सनातनभौतिकविज्ञानम्
”निखिलमनुजचित्तं ज्ञानसूत्रैर्नवैर्य-स्स्रजमिव कुसुमानां कालरन्ध्रैर्विधत्ते ।
स लघुमपि ममैतं प्राच्यविज्ञानतन्तुं ह्युपहृतमतिभक्त्या मोदतां मे गृहीत्वा ॥
वन्दे विद्वद्वृन्दं भौतिकविज्ञानसारसर्वस्वम् । ऋषिपदगतिकरयोगं परमपदसुयोगभाजनं वन्द्यम् ॥”
१. एतल्लेखोद्देशः
अयं भौतिकज्ञानविषयः सनातनः, न त्वधुनातनः । जगत्सृष्टिमारभ्य जगन्निदानकारणविज्ञानेच्छा केषांचित्तत्त्वार्थचिन्तकानां हृदयेषु समुज्जृम्भिता अभूत्, तेषां प्रयत्नविशेषेण भौतिकविज्ञानं परात्मविज्ञानमिव सम्यगङ्कुरितं सत्, समृद्धं पुष्पितं फलितं च भूत्वा, रसास्वादनपराणां हिताय सर्वेषु शास्त्रेषु सुप्रकाशं भजतीत्यखिलभारतीयपण्डितानां सम्भावना । परन्तु देशान्तरेषु अधुनातनपण्डितप्रकाण्डैः ये ये भौतिकविषयास्समालोचिताः विज्ञाताश्च भवन्ति, लोकोपकारबुद्ध्या स्वहितसाधनबुद्ध्या वा तद्विज्ञानफलं विविधविचित्रयन्त्रतन्त्रोपकरणनिर्माणचातुरीमुखेन सर्वानुभवसाध्यतां नीतम् । ते ते विषयाः अस्मत्प्राचीनैः कदापि समालोचिता वा ? विज्ञाता वा ? तेषां कृषिफलं कुत्र कथमुपलभ्यते ? इत्यादि वितर्कं कुतर्कं च सुवितर्केण सप्रमाणं सङ्ग्रहेण निवारयितुमयं लेखारम्भः ॥
२. भौतिकविज्ञानस्यावश्यकता
सनातनः - पुरातनः । क्षितिजलज्योतिर्वाय्वन्तरिक्षाणि पञ्चभूतानि । पृथिव्यप्तेजोमनांसि मूर्तानि । वाय्वाकाशात्मादीन्यमूर्तानि । बहिरिन्द्रियग्राह्यविशेषगुणत्वं भूतत्वम् । (भूत = Matter, which is anything that occupies space and may be apprehended by the aid of senses - W. SIMSON.) क्रियाश्रयत्वं मूर्तत्वम् । तदन्यत्वममूर्तत्वम् । विवेकेन ज्ञानं विज्ञानम् । तत् दीर्घकालादरनैरन्तर्यसत्कारसेवितं सत् दृढं भवति । यद्विषयकश्चाभ्यासः तद्विषयकमेव साक्षात्कारमुपजनयति । तत्त्वपक्षपातः, धियां पक्षपातः । अतः विज्ञानसंपादनेच्छा । यस्य वस्तुनः यो भावः तत्तस्य तत्त्वम् अनारोपितम् (तत्त्वं ब्रह्मणि याथार्थ्ये इति कोशः) । कारणसत्वे कार्यसत्वं कारणाभावे कार्याभावः इति ध्रुवो नियमः । (Theory of causation) अतः भूतानां कार्यकारणविज्ञानेच्छा । (One of the objects of men of science is to determine the causes, that is, to furnish an answer to the question “Why do things take place as they do ?” - W. SIMON.)
“सामान्यशास्त्रं विशेषशास्त्रक्रोडीकृतविषयपरिहारेणैव प्रवर्तते” इति हि परीक्षकप्रसिद्धिः । (Scientists say that in the ordinary works on creation, etc., topics are dealt with only in a general way avoiding the technical or special or scientific treatment of them.)
साध्यसाधनभावप्रतीतिमात्रपर्यवसितो हि विधिव्यापारः - न प्रयोगपर्यवसितः । (Theories present us only the problems to the solved and show the means with which they can be solved. But they do not demonstrate them by actual experiments or sound experiences. Hence the necessity of treating the subjects in a scientific manner.)
तत्त्वदर्शनेन हि तादृशप्रयोगदर्शनकौशलव्यापारः । तन्महर्षीणां साध्यम् । तेषु भूतत्त्वदर्शी वसिष्ठः, अप्तत्त्वदर्शी अघमर्षणः, विद्युत्तत्त्वदर्शी वत्सः, ज्योतिस्तत्त्वदर्शिनः मरीच्यादयः, सूर्यतत्त्वदर्शिनः पञ्चकर्ण सप्तकर्ण प्राणत्रातादयः इति अत्र सूच्यते ।
पदार्थाः प्रमितिविषयाः खलु, प्रमितिः यथार्थानुभवः । तस्मात्तन्त्रयुक्त्या (Scientific reasoning) उद्देशलक्षणपरीक्षामुखेन तत्त्वबोधः । नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः । उद्दिष्टस्य तत्त्वव्यवच्छेदकः साधारणो धर्मः लक्षणम् । लक्षितस्य लक्षणम् उपपद्यते वा न वेति प्रमाणैरवधारणं परीक्षा । (The object of men of science is experimenting and observing facts and laws.) तत्त्वज्ञानं निश्श्रेयसहेतुः । निश्श्रेयसं पुनः, तत्त्वज्ञानोत्पाद्यमिथ्याज्ञानकारणध्वंससमानाधिकरणतत्कार्यसंस्कृतदुःखाभावः यत्र सर्वमेतत्प्रतिपाद्यते सा आन्वीक्षिकी । (Science of observation and experiment.)
तत्स्वरूपं यथा - आन्वीक्षिक्यात्मविद्या स्यादीक्षणात्सुखदुःखयोः । ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ॥ (कामंदकः)
प्रदीपस्सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयस्सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥ (वात्स्यायनः)
श्रेयस्साधनाभिधायकं शास्त्रम् । तत्प्रवर्तकाः कपिलगौतमचरककणादादयः । आर्षं विज्ञानन्तु योगिनामूर्ध्वरेतसाम् । तत् न लोकव्युत्पादनायालम् इति नाभिहितम् । अनधिकारात् । अस्मद्विशिष्टानान्तु योगिनां युक्तानां ज्योतिष्मतीसंयमसिद्धानां योगजधर्मानुगृहीतेन प्रज्ञालोकसहायेन मनसा, स्वात्मान्तराकाशदिक्कालवायुपरमाणुमनस्सु, तत्तत्समवेतेषु गुणसामान्यविशेषेषु, समवाये च अवितथस्वरूपज्ञानमुत्पद्यते, वियुक्तानां पुनः, आत्माः मनः, इन्द्रियं, विषयः इत्येतेषां चतुष्टयेन सन्निकर्षात्, योगजधर्मानुग्रहणसमर्थ्यात्, सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु प्रत्यय उत्पद्यते ज्ञानम् । सामान्यविशेषज्ञानोत्पत्तौ अविभक्तमालोचनमात्रं प्रत्यक्षं प्रमाणम् । न तत्रान्यत्प्रमाणमस्ति । अफलस्वरूपत्वात् । विलक्षणा ह्येषां प्रबन्धॄणामाध्यात्मिकी शक्तिः । न तत्कार्यं किंचिञ्जगति विद्यते, यज्जागरूकास्सन्तोऽमी भारतमानसराजहंसाः आर्यकुलानन्दनाः जातु सत्वरं निष्पादयेयुः । इति हि तत्त्वदर्शिनामुद्धोषः । तथा च ॥
अथ किमु पृथुतन्त्रैर्धीमतो भूरितन्त्रैः स्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः ।
न तदविदितमानं वस्तु यद्दृश्यमानं दिवि भुवि च जलस्थं प्रोच्यतेऽथ स्थलस्थम् ॥
पञ्चभूतानि
पृथिव्यप्तेजोवाय्वाकाशात्मकानि पञ्चमहाभूतानि । तत्र प्रञ्चगुणा पृथिवी । चतुर्गुणा आपः । त्रिगुणं तेजः । द्विगुणो वायुः । एकगुणमाकाशम् । शब्दस्पर्शरूपरसगन्धवती पृथिवी । शब्दस्पर्शरूपरसवत्य आपः । शब्दस्पर्शरूपवत्तेजः । शब्दस्पर्शवान् वायुः । शब्दवदाकाशम् । तत्र पृथिवी धारणे-आपः क्लेदने-तेजः पाचने-वायुर्व्यूहने-आकाश-मवकाशदाने भवन्ति । तत्र खमित्याकाशः - आकाशाच्छब्दः - सौषिर्यम् । अनिलात्स्पर्शः - प्राणादयश्च । दृष्टिः - पाकः - प्रकाशः - ऊष्मा - पित्तं च तेजसः । स्नेहः - क्लेदः - शैत्यम् - रसः रसनं चोदकात् । घ्राणवान् गन्धः - सङ्घातश्च भूमेः । एतेषां पञ्चमहाभूतानां लक्षणं सङ्ग्रहेणैवमुक्तम् ॥ एतेषां मूलकारणं चिच्छक्तिरेवेति आर्याणां सिद्धान्तः । तथा चोक्तं - पृथ्व्यादितत्त्वेषु भवान्प्रतिष्ठितो ध्वनिस्स्वरूपो गगने विशेषतः । वायौ द्विधा तेजसि च त्रिधा जले चतुः क्षितौ पञ्चगुणः प्रधानः । [Cf. Empidocles (400 B.C.) taught that all things were formed out of the union in different proportions, of fire, air, earth and water.]
अथ द्रव्यम् (Substance or Matter) -
पञ्चभूतात्मकं सर्वं द्रव्यमेव । कार्योत्पादनानुकूलशक्तिमत्वं द्रव्यत्वम् । (Matter or substance is that in which action takes place owing to the energy or power, inseparably connected with it. Matter changes itself from any form into many forms. Each change is due to its power. Cf. “Plato opines that all things have been created out of those absolutely inanimate elements (Pancha Bhutas) by the action of chance and out of forces arising and out of certain inherent affinities drawn out of those natural bodies (means probably, Pancha Maha-Bhutas, vis., Ether, Air, Fire, Water and Earth which are found in Solid, Liquid and Gaseous states.)
एकस्मिन् पदार्थे नानाशक्तीनां सत्त्वमस्त्येव । (So matter potentially contains many kinds of power.) यथा प्रदीपे तैलाकर्षिकायाः शक्तिः वर्तिकाविकारिण्याः शक्तिः तमोऽपहारिण्याः शक्तिरस्तीति नानाशक्तीनां सत्त्वम् । (In a burning candle there is a force which melts and absorbs oily or fatty matter ; there is another force which changes or consumes the wick of the candle, still there is another force which gives light and - reveals other things with its brightness.)
एवमेवोक्तमन्यत्र -
प्रञ्चभूतोत्पत्तिक्रमस्तु “आत्मनः आकाशस्संभूतः, आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी, etc.” (Cf. The recent speculation of S. Alexander is about the emergence of our world - order out of a most primitive space.)
अत्र आत्मशब्दः अव्याकृतात्मपरो वा तच्छक्तिरूपप्रकृतिपरो वा भवति । तयोरैक्यरूपं हि जगत् मामेव प्रकृतिं विद्धी ति वचनात् । (Cf. what A. E. Taylor says - “The real nature of material existence is the ultimate sign or cause of the distinctions between physical matter and the spiritual existence and the possibility of reducing them to one.”)
खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीधातो दृष्टं लिंगं यथाक्रमम् ॥
लक्षणं सर्वमेतद्धि स्पर्शनेन्द्रियगोचरम् ।
तन्मात्रापंचकं यत्तु तन्नूनं भूतपंचकम् ॥
अधिष्ठानभूतं सूक्ष्मशरीरम् । अस्मदादीनां स्थूलशरीरं पार्थिवमेव । अन्यानि भूतान्युपष्टम्भकानि ॥
पृथिवी (Earth)
पृथिव्यादीनां चतुर्णां कार्यभूतानां भूतानां तत्तत्परमाणवः कारणानि । परमाणूनां स्वरूपं परिमण्डलमिति पारिभाषिकम् । परमाणुः - निरवयवः, क्रियावान् इति केचित् । परमाणवः - सततगतिशीलाः (Always in vibratory motion) ; तत्र पारिमाण्डल्यशक्तिः स्पन्दशक्तिश्च वर्तत । (Electrons and protons) इति केचित् । वस्तुशक्तिरेव तत्र स्पंदनिबन्धनमित्यन्ये । (We learn that all matter is made up of exceedingly small particles, called molecules. Atoms are indivisible ; they are concerned in the combination of molecules, says Sir James Walker. The atoms in the present state of physical science must be regarded as structures of positive and negative electricity.)
तेष्वदृष्टकारितेन परिस्पंदेन, द्व्यणुकत्रयणुकादिकमुत्पद्यते । एवं क्रमेण गिरितरुपाषाणादिपृथिवीकार्यमुत्पद्यते । तथैवान्यभूतकार्याणि । द्रव्याणि द्रव्यान्तरमारभन्ते, गुणांश्च गुणा इति नियमात् । अत्र तार्किकैः अङ्गीकृतमदृष्टमेव परमात्मशक्तिरिति मन्यन्ते वेदान्तिनः । तथैवोक्तं भगवता श्रीकृष्णेन ॥
परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥
वाय्वादिभूतानां ये परमाणवः तन्मये तदुपाधिभूते मयीत्यर्थः । (भा - स्कं. ११, अ. १५. श्लो. १२.)
अस्मिन्न्यायमते परमाणवः नित्याः । तथा चोक्तम् -
सदकारणवन्नित्यम् … (क. सू. ४ - १- १.)
नाणुनित्यत्वात् …. (गौ. सू. २ - २ - २४),
श्रुतिप्रामाण्याच्च …. (,, ३ - १ - २१).
श्रुतिस्तु - विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः (ऋ. सं. ८ - ३- १६) पतत्रैः परमाणुभिः, संधमति संयोजयति, संजनयन् समुत्पादयन् । एवं वैशेषिकी प्रक्रिया ॥
अपकर्षपर्यन्तं परमाणुः । सत्वरजस्तमसाम् अपकर्षकाष्ठामापन्नः सङ्घातः परमाणुः । (Infinitesimally small particles of matter) लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्नवयवे अल्पत्वतारतम्यं व्यवतिष्ठते, सः अपकर्षपरमाणुः (Indivisible particle.) अस्मिन्मते परमाणवः, - अण्व्यः, मात्राः, विनाशिन्यः । दशार्धानां चयः स्मृतः । (Binary molecule) आरम्भपरमाणुः स एव । तेषां संगः (Combination), तेषां व्यूहः (Collection) इत्येवं क्रमेण महाभूतोत्पत्तिः । तत्कार्यद्रव्याणां च (Compounds) उत्पत्तिरिति सांख्यप्रक्रिया ॥
परमाणुसंख्या परिमाणं च - एकयवपरिमाणे अष्टषष्ट्यधिक सप्तशतयुतद्वात्रिंशत्सहस्रसंख्याताः (32,768) परमाणवः भवन्ति । परमाणुकालः (1/300 of a Nimesha) निमेषस्य शतत्रयतमो भागः अथवा (1/20250 of a secondx) सेकेण्डाख्यकालस्य पञ्चाशत्कलितद्विशताधिकविंशतिसहस्रतमो भाग इति परिगणितः ॥
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः परमाणुस्स उच्यते । ३० परमाणवः = १ त्रसरेणुः - अथवा वंशी । २६ त्रसरेणवः - अथवा वंशिनः = १ मरीचिः । ६ मरीचयः = १ राजिका । ३ राजिकाः = १ सर्षपः । एवं एकस्मिन् सर्षपे १ x ३ x ६ x २६ x ३० = १४०४० परमाणवः । ८ सर्षपाः = १ यवः । ४ यवाः = १ गुञ्जा । ६ गुञ्जाः = १ माषहेम - धान्याकम् । इति गणनया एकस्मिन् यवे ११२३२० परमाणवो भवन्तीति केषाञ्चिन्मतम् ॥
One - sixth generally (or one - thirtieth rarely) of a mote in the sunbeam is considered as an atom and the number of atoms in any given thing is calculated on this basis and a grain of black - gram is taken as the unit of ordinary weight for the purpose.
सू रूपरसगन्धस्पर्शवती पृथिवी । पार्थिवपरमाणूनाम् एकजातीयत्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवः यथा - तृणात् क्षीरम् । पार्थिवास्तु - सुवर्ण रजत मणि मुक्ता मनश्शिला मृत कपाल लोह मल सिकता सुधा हरिताल लवण गैरिकरसादयः । भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषा भवन्ति । तत्र कृष्णवर्णः पृथिव्याः स्वाभाविकः । श्रु ॥ यत्कृष्णं तदन्नस्य नैमित्तिकमन्यत् । गन्धो नैजो गुणः ॥
परमाणुवादः - (Atomic Theory or Causation Theory.) परमाणुवादः सङ्ग्रहेणैवं भवति -
कार्यं पृथिव्यप्तेजोवाय्वात्मकं जगत्. (The universe consisting of - Earth, Water, Fire, Air, is an effect.) । कारणानि परमाणवः (Atoms are its cause) । गन्धरसरूपस्पर्शाः क्रमेण तेषां गुणाः । ते कार्ये यथा कारणेऽपि तथा वर्तन्ते । (The cause possesses the same property as seen in its effect - as liquidity is the property seen in Water. The same must be in its cause viz. atoms of Water.) कार्यतः कारणानां न्यूनपरिमाणवत्त्वम् । यत्र परिमाणतारतम्यस्य विश्रान्तिः स परमाणुः । (As cause is always smaller in dimension than the effect, where by division, such distinctions ultimately disappear i.e. further division becomes impossible, there the substance is called an Atom).
कार्यं द्विविधम् - स्वाभाविकम् औपाधिकम् । अथवा (or more scientifically -) सांसिद्धिकं नैमित्तिकञ्चेति - (Natural or unconditional and conditional.) जलमेव शीतेन वायुना सम्बद्धं हिमं भवति - (Water when affected by cold wind becomes ice.) अतः आगन्तुककारणजन्यम् । (Therefore ice is produced by a temporal cause vis. cold air.) कथं तर्हि पृथिवीरूपकार्येषु क्वचित् गन्धरसरूपस्पर्शाश्चत्वारोऽपि गुणाः दृश्यन्ते । क्वचित्त्रयः । क्वचिद्रद्वौ । क्वचिदेक एव - इति पृथिव्याः कार्यवैजात्यम् । (Then how can we account for the different things on Earth, some containing four properties viz. - Smell, Taste, Form and Touch. Others only three properties, some only two, while others only one ?) तत्र पाक एव कारणम् । (In all these, chemical combination is the cause.) तेजस्संयोग एव पाकः । (Chemical combination is brought about by the application of heat.) पृथिवीपदार्थेषु तादृशपाकः असमवायिकारणं भवति । न तु समवायिकारणम् । (Chemical combination is only the secondary or accidental cause in solid substances.) तथा चोक्तं भाषापरिच्छेदे - गुणकर्ममात्रवृत्तिज्ञेयमथाप्यसमवायिहेतुत्वम् - तत्रापि पाकसंयोगस्यापि भिन्नानि निमित्तकारणानि भवन्ति । (By different instrumental or efficient causes the chemical combination takes place in different earthly things.) (Peculiar are the different chemical combinations as they can be inferred or judged by the effects they produce.) तादृशपाकः कारणभूतेषु परमाणुष्वेव जायत इति नवीनाः । तत्कार्यभूतपदार्थेष्विति प्राचीनाः । (Such combination takes place in the cause, say the modern scientists, only in the effects, say the ancient ones.)
द्व्यणुकाद्युत्पत्तिः ।
(Formation of molecules.)
द्वित्वादिपरमाणुसंयोगेन द्व्यणुकादयो जायन्ते । (By the combination of two or more atoms, molecules are formed.) तत्र द्व्यणुकादिकार्ये परमाणवः समवायिकारणम् । अथवा उपादानकारणम् । परमाणुसंयोगः असमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् । (In the formation of a molecule, atoms are primary or material cause. The combination is auxiliary or secondary or accidental cause. The influence of an unknown power is the efficient cause.) एतत्कारणत्रयनिमित्तकोऽयं जगत्पदार्थः । (These three causes contribute to the creation of all the things in the universe.) एवं परमाणुसंयोगे प्रथमम् इच्छा, ततः क्रिया ततो विभागः विभागात्पूर्वसंयोगनाशः - ततः उत्तरसंयोगोत्पत्तिरिति द्व्यणुकादिपर्वतपर्यंतं कार्यजातं जायते (In the combination of atoms even, first stimulus from some unknown power, from it motion or vibration, then division, from it disappearance of the first combination, take place. From this process, which holds in every action, all things great and small beginning with a small molecule and ending with a great mountain, are produced, and this is what is called creation.) कार्यजाते परमाण्वादिसंयोगो मुख्यः (In all effects, the combination of atoms is very essential.) स पाकजो वा अपाकजो वा भवति । (Combination is of two kinds - physical and chemical.) सर्वं कार्यं कारणसमवधानेन सम्भवतिनान्यथा । न हि निम्बस्य कटुत्वं गुडस्य च माधुर्यं स्वभावतः, किन्तु तादृशकार्योत्पादकसामग्रीसमवधानेन इति शास्त्रकाराः ॥
क्रिया - (Action - Motion - or - Vibration)
क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी - इति विश्वरूपाचार्यः । परिस्पन्दः = चलनम् (Vibration or movement) परिणामः = अवस्थान्तरापत्तिः (Occupation of different positions or situations) यथा - शरसुवर्णादिषु (As in the movement of an arrow or in the melting of gold.) इति रामतीर्थः । कार्यं पुनश्चतुर्विधम् । तथा चोक्तम् - उत्पाद्य प्राप्य संस्कार्य विकार्योपाश्रया क्रिया - (Action is of four kinds - उत्पाद्य - Creating or producing, प्राप्य - attaining or getting, संस्कार्य - purifying or mixing or applying and विकार्य - changing or renewing.) | कर्मकारकव्यपाश्रया परिणामक्रिया प्रतीयते (Action dependsupon subject or subject and object and produces some result.)
पृथिवीतत्त्वं श्रुतौ यथा -
ब्रह्माण्डात् पृथिवीतन्मात्रजाता इयं पृथिवी । इयं अनवर्णा - अनेकरूपा अभत् । यथा - इयं वै रजता इयं वै हरिणी ति दर्शनात् । इयम् आकाशमध्ये सूर्यचन्द्रादिवद्भममाणा तिष्ठति । तत्र शक्त्याकार्षणमेव कारणम् । सूर्यस्यैव सर्वविधारकत्वं प्रतिपादयिष्यन् विष्णुत्वेन सूर्यं व्यपदिशति । तथा चोक्तम् - विष्णुना विधृते भूमी अत्र भूमी इति द्विवचनं द्यावापृथिव्योर्बोधकम् । एतत्तत्त्वं वत्सऋषिणा दृष्टम् । (The sage Vatsa discovered the truth of gravitation and solar attraction in virtue of it both heaven and earth and all that is contained between them are held up. So the sun is the substratum to the earth and heaven as we say, the sun is the source of all energy - Sakti.) आधारविशेषाभावे हि अयोगोलादिवदिदं पतेत् । (In the absence of such a substratum, the earth and heaven would have fallen down as an iron ball through up falls down on account of gravity i.e. Gurutva Sakti.)
कार्यद्रव्येषु कर्मोत्पत्तिः
स्पर्शवद्द्रव्यसंयोगविशेषः नोदनम् । (Energy, power or force) स्पर्शवेगोभयद्रव्यसंयोगविशेषः अभिधातः (Pressure, gravitation, etc.)
