श्रीयै नमः
सनातन - वनस्पतिविज्ञानम्
Science of Plant Life known to the
Ancient Aryans of India or Botany
इक्षुशालिफलसस्यसमृध्द्यै पारिजातरुशोभितमूले ।
स्वर्णरत्नमणिमण्टपमध्ये चिंतयेत्सकललोकधरित्रीम् ॥
उपक्रमः (Introduction)
उद्भिज्जविद्या (अथवा वनस्पतिविज्ञानं) खलु (Science of Botany) सुविदिताऽसीत्प्राचीनार्याणामिति विज्ञायते । यतः असौ भारतभूमिः नानाविधवृक्षलतादीनामाश्रयभूता ऋषिजनानां तपस्साधनानुकूला तृतीयाश्रमिणां वानप्रस्थानां निवासयोग्या अनेकमृगपक्षिणामावास्थानभूता सकलसस्याधारभूता च वर्तते । अनेके मुनिवराः फलाशिनो वा पर्णाशिनो वा अभूवन् । उपवेदभूतमैषज्यशास्त्रविहितानामौषधविशेषाणां कल्पनाय वनस्पतिविशेषा एवोपादानम् । एतादृशी विद्या कदा केन कुत्र प्रतिपादितेति सम्यग्वेदितुमशक्यमिदानीम् । तथापि वेदशास्त्रादिषु तत्र तत्र सूचितैरंशैः सा विद्या पुरा सुप्रसिद्धाऽऽसीदिति स्पष्टमवगम्यते । अतः अनेकत्र प्रतिपादितान्सूचितान्वा विषयानेकत्र संकलय्य वनस्पतिविज्ञानं सुकरं कर्तुमयमल्पारंभः । यद्ययमुद्यमः नवीनरीत्या वनस्पतिविज्ञानस्य बीजभूत इति संभाव्यते तदा प्रभवंत्येव अन्ये विपुलमतयोऽभिज्ञाः वनस्पतिविज्ञानसारज्ञाः स्वीयनूतनग्रन्थेषु अङ्कुरपल्लवकांडशाखापर्णपुष्पफलोज्जृंभितम् एतच्छास्त्रं महावृक्षस्वरूपमापादयितुं मंदबुद्धीनां प्रयोजनाय लोककल्याणाय चेति प्रथमं विज्ञाप्यते ।
वनस्पतिविज्ञानतत्वज्ञाः
(Authors and Works on Botany)
ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने । अविपाश्चाथ गोपाश्च ये चाऽन्ये वनवासिनः ॥ न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः । ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति ॥ योगविन्नामरूपज्ञस्तासां तत्वविदुच्यते ॥ A Scientist who knows the Physiology and Morphology of the vegetable kingdom is called a Botanist. ओषधीशः (सोमः) क्रियायोनिरंभोयोनिरनुष्णाभाक् । (सोम एव) इत्यादिना तत्वविज्ञानसमर्थाः ये, त एव वनस्पतिविज्ञानतत्वज्ञाः । ते च ब्रह्म-दक्ष-प्रजापत्यश्विनीं - द्रादयो देवताः, अनन्तरमात्रेयभरद्वाजाऽग्निवेश - काश्यप - वसिष्ट - यमै - रम्मद - देवमुन्यंबिकादयः ऋषिप्रवराः, अतिप्राचीना अभवन् । गवां गोत्रमुदसृजो यदङ्गिरः इति प्रमाणेन, महर्षिरङ्गिरा अपि वनस्पतितत्वज्ञ इति विज्ञायते । तदनन्तरं चरक - धन्वन्तरिसुश्रुताष्टाङ्गहृदयादि वैद्यशास्त्रकाराः, अरुणस्वरणादि व्याख्याकाराः, धन्वन्तरिप्रभृतयो निघंटुकाराः, वराहमिहिरप्रभृतयश्शास्त्रज्ञाश्च, वनस्पतिविज्ञानं विशदीचक्रुः । कपिलपतञ्जलिकणादगौतमजैमिनिव्यासबुद्धजिनप्रभृति दर्शनकारास्तदीयमतप्रचारकग्रन्थकाराश्च, स्वस्वाभिमतसिद्धान्तैरेतद्विज्ञानतत्वं सीयग्रन्थेषुयथासंदर्भं सुस्पष्टं प्रख्यापयामासुः । नवीनाः अमरसिंहहेमाद्रिप्रभृति निघण्टुकाराश्च यथोचितं वनस्पतिविज्ञानं परिशोधितवन्तः । ऋग्वेदयजुर्वेदादि सम्बन्धि संहिताब्राह्मणारण्यकभागेषु, छान्दोग्यबृहदारण्यकाद्युपनिषत्सु तद्भाष्येषु च तथा आपस्तम्बाश्वलायनादि सूत्रग्रंथेषु, आयुर्वेदसूत्रेषु, चरकसुश्रुतादिवैद्यग्रन्थेषु बृहज्जातकबृहत्संहितादिज्योतिर्ग्रन्थेषु, भगवद्गीतायाम्, मन्वादिस्मृतिषु, विष्णुधर्मोत्तरे, अभिलषितार्थचिन्तामण्यादिग्रन्थेषु च, केचिद्वनस्पतिविषयाः तत्र तत्र सूचिता वर्तन्त इति संक्षेपतो विदितं भवति । वेदशास्त्रादिषु तत्वान्वेषणे यावद्यावत्परिश्रमप्रागल्भ्यम्, तावत्तावद्विशेषविषयानुसंधानं कर्तुं प्रतिभाशालिनां शक्यमिति सूच्यते ।
प्राणिसर्गाद्वनस्पतिसृष्टेः प्राथम्यम्
(Origin of Vegetable Kingdon)
सृष्टिप्रकरणे तावत् आत्मन आकाशस्संभूतः इत्यारभ्य पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः इति तैत्तिरीयोपनिषदि, ता आपः अन्नमसृजन्त । तस्माद्यत्र क्वचन वर्षति तदेव भूयिष्ठम् अन्नं भवति इति छांदोग्ये, आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति मनुस्मृतौ, नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ….. तेभ्यो ददौ इति रामायणे च सम्यगुक्तत्वा, प्राणिसृष्टेः पूर्वं सस्यादिसृष्टिरेवासीदित्यवगम्यते । अथ च उद्भिदा यजेत इत्यादिश्रुत्या यागविधानेन यागसाधनभूतानामुद्भिदादीनामुत्पत्तिर्निश्चितपूर्वैव । पृथिव्यप्तेजसां त्रिवृत्करणप्रकरणे, पृथिवी अन्नत्वेनारोपिता । तत्र अन्नशब्देन तत्कारणभूतं सस्यादिकमेवोपदिष्टमिति यस्य कस्यापि विचारपरस्य प्रतिभात्येव । (Cf. The term food is not one which admits of accurate definition and the difficulty increases, the wider the range of organisms to which it refers. Green plants make not only their own food but also the food for the whole world. Man grows plants and appropriates the leaves, the roots, the stems, the fruits, or the seeds, improved by his selection for his own nourishment - says one of the Botanists.) मुख्यस्सर्गो तस्थुषां स्थावराणामिति तस्य निर्वचनं भवति ।
अन्या श्रुतिरप्यत्राश्रयणीया - आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत् । कथमिदं स्यादिति । सोऽयश्यत् पुष्करपर्णं तिष्ठत् (भाष्यम्) सूदं (स्थितं जलमृत्तिकां) उपनीय (अशोष्यजलप्रदेशात्), तेषु तेषु पृथिवीप्रदेशेषु प्रसारितवाम् । ततस्तत्र तत्र सस्योत्पत्तौ सत्यां प्रजानामन्नमक्षीणमभूत् एवमपि ऐ. ब्रा. (अ. २४, खं. ४) इयं वै सर्पराज्ञीत्यादिमंत्रे, या भूमिरस्ति इयमेवाग्रे वृक्षाद्युत्पत्तेः पूर्वमेव अलोमिकेव रोमरहितेवा७सीत् । ततो रोमोत्पत्यर्थं सा भूमिः साधनभूतम् आयं गौः इत्यादिमन्त्रमपश्यत् । तन्मन्त्रप्रसादेन लोके ओषधयः वनस्पतयः सर्वाण्यन्यानि रूपाणि तृणादीनि यदिदं किंच स्थावरं रूपमस्ति तन्मध्ये यं यं काममसौ भूमिरकामयत, तत्सर्वोप्येनां प्राविशदिति वैदिकमैतिह्यमपि विचारसहं प्रतिभाति ॥ मा ते व्योम संदृशि (तै. आ. प्र. १, अ. १) सोऽकामयतौषधिभिर्वनस्पतिभिः प्रजायेयम् (तै. सं. ४ - ५ - ३) (O Earth ! do not show your empty or naked form, but always be covered or enveloped with plants and trees.)
अस्मिन् संदर्भे सोमस्य मीमांसा विचारणीया (History of the first created plant) वनस्पतिजातौ खलु सोमस्य प्रधान्यमंगीकृतं प्राचीनार्यैः ॥ कोयं सोमो नाम ? सोमः कश्चिल्लताविशेषः हिमवत्प्रान्तोद्भवः यज्ञादिकार्येषु विशेशोपयुक्तः । तद्रसपानेन वीर्यवृद्धिर्बलवृद्धिश्च भवति । स लताविशेषः प्रथमं दिविस्थसोमाख्यवनस्पतिरूप एव वृक्षादिजातीनां मूलभूतः पृथिवीमवततारेत्युक्तं भवति । तथा च श्रुतिः तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् इति । सोमात्मको हि चंद्रमाः । तथैव दर्शितं छांदोग्ये एष वै सोमो राजा इत्युपक्रम्य तदेवोभयं भवतीत्युक्तम् (Here the text seems to mean that the moon being a watery substance by nature, serves as an efficient cause निमित्तकारणम् to influence the growth of the vegetable kingdom which is considered as an effect. Cause and effect are identified and considered as one and the same, since the effect exists in the cause in a potential state. Hence Soma means not only moon but also the primordial tree the essence of which is said to have entered the earth through rain from heaven) अत एव सोमो वनस्पतीनां राजेति व्यवहारः । तथा च श्रुतिः या ओषधीस्सोमराज्ञीर्विष्ठिताः पृथिवीमनु । बृहस्पतिप्रसूता अस्यै संधत्त वीर्यम् (ऋ. मं. १०, सू. ९७, ऋ. १९.) या ओषधयस्सोमराज्ञीः दिवःस्सकाशादागत्य पृथिवीं नानाभेदेन स्थिताः वृहस्पतिना अनुज्ञाताः सत्यः यूयं अस्यै रुग्णतनवे वीर्यं संधत्तेति भाष्योक्तिः । अन्या श्रुतिः या ओषधीस्सोमराज्ञीः बह्वीश्शतविचक्षणाः । तासां त्वमस्युत्तमारं कामाय शंहृहे (तत्रैव ऋ. १८) सोमो राजा यासां ताः याः ओषधयः असंख्याताः बहुदर्शनाः । हे सोमाख्ये ओषधे तासां त्वमुत्तमासि । तस्मादत्यर्थं कामाय कांताय हृहृदे हृदयाय सुखकरी भव । इत्यनेनार्थेन, सोमलताविशेषस्य ओषधीषु प्राधान्यं तद्रसपानेन शरीरं बलवत्कांतिमद्भवतीति चोक्तम् । तथैवान्या श्रुतिः अवपतन्तीरवदन् दिव ओषधयस्परि यं जीवमश्नवामहै न सरिष्याति पूरुषः (तत्रैव ऋ. १७) यं जीवंतं प्राप्नुमः स पुरुषः न विनश्यति इति द्युलोकादवपतंत्य ओषधयः अवदन् इत्यनेन पृथिवीसृष्टेः प्राक् ओषधयः सृष्टाः । ताः प्राणिनां जीवनार्थं पृथिव्यां तिष्ठन्तीत्युक्तम् । यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् इत्यन्या श्रुतिः । (ऋ. मं. १०, सू. ६०, ऋ. ९) देवानां युगे प्रथमेऽसतस्सदजायत । तदाशा अन्वजायंत तदुत्तानपदस्परि । (ऋ. मं. १०, सू. ७२, ऋ. ३.) उत्तानपदः - उत्तानम् ऊर्ध्वतानं (growing upwards) पद्यंत इति पदः - वृक्षाः अजायंत इत्यनेन भूर्जज्ञे उत्तानपदः इत्यनेन च पृथिवीस्थप्राणिसृष्टेः प्राग्वनस्पतिसृष्टिरासीदिति विज्ञायते । एतदभिप्रायानुसारेण श्रुत्यंतरार्थस्संगच्छते । यथा या ओषधोः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च । (ऋ. म. १०, सू. ९७, ऋ. १) या ओषधयः पूर्वाः - पुरातनाः जाताः उत्पन्नाः तेभ्यस्सकाशात् देवेभ्यः जगन्निर्मातृभ्यः यद्वा देवाः द्योतमानाः ऋतवः तेभ्यः, कस्मिन् काले ? त्रियुगं त्रिषु युगेषु (कृतत्रेताद्वापराख्येषु) विशेषेण प्रादुर्भावापेक्षया युगत्रयमुक्तं कलौ त्वत्यंताल्पत्वा दुपेक्षितम् । अथवा - त्रिषु युगेषु वसंते प्रावृषि शरदि चेत्यर्थः । अहं बभ्रूणां बभ्रूवर्णानां सोमाद्योषधीनां शतं सप्त च धामानि अनुलेपमार्जनाभिषेकादिरूपेणाऽऽस्रयभूतानि स्थानानि, नु - क्षिप्रं मनै - मन्ये इति श्रुत्यर्थो निर्गलितः । अत्र वाजसनेयकमपि कौतूहलमाजनयति । यथा या ओषधीः पूर्वा जाता देवेभ्यः त्रियुगंपुरे ति - ऋतवो वै देवाः - तेभ्यः एतास्तिस्रः पुरा जायंते । वसंते प्रावृषि शरदिमनैनु । बभ्रूणामहामिति - सोमो वै बभ्रुः सोभ्याः ओषधयः औषधः पुरुषः । शतं धामानीति - यदिदं शतायुः शतार्घः शतवीर्यम् एतानिहास्य तानि शतं धामानि । सप्त चेति य एवेमे सप्तशीर्षन् प्राणाः तानेतदाह इति । अत्र निरुक्तं च । या ओषधीः पूर्वा जाताः देवेभ्यस्त्रियुगं पुरा मनैनु तद्वभ्रूणामहं - बभ्रुवर्णानां हरणानां भरणानामिति वा शतं धामानि सप्त चेति धामानि त्रयाणि भवंति स्थानानि नामानि जन्मानीति । जन्मान्यत्राभिप्रेतानि । सप्तशतानि - सप्तशतं पुरुषस्य मर्मणां तेष्वेवाऽऽदधाति इत्यादिश्रुत्या त्रियुगं पुरा कृतादियुगत्रयकालात्पूर्वमेव ओषधयः पूर्वाः जाताः प्रथमतया उत्पन्नाः । तेषां जातिभेदाः आकृतिविशेषा वा सप्तशतसंख्याकाः । इत्येतां श्रुतिमन्वेतुं को वा आक्षेप इति विचारसहोऽयमाशयः ।
वृक्षादयः पाञ्चभौतिकाः
(Elementary Nature of Vegetable Kingdom)
आकाशवाय्वग्न्यष्पृथिवीसंख्यातानां पञ्चसंख्याकानां महाभूतानां मध्ये उत्तरोत्तरभूतेषु स्वविशेषगुणेन साकं पूर्वपूर्वभूतानां गुणाः संक्रामन्तीति श्रुतिस्मृतिशास्त्रसंमतमेतत्परीक्षासहं च । यथा आकाशे स्वगुणः शब्द एक एव, तत्पूर्वभूतभूतस्याभावात्, वायौ स्वपूर्वभूतभूतगुणः शब्दः स्वविशेषगुणः स्पर्श इति द्वौ गुणौ । अग्नौ स्वपूर्वभूतभूतगुणौ शब्दस्पर्शौ, स्वविशेषगुणः रूपमिति त्रयो गुणाः । अप्सु स्वपूर्वभूतभूतगुणाः शब्दस्पर्शरूपाणि । स्वविसेषगुणः रस इति चत्वारो गुणाः । पृथिव्यां स्वपूर्वभूतभूतगुणाः शब्दस्पर्शरूपरसाः । स्वविशेषगुणः गंध इति पंच गुणाः । अत्र - द्रव्यगुणयोः समवायस्संबन्धः । There is an inseparable relation between a substance and its characteristic quality.) इति न्यायेन केवलगुणस्य स्थितिस्संक्रांतिर्वा असंभवेति कृत्वा उत्तरोत्तरभूतेषु पूर्वपूर्वभूतानां संक्रांतिरपि दुर्वारेति ज्ञायते । अतः पृथिव्या ओषधयः इति श्रुत्या ओषध्यादीनां पृथिवीजन्यत्वात् स्वपूर्वभूतेतरमहाभूतानां तद्गुणानां च संक्रांतिस्सर्वथा भवत्येवेति, वृक्षादयः पंचभूतात्मकाः इति निश्चीयते । अत एव पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्रव्याभिनिवृत्तिरिति वेदांतिनां समाख्यानम् । एतत्तत्वमेव वराहमिहिराचार्येणैवं निर्दिष्टम् । वृक्षादीनां स्वरूपविज्ञानं (Plant morphology) तदंगभूतशिरासंतानादिविज्ञानं तत्कारणभूतपंचभूतादीनां कार्यविशेषविज्ञानं च निर्धारितमपि पायते इति । (It is, as defined by John Merte Coulter, Plant morphology which is concerned with the form and structure of plant life. It includes Ontogeny or history of plant life and Phylogeny or evolution of plant life.) एतदपि तेनैव संग्रहेण निरूपितं भवति । यथा - अतंस्सारान् जनयति रविर्दुर्भगान् सूर्यसूनुः । क्षीरोपेतांस्तुहिनकिरणः कंतक्काद्याश्च भौमः । वागीशज्ञौ सफलविफलान् पृष्पवृक्षांश्च शुक्रः स्निग्धानिंदु कटुकविटपान् भूमिपुत्रश्च भूयः इति । अनेन श्लोकेन स्थलजलजांशाधिपतिप्रभाववशात् वृक्षादिविषयकविशेषविज्ञानं सूच्यते । यथा - अशंपतिस्सूर्यः मध्यमदृढान् शिंशुपादीन् जनयति । शनिः दृड्मनसोरप्रियान् कार्पासादीन् जनयति । चंद्रः स्निग्धवृक्षान् इक्षुप्रभृतीन्, कुजः कंटकबहुलान् खदिरप्रभृतीन्, गुरुः फलवृक्षान् आम्रप्रभृतीन्, बुधः केवलपुष्पोपयोगकरान् सुगंधादीन्, शुक्रः केवलपुष्पप्रधानान् चंपकादीन्, क्रमेण जनयंति । पुनः इदुंः देवदारुप्रभृतीन् स्निग्धवृक्षांश्च, अगांरकः भल्लातकप्रभृतीन् कटुकवृक्षांश्च, जयनति इति विशेषोऽप्युक्तः । अत्र विचारदृशामेवं तत्वविज्ञानं प्रतिभायात् । सूर्यः साक्षात् शनिश्च सूर्यद्वारा वृक्षादीनां उष्णप्रकाशरूपतेजोधातुं प्रापयति । (The sun imparts heat and light to the plant life.) चंद्रस्साक्षात् तत्पुत्रः बुधः चन्द्रद्वारा अब्धातुम् । (Sap or moisture) अगांरकः भूपुत्रत्वात् दोहदादिपरिणामरूपपृथिवीधातुम् (Solid constituent materials in the form of manure) शुक्रः वायुधातुं (Air that enables the movements in the inner and outer sides of the plants), गुरुः अकाशधातुं (Space for expansion and growth of the plant body), संघटयन्तीति एतानि पंचभूतानि वृक्षादीनां शरीरोत्पत्तिकारणानि भवंति । अतः वृक्षादयोपि पाञ्चभौतिका इति निर्धार्यते । अबुंयोन्यग्निपवननभसां समवायतः तन्निर्वृत्तिः (द्रव्यभूतवृक्षादीनां) विशेषश्च व्यपदेशतः । तस्मान्नैकरसं द्रव्यं भूतसंधातसंभवात् - इत्यादिचरकाचार्योक्तिरप्यत्र उपष्टंभिका भवतीति विज्ञेयत् । सर्वशरीराणि पाञ्चभौतिकानीति आयुर्वेदसूत्रेऽपि दर्शितम् ।
वनस्पतीनां चेतनावत्वम् (Plant Physiology)
वृक्षादयः सजीवा एवेति प्राचीनार्याणां सिद्धांतः । (It is, as defined by Charles Reid Barnes, plant physiology, which deals with the behaviour of plants of all scorts and the ways in which this is effected by external agents.) यथा - न्यायकंदल्यां - वृक्षादयोऽपि शरीरभेदा एव । (Plants are identical with animals in respiration ; that is, trees etc. are differnet forms of bodies.) भोगाधिष्ठानात् (As they are the substrata for enjoyment.) न खलु भागाधिष्ठानमंन्तरेण (Without such substratum), जीवन (subsisting or self manifesting, i.e., Anabolism), मरण (Death or decay, i.e., Katabolism), स्वप्न (Sleep or contact movements), जागरण (Wakefulness or gravity movement), भेषजप्रयोग (Treatment through medicine or plant pathology, i.e. Therapuetics. Cf. Excitability in plants may be diminished or abolished treating by a dose of chloroform and ether), बीज (seed), सजातीयानुकूलोपगम
(Attracting like things or contact movement or autonomic movement) विजातीयप्रतिकूलापगमादयः (Repelling unlike things or pholiolic movement), संभवंति (are not possible). वृद्धि (Growth), क्षत (Injury or bleeding), भग्न (Losing energy or shifting contact), संरोहणे च (Recovery or recouping and grafting, cf. “If a wound be allowed to heal, the callus may give rise to new growing parts, from which the regenaration of removed organs may proceed”), भोगोपपादकः स्फुटोप्यस्त्यागमः नर्मदातीरसंभूतसरलार्जुनपादपाः । नर्मदातोयसंस्पर्शात्ते यान्ति परमां गतिम् तथा अतिचेष्टावत्वम् इन्द्रियवत्वं च (muc activity and possessing senses), उद्भिजां न स्फुटतरम् । (Are not conspicuous in plants.) अतो न शरीरव्यवहारः । (So they are not considered as regular bodies, cf. “Plants have so little specialization and organs, no circulatory system.”)
