०२ सनातनभूविज्ञानम्

सनातन-भू-तत्त्वविज्ञानम्
Ancient Aryan Geology
लक्ष्यसङ्केतः (Motto)
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धमनश्नुते । (By rain and air, by heat and light, by life and soul, values are caused.) वसुंधरागर्भमनुप्रविष्टा वसुंधरातत्त्वविदो विशिष्टाः । वसुंधराङ्के बहुशो लुठन्तो वसुन्धरास्तन्यसुधां पिबन्ति । (Enter the heart, research and know the wonders in the earth, and all joys enjoy.)
उपक्रमः
अस्माभिः परिदृश्यमानं जगत् स्थावरजङ्गमात्मकम् । तत्र स्थावरपदार्थाः पर्वतवनस्पत्यादयः । जङ्गमास्तु - जरायुजाण्डजस्वेदजाः जन्तवः । सनातनवनस्पतिविज्ञाने वनस्पत्यादीनां विचारः कृतः । सनातनपश्वादिप्राणिविज्ञाने जङ्गमप्राणिनां स्वरूपधर्मकार्यादीनि यथावसरं विचारितानि । सानातनभौतिकविज्ञाने पञ्चभूतोत्पत्तिः तत्कार्याणि च सप्रमाणं विशदीकृतानि । तत्र पृथिवीस्वरूपादिकं सामान्यतो विचारितमेव । तथापि भूतलोपरिस्थानां पर्वतादीनां भूगर्भस्थानां जलतरुपाषाणादिवस्तूनां सुवर्णरजतादिधातूनां च विशेषतो निरूपणमावश्यकमिति मत्या इदं सनातनभूतत्त्वविज्ञान मारभ्यते । (Geology comprehends not only the entire range of mineral kingdom, but also the innumerable extinct races of animals and vegetables in the earth, of which it exhibits evidences of designs of contrivancy and of adaptiveness to the varying conditions - says a Geologist.)
सृष्टिक्रमः (Cosmogony)
जगत्पदार्थः कथमाविरभूदिति एतत्कारणनिरूपणपूर्वकं सुनिरूपितसृष्टिक्रमविचारेण विज्ञायते । (Cosmogony is the science which studies the formation of the earth, sun, moon and stars under the action of natural laws. Or it gives an account of the origin of the world and its development out of on original chaos - says a modern scientist.)
तत्र परमाणुवादः (Atomic Theory)
सर्वाणि द्रव्याणि परमाणुसङ्घातात्मकानि । तेषां कारणभूतानि पञ्चमहाभूतानि । (Five gross elements.) तेषां कारणभूतानि पञ्चतन्मात्राणि । (Five subtle elements or electrons). तानि परमाण्वात्मकानि नित्यानि निरवयवानीति हि नैयायिकवैशेषिकाणां मतम् । तथा चोक्तं मानसोल्लासे - उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः - प्रपञ्चस्य कार्यद्रव्यात्मकस्य परस्परसंयुक्ताः परमाणवः कारणम् । (Atoms and molecules are the material cause of the worlds.) ते निरवयवाः । (Atoms have no parts.) ते परमसूक्ष्मद्रव्यविशेषाः । (They are very subtle units of matter.) ते जगतः उपादानम् आश्रयविशेषाः । (They are the material cause of the worlds.) तद्गतगुणविशेषाश्च तदुपादानकाः । (The different kinds of atoms are the causes for their different characteristics.) कर्मापि मूर्तद्रव्यसमवेतत्वात्तदुपादानकमेव । (All activities have their origin in the different kinds of atoms in which they reside.) नित्यद्रव्यगुणजातिविशेषसमवायास्तु नित्या एव । न तेषां कारणापेक्षा । (Certain eternal entities such as - genus, inherent relation, need no cause, because they are eternal.) एतदतिरिक्तं च भावरूपं न किञ्चिदस्ति । (Positivism requires no other cat egory.) अभावश्च भावप्रतियोगिकः न स्वतंत्रः । (Negation is the counterpart of any positive element, and thus not independent.) यस्याभावः विवक्ष्यते स प्रतियोगी । एवं प्रपञ्चस्य ईश्वरानुपादानत्वं नैयायिकस्साधयति । (According to this school, God has nothing to do with creation.) कारणभूतपरमाणुगतरूपरसादिगुणाः कार्ये समानजातीयगुणान्तरम् आरभन्ते । (The characteristics and qualities of the causes develop in the effects also.) अत्र श्रुतिरपि - भूमिर्भूमिमगान्माता मातरमप्यगात् - (अत्र माता इति आकाशस्य नाम) अस्यार्थः - भूमिर्भूमिमगात् - भूमेर्विकारभूतम् उदधानं स्वप्रकृतिमेव भूमिमगात् । माता = अन्तरिक्षम् उदधानगतमाकाशं मातरं बहिराकाशम् अप्यागात् (अप्ययः प्रलयः) = एकीभवतीति तात्पर्यम् । द्व्यणुकादिपरमाण्वादिगतसंख्यायोनित्वाङ्गीकारात् परत्वापरत्वयोः दिक्कालपिण्डसंयोगयोनित्वाङ्गीकारात् इति तत्र हेतुश्च प्रदर्शितः । (For, this school recognizes the number of atoms and molecules, the time, space, etc., as necessary factors for effecting any aggregate.) कार्योत्पत्तेः त्रीणि कारणानि - समवायिकारणम् - उपादानकारणम् (Material cause), असमवायिकारणम् - सहकारिकारणम् (Auxiliary cause), निमित्तकारणम् (Instrumental cause or agency). अस्मिन् मते ईश्वरः निमित्तकारणम् - जीवाः अनेके इति विवेकः । (This school recognizes God as the instrumental cause of the Universe and every creature as endowed with soul and thus admits the plurality of souls. - This is the genesis of the atomis theory of the Ancient Aryans.) - Here compare what Kant says - “The primordial atoms by gravitational attraction continuously fall in upon one another and in so doing become hotter just as the bullet becomes hot in striking the target.”
अथर्ववेदे (२-१-५) परिविश्वा भुवनान्यायमृतस्य तन्तु दृशेकम् इत्मा परमेश्वरः तन्तुवायुः ; जगत्पटः पटरूपकार्यस्य उपादानकारणानि सूत्राणि (तन्तवः) । ते तु पटात्सूक्ष्मतराः । (इदमेव वैशेषिकमतबीजम्) तन्त्रमेके युवती विरूपे अभ्याक्रमं वयतः षण्मयूखान् । प्राण्यातन्तून् तिरते धत्ते अन्या नापबृञ्जति न समाते अन्तम् अनेन परमाणूनां बहुत्वं विजातीयत्वं च सूचितम् ।
सांख्यानां प्रकृतिपरिणामवादः (Theory of Matter and Force)
प्रधानगुणास्त्रयः - सत्वम् - रजः - तम इति - (Primordial matter has three characteristics, viz., the substratum, endowed with energy and light, in the state of equilibrium ; the dynamic power or force, that is responsible for all kinds of movements and chages ; and Inertia which hinders progress and keeps the matter in static condition.) एतत्त्रिगुणानाम् अल्पाधिकतारतम्यमेव विविधशरीरोत्पत्तेः नानाविधविचित्रकार्याणां च मूलम् । (The different combinations of these three qualities cause difference in the aggregate or body in behaviour and conduct and in the being and doing of all thigs in the world.) सत्वरजस्तमसां परिणाम एव सर्वेषां पदार्थानां कारणम् । The change of the three states of matter is the cuase for all the varieties we see in the creation. (Cf.) “All things were formed out of the difision in different proportions of fire, air, earth and water” said Empidocles - (400 B.C.).
गुणसाम्यात् अव्यक्तमायामूलप्रकृतिसंज्ञिका । गुणवैषम्यात् रूपाढ्या महातत्वाभिमानिनी इति केचित्परिणामवादिनः ।
तेष्वन्ये एवं वदन्ति - सर्वं सृष्टिजातं प्रकृतिविकारजन्यम्, अव्याकृतमेव प्रकृतिः । [The whole creation is due to changes arising from unchangeble promordial principle or matter called Prakriti. (The first cause, i.e., प्रकृतेः प्रथमो विकारः - महत् (अव्यक्तम्), महतोऽहंकारः, तस्मात्पञ्चतन्मात्राणि, तेभ्यः पञ्चमहाभूतानि । The first change is (महत्) Mahat, the Ego pronciple in unmanifested state, when it becomes
manifested, it is Ego (अहंकार) which gives rise to five very minute principles, which are smaller than atoms and hence cannot be seen either by the naked eye, or by any known apparatus. Hence they are termed “Tanmatras” (तन्मात्राः) electrons. When they can be seen, by any means, they are termed gross matter “Mahabhutas’ (महाभूत) ; but they give rise to five different kinds of matter possessing different properties. This is expressed thus - भौतिकसृष्टेरभौतिकसृष्टिपूर्वकत्वादभौतिकसृष्टिरेव विशेषेण कार्यं करोति इति ।]
स्वभाववादः (Theory of Nature)
सर्वे पदर्थाः स्वभावाञ्जायन्ते - स्वभावेन तिष्ठन्ती - त्यादि स्वभाववादिनां (बौद्धमतप्रभेदवादिनां) मतम् । (The doctrine is that the Universe was produced and is sustained by the natural and necessary actions of substances according to their inherent properties. This theory is almost akin to the theory of the natural behaviour and environments of the modern Geology. Here compare what Plato says - “All things have been created out of those absolutely inanimate elements by the action of chances and of foreces arising out of certain inherent affinities drawn of those natural bodies.”)
वेदान्तिनां सत्कारणवादः (Theory of Absolutism)
सृष्टेः प्राक् सदेवासीत् । अन्यत्किञ्चिदपि नासीत् । तच्च सत् - जातिगुणक्रियादिसर्वविकल्परहितं सन्मात्रम् । (Existence Absolute.) सतः भावः सत्ता । सा सर्वपदार्थेष्वनुवर्तते । अतः सर्वस्यापि सदेवोपादानकारणम् । (Material cause.) बीजे अङ्कुरादिवत् । सति (ब्रह्मणि) समस्तविचित्रप्रपञ्चोज्जृम्भणशक्तिरस्ति । तच्छक्त्या (मायया) तस्मिन्नेव जगद्विवर्तते । यथा अङ्कुरपल्लवशाखाविटपपत्रपुष्पफलादिषु बीजस्थसत्ता अस्तित्वेनानुवर्तते, तथा जगत्पदार्थेषु च सत्तानुवर्तते । कार्यकारणयोरभेदबुध्द्या सर्वं सदेव - ब्रह्मैवेत्यवगम्यते । कारणान्तर्गतं कार्यमिति न्यायेन समस्तदृश्यपदार्थेषु सत्ता स्फुरत्ता चानुवर्तते - यथा पुष्पं फलत्वमापद्यते, यथा क्षीरं दधिभावमापद्यते, तथा - विजातीयाः रूपरसादिगुणाश्च प्रवर्तन्त इति । (Cf. What A. E. Tayler says - “The real nature of material existence is the ultimate signs for causes of distinction between physical matter and spiritual existence and possibility of reducing them to one.”)
ईश्वरकारणवादः
(Theory of Personal Creator)
मायोपाधिके ईश्वरे जगत्सृष्टीच्छा जायते । तदीक्षणमात्रेण सृष्टिर्भवति । तत्क्रमस्तु - आत्मनः आकाशस्सम्भूतः - आकाशाद्वायुः - वायोरग्निः - अग्नेरापः - अद्भ्यः पृथिवी - पृथिव्याः ओषधयः - ओषधीभ्योऽन्नम् - अन्नात्पुरुष इति । (Compare and contrast the theory or speculation of S. Alexander, which is about the emergence of our world - order out of the most promitive space.)
मनुप्रभृतयः सांख्यमतसामञ्जस्यवादिनः केचिदेवं वदंति - अव्याकृतमेव प्रकृतिः । (The first cause - Spiritual or material or both identified as one promordial cause,) तस्य च सृष्ट्युन्मुखत्वम् - सृष्ट्याद्यकालयोगरूपं यत् तदेव महत्तत्वम् । (Consciousness for creation arises out of the First Cause. This is the first change.) ततो बहु स्यामिति अभिमानात्मकेक्षणकालयोगित्वम् । अव्याकृतस्य अहङ्गारतत्वम् । (The desire to become many constitutes the Ego - principle.) तत आकाशादिपञ्चभूतानि । (Thereupon evolves space, i.e., expansion of Ego ; from it Air - the motion or vibrations produced in the space ; from it fire, the heat and light produced from the pressure of air, from it energy required to produce water ; and from it the solidified state of liquid and from it everything in and on the Earth. (Cf. the recent speculation of S. Alexander is about the emergence of our world - order out of the most primitive space as stated above.)
॥ वैदिकानां ब्रह्माण्डशरीरवादः ॥
सुवर्णं धर्मं परिवेदवेनम् । ….. एकस्सन् बहुधा विचारः । ….. सर्वाः प्रजाः यत्रैकं भवन्ति इत्यादि (तै. आ. ३. ११.) अत्र भट्टभास्करः - एकमेव वस्तुविचित्रानन्तशक्तिकम् । वशित्वेशितृत्वादीनां गुणानां पराकाष्ठा वस्तुतोऽस्ति । तत् तादृशे स्वे महिम्नि सदा दीप्यमानं विविधानन्तरूपपरिग्रहेण विश्वमादर्शयति । तत्र तत्रानुप्रविश्य रमते । प्रथमं तु विश्वोपादानं सर्वार्थसाधनत्वेन सङ्कल्पयन् आविर्भावयति । तदात्मना स्वयमवतिष्ठते । यस्यानन्तप्रकाशस्य विस्फुलिङ्गास्सर्वेऽप्यात्मानः । अन्नमयादिपञ्चकविभागावस्थात्मकपरमाकारशरीरं ब्रह्मेति तदेवांशेन तत्तदात्मना स्वयमेवावतिष्ठते । तच्च यावदुपादेयं तदनुरूपमुपादानं प्रवर्तते । तदेव यदा सिसृक्षोपहितं केनचिदावृतमिव शरीरिवच्चाभिमन्यमानं भवति तदा महाशरीरो महापुरुष इत्युच्यते । यस्य लेशाः अण्डजादयः, त एव प्रतिनियतशरीराः जीवाः । एवं स्वसमवेतमायाशक्तिसहकृतो विचित्रचिदचित्प्रपञ्चरूपेण विजृम्भमाणो विश्वानि पृथिव्यन्ततत्त्वानि तात्त्विकांश्च भावान् अनुगृह्णाति इति सङ्ग्रहेण सृष्टितत्त्वं प्रतिपादयति । अयं वैदिकवादः वेदान्तवादान्नातिभिद्यते इति सूक्ष्मदृशां प्रतिभाति । यतः - तत्रैव - सर्वे वेदा यत्रैकं भवन्ति - वैदिकशब्दगोचराः श्रुतिस्मृतिपुराणेतिहासशास्त्रागमप्रभृतयः । वेद्या वा अर्थाः आत्मादिपृथिव्यन्ताः भावाः । ते च सर्वे यत्रैकं भवन्तीत्युक्तत्वात् ।
एवं सत्स्वपि बहुधा सृष्टिप्रकारेषु, भूतत्त्वविज्ञानपराणां बहुसम्मतोऽस्त्यन्यो वादः । स तु सत्कारणवादान्नातिभिद्यते अयं वादः वेदेषु बहुत्र दर्शितः । यथा -
॥ तमसावृतब्रह्माण्डवादः अथवा अनिर्वाच्यवादः ॥
(Nebular Theory)
नासदासीन्नो सदासीत्तदानीं । नासीद्रजो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् । अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न । रात्र्या अह्न आसीत् प्रकेतः । आनीदवातँ स्वधया तदेकं । तस्माद्धान्यं न परः किञ्चनास । तम आसीत्तमसा गूढमग्रे प्रकेतम् । सलिलँ सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत् । तमसस्तन्महिना जायतैकम् । कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । अस्यायमर्थः - यदा पूर्वसृष्टिः प्रलीना उत्तरसृष्टिश्च नोत्पन्ना तदा सदसती द्वे अपि नाभूताम् । नामरूपधिशिष्टत्वेन स्पष्टं प्रतीयमानं जगत् स च्छब्देनोच्यते । नरविषाणादिसमानं शून्य मसदि त्युच्यते । तदुभयं नासीत् । किंतु, काचिदव्यक्तावस्था (Nebulous) आसीत् । सा च विस्पष्टत्वाभावान्न सती । जगदुत्पादकत्वेन सद्भावान्नाप्यसती । इति यजुर्वेदब्राह्मणभाष्ये भट्टभास्करः । (अ. २, प्र. ८, अनु. ९.)
तदानीं = प्रलये असत् निरूपाख्यं नासीत् । तादृशस्य कारणत्वासम्भवात् । नापि सत् सत्त्वेन निर्वाच्यमासीत् । तद्रूपस्य तद्विलक्षणजगत्परिणामित्वासम्भवात् । तथा च अनिर्वाच्यम् (Nebulous) आसीदित्यर्थः इति ऋग्वेदभाष्ये सायणः ।
नासीद्रजः = रजश्शब्देन सत्वरजस्तमोगुणत्रयमुपलक्ष्यते । तत्त्रयं नासीत् अथवा रजांसि - लोका इति यास्कः । एकवचनं तु सामान्यापेक्षम् । व्योमादेर्वक्ष्यमाणत्वात्तदन्यलोकः तदानीं नासीदित्यर्थः । नो व्योम = आकाशवाचिना
व्योमशब्देन भूतपञ्चकमुपलक्ष्यते तदपि नासीत् । यथोक्तः गुणत्रयपञ्चभूतापेक्षया अपरः पदार्थोऽन्यो गिरिनदीसमुद्रादिको यो यः दृश्यते सोऽपि नासीत् । यथा भूतानि नासन् तद्वद्भौतिकमपि नासीदित्यर्थः । अनेन भूतभौतिकगुणत्रयनिषेधेन ब्रह्माण्डस्य निषेधः सम्पन्नः ॥
इममर्थमेवं सङ्ग्रहेण वदति सायणः - तथा व्योम अन्तरिक्षलोकः परः परस्तादुपरि द्युलोकादिसत्यलोकान्तं च तदा नासीत् ।
एवं चतुर्दशभुवनगर्भं ब्रह्माण्डं निषिध्य तदावरकत्वेन पुराणप्रसिद्धानि भूतानि निषेधतीति । किमावरीवः = आवरणस्य दृष्टिविषयभूतं किञ्चिदाव्रियमाणपेक्षितम् । तत्राण्डाभावात् किमावरीवः किं नाम वस्तु तैरावरणैराव्रियेत ? अतः सावरणकस्यासम्भवात् आवरणमपि न सम्भवतीत्यर्थः । अथवा किमावरणीयं कर्म, भूतजातमावृणोत् आवरणीयाभावात् आवरकभूतान्यपि न तदानीमासन्नित्यर्थः ॥
कुह कस्य शर्मन् = कुहेति देशाक्षेपः । कस्य शर्मन् इति निमित्ताक्षेपः । कुत्र देशे कस्य भोक्तुः सुखनिमित्तमिदमावरणं स्यात् ? न त्वस्ति तदा कश्चिद्देशः । नापि सुखस्य भोक्ता कश्चिद्विद्यते । अत्र कश्चिन्मन्दोऽवान्तरप्रलयविपयाम् - आपो वा इदमग्रे सलिलमासीत् (तै. ब्रा. १ - १ - ८) इति श्रुतिं श्रुत्वा महाप्रलयेऽपि तथाविधं जलमस्तीति भ्राम्यति । तद्भ्रमव्युदासाय जलं निषिध्यते । गहनं = प्रवेष्टुमशक्यं गभीरम् अगाधत्वेनावस्थातुमप्यशक्यं यदम्भः तत् किमासीत् - नासीदित्यर्थः (भट्टभास्करः) ।
अत्र सायणः - कुह = कुत्र देशे स्थित्वा भूतमावृणुयात्तादृशदेशोऽपि तदा नेत्यर्थः । कस्य शर्मन् - शर्मणे कस्य भोगाय आवृणुयात् । भोक्तारोऽप्युपाधिमनोलयात्तदा नासन्नित्यर्थः । आपो वा इदमग्रे सलिलमासी दित्यादि श्रुत्या अम्भस्सत्वभ्रमं निरस्यति - अम्भः किमासीदिति गहनं - दुष्प्रवेशं, गभीरं - दुःखस्थानं - अत्यगाधं यदम्भः तदपि नैवासीत् ।
तर्हि तस्मिन् महाप्रलयकाले प्राणिनां मृत्युः नासीत्, तेषामेवाभावात् । अत एव अमृतं जीवनमपि नासीत् । रात्रियाः प्रकेतः - चिह्नं चन्द्रनक्षत्रादि, अह्नः प्रकेतः सूर्यः, तदुभयमपि नासीत् । किंतु तत्सर्वोपनिषत्प्रसिद्धमेकं ब्रह्मास्तु, स्वधयास्वस्मिन् आश्रितया सर्वजगत्कारणरूपया मायया सहितमानीत् - चेष्टितवत् । नात्र चलनं चेष्टा । किंतु सद्भावमात्रमित्यमिप्रेत्यावातमिति विशेष्यते । वायुरहितं निश्चलमित्यर्थः । तस्मादेकस्माद्ब्रह्मणः अन्यत् किञ्च - किमपि परमुत्कृष्टं नासनैवासीत् । जगतो निषिद्धत्वात् निकृष्टं पूर्वमेव निराकृतम् । तस्मादुत्कृष्टं निकृष्टं च किमपि ब्रह्मव्यतिरिक्तं नासीत् (भट्टभास्करः) । तथा सायणः - सर्वेषां प्राणिनां परिपक्वं भोगहेतुभूतं सर्वं कर्म यदोपभुक्तमासीत्तदा भोगाभावान्निष्प्रयोजनमिदं जगदिति परमेश्वरस्य मनसि सञ्जिह्वीर्षा जायते । तथैव स मृत्युः सर्वं जगत्संहरते । किमनेन मृत्युना ? संहर्त्रा, तदभावकृतं विना कथममरणं स्यादिति तदा मृत्युः न अमृतं च नेत्युक्तम् । न रात्रियाः अह्नश्च प्रकेतः प्रज्ञानमासीत् । तद्धेतुभूतयोस्सूर्याचन्द्रमसोरभावात् । तत्सकलवेदान्तप्रसिद्धं ब्रह्मतत्वमानीत् - प्राणितवान् । स्वधया समेतम्, स्वधा - माया, तया तद्ब्रह्मैकमविभागमापवामासीत् । तस्मात्खलु, पूर्वोक्तान्मायासहिताद्ब्रह्मणोऽन्यत्किञ्चन - किमपि वस्तु, भूतभौतिकात्मकं जगन्नास = न बभूव । परस्तात् सृष्टेरूर्ध्वं वर्तमानमिदं जगत् तदानीं न बभूव ।
एवं सर्ववस्तुसम्भवं निषिध्य तम आसीदित्युक्तम् । तमश्शब्देनाविद्या मायाशक्त्यादिशब्दवाच्यं जगद्विकारोपादानं मूलाज्ञानमुच्यते । यथा तमः पदार्थानावृणोति एवमिदमपि ब्रह्मतत्वमावृणोदिति तमश्शब्देन व्यवहारः । (Gaseous nebula.) तादृशं जगद्विकारनिष्पादक्षमं ब्रह्मण्याश्रितं किञ्चित्तम आसीत् । तेन तमसा सर्वं जगत् गूढम्, यथा मृत्पिण्डे घटो गूढः - यथा वा बीजे वृक्षो गूढः तद्वत् । अत एव न प्रकेतम् - प्रकर्षेण ज्ञातुमशक्यम् । तथा च मनुना स्मर्यते - आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः इति । (अ. १. श्लो. ५.) तत्र दृष्टान्तः सलिलमिति । यथा वर्षे पतिताः वर्षोपलाः सलिलमात्रत्वेनावशिष्यन्ते तथा सर्वं जगदिदं तम आसीत् । तमोमात्ररूपेणवशिष्तमित्यर्थः । आसमन्तात् भवत्युत्पद्यत इत्याभु = जगत् । तदेतत्तुच्छेनापिहितम् । तत्त्वज्ञानमात्रेण निवर्त्यत्वात्तत्कारणं मूलाज्ञानं तुच्छम् । तेनापिहितं प्रलयकाले आच्छादितं तादृशं यञ्जगदासीत् तञ्जगदव्यक्तं सत् पूर्वोक्तादज्ञानरूपात्तमसः सकाशात् महिना = महत्वेन अभिव्यक्तजगद्रूपेणाजायत उत्पन्नम् । तदिदमज्ञानदृष्ट्या जगदाकारेण भासमानमपि परमार्थतः एकं ब्रह्मैव । अत्र सायणः - सृष्टेः प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत् तमसा गूढम्, यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् । तेन तमसा निगूढं संवृतं कारणभूतेन तेनाच्छादितं भवति । तमः - भावरूपाज्ञानं मूलकारणम् । अप्रकेतम् अप्रज्ञायमानम् । सलिलमिव - यथा क्षीरेणाविभागमापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभागमापन्नं, जगन्न शक्यविज्ञानमित्यर्थः । तपसः - स्रष्टव्यपर्यालोचनरूपस्य महिना, माहात्म्येन - यस्सर्वज्ञस्सर्ववित् - यस्य ज्ञानमयं तपः जगत् अजायत ।
अत्र, प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते इत्यन्या श्रुतिरपि पूर्वोक्ततत्त्वमेव दृढोकरोतीति मतिमतां मानसप्रत्ययः । (Cf. Newton - An enormous mass of nebular matter is scattered in the first instance uniformly through space. The disturbing condensations would form in such a medium that in turn all the nebular matter would settle round these condensations under the influence of gravitation. Whenever there is a condensation of atmosphere the gravitational forces are stronger than elsewhere and resist the speed of condensation.) Jeans says further - “This contraction must continue until a comparatively firm unyielding base has been found at the centre of the Solar system through the atoms - nuclii and electrons being so congested that the ordinary gas laws are entirely out of operation.”
तस्य तमोविशिष्टस्य ब्रह्मणः सिसृक्षारूपं यन्मनः आदावृत्पन्नं तस्य मनसः काम एव प्रथमकार्यभूतः पदार्थः । स च कामः सतः बन्धुः = इदानीं सत्वेन प्रतीयमानस्य भूतभौतिकरूपस्य जगतः असच्छब्दाभिधेये तमस्यव्यक्ते बन्धनहेतुः । एतत्तत्त्वं कवयः - विद्वांसः स्वबुध्द्या विचार्य निश्चितवन्तः ।
तिरश्चीनो विततो रश्मिरेषां । अधस्विदासीदुपरिस्विदासीत् । रेतोधा आसन् महिमान आसन् । स्वधा अवस्तात् प्रयतिः परस्तात् - इत्यनेन श्रुतिवाक्येन सूर्यरश्मिसमानः कश्चित् स्वयंप्रकाशः चैतन्यपदार्थः एषां भूतभौतिकरूपाणां जगद्वस्तूनां मध्ये तिर्यग्वर्तमानः व्याप्तः सन् अमीषां पदार्थानामधोभागे अवस्थितः किं बोपरिभागेऽवस्थितः इति वक्तुमशक्यः । सर्व एते पदार्थाः भूतभौतिकरूपाः पूर्वोक्तस्य विततरश्मिरूपस्य स्वप्रकाशचैतन्यस्य रेतोधाः - साररूपधारिणः आसन् । तत्र चिदेकरसस्य हि वस्तुनः सद्रूपं सारम् । तच्च सर्वे पदार्थाः धारयन्ति - अस्तीत्येवं स्वरूपेण सर्वेषामवभासमानत्वात् । ते सद्रूपधारिणः महिमानः = गिरिनद्यादिरूपेण महान्तः आसन् । एवं स्वधाशब्दवाच्यमायाविद्यादिशब्देनाभिधीयमाना पारमेश्वरी शक्तिः, अवस्तात् = अधमं कारणम् । प्रयतिः सा शक्तिः प्रयतते यस्मिन् परमात्मनि सोऽयं शक्तिप्रयत्नाधारः परमात्मा प्रयतिः । स च परस्तात् = परममुत्तरं कारणम् । तावेतौ शक्तिपरमात्मानावेव जगत्कारणभूतौ प्रकृतिपुरुषाविति शास्त्रेषु व्यपदिश्येते । (Spiritual energy is the higher cause and material energy is the lower cause of the Universe, since the latter is only a changed form of the former and since no activity, however insignificant it may be, can take place in the latter without the presence of the former as matter is full of inertia. On the other hand, mere spiritual energy cannot manifest itself and it requires some material vehicle to act upon and hence nature or primordial matter in the presence of, or in association with the spiritual energy develops in itself vast material or cosmic energy. This alone is taken as the cause for variety in creation according to the modern scientists, who ignore therefore the interference of God or spiritual power regarding creation.)