नोदनं दक्षिणहस्ततलेन वामबाहुमूलादग्रं यावत् प्रदेशे परामृश्यमाने, दक्षिणहस्तमात्रोत्पन्ना क्रिया नोदनमित्युच्यते । अभिधातः = तेनैव हस्तेन वामबाहोः कस्मिश्चित् प्रदेशे प्रहरणे कृते स अभिधात इत्युच्यते । अत्र प्रहरणोद्यमे दक्षिणहस्ते यथा क्रिया सञ्जाता तथैव निरिधरूपप्रतिक्रिया वामबाहुस्थलेऽपि सञ्जाता इत्युन्नेयम् - अनेन नोदने सामान्यस्पर्शः, अभिधाते विशेषस्पर्श इति फलितम् - (These statements will serve for Newton’s three laws of motion). गुरुत्वात्पतनम् (Gravitation by weight) संयोगाभावे संस्काराभावे वा गुरुत्वात्पतनम्, गुरुत्वजन्यतावच्छेदकपतनत्वजात्यवच्छिन्नम् । (A body thrown up into the air or deprived of its support will fall back upon the earth.) यत्किंचिद्वस्तु यथा यथा कर्मात्मकं कार्यं करोति, तथा तथा अस्य कर्मसंतानलक्षणबहुकार्यकरणात् शक्तिपक्षीयते । यथा यथा शक्तिरपक्षीयते तथा तथास्य कार्यं मन्दतरतमादिभेदभिन्नमुपजायते । सर्वथाऽपक्षीयमाणशक्तिरन्ते स्वयमेव नश्यति । तन्नाशे तद्वस्तु अवश्यम् आत्मगताद्गुरुत्वात्पतति । प्रतिबंधकाभावे गुरुत्वादसमवायिकारणात्पतनम् । गुरुर्ह्याकृष्यते पृथिव्येति नियमात् । (Gravitation is the force caused by the attraction of the earth.) सर्वमेतत्तत्त्वपरीक्षाजातं मुसलकर्मणि यथा -
क. सू. ५ - १ - १. आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । येनेन्द्रियेण येनाङ्गेन मनस्संयुज्यते तदङ्गक्रियाहेतुः प्रयत्नः ॥
क. सू २. तथा हस्तसंयोगाच्च मुसले ॥
क. सू ३. अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः ॥
क. सू ४. तथा आत्मसंयोगो हस्तकर्मणि ॥
क. सू ५. अभिघातान्मुसलसंयोगाद्धस्ते कर्म ॥
क. सू ६. आत्मकर्महस्तसंयोगाच्च ॥
क. सू ७. संयोगाभावे गुरुत्वात्पतनम् ॥
क. सू ८. नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम्
क. सू ९. प्रयत्नविशेषान्नोदनविशेषः ॥
क. सू १०. नोदनविशेषादुदसनविशेषः ॥
क. सू ११. हस्तकर्मणा दारककर्म व्याख्यातम् ॥
क. सू १२. तथा दग्धस्य विस्फोटने ॥
इति द्वादशसूत्रैः कणादमुनिभिस्सम्यक्प्रदर्शितम् । तद्विवरणमन्यत्र तद्भाष्यादिषु द्रष्टव्यम् । तादृशी परीक्षा धूमशकटगमने यथा - काष्ठेन्धनशिलार्द्रागारेन्धनादिभिः जनितेन वह्निसंयोगेन जले बाष्पाविर्भावः । बाष्पसंयोगविशेषेण विद्युच्छक्तिसंयोगविशेषेण वा जनितेन नोदनविशेषेण चक्रेषु भ्रमणम्, अनन्तरं संयुक्तसंयोगवशात् यावच्छकटे वेगाख्यसंस्कारोत्पत्तिः तेन शकटगमनम् । तेनैव बहुविधसंभारसंयुक्तशकटपरंपरायाः यातायातप्रसंगः, इति विदितं खलु । तत्र शकटद्रव्यं समवायिकारणम्, बाष्पोत्पत्तिः, वेगः, संस्कारः, नियन्त्रादयः निमित्तकारणम् । एवमेव पत्कंदुक, हस्तकंदुक, यष्टिकन्दुक प्रक्षिप्तकन्दुकादिदारकक्रीडासु अयोगोलकाश्ममृत्पिंडादि प्रक्षेपव्यापारेषु च, कार्यकारणव्यवस्था विद्धद्भिरुन्नेया । विविधयन्त्रक्रियासु च तथैव नियमाः भवन्ति ॥
वह्निसंयोगेन दग्धकल्पस्य अश्मफलादेः विस्फोटने (Volcanic eruption, etc.) यत्तदवयवानामूर्ध्वाधस्तिर्यग्गमनादिलक्षणं कर्म तन्नोदनमात्रात् जनितमित्यर्थः (By some cause, the potential energy of heat is converted into kinetic one.)
क. सू. ५ - २ - १३. यत्नाभावे प्रसुप्तस्य चलनं वायुसंयोगाद्भवति ॥
(प्रसुप्तस्येत्यनेन अचेतनावस्थामुपलक्षयति - एतदेव भूकंपादीनां लिंगम्.)
क. सू. १५. तृणे कर्म वायुसंयोगात् ॥
क. सू. १५. इषौ अयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः । नोदनाभिधातादि संयोगविशेषेण आद्यं कर्म, विभागः, पूर्वसंयोगनाशः, उत्तरसंयोग इति । क्रिया हि चतुःक्षणावस्थायिनी पंचमक्षणे तस्याः नाशः ॥
सू. १६. नोदनादाद्यमिषोः कर्म, तत्कर्मकारिताच्च संस्कारात् (Acceleration) उत्तरं तथोत्तरमुत्तरं च ॥
इदमेव तत्त्वमयोदारुमुखादिद्रव्यविशेषनिर्मितबहुविधविचित्रयन्त्रसामग्रीगमनादौ योज्यम् । गमनग्रहणात् भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्पतननमनोन्नमनादयः गमनविशेषाः परिगृह्यन्ते (Application of force with requisite momentum in throwing an arrow, in shooting a bullet through the gun, etc.) तिर्यग्गमनं वक्रगमनं प्रतिनियतदिग्गमनमिति यावत् । अन्यच्छरगमनादिकं तु नियतदिग्गमनम् ॥
क. ५ - १ - १७. “संस्काराभावे गुरुत्वत्पतनम्” ।
पतनानन्तरं वेगाख्यसंस्कारः (Impact) कंचित्कालमनुबध्नाति । यथा - भूमौ पातितकन्दुके । यथा च उपरते च कुलालव्यापारे चक्रं संस्कारवशात् भ्रमत्तिष्ठति - कालपरिपाकवशात् उपरते संस्कारे निष्क्रियं भवति । तथैव धूमशकटादिकम् ॥
भूभ्रमणम् (Rotation of the Earth)
५ - २ - २. सू. तद्विशिश्टेनादृष्टकारितम् ॥
(W. SIMON :- No one knows why the earth attracts bodies, although we say that it is due to gravitation. This is simply equivalent to saying that an attractive force exists between the earth and bodies upon it, a fact which any one can observe. But no one knows why the force exists or its nature. This is true tin all cases of attraction, affinity, etc. Therefore Kanada calls that unknown cause अदृष्ट ….)
कर्मवैचित्र्यात् सृष्टिवैचित्र्यमिति वैदिकानां राद्धांतः । अतः जीवादृष्टकारिता वस्तुशक्तिरेतादृशी ; यतः स्वाक्षं विवस्वन्तं वा परितो भ्रमन्ती पृथ्वीयं सूर्यमण्डलाकृष्टा खलु (Attracted by the sun) अनिशं परिभ्रमति (Rotates) । तत्र पृथिवी समवायिकारणम् (Inherent cause) । आकर्षणक्रियाप्रयोजकादित्यसंयोगविशेषः असमवायिकारणम् (Accidental cause) अदृष्टं (Nature) निमित्तकारणम् (Instrumental cause) । अत्र श्रुतिरपि यथा - तयोरिद्घृतवत् पयोविप्रा रिहन्ति धीतिभिः । गन्धर्वस्य ध्रुवे पदे ॥
भाष्यम् - गन्धर्वस्य ध्रुवं पदमन्तरिक्षम् - तथा च तापनीयशाखायां समाम्नायते । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षमिति तेनान्तरिक्षेणोपलक्षिते आकाशे वर्तमानयोरिति - द्यावापृथिव्योरेव सम्बन्धि पयः जलं घृतवत् घृतसदृशं विप्राः मेधाविनः प्राणिनः (घृतसारं तेनोपेतं वा) धीतिभिः कर्मभिः रिहन्ति लिहन्ति । अत्र तयोः इति पदेन आकृष्टे पूर्वमन्त्रोक्ते द्यौःपृथिवीपदे अभिधीयेते - तत्र पृथिवी भूमिः इति सामान्येन विदितं भवति । द्यौःपदेन, चन्द्रसूर्यनक्षत्रादिमण्डलम् उपलक्षितमिति ज्ञेयम् । अन्यथा तस्य पदस्य सामान्यतः विदितः आकाश इति अर्थः अवबुध्येत चेत्, आकाशे वर्तमानः आकाश इति अन्वयस्संभवेत् । किं च गन्धर्वस्य ध्रुवे पदे इति पदसमूहेन उपलक्षिते आकाशे पृथिवी वर्तमाना भवतीत्युक्तत्वात्, पृथिवी स्थिरा, शेषफणामण्डलेन वा कूर्मपृष्ठेन वा ऊढा भवतीति पुराणादिवचनं निरस्तम् । अपि तु आकाशे चन्द्रसूर्यनक्षत्रमण्डलानीव भूमण्डलमपि भ्रमतीति ज्योतीरहस्यं प्रकाशितम् । ज्योतिश्शास्त्रेऽप्येवमुक्तम् । यथा -
भूमेः पिण्डश्शशाङ्कज्ञकविरविकुजेभ्यार्किनक्षत्रकक्ष्या-
वृत्तैर्वृत्तो वृतस्सन् मृदनिलसलिलव्योमतेजोमयोऽयम् ।
नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे
निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समंतात् ॥
भूकंपः (Earthquake)
क. सू. ५ - २ - १. नोदनाभिघातात्संयुक्तसंयोगाच्च पृथिव्यां कर्म ॥
महेश्वरेच्छासहितैः आत्मपरमाणुसंयोगजैः जनितेभ्यः परमाणुकर्मभ्यः पृथिव्यां कर्म इत्यर्थः । आभ्यन्तरवस्तूनां नोदनाभिघाताच्च संयोगात् वस्तुसंयुक्तपृथिवीसंयोगाच्च, भूभूधरादिरूपायां पृथिव्यां भूकम्पादिनामात्मकं गमनविशेषादिकं कर्म भवति । तत्र पृथिव्यास्तावत् ये प्रदेशाः आभ्यन्तरवस्तुभिर्नुद्यन्ते वा अभिहन्यन्ते वा, तेषु यत्कर्म भवति, तन्नोदनाद्वा अभिघाताद्वा, तेषामेव नुद्यमानानां वा अभिहन्यमानानां वा भूप्रदेशानां संयोगात् अनुद्यमानेषु वा अनभिहन्यमानेषु वा प्रदेशेषु, नुद्यमानाभिहन्यमानप्रदेशानामुपरिस्थितेषु भूधरादिषु पदार्थेषु, यत्कर्म भवति तत्संयुक्तसंयोगाद्भवति । तत्र नोदनाभिघातजे कर्मणि, नोदनाभिघातौ यथासंभवम् असमवायिकारणम् । संयुक्तजे च कर्मणि संयुक्तसंयोगः । गुरुत्वद्रव्यत्ववेगादयस्तु यथासंभवं निमित्तकारणम् । यत्र कर्म सा पृथिवी समवायिकारणामिति विवेकः । अस्मिन्विषये श्रुतिः -
येषामज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । भियायामेषु रेजते (ऋ. सं. १ - ३ - १३) ॥
१८. पृथिव्यां गन्धः असाधारणो विशेषगुणः । रूपरसस्पर्शास्सामान्यगुणाः निमित्तभेदाद्भवन्ति । संयोगवियोगपृथक्त्वसंख्यापरिमाणादयः गुणाः सर्वैस्सर्वदा दृष्टचरा एव ॥
आपः
२१. आपश्चाग्नेयसंयोगात्समीरणसमुद्भवाः इति आधुनिकैर्यदुद्धुष्यते, तदस्माकमप्यङ्गीकार्यमेव । तथाच श्रुतिः - अग्ने गर्भो अपामसि (तै. ब्रा. ४ - २- ३) अग्नीषोंमौ बिभ्रत्यापः विद्युन्निष्पत्या अग्निं (oxygen) रश्मिवृद्धया - सोमम् (and hydrogen) । अनेन विशिष्टयोर्वाय्वोः खल्वापः उत्पद्यन्ते इत्युक्तं भवति । तत्रापि एकस्मिन् वायौ सूक्ष्माणामपां सद्भावोऽस्ति । प्रक्रियाविशेषात्तु तासामभिव्यक्तिः । (Water is produced by the combination of oxygen and hydrogen and hydrogen contains minute particles of liquid). अत एवोक्तम् तेजसः कार्यभूताः आप इति । यथा, यत्र क्वचन देशे काले वा संतप्यते प्रखिद्यते वा पुरुषः तेजस एव तत्तदा आपोऽभिजायन्ते । अभास्वरशुक्ला आपः । श्रु. शुक्रास्तान आपः शस्योना भवन्तु । कालिन्दीजलादौ जलस्य आश्रयोपाधिकत्वान्नीलत्वप्रतीतिः । वियद्विकीर्णकालिन्दीजले धावल्यस्योपलंभात् । आपः मधुराः जंबीरकरवीररसाम्लतिक्तयोः पार्थिवोपाधिकत्वात् तत्र रसान्तरानुभवः । कषायद्रव्यभक्षणानंतरं माधुर्याभिव्यक्तेः ॥
षड्रसोत्पत्तिप्रकारः
(१) सोमगुणातिरेकान्मधुरो रसः (२) पृथिव्यग्निभूयिष्ठत्वादम्लः
(३) सलिलाग्निभूयिष्ठत्वाल्लवणः (४) वाय्वग्निभूयिष्ठत्वात्कटुः
(५) वाय्वाकाशातिरिक्तत्वात्तिक्तः (६) पवनपृथिव्यतिरेकात्कषायः
इति षड्रसतत्त्वम् । अत्र वाचस्पतिमिश्राः - गुणभेदाः परिणामतः, सलिलवत् ; यथा - विमुक्तमुदकमेकमपि तत्तद्भूतविकारानासाद्य नारिकेल, ताली, बिल्व, चिरबिल्व, तिंदुक, आमलक, पैत्थ फलरसतया परिणामात्, मधुराम्ललवणतिक्तकटुकषायतया विकल्पते । एवमैकैकगुणसंभवात् प्रधानगुणमाश्रित्य अप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति । परिणामैकत्वं च - बहूनामपि एकपरिणामो दृष्टः । तद्यथा - गवाश्वमहिषमातङ्गानां रुमाक्षिप्तानामेकलवणत्वजातीयलक्षणः परिमाः (रुमेति घूर्जरदेशे लवणोत्पत्तिहेतुसरोवरस्य नाम) ॥
सांख्यानां यथा - भूतार्थभूतविकारविषये संगाख्यसंयोगविशेषेणैव विकारो भवति, तथा मिलितद्रव्यविषये संहतभूतद्रव्येषु तेजस्संयोगाद्विकारो भवति । वैशेषिकाणां सजातीयमेवोपादानम् । अन्यद्भूतचतुष्टयमुपष्टम्भकम् । अनिरुद्धमते आरम्भकसंयोगोऽपि, यथा - वायोर्देहारम्भकत्वम् । अन्येषां सांख्यानां मीमांसकवेदान्तिनामिव सजातीयविजातीयाद्यभेदं विना, मिलितानां भूतानामुपादानकारणत्वं क्वचित् । तत्तद्भूतप्रधानतया तत्तदभिधानव्यवहारः । तथा चोक्तम् पृथिव्यप्तेजोवाय्वाकाशानां समुदायात् द्रव्याभिनिर्वृत्तिः । उत्कर्षस्त्वभिव्यंजको भवति - इदं पार्थिवम्, इदम् आप्यम्, इदं तैजसम्, इदं वायव्यम्, इदम् आकाश्यमिति ॥
२२. अतः अनुपाधिका आपः मधुराः । श्रु. “मधुश्च्युतः” । शीतवत्यश्च । श्रु. “अमृतयोनिः” चन्द्रमा वा अपां पुष्पम् । आपः शुचयः । श्रु. “हिरण्यवराण्श्शुचयः पावकाः” । शिवाः - भेषजाः श्रु. “ईशानां बार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम्” । निवारणार्हपापानां वारणीशाश्च जन्मिनाम् । वासकारणभूता वै याचाम्यब्देवताः प्रति । विमुच्य हृदयग्रन्थिं संसारार्णवमौषधिम् ॥
“अप्स्वन्तरममृतमप्सु भेषजम्” - इत्यन्या श्रुतिः । उदकमध्ये अग्निरस्ति । और्व (Latent heat) वैद्युत (Lightning) रूपेण अग्नेः अप्सु अवस्थानं द्रष्टव्यम् । अनेन अतिशयितवीर्यवत्वस्य प्रख्यापितत्वात् अपां सर्वार्थसाधकत्वमस्तीत्युक्तम् ॥ (Oxygen is often called by the name अमृत ‘Amrita’ in Vedas.)
अपां गुणाः । संयोग, विभाग, पृथक्त्व, संख्या, परिमाण, परत्वाऽपरत्व, गुरुत्व, द्रवत्व, स्नेह, संस्कारादयः । तथैव रूपरसगन्धस्पर्शाः । तत्र रसो वैशेषिको गुणः स्निग्धहिमावपां गुणौ इति केचित् । आपः - मृष्टाः विमला लभवश्चेतीतरे वदन्ति । यदन्तरिक्षात्पततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽम्भः । तदैन्द्रमित्येव वदन्ति धीरा नरेन्द्रपेयं सलिलं प्रधानम् । एवंगुणोपेता आपः प्राणानामभिसराः, रोगाणां नाशका भवन्ति । अपाम् अन्ये गुणविशेषास्तु, अयुतसिद्धानामुपश्लेषः
(Cohesion) युतसिद्धानामुपश्लेषः (Adhesion) । अपां स्थितिस्थापकत्वं पुनः विभिन्नाकृतिमत्स्वाधारसंयोगजनकक्रियानुकूलसमतलप्रसरणत्वम् (Water finds its own level) | विरुद्धक्रिययोर्नदीस्रोतसोर्मूर्छनेनैव (Pressure) पयसां तत्संसृष्टानां च तृणादीनामूर्ध्वगमनम् ॥
२३. अपां तिस्रो ह्यवस्था भवन्ति - हिमकरक, रस, बाष्परूपाः । (Water exists in three states as solid, liquid and gaseous) यद्यपि हिमकरकादौ द्रवत्वं नानुभूयते ऊष्मणा (By heat) विलीने तत्र जलत्वं प्रसिद्धमेव । दिव्यतेजस्संयोगात्तु (Electricity) तत्र द्रवत्वप्रतीतिविरोधः । काठिन्यप्रतीतिस्तु तत्र भ्रांतिरेव । दिव्यतेजस्संयोगात्तत्र जलपरमाणुभ्यः द्व्यणुकं तैश्च त्रसरेण्वादिकं क्रमेण हिमादौ जायते । तादृशेभ्यः हिमकरकादिद्रवत्वरहितं कठिनमेवेति केचित् ॥
आज्यं जलगतं चेत्कठिनं भवति । अग्निसंबन्धेन पुनः द्रवत्वमापद्यते ।
२४. अपां कर्म - क्वथनम् (Ebullition), विलयनम्, (Evaporation), वचनम् (Effervescence), प्लवनशक्तिः (Buoyancy).
नमस्ते प्रवतो नपात् इति श्रुत्या - प्रवतः = प्रगतस्य भुवनस्य सकाशात् प्रचण्डैः सूर्यकिरणैः उद्धृतस्य उदकस्य नपात् = नपातयिता - अकाले उदकं यथा न पतति तथा धारयितापर्जन्य इत्यर्थः ॥
तथैवान्यत्र - याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति ॥
वृष्टिः (Rain)
२५. क. सू. ५ - २ - ३. अपां संयोगाभावे गुरुत्वात्पतनम्
क. सू. ५ - २ - ४. द्रवत्वात्स्यन्दनम्
मेघगतानामपां वायुसंयोगात्कर्मोत्पत्या गुरुत्वधारकतया पतनप्रतिबंधकस्य मेघसंयोगस्य उपरमे सति, प्रतिबंधकाभावात् गुरुत्वात्पतनं भवति । तदेव वर्षणमुच्यते । ननु यन्त्रमन्तरेण भूमिष्ठानामपां अन्तरिक्षारोहणं कुतो जायते ?
क. सू. ५. नाड्यवायुसंयोगादारोहणम् वायुसंयुक्तास्सूर्यरश्मयः अपः भूमिष्ठास्तावदन्तरिक्षमारोहयन्ति ॥
क. सू. ६. नोदनापीडनात्संयुक्तसमवायाच्च यथा हि स्थाल्यां क्वथ्यमानमुदकम (Watery vapour) बलिना मारुतेन नुन्नैः तेजोरश्मिभिस्संयोगात् ऊर्ध्वमारोहति, तथा बलिनः मारुतस्य नोदनेन, आपीड्यमानाभिस्सूर्यनाडीभिः संयोगादापः भूमिष्ठास्तावदूर्ध्वमारोहन्ति । तत्रापः समवायिकारणम्, आद्यसंयोगः निमित्तकारणम्, द्वितीयः असमवायिकारणामिति विवेकः । एतदुक्तं भवति ;
ग्रीष्मे (In Summer) वाय्वभिहतास्सूर्यरश्मय (Sun’s rays forced by the air) एव आरोहयन्त्यपः (In the form of vapour) । अन्तरिक्षमारूढाः खल्वापः धूमेन ज्योतिषा वायुना च संसृज्यमानाः मेघभावमापद्यन्ते (Form clouds) । बलवद्वायुनोदनेन आपीडनास्कंदनाद्वायुसंयुक्तास्सूर्यरश्मयः तत्संयुक्ता आपः ऊर्ध्वं धावन्ति । जले दिव्यज्योतिस्संयोगे सति विद्युत्प्रकाशः (Lightning) ततो विस्फूर्जथुः (Thunder) । तत्समकाल एव करकापतनं भवति (Fall of hailstones) क्वचिद्वायुबलाहकसंयोगविभागौ निमित्तकारणे । तथा चोक्तम् ॥
क. सू. ५ - २ - ७. अपां संधातो विलयनं च तेजस्संयोगात्
क. सू. ५ - २ - ८. तत्र विस्फूर्जथुर्लिङ्गम्
क. सू. ५ - २ - ८. अपां संयोगाद्विभागाच्च स्तनयित्नोः
एवमुक्तं भवति । अन्तरिक्षस्थास्वप्सु बलिना दिव्यतेजस्संयोगेन हि (Electrification) समान्यतो वर्तमानमनुद्भूतरूपवत्तेजोद्रव्यम् (Latent heat) निस्सार्यते । तन्निस्सरणाच्च तासां द्रागित्येव (Simultaneously) सांसिद्धिकं द्रवत्वं प्रतिरुध्यते । तत एव ताः परस्परं संहन्यन्ते । संहन्यमानानां च तासां यदा पुनः भूमौ पूर्वतो विजातीयेन आदित्येन तेजसा (By the influence of the Sun’s rays) संयोगो जायते, तदा तेनाप्रतिबद्धद्रवत्वास्सत्यः विलीयन्त इति भावः । तत्र वर्षे आपः समवायिकारणम् । गुरुत्वमसमवायिकारणम् । सम्योगाभावः निमित्तकारणम् । भूमौ पतितानामपां द्रवत्वात्स्यन्दनम्, स्थलान्निम्नाभिसर्पणं भवति । अस्मिन्वृष्टितत्त्वे वैदिकमप्यस्ति प्रमाणम् । यथा - श्रुतौ - ‘आपस्सूर्ये समाहिताः‘ ‘अपो देवीरुपह्वये - यत्र गावः पिबंति नः । सिन्धुभ्यः कर्त्वं हविः‘ । यस्मिन्सूर्ये विद्यमाना रश्मयः, भूलोकसंबंन्धिभ्यस्समुद्रेभ्यः अपः शोषयन्ति, ताभ्यः द्युलोके अन्तरिक्षे वैरूप्यं गताभ्यः अद्भयः अस्माकं हविस्साधनभूतधान्यादिकं कर्तव्यं भवेत् । समृद्धवृष्ट्या सस्यादिवृद्धिर्भवति । तद्द्वारा गावः क्षीरप्रदा भवन्तीति तात्पर्यम् । अन्यत्र “सोऽपः प्राविशत्“ इत्यत्रापि सः अग्निः अपः समुद्रादिस्थजलं प्राविशत् सूर्यरश्मिस्थमग्निरूपमौष्ण्यं वृष्टिसर्जनाय जलघेरुदकमाहर्तुं (शोषितुमिति यावत्) प्रवृत्तमिति ध्वन्यते । ऋग्वेदे प्रथमाष्टके द्वितीयाध्याये षट्त्रिंशादिवर्गत्रये पञ्चदशभिः ऋग्भिः कथितः सर्वोऽपि तत्त्वार्थः सूर्यकिरणैः भूमिस्थजलं यथा आह्रियते, प्रथमं बाष्पो भूत्वा वायुविशेषेण अन्तरिक्षं प्राप्य तत्र सूरवायुशक्तया मेघरूपं प्रतिपद्यते पुनः तच्छक्तयैव तदेव जलं वृष्टिरूपेण भूमिमानीयते इत्यादिकं सम्यक्प्रतिपादयतीति सुधियो विभावयन्तु । अयमेव गूढार्थः तैत्तिरीयसंहितायां तैत्तिरीयारण्यके च स्पष्टतरं प्रतिपादितः । यथा - यासां दिवि कृण्वन्ति भक्षम् - यासामेकदेशममृतम्, देवाः - आदित्यरश्मयः, दिवि - आदित्यमण्डले, भक्षं कुर्वन्ति स्थापयन्ति । या अन्तरिक्षे बहुधा भवन्ति - बहुप्रकाराः आविर्भवन्ति वर्षासु । याः पृथिवीं पयसोन्दन्ति - भूमिं स्वेनैवांशेन उन्दन्ति - क्लेदयन्ति । इति उभयोर्वेदयोर्वृष्टिविषयं प्रति प्रकरणसंगतिः एतादृशेनार्थेन संगच्छते ॥
समानमेतदुदकम् । उच्चैत्यवचाहभिः एकमेव वृष्टिलक्षणम् । उदेति च = ऊर्ध्वं गच्छति, अवैति च = अधस्ताद्गच्छति च (Water is the same, it rains up and rains down i.e. it goes up into the heavens in the form of steam and it comes down to the earth in the form of rain - water) । भूमिं पर्जन्या जिन्वन्ति - दिवं जिन्वन्त्यग्नयः (Cool rays of the sun, bring water to the earth and hot rays take up water to the sky) । जलशोषणसमर्थाः सूर्यरश्मयः गन्धर्वा इत्युच्यन्ते (The rays of the sun that absorb water on earth and are concerned in the process of evaporation are called Gandharvas and they are of eleven kinds according to their functions) त एते गन्धर्वगणाः एकादश - स्वानः - भ्राट् - अङ्घारिः - बम्भारिः - हस्तः - सुहस्तः - कृशानुः - विश्वावसुः - मूर्धन्वान् - सूर्यवर्चाः - कृतिः इति ।
देवाः गरगिरः (They are bright rays of the sun which absorb water) तथैव पर्जन्यास्सप्त पृथिवीमभिवर्षन्ति (Smimilarly seven kinds of the sun’s rays bring forth rain) तेषां नामानि - वराहवः - स्वतपसः - विद्युन्महसः - धूपयः - श्वापयः - गृहमेधाः - अशिमिविद्विषश्चेति (They are of seven kinds according to their functions. Viz. First kind helps water to come down ; second melts clouds ; third comes down in the form of lightning ; fourth gives up the latent heat ; fifth pervades the whole atmosphere ; sixth purifies and moistens the earth ; seventh helps agricultural operations).