अन्यत्र चोक्तम् - अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः । (Cf. “The protoplasm is sensitive to various agents that act upon it or irritable i.e., it reacts or responds to them by altering its behaviour in some way.”) गारुडे - यमाज्ञया महीं प्राप्य भवन्ति स्थावरादयः । वृक्षगुल्मलतावल्लीगिरयश्च तृणानि च । स्थावरा इति विख्याता (जीवाः) महामोहसमन्विताः । अन्यत्र - तृणगुल्मलतात्वं च (प्राप्नोति) क्रमशो गुरुतल्पगः इति । मनुः (१ - ४६) उद्भिज्जाः स्थावरास्सर्वे बीजकांडप्ररोहिताः (जीवप्रभेदा भवन्ति) इति । कालिदासः शरीरिणां स्थावरजंगमानां सुखाय तज्जन्मदिनं बभूव (कु. १ - २३) इति च सूचयन्ति । वृक्षतत्वे - वृक्षाः तमःप्रधानाः (Possessing inertia) अव्यक्तचेतनाः (Life not clearly manifested) अतंस्स्पर्शमेव जांनति । (Feel all sensations only inwardly.) इत्युक्तम् । तथैवोक्तं राघवानंदेन - तमसाबहुरूपेण वेष्टिताः कर्महेतुना । अतंस्संज्ञा भवंत्येते सुखदुःखसमन्विताः ॥ विवरणम् - अतंस्संज्ञा बुद्धिः, तल्लिंगस्य बहिर्विहारव्याहारादेः कार्यस्य चेष्टारूपस्याऽभावात् अन्तस्संज्ञा उच्यन्ते । अन्यथा अन्तश्शरीरविदारणादिदुःखसंज्ञामपेक्षन्त एव । यथा स्वापमदमूर्छागताः प्राणिनः । (Cf. “The plant is indeed a self-adjusting machanism whose reactions are oftentimes more delicate than those of our bodies with all those special organs and complicated sense organs.) एतेषां सुखं - जलधरजनितजलसंपर्कादेव जायते । तथा च श्रुतिः । स्थाणुमन्ये प्रपद्यंते शरीरत्वाय देहिनः । अन्यत्र - अतंस्संज्ञाः पेपीयमानास्तिष्ठन्ति इति । उद्भिज्जाः शीतोष्णग्राहिणो भवन्तीति मोक्षधर्मेऽप्युक्तम् । तस्मात्पश्यन्ति पादपाः इति स्मृतिश्च । यदाऽणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति इत्यन्यत्र । तं विद्याकर्मणी समारभेते । पूर्वप्रज्ञा च इत्यादिश्रुत्युक्तिमवलंब्य भूतेद्रियमनोबुद्धिवासनाकर्मवायवः । अविद्या चाष्टकं प्रोक्तं पुर्यष्टं मुनिसत्तमैः । तेन बद्धस्य वै बंधो मोक्षो मुक्तस्य तेन तु इति मनुष्यविषये सनंदेन यदुक्तं वनस्पतिविषयेऽपि तदेवान्वेति । यथा तृणकान्त (अथवा लज्जावती) लतादिषु स्पर्शमात्रेण आकर्षणावकुञ्चने । (Cf. What the modern Botanist says in this respect “The plants also do possess the power of feeling and they do respond when they are excited. The behaviour of the sensitive plant to the stimulus of touch such as the Trinakanta and Lajjavati, the humble plant - Mimosa pudica, shows us clearly that there is something corresponding to nerve impulse passing through its body which is responded to by a motor activity, viz., the movement of leaflets, the beanding of stalks and budding force of flowers.’ So we should consider plants as sensitive and capable of feeling. One of the basic properties of living things is movement.)
जीवाः कर्मनिमित्तं स्थावरदेहैस्संश्लिष्यन्ते । प्रतिबद्धकरणतया लवनकण्डनपेषणसंस्काररसादिपरिणामरेतस्सेककालेषु मूर्छितवत् अनुद्भूतविज्ञाना एव भवन्तीति चाष्युक्तं भवति ।
जले शैवलजातिः (There are some low forms of plants in pond water), स्थलपद्मम्, इन्द्रगोपः, इत्यादयः जलात् स्थलमथवा दोहदराशेस्सकाशात् स्थलांतरं प्रति चलंतीति प्रसिद्धिः । (Cf. In all plants universal motion is common. Parts of the common plants move in response to the influences of gravity , light, moisture, and other stimulii) नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् इत्युक्तिरप्यत्रानुसंधेया । योगवासिष्ठे - स्वतोयदात्मवृक्षस्य शाखादिस्तस्य वेदनम् इति । अनेन वृक्षादीनामपि स्वरूपज्ञानमस्ति चित्त्वादित्युक्तम् । (Plants also have life and sensibility.)
वनस्पतीनाम् उत्पत्तिप्रकारः
(Ecology or process of evolution in the structure of the plant body)
वृक्षतत्वे यथा - बीजादंकुरोत्पत्तिः, अकुंरात्पर्णम्, पर्णान्नालः, नालात्स्कन्धः, स्कन्धात् पुष्पं, पुष्पात् फलं, फलात् बीजं, बीजात्पुनः अङ्कुरादयः इति । (Cf. Divisions made by Henry Chandle Cowles - “The fundamental plant parts are (1) Roots, (2) Leaves, (3) Ste m (4) Reproduction organs including flowers and fruits.” This part of science he calls “Ecology” and says “perhaps the essential stage in the evolution of the tree habit is from a herb to a shrub. Ecology considers organisms in relation to their environments or it may be called the Ecology of plant structure and behaviour.”) तथा च नाबीजं जायते किञ्चन्न बीजेन फलं विना । बीजाद्बीजं प्रभवति नाबीजं विद्यते फलम् इति च न्यायकंदल्याम् । बीजादङ्कुरोत्पत्तेः सामान्यकारणं सहकारिकारणम् । यथा - पृथिवीधातुः अब्धातुना संगृहीतः तेजसा पच्यमानः रसद्रव्यं निर्वर्तयतीति वात्स्यायनः । (Cf. “The welfare of the organism is largely dependent on discriminative action of the cytoplasmic meambranes, for, substances requisite to food making are allowed to enter and foods are not permitted to diffuse out and be lost”.) पार्थिवपरमाणूनामेकजातीयत्वेपि पाकमहिम्ना विजातीयद्रव्यानुभवः । Cf. Chemical transformations of the most varied kind occur within the plant, both among the substances that enter it and elaborate it into forms and also among the foods that are assimilated.) पाकश्च (Chemical action) जगज्जीवनहेतोस्सूर्यादेव । तथा च श्रुतिः सूर्य आत्मा जगतस्तस्थुषश्च । तथैव यजुरारण्यके सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि इति । सूर्यः रसवीर्यपाकैः सर्वान् लोकाननुगुह्णाति इत्यस्य भाष्यम् । (“The difference between the darkness by night and the light of the day is so much greater than the usual differences of temperature than the usual differences of temperature and moisture in these hours that the light effect upon plants is likely to be dominant”.)
तस्याः पाकविशेषेण । स्मृतं कालविशेषेणम् इत्यत्र पाकविशेषस्वरूपमेवं प्रतिपादितं सायणाचार्यैर्वेदभाष्ये । यथाप्रथमं तावद्बीजं मरीचिकृतेन केनचित्पाकेन अङ्कुरीभवति । स चाङ्कुरः पाकान्तरेण काण्डीभवति । तच्च काण्डं पाकान्तरेण पत्रपुष्पाण्युत्पादयति । तच्च पुष्पं पाकान्तरेण फलीभवति । एवं कालकृततत्तत्पदार्थावस्था दृष्टेति । (Cf. “Of course each change in chemical action changes the relations of the substances to the protoplast and may modify thereby its diffusibility throughout.) अन्यत्र तत्र सिक्तजलैर्भूमेरूष्मभिश्च विपाचिताः । वायुना व्यूहमानस्तु बीजत्वं प्रतियन्ति ते । तथैवान्यत्र - तथा चोप्तानि बीजानि संसिक्तान्यंभसा पुनः । उच्छूनतां मृदुत्वं च मूलभावं प्रयान्ति ते ॥ तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः । पर्णात्त्वक् च ततः कांडं कांडाच्च प्रसरः पुनः ॥ (Cf. “The cells newly formed enter gradually upon a second stage of development. This is characterized by enlargement oftentimes so great and so rapid as to be very remarkable due to the acting external agents, such as light, air, heat and others. The conditions for growth are (1) an adequate supply of water (2) sufficient supply of constructive material (3) oxygen and (4) certain limit of temperature. In the stem, the primordia of new organs are produced at the surface, the first indication of a new lateral branch, whether a shoot or a leaf, being a slight elevation of the surface due to more rapid growth of cells at that point.”)
उद्भिज्जाः ऊर्ध्वस्रोतसः - सचेतना इत्युक्तम् । यथा वृक्षमूले निषिक्तानाम् अपां यद्वृक्षाभिसर्पणं तज्जीवादृष्टैः कारितमिति कणादः वैशेषिकशास्त्रे वृक्षाभिसर्पणमित्यदृष्टकारितम् इति सूत्रेण प्रतिपादयति । अत्र अदृष्टशब्दः शक्तिविशेषपर इति ज्ञातव्यम् । यस्य जीवात्मनः (Soul) पत्रकांडपुष्पफलादिवृद्धिकृतेन सुखेन भवितव्यं तददृष्टकृतात् शक्तिविशेषात् मूलमारभ्य यावदग्रं शिरासंतानः अपां पाथिवरसानाम् (manure and water) आकर्षणं करोति । (takes up or absorbs). तेनैव वृक्षो जीवति नान्यथा जीवेत् । (This corresponds to circulation of blood in an animal body.) अतोऽदृष्टकारितमपां वृक्षाभिसर्पणम् । अनेन कर्मणा आपः (essence of life or sap) ऊर्ध्वं गत्वा वृक्षं वर्धयन्ति । This is due to capillary action regarding which John Merte Coulter says, “for ascent of water, it is assumed that capillarity, surface tension, root pressure, atmospheric pressure, cohesion, are the causes. As to the forces concerned in the ascent of water, little that is definite can be said, for the problem is one of extraordinary complexity and the knowledge of the exact physical conditions is very difficult to ascertain. Nor is it likely that the problem could be solved …. simply for the lack of knowledge of the Physical principles involved.”
वृक्षतत्त्वे यथा - वृक्षाः - ऊर्ध्वस्रोतसः । जलभूम्योः परिणामवद्रसादिवैश्वरूप्यं स्थावरेषु द्रष्टव्यम् । (Cf. “Vegetable kingdom displays all varieties of changes, viz. formation of bark etc. Note that although plants have so little specialization of organs, no circulatory system and no nervous system, yet those differences are not in reality Fundamental”. Mr. J. M. Lowson also says that the elucidation of the causes of the ascent of water in all trees in opposition to the action of gravity has been, and still is, one of the problems of botanical physiology. It cannot even be said that they have been definitely or fully determined.”)
कार्यकारणभेदे निदानं बीजांकुरतत्वम् । (Philosophic views on plant evolution or those of Ecology and Morphology.)
एकजातीयात्कारणरूपाद्बीजात् विजातीयानामंउरादीनामुत्पत्तिः कथमित्यत्र बह्वयो विप्रतिपत्तयस्संति । तत्तन्मतानुसारेण सिद्धांतितश्चायं विषयः । शक्तिरेव तत्र कारणमिति केचन शास्त्रज्ञा वदंति । यतः - शक्तिः - कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः । कलमबीजादीनामापरमाण्वन्तभंगे, तत्र अवांतरजात्यभावे नियतकलमजातीयासिद्धिरपि परमाणुपाकजविशेषादेव । कार्यवृत्तिरूपादिसजातीयस्य पूर्वरूपादिविजातीयस्य परमाणौ पाकजः उपाधिः Effects of protons and electrons in atoms of different substances). उपाधेः उभयविधात्वात् । यथा कलमबीजं यवादिजात्या व्यावर्तते तथा तत्परमाणवोऽपि पाकजैरेव ।
बौद्धास्तु एवमाहुः - प्रतीत्यसमुत्पादस हेतूपनिबंधः प्रत्ययोपनिबंधश्च अगींक्रियते । यथा बीजादङ्कुरः अङ्कुरात्पत्रं पत्रात्काण्डं काण्डान्नालं नालाद्गर्भः गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति । तत्र बीजादीनां फलान्तानां सति बीजादौ अङ्कुराद्युत्पत्तिर्भवति । असति बीजादौ अङ्कुराद्युत्पत्तिर्नभवतीति अन्वयव्यतिरेकाभ्यामन्यस्मिन् चेतने अधिष्ठातर्यसत्यपि, कार्यकारणभावो दृश्यते । नहि तत्र बीजादीनाम् अहमङ्कुरादीकं निर्वर्तयामि इति विज्ञानमस्तीत्ययं हेतूपनिबंधनः प्रतीत्यसमुत्पादः । प्रतोत्यसमुत्पादस्य प्रत्ययोपनिबंधने तूदाहरणम् । पण्णां पृथिव्यादिधातूनां समवायाद्बीजहेतोः अङ्कुरो जायते । तत्र पृथिवीधातुः बीजस्य संग्रहकृत्यं करोति, यतः अङ्कुरे काठिन्यं भवति । अब्धातुः बीजं स्नेहयति । ततः स्नेहनमपेक्ष्य तेजोधातुः बीजं परिपाचयति । ततः तेजःकृतविभागेभ्यो बीजावयवेभ्यो वायुधातुर्बीजाङ्कुरं निर्गमयति । ततः आकाशधातुः बीजस्य अनावरणकृत्यं करोति । ऋतुधातुरपि बीजस्य परिणामितां करोति । तदेवमुक्तानां धातूनां सामग्र्येण समवायमासाद्य बीजे प्ररोहत्यङ्कुरो जायते । नान्यथा । अत्रापि पृथिव्यादीनां ऋत्वन्तधातूनाम् अहमिदं करोमीति अहमेतेन निर्वर्तितः इति वा न ज्ञानमिति स्पष्टमेव । तथा च सूत्रकारः बीजादेरङ्कुराद्युत्पादे यथायथं चेतनाऽनपेक्षो हेतूपनिबन्धः प्रत्ययनिबन्धश्चेति सर्वानुभवसाक्षिकः इति प्रमाणलङ्काराख्ये सौत्रान्ति कसूत्रे दर्शयति । सौत्रान्तिकाः बाह्यार्थं स्वप्रकाशेन ज्ञानवैचित्र्येण इदं नीलमिदं पीतमित्याद्याकारेण अनुमेयमभ्युपेत्य बाह्यार्थसद्भावमनुमन्यंते । वैभाषिकाः यथा प्रमाणं बाह्यानर्थान् कांश्चित्परोक्षान् वैशेषिकवद्भ्युपगम्य सर्वं क्षणिकमित्यनुमन्यंते ।
विज्ञानवादिनः - विज्ञानमात्रमेव विश्वं न ततोऽन्यदस्तीति प्रतिपद्यंते । प्रमाणं प्रमेयं प्रमाता प्रमितिरित्येतेषु चतुर्विधेषु प्रकारेषु अर्थतत्वं व्यवतिष्ठते । एषामन्यतमाभावे वस्तुतत्वाब्यवस्थितेः । अयं च चतुर्धा व्यवहारः न बुध्यारोहमन्तरेण संभवतीति बुध्यारूढता वाच्या । तथा च बुद्धिरेव तत्त्वमिति तदंशा एवावांतरप्रमाणादयो बहिर्वदवभासंते इति तत्वविदां कथा । अत्र विज्ञानकीर्तिः तत्स्यादालयविज्ञानं यत्तु स्यादहमास्पदम् । तत्स्यात्प्रवृत्तिविज्ञानं यत्तु नीलादिगोचरम् इति ।
निरन्वयपूर्वकवासनाविनाशे उत्तरेओ त्तरविज्ञाने वासनान्तरानुत्पादेन प्रवृत्तिविज्ञानानामपि वासनाहेतुकानां विनाशे केवलालयविज्ञानधारानुवृत्तिर्मोक्षः । सवासनतज्ज्ञानसन्ततिर्बन्धः । तदुक्तं धर्मकीर्तिना सवासनालयविज्ञानानुवृत्तिर्बन्धः केवलविज्ञानसंततिर्मोक्षः इति ।
शून्यवादिनः - बाह्योऽप्यर्थः स्थूलसूक्ष्मविकल्पेनासंभवः । तेन अर्थज्ञाने सत्त्वेन विचारं न सहेते । नापसत्त्वेन, असतो भानायोगात् । नापि सदसदात्मकत्वेन विरोधात् । सदसदोरेकत्वानुपपत्तेः । नाप्युभयभिन्नत्वेन एकनिषेधस्य इतरविधिनांतरीयकतया सत्वनिषेधे असत्वापत्या असत्वनिषेधे सत्वापत्या च उभयात्मकस्यासंभवात् । अतः विचारासहलक्षणशून्यतैव सत्वं वस्तूनाम् । तथा चोक्तम् इदं वस्तुबलायातं यद्वदंति विपश्चितः । यथा यथाऽर्थाश्चिन्त्यन्ते विशीर्यते तथा तथा । न च सदिति गृह्यमाणस्य सत्वेन असदिति गृह्यमाणस्य असत्वेन प्रमाणेन व्यवस्थाप्यमानतया शून्यवादिनः सर्वप्रमाणविप्रतिषेधप्रसंगः । नहि प्रमाणानामात्यंतिकं प्रामाण्यं प्रत्याचक्ष्महे येन विप्रतिषेधःस्यात् । किंतूक्तरीत्या विचारासहतया नैकमप्यर्थं तत्वतो व्यवस्थापयितुं प्रमाणानि न भवंतीति तात्विकं तत्वं प्रत्याचक्ष्महे । सांव्ह्यवहारिकं तु प्रामाण्यमेषामभ्युपगम्यत एव । अतः न व्यवहारविरोधः । एवमयं व्यवहारोऽनुवर्तमानो बंध इत्युच्यते । तद्विच्छेद एव मोक्ष इत्याकलयंति । एवं बौद्धमतीयचतुर्विधसिद्धांतानुवादोऽत्र अप्रसक्तप्रसङ्ग इति सर्वथा न मन्तव्यम् । तत्तत्सिद्धान्तरहस्यावगमेनैव बीजाङ्कुरतत्वावगमस्यापि शक्यत्वात् । एतेन सूक्ष्मदृशां बीजाङ्कुरोत्पत्तिविषये कोऽयं बौद्धासिद्धांत इत्युन्नेतुमप्यलंभवतीत्यलभेतेन प्रसङ्गेन ।
बीजाङ्कुरतत्वविचारे जैना एवमाहुः । वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम् । तच्च नित्यैकांते न घटते । अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः । स च क्रमेणार्थक्रियां कुर्वति अक्रमेण वा ? अन्योन्यव्यतिरिक्तधर्माणामर्थानां प्रकारांतरेणोत्पादाभावात् । तत्र न क्रमेण । स हि कालानुभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् । समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वा सामर्थ्याप्राप्तेः । समर्थो हि तत्सहकारिसमवधानेन तमर्थं करोतीति चेत् न तस्य सामर्थ्यम् । अपरसहकारि सापेक्षवृत्तित्वात् सापेक्षमसमर्थम् इति न्यायात् । न तेन सहकारिणोऽपेक्ष्यंते अपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तमपेक्षत इति चेत् तत्किं स भावोऽसमर्थस्समर्थो वा । समर्थश्चेत् तत्किं सहकारिप्रेक्षणादीनि तान्यपेक्षते न पुनर्झटिति घटयति । ननु समर्थमपि बीजमिलाजलानिलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा । तत्किं बीजस्य सहकारिभिः किंचिदुपक्रियते वा न वा ? यदि नोपक्रियते तदा सहकारिसन्निधानात्प्रागेव किं न सोर्थऽक्रियायामुदास्ते । उपक्रियते चेत् तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियत इति वाच्यम् । अभेदे स एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता । कृतकत्वेन तस्य अनित्यत्वापत्तेः । भेदे सति कथं तस्य्पकारः ? किं न सह्यविन्ध्यादेरपि । तत्संबंधात्तस्यायमिति चेत् उपकार्योपकारकयोः कस्सम्बन्धः ? न तावत्संयोगः । द्रव्ययोरेव तस्य भावात् । अत्र तूपकार्यं द्रव्यम् उपकारश्च क्रियेति न संयोगः । नापि समवायः तस्यैकत्वाद्व्यापकत्वाच्च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वात् । न नियतैस्संबंधिभिस्संबंधो युक्तः । नियतसम्बन्धिसम्बन्धे चांगीक्रियमाणे तत्कृतोपकारोऽप्यस्य समवायस्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाऽभेदकल्पना तदवस्यैव । उपकारस्य समवायादभेदे समवाय एव कृतस्स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धे सम्बन्धत्वम् । तन्नैकांतनित्यो भावः क्रमेणार्थक्रियां कुरुते ।
बीजे अङ्कुराद्युत्पादिका नित्या शक्तिरतीति एकांतनित्यवादिनः (आस्तिकाः) वदंति । तादृशी शक्तिरनित्येति एकांताऽनित्यवादिनः (बौद्धाः) वदंति । स्याद्वादे तु, पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिः न विरुद्धेति जैनाः । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगात् असन् स्याद्वद इति वाच्यम् । नित्यपक्षाऽनित्यपक्षविलक्षणस्य कथंचित्सदसदात्मकस्य पक्षांतरस्याङ्गीक्रियमाणत्वात् तथैव सर्वैरनुभवादिति जैना वदंति ।
बीजपूरादिषु रसाद्याविर्भावः कथमित्यत्र विचारे सामान्यैकान्तवादिनः (द्रव्यास्तिकनयानुपातिनो मीमांसकभेदाः अद्वैतवादिनस्सांख्याश्च), विशेषैकान्तवादिनः (पर्यायनयान्वयिनः नैगमनयानुगामिनः), स्वतन्त्रवादिनः (कणादाः अक्षपादाश्च), स्वाभिमतसिद्धान्तानुद्धाटयन्ति । तदेतत्पक्षत्रयमपि क्षोदंन क्षमते । वस्तुनो लक्षणमर्थक्रियाकारित्वम् । तच्च अनैकान्तवाद एव अविकलं कलयन्ति परीक्षका इत्यत्र प्रत्यवतिष्ठन्ते जैनाः ।
वस्तुनस्सामान्यविशेषात्मकत्वे तदुभयैकान्तवादः प्रलापमात्रम् । न हि क्वचित्कदाचित्केनचित् किंचित्सामान्यं विशेषं विना कृतमनुभूयते । विशेषा वा तद्विनाकृताः । यथाहुः द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । कदा केन च किंरूपा दृष्टा मानेन केनचित् इति । एवं च सामान्यविशेषयोः पयस्त्वपावकत्वादिना हि विरुद्धधर्माध्यासः भेदश्च । अतः वृक्षे पत्रपुष्प फलादिभेदः । द्रव्यत्वेन पुनः तद्वैपरीत्यम् । अतः वृक्षत्वं सामान्यं जातिवाचकम् । तत्र धवखदिरपलाशादिव्यक्तिविशेषावबोधो ज्ञानम् । वनमिति सामान्यावबोधो दर्शनम् इति जैनाः ।
तन्मते स्वरूपेण सत्वात् पररूपेणाऽसत्वात् सदसदात्मकं वस्तु सिद्धम् । यदाहुः सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्वं स्यात् स्वरूपस्याप्यसंभवः । सदसदनेकान्तात्मकं वस्त्वित्यत्र आगमोऽप्येवमेव व्यवस्थितः । यथा - एकोऽभावस्सर्वथा येन दृष्टः सर्वे भावास्सर्वथा तेन दृष्टाः । सर्वे भावास्सर्वथा येन दृष्टा एको भावस्सर्वथा तेन दृष्टः ॥
बीजे वृक्षपरिणामशक्त्यभावे सहकारिसामग्रीलाजलान्नलानिलाकाशादिसहस्रैरपि अर्थक्रिया न संपद्यते । शक्तिमद्बीजसन्निधानेऽपि सहकारिसामग्र्यभावे इलाजलानलानिलाकाशाद्यसत्वेनापि नार्थक्रियोदयः इति प्रत्यक्षसहेयमुक्तिः । तदुभयसंबन्धेनैव तरुगुल्मलतातृणाद्यर्थक्रियानिष्पत्तिः । उद्भिज्जाख्यजातौ आकृतिभेदः तत्र च नानाव्यक्तिप्रादुर्भावः व्यक्तौ व्यक्ताः मूलस्कंधशाखविशाखापल्लवपुष्पफलादिभेदाः त्वक्किष्टनालसाराद्यवान्तरभेदाश्च संभवन्ति । नान्यथेति सर्वानुमतं सर्वानुभवसिद्धमिदं वृक्षतत्वम् ।
(By studying carefully the subtleties of the philosophic views on the evolution of the plant body promulgated by the above theories and also by the theories that follow, one would certainly admire the intellectual height of the ancient Aryans of India who bestowed their best time and thoughts on a searching study of the vegetable kingdom anc donclude that these theories are more than adequate to be compared with the details of processes on plant evolution dealt with under Ecology and Morpholoy of plant body in modern sceince on Botany.)