अत्र केचिदागममुपेक्ष्य स्वस्वबुद्धिबलादन्यथोत्प्रेक्षन्ते । तथा हि - पूर्वोक्तरीत्या परमाणवो जगतः मूलकारणमिति कणादगौतमादयो मन्यन्ते । स्वतन्त्रमचेतनं प्रधानं जगतो मूलकारणमिति कपिलपतञ्जलिप्रभृतयः । शून्यादितो गतदुत्पत्तिरिति माध्यमिकाः । जगतः कारणमेव नास्ति स्वभावत एवावतिष्ठत इति लोकायतिकाः ते, सर्वेऽपि भ्रान्ता एव ।
अत्र मनुना उक्तस्य वेदान्तवाक्यस्य अयमभिप्रायः । इदं जगत् तमसि लीनमासीत् । यथा तमसि लीनाः पदार्थाः अध्यक्षेण न प्रकाश्यन्ते एवं प्रकृतिलीना अपि भावाः नावगम्यन्ते इत्यर्थः । तथा च श्रुतिः तम आसीत्तमसा गूढमग्रे इति । (Cf. “At the most ancient period, the entire materials of the globe were in a fluid state and the cause of this fluidity was heat, or it was in a nebular state.”) प्रकृतिरपि (Even nature) ब्रह्मात्मना अव्याकृता आसीत् । अत एव अप्रज्ञातम् = अप्रत्यक्षम्, अलक्षणम् - अननुमेयम्, अप्रतर्क्यम् - तर्कयितुमशक्यम्, अविज्ञेयम् सकलप्रमाणागोचरम् आसीदित्यर्थः । अत एव प्रसुप्तमिव कार्याक्षममिव अभूत् । ततः परमात्मा महाभूतादीनि व्यञ्जयन् अव्यक्तावस्थं प्रथमं सूक्ष्मरूपेण, ततः स्थूलरूपेण प्रकाशयन् अप्रतिहतसामर्थ्यः प्रकृतिप्रेरकः आसीत् । (Cf. The matter of the Universe was not eternal and self - existent, but was originally created by the power of the Almighty.) अत्र श्रुतिः द्यावापृथिव्यौ सृजति देव एकः (In the beginning God created heaven and earth.)
परमात्मा प्रथमं अप एव ससर्ज - इत्यत्र अप् शब्देन न तावत्सलिलं गृह्यते, किन्तु जगत्सृष्टिकारणभूतः तेजोविशेषः गृह्यते । तथा चोक्तम् - नापस्तावदस्माकं प्रत्यक्षीभूतं सलिलम्, अपि तु एतास्सलिलवन्नानाकृतिधारणक्षमाः । एताः व्यापनशीलाः । बाष्पवत्सर्वासु दिक्षु विस्तारं लभमानाः पदार्थाः आपः । आप्नुवन्ति = व्याप्नुवन्ति याः ता आपः । अतः - आपो नारा इति प्रोक्ताः इति वैशिष्ट्यं दर्शितं मनुना । (Cf. What Jeans says “He finds that in the central regions at least of the star [Nebulus] the density of matter must be so great that its state approximates more nearly to the liquid than to the gaseous state.”) अनेन प्रसरणशीलाः पदार्थाः आप इति फलितम् । एते पुनश्चेतनाः । तेषां चेतनाधिष्ठितत्वं विना गतेरदर्शनात् । अत्रैव वेदस्य आधुनिकविज्ञानाद्वैशिष्ट्यं मध्याकर्षणरूपस्वाभाविकशक्त्या दर्शितम् । आकर्षणं तु दैवमपेक्षते । ईश्वरेच्छया अदृष्टवदात्मसंयोगेन व्यक्तिषु कर्मोत्पद्यते । तासु अप्सु बीजं = शक्तिरूपम् आरोपितवान् । तद्बीजं परमेश्वरेच्छया हैममण्डम् (Glowing nebula) अभवत् । तस्मिन् परमात्मैव हिरण्यगर्भरूपतया प्रादुर्भूतः । ततस्तदण्डं द्विधा कृतवान् । ताभ्यां शकलाभ्याम् उत्तरेण दिवं (स्वर्लोकम्) अधरेण भूलोकम् उभयोर्मध्ये आकाशं दिशश्चान्तरालदिग्भिस्सह अष्टौ, समुद्राख्यमपां स्थानं स्थिरं निर्मितवान् इति कुल्लूकभट्टः मनुवचनमनुवदति । (Cf. The infinitely subtle and elastic ether (आकाश) pervades all space and even the interior of all bodies. So long as it remains at rest, there is a total darkness and when it splits into a peculiar state of vibrations, the sensation of light is produced. This vibration may be produced by various causes viz. by the sun, stars, electricity, combustion etc.). अथर्ववेदे एवमुक्तं भवति - ब्रह्म जज्ञानं प्रथमं पुरस्तात् । विसीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः । सतश्च योनिमसतश्च विवः - सच्चित्सुखात्मकम् अपरिच्छिन्नं सर्वजगत्कारणं यत्परं ब्रह्म तत् पुरस्तात् = पूर्वस्मिन् काले सृष्ट्यादौ प्रथमं - प्रथमकार्यं हिरण्यगर्भरूपं सूर्यात्मकं जज्ञानं जातम् उत्पन्नम् । स वै शरीरी प्रथमः स वै पुरुष उच्यते - उदीरितलक्षणं परब्रह्म स्वमायाशक्तिवशेन आदित्यापरपर्यायो वेनो भूत्वा स्वतेजसा भूतभौतिकात्मकं जगत् सकारणकं व्याप्नोतीत्यर्थः । स बुध्न्यादाष्ट जनुषोऽभ्यग्रम् - सः परब्रह्मात्मकः प्रथमजो देवस्सूर्यः, जनुषः जनिमतो लोकस्य, बुध्नं - मूलम्, तत्सम्बन्धि देशात् रसातलादिलक्षणादारभ्य, अग्रम् उपरिभागे अभिलक्ष्य, आष्ट = व्याप्नोत् । यस्य महित्वा पृथिवी मही - सूर्यस्य माहात्म्येन पृथिवी विस्तीर्णा जाता - यस्य महिम्ना सर्वे महागिरयः सञ्जाताः तथा समुद्राः नद्यश्च । (Contrast with Jean’s opinion “Our Solar system is very probably the youngest planetary system in the whole colony”. He further says that our terrestrial civilization with only 6,000 years of existence behind it, is almost the youngest civilization. By this it is evident that Kaliyuga which began 5,043 years ago is taken into calculation and therefore Western civilization is the youngest. For us Indian Aryas, (जगत्सृष्ट्यादिगतसौराब्दाः १९५,५८,८५,०४३) the creation began 1,955,885,043 Solar years ago. Thence forward we Aryas exist with many turns of Krita, Treta, Dwapara and Kaliyugas. Therefore Aryan civilization is the first, the foremost and the oldest civilization.
अर्चन्त एकमहिसाममन्वत । तेन सूर्यमधारयन् । तेन सूर्यमरोचयन् (तै. आ. प्र. ७, अ. १७) तमिमम् = अग्निम् अर्चन्तः - अर्चयन्तः - पूजयन्तः एके - केचित्, महि महत् पर्याप्तं साम = सान्त्वनं गानं वा, मन्वत, - प्रशस्तमाराधनसाधनं अमन्वत । तेन साम्ना (अग्निना) सूर्यमधारयन् - दिवि स्थापितवन्तः । तेनैव द्वारेण सूर्यभरोचयन् । (From the burning Nebula the planet sun was caused by forces to stay in heaven, and to shine for ever. When Nebula became cooled it became earth.) पूर्वपक्षाः = चितयः (Shining bodies such as the moon, stars and other planets,) अपरपक्षाः पुरीषम्, (Dark bodies such as earth, which was cooled when a part of Nebula became cooled down,) इत्यत्र पुरीषपदेन लक्षणया पृथ्वीतलं गृह्यते । अतः तत् सम्यक्‌प्रियं प्रियतममित्युक्तम् ।
सम्प्रियं प्रजया पशुभिर्भवतु - तस्मात् त्वया उपहितया स धर्मः (Heat) इत्थं भूतो भवतु । यास्ते अग्र आद्रा योनयः (रसवत्यः) याः कुलायिन्यः (नीडार्हाः शुष्काः) । (It means that some portions of Nebula became cooled as the crust of the earth which became habitable not only for men and animals, but also for various plants.) प्रजाभिरग्ने द्रविणेह सीद - त्वं प्रजाभिः द्रविणैश्च अस्मभ्यं देयैः इह सीद । (It means fire or internal heat in the earth causes mineral and other forms which are useful for us - men on earth.)
भूभागपरिणामः
(Formation of Different Strata of the Earth)
अग्निरसि, वैश्वानरोऽसि, संवत्सरोऽसि, परिवत्सरोऽसि, इदावत्सरोऽसि, इद्वत्सरोऽसि वत्सरोऽसि इत्यादिना कालपरिमाणपरिणामकृतव्यापाराः सूच्यन्ते । तथा चोक्तम् बार्हस्पत्ययुगपञ्चकविषय इति । (It means that different strata of cooling process took place at different periods and different rock formations at different periods are also indicated.) (Cf. “The materials of the Globe were once in a ghee or nebular state and from the presence of the intense heat the passage of the first consolidated portions of the fluid or nebula have been produced by the radiation of heat from its surface into space, the gradual abstraction of such heat would allow portions of its matter to approximate to crystallize and the first results of the crystallization might have been the formation of a schist or crust composed on oxiolated metals and metalloids constituting the various rocks of the granite schist around on incandscent nucleus of molten matter.”)
अण्डसृष्टिक्रमः (Things created from Nebula)
तथा - अन्तरिक्षाः याः प्रजाः - अन्तरिक्षे भवाः गन्धर्वादयः (Shining bodies), उदारान् सलिलान् - उदारान् एकदिन एव जलाकर्षणशीलान् सलिलवतो मेघान्, अन्तरिक्षे प्रतिष्ठितान् - अन्तरिक्ष एव प्रतिष्ठितान् नान्यत्र, सर्वानुदारान् सलिलान् - स्थावराः प्रेष्याश्च ये, सर्वान् धुनीन् सर्वान् ध्वंसान्, - वर्षणशीलान् सलिलान्, तद्वतः परस्परनिलीनदेहान्, - स्थानशीलाः प्रवासशीलाः नदीः वाय्वादीन्, ध्वंसाः नद्याः गतिप्रकाराः, हिमो यच्च शोयते - हिमात्मना यञ्जलं पतति, सर्वान् मरीचीन् विततान् नीहारे यच्च शीयते - विस्तारितान् रश्मीन् जलादिवर्षणाय सूर्येण प्रेरितान्, येभ्यः हिमात्मना जलं पतति, सर्वा विद्युतः सर्वान् स्तनयित्नून् ह्लादुनी यच्च शीयते - (All lightnings and thunders) येभ्यः स्तनयित्नुभ्यः ह्लादिनीः - अशनिः पतति ह्लादिनीः अशनिशब्दः, सर्वास्त्रवन्तीस्सरितः सर्वमप्सुचरं च यत् पृथिवीस्थिताः नद्यः तासु स्थिता जलचरादयः, याश्च कूप्याः याश्च नाद्याः समुद्रियाः - कूप्याः कूपे भवाः आपः, याश्च वैशन्तीरुत प्रासनीर्याः - वैशन्त्यः = उत्सभवाः (of springs), प्रासच्यः = आवर्तभवाः (of whirlpools), ये चोत्तिष्ठन्ति जीमूताः - याश्च वर्षन्ति वृष्टयः - ये मेघाः उपरतवृष्टयः पलायन्ते (White clouds), ये च वृष्टिशीलाः (Black clouds) याः वृष्टयः पृथिवीं सिञ्चन्ति, तपस्तेज आकाशं यच्चाकाशे प्रतिष्ठितम् - तपः आतपः, तदीयप्रकाशः - तेजः, तस्य अवकाशः आकाशं, तस्मिन्नपि आकाशे यत्प्रतिष्ठितम्, वायुं वयाँसि (पक्षिणः) सर्वाणि अन्तरिक्षचरं च यत् अग्निं सूर्यं च चन्द्रमा मित्रं वरुणं भगं श्रद्धां तपो दमं नाम (संज्ञा) रूपं च (रूपणीयं इदं तदिति) भूतानाम् एतत्सर्वमण्डात्संभूतम् इति अण्डसृष्टितत्वं सुविशदं प्रतिपादितम् । (This is, in detail, the Nebular theory of Vedic Aryas, which serves as a model to any modern Nebular theory.)
पदार्थसङ्ग्रहे तु एवमुक्तं भवति - ततः पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरं सर्वात्मगतलब्धादृष्टापेक्षेभ्यः संयोगेभ्यः परवपरमाणुषु कर्मोत्पत्तौ, तेषां परस्पर संयोगेभ्यः द्व्यणुकादिक्रमेण महान्वायुस्समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव वायव्येभ्यः परमाणुभ्यः, तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरसाभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यः महदण्डमारभ्यते । तस्मिन् चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते इति । अत्र श्रुतिः - अथर्ववेदे - आपो अग्रे विश्वमासन् गर्भं दधाना हविषा विधेम अन्यत्र - हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेकं आसीत् । स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम । (महाभारते शांतिपर्वणि) ततो ब्रह्माणममृजद्धिरण्याण्डसमुद्भवम् । सा मूर्तिस्सर्वभूतानामित्येवमनुशुश्रुमः । संवत्सरमुष्टित्वान्ते निश्क्राम्य च महामुनिः । सन्दधे स महीं कृस्नां दिवमूर्ध्वं प्रजापतिः ।
अयं ब्रह्मैव यजुर्वेदे अग्निरित्युक्तम् । (Glowing heat in the nebula.) तस्य कार्यं चैवमुक्तम् । हे अग्ने त्वं ज्योतिषां ज्योतिरसि । संवत्सरोऽसि ऋषभोऽसि स्वर्गलोकोऽसि । वायुर्भूत्वा सर्वा दिश आवाहि दिवं मे यच्छ, पृथिवीं यच्छ । त्वमेव पारकः वैश्वानरः वैद्युतः । त्वमेव असुः - वसुः - विभुः - अभिभूः - अधिपतिः - अहस्पतिः - चक्षुष्पतिः (सूर्यः) - ज्योतिष्मत्यः - राजा - विराजा सम्राट् - स्वराट् - शूषः (बलम्) - चन्द्रमाः - ज्योतिः - संसर्पः (कालः) - कल्याणः (चेतनः) - अर्जुनः (व्यापकः - परमात्मा) - अर्थानुवादोयं) - इत्यादिना तमसा गूढं यत् तत् ब्रह्मात्मरूपः अग्निरित्युच्यते । स एव सर्वसृष्टिकारणभूतः । पूर्वोक्तेभ्यः तेभ्यः अङ्गाराः भवन्ति । तेभ्योऽङ्गारेभ्योऽर्चिरुदेति । शरो अङ्गारा अध्यहन्ते । अनेन अग्न्यास्यस्य जिह्वास्थानीयाः अङ्गाराः । शरः - भस्म, तत् अङ्गारा अध्यूषति उपरि वहतीत्युक्तम् ।
सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् इत्यनेन जाया भूमिः - जायते विश्वं अस्यामिति जाया । पतिः - जगत्पातीति पतिः - भर्ता तौ संयोगं सृष्टिव्यापारात्मकम् अतुर्यथुः - गच्छथः जगदभिवृद्ध्यर्थम् - इति केचित् ।
इदं हि अण्डम् (Nebula) इत्याख्यनक्षत्रवस्तु दीप्तिमत्वात् हैममिति कथ्यते । अण्डस्थः हिरण्यगर्भ एव सूर्यः - तेजोविशेषः, तथा चोक्तं - सत्येनोत्तभिता भूमिः । सूर्येणोत्तभिता द्यौः । (Aryan civilization is based on Righteousness and Truth which were begotten by Providence. Not only that, but it was further believed that the planets and stars were moving by the force of Righteousness and Truth in their respective orbits. Here compare what a Western scientist says - “All actual combinations of matters have proved the existence in some state or other, of all the ultimate actions of the material changes they may have produced, are and ever had been governed by laws (सत्यम्) as regular and uniform as those which hold the planets in their cource.” The Geologist establishes his conclusions on the firm basis of philosophical inductions (says Rev. William Buckland, D.D.).
एवं ब्रह्माण्डसृष्टिप्रकरणे अण्डान्तर्गतस्य अग्नेर्महिमा बहुत्र बहुधा प्रशंसितः । यज्ञीयपुराणे एवमुक्तं भवति पृच्छामि त्वा परमन्तं पृथिव्याः । पृच्छामि त्वा यत्य्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः । पृच्छामि त्वा वाचः परमं व्योम एतेषामुत्तराण्येवं दर्शितानि । (Solutions for such questions are found in the following.) इयं वेदिः परो अन्तः पृथिव्याः । अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतः । ब्रह्मायं वाचः परमं व्योम । सोमः जगद्बीजरूपं रेतः अतः यज्ञेषु मुख्यत्वं प्राप्नोति । मन्त्रः = वाचामाश्रयस्थानम् अतः प्रधानभूतः । तेजः देवताशब्दसूचकम् - अतः अग्निः पृथिव्यधिदेवता । यज्ञेषु मुख्यतमः - प्रथमा देवता । अयं अनुद्भूतरूपेण सर्वद्रव्येषु वर्तते । अतः तेजश्शक्तिरेव मूर्तिमानग्निः । अग्निः यदा बीजरूपः तदा तनूनपात् । यदा गूढः तेजोधातुराविर्भवति तदा नाराशंसः । यदा चलति तदा वातः । तदुद्भूतास्सर्वे देवाः । अतः अग्निरेव सर्वदेवतात्मकः । अत्र श्रुतिः - त्वमग्ने इन्द्रस्त्वमग्ने राजा वरुणः । त्वमग्ने त्वष्टा त्वमग्ने रुद्रः । त्वमग्ने द्रविणोदास्त्वं देवः सविता त्वं भगः । अग्निना सर्वश्चेतनवान् । अग्निना सर्गो वर्धते अग्निना सर्वं प्रकाशते (अग्निशब्दस्तेजःपर्यायः) । अत एवोक्तं छान्दोग्ये - तत्तेजोऽसृजत इति । अनेन एवमुक्तं भवति । अण्डावरकभूतः पूर्वोक्ततमःपदार्थः यदा तेजश्शक्त्या व्याप्तः तदा सर्वमभूदिति तात्पर्यम् । The gaseous, therefore, dark nebula beame brightened and glowing when it took fire.) तथा चोक्तं मनुना - अण्डाद्भिन्नाद्बभुश्शैला विशोऽद्भ्यः पृथिवी दिवः ।
कण्वः - मेघातिथिः - वृषा - उपस्थितः - प्रियमेधाः - अत्रिः - विरूपः - आङ्गिरसः - शाम्पिनेयः - पुरुणीथः - रेभः - एते अग्न्युपासकाः (ऋ. मं. १, अ. १२, सूक्त १० - २) । (These sages discovered at first the nebular phenomenon and closely studied its nature.) अग्निगर्भा वसुन्धरा - गर्भो यो अपाम् गर्भो वनानां गर्भश्शक्तीनां गर्भश्चरथाम् इत्यनेन अद्रौ चिदस्मा अन्तर्दुरेण विशां न विश्वो अमृतं स्वाधीः इति मन्त्रेण च अग्निः पृथिव्यन्तः वनस्पत्योषधीषु अप्सु पर्वतेषु स्थावरेषु जङ्गमेषु च वर्तत इति वा । (Heat pervades all existing things.) तेषां सर्वेषां मूलकारणमिति वा उन्नेतुं श्क्यते । (All things are produced from glowing or burning Nebula which is therefore called (हैमम् अण्डम्) । तथा च मनुः - तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् इति । अग्निः = तेजः अग्निरेव (तेज एव) सूर्यः सूर्य एव (परिदृश्यमानसूर्यनिष्ठचिच्छक्तिरेव) परमात्मा । अतः अग्न्युपासनं ब्रह्मोपासनमिति मन्यन्ते प्राचीनार्याः । तथा च श्रुतिः - तदेव ब्रह्म त्वं विद्धि नेदं अदिदमुपासते इति ।
भूततन्मात्रम् । (Electrons)
एतत्सर्वं कथमवगतमिति चेत् - भूततन्मात्रविज्ञानेनेत्युत्तरं भवति । तच्च - योगिनां ऋषीणां च साध्यम् । तथा चोक्तम् - तन्मात्रं योगिनां दृश्यं न दृश्यं चर्मचक्षुषाम् । ऊर्ध्वरेतसां योगिनां च विज्ञानं श्रोत्रशब्दतन्मात्रविषयं स्थूलशब्दविषयं च । अस्मदादीनां तु स्थूलशब्दविषयमेवेति वदन्ति वाचस्पतिमिश्राः । एवमेव त्वक्‌स्पर्शादिविषयेषु च । तन्मात्राणि अव्यक्तरूपेण शक्तिरूपेण वा ब्रह्माण्डे स्थितानीति बोद्धव्यम् । (Cf. The electrons remained in a potential state in the Nebula which, when manifested broke the Nebula which, when manifested broke the Nebula into thousands of small Nebulae from which the sun, moon, stars, and other planets came out in a glowing and burning state. The Earth is such a one.) तत् (ब्रह्माण्डं, यदा व्यक्तमभूत्तदा सूर्यादयस्समुद्भूताः । तथा चोक्तं मनुना - कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितस्सागरान्शैलान् समानि विषमाणि च । सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः ॥
तन्मात्राणां च प्रेरकोऽन्यः परमात्मास्तीति, अथवा सर्वं जगत् तदंशभूतमिति प्राचीनार्याणां विश्वासः । तथा च श्रुतिः - पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि - (It means - the manifested and tangible world - innumerable stars - is alone half a dozen particles of dust in the unmanifested and limitless Universe. Virat is the original Prakriti of the manifested world, which is simply a portion of the unmanifested Purusha.) विशेषेण राजत इति विराट् । [Note that the materialists do not admit a conscious creation. (सचेतनसृष्टि) as the Vedic Aryans do, and forget their illogical assumption that living creatures were born of the non - living.] (श्रुतिस्तु - विराजो अधिपूरुषः इति वदति । (A presiding person or spiritual power was formed among the Nebulae and from that the sun and the planeatary system were produced.)
सदसद्वादः (Nebular Theory)
अस्मिन् वादे पूर्वोक्ततत्त्वमेव सङ्ग्रहेण सुस्पष्टमभिहितम् - (तै. ब्रा. अ. २, प्र. २, अ. ९) इदं वा अग्रे नैव किञ्चनासीत् । (Nothing existed before creation.) न द्यौरासीत् । न पृथिवी । नान्तरिक्षम् । (There was neither heaven nor the earth, nor the atmosphere.) तदसदेव । (It was only a Nebula.) सन्मनोऽकुरुत स्यामिति । (The spiritual energy which is Existence Absolute gave stimulus to the Nebula to break and come out as Universe.) तदतप्यत । (It was burning inside the Nebula, but not clearly manifested.) तस्मात्तेपानाद्धूमोऽजायत । (From that fire, smoke arose). तद्भूयोऽतप्यत । (It continued to burn.) तस्मात्तेपानादग्निरजायत । (Then the fire in the Nebula became manifested.) तद्भूयोऽतप्यत । तस्मात्तेपानाज्ज्योतिरजायत । (From its further burning light came out.) तद्भूयोऽतप्यत । तस्मात्तेपानादर्चिरजायत । (Then sparks and flames expanded.) तद्भूयोऽतप्यत । तस्मात्तेपानान्मरीचयोऽजायन्त । (Then rays of flame spread all around.) तद्भूयोऽतप्यत । तस्मात्तेपानादुदारा अजायन्त । (From that continuous burning of the Nebula, light and flame left the Nebula and spread out freely.) तद्भूयोऽतप्यत । तदभ्रमिव समहन्यत । (The other portion of the burning Nebula became cooled and consolidated like a cloud.) तद्बस्तिमभिनत् । (Then its centre broke out.) स समुद्रोऽभवत् । (It became ocean with water.) …. तद्वा‌इदमापस्सलिलमासीत् (परमात्मना सृष्टोऽन्यो भागः समुद्ररूपेण केवलं जलमेवासीत् । यदप्स्ववपद्यतसा पृथिव्यभवत् (समुद्ररूपास्वप्सु घनीभूतो भागः पृथिव्यभवत्) यद्वयमृष्ट, तदन्तरिक्षमभवत् । (A portion of uncondensed Nebula became atmosphere.) यदूर्ध्वमुदमृष्ट सा द्यौरभवत् । (That which occupied the highest place became heaven with the sun, moon, stars, etc.)
[This is the clearest description, in brief, of the Nebular theory found in the Vedas, and it closely corresponds to the Nebular theory or theories propounded by various Western scientists and scholars. Compare what a modern Geologist says - “The Nebular theory is that the earth and all other planets were once globes of very hot vapour which slowly cooled and condensed into molten liquid. But man planets like the earth have cooled sufficiently to form a solid crust over the surface. Volcanic action is taken to indicate that the interior of the earth its still in a more or less molten state”.)
पृथिवीतत्वम्
ब्रह्माण्डात्पृथिवीतन्मात्रजाता इयं पृथिवी । इयं अनवर्णा = अनेकरूपा अभूत् । यथा - इयं वै रजता असौ वै हरिणी ति दर्शनात् । इयं आकाशमध्ये सूर्यचन्द्रादिवद्भ्रममाणा तिष्ठति । तत्र शक्त्याकर्षणमेव कारणम् । सूर्यस्यैव सर्वदिधारकत्वं प्रतिपादयिष्यन् विष्णुत्वेन सूर्यं व्यपदिशति । तथा चोक्तम् - विष्णुना विधृते भूमी अत्र भूमी इति द्विवचनं द्यावापृथिव्योर्बोधकम् । एतत्तत्वं वत्स‌ऋषिणा दृष्टम् । (The sage Vatsa discovered the truth of gravitation and solar attraction, in virtue of it both heaven and earth and ll that is contained between them are held up. So, the sun is the substratum of the earth and heaven, as we say that the sun is the source of all Sakti or energy.) आधारविशेषाभावे हि, अयोगोलादिवदिदं पतेत् । (In the absence of such a substratum, the earth and heaven would have fallen down as an iron ball throuwn up, falls down on account of gravity.) अस्य सूर्यस्य बलं कस्मादिति चेत् - वाताद्विष्णोर्बलमाहुः इत्युक्तम् । अत्र वातशब्देन सर्वप्राणिप्रवृत्तिनिबन्धनं क्रियाशक्त्यात्मकं प्रधानमुच्यते । तस्मात् वातात् अस्य विष्णोः - व्यापिनः सूर्यस्य - बलं प्रवृत्तिसामर्थ्यम् । (If asked, “How does the sun get his energy?”, the reply is that he gets it from the cosmic material power which is the cause of all kinds of motions and vibrations.) अथ च अक्षराद्दीप्तिरुच्यते इत्यनेन देशतः कालतः न क्षरतीत्यक्षरं ब्रह्म - प्रधानपुरुषयोर्नियन्ता ईश्वरः । तत्प्रत्यासत्तिविशेषेण प्रकाशसामर्थ्यमस्येति सूचितम् । (If further asked how the sun gets its resplendent light, the answer is that he gets it from self-existing and self-luminous great spirit or Spiritual Power.) अग्नयो वायवश्चैव एतदस्य परायणम् इत्यनेन च एत एव परमसहायाः त्रिस्थानस्थाह्यग्निवायुसूर्याः परस्परोपकार्योपकारिभावेन लोकत्रयं धारयन्तीत्युक्तम् । इदं तत्त्वं भूगर्भविषये सम्यगन्वेतीत्युन्नेयम् ।