एतेषां शब्दानां व्युत्पत्तिरेवं प्रदर्श्यते -
वराहव इत्यनेन, वराहः यथा वराय अभीष्टाय मुस्तादिलाभाय आहन्ति भूमिं तथा केचित्सूर्यरश्मयः लोकस्थित्यर्थं वराहान् मेघान् आहन्ति सर्वतस्संघट्टंते इति व्युत्पत्त्या, मेघान् भेत्तुं समर्थाः इत्यर्थो लभ्यते ।
येषां रश्मीनां तापनात् घनीभूताः मेघाः क्लिन्ना भवन्ति ते स्वतपस इति वेदेषूच्यन्ते ।
केचित्सूर्यरश्मयः - मेघाधारकविद्युद्रूपरश्मीन् यदा आकर्षन्ति तदा तन्निर्गमनेन मेघाः पतनशीला भवन्तीति, ते विद्युन्मयाः इत्युक्तम् ।
धूपयः - विद्युन्निर्गमनानन्तरं मेघान्तश्थितमौष्ण्यमपि निर्गमयन्ति केचिद्धूमरूपा रश्मय इति ।
श्वापयः - व्यापनकरणशीलाः तेः श्वापयः (श्विधातोः णिजर्थे एतद्रूपम्) ।
गृहमेधाः - अन्तरिक्षं भूमिर्वा गृहम्, ये रश्मयः वृष्टिपातनद्वारा तत् मेघयन्ति परिशुद्धं कुर्वन्ति, ते गृहमेधाः ।
अशिमिविद्विषः - ये रश्मयः भूमेः अश्मवत् स्थितिं विद्विषन्ति ते अशिमिविद्विषः - भूव्यवसायसाधका इति यावत् ॥
कारणधर्मः कार्ये व्यपदिश्यते इति न्यायेन कारणभूतसूर्यरश्मिधर्माः अत्र कार्यभूतपर्जन्यव्यपदिष्टाः भवन्ति । अतोऽत्र पर्जन्यास्सप्त पृथिवीमभिवर्षन्तीत्युक्तम् ॥
मित्रावरुणावपां नेतारौ समुद्रस्थं जलं वरुणः दिवं नयति - दिविस्थं जलं वृष्टिरूपेण मित्रः भूमिं नयतीति तात्पर्यम् । अथवा - मिदि स्नेहने इति धातोरुत्पन्नोऽयं मित्रशब्दः वृञ् वरणे इति धातोरुत्पन्नः वरुणशब्दः = सूर्यकिरणैरापादितं बाष्पम्, आच्छाद्य - आकृष्य वायुरन्तरिक्षं नयति खलु - तथा वेष्टितं बाष्पं वरुणशब्देनोच्यते । (It means that steam caused by the Sun’s rays is carried to the atmosphere by air, and it is called “Varuna” enveloped steam.)
यजुर्वेदेऽपि आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः, यस्माद्यस्मादापः प्रस्रवन्ति - सर्वा अपः प्राप्तवानस्मि इति स्थानविशेषाभिप्रायेणोक्तम् । इतः - पृथिव्याः अमुतश्च दिवः - रश्मिवाय्वादिभिरानीयन्ते विसृज्यन्ते च इति सामान्याभिप्रायेणास्या हेतुरेवं निर्दिष्टः । अग्निर्वायुश्च सूर्यश्च । सहसंचस्करर्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानो अद्रुहः अग्निर्हि पर्जन्यात्मा अपः उत्पादयति । सूर्योऽनुजानाति, वायुः प्रेरयति - तस्माद्यूयमप्येताः ऋद्धिविशेषा यथा भवन्ति तथा संस्कृरुत । सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । उदकं प्रति (वृष्ट्यर्थम्) रश्मीन् वितारयन्तम् आदित्यं शाम्बरः स्वानुग्रहार्थम् आश्रयते । अन्यत्र देवावसव्याः, अग्नेसोमसूर्यसपीतयः अपांनपात् । उन्दोधत्त, उदधिं भिन्त, दिवः पर्जन्यादन्तरिक्षात्पृथिव्या वृष्टयाऽवत । द्युलोकमन्तरिक्षं पृथिवीं च प्राप्य या वृष्टिः पर्जन्यात्प्रवर्तते तया वृष्ष्ट्या नः अस्मान् रक्षत तर्पयत वा ॥
तथैव आपस्ता अग्निं दधिरे सुवर्णम्, अग्निं या दधिरे विरूपाः अन्यत्र अग्निर्वा इतो वृष्टिमुदीरयति, मरुतस्सृष्टान्नयन्ति । यदा खलु असावादित्यो रश्मिभिः पर्यावर्तते अथ वर्षति ।
धामाच्च दिवि खलु वै भूत्वा वर्षत्येता देवता वृष्ट्या ईशते - (तै. सं. २ - ४ - १०) अस्य भाष्यम् - अग्निः वृष्टिमुदकमुदीरयति । ऊर्ध्वं गमयति - आदित्यं प्रापयति । तां वृष्टिं सृष्टाम् = अवसृष्टां मरुतः नयन्ति = देशान्तरं प्रापयन्ति । यदा खल्वादित्यो रश्मिभिः न्यङ् = अवाक्प्रवृत्तिः पर्यावर्तते इतोमुखं प्रवर्तते - अथ वर्षिष्ठं रश्मिषु पक्वमुदकं (Charged with electricity) पर्जन्यः प्रापयति (भूयिष्ठं वर्षति) ।
अपां गर्भः ओषधीषु न्यक्तः (तै. सं. कां. ३ प्र ३. अ. १) आदित्यरश्मिषु गर्भीभूतः अपां राशिः ओषधिनिमित्तं वृष्ट्या न्यक्पातितः (Water enshrined in the sun’s rays falls on the earth in the form of rain to nourish various crops) सोमस्य द्रप्समावृणीत । सोमस्यान्नस्य पृथिव्यां रसं सविता रश्मिभिरात्तवान् । बृहन्तदभवत्तदेषाम् = तदा महामेधो भवति । (Thus collected vapour in the atmosphere becomes clouds.)
यजुरारण्यके रूपकोक्त्या - पृथिव्या अहः, अह्नोऽग्निः अग्नेर्वृत्रः वृत्रस्योष्मा इत्येकः पक्षः । दिवः रात्रिः रात्र्या आदित्यः, आदित्यस्य वैद्युतम्, वैद्युतस्य नीहारः इत्यन्यः पक्षः । तौतावेव प्रतिपद्येते इत्यनेन ऊष्मनीहारयोस्संयोगे वृष्टिर्भवतीति रूपकस्य ध्वनिस्सूचितः । (Rain is formed by natural processes of evaporation and distillation) ।
अग्निर्हि पर्जन्यात्मा (Cloud is nothing but heat vaporised) अप उत्पादयति (Produces water) सूर्योऽनुजानाति (Sun’s light allows and helps the production of water) वायुः प्रेरयति (Air induces the process - i.e., heat, light and air combine together to produce water) वाय्वश्वाः (Air is carrier of vapour) रश्मिपतयः (The Sun’s rays help the water to fall on earth.) (तै. आ. प्र. १, अ. १)
अयत्र आदित्यरश्मिषु जलं संगृहाण । ततैव आदित्ये चन्द्रवर्णानां गर्भमाधेहि ।
ममत्तुनः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् (तै. सं. कां. २, प्र. १, अ. ११). अस्यायमर्थः - परिज्मा = परितः सर्वतः भक्षयिता = अग्निः Heat, (The heat of the Sun absorbs water by evaporation) वसर्हा = वासरस्य हन्ता गमयिता - आदित्यः = Light, (The rays of the sun, being latent as electricity (vidyut) causes the formation of rain वातः = (The energy of the sun or wind) अपां वृषण्वान् - अपां वृषा - वर्षिता - तद्वान् - तत्सहितः (The sun’s rays and wind disturbing the clouds cause rainfall) ममत्तु = अस्मदर्थम् - अस्मान्वा अभिमतप्रदानेन - वृष्टिप्रदानेन तर्पयतु । तत्रैव - शंनो देवो वसुभीरग्निस्संसोमस्तनूतीरुद्रियाभिः । समिन्द्रो मरुद्भिर्यज्ञियैस्समादित्येनो वरुणोथाजयत् (Heat of the sun absorbs water and cuases evaporation, the coolness of the moon condenses the heated vapour, the wind causes formation of clouds, and the lightning formed by the entrance of the sun’s rays into the clouds gathers and holds out the coulds.) The same idea is expressed in another place thus : - अन्यत्र - आदित्याः तिस्रो भूमीर्धारयन् त्रीन् उत द्यून् त्रीन् व्रता विदधे अन्तरेषाम् आदित्याः = सूर्यरश्मयः, तिस्रो भूमीः = पृथिवीपातालनागलोकान् अथवा त्रीन् द्यून् = पृथिव्यन्तरिक्षद्युलोकान् धारयन् = धारयन्तः त्रीणि व्रतानि = कर्माणि - रसादानधारणमध्यस्थानानयनलक्षणानि धारयन्ति - (Thus the rain phenomenon acquired the epithet त्रिणामन् = त्रीणि नामानि गुह्यप्रकाशसोमनिमित्तानि यस्य सः । शतपथब्राह्मणे एतद्वृष्टितत्त्वं सुस्पष्टं निरूपितम् । अग्नेर्वै धूमो जायते, धूमादभ्रम्, अभ्राद्वृष्टिः छान्दोग्योपनिषदि च अभ्रं वा अपां भस्म । धूमो भूत्वा अभ्रं भवति । अभ्रं भूत्वा मेधो भवति । मेधो भूत्वा वर्षति । मनुः - आदित्याञ्जायते वृष्टिः । वाल्मीकिः - पायत्येष तपत्येष वर्षत्येष गभस्तिभिः । कालिदासोऽपि - धूमज्योतिस्सलिलमरुतां सन्निपातः मेघः । अन्यत्र सहस्रुगुणमुत्स्रष्टुमादत्ते हि रसं रविः । स एवान्यत्र - सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ताः नाड्यः -
आनन्दाः, मेध्याः पूतनाः, नूतना इति चतुर्विधा भवन्ति । तासां सङ्ख्याश्च - तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने । शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने । चतुश्शतं वृष्टिवाहास्ताः सर्वा अमृतास्स्मृताः ॥
गङ्गाद्या नद्यः प्रागञ्चनाः स्रवन्ति । सिन्ध्वाद्याः प्रतीचीमञ्चन्ति । ताः अम्भोनिधेः जलधरैराक्षिप्ताः पुनः वृष्टिरूपेण पतिताः गङ्गादिनदीरूपिण्यः, पुनः अम्भोनिधिमेवोपयन्ति । स समुद्र एव भवति । इति चान्यत्रदर्शितम् ॥
२६. मेघमंडलस्थास्वप्सु दिव्यतेजस्संयोगसद्भावे प्रमाणम् - तत्र विस्फूर्जथुर्लिङ्गम् इति कणादमुनिना दर्शितम् । तत्र वैदिकं प्रमाणम् - गर्भो यो अपाम् (ऋ. अ. १. अ ५. व २४. मं २.) अग्ने गर्भो अपामसि (य. वे. अ १२. म २७.) अपां संयोगाद्विभागाच्च स्तनयित्नोः इत्यनेन कणादसूत्रेण अप्तेजसोर्मिथस्संयोगसंबंधात् विभक्तेश्च विस्फूर्जथोरुपजनिर्भवतीत्युक्तम् । तत्र आकाशं समवायिकारणं तेजस्संयोगविभागौ च आकाशेऽसमवायि कारणम् । अद्भिश्च तौ निमित्तकारणे इति विवेकः । विद्युत्सूर्यतेजोरूपा मेघवर्तिनी (Lightning is a peculiar form of the Sun’s ray) अत्र श्रुतिः - रोहिणीवसिष्ठयोः पुत्रः एवं वदति कोऽन्तरिक्षे शब्दं करोति ? स एव वाश्रेव विद्युत् इति स्वयमेव समाधत्ते । अन्यत्र विद्युत्सूर्ये समाहिता अद्भिस्स्तनयित्नोस्संयोगविभागौ निमित्तकारणे भूयः शब्दं गर्जितं जनयतः ॥
मेघोत्पत्तेः कालावधिः
तिस्रःक्षपस्त्रिरहाऽति व्रजद्भिः नामत्या भुज्युमूहतुः पतङ्गैः नासत्या - द्यावापृथिव्यौ तिस्रः क्षपाः, त्रीण्यहानि एतावन्तं कालम् अतीत्य व्याप्य स्थितैः, पतङ्गैः - रज्जुस्थानीयैः रश्मिभिः, भुज्युम् = उदकम् ऊहतुः । त्रिभीरथैः शतपद्भिष्षडश्वैः = त्रिभिरुत्थानविशेषैः अनन्तगतिभिः षट्प्रकारकव्यापनैः एवमेभिराक्रम्यैति । (Monsoon sets up thrice, and travels in thousands of directions, pervading the atmosphere in a sixfold way.) समुद्रम् = अन्तरिक्षं प्रापयतः । (Evaporation of water in the sea for three days is necessary for the formation of clouds in the sky.)
॥ वृष्टिविसर्जनप्रकारः ॥
सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूर्षम्बरश्चैव । सविताऽरेपसोऽभवत् । त्यं सुतृप्तं विदित्वैव । बहुसोमगिरं वशी । अन्वेति तुग्रोऽव क्रियांतम् = शाम्बरः - मेघः, सवितारं सर्वस्य प्रेरयितारम् आदित्यम्, वितन्वन्तं वृष्ट्यर्थं मयूखान् विस्तारयन्तं, अनुबध्नाति - अनुरूपमाश्रयति । आपपूः = अद्भिः पूर्णः, षम्बरः - मेघः, अरेपसः - वृष्टिक्रियायाः, सविता - प्रसविता, अभवत् - भवति । त्यं - तं मेघं सुतृप्तम् - उदकपूर्णम्, बहुसोमगिरम् - अनेकस्तनितसहितम्, विदित्वा - ज्ञात्वा, वशीतुग्रः - नियन्तुमीश्वरः, आदित्यः, विततरश्मिर्भूत्वा, अवक्रियां वृष्टिविमुखं तम्, अन्वेति - मेघमनुबध्नाति । (Cloud is formed and supported by the sun’s rays, i.e., the atmosphere becomes electrified by the sun’s rays in which the formation of clouds takes place. The white clouds become dark when it is filled with water and rain is formed by the influence of the sun.)
वृष्टितत्वं संग्रहेणैवमुक्तं तैत्तिरीयब्राह्मणे (अ. १, प्र. ८, अ. ५) योगा उदजत्स दिवे विचाभजत् = यः आदित्यः गाः (गोशब्दोऽत्रजलवाची) उदजत् - धर्मकाले जलानि स्वरश्मिभिर्भूम्या ऊर्ध्वं स्वीकृतवान् सः आदित्यः पुनरपि, दिवे = दिवस्सकाशाद्व्यभजत् = विशेषेण विभागं कृत्वा वृष्टिकाले जलं प्रेरितवान् । यो यं धर्मकाले जलस्वीकारः यश्च वृष्टिकाले पुनरपि जलस्य परित्यागः एतत्सर्वं जगद्व्यवहारस्योपलक्षणम् । (The Sun by his rays absorbs water on earth and takes it to the atmosphere and causes it again to fall down as rain for the benefit of the world.)
पवित्राङ्गिरसो वृष्टितत्वद्रष्टारः (Certain sages, called Pavitra Angirasas, discovered the rain phenomenon.)
२७. (क. सू.) अस्मिन्प्रकरणे वृक्षतत्त्वमपि किञ्चिद्विचार्यते । वृक्षाभिसर्पणमित्यदृष्टकारितम् वृक्षमूले निषिक्तानामपां यद्धृक्षमभितः सर्पणं तज्जीवादृष्टैः कारितम् (Soul) (अदृष्टं शक्तिविशेषः) यस्य हि जीवात्मनः (Soul or life) पत्र, काण्ड, पुष्पफलादिवृद्धिकृतेन सुखेन भवितव्यम्, तददृष्टकृताच्छक्तिविशेषात्, मूलमारभ्य यावदग्रं सिरासंतानः अपां - पार्थिवरसानाम् (Manure) आकर्षणं करोति (Takes up or absorbs) । तेनैव वृक्षो जीवति (Lives) नान्यथा जीवेत् । अतोऽदृष्टकारितम् अपां वृक्षाभिसर्पणं कर्मं । तत्र आपः समवायिकारणम् । अदृष्टवदात्मसंयोगः असमवायिकारणम् । अदृष्टं निमित्तकारणम् । अनेन कर्मणा आपः ऊर्ध्वं गत्वा वृक्षं वर्धयन्ति ॥
वृक्षादयोऽपि शरीरभेदा एव (Trees are different forms of bodies), भोगाधिष्ठानात् Substratum for enjoyment । न खलु भोगाधिष्ठानमन्तरेण, जीवन (Existence), मरण (Death), स्वप्न (Sleep), जागरण (Wakefulness), भेषजप्रयोग (Treatment by medicine), बीज (Seed) सजातीयानुकूलोपगम (Attracting like things), प्रतिकूलापगमादयः (Repelling unlike things, etc.) सम्भवन्ति । वृद्धि (Growth) क्षत (Injury) भग्न (Losing energy) संरोहणानि च (Recovery) । भोगोपपादके स्फुटोऽप्यस्त्यागमः नर्मदातीरसंभूताः सरलार्जुनपादपाः । नर्मदातोयसंस्पर्शात्ते यान्ति परमां गतिम् । तथा अतिचेष्टावत्वम् (Much activity), इन्द्रियवत्त्वं च (Possessing senses) उद्भिदां (Vegetation) न स्फुटतरम् । अतो न शरीरव्यवहारः । (So they are not considered as regular bodies.) वृक्षतत्वेऽषि (Botany) वृक्षाः ऊर्ध्वस्रोतसः (Having circulation upwards) तमःप्रधानाः (Possessing inertia), अव्यक्तचेतनाः (Life not fully manifested), अन्तस्पर्शमेव जानन्ति (Feel all sensations only inwardly) अन्ये वृक्षचिकित्सादिविषयाः वृक्षायुर्वेदे, अग्निपुराणे, गारुडे, बृहत्संहितायां च सम्यङ्निरूपिता भवन्ति । जलभूम्योः परिणामवत् रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् (Vegetable Kingdom also displays all varieties of changes namely, formation of bark, etc.) गारुडे यथा - यमाज्ञया महीं प्राप्य भवन्ति स्थावरादयः । वृक्षगुल्मलतावल्लीगिरयश्च तृणानिच । स्थावरा इति विख्याता महामोहसमावृताः ॥ अन्यत्र - तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ मनुः - (1 46) उद्भिञ्जाः स्थावरास्सर्वे बीजकाण्डप्ररोहिताः ॥ कालिदासः - (कु. 1 - 23) शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥
२८. स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते - इति श्रुत्या तेजस्तत्त्वं सम्यगवधारितमिति ज्ञायते ॥
Sacred texts which record the experiences of ancient sages, actual observations made by their divine sight which served for Telescopes and Microscopes, facts seen and determined, inferences drawn from the above, all these authorities were employed to discover the true state of things in the solar phenomena by the ancient Aryas.)
विष्णुना विधृते भूमी । इति वत्सस्य वेदना विष्णुना - व्यापकेन सूर्येण भूमी द्यावापृथिवी भवितुमर्हतः अन्येनाशक्यत्वात् । (The sun, the all - pervasive matter holds up both Earth and Heaven, for no one else can do this). किंतद्विष्णोर्बलमाहुः ? (But wherefrom comes strength for the sun to hold up Earth and Heaven ?) का दीप्तिः ? (What is its brightness due to ?) किं परायणम् (What are the causes for its effect ?) एतासां विचिकित्सानां दिव्यदृष्ट्या दृष्टान्यबाधितान्युत्तराणि यथा (The immutable answers to such questions are). - वाताद्विष्णोर्बलमाहुः - सर्वप्राणिप्रवृत्तिनिबन्धनं क्रियाशक्त्यात्मकं प्रधानं वातशब्देनोच्यते । तस्मात् प्रधानात् व्यापिनः सूर्यस्य प्रवृत्तिसामर्थ्यं भवति । (The sun gets his strength from primordial matter - Nature as scientists presume.) तद्वशीकारातिशयेन प्रकाशसामर्थ्यतिशयोऽस्य । अथ अक्षराद्दीप्तिरुच्यते । (The sun gets his brightness from immutable spirit.) तत्प्रत्यासत्तिविशेषेण प्रकाशसामर्थ्यातिशयोऽस्य । तमेव भान्तमनुभाति सर्वं इति श्रुतिः प्रमाणम् अग्नयो वायवश्चैव । एतदस्य परायणम् - एत एव परमसहायाः त्रिस्थानस्थाह्यग्निवायुसूर्याः परस्परोपकार्योपकारिभावेन लोकत्रयं धारयन्तीति । (Fire on earth, air in the atmosphere and the sun in heaven help one another in supporting the three worlds, viz., Earth, atmosphere and heaven.) इत्याहुः मन्त्रदृशः (So say the sages who discovered the truth in the solar phenomena, the first among those being the sage Vatsa.)