अत्र नागार्जुनमतम्
भावाभावान्न जन्मास्ति इत्यस्य सूत्रस्य एवं टीका वर्तते । बीजाद्बोजे उत्पद्यमाने घटादपि घटोत्पत्तिर्युज्येत । आत्मकिर्यानिषेधात् । बीजाद्बीजोत्पत्तिर्न संभवति । पञ्चविधपरिणामधर्मताप्रतीत्यसमुत्पादधर्मता । नह्यग्निमध्ये निक्षिप्तबीजस्य जन्म संभवति । प्रसन्नजलसंपूर्णसरसि शैवालं पद्मं चोत्पद्यते इत्यादिर्भ्रांतिरेव इति । अन्यत्र प्रतीत्यसमुत्पादः कतमैः पञ्चभिः कारणैः द्रष्टव्यः । न स्वयं शाश्वततो नोच्छेदतो न संक्रांतितो न स्वयंभूहेतुतो न फलविपाकाभिनिर्वृत्तितस्तद्विसदृशानुप्रबंधतश्चेति । कथं न स्वयं शाश्वततः ? यस्माद्वीजाङ्कुरौ विसदृशौ । न चैवं यद्बीजं स एवाङ्कुर इति । एवं हि बीजं निरुध्यते अङ्गुरः उत्पद्यते । कथं नोच्छेदतः । न पूर्वनिरुद्धादङ्कुरो निष्पद्यते । निरुद्धमात्राद्बीजात्तु तत्समये अङ्कुर उत्पद्यते । तुलादण्डनामोन्नामवन् । कथं न संक्रांतितः । बीजविसदृशो ह्यङ्कुरः । कथं न स्वयंभूहेतुतः । आद्यफलस्यास्वयंभावात् । कथं न फलविपाकाभिनिवृत्तितः । फलस्वरूपं सिध्यति । नहि फले फलोत्पत्तिरस्ति । कथं विसदृशानुप्रबंधतः ? एवं प्रतीत्यसमुत्पन्नैः तैरुत्पादितं फलम् ।
अत्र विवरणप्रमेयसङ्ग्रहकारमतम्
विवरणप्रमेयसंग्रहे एतत्तत्वमेवमुपपादितं भवति । यथा अन्वयव्यतिरेकसिद्धभूम्युदयकादिसहकारिकारिणः बीजाख्ये कारणे उच्छूनतां जनयन्ति (bring about development) । ततस्तद्बीजमङ्कुराक्ये कार्ये शक्तम् । अन्यथा अनुपकारिभूम्यादिबीजे नैवापेक्ष्येत इत्येकदेशी । तदसत् । बीजं स्वगतविशेषोत्पत्तौ शक्तम् ? न वा ? न चेत्, सहकारिसहस्रसन्निधानेऽपि न तञ्जनयेत् । ततो नाङ्कुरोत्पादने शक्यते । अथ शक्तं, तदापि सहकारिकृतविशेषं प्राप्य उच्छूनतायां शक्नुयात् तदाऽनवस्था स्यात् । अथ तदप्राप्यैव तत्र शक्तं तर्हि अङ्कुरेऽपि विशेषमन्तरेणैव शक्तं स्यात् । इति केषांचिदभिप्रायः । स्वमतं तु अङ्कुरोत्पत्तिरुच्छूनताजन्मपूर्विका । उच्छूनोत्पत्तिस्तु सहकारिसन्निधिमात्रसाध्या, तथैव दृष्टत्वात् इति । तन्न । तथा सति शक्तिमता कारणेन स्वात्मनि अनुपकुर्वन्नपि सहकार्यपेक्षत इति त्वयैव स्वमतव्याघातः आपादितः स्यात् । तन्नैकदेशिपक्षे युक्तिसहः । नहि वयं तद्वत् कारणस्वरूपे बीजे सहकार्युपकारं ब्रूमः । किं तर्हि ? क्षणिकान्मूलकारणाद्भीजात् उत्पद्यमानं कार्यमङ्कुरोत्पत्तिरूपं सहकारिकारणानि भूम्युदकादीनि अपेक्षते । कार्यस्य बहुकारणसाध्यत्वादिति ब्रूमः ।
एतद्बीजाङ्कुरतत्वविचारे आपस्तंबसूत्रम् । ओषधिवनस्पतीनां बीजस्य क्षेत्रकर्म विशेषे फलपरिवृद्धिः योगवासिष्ठे (IV. 56 - 28) अभ्रसन्निधिमात्रेण कुटजानि यथा स्वयम् । आत्मसन्निधिमात्रेण त्रिजगंति तथा स्वयम् ॥
अत्र मेघोदये सति कुटजकोरकाः विकसन्तीति तत्वम् । आत्मसान्निध्यं सर्वत्र यथा तथा ओषधिवनस्पतिष्वप्यस्तीति सूचितम् । तत्रैव (VI. A7 - 32) अकर्तुरेव हि तथा कर्तृता तस्य कथ्यते । मणिसन्निधिमात्रेण यथायस्स्पन्दते जडम् ॥ अनेन अयस्कांततत्वं (Magnetism) साङ्ख्यतत्वं च निरूपितम् । (Matter can be made to act only in the presence of a force or power expecially spiritual power) तत्रैव (III. 100 -117) फलपुष्पलतापत्रशाखाविटपमूलवान् । वृक्षबीजे यथावृक्षः (स्थितः) इति । अनेन बीजे वृक्षात्मकशक्तिरस्तीति नित्यैकांतवादस्साधितः । (In the seed resides the power or possibility of devolopment or evolution of leaves etc. in a
potential state (तत्तैव III. 67 - 36) ब्रह्म सर्वं जगद्वस्तु फलपत्रलतागुल्मपीठबीजमिवस्थितम् । अनेन ब्रह्मैव जगदात्मना अवभासते इति वेदान्ततत्वं सूचितम् ॥ (The Existence Absolute manifests itself as the Vegetable kingdom also as in all its other manifestations.) तत्रैव - जगच्च पुष्पसौगंधि चिल्लताग्रफलं जगत् । (All activities in the creeper, flower and fruit are due to the presence of spiritual light or life.)
कारणे कार्यमनुमीयते यथा बीजे अङ्कुरः । (Effect is inferred to exist in a cause, as a sprout is inferred to exist in the seed) साकारवटधानादावङ्कुरास्संति शक्तितः । बीजं जगद्बीजवपुः फलीभूतं विलोक्यते ॥ इत्यनेन बीजमेव स्वनिष्ठशक्तितः अङ्कुरात्मना परिणमते । बीजरूपं त्यक्त्वा फलोद्गमपर्यन्तं विविधपरिणामो भवतीति अनुभवप्रत्यक्षं दर्शयति । (There is potentiality in the seed due to which all changes, as leaves, stems, branches, flowers, fruits are possible, as experience shows.) यत्रास्ति बीजं तत्र स्याच्छाखा विततिरूपिणी । जन्यते कारणैस्सा च वितता सहकारिभिः ॥ (The auxiliary causes, such as manure, water, light, air, space, bring out the potential powers existing in the seed to appear as leaves, branches etc.) सहकारिकारणानामभावे त्वङ्कुरोद्गतिः । वंध्या कन्येव संदृष्टा न कदाचन केनचित् । (यो. वा.) बीजाद्यङ्कराद्युत्पत्तौ सहकारिकारणान्यावश्यकानि । तदभावे वंध्यापुत्रीयं कन्या इतिवत् न केनापि अङ्कुरादयो दृश्यंत इति सुस्पष्टमभिहितम् । (The auxiliary or efficient causes, such as water, light, air are very necessary for the evolution of a full - grown tree out of the seed, its material cause.)
वेदान्तिनस्तु - यत् सर्वं ब्रह्म तत् वनस्पतिवर्गोऽपि ब्रह्मैव । तथा चोक्तं ब्रह्म वनं ब्रह्म स वृक्ष आसीत् इत्यादिना वनस्थानीयं वृक्षस्थानीयं ब्रह्मैव । तस्य सर्वात्मकत्वात् । यस्योत्पाद्यस्य या सामग्र्यपेक्षिता सा सर्वा तस्मिन् विद्यते अस्य सर्वशक्तिमत्वात् । अत एवोक्तं तैत्तिरीयब्राह्मणे (कां. २, प्र. २. अ. २) तिरश्चीनो विततो रश्मिरेषाम् । अधस्विदासीदुपरिस्विदासीत् । रेतोधा आसन्महिमान आसन् । स्वधा अवस्तात्प्रयतिः परस्तात् इति अस्यायमर्थः - रश्मिः सूर्यरश्मिसमानः कश्चित्स्वयंप्रकाशः चैतन्यपदार्थः, एषां भूतभौतिकरूपाणां जगद्वस्तूनां मध्ये, तिर्यग्वर्तमानः व्याप्तः आसीत् । सर्व एते पदार्थाः भूतभौतिकरूपाः विततरश्मिरूपस्य स्वप्रकाशचैतन्यस्य रेतोधाः साररूपधारिणः आसन् । तच्च सर्वे पदार्थाः धारयन्ति । अस्तीत्येवंरूपेणैव सर्वेषामवभासमानत्वात् । एवं स्वधाशब्दवाच्यमायाऽविद्यादिशब्देनाभिधीयमाना पारमेश्वरी शक्तिः अवस्तात् अधमं कारणम् । प्रयतिः - साशक्तिः प्रयतते यस्मिन् परमात्मनि सोऽयं शक्तिप्रयत्नाधारः परमात्मा प्रयतिः स च परस्तादुत्तमं कारणम् । तावेतौ शक्तिपरमात्मानावेव जगत्कारणभूतौ प्रकृतिपुरुषाविति शास्त्रेषु व्यपदिश्येते अत एव वृक्षादिष्वपि प्रकृतिपुरुषात्मककारणमङ्कुरादिकार्ये प्रभवति (Cf. “Mycrophill is composed of bits of living material (अवयवसंस्थाविशेषाः) called protoplasm and each bit is a protoplast.) अनेन परमात्मनः सर्वगतत्वं सर्वज्ञत्वं सर्वशक्तिमत्वं च सूचयित्वा श्रुतिः सांख्यमतेनैकमत्यं प्रतिपद्यते । (This statement is very important inasmuch as it plainly proves, not only the Omnipresence, Omniscience and Omnipotency of God or spiritual power or Great Being, but also it indicates that matter is only the subtle form of material power which is really spiritual power in disguise and that without its presence or pervasion, no existence in the Universe and of the universe itself is possible. If the modern scientists push their theory of conservation of energy a little further, they will come to the same conclusion and science which corresponds almost to Sankhya doctrine at present, will embrace with open hands the true philosophy which is none but the Vedanta doctrine.)
छांदोग्ये सृष्टिप्रकरणे तावत् (अ. ६. १. ७. अ. ६. १. १) एवं दर्शितम् -
सदेव सौम्येदमग्र आसीत् । एकमेवाद्वितीयम् इति श्रुतितत्वमवधार्य तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् । तस्मादसतस्सदजायत इति नैयायिकबुद्धिं वैनाशिकबुद्धिं च नवर्तयितुं प्रसज्य परिहर्तव्यह् इति न्यायेन विरोधं सूचयित्वा अनन्तरं कुतस्तु खलु सौम्येवं स्यादिति होवाच । कथमसतस्सञ्जायेत इति आक्षेपमुखेन विरुद्धमतसिद्धान्तमनादृत्य, अद्वैतसिद्धान्तदार्ढ्याय, सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् इति पुनरनुवादः कृतः । तथैवोपपादयति भाष्यकारः श्रीशङ्कराचार्यः । यथा - तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति । कुतस्तु प्रमाणात्खलु हे सौम्यैवं स्यादसतस्सञ्जायेतेत्येवं कुतो भवेत् । न कुतश्चित्प्रमाणादेवं संभवतीत्यर्थः । यदपि बीजोपमर्दे अङ्कुरो जायमानो दृष्टोऽभावादेवेति तदपि अभ्युपगमविरुद्धं तेषाम् । ये तावद्बीजावयवाः (Cells - the membrane and protoplast constitute a cell.) बीजसंस्थानविशिष्टाः तेऽप्यङ्कुरेऽप्यनुवर्तन्त एव (Cf. The embryo in seed plant consists of cells बीजावयवाः in the formation stage.) न तेषामुपमर्दोऽङ्कुरजन्मति । यत्पुनर्बीजाकारसंस्थानं तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपमर्देन । अथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथा च सत्यभ्युपगमविरोधः । अथ संवृत्या अभ्युपगतं बीजसंस्थानमुपापद्यते इति चेत् केयं संवृतिर्नाम । किमसावभावः ? उत भाव इति यद्यभावो दृष्टान्ताभावः । अथ भावस्तथापि ना भावादङ्कुरोत्पत्तिः । कुबीजावयवेभ्यो ह्यङ्कुरोत्पत्तिः । (Membranes and protoplast.) अवयवा अप्युपमृद्यंत इति चेत् न । तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति तथा अवयवा अपीति तेशामप्युपमार्दानुपपत्तिः । बीजावयवानामपि सूक्ष्मावयवाः तदवयवानामप्यन्ये सूक्ष्मावयवा इत्येवं प्रसंगस्याऽनिवृत्तेः सर्वोपमर्दानुपपत्तिः । (Cf. Frequent division of cells is a feature and in consequence of the more rapid protraction of new cells by division at certain points, the primordia of new organs appear.)
सद्भुध्यनिवृत्तेः सत्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिस्सेत्स्यति । नत्वसद्वादिनां दृष्टांतोऽस्त्यसतः सदृत्पत्तेः इत्यादिना भाष्यवचनेन बीजं सत् अङ्कुंरोऽपि सद्रूपः, तस्मात्सतः कारणात् बीजात् सद्रूपं कार्यमङ्कुरादिरूपम् उत्पद्यमानमिव दृश्यते । सतः विवर्तोपादानत्वात् । वस्तुतः कार्यकारणयोरभेदाङ्गीकारात् सर्वमिदं सदेवेति सिद्धम् । यथा - सतः इदं जगत् तथा जगदन्तःपातिनां सर्वेषामपि कार्यकारणभावानां सदेवोपादानकारणम् । अतः बीजादङ्कुरोत्पत्तिः स्वतःसिद्धैवेति वेदान्तिनां सिद्धान्तः । (This Vedantic doctrine is very important as it establishes beyond doubt the causation theory, i.e., theory of cause and effect, the doctrine of Absolutism i.e. spiritual power, and also the theory that matter is indestructible as it exists in one form or other brought out by changes ; so it satisfies Philosophy, Religion and Science.)
तथैवान्यत्र रेतस्सृष्टिरेवमाम्नायते (अत्र रेतश्शब्देन स्वप्रकाशपरमात्मनः चैतन्यसारमित्यवधेयम्) । (Spiritual power which appears as vital energy in all beings and which pervades all forms of matter and material power.) अथातो रेतसः सृष्टिः - प्रजापते रेतो देवाः । देवानां रेतो (सारं) वर्षम् । वर्षस्य रेतः ओषधयः । ओषधीनां रेतोऽन्नम् । अन्नस्य रेतो रेतः । रेतसो रेतः प्रजा इति पर्जन्यसूक्ते । अनेन ओषधिवनस्पतीनां परंपरया प्रजापतेः ब्रह्मणस्सकाशात् रेतोरूपसत्पदवाच्यसत्वस्यानुषंगः श्रुतौ प्रतिपादितः । बृहदारण्ये यथा एषां वै भूतानां पृथिवीरसः । पृथिव्याः आपः । अपामोषधयः । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः । (Earth is theessence of all elements ; water, the essence of Earth ; herbs and plants, of water ; flowers, of herbs and plants ; fruits, of flowers ; men, of fruits ; and seed, of men.)
छांदोग्ये (अ. ६. ११-१) अस्य सोम्य महतो वृक्षस्य । यो मूलेऽभ्यहन्यात् । जीवन् स्रवेत् । यो मध्येऽभ्यहन्यात् । जीवन् स्रवेत् । योऽतेऽभ्यहन्यात् । जीवन् स्रवेत् । स एष जीवेनात्मनाऽनुभूतः । पेषीयमानां मोदमानः तिष्ठति ।
तत्रैव छांदोग्ये (अ. ३, ११ - २) अस्य यदेकां शाखां जीवो जयात्यथ सा शुष्यति । द्वितीयां जहात्पथ सा शुष्यति । तृतीयां जहात्यथ सा शुष्यति । सर्वं जहाति सर्वं शुष्यति ।
तत्रैव (अ. १२ - १ -२_ पितृपुत्रयोः प्रश्नोत्तरमुखेन बीजे महावृक्षोत्पादिका शक्तिरस्तीति विशदीकृतम् । यथा पितान्यग्रोधं फलमाहर । (पुत्रः) इदं भगवः । (पि) भिन्धि । (पु) भिन्नं भगवः । (पि) किं वात्र पश्यसि । (पु) अण्व्य इमा धाना भगवः । (पि) आसामंगैकां भिन्धि । (पु) भिन्ना भगवः । (पि) किमत्र पश्यसि । (पु) न किंचन भगवः । पि यं वै सौम्यैतदणिमानं न विभावयसि । एतस्य वै सोम्येषोऽणिम्न एव महान्यग्रोधस्तिष्ठति । (In a microscopically minute part of a seed of a banyan fruit, Almighty or Spiritual Power exists, owing to which the power of devoloping a seed into a big banyan tree with many branches and subbranches potentially exists.)