प्रकाशप्रवर्षणपचनाद्युपकारनिमित्तात् सूर्यादीनां द्युलोके, पर्जन्यादीनामन्तरिक्षे अग्न्यादीनां भूम्यां स्थितिः ।
लोकादिविभागानां वैदिकसङ्गेताः (तै. आ. प्र. ७, अ. ५)
पृथिव्याः (मा) इति सङ्केतः । मीयते परिच्छिद्यते - अनुभूयते इति मा - पृथिवी मात्री निर्मात्री इति वा । एवमुत्तरत्र । पृथिवीमुपलक्ष्य अन्ये सङ्केताः यथा - प्रकर्षेण मीयत इति - प्रमा - अन्तरिक्षम् (प्रकर्षः महत्वादिः) । प्रतीपं मीयत इति प्रतिमा द्यौः । एभिर्लोकैः सङ्गतं मीयत इति संमा = दिक् । विविधं दिग्द्वयात्मना मीयत इति विमा - कोणदिक् । ऊर्ध्वं मीयत इति उन्मा - ऊर्ध्वा दिक् ॥
अन्यत्र (तै. आ. प्र. १, अनु. १३) पृथिवीतत्वमेव मुपदिष्टम् - अष्टयोनी - प्रकृत्यव्यक्तमहदहङ्काराकाशवाय्वग्न्यापः अष्टकारणानि यस्यास्सा । मही - महाप्रभावा । (Earth is composed of eight elements, viz., Primordial undeveloped, developed, and individualized forms of matter, - Ether, Air, Heat and Water. Or it may be said that these eight fold forms produce the earth. The first four forms constitute a Nebula which, when melted become first all-pervading Ether, wherein motion or vibration of matter takes place, or it gives rise to heat which melts the Nebula into hot liquid which when solidified becomes the crust of earth.) अन्यत्र (तै. सं कां १, प्र. ५, अनु. ११) महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसेहुवेम । तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् । सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । दैवीं नावं स्वरित्रामनागसमस्रवतीमारुहेम - इत्युत्कम् । अस्यार्थः - महीं = महतीं, मातरं - निर्मात्रीं,
मातृस्थानीयां वा सुव्रतानाम् शोभनकर्मणां, ऋतस्य = सत्यस्य, पत्नीम् - पालयित्रीं, अवसे - रक्षणाय, हुवेम - सुष्ठु आह्वयाम । तुविक्षत्रां - प्रवृद्धबलाम्, अजरन्तींम्, अक्षयाम्, अखण्डितां, सुप्रणीतिम्, सुष्ठु प्रणेत्रीं नावम् आरुहेम । सुत्रामाणम् - सुष्ठुत्रात्रीं, पृथिवीं - विस्तीर्णाम्, द्याम् - द्योतनशीलाम्, अनेहसम् - अपापाम्, सुशर्मणम् - सुसखाम्, अदितिमि - अखण्डिताम्, सुप्रणीताम् - सुष्ठुप्रजानां नेत्रीम्, देवीं - देवानां सम्बन्धिनीं, नावं - दुःखोत्तरणहेतुम्, स्वरित्रीम् - शोभनारणाम्, अनागसम्, अप्रमादाम्, अस्रवतीम् - अच्छिद्राम् - ईदृशीं स्वस्तये अविनाशाय - आरुहेम । इत्यादिना नौकारूपकेण पृथिव्याः श्रेष्ठ्यं प्रयोजनं च दर्शितम् । तथैवान्यत्र - पृथिवी, अदितिः - अखण्डनीया । (A firm and solid rock.) देवादीनां सर्वभूतानां माता - साक्षात्परम्परया वा मातृवत्पोषयित्री । (Has a nourishing property.) मेदिनी = स्नेहवती । (Loving and lovable.) महती - महापरिमाणा । (Vast and bulky.) मही पूजिता । (Valuable.) सवित्री - सर्वस्य नेतुः - सवितुः स्वभूता - तनुत्वात् (Source of all) गायत्री - गातव्या (Worshippable), जगती - भृशमविच्छेदेन गच्छन्ती अनुपरतप्रभावा - (Moving uninterruptedly on its axis) उर्वीं - गौरवेण मही (Acted by gravitation), पृथ्वी = विस्तीर्णा - (Extensive), बहुला बहूनाम् अर्थानां लात्री (Produces many things), विश्वाव्याप्तिमती (Spreading on all sides), भूता - महाभूतात्मिका (Is one of the five great elements) इति तैत्तिरीयारण्यकोक्तिः (प्र. ६, अ. २१) । कतमा अशक्यनिर्धारणा, का - अव्यक्ता - या - यादृशी भवती, सा तादृशी सती, सत्या अविपर्यस्तस्वभावा, अमृता, अमरणा, इति वसिष्ठः । एवं पृथिवीतत्त्वं वसिष्ठमहर्षिणा दृष्टम् ॥
अत्र पृथिवीरूपेण ब्रह्मणः स्तुतिरिति रहस्यम् । (The sage Vasistha discovered all about the earth.) येभिश्शिल्पैः पप्रथानामदृंहत् (तै. ब्रा. अ. २, प्र. ७, अ. १५) प्रजापतिः येभिश्शिल्पैः कौशलैः पप्रथानां - विस्तार युक्ताम् इमां पृथिवीं दृढीकृतवान् । (By the condensation of the glowing Nebula the earth is formed.)
स्थावरपदार्थतत्त्वम्
सर्वे भावाः सद्रूपा एव । ते शुद्धेऽन्तःकरणे वर्तमानाः साक्षिणा प्रकाश्यन्ते । पाषाणादीनां तामसत्वात् तत्र साक्षिप्रतिबिम्बस्यास्फुटतया न ते प्रकाश्यन्ते । नैतावता ते धर्माः न पाषाणादेः - किन्त्वन्तःकरणस्यैवेति वक्तुं युक्तम् । असति बाधके कार्यकारणयोस्समानगुणकत्वं सर्वतन्त्रसम्मतम् । एतेन सर्वेषां पदार्थानां सुखदुःखमोहात्मकतया - तत्कारणीभूतं द्रव्यं सुखदुःखमोहात्मकमेव । तत्र चैषु त्रिषु गुणेषु कस्यचिदेकस्य न्यूनत्वेन अधिकत्वेन वा कार्यवैजात्यं भवति । अनेन पाषाणादिपदार्थानामपि विजातीयाः सुखदुःखमोहात्मकभावाः सन्त्येवेति सूचितम् ।
पृथिवीपदार्थविवेकः
पृथिवी पञ्चभूतात्मिकापि पार्थिवद्रव्यप्रधाना । अतः पञ्चगुणोपसंसृष्टापि विशेषतः सुरभ्यसुरभिरूपगन्धगुणाढ्या भवति । तत्पार्थिवद्रव्यं तु मृत्तिकारूपम् । मृत्तिका चद्विविधा । विशेषतोऽग्निसंबंधात् काठिन्यं प्राप्ता धर्मेष्टिकात्मिका एका (Ignious Rock) । तदितरभूतान्यतमसम्बन्धाद्वा, तदितरभूतसंसर्गाद्वा भस्मसिकताकर्दमादिरूपकेवलमृदात्मिका चान्या । (Sedimentary Rock.) (Cf. The earth is a sphere of solid matter called Rock composed of four elements, viz., Oxygen, Hydrogen, Silicon, Carbon and also of Aluminium, Sodium, Calcium, Magnisium and other minerals.) अस्यां पृथिव्यां समुद्राः बहुभागाक्रान्ताः अतः पृथिवी अब्धिमेखलेति प्रसिद्धा । (The earth is surrounded by water.) तथा च पृथिवीरूपपदार्थान् सामान्येनैवं निर्दिशति श्रुतिः (तै. ब्रा. ३. १०. २) एजत्काजोवत्काः क्षुल्लका शिपिविष्टकाः । सरिस्ररास्सुशेरवः अजिरासो गमिष्णवः । अस्यार्थः - एजत्काः - चलनशीलाः (Movable matter or things) जोवत्काः = जवनशीलाः । (Matter moving with speed and velocity.) क्षुल्लकाः = क्षुद्राः । (Small and insignificant things.) शिपिविष्टकाः = रश्मिभिर्विष्टाः । (Shining things or things endowed with lustre.) सरिस्रराः अत्यन्तसरणशीलाः । (Flowing substances especially liquid and gaseous bodies.) सुशेरवः - सुष्ठु शेरते आसु । (Things that contain other things - compounds.) अजिरासः - अजिनीयाः - क्षेपणीयाः । (Those that can be dug and removed.) गमिष्णवः - गत्वरस्वभावाः । (Locomotive, transient or perishable things or changing substances.) एते स्थावरपदार्थाः । (These constitute the inanimate or inorganic creation.)
पृथिवीस्वरूपम्
इयं सूर्यचन्द्रादिबद्गोलाकारा । अत एव भूगोलः भूमण्डलमित्यादिव्यवहारः । इयं पृथिव्यप्तेजोवाय्वाकाशात्मिका पार्थिवपदार्थप्रधाना । पृथिव्याः कर्ण (Diameter) परिधि (Circumference) वृत्तादि (Equator) निर्धारः ज्योतिश्शास्त्रेषु कृतः । (Cf. Earth’s diameter 7,296 miles at the Equator. 7,269 miles from pole to pole. Surface is about 200,000,000 square miles. Three-fourth water, weight, 6,833,000,000.000.000.000.000 tons.)
भूतले यथा गिरिनदीवनस्पत्यादयो भवन्ति तथा ते तद्गर्भेऽपि भवन्ति । तथैवोक्तं बृहत्संहितायाम् - पुंसां यथाङ्गेषु सिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः इति । नाड्यः तत्र अधरोत्तरभावेन स्थिता इत्युक्तम् ॥
भूगर्भः (Interior of the Earth)
भूगर्भस्तावत् सप्तधा भिन्नः प्रकल्पितः । एवं भिन्नाः प्रदेशाः आर्यैर्लोका इति कथ्यन्ते । लोकाः (Regions) (Cf. Geological Rocks of different ages) | अतल - वितल - सुतल - महातल - तलातल - रसातल - पातालाः इति तेषां क्रमेण नामानि ।
एवमेव प्रकारान्तरेण विष्णुधर्मेऽप्युक्तम् । यथा - शेषलोकः (The first stratum of the Globe.) तस्य ३,००,००,००० योजनं प्रमाणम् । (i.e., 24,00,00,000 miles.) (It is almost the same as what the modern Geologists ascribe to it, ivz., 20,00,00,000 miles.) कालाग्निरुद्रलोकः । (Of the same system.) तत्रस्थभास्करात् समुत्थितो वह्निः दिनक्षये प्राप्ते यच्चेङ्गति यच्च नेङ्गति सर्वं जगत् भस्मसात्कुरुते । (Cf. Volcanic activity is taken to indicate that the interior of the earth is still in a more or less molten condition.) पातालः अयं रूक्षस्वभावः रुद्रस्य तेजसा घृतः । (Burning always.) सुतलः समन्ततः शिलाभासरूपनीलमृत्तिकः - अग्निज्वालापरिक्षिप्तः । (A hard bruning rock.) गभस्तितलः - पीतभौमः । (Gold schists can be found in them.) महातलः - रक्तभौमः । (Copper schist.) तत्र १०,००,०००, योजनपरिमितः (80,00,000 miles) सरोवरो विद्यते । (Large lakes are common in the interior of the earth.) तत्र जङ्गमा वा जलजा वा प्राणिनः न सन्ति । (Because all is water) भीमतलम् अश्मनगरम् - वरुणस्य पुरम् - भोगवती - वासुकीत्युक्तम् - अनेक सर्पयुतम् । (From this stratum arise man Rocks. It is infested with reptiles.) At long intervals great ranges of mountains were formed. Both heating and cooling down have taken place.
भूमिः सप्तवायुस्कन्धपरिवेष्टिता । (The earth is surrounded by seven layers of air.) पशुपक्षिणः कीटाः मनुष्याः किन्नराः यक्षराक्षसगन्धर्वपिशाचाः भूमिगोचरा भवन्ति इत्युक्त्या भूगर्भेऽपि एतेषामस्थीनि कङ्कालास्थिपञ्जरादीनि विनिगूहितानीति भाव्यते । (Fossil remains exist in the interior of the earth.) प्रथमवायुमार्गः विद्याधराणाम् । (Those who are experts could move by Vyomayana or Vimana i.e. Aeroplanes.) द्वितीयः सिद्धविद्याधराणाम् । (More experts could fly even higher.) गुरुत्मतां तृतीयः (Some strong and great birds like the Indian eagle could fly even higher.) गन्धर्वाणां चतुर्थो मार्गः । (गन्धर्वाः = Sun’s rays which are intense in the fourth stratum.) पञ्चमषष्ठसप्तमस्कन्धा न मानुषगम्याः । (The 5th, 6th and 7th layers of the air could not be reached by men however clever they may be, as there is scorching heat due to nearness of the sun or extreme coldness on account of nearness of the clouds, moon, etc.) तथा चोक्तम् - भूमेरुपरि भुवर्लोकादिसत्यलोकपर्यन्तं महात्मनां देवतानां च गतिसम्भवः । एतावदेव सवितुर्मरीचयो विचरन्ति ।
विविधभूगर्भेषु, भूतलेषु यथा, तथा प्रायशः एते वर्तन्ते -
कूप्याः = कूलसमीपभवाः (Canals) ;
कूल्याः = क्षुद्रकूपाः (Channels) ;
विकार्याः = भूविकाराः (Ups and downs) ;
अवटाः = गर्ताः (Pits) ;
खन्याः = खननेन निर्वृत्ताः तटाकादयः (Tanks) ;
ह्रदाः = अवधाः जलाशयाः (Ponds) ;
सूदाः = कदाचिदप्यशोषितपङ्काः (Wells) ;
सूद्याः = काष्ठादियन्त्रप्रभवाः (Lifts) ;
सरांसि = स्वयमुत्पन्ना जलाशयाः (Lakes) ;
वेशन्ताः = पुनः पुनः विशन्ति उत्पद्यन्ते येष्वापः (Springs) ;
पल्वलानि = क्षुद्रजलाशयाः (Small ponds) ;
वन्याः = जलाशयाः (Reservoirs) ;
वर्ष्याः = वर्षे भवाः (Water courses) ;
अवर्ष्याः = वर्षे न भवन्तीति पीडनप्रभवाः (Water supply) ;
ह्रादिन्यः = ह्रादशब्दवत्यः (Large and deep pools of water) ;
वृष्टाः = अवश्यायजलानि सञ्चितानि (Showering water) ;
स्यन्दमानाः = वहन्त्यः यत्र क्वापि (Flowing in different directions) ;
नादेयाः = नद्यां भवाः (River waters) ;
सैन्धवाः = महानदीप्रभवाः (Water of great rivers) ;
समुद्राः = समुद्रसम्बन्धिन्यः (Bays - gulfs - straits).
जलमेकमपि तद्विशेषरूपेण अथवा तद्गतविशेषगुणेन तस्य विशेषनामानि । यथा - आपः - सामान्याभिधानम् (Water in general) ; वह्न्त्यः (Flows), परिवहन्त्यः (Flows round and round) ; समन्तं वहन्त्यः, कूले अतिलङ्घ्य समन्ततो गच्छन्त्यः (Floods), शीघ्रं वहन्त्यः = द्रुतं यथा कूले निपतिता भवन्ति तथा वहन्त्यः (Rush of floods breaking the bunds), शीभं वहन्त्यः - शोभनं कूलाबाधेन वहन्त्यः (Harmless floods) ; उग्रं वहन्त्यः उद्गूर्णमेघपटलसंछेदकं यथा वहन्त्यः (Floods caused by hail - stones) ; भीमं वहन्त्यः - भीतिहेतुजनकं यथा वहन्त्यः (Floods that cause anxiety) ; अम्भांसि = अस्मिन् लोके भवाः आपः (Water available on earth), नमांसि = आन्तरिक्ष्याणि (Water that comes from clouds) ; महांसि (Water that comes from heaven).
भूगर्भे विपरिणामः
(Changes in the Interior of the Earth)
भूगर्भे एतेषां कार्येण भूसंस्थानानि विपरिणतानि भवन्ति । (Cf. “Stones and rocks cannot withstand the slow attack of the tossing rain frost, etc. Sedimentary rocks are formed by the action of rivers, currents, rain, glaciers, etc. Denudations and depositions are formed once in three thousand years” - says a modern Geologist.)
वृष्टिद्वारा वायुप्रभावाच्च, समुद्रान्तःपरिणामेन पृथ्वीगर्भे परिणामविकारा भवन्ति । वृष्टितत्त्वं च सनातनभौतिकविज्ञाने यथावसरं सम्यङ्निरूपितम् ॥ (It is also said that rain-water absorbs oxygen and carbonic acid from the sea, and in passing through the soil takes up carbonic acids formed by the decomposition of vegetable matter (वृक्षाणां वन्दाकम्) । Then too water may become heated by flowing over volcanic materials, or by chemical re-action, with certain minerals. It may be subjected to high pressure, which greatly increases its power of dissolving rock. As it flows through the strata, it picks up the more soluble materials and these are often the cements which hold certain rocks together and render such rocks more porous and subjected to disintegration.
The materials carried by ground - water is often deposited because of a slight change in temperature and pressure and in this way veins of metals or other elements are formed.
तथैवोक्तं तैत्तिरीयारण्यके (प्र. १, अ. २८). सिकता इव संयन्ति - सिकताः (loose sands and gravels) यथा वायुना इतश्चेतश्च समुदीरिताः क्वचित् संयन्ति - संगच्छन्ते इति । (Cf. “Loose sands and gravels are cemented with second rock. Like water, the wind is gradually shifting all movable materials towards the sea bottom, the lowest portion of the earth’s surface, an obstacle is encountered, some of this wind - borne material is deposited, and the resulting mounds are known as dunes” - says a modern Geologist.)
धाता यथापूर्वमकल्पयत् (Older rocks must have had an origin akin to that of the rocks that are forming.)
पृथ्वीपरीक्षा
भूमिः श्वेता, रक्ता, पीता, कृष्णा चेति चतुर्विधा । कुशैः शरैः, काशैः, दूर्वाभिर्युता मधुरा, कषाया लवणा - या सा हिता । कण्टकिद्रुमसङ्कीर्णा, शर्करालोष्टसंयुता अशुभ्रा, विषमा, दुर्गा, सवल्मीका, मूषकावासबहुला, पिपीलिकागणान्विता, शकटच्छिन्ना, प्लुता, पुरोदका, अधातसूना, बन्धनागारसंयुता, विद्युता वह्निना वा दग्धा, दृष्टिदोषा, कूर्मपृष्ठा, त्रिकोणा,
स्रग्विहीना, शुर्पाकारा, दक्षिणेन पृष्ठतश्च निम्ना, पुराम्बुग्राहिणी, सुषिरा, खातं सुमृदा यत्र पुनर्न पूर्यते, खाते यत्र दीपं प्रम्लानं भवति, माल्यं म्लायते, सा भूमिः न प्रशस्ता । खाते तेयेन पूर्णे यत्र तोयं न तिष्ठति, या दुर्गन्धा सापि न प्रशस्ता । प्रागुदकप्रवणा, स्निग्धा, सुदृढा, खाते पूरमाणे मृद्यत्र अधिका भवति दीपो यत्र न म्लायते, तथैव माल्यम्, यत्र पूरितं तोयं बहुकालं तिष्ठति सा प्रशस्ता । तथैव सुगन्धा सुस्वना भूमिः प्रशस्ता ।
श्वेताभ्रशर्कराश्मविषमवल्मीकश्मशानदेवतायतनसिकताभिरनुपहताम् - अदूरादेकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा भूमिम् औषधार्थं परीक्षेत इति वनस्पतिशास्त्रे यथोक्तं तथैव भूगर्भपरीक्षायामप्यनुवर्तितव्यम् । विशेषस्तु तत्र अस्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्वगुणभूयिष्ठा । स्निग्धा - शीतला - सन्नोदका - शुक्लाम्बुगुणभूयिष्ठा । नानावर्णा - लध्वश्मवती अग्निगुणभूयिष्ठा । रूक्षा - भस्मरासभवर्णा अनिलगुणभूयिष्ठा । मृद्वी समाश्वभ्रवत्यव्यक्तरसजला महापर्वतावृतप्राया श्यामा च आकाशगुणभूयिष्ठा इति वेदितव्यम् ।
पृथिवीगर्भे
(१) प्राणीनः - पृथ्वीगर्भे न केवलं जलविकारा वा शिलाविकारा वा पदार्थाः भवन्ति, अपि तु अन्ये पदार्था अपि भवन्तीत्यत्र प्रमाणमथर्ववेदे, यथा - अमूः पारे पृदाक्वस्त्रिषप्ता जिर्जरायवः । तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यधायोः (अथ, कां. १ अ. ५, सू. २७, मं. १) अमूः = परिदृश्यमानाः, पृदाक्वः = सर्पजातयः, त्रिषप्ताः = त्रिगुणितसप्तसंख्याकाः,
निर्जरायवः = जरारहिता देवा इव, पारे = भूम्याः पारदेशे - नागलोके वर्तन्ते । तासां पृदाकूनां जरायुभिः जरायुवत् शरीरस्य वेष्टकाः त्वचः = जरायवः - सर्पकञ्जुकाः । तैस्साधनैः अधायोः = परिपन्थिनः - युद्धादौ प्रत्यवस्थातुः शत्रोः - अक्ष्यौ - अक्षीणि अपिव्ययामसि = अपिव्ययामः अपिनह्यामः । अनेन पृथ्वीगर्भे सर्पादिजन्तवो भवन्तीत्युक्तम् । तथा अपादाः (पादरहिताः) उदरसर्पिणः । (All kinds of crawling snakes.)
पृथिव्याः गर्भे अश्थिशल्यादीनि
(Fossil Remains in the Interior of the Earth)
पृथिव्याः अन्तः प्राणिनाम् अस्थीनि कङ्कालास्थिपञ्जरादीनि प्रवाहानीतप्राचीनवनस्पत्यादीनि च वर्तन्त इत्यत्र प्रमाणम् । पाटां इन्द्रो व्याश्नात्, पाटाम् (A kind of plant, stands for many plants), इन्द्रः - (Floods), व्याश्नात् = अभक्षयत् । इत्युक्ते अनेके वनस्पत्यादयः प्रवाहेणानीताः भूगर्भे समावेशिताः निखाताश्चेति तात्पर्यम् । अथवा जलप्रलये भूतलस्थितवृक्षादयः तदनन्तरकाले भूगर्भस्थिता भवन्तीत्यभिप्रायः । (It means many plants were submerged by the floods.) इन्द्रः सालावृकानिव प्राशन् - जलप्रलये - समुद्रे वा अनेके सालावृकादिमृगाः अथवा तद्रूपाः जना वा निगीर्णा आसन् । तथा चोक्तं ऋग्वेदे - (ऋ. १० - ७३ - ३_ त्वमिन्द्रः सालावृकान् सहस्रं आसन्दधिषे यदा सालावृकादिमृगा वा जना वा जले निगीर्णा आसन् तदा ते मृता एव । अतस्तेषां कलेवराणि अभिन्नानि वा विभिन्नानि वा भूम्यन्तः निखातानि भवन्त्येव । (Cf. “Sun cracks develop in the silt formed of tidal re-action or flood and of plants that periodically died under the scorching sun. If they become filled with wind-blown sand before the next flood, or tides obliterate them, then they may be permanently perished. In lands and waters in which they were placed evidences like these make up a history of a high and ancient order unfolding records of the operations of the Almighty Author of the Universe written by the fingers of God Himself upon the foundation of those everlasting books” - says modern Geology.
Such a record can be found in “Vishnu Dharmottara” विष्णुधर्मोत्तरे) in which seven infernal regions or sevenfold strata of the earth (सप्तलोकाः) are described as already noted.)
तथा अथर्ववेव्दे (कां. २, अ. ५, सू. २७, म. २) सुपर्णस्तानन्वविन्दत सूकरस्तानखनम्, सुपर्णः = शोभनपक्षः धीर इत्यर्थे । सूकरः - बुद्धिमानित्यर्थे । (The fossill remains of plants and animals were found out and brought by an expert or an intelligent man, having got them by digging with some instruments.) एवं यावन्तो ग्राम्याः आरण्याश्च ये द्विपादाः = (मनुष्यादयः) चतुष्पादाः (पश्वादयश्च) अपादाः (पादरहिताः उदरसर्पिणः उदरेण सर्पणं शीलं येषां ते - एतद्युगे वा अन्येषु युगेषु वा यदा मृताः तदा तेषामस्थिपञ्जरादीनि भूम्यन्तः विनिगूहितान्येव ।
पृथिव्यन्तस्थाः प्राणिनः ये जीवन्तस्सन्ति ते रुद्रस्य अनुग्रहेणैव जीवन्तीत्यत्र वायवीयसंहितायां रुद्रपदव्युत्पत्तिप्रदर्शनप्रकरणे एवं दर्शितम् - रुत् = दुःखं दुःखहेतुर्वा, तत् द्रावयति नः प्रभुः । रुद्र इत्युच्यते तस्मात् शिवः परमकारणम् । अथ च - मैत्रं वा अहः वारुणी रात्रिः इत्यत्र अहोरात्रयोरेव तदभिमानदेवतयोः मित्रावरुणयोः प्रार्थना । यथा जीवाः अदितेरुपस्थे प्राणापानाभ्यां गुपिताः - अदितेः अखण्डनीयाया पृथिव्याः, उपस्थे - उत्सङ्गे प्राणापानाम्याम् उच्छवासनिश्वासाभ्यां गुपिताः = रक्षिताः । (अथर्व - कां. २, अ. ५, सू. २८, म. ४.)
तथैवोक्तं तैत्तिरीयब्राह्मणे (अ. ३, प्र. १२, अ. ६) यावन्तः पांसवो भूमेः संख्याता देवमायया देवयायया देवप्रज्ञया - अन्येषामशक्यत्वात् । (The earth is constituted of innumerable particles of dust.) यावन्तः ऊषाः पशूनाम् - पशूनां पुष्टिहेतुत्वेन, पृथिव्यां निहिताः ऊषाः पशूनां पुष्टिहेतवः । (The earth also contains many saline substances, which are nourishing properties to all living beings.)
पृथिवीगर्भे अन्यपदार्थाः (It also contains) सिकताः (Sandy particles) ; शर्कराः (Small stones - gravel, धृत्यै as support) ; अश्मानः (Stones) प्रतिष्ठासुपर्वतेषु प्रतिष्ठिताः ; वीरुधयः (Shrubs) लता प्रतानिनी वीरुत् । गुल्मा विविधं स्थिताः । (Great in grave variety.) तां पृथिवीं प्रजापतिरदंहत् इत्यत्र श्रुतिः । (Prajapathi or the All - creating energy strengthened the earth with gravel.) या ओषधीः पूर्वा जाताः (इति ऋग्वेदे) पृथिव्या ओषधयः (इति यजुर्वेदे) । विष्णोरष्योपधीरसृजत । ओषधीभ्योऽधिसोमम् । सोमादधिपशूनसृजत इति तैत्तिरीयब्राह्मणे उक्तत्वात् ओषधिवनस्पतय एव प्रथमसृष्टाः पदार्था इति आर्यैस्सुविदितम् । (The Rishis of Rigvedic period had discovered even at that distant date, that the vegetable growth or विकृति, Vikriti in herbs and plants had appeared before any life on earth commenced.) अञ्जनं स्नेहद्रयम् । (A solvent substance from which minerals are produced.) कृष्णायसम् = काललोहः (Iron). लोहायसम् लोहितायसम् । ताम्रम् - हिरण्यम् । (Copper and gold), सीसम् (Lead). त्रपु (Tin), हिरण्यं (हितरमणीयम् (Gold), रजतम् (Silver) सर्वसवर्णं हरितं काञ्चनं हरितवर्णमुत्तमम् । एते सर्वे भिन्नाण्डशकलोत्पन्नाः । तथैवोपलाः