तेजः - चक्षुश्शरीरसवितृसुवर्णवह्निविद्युदादिप्रभेदम् । (1) भौमं पार्थिवमात्रेन्धनम् । ऊर्ध्वगमनस्वभावम् । पार्थिवोपष्टम्भात्तेजसः अग्निर्भवति (इति विज्ञानभिक्षुः) । अत्र श्रुतिः यमिन्द्रमाहुर्वरुणं यमाहुः यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमः तपोजाः इत्यादि । सर्पिरादिकं पार्थिवम् ; त्रप्वादिकं तेजोंऽशबाहुल्यात्तैजसमिति वैशेषिकाचार्याः । तैजसभागैः पार्थिवसंबन्धेन सुवर्णं सम्पद्यते इति च । तदुभयं पार्थिवमिति नवीनाः । (2) दिव्यम् अबिंधनं सौरचान्द्रविद्युद्बडबानलादि । (3) औदर्यम् - पार्थिवजलोभयेन्धनम् । तच्च भुक्तस्य पारिणामहेतुः किं च पाचकं, (Heat concerned in the digestion), भ्राजकं, (Light that gives beauty to the body), रंजकं (Heat that changes white corpuscles into red ones), आलोककं (Light in the eye), साधकं (Brain power) चेति पंचधा विभक्तं पित्तनाम्ना व्यपदिश्यते । रसादीनां शुक्रान्तानां धातूनां यत्परं तेजः तत्खल्वोजः । तदेव बलमित्युच्यते, (4) आकरजम् - सुवर्ण, त्रपु, रजत, सीस, कांस्य, लोह, रङ्ग, ताम्र, पित्तल, पारदादिकम् । तत्र संयुक्तसमवायाद्रसाद्युपलब्धिः । एतेषां अग्नेस्संयोगात् यद्द्रवत्वमुत्पाद्यते तन्नैमित्तिकम् ॥ श्लक्ष्णसान्द्रतरौ अग्नेर्गुणौ ॥
सूर्यस्य तेजसा तदितरतेजांस्यभिभूयन्ते इत्यत्र श्रुतिः अदब्धानि वरुणस्य व्रतानि - वरुणस्य = वारकस्य सवितुः व्रतानि- कर्माणि तेजांसि वा अदब्धानि = दुरतिक्रमाणि, टुर्ज्ञातानि वा । कथमेष करोतीति न ज्ञायते कथं वा ज्योतींष्यपि छादयन्नेव गच्छतीति न ज्ञायते - (तै. आ. प्र. १, अनु. २२) ॥
२९. गुणविशेषेण तेजोविभागः यथा -
(a) किंचिदुद्भूतरूपस्पर्शनं सौरादितेजःपिण्डितं तेजः वह्नयादिकञ्च (Perceptible to both touch and sight),
(b) किंचिदनुद्भूतरूपस्पर्शं नायनं तेजः (Not perceptible to both sight and touch),
(c) किंचिदुद्भूतरूपमनुद्भूतस्पर्शम् - चान्द्रं तेजः, प्रभामंडलादि (Perceptible to sight but not to touch),
(d) किंचिदनुद्भूतरूपमुद्भूतस्पर्शं च नैदाघं तेजः, तप्तवारिभर्जनकपालादिगततेजश्च (Imperceptible to sight but perceptible to touch) रूपोपलब्धिर्यथा - (क. सू.) अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः रूपविशेषः रूपव्याप्यम्, उद्भूतत्वम्, अनाभिभूतत्वं च । यदनेकद्रव्यारब्धं महत्परिमाणं द्रव्यं समवैति, विशेषं च भजते तदेवरूपं चक्षुषोपलभ्यते नान्यत् (क. सू.) तेन रसगंधस्पर्शेषु ज्ञानं व्याख्यातम् ॥
३०. सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्रव्यसंयोगेनैव अवस्थितानि दृश्यन्ते । नाभासमात्रमपि, मलिनदर्पणवत् । यथा प्रतिबन्धात् । मलिनदर्पणे (Opaque body) तेजः अर्धेन प्रतिबिम्बति । स्फारदर्पणे तु (Lenses) तद्वैपरीत्येन प्रतिबन्धाभावात् प्रतिबिम्बस्फुरणम् । आदित्यरश्मेः स्फटिकान्तरेऽपि दाहः (At the focus of the rays) अविधातात् । तथा चोक्तम् सूर्यांशोः सूर्यमणितः उभयस्मात् युतात् यथा वह्निस्सञ्जायते (भावप्रकाशे) । (The rays of the light of the sun passing through a lense produce fire at the focal point at some distance where they converge.)
आयुर्वेदे यथा - अर्कतीक्ष्णकिरणाविर्भावे सति तत्रानलो दृश्यते । तत्र स्फटिकार्ककिरणसंयोगः कारणम् । कार्योत्पादकसामग्र्यां सत्यां अविलम्बेन कार्यकारणभावसामग्रीसान्निध्यात् कार्यं यत्र दृश्यते तत्र हेतुमद्भावनियमः । अनेन सूर्यरश्मिभिः यथा अग्निरुत्पाद्यते तत्कारणं तद्विधानं च दर्शितम् ।
आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिः । स्फटिकाद्यन्तरितोपलब्धिरपि, प्रसादस्वभावतया स्फटिकादीनां तेजोगतेरप्रतिबंधकतया प्रदीपप्रभावादेवोपपन्ना । परिस्पन्दः, तिर्यग्गमनम्, परिस्रावः, पातः इति तदा व्यवहारः (Refraction) । अन्यथा - मूर्छनम्, किरणसंघट्टनम्, रश्मिपरावर्तनम्, परिस्पन्दः इति व्यवहारः (Reflection) ॥
३१. तेजसः कर्माणि यथा - केवलपात्रे भर्जनम्, स्नेहद्रव्ये तलनं, अग्न्युत्पाते स्वेदः, जले वचनम्, सिद्धद्रव्यरसग्रहणे क्वथनम्, द्वारबद्धतप्तपात्रे तान्दूरम्, ऊर्ध्वाधोऽग्निपाके पुटपाकः (इति पाकराजेश्वरे) । तेजोवेगार्थं कालनिर्णयः - ज्योतिर्विदां मते एकशताधिकपंचत्रिंशन्निमेषभागकालः - मात्राकालः (of a second), तात्कालिकगतिनिर्णयार्थम् आर्यभट्टेनायमङ्गीकृतः । यदा आसन्नः तिथ्यन्तः तात्कालिकसूक्ष्मगत्या तिथिसाधनं कर्तुं युज्यते । तथा समीपचालनं च । यतः चन्द्रगतिः महत्वात्प्रतिक्षणं समा न भवति, अतस्तदर्थम् विशेषो भवति इति हेतुरपि तेनैव आर्यभट्टेन दर्शितः । प्राचीनज्योतिर्विद्भिस्तु त्रुट्यादिगम्या (निमेषस्य द्वादशो भागः, क्षणस्य चतुर्थो भागो वा, लवस्य द्वितीयो भागो वा त्रुटिः), स्थूला गतिरेवाङ्गीकृता । एतादृशसूर्यगतेः वेगातिशयं ज्ञातवता उदयनाचार्येण आश्चर्यमेवं सूचितम् अचिन्त्यो हि तेजसो लाघवातिशयेन, वेगातिशयेन, यत्प्राचीनाचलचूडावलंबिनि भगवति मयूखमालिनि, भवनोदरेषु आलोक इत्यभिमानो लौकिकानाम् ॥
३२. यस्तावत्तेजःपिण्डः तदेव सूर्यमण्डलम् । मूर्तद्रव्याणां सारं तद्बाह्यतेजः । अमूर्तद्रव्याणां सारं तदन्तस्तेजः इति बृहदारण्यकोपनिषद्भाष्ये विस्पष्टमभिहितम् । सूर्यान्तर्वर्ती तेजोमयशरीरः, नारायणः अथवा हिरण्यगर्भ एवेति केचित् ॥
यस्तावत्तेजोराशिः स एव सूर्य इति रहस्यमाधुनिकवैज्ञानिकैरप्यंङ्गीकृतं । (The sun is a mass of a burning material body) विष्णुना विधृते भूमी इति श्रुत्या, विष्णुना = व्यापकेन सूर्येण, भूमी - द्यावापृथ्वी, विधृते भवितुमर्हत इति श्रुत्यर्थानुसन्धानेन च, स्वनिष्ठाकर्षणसक्त्या सूर्यः भूमिं दिवं च धारयतीति सुव्यक्तमेव । परं तु सूर्यस्य नैजं स्वरूपं किम् ? तस्य प्रकाशः कस्माल्लम्यते ? । तस्य जगत्रयधारणव्यापारे के सहायाः इत्यादिविचिकित्साः श्रुतौ प्रदर्शिताः खलु । यथा किं तद्विष्णोर्बलमाहुः ? का दीप्तिः ? किं परायणम् ? इति । एतासां विचिकित्सानां किमुत्तरमिति प्रश्नोऽवशिष्यते । तास्सम्यगालोच्य दिव्यदृष्ट्या तत्त्वानि परीक्ष्य महर्षिभिर्मन्त्रदृग्भिः विशेषतः वत्समहर्षिणा सदुत्तराणि निर्दिष्टानीति श्रुतावेवोक्तं भवति । यथा - वाताद्विष्णोर्बलमाहुः - सर्वप्राणिप्रवृत्तिनिबन्धनं क्रियाशक्त्यात्मकं प्रधानं वातशब्दोनोच्यते । तस्मात् प्रधानात् व्यापिनः सूर्यस्य प्रवृत्तिसामर्थ्यं भवति । तद्वशीकारातिशयेन प्रकाशसामर्थ्यातिशयोऽस्य । अथ अक्षराद्दीप्तिरुच्यते - परमात्मनः प्रत्यासत्तिविशेषेण प्रकाशसामर्थ्यातिशयोऽस्य । तमेव भान्तमनुभाति सर्वम् इति श्रुतिशास्त्रप्रमाणे । अग्नयोवायवश्चैव एतदस्य परायणम् एत एव परत्र सहायाः त्रिस्थानस्थाः पूर्वोक्ता ह्यग्निवायुसूर्याः परस्परोपकार्योपकारिभावेन लोकत्रयं धारयन्तीत्यभिप्रायः । (The truth of the whole statement is that the ancient sages like Vatsa had made researches and found out the truth about the Sun’s constitution or material composition and strength his brightness, and how he gets the power to support the world etc., and they discovered the truth that the Sun is a material substance like any other element, he gets his brightness from the spiritual power which pervades throughout his sphere, and he is helped by the ever burning oxygen and atmospheric air and he supports heaven and earth by giving heat and light which are very essential to the life of all creatures in the world, by his force of
all creatures in the world, by his force of attraction and by causing rainfall and through it all crops, plants and trees to grow.)
तथा चोक्तम् भगवद्गीतायाम् - यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति ॥
सूर्यतत्त्वविचारे - सप्त सूर्याः भवन्तीति श्रुतिः । ते आरोगः - भ्राजः - पटरः - पतङ्गः - स्वर्णरः - ज्योतिषीमान् - विभासः इति । एते सप्तवायुस्कन्धवर्त्तिनः सहोदयास्तमयाः सप्त सूर्याः पञ्चकर्णेन सप्तकर्णेन च दृष्टाः । (Besides the sun which we see, there are six more forms of the sun [caused by different aerial regions] says a scientist and astronomer. These seven suns were discovered by one Panchakarna, and his discovery was corroborated by Saptakarna and they say that they only hear that there is the eighth sun also which could not be discovered.) प्राणत्रातः अष्टममपि सूर्यमपश्यत् । (Pranatrata, a sage, discovered the eighth sun also. This is the opinion of some ancient scientists -) एकस्यैव धर्मभेदेन सप्तत्वमित्यन्ये । यथा - आरोगः - बलवान् । भ्राजः - उन्मिषद्रवः । पटरः - व्यामोहकः । पतङ्गः - ज्ञानस्य बोधयिता । स्वर्णरः - अत्युज्ज्वलः । ज्योतिषीमान् = उभयोः पार्श्वयोः द्योतनस्वभावशक्तिद्वयाक्रान्तसमीपवान् । विभासः - सर्वलोकव्यापितेजाः । इत्यन्ये (These are the characteristics of one and the same sun say others.)
अथ कालतत्त्वम् ॥
तथैवोक्तं - (तै. आ. प्र ३, अ. ११) हरिः - पतङ्गः - पटरी - सुवर्णः । दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु । पञ्चारं चक्रं परिवर्तते पृथु । हिरण्यज्ज्योतिस्सलिलस्य मध्ये । अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु । सप्तयुञ्जन्ति रथमेकचक्रम् । एको अश्वो वहति सप्त नामा । त्रिनाभिचक्रमजरमनर्वम् । येनेमा विश्वा भुवनानि तस्थुः -
अस्या श्रुतेरर्थः - (सूर्यः) - हरिः = उदकाहरणशीलः । (The sun absorbs water in the sea by his hot rays.) पतङ्गः = ज्ञानहेतुः । (Influences the intellect.) पटरी - तेजःपटलवान् । (Possesses a collection of rays.) सुपर्णः = शोभनपतनः । (His rays are pleasant when they fall on us.) दिविक्षयः = द्युलोकनिवासी । (Has his abode in heaven.) यः एवंभूतः नभसा अन्तरिक्षेण सर्वदा एति = गच्छति । (He always moves in heaven.) स तादृशः आदित्यात्मा - इन्द्रः - ईशानः - अस्मभ्यं कामवरं कामानां मध्ये वरिष्ठं वरम् इष्टं वरं वा ददातु ॥
पञ्च अरस्थानीयाः ऋतवः यस्य तत् पञ्चारम् - संवत्सराख्यम् । पृथु - विस्तीर्णम् । तस्य प्रवर्तकत्वात् आदित्यमण्डलमभेदेनोच्यते । हिरण्यज्योतिः = हितरमणीयज्योतिः । सरिरस्य - अन्तरिक्षस्य मध्ये, अजस्रं सर्वदा ज्योतिः - द्योतमानम्, नभसा = आकाशेन = सर्पन् - सृप्त एव । (This sphere, the sun, is very extensive. His rays are very useful as they cause different seasons. The sun is always shining in heaven.)
सप्तरश्मयः = अश्वस्थानीयाः, युञ्जन्ति रथं रंहणशीलं कालम् । एकचक्रम् एकप्रकारं परिवर्तते । एक एव अश्वः - व्याप्तिमान् रश्मिः, सप्तनामा - सप्तभिः प्रकारैः उदकस्य नामयिता वहति इमं संवत्सरम् । अस्य चक्रं त्रिनाभि त्रिषु स्थानेषु ग्रीष्ंअवसन्तहेमन्तेषु नद्धत्वात् । अजरं - अविनाशि । अनर्वम् - अनघम् - अमोघम्, येन संवत्सररथेन इमा विश्वा इमानि विश्वानि भुवनानि तस्थुः - तिष्ठन्ति - न नश्यन्ति । अयमेव संवत्सरः परिवर्तमानः कालात्मा । (Here the year caused by the sun’s motion is identified with a car which has three navels viz., Summer, Winter and Rainy seasons and five spokes in the form of five seasons in the year.)
आत्मविज्ञानाय च सूर्यतेज एव कारणम् । यथा - तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् इति गायत्रीमन्त्रे । तथैवान्यत्र - सूर्यप्रकाश एव परंपरासंबन्धेन आत्मबोधाय च कारणं भवतीति ॥
चन्द्रः अम्मयः स्वभावतस्स्वच्छः तस्मादस्य दिवसकरकिरणसमाश्लेषेण भास्वरत्वम् । यथा चन्द्रमा वा अपां पुष्पम् (रसात्मकत्वात् चन्द्रमाः अपां पुष्पम् । यद्वा लतानां कुसुमवत् जगदाह्नादी अपां परिणामश्चन्द्रः) नबो नबो भवति जायमानः । यम् आदित्याः अशुंमाप्यायन्ति इतस्सिक्तं सूर्यगतम्, चन्द्रमसे रसं कृधि इत्यादिश्रुतयः प्रमाणम् । वराहमिहिरोऽपि - सलिलमये शशिनि विमूर्छिता रवेर्दीधितयः इति । ऋग्वेदे - तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् इत्यत्र ज्योतिष्कृत्शब्देन चन्द्रादीनां रात्रौ प्रकाशयितेति च गम्यते ॥
तथान्यत्र - चन्द्रो नाम भास्वरः - सलिलकटाहात्मा । यथा - सूर्योऽग्निमयो गोलः - चन्द्रोऽम्बुमयस्स्वभावतः स्वच्छः । इति । तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाहुः - भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथास्थानं सूर्याभिमुखानि दीप्यन्ते इति । तस्माच्चन्द्रमसो बिम्बं सूर्याभिमुखं चकास्ति ॥
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः - व्याख्या - चन्द्रगुणकीर्तनेन आदित्य एव स्तूयते । तेषां चन्द्रगुणानां आतित्याधीनत्वात् । (तै. सं. २ - ४ - १४.) (The sun is a burning body, the moon is a watery body, and clear and transparent. Therefore by the refraction of the sun’s rays the moon shines bright.)
सूर्याचन्द्रमसोः परस्परसन्निकर्षः अमावस्या । विप्रकर्षः पौर्णमासी । सुषुम्नः सूर्यरश्मिः - चन्द्रमा गन्धर्वः (तै. सं. ३ - ४ - ७) ॥
ननु कथं अस्तमिते सवितरि चन्द्रः चकास्ति ? (Then how is it that the moon shines when the sun has set ?) नैष दोषः (There is no contradiction) कथम् ? (How) । भूमेर्दूरेण सूर्यमार्गः । तेन उपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । चन्द्रस्य वा वा - ऽस्योपलक्षितबिम्बे केन्द्राद्यथा यथा पश्चादादित्योऽवलम्बते - तथा तथा चन्द्रमसो बिम्बं केन्द्रस्य परतोऽवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिंबपरिध्यवधेरधोऽवलम्बतेतावच्चन्द्रमसो बिंबस्यार्धमस्माभिरुपलभ्यते । शेषमुपरिस्थितत्वान्नोपलम्यते । सूर्याभिमुखं भास्वरमपि भूगोलविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते - तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति ॥
चन्द्रस्य द्वेधा उदयास्तमयौ गोलकप्राप्तिपरित्यागाभ्यां सूर्यस्येव प्रतिदिनं भवतः । तथा आदित्यस्यैव सन्निकर्षाद्विप्र- कर्षाच्च चन्द्रस्य उदयास्तमयौ भवतः । अयं चन्द्रः शीघ्रगतित्वात् प्रत्यहमर्कसमीपमागच्छति यावत्प्राच्यामस्तं व्रजति । अस्तंगतश्च ततश्शीघ्रगतित्वात् आदित्यमनुदिनं परित्यजति यावत्प्रतीच्यामुदेति । एवमस्य आदित्यसन्निकर्षात् विप्रकर्षाच्च प्राच्यामस्तमयः प्रतीच्यामुदयः । चन्द्रार्कयोः परो विप्रकर्षः पौर्णमासी (Full - moon day occurs when the sun and the moon are at great distance) परस्सन्निकर्षोऽमावास्या (When they are close New - moon day occurs.) चन्द्रमसो द्वादश दृश्यादृश्यकलाः अशांः । एतैरंशैरयं दृश्यादृश्यश्च भवति इति भट्टभास्करः ( यजुस्संहिता - कां २ प्र ५ अ ५. अस्य भाष्ये) । तत्राभीष्टकाले स्फुटभुक्त्यन्तरं स्फुटकालांशादधिकं वा भवेत् न्यूनं वा । अधिकत्वे पञ्चदश्यामपि चन्द्रो दृश्यः स्यात् न्यूनत्वे तु चतुर्दश्यामपि न दृश्यते । तस्मात्तादृशसूक्ष्मगणना (तत्रैव प्रदर्शितेन) स्फुटकरणविधिसंपादिता । कोशलशालिना कालोऽन्वेष्य इति ज्योतिश्शास्त्रतत्वं तत्र तेनैवोपपादितम् ॥
ज्योस्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवंति । यथा दर्पणोदरे (In lenses) जले वा (Clear water) विवाकरकराः संमूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति, एवं सवितृमरीचयः अबुंमये स्वभावश्यामेऽपि चन्द्रबिम्बे संमूर्छिताः नैशं ध्वान्तमपध्वंसयन्ति । अतः आदित्य एव चन्द्रमा उच्यते । चन्द्रस्य माता निर्माता उत्पादक इति च दर्शितः ॥
जलमयश्चन्द्रः प्रकाशशून्यः । तस्मिन् तरणिकिरणप्रतिफलनादितरस्य ज्योत्स्नाप्रसरविस्तरः । तथा चोक्तं वराहमिहिरेण - अधस्थस्य इन्दोः अर्धभागः (उपरिभागः) भानोः भाभिः नित्यं सितो भवति । अन्यो भागः स्वच्छाययैव असितो भवति । यथा आतपस्थस्य कुम्भस्य भागाविव । सूर्याभिमुखं त्यजतः चन्द्रस्य यावद्यावद्भागः अवलम्बते तावत्तावद्भागः दिनकरवशात् शौक्ल्यं भजते । प्रकाशते च । तादृशभागानां उदय इति कथ्यते । अत्र अन्यदुदाहरणम् - सलिलमये शशिनि मूर्च्छिताः रवेर्दीधितयः नैशं तमः क्षपयन्ति । यथा दर्पणोदरनिहिताः दीधितयः मन्दिरस्यान्तः तमः क्षपयन्ति । भास्कराचार्योऽपेवं ब्रूते - तरणिकिरणसङ्गादेष पीयूषखण्डो दिनकरदिशि चन्द्रश्चन्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलश्यामलश्रीर्घट इव निजमूर्तेश्छाययेवान्तरस्थः । अत्र श्रुतिः - सुषुम्नः सूर्यरश्मिश्चन्द्रमाः ॥
नक्षत्राणाम् आपः शरीरम् । तेषामपि सूर्यकिरणसंक्रमणेनैव प्रकाशः । एतत्तत्त्वं नक्षत्रेष्टौ सुविशदं प्रतिपादितम् । तस्मिन्प्रकरणे सूर्यो वा अकामयत । नक्षत्राणां प्रतिष्ठा स्या मित्युक्तम् ।
तथैव - ग्रहनक्षत्राणां केवलं सूर्यवशेन नित्योदयास्तमयाः । उक्तं च - तेजसां गोलकस्सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः । प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः ।
विद्युच्च सूर्यतेजोरूपा । अत्र श्रुतिः - विद्युत्सूर्ये समाहिता इत्यत्र - विद्युच्च सूर्ये समाहिता - सम्यङ्निहिता, तदीयरश्मिजन्यत्वादित्युक्तम् । तेजोविशेषास्तु - धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः । अग्निना दिव्येन कृतः उत्पातः अग्न्युत्पातः ।
तमः, चाया । (Darkness and Shadow) (क. सू.) द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यात् भाऽभावस्तमः तेजसो द्रव्यान्तरेणावरणाच्च । (अत्र उद्योतकारः) यत्र अल्पीयांसस्तेजःपदार्थास्सन्ति, सर्वतस्संपूर्णरूपेणालोकाभावो न तिष्ठति, तत्स्थानीयद्रव्यगुणकर्माणि छाया इति कथ्यन्ते । एवं यत्र तेजःपदार्थस्सर्वतो निवृत्तः, प्रत्यक्षयोग्यविशिष्टालोकः कुत्रापि नास्ति, तत्स्थानीयद्रव्यगुणकर्माणि अन्धकार इति व्यपदिश्यन्ते । (भाष्यकारः) छाया न द्रव्यम्, अपि तु अभाव एव । (तात्पर्यटीकाकृत्) अन्धकारो भावपदार्थे नान्तर्भवति, परन्तु तेजसोऽभावरूपः । अनेन दिग्देशभेदच्छायावरणादिहेतुभिः परमाणोः सावयवत्वं साधयितुं न पार्यते इति फलितम् ॥
३३. सूर्यभक्ता रश्मयः सप्तविधाः (Spectrum) । पद्मराग, सुवर्ण, भद्रलोहित, लोहित, श्वेत, भूमिनी, करालिकेति । अथवा हिरण्य (Yellow), वैडूर्यवर्ण (Green), रक्त (Red), कृष्ण (Indigo), पद्मराग (Oragne), सुप्रभा (Violet), करालिका (Blue) । तथैवान्यत्र, नील, शुक्ल, रोहित, पीत, हरित, कपिश, चित्रभेदेन तस्य सप्तविधं रूपम् । अत्र श्रुतयः सप्त त्वा हरितो रथे, वहन्ति देव सूर्य भद्रा अश्वा हरितस्सूर्यस्य चित्रा एतग्वा अनुमाद्यासः एतग्वा - शबलवर्णं नीलवर्णं वा । अनन्तमन्यदृशदस्य पाजः, कृष्णमन्यद्धरितस्संभरन्ति । यजुर्वेदे - चित्रं देवानामुदगादनीकम् नानावर्णयुक्तानामश्वानां रश्मीनाम् समूहः उदगात् । सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे वियति धनुस्संस्थाना ये दृश्यन्ते तदिन्द्रधनुः (Rainbow) । वक्षांसि, अप्सः - इत्यादिवैदिकपरिभाषिकशब्दाः नानावर्णयुक्तानां रश्मीनां समूहस्य (Spectrum) नामात्मकाः उश्ःआसूक्ते प्रयुक्त भवन्ति । उषःकालीनसूर्यरश्मीनां नानावर्णत्वात् । बृहस्पतिश्च सविता च । विश्वरूपैरिहागताम् (तै. आ. प्र. १, अनु १२) विश्वरूपैः नानारूपैः रश्मिभिः ।
अयं यश्श्वेतो रश्मिः । परिसर्वमिदं जगत् श्वेतँ रश्मिं भोभुज्यमानम् । अपां नेतारं भुवनस्य गोपाम् । इन्द्रं निचिक्युः परमे व्योमन् । अन्यत्र - सप्तयुञ्जन्ति रथमेकचक्रम् । एको अश्वो वहति सप्त नामा । (तै. आ. प्र. ३, अ ११) । भाष्यम् - सप्तसङ्ख्याकाः सूर्यरश्मिविशेषाः अश्वसदृशाः । सप्तसङ्ख्याः नामाः - नमनयोग्याः (Capable of bending in forming a spectrum). तथैवोक्तमन्यत्र - दिव्यस्यैका धनुगार्त्निः । पृथिव्याम पराश्रिता । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामछिनत्स्वयम् । तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । लौकिकाः - सामान्यजनाः, अभ्रवर्णॆषु - मेघे दृश्यधनुरिति चक्षते - आचक्षते - पश्यन्ति वा । (When ordinary people see a rainbow, they say that it is Indra’s bow without a string.) इन्द्रधनुस्तत्त्वं तु सूर्यस्य श्वेता रश्मयः अभ्रेषु (अपः बिभ्रतीति अभ्राणि - तेषु) संवलिताः - सङ्क्रांता वा सन्तः विविधवर्णात्मका दृश्यन्ते । [The scientific truth is that white rays refracted through clouds which, in nature stand for lenses and prisms, analyze themselves into a spectrum with (सप्ताश्वाः) Saptasvas, i.e., seven colours.] अन्यत्र यथा - साभ्रे बियति सूर्यस्य कराः पवनेन विघट्टिताः विविधवर्णास्संतः धनुस्संस्थाना ये दृश्यन्ते तदिन्द्रधनुः । (The sun’s rays passing through the atmosphere studded with clouds become a spectrum when they are pressed and disturbed by the atmospheric air. This is ordinarily called Indra’s bow.)