योगवासिष्ठे चिच्छक्तिवासनाबीजरूपिणी स्वापधारीणी । स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु । सुषिप्तिपदमारूढा जनियोग्यं पुनःपुनः इति ।
छांदोग्ये च एतदर्थमेव अपामोषधयो रसः इत्युक्तम् । इत्थं बीजाङ्कुरतत्त्वं तत्तन्मतानुसारेण निरूपितं भवति ।
वनस्पतीनां जात्यादिविभागः । (Plant morphology :- which as defined by Jhon Merte Coulter, deals with the form and structure of plant life. It includes Ontogeny - history of plant life and Phylogeny - evolution of plant life.) एवं सामान्यतः वनस्पतितत्त्वं निरूपितम् । इदानीं तत्प्रकाराः (ontogeny) सङ्ग्रहेण निरूप्यन्ते । यथा (कर्मविपाके) स्थावरास्त्रिंशल्लक्षाश्च इति जीवभेदनिरूपणसंदर्भे दशितम् । अत्र निरूपितसंख्या वनस्पतीनां आकृतिविशेषसंबन्धिनीति ज्ञेयम् । सामान्यतः वनस्पत्यादयः जात्या (by genus) षड्विधा भवन्ति । आकृत्या (by species) त्रिंशल्लक्षसंख्याकाः । व्यक्त्यात्मना तु (by individuality) ते असंख्या एव ।
अत्र शैवालजातिः (Thallophytes in which plant life is not developed) प्रथमेति प्राच्यप्रतीच्यवनस्पतिविज्ञानिनां सम्मतं मतम् । तञ्जातिप्रविष्टा एव - शैवलः, पद्मम्, इन्द्रगोपः, मण्डूकः (Alagae and fungi) इत्यादयः । एते जलवृक्षा इति केचन । तञ्जातिः तृणादिजात्यवान्तरजातिभूतस्तम्बजात्यामन्तर्भावमर्हति । (Bryophytes.)
षड्विधनस्पतिजातिस्वरूपलक्षणानि
षड्विधास्तु - वनस्पतिवृक्षलतागुल्मतृणौषध्यादिरूपाः । तेशां लक्षणानि यथा - (१) अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । औदुम्बरादयः । (Probably this belongs to the Angiosperms type which represents the culmination of plant kingdom.) (२) पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः । कोविदारप्रभृतयः । (Spermatophytes.) (३) बीजकाण्डरुहाश्चैव प्रतानावल्य एव च । मल्लिकादयः । (A variety of pterophytes called sporophytes - dependent.) (४) गुच्छगुल्मं तु विविधम् । केतक्यादयः । (A variety of pterophytes called sporophytes - independent.) (५) तथैव तृणजातयः । घासादयः । (Root - bearing leafless sporophytes.) (६) ओषध्यः फलपाकान्ताः - गोधूमादयः । (May be included in the type called spermatophytes.) पुनरेते द्विविधाः - बीजोत्पन्नाः - बीजानि तु अतुषाणि सतुषाणि च । (Both gymnosperms and angiosperms.) काण्डप्ररोहणोत्पन्नाश्च । (This includes planting and grafting.) अन्यत्र यथा - द्रुःवृक्षः, द्रु-गतौ द्रवत्यूर्ध्वम् । (Growing tree.) अत्र समुदाहृता शब्दव्युत्पत्तिरपरेष्वपि प्रवर्तते । पुष्पाञ्जातफलोपलक्षितः वृक्षः । (A tree bearing fruits after flowers.) पुष्पं विना यः फलति स वनस्पतिः । (A tree bearing fruits without flowers.) फलपाकान्ता ओषधयः । (Annaul or periodical crops.) व्रीहियवादयः । ओषः प्लोषः (cumbustion) दीप्तिर्वा (light or nourishing property) धीयते आस्विति ओषधयः । यात्रान्या ओषधयो म्लायन्ते इति श्रुतिः ; महौषधिं नक्तमिवात्मभासः इति महाकविवचनं च उभयविधव्युत्पत्तौ क्रमेण प्रमाणे । गुल्मः - वीरुत् - शाखादिभिर्विसृतवल्ली (a shrub) ।
अन्यत्र यथा - ओषध्यः - फलपाकान्ताः । लताः - आरोहणापेक्षाः । त्वक्साराः - वेण्वादयः । वीरुधः - लता एव काठिन्येन आरोहणापेक्षाः । ये पुष्पैः फलन्ति, ते द्रुमाः । ये पुष्पैः विना फलन्ति, ते वनस्पतय इति ।
हेमाद्रौ - यास्संहता भूमेर्बद्धाः एकमूलाः अनेकमूलाश्च लता उत्तिष्ठन्ति, न च वृद्धिं महतीं प्राप्नुवन्ति, तासां संधातः गुच्छगुल्मशब्दाभ्यां व्यवह्रियते । तृणमूलकादिः तयोस्तु भेदः । पुष्पवदपुष्पकृता वा तृणजातयः । कुशकाशशाद्वलशंवमुंजादयः स्तम्बजातिः (Bryophytes) । अत्र श्रुतिः आसाम् ओषधीनां रसः यो दर्भः (Sacrificial grass - Eragrostis cynosuroides) । प्रताना दीर्घा भूमिगताः तृणप्ररोहाः (Leafy independent sperophytes.) अस्मिन् तृणजातिविषये श्रुतिः - गौर्यत्राधिष्कंन्नान्यमहेत्ततो बल्बजा उदतिष्ठन् । (तै. सं. कां. २, प्र. १, अ. ८.) अस्यार्थः अधिकं स्कन्नम् - अधिकपुरीषस्राविणी यत्र न्यमेहत् - नितरां मेहति तत्र जायन्ते बल्बजाः - दीर्घ तृणाः यैः कटः क्रियते बल्ल्यः व्रतत्यः भूमेरुपरि वृक्षमन्यं वा कंचित्परिवेष्य ऊर्ध्वमारोहन्ति (Leafy or leafless dependent sperophytes) सर्व एते वृक्षवद्बीजकाण्डरुहः ।
सर्वज्ञनारायणेनैवमुक्तम् - गुच्छः - मल्लिकादिः । गुल्मः - वंशादिरिति सङ्ग्रणोक्तम् । अत्र कुल्लूकभट्टः - यथा मूलत एव यत्र लतासमूहो भवति न च प्रकाण्डानि ते गुच्छाः - मल्लिकादयः । एकमूलाः संधातजाता गुल्माः - शरेक्षुप्रभृतयः तृणादयश्च । तन्तुयुक्ताः प्रतानाः - त्रपुषालाबुप्रभृतयः । या भूमेः वृक्षमारोहन्ति ता बल्ल्यः - गुहूव्यादयः ।(Cocculus cordifolius.) एतान्यपि बीजकाण्डरुहाणि । राघवाङ्कः - प्रतानाः कूष्माण्डालबुप्रभृतयः - मल्लिकादयश्च । स्तम्बवद्गुल्मं शेफालिकादिः । बल्ल्यः कारवल्यादयः । बीजमुद्भिद्य जाताः - तरवः, तृणवृक्षादयश्च - वटाभ्रादयः । मेधातिथिः - उप्तं बीजं भूमिं च भित्वा जायन्त इति वृक्षाः । काण्डाः छिदः अच्छिदह् शाखाः, तेभ्यः जाताः - इक्षुगुहूच्यादयः बदर्यादयश्च । बल्ल्यः - केतक्यादयः वटरुहाश्च । बहूनि पुष्पाणि फलानि च यासां ब्राह्म्रयादिजातीनां ताः निष्पावादयः (Cowgram) ।
वनस्पत्यादीनां शारीरकविशेषावयवाः । (A branch of plant morphology called physiogeny - evolution of plant life.)
उत्सेधः - वृक्षादिदैर्ध्यम् (Height of the tree) । प्रकाण्डः मूलमारम्य शाखावधिभागः (Trunk) । शाखाः द्रुमांशाः (Branches) । शिफः - सूक्ष्मशाखामूलः (Stem of a shoot) स्तम्बः - स्कन्धरहितः (Tender part of the short without any branch) । शिरोऽग्रम् - शिखरम् (Top of a tree) । जटा तरुमूलम् (Roots) । बुध्नः - मूलमात्रम् (Bottom) । स्थाणुः - शाखापत्ररहिततरुः (A stump) । सारः - वृक्षादेः स्थिरांशः (Hard inner portion of a tree or marrow) । काष्ठं - दारुमात्रम् (Wood) । इन्धनम् - अग्निसंदीपनकृत् - तृणकाष्ठादि (Fuel) । समित् - यागादौ हूयमानकाष्ठम् (Sacred twigs used for sacrificial fires) । निष्कुटं - वृक्षादिरंध्रः (Hollow of a tree) । फलेग्रहिः - प्रलसमये फलग्राहकः (A tree bearing fruits in season) । वंध्यः - अफलः अपकेशी च ऋतावपि फलरहितः (A tree bearing no fruit even in season) । भूतरुः (Graphytes) जलतरुः (Hydro phytes) लतावितानम् (Aerophytes or Epiphytes) इति तरूत्पत्तिविशेषाश्च सूचिताः । किसलयं नवपत्रम् (Sprout or a tender short । पल्लवः अभिनवोद्भित् - तुलस्यादिसंबन्धी । (A fresh shoot) । दलं - (दलविदारणे) - पुष्परेखा (A petal) । वृन्तं - प्रसवबन्धनम् (The stalk or footstem of a leaf, a flower, a fruit or any vegetable) । शलाटुः - अपक्वफलम् (Unripe fruit or berry) । वानं - शुष्कफलम् (Dry or dried fruit) । जालिका - नवकलिकावृन्दम् । (An unblown flower or a bud or a cluster like plantain fruits.) कलिकाकुड्मलः (A bud) । स्तबकः - गुच्छः (A bunch or cluster) कुड्मलः - ईषद्विकासोन्मुखः (Blooming or opening bud) । सुमनसः - मन ज्ञाने, सुष्ठु मन्यन्ते आभिः पुष्पाणि (Flowers attractive) । पुष्पं - पुष्ष्यति - पुष्पविकसने (पुष्पं विकास आर्तवे इति कोशः । इत्यादिना फलकारणे योग्यत्वं च सूच्यते (Cf. The mingling of paternal and maternal chromosomes in the fertilised egg is the beginning of the series of changes and their varying influence in determining the structure of the individual - this in the case of flowers is called Pollination which is the transfer of pollen (पुष्परजः or पुष्परेणुः) from the stamen or calyx (पुष्पपुटः or पुष्पकेसरः) to stigma (पुष्पगर्भः) through ulva (पुष्पपथः) and is a necessary antecedent to fertilization (फलयोग्यत्वं fully bloomed flowers) तथा चोक्तम् - पुष्पयोनौ (Honey disc in vulva) पुष्परेणुपतनान्नवकुसुमोद्गमः (Pollination transfer of pollen from anthers to the stigma) परागः - पुष्परेणुः (The pollen of a flower) । तथा चोक्तं स्फुटपरागपरागतपङ्कजम् (शिशुपालवधे ६ - २७) । प्रसूनं - प्रसूयते, षूङ् - प्राणिप्रसवे इत्यादिधातुनिष्पन्नम् (This word also indicates pollination by various means) । कुसुमंकुस - संश्लेषणे (A flower ready to bear fruit) एतच्छब्दव्युत्पत्या कुसकर्मापि अथवा संश्लेषकर्मापि विशदीभवति [This process is elaborated in modern Science on Botany. Cf. also - male gametophyte (पुष्पयोनिः) and female gametophyte (स्त्रीयोनिः) । Terms frequently used by modern scientists.] तथा चोक्तं उदेति पूर्वं कुसुमं ततः फलम् (शिशुपालवधे ७ - ३) । पुष्पद्रवः (Sap), पुष्पकालः (Spring), पुष्परसः मकरन्दः (Honey or sweet juice of a flower) । वल्कं - त्वक् (Bank) । काण्डः - नालः (Bulb or tube or rhizome) । किट्टम्-त्वगन्तस्थं दारुद्रव्यम् (White chips or marrow) स्तंबकः - स्तबकः (Bunch of fruits like plantains) । पुष्पपुटः - पुष्पदलः (Flower sheath) । पर्णम् पलाशः । (Foliage) पर्णे हरितद्रव्यम् (chlorophyll), हरितद्रव्यवान् - पलाशः (Chloropod) निर्यासः - वृक्षरसः (Gum) फलम् - ओषधिसम्बन्धी आहारसारपदार्थः (Fruit) । बीजगर्भः (Cells in neuclius) वृक्षसारः (Pith or marrow) । अष्टिः - केषांचित् वृक्षाणां फलम् (Nut) । क्षुपः - गुल्मः (Shrub) । मूलम् - वृक्षपादः (Root) । अङ्कुरः - किसलयः (Sprout) । काम्लः - काण्डः (Stem) । कंटकः - वृक्षलोम (Thorn) । उपशाखा - ह्रस्वविटपः (Twig) । वृक्षवृद्धिः - Process of building up called Anabolism). जीर्णवृक्षः (a tree in which decay or breaking down with katabolism is taking place) वृक्षोत्पत्तिविनाशौ - (metabolism i.e. both anabolism and katabolism) । एतेषां धातुव्युत्पत्तिपूर्वकं निरुक्तानां वनस्पतिसम्बन्धिनां शब्दानामर्थावबोधनेन पर्यालोचनेन वा, प्राचीनार्याणां वनस्पतिविज्ञाने (viz. in Histology, Cytology, Morphology, Ontology, Ecology, Physiology and Plinogeny) कौशल्यं प्रागल्म्यं च अन्यादृशमिति विज्ञानकुशलाः निष्पक्षपातं प्रतिपद्यन्त इति संभाव्यते ॥ (These explanations of words applicable to various parts of the plant body would convince any one, how thoroughly the ancient Aryans in India observed and studied the science of Botany, which fact will certainly create great surprise and admiration even in the minds of modern Botanists.)
वनस्पतिशरीराणामन्तरङ्गाणि तद्व्यापाराश्च
(The internal organs and functions of the Plant body)
यथा मनुषशरीरं सप्तधात्वात्मकं तथैव वनस्पतिशरीरमपीत्यव प्रमाणं यथा - बृहदारण्यकोपनिषदि (३ -९ - २८) - यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि (leaves) त्वगस्योत्पाटिका बहिः (Outer bark) । त्वच एवास्य रुधिरं (Inner bark) प्रस्यन्दि (Sap) त्वच उत्पटः । तस्मात्तदा तृण्णात्प्रैतिरसो वृक्षादिवाहतात् ॥ मांसान्यस्य शकाराणि (Inner bark or white portion) किनाटं (Innermost layer of bark) स्नावतत्स्थिरम् । अस्थीन्यन्तरदारुणि (Inner wood) मञ्जा (white chips) मञ्जोपमस्मृता । यद्वृक्षो वृक्णो रोहति - (If a tree after it is felled springs up again from its root in a newer form), कस्मान्मूलात्प्ररोहति (Where is a dead man reborn) । धानारुह इव वै वृर्क्षोऽञ्जसा प्रेत्यसंभवः । (A tree springs up also from the seed after it is dead, it certainly springs up again from the seed.) । यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् (If a tree is pulled out with its roots, it will no more sprout) भूष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता । (कर्मवासना) इति ब्रह्मज्ञानेन समस्तकर्मवासना यदा दग्धा भवति तदा पुनर्जन्म न भवतीति विवक्षाऽवसरे दृष्टांततया भृष्टबीजादङ्कुरो न जायते इत्युक्त्या बीजे अङ्कुराद्याविर्भावशक्तिरस्तीति वेदान्तसम्मतिश्चात्र सूचिता । तथा चोक्तम् ऐतरेयब्राह्मणे (अ. २ - ७ - २०) समानो वा अयं प्राणोऽङ्गान्यनु संचरति अयं प्राणः सर्वेष्ववयवेषु (स्थावराणां विषये - मूलबुध्नशाखापर्णपुष्पफलादिषु) पक्षपातमन्तरेण तुल्य एवानुसंचरतीति श्रुत्यर्थः वेदान्तिनां सिद्धान्तं समर्थयति । बीजादङ्कुराद्युत्पत्तिप्रकाराश्चैवं दर्शिताः -
पद्मयुग्मत्रयं यन्त्रमस्थिमांसमयं मृदु ।
ऊर्ध्वाधोनालमन्योन्यमिलत्कोमलसद्दलम् ॥
सेकेन विकसत्पत्रं सकलाकाशचारिणा । चलन्ति तस्य पत्राणि मृदुव्याप्तानि वायुना ॥ चलत्सु तेषु पत्रेषु समरुत्परिवर्धते । वाताहते लतापत्रजाले बहिरिवामितः ॥ वृद्धिं नीतः सनाडीषु कृत्वास्थानमनेकधा । ऊर्ध्वाधोवर्तमानासु वृक्षेऽस्मिन् प्रसरत्यथ ॥ बहुनात्र किमुक्तेन सर्वमेव शरीरके । करोति भगवान्वायुर्यंत्रेहामिव यांत्रिकः ॥ (यो. वा. V. A. 24 -30). इत्यनेन वृक्षशरीराभिवृद्धिः वाय्वायत्तेत्युक्तम् ॥ तत्कोरकपुष्पपत्रलतादयः निमीलोन्मीलनं च कुर्वंति बहिः पवनसंपर्कवशादि त्यद्यायुर्वेदोक्तिरपि वनस्पतिशरीरेष्वपि वायोर्विभूतिं दर्शयति । (Here compare what a modern Botanist says - viz. “In transpiration, (1) plants get rid of the excess of water absorbed through roots, (2) It also acts as a force tending to cause the ascent of water from roots to leaves, (3) Further it is probable that transpiration discharges an important function by keeping plants cool, more especially, those that exposed to sunlight.) चरकाचार्येण निर्देष्टाः वनस्पतीनाम् अन्तर्बाह्यावयवाः यथा - मूलत्वक्सारनिर्यासः नाडस्वरसपल्लवाः । क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कंटकाः । पत्राणि शुंगा कंदाश्च प्ररोहाश्चौद्भिदो गणः इति । तद्विशेषास्तु तच्छास्त्रे एव द्रष्टव्याः ॥
पर्णपलाशतत्त्वम्
(Chlorophyll or green substzance in leaves by the influence of the sun)
वनस्पतीनां जीवितधारणं महाभूतानुग्रहादेव भवति । यथा मनुष्यशरीरम् अन्नरूपेण पृथिवी, प्रसररूपेण आपः, वैश्वानररूपेण अग्निः, उच्छ्वासनिश्वासरूपेण वायुः, तत्तदवयवोपचयार्थम् अवकाशदानेन आकाशः, एवं पंचमहाभूतान्युपकुर्वंति, तथा तान्येव महाभूतानि वनस्पतिशरीरमपि उपकुर्वंति । यथा - आश्रयप्रदानेन, दोहदादिरूपेण, अम्लरससुगंधोत्पादनेन च पृथिवी ; सेकमुखेन वृष्टिद्वारा, जीवनोपकारकरसरूपेण च आपः ; मूलसारत्वक्साराद्यनेकसारजनकत्वेन, तत्तत्परिणामापेक्षितपाकरूपेण च अग्निः ; सर्वमेव शरीरके करोति भगवान्वायुः इत्यादिना चलनादिसकलक्रियानिष्पत्तिरूपेण वायुः ; आबीजात् वृक्षाविर्भावपर्यन्तं, तदुपचयाय अपेक्षितावकाशदानेन आकाशश्चेति पंचमहाभूतान्युपकुर्वंति । अथ रसवीर्यपाकादिभिः स्थावरजङ्गमात्मकं सर्वं जगदुपकुर्वतो भगवतो मरीचिमालिनः उपकारविशेषः वनस्पत्यादौ क इत्यत्र पर्णपलाशतत्वे श्रुतिप्रमाणम् ॥ यथा - हरितत्वा वर्चसा सूर्यस्य श्रेष्ठैः रूपैस्तन्वन्स्पर्शयस्व (ऋ. मं. १०, सू. २, ऋ. ३) । अनेन सूर्यरश्मिसंसर्गात् पर्णेषु हरिद्रूपं वृक्षाहारवस्तूत्पद्यते (Green substance) इति स्पष्टमवधार्यते ।
तस्य पर्णस्य पर्णत्वम् इत्यंत तैत्तिरीयब्राह्मणोक्रिपर्यालोचनया वृक्षजातीनां बीजभूतः द्युलोकस्थसोमः अप्परिणामरूपः, पृथिव्याम् ओषधिवनस्पतीनां पर्णेषु वृक्षादीनां जीवनाधारक हरितद्रव्यदानेन पर्णानि (Leaves), स्वमूले सिक्तजलदोहदात्मकरसाभिसर्पणद्वारा मूलानि च (Roots) वृक्षोपचये वृक्षस्य यावच्च्छरीरमुपकुर्वंति, अन्योन्यमप्युपकुर्वंति इति फलितम् । (The green colour of the sun is transmitted to the leaves of the trees and it therefore becomes a vital power for the life of the tree.) अन्या श्रुतिः (ऋ. मं. १०, सू. १३५, ऋ. १) यस्मिन् वृक्षे सुपलाशे देवैस्संपिबते यमः । भाष्यम् -सुपलाशेशोभनपर्णोपेते वृक्षे यमः - आदित्यः देवैः रश्मिभिः संपिबते संगच्छते इयमपि पूर्वोक्तार्थमेव द्रढयति । अथ च पर्णपलाशशब्दव्युत्पत्तिरपि तमेवार्थं पुष्टीकरोति, यथा - पर्णं पर्णयति । पर्ण - हरितभावे अथवा पॄ-पालनपूरणयोः इति (That which prepares chloroplates), अथवा पॄण प्रीणने । (That which satisfies all by supplying food required by men and animals as well as by plant - kingdom). एवं पलाशशब्दव्युत्पत्तिरपि । यथा - पलम् - आहारवस्तु (Green substance) (चलनं वा) अश्नातीति (Protoplasm or any inorganic substance like oxygen from sun-light or Carbonic acid from air that prepares carbohydrates.) अनेन यद्यत् सूक्ष्मततम् आधुनिकवनस्पतिविज्ञानकुशलैरवगतं तत्सर्वं प्राचीनार्यैः बहुकालात्पूर्वमेव अवगतमिति दिक्प्रदर्शनमिह कृतं प्रतिभाशालिनामवगाहनाय यद्यपि ओषधिवनस्पतीनां पतिः सोमः (चन्द्रमाः) इति विदितम्, तथापि सूर्य एव चन्द्रद्वारा तेषां वृद्धिहेतुरिति तत्त्वमवगम्यते । यतः चन्द्रस्याप्यमिवृद्धौ सूर्यरश्मिप्रवेश एव मूलकारणम् । तथा च श्रुतिः आदित्याद्वै चन्द्रमा जायते (ऐ. ब्रा. अ. ४०, खं. ५) । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः इति कालिदासः (रघु. ३. २२) । अत्र हरिदश्व (Green rays) शब्दः प्रकृतविषयप्रजकः ॥
ओषधीनां स्वरूपादीनि Morphology of Trees, Herbs etc.)