सर्वा दिशो दिक्षु । तै. ब्रा. ३. १२-७ यच्चान्तर्भूतं प्रतिष्ठितम् = सर्वा दिशः तासु दिक्षु यदन्तः मध्ये भूतम् उत्पन्नम्, यच्च प्रतिष्ठितं लभ्दस्थितिकं वस्तु । अन्तरिक्षं च केवलम् । शुद्धं वस्तु = आकाशम् । यच्चास्मिन्नन्तराहितम् यच्चास्मिन्नाकाशे आहितमन्तः इति ।
धर्मष्टकातत्त्वम् ।
(Formation of Geological Rocks)
उदस्य शुष्मात् भानुर्नार्त बिभर्ति । भारं पृथिवी न भूम (तै. आ. प्र. ७, अ. १७,) अस्य धर्मेष्टकाधारस्य अग्नेः शुष्मात् बलात् हेतोः आदित्योऽपि न उत आर्त = उदार्तो नाभवत् इत्युक्ते अस्य शुष्ममभिसमीक्ष्य भानुरुदारमना अभवत् । तेजसा महानासीत् । अयमग्निः पृथिवी न = पृथिवीव भारं बिभर्ति - लोकभारं वहति । भूम - भूम्ना भूमवन्तं वा भारं वहति । इति अग्निवर्णनेन पृथिवीतत्वमपि सूचितम् । धर्मेष्टकेति अवयवोक्त्या अवयवीभूततत्पपृथिवीपिण्डः (Ignious Rock), परिगृह्यते । (The burning heat of great fire caused the sun to shine brighter and caused the rocks of the earth to bear or produce all of its contents.)
अत्र रहस्यं तु - पृथिव्याः शरीरं द्विविधम् । एकं कठिनमन्यत् मृदु । यत्र काठिन्यं तदेव धर्मेष्टकारूपम् । यत्र मार्दवं तदेव मृद्भस्मसैकतादिरूपम् । एतन्मयमेव पृथिवीशरीरम्, वाय्वग्निजलमहिम्ना एतद्रूपयोः विकारः परिवर्तनं च जायते । (Cf. What Allison Hardy says - “The earth is composed of two kinds of Rock, Ignious and Sedimentary. The Ignious Rock wells up from below in a molten condition like granite or lava from volcanoes. Sedimentary Rock is a deposition in layers by wind and water like the lime-stone which is always forming at the bottom of the sea. The whole interior of the earth with the exception of a core of molten metal surrounded by a metallic shell consists of solid Ignious Rock, which underlies the Sedimentary Rock everywhere. Ignious Rock is found on the surface only when it has been thrown by some volcanic activity or exploded by the wearing away of sedimentary strata.”) तदन्यद्रूपं मृत्तिकारूपमित्युक्तं तत् वातादिकृतधर्मेष्टकाधर्षणाद्वावातातपोदककृतात् समुद्राधस्स्थलस्थानां मृततरुमत्स्यादीनाम् आकर्षणाद्वा जायते । तत् कदाचित् भूतले वर्तते अन्यदा उपरि भागे, कदाचित् धर्मेष्टकायाः बन्धनमपि भवति तद्रूपयोः विकारः परिवर्तनं च जायते । अयमेवार्थः सिकता इव संयन्ति - इति श्रुत्या दर्शितः । तदर्थस्तु सिकताः = पांसवः यथा वायुना इतश्चेतश्च समुदीरिताः क्वचित्संयुञ्जते = सङ्गच्छन्ते ॥ इति पूर्वमेव दर्शितम् ।
भूधरमहीधरादिपदैः इयं मही धर्मेष्टकारूपशैलेन धार्यते इति प्रतीयते । समन्ततस्त्वेकशिला देवोद्याने महीशुभा इत्यत्र प्रमाणम् । धाराधरपरित्यक्ता तदा चलितबन्धना । धरास्थानाच्च्युता वेगात् प्रविवेश रसातलम् इत्यादि विष्णुधर्मोत्तरवचनैः तथा प्रतीतोऽर्थः निश्चीयते । अथ च - भूतलं सकलं वज्रम् इत्यत्र वज्रशब्देन वनीभूता, अतो धर्मेष्टकारूपा मही गृह्यते । जलप्रलयानन्तरमपि केचित्पर्वताः न नश्यन्तीति तत्रैवोक्तम् । यथा - भूलोकमाश्रितं सर्वं तदा नश्यति यादव । न विनश्यन्ति राजेन्द्र विस्तृताः कुलपर्वताः इति । ते कुलपर्वतास्तु महेन्द्रः (The whole of the Fastern Ghats between Ganjam and the Valley of Mahanadi), मलयः (Southern portion of the Western Ghats), सह्यः (Western Ghats), शुक्तिमान् (A mountain range), ऋक्षवान् (A Mountain near Narbuda), विन्ध्यः (A mountain range that separates Southern India from the North), पारियात्रः (One of the seven principal mountain ranges - probably that of Sulaiman and Hala mountains), माल्यवान् ( A mountain range), गन्धमादनः (A particular mountain east of Menu), हिमवान् (Himalayas), हेमकूटः (Golden - peaked mountain, north of Himalayas), निषधः (Mountain in Kumaon in Northern India), नीलः (Probably Nilagiris), श्वेतः (One of the mountain ranges), शृङ्गवान् (A mountain), मेरुः (A central mountain or the central rock of the earth).
ऋग्वेदेऽपि - प्राचीनान् पर्वतानदृहत् इत्युर्क्त भवति । अस्यार्थः - इन्द्रः, प्राचीनान् = इतस्ततः प्रकर्षेण गच्छतः पर्वतान् अदृहत्, अथवा पृथिवीं व्यथमानानदृहत् यः पर्वतान् प्रकुपितानरम्णत् इति भाष्ये व्याख्यातम् । (Indra [Nebula] fastened the wandering mountains, stabilized the earth which was in a hot liquid state as a great solid Rock, i.e. He made the trembling earth (trembling = moving to and fro on account of the liquid state) firm or solid in the form of a great Rock.) येन पृथिवी च दृढा (By this process the earth became steadfast.) अपां सुमध्ये विभृतो यदा । (The fire was then on the lap of waters and dwelt extended therein. This means that before the earth became firm or solid, it was in a calorific molten state, i.e., it was a thermoil drop.)
अग्निपर्वताः (Volcanoes)
यदा पृथिवीस्थाः केचित्पदार्थाः अन्तस्थितेनाग्निना प्रज्वालिता वायुना नुन्नाः तदा दग्धाः भस्मशिलाशर्करादयः ऊर्ध्वं प्रक्षप्ता भवन्ति । भवन्ति च तथा अनवरतप्रज्वलिताः केचित्पर्वताः भूम्या उपर्यपि । तत्र अग्निरेव प्रथमं कारणम् । (Cf. 1. Mountains are thrown up by tremendous forces. 2. Great subterranean forces bring about the shock called earthquakes which cause landslides, form lakes and changes the courses of rivers. 3. Volcanoes deluge the land with lava burying entire cities in hot mud and ashes.) एतद्विषये श्रुतिषु बहुत्र प्रमाणानि सन्ति । पुराणेषु च अग्निप्रलयविचारे एतत्तत्वमपि विचारितं भवति । See what Professor Joly says - The molten rock gradually works its way towards the surface where it gives rise to volcanic and other igneous phenomena and so cools with comparative rapidity. Causes - 1. Eccentricity of the orbit of mercury 1,000 - 5,000 million years. 2. Tidal theory of the origin of moon less than 5,000 M.Y. 3. Journey of solar system from 2,000 - 3,000 M.Y. 4. Local radio heating 3,000 M.Y. 5. Radio action on minerals 1,400 M.Y. 6. Salt accumulation in the ocean. 7. Thickness of the geological formation. 8. Cycles and revolutions 1,400 M.Y.
भूकम्पः (Earthquake)
यदा वायुकार्येण भूभूधरादिरूपायां पृथिव्यां आम्यन्तरवस्तूनि नुद्यन्ते तदा भूकम्पो जायते । अयं विषयः सनातनभौतिकविज्ञाने सम्यक्प्रतिपादितः । अत्र - येषामज्मेषु पृथिवी जुजुर्वां इव दिष्पतिः इति श्रुतिः, नोदनाभिधातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म इति कणादसूत्रं च (५. २. १) प्रमाणम् । (Cf. Rain water passes through the porous lava on the surface, is heated by the contact with the hot lava below and dissolves a great deal of mineral matter, largely silica. The most serious earthquakes, however, are produced by the breaking or displacement of extensive area of Rock by the eddies yielding the earth’s crust to the strains set up within it.” - Modern Geology.)
वायुवृष्ट्यादिव्यापारप्रभावात् पृथिवीगर्भे सत्स्वपि एतादृशपरिवर्तनेषु प्रकृतेः स्थितिः समतैव । तत्त्वे विचारिते न कस्यापि उत्पत्तिर्वा विनाशो वा भवति । यदेकत्र नष्टमिवाभाति तदन्यत्र रूपान्तरेण भवत्येव । यत् - नूतनतया उत्पन्नमिव यदा भाति तदा तत् रूपान्तरेण स्थितस्य कस्यचिद्वस्तुनः नाशादेव सम्पन्नमित्यूह्यम् । (Cf. “Wind, flood, rain, rivers, glaciers, lakes and oceans all combine for wearing Rocks away. As matter cannot be destroyed, what is picked up in one place must be set down somewhere else. Compare also - “Nature is a great leveller. It is always tearing down mountains and filling up valleys. This general physical tendency to sameness or mediocrity is visible everywhere about. As, Rock dust is carried finally to the sea and laid up into sedimentary Rock in its bottom. So the world goes on losing nothing and gaining nothing, employing the same old material over and over in the same ever changing combination.)
जलमध्ये वसतां झषमकरमत्स्यकूर्मनक्रशिंशुमारप्रभृतीनां वृहत्प्राणिनां कृतं बलनं भूकम्पं वदन्ति काश्यपादयो मुनयः । तथा चोक्तम् - वारण्स्योपरि पृथ्वी सशैलवनकानना । स्थिता जलजसत्वाच्च संक्षोभाच्चालयन्ति ताम् । (Kasypa and other sages say that when the underground water is greatly agitated by the movement of various water animals earthquake takes place.) भूभारखिन्नदिग्गजविश्रामसमुद्भवः भूकम्पः इति गर्गादयः । तथा चोक्तम् - ते श्वसन्ति यदा श्रान्ताः सवायुः श्वसितो महान् । वेगान्महीं चालयति भावाभावाय देहिनाम् । (“When the equilibrium of the forces of attraction is disturbed by the air, earthquake occurs” say Garga and other sages.) वसिष्ठादयस्तु - यदा तु बलवान् वायुरन्तरिक्षानिलाहतः । पतत्याशु स निर्घातो भवेदनिलसम्भवः । तस्य योगान्निपततश्चलत्यत्याहता क्षितिः । सोऽभिधातसमुत्थस्स्यात्सनिर्धातमहीचलः । (“When the air that surrounds the earth and holds it up is disturbed by the atmospheric air, the former presses the earth upwards with great noise, and in consequence the earth quakes.” This is the opinion of Vasistha and other sages.) अदृष्टकारितः भूकम्पः इति वृद्धगर्गादयः । (Earthquake is caused by some unknown power” - say Vriddha Garga and others.) किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थं प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयन्ति । (“Air, Fire, Heat and Light, and Water are agencies that cause earthquake in the 1st, 2nd, 3rd and 4th quarters of the day respectively”- say Parasara and other sages.)
धर्मेष्टकाप्रादुर्भावकालविवेकः
(Ages of Geological Rocks)
तत्र - कालस्य मूलतत्वम्
(Measure or computation of time)
कालः गगनादिमूलभूतप्रकृतिरिति केचित् । तस्या अपि मूलभूत बिन्दुपरमादिव्योमशब्दवाच्य परमप्रकृति रित्यन्ते । कालोऽयं अनाद्यन्तः ग्रहैरनुमीयते इत्यपरे । क्रियैव काल इति सांख्यादवः । आदित्यग्रहनक्षत्रपरिस्पन्दमावृत्तिभेदेन भिन्नं कालं वदन्ति केचित् । सर्वथा कालवैलक्षण्यमादित्याधीनम् । अतः कालस्वरूपसंवत्सर एव सूर्यः । यतः निमेषादिपरार्धपर्यन्तं कालस्य वैलक्षण्यं सूर्यस्य रसवीर्यपाकविशेषेणैव भवतीति सर्वसम्मतम् । तथा च श्रुतिः - सूरो मरीचिमादत्ते । सर्वस्माद्भुवनादधि - तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् इति । तादृशकालविशेषणानि यथा -
सूच्या यावद्बलद्वयं भिद्यते स कालो लव इत्युच्यते = th of a Sec.
(३०) त्रिंशल्लवाः एका त्रुटिः ” = th of a Sec.
(२) द्वे त्रुटी एकः कालः ” = th of a Sec.
(२) द्वौ कालौ एका मात्रा ” = th of a Sec.
(१८) अष्टादश मात्राः एका काष्ठा ” = th of a Sec.
(३०) त्रिंशत्काष्ठाः एका कला ” = Seconds
(३०) त्रिंशत्कलाः एकः क्षणः ” = Minutes
(६) षट् क्षणाः एका नाडिका ” = Minutes
(६) नाडिके एकः मुहूर्तः ” = 45 Minutes
(४) चत्वारो मुहूर्ताः एकः यामः ” = 3 Hours
(४) चत्वारो यामाः दिवा ” = 12 Hours - Day
(४) तथा एका निशा ” = 12 Hours - Night
अहर्निशं एकं दिनम् ” = 24 Hours full day
(१५) पञ्चदशाहः एकः पक्षः ” = 15 Days
(२) पक्षद्वयम् एको मासः ” = 1 Month
(२) मासद्वयम् एकः ऋतुः ” = 2 Months
(३) त्रयः ऋतवः एकायनम् ” = 6 Months
(६) षडृतवः द्वादशमासाः ” = 12 Months or
(अयनद्वयम्) (एकः वत्सरः) ” = One Year
पुरुषायुः शतसंवत्सराः ” = 100 Years
कालविभागः
कलियुगम् ४,३२,००० वर्षाणि 4,32,000 Years
द्वापरयुगम् ८,६४,००० ” 8,64,000 Years
त्रेतायुगम् १२,९६,००० ” 12,96,000 Years
कृतयुगम् १७,२८,००० ” 17,96,000 Years
महायुगं चतुर्युगं ४३,२०,००० ” 43,20,000 Years
=एकं मन्वन्तरम्-ब्रह्मणोदिनस्य चतुर्दशो भागः = th day of Brahma
१४ मन्वन्तराणि ६,०४,८०,००० 6,04,80,000 Years
ब्रह्मणो दिनमिति केचित् 1 day of Brahma (Some say)
१,००० एकः कल्पः मानव प्रलय 4,32,00,00,000 Years
मानवयुगानि कालः ४,३२,००,००,०००
वर्षाणि (ब्रह्मणो दिनमिति केचित्) (1 day of God or Brahma)
तत्र दिवा २,१६,००,००,००० 2,16,00,00,000 Day
रात्रि ” ” Night
जगत्सृष्ट्यादिसौराब्दाः १,९५,५८,८५,०४५ वर्षाणि । creation began before 1,95,58,85,045 Years.
अत इदानीं द्वितीयपरार्धः । तत्पूरणाय २०,४१,१४,९५५
वर्षाणि अवशिष्टानि । 20,41,14,955 Years. X
ब्रह्मणो वर्षम् ४३२००००००० X ३६० = १५५५२०००००००० मानम वर्षाणि ।
ब्रह्मणः पूर्णायुः = १०० ब्रह्मवर्षाणि १५५५२०००००००००० मानम वर्षाणि ।
प्रतियुगम्, प्रतिमन्वन्तरम्, प्रतिकल्पं च प्रकृतिस्थितिः परिवर्त्यते ।
अत्र प्रमाणं शतपथब्राह्मणे (१-८-१-५) (मत्स्यावतारकाले - A great deluge in the Archaic period). स ओधे उत्थिते नावमापेदे । तं स मत्स्य उपन्या पुप्लुवे । तस्य शृङ्गे नावः पाशं प्रमुमोच । तेन एतदुत्तरं गिरिमधिदुद्राव । एवमन्यत्रापि अनेकप्रमाणानि सन्तीत्यवगन्तव्यम् । यथा - ऋग्वेदे V (32-12), V & VI (61-10), V (51-8), I (3-10), II (41-17). अथर्ववेदे (xii - 8), (xii-3), (xii-5), (xii-11), (xii-1-22), (xii-1-41). ऐतरेयब्राह्मणे (2-19). कौषीतकीब्राह्मणे (1-2-3). मनुस्मृतौ (2-17). विष्णुपुराणे (2-3-22-26). महाभारते (821-204-5).
अतः पूर्वपूर्वकालसृष्टानां प्राणिनामस्थीनि, शल्यानि, अस्थिपञ्जरादीनि भूमौ, समुद्रेषु, पर्वतादिषु वा विलीनानि उत्तरोत्तरकालस्थिताः विद्वांसः उद्धृत्य तानि परिशील्य तत्पूर्वकालस्थितिमनुमित्या अवगच्छन्ति । इयं रीतिः स्वाभाविकी । किं च अवान्तरप्रलयैर्वा, भूकम्पादिभिर्वा, पूर्वं यत्र पर्वतादयः आसन् तत्र सरोवरादयो वा गर्तपातादयो वा भवन्तस्सन्ति । यत्र जलाशयादयः तत्र गिरिकाननादीनि उत्पद्यमानानि सन्ति । धर्मेष्टकारूपपृथिव्याश्च (Rocks of the earth) अनेके विकाराः भवन्ति । अत एव पुराणादिषु सृष्टिविषये प्रकृतिस्थितिविचारे अनेकभेदाः । एतादृशपरिवर्तनस्य किं निदानं कथं तत्प्रादुर्भावः, तत्परिणामश्च कीदृशः इत्यादिविचारोऽप्यावश्यकः । तेन भूविज्ञानं भूमिस्थपदार्थविज्ञानं च सम्यग्भवति । एतादृशविज्ञानं वसिष्ठसदृशस्य सकलशास्त्रपरिज्ञातुरेव सुशकम् । (Cf. Geology is the science which treats of the earth and its development, that is recorded in the Rocks and of the Forces, which have produced that development. It is a great synthesis of all sciences which deal with the origin and construction of the earth - Astronomy, Physics, Chemistry, Mineralogy, Physical Geography, Zoology and Botany. Because of its enormous scope, Geologists usually divide this science into five principal divisions viz. Astronomical, Structural, Dynamical, Economic or Industrial and Historical.” (Allison Hardy.)
तादृक्प्रकृतिपरिवर्तनं भवत्येवेत्यत्र दृष्टान्तः । पितृवाक्यपरिपालनार्थं दण्डकारण्यं प्रविष्टेन श्रीरामेण तत्र ये ये प्रकृतिसन्निवेशा दृष्टाः, ते ते भूयः कालान्तरे शम्बूकवधार्थं तत्रैव प्रविष्टेन तेनैव विपरिवर्तिताः दृष्टाः यदा तदानीमेवमभिहितम् - पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो धनिविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां ततिदमिव बुद्धिं द्रढयति ॥ (उत्तररामचरिते भवभूतिः)
कतिपयमासेभ्यः एवं प्रकृतिपरिवर्तने जाते, युगान्तरमन्वन्तर, कल्पान्तरकालिकगिरिवनतटाकनिम्नोन्नतभूस्थितिपरिवर्तनं कीदृशं भवेदिति विद्वद्भिर्वेदितव्यम् । एतादृशपरिवर्तनव्यापारः भूम्यां भूगर्भे च कदा प्राचालीदिति निर्धारणमावश्यकमिति प्राचीनार्यैर्यथा आधिनिकविद्वद्भिरपि तथैव निर्धारितम्, निर्धार्यमाणं निर्धरिष्यमाणं च भवति । यथा -
Geological Time Scale
Age of Rocks by cycle method of Allison. (Years in Millions).
Cenozoic Mesozoic Patrozoic Epiprotrozoic Protentazoic
Sedimentary Rock 15.. 124 560 664 2055
Ignious Rock 26 to 123. 135-186 550 548-665 1667
The modern Geologists say that the oldest Ignious Rocks known were formed about 1540 millions of years ago, i.e. 1,540,000,000 years ago. It is no wonder if it is said that the Rocks of even of the earlier years were found out by the Aryans. How ?
सृष्ट्यादिसौराब्दाः १,९५५,८८५,०४२ । सृष्ट्यादिकालादारभ्य तत्पूर्वसृष्ट्यादिकालाच्च, हिमालयादिपर्वताः अविनश्यन्तो भवन्तीति पूर्वमुक्तम् । तर्हि १९५५८८५०४२ (-) १५४००००००० = ४१५८८५०४२ वर्षेभ्यः प्रागेव आर्यैरेतत्तत्वं ज्ञातमभूदिति स्पष्टम् । (In this connection, it may be noted what Sir Monier Williams says - viz. “Indeed, if you will pardon the anachronism, Hindus (Ancient Aryans) were Spinozites before the existence of Spinoza and Darwinians, many centuries before Darwin and evolutionists and many centuries before the doctrines of evolution had been accepted by the Huxleys of our time, and before any word like evolution existed in any language of the world.”)
पृथिवीस्थपदार्थपरिणामः काले काले सम्भवत्येवेत्युक्तं मनुना ब्रह्मावर्तदेशनिर्देशावसरे - सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । अत्र देवनदीशब्दप्रयोगात् ते नद्यौ गङ्गाया अपि दीर्घे विस्तृते च आस्ताभित्यनुमीयते । ते नद्यौ इदानीं न दृश्येते खलु । तत्स्थानं सैकतप्रचुरारण्यं भवतीति च ज्ञायते ।
अन्यन्निदर्शनं यथा - रामेश्वरसमीपे रत्नाकरमहोदध्योः जलसङ्क्रमणस्थलं सेतुरिति व्यपदिश्यते । अद्य तत्स्थानं यत्र वर्तते, ततोऽपि उत्तरदिग्भागे त्रिचतुरक्रोशप्रदेशे पूर्वं तदवर्तत इति अनुभववेदिनां मुखाच्छ्रूयते - दृश्यते च । एवमेव भूगर्भेऽपि एतादृशपरिवर्तनं परिणामो वा काले काले भवत्येव । (A modern Geologist says - “According to Nebular theory, the volcanic effects are due to the original heat of the earth not yet lost by radiation. Or they may assume that the interior of the earth is still very hot though solid because of the immense pressure and that the heated rock is liquefied when this presure is removed by surface change. Some think that heat may be produced by friction of Rock movements or by chemical effects of water and air upon certain minerals.”) (Cf. When a flow of heated lava comes in contact with a layer of sedimentary Rock, the latter may be altered or metamorphosed. Limestone is turned into marble; soft coal becomes anthracite, sandstone is converted into quartzite. Hot springs and glaciers in several regions are phenomena to be considered as effects of recent volcanic activity.)