अन्यत्र - यथादित्या वसुभिस्संबभूवुः = एकीबभूवुः । (Lightning takes its birth when the atmosphere is electrified with electricity, i.e., by some peculiar rays of the sun.)
पाकः (Chemical Combination)
पाकस्तेजस्संयोगः । तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यते ।
३४. अत्र साङ्ख्याः - संहतभूतार्थे (Compounds by Chemical Combination) सङ्गाख्यो यः संयोगविशेषः, तेनैव द्रव्याणां विकारो भवति - इति । वैशेषिकास्तु पाके तावत् (In Chemical Combination) अन्तःप्रवेशः कृशानोरनुमीयते । तेन वेगवता वह्निद्रव्येण नोदनादभिघाताद्वा, अवयवेषु क्रिया, क्रियातो विभागः, विभागादारम्भकसंयोगविनाशः इति वदन्ति ॥
३५. सुवर्ण, रजत, मणि, मुक्ता, मनश्शिला, मृत्, कपाल, लोह, मल, सिकता, सुधा, हरिताल, लवण, गौरिक, अश्माजिनप्रभृतीनि पाकजद्रव्याणि इति काणादाः । भुवः स्वभावाद्वैचित्र्यं प्राहुरुपलानामि ति वराहमिहिरः । रत्नरूपत्वं प्राप्ताः कालान्तरेण इति उज्वलः । अन्योन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत् इति सुश्रुतः । अन्ये पुनरन्यथा आचक्षते । एतद्विषयाः गारुडे, रत्नाध्याये, रत्नकोशे, रसरत्नसमुच्चये, रत्नपरीक्षादिग्रन्थेषु च सम्यङ्निरूपिता भवन्ति । अनेन ग्रन्थकर्त्रा च - सनातनभूविज्ञाना ख्यग्रन्थे यथासन्दर्भं विशदीकृताश्च भवन्ति ।
सप्त धातवस्तु - सुवर्णम् (Gold), रूप्यम् (Silver), ताम्रम् (Copper), रङ्गम् (Tin), सीसम् (Lead), वङ्गम् (Zinc), लोहम् (Iron) एते सप्त धातवः (These are the seven important metals.) स्वर्णमाक्षिकं (A kind of mineral substance in which gold is mixed), तारमाक्षिकम् (A kind of mineral substance in which pearl is mixed), तुत्थम् (Copper sulphate), कांस्यम् (Bell metal), रीतिः (Brass), सिन्दूरः (Red lead), शिलाजित् (Bitumen) एते सप्त उपधातवः । एतेषां भस्मसिन्दूराणि पाकेन निष्पाद्यन्ते । (Oxides and salts are effected by means of heat and chemical combination. This subject has been explained in detail by the same author in his work on Ancient Geology, styled ‘Sanatana Bhuvijnana’.)क्रियातन्त्रसमुच्चयरसेन्द्रतिलकरसांङ्कुशादयः सप्तदशरसतन्त्राणि (पाकतन्त्राणि = Works on Chemistry), रसरत्नाकरे प्रदर्शिताः । चन्द्रसेनव्याडिप्रभृतस्सप्तविंशतिरससिद्धाः (Great Alchemists) अवर्तन्त इति ज्ञायते । भास्करव्याडिप्रभृतयः सप्तविंशतिसंख्याकाः रसतन्त्राणि विरचितवन्त इति च ज्ञायते ॥ अथ पाकतत्त्वम् (Theory of Chemical Action).
३६. क. सू. कारणगुणपूर्वकाः पृथिव्यां पाकजाः रूपादिपरावृत्तिहेतुतेजस्संयोगविशेषात् येयं रूपरसस्पर्शानां परावृत्तिः न च सा तत्रैव भवितुमर्हति । बहिरन्तस्सर्वेष्ववयवेषु वर्तमानस्यावयविनो बाह्ये देशे वर्तमानेन तेजस्संयोगेन अन्तर्वर्तिनां तेषां परावृत्तेरसम्भवात् । तत्परावृत्त्यर्थं तेजः - परमाणूनामन्तःप्रवेशाय अवयविनः सान्तरताभ्युपगमः (Porosity) । अयं गौतमीयपक्षः पिठरपाक इति लोके प्रसिद्धः । [Theory of heat molecules passing through the pores of a substance in any chemical Combination is called पिठरपाकवाद (Pitharapakavada). W. Simson also says - “The molecules of any substance are not in absolute contact, but there are spaces between them which we call inter-molecular spaces. The property of matter to have spaces between the particles composing is known as porosity (सान्तरत्त्वम्).] एष पक्षः न साधीयानिति काणादमतानुयायिनामभिप्रायः । यथा - तत्परमाणूनां निर्भागत्वेन सान्तरत्वाभावात् । द्व्यणुकस्य (Molecule) सान्तरत्वे तदारम्भकपरमाण्वोरसंयोगस्यावश्यवक्तव्यतया तदुत्पादायोगात् । द्व्यणुकादीनाञ्च सान्तरन्त्वे, द्वयणुके तत्परावृत्त्यनुपपत्तेस्तादवस्थ्यात् । त्र्यणुकादीनां सान्तरत्वे, द्वयणुके तत्परावृत्त्यनुपपत्तेस्तादवस्थ्यम् । अतः अशेषे तदक्यविनि रूपादिपरावृत्त्यर्थं बलवत्तेजस्सम्योगविशेषेण, आ परमाणुभ्यः आ च कपालादेः कर्मोत्पत्या, परस्परविभागतः परस्परसंयोगनाशे, असमवायिकारणनाशात् अवयविनि विनष्टे, स्वतन्त्रभूतेषु परमाणुषु रूपादिपरावृत्तिरेष्टव्या । तत्र तत्परावृत्तौ च पुनर्मोगिनामदृष्टेन उत्पन्नपाकजरूपादिषु तेषु कर्मोत्पत्त्या परस्परसंयोगात् द्व्यणुकादिक्रमेणारब्धे तस्मिन्नवयविनि, कारणगुणपूर्वकः पाकजगुणारम्भः इत्युपपादितम् । This is पीलुपाकवादः (Pilupakavada). It is believed that molecules of all bodies are in motion and that whenever heat energy is added to a body, it either goes to increasing the motion of molecules, that is, Kinetic energy or to making a change in the relative position of the molecules, i.e., in their potential energy or to both. Heat absorbed in the substance, exists as latent in potential energy of the molecules and when this heat is given out again the molecules return to their former arrangement. Heat is the energy source of motion of material particles (molecules) and in being transferred has frequently the tendency to splitting up of the molecules of compound substances - (W. Simson). पार्थिवपरमाणूनामेकजातीयत्वेपि पाकमहिम्ना विजातीयान्तरानुभवः । [There must be some cause which enables or even forms the different substances to unite with each other so as to form compound bodies. This cause is to be found in the existence of another form of attraction which causes the smallest particles of different elements to unite to form new substances with new properties. This kind of attractive power is called chemical force or chemical affinity (पाकशक्ति) W. Simson.] एवमेव शरीरारम्भेऽपि (Science of new life) परमाणवः कारणम् । न शुक्रशोणितनिपातः । क्रियाविभागादिन्यायेन तयोर्विनाशे सति, उत्पन्नपाकजैः परमाणुभिरारम्भात् । न च शुक्रशोणित परमाणूनां (Semen and blood) कश्चिद्विशेषः । पार्थिवत्वाविशेषात् । (Isomeric mode of earth) पितुश्शक्रं मातुश्शेणितम्, तयोः सन्निपातानन्तरं जठरानलसम्बंधात् (Cehmical combination under the animal heat of Biomotor force, vayu, to form the germ) शुक्रशोणितारम्भकेषु परमाणुषु पूर्वरूपादिविनाशे, समानगुणोत्पत्तौ, द्व्यणुकादिक्रमेण कललशरीरोत्पत्तिः । तत्र अन्तःकरणप्रवेशः तत्र मातुराहाररसेन मात्रया संक्रमते । अदृष्टवशात्तत्र पुनर्जठरानलसंम्बन्धात् कललारम्भकपरमाणुषु क्रियाविभागादिन्यायेन कललशरीरे नष्टे, समुत्पन्नपाकजैः कललारम्भकपरमाणुभिः अदृष्टवशादुपजातक्रियैराहारपरमाणुभिस्सह संभूय शरीरान्तरमारभ्यते - इति तेषां पक्षः । अयमेव पीलुपाक इति प्रसिद्धः । (The theory of change of character etc., in a substance under the influence of heat.)
एतत्पाकविषये श्रुतिर्यथा - विभक्तारं हवामहे । वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम् अत्र यजमानस्य विभज्य ददातीति वाऽविभक्ताभ्यः प्रजाभ्यः राधः विभजतीति वा सूचयितुं मूले यत्किञ्चिदपि पदं मृग्यम् । तस्माद्वसोः स्वप्रकाशोत्पादितस्य, चित्रस्य नानावर्णयुक्तस्य, राधः - सुवर्ण-रजतवैडूर्यादिखनिजरूपधनस्य, विभक्तारम् - इयद्भिः प्रकाशैः इयता कालेन एतस्मिन्भूतले एतेन वर्णेन एतत्खनिजरूपं धनं भांव्यमिति विभागहेतुकम्, सवितारम् - यथा जगत्प्रसवितारं तथा तदन्तर्वर्तिखनिजधनानामपि प्रसवितारम्, उत्पत्तिहेतुकं नृचक्षसम् - नृणां तत्त्वप्रकाशनेन (अस्मिन् स्थले एतादृशरूपं सुवर्णादिकं भवतीति) विज्ञानमुत्पादयन्तम्, हवामहे - आह्वयामः अथवा स्तुतिं कुर्मः । इति तत्त्वमुपपादयितुमेषा ऋक् समर्था भवतीति प्रतीयते । एतत्सुधियो विभावयन्तु ॥
ऋग्वेदे - अग्निः पृथिव्यां पाजो अश्रेत् । अग्निः भूमौ वर्तमानः बलानि सेवते ॥ इत्यनेन, अन्यत्र द्युमत् इति शब्दप्रयोगेण च रत्नकनकादिखनिजजातस्य स्थितिकर्ता दीप्तिकर्तेति च बोध्यते । अत एव श्रीसूक्ते धनमग्नि (Heat) र्धनं वायुः (Air) धनं सूर्यो (Light) धनं वसुः (Lustre - producing power or earth) धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते इत्यनेन (Some spiritual power with the liquid material) एतेषां समवायशक्त्या रत्नादिप्रादुर्भावः (These materials are spiritual powers are responsible for the production of minerals and gems). सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते इत्यादिना च, भूगर्भशास्त्रतत्त्वमत्र सम्यक्सूचितं भवति ॥
अथर्ववेदे अग्नितत्त्वमेवमुपदिष्टं भवति - ये अग्नयो अप्स्वन्तर्ये वृत्रे यो पुरुषे ये अश्मसु । य आविवेशोषधीर्वनस्पतीस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । (अ. कां. ३, अ. ५ सू. २०, ऋ १.) अस्य तात्पर्यम् - एक एवाग्निः स्वभूतिरूपैरन्यैरग्निभिः कृत्स्नं जगत् अनुप्रविश्य पोषयतीति तस्य बहुवचनेन स्तुतिः । (Heat exists in water as latent, in clouds as electricity, in man and animals as digestive power, in lenses, mirrors and other kinds of stones as inherent power, in plants and herbs as fruit - producing and medicinal power, in crops as salubrious and healthy sap-producing power, in cows and other animals as milk producing power and in all creatures in general as warmth - keeping power. This general statement indicates the depth, minute observation and study of heat and light by the ancient Aryas.)
अत्रायं विचारः - तेजःपदार्थः ऊष्मप्रकाशात्मकः । तेजःपदार्थस्य आकारः प्रकाशः - शक्तिः - ऊष्मा । क्वचित् प्रकाश एव पदार्थान्तरेषु - संयोगेन प्रकाशम् ऊष्माणं च जनयति, यथा - दीपाः । क्वचित् ऊष्मैव पदार्थान्तरसंयोगेन तेषु ऊष्माणं प्रकाशं च जनयति, यथा - शरीरे पाचकपित्तोष्मा । अनेन समस्तकार्यसाधकत्वात् प्रकाश एव ऊष्मा - ऊष्मैव प्रकाशश्च जायेत । स्थानसंयोगादिहेतुना तयोः कर्माणि भिद्यन्ताम् । यथा - चन्द्रप्रकाशः - तप्तायःपिण्डोष्मा । (Light is the form and heat is the power of the burning bodies like Bile in the body.) तथैवोक्तम् - तस्मात्तेजोमयं पित्तं पित्तोष्मायं सशक्तिमान् (Burning bodies such as fire constitute heat and light. Sometimes light alone produces light and heat in other bodies when in contact - as flame of light. Sometimes heat alone produces heat and light in other substances when in contact - as digestive heat in Bile in the body. By this similarity in action it should be concluded that heat is light and light is heat. But they perform different functions and produce different results on account of specific heat and other causes ; cf. moon - light and heat of the burning iron ball) - (for details consult Bhavaprakasa and other medical works under the description of Bile and its functions in the body.)
दीपावरकाः - वायुना हताः दीपाः अस्तं यान्ति । आवृतदीपाः निर्बाधं प्रकाशन्ते । तादृशावरकसम्पादनं काचकोशादिनिर्माणेन भवति । अनेन प्राचीनभौतिकविज्ञानधुरीणाः भारतीयार्याः काचकोशनिर्माणकोविदा आसन् इति सूच्यते । अत्र प्रमाणम् - वामपार्श्वस्थितं नाभेः किञ्चित्सोमस्य मण्डले । तन्मध्येऽण्डं च विज्ञेयं तन्मध्येऽग्निव्यवस्थितिः । जरायुमात्रप्रच्छन्नाः काचकोशस्थदीपवत् - इति भावप्रकाशकारः ॥
पाकविधिप्रयोगः
(Practical Chemistry)
आर्याः पुनः पाकविधिप्रयोगेऽपि अतिचतुराः, इतरेषां च मार्गदर्शकाः । एतत्कर्मनिर्वर्तने तदध्यापने तत्प्रयोगमुखात्प्रदर्शने च ये समर्थाः त एव गुरवः । यदधीतं तद्गुरोः पुरतः प्रदर्शयितुं ये समर्थाः त एव शिष्याः । इत्युक्तं रसेन्द्रचिन्तामणौ, रसयोगविधिप्रकरणे गुहकुलसम्भवेन श्रीरामचन्द्रमहोदयेन । यथा - अध्यापयन्ति यदि दर्शयितुं क्षमन्ते सूतेन्द्रकर्मगुरवो गुरवस्त एव । शिष्याश्च तत्र रचयन्ति गुरोः पुरोधे शेषाः पुनस्तदुभयाभिनयं भजन्ते इति । उदाहरणम् - सूतवेधे - एकोनविंशति - कर्माणि भवन्ति । यथा - स्वेदनम् - मर्दनम् - मूर्च्छनम् - उत्थापनम् - पातनम् - वेधनम् - नियमनम् - दीपनम् - अनुवासनम् - गगनग्रासप्रमाणचारणम् - वायुग्रासप्रमाणचारणम् - तेजोग्रासप्रमाणचारणम् - अब्ग्रासप्रमाणचारणम् - पृथ्वीग्रासप्रमाणचारणम् - गर्भदृतिः - बाह्यदृतिः - योगजारणम् - रञ्जनम् - सारणमिति । मूलग्रन्थावलोकनेन एतेषां विधानानि विशदीभवन्ति । एतादृशकर्मसम्पादने निष्णाता एव पाकशास्त्रज्ञाः ॥
एवमेव रसशालाविधानं एतद्ग्रण्थकर्तृकृतसनातनभूविज्ञाने सुविशदं वर्णितं भवति । इत्यत्र सङ्ग्रहेण अग्निपाकतत्त्वनिरूपणम् । (It means that those are practical teachers in science especially in chemistry, more especially in preparing the compounds of mercury - who are not only able to teach theories but also able to show to their students by experiments or practical methods various modes of preparing compounds of metals especially those of mercury. Likewise they are the students who are able to show before their teachers all the methods taught or learned, by practical experiments. Others both teachers and students - who are unable to do so, are only so in names i.e., they do not deserve the name of a teacher or a student.
For example there are nineteen processes in reducing mercury and in preparing mercury compounds, the details of which can be learnt by referring to the medical works such as Rasendrachintamani and Rasaratnakara, where processes of 23 mercury compounds and also the preparation of several compounds of other metals are given in details.
The description of Rasasala or Chemical Laboratory is given in Sanatana Bhuvijnana. - Ancient Geology, by the author of this work. This is only a very brief reference here of Ancient Chemistry since there are many works where the subject has been dealt with in detail.)
(For the details of Chemistry (पाकजपदार्थतत्त्वं) consult सनातनभूविज्ञानम् - Ancient Geology of Aryas by the same author.)
वायुः
वायुः ब्रह्मेव सर्वव्यापी । अथवा ब्रह्मैव वाय्वात्मना सर्वं व्याप्नोति । अत एवोक्तम् अयं वै (वायुः) ब्रह्म, योऽयं पवते । तमेताः पञ्चदेवताः परिव्रियन्ति । विद्युद्रवृष्टिश्चन्द्रमा आदित्योऽग्निः इति । यथा - विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति । वृष्टिर्वै वृष्ट्वा चन्द्रमसमनुप्रविशति । चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति । आदित्यो वा अस्तं यन्नग्निमनुप्रविशति । अग्निर्वा उद्वान्वायुमनुप्रविशति । एता वा देवताः अत एव पुनर्जायन्ते । यथा - वायोरग्निर्जायते । प्राणाद्धि बलात् व्यानोऽधिजायते । अग्नेर्वा आदित्यो जायते । आदित्याद्वै चन्द्रमा जायते । चन्द्रमसो वृष्टिर्जायते । वृष्टेर्वै विद्युञ्जायते । स एष ब्रह्मणः परिमरः । इति श्रुतिषु वायुप्रभावो दर्शितः । (As air is a very important element since its influence is seen in other elements, its power or energy is variously described in Vedas and it si even identified with the universal or cosmic energy known as Brahma.)
३७. मेघादिप्रेरणधारणसमर्थो वायुः । आदिपदेन शैत्याद्युपलम्भनम् । वायोर्वायुसंमूर्छनं, नानात्वे लिङ्गम् । यस्तादृग्वायुराशिः अभितः पृथिवीं वर्तते, येनायं लोकः प्राणिति, स च स्पृष्टोऽपि सर्वकालम् अल्पत्वान्नोपलभ्यते । तदपरश्च प्रत्यासन्नः सर्वैरुपलभ्यते । असति रूपवद्द्रव्याभिधाते पर्णादिशब्दसंतानोऽपि, नभसि तृण - तूल - स्तनयित्नु - विमानादीनां धृतिरपि (Density of air), वृक्षादिकम्पोऽपि, स्पर्शवद्वेगवद्द्रव्याभिधातजेन भवितव्यम् । यत्तत्र स्पर्शवेगवद्द्रव्यमू, स वायुः । धृतिविशेषोऽपि वायोर्लिङ्गम् । स्तनयित्नुविमानादीनां धृतिः स्पर्शवद्वेगवद्द्रव्यसंयोगजा, चेतनाऽनाधिष्ठितद्रव्यधृतित्वात्, प्रवाहे तृणकाष्ठादिधृतिवत् । पक्षिप्रभृतेः प्रयत्नयुक्तं तदपतनम् । एवं कम्पोऽयि वायुसत्वे लिङ्गम् । इदं रूपवद्द्रव्याभिघातमन्तरेण तृणादौ कर्म स्पर्शवद्वेगवद्द्रव्याभिघातजम् । गुरुत्वप्रत्नवदात्मसंयोगाजन्यकर्मत्वात्, नदीपूरहतवेतसवनकर्मवत् ॥
आकाशात्तु विकुर्वाणस्सर्वगन्धवहश्शुचिः ।
बलवान् जायते वायुस्स वै स्पर्शगुणो मतः ॥
आवहः प्रवहश्चैव संवहश्चोद्वहस्तथा ।
निवहाख्यः परीवहः परावह इति क्रमात् ॥ (इति मनुः १ - २६)
वायोस्सप्तप्रकाराः यथा - वराहवः - जलस्याह्वातारः (Those forms of air which bring water) स्वतपसः - वायवः तपन्तीति । (Various kinds of gases) विद्युन्मयसः - विद्युतामुत्पादयितारः (Those that produce electricity or lightning) धूपयः - धूपनशीलाः (Vapours) श्वापयः - आशु सर्वव्यापिनः । (Those that quickly pervade) गृहमेधाः - यजनार्हाः (Those that exist in holy places) अशिमिविद्विषः- कृष्यादिकर्मानुगुणप्रवृत्तयः । (Those that help agricultural operations. THese are also called पर्जन्याः) । यथा - भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नयः । (Bring water to the earth and take vapour to the sky in the process of rain - forming and rainfall.) (तै. आ. प्र. १, अनु. ९).)