सुश्रुते यथा अथ वक्ष्यामि विज्ञानमोषधीनां पृथक्पृथक् इति प्रतिज्ञानुरोधेनानेकेषां आल्यादीनामाहारपदार्थानाम् अश्वगन्ध्याद्योषधिविशेषाणां केषांचित् पर्णानां मूलानां चस्वरूपाणि प्रमाणानि गुणाः उपयोगाश्च सम्यङ्निरूपिता भवन्ति । तद्विवरणमत्रानुचितमप्युदाहरणार्थं दिक्प्रदर्शनं क्रियते । यथा - मण्डलैः कपिलैश्चित्रैस्सर्वाभा पञ्चपर्णिनी । पञ्चारत्निप्रमाणा या विज्ञेयाऽजगरी बुधैरित्यादि । तथैव चरके (कल्पस्थाने प्रथामाध्याये ७ - ८ - ९) देशस्त्रिविधः जाङ्गलः (Dry land), अनूपः (Watery land), साधारणः (Medium land) । जाङ्गले कदर - खदिराऽशनाश्वकर्ण - धव - तिनिश - शल्लकी - साल - सोमवल्क- बदरी - तिन्दुका - श्वत्थ - वटाऽमलकी - शमी - ककुभ - शिंशुपादयः प्रांदुर्भवन्ति । अनूपे हिंतालतमालनारिकेलादयः अनेकपुष्पलतावृक्षाश्च प्रादुर्भवन्ति । साधारणे बीरुद्वनस्पतिवानस्पत्या भवन्ति । जाङ्गले साधारणे च उपगतसंपूर्णप्रमाणरसवीर्यगंधाः विविधौषधयो जायन्ते इति सामान्येन निर्दिश्य तत्तदोषधिस्वरूपगुणादिकं सम्यङ्निरूपितम् ।
तथा जीमूतकल्पे इक्ष्वाकुकल्पे च पुष्पफलनिवृत्तपयः पानं चोक्तम् । बत्सकल्पे पुष्पाणां स्त्रीपुंसभेदः उक्तः । (Distinction between male gametophite पुरुष योनिः and female gametophite स्त्रीयोनि) यथावत्सकः - कुटजः - शुक्रः - वृक्षकः - गिरिमल्लिका - बैजानि, इन्द्रयवाः, कलिङ्गकाः, बृहत्फलः, श्वेतपुष्पः, स्निग्धपत्रः पुमान् भवेत् । श्यामा चारुणा पुष्टी, स्त्री इति । कृतवेधाकल्पेषु पत्रपुष्पफलादिभिः पाकेन घृतसुरादिनिर्वर्तनं च कथितम् ।
तथैव धन्वन्तरिनिघन्टुराजनिघन्टुप्रभृतिवैद्यग्रन्थेषु वैद्योपयुक्तानां वृक्षमूलादीनां स्वरूपगुणादयः विस्तरेण वर्णिताः ।
आपस्तंबाश्वलायनप्रभृतिभिः कल्पसूत्रकारैर्यागादिकर्मनिरूपणसंदर्भे, यूपादिनिर्माणविधानावसरे, उपनयनादिसंस्कारप्रस्तावे, कुलदेवतात्मकवृक्षशाखादीनां स्वरूपप्रभावादीनि सम्यगुपदिष्टानि । तथा च ब्राह्मणम् - शमीगर्भादग्निं मन्थति अग्निः अश्वोरूपं कृत्वा यदश्वत्थे तिष्ठः अस्थिवा एतत् यत्समिधः (तै. ब्राह्मणे) । अग्ने स्वर्णमश्वेति पिप्पलम् । ऊर्जमौदुंबरम् । सायद्वाभ्यां पर्णं यया शमी । इति
नीतिशास्त्रेषु मृगयाविहारप्रकरणे अरण्यवर्णनं यथावत्कृतम् अनेकेषामनोकहानां नामनिर्देशश्च कृतः । कालिदासादिकविभिः शृङ्गाररसोद्दीपनाय विविधवृक्षलतापुष्पादिवर्णनं कृतमस्तीति, विशेषतः ऋतुसंहारे तेषां कथनं दरीदृश्यत इति च सर्वे जानन्ति । वनलताप्राशस्त्यं दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः इति कालिदासेन सचमत्कारमभिवर्णितम् । तथैव राजधानीकृतवनप्रस्थनगरेषु महामहिमवत्सु हिमवद्गिरिप्रस्थेषु ये ये द्रुमाः तेषां नामनिर्देशमात्रम् अग्रे वनस्पत्योषधिप्रयोजननिर्देशावसरे प्रकाश्यते ।
वनस्पत्यादीनां स्थलविशेषविभागाः ।
(Forests and Gardens)
वनस्पतिप्रचुराः अन्तर्विभागविशेषाः एवमुपदिष्टा भवन्ति । यथा - महारण्यम् - हिमालयप्रान्तारण्यम् (Great forests of the Himalayas), निष्कुटः गृहारामः (House garden), उपवनं कृत्रिमवनं कृत्रिमवृक्षसमूहो वा (Groves or Topes), अमात्यगणिकागेहोपवने वृक्षवाटिका (Garden of trees), वनिका - अल्पवनं यथा अशोकवनिका (A small forest), उद्यानं राज्ञः सर्वोपभोगवनम् (Pleasure garden of kings), प्रमदावनम् (यत्र सस्त्रीको राजा क्रीडति) (Garden for royal harem), वन्या - वनसमूहः (A sereies of forests), सांतरपङ्क्तिः (Rows), राजिः - निरंतरपङ्क्तिः पङ्क्तिसाधारणः (Thickly planted rows and sub-rows.)
ऐरंमदो देवमुनिः अरण्यानि तुष्टाव इत्यादिना स एव तद्दर्शी ऋषिरित्यवगम्यते । अरण्यं ग्रामाद्दूरे निर्जने प्रदेशे वर्तते । सेचनसमर्थं रवं कुर्वन्तं कंचित्सूक्ष्मजन्तुं वृशारवम्, अन्यच्चिच्चिकः चीचीशब्दं कुर्वन् उपगच्छति पालयति वा, तदा अरण्यं पूज्यते । अहनि शकटीभिः महदरण्यं प्राप्य सर्वे जनाः अरण्ये काष्ठादिकं शकटेष्वारोप्य सायंकाले तस्मान्निर्गच्छन्ति । महारण्ये वर्तमानः एकपुरुषः गामाह्वयति अन्यः काष्ठमवहन्ति । तथा महारण्ये निवसन्त्मनुष्यः नानाविधं पक्षिमृगादिशब्दं शृण्वन् भीतभीतोऽभवत् । यदि तत्र स व्याघ्रचोरादिभिः नाभिगच्छति, तर्हि रसवतः आम्रादेः फलं भक्षयन् यथाकामं वर्तते । अरण्ये कसूर्यादिसुरभिगन्धः लभ्यते । अरण्यं फलमूलादिभिरुपेतं भवति । कृषीवलैर्वियुक्तं सत् मृगाणां मातृभूतं सद्वर्तते । इत्यादि अरण्यवर्णनं ऋग्वेदे दशममण्डले १४७ सूक्ते षड्भिः ऋग्भिस्सम्यग्दर्शितम् । इदं वर्णनं कथासाधारणमपि प्राचीनार्याणाम् अरण्यानुभवः तत्रत्यतरुपुष्पमृगपक्षिकीटादिमुखानां कार्यविशेषपरिचयोऽपि सम्यगासीदिति आधिनिकानां बोधनायात्र संग्रहः कृतः । जंबूमार्गारण्यं हिमवासादुत्तरारण्यम् । देवीपुराणे उक्ताः अरण्यविशेषाः यथा - सैन्धवारण्यं दण्डकारण्यं नैमिषारण्यं कुरुजाङ्गलम् उपलारण्यं हिमवासः इत्यादीनि । अरण्ये अहिवराहेमयूथसिंहादयो मृगाः भिल्लभल्लदवादयः शुककाककपोताद्या निवसन्ति । बहुवृक्षस्थानं वनम् । उद्यानस्वरूपं ब्रह्मवैवर्ते यथा - शिबिराद्यन्तरे भद्रा स्थापिता तुलसी - (Holy basil Ocimum sanctum) नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा । प्रभाते तुलसीं दृष्ट्वा सर्वदान फलं लभेत् । इत्यादिना तुलसी - माहात्म्यं च सूचितम् । तथैव - मालती यूथिका कुन्दं माधवी केतकी तथा । नागेश्वरं मल्लिका च कांचनं वकुलं शुभम् । अपराजिता च शुभदा तेषामुद्यानमीप्सितम् । पूर्वे च दक्षिणे चैव शुभदा नात्र संशयः ॥ इति ॥
मथुरायां दश वनानि सन्तीति वाराहे दर्शितम् । यथा - मधुवनम्, तालवनम्, कुसुमवनम्, काम्यकवनम्, बहुलवनम्, भद्रवनम्, स्वादिरवनम्, महावनम्, ध्वलवनम्, बिल्ववनम्, बृन्दावनमिति । एतेषां नामनिर्देशेनैव आर्याः प्रकृतिसंपत्प्रियाः उद्यानक्रीणादराश्चेति भाव्यते । यतः उद्यानेषु पिकालिकेकिहंसाद्याः क्रीडावाप्याद्यवस्थितिः इत्येतेषां संभवात् ते सर्वदा सुखविनोदनपरा आसन्निति ध्वन्यते ।
वने (Forest), तावदेतानि भवेयुः वनगौः (Wild ox), वनधेनुः (Wild cow), वनच्छागः (WIld - goat), वनाजः (Wild he-goat), वनरः (वानरः) Monkey or Orangoutang), वनश्वा (Wild - dog), वनस्थः (Deer) इति वनपशुविशेषाः । वनराजः (Lion) वनसूकरी (Pig) वनाशिरः वनायुः इत्यादिवनमृगाः । वनभुजङ्गः (Wild - serpent) वनाखुः (Wild - mouse) इत्यादिबिलेशयाः । वनप्रियः (कोकिलः) वनाश्रयः (द्रोणकाकः) इत्यादिपक्षिविशेषाः भवन्तीत्याद्युक्त्या तदानीन्तनानां वनमेव आबालगोपविदितं चक्षुः प्रीतिकरं स्वाभाविकमृगालयमिवाभूदिति विज्ञायते (served as a natural Zoo) । अथ वनकदली, वनकन्दः, वनकार्पासी, वनकेशः, वनचन्दनम्, वनपूरकः, वनबीजपूरकः, वनकेशी, वनपूरणः, इत्यादिद्रुमविशेषाः सम्यक् प्राचीनार्याणां दृष्टिगोचरा अभवत् । वनजातानि चंपकामल्लीशोभन (पद्मं) मित्यादिपुष्पाणि चिरपरिचितानि । तथा वनोद्भूतानि मुस्तकाश्वगन्धितिक्ती (हरीतकी) पिप्पलीजीरभद्रिका (भद्रफलं) इत्याद्योषधिवस्तूनि, मुद्ग - बर्बर - वृन्ताक - वल्लरी - व्रीहि - हरिद्रादि वनवस्तूनि हासि - काश - नालिकादयः तृनविशेषाः, वृक्षधूपः (Turpentine), वृक्षनिर्यासः (Gum) इत्यादयश्च ये भवन्ति तेषां स्वरूपगुणोपयोगाः सनातनवनस्पतिविज्ञानकुशलैस्सम्यग्विदिता विचारिताश्च आसन् । केषांचिद्वनौषधीनामपूर्वनामानि च अत्र निर्देष्टुमुचितं यथा - वनराजतालवृक्षः, तरुविलासिनी - नवमल्लिका, तरुषंडः तरुसमूहः इत्याद्युक्तीनामस्ति कश्चिद्विशेषाभिप्रायः ॥
वनस्पतीनामपि स्त्रीपुंसव्यक्तिनिर्णयः ।
वनस्पतीनां परस्परसौहार्देन परस्परोपकारकत्वमित्यत्र श्रुतिः अन्यावो अन्यामवत्वन्याऽन्यस्या उपावत । तास्सर्वा संविदाना इदं मे प्रावता वचः । (ऋ. मं. १०, अ. ८, सू. १७, ऋक् १४) अस्यायं संग्रहार्थः । हे ओषधयः युष्माकं मध्ये अन्यौषधिरन्यामोषधिं प्राप्नोतु । तथा - अन्या त्वन्यस्यास्समीपमुपगच्छतु । एवं यास्सन्ति क्षित्यामोषधयः तास्सर्वाः परस्परमैकमत्यं प्राप्ताः सत्यः मदीयं प्रार्थनालक्षणवचनं प्ररक्षत इति । अनेन वृक्षादयः परस्परसहायकाः परस्परसंमेलनपराश्च भवन्तीति लतादीनाम् अवलम्बका भवन्तीति च तात्पर्यम् अवगम्यते । विविधौषकल्पने परस्परं स्नेहेन संगताः रुग्णस्य हितं कुरुतेत्यर्थोऽपि ध्वन्यते ।
ओषधिवनस्पतीनां रसात्मकत्वम्
(Cf. Water plays an important part in the life of Plants)
अपामोषधयो रसः इति छांदोग्यम्, योऽपां पुष्पं (सारं) वेद इत्यन्या श्रुतिश्च ओषधीनां रसात्मकत्वं कथयति । चंद्रमा वा अपां पुष्पम् इति श्रुत्या चन्द्रः अथवा सोमह् ओषधिवनस्पतीनां पतिरिति दर्शितम् । स्थावराणां च जीवनोपकारकत्वस्य जलद्रव्यस्योचितत्वात् जलद्रव्यं जीवनं भवेदिति सर्वं जगत् जलेन विना जीवितुं न भवति समर्थम् । तस्य स्वभावेन जीवनम् इति नैघण्टुकैः नाम प्रतिपादितमिति च आयुर्वेदे चतुर्थप्रश्ने अष्टपञ्चाशत्तमे सूत्रे च दर्शितम् । इन्दुरिन्दुरिवाऽगात् इति श्रुत्या इन्दुः देवतारूपस्सोमः इन्दुं लतारूपं सोममगात् स्वकीयत्वेन प्रापत् । इत्यर्थो निर्गलितः । अपां पुष्पमस्योषधीनां रसः (तै. ब्रा. अ. ३, प्र. ७, अ. १४) पुष्णामि चौषधीस्सर्वास्सोमो भूत्वा नावगच्छति इत्यन्याश्रुतिः । एताश्श्रुतयोऽपि पूर्वोक्तमेवार्थं समर्थयन्ते । अत्र उपरि दर्शिता तैत्तिरीयोक्ता प्रथमा श्रुतिः आज्यसूक्ते प्रतिपादिता । अस्या अर्थस्तु हे आज्य त्वमपां पुष्पम् अपां सारमसीति । कथम् ? अप्सु गोभिः पीतासु क्षीरद्वारेणाज्यनिष्पत्तेः । तथा ओषधीनां रसः सारभूतमसि । कथम् ? गोभिर्भक्षिताभ्यः ओषधीभ्यः उत्पन्नत्वात् इत्यनेन तृणाद्योषध्यदनादारभ्य आज्यनिषत्तिपर्यन्तप्रवृत्ताः अपां परिणामाः सर्वे सूचिताः । आप इद्वा उ भेषजी आप एव खलु भेषजभूताः स्नानपानादिसुखहेतवः यद्वा ओषधिरूपेण परिणताः रोगोपशमनहेतवो भवन्ति ।
वनस्पतीनां गर्भतत्वम्
एतद्ग्रन्थकर्त्रा विरचिते सनातनभौतिकविज्ञानाख्यग्रन्थे पाकाधिकरणे शरीरारम्भे परमाणव एव कारणं न शुक्रशोणितनिपातः इत्यादिना यत्तत्त्वमुपपादितं तदेव वनस्पतिविषयेऽप्यन्वेति । अन्यत्र वृक्षेषु स्त्रीपुन्नपुंसकविधानमपि सूचितम् । यथा - वंध्यो वृक्षः अकाले पल्लवादियुक्तः सन् पुष्प्यति फलतीति भ्रान्तिमुत्पादयन् तिष्ठति इत्यत्र केषांचिद्वृक्षाणां वंध्यत्वं सूचितम् ।
ओषधिवनस्पतिषु अग्निसान्निध्यम्
ओषधिवनस्पतिशरीरेष्वपि गूढमग्निर्वसतीत्यत्र श्रुतिः ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्रे अप्स्वोषधीषु । तं त्वा यमो अचिकोच्चित्रभानो दशांतरुष्यादतिरोचमानम् (ऋ. मं. १०, अ. ४, सू. ९, ऋ. ३) । दशांतरुष्यादित्यत्र भाष्यम् अन्तरिष्यं गूढमावासस्थानम्, तच्च स्थानं दशसङ्ख्योपेतम् । अग्नेर्हि गूढानि दशस्थानानि भवन्ति । पृथिव्यादयस्त्रयो लोकाः अग्निवाय्वादित्यास्त्रयो देवाः आप ओषधयो वनस्पतयः प्राणिशरीरमिति । एतत्तत्त्वं यमेन बहुधान्विष्य विज्ञातम् । (Yama discovered this truth after deep research namely that fire or heat exists in ten different places mentioned above.) केषुचिद्वृक्षेषु अग्निसान्निध्यं विशेषतो दृष्टं यथा - शम्याम् । अत एव अग्निगर्भा शमी इति महाकविना कालिदासेन उक्तम् । एवं वृक्षाणां शरीरेषु तत्रापि अश्वत्थपलाशादिषु पुष्टिहेतुकानि ऊर्जस्वलानि वस्तूनि वर्तन्त इत्यत्र श्रुतिः अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् (ऋ. १०, अ. ८, सू. १७, ऋ. ५) हे ओषधिदेवताः युष्माकमश्वत्थे नितरां वर्तनं पलाशे निवासः कृतः अश्वत्थपलाशयोः यज्ञयोग्यत्वात् प्राधान्यापेक्षयोपादानम् । किंच गोभाज इत्किल - गवां भोजयित्र्य एव भवथ खलु इत्यादिना अश्वत्थपलाशादयः प्राणिनां विशेषतः गवादीनामत्युपयोगकारिणः इत्यभिहितम् । इममेवार्थम् अन्या श्रुतिरवबोधयति । शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अथा शतक्रत्वो यूयमिमं मे अगदं कृत (ऋ. मं. १०, अ. ८, सू. ९७, ऋ. २) हे अबं - मातरः ओषधयः वः युष्माकं धामानि स्थानानि जन्मानि वा शतमपरिमितानि । उत - अपि च वः युष्माकं रुहः प्ररोहः प्रोद्गमः सहस्रम् अपरिमितः । यूयं मे मां मदीयं वा जनम् आमयग्रस्तम् अगदं (गदो - रोगः तद्रहितं) कृत - कुरुतेति भाष्यार्थालोचनेन ओषधिवनस्पतयः असंख्याकाः ताः भिषग्भिरनेकधा उपयुज्यन्ते, अथवा प्राणिभिरनेकप्रकारेण स्वप्रयोजनायोपयुज्यन्ते, इत्यभिप्रायः सूक्ष्मदर्शिभिरालोचनीयः । एवं च उपरिनिर्दिष्टश्रुतिपरंपरया वनस्पतिसृष्टिः प्राणिसृष्टेः पूर्वा, ओषधिवनस्पतयः असंख्याकाः तेषां प्रधानतमः सोमः पुरा दिवि आसीत्, तस्मात् ओषधिवनस्पतयः पृथिव्याम् अनेकत्र अनेकधा उत्पन्नाः, ते प्राणिनां सर्वप्रकारेण परमप्रयोजका भवन्ति इत्यनेकार्थाः निर्गलिताः । श्रुतिप्रमाणपरा हि प्राचीनार्याः । [Here compare what modern Botany says - “Angiosperms represent the culmination of the plant kingdom. This group was not existent in paleozoic and not abundant in mesozoic periods. The doctrine of organic evolution claims that the existing plants are the modified descendants of earlier forms.” This idea is not modern being in the thought of man as far back as records of thought have been found. Compare also the Biblical allusion of the “forbidden tree” or tree of knowledge with the soma (सोम) account of Vedas].