तथैव भूगर्भस्थशिलाद्याविर्भावः एतत्कालात्प्रागर्वाग्वा आसीदिति नवीनैर्भूगर्भशोधकैः विविच्य निर्णीतः । तद्यथा -
Modern Geological Timescale

  1. Archaean or Archizoic period (deposits Permian system - Carboniferous - Ferns 60
    of both kinds) Strata of Sedimentary feet high, coral 1,000 species of insects
    Rock known as proterozoic Rock. उद्भिज्जशुक्तिजलचरादिसृष्टिकालः
    उद्भिज्जशुक्तिजलचरादिकालः ।
  2. Primary or Palaeozoic period. (Era of Devonian-strata 4,000ft. (Age of fishes)
    both). The stratum in this era is 10,000 मत्स्यावतारः Silicean Corals
    feet thick. Amphibious type like frogs Ordonican Ceproglo
    (Trilobites). Fossils of invertebrate Cambrian ”
    animals (may be मत्स्यावतारः - (Age of great Fish)
  3. Secondary or mesozoic period. Ammonites Cretaceous system कूर्वावतारः
    having coral shell-worm, common sea Jurassic ”
    dragons, Reptilian parpar, fish lizard 50 Triossic ”
    feet long (may be कूर्मावतारः - Age of Recent ” great Tortoise) Pleistocena ”
    Pliocena ”
  4. Tertiary - cainozoic period. (Age of Miocena वराहावतारः
    mammals वराह or नृसिंहावतारः) Oligocena ” Eocena ”

एते कालविशेषाः आर्यैः, मत्स्यावतार, कूर्मावतार, वराहावतार, नृसिंहावतारादिसंज्ञाया, ऋग्वेदे, यजुर्वेदे, शतपथब्राह्मणे, अग्निपुराणे, विष्णुपुराणे अन्येषु ग्रन्थेषु च सुविशदं प्रतिपादिता भवन्ति । एवमेव पुराणेषु तत्र तत्र एष विषयोऽपि विचारितः । कृतयुगे भूस्थितिरेवमासीत्, स्वायम्भूवमन्वन्तरे एवमभूत्, वराहकल्पे एवमवर्तत इति सामान्येन प्रदर्शितम् । अनेन शिलादिसृष्टिपरिवर्तनकालपरिमाणमपि आर्यैः सम्यग्विज्ञातमिति फलितम् ॥
दिग्देशतत्त्वम्
यथा कालविशेषाः सूर्यस्य गतिविशेषाद्भवन्ति तथैव दिग्भेदाश्च सूर्यमभिलक्ष्यैव भवन्ति । इदं दिक्तत्वज्ञानं कालतत्वज्ञानमिव ज्योतिर्विदां यथा, तथा भूतत्त्वविज्ञानिनां विशेषतः भूगर्भे स्वनिजोद्धरणादिकार्यव्यापृतानां साधकानामपि परमप्रयोजनम् । तत्प्रकारास्तु -
चतुर्दिक्‌चक्रम्
उत्तरा
(North)

पश्चिमा पूर्वा
(West) (East)

दक्षिणा
(South)
यत्र आदित्यः उदेति सा प्राची, यत्रास्तमेति सा प्रतीची, यत्र दृश्यमानो (प्रकाशमानो) गच्छति सा दक्षिणा, यत्रादृश्यमानो गच्छति सा उत्तरा ॥
एतासु दिक्षु सूर्यस्य मरीचिभिः कृतः परिणामः लोकाभ्युदयहेतुः । अभ्युदयस्तु - प्राची = अनाधृष्या - मरणादिभयरहिता । अग्न्याधिपत्यविषया (Heat is great in the east.) दक्षिणा = पुत्रवती - बहुपुत्रा - इन्द्राधिपत्यविषया (Rain is copious in the south.) प्रतीची = सुषरा सुष्ठु अहिंसया प्राणानां सदनीया - अभिगन्तव्या - सवितुः - देवस्य विषयभूता (West is full of mineral wealth, hence prosperous.) उत्तरा आश्रुतिः - समन्तात् श्रूयमाणा प्रधाना दिक् - मित्रावरुणविषयभूता (North is famous as it rules over the whole world) इत्युक्तम् (तै. आ. प्र. ७, अ. ५.)
तस्मात् ता दिशोऽपि देवतात्वेन भावयन्ति आर्याः । यथा -
ॐ नमः प्राच्यै दिशे याश्च देवताः, एतस्यां प्रतिवसन्ति, एताभ्यश्च नमो नमः । ॐ नमो दक्षिणायै दिशे याश्च देवताः, एतस्यां प्रतिवसन्ति, एताभ्यश्च नमो नमः । ॐ नमः प्रतीच्यै दिशे याश्च देवताः, एतस्यां प्रतिवसन्ति, एताभ्यश्च नमो नमः । ॐ नम उत्तरायै दिशे याश्च देवताः, एतस्यां प्रतिवसन्ति, एताभ्यश्च नमो नमः । एवं अवान्तरदिशोऽपि (North-East, South-East, North- West and South-West) सूर्यमरीचिकृताः व्यवस्थात्मिकाः ।
अष्टदिक्चक्रम्
उ.

उ. प. उ. पू.

प. पू.

द. प. द. पू.

द.
अथ च वेदे अष्टौ दिशः - अष्टौ वसवः इत्युक्ताः । ताः दिशः तद्देवताश्च एवमार्यैर्निरूपिताः - इन्द्रः (पूर्वा = East), अग्निः (दक्षिणपूर्वा = South-East), यमः (दक्षिणा = South), नि‌ॠतिः (दक्षिणपश्चिमा = South-West), वरुणः (पश्चिमा = West), वायुः (उत्तरपश्चिमा = North-West), कुबेरः (उत्तरा = North), ईशानः (उत्तरपूर्वा = North-East) ॥
वेदेषु पुनः एतासां देवतानां नामानि - मित्रः वरुणः - धाता - अर्यमा - अशंः - भगः - इन्द्रः - विवस्वान् अथवा मार्ताण्डः इत्युक्तानि । एताः देवताः सूर्यमरीचिसम्बन्धात्मिकाः ।
एवं सूर्यस्य मरीचिकृताः षोडशकलात्मका दिग्भेदाः व्यवस्थापिताः -
षोडशदिक्चक्रम्

चन्द्रः षो‌अडशकलापरिपूर्णः इत्युक्ते सूर्यमरीचिकृतपञ्चदशतिथिभेदनिमित्तककलावानिति तात्पर्यम् । ताः कलास्तु नामतः - अमृता, मानदा, पूषा, तुष्टिः, पुष्टिः, रतिः द्रुतिः, शशिनी, चन्द्रिका, कान्तिः, ज्योत्स्ना, श्रीः, प्रीतिः, अङ्गदा, मृता इति ॥
एवं द्वात्रिंशद्भेदभिन्नं दिक्चक्रं शास्त्रान्तरेषु प्रकरणान्तरेषु निर्दिष्टम् ।
एतद्दिक्चक्रेण (Compass) नौकायात्रिकाणाम् अतिसूक्ष्मतया दिक्सूचनानि (Mariners’ Compass) भवन्ति । भूरर्भस्य विविधखनिजाद्युत्पत्तिस्थाननिर्देशश्च भवति । तत्तद्दिक्सूचकनामानि तु शक्तिग्रहणमपेक्ष्य निर्दिष्टानि । यथा

अस्मिन् सन्दर्भे चतुर्वृत्तरूपे चतुष्पष्टिपदाढ्ये वास्तुनरबोधके दिक्चक्रे च तत्तद्दिग्ज्ञानपूर्वकतत्रस्थशक्तिविशेषज्ञानं च भवति । यथा - बाह्यवृत्ते पूर्वदिशो दक्षिणतः पञ्चमदिग्भागोऽनिलदेवतात्मक इति प्रदर्शितः । तेन भूतले वा भूगर्भे वा तद्भागे वायुशक्तिः विशेषतो वर्तत इति सूचितम् । तद्वायुशक्त्या अनुकूलं वा प्रतिकूलं वा भवेदित्याकूतम् । तथैव दक्षिणस्मात् पश्चिमतः द्वितीयदिग्भागस्य गन्धर्वो देवता । तेन गन्धर्वशब्दवाच्यसूर्यरश्मिप्रभावस्तत्र विशेषतो भवतीति सूचितम् । एवमेवान्यत्र । आन्तरवृत्ते सर्वत्र ब्रह्मा देवतेति निर्दिष्टम् । तेन तेषु दिग्भागेषु सर्वत्र अत्यन्तप्रभावयुक्तानि कार्याणि प्रचलन्ति । वस्तूनि वा लभ्यन्त इति वेद्यते । एवं प्राचीनार्याणां दिग्देशव्यवस्था सम्यगालोच्य सर्वत्र महोपकाराय महाप्रयोजनाय च निर्धारितेत्यवगन्तव्यम् ।