वायुः कथं प्रत्यक्षविषय इति - प्रत्यक्षं यत्सम्बन्धं सत् तदाकारोल्लेखविज्ञानम् । न रूपनिबन्धनात्प्रत्यक्षनियमः ॥
३८. वायव्यश्च असाधारणो गुणः अनुष्णाशीतः (Salubrious) । स च निम्मभेदात्, उष्णः (Hot) शीतः (Cold) सुखकरः (Pleasant) दुःखकरः (Unpleasant) स्निग्धः (Refreshing) विशदः (Pure) खरः (Hard) मृदुः (Soft) रूक्षः (Rough or arid) लघुः (Light) गुरुः (Heavy) कठिनः (Violent) चिक्कणः (Glossy or greasy) श्लक्ष्णः (Fine or charming) पिच्छलः (Lubricious) दारुणः (Fierce or terrible) इति बहुधा स्मृतः । मृदुस्थिरगुरुस्निग्धतागुणा इति केचित् । निमित्तं च एवं प्रदर्शितं सुश्रुते - अन्योन्यानुप्रविष्टानि सर्वाण्येतानि भूतानि निर्दिशेत् । अन्ये पुनः अन्यथा आचक्षते । यथा - आकाशे पवनदनतोयानि । वायौ तेजोंऽबुनी भूरपि अणुताविशेषेण । तेजसि भूरपि धूमादिरूपेण, पानीयमपीति ॥
३९. प्रकृतिभूतस्य खल्वस्य वायोः लोके प्रचारतः, कर्माणीमानि भवन्ति । तद्यथा - धरणीधारणम् (Holds earth), ज्वलनोज्वालनम् (Helps combustion), आदित्य, चन्द्र, तक्षत्र ग्रहगणानां सन्तानगतिविधानम् (Regulates continuous movements of planets, stars, etc.) सृष्टिश्च मेघानाम् (Generates clouds),अपां विसर्गः (Pours rain), प्रवर्तनं स्रोतसां (Causes flow in rivers, etc.), पुष्पफलानाञ्च अभिनिर्वर्तनम् (Effects flowers and fruits in trees, etc.), उद्भेदनम् औद्भिदानाम् (Causes the sprouts to come up),ऋतूनां प्रविभागः (Distinguishes the seasons), प्रविभागो धातूनां (Circulates blood, etc., in the body), धातुमानसंस्थानव्यक्तिः (Is concerned in the formation of bones, etc.), बीजादि संस्कारः (Is concerned in fecundation), सस्यादिवर्धनं (Helps the growth in crops), अविक्लेदोपशोषणम् (Absorbs water), अवैकारिकविकारश्चेति (Effects change in the unchanged), शीतोष्णादीनां विविधप्रकारेण प्रेरकः । अतः विक्षेपकः (Brings about changes in climate), तेजसा युक्तः दाहकृत् (Causing heat waves produces sultriness), सोमसंश्रयात् शीतकृत (Causing cold waves, produces extreme cold).
४०. शरीरे पुनः, प्राणनात्प्राणः, - मुखनासिकाम्यां बहिर्निष्क्रमणशीलः, ऊर्ध्वगतिकः, शरीरान्तस्संचारी वायुः उत्साहोच्छ्वासनिश्वासचेष्टवान् । मलादीनामधोनयनादपानः - मूत्रपुरीषयोरधोनयनहेतुः, अवाग्गतिकः, शरीरान्तस्संचारी वायुः । आहारेण पाकार्थं वह्नेस्समुन्नयनहेतुः समानः । तत्र वह्निस्तु वायुनैव जायते - तथा चोक्तम् - वायोरग्निर्जायते । प्राणाद्धि बलान्मथ्यमानोऽधिजायते ….. इत्यादिश्रुतिः त्रयस्तपन्ति इति दर्शनात्, वायवोऽपि तपन्तीत्युक्तं भवति ॥ शरीरमध्यगताशितपीतान्नादिसमीकरणकरः (समीकरणं च परिपाककरणं), रस-रुधिर-शुक्र-पुरीषादिकरणम् । नाडीमुखेषु वितननाद्व्यानः सर्वशरीरगः, रसरुधिरनाडीगतिधारकः । ऋग्वेदे अथ यः प्राणापानयोस्संधिः स व्यानः । अग्निर्हि व्यानवृत्त्या वर्तमानेन वायुना मथ्यमानस्सन् जायते । अतः परिज्मा परितो गन्ता वायुः व्यानः, यानि अस्य वीर्यवन्ति कर्माणि - यथा अग्नेर्मन्थनम्, ओजस्सरणम्, दृढस्य धनुषः आयमनम्, अप्राणम् अनपानं तानि करोति, अज्मना बलेन युक्तस्सन् । शरीरिणां प्रायः सर्वाः क्रियाः व्याने बद्धाः (All movements and activities in the body take place by the influence of Vyana which pervades all parts of the body (Bhava-prakasa), व्यानस्य पञ्च मुख्यकर्माणि - यथा (Five chief functions of Vyana are प्रस्यन्दनम् (Inflowing), उद्वहनं (Outflowing), पूरणं (Filling up), विरेचनं (Discharging) and धारणम् (Supporting) | ऊर्ध्वं नयनादुदानः - स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः । उद्वेजयति मर्माणि ह्युदानो नाम मारुतः । एको वायुः पित्तवत् - नामस्थानकर्मभेदैः पञ्चविधः (Air breathed with the association of the bile substance becomes fivefold according to the names, regions and functions).
४१. अस्य वायोः तिर्यग्गमनं स्वभावः । फूत्कारः कादाचित्कः । मरलगतिः विशेषसामग्रीवशात् । समानजवयोः विरुद्धदिक्प्रसरयोर्वाय्वोस्सन्निपातः संमूर्छनम् । तृणादिगमनेन अनुमितेन सावयविनोर्ध्वगमनमनुमीयते । वायुतत्त्वविषये श्रुतिः । ऋ. अ. २, अ. १, वर्ग २३, ऋक्, ३, ४. वायुर्युङ्क्ते रोहिता वायुररुणा । वायू रथे अजिरा धुरि वोळ्हवे रोहिता - रोहितवर्णौ अश्वौ क्वचिद्योजयति अरुणा क्वचिदरुणवर्णौ धुरि युङ्क्ते । तथा अजिरा गमनशीलौ वर्णविशेषयुक्तौ कदाचिद्युङ्क्ते ॥
रश्मिषु चित्रा ……. नानावर्णयुक्तानि आश्चर्यभूतानि । हे वायो दिवोदीप्तारम्, अन्तरिक्षान्मरुतः एतन्नामकान्, मेघं विशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान् देवानजय - जनयसि - उत्पादयसि. किमर्थम् ? वक्षणभ्यः - प्रवहणशीलाभ्यः अद्भ्याः वृष्टिलक्षणाभ्यः - नदीभ्यश्च । मरुन्महिमा वृष्टिर्भवति । महानुभावाः मरुतः । (यजुर्वेदे) उदीरयथामरुतः समुद्रतो यूयं वर्षयथा । वाय्वश्वा रश्मिपतयः । यदा तु मरुतामनुमते वृष्टिस्सृज्यते तदा विद्युच्छब्दं करोति विद्युद्वान्पर्जन्यः । मरुतो वै वृष्ट्या ईशते । ये महो रजसो विदुः भाष्यम् - ये मरुतः महो रजसः - महतः उदकस्य वर्षणप्रकारं विदुः । (ऋ. अ. १ अध्या. १ वर्ग ३६) ये नाकस्याधिरोचने दिवि देवास आसते । मरुद्भिरग्न आगहि । भाष्यम् - ये मरुतः नाकस्याधि - दुःखरहितस्य सूर्यस्योपरि, दिवि - द्युलोके रोचने - दीप्यमाने, ये देवासः - स्वयमपि दीप्यमानाः आसते तैर्मरुद्भिस्सह, हे अग्ने, आगहि - आगच्छ.
४२. प्रातिशाख्ये वर्णोत्पत्तिप्रकरणे - शरीरे, शरीरम्, शरीरात् इति सूत्रत्रयेण शरीरस्थेषु उरःकण्ठशिरोरूपात्मकस्थानत्रयेषु वायुकार्यं सम्यग्विचारितं भवति । तथैव संगीतशास्त्रे - सप्तवरोत्पत्तिप्रकरणे, वायुकर्म यथावन्निर्दिष्टम् । तत्र पंचमस्वरः - यथा - वायुः समुद्गतो नाभेरुरोहृत्कंठमूर्धसु । विचरन्पंचमस्थानप्राप्त्या पंचम उच्यते (इत्यमरटीकायां भरतः) प्राणोऽपानस्समानश्च ह्युदानो व्यान एव च । एतेषां समवायेन जायते पंचमस्वरः । अस्य जातिः औडवः (संगीतदामोदरे) । एवमेव सर्वेषु शास्त्रेषु वायोः स्वरूपप्रभावादिकं तत्तच्छास्त्रकारैर्निरूपितं भवति ॥
४३. वायुगुणाः - प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो गुरुः । वैरस्यगौरवोष्णानि करोत्यप्स्वोषधीषु च ॥ दक्षिणो मारुतो बल्यश्चक्षुष्यो सस्यघातुकः । मधुरश्चाम्लदाही च कषायानुसरो लघुः । पाश्चिमोऽग्निवपुर्वर्णबलारोग्यविवर्धनः । कषायाशोषणस्स्वर्यो मोचको विशदो लघुः ॥ औत्तरेयो मधुस्निग्धो मृदुर्मधुर एव च । कषायानुसरश्शीतः सर्वदोषप्रकोपनः ॥
ऋतुप्रवृत्तिः (Occurrence of Seasons)
४४. एतैर्वायुगुणैरादित्यप्रवृत्त्या च ऋतूनां (Seasons) निबन्धनम् । आदित्यप्रवृत्तिनिबन्धनमेव विशेषान्वयनिमित्तं वैलक्षण्यम् । तद्वैलक्षण्यहेतुः ऋतुप्रवृत्तिः तथा च श्रुतिः । साकं जाना सप्तधमाहुरेकजं । षडुद्यमा ऋषयो देवजाः । वसन्तो वसुभिस्सह । संवत्सरस्य सवितुः - प्रैषकृत्प्रथमस्स्मृतः । अस्य विवरणम् - वेदभाष्ये द्रष्टव्यम् ॥
आदित्यसञ्चारवशादृतुनिष्पत्तिः । यथा - असौ गृहपतिर्योऽसौ तपति । एष पतिः, ऋतवो वै गृहाः (ऐ. ब्रा. अ. २५, मं. १).
ऋ - गतौ इति धातोरुत्पन्नोऽयं ऋतुशब्दः । ऋतुःकालविशेषः । स च अनादिप्रवृत्तो वा, कुतश्चिदक्षय्यात्प्रवृत्तो वा, कादाचित्कादित्यादिपरिस्पन्दात्मा वा, भवतु । सर्वथा तस्य आदित्यप्रवृत्तिनिमित्तमेव विशेषणान्वयनिमित्तं वैलक्षण्यम् । वैलक्षण्ये, ऋतुप्रवृत्तिः विशेषहेतुः । आदित्यसहोत्पन्नानां वा सप्तानां रश्मीनां मध्ये सूर्यो मरीचिनादत्ते इत्यत्रोक्तमरीचिरेव प्रधानत्वेन जातः । तं मंत्रदृशः अभिज्ञाः सर्वसारभूतमाहुः । अन्ये प्रकाशकाः रश्मयः तस्य एकस्य उद्यमसाधनानि सहकारिणो भवन्ति । त एव षण्णाम् ऋतूनां प्रवर्तकाः । तेषां अभिप्रेतानि भिन्नानि स्थानानि नामानि च सृष्टिकर्त्रा स्थापितानि । ते च रश्मयः ऋत्वात्मकाः वसन्तादिक्रमेण प्रवर्तन्ते । तानि जगतः स्यित्यर्थं, शीतोष्णादि रूपेण विलक्षण स्वरूपाणि प्रवर्तन्ते । संवत्सररूपादित्याख्य स्वामिकार्यसंपादनसामर्थ्येन उज्वलानि भवन्ति । एवं संपूर्णसामग्रीकाः अप्रमत्ताः सखायस्संतः परस्परमप्रतिकूलाः स्वामिकार्यं निर्वहन्ति । अत्र साकंजानाम् इत्यादिश्रुतिः प्रमाणम् ।
ऋतुस्वभावस्तु ऋतुना एकेन अन्यः ऋतुः अव्यवधानेन प्रेर्यते । वसन्तादनन्तरं ग्रीष्मः एवं क्रमेण ऋतवः अव्यवधानं प्रवर्तन्ते । एकैकदिने त्रिंशन्मुहूर्ताः अहः, त्रिंशद्रात्रिरिति षष्टिमुहूर्ताः वर्तन्ते खलु । तादृशदिनानां षष्टिः यावत्संपद्यते तावत्पर्यन्तं एकैकः ऋतुः प्रवर्तते । अनेन एकैकस्मिन् ऋतौ षष्टिदिनानि अथवा द्वौ मासौ इत्युक्तम् । संवत्सरे द्वादशमासा इति कृत्वा, ते द्वाभ्यां हताः षड्भवतीति षडृतवस्सामान्यतो विज्ञायन्ते । तद्यथा - वसन्ते चेत्रवैशाखमासौ (Generally, spring - comprising April and May), ग्रीष्मे - ज्येष्ठाषाढमासौ (Summer - June and July), वर्षासु - श्रावणभाद्रपदमासौ (Rainy season - August and September), शरदि - आश्वयुज कार्तिकमासौ (Autumn- October and November), हेमन्ते- मार्गशिरःपुष्यमासौ (Snowy season - December and January), शिशिरे - माघफाल्गुणमासौ (Cold season - February and March). इति षड्विधः संवत्सरो भवति । अयं संवत्सरकालः द्विविधः उत्तरायणदक्षिणायनरूपेणेति केचित् - कार्तिकादिषण्मासाः शिशिरः अथवा शितलः (Cold season from November to April) वैशाखादिषण्मासाः ग्रीष्मः अथवा उष्णकालः (Summer season from May to October). यत्र द्वादशमासाः पंचर्तवः इति स्मृतम्, तत्र हेमन्तशिशिरयोरेकत्रीकरणं विवक्षितम् । अन्ये तु क्षयकोपसमा यस्मिन् दोषाणां संभवन्ति हि । ऋतुपट्कं तदाख्यातं रवे राशिषु संक्रमात् इति प्रमाणमनुसृत्य, ग्रीष्मे - मेषवृषौ, प्रावृषि - मिथुनकर्कटौ, वर्षासु - सिंहकन्ये, शरदि - तुलावृश्चिकौ, हेमन्ते - धनुर्ग्राहौ, वसन्ते - कुंभमीनौ इत्याहुः । भावप्रकाशकारमते । शिशिरादिना ऋतुगणना । वाग्भटस्यापि अयमेवाभिप्रायः । हारीतमते तु वर्षादिना ऋतुगणना ।
तथैव प्रावृड् हेमन्तो ग्रीष्मश्चेति शीतोष्णवर्षलक्षणास्त्रय ऋतवो भवन्ति । तेषामन्तरेष्वन्तरे, साधारणलक्षणास्त्रय ऋतवः वर्षाश्शरद्वसन्ताः । यथा - प्रावृडिति प्रथमः प्रवृष्टेकालः । तस्यानुबन्धो वर्षाः । वसन्त इति उष्णप्रवृत्तेः प्रथमः कालः । तस्यानुबन्धो ग्रीष्मः । शरदिति शीतप्रवृत्तेः प्रथमः कालः । तस्यानुबन्धो हेमन्तः इति चरकाचार्यः । अनेन, वसन्ते उष्णप्रारंभः, ग्रीष्मे उष्णाधिक्यम्, प्रावृषि वृष्ट्यारंभः, वर्षासु वृष्ट्याधिक्यम्, शरदि शिरारंभः, हेमन्ते शिताधिक्यम्, इत्युक्तं भवति । सुश्रुतस्तु माघादिमासद्वयेन शशिरादिषडृतूनुक्त्वा, तत्र शितोष्णवर्षलक्षणा चन्द्रादित्ययोनिः, कालविभागकरत्वात् अयने द्वे भवतः दक्षिणमुत्तरं चेत्युक्त्वा, दोषोपचयप्रकोपशमनिमित्तं वर्षाद्यृतूनेवं बिभजति । यथा - भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शरत्, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ ग्रीष्मः, आषाढश्रावणौ प्रावृट् इति वदति । एवमृतूनां विभागः विभिन्नदेशेषु विभिन्नकालेषु जनैरनुभूयमानशीतोष्णवर्षलक्षणकालभेदनिमित्तक इति ज्ञायते । (Change of climate is due to change of seasons and is different in different countries.) ऋतूनां धर्माः यजुरारण्यकप्रथमप्रश्ने तृतीयानुवाके सम्यक् प्रतिपादिताः । तदर्थाः भट्टभास्करेण सुस्पष्टं निरूपिताः । (By this one may conclude that all meteorological phenomena were well studied by the ancient Aryans.) वसन्तः - आयुर्वृद्धिकरः । ग्रीष्मः - बलकरः । वर्षर्तुः - वैश्यानुग्रहकरः (कृषिसाधनद्वारा) । शरदृतुः - श्रीकरः । हेमन्तर्तुः - बलप्रदः । शिशिरर्तुः - अविनश्वरबलप्रदः इत्यन्यत्र संग्रहेणोक्तम् (तै. ब्रा. कां २, प्र. ६. आ. ३).
Climate
स्थात्रे रेजन्ते विकृतानि रूपशः इति श्रुतेः जगतिस्स्थित्यर्थं शीतोष्णादिरूपेण विलक्षणानि रूपाणि प्रवर्तन्ते - इति भाष्यम् । अनेन भूमण्डलस्थविविधभागेषु शितोष्णादितारतम्यं सुधीभिः सूक्ष्मदृष्ट्या विज्ञेयं भवति ॥
अथर्ववेदेऽप्येवमुक्तम् - ये पर्वताः (मुंजवत्प्रभृतयः) सोमपृष्ठा आप उत्तानशीवरीः (उत्तानशितस्वभावाः) वातः पर्जन्य आरग्निस्ते क्रव्यादमशीशमन् । ऋव्यादम् = उपद्रवकारिणम्, अशिशमन् = शान्तिं अकृषत । अनेन केचन पर्वताः सुशीतवायुवन्तस्सन्तः धर्मकाले स्वाश्रितेभ्यो जनेभ्यः तीक्ष्णतापपरिहारद्वारा सुखावासभूता भवन्तीति सूच्यते । (There are certain hill stations which are cool and pleasant on account of the absence of extreme heat and cold and hence they serve as health resorts to men.)
रसाः (Gases) - अग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः । लाघवात्प्लवनत्वाच्च वायोः, ऊर्ध्वज्वलनाच्च वह्नेः । सलिलात्मकाः प्रायेण अधोभाजः । पृथिव्याः गुरुत्वात्, निम्नगतित्वात्सलिलस्य । व्यामिश्रितात्मिकाः पुनः, उभयतोभाजः ॥
अयस्कान्तः (Magnetism)
४५. क. सू. - मण्यभिगमनं सूच्यभिसर्पणमदृष्टकारणम् । दृष्टविलक्षणवस्तुशक्तिभूतादृष्टकारणम् । अयस्कान्ताभिमुखं यत्सूच्यादेर्गमनं, तृणकान्ताभिमुखं यत्तृणस्य गमनम् (Animal magnetism), तत्सूच्यां समवायिकारणम् । यस्य हितमहितं वा तेन तृणसूच्यादिगमनेन, तददृष्टवदात्मसंयोगात् असमवायिकारणम् । तददृष्टमेव निमित्तकारणम् । यत्तृणजातीयं तृणकान्तम् अयश्च अयस्कान्तमभिसर्पति, तत्र तच्छक्तिः कारणम् (Magnetic power) । सा च मणिसान्निध्यादुद्बुध्यते । प्रयत्नादिवच्च न दृश्यते । कान्तदेशः (Magnetic field) कान्तप्रसरणानुकूलदेशविशेषः । तथा चोक्तं वासिष्ठे - मणिसन्निधिमात्रेण यथा वै स्पन्दते जडम् ॥
विद्युद्विषयः तेजःप्रकरणे तत्र तत्र निरूपित इति बोध्यम् । तत्प्रकारास्तु महासौरे, आरुणे, सामाथर्ववेदयोश्च सावधानमालोकितव्याः । का नाम विद्युदिति आधुनिकतत्वज्ञैरपि न विदितम् । सनातनभौतिकतत्त्वज्ञैस्तुविद्युत्स्वरूपं सम्यग्विदितमित्यत्र प्रमाणम् - विद्युत्सूर्ये समाहिता (तै. आ. प्र. १, अनु. ८) भाष्यम् - विद्युच्च सूर्ये समाहिता - सम्यङ्निहिता - तदीयरश्मिजन्यत्वात् । (As electricity takes its origin from the sun’s rays, its source is evidentlythe sun.) विद्युदनेकप्रकारा, तत्कार्याणि चानेकविधानि । (Electricity is of arious kinds, and its effects are manifold. Hence they are called in the Vedas विद्युद्देवतागणः i.e., great bright powers intended to bring forth many useful effects.)