रोगग्रस्तानामोषध्यादिप्रयोजनम्
तथा रुग्णस्य ओषधीनां प्रयोजनमेवमुक्तं भवति उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । धनं सनिष्यंतीनामात्मानं तव पूरुष ॥ (ऋ. मं. १०, अ. ८, सू. १७, ऋ. ८) । गावो गोष्ठादिव स्वसामर्थ्यलक्षणं धनं दातुमिच्छन्तीनामोषधीनां वीर्यं बलानि वा रोगग्रस्ते पुरुषे प्रोद्गमयन्त्वित्यभिप्रायः । अथवा प्ररोहंतीरोषधीर्दृष्ट्वा एतदुक्तम् - हे पुरुष प्रियंग्वाद्योषधिस्वामिन् तवात्मानं वर्धयितुं धनं सनिष्यन्तीनां व्रीह्याद्योषधीनां शुष्म उदीरत । प्रियंगुमाषव्रीह्माद्याहारेण बलं वर्धयतेति तात्पर्यम् ।
ओषधयः प्राणिनां रुगपनयनहेतवः इत्यत्र अन्या श्रुतिः यदिमा वाजनयन्नहमोषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा (ऋ. मं. १०, अ. ८, सू. ९७, ऋ. ११) । अहं इमाः ओषधीः हस्ते यदि आधारयामि रुग्णं बलिनं करोमीति वैद्येन ओषधीनां वीर्यप्रशंसा कृता भवति । आयुर्वेदाभिज्ञो भिषक् सर्वान् रोगान्निवारयितुं शक्त इत्यभिप्रायः । ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः । (तत्रैव ऋ. ३) इति ऋचा च ओषधिवनस्पतीनां मूलत्वक् पत्रपुष्पफलादिभ्यः प्राणिनां समस्तरोगान्निवारयितुं शक्यमिति सूचितम् ।
ओषधिवनस्पतीनां पापनिवारकत्वम्
प्राणिनां सत्वोपचयकरणद्वारा ओषध्यादयः पापनिवर्तका भवन्तीत्यत्रान्या श्रुतिरियम् मुञ्चन्तु मा शपथ्यदथो वरुण्यादुत । अथो यमस्य पड्वीशात्सर्वस्माद्देव किल्बिषात् । (तत्रैव ऋ. १६) अत्रे दमवधेयम् । राजसतामसाहारेण प्राणिनः विदितमविदितं वा पापानि कुर्वन्ति । तेन धर्माभिमानिनो वरुणादयः कुष्यन्ति । तस्मात्प्राणिनोऽपारं शोकं अनुभवन्ति । आहारशुद्धौ सत्वशुद्धिः इति न्यायमनुसृत्य यःकश्चित्सत्वाहारसेवनेन सत्वोपचयं कृत्वा सत्कर्मानुष्ठानेन तान्देवान्प्रीणयेच्चेत् पापेभ्यो मुच्यते इत्यभिप्रायः । अनेन सस्याहार एव निर्दुष्ट इति फलितार्थः । सत्वोपचयकराः ओषधिवनस्पतयः के इत्यत्र श्रुतिरेवं समाधत्ते याःफलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्तानो मुञ्चत्वंहसः (ऋ. मं. १०, अ. ८, सू. ९७, ऋ. १५) फलिनीः - नारिकेलादयः व्रीहियवादयश्च, अफलाः - इक्षुप्रभृतयः पत्रशाकादयश्च, अपुष्पाः - उदुम्बरादयः प्रियंग्वादयश्च, पुष्पिणीः - बन्धूकजपादयः आढकादयश्च, आहारयोग्याः सत्वाभिवर्धकाः भवन्ति तद्द्वारा पुण्यकर्माचरणवासना उदेतीत्याकूतम् ।
केचित्प्रधानवृक्षाः
(Importance of Certain Trees)
येषु वृक्षेषु विशेषप्रभावो भवति ते यज्ञिया इति आर्यैरादृताः । तथा च दर्शितं ब्रह्मपुराणे - शमीपलाशन्यग्रोधप्लक्षवैकङ्कतोद्भवाः । अश्वत्थोदुम्बरौ बिल्वश्चन्दनस्सरलस्तथा ॥ शालिश्च देवदारुश्च खादिरश्चेति यज्ञियाः । तेषु केषांचित्प्रभावाः बोधायनेनैवं दर्शिताः । पलाशः (Bastard teak, Butea frondosa) अयं सोम एव, आह्लादकरः इमं पर्णं च दर्भं च देवानां हव्यशोधने इति च श्रुतिः, बिल्वः ब्रह्मवर्चस्करः (Bale tree, Aegle marmelos), न्यग्रोधः ओजस्करः (Banyan tree, Aegle marmelos), रोहितकह् - बलकरः (Saffron, Crocus sativus), बादरः पुष्टिकरः (The Jujub, Zizyphus jujuba), उदुम्बरः ऊर्जं वहति (Country fig tree, Ficus glomerita), वार्क्षः - वाजकरः, आहारयोग्यः (That which belongs to a tree or herb which supplies food for men and animals) तेषु पुनः अश्वत्थस्य बोधिद्रुम इति, कुञ्जरास्य इति च संज्ञा । तथा उदुम्बरः हेमदुग्धक इति, तत्फलं जन्तुफलमिति च व्यवह्रियते । औदुम्बरप्राशस्त्यमेवं श्रुत्या दर्शितं यथा अथौदुम्बरीं समारभन्ते इति चतुर्होतृव्याख्यानोद्योगानंतरं येयमौदुम्बरीशाखा सदस्यन्तर्निहिता तां शाखां सर्वे संभूयोपस्पृशेयुः इषमूर्जमन्वारभे अन्नरूपां रसरूपां तामौदुम्बरीं - अन्वारभे इति हस्तेन स्पृशामीति । यतः ऊर्ग्वा अन्नाद्यमौदुम्बरः योयमुदुम्बरवृक्षः सोऽयं रसरूपोऽन्नरूपश्च (ऐ. ब्रा. अ. २४, खं. ५) । अन्या श्रुतिः यद्वैतद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरस्समभवत्तस्मात्सत्रिः संवत्सरस्य पच्यते देवाः पुरा यदेतदन्नरसरूपं वस्तु क्वचिद्भूमावुपविश्य व्यभजत एतावदस्यैतावदस्येति विभागं कृतवन्तः तदानीं तस्माद्भूमौ पतितादन्नरसभेदाद्वीजभूतादयमौदुम्बरवृक्षः समुत्पन्नः । तस्मात्संवत्सरस्य मध्ये भोक्तृणामन्नसिध्यर्थं त्रिः पच्यते । त्रिरित्युपलक्षणम् - बहुकृत्वः फलं गृह्णाति (The fig tree bears fruit very many times in the year) इत्यभिप्रायस्सूचितः ।
अन्यत्र एतेषां माहात्म्यमेवं श्रुय़ते । अग्ने स्वर्णमश्वेति । पिप्पलमूर्जमौदुम्बरम् । गायद्वाभ्यां पर्णं यया शमीति न्यग्रोधोऽपि बहुपादिति बेष्टनशालित्वात् वटत्वात् वट इत्युच्यते । प्लक्षः इन्द्रवृक्षः - बली । कोविदारस्य युगपत्रकमेव लिङ्गं । वेतसस्य तन्तुसन्तानमेव । जलवेतसस्य नादेयीति व्यवहारः । तथैवान्यत्र अश्वत्थशब्दस्य व्युत्पत्तिरेवं दर्शिता । श्वः तिष्ठतीति श्वत्थः अल्पकालस्थायी न श्वत्थः अश्वत्थः चिरस्थायीति । अश्वत्थे त्रिमूर्तीनां सान्निध्यमस्तीत्यत्र आर्याणां विश्वासः यथा । मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतश्शिवरूपाय वृक्षराजाय ते नमः । अश्वत्थस्सर्ववृक्षाणाम् इति भगवद्गीतोक्तिः । किञ्च तृतीयस्यां दिवि सोम आसीदित्यादिश्रुत्यावृक्षजातीनां समष्टिरूपः यः सोमः तस्य पर्णं पर्णरूपत्वादश्वत्थस्य श्रैष्ठ्यमिति च दर्शितम् ।
फलादौ रसभेदः
(Theory of Different Tastes)
बृहञ्जातके वराहमिहिराचार्याः - यथा कटुकलवणतिक्तमिश्रिता मधुराम्लौ च कषायः । इत्यादिना सूर्यादिसप्तग्रहवशात् सप्तविधरसपरिपाकाः ज्ञेयाः इति वदति । एतच्च यद्यपि स्त्रीणां दोहदनिर्देशप्रकरणे दर्शितम्, तथापि भास्करादिभिः कथं विमर्शितमिति विज्ञानकुशलैरेव निर्धारितव्यम् । तेजसां गोलकस्सूर्यो ग्रहर्क्षाण्यंबुगोलकाः । प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः ॥ तियुक्तत्वात् यदा सूर्यरश्मयः विविधरूपगुणादियुक्तेषु ग्रहेषु प्रसर्पन्ति तदा तत्संयोगेन तदुद्गततेजसि गुणभेदो भवति । ग्रहसंचारवशाद्धि वृष्टिसम्भवः । तया वृष्ठ्या अनुद्भूतरूपेण (In potential state) विद्यमाना तादृशगुणभेदशक्तिः पार्थिवद्रव्यसंयोगेन उद्भूता सती रसे गुणभेदान् जनयतीति । चरकाचार्योऽष्येवमभिप्रैति । आपोंऽतरिक्षाद्भ्रष्टाः भ्रश्यमानाः पञ्चमहाभूतगुणसमन्विताः जङ्गमस्थावराणां भूतानां मूर्तिरभिप्रीणायन्ति यासु षड्भिर्मूर्छीताः रसाः । आपः अव्यक्तरसा एव क्षितिसम्बन्धादेव रसोऽभिव्यक्त उपलभ्यते ॥ यद्यपि चाभिव्यक्तमधुरादिविशेषरहितः क्वचिद्भवति तथापि सामान्येन सर्वत्र यदभिव्यक्त्ये अनुगतं कारणमुपलभ्यते, क्षितिरूपं जलक्षितिरूपं वा तदभिव्यक्तिकारणम्, यदनुगमात्तु मधुरादिविशेषनिवृत्तौ निमित्तकारणम् । वाय्वनलाः न प्रधानकारणभूताः व्यस्तास्समस्ताः । आकाशादिसंसर्गाद्भेदस्तु रसानां मधुरतरमधुरतमादिः । एवं तु रसभेदः उपपन्न इति (This is the root theory of chemical combination.)
अन्यच्च, ऋतुभेदात् रसादिषु गुणप्रभेदः । ऋतुप्रभेदस्तु नानालिङ्गत्वादृतूनां नानासूर्यत्वम् इति तैत्तिरीयारण्यकश्रुत्या विदितम् । तत्र नानालिङ्गत्वं वाय्वादित्यकृतम् । अत्र वसंतो वसुभिस्सह इति श्रुतिः प्रमाणम् । (ऋतूनां विशेषप्रभावस्तु सनातनभौतिकविज्ञानाख्यग्रन्थे ८० - ८३ पुटेषु प्रतिपादितः) । आदित्यकिरणेषु ऊष्मप्रकाशयोस्तारतम्यं चन्द्रादिग्रहसम्बन्धादित्युपरि निर्दिष्टम् । तथा च चरकाचार्यः षड्रसोत्पत्तिप्रकरणे एवं निर्दिशति - सोमगुणातिरेकान्मधुरोरसः । पृथिव्यग्निभूयिष्ठत्वादम्लः । सलिलाग्निभूयिष्ठत्वाल्लवणः । वाय्वग्निभूयिष्ठत्वात्कटुः । वाय्वाकाशातिरिक्तत्वात्तिक्तः । पवनपृथिव्यतिरेकात्कषाय इति पाञ्चभौतिकाः रसाः ।
अयमेवार्यः वाचस्पतिमिश्रैरेवमभिहितः गुणभेदाः परिणामतः - सलिलात् । यथा विमुक्तमुदकमेकमपि तत्तद्भूतविकारानासाद्य नारिकेलतालीबिल्वतिन्दुकाऽमलककपित्थफलरसतया परिणामात् मधुराम्ललवणतिक्तकटुकषायतया विकल्पते । एवमेकैकगुणसम्भवात्प्रधानगुणमाश्रित्य अप्रधानाः गुणाः परिणामभेदान्प्रवर्तयन्तीति अतः सर्वौषध्यादिषु रसभेदतया गुणभेदः । गुणभेदतया पदार्थेषु गुणभेदः । तथैवोक्तं चरकाचार्येण । यथा - नभस्थलात्पतञ्जलमेकविधमपि पतितं तद्देशकालौ अपेक्षते । तद्यथाश्वेते देशे पतञ्जलं कषायं भवति । पाण्डरे तिक्तम् । कपिले पर्वतिविस्तारे च कटुकम् । ऊषरे लवणम् । कृष्णमृत्तिके मधुरम् । एवं महीस्थस्य जलस्य पाङ्गुण्यमाख्यातम् ।
ओषधिवनस्पतिरूपान्नस्य तत्त्वविचारः
प्रकृतिपुरुषयोरैक्यं भवतीति आयुर्वेदसूत्रार्थः एवं प्रपञ्चितः । यथा - सर्वदा प्रकृतिपुरुषौ परोपकारकौ सर्वेषां प्राणदौ भवतः । तथा च श्रुतिः अन्नं ब्रह्मेति व्यजानात् । अन्नाध्येव खल्बिमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तस्माद्यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थं पुरुषार्थोपकारिका जगद्रक्षणार्थं तावुभौ स्थावरशरीराण्यभूतां जङ्गमशरीराभिवृद्धिं कुरुतः । अत्र चिञ्जडयोरैक्यं जीवः इति दैवीमीमांसोक्तिरप्यनुसन्धेया । स्थावरमूलसार मूलत्वक्सार कन्दसार सारत्वक्तार क्षीरसार पुष्पसार निर्यापसार क्षीरसारकाः, अस्थिसारमञ्जासारकाः, काण्दसारकाः, सर्वेस्थावरदेहाः इत्युक्त्वा पार्थिवावयवोपलब्धिः यत्र तत्सारं पार्थिवगुणम् इति सूत्रेणाम्लरसः गन्धश्चोभयमपि पृथिवीगुणः । गन्धवत्त्वं पृथिव्याः अवच्छेदकत्वम् । पुष्पेषु अधिकगन्धोपलब्धिः तत्पुष्पसारमिति विज्ञेयमिति दर्शितम् । तथा च श्रुतिः यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वातीति अतः मधुकरादीनां तद्गन्धलोभात्तदन्तिकप्राप्तिः । (Cf. what Henry Chandler Cowles says - as directive stimulus insuring the visitation of flowers by insects, odour seems to be more important than colour because it is distinguished from a much greater distance and by a much larger number of insects. In the bees which do most of Pollination, memory seems to be a still more important factor.)
जलद्रव्यनिष्ठस्वादुरसः पवनप्रकोपनिवर्तकः । मधुररसादनादसृग्धातुर्भवति । आम्लरसादनं मांसधातुप्रदं भवति । लवणरसो मेदो धातुप्रदः इत्यादि, एतेषामायुर्वेदसूत्राणां तात्पर्यम् । एतेन यानि वृक्षादीनां द्रव्यसाराणि तददनद्वारा प्राणशरीरधातूत्पत्तिप्रयोजकानि बलप्रदानानि च भवन्तीत्युक्तम् । तथा चोक्तमन्यत्र मधुराद्वर्थते रक्तमम्लान्मञ्जा प्रवर्धते । लवणाद्वर्धते त्वस्थि तिक्तान्मेदः प्रवर्धते ॥ कटुकाद्वर्धते मांसं कषायाद्वर्धते रसः । अन्नाच्च वर्धते शुक्रं षड्रसा धातुवर्धनाः इति । अत्र अस्थिशब्दः सारार्थपरः । तथा चोक्तं भावप्रकाशे अभ्यन्तरगतैस्सारैर्यथा तिष्ठन्ति भूरुहाः इति । स्थावराणामपि मूलाधारः तिक्तरसपोषणात्मकः अग्रशाखं तदेव । शिरश्शिखामूलात्मकत्वात् शाखाग्राणि प्रवर्तन्ते । शाखाङ्कुरादयः तिक्तोषणरसप्राधान्येन जायन्ते । अङ्कुरप्रादुर्भावसमये तिक्तरसो वा ऊषणरसो वा यावदुचितसारं प्रतिभाति तत्तदङ्कुरस्य मेदोमञ्जाधारकत्वात् । अङ्कुरादिकमेव दशदलपद्मं मूलाधारकं भवति । उभयोरपि कदाचित् बीजवापकत्वस्य संभवात् दृश्यत्वादिति च स्पष्टमभिहितम् । यत्र जलवद्द्रव्याधिक्यं तत्पवनप्रकोपनिवर्तकम् । स्वादुरस एव जलवद्द्रव्याधिकरूपेक्षुकाण्डस्वादुरसोऽपि पित्तप्रकोपनिवर्तकः कयमित्याक्षेपे ये ये शरीरभेदाः समद्रव्यात्मकाः तत्र तत्र किञ्चिदुचितस्वादुरस इति सूत्रार्थस्य उदाहरणान्येतानि प्रदर्शितानि । घृतनिष्ठस्स्वादुरसः पवनप्रकोपनिवर्तकः । क्षीराणि च तथा, तैलगुणश्च एरण्डतैलगुणश्च तिक्तोषणकषायरसाः रसासृड्मांसमेदोबलप्रदाः इति सूत्रेण सर्वे च भूरुहाः रसादिचतुर्धात्वात्मकाः तिक्तोषणकषायरसगुणप्रधानबलाधिकद्रव्यत्वात् शुक्लमञ्जास्थिधात्वभावद्रव्यत्वेन तत्पोषकस्वाद्वम्ललवणरसगुणप्रधानद्रव्यत्वादित्यर्थः । अत्र यथा जङ्गमशरीरं शरीरान्तरजनकं स्थावरोत्पादकहेतुभूतद्रव्यत्वात्, एवं वृक्षः वृक्षान्तरजनकः स्थावरोत्पादकहेतूभूतात्मकत्वस्य उभयोरपि समानत्वात् इति प्राप्ते लिङ्गयोनिसंयोगाच्च प्रजया पशुभिः प्रजननं प्रजायते इति सूत्राधारेण लिङ्गस्य प्रजननहेतुभूतत्वात् स्थावराणाञ्च प्रजननकाले वृक्षान्तरसंयोगकार्यस्य अदृष्टत्वात् रसादिचतुर्धात्वावृतं स्थावरशरीरमिति साधितम् । अस्मिन् विषये विशेषविवरणं वैद्यशास्त्रेषु द्रष्टव्यम् ।
ओषधिभिर्निष्पन्नस्यान्नस्य स्वरूपगुणादीनि
(Food Analysis)
प्राणिनामन्नभूतस्थावराणां स्वरूपमेवं दर्शितमपि मेदोऽसृङ्मांसमञ्जास्थि वदन्त्यन्नं मनीषिणः इति मनुनाऽन्नशब्दार्थो निरूपितः ।
तैत्तिरीयोपनिषदि अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति अन्नशब्दस्य निर्वचनं कृतम् । यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः इत्यन्या श्रुतिः, अन्नं प्राणमन्नमपानमाहुः । अन्नं मृत्युं तमु जीवातुमाहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम् इति एष देवानामन्नम् इति च श्रुतयोऽपि विभिन्नार्थबोधिका भवन्ति । एवं च अन्नशब्दो बह्वर्थाभिधायीति गम्यते तन्निर्वचनं सामान्यतो ज्ञाप्यम् । नेदमित्थमिति प्रतीयते । (See what a modern Botanist says : The term food is not one which admits of accurate definition and the difficulty increases the wider the range of organisms to which it refers. Again plants make not only their own food but also food for the whole world. Man grows plants and appropriates the leaves, the roots, the stems, the fruits or seeds improved by his selection for his own nourishment. This has been already quoted. But to emphasize the idea, it is again quoted in this connection.)