चतुष्षष्टिपदवृत्ते वास्तुनरः
(Power of Material Ingredients)
सूर्यशक्तिः The Solar Energy)
भूगर्भस्थास्सर्वे विकाराः सूर्यमरीचिसंयोगेन सम्पादिताः (All the changes in different strata of the earth are brought about by the heat and the light of the sun.) तथा चोक्तम् - यो देवेभ्य आतपति = यः सर्वविकारेभ्यः समन्तात्तपति = सर्वेभ्यो रश्मिमद्भ्योऽधिकं तपति - अव्यक्तात्म कस्वरूपादागत्य (in the form of heat or fire.) तपनेन सर्वान्विकारानुत्पाद्यानुगृह्णाति । (The sun is brighter than anything that shines and he brings about or causes all changes by his power viz., heat and light, and makes them manifested, himself being in an unmanifested state i.e., in the state of internal heat and fire.) तस्य धीराः परिजानन्ति योनिम् । (Only the scientists, here Geologists can account for all such changes i.e., trace the cause. Who are they ?) ये मरीचीनां पदमिच्छन्ति - प्रकृष्टज्ञानाः रश्मीनां स्थानम् आदित्यात्मानं जानन्ति - प्रविशन्ति वा । नान्यैर्ज्ञातुं शक्यते । (Those who have studied well the solar phenomena and their physical and chemical effects including all about the sun’s rays i.e., Physicists and Chemists. It means, in short, that a Geologist should have sound physical and chemical knowledge. Such a Geologist in ancient India was Vasistha, the great sage, who discovered all Geological principles and phenomena of the earth.)
वसुन्धरातत्त्वम्
पृथिव्याः वसुन्धरेति संज्ञा सुप्रसिद्धा । एतच्छब्दव्युत्पत्या खनिजरहस्यं विज्ञायते । यथा - वसु = खनिजरूपं धनं धारयतीति वसुन्धरा तथैव नानारत्ना वसुन्धरा इति महाकविप्रयोगः । अत्र धनशब्दः सुवर्णरत्नादिसर्वखनिजानां सामान्यार्थबोधकः । अत्र महाकविप्रयोगास्तु - स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी इति किरातार्जुनीये । नानारत्ना वसुंधरा इति रघुवंशे । वसुः सूर्यकिरणः । तत्पाकेन भूमौ यदुत्पद्यते तदपि धनं वसु भवति । तथैवोक्तं शिशुपालवधे - निरकाशयद्रविमपेतवसुम् इति । पाकश्च सूर्यप्रकाशोष्मपरिस्पन्दनसम्भवः । मरीचिसमवेते अस्मिन् पाके भूम्यादिसंस्कृते कालात् पाञ्चभौतिकमच्छाच्छरत्नं समुद्भवति । तच्च सप्तरश्मिपरामर्शात् नानावर्णत्वमाप्नोति । तत्तद्वर्णानुरोधेन विविधानि रत्नानि (खनिजानि) जायन्ते ।
अप्संस्कृतेन तादृशपाकेन चतुर्दशरत्नानि - रत्नाख्यया प्रसिद्धानि वस्तूनि समुद्राज्जातानीति पौराणिकी कथा ॥ तानि तु, लक्ष्मीः (wealth), कौस्तुभः (a kind of gem), पारिजातकं (moss and other sea plants), सुरा (foam), धन्वन्तरिः (sea man), चन्द्रमाः (moon), कामधेनुः (sea cow), एरावतः (sea elephant), उच्चैःश्रवाः (sea horse), अप्सरसः (sea women), विषं (poison), शङ्खः (shell), अमृतं (nectar), शार्ङ्गमिति (horny things.)
शिलापरीक्षा
शिला - शुक्ला, लोहिता, पीता, कृष्णा चेति चतुर्विधा । एकवर्णा समा सिद्धा क्षितौ निमग्ना धातमात्रस्फुरणा दृढा मृद्वी मनोरमा कोमला सिकताहीना दृङ्मनसोः प्रिया सरित्सलिलनिर्धूता पवित्रा जलोषिता द्रुमच्छायोपगूढा तीर्थाश्रयसमन्विता आयामपरिणाहाभ्यां युक्ता शिला ग्राह्मा ।
ज्वलनालीढा भास्कररश्मिभिस्तप्ता अन्यकर्मोपयुक्ता क्षाराम्बुसंयुता अत्यन्तोपहता रूक्षा अपुण्यजनसेविता (infested with crawling beings) तिलैस्सम्भूषिता विचित्रबिन्दुभिश्चिता रेखामण्डलसङ्कीर्णा विद्धा विमलसंयुता एताद्रुशी शिला अग्राह्या ।
विमलं (pure metal) त्रिविधम् । लोहं, कांस्यं, हेमजम् । या लोहविमलजुष्टा सा जनक्षयकारिणी । कांस्याभा विमलोपेता जनमानविनाशिनी । हेमसंयुक्ता दुर्भिक्षावग्रहकारिणी ।
शिलागर्भलक्षणम्
घर्षणे छेदने च यन्मण्डलं प्रदृश्यते सगर्भां तां विजानीयात् यत्नेन तां विवर्जयेत् । माञ्जिष्ठवर्णसंङ्काशे गर्भे दर्दुरो भवति । पीतके मण्डले गोधा । कृष्णे भुजङ्गमः । कपिले मूषकः । अरुणे कृकलासः । गुडगर्भे कापोते गृहगोधिका । निस्त्रिंशवर्णाभे आपः । भस्मवर्णे बालुका । एवं गर्भलक्षणं ज्ञेयम् ।
देवतायतननिर्माणप्रकरणे - प्रतिमापूजाविधाने शिलाविचारः कृतः । यथा - कृते देवतायतनविधानं न । त्रेतायां गृहेषु शिलाप्रतिष्ठा अभूत् । द्वापरे अरण्येषु शिलार्चनं विहितम् । कलौ सर्वे जनाः देवतायतननिर्माणपुरस्सरं शिलाप्रतिष्ठापनपराः । इत्यादिसन्दर्भे नानाविधशिलाविचारः कृत इति ज्ञायते ॥
शिलालेपाः (Cracks to be cemented)
ब्राह्मीमाहेश्वरीशाक्रीवैष्णवीलताभिः संस्कृताः लेपाश्चतुर्विधाः । एताः लेपाः अजाक्षीरेण दापयेत् (Cements made up of) कासीसं पीतकासीसं गव्यक्षीरेण पेषयेत् पाषाणलेपितं चेत् तेन बहुवर्णा या शिला भवेत् सा शिला प्राणिगर्भा । अतो न प्रशस्ता । मुस्तकं - करवीरं कुष्टं तालीसपत्रकं स्त्रीस्तन्यवेष्टितं यत्पाषाणं लेपयेत् । अनेन लेपेनापि गर्भो यदा सिमसिमायते तत्र कालकूटं विषं भवति ।
उत्तमशिला (Best Stones)
श्वेतः पद्मवर्णः कुसुमोषणसन्निभः पाण्डुरः मुद्गवर्णः कापोतः भृङ्गसन्निभः - एतादृशाः शिलाविशेषाः प्रशस्ताः । कृष्णवर्णा शिला हीरकसंयुक्ता । शुक्ला या सा श्रीकरी । कृष्णहीरकयुता सितवर्णा शिला बहुदोषकरी ।
इष्टकाकरणे मृत्परीक्षा
मृत् - श्वेता लोहिता पीता कृष्णा चेति चतुर्विधा । असङ्कीर्णां मृदं गृहीत्वा शोषयेत् । शोषितां शैवलेनाम्भसा सह मृद्गीयात् । यथा इष्टकासञ्चये रूपविन्यासः तथा शिलास्वपि विधीयते । वज्रलेपविधाने शैलगृहनिर्माणं चोक्तम् ।
भूशोधनम्
भूमिः यावच्छल्यवर्जिता भवति तावद्भूमिं शोधयेत् । ततः अशल्यया दृढमृत्तिकया पूरयेत् ।
श्ल्यलक्षणम् (मार्कण्डेयपुराणे)
(Fossil Mineralogy)
कदाचित् किमपि महद्भूतमुदभूत् (Great rock system) तत्रिदशैर्निगृह्य वेगेन अधोमुखं न्यस्तम् । (It means the root of the Rock system, minerals etc., is below at its tail end and the sediments etc., appear above the earth as mountain, ocean etc.) तस्याङ्गेषु अनेके देवादयः वसन्ति स्म । It has different strata, each of them is differently constituted.) तत्र नवधा मृतमृगमीनाद्यवयवाः प्रदृश्यन्ते । यथा - केचिदश्वाकाराः - केचिन्नराकाराः - केचित् श्वाकाराः - केचिद्वनगजाकाराः - केचिन्मेषाकाराः - केचित् रासभाकाराः - अन्ये केचित् तदितरमृगाननाः । (These are the supposed fossil remains of various kinds of fishes, beasts, and even of men.)
खनिजानि (Minerals)
अथ द्रविणशल्यविज्ञानम् - (Now about Minerals and their indications)
I. ऊर्ध्वगे केन्द्रगे सौम्ये शल्यद्रविणसंज्ञितम् । दिक्तत्राप्यवगन्तव्या केन्द्रगा विवशेन च । In the the upper strata of the earth if liquid is found then there occur some minerals. Then the different strata and different directions can be determined with reference to the centre or starting place. अत्र द्रविणशल्यविज्ञानाय दिग्विज्ञानमावश्यकम् । यतः यस्यां दिशि यया शक्त्या यादृक् द्रविणशल्यं भवतीति विज्ञाते ततः तत्र खननादिव्यापारात् तादृग्धनं समुद्धर्तुं प्रवृत्तिर्जायते । अतः तादृग्दिग्विज्ञानार्थमेव प्रथमं चतुर्दिक्चक्रम्, अनन्तरं तत्तत्कोणयुतम् अष्टदिक्चक्रम् - अनन्तरं तदवान्तरदिक्सूचकषोडशारचक्रं तास्वपि दिक्षु पुनरवान्तरदिग्भेदसूचकद्वात्रिंशदरचक्रम्, भूम्यां विविधतलेषु विद्यमानद्रविणशल्यज्ञानार्थं चतुर्मण्डलोपेतचतुष्षष्टिदिक्सूचकमहाचक्रं च पूर्वभेद निदर्शितम् । यत्नतः एतच्चक्राणां विज्ञानेन सुसूक्ष्मदिग्ज्ञानं भवति । तत्र यया यया वाय्वग्न्यादिशक्त्या यद्यद्द्रविणशल्यमुत्पद्यते इति विज्ञानं च भवति । अयमेव दिग्विज्ञानेन महान् लाभो जनानाम् । इदानींतनविज्ञानकुशलानामपिं चतुष्षष्टिदिग्विज्ञानं न भवतीति द्योत्यते । तद्यथा वा भवतु अस्मत्पूर्वजैः बहुप्राचीनकालात् आरभ्य द्रविणशल्यविज्ञानं अथवा भूरर्भतत्त्वं सम्यग्दृष्टं दर्शितमित्यत्र न कोऽपि सन्देहः । ऊष्मा प्रदृश्यते यत्र छत्राकारः क्षितौ क्वचित् । तत्र वित्तं विजानीयात्सुषिरं यदि भूतलम् । (If in any stratum gas appears evolving in a circular motionn there exist some minerals provided there is a long column of hollow.) नीलाभिश्श्वेतपक्ष्माभिः मक्षिकाभिस्समन्विता । (There the indication is the existence of coral remains of black-feathered insects and flies.) दुर्गन्धा च तथा भूमिः । (On account of these fossil remains, the smell there is stupefying and unbearable.) तत्राधस्ताद्धनं भवेत् । (Under such a stratum minerals are sure to occur.)
II. एकनालसमर्थे द्वे दृश्येते यत्र पुष्करे । भूयो भूयश्च तत्रार्थः कथयन्ति धनं बहु । (Where two lakes or water courses arise from a single column of spring, there it is said a great quantity of mineral wealth occurs.)
III. अक्षीराः क्षीरिणो वृक्षास्तन्तुभिर्यदि वेष्टिताः । अकण्टकाः कण्टकिनस्तत्रापि द्रविणं भवेत् । (Where sapless and lifeless trees i.e. the fossil remains of plants of previous Geological periods are seen, and where the trees which once had thorns, branches, etc., lie now without them mutilated on account of the age i.e. fossils of different kinds of plants exist, there also minerals exist.)
IV. द्रुमे भवति वन्दाकं यत्र चान्यन्नराधिप । तत्रापि द्रविणं वाच्यं श्वेतं यत्र च किंशुकम् । (Where a tree has parasitic plants on it, where the “Kimsuka” flower which is generally deep red, has become now white, there the existence of some valuable mineral may be foretold.)
V. हिमाम्भसि न ध्रियन्ते न प्ररोहन्ति पादपाः । अकाले पुष्पदा वृक्षास्तदधो धनमादिशेत् । (Why the plant life is reduced to a dead state or fossil, is explained here as that on the sureface of the earth plants will not survive in the cold glacier regions, so plants that existed in one. Geological period are reduced to fossil form in another Geological period on account of the subterranean heat, cold, etc. This is also an indication of the existence of mineral wealth.)
VI. शार्ङ्गकं नैधनं यत्र भुजगश्चित्रमस्तकः । दृश्यते यत्र राजेन्द्र तत्राधो धनमादिशेत् । (It is also an indication of the existence of minerals where fossils of fishes and coral animals are found and also those of serpents and reptiles with a variety of heads.) एतानि शल्यचिह्नानि । तानि शोधयेदित्युक्तत्वात् मृततरुमृगपशुमीनादिविषय एवात्रादृतः । तेषाम् अस्थिपञ्जराणि अस्थिकणा वा अशुद्धा इति मत्वैव तेषां शोधने अत्रादेशः कृतः । (The context here clearly refers to the fossils of different dead plants, fishes, etc. i.e. they will have to be removed at any cost in order that the ground for any holy purpose such as mining operations may be cleared.)
युगभेदेन परिणामभेदाः
(Effects of different Geological years)
नित्यं सन्निहिता लोके वैष्णवे तु युगे कृतौ । (certain Geological period.) धनधान्यवती स्फीता वरदा च तथा भवेत् । दृष्टा भवति विख्याता त्रिदिवेशगुरोर्युगे (बार्हस्पत्यमाने) । (A Geological period under the influence of Jupiter.) ऐन्द्रे (When water is predominant) तेजोवती स्फीता भूतनिग्रहकारिणी । तथाविधा तथाग्नेये (Igneous period) भूतदाहमवाप्नुयात् । नित्याश्चर्ययुता त्वाष्ट्रे (When the effect of heat and light is great) गम्यालोकैस्तथैव हि । अहिर्बुध्न्ये दृढा नित्यं (another Geological period) लोकानुग्रहकारिणी । पित्र्ये विनाशमाप्नोति कर्तुश्च मरणावहा । वैश्वे लोकहिता कर्तुः लोकसम्मान्यता भवेत् । सौम्या सौम्ये तथा कान्ता वरदा च तथा भवेत् । पित्र्ये वैश्वे सौम्ये (These are separate Geological periods under the influence of extreme cold and heat.) ऐन्द्राग्ने नाशमाप्नोति कर्तुः कृत्वा विनाशनम् (When the subterranean fire and floods are great, no mining operation can be undertaken. If taken, however, there will be great loss.) अस्मिन्प्रकरणे युगशब्दः दैवयुग इति परिगणितश्चेत् एकोऽपि युगः बहुकालपर्यवसायी भवेदिति सूच्यते । (Cf. The Geological years of Modern Geology which are termed by Aryas divine years or ‘Divyayga’. Kalpas involve still larger periods. A Kalpa (or one thousand Yugas) is 432,00,00,000 years, being a day of Brahma. Another way of computing long periods of time is with reference to Manvantars which are 14 in number, each comprising 43,20,000 human years. It seems almost right to compare the four Yugas of the Aryas to the four systems, viz., Archeozoic, Primary or Paliozoic, Secondary or Mesozoic, Tertiary or Cainozoic periods of Modern Geology and the ten Yugas mentioned above or fourteen Manvantaras to almost the same number of sub-periods included in the three main Geological systems, viz., Permian, Cretacean and Recent.) यद्यपि कृतत्रेताद्वापरकलियुगाख्याश्चत्वार एव युगाः प्रसिद्धाः । तेषु कृतयुगस्य १७,२८,००० मानवीयवर्षाः प्रमाणम् । त्रेतायाः १२,९६,००० वर्षाः, द्वापरस्य ८,६४,००० वर्षाः कलेः ४,३२,००० वर्षाः प्रमाणमिति विदितम् ।
तथाप्यत्र वैष्णव, बार्हस्पत्ये, न्द्रा, ग्नेय, त्वाष्ट्रा, हिर्बुध्न्य, पित्र्य, वैश्व, सौम्यै, न्द्राग्नेय युगा अपि विभिन्नबहुदीर्घकालसूचकाः भवन्ति । तत्तद्युगे प्रकृतिपरिणामाश्च विविधा विचित्राश्चाभूवन्निति भूतत्त्वविदो विदांकुर्वन्तु ।
भूगर्भशोधनम्
पुरा आर्यैस्तावत् भूगर्भशोधनं खनिजासादनमित्यादिकार्याणि सुव्यवस्थाया कृतानि । तथा चोक्तं मनुना राजधर्मप्रकरणे - अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् इत्यत्र अलब्धम् भूमिहिरण्यादि इति व्याख्यातम् । तत्रैव करग्रहविधानसन्दर्भे - पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः इत्यत्र मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो राज्ञा ग्रहीतव्य इति व्याख्यातम् । अनेन सम्भूयकर्मकृद्भ्यः । (From the companies or associations formed for any purpose such as specially for working in the mines, the king or the ruler should get only two per cent. Royalty out of the net income or profit. As this was a great encouragement, many people used to form companies for various pruposes specially for mining.) अन्यथा, यदा राजा स्वयमेव खनिजादीनि भूगर्भादादातुमपेक्षते प्रयतते च तदा स अर्धभागं हरति । तथा चोक्तम् - निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभाक् रक्षणाद्राज भूमेरधिपतिर्हि सः । यं पुनः अस्वामिकं पुराजातं भूम्यन्तर्गतं निधिं राजा लभते, तस्मादर्धं आत्मीयधनागारे प्रवेशयेत् । सुवर्णाद्युत्पत्तिस्थानानां च अर्धहरो राजा यस्मादसौ रक्षति भूमेश्च प्रभुः - इति व्याख्यातम् ।
तथैव - अभिलषितार्थचिन्तामणौ - सोमेश्वरदेवः । एवं वदति - राजा रजतसुवर्णरत्नानाम् अवनीं रक्षयेत् । तत्संहतेषु सर्वेषु करं समाहरेत् । सः भूमिगतं द्रव्यं विविधैश्शास्त्रोक्तलक्षणैर्विद्यात् । तानि लक्षणानि तु - वर्षासु शीतकाले च निरन्तरं गोधा यत्र वर्तते, वृश्चिकः पन्नगो वा आस्ते, स्वञ्जरीटानां संभोगः भूतले यत्र दृश्यते तत्र निधिर्भवेत् । वह्निः यत्र निरिन्धनो ज्वलेत्, हेतुं विना जलाशये यत्रावर्तो दृश्यते, पङ्कजानि विशीर्णानि भवन्ति, अप्ररोहवृक्षे - प्ररोहो यत्र दृश्यते, रम्भा यत्र कण्टकिनी भवति, तालः यत्र शिखाद्वयसमायुक्तः, यत्र पुष्पस्योपरि पुष्पं जायते, वृषभः यत्र भुवमाघ्राय अर्कं दृष्ट्वा प्रहृष्टो नर्दति, यत्र अनिमित्तिः बाष्पः हस्तद्वयसमुत्सेधो भवति, तत्र निधिर्ध्रुवं भवति । एतादृशलक्षणानि अन्यानि च खनिजशास्त्रेषु निरूपितानि । तद्दर्शनाय अनेकविधानि कज्जलानि विहितानि । (As those who had to find out minerals had no access to such instruments as modern microscopes etc., they had recourses to several kinds of “Kajjala’ or ‘Anjana” i.e., ointments which when smeared to the eye caused the eyesight very strong and minute and through such means, minerals used to be found out by certain indications both inside and above the earth.)
तथैवोक्तमन्यत्र - सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति त्रयो जनाः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् । (Men of courage, those that have studied all the Geological phenomena and those that desire to serve their country, these three classes of men are competent to make research of the earth that abounds in gold and other metals.)
तथैवोक्तं कौटिल्येनार्थशास्त्रे - आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञः तज्ज्ञसङ्घो वा तज्ज्ञातकर्मकरोपकरणसम्पन्नः किट्टमूषाङ्गारभस्मलिङ्गं वा आकरं भूतपूर्वमभूतपूर्वं वा भूमिप्रस्तररसधातुमत्यर्थवर्णगौरवमुग्रगन्धरसं परीक्षेत ॥
पर्वतानामभिज्ञातोद्देशानां बिलगुहोपत्यकालयनिगूढखातेष्वन्तः प्रस्यन्दिनो जम्बूचूतताळफलपक्वहरिद्राभेदहरिताळक्षौद्रहिङ्गुळुकपुण्डरीकशुकमयूरपत्रवर्णाः सवर्णोदकौपधीपर्यन्ताश्चिक्कणाः विशदा भारिकाश्च रसाः काञ्चनिकाः - इत्यादि ।
राजा भूगतानि धनानि खननोद्यमैस्साधकैः खनिशास्त्रानुसारेण समुद्धरेत् । तथा च मनुः - शुचीनाकरकर्मान्ते प्रकुर्बीत इत्यनेन अर्थनिस्पृहान् धनोत्पत्तिस्थानेषु आकारेषु (सुवर्णरजताद्युत्पत्तिस्थानेषु) नियुञ्जीत इत्युक्तम् । एवमासादितानि खनिजानि विविधैर्धातुवादप्रयोगैः वर्धयेत् इत्युक्तम् ।
तद्वनवृद्धिप्रकारस्तु - तारेण (रौप्येण) सुवर्णं साधयेत् । वङ्गेन रौप्यं साहयेत् । शुष्कपुष्पपलाशस्य चूर्णं छागमूत्रेण त्रीन् वारान् परिभाव्य वङ्ग्यष्ठांशचूर्णेन पिष्टेन एतत्प्रलेपयेत् । षुटपाकेन दग्धं तत्तारं शोभनं भवति । एवमादिभिः अन्यैश्च वादग्रन्थक्रियाक्रमैः कनकतारादिधातून् नराधिपः धनवृद्धयै कारयेत् इत्युक्तम् । तथा अनले पुटीकृत्य तप्तं निरुपक्षयं सुवर्णं षोडशवर्नाख्यं भवति । इदं सूर्यद्युतिसन्निभं शुद्धसुवर्नं भूषणयोग्यं भवति । निष्करूपेण (coins) धनं (solid) वा क्रियते । धात्वंतरसमायुक्तं सुवर्णमशुद्धम् । एवमेव नागेन मिश्रितं रौप्यं वह्निना परिशोधितं बहुप्रकाशं भवति । तदपि निष्करूपेण धनं सत् (Solid coins) पुण्यरूपकं (For Currency) भवति । एवं राजा राजकोशे शुद्धानि रत्नान्येव धारयेत् । तेषां संभवं जातिं गुणं च परीक्षेत ।
खनिजोत्पत्तिः (रसरत्नसमुच्चये)
हिमालयः भुवं भित्वा उत्तीर्ण इव विभाति । यत्र निर्झरशीकराः शिलातलप्रतिहता भवन्ति । हिमवत्प्रान्तेषु शतयोजननिम्नाः पञ्चकूपाः (Mines) आसन् । तेषु तेजोरूपः पदार्थः जलाग्निसंयोगवशात् रसात्मना परिणतः । रसः, रसेन्द्रः, सूतः, पारदः, मिश्रक इति पञ्चधा स्थितः । तेषु -
I. रसः - रक्तः, सर्वदोषविनिर्मुक्तः । तत्सेवनं निर्जरामरणसाधकम् ।
II. रसेन्द्रः - श्यावः, रूक्षः, अतिचञ्चलह्, रोगनाशकह् ।
एतौ द्वौ कूपौ मृद्भिः अश्मभिः पूरितौ । (These two mines of mercury were filled up with silts and stones. So they are not now in a workable condition.)
III. सूतकः - ईषत्पीतः - रूक्षाङ्गः, दोषयुक्तः । This variety is yellowish in colour, rough and alloyed with other metals to be purified by eighteen processes.) दशाष्टसंस्कृतश्चेत् लोहवत्करोति । (Those eighteen processes are given in medical works.)
IV. पारदः - श्वेतः, सर्वरोगहरः । (White in colour used in medicine generally.)
V. मिश्रकः - मयूरचन्द्रिकाच्छायः, अष्टादशसंस्कारयुक्तः । (This variety of mercury shoudl also be got in pure form by eighteen chemical processes.)
सूतकः कञ्चुकादिदोषयुक्तः । अयं जलरूपेण जलगः, हंसरूपेण त्वरितः, मलरूपेण मलगः, सधूषो धूपकः । अयं भूतले लीनः । तत्तद्देशवासिनः पातनायन्न्रे मृदं भित्वा सूतकं हरन्ति । (It shows how mercury mines were working in India once upon a time.)
रसदोषाः
पारदे - नागः, वङ्गः, मनः, वह्निः चाञ्चल्यम्, विषम्, गिरिः, असह्यम् - एते महादोषा इति रत्नाकरे ॥ पारदम् एतेभ्यः दोषेभ्यः शोधयेत् ।
रसस्य दाहक्लेदशोषणेन रसायन क्रियते । किंतु रसः मूललोहादिभिर्मिश्रितो भवति । तथा चोक्तं - काष्ठौषध्यादिकं नागे लीयते, नागो वङ्गे, वङ्गः तारे, कनके, कनकं सूते लीयते । (Tin is generally mixed with the fossil substances of plants, wood etc. : lead-ore is mixed with tin ; copper-ore contains lead mixed ; silver-ore is mixed with copper ; gold exists mixed with silver ; and mercury is mixed with gold and also with several base metals.)
दरदः - पारदः - शस्यम् - वैकान्तम् - कान्तम् - अभ्रकम् - माक्षिकम् - विमलम् - एते माहरसाः । (Precious minerals are eight, viz., Red-lead, quick-silver, a kind of precious stone. शिलाजित् (white chalk), a kind of mineral, iron, mica, a kind of honey-like mineral iron, mica, a kind of honey-like mineral substance, and a kind of pure crystal.)
अभ्रकं खनेरधस्तात् राजहस्तादानीतम् - धनम् । अस्य पिनाकं नागमण्डूकं वज्रमिति नामान्तराणि । पुनः श्वेतादिवर्णभेदेन तच्चतुर्विधं भवति । अस्य गुणकर्मादीनि - भस्म, (Oxides) सिन्धूरादीनि (Salts, etc.) इति - रसरत्नसमुच्चये वाग्भटाचार्यैस्सम्यगुपदिष्टानि भवन्ति ।
वैक्रान्तः (वज्रे), अष्टाग्रः, अष्टफलकः, षट्कोणः, मसूणः, गुरुः (Crystallizing in hexagonal or octagonal forms, soft and heavy), शुद्धमिश्रितवर्णैर्युक्तः (it occurs in pure form as well as mixed with other mineral substances). बिन्ध्यस्य दक्षिणे वा उत्तरे वा अस्ति (It occurs in the mines north or south of the Vindhya mountain.) अयं लोहानि विकृन्तति, तेन वैक्रान्तकस्स्मृतः (It cuts all other metals including iron and therefore gets the name Vaikrantaka.)
तस्य रूपं श्वेतः, रक्तः, पीतः, नीलः, पारावतच्छविः, श्यामः, कृष्णवर्णः, कर्बुरः इति अष्टधा भवति । (Its colour may be - White, Red, Yellow, Blue, Pigeon or Indigo or Black or it may be of many colours.) अस्य आहरणपारिशुध्यादिविधयः मूलग्रन्थेषु द्रष्टव्याः । (Where this precious metal or gem occurs, hwo it is extracted, of what use it is made etc., may be studied in detail from the original chemical works such as Rasaratnasamuchchaya.) माक्षिकं (is a kind of gold-like mineral that occurs in the Vindhya mountains.) ताप्यां किरातचीनेषु यवनेषु च निर्मितः । (It occurs in or near the Tapati river in India and in mountain regions in China, in western countries such as Greece, Ionia, etc.) स खनिजः हेममाक्षिकः तारमक्षिकः इति द्विविधो भवति । आद्यः कान्यकुब्जोत्थः स्वर्णसन्निभः, तपतीतीरसम्भूतः, सुवर्णवत्पञ्चवर्णः पाषाणबहुलः । ताराख्यः अल्पगुणाश्मकः ।
विमलः - (A gem-like crystal.) हेमविमलः, तारविमलः, कांस्यविमल इति त्रिविधः । अयं वर्तुलः, कोणसंयुक्तः, स्निग्धः, फलकान्वितः (Crystals) ।
शिलाधातुः - (White chalk) अयं हिमालयप्रान्तेषु स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिस्सरति । स्वर्णगर्भगिरेर्जातः शिलाधातुः जपापुष्पवर्णः गुरुः । रूप्यगिरेः जातः पाण्डुरः गुरुः । ताम्रगर्भगिरेर्जातः - नीलवर्णः धनः गुरुः ।
सस्यकः - (A kind of precious stone) मरकतगिरिप्रभवः, मयूरकण्ठवर्णः, विषहरः, नानाविधानयोगाय भवति ।
रसकः - (Mercury) । दर्दुरः कारवेल्लकः इति द्विविधः दर्दुरः सदलः, कारवेल्लकः निर्दलः । अयं शुद्धः दोषविनिर्मुक्तः औषधोपयोगी ।
चपलः - (Quick silver) । गौरः श्वेतः अरुणः कृष्न इति चतुर्विधः । हेमाभः ताराभश्च वह्नौ वङ्गवद्द्रवते । स्फटिकच्छायः षडग्रः (Hexagonal) स्निग्धः (Soft) गुरुः ।
उपरसाः (Ordinary Minerals)
गन्धकः (Sulphur), समुद्रमथनेनोद्भवति (can be got by exploration of the Ocean), रसस्य बन्धन जारणाय भवति । (It is a melting and reducing agent of mercury.) अस्मिन् सर्वे पारदगुणाः भवन्ति । (It possesses all the characteristics of mercury.) स त्रिविधः (It is of three varieties.) शुकचञ्चुनिभः उत्तमः । (The best one is that which is almost red like the beak of a parrot in colour.) पीतवर्णः (Yellow - ordinary kind.) शुक्रः (White - low quality.) कृमिहरः (It kills bacilli.) गौरिकम् (Red chalk - Bitumen or gold.) पाषाणगौरिकं स्वर्णगौरिकमिति द्विविधम् । प्रथमं कठिनं ताम्रवर्णम् । (The first kind is hard and copper coloured.) द्वितीयं मसृणम् अत्यन्तशोणितम् । (The second one is soft and deep red.)
कासीसम् (Sulphate of iron - green vitriol), बालुकासीसं पुष्पकासीसमिति द्विविधं भवति - विषध्नम् ॥ (Poison - killer.)
तुवरी - (Alum) सौराष्ट्रे अश्मसंभूता पाटकी फुल्लिकेति द्विविधा । विषनाशिनी, मञ्जिष्ठा रागबन्धिनी ॥ (Used for colours.)
तालका - (Yellow orpiment.) पत्रतालं पिण्डितालमिति हरितालं द्विविधम् ।
मनश्शिला - (Red Arsenic) त्रिविधा - श्यामाङ्गीकणवीरका खण्डा चेति, श्यामा - रक्ता सगौरा भवति । श्यामाङ्गी तेजस्विनी निर्गौरा ताम्रप्रभा । कणवीरका अतिरक्ताङ्गी चूर्णीभूता । खण्डाख्या सभारा ॥
वैक्रान्तः - सूर्यकान्तः, हीरकं मौक्तिकं मणिः इति व्यपदिश्यते ।
चन्द्रकान्तः - राजावर्तः, गरुडोद्धारकः इति व्यपदिश्यते । एतौ मणिभेदौ (These are varieties of crystallized lenses.)
अथ रत्नानि (There are Varieties of Gems)
पञ्चरत्नानि - नीलकं वज्रकं पद्मरागं मौक्तिकं प्रवालमिति । अथवा - सुवर्णं रजतं मुक्ता राजावर्तं प्रवालमिति । अथवा - कनकं हीरकं नीलं पद्मरागं मौक्तिकं चेति ॥ पुष्यराग - नील - वैडूर्य - विद्रुम - मौक्तिक - मरकत - वज्र - गोमेध - पद्मरागाख्यनवरत्नेषु वज्रं पद्मरागः मरकतं मुक्ताफलं वैडूर्यं च मुख्यानीति केचित् ।
नवरत्नानि
वज्रमणिः, वैडूर्यमणिः, पद्ममणिः, माणिक्यमणिः, मरकतं, गोमेधिकं, विद्रुमः, मुक्ता, नीलं चेति । अत्र रत्नशब्दा र्थस्तु - रमतेऽत्र - रम् + न + तान्तादेशः इति व्युत्पत्या दर्शितः । भूमेः - रत्नगर्भा, रत्नप्रसुः इति सार्थकसंज्ञा भवत्येव । अत एव अनन्तरत्नप्रभवः हिमालयः इति महाकविना कालिदासेन कुमारसम्भवे प्रयुक्तम् । एतत्तत्त्वविचारे ऋग्वेदश्रुतिः । यथा - विभक्तारं हवामहे । वसोश्चित्रस्य राधसः । सवितारं नृचक्षुषम् । अस्य भाष्यम् - वसोः - निवासहेतोः, चित्रस्य = सुवर्णरजतादिबहुविधस्य, राधसः = धनस्य, विभक्तारम् - अस्य यजमानस्य एतावद्धनदानमुचितमिति विभागकारिणं नृचक्षुषम् = मनुष्याणां प्रकाशकारिणं सवितारं हवामहे । अत्र कौशीतकीब्राह्मणेन प्रतिपादितोऽर्थो यथा - यदेतद्वसोश्चित्रं राधः तदेव सविता विभक्ताभ्यः प्रजाभ्यो विभजति इति ।
तत्त्वार्थस्तु - वसोः - स्वप्रकाशोत्पादितस्य, चित्रस्य - नानावर्णयुक्तस्य, राधसः सुवर्णरजतवज्रवैडूर्यादिखनिजरूपधनस्य विभक्तारम् = इयद्भिः प्रकाशैः इयता कालेन एतस्मिन्भूतले एतेन वर्णेन एतत्खनिजरूपं धनं भाव्यमिति विभागहेतुकं सवितारं यथा जगत्प्रसवितारं तथा तदन्तर्वर्ति खनिजधनानामपि प्रसवितारमुत्पत्तिहेतुकं नृचक्षुषम् = नॄणां तत्त्वप्रकाशनं (अस्मिन् स्थले एतादृशरूपं सुवर्णादिकं भवतीति ज्ञानमुत्पादयन्तम्) हवामहे आह्वयामः । अथवा - स्तुतिं कुर्मः । इति खनिजतत्त्वविमर्शेन सर्वाणि खनिजानि सूर्यमरिचीनां रसवीर्यपाकादिभिः निष्पद्यन्ते इत्युक्तं भवति । अत्र सूर्य शब्दः अग्निशब्दोऽपि भवति - अग्निसूर्ययोरभेदात् । यथा एक एव तेजःपदार्थः पृथिवीस्थोऽग्निरित्युच्यते, अन्तरिक्षस्थो वायुरिति अथवा विद्युदिति व्यपदिश्यते । दिविस्थस्सूर्य इति विज्ञायते । इति श्रुत्या प्रपञ्चितः । पुष्यरागः अथवा पुष्परागः - महानीलं, पद्मरागं प्रवालकं वैडूर्यं नीलं चेति एते मणयः ॥
नवरत्नशुद्धिः
माणिक्यम् अम्लेन शुध्यति । मौक्तिकं जयन्त्या । विद्रुमं क्षारवर्गेण, तार्क्ष्यं (गारुडात्मकम्) गोदुग्धैः, पुष्परागं कुलुत्थक्वाथसंयुतैस्सन्धानैः, वज्रं तण्डुलीयजलैः, नीलं नीलीरसेन, गोमेधं रोचनाभिः, वैडूर्यं त्रिफलाजलैः ॥
रत्नानां गुणाः रत्नमस्मादिक्रमाश्च वैद्यग्रंथेषु विशेषतो निरूपिता भवन्ति ॥
लोहानि (Metals)
सुवर्णं रजतं ताम्रं त्रषु सीसकम् आयसं षडेतानि च लोहानि । कृत्रिमौ कांस्यपित्तलौ इत्येके । सुवर्णं रूप्यं ताम्रं लोहम् आरकूटं त्रषु सीसकम् इत्यन्ये ।
अथ सुवर्णम्
सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम् । लोहानामुत्तमं चैव सर्वेषामपि चोत्तमम् इत्युक्तत्वात् सुवर्णं जनानामत्युत्तमं धनं भवति । अनेन कटकमकुटादिभूषणादिकं क्रियते । तद्धारणं परमं मङ्गलमिति मन्यन्ते आर्याः । तथा च श्रुतिः - अग्रेरपत्यं प्रथमं पवित्रं मङ्गलं परम् अत्र अग्रेरपत्यमित्यनेन सुवर्णादिकं पृथ्वीगर्भे विशेषतः अग्निकार्येण जायत इत्युक्तं भवति । अत एव केचित्तार्किकाः सुवर्नरजतादिकं तैजसमिति मन्यन्ते । अन्ये तु पार्थिवमिति । वस्तुतत्त्वं तु मृत्पाषाणादिपार्थिवद्रव्यमेव जलसंसर्गेण अग्निपाकेन सूर्यरश्मिकृतप्रकाशापादनेन वायुसहायेन आकाशादृतावकाशेन च सुवर्णरत्नादिरूपेण जायते ।
सुवर्णं जाम्बूनदम्, इन्द्रगोपसन्निमं चन्द्ररश्म्याभम्, शबरोपमं शुकाभं पीतम् इति, अनेकधा भवति ।
सुवर्णं पञ्चविधम् इत्यन्यत्र - प्राकृतं सहजं वह्नि- सम्भूतं खनिसंभूतं रसेन्द्रवेधसञ्जातं चेति । तेषु रजोगुणसमुद्भवं प्राकृतम् (Pure gold is formed by heat energy). मेरूद्भवं सहजम् (Natural gold is produced in Altai Mountains in China.) वह्निसम्भूतम् (That which is formed underground by chemical action.) त्रिविधमेतत्सुवर्णं षोडशवर्णयुतम् (These are best kinds having sixteen carats in colour.) गिरिसंभूतं खनिसंभूतं च सुवर्णं चतुर्दशवर्णाढ्यम् (That which occurs in mountains and mines are of fourteen carats.) रसेन्द्रवेधसम्भूतं वेधजम् (Imitation gold is got by the amalgamation of certain metals and mercury.) सुवर्णं स्निग्धं (Beautiful) मेध्यं (Precious and valuable.) विषगदहरम् (Kills poison.) बृंहणं (contributes greatly to growth.) वृष्यं (gives energy.) सुवर्णभस्मविधयः रसरत्नसमुच्चये लोहनिरूपणे दर्शिताः (Methods of oxidising gold and its use in medicine are given in dealing with several kinds of metals in “Rasaratnasamuchchaya” the first and best work on Aryan Chemistry and in Mineralogy.)
