[[वैशेषिकसूत्रोपस्कारः Source: EB]]
[
वैशेशिकसूत्रोपस्कारः
** प्रथमाध्याये प्रथमाह्निकम् ।**
<1-1-1>
<1-1-2>
<1-1-3>
ऊद्र्ध्वबद्धजटाजूटक्रोड़क्रोड़त्सुरापगम्।
नमामि यामिनीकान्तकान्तभालस्थलं हरम् ॥ 1 ॥
याभ्यां वैशेषिके तन्त्रे सम्यग् व्युत्पादितोऽस्म्यहम्।
कणादभवनाथाभ्यां ताभ्यां मम नमः सदा ॥ 2 ॥
सूत्रमात्रावलम्बेन निरालम्बेऽपि गच्छतः।
खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यति ॥ 3 ॥
तापत्रयपराहता विवेकिनस्तापत्रयनिवृत्तिनिदानमनुसन्दधाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयाम्बभूवुः। तत्प्राप्तिहेतुमपि पन्थानं जिज्ञासमानाः परमकारुणिकं कणादं मुनिमुपसेदुरथ कणादो मुनिस्तत्त्वज्ञानवैराग्यैश्वर्यसम्पन्नः षण्णां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानमेवात्मतत्त्वसाक्षात्कारप्राप्तये परमः पन्था इति मनसि कृत्वा तच्च निवृत्तिलक्षणाद्धर्मादेतेषमनायासेन सेत्स्यतीति लक्षणतः स्वरूपतश्च धर्ममेव प्रथममुपदिशाम्यनन्तरं ष़डपि पदार्थानुद्देशलक्षणपरूक्षाभिरुपदेक्ष्यामीति हृदि निधाय तेषामवधानाय प्रतिजानीते–
अथातो धर्मं व्याख्यास्यामः ॥ 1 ॥
अथेति शिष्याकाङ्क्षानन्तर्यमाह। अत इति। यतः श्रवणादिपटवोऽनसूयकाश्चान्तेवासिन उपसेदुरित्यर्थः। यद्वा अथशब्दो मङ्गलार्थः। तदुक्तम्–
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ” ॥इति॥
युक्तञ्चैतत्। कथमन्यथा सदाचारपरम्परापरिप्राप्तकर्तव्यताकस्य मङ्गलस्य वैशेषिकशास्त्रं प्रणयतो महामुनेरनाचरणं सम्भाव्यते। न च कृतमङ्गलस्यापि फलादर्शनादकृतमङ्गलस्यापि फलदर्शनादननुष्ठानं न हि निष्फले प्रेक्षावान् प्रवर्तत इति वाच्यम् अकरणस्थले जन्मान्तरीयस्य करणस्थले चाङ्गवैगुण्यस्य कल्पनया सफलत्वनिश्चयात्। न हि शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकस्यापाततः फलादर्शनमात्रेणाकारणत्वशङ्कापि। न चैहिकमात्रफलकत्वान्न जन्मान्तरीयानुमानं पुत्रेष्टिवदैहिकफलकत्वानुपपत्तेः। कारीर्यादौ तु तथा कामनयैवानुष्ठानादैहिकमात्रफलकत्वम्। अत्र च समाप्तिकामोऽधिकारी स्वर्गकाम इव यागे तत्रापूर्वं द्वारमिह तु विघ्नध्वंस इति विशेषः निर्विघ्नमारब्धं समाप्यतामिति कामनया प्रवृत्तेः। न च विघ्नध्वंसमात्रं फलं समाप्तिस्तु स्वकारणादेवेति वाच्यम्, तस्य स्वतोऽपुरुषर्थत्वात् समाप्तेस्तु सुखसाधनतया पुरुषार्थत्वात् उपस्थितत्वाच्च। किञ्च दुरितध्वंसमात्रं न फलं तस्य प्रायश्चित्तकीर्त नकर्म्मनाशापारगमनादिसाध्यतया व्यभिचारात्। प्रारब्धपरिसमाप्तिप्रतिबन्धकदुरितध्वंसत्वेन फलत्वे समाप्तेरेव फलत्वोचितत्वात्। तत्रापि च हरण्यदानप्रयागस्नानादिजन्यत्वेन व्यभिचारात् तेषापि मङ्गलत्वाभिधानं साहसम्। किञ्च मङ्गले सति समाप्तेरावश्यकत्वमित्येवं मङ्गलस्य कारणता। तदुक्तम् “श्रौतात् साङ्गात् कर्म्मणः फलावश्यम्भावनियमात्” इति। अत एव विकल्पितमपि कारणं कारणमेव फलानन्तर्य्यनियमस्यवे वैदिककारणत्वात्। विकल्पे तु वैजात्यकल्पनं वैजात्यमेव यत्रान्वयव्यतिरेकगम्या कारणता तत्र फलपूर्वभावनियमो ग्राह्यो न तु वेदेऽपि तत्र व्यतिरेकभागस्य गुरुत्वेनानुपस्थितेः तथा च साङ्गे मङ्गले समाप्तिरावश्यकीति न व्यभिचारः।
समाप्तिस्तु यस्मिन् अनुष्ठिते सम्पूर्णमिदं कर्म्मेति प्रमा सा च ग्रन्थादौ चरमवाक्यलिखने यागादौ चरमाहुतौ पटादावन्त्यतन्तुसंयोगे ग्रामगमनादौ ग्रामचरणचरमसंयोगे एवं तत्र तत्रोहनीयमिति। मङ्गलजन्यसमाप्तौ वैजात्यकल्पनेऽपि नोभयथा व्यभिचारः। मंगलञ्च विघ्नध्वंसद्वारकसमप्तिफलकं कर्म्म तच्च देवतानमस्कारादिरूपमेव स्वतःसिद्धविघ्नाभावस्थलेऽपि सामान्यतो गृहीतस्य विघ्नध्वंसद्वारकत्वस्यानपायात् नमस्कारादीनां ताद्रूप्येणैव विघ्नध्वंस द्वारकत्वप्रतिपत्तेर्नाव्याप्तिरिति दिक् ॥ 1 ॥
अथ प्रतिज्ञातार्थमाह–
यतोऽभ्युदयनिश्रेःयससिद्धिः स धर्म्मः ॥ 2 ॥
अभ्युदयस्तत्त्वज्ञानं निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः तदुभयं यतः स धर्म्मः। अभ्युदयद्वारकं निःश्रेयसमिति मध्यमपदलोपी समासः, पञ्चमीतत्पुरुषो वा। स च धर्म्मो निवृत्तिलक्षणो वक्ष्यते। यदि तु निदिध्यासनादियोगसाध्यो धर्म्मोऽदृष्टमेव तदा विधिरूपः।
वृत्तिकृतस्तु अब्यदयः सुखं निःश्रेयसमे ककालीनसकलात्मविशेषगुणध्वंसः। प्रमाणञ्च धर्म्मे देवदत्तशरीरादिकं भोक्तृविशेषगुणप्रेरितभूतपूर्वकं कार्यत्वे सति तद्भोगसाधनत्वात्तन्निर्म्मितस्रग्वदित्याहुः।
तदेतद्व्याख्यानं प्रत्येकसमुदायाभ्यां न व्यापकम् इत्यर्वा चीनैरुपेक्षितम्।
वस्तुतस्तु को धर्म्मः किंलक्षणश्चेति सामान्यतः शिष्यजिज्ञासायां यतोऽभ्युदयनिःश्रेयससिद्धिरित्युपतिष्ठते तथा च यतोऽभ्युदयसिद्धिर्यतश्च निःश्रेयससिद्धिस्तदुभयं धर्म्मः। एवं पुरुषार्थासाधारणकारणं धर्म्म इति वक्तव्ये परभपुरुषार्थयोः सुखदुःखाभावयोर्विशेषतः परिचयार्थमभ्युदयनिःश्रेयससिद्धिरित्युक्तं स्वर्गापवर्गयोरेवान्येच्छानधीनेच्छावियत्वेन परमपुरुषार्थत्वात्। साधयिष्यते च दुःखाभावस्यापि पुरुषार्थत्वम् ॥ 2 ॥
