्मृतः, अतीन्द्रियं मनः न रसजम् । शब्दादिजास्तु रोगास्सन्ति । पुरुषः षड्धातुजः रोगाश्च षड्धातुजाः ॥
शौनकः - न । मातापितृभ्यां विना षड्धातुजः कस्माद्भवेत् । पुरुषात् पुरुषः प्रजायते, गोः गौः, अश्वात् अश्वः, अतः पित्र्याः मेहादयः रोगाः, त एवात्र कारणम् ।
भद्रकाप्यः - न । अन्धः अन्धात् न प्रजायते । ते मातापित्रोरपि प्रागुत्पत्तिर्न युज्यते । जन्तुस्तु कर्मजः मतः । तस्य आमयाश्च कर्मजाः, कर्मणः ऋते रोगाणां पुरुषस्य च जन्म न भवति ॥
भरद्वाजः - न । कर्मणः पूर्वं कर्ता हि, किंच यस्य फलं पुरुषः स्यात्, तदकृतं कर्म न दृष्टं, व्याधीनां पुरुषस्य च स्वभावः भावहेतुः कारणं - यथा स एव तेजोन्तानां कारणं खरद्रवचलोष्मत्वम् ॥
काङ्कायनः - न । आरम्भफलं न भवेद्धि स्वभावात् भावानां असिद्धिः सिद्धिरेव वा भवेत् । अमितसंकल्पः ब्रह्मापत्यं प्रजापतिरेव चेतनाचेतनस्य अस्य जगतः सुखदुःखयोश्च स्रष्टा ॥
भिक्षुः आत्रेयः - तन्न । प्रजापतिः प्रजाहितैषी अपत्यं सततं असाधुवत् दुःखैर्न युंज्यात् । पुरुषः कालजस्त्वेव । तस्य आमयाश्च कालजाः सर्वं जगत् कालवशम् । कालः सर्वत्र कारणम् ॥
आत्रेयः पुनर्वसुः - मैवं वोचत । पक्षसंश्रयात् तत्त्वं दुष्प्रापं हि वादान् सप्रतिवादान् निश्चितान् वदन्तः, गतौ तिलपीडकवत् पक्षान्तं न गच्छन्त्येव । तस्मात् एवं वादसङ्घट्टं मुक्त्वा अध्यात्ममनुचिन्त्यताम् । अविधूततमस्सकंधे ज्ञेये ज्ञानं न प्रवर्तते । एषां भावानामेव संपत् नरं सञ्जनयेत्, तेषामेव विविधान् विपद्व्याधीन् समुदीरयेत् ॥
वामकः - भगवन् ! सम्पन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानां रोगाणां किमभिवृद्धिकारणम् ?
आत्रेयः पुनर्वसुः - हिताहारोपयोगः एक एव पुरुषवृद्धिकरो भवति । अहिताहारोपयोगः पुनः व्याधिनिमित्तजः ॥
अग्निवेशः - कथमिह भगवन् ! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीयात् । हितसमाख्यातानां चैव ह्याहारजातानामहितसमाख्यातानां च मात्रा, काल, क्रिया, भूमि, देह, दोष पुरुषावस्थान्तरेषु विपरीतकारित्वम् उपलभामहे ॥
आत्रेयः - यदाहारजातम् अग्निवेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि । अहितं विपरीतम् इत्येतद्धिताहितलक्षणमनपवादं भवति ॥
अग्निवेशः - भगवन् ! नत्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजः विज्ञास्यान्ति ॥
आत्रेयः - येषां विदितमाहारतत्त्वम्, अग्निवेश ! गुणतो द्रव्यतः कर्मतः सर्वावयववशश्च मात्रादयो भावाः ते एतदुपदिष्टं विज्ञातुमुत्सहन्ते । यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजः विज्ञास्यन्ति तथैतदुपदेक्ष्यामो मात्रादीन् भावानुदाहरन्तः । तेषां हि बहुविधविकल्पा भवन्ति । आहारविधिविशेषांस्तु खलुलक्षणतश्चावयवतश्च अनुव्याख्यास्यामः । तद्यथा - आहारत्वमाहारस्य एकविधम् अर्थाभेदात् । स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् ; त्रिविधप्रभावो हिताहितोदर्कविशेषात् । चतुर्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् ; षट्स्वादो रसभेदतः षट्विधत्वात् । विंशतिगुणः शीतोष्ण, स्निग्ध, रूक्ष, मन्द, तीक्ष्ण, स्थिरसर, मृदु, कठिन, विशद, पिच्छिल, श्लक्ष्णखर, सूक्ष्म, स्थूल, सान्द्रद्रवानुगमात् । अपरिसंख्येयविकल्पो द्रव्यसंयोगकरणबाहुल्यात् । तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुंज्यन्ते भूयिष्ठकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चाहिततमाश्च तांस्तान् यथावदनुव्याख्या स्यामः । यथा लोहितशालयः शूकधान्यान्य तमत्वे श्रेष्ठतमाः ॥
अग्निवेशः - भगवन् ! सन्ध्याकालः प्राप्तः - तदन्यस्मिन्दिने पुनस्सभां विरचय्य सविस्तरमेतद्विषयम् उपदेष्टुमर्हन्ति भवन्तः ॥
सर्वे - यदग्निवेशेनाभिहितं तदस्मन्मतम् ॥
आत्रेयः - तथास्तु ॥
॥ सर्वे जनास्सुखिनो भवन्तु ॥