अत्र श्रुतिषु किंचिदैतिह्यं वर्तते । यथा सोमो वा अकामयत । ओषधीनां राज्यमभिजयेयमिति । स एकं सोमाय मृगशीर्षाय श्यामाकं चरुं निरवपत् । ततो वै स ओषधीनां राज्यमभ्यजयत् । तथैवान्या श्रुतिः ऋक्षा वा इष (पृथिवी) मलोमकासीत् । साऽकामयत । ओषधोभिर्वनस्पतिभिः प्रजायेयेति । सैतमदित्यै पुनर्वसुभ्यां चरुं निरवपत् । ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत । (The texts may appear mere ritual fables, but their secret meaning is that good soil and water are the essential requisites for the growth of plants.) एतच्छ्रुत्यर्थः चरकाचार्येण शास्त्रमर्यादया निरूपितः । यथा जलकर्षणबीजर्तुसंयोगात्सस्यसंभवः । इति आहारोपयोगिसस्यादीनामुत्पत्तिकारणं सङ्ग्रहेण निरूष्य, आहारतत्त्व प्रतिपादनद्वारा तदुत्पन्नधान्यादीनां गुणादीन्निरूपयति । यथा आहारतत्वमाहारस्यैकविधम् अर्थाभेदात् । स पुनर्द्विविधयोनिः स्थावरजङ्गमात्मकत्वात् । त्रिविधः प्रभावः _ हिताहितोदर्कविशेषात् । चतुर्विधोपायः - पानाशनभक्ष्यलेह्योपयोगात् । षडाग्वादः रसभेदतः - षड्विधत्वात् । विंशतिगुणः - गुरुलघु, शीतोष्ण, स्निग्धरुक्ष, मन्दतीक्ष्ण, स्थिरचर, मृदुकठिन, विशदपिच्छिल, श्लक्ष्णखर, सूक्ष्मस्थूल, सान्द्रद्रवानुगमात् । अपरिसङ्ख्येयविकल्पः द्रव्यसंयोगकरणबाहुल्यात् । तत्र ये ये विकारावयवाः भूयिष्ठमुपयुञ्जते भूयिष्ठकल्पनाश्च मनुष्याणां प्रकृत्यैव हिततमाश्चाहितमाश्च तांस्तान् यथावदनुव्याख्यास्यामः इति प्रतिज्ञाय, धान्यादिषु आहारपदार्थेषु श्रैष्ठ्यं प्राधान्यं च निरूपितम् । तद्यथा - लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमाः, मुद्गाः शमीधान्यानाम्, आन्तरिक्ष्यमुदकानाम्, सैन्धवं लवणानाम्, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानाम्, लावः - पक्षिणाम्, गोधा - बिलेशयानाम्, लोहितोमत्स्यानाम्, गव्यम् सर्पिः - सर्पिषाम्, गोक्षीरं क्षीराणाम्, लोहितोमत्स्यानाम्, गव्यम् सर्पिः - सर्पिषाम्, गोक्षीरं क्षीराणाम्, तिलतैलं स्थावरवातानां स्नेहानाम्, वराहवसा - अनूपमृगवसानाम्, चुलुकीवसा - मत्स्यवसानाम् , हंसवसा - जलचरविहङ्गवसानाम्, कुक्कुटवसा - विष्टरशकुनिवसानाम्, आजमेदः - शाखादमेदसाम्, शृङ्गवेरं कन्दानाम्, मृद्बीका - फलानाम्, शर्करा - इक्षुविकाराणाम् इति यकृत्यव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि । एवं सङ्ग्रहेणोक्त्वा अनन्तरं धान्यादीनां स्वरूपमृणादिकं विस्तरेण निरूपितम् । तत्र धान्यं द्विविधम् । शुधान्यं शमीधान्यमिति । शुकधान्यानां सामान्यगुणास्तु शीताः रसे विषाके च मधुराः । म्वल्पमारुताः । बद्धाल्पवर्चसः स्निग्धाः बृंहणाः शुक्लमूत्रला इति ।
शप्नीधान्वजातिसामान्यगुणास्तु - गुर्व्यः मधुराः, शीताः, बलन्नाः, रूक्षणात्मकाः, सस्नेहाः । बलिभिर्भोज्याः विविधाः शिग्बिजातयः । फलवर्गस्य सामान्यगुणस्तु तृष्णा दाह ज्वर श्वास रक्त पित्त क्षत क्षयान् । वातपित्तमुदावर्तं स्वरभेदं मदात्ययम् । तिक्रास्यतामास्यशोषं कासं चाशु व्यपोहति । इति तत्तद्धान्यफलादिप्रभेदविशेषाणां गुणप्रभावादिनिरूपणं चरके द्रष्टव्यम् ।
अत्र सुश्रुतकारः शालिप्रभेदानेवं दर्शयति । रक्तशालिर्महाशालिः कलमश्शकुनाहृतः । तूर्णको दीर्घशूकश्च गौरः पाण्डुकलाङ्गलौ । सुगन्धिकालोहवालाः वारिवाच्याः प्रमोदकाः । पतङ्गास्तपनीयाश्च ये चान्ये शालयश्शुभाः । इति चतुर्दशशालि प्रभेदान् तेषां सामान्यगुणांश्च उक्त्वा रक्तशालिनां श्रैष्ठ्यं दर्शयति । यथा - रक्तशालिर्वरस्तेषां तृष्णाघ्नस्तिमिरापहः इति । (The red variety of rice is best for food among fourteen kinds of rice.) अत्र वाग्भटकृताष्टाङ्गहृदयस्य अरुणदत्तकृतसर्वाङ्गसुन्दराख्यव्याख्याने स्वरणादेर्वचनान्येव मुदाहृतानि । रक्तश्श्येनाहृतो गौरः सुगन्धः काञ्चनो महान् । पतङ्गः कलमः पाण्डुर्लोहावालः प्रमोदकः । दीर्घनालश्शीतभीरुः सारिवश्शङ्खमौक्तिकः । तूर्णको दीर्घशङ्खाख्यो लाङ्गल्याद्याश्च शालयः । शीतला मधुराः स्निग्धा ग्राहिणो मांसशुक्रलाः वातपित्तहरा बल्याः सृष्टमूत्राः सहायकाः ॥ स्निग्धश्शीतो लघुग्राही तृष्णाघ्नश्शुक्रमूर्तलः । रक्तशालिस्त्रिदोषघ्नः कलमो नु महारतः । वर्षे स्थितं सर्वधान्यं परित्यजति गौरवम् । न तु त्यजति तद्वीर्यं वीर्यं मुञ्चत्यतः क्रमात् ॥
गोधूमः सन्धानकृत् वातहरः स्वादुः-शितलः, जीवनः, बृंहणः, वृष्यः - स्निग्धः, स्थैर्यकरः । (Wheat unites fractures, destroys wind, agreeable to taste, cools the body, prolongs life, promotes formation, increases corpulency, enhances semen, makes the body constituents harmonious and united, and keeps them steady and enduring. It also helps the formation and growth of cells and tissues in the body.)
अन्यत्र गोधूमास्सर्वजन्तूनां बलपुष्टिविवर्धनाः । (Cf. The best known plant is our longest known gluten of wheat grain. It, as food, supplies energy as well as material for nourishment.) (तै. ब्रा. अ. १, प्र. ३, अ. ७) एवमुक्तं गोधूमं चषालम् । न वा एते व्रीहयो न यवा यद्गोधूमाः इत्यादिना व्रीहिभ्यो यवेभ्यश्च गोधूमानां लोके प्राशस्त्यं निरूपितम् । (For food, wheat is better than rice and barley, as it contains much more nitrogenous substance essential to nutrition.) अस्मिन् सन्दर्भे सोमस्य अन्नादपि श्रेष्ठत्वं पानयोग्यत्वमपि श्रुत्या दर्शितम् । यथा विपानं शुक्रमन्धसः (तै. ब्रा. अ. २, प्र. ६, अ. २) अतोऽयं सोमरसः, अन्धसः - अन्नरसादपि विपानं विशेषेण पानयोग्यं शुक्रं शुद्धमिति यावत् । (तत्रैव अ. १, प्र. ३, अ. ३) देवानां परममन्नं यत्सोमः । मनुष्याणां यत्सुरापरमेणैहास्मासि अस्यार्थः - मनुष्याणां शालिमुद्गादिकं परमान्नम् । यावनालप्रियंग्वादिकमपरम् । यदा परमान्नसम्पत्तिः तदानीमपरान्नसम्पत्तिः किमु वक्तव्येति तात्पर्यं भाष्ये सूचितम् । अत्र उपदिष्टस्य सुराशब्दस्य स्वरूपमन्यत्र श्रुतौ एवं निरुक्तम् । यत्ते रसस्संभृत ओषधीषु । (तत्रैव अ. ३) अस्यार्थः - हे सुरे ! योऽयं ते रसः ओषधीषु । व्रीह्यादिषु संभृतः, सम्पादित इति ।
ओषधयश्च पुनः द्विविधाः
सप्त ग्राम्याः । सप्त आरण्याः । तत्र तिल, माष, व्रीहि, यव, प्रियंग्वर्णवो गोधूमाः ग्राम्याः । वेणुश्यामाकाः नीवाराः जर्तिलाः गवीधुकाः आरण्यजाः मार्कटकाः गार्मुकाः अथवा कुलुत्थाः इति सप्तारण्यकाः । तत्र - मुद्गाढकीमसूरादि शिंबीधान्यं विबन्धुकृत् । कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु । मेघश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः । इति योगरत्नाकरे दर्शितम् । तत्रैव - मुद्गः अल्पचलः । कलायः - अतिवातलः । चणकः - वातलः । कुलुत्थः - कफवातहृत् इति च दर्शितम् । अथ अन्यधान्यानां शाकानां शाकानां फलानां च गुणप्रभावादिविवरणम् अप्रकृतमपि दिक्प्रदर्सनार्थमत्र किञ्चिदुच्यते ।
शाकास्तु - पटोल, बृहती, कर्कोटक, वार्ताक, भेंडी, बिम्बीफल, कूष्माण्द, मिष्टतुम्बीफल, त्रपुस, कोशातकी, शतपुष्पा, वास्तुक, लघुदला, चिल्ली, तण्डुलीया, चाङ्गेरी, सर्षपपत्र, कौसुम्भ, चणक, शाकशिग्रु, मधुशिग्रु, शिग्रकुसुम, शोभांजनार्द्रा, कुस्तुम्बुरु, कदलीकुसुमाऽगस्त्यपुष्पाऽगस्त्यशाक, शतपत्री, मूलक, सूरण, गर्जर, कदली, कन्द, गौरवाकुची, क्षुपमरीच, बृहन्मरीच, बालुक, श्वेतशाकूट, श्यामलशाकूत, बालद्राक्षा, मध्यद्राक्षो, पक्वद्राक्षाऽम्रबीजाऽम्रपल्लव, पनस, कदल्यादयः । तत्र पटोलम् हृद्यं कृमिजित् स्वादुशीतम् । बृहतीद्वयं पित्तलं दीपनं वातघ्नम् । वार्ताकं कफवातघ्नम् । भेंडी - ग्राहिका । बिम्बीफलं स्वादु । मिष्टतुम्बीवृष्यम् । त्रपुसं मूत्रलम्, कोशातकी - आमाशयशोधिनी । चाङ्गेरीकफवातास्रसङ्ग्राहिण्यतिसारजित् । एवमेव अन्येषां शकपत्रादीनां गुणाः ग्रन्थान्तरेषु सुविशदं निरूपिता वर्तन्ते ।
एतैर्धान्यशाकफलादिभिः निष्पादितः आहारः पड्विधः । पेय - चोष्य - लेह्य - भक्ष्य - भोज्य - चर्व्यभेदादिति योगरत्नाकरे । भक्ष्यभोज्यलेह्यचोष्यभेदेन चतुर्विध इत्यन्यत्र ॥
तथैव आहारोपयुक्तफलानि
आम्र कदली पनस नारिकेल खर्जूर द्राक्षा दाडिमामलक वदर सौवीर जम्बू कर्बूज वातामाक्षोसेव्य सीताफल रामफल शृङ्गाट लघुपीलु महापीलु सुस्वादु कैतकबीज पूरनारङ्ग जम्बीराम्लवेतसकर्मरङ्गनिम्बूकफलाम्लिकाकरमर्दकपित्थाम्रात पूगलशुनपलाण्ड्वादयः । एतेषां - सामान्यगुणाः - मधुराद्वर्धते रक्तमम्लान्मञ्जा प्रवर्तते । लवणाद्व्र्धते त्वस्थि तिक्तान्मेदः प्रवर्धते ॥ कटुकाद्वर्धते मांसं कषायाद्वर्धते रसः । अन्नाच्च वर्धते शुक्रं षड्रसा धातुवर्धकाः ॥ इति । एतेषु आम्रं मधुरं वृष्यं स्निग्धं हृद्यं बलप्रदम् । पनसं शीतलं स्निग्धं बल्यम् । कदलीफलम् - मधुरं शीतं स्निग्धं विष्टम्भि । नारिकेलफलं शीतं दुर्जलं बस्तिशोधनं विष्टम्भि बृंहणं बल्यम् । खर्जूरिकाफलं शितं स्वादु स्निग्धं बल्यम् । द्राक्षा - सारा शीता चक्षुष्या बृंहिणी गुरुः । दाडिमं - ग्राहिदोषध्नं हृद्यं रोचनं दीपनम् । आमलकं पथ्यं सरं दोषघ्नं रोचनं दीपनम् । बदरं लघु रुच्यमुष्णं संग्राहि । एवमेव अन्येषां फलानां गुणाः अन्यत्र विज्ञेयाः । अन्यत्र - अभुक्त्वामलकं पथ्यं भुक्त्वा तु बदरीफलम् । कपित्थं सर्वदा पथ्यं कदली न कदाचन । इत्यप्युक्तम् । एवं दिक्प्रदर्शनेन प्राचीनार्यैः आहारोपयुक्तप्दार्थानां गुणदोषशोधनं सम्यग्विज्ञाय परिशोध्य प्राणिनां हिताय ते गुणदोषाः शास्त्रेषु प्रदर्शिताः इति विज्ञायते । ग्रन्थविस्तरभयादत्र सर्वेषामाहारपदार्थानां विचारेऽकृतेऽपि चरकादिवैद्यग्रन्थावलोकनेन तेषां विज्ञानं विविधिषूणां सुकरं भवेदिति सूच्यते ।
वृक्षपरीक्षा
वर्जयितव्योपयोक्तव्या वृक्षाः
श्मशानोद्भूताः मार्गस्थाः देवालयप्रान्तीयाः वल्मीकसमीपस्थाः उद्याने प्रवृद्धाः तापसाश्रमेषु विद्यमानाः चैत्यप्रदेशस्थाः नदीसङ्गमसमीपोद्भवाः घटतोयसिक्ताः कुब्जवृक्षाः लतासंवेष्टिताः वज्रेण वा वायुना वा हताः स्वयं पतिताः गजभग्नाः शुष्काः अग्निप्लुष्टाः मधुनिलयाः एते वृक्षाः त्याज्याः । अन्ये स्निग्धाः पत्रकुसुमफलयुक्ताः अभिमता वृक्षाः ग्राह्याः । तेषु देवदारु चन्दन शमी मधूकतरवः श्रेष्ठाः ब्राह्मणानां च शुभाः यज्ञादिषु उपयोज्यत्वात् । अरिष्टाश्वत्थखदिरबिल्वाः ग्राह्याः क्षत्रियाणां वृद्धिकराः, धनुषामायुधादीनां च उपयोगकतत्वात् । जीवक खदिर सिन्धूकस्यन्दनाः वैश्यानां शुभफलदाः । शकटादीनामक्षादिसाधनसाधकत्वात् । तिंदुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणां शुभदाः हलादिकृषिकरणोपयोगित्वात् । अत्र जातिविभागप्रदर्शनं तत्तदभिलषितकार्यकलापोपयोगापेक्षयेति मन्तव्यम् । सामान्यतः उपयोगकराः वृक्षास्तु वेतसजम्बूदुम्बरार्जुन पलाश बदरी बिल्व काकोदुम्बर कंपिल्लक शोणाकविभेतक कोविदार सप्तपर्ण करञ्ज मधूक तिलक कदम्ब ताल कपित्थाऽश्मंतक हरिद्र प्रलम्ब शाखाऽऽम्रातक वरुणक भल्लातक तिन्दुकारकोल पिण्डार शिरीषाञ्जन परुषक वञ्जुलातिबलपीलु करीर रोहितकेन्धुतरु सुवर्णतरु रोहितक ककुभशमी प्रभृतयः । सर्व एते प्रशस्ता अपि केचित्प्रशस्ततराः केचित्प्रशस्ततमाः भवन्ति ॥
इन्द्रध्वजनिर्माणार्थं वर्जयितव्याः वृक्षाः
उद्यान देवतालय पितृवन वल्मीक मार्ज चितिजाताः, कुब्जा अर्कशुष्काः कट्णकि वल्ली मदाकवृक्षाश्च, बहुविहगालयकोटरा सततानलपीडिताश्च ये तरवः, ये च स्युः स्त्रीसंज्ञाः, न ते शुभाः शक्रकेत्वर्थम् इति निर्दिष्टम् । वनस्पतिषु केचिदच्छायाः, केचित्पूतिकुसुमाः केचित्फलरहिताः, केचिदेकशाखाः अथवा केचिदच्छायाः पूतिकुसुमाः, फलरहिताः, एकशाखाश्च भवन्ति, ते सर्वेऽपि निन्द्या इति वाग्भटस्य वचनमप्यादरणीयम् ।
सजातीयेषु वन्स्पत्यादिषु अन्यवृध्द्या अन्यवृध्द्यभ्यूहः
वनस्पतीनां फलकुसुमवृद्धिं विलोक्य द्रव्याणां सस्यानां च निष्पत्तिः अनुमानेन अथवा अभ्यूहेन विज्ञायते । यथा शालेनकलमशाली । रक्ताशोकेन रक्तशालिः । क्षीरकया - पाण्डूकः । नीलाशोकेन सूकरकः । न्यग्रोधेन यवकः । तिन्दुकवृध्या षष्टिकः । अश्वत्थेन सर्वसस्यानां निष्पत्तिः, इत्यादिना तत्तद्वनस्पतेस्सम्प्रवृध्या तत्तत्सस्यसंप्रवृद्धिस्सूचिता । तथैव पश्वादिवृद्धिश्च कनकादिवृद्धिश्च दर्शिता । यथा हस्तिकर्णिवृध्या गजानाम्, अश्विकर्णिवृध्द्याश्वानाम्, पाटलाभिर्गवान्, कदलीभिरजाविकानां वृद्धिर्भवतीति । तथा चम्पककुसुमैः कनकम्, बन्धुजीवैः विद्रुमः, कुरवकैः वज्रं नन्दिकावर्तैः वैडूर्यं सिन्धुवारैः मौक्तिकं समृद्धिं गभिष्यतीति च भविष्यं सूच्यते । एवमेव कुसुंमैः कारुकाणां रक्तोत्पलेन राज्ञां नीलोत्पलेन मन्त्रिणां वृद्धिः उदाहृता । अथ च आम्रैः क्षेमं भल्लातकैः अभयं पीलुभिः आरोग्यं खदिरशमीभ्यां दुर्भिक्षम् अर्जुनैस्सुवृष्टिः इति च सूचितम् । एवमादिनिर्देशे, को वा कार्यकारणभावः का वा उपपत्तिः किं वा रहस्यं भवतीति आधुनिकविमर्शकानां विविदिपूणां विचिकित्सा साधु सञ्जायेत । सर्वमप्यनवद्यं भवतीति तत्वविदामाशयः । यतः सर्वेषामपि पदार्थजातानां पाञ्चभौतिकत्वं प्रसिद्धम् । अतः तत्तद्भूतानामुपचयापचयादिगुणाः यत्र यत्र दृष्टा भवन्ति तद्बलेन तत्तद्भूतोपचयापचयादिगुणैः अभिनिष्पद्यमानेषु अन्येषु पदार्थेषु तादृगुपचयापचयादिगुणान् न्यायतोऽनुमातुं शक्यते । यथा शालिवृक्षः कलमशालिश्च स्वस्वसम्प्रवृध्द्यै अब्बाहुल्यमपेक्षेते तच्च शालिसम्प्रवृद्धौ दृष्टं सत् कलमशालिसम्प्रवृद्धौ अनुमीयते । एवमेव चम्पककुसुमं कनकं च तेजसः आधिक्यमपेक्षेते । तत्तयोर्निमित्तनैमित्तिकभावः । आम्रो मधुररसोत्पादकभूतान्यपेक्षते । तत्ततः क्षेमं निर्दिश्यते । एवमेव अन्येषां पूर्वोक्तानां निमित्तनैमित्तिकभावो द्रष्टव्यः । परंपरासम्बन्धेन कार्यकारणभावो वा उन्नेयः । यस्य कार्यस्य यो भूतः कारणं भवति तत्कारणोत्पादितं कार्यमन्यत्र तत्सदृशे अनुमीयते । अश्रुतं वाक्यं रहस्यं भवेत् सर्वं शास्त्रसिद्धमनवद्यं भवति ॥
पृथ्वीपरीक्षा (Test for Agricultural Soil)
श्वेताभ्र शर्कराश्म विषम वल्मीक श्मशानदेवतायतनसिकताभिरनुपहताम् अदूराद्ग्रामसमीपे एकां स्निग्धां प्रारोहवतीं मृद्वीं स्थिरां समां कृष्णां लोहितां वा भूमिमौषधार्थं (For growing crops or medicinal herbs) परीक्षेत । तस्यां जातमपि कृमिविषशस्त्रातपदवदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृथिव्यवगूढमूलमुदीच्यामोषधिमाददीत इति भूमिपरीक्षासामान्यम् । विशेषस्तु तत्राश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षसस्यप्राया, स्वगुणभूयिष्ठा (पृथ्वीगुणभूयिष्ठा) ; स्निग्धा, शितला सन्नोदका स्निग्धसस्यतृणकोमलवृक्षप्राया, शुक्ला, अम्बुगुणभूयिष्ठा ; नानावर्णलध्वश्ववती, प्रविरला, अल्पपांडुवृक्षप्ररोहा, अग्निगुणभूयिष्ठा ; रूक्षा, भस्मरासभवर्णा, तरूडुकोटरा, अल्परसवृक्षप्राया, अनिलगुणभूयिष्ठा ; मृद्वी, समा, श्वभ्रवती - अव्यक्तरसजला - सर्वतोऽसारवृक्षा - महापर्वतावृतप्राया, श्यामा, आकाशगुणभूयिष्ठा ; इत्युक्तम् ।
देशः (ग्रामो वा) वृष्ट्यंबुव्रीहिपालितः (Crops on dry land) नद्यंबुव्रीहिपालितः (Crops on wet land) इति च दर्शितम् । किं च प्रथमभूतस्य - देवमातृक इति द्वितीयस्य नदीमातृक इति व्यवस्था ॥ (Crops dependent on rain water and those fed by rivers, tanks, canals, wells, etc). जलप्रायं अनूपं भूतलं क्षारमृत्तिका भूः ऊषरेति च विदितं (Cultivable and uncultivable.)