ननु निवृत्तिलक्षणो धर्म्मस्तत्त्वज्ञानद्वारा निःश्रेयसहेतुरित्यत्र श्रुतिः प्रमाणम्। श्रुतेरेव प्रामाण्ये वयं विप्रतिपद्यामहे अनृतव्याघातपुनरुक्तदोषेभ्यः। पुत्रेष्टौ कृतायामपि पुत्रानुत्पादादनृतत्वम् “उदिते जुहोति अनुदिते जुहोति समयाध्युषिते जुहोति” इति विधेः प्राप्त एवोदितादिकाले होमो व्याहन्यते “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति शवलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति श्यावशवलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति” इत्यादिना। तथा “त्रिः प्रथमामन्वाह त्रिरुत्तमामन्वाह” इत्यनेन प्रथमोत्तमसामिधेन्योस्त्रिरुच्चारणाभिधानात् पौनरुक्त्यमेव। न चाम्नायप्रतिपादकं किञ्चिदस्ति नित्यत्वे विप्रतिपत्तौ नित्यनिर्दोषत्वमपि सन्दिग्धम् पौरुषेयत्वे तु भ्रमप्रमादविप्रतिपत्तिकरणापाटवादिसम्भावनया आप्तोक्तत्वमपि सन्दिग्धमेवेति न निःश्रेयसं न वा तत्र तत्त्वज्ञानं द्वारं न वा धर्म्म इति सर्वमेतदाकुलमत आह–
तद्वचनादाम्नायस्य प्रामाण्यम् ॥ 3 ॥
तदित्यनुपक्रान्तमपि प्रसिद्धिसिद्धतयेश्वरं परामृशति, यथा “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” इति गौतमीयसूत्रे तच्छब्देनानुपक्रान्तोऽपि वेदः परामृश्यते। तथा च तद्वचनात्तेनेश्वरेण प्रणयनादाम्नायस्य वेदस्य प्रामाण्यम्। यद्वा तदिति सन्निहितं धर्ममेव परामृशति तथाच धर्मस्य वचनात् प्रतिपादनात् आम्नायस्य वेदस्य प्रामाण्यम्, यद्धि वाक्यं प्रामाणिकमर्थं प्रतिपादयति तत्प्रमाणमेव यत इत्यर्थः। ईश्वरस्तदाप्तत्वञ्च साधयिष्यते। यच्चोक्तम्–“अनृतव्याघातपुनरुक्तदोषेभ्यः” इति तत्रानृतत्वे जन्मान्तरीयफलकल्पनम्, कर्मकर्तृसाधनवैगुण्यकल्पनं वा, श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावनिश्चयात्। न च कारीरीवदैहिकमात्रफलकत्वम् तत्र हि शुष्यच्छस्यसञ्जीवनकामस्याधिकारः पुत्रेष्टौ पुत्रमात्रकामस्येति विशेषात्। न च व्याघातोऽपि उदितादिहोमं विशेषतः प्रतिज्ञाय तदन्यकाले होमानुष्ठान् “श्यावोऽस्याहुतिमभ्यवहरति” इत्यादिनिन्दाप्रतिपादनात्। नच पुनरुक्ततादोषोऽपि एकादशसामिधेनीनां प्रकृतौ पाठात् “पञ्चदशावरेण वाग्वज्रेणावबाधे तमिमं भ्रातृव्यम्” इत्यत्र सामिधेनीनां पञ्चदशत्वस्य प्रथमोत्तमसामिधेन्योस्त्रिरभिधानमन्तरेणानुपपत्तेस्तथाबिधानात् ॥ 3 ॥
</1-1-3>
</1-1-2>
</1-1-1>
<1-1-4>
शिष्याकाङ्क्षानुरोधेन स्वरूपतो लक्षणतश्च धर्मं व्याख्यायाभिधेयसम्बन्धप्रतिपादनाय सूत्रम्–
धर्म्मविशेषप्रसूताद् द्रव्यगुणकर्म्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् ॥ 4 ॥
एतादृशं तत्त्वज्ञानं वैशेषिकशास्त्राधीनमिति तस्यापि निःश्रेयसहेतुत्वं दण्डापूपायितम्। तत्त्वं ज्ञायतेऽनेनेति करणव्युत्पत्त्या शास्त्रपरत्वे धर्मविशेषप्रसूतादित्यनेनानन्वयापत्तेः। सर्वपदार्थप्रधानो द्वन्द्वश्चात्र समासः सर्वपदार्थतत्त्वज्ञानस्य निःश्रयसहेतुत्वात्। तदत्र शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः, शास्त्रतत्त्वज्ञानयोर्व्यापारव्यापारिभावः, निश्रेयसतत्त्वज्ञानयोः कार्यकारणभावः, द्रव्यादिपदार्थशास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धोऽवगम्यते। एतेषाञ्चसम्बन्धानां ज्ञानान्निःश्रेयसार्थिनामिह शास्त्रे प्रवृत्तिः मोक्षमाणाश्च मुनेर्गृहीताप्तभावा एव शास्त्रे प्रवर्त्तन्ते। निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः। दुःखनिवृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमानकालोनत्वं युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा। अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावो वा मुक्तिः। न चासाध्यत्वान्नायं पुरुषार्थः कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात्। न च तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात्। जनकत्वञ्च स्वरूपयोग्यता मात्रम्, नहि प्रागभावश्चरमसामग्रो येन तस्मिन् सति कार्य्यमवश्यम्भवेत् तथा सति कार्यस्याप्यनादित्वप्रसङ्गात्। तथा च यथा सहकारिविरहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति, देतूच्छेदे पुरुषव्यापारात्’ इत्यस्यापि प्रागभावपरिपालन एव तात्पर्यात्। अत एव गौतमीयद्वितीयसूत्रे “दुःख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इत्यत्र कारणाभावात् कार्य्याभावाभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति। नहि दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापाय इत्यपायो ध्वंसः, किन्त्वनुत्पत्तिः। सा प्रागभाव एव। नच प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत्, तत्रापि प्रत्यवायध्वंसद्वारा दुःखानुत्पत्तेरेवापेक्षितत्वात् लोकेऽप्यहिकण्डकादिनिवृत्तेर्दुःखानुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः।
केचित्त दुःखात्यन्ताभाव एव मुक्तिः। स च यद्यपि नात्मनिष्ठस्तथापि लोष्टादिनिष्ठ एवात्मनि साध्यते। सिद्धिश्च तस्य दुःखप्रागभावासहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तत्र दुःखात्यन्ताभावप्रतीतेः। एवञ्च सति “दुःखेनात्यन्तं विमुक्तश्चरति” इत्यादिश्रुतिरप्युपपादिता भवतोत्याहुः।