तथैवान्यत्र - यदा येषां मरुतामनुमते वृष्टिः सृज्यते तदा विद्युत् शब्दं करोतीति विद्युत्वान् पर्जन्य इत्युक्तम् ॥
आकाशम् (Ether)
४६. प्रतिक्षणपरिणामिनो हि सर्वे भावाः । ते सर्वे आकाश एव भवन्ति । सूक्ष्मविशदगुणकः आकाशः ॥
क. सू. - निष्क्रमणप्रवेषमित्याकाशलिङ्गम् । तस्य गुणः शब्दः । श्रोत्रग्रहणो योऽर्थः स शब्दः । संयोगाद्विभागाच्छब्दाच्च शब्दनिष्पत्तिः । यत्र दूरप्रदेशे संयोगविभागाभ्यामुत्पन्नस्य शब्दस्य, वीचीसन्तानन्यायेन श्रोत्रप्रदेशमाहितस्य ग्रहणम्, तत्र शब्दाच्छाब्दोत्पत्तिः । अत्र पवनादिकं निमित्तकारणम् । पूर्वपूर्वशब्दः असमावायिकारणम् । विशेषणस्य अवच्छिन्नविशिष्टस्य वा जन्यतया नभसः कर्णशष्कुल्यवच्छिन्नस्य जन्यत्वमुपपादयन्तीत्युदयनाचार्याः ॥
४७. शब्दः द्रव्याश्रितः गुणत्वात् । तच्च द्रव्यमाकाशम् । ननु विभुनस्तस्य सर्वप्राणिनां शब्दोपलब्धिनिमित्तत्वे, सर्वेषामेव सर्वोपलब्धिप्रसङ्गः, इत्याह श्रोत्रभावेन इति ॥
४८. शब्दानित्यत्वम् अभिप्रयन्ति न्यायवैशेषिकमतानुयायिनः । यद्यपि द्वयोस्तु प्रवृत्त्योरभावात् प्रथमा शब्दात् संप्रतिपत्तिभ्याम् इति सूत्रत्रयेण पूर्वपक्षिणां नित्यत्वसाधकोपपत्तिं प्रदर्शयति - तासां त्रिः प्रथमामन्वाह त्रिरुत्तमाम् (ऐ. ब्रा. अ. २ - २० - २) । प्रवो वाजा अभिद्यवो हविष्मन्तो घृताच्या देवाञ्जिगाति सुम्नयुः (ऋ. ३ - १ - २८) इत्यादि श्रुतिप्रमाणञ्च दर्शयत्याचार्यः । तथापि, सन्दिग्धाः इति सूत्रेण, लिङ्गाच्च अनित्यः शब्दः इति सूत्रेण च, पूर्वपक्षं निरस्य शब्दस्यानित्यत्वं साधयति ॥
अन्ये पुनः - शब्दो द्विविधः नित्यः कार्यश्चेति । तत्र नित्यः सर्वदेशव्यापकः, एकः शब्दः ब्रह्मेत्यभिधीयते । तस्मात्कार्यः शब्दः उत्पद्यते । स च व्यक्तः क्वाचित्कः अनन्तभेदश्च । यत्रकुत्रचिद्व्यापकस्याकाशस्य भागे उत्पद्यते, उत्पाद्यते वा कार्यरूपशब्दः सः स्वजनकस्य नित्यशब्दस्याऽऽत्मशक्त्या योगेन यावदाकाशं व्याप्तुं प्रभवति, प्रक्रियाविशेषेण तदभिव्यक्तिर्भवतीति सर्वमनवद्यमित्याहुः । इदमेव आकाशवाणीतत्त्वम् (Principle of Radio) ॥
४९. कार्यश्च शब्दः द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । तत्र ध्वन्यात्मकः भेरीताडनशङ्खध्मानादिषु संयोगेन, वीणावेण्वादिवादने विभागेन च उत्पाद्यते । आद्ये, भेरीदण्डसंयोगः शङ्खाकाशसंयोगः इत्यादि निमित्तकारणम् । भेर्याकाशसंयोगः शङ्खाकाशसंयोगः इत्यादि असमवायिकारणम् । उत्तरे, वेणुवीणादिपर्वविभागः निमित्तकारणम् । वेण्वाद्याकाशविभागः असमवायिकारणम् । यत्र तु दूरप्रदेशे संयोगविभागाभ्याम् उत्पन्नस्य वीचीसन्तानन्यायेन श्रोत्रप्रदेशमागतस्य ग्रहणम् तत्र शब्दात् शब्दोत्पत्तिः । कर्णशष्कुल्यवच्छिन्नस्याकाशस्य श्रोत्रत्वेन निष्क्रियतया शब्दप्रदेशगमनस्य, शब्दस्य च गुणत्वेन क्रियाभावात्, श्रोत्रप्रवेशगमनस्य चासंभवात्, अप्राप्यकारितस्य चेन्द्रियाणामनभ्युपगमात्, तद्ग्रहणान्यथानुपपत्त्या, वीचीसन्तानवच्छब्दसन्तानसिद्धिः । अत्र पवनादिकं निमित्तकारणम् । पूर्वपूर्वशब्दोऽसमवायिकारणम् । यद्यदवच्छेदेन शब्दो निष्पद्यते तत्तदवछिन्नमाकाशं तु सर्वत्र समवायिकारणम् । द्रव्यस्यैव समवायिकारणतानिय मादिति विवेकः । वर्णात्मकं शब्दं प्रति कण्ठादिस्थानस्य वायुनाभिघाताख्यस्संयोगो निमित्तकारणम् । वायुनाभिहन्यमानस्य तस्यैव आकाशेन संयोगोऽसमवायिकारणम् । पृर्वानुभूतवर्णस्मृत्यपेक्षादत्ममनस्संयोगात् पूर्वं वर्णोच्चारणेच्छा । तदनु प्रयत्नः । तमपेक्षमाणादात्मवायुसंयोगाच्च कोष्ठये वायौ कर्म । तेन चोर्ध्वं गच्छन्वायुः पुनः कण्ठादीनभिहन्ति । तेनाभिहताश्चाकाशेण ते संयुज्यन्ते । ततश्च वर्णोत्पत्तिरिति प्रक्रियाभ्य्पगमात् । अत्र वर्णात्मकस्य संयोगाच्छब्दाच्छब्दोत्पत्तिः ॥
५०. यत्किंचिन्निमित्तं विना शब्दग्रहणं तु (Radio) समाधिनिष्ठानां योगिनामेव, अथवा शब्दब्रह्ममयीत्यादिना शब्दब्रह्मोपासकानां चैतन्यं सर्वभूतानां निर्वृतिर्जगदात्मनाम् । नादब्रह्मतदानन्दमद्वितीयमुपास्महे ॥ इत्यादिना नादब्रह्मोपासकानां च, साध्यम् । तथा चोक्तम् - श्रोत्राकाशयोस्संबन्धसंयमात् दिव्यं श्रोत्रम् । उपलक्षणमेतत्, त्वग्वाय्वोः चक्षुस्तेजसोः, अब्रसयो, घ्राणभूम्योः, सम्बन्धेषु संयमात् योगिनः श्रोत्रादीनीन्द्रियाणि सूक्ष्मव्यवहितविप्रकृष्टग्रहणसमर्थानि भवन्ति । संयमविचारस्तु अन्यत्र विज्ञेयः । समाधेः यमनियमादि परिकर्म, यथा गणिते, मिश्रादिव्यवहारगणितानिष्पत्तये सङ्कलनादिकर्म उपकारकत्वेन प्रधानकर्मनिवृत्तये भवति, एवं द्वेषरागादिप्रतिपक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं कर्तुं सम्पद्यते । तथा चोक्तं भागवते कृष्णपरमात्मना । (स्कं. ११, अ. १५. श्लो. १४) मय्याकाशात्मनि प्राणो मनसा घोषमुद्वहन् । तत्रोपलब्धभूतानां हंसो वाचं शृणोत्यसौ ॥ व्याख्या - आकाशात्मा यः समष्टिरूपः, तद्रूपे मयि घोषं नादमुद्वहन् चिन्तयन्, असौ हंसः जीवः, तत्र आकाशे उपलब्धा ज्ञाता सन्, तत्रस्था विचित्रा वाचः श्रृणोति । यद्वा - तत्राकाशे उपलब्धाः अभिव्यक्ताः याः भूतानां वाचः, ताः दूरतः शृणोति ॥
आत्मशक्तिः
५१. सर्वेषां सृष्टिस्थितिव्यापाराणां या याश्शक्तयः अपेक्षणीयाः तासां सर्वासां सूर्यशक्तिरेव (Conservation of energy) कारणमिति नवीनभौतिकशास्त्रज्ञाः । तथैव प्राचीना अपि । तथा च श्रुतिः सूर्य आत्मा जगतस्तस्थुषश्च एष ब्रह्मा च विष्णुश्च शिवस्स्कंदः प्रजापतिः (इति रामायणे), वाताद्विष्णोर्बलमाहुः सर्वप्राणिप्रवृत्तिनिबन्धनं शक्तयात्मकं प्रधानं वातशब्देनोच्यते । तस्माद्वाताम् अस्य विष्णोः व्यापिनः सूर्यस्य बलं प्रवृत्तिसामर्थ्यमाहुः मन्त्रदृशः इत्यादिना सूर्योपि आत्मशक्त्यैव भासते प्रवर्तते । रसवीर्यपाकैः सर्वान् लोकान् अनुगृह्णाति च । तथा च श्रुतिः तमेवभान्तमनुभातिसर्वम् । तस्य भासा सर्वमिदम् विभाति । अन्यच्च अक्षराद्दीप्तिरुच्यते देशतः कालतश्च न क्षरतीत्यक्षरः ब्रह्म, प्रधानपुरुषयोर्नियन्ता ईश्वरः तत्प्रत्यासत्तिविशेषेण प्रकाशसामर्थ्यातिशय उच्यते । तदैक्यादेव, देवः सूर्यः धारयति रोदसी । श्रुतिः - दादर्थ पृथिवीमभितो मयूखैः यद्विष्णोरेकमुत्तमम् यत् विष्णोः विश्वव्यापिनः भगवतः एकं प्रधानमुत्तमं स्वरूपं व्यापनसामर्थ्यं तदैक्यसमासादितव्यापनसामर्थ्यातिशयो धारयति जगत् सूर्यः । अन्या श्रुतिः - एतस्माञ्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च पृथिवी विश्वस्य धारिणी प्रकृतिर्ब्रह्मणो नान्या - इति च मनुः । तथैव - येन सूर्यस्तपति तेजसेद्धः तं देवा ज्योतिषां ज्यौतिरायुर्होपासतेऽमृतम् इति मन्त्रवर्णात् ॥
एतादृशमूलशक्तेः आत्मशक्तिः अथवा चिच्छक्तिः मायाशक्तिः प्रकृतिशक्तिः प्रभावशक्तिः इत्यादिशब्दैर्व्यपदेशः ॥
अतः सूर्योपासनेन ब्रह्मोपासनफलं भवतीति मन्यन्ते केचित्तत्त्वज्ञाः । तथा च श्रुतिः असावादित्यो ब्रह्मा इति । अयमेवार्थः युक्त्यन्तरेणापि निश्चीयते, यथा - याभिरादित्यस्तपति रश्मिभिस्ताभिपर्जन्यो वर्षति, पर्जन्येनौपधिवनस्पतयप्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः, प्राणैर्बलम्, बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा, मेधया मनो, मनसा शान्तिश्शान्त्या चित्तं, चित्तेन स्मृतिस्स्मृत्या स्मारं, स्मारेण विज्ञानम्, विज्ञानेनात्मानं वेदयति इति कार्यकारणपरंपरा निर्दिष्टा । चक्षुरिन्द्रियेण नारंगचिरबिल्वादिरूपालोचनानन्तरं रसानुस्मृतिक्रमेण दन्तोदकसंप्लवलक्षणा रसनेन्द्रियविक्रिया इन्द्रियान्तरविकारः, धर्मजन्यमनुकूलवेदनीयं गुणः सुखम् अधर्मजन्यं प्रतिकूलवेदनीयं गुणः दुखम् । स्वार्थं वा परार्थं वा अप्राप्तार्थप्रार्थनम् इच्छा, यस्मिन् सति प्रज्वलितमिव आत्मानं मन्यते स द्विष्टसाधनताज्ञानजन्यः गुणः द्वेषः, कृतिपर्यायश्चेष्टाजनको गुणः प्रयत्नः । एते दश जीवात्मनो लिङ्गानि साधकप्रमाणानीत्यर्थः ।
(क. सू. १९, अ. ३) आत्मेन्द्रियार्थसंनिकर्षात् यन्निष्पद्यते तदन्यत् ज्ञानस्वरूपस्य आत्मनः ज्ञानगुणाश्रयत्वं प्रकाशात्मनस्सवितुः प्रभाश्रयत्वमिव उपपद्यते । (क. सू. २०) प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् इत्यादिप्रमाणैश्च आत्मनोऽस्तित्वं साध्यते ॥
आत्मसत्त्वे अहमिति प्रत्यगात्मनि भावात् परत्र अभावात् अर्थान्तरप्रत्यक्षः व्यवस्थितो नानां शास्त्रसामर्थ्याच्च इत्यादिप्रमाणम्, तथा च श्रुतिः ये समानास्समनसो जीवा जीवेषु मामकाः चेतनश्चेतनानाम् इत्यादयः तद्भहुत्वे प्रमाणम् । अनेनात्मना जीवरूपेण अनुप्रविश्य नामरूपे व्याकरवाणि इत्याद्यनुप्रवेश श्रुतिः । अग्नयो वायवश्चैव एतदस्य परायणम् इति वत्सस्य वेदना (अत्र भट्टभास्करः) एत एव परमसहायाः त्रिस्थानस्था ह्यग्निवायुसूर्याः परस्परोपकार्योपकारिभावेन लोकत्रयं धारयन्ति । अन्यच्च पतङ्गमक्तमसुरस्य मायया । हृदा पश्यन्ति मनसा मनीषिणः । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः (तै. आ. प्र. ३, अ. ११, मं. २९). भाष्यम्, पतङ्गः आदित्यः, तद्रूपेण अक्तम्, व्यक्तिं गतम्, असुरस्य, असनकुशलस्य, सर्वोपाधिरहितस्य परस्य (असेरुरन् इति उरन् प्रत्ययः) मायया ज्ञानेन एनं प्रमात्मानमेव, आदित्यात्मना व्यक्तिं गतं हृदि मानसप्रत्यक्षेणैव पश्यन्ति मनीषिणः मनस ईशितारः, अन्ये तु कवयः मेधाविनः समुद्रे आदित्यमण्डले, अन्तः विचक्षते पश्यन्ति तमात्मानं ते तु वेधसः विधानकुशलाः प्राज्ञाः मरीचीनाम् आदित्यानां पदं स्थानम् इच्छन्ति प्रवेष्टुमिच्छन्ति । तथैव स्मृतिः - नमस्सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ अन्यत्र - सर्वम् भूतजातं सूर्यस्य रस्वीर्यपाकादिभिरनुगृह्यते इत्यादिना सूर्यशक्तिपरिणामरूपा अन्याः शक्तय इति निष्कृष्टार्थः उपलभ्यते ॥
अहं जानामि (I know) अहं करोमि (I do) इति ज्ञानक्रिययोः यः आश्रयः स एव आत्मा । इदं सार्वजनिकप्रत्यक्षम् अतोऽत्र अनुमितेर्नावकाशः । यद्धि प्रत्यक्षं वस्तु न तस्यानुमानेन साधनं युक्तम् । नहि करिणि दृष्टे, चीत्कारेण तमनुमिमतेऽनुमन्तारः इति विज्ञानभिक्षुः ।
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियविकारसुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानीति कणादः । तत्र - प्राणः मुखनासिकाभ्यां बहिर्निष्क्रमणशीलः ऊर्ध्वगतिकः शरीरान्तस्संचारी वायुः । अपानः मूत्रपुरीषयोः अधोनयनहेतुः, अवाग्गतिकः शरीरान्तस्संचारी वायुः । निमेषः = नेत्रमीलनम् (shutting the eyes) उन्मेषः = नेत्रोन्मीलनम् (opening the eyes) शरीरस्य वृद्धिक्षतसंरोहणादिकं जीवनकार्यत्वाज्जीवनम् - प्राणधारणम् । अभिमतविषयग्राहकैरिन्द्रियैः संबन्धार्थं तत्र तत्र मनोवृत्तिः मनोगतिः ॥
परमात्मा
५२ परमात्मा अन्यः सर्वशक्तिमान् । सर्वशक्तिमत्त्वं विभुत्वात् । (क. सू.) विभुर्वा महानाकाशः तथा चात्मा । तत्राकाशे सापेक्षत्वं महत्त्वम् । सर्वमूर्तद्रव्यसंयोगत्वं च विभुत्वम् । परमात्मनि निरपेक्षं च महत्त्वम् । सर्वसस्तुबहिरन्तर्वर्तमानत्वं च विभुत्वमिति विवेकः । परात्मसत्त्वे प्रमाणम् - क. सू. प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् तद्वचनादाम्नायस्य प्रामाण्यम् अस्मद्वुद्धिभ्यो लिङ्गमृषेः (ऋषति साक्षात्पश्यति निखिलं जगद्यः स ऋषिः) ऋषेः परमेश्वरस्य लिङ्गं सद्भावे प्रमाणम् । आत्मतत्त्वज्ञानं विविक्ततत्तत्पदार्थस्वरूपज्ञानं विना न सुशकम् । बुद्धिपूर्वा बाक्वृतिर्वेदे ब्राह्मणे संज्ञाकर्मसिद्धिर्लिङ्गम् संज्ञाकर्म त्वस्मद्विशिष्टानाम् इत्यादिभिश्च ऊश्वरसत्त्वे वेदानां तदुक्तत्वेन च भवति लिङ्गं प्रमाणम् इति सुस्पष्टं निरूपितम् । श्रुतयश्च अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणास्स्थितः एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति, तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् इत्यादि परस्सहस्रम् ॥
आत्मनः प्रकृतिसंबन्धात्खलु जीवत्वव्यवहारः । ताद्शसंबन्ध एव बन्धः - तन्निवृत्तिरेव मुक्तिः । अयमर्थः विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् इति श्रुत्या दृढीक्रियते अत्र - ऋतम् = अग्निः सत्यम् = सूर्य इति विवेकः । अत्रापि श्रुतिः ।
अग्निर्वा ऋतम् असावादित्यस्सत्यं इति । (It simply means that when the life - energy leaves the body, it is in the form of heat and becomes abosorbed in the solar energy. Again on account of its tendency of attachment to matter, it returns in the form of rain, which falling on some plants, fruits, grains, etc., enters the new body associated with nourishment which the new body requires.)
आयुर्वेदेऽपि (अ. १, सू. १६), तत्सन्निधानादिअधिष्ठातृत्वम्, मणिवत् - यथाऽयस्कान्तमणेः सान्निध्यमात्रेण शल्यनिकर्षकत्वम् । तथैवादिपुरुषस्य (Spiritual power) संयोगमात्रेण प्रकृतेः महत्वरूपेण परिणामः । तर्हि कथं स आत्मा न प्रत्यक्षगोचरः (How is it then that the spiritual power is not seen anywhere) इत्युक्ते बुद्धेरर्थस्य सन्निकर्षस्यैव प्रत्यक्षहेतुतालाभात् प्रत्यक्षसामान्ये बाह्यार्थसाधारणे बुध्द्यर्थसन्निकर्ष एव कारणम् । तमः प्रतिबन्धो न तदानीं बुद्धिसत्वस्य वृत्यसंभवात् । तच्च तमः कदाचिदर्थेन्द्रिययोस्सन्निकर्षेण, कदाचिच्च योगजधर्मेणापसार्यते अञ्जनसंयोगेन नयनमालिन्यवत् । अतः यत्संबंधंसत् तदाकारोल्लेखविज्ञानं प्रत्यक्षम् । (सूत्र) लीने वस्तु लब्धातिशयसंबंधाद्वाऽदोषः (सू. ९१) इति तत्रैवोक्तम् । तस्मात् न रूपनिबन्धनात्प्रत्यक्षनियमः (अ. ५, सू. ९१) । यद्यस्मादृशौरात्मा न प्रत्यक्षीक्रियते त्दस्मद्दोषः न बस्तुप्रतिबन्धः, नान्धदृष्ट्या चक्षुष्मतामनुपलंभः । तर्हि षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपंचकम् । आत्मा च सगुणश्चेतश्चिन्त्यश्च हृदि संस्थितः इत्यादिप्रमाणेन आत्मनः हृदि संश्रितत्वं कथमित्युक्ते षडङ्गादीनां हृदयाश्रितत्वं नाधाराधेयभावेन, किं तर्हि तदन्वयव्यतिरेकानुविधायित्वेनेति दर्शितं भवति । हृदयाश्रितत्वं नाम - हृदये प्रकृतिस्थे षडङ्गादिभावानां प्रकृतिस्थत्वं हृदुयोपधाते तदुपधात इत्यर्थः यद्यपि च आत्मविज्ञानमनसां हृदयाश्रितत्वं कष्ष्टसृष्ट्या वक्त्तुं पार्यते, तथापि सर्वव्यापकत्वान्नोपादेयमाधाराधेयत्त्वमित्यलमत्र तद्विचारेण । (For the purpose of contemplation and communion, God or Great Spirit may be conceived as residing in one’s own heart, but in philosophical view it cannot be held, as the Great Spirit is Existence Absolute or pervation in all kinds of matter.) l
५३. अग्नेरूर्ध्वज्वलनम्, वायोस्तिर्यग्गमनम्, मनसश्चाद्यं कर्म, अदृष्टकारणमिति केचिद्वदन्ति । तत्र अदृष्टं वस्तुशक्तिः । सा आत्मशक्रितेव । यद्यपि केचित्तु शक्तिमपि गुणान्तरमाहुः केचित्तु द्रव्यान्तरम् । कार्याणां सूक्ष्मावस्था शक्रिरित्यन्ये । वैशेषिकाणां तु यस्य भावस्य या शक्तिः सा तद्रूपैव, न ततोऽतिरिक्तेति न गुणान्तरम् । गुणानां च समवायः तादात्म्येन वर्तमानत्वात् । तथा चोक्तम् - शक्तिर्नाम प्रकृतेर्भिन्ना वा अभिन्ना वा (What is energy ? Is it separate from matter or not ?) इत्युक्ते, - इयं शक्तिः न वस्त्वन्तरम्, किंतु कारणत्वमात्रम् । अथापि संज्ञाभेदमात्रे स्यात् । अथापि खल्वयं हेतुभावः हेतोर्नातिरिच्यते । शक्तिरपि शक्तिमतो नातिरिच्यते इत्यभिप्रायः । (Energy is the universal property of matter, that is, its capacity for doing work) । तथापि, अनन्तशक्तीनां मूलकारणं परमात्मा, अथवा ईश्वरः अथवा अत्मशक्तिः, अथवा चिच्छक्तिरिति वेदान्तिनां सिद्धान्तः । तथा च श्रुतिः । (ऋ. अ. १, अ. ४, व. ३, ऋक् ४) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमाभासि रोचनम् भाष्यम् - हे सूर्य - अन्तर्यामितया सर्वस्य प्रेरक परमात्मन्, संसाराब्धेः तारकोऽसि यस्मात् त्वं विश्वदर्शतः - विश्वैस्सर्वैर्मुमुक्षुभिः दर्शतः द्रष्टव्यः साक्षात्कर्तव्य इत्यर्थः । अधिष्ठानसाक्षात्कारे ह्यारोपितं निवर्तते । ज्योतिषः सूर्यादेः कर्ता, तथा त्वाम्नायते - चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायतेति । ईदृशस्त्वम् - चिद्रूपतया विश्वम् - सर्वं दृश्यजातम्, रोचनं रोचमानं देदीप्यमानं यथा भवति तथा भासि - प्रकाशयसि । चैतन्यस्फुरणे हि सर्वं जगदृश्यते ॥
अन्या श्रुतिः - नाम नामैव नाम मे (तै. आ. प्र. १, अनु. ११) मे - मम नाम नमनं नानात्वं नामैव - आख्यामात्रमेव नतु वास्तवं किञ्चित् । एवं नामैव तत् - एवमिदं निश्चितम् । अनेन सर्वशक्तीनां मूलमात्मशक्तिरिति निर्गलितम् । एकस्वभावस्यैव नानोपाधिनिबन्धनानि नामानि प्रवर्तन्ते । तस्मादहमेव तत्तन्नामा तत्तत्कारी तत्तद्रूपश्च भवामि इति च प्रदर्शितम् ॥ तथैव मनुस्मृतिव्याख्याने (अ. १, श्लो. १६) - अहङ्कारस्य तन्मात्राणां च (Electrons) ये सूक्ष्मावयवाः तान् आत्ममात्रासु - स्वविकारेषु योजयित्वा मनुष्यतिर्यक्स्थावरादीनि सर्वभूतानि परमात्मा निर्मितवान् ।
आत्मज्योतिषोर्द्वादशवृत्तिभेदाः यजुरारण्यके (प्र. ३, अ. १९) एवमभिहिताः - ज्योतिष्मती (प्रशस्तज्योतिः), ज्योतिष्कृत् (ज्योतिरन्तरस्य कर्त्री), ज्योतिर्वित् (ज्योतिषां लंभयित्री), भास्वती (बहुप्रकाशा), ज्वलन्ती (अविच्छिन्नप्रकाशा), मल्मला भवन्ती (महाघोषवती), दीप्यमाना (हृदये आविर्भ्वन्ती), रोचमाना (गगने आविर्भवन्ती) अजस्रा (अनुपहिंस्या केनचिदपि), बृहज्ज्योतिः (बृंहितज्योतिः), बोधयन्ती (दृश्यं प्रकाशयन्ती - अतः तस्य भासा सर्वमिदं विभातीति श्रुतिः), जाग्रती (स्वयं प्रकाशात्मना) । एवं भवन्ति चित्स्वरूपाणि । तथा च दर्शितं वासिष्ठे - चिच्छक्तिर्ब्रह्मणो राम शरीरेष्वभिदृश्यते । स्पन्दशक्तिश्च वातेषु जडशक्तिस्तथोपले । द्रवशक्तिस्तथाऽम्भस्सु तेजश्शक्तिस्तथानले । शून्यशक्तिस्तथाकाशे भावशक्तिर्भवस्थितौ । ब्रह्मणस्सर्वशक्तिर्हि दृश्यते दशदिग्गता । नाशशक्तिर्विनाशेषु शोकशक्तिश्च शोकेते ॥ आनन्दशक्रिर्मुदिते वीर्यशक्तिस्तथा भटे । यथाऽण्डेन्तर्महासर्पस्तथेदं ब्रह्मणि स्थितम् ॥
(It means in brief that variations of material powers found in different actions exhibited in different turnings in Nature, are solely due to one ever - unchanging Self existing, All - pervading spiritual power. The same idea may be grasped from a pithy statement of Carlyle. See what he says in his French Revolution - “There is power in the rotting leaf”.)