सुवर्णादिनाणकनिर्माणशाला (Mint)
सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानाम् असम्बन्धावेशनचतुश्शालाम् एकद्वारम् अक्षशालां (Chemical Hall or Laboratory) कारयेत् । विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिज्ञानं प्रत्येकं च स्थापयेत् । (In the Laboratory a Superintendent or an expert is to be placed so also an expert goldsmith, an artist and a chemistry professor are to be separately employed.) इत्युक्त्वा सुवर्णप्रभेदविषये जाम्बूनदं शातकुम्भं हाटकं वैष्णवं शृङ्गशुक्तिजं जातरूपं रसविद्धमाकरोद्गतं च सुवर्णमिति दर्शयित्वा तस्य गौरववर्णादिकं (weight and carats) च निर्दिष्टम् । तद्विशेशविज्ञानाय शास्त्रान्तराणि विशेषतः वैद्यशास्त्राणि द्रष्टव्यानि ॥
रजतम् (Silver)
सहजं खनिजसञ्जातम् कृत्रिमं चेति रजतं त्रिविधम् । कैलासाद्रिसंभूतं सहजम् । (Of the three kinds of silver that which is found in the Kailasa Mountain in the Himalayas is natural and best for medicinal purposes.) हिमाचलादिकूटेषु खनिभ्यः आहृतम् परमं रसायनम् । (That which is obtained from the ores got from the mines near the Himalayas other mountains is also good and very useful.) वङ्गं यत्र रूप्यतां गतं तत्कृत्रिमम् । (By certain casting processes, tin is converted into silver and this kind of silver is of low variety i.e. imitation silver like German silver or Silver metal may be mixed with Tin naturally in the ores.) रजतं स्निग्धम् । (Beautiful to look at) धनम् (Valuable and Solid) गुरु (Weighty) दाहे छेदे च सितम् (It is always white in colour when cut and melted.) मृदु (soft) नागेन टङ्कणेनैव पाटितं शुद्धिमृच्छति (It is purified by mixing with tin and borax i.e. Silver mixture can be oxidised by this process) रजतभस्म बहूपयोगकारि (Silver oxides are very useful.)
ताम्रम् (Copper)
ताम्रं म्लेच्छं नेपालकं चेति द्विविधम् । (Copper can be found in northern countries outside India i.e. Central Asia and also in Nepal.) सितकूष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् । कृष्णं, सुस्निग्धं, मृदुलं शोणं धनधातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् । पाण्डुरं कृष्णशोणं च लघु, स्फुटनसंयुतं रूक्षाङ्गं सदलं यत्ताम्रं तद्रसकर्मणि नेष्यते । ताम्रनिर्मलपत्राणि इम्बाम्बुसिन्धुना लिप्त्वा (सिन्धु = White borax) सौवीरकक्षेपात् ध्यात्वा विशुध्यति एकवारतः । सूक्ष्माणि ताम्रपत्राणि गोमूत्रे पञ्चयामकं क्षिप्त्वा भाण्डे रसेन तद्विगुणं गन्धकं दत्वा अम्लपर्णी प्रपिष्य मर्दितं भाण्डे सम्यङ्निरुध्य तमग्निं यामकं ज्वालयेद्यदि तदा तद्भस्मीभवति इति ताम्रभस्मविधानेषु अनेकेषु अन्यतममत्रोदाहरणाय निर्दिष्टम् ॥
अथ अयः (Iron)
अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् । मुण्डं च मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रावमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नाळं, तारावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलकवत्कुटिलरेखा - अथवा - वङ्गम्) भङ्गे पारदवच्छवि । नमने भङ्गुरं यत् तत् खरम् । वेगभं रुरुधारं यत् तत्सारलोहम् । तच्च पोगराभासकं पाण्डुभूमिकं कृष्नपाण्डुवपुः चञ्चुबीजतुल्योरुपोगरं छेदने चातिपरुषं यत् तत् हृन्नाळम् । पोगरैः वज्रसङ्काशौः सूक्ष्मरेखैश्च सान्द्रकैः निचितं श्यामलाङ्गं यत् तत् वाजिरम् । नीलकृष्नप्रभं सान्द्रं मसृणं गुरु भासुरं लोहघातेऽपि अभङ्गात्मधारं यत् - तत् कालायसम् (Steel) ।
कान्तं भ्रामकं चुम्बकं कर्षकं द्रावकं चेति चतुर्विधं । रोमकान्तं च पञ्चमम् । एकद्वित्रिचतुष्पञ्च सर्वतोमुखमेव तत् पीतं कृष्णं रक्तं त्रिवर्णकं स्यात्पृथक् पृथक् । स्पर्शवेधि भवेत्पीतं कृष्णं श्रेष्ठं रसायने । रक्तवर्न रसबन्धयोग्यम् । भ्रामकं कनिष्ठम् । चुम्बकं मध्यमम् । कर्षकमुत्तमम् । द्रावकमुत्तमोत्तमम् । चुम्बयेच्चुम्बकं कान्तं कर्षयेत्कर्षकं तथा । साक्षाद्यद्द्रावयेल्लोहं तत्कान्तं द्रावकं भवेत् । तद्रोमकान्तं स्फुटितात् यद्रोमोद्गमो भवेत् । कनिष्ठम् एकमुखम् । मध्यं द्वित्रिमुखम् । चतुर्मुखं श्रेष्ठमुत्तमं सर्वतोमुखम् ॥
मदोन्मत्तगजः - सूतः (Mercury) कान्तमङ्कुशमुच्यते (Magnet holds it in its power.) क्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्नेन धीमता । मारुतातपविक्षिप्तं वर्जयेत् । सम्यगौषधिकल्पानां लोहकल्पः (Ferric compounds) प्रशस्यते । तस्मात्सर्वप्रयत्नेन लोहमादौ विमारयेत् । लक्षोत्तरगुणं सर्वम् । (All kinds of other metallic compounds may be used for thousands of purposes. The use of Ferric compounds covers even higher number of ways.) कान्तं कोटिगुणं भवेत् । (Magnet is used for millions of purposes. The higher the quality the greater is the number of uses made of it.) शशक्षतजसम्मिश्रं त्रिवारं परितापितम् । मुण्डादिसकलं लोहं सर्वदोषान्विमुञ्चति । लोहभस्मादिविधानानि अनेकान्युक्तानि शास्त्रेषु । लोहरसायनानि अतिश्रेष्ठानि । (Ferrous compounds and tonics are very effective.)
पित्तलम् (Brass)
पित्तलं च द्विविधम् । रीतिका - काकतुण्डीति । या काम्राचिके (a kind of vessel or furnace) क्षिप्त्वा सन्तप्ता सती ताम्राभा भवति - सा रीतिका । तथा या कृष्णा भवति सा काकतुण्डी । रीतिका - मृद्वी, गुर्वी, पीताभा, सारङ्गी, ताडनक्षमा, स्निग्धा, मसृणाङ्गी । अतश्शुभा । पाण्डुपीता, खरा, रूक्षा, बर्बरा, ताडनक्षमा, पूतिगन्धा, लध्वी, रीतिः रसदिषु नेष्यते ॥
कांस्यम् (Bell - Metal)
अर्धभागेन ताम्रेण द्विभागकुटिलेन (वङ्गेन) च । विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् । इदं तीक्ष्णशब्दं मृदू स्निग्धम् ईषच्छ्यामलशुभ्रकं निर्मलं दाहरक्तम् इति षोढा भवति । तदेव पीतं दहने ताम्रं खरं रूक्षं धनासहं मर्दनादागतज्योतिश्चेत् अपरिग्राह्यं भवति । कांस्यं लघु तिक्तोष्णं लेखनं दॄक्प्रसादनं कृमिकुष्ठहरं वातपित्तघ्नं दीपनं हितं च भवति ॥
वर्तलोहम् (Bell metal - a kind of brass)
कांस्यार्करीतिलोहजातं वर्तलोहं पञ्चलोहाख्यम् । इदं गन्धतालाभ्यां पुटितं सत्क्रियते । इदं र्सवज्रयोः द्रावणाय परमं तेजो भवति । तथा चोक्तम् - रसोपरसलोहाद्यैः सूतस्सिध्यति नान्यतः इति । सुवर्णरूप्यताम्रायस्कान्तसम्भूतमिदं वर्तलोहम् । अस्य शुद्धिविधानं स्पष्टमभिहितं शास्त्रेषु ॥
नवरत्नस्वरूपगुणादयः
पूर्वमेव नवरत्नानां नामानि केवलं निर्दिष्टानि । अत्र तेषामुत्पत्यादिविशेषाः प्रदर्श्यन्ते ।
नवरत्नेषु वज्रं (Diamond) मुख्यम् । वज्रं षट्कोणं शुक्लवर्णम् - ऐन्द्रम् । असितं सर्पास्यसदृशं याम्यम् । नीलपीतं सर्पाकारं वैष्णवम् । स्त्रीमणिसदृशं वारुणम् । नीललोहितं कर्णिकारकुसुमसदृशं त्र्यस्रम् आग्रेयम् । यवाकारं मध्यस्थूलं लोहितवर्णमशोककुसुमसदृशम् वायव्यम् ॥
एतेषामुत्पत्तिस्थानानि
१. स्रोतः = यतो जलं स्रवति । २. खनिः = (खन्यत इति) खातम् । ३. प्रकीर्णम् = यस्या भूमेः मणयो भवन्ति तत्र आकरसम्भव इति त्रिविधानि तेषामुत्पत्तिस्थानानि ।
वज्रं सर्वद्रव्याभेद्यम् - लघु - रश्मिमत् - स्निग्धम् - भासा तटिदनिलशक्रचापोपमम् - हितम् = श्रेयस्करमिति भावः । यत् जलबुद्बुदसदृशं - विदारितप्रान्तं चर्षटं दीर्घं तस्य मूल्यमष्टमभागन्यूनम् । सभाराष्ट्रकं मध्यमराष्ट्रकं काश्मराष्ट्रकं श्रीकनकं, मणिमन्तकम्, इन्द्रवानकं च वज्रम् । तस्य खनिः, स्रोतः, प्रकीर्णं च योनय इति कौटिल्यः ॥ अन्यत्र एवमुक्तम् - यथा - वज्रं - कृते युगे कलिङ्गेषु कोसलेषु च वज्रसम्भवः । त्रेतायां हिमालये मतङ्गाद्रौ । द्वापरे पौण्ड्रके सुराष्ट्रे । कलौ वैराकरे सौवीरे इति प्रदर्शितः ।
गुणाः - षट्कोणत्वं लघुत्वं समाष्टदलता तीक्ष्णाग्रता निर्मलत्वमिति पञ्च ।
वज्रच्छाया - श्वेता, रक्ता, पीता, कृष्णेति चतुर्विधा ।
वर्जदोषाः - मलं मलिनता । बिन्दुः, आवर्तः, परिवर्तः, यवाकृतिरिति चतुर्विधाः । तेषु रक्तो वर्तुलश्च बिन्दुः आवर्तः । रक्त एव अपसव्यकः संरक्तः, परिवर्तः । खेदभ्रान्तिकरी रेखा । काकपदाकारः अङ्काः । भग्नग्रं भग्नधारं च दलहीनं च वर्तुलम् । भिन्नः भ्रान्तिकरः त्रासः ॥
पद्मरागः (Ruby)
सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागो जायते । सौगन्धिकः (गन्धकः) = (Sulphur) कुरुविन्दः (प्रवालः) - एतौ धातुविशेषौ । स्फटिकः - स्फटिकोपलः । सौगन्धिकसम्भूताः पद्मरागाः भ्रमरद्युतयः - उत्पलवर्णाः, जम्बूरसकान्तयः लोहितवर्णाश्च । कुरुविन्दप्रभवाः - शुक्लकृष्णव्यामिश्राः, अल्पकान्तयः, मृत्तिकादिधातुभिर्बद्धाः - अतः सकलङ्काः । स्फटिकसम्भूतास्तु द्युतिमन्तः, नानावर्णाः, विचित्राः, निर्मलाः ॥
सिंहल पद्मरागं रक्तम्, कालपुरम्ं पीतम् (कुरुविन्दमिति स्मृतम्), आन्ध्रम् अशोकफलनिभम् (सौगन्धिकं कथ्यते) तुम्बरं छायया नीलं नीलगन्धि च । तेषु सिंहलमुत्तमम्, तुम्बरं निर्भरम् ॥
मुक्ताः (Pearls)
हस्ती, सर्पः, शुक्तिः (प्राणिविशेषः), शङ्खः (प्राणी), मेघः, वेणुः, तिमिः (मत्स्यविशेषः), सूकरः एभ्यः मुक्ताफलान्युत्पद्यन्ते । सिंहलः (Ceylone) परलोकः (Foreign Countries) सुराष्ट्रकः (Gujerat) ताम्रपर्णी (नदी) पारशवः (May be Persia) कौबेरः उत्तरदेशः एतेषु देशेषु तेषाम् सम्भवः ।
मुक्ताः बहुविधाकाराः । निर्मलाः, स्थूलाः, ईषत्ताम्राः, शुक्राश्च ताम्रपर्णीभवाः । कृष्णाः, श्वेताः, पीताः, सशर्कराः (धातुयुक्ताः) पारलौकिकाः । नातिस्थूलाः, नातिसूक्ष्माः, नवनीतनिभाः, सौराष्ट्रकाः । तेजोयुक्ताः, शुभ्राः, गुरवः, महागुणाः, पारशवाः । लघवः, जर्जराः, दधिनिभाः, बृहत्यः, विस्तीर्णाः, द्विसंस्थानाः हिमवत्प्रभवाः । असमाः, कृष्णश्वेताः, लघवः, महाकायाः, निम्बफलसदृशाः, त्रिपुटाः, धान्याकफलसदृशाः, अतिसूक्ष्मचूर्णाः पाण्ड्यवाटभवाः ॥
अथ प्राण्यादिभवा मुक्ताः
गजमुक्ताः - हस्तिनां सरदकोशेषु जायन्ते । वराहमुक्ताः तिमिमुक्ताश्च, तेषां प्राणिनां दंष्ट्रामूलोद्भवाः । अत्र संशयः - एतेषां रददंष्ट्रादीन्यासाद्य कलाकुशलैरेव मुक्ताः क्रियन्त इति वेति । अयमभिप्रायः न स्वरसः । तथा कल्पितासु मुक्तासु तरलत्वापादनाशक्यत्वात् । किंतु, पूर्वोक्तप्राणिनः यदा मृताः भूमौ निक्षिप्ताश्च, तेषां वा, पूर्वयुगस्थतादॄशप्राणिनां वा रदादिभागाः अन्तस्थाग्निना जर्जरीकृताः मुक्तारूपमासाद्य पूर्वोक्तपञ्चमहाभूतकार्यात् तरलत्वमापन्नाः मुक्ता भवन्तीत्युत्प्रेक्षा स्वरसा सहेतुका च भवति । अभ्रजाः मुक्ताः सप्तमाद्वायुस्कन्धात् वर्षोपलवत् कुत्रचिञ्जायन्ते । नागजाः रजतमये अवनिप्रदेशे फणस्यान्ते नीलद्युतयो यदा भवन्ति तदा अकस्मात् वर्षो भवेच्चेत् नागजाः मुक्ताः प्रादुर्भवन्तीति ज्ञायते । वेणुजाः मुक्ताः कर्पूरस्फटिकनिभाः । शशिनिभाः परिवर्तुलाः रुचिराः तेजस्विनः शङ्खजाः मुक्ताः । शास्त्रान्तरेषु यथा - कुक्कुटाण्डसमं वृत्तं निविडं गुरु धनजं भानुसङ्काशं मैक्तिकं देवयोग्यं भवति । काम्भोजकुम्भसम्भूतं धात्रीफलसमं वर्षोपलसमं दीप्त्या पाञ्चजन्यकुलोद्भवं कपोताण्डप्रमाणम् ।
अम्बुधेर्मध्ये सिंहले च आर वाटके पारसीके बर्बरे च शुक्तिजं मुक्ताफलं भवति ।
रवौ स्वात्यां स्थिते मेधैः ये जलबिन्दवः मुक्ताः ते शुक्तिभिः गीर्णा मुक्ता जायन्ते । रुक्त्मिण्याख्यशुक्तिजातं मौक्तिकं निर्मलं कुङ्कुमच्छायं जातीफलसमं भवति । सिंहलोद्भवं सुस्निग्धं मधुरच्छायम् । आर वाटजं सुनिर्मलं पीतच्छायम् । पारसीकोद्भवं सितं स्वच्छम् । बर्बरोद्भवं रूक्षम् ईषच्छायम् ।
मुक्तानां दशदोषाः - शुक्तिलग्नः - मत्स्याक्षः - जठरम् - विद्रुमच्छायम् - अतिरक्तम् - त्रिवृत्तम् - पर्पटम् - त्र्यश्रम् - दीर्घम् - खण्डांशं - कुशपार्श्व चेति ।
पीता - मधुरा - सिता - नीला चेति चतुर्धा भवति मौक्तिकच्छाया ॥
मुक्ताहरणम्
राजा - मौक्तिकानां समुत्पत्तिः स्थाने स्थाने महोदधौ । तानि स्थानानि संरक्षेदाहरेच्च ततो धनम् ॥ वेलापूरेषु सर्वेषु समीपस्थेषु वारिधेः । रक्षां विधाय यत्नेन राज्ञा सम्पदमिच्छुना ॥ निजवेलातटस्थानां पोतवाहनकर्मणाम् । पोते प्रत्यागते तस्माद्दशमांशं हरेन्नृपः - इति मुक्ताधनेभ्यः राजादायोऽपि सूचितः ॥
माणिक्यम् (A kind of ruby-like Gem)
माणिक्यस्य उत्पत्तिस्थानानि चत्वारि । सिन्धुः, रोहणः, गङ्गा, सिंहलश्चेति । सिंहलं, कालपुरं, आध्रं, तुम्बरं चेति चत्वारि क्षेत्राणि अन्यैः प्रदर्शितानि ।
अष्टौ माणिक्यदोषाः - भिन्नं कर्करं लघु पटम् मधिबिन्दुसमच्छायं (कोमलम्) जडं धूम्रं वैद्युतं चेति ।
तस्य चत्वारो गुणाः - स्निग्धच्छाया गुरुत्वं नैर्मल्यम्, अतिरक्तता । तच्छाया सप्तधा भवति - रक्तकोकनदप्रभा खद्योताक्षी चकोराक्षी कोकिलनेत्रसन्निभा सारसाक्षी सिन्धूरलोध्रपुष्पप्रभा गुञ्जाकिंशुकसन्निभा इति ॥
नीलम् (Sapphire)
नीलस्य द्वे च्छाये । नीलोत्पलदलप्रख्या - लोहाग्नित्विट्समप्रभा चेति । सिंहलद्वीपे रावणगङ्गाकूले पद्माकाराकरे च तस्य सम्भवः ।
नीलस्य षड्दोषाः - अभ्रकं सशर्करं भिन्नं मृत्तिकागर्भं भेदसंशयकृत् अश्मगर्भं चेति ॥
गुरुत्वं स्निग्धकान्तित्वं सुरङ्गं पार्श्वरञ्जनं तृणग्राहित्वमिति तस्य गुणाः पञ्च । नीलस्य च्छाया - वैष्णवी (नीलीरससमा भासा) आवली, पुष्पसङ्काशा, नीलेन्दीवरसमप्रभा, अतसीपुष्पसङ्काशा, चाषपक्षसमद्युतिः, मयूरकण्ठसच्छाया, भृङ्गपक्षसमप्रभा । क्षीरमध्ये नीलं यदा क्षिप्यते, तदा दुग्धं नीलतां व्रजेच्चेत् तत् इन्द्रनीलमित्युच्यते ॥
मरकतम् (Emerald)
मरकतं शुकपक्षसदृशवर्णम् - वंशपत्रसदृशम् - कदलीनिभम् - शिरीषकुसुमप्रभं चेत्यनेकविधम्
मरकतं तुरुष्कविषये, अम्भोधिसमीपे, विषमस्थले चोत्पद्यते ।
तस्य सप्तदोषाः - रूक्षम्, सपिटकम्, विच्छायम्, कर्करम्, जठरम्, शबलम्, सपाषाणं चेति ।
मरकतच्छाया अष्टविधा - बर्हिपिञ्छसमा भासा, चाषपक्षसमप्रभा, काचादिदोषरहिता, शैवालसन्निभा, खद्योतपृष्ठसङ्काशा, शुकपत्रसमा, नवशाद्वलनिभा शिरीषकुसुमप्रभा चेति ॥
स्फुटिकम्
हिमालये, सिंहले, विन्ध्ये, तपतीतीरे च स्फटिकं जायते । हिमाद्रिजं चन्द्रसङ्काशं स्वच्छं कान्तियुतम् । तत् सूर्यकान्तं चन्द्रकान्तं चेति द्विविधम् । सूर्यकरस्पर्शमात्रेण यत्तत्क्षणं वह्निं वमति तत्सूर्यकान्तम् । पूर्णचन्द्रकरस्पर्शेन यदमृतं क्षरति तच्चन्द्रकान्तम् ।
अन्यानि स्फटिकानि विन्ध्ये, तापीतटे, सिंहले, नीलगन्धिके, पद्मरागभवस्थाने च सम्भवन्ति ।
पुष्यरागम् (Crystal Stones)
इदं पविच्छायं - कान्त्या स्वच्छम् ।
वैडूर्यम् (Lapis lazuli)
ईषत्कृष्णं सितं चेति द्विविधम् ।
गोमेधकम् (A Gem - occurring in Himalays)
इदं रत्नं मधुबिन्दुसमं गोमूत्रनिभं वा भवति ।
विद्रुमः (Corals)
विद्रुमाख्या वल्लरी सेतौ सागरमध्ये च जायते । रत्नरूपिणी सा दुर्लभा । प्रयत्नाद्रबाधिता सती एषा पाषाणत्वं भजति ॥
प्रवालम् (Coral - a kind of gem)
प्रवालं नाम रत्नं वर्णाढ्यम् । मन्दकान्तिकम् । अस्मिन्पद्मरागनीलयोर्दोषा भवन्ति ॥
रत्नसामान्यस्य गुणाः
गौरवं स्वच्छता कान्तिः काठिन्यं चेति चतुर्विधा भवन्ति ।
रत्नपरीक्षा
वज्रेण वेधयेद्वज्रम् । तत्कृत्रिमं चेद्विभज्यते । मौक्तिकं कृत्रिमं चेत् लवणाम्भसा क्षालितं नश्यति । माणीक्यादीनां शोधनं कर्षणक्वथनाभ्यां कर्तव्यम् । कृत्रिमं चेत् क्कथनाद्रागस्त्यज्यते । कर्षणान्मार्दवं दृश्यते यदि तत्कृत्रिमम् । इति सङ्ग्रहेण रत्नपरीक्षा । विस्तरतस्तु तत्तच्छास्त्रेषु वर्णिता ॥
अर्थशास्त्रे चाणक्येन प्रदर्शिता मणिप्रभेदाः
ताम्रपार्णिकं, पाण्ड्यकवाटकं, पाशिक्यं, कौलेयं, चौर्णेयं, माहेन्द्रं, कार्दमिकं, स्रौतसीयं, ह्रादीयं हैमवतं च मौक्तिकम् शुक्तिः, शङ्खः प्रकीर्णकं च योनयः ।
मसूरकं त्रिपुटकं कूर्मकं अर्धचन्द्रकं कञ्चुकितं यमकं स्वरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम् । स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम् ।
सौगन्धिकः पद्मरागः अनवद्यरागः पारिजातपुष्पकः बालसूर्यकः । वैडूर्यः उत्पलवर्णः - शिरीषपुष्पकः उदकवर्णः वंशरागः । शुकपत्रवर्णः पुष्यरागः । गोमूत्रकः गोमेदकः । नीलः इन्द्रनीलः कलायपुष्पकः महानीलः जाम्बवाभः जीमूतप्रभः । नन्दकः स्रवन्मध्यः शीतवृष्टिः सूर्यकान्तश्चेति अन्ये मणयः ।
अथ मणिदोषाः
खल्पकान्ताः लेपाकीर्णाः धातुमुक्ताः स्फटिकाः शर्करासंयुक्ताः (Small sandy particles) इति ॥
सुवर्णरत्नखचितभूषणानि
प्राचीनार्याः खलु भूषणप्रियाः । भूषणरचनार्थं सुवर्णादिधातूनां वज्रादिरत्नानाञ्चापेक्षा । तदपेक्षया तदन्वेषणाया तल्लाभाय च भूगर्भशोधनम् इति खनिजान्वेषणे एको हेतुः । विविधविचित्रभूषणानि तु तन्निर्माणकलाकुशलै रचितानि रच्यमानानि - रचयिष्यमाणानि च भवन्ति । तादृशभूषणादिरचनमेव कस्यचित्कुलस्य वृत्तिसाधनं भवति । तादृशकलाकुशलाः रत्नपरीक्षकाश्च भारतभूम्यामनेके वर्तन्ते ।
तथा निर्मितानि भूषणानि स्त्रीपुंससामान्येन धार्याण्येतानि - एकावली त्रिसरं पञ्चसरं सप्तसरं नवसरम् इति मुक्ताफलाढ्यानि कण्ठभूषणानि । रत्नसहितस्यूतानि तानि तु नीललम्बनिकावर्णसरः ब्रह्मसूत्रमित्यादयः । नानारत्नखचितं पदकं वक्षस्थलविभूषणम् । केयूरं बाहुभूषणम् । अङ्गदं बाहुसन्धिविभूषणम् । कटकं हस्तभूषणम् । अङ्गुलीयकमष्टवज्रं मणिमण्डलं नन्द्यावर्तं वेष्टकं त्रिःइरकमिति अङ्गुलीयकभेदाः । शुक्तिमुद्रिका - मुद्रिकादयः अङ्गुलीयकभूषणविशेषाः । मुक्ताटङ्कं द्विराजिकं त्रिराजिकं वज्रगर्भं मणिमण्डलं कुण्डलमित्यादीनि कर्णभूषणानि । सुवर्णरचिता विविधाः शृङ्खलाः । ताटङ्ककटकानि च सामान्यभूषणानि ।
स्त्रीभिरेव धार्याणी भूषणानि तु - सञ्जातिलकं दण्डकं चूडामण्डलं दण्डकोर्ध्वभूषणं तथा चूलिका परभागभूषणं चूलीभूषणं मेखला कर्णभूषणं सारिका लम्बिनी वज्रसङ्करिका बाहुबलयौ बाहुवेष्टनं चूडकम् अर्धचूडकं पादचूडकौ कटकौ मेखलापादपट्टौ पादरर्गरिके एडकाः अन्दुकाः इत्यादीनि ॥
पुंभिरेव धार्याणि - अङ्गदाभिधौ बाहुबलयौ यमलाः मुद्रिकाः शेखरं मुकुटं सौवर्णरत्नसंयुक्तपट्टः, सरकयुक्तशिरोवेष्टनं हेमरचितदलकम् इत्यादीनि ॥
एतेषां ज्ञानेन परम्परासम्बन्धवशात् खनिजतत्वावबोधो भवति । सुवर्णरजतादिसन्धानविज्ञानं च भवति । तादृशसन्धानविषये श्रुतिः - (ऐ. ब्रा. अ. ७. ऋ. ३२) यथा श्लेष्मणं चर्मण्यम् अन्यद्वा विश्लिष्टं संश्लेषयेत् । अत्र भाष्यम् - एकेन द्रव्येण
द्रव्यान्तरं सन्धीयते । तद्यथा - लवणेन सुवर्णं सन्धध्यात् । सुवर्णेन रजतम् । रजतेन त्रपु । त्रपुणा सीसम् । सीसेन लोहम् । लोहेन दारु । दारुणा चर्मेति । क्षारादीनां सुवर्णादीनां च सन्धानं सुवर्णकारादिषु प्रसिद्धमिति ॥
रससिद्धाः (Great Alchemists)
व्यालाचार्यः, चन्द्रसेनः, सुबुद्धिः, नरवाहनः, नागार्जुनः, रत्नघोषः, सुरानन्दः, यशोधनः, इन्द्रधूमः, माण्डव्यः, चर्पटिः, शूरसेनकः, आगमः, नागबुद्धिः, खण्डः, कापिलकः, कामारिः, तान्त्रिकः, शंभुः, लङ्कः, लम्पटः, शारदः, बाणासुरः, मुनिश्रेष्ठः, गोविन्दः, कपिलः, बलिः ॥
रसतन्त्रकाराः (Chemists who have written works on Chemistry)
आदिमः, चन्द्रसेनः, लङ्गेशः, विशारदः, कपालिः, मत्तः, माण्डव्यः, भास्करः, शूरसेनकः, रत्नकोशः, शंभुः, सात्विकः, नरवाहनः, इन्द्रदः, गोमुखः, कम्बलिः, व्यालिः, नागार्जुनः, सुरानन्दः, नागबोधिः, यशोधनः, खण्डः, कापालिकः, ब्रह्मा, गोविन्दः,लम्पकः, हरिः एते सप्तविंशतिसंख्याकाः ।
रसतन्त्राणि
रसाङ्कुशः, भैरवः, नन्दी, स्वच्छन्दभैरवः, मन्थानभैरवः, काकचण्डीश्वरः, वासुदेव‌ऋषिः, शृङ्गः, क्रियातन्त्रसमुच्चयः, रसेन्द्रतिलकः, योगी, भालुकी, मैथिलः, महादेवः, नरेन्द्रः, वासुदेवः हरीश्वरः, इत्येतानि । (These are works on ancient Chemistry.)
रसशाला (Chemical Laboratory and also Factories)
पूर्वदिग्भागे रसभैरवः (Experiments on quick-silver etc., are conducted in the eastern portion of the Laboratory.) आग्नेये वह्निकर्म । (Heat and other power furnaces have to be established in the South - east.) तत्र शत्रुनिग्रहार्थमपेक्षितानि बहुविधान्यायुधान्यपि कल्पितानीति विज्ञायते । तथा च श्रुतिः - अतिताम्राणि वासांसि । अष्टि वज्रं शतघ्नि च । विश्वे देवा विप्रहरन्ति अत्र भाष्यम् - अष्ट्यादयः प्रहरणविशेषाः । यथा - अश्नुते व्याप्नोति शत्रूनिति अष्टिः - Poisonous gas सर्पास्त्रं वा आग्नेयास्त्रं वा भवेत् । वर्जयति व्रजन्त्यनेन शत्रव इति वा वज्रम् - वायव्यास्त्रं वा वारुणास्त्रं वा भवेत् । This is intended to drive or disperse the enemy. शतं हतीति शतघ्नम् शतघ्नी वा = certain weapons that kill hundreds of men at a time - may be destroyers such as high - flying gases, Shell and Bombs. आग्नेयास्त्रं वा भवेत् । This indicates the great scientific knowledge possessed by our ancient Aryans. याम्यां पाषाणकर्म । (On the South, ores have to be stocked and made fit for use.) नै‌ॠत्ये शस्त्रकर्माणि । (On the South - west portion of the Chemistry hall or Laboratory or factory weapons and other tools and implements have to be made.) वारुणे क्षालनादिकम् । (On the Western portion, washing and cleaning processes have to be attended to). वायुकोणे शोषणम् । (On the North-west of the hall, drying operations have to be conducted.) उत्तरे वेधकर्म । (On the North screwing and other similar works by machines will have to take place.) ईशान्ये सिद्धवस्तूनि । (On the North- east portion of the hall, all kinds of ready - made things are stored up and made available for use.) स शोभनोद्देशः भवेत् । (Laboratory and factory buildings should have spacious and suitable space with proper lights etc.) भवेत् कूपसमन्वितः । There should be proper wells, or other sources of water supply through pipes etc. नानोपकरणोपेतः (The laboratory or factory should be equipped with all requisite appartus.) सत्त्वपातनकौष्टिकः । (There should be a separate aparatment for reducing metals.) जारकौष्टिकः । (Separate aparatment for melting metals.) भूमिकौष्टिकः । (Underground apartment or separate apartment on the ground.) चलत्कौष्टिकः । (Traffic conveniences or conveyances.) अनेकजलद्रोणीयुतः । (Should have many pipes for free flow of water.) भस्त्रिकायुगलसंयुक्तः । (There should be blowing instruments.) पङ्कलोहकृतनाडिकायुक्तः । (Should have fanning instruments and other variety of tools and implements.) यथा सुवर्णकारादिः सुवर्णादेः किट्टादिकमपनेतुं भस्त्रया वायुमुत्पाद्य ज्वालिताग्निना ततः किट्टादिकम् अपनयति तथेति कस्मिंश्चित्संदर्भे दर्शितम् । क्षाराम्लद्रावकैर्युक्तः । (All chemical compounds - oxides, acids, salts, etc., should be kept ready.) आकरकोष्ठके यः ध्मातह् ततो निर्गतः सारः सत्त्वमित्यभिधीयते । (When metals or minerals are purified in the mines and reduced into a gaseous state, it is called an essence or elementary substance.)
यदा हुताशो दीपार्चिः शुक्लोत्थानसमन्वितः शुद्धावर्तस्तदा ज्ञेयः स कालस्सत्वनिर्गमे । (The essence of minerals under heat or Chemical operation is indicated when the flame in the furnace becomes white.) द्राव्यद्रव्यनिभज्वाला दृश्यते धमने यदा । द्रावस्योन्मुखदा सेयं बीजावर्तस्स उच्यते । (When heated metal becomes liqued and flows like water, that state is called Bijavarta i.e. indicating the essence of metal coming out.
सृष्टिप्रलयविचारः
कल्पान्ते सर्वमण्डस्याम्यन्तरम् अम्भोमिः प्रपूर्यते । तदा शरीरधारिणस्सर्वे नश्यन्ति - इति जलप्रलयमुक्तम् । ब्रह्मायुषि (Geological Era) पूर्णे अण्डमन्तर्गतेन तोयेन भिन्नं भवति । तदा तत् बाह्ये अम्भसि लीयते । तदैव जगदाधारा पृथ्वी अप्सु प्रलीयते । आपः ज्योतिषि प्रलीयन्ते । ज्योतिः वायौ प्रलीयते । वायुः आकाशे । आकाशं मनसि । मनः बुद्धौ । बुद्धिः आत्मनि । आत्मा अव्यक्ते । अव्यक्तं परे पुरुषे । इति जगत्सृष्टिप्रतीपक्रमेण जगत्प्रलयः प्रदर्शितः ।
मन्वन्तरे परिक्षीणे तदा पावकः क्षणात् सर्वतः ज्वालामाली भवति । तदा वनानि दह्यन्ते । तापतृष्णार्दिता मॄगाश्च दह्यन्ते । अग्निः वृक्षान् यावदिच्छं दहति इति अग्निप्रलयोऽपि निर्दिष्टः । मन्वन्तराणि तु चतुर्दश - चतुर्दश मनुभिरधिष्ठितानि । ते तु नाम्ना - स्वायम्भुवः, स्वारोचिणः, उत्तमः, तामसः, रैवतः, चाक्षुषः, वैवस्वतः, सावर्णिः, ब्रह्मपुत्रः, धर्मपुत्रः, रुद्रपुत्रः, दक्षपुत्रः, रौच्यः, इन्द्रसावर्णिः इति भवन्ति ।
परमपुरुषेच्छया अव्यक्ते चैतन्ये प्रसारिते पूर्वोक्तरीत्या पुनरेव ज्गग्दुत्पद्यते । इति सङ्ग्रहेण सृष्टिप्रलयतत्त्वम् ।
अथ खनिजाविर्भावतत्त्वम्
सर्वाणि खनिजानि पञ्चमहाभूतप्रभावोत्पन्नानि । तत्र पृथ्वीप्रभावः श्रुतिष्वेवं दर्शितः । पृथ्वी अदिती - अखण्डनीया देवगन्धर्वमनुष्यपित्रसुराणां सर्वभूतानां च माता - इत्यादिना पूर्वमेव दर्शितः । अप्प्रभावः - आपो वा इदसर्वं विश्वाभूतान्यापः इत्यादिना श्रुतिषु दर्शितः । आदित्यो वै तेजः (दीप्तिः) ओजः (रूपशोभा) बलम् इत्यादिना आदित्यप्रभावस्सूचितः । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि इत्यादिना वायुमाहात्म्यं सूचितम् । आकाशस्यापि आत्मनः प्रथमजत्वात् सर्वेषामवकाशप्रदायकत्वात् अस्य महिमा सुप्रसिद्धः । तन्मूलादेव - कोह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् इति श्रुत्या सर्वचैतन्यस्वरूपस्य आत्मनः सर्वत्रास्तित्वं च सूचितम् ।
एवं सत्यपि एतैस्मह पृथिव्यां पृथिवीगर्भे च अग्नेः कार्यं विशेषेणावधारितं भवति । अग्निः, जातवेदाः, उत्पन्नमात्र एव जानाति वेद । सहोजाः - बलसहितः - इत्यादिना अग्नेरष्टवसुरूपत्वं प्रदर्शितम् । अग्निः पृथिव्यां पाजो अश्रेत् ।
(ऋग्वेदे) = भूमौ वर्तमानः बलं सेवते । द्युमत् = दीप्तिमान् - अनेनास्य रत्नकनकादिखनिजजनकत्वं परिगृह्यते । अथ च अग्निः दशकलास्वरूपेण आविर्भूय लोकाननुगृह्णाति । खनिजाद्यानि च उत्पादयति इत्युक्तम् । ताश्च कलास्तु - (On characteristics of fire), धूम्रा (Smoke), अर्चिः (Flame), ऊष्मा (Heat), ज्वलिनी (Burning),ज्वालिनी (Causing other things to burn), विस्फुलिङ्गिनी (Producing sparks), सुश्रीः (Causing refinement), सुरूपा (Causing beauty), कपिला (Causing colours), हव्यकव्यावहा (Consuming everything.)
सर्वे वर्णाः अग्नेः अर्चिर्वर्णविशेषाः ऋतुभेदेन जायन्त इति तत्वम् । न सर्वकालं सर्वे वर्णविशेषाः अनियमेन भवन्ति । तादृग्वर्णाश्च सप्त । ते अग्निजिह्वा इत्युच्यन्ते । (Tongues or flames of fire). ताः, कराली, धूमिनी, श्वेता, लोहिता, नीललोहिता, सुवर्णा, पद्मरागेति । अत्र श्वेता इति स्थाने काली इति पदं संयोज्य पठन्ति केचित् । अत्र श्लोकोऽपि यथा - काली कराली च मनोजवा च सुलोहिताऽया च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुचीतिचैता लेलायमाना इति सप्त जिह्वाः ॥ (These names express defferent intensities of heat and colours caused thereby.) अग्निशक्तिभिरेवे सुवर्णादीनि जायन्ते । अतः सुवर्णस्य अग्निजम् अथवा अग्निजातम् (Procuded by fire) अग्निबीजम्, अग्निरेतः इत्यादीनि नामानि ॥ भूगर्भस्य अग्निगर्भ इति भूम्याः अग्निगर्भेति च व्यपदेशः । तस्यैव - अग्निर्विभ्राष्टि वसनः - विभ्राजमानवसाः । वायुश्श्वेतसिकद्रुकः - श्वेतानां सिकतानां दोग्धा । संवत्सरो विषूवर्णैः (युक्तः) ॥
इत्युक्तत्वेन ते तव नित्याः अनुचराः - न चलाः, न कदाचिदपि तव सकाशं विमुञ्चन्तीति इमे ध्रुवाः । एभिर्युक्तः आयाहीति इन्द्रप्रार्थनया च, अप्सु अग्निसंयोगात् सर्वत्र विसर्पिणो वायोः प्रभावाच्च पृथ्वीगर्भस्थाः केचित्पदार्थाः सुवर्णादिखनिजभावमापद्यन्ते इति सुव्यक्तम् । तथा च दर्शितमन्यत्र - हे इन्द्र ! आतनुष्व समन्तादात्मानं विस्तारय । प्रतनुष्व प्रकर्षेणात्मानं विस्तारय । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् = त्वं चन्द्रवर्णानां हिरण्यवर्णानामपाम्, आदित्ये गर्भमाधेहि स्थापय । कं गर्भम् ? यः पुमान् - अग्निमित्यर्थः । (The energy that causes water is abiding in the sun.) इतस्सिक्तं सूर्यगतं । चन्द्रमसे रसं कृधि । वारादं जनयाग्रेऽग्निम् - इतः कर्मणः सिक्तं रेतस्स्थानीयं सूर्यगतम् - आदित्ये प्राप्तम्, कर्मफलं हविर्वा तत्, चन्द्रमसे - चन्द्रार्थम्, तदा काराभिवृध्द्यै रसं कृधि - कुरु । अग्रे प्रथममेव वारादं तम् अग्निं जनय । ततस्ततो निस्सृतो रसः (जलात्मकः) प्रजननस्थानीयः चन्द्रमसमाप्याययेति तात्पर्यम् । वाराणामभिमतफलानां दाता = वारादः, यद्वा - वरणीयदेहो वारादः, यद्वा - वारां सलिलानाम् आदाता = वारादः ईदृशमग्निं जनयेत्याकूतम् । अन्यत्र पृथिवी धेनुरूपेण, अग्निः वत्सरूपेण वर्णितम् । यथा - पृथिवीधेनुरस्या अग्निर्वत्सः । सा मेऽग्निना वत्सेनेपमूर्जं कामं दुहाम् । पृथिवी अग्निना अन्नं बलं सर्वं फलमदुग्धामिति तात्पर्यम् । [By such description of fire it is learnt that sun’s rays absorb water on earth which becomes the body of the moon and by the fall of rain, water is absorbed by the earth and heat of the sun in the form of interior fire acting on water with the help of air produces all kinds of minerals and gems in the earth and on mountains etc. In gold and other minerals it is seen that the effect of heat and light on solid matter are predominant and in the case of several kinds of gems the same predominates over liquid substances. This is the principle expressed in various ways in different Vedas (which treat nothing but Philosophy) and different Sastras (Sciences) such as “Khanija Sastra”, “Rasaratnakara” “Dhatuvada” of the ancient Aryas of the East and also in many Geological works (both ancient and modern) of the West.]
अनेन सङ्ग्रहरूपसनातनभूतत्त्वविज्ञानविचारेण प्राचीनार्याणां विज्ञानशक्तिप्रभावः सुव्यक्तो भवति । विशेषतस्तु शास्त्रान्तरगम्यो विचारः । (In this connection it is worth while to notice what Vance Roudolph guotes from Was Mann - it is this - “They - the ancient Aryans - were no mean Astronomers. They were also skilful Physioiogists. They had made considerable advance in Biology, Anatomy, Physiology etc. and all their knowledge is recorded in Veda. Man is, as a matter of fact, the only being in the visible universe who is gifted with reason. with spiritual soul and with morality”.)

ॐ तत्सत्
प्रथमोऽनुबन्धः (Appendix I)
संपत्प्राप्तिः (Acquisition of Wealth)
संपत्तावदनेकविधा - धनसंपत् धान्यसंपत् पुत्रसंपत् पशुसंपदित्यादिरूपा । सा च हिरण्यरजतादिरूपा । तथा च श्रुतिः श्रीः (Wealth) सुवर्णरजतस्रजेति । सा श्रीः गंधद्वारा प्राप्य - पृथिवी गंधवतीति तत्वानुरोधेन पृथिवीगर्भे यत्र यत्र सुवर्णरजतादिकं वर्तते इति तत्तद्धातुरोधेन पृथिवीगर्भे यत्र यत्र सुवर्णरजतादिकं वर्तते इति तत्तद्धातुगन्धेन (by scent) - तदीयरूपगुणादित्तिह्नावबोधकभूविज्ञानेन (Geological knowledge), निर्धार्य, तत्प्राप्तिमार्जमनुसरेदिति तात्पर्यम् । अन्यथा सा दुराधर्षा - प्राप्तुमशक्या (otherwise, it cannot be obtained) साधितायां तस्यां, सा नित्यपुष्टा भवति - पृथिव्यप्तेजोवाय्वाकाशरूपपंचमहाभूतानां कार्य संसर्गादेव अनेकधातुभावमापद्य पुष्टापि, तत्साधनानंतरं च धनरूपेणोपचिता भवतीत्याक्‌तम् । (Naturally minerals are formed in the interior of the Earth by the action of the five great elements viz., Earth, Water, Heat and Light, Air and Ether, and when they are obtained, they become very useful i.e., one who gets it becomes greatly enriched.) सा करीषिणी - विविधशिलेष्टकारूपेण भूगर्भादुद्ध्रियते । (It is contained in the oreas obtainable from the mines.) सैव श्रीः ईश्वरी सर्वभूतानाम् सर्वप्राणिभिरपेक्ष्येति यावत्, अथवा सर्वप्राणिनः ईश्वरान् स्वतन्त्रजीविनो धनिकान् करोतीति ज्ञेयम् । यस्यास्ति वित्तं स नरः कुलीनः सपण्डितस्सश्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति इति सुभाषितमपि तमेवार्थं स्पष्टीकरोति । (Wealth brings hapiness to all men and makes them lords and independent. This mantra occurs in various places in Vedas and variously interpreted according to the contexts.)
अनेकरूपाणि श्रीः प्रधानतया हिरण्यरजतरूपेण वर्ण्यते । (Wealth is of various forms of which gold and silver are important.) तथा च श्रुतिः - चन्द्राभा लक्ष्मीः (रजतमिति यावत्) ईशाना । (Wealth in the form of silver is enough to make one lord.) सूर्याभा परमेश्वरी (That in the form of gold makes one Supreme Lord). चन्द्रसूर्याग्निसंकाशा श्रीमहालक्ष्मीः हिरण्यरजतोभयरूपं धनं महाभाग्यं भवति । (Gold and silver constitute the large wealth or riches). अत एव सा विश्वप्रिया विश्वमनोनुकूलेति दर्शितम् । अतः नित्यं सा मम गृहे सर्वमाङ्गल्ययुक्ता वसत्विति सर्वैः प्रार्थ्यते । (Every one desires and prays for wealth.) भूसूक्ते श्रीसूक्ते लक्ष्मीसूक्ते अन्यत्र प्रकरणान्तरेषु च भूविज्ञानविशयाः सम्यक् समुपदिष्टाः । तदर्थमपेक्षिता विज्ञानसंपच्च मेधा सूक्तादिषु प्रपञ्चितेति प्रकरणसङ्गतिः । ग्रन्थधारणसमर्था वुद्धिः मेधा । (Understanding and remembering faculty). सा विश्वाची विश्वं वेद्यं अञ्जन्ती - प्राप्नुवन्ती भद्रा कल्याणहेतुर्भवति । (As intelligence covers all arts and sciences, it brings happiness and prosperity.) तद्विना जनः मूकसदृशः तज्जुष्टो बृहद्वदति । (Without it, one is like a dumb animal, with it, one can speak much of any thing. अतः सा अस्मानागत् Therefore let us possess it, i.e., let us become intelligent), यतः तज्जुष्टो जनः तत्वद्रष्टा भवति, मन्त्रदृग्भवति, ब्रह्मा भवति, प्राप्तश्रीर्भवति, चित्रं धनं विन्दते । (One who possesses keep intellect can discover manyunknown things, can invent many useful things, can even have recourse to or solve a great many spiritual problems and in short, can discover and possess any or many kinds of wealth.) सा नो जुषस्व द्रविणेन मेधे - तादृशी त्वम् प्रशस्तेन धनेन अस्मभ्यं देयेन सह अस्मान् जुषस्वे ति मेधाप्रार्थना (तै. आ. प्र. ६, अनु. ४९), (Therefore it is prayed for in Vedas since it brings one various kinds of wealth.) This brief description of possessing wealth and its means viz. keen intellect shows that Ancient Aryans, who were great in so many things, were great Geologists also.)