तन्न दुःखत्यन्ताभावस्यासाध्यत्वेनापुरुषार्थत्वात्। दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः “दुःखेनात्यन्तं विमुक्तश्चरति” इति श्रुतेर्दुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ताभावसमानरूपत्वतात्पर्यकत्वात्। नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावौपाधिकीत्येव किं न स्यात्, शोकाकुलानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्बन्धनादौ प्रवृत्तिदर्शनात्। ननु पुरुषार्थोऽप्ययं ज्ञायमान एव मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्च्छाद्यवस्थार्थमपि प्रवर्त्तेति चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावेद्यत्वानुपपत्तेः। अस्ति हि श्रुतिः “दुःखेनात्यन्तं विमुक्तश्चरति” “तमेव विदित्वाऽतिमृत्युमेति” इत्यादिका। अनुमानमप्यस्ति-दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदोपसन्ततिवदित्यादि। चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयोकरणात् प्रत्यक्षवेद्यताऽपि। योगिनां योगजधर्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च। तथापि तुल्यायव्ययतया नायं पुरुषार्थां दुःखवत् सुखस्यापि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेत् उत्सर्गतो वोतरागाणां दुःखदुर्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः। ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् अतोतदुःखस्यातीतत्वात् वर्त्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत्। तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थं प्रवृत्त्युपपत्तेः।
ननु नित्यसुखाभिव्यक्तिरेव मुक्तिर्नतु दुःखाभाव इति चेन्न नित्यसुखे प्रमाणाभावात्, भावे वा नित्यं तदभिव्यक्तेर्मुक्तसंसारिणोरविशेषापातात् अबिव्यक्तेरुत्पाद्यत्वेन तन्निवृत्तौ पुनः संसारापत्तेश्च।
ब्रह्मात्मनि जोवात्मलयो मुक्तिरिति चेन्न लयो यद्येकोभावस्तदा बाधात् नहि द्वयमेकं भवति। लिङ्गशरीरापगमो लयो लिङ्गञ्चैकादशेन्द्रियाणि तेषां शरोरस्य च विगमो लय इति चेन्न एतावता दुःखसामग्रीविरहस्योक्तत्वात् तथाच दुःखाभाव एव मुक्तिरिति पर्यवसानात्।
एतेनाविद्यानिवृत्तौ केवलात्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखात्मक इत्येकदण्डिमतमपास्तम्। आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाभावात्। न च “नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतिर्मानम् तस्या ज्ञानवत्त्वानन्दवत्त्वप्रतिपादकत्वात् भवति हि अहं जाने अहं सुखीतिप्रतीतिः नत्वहं ज्ञानम् अहं सुखमिति। किञ्च ब्रह्मण इदानोमपि सत्त्वात् मुक्तसंसारिणोरविशेषापत्तिः अविद्यानिवृत्तेश्चापुरुषार्थत्वात् ब्रह्मणश्च नित्यत्वेनासाध्यत्वात्, तत्साक्षात्कारस्य तदात्मकत्वेनासाध्यत्वात्, एवमानन्दस्यापि तदात्मकत्वेनासाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव।
निरुपप्लवा चित्सम्ततिर्मुक्तिरिति चेन्न। दुःखादिरूपस्य उपप्लवस्य विगमो यदिः निरुपल्पवत्वम् तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्तौ प्रमाणाभावः तदनुवृत्तेरपि शरीरानुवृत्तेरावश्यकत्वादिति सिद्धं दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति।
तत्त्वस्य ज्ञानमिति कर्मणि षष्ठी। साधर्म्यवैधर्म्याभ्यामिति प्रकारे तृतीया। तत्र साधर्म्यमनुगतो धर्मः, वैधर्म्यञ्च व्यावृत्तो धर्मः। यद्यपि क्वचित् साधर्म्यमपि कुतश्चिद्वैधर्म्यं कुतश्चिद्वैधम्मपि केषाञ्चित् साधर्म्यम् तथापि ताद्रूप्येण ज्ञानं विवक्षितम्। अत्र च द्रव्यादिपदार्थानामुद्देश एव विभागः पर्यवसन्नः। स च न्यूनाधिकसङ्ख्याव्यवच्छेदफलकस्तेन षडेव पदार्था इति नियमः पर्य्यवस्यति, स चानुपपन्नः व्यवच्छेद्यस्य पदार्थान्तरस्य प्रतिपत्तौ नियमानुपपपत्तिः, अप्रतीतौ व्यवच्छेदानुपपत्तिः। ननु नायमन्ययोगव्यवच्छेदः किन्त्वयोगव्यवच्छेदः पदार्थेषु षड्लक्षणायोगो व्यवच्छिद्यत इति चेन्न पदार्थपदेन प्रसिद्धपदार्थमात्रोपसंग्रहे सिद्धसाधनात् अनय्स्य चाप्रतीतेरेव। किञ्च लक्षणानां मिलितानामयोगो व्यवच्छेद्यः प्रत्येकं वा? आद्ये मिलितायोगः सर्वत्रेति व्यवच्छेदानुपपत्तिः। अन्त्येऽपि प्रत्येकायोराः परस्परं सर्वत्रेति व्यवच्छेदानुपपत्तिरेवेति चेन्न। शक्तिसङ्ख्यासादृश्यादिषु पदार्थेषु पराभिमतेषु षड्लक्षणायोगः परैरुच्यते तद्यव्यच्छेदो नियमार्थः, तथाच षडेव पदार्था इत्यस्य प्रतीयमानेषु पण्णां लक्षणानां मध्ये अन्यतमलक्षणयोगोऽस्त्येव न त्वयोग इत्यर्थः। तत्र विशेष्यसङ्गतस्यान्ययोगव्यवच्छेदो विशेषणसङ्गतस्यायोगव्यवच्छेदः क्रियासङ्गतस्य चात्यन्तायोगव्यवच्छेदस्तावत् प्रतीयते। तत्र शक्तित्रयमेवकारस्येत्येके व्यवच्छेदमात्रे शक्तिरयोगान्ययोगादयस्तु व्यवच्छेद्याः समभिव्याहारलभ्या इत्यपरे।