सौम्याग्नेयत्वाञ्जगतः सौम्यान्यौषधानि सौम्येषु ऋतुषु आददीत । कार्तिकफलानि । आग्नेयान्याग्नेयेषु वैशाखफलानि । एवमप्यव्यापन्नगुणानि भवन्ति । सौम्यौषधानि, सौम्येषु ऋतुषु गृहीतव्यानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते । अन्यथाऽन्यानि ।
सस्यारोपणे बीजाऽवापे च कालपरीक्षा
(Time for Sowing, Planting and Manuring)
(तै. ब्रा. अ. २, प्र. ६, अ. १९) वसन्तर्तुः आयुर्वृद्धिकरः । ग्रीष्मर्तुः - बलकरः । वर्षर्तुः - वैश्यानुग्रहकरः । शरदृतुः - श्रीकरः । हेमन्तर्तुः - बलप्रदः । शिशिरर्तुः - अविनश्वरबलप्रदः ।
वृक्षायुर्वेदे बीजारोपणविधिः यथा - मृद्वी भूः सर्ववृक्षाणां हिता । तस्यां तिलान्वपेत् । पृष्पितांस्तांश्च मृद्रीयात् । कर्मैतत्प्रथमं भुवः । काश्यपः - दूर्वावीरणसंयुक्ताः सानूपाः मृदुमृत्तिकाः । तत्र वाप्याश्शुभा वृक्षाः सुगंधिफलशालिनाम् ॥ अरिष्टाशोकपुन्नागशिरीषास्सप्रियंगवः । मङ्गल्याः पूर्वमारामे रोपणीया गृहेषु च ॥ पनसाशोककदलीजम्बूलकुचदाडिमाः । द्राक्षापालीवनाश्चैव बीजपूरातिमुक्तकाः ॥ एते द्रुमाः काण्डरोप्याः गोमयेन प्रलेपिताः । मूलोच्छेदेऽथवा स्कन्धे (Grafting) रोपणीयाः परं ततः ॥ तेऽपि वृक्षाः जातशाखाः अजातशाखाः अस्कन्धा इति त्रिविधाः ।
वृक्षारोपणकालः (Season for planting)
शिशिरे जातशाखान् हैमे अजातशाखान् वर्षासु अस्कन्धान् क्रमशः रोपयेत् ।
लेपविधिः - घृतोशीरतिलक्षौद्रविडंगक्षीरगोमयैः । आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ॥
सेककालः (Time for watering plants)
सायंप्रातश्च घर्मर्तौ (Plants are to be watered both morning and evening in summer). शीतकाले दिनान्तरे (Only on alternate days in winter) वर्षासु च भुवश्शोषे सेक्तव्या रोपितद्रुमाः (Even in rainly season the first planted trees should be watered, if the soil gets very dry.) जम्बूवेतसवानीरकदम्बोदुम्बरार्जुनवीजपूरकमृद्वीकलकुचदाडिमवंजुलनक्तमूलतिलकपनसतिमिराम्राताश्चेति षोडशविधवृक्षाः अनूपस्थलेषु (षडूदकस्थलेषु) जायन्ते । (Soil containing plenty of water is favourable for the growth of these sixteen kinds of trees.)
जलबलम् (Water effect on the plants)
अपां द्रवणे रसः तेजसे भवति । ऊर्मौ रसः वीर्याय भवति । मध्यतो रसः पुष्ट्यै भवति । यज्ञियो रसः दीर्घायुत्वाय भवति (तै. ब्रा. अ. २, प्र. ७, अ. ७).
आरामकल्पनोद्देशः
प्रातच्छायदिनिर्मुक्ता न मनोज्ञा जलाशयाः ।
यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥
उद्यानादिषु वृक्षाणामन्तरम्
(Inter - spaces between trees)
उत्तमं विंशतिहस्ताः (Best if it is 20 cubits or 30 feet), मध्यमं षोडशान्तरं (Middle or ordinary it is 16 cubits or 24 feet), स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् (In any case the inter - space between any two trees should not be less than 12 cubits or 18 feet). कुतोन्तरं कार्यम् (Why is interspace required ?) अम्याशजातास्तरवः संस्पृशन्ति परस्परम् । मिश्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः ॥ (The trees do not freely bear fruit if they are planted close to one another as their roots interpose one another obstructing free growth.)
वृक्षादीनां रोगज्ञानम्
(Mycology and Entomology)
शीतवातातपै रोगो जायते पाण्डुपत्रता । अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः । (These are indications of plant pest.)
चिकित्सा (Treatment)
चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् । विडङ्गघृतपङ्काक्तान् सेचयेत्क्षीरवारिणा ॥ तथा च काश्यपः - शाखा विटपपत्रैश्च छायया पिहिताश्च ये । येऽपि पर्णफलैर्हीना रूक्षाः पत्रैश्च पाण्डुरैः ॥ शीतोष्णवर्षवाताद्यैः मलैर्वा मिश्रितैरपि । शाखिनान्तु भवेद्रोगो द्विपानां लेखनेन च ॥ चिकित्सा तेषु कर्तव्या ये च भूयः पुनर्नवाः । शोधयेत्प्रथमं शस्त्रैः प्रलेपं दापयेत्ततः । (First remove the diseased portion by suitable instruments, then apply or cover it with a chemical paste.) कर्दमेन विडङ्गैश्च घृतमिश्रैश्च लेपयेत् । क्षीरतोयेन सेकस्स्यात् रोहणं सर्वशाखिनाम् । फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः । शृतशीतपयस्सेकः फलपुष्पसमृद्धये । (These are the various means of removing insect pests).
दोहदक्रिया (Manuring)
आविकाजशकृच्छूर्णस्याढके द्वे तिलाढकम् । सक्तुप्रस्थो जलद्रोणो गोभांसतुलया सह । सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः । वल्लीगुल्मलतानां च फलपुष्पाय सर्वदा ॥
बीजावापविधानम् । (Sowing or Horticulture)
वासराणि दश दुग्धभावितं (Soaked in milk for 10 days) बीजमाज्ययुतहस्तयोजितम् । गोमयेन बहुशो विरूक्षितं क्रौडमार्गपिशितैश्च धूपितं ॥ मांससूकरवसासमन्वितं रोपितं च परिकर्मिता वसा । क्षीरसम्मितजलावसेचनं जायते कुसुमयुक्तमेव तत् ।
वल्लरीकरणं तिन्तिडीविधानं कपित्थबीजारोपणमङ्कोल श्लेष्मातकादीनां रोपणं च मूले सुविशदं दर्शितम् । यथा - तिन्तिडीबीजं व्रीहिचूर्णमाषचूर्णतिलचूर्णसक्तुभिः एकीकृतैः पूतिमांससहितैः सिक्तं कृत्वा हरिद्रया धूपयेत् । एवं कृतेतिन्तिडीबीजनपि वल्लरीं करोति । अपिशब्दात् अन्यबीजस्य वल्लरीकरणे कः संदेहः ? तथा - कपित्थवल्लरीकरणाय आस्फोत (कोविदारभूपलाश) धात्रीधववासिकानां (Perfuming) मूलानि वेतसवृक्षस्य समूला पलाशिनीवल्ली । एवमेव सूर्यवल्ली श्यामा वल्ली अतिमुक्तः । एषां मूलैस्सहिता अष्टमूली भवति । अनया अष्टमूल्या सह क्षीरे क्वथिते अनन्तरं सुशीते कृते तन्मध्ये कपित्थबीजं तालशतं (तालः = हस्तशब्दः शतगुणितेन हस्तशब्देन यावान् कालः तावत्पर्यन्तमित्यर्थः) संस्थाप्य ततो गृहीत्वा सूर्यरश्मिभिः शोषयेत् । एवं मासपर्यंत प्रतिदिनं विधाय अनन्तरमारोपणीयम् । तदर्थं हस्तप्रमाणमायतं गर्तं समन्ततः वृतं कृत्वा द्विहस्तप्रमाणं स्वात्वा क्षीरोदकेन पूरयित्वा ततः तं शोषयेत् । शुष्कमग्निना दहेत् । शुष्कं प्रदग्धञ्च मधुना घृतेन च भस्मयुक्तेन लेपयेत् । ततस्तमवटं (गर्तं) मृदा चतुरङ्गुलप्रमाणं पूरयित्वा मध्ये माषतिलयवचूर्णैः पूरयित्वा पुनरेवं कृत्वा ततः मत्स्यमांसयुक्तजलेन यावत्तदवटः काठिन्यं प्राप्यते तावत्पर्यन्तं पुनह् पुनः क्षोदयेते । ततः चतुरङ्गुलाधः प्रदेशे बीजमुप्तं मत्स्यांभसा सेचितं चेत् क्षिप्रमेव शुभप्रवाला वल्ली सम्पद्यते । इयं विस्मयजननी मण्डपमाच्छादयति । एवं शतशोऽङ्कोलसम्भूतफलकल्केन भावितं एतत्तैलेन वा बीजं श्लेष्मातकफलेन वा वापितं करकोन्मिश्रमृदि तत्क्षणजन्मकं फलभावान्विता शाखा भवति इति किमद्भूतम् ।
तथैव श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत्प्राज्ञः अङ्कोलविज्जला (पिच्छिल) द्भिश्छायायां सप्तकृत्वैवं माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य करकाजलमृद्योगे न्युप्तान्यह्ना फलकराणि इति च दर्शितम् ।
वृक्षारोपणनक्षत्राणि
उत्तरा, रोहिणी, अनूराधा, चित्रा, मृगशीर्षम्, रेवती, मूलम्, विशाखा, पुष्यम्, श्रवणा, अश्विनी, हस्तः एतानि द्वादशनक्षत्राणि वृक्षसंरोपणाय दिव्यदृग्भिः गर्गादिमुनिभिः कथितानि ॥
वृक्षजातकम्
ज्योतिश्शास्त्रप्रवर्तकान्यतमेन वराहमिहिराचार्येण बृहज्जातके तावत् वृक्षजातकविज्ञानप्रकरणे एवमुक्तं भवति - होरेन्दुसूरिरविभिर्विबलैस्तरूणां तोयस्थले तरुभर्वोऽशकृताः प्रभेदः । लग्नाद्ग्रहस्थलजलर्क्षपतिश्तु यावांस्ताधन्त एव तरवः स्थलतोयजाताः । लग्नेन्दुजीवादित्याः यदा दुर्बलाः तदा प्रश्ःटा तरूणां जन्म पृच्छतीति विज्ञायते । तेषां जन्म किं जलेवा स्थले वा इति लग्ननवांशकृतभेदः वक्तव्यः । किं च लग्नाद्ग्रहपतिः यावति राशौ स्थितः तावत्सङ्ख्याकाः वृक्षाः इति च वक्तव्यमित्यस्य श्लोकस्य सङ्ग्रहार्थः । एतेन ज्योतिश्शास्त्रबलात् व्यवहितानां वृक्षादीनां जन्म तत्सङ्ख्याश्च निश्चेतुं पार्यते इत्युक्तम् । (This foretelling is possible for one who knows and correctly calculates the planetary influences upon trees established in Indian Astronomical works.)
वनस्पतिद्रव्येम्यस्स्मासादितवस्तुरचना
एते वनस्पतिद्रव्यसमासादिताः वाणिज्यार्हेषु विधानेषु मुख्यतमाः विधयः - नीलीवर्णविधिः (Manufacture of fast colour of Indigo) । तुवरीमंजिष्ठारागबंधविधिः (Manufacture of colours) । वज्रलेपनिर्माणम् (Preparation of cements) । रागद्रव्यरचना (Preparation of paints) । योगवर्त्तिकाकल्पना (Preparation of ointments which enable a man to see things at a distance) । गन्धद्रव्यनिर्मितिः (Preparation of scents) । स्तंबनचूर्णकल्पः (Preparation of powders having astringent property) इत्यादयः । वैद्यशास्त्रोक्त मात्रा (Pills), चूर्ण (Powders), कल्क (Ointments) कषाय (Mixtures), रसायनादि (Tonics etc.) कल्पना तु परस्सहस्ररूपा । (To prepare these medical drugs, there are thousands of methods shown in ancient medical works). । गृहनिर्माणोपयुक्तस्तम्भादिनिर्माणे, शकटरथादिरचनायां सिंहासनभद्रासनादिपीठकर्मविधौ, विविधविविचित्रसालभंजिकादिप्रकल्पेन, कृष्युपयुक्तहलादिनिर्माणविधौ, वास्तुविद्योपयुक्त (Carpentry), वाशिकुठाराद्यायुधावलम्बकदारुकर्मणि,यज्ञोपयुक्तचमसदमस्याद्युपकरणसंविधाने (Smithy and cutlery), नौकाप्लवद्रोणीमुखादिजलतरणसाधनविशेषनिर्माणचातुर्ये च (Building boats and ships) अति चतुरा एव आर्याः प्राक्कालिका अभूवत्, प्रागेव यदा देशान्तरेषु स्थितानां जनानां तादृशकुशलविद्यागन्धोऽपि नाभूत् । एतेन भारतीयार्याः वनस्पतिशास्त्रविज्ञानेन लोकोपयुक्तद्रव्यविशेषाणां निष्पादने, समासादने, संस्कृतौ, रचनायां, वाणिज्यवस्तुयातायातव्यापारे च कीदृक्कुशला अभूवन्निति बुद्धिमद्भिरुन्नेयम् । अनेनैव, भारतीयार्याणां विज्ञानप्रतिभा अन्यादृशी, संस्कृतिरुत्कृष्टा, अति प्राचीना भूत्वा देशान्तरद्वीपान्तरवासिनामुपदेष्ट्री आदर्शरूपा च भवतीति समर्थितं भवति ॥
ॐ तत्सत्
प्रथमोऽनुबन्धः (Appendix I)
देवपूजार्थं वनस्पतीनामुपयोगः
पाद्यार्थं - दूर्वा कमलं विष्णुक्रांतिः तुलसी वा ।
अर्ध्यार्थं - पुष्पाणि यवाः सर्षपाः दूर्वाः तिलाः कुशाः ।
आचमनीयार्थं - जातीफलं तक्कोलः लवंगः गंधाः ।
अभ्यङ्गलेपार्थं - चम्पकतैलं विविधपुष्पाणि ।
उद्वर्तनार्थं - कुङ्कुमपङ्कः केसराः आमलकादयः ।
स्नानार्थं - एला, उशीरः, नानाकुसुमानि ।
केशधूपार्थं - अगुरु अरविन्दानि चम्पकानि ।
तिलकार्थं - काश्मीरकस्तूरिका कर्पूरः पुष्पद्रवः चन्दनादीनि ।
पटरागार्थं - चम्पकतैलं सुरभिगन्धादयः ।
अक्षतार्थं - काश्मीरपङ्काङ्किततण्डुलानि यवा वा ।
पुष्पार्थं - मन्दार कुन्द करवीर लवङ्गपुष्प जाती जपा बकुल चम्पकादि नानाविधकुसुमानि ।
पूजार्थं - केतकी मालती कुरुम्बि जपा पुन्नाग वनमल्लिका मन्दारेरुवन्ति पारिजात शतदृत पाटल मल्लिका बकुल चम्पका कर्णिकार कुटज शिरीष कुन्द कल्हार सुरती माधव्यपामार्गातसी दाडिम कर्बुज कमल जाती पूगपुष्प लोध्र गिरिकर्णिका सेवंतिका कुमुद करवीर पाटली बिल्व नंद्यावर्त द्रोणपुष्प कपित्थपुष्प कांचनपुष्प निम्बपुष्प शमीपुष्प कदम्बपुष्प तमालपुष्पाशोकपुष्प सुगन्धराजपुष्पादीनि ।
धूपार्थं - गुग्गुलप्रभृतयः (वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः) ।
दीपार्थं - विविधवनस्पतितैलानि ।
नैवेद्यार्थं - नालिकेर रम्भाफलैरा जीरक नागर निशा कुसुम्बरीशाक मरीचादयः । ताम्राम्र द्राक्षाफल दाडिम कूष्माण्डकोशतक जम्बीर नारङ्ग बीजपूर यावादीनि ।
ताम्बूलार्थं - एला कर्पूर लवङ्ग तक्कोल क्रमुक गौर खदिर जातीफल कैतकपत्र ताम्बूलवल्लीदलादयः ।
पत्रपूजार्थं - माची बृहती बिल्व दूर्वा दुत्तूर बदर्यपामार्ग तुलसी चूत करवीर विष्णुक्रान्त दाडिमी देवदारु मरुवक सिन्दुवार जाती गण्डकी शमी अश्वत्थार्जुनार्क श्रीगन्ध जम्बीरमलक निर्गुण्डी कस्तूरिकापत्र भृङ्गराज मरुग दमन बदर्यादिपत्राणि ।
द्वितीयोऽनुबन्धः (Appendix II)
हिमालयाख्यपर्वतेषु अधः प्रदर्शितानि तरुलतापुष्पफलादीनि विष्णुधर्मोत्तरे दर्शितानि । यथा -
वृक्षाः - सालाः, तालाः, तमालाः, कर्णिकाराः, शाल्मलाः, न्यग्रोधाः, अश्वत्थाः, शिरीषाः, शिंशपाः, श्लेष्मातकाः, आमलकाः, हरीतकाः, विभीतकाः, चन्दनाः, कपित्थाः, रक्तचन्दनाः, वटाः, माहिण्डकाः, अश्वोटाः, अश्वकर्णाः, हस्तिकर्णाः, पनसाः, कोविदाराः, देवदारुमहावृक्षाः, कालियकाः, इत्यादिमहावृक्षाः ।
वृक्षविशेषाः - पद्मकाः, चन्दनाः, बिल्वाः, कुटजाः, हरिचन्दनाः, अगरुकाः, स्थूलिकाः, समशण्डिकाः, खर्जूराः, नारिकेलाः, प्रियालुवृक्षाः, आम्रातकाः, इङ्गुदाः, मन्दाराः, कोविदाराः, किंशुकाः, कुसुमांशवः, पलाशाः, शमीवृक्षाः, कलाशाः, वेतसाः, आम्लवेतसाः, रक्तातिरिक्तनारङ्गाः, रक्ताशोकाः, अशोकाः, आलुकाः, चरलुकाः, कुन्दाः, मुकुन्दाः, आटरूषाः, परूषाः, किराताः, किङ्कराताः, केतकाः, शोभाञ्जनाः, रज्जुकाः, मुकूलकाः, निकेचिताः, एते पुष्पफलभरितवृक्षविशेषाः ।
लताविशेषाः - सहकाराः, पीतयूथिकाः, श्वेतयूथिकाः, जाती, चम्पकाः, तुम्बुराः, उदुम्बराः, इत्यादयः पुष्पलताविशेषाः ।
फलपुष्पवृक्षाः - माषाः, लकुचाः, वरणाः, कामिवल्लभाः, पुष्पकुलाः, बकुलाः, भद्रकाः, पारिभद्रकाः, धाराकदम्बाः, कुटजाः, गिरिकुटजाः, कदम्बाः, ककुभाः, कर्कन्धवः, नीषाः, दीपाः, पालीवताः, दाडिमाः, इत्यादिफलप्रधानवृक्षाः ॥
प्रतानानि - पिप्पली, नागवल्ली, मरीचिः, नवमल्लिका, मृद्वीका, अतिमुक्तका, त्रपुसवारुतकूष्माण्डालाबूनां प्रतानानि । चिर्भटप्रतानम्, पटोलीप्रतानम्, कारवेल्लकप्रतानम्, कर्कोटकप्रतानम्, वार्ताकप्रतानम्, बृहतीफलप्रतानम्, इत्यादिशाकभूयिष्ठगुल्मविशेषाः ।
शाकाः - कल्हारमूलकादिशाकप्रधानाः, सुवर्चला, सर्पा सर्षपा, काकोली, क्षीरकाकोली, छत्रा, जातिच्छत्रा, काकमाची, शशकर्द, कन्दलधीरक, कालक, शाकविशेषाः ।
कन्दाः - विदार्याद्योषधिविशेषाः ।
वेणुविशेषाः - वेत्राः, वेणुलताः, कीचकवेणवः ।
तृणविशेषाः - काशाः, कुशाः, इत्यादयः ।
गुल्माः - इक्षुगुल्माः, कार्पासगुल्माः, तुवरीगुल्माः, दुकूलगुल्माः, कदलीगुल्माः, इत्यादयः ।
वैद्योपयुक्ता ओषधिविशेषाः - इरापुष्प, कुङ्कुमपुष्प, ग्रन्थिपर्णि, सुवर्णपुष्प, भूमिपुष्पादयः ।
कमलविशेषाः - शुकपत्रनिभाः, अतसीपुष्पन्निभाः, तपनीयसवर्णाः, पञ्चपर्णाः, रक्तोत्पलनीलोत्पलशृङ्गाटककशेरुकादिजलजानि ।
अत्र श्लोकाः -
न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम् ।
न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ॥
नागलोकोद्भवं यच्च नाकलोकोद्भवं च यत् ।
अनूपबन्धनोत्थं च तन्न यन्नास्ति यादव ॥
सदापुष्पफलं सर्वमजस्रं ऋतुयोगतः ॥