५४. एतेन सर्वं चिच्छक्तयधीनमिति फलितम् । अतः कालिदासः तां शक्तिं देवतात्वेन विचिन्त्यैवं वर्णयति ॥
सूते जगन्ति भवती भवती बिभर्ति
जागर्ति च क्षयकृते भवती भवानी ।
मोहं भिनत्ति भवती भवती रुणद्धि
लीलायितं जगति चित्रमिदं भवत्याः ॥
त्वां व्यापिनीति सुमना इति कुण्डलीति
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेति
देवि स्तुवन्ति विजयेति जयेत्युमेति ॥
यामामनन्ति मुनयः (Scientists and Research scholars) प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदो (Philosophers) वदन्ति ।
व्योमेति बिन्दुरिति नाद इतीन्दुरेखा-
रूपेति वाग्भवतनूरिति मातृकेति ॥
निष्यन्दमानसुखबोधसुधास्वरूपा
विद्योतसे मनसि भाग्यवतां जनानाम् ।
वागीश्वरि त्रिभुवनेश्वरि विश्वमात-
रन्तर्वहिश्च कृतसंस्थितये नमस्ते ॥
॥ ओं तत्सत् ॥
या चिन्ता भुवि पुत्रपौत्रभरणव्यापारसंरक्षणे
या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते ।
सा चिन्ता यदि वेदमातृचरणाम्भोजे क्षणेऽहैतुकी
का चिन्ता यमराजभीमसदनद्वारप्रयाणे नृणाम् ॥
श्री वेङ्कटरमणार्यः
प्रथमं परिशिष्टम् - Appendix I
THE SUN AND ITS CONCEPTIONS IN THE VEDAS
General
The Vedas are a great store house of all the knowledge that is concerned with human affairs - knowledge required by an ordinary man, a religious devotee, an earnest scientist and an ardent philosopher. Since they possess extraordinary and indomitable power, therein can be found full accounts of all things of the past and future, of the subtle and unseen and of the distant etc., as is stated in the following :
संप्रदायविदः अकुण्ठितां शक्तिं वेदस्य दर्शयन्ति । चोदना हि भूतं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयमर्थं शक्नोत्यवगमयितुम् ॥
The portions concerning the sciences are records of truth observed and experienced through revelation at times by ancient sages. Scientists and philosophers such as Kanada, Kapila, Vyasa, Jaimini and a host of others adopted the data or the basic materials furnished by the Vedic literature for the development of their respective works. All the phenomena of nature especially of the Sun, the wind, the fire and water have been investigated and the results have been recorded in the Vedas. Some of these have been explained scientifically in the clearest terms in some places, and figuratively in others.
Means of Knowledge
Hence the Vedas attained the status of the first authority with the Hindus on all points. Those who have explained in their works the application of the scientific truths recorded in the Vedas for practical purpose are called Kalpakaras, such as Gautama, Bodhayana, Asvalayana and Apasthamba ; and those who closely followed the Vedas and gave us the first laws of Religion, Sociology, Politics &c. such as Manu, Yajnavalkya, are called Law - givers or smrithikaras. The literature of these two sets of ancient Aryans, goes by the common name Smrithi, which has gained as much importance as the Vedas themselves. Some Sages who wanted to make researches by themselves into the Phenomena of Nature, made observations and experiments on most important subjects ; and their method is called Pratyaksha or sense perception. Those who followed the records of the ancient sages with firm conviction of the truths expounded and recorded in the Vedas and who verified the facts once more by their own independent observations such as, Kapila, Kanada of ancient days and Varahamihira, Charaka of later days are called Indian Scientists and Philosophers; and their procedure is called Aithihya i.e., logical and historical evidence ; and the way that is followed by the common people with implicit faith in the works of their ancient seers and sages, is called Sistachara or Anumana i.e., common practice. By these four means the solar phenomena are observed, investigated and scientifically explained by many sages as stated in the text.
स्मृतिः प्रत्यक्षमैतिह्यं । अनुमानश्चतुष्टयम् ।
एतैरादित्यमण्डलं । सर्वैरेव विधास्यते ॥
(तै. आ. प्र. १, अ. २, मं. ४)
(Remembering and pondering over the statements or revelations in the Vedas, actual observations made to examine and determine those statements, historical facts recorded by competent seers regarding such observations, and practice followed by the common people who implicitly accepted those records with firm belief, - by means of these four methods, the sun and its phenomena are conceived and determined.)
The ancient sages required no scientific instruments or apparatus for their experiments as the modern scientists do, but they depended entirely on their intellectual or inner vision. In fact it is said in the Vedas that पश्यदक्षण्वान्न विचेतदन्धः, तै. आ. प्र. १, अ. ११ - ५१. (If a man having eyes does not discover the truth, he is known as a blind man.) Which is explained thus : चक्षुरिन्द्रिययुक्तः नीलपीतादिरूपं पश्यन्नपि विवेकेन सद्वस्तुत्वं न जानाति चेत् सोऽयमन्ध एव । मांसदृष्टिरहितोऽपि स्वरूपतत्वाभिज्ञश्चेत् सोऽयं चक्षुष्मानेव इति तद्भाष्यम् । (If a man possessing eye - sight and seeing different forms of different colours such as blue, yellow, does not observe the truth, he is blind. On the other hand, if a man who is deprived of the material organ of vision, can discover the truth of nature, he is really called a man of sight.) Also compare the statement in the Upanishads (का. उ. १ - ३ - १२) दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । (Those who are keen and subtle observers find out truth with their keen intellect.) - meaning, that truth can be found out by the very pure, clear and keen intellect of those who are engaged in researches with a determined purpose and concentrated mind. Indian scientists of yore were as determined as any modern scientist to find out the truth in any sphere of knowledge. In fact they commened truth very much and condemned ignorance totally, as is declared in तत्वज्ञानमेव प्रशस्तम् । अज्ञानं निकृष्टम् ॥ (It is praiseworthy to find out and knwo the true nature of a thing and it is blame worthy to be ignorant of the same.)
NATURE OF THE SUN
The sun is a mass of burning substance as indicated in the words तपन (Burning body), ज्योतिर्मण्डलम्, (a mass of light), ज्योतिरात्मा (a material thing constituting light), अग्निमयो गोलः (A fiery circle), etc. in many places. But who burns and what ? is the question which has been very clearly explained in the Vedas, especially in the Brihadaranyakopanishad. The sun which is a burning body, consists of two zones, one the outer and the other inner. The outer zone is the essence of the three great elements namely Earth or Prithvi, water or Ap and heat or Tejas, in scientific terms, the essence of solid, liquid and gaseous materials called मूर्तद्रव्य (Gross material things) which are being burnt for ever. The inner zone is like wise the essence of the other two elements namely air or Vayu, Ether or Akasa, called अमूर्तद्रव्य (subtle material things), which are also being burnt continuously, the agent of burning being God or Spiritual Power, which pervades these zones as it does everything else. Compare the text आदित्यो वा एष एतन्मण्डलं तपति (तै. उ. ४ - २४) - (It is the sun that burns everything in its sphere.)
The explanation of this is as follows : - एष इति (प्रत्यक्षे) दृश्यमानं तपनं प्रत्यक्षेण दर्शयति ॥ (The word it points out the sun which is burning before our very sight.) आदिभूतो देवः आदित्याः, ईश्वरः स एव स्वयं एष तपनः । तदीयं तेजः जगदनुग्रहाय सूर्यत्वेन वर्तते - इति तद्भाष्यम् । (The first shining thing is the sun, it is identified with the Lord of the Universe, since without the substratum and life and light - giving spiritual energy, the sun or anything else cannot exist. Therefore the spiritual energy and light is shining in heaven as the sun for the very existence of the words and everything contained in them.) This statement may appear queer to some of the modern scientists. But the scientists of the coming days, even hundred years hence, must accept this as it is a proved fact and observed truth.
DISCOVERIES AND OBSERVATIONS
While the Sage Vatsa with several interrogations beginning with क्वेदमभ्रं निविशते (ते. आ. प्र. १, अ. ८, मं. २६) (whois that enters the cloud), was enquiring about the support on which the clouds stay in the sky and investigating the causes for the formations of clouds, for the dertermination of time, for the occurrence of day and night and for the data by which the solar, lunar and savana months could be calculated ; and while the sage Vyasa was declaring that he discovered all about the earth and its contents, other sages began to investigate the Solar phenomena. At first the wrong notion that there are twelve suns, based on द्वादशादित्य conception was refuted and correct interpretation was offered, i.e., that only one sun appears to be twelve in the twleve months, with several changes and modifications in his rays. Similaryly, the notion that eight Vasus are eight separate Sunsa seen in the eight quarters of the Universe was also correctly explained and theories therefore were expounded. But one Sage Panchakarna, son of Vatsa, actually discovered seven Suns and declared अपश्यमहमेतान् सप्त सूर्यान् प्र. १, अ. ७, मं. २१) (I have actually seen seven suns) similarly, another sage Saptakarna, son of Plaksha, also made independent observations and came to the same conclusion that there are seven suns. They taught the other sages the methods by which the latter could also see those seven Suns. They both said that they had only heard of the eight sun also called Kasyapa, which they were unable to discover आनुश्रविक एव नौ कश्यप इति (प्र. १, अ. ७, मं. २२). (We only hear that Kasyapa is the eight sun.) But it was left to another sage Pranatrata, son of Gargya, who discovered the eighth Sun, Kasyapa, and said that the other seven Suns received light and energy required for their functions from Kasyapa. The text runs thus : अपश्यमहमेतत् सूर्यमण्डलं परिवर्तमानम् । ते अस्मै सर्वे कश्यपाज्ज्योतिर्लभन्ते । (Ibid., १ - ७- २३). (I discovered the solar globe moving round on its axis. The other seven suns get their light from the original sun called Kasyapa). One sage Vaisampayana doubted these discoveries along with other Acharyas and said that if each change in the Sun’s influence over seasons etc., be considered as the workd of a separate sun, then there would be thousands of Suns, as is evident from the text नानालिङ्गत्वादृतूनां नानासूर्यत्वम् (प्र. १, अ. ७, म. २५). (One sun appears as many on account of the many adjuncts of the seasons.) But the other sages of deep thought and devotion considered the question very carefully, and declared with one voice that it was certain that there were eight suns अष्टौ तु व्यवसिता इति (Ibid.) (But it si certain that there are eight suns) [तै. आ. प्र. १, अ. ७]. This fact remains to be investigated and tested by the scientists of the day.*
THE SUN AND THE TIME
Time or Kala is identified with the Sun, since the time is measured with the action of heat and light of the Sun scientifically known as chemical affinity or Paka. The ancient seers of India closely observed and determined the quantity of Paka required for fecundation of a seed to give rise to the appearance of a sprout or Ankura from it ; and called the very moment which that Paka occupied in the process, a Unit or Mathra or an atom or a Paramanu of time. Then again they observed carefully the quantities of Paka or the Sun’s energy required for the Ankura or sprout to become a Kanda or stem, for the stem to become leaves and flowers and for flowers to become fruits, and called the different periods occupied by Paka of the Sun in these processes by different denominations such as त्रुटि, लव, क्षण. This त्रुटि is considered to be consisting of four units of time or four atoms, i.e., two molecules of two atoms each. The Vedic statement runs as follows :
सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि ।
तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् ॥
(तै. आ. प्र. १, अ. २, मं. ४.)
meaning, that everything in the Universe is influenced by this Marichi or the Sun’s energy which creates, sustains and helps the growth of everything. The creating energy of the Sun is called Paka and the sustaining one, Rasa and that which conduces the growth is called
- The writer of this essay would offer his tentative explanation to appeal to the minds of the modern scientists that white rays of light undergo seven different changes giving (seven) different colours under several conditions as the Spectrum analysis shows. These seven kinds of rays of the sun may be taken as seven suns, and these seven with the white rays make up eight in number as alluded here.
Virya. Bhatta Bhaskara in his comentary thereon says therefore that सर्वं भूतजातं रसवीर्यपाकादिभिः अनुगृह्यते । (The whole creation is benefited by that three - fold energy of the Sun.) Sayana is more explicit here. He explains thus : - प्रथमं तावत् बीजं मरीचिकृतेन केनचित् पाकेन अङ्कुरीभति । स चाङ्कुरः पाकान्तरेण काण्डीभवति । तच्च काण्डं पाकान्तरेण पत्रपुष्पाण्युत्पादयति । तच्च पुष्पं पाकान्तरेण फलीभवति एवं कालकृततत्तत्पदार्थावस्था दृष्टा. (See Sayana Bhashya on the same passage.) Sayana explains the passage thus - By the all - impartant energy of the sun (in the form of heat and light) first the seed in the ground is changed into a sprout. Then by its further change, the sprout becomes a stem or stalk. Then by its further chemical and physical actions, the stem or stalk changes into leaves and flowers. Then by the same cause, the flower becomes fruit. In this way all the changes of the things are effected by the different periods of time.
The Hindus adopted संवत्सर, or year as the standard of time for all practical purposes, and its divisions or fractional parts, which are measured in terms of Paka Unit, go by several denominations such as निमेष (Nimesha), काष्ठा (Kashtha), क्षण (Kshana), मुहूर्त (Muhurta), दिन (Dina), पक्ष (Paksha), मास (Mass) ; and its multiples by the names of मन्वन्तर (Manvantara), कल्प (Kalpa) etc. In this respect the text runs as follows :-
अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण ॥ (I bid.) (The year is seen consisting of small and great portions of time.) संवत्सर i.e. year, is therefore identified with the Sun and even personified as a Deity and worshipped. So the calculation of time by Aryan Sages is based on solar action and hence it is natural and rational and not conventional. It is for the scientists of the modern day to consider whether this method of computing time is not better.
PHENOMENON OF RAIN
The most important discovery by the ancient sages relates to the formation of rain and rainfall. In some Texts general statements concerning the causes are made as follows : - अग्निर्वायुश्च सूर्यश्च । सहसंचस्करर्धिया (तै. आ. प्र. १, अ. १, मं. २) - (Heat, light and air are mainly concerned in the formation of rain) meaning that by the action of heat, light and wind, water is produced अस्मादस्माददितोऽमुतः - (तै. आ. प्र. १, अ. १, मं. १) तत्र भाष्यम् । इतः पृथिव्याः, अमुतश्च दिवः, रश्मिवाय्वादिभिरानीयन्ते विसृज्यन्ते च (meaning that water on the earth or sea is evaporated by the heat of the sun and taken in the form of steam to the atmosphere and the same is given up or poured in the form of rain which comes down from the atmosphere to the earth). सवितारं वितन्वन्तम् । अनुबन्धाति शंबरः । उदकं वृष्ट्यर्थम्, रश्मीन् विस्तारयन्तमादित्यं स्वानुग्रहार्थमाश्रयते (meaning that water is held up by the rays of the sun for the formation of coluds). The elements concerned in the process of evaporation of water are enumerated in another text thus : - देवा वसव्याः । अग्ने सूर्यसोमसपीतयः अपां नपात् उद्गो दत्त उदधिं भिन्त, दिवः पर्जन्यादन्तरिक्षात्पृथिव्याः ततो नो वृष्ट्यावत । (तै. सं. कां. २, प्र. ४, अ. ८) The necessity of the presence of wind in the process is indicated in the text thus : - उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथ Ibid. The respective actions of heat, light and wind are explained thus : - Heat absorbs water in forming vapour, Wind carries it to the sky and the Sun’s rays are responsible for the formation of clouds and rainfall. The Vedic words are : - अग्निर्वा इतो वृष्टिमुदीरयति मरुतः सृष्टां नयन्ति यदा खलु असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेऽथ वर्षति (Ibid., १ - ४ - १०). The same idea is expressed in वाय्वश्वारश्मिपतयः । (तै. आ. प्र. १, अ. १, मं. २) एतावै देवता वृष्ट्या ईशते (तै. सं. कां. २, प्र. ४, अ. १०) (meaning, these powers, viz., heat, light and wind are able to produce water). Hence the Great Poet Kalidasa defines cloud as the combination of heat, light, water and wind in his often quoted words धूमज्योतिः सलिलमरुतां संनिपातः क्वमेघः (मेघसंदेश १ - ५). He also states that the rays of the sun absorb water from the oceans to return it back - thousand fold in the form of rain. सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः (रघुवंश स. १ - १८). This statement was probably based on Vedic Texts, which explain the subject more scientifically and in detail. In the Vedic passage in which the formation of rain from water of the Oceans &c., on earth, has been compared to the natural distillation on a grand scale taking place in four processes, two important requisites in each process are termed figuratively Parents or दम्पती since they give rise to two other requisites in the next stage called twins or वत्सौ. The main idea is however this - अग्नेर्वृत्रः, वृत्रस्योष्मा, वैद्युत आदित्यस्य, वैद्युतस्य नीहारः, तौतावेव प्रतिपद्येते (meaning that when the heat of the Sun’s rays ऊष्मा acts upon नीहार water, in the Oceans, evaporation takes place. The water is vaporised as वृत्र by the electrification of the Sun’s light or वैद्युत. Then this vapour is carried by another set of Sun’s rays and wind to the sky, where clouds are formed by certain changes in the atmosphere which is surcharged with the Electricity of the Sun). The commentary, viz., आदित्यरश्मिषु जलं संगृहाण on the text आदित्ये चन्द्रवर्णानां गर्भमाधेहि । (तै. आ. १ - २२ - ५६) may also be noticed in this connection. So the Sun’s rays are concerned not only in vaporising water on earth but also in the formation of clouds in the sky and in bringing rainfall to the Earth again. The same Poet, Kalidasa, in comparing the four sons of Dasaratha to four sets of Sun’s rays concerned in the formation of clouds, says thus : - सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः (रघुवंश स. १०, श्लो. ५८) In the explanation of this, the names of these four kinds of Sun’s rays are given as आनन्दाः, मेध्याः, नूतनाः, पूतनाः meaning that certain rays of the Sun called पूतनाः are engaged in the evaporation of water ; others called नूतनाः, in the formation of clouds ; अभ्राः ; the others again named मेध्याः in the formation of water in the clouds ; and lastly, those that are termed आनन्दाः, in causing rainfall and thus giving extreme joy and satisfaction to all on earth. The number of Sun’s rays, rather bands of Sun’s rays thus employed in each of these four processes are also given in the following verses : -
तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने ।
शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने ।
चतुःशतं वृष्टिवाहाः ताः सर्वा अमृताः स्मृताः ।
The results of these processes in the formation of rain have been summarised and given thus in Satapatha Brahmana : अग्नेर्वै धूमो जायते । धूमादभ्रम् । अभ्राद्वृष्टिः. The results are recorded also in the Chandogya Upanishad thus : - अभ्रं वा अपां भस्म । धूमो भूत्वा अभ्रं भवति । अभ्रं भूत्वा मेघो भवति । मेघो भूत्वा प्रवर्षति. On such authorities as these Valmiki says of the Sun thus पायत्येष तपत्येष वर्षत्येष गभस्तिभिः (आदित्यहृदय) (meaning that the Sun’s rays absorb water, create clouds and bring down rain). And Manu says in one sentence, viz., आदित्याञ्जायते वृष्टिः, Rain comes from the Sun. Now in this connection, the question, how thunder and lightning are produced, has also been solved very satisfactorily. A sage who is the son of Vasistha and Rohini hearing the thunder in the sky, cries out कोऽन्तरिक्षे शब्दं करोति (तै. आ. १ - १२ - ६०) who is that, that is roaring in the sky ? After investigating the cause, he himself came to the conclusion that वाश्रेव विद्युत् ibed., it is lightning in the cloud that produces thunder as it bursts out and flashes when the clouds which are moving promiscuously are affected and scattered by the wind. It is explained thus : - यदातु मरुतामनुमते वृष्टिः सृज्यते तदा विद्युत् शब्दं करोति । विद्युत्वान् पर्जन्यः । (तद्भाष्यं). This emphasises the fact that thunder and lightning are produced simultaneously, though they are perceived at different moments on account of their different velocities. The constituent property of lightning is also determined thus : - विद्युत् सूर्यतेजोरूपमेघवर्तिनी i.e., lightning is the electrical energy of the Sun in the clouds. Thunder - bolt, lightning, comets, etc., are all different forms of the Sun’s light. This is the meaning of the Text in the Brihadaranyaka. धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः Meteor or Comet is called अग्न्युत्पात which is produced by the electric charge of the Sun, as explained in अग्निना दिव्येन कृतः उत्पातः, अग्न्युत्पातः.
SEASONS AND CLIMATE
It has been generally explained that, the Sun is the cause of time. Its special and peculiar influence is the cause of the special state of time, that is, seasons and climate, as is
stated in आदित्यप्रवृत्तिनिबन्धनमेव विशेषणान्वयनिमित्तं वैलक्षण्यम् । तद्वैलक्षण्यहेतुः ऋतुप्रवत्तिः . This is the commentary on the Text साकं जानान् सप्तथमाहुरेकजं षळुद्यमा ऋषयो देवजा इति, तै. आ. १ - ३ - ८. It means that by the peculiar influence of the Sun, the six seasons with different effects occur. Of these, Vasanta or spring is the harbinger of the year वसन्तो वसुभिः सह । संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः (ibid.). One season succeeds the other unceasingly as stated in ऋतुॠतुना नुद्यमानः . The characteristics and effects of each season are very well described in the text. Climate is the effect of seasons and it differes at different times in different places. This is plain from the text स्थात्रे रेजन्ते विकृतानि रूपशः, (ibid.) and from its commentary, viz., जगतः स्थित्यर्थं शीतोष्णादिरूपेण विलक्षणानि रूपाणि प्रवर्तन्ते.
THE MOON AND STARS
The Sun is the source of light for the Moon, and Stars, etc. The Moon is a watery body and the Sun’s rays reflected therein, come to the earth as moonlight. This is explained in चन्द्रः अम्बुमयः गोलः, स्वभावतः स्वच्छः । तस्मादस्य दिवसकरकिरणसमाश्लेषेण भास्वरत्वं भवति. This is the commentary on the Vedic text. चन्द्रमा वा अपां पुष्पम् । सः नवो नवो भवति जायमानः । यमादित्याः अशुंमाप्याययन्ति । Also, इतः सिक्तं सूर्यगतम् । चन्द्रमसे रसं कृधि (तै. आ. ११ - २ - ६). The stars are also watery bodies as is implied in नक्षत्राणामापः कारणम् । तार्भिविना तेषामवस्थानाभावात् on the text आपो वै नक्षत्राणामायतनम् (तै. आ. १ - २२ - ८२). The Sun’s path through the stars expecially of the twentyeight groups of stars has been explained, giving the details regarding the nature of Sun’s light that comes
in contact with the stars and the effect of such a combination produced on vegetation, rainfall, etc., on earth. For the details reference is invited to the portions of the Vedas dealing with Nakshatreshti. (तै. ब्रा, अ. ३, प्र. १.)
SPIRITUAL CONCEPTION OF THE SUN
After studying all the phenomena of the Sun, the Sages wanted to discover the real cause, and found out that there is some supreme intelligent power, which stimulates the Sun to work for the good of the Universe, without the presence of which even a blade of grass cannot move as stated in तस्य भासा सर्वमिदं विभाति - तेन विना तृणमपि न चलति. So the conception of the Sun in India grew from the material aspect to the spiritual one. At last considering that only the spiritual aspect was real, permanent and blessed, the sages identified the Sun with the Almighty God himself, basing their faith on the Vedic statement आर्द्रं ज्वलति ज्योतिः । ज्योतिर्ज्वलति ब्रह्म । एतज्ज्योतिरुदेति. Hence some regard God in His spiritual and divine form as dwelling in the Sun as inferred from the statement, ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः . Others conceive that the divine power or principle in the Sun is no other than हिरण्यगर्भ the creator, and others again think that the Sun is God himself. Whatever may be the spiritual conception of the Sun, every one in India worships God with real zeal and devotion. For a Community called Souras, the Sun is the only God who creates, protects and destroys the worlds. This aspect is very well described by Valmiki who says एष ब्रह्मा च विष्णुश्च शिवः also, ब्रह्मेशानाच्युतेशः सूर्यः, एषः सर्वदेवात्मकः ॥ When this spiritual conception of the Sun gains ground, its material aspect is naturally neglected, or considered as second in imporance.
CONCLUSION
These are a few ideas noted during my imperfect and meagre study of only a portion of one of the Vedas. There are hundreds of other conceptions relating to the Sun and the Sun’s phenomena, recorded in Vedic literature, which is a avast field for research work. A single man’s work, however through and useful it may be, cannot be considered valid, unless it is approved and accepted by other competent scholars in the field. The Vedas, therefore, addressing such Scholars, command them in the following beneficent words संगच्छध्वं संवदध्वम् । सं वो मनांसि जानताम् (तै. ब्रा. अ. २, प्र. ४, मं. २७) i.e., meet together, talk together and understand each other’s vies. My appeal therefore is that Oriental Scholars may earnestly undertake research work in the Vedic field, and produce further enlightenment, resulting from their efforts for the benefit of humanity at large.