धर्मविशेषप्रसूतादिति तत्त्वज्ञानादित्यस्य विशेषणम्। तत्र धर्मविशेषोनिवृत्तिलक्षणो धर्मः। यदि तु तत्त्वं ज्ञायतेऽनेनेति तत्त्वज्ञानं शास्त्रमुच्यते तदा धर्मविशेष ईश्वरनियोगप्रसादरूपो चक्तव्यः। श्रूयते हीश्वरनियोगप्रसादावविगम्य कणादो महर्षिः शास्त्रं प्रणीतवानिति। तत्त्वज्ञानमात्मतत्त्वसाक्षात्कार इह विवक्षितस्तस्यैव सवासनमिथ्याज्ञानोन्मूलनक्षमत्वात्। “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यत्र “द्वे ब्रह्मणो वेदितव्ये” इत्यत्र च वेदनपदस्य साक्षात्कःरपरत्वात्, “पश्यत्यचक्षुः” इत्यत्रापि तथा। स च शास्त्रान्मनननिदिध्यासनादिपरम्परयेति हेतुपञ्चम्या तथैवाभिधानात् ॥ 4 ॥
</1-14>
<1-1-5>
इदानीमपवर्गभागितया सर्वपदार्थाश्रयतया च प्रथमोद्दिष्टस्य द्रव्यपदार्थस्य विभागं विशेषोद्देशञ्च कुर्वन्नाह–
गुणनिरूपणम्
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ॥ 5 ॥
इतिकारोऽवधारणार्थः। तेन नवेव द्रव्याणि नाधिकानि न न्यूनानि वेत्यर्थः। ननु विभागबलादेव न्यनाधिकसङ्ख्याव्यवच्छेदसिद्धौ किमिति कारेणेति चेत् उद्देशमात्रपरतयाऽपि सूत्रसम्भवे विभागतात्पर्य्यस्फोरणार्थमेवेतिकाराभिधानात्। सुवर्णादीनामीश्वरस्य चात्रैवान्तर्भावात् अन्धकारस्य चाधिकत्वेनाशङ्क्यमानस्याभावत्वव्युत्पादनादेतदध्यवसेयम्। असमासकरणन्तु सर्वेषां प्राधान्यन्यप्रदर्शनाय। लक्षणमेतेषान्तु वधर्म्यावसरे सूत्रकृदेव दर्शयिष्यति। ननु सुवर्णं न तावत् पृथिवी निर्गन्धत्वात्, न जलं स्नेहसांसिद्धिकद्रवत्वशून्यत्वात्, न तेजो गुरुत्ववत्त्वात्, अत एव न वायुर्न वा कालादि, ततो नवभ्यो भिद्यत इति चेन्न, आद्यद्वितीययोरनाभासत्वम् तृतीयस्य स्वरपूसिद्धत्वं ततः परं सिद्धसाधनं हेतो- स्वरूपासिद्धिश्च। साधयिष्यते च सुवर्णस्य तैजसत्वमिति ॥ 5 ॥
</1-1-5>
<1-1-6>
गुणत्वेन रूपेण गुणानां सर्वद्रव्याश्रितत्वं द्रव्याभिव्यङ्ग्यत्वं द्रव्याभिव्यञ्जकत्वञ्चेति द्रव्यान्तरं गुणानामुद्देशं विभागञ्चाह–
रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छोद्वेषौ प्रयत्नाश्च गुणाः ॥ 6 ॥
चकारेण गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दान् समुच्चिनोति ते हि प्रसिद्धगुणभावा एवेति कण्ठतो नोक्ताः। गुणत्वञ्चाभीषां यथास्थानं लक्षणतः स्वरूपकरण्यं नास्तीति सूचनार्थं समासः। सङ्ख्यापरिमाणयोस्तु समानकालोनसङ्ख्यापरिमाणसामानाधिकरण्यसूचनायासमासो बहुवचननिर्देश्च। यद्यप्येकत्वसमानाधिकरणं नैकत्वान्तरं न वा महत्त्वदीर्घत्वसमानाधिकरणं महत्त्वदीर्घत्वान्तरम् तथापि द्वित्वादीनामन्योन्यं सामानाधिकरण्यं महत्त्वदोर्घत्वादीनाञ्च विजातीयपरिमाणयोः सामानाधिकरण्यमस्त्येव। पृथक्त्वञ्च यद्यपि द्विपृथक्त्वादिसमानाविकरणं तेन सङ्ख्यावद् बहुत्वेनैव निर्देष्टुमर्हति तथाप्यवधिव्यङ्ग्यत्वलक्षणं सङ्ख्यातो वैधर्म्यं सूचयितुमेकवचननिर्द्देशः। संयोगविभागयोर्द्वयोरप्येककर्मजन्यत्वसूचनाय द्विवचनम्। परत्वापरत्वयोरन्योन्याश्रयनिरूप्यतया दिक्काललिङ्गत्वाविशेषसूचनाय च द्विवचनम्। बुद्धीनां विद्यादिभेदेन साङ्ख्याभिमतैकमात्रबुद्धिनिराकरणसचनाय बहुवचनम्। सुखदुःखयोर्द्वयोरपि भोगत्वावच्छेद्यौककार्य्यजनकत्वम् अविशेषेण थादृष्टोन्नायकत्वम्, सुखस्यापि दुःखत्वेन भावनञ्च ख्यापयितुं द्विवचनम्। इच्छाद्वेषयोर्द्वयोरपि प्रवृत्तिं प्रति कारणत्वसूचनाय द्विवचनम्। प्रयत्नानां विहितनिषिद्धगोचराणां दशविधानां पुण्यहेतुत्वं दशविधानाञ्च पापहेतुत्वमभिसन्धाय बहुवचनमित्युन्नेयम्।
यद्वा रूपरसगन्धस्पर्शानां भौतिकेन्द्रियव्यवस्थाहेतुत्वज्ञापनार्थं पाकजप्रक्रियाव्यवस्थापनार्थं वा ते समस्योक्ताः। सङ्ख्यायां देवित्वबहुत्वादौ विप्रतिपत्तिरिति तन्निराकरणसूचनार्थं बहुत्वेनाभिधानम्। पृथक्त्वे तु सह्ख्याबहुत्वेनैवास्यापि बहुत्वमिति सूचनायावधिज्ञानव्यञ्जनीयत्वं सङ्ख्यातो वैधर्म्यमिति सूचनाय च पृथगभिधानम्। परिमाणे तु दोर्घत्वह्रस्वत्वादिविप्रतिपत्तिनिरासाय बहुवचनम्। संयोगविभागयोरन्योन्यविरोधज्ञापनाय द्विवचनम्। परत्वापरत्वयोर्दैशिककालिकभेदेन भिन्नजातीयत्वसम्भवेन चतुष्ट्वापत्तौ गुणविभागो न्यूनः स्यात् इति तत्रापि द्विवचनमित्याद्युन्नेयम्। एतेषाञ्च लक्षणमग्रे वक्ष्यते ॥ 6 ॥
</1-1-6>
<1-1-7>
कर्मणां द्रव्यजन्यतया गुणजन्यतया च रूपवद्रव्यसमवायाच्च प्रत्यक्षतेति द्रव्यगुणाभिधानानन्तरं कर्मोद्देशविभागावाह–
कर्मनिरूपणम्
उत्क्षेपणम् अवक्षेपणण् आकुञ्चनं गमनिमिति कर्माणि। इतिरवधारणार्थः, भ्रमणादेरपि गमनान्तर्गतत्वात्। अत्र च उत्क्षेपणत्वावक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्मत्वसाक्षाद्व्याप्याः पञ्च जातयः। नन्वेतदनुपपन्नं गमनस्य कर्मपर्य्यायत्वात् सर्वत्र गच्छतीति बुद्धेर्दृष्टत्वादुत्क्षेपणत्वादीनां चतसृणां जातीनां परस्परात्यन्ताभावसमानाधिकरणानां सामानाधिकरण्याननुबवात् चतस्र एव कर्मत्वव्याप्या जातय इति चेत्। सत्यं कर्मपर्य्याय एव गमनं पृथगभिधानन्तु भ्रमणरेचनस्यन्दनोर्ध्वज्वलननमनोन्नमनादीनां भिन्नभिन्नबुद्धिव्यपदेशभाजामेकेन शब्देन सङ्ग्रहार्थम्। यद्वा गमनत्वमपि कर्मत्वव्याप्या पञ्चमी जातिरेव तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः उत्क्षेपणावक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः। स्वाश्रयसंयोगविभागासमवायिकारणत्वमेव गौणमुख्साधारणो धर्मः। गमनत्वजातेस्त्वनियतदिग्देशसंयोगविभागासमवायिकारणत्वमेव व्यञ्जकम्, तच्च भ्रमणादिषु सर्वत्रेति गमनग्रहणएनैव तेषां ग्रहणमिति। निष्क्रमणत्वप्रवेशनत्वादिका तु न जातिः एकस्मिन्नेव कर्मणि गृहाद् गृहान्तरं गच्छति पुरुषे कस्यचित् द्रष्टुः प्रविशतोति प्रत्ययः कस्यचित्तु निष्क्रामतीति तत्र जातिसङ्करः स्यात् तथा भ्रमणादेरेकस्या जलप्रणाल्या निष्क्रम्यापरां प्रविशत्ति निष्क्रामति प्रबिशतीति प्रत्ययद्वयदर्शनादुपाधिसामान्यमेवैतदध्यवस्ते तावदुत्क्षेपणं तत उत्क्षेपणविशिष्टहस्तनोदनादसमवायिकारणात् मुषलेऽप्युत्क्षेपणाख्यं कर्म युगपद्बा। तत ऊर्ध्वमुत्क्षिप्तयोर्हस्तमुषलयोरवक्षेपणेच्छार्जानतप्रयत्नवदात्मसंयोगाद्धस्तनोदनाच्च युगपदेव हस्ते मुषले चावक्षेपणम् उलूखलपातानुकूलं सञ्जायते। ततो दृढतरद्रव्यसंयोगाद् यद् कस्मान्मुषलस्योर्ध्वगमनं भवति तत्र नेच्छा न वा प्रयत्नः कारणं किन्तु संस्कारमात्रादेव मुषलस्योत्पतनम् तच्च गमनमात्रं नतूत्क्षेपणं भाक्तस्तत्रोत्क्षेपणव्यवहारः। एवमनुलोमप्रतिलोमवायुद्वयसङ्घट्टवशाद्वाय्वोस्तत्प्रेरित-तूलकादौ चोत्क्षेपणव्यवहारो भाक्तः। एवं स्रोतोद्वयसङ्घट्टवशाज्जलोर्ध्वगमनेऽपि एवमुत्क्षेपणावक्षेपणव्यवहारः शरीरतदवयवतत्संयुक्तमुषलयोमरादिष्वेव मुख्यः भवति हि हस्तमुत्क्षिपति मुषलमुत्क्षिपति तोमरमुत्क्षिपतीति एवमवक्षिपतोत्यपि। आकुञ्चनन्तु सत्स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्पादकं कर्म यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्मेतिप्रत्ययः। एवमवयवानां पूर्वेत्पन्नानारम्भकसंयोगविनाशकं कर्म प्रसारणं यतो भवति प्रसरति वस्त्रं प्रसरति चर्म प्रविकसति पद्ममित्यादिप्रत्ययः। एतच्चतुष्ट्यभिन्नं यत् कर्मजातं तत्सर्वं गमनविशेषः। तत्र भ्रमणं प्रयत्नवदात्मसंयोगाद्धस्ते कर्मवता हस्तेन नोदनाख्यसंयोगादवघट्टनाच्च चक्रादौ तिर्य्यक्संयोगानुकूलं कमं। रेचनाद्यपि व्याख्येयम्। स्फुटीकरिष्यति चाग्रे तदेतेषां कर्मणां विहितयागस्नानदानादिषु धर्मानुकूलप्रयत्नवदात्मसंयोगजन्यत्वं निषिद्धदेशगमनहिंसाकलञ्जभक्षणादिषु चाधर्मानूकूलप्रयत्नवदात्मसंयोगजन्यत्वमध्यवसेयमिति ॥ 7 ॥
</1-1-7>
<1-1-8>
द्रव्यादीनामुद्देशानन्तरं त्रयाणां साधर्म्यप्रकरणमारभते। तत्र द्रव्यादीनां त्रयाणां साधर्म्यस्य तत्त्वज्ञानानुकूलतया प्रथमं शिष्याकाङ्क्षितत्वात् सामान्यादिपदार्थत्रयस्य उद्देशात् प्रागेव त्रयाणां साधर्म्यमाह–
द्रव्यगुणकर्मणामविशेषनिरूपणम्
सदनित्वं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ॥ 8 ॥
विशेषे सत्यपि अयमविशेषशब्दः साधर्म्यपरः सदिति। सदाकारप्रत्ययव्यपदेशविषयत्वम् त्रयाणामेव सत्तायोगित्वात्। अनित्यमिति। ध्वंसप्रतियोगित्वं यद्यपि न परमाण्वादिसाधारणं तथापि ध्वंसप्रतियोगिवृत्तिपदार्थविभाजकोपाधिमत्त्वं विवक्षितम्। द्रव्यवदिति। द्रव्यं समवायिकारणतयाऽस्यास्तोति द्रव्यवत्, एतदपि परमाण्वादौ नास्तीति द्रव्यसमवायिकारणकवृत्तिपदार्थविभाजकोपाधिमत्त्वं विवक्षितम्। कार्य्यमिति। प्रागभावप्रतियोगिवृत्तिपदार्थविभाजकोपाधिमत्त्वं विवक्षितम्। कारणमिति। ज्ञानेतरकार्य्यनियतपूर्ववर्त्तिजातीयवृत्तिपदार्थविभाजकोपाधिमत्त्वम् तेन स्वसाक्षात्कारे विषयतया कारणे गोत्वादौ नातिप्रसक्तिर्न वा पारिमाण्डल्यादावजनकेऽव्याप्तिः। सामान्यविशेषवदिति। सामान्यं सद्विशेषोऽन्योन्यव्यावर्तकतया द्रव्यत्वगुणत्वकर्मत्वादि तद्वत्त्वमित्यर्थः। ननु “गां दद्यात्” “गौः पदा न स्प्रष्टव्या” इति श्रुतेर्धर्माधर्मजनकत्वं जातेरपीति कारणत्वमतिव्यापोति चेन्न अवच्छेदकतामात्रेण जातेर्विनियोगात्। उपलक्षणञ्चैतत् स्वसमवायार्थशब्दाभिधेयत्वमपि त्रयाणां साधर्म्यं द्रष्टव्यम्। यदि तु कार्य्यत्वानित्यत्वेकारणवतामेव “कारणत्वञ्चान्यत्र” इति प्रशस्तदेवाचार्य्यव्यवस्थितं साधर्म्यमुच्यते तदा पदार्थविभाजकोपाधिमत्तया न विशेष्यं सूत्रोक्तरीत्या। त्रयाणां गुणजनकत्वं गुणजन्यत्वञ्चान्यत्र नित्यद्रव्येभ्य इति ॥ 8 ॥
</1-1-8>
<1-1-9>
<1-1-10>
एतदेव सूत्रान्तरेणस्पष्टयति-
द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् ॥ 9 ॥
द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ॥ 10 ॥
अन्त्यावयविविभुद्रव्याणि तथान्त्यावयविगुणान् द्वित्वद्विपृथक्त्वपरत्वापरत्वादीन् गुणांश्च विहाय सजातीयारम्भकत्वं साधर्म्यं द्रष्टव्यम्। सजातीयारम्भकवृत्तिपदार्थविभाजकोपाधिमत्त्वं वा विवक्षितं तेनाजनकद्रव्यव्यक्तीनामप्युपग्रहः ॥ 10 ॥
</1-1-9>
</1-1-10>
<1-1-11>
ननु कर्माणि कुतो न कर्मान्तरमारभन्त इत्यत आह–
कर्म कर्मसाध्यं न विद्यते ॥ 11 ॥
विदिरयं ज्ञानार्थो न तु सत्ताभिधायी। सजातीयारब्धद्रव्यगुणयोरिव कर्मसाध्य ेकर्मणि प्रमाणं नास्तीत्यर्थः। इदमत्राकूतम्। कर्म यदि कर्म जनयेत् स्वोत्पत्त्यनन्तरमेव जनयेत् शब्दवत्। तथाच पूर्वकर्मणैव यावत्संयोगिद्रव्येभ्यो विभागे जनिते द्वितीयं कर्म केन सह विभागं जनयेत् विभागस्य संयोगपूर्वकत्वात् संयोगान्तरस्य च तत्राधिकरणेऽनुत्पन्नत्वात्, विभागाजनने तु कर्मलक्षणक्षतेः। न च क्षणान्तरे कर्मान्तरं जनयिष्यतीति वाच्यम् समर्थस्य क्षेपायोगात्, अपेक्षणीयान्तराभावात्, पूर्वसंयोगनाशक्षणेऽपि जनने विभागजनकत्वानुपपत्तिरेव, उत्तरसंयोगोत्पत्तिकालेऽपि जनने तथैव। उत्तरसंयोगात्पत्त्यनन्तरकालन्तु कर्मनाश एव। तथा च सुष्ठूक्तं `कर्मसाध्यं न विद्यतं’ इति ॥ 11 ॥
</1-1-11>
<1-1-12>
गुणकर्मब्यां द्रव्यस्य वैधर्म्यमाह–
न द्रव्यं कार्यं कारणञ्च वधति ॥ 12 ॥
द्रव्यं न स्वकार्य्यं हन्ति न वा स्वकारणं हन्ति, कार्य्यकारणभावापन्नयोर्द्रव्ययोर्वध्यघातकभावो नास्तीत्यर्थः। आश्रयनाशारम्भकसंयोगनाशाभ्यामेव द्रव्यनाशादिति भावः। वधतीति सौत्रो निर्देशः ॥ 12 ॥
</1-1-12>
<1-1-13>
गणस्य कार्य्यकारणवध्यत्वमाह–
उभयथा गुणाः ॥ 13 ॥
कार्य्यवध्याः कारणवध्याश्चेत्यर्थः। आद्यशब्दादीनां कार्य्यवध्यत्वं चरमस्य तु कारणवध्यत्वम्, उपान्त्येन शब्देन अन्त्यस्य नाशात् ॥ 13 ॥
</1-1-13>
<1-1-14>
गुणानां कार्य्यकारणोभयविरोधित्वमुक्त्वा कर्मणः कार्य्यविरोधित्वमाह–
कार्य्यविरोधि कर्म ॥ 14 ॥
कार्य्यं विरोधि यस्येति बहुव्रीहिः, स्वजन्योत्तरसंयोगनाश्यत्वात् कर्मणः। द्रव्याणां कार्य्यकारणाविरोधित्वं नियतमेव। गुणकर्मणोस्त्वनियमः, आश्रयनाशासमवायिकारणनाशनिमित्तनाशविरोधिगुणानां नाशकत्वस्य वक्ष्यमाणत्वात् ॥ 14 ॥
</1-1-14>
<1-1-15>
शिष्याकाङ्क्षानुरोधेन त्रयाणां साधुर्म्यमबिधायेदानीं त्रयाणां लक्षणमारभमाण आह–
क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् ॥ 15 ॥
क्रियाश्च गुणाश्च विद्यन्तेऽस्मिन्निति क्रियागुणवत्। अत्र लक्षणशब्दश्चिह्नवचनः, समानासमानजातीयव्यवच्छेदकव्यतिरेकिलिङ्गविशेषवचनश्चलक्ष्यतेऽनेनेतिव्युत्पत्तिबलात्। क्रियया कर्मणा द्रव्यमिदमिति लक्ष्यते गुणवत्त्वेन च समानासमानजातीयेभ्यो व्यावृत्तं द्रव्यं लक्ष्यते, तत्र समानजातीया भावत्वेन गुणादयः पञ्च, असमानजातीयस्त्वभावः, तेन द्रव्यं गुणादिभ्यो भिन्नं गुणवत्त्वात् यन्न गुणादिभ्यो भिद्यते तन्न गुणवत् यथा गुणादीति। गुणवत्त्वं यद्यप्याद्यक्षणेऽवयविनि नास्ति तथापि गुणात्यन्ताभावविरोधिमत्त्वं विवक्षितम् गुणप्राग भावप्रध्वंसयोरपि गुणात्यन्ताभावविरोधित्वात्। एवं समवायिकारणत्वमपि षट्पदार्थभेदकमेव द्रव्यपदार्थस्य लक्षणम्। न च साध्याप्रसिद्धिर्गुणादिभेदस्य घटादावेव प्रत्यक्षसिद्धत्वात्। नचात्र सिद्धसाधनं घटत्वावच्छेदेनेतरबेदस्य सिद्धंत्वेऽपि द्रव्यत्वावच्छेदेन साध्यत्वात्, पक्षतावच्छेदकभेदे न सिद्धसाधनं यथा नित्ये वाङ्यनसी इत्यत्र इति केचित्तन्न पक्षतावच्छेदकावच्छिन्ने क्वचिदपि साध्यसिद्धौ पक्षताक्षतेस्तथाप्यावश्यकत्वात्। इतिशब्दश्च इत्यादिपरस्तेन सङ्ख्यावत्त्वपरिमाणवत्त्वपृथक्त्ववत्त्वसंयोगवत्त्वविभागवत्त्वान्यपि द्रव्यलक्षणत्वेन संगृह्यन्ते ॥ 15 ॥
</1-1-15>
<1-1-16>
द्रव्यानन्तरं गणानामुद्देशात् तल्लक्षणमाह–
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् ॥ 16 ॥
द्रव्यमाश्रयितुं शीलमस्येति द्रव्याश्रयी। एतच्च द्रव्येऽपि गतमत आह–अगुणवानिति। तथापि कर्मर्ण्यातव्याप्तिरित्यत आह संयोगविभागेष्वकारणम्। तथापि संयोगविभागधर्माधर्मेश्वरज्ञानादीनामसंग्रहः स्यादत उक्तमनपेक्ष इति। अत्रानपेक्ष इत्यनन्तरं गुण इति पूरणीयम्, संयोगविभागेष्वनपेक्षः सन् कारणं यो न भवति सगुण इत्यर्थः। संयोगविभागादीनां संयोगविभागौ प्रति सापेक्षत्वात्। नित्यवृत्तिनित्यवृत्तिसत्ताव्याप्यजातिमत्त्वं गुणत्वम्। संयोगविभागौ मिलितौ प्रतिसमवायिकारणत्वासमवायिकारणत्वरहिते सामान्यवति यत् कारणत्वं तद्गुणत्वाभिव्यञ्जकम्। संयोगविभागयोः प्रत्येकमेव संयोगविभागकारण कत्वं न मिलितयोः धर्माधर्मेश्वरज्ञानादीनां द्वयोर्निमित्तकारणत्वमात्रं न समवायिकारणत्वं नाप्यसमवायिकारणत्वमिति तेषां संग्रहः। यद्वा संयोगविभागसमवायित्वासमवायिकारणत्वशून्यत्वं सामान्यसमानाधिगुणत्वव्यञ्जकम्। सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्वमेव वा गुणलक्षणम् ॥ 16 ॥
</1-1-16>
<1-1-17>
गणानन्तरमुद्दिष्टस्य कर्मणो लक्षणमाह–
एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणकारणमिति कर्मलक्षणम् ॥ 17 ॥
एकमेव द्रव्यम् आश्रयो यस्य तदेकद्रव्यम्, न विद्यते गुणोऽस्मिन्नित्यगुणम्, संयोगविभागेष्वनपेक्षकारणमिति स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षमित्यर्थः। तेन समवायिकारणापेक्षायां पूर्वसंयोगाभावापेक्षायाञ्च नासिद्धत्वम्। स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितम् पूर्वसंयोगध्वंसस्यापि स्वोत्पत्त्यनन्तरानुत्पत्तिक्तत्वात्, अभावत्वेन तस्याद्यक्षणसम्बन्धाभावात्। नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं कर्मत्वम्, चलतीतिप्रत्ययासाधारणकारणतावच्छेदकजातिमत्त्वं वा, गुणान्यनिर्गुणात्रवृत्तिजातिमत्त्वं वा, स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजातिमत्त्वं वा। स चायं चलतीतिप्रत्ययसाक्षिकः पदार्थो नाविरलदेशोत्पादनादिनोपपाद्यः, क्षणभङ्गस्याग्रे निराकरिष्यमाणत्वात्। लक्षणस्य इतरभेदसाधकताप्रकारः पूर्वोक्त एव ॥ 17 ॥
<1-1-17>
<1-1-18>
इदानीं कारणमुखेन त्रयाणामेव साधर्म्यप्रकरणमुपक्रमते–
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् ॥ 18 ॥
समानमेव सामान्यम् एकमित्यर्थः, अनयोः समाना मातेतिवत्। एकस्मिन्नेव द्रव्ये समवायिकारणे द्रव्यगुणकर्माणि वर्त्तन्ते इत्यर्थः। द्रव्यसमवायिकारणकवृत्तिजातिमत्त्वं त्रयाणां साधर्म्यम् ॥ 18 ॥
</1-1-18>
<1-1-19>
गुणासमवायिकारणकत्वं त्रयाणां साधर्म्यमाह–
तथा गुणः ॥ 19 ॥
गुणासमवायिकारणकवृत्तिजातिमत्त्वं त्रितयसाधर्म्यम्। द्रव्याणां संयोगोऽसमवायिकारणम्, कार्य्यगुणानां रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वादीनां सजातीयकारणगुणासमवायिकारणकत्वम्, बुद्ध्यादीनामात्मगुणानां मनःसंयोगासमवायिकारणकत्वम्। पार्थिवपरमाणुगुणानामग्निसंयोगासमवायिकारणकत्वम्। कर्मणान्तु वह्न्यादिनोदनाभिधातगुरुत्वद्रवत्वसंस्कारादृष्टवदात्मसंयोगप्रयत्नवदात्मसंयोगाद्यसमवायिकारणकत्वं यथायथं स्वयमूहनोयम्। क्वचिदेकस्यापि गुणस्य त्रयाणां द्रव्यगुणकर्मणामारम्भकत्वम्। तद्यथा वेगवत्तूलपिण्डसंयोगस्तूलपिण्डान्तरे कर्म करोति द्वितूलकञ्च द्रव्यमारभते तत्परिमाणञ्च। क्वचिदेको गुणो द्रव्यगुणावारभते यथा तूलपिण्डसंयोग एव वेगानपेक्षप्रचयाख्यो द्वितूलकं द्रव्यं तत्परिमाणञ्चारभते ॥ 19 ॥
</1-1-19>
<1-1-20>
क्वचिदेकस्य कर्मणोऽनेककार्य्यकारित्वमाह–
संयोगविभागवेगानां कर्म समानम् ॥ 20 ॥
कारणमित्यनुषङ्गः। यत्र द्रव्ये कर्मोत्पन्नं तेन समं यावद्द्रव्यं संयुक्तमासीत् तावत्सङ्ख्याकान् विभागान् जनयित्वा तावतः संयोगानपि पुनरन्यत्र जनयति, वेगं पुनरेकमेव स्वाश्रयं करोति वेगपदं स्थितिस्थापकमप्युपलक्षयति ॥ 20 ॥
</1-1-20>
<1-1-21>
ननु क्रियावता द्रव्येणारम्भकसंयोगे जनिते तेन च द्रव्यमारब्धं यत्तदपि कर्मजन्यमेव कर्मणस्तत्पूर्ववर्त्तित्वादत आह–
न द्रव्याणां कर्म ॥ 21 ॥
कर्म द्रव्याणां न कारणमित्यर्थः ॥ 21 ॥
</1-1-21>
<1-1-22>
कुत एवमत आह–
व्यतिरेकात् ॥ 22 ॥
व्यतिरेकादिति। निवृत्तेरित्यर्थः। उत्तरसंयोगेन कर्मणि निवृत्ते द्रव्यमुत्पद्यते इति न कर्मणो द्रव्यकारणत्वं विनश्यदवस्थञ्च कर्म न द्रव्यकारणम्। किञ्च कर्म द्रव्यस्यासमवायिकारणं वा भवेन्निमित्तकारणं वा? न तावदाद्यः द्रव्यस्यासमवायिकारणनाशनाश्यत्वेन अवयवकर्मनाशादेव द्रव्यनाशापत्तेः। न द्वितीयः महापटनाशेऽवस्थितसंयोगेभ्य एव खण्डपटोत्पत्तौ निष्कर्मणामेवावयवानां द्रव्यारम्भदर्शनाद्व्यभिचारात् ॥ 22 ॥
</1-1-22>
<1-1-23>
बहूनामेकस्यारम्भकत्वमुक्त्वा इदानीमेकस्मिन् कार्य्ये बहूनामारम्भकत्वमाह–
द्रव्याणां द्रव्यं कार्य्य सामान्यम् ॥ 23 ॥
द्रव्ये च द्रव्याणि चेति द्रव्याणि तेषां द्रव्याणाम्। तत्र द्वाभ्यां तन्तुभ्यां द्वितन्तुकः पटो बहुभिरपि तन्तुभिरेकः पट आरभ्यते नन्वेकतन्तुकोऽपि पटो दृश्यते यत्रैकेनैव तन्तुना तानप्रतितन्त्रौ भवत इति चेन्न तत्रैकस्य संयोगाभावेनासमवायिकारणाभावात् पटानुत्पत्तेः। न चाशुकतन्तुसंयोगोऽसमवायिकारणम् अवयवावयविनोरयुतसिद्धत्वेन संयोगाभावात् आरभ्यारम्भकभावानभ्युपगमात्, मूर्त्तानां समानदेशताविरोधात्। दृश्यते तावदेवमिति चेन्न तत्र वेमाद्यभिघातेन महावयविनस्तन्तोर्नाशात् खण्डावयविनानातन्तूत्पत्तौ तेषामन्योन्यसंयोगात् पटोत्पत्तेः, वस्तुगत्या तत्र नानाभूतेषु तन्तुषू एकत्वाभिमानात् ॥ 23 ॥
</1-1-23>
<1-1-24>
ननु यथा द्रव्याणां द्रव्यं कार्य्यं गुणानाञ्च गुणस्तथा किं कर्मणामपि कर्म कार्य्यमित्यत आह–
गुणवैधर्म्यान्न कर्मणां कर्म ॥ 24 ॥
कार्य्यमिति शेषः। द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यमुक्तम्। तत्र कर्म कर्मसाध्यं न विद्यते इति सूत्रेण कर्मणआं कर्मजनकत्वं प्रतिषिद्धमेव तदिहानूद्यते इति भावः ॥ 24 ॥
</1-1-24>
<1-1-25>
इदानीं व्यासड्यवृत्तीनां गुणानाम् अनेकद्रव्यारभ्यत्वं दर्शयन्नाह–
द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च ॥ 25 ॥
अनेकद्रव्यारभ्या इति शेषः। द्वित्वादिसमभिव्याहृतं पुथक्त्वपदमपि द्विपृथक्त्वादिपरम्। एवञ्च द्वित्वादिकाः परार्धपर्य्यन्ताः सङ्ख्या द्विपृथक्त्वादीनि च संयोगा विभागाश्च द्वाभ्यां बहुभिश्चैव द्रव्यैरारभ्यन्ते इत्यनेकवृत्तित्वममीषाम्। तच्च समवाय्यन्योन्याभावसामानाधिकरण्यम् ॥ 25 ॥
</1-1-25>
<1-1-26>
नन्ववयविद्रव्याणां गुणानाञ्चोक्तानां यथाव्यासज्यवृत्तित्वं तथा कर्मणामपि किं न स्यादत आह–
असमवायात् सामान्यकार्यं कर्म न विद्यते ॥ 26 ॥
असमवायादित्यत्र द्रव्ययोर्द्रव्येष्विति योज्यम्, तथा च न द्रययोरेकं कर्म समवैति न वा द्रव्येष्वेकं कर्म समवैति, तेन सामान्यस्य समुदायस्य कार्यं कर्म न विद्यते। अत्रापि विदिर्ज्ञानार्थो न सत्तावचनः। यदि कर्म व्यासज्यवृत्ति स्यात् एकस्मिन् द्रव्ये चलति द्वयोर्द्रव्ययोर्बहुषु च द्रव्येषू चलतीति प्रत्ययः स्यात्, न चैतत् तस्मान्न कर्म व्यासज्यवृत्तीत्यर्थः। ननु शरीरतदवयवानां कर्म शरीरतदवयवैर्बहुभिरारभ्यत एव कथमन्यथा शरीरे चलति करचरणादावपि चलतीति-प्रत्ययः एवमन्यात्राप्यवयविनोति चेन्न अवयविकर्मसामग्न्या अवयवकर्मसामग्रोव्याप्तत्वात् तथोपलब्धेः, न तु वैपरीत्यं, न ह्यवयतवे चलति सर्वत्रावयविनि चलतीति प्रत्ययः, अन्यथा कारणाकारणसंयोगात् कार्य्याकार्यसंयोगोऽपि न स्यात् कारणकर्मणव कार्यस्यापि संयोगोपपत्तेः ॥ 26 ॥
</1-1-26>
<1-1-27>
पुनर्बहूनामेकं कार्यमाह
संयोगानां द्रव्यम् ॥ 27 ॥
बहूनां संयोगानां द्रव्यमेकं कार्य्यमित्यर्थः। निःस्पर्शानां द्रव्याणआम् अन्त्यावयविनां विजातीयद्रव्याणाञ्च ये संयोगास्तान् विहायेति द्रष्टव्यम् ॥ 27 ॥
</1-1-27>
<1-1-28>
इदानीं बहूनां गुणानामेकं गुणकार्य्यमाह–
रूपाणां रूपम् ॥ 28 ॥
रूपमेकं कार्यमित्यन्वयः। रूपपदमुभयमपि लाक्षणिकम्, अजहत्स्वार्था चेयं लक्षणा। कारणैकार्थसमवायप्रत्यासत्त्या जन्यजनकभावाश्रयत्वञ्च शक्यलक्ष्यसाधारणो धर्मस्तेन रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वैकत्वैकपृथक्त्वानि संगृह्यन्ते। एते हि कारणे वर्त्तमानाः कार्येषु समानजातीयमेकमेव गुणमारभन्ते। द्विधा ह्यसमवायिकारणानाङ्गतिः। केचित् कारणैकार्थप्रत्यासत्त्या जनयन्ति, कारणमिह समवायिकारणं तच्च जन्यस्य रूपादिलक्षणस्य कार्यस्य तेन रूपादिलक्षणस्य यत् समवायिकारणं घटादि तेन सह कपाले वर्तमानं रूपं कारणैकार्थसमवायेन घटरूपमारभते, एवं रसाद्यपि। क्वचित्तु कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणत्वम् यथा कारणमपि शब्दो नभसि कार्यमपि शब्दान्तरमारभते, नभस्येव रूपाद्यपि पार्थिवपरमाणावग्निसंयोगेन कार्यैकार्थसमवायप्रत्यासत्त्या जन्यते ॥ 28 ॥
</1-1-28>
<1-1-29>
एकस्य कर्मणोऽनेककार्यत्वमाह–
गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् ॥ 29 ॥
उत्क्षेपणमेकं कार्यममीषामित्यर्थः। अत्र गुरुत्वस्य हस्तलोष्ठादिवर्त्तिनो निमित्तकारणत्वम्, प्रयत्नवदात्मसंयोगस्यासमवायिकारणत्वं हस्तनिष्ठोत्क्षेपणस्य, लोष्ठनिष्ठोत्क्षेपणस्य तु हस्तनोदनमसमसमवायिकारणम्। अत्राप्युत्क्षे पणपदमवक्षेपणादावपि लाक्षणिकम् ॥ 29 ॥
</1-1-29>
<1-1-30>
ननु मूर्त्तगुणानां कार्याणां कारणगुणपूर्वकत्वं स्वाश्रयगुणपूर्वकत्वञ्चोक्तम्, द्रव्यकर्मणोश्च न कर्म कारणमित्युक्तम् तथाच कर्मणः किमपि न कार्य्यमित्यायातम्, तथाचातोन्द्रियाणां सूर्य्यादिगतीनाम् अनुमानमपि दुर्लभं लिङ्गाभावात् अतः संयोगाविभागवेगानां कर्मेति सूत्रोक्तमेव स्मारयन्नाह–
संयोगविभागाश्च कर्मणाम् ॥ 30 ॥
जन्या इति शेषः। व्यक्त्यभिप्रायेण बहुवचनं संस्कारोऽप्युपलक्षणीयः ॥ 30 ॥
</1-1-30>
<1-1-31>
ननु द्रव्यकर्मणी न कर्मकार्ये इति पूर्वमुक्तम्, संयोगविभागौ तु संयोगविभागकार्य्यावेव तथाचेदानीं कर्मणः कारणत्वाभिधानं विरुद्धमित्यत आह–
कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् ॥ 31 ॥
कारणसामान्यपदेन तत्प्रकरणमुपलक्ष्यते तेन कारणसामान्याभिधानमकरणे द्रव्यकर्मणो प्रति कर्मणोऽकारणत्वमुक्तं न तु सर्वथाप्यकारणमेव कर्मेति विवक्षितम्। येन `संयोगविभागाश्च कर्मणामिति’ सूत्रं व्याहन्येतेति भावः ॥ 31 ॥
इति शाङ्करे वैशेषिकसूत्रोपस्कारे प्रथमाध्यायस्य
प्रथमाह्निकम्।
</1-1-31>
प्रथमाध्याये द्वितीयाह्निकम्
<1-2-1>
नन्वनेन प्रघट्टकेन द्रव्यादीनां त्रयाणां पदार्थानां कार्यैकत्वघटितं कारणैकत्वघटितञ्च साधर्म्यमुक्तम्, तच्चानुपपन्नं कार्यकारणभावस्यैवासिद्धेरित्यत आह–
कारणाभावात्कार्याभावः ॥ 1 ॥
दृश्यते हि मृच्चक्रसलिलकुलालसूत्रादौ समवहितेऽपि दण्डाभावाद् घटाभावः, भूसलिलादौ समवहितेऽपि वीजाभावादङ्कराभावः, स च दण्डघटयोर्बीजाङ्कुरयोर्वा कार्यकारणभावमन्तरेणानुपपन्नः। अन्यथा वेमाद्यभावेऽपि घटाभावः शिलाशकलाद्यभावेऽप्यङ्कुराभावः स्यात्। किञ्च घटपटादीनां कादाचित्कत्वमनुभूयते तदपि हेतुफलभावमन्तरेणानुपपन्नम्, नहि किञ्चित्कालासत्त्वे सति किञ्चित्कालसत्त्वरूपं कादाचित्कत्वं भावानां कारणापेक्षामन्तरेण सम्भवति तदा हि स्यादेव न स्यादेव वा नतु कदाचित् स्यात् न हि भावो न भवत्येव नाप्यहेतोर्भवति नाप्यकस्मादेव भवति, न वा निरुपाख्यादेव शशविषाणादेर्भवति, किन्तु दण्डवेमादेः सोपाख्यस्यावधेर्घटपटादौ कार्ये दर्शनात् अवधिस्तु कारणमेव। एवं कार्यकारणभावाभावे प्रवृत्तिनिवृत्ती न स्याताम् तथा च निरीहं जगज्जायेत न हीष्टसाधनताज्ञानमन्तरेण प्रवृत्तिरनिष्टसाधनताज्ञानमन्तरेण निवृत्तिः ॥ 1 ॥
</1-2-1>
<1-2-2>
ननु सदेवोत्पद्यते नासत् “सदेव सौम्येदमग्र आसीत्” इत्यादिश्रुतिप्रामाण्यात् अन्यथाऽसत्त्वाविशेषे तन्तुभ्य एव पटो न कपालेभ्य इति नियमो न स्यादिति चेत् परिणामवादिभिरपि स्वीकृतकारणकैरयं नियमोऽभ्युपगन्तव्य एव, अन्यथा घटाभिव्यक्तिः कपालेष्वेव न तन्तुष्विति कथं स्यात्। किञ्च यद्यभिव्यक्तिरपि पूर्वमासीदेव तदा तस्या अपि नित्यत्वे आविर्भावतिरोभावाधेवोत्पादविनाशाविति रिक्तं वचः। अथाविर्भावतिरोभावौ कारणापेक्षौ, तदा घटपटादीनामपि कारणापेक्षैवासतामप्युत्पत्तिरित्यायातम्। यत्तु कारणं प्रति नियमानुपपत्तिरित्युक्तम्, तत्र स्वभावनियमेनैवोत्तरम्। स च स्वभावनियमोऽन्वयव्यतिरेकावगम्यो भवति, भवति हि दण्डमन्तरेण न घटो दण्डे सति घट इति सर्वसाक्षिकोऽनुभवः। एवञ्वानन्यथासिद्धनियतपूर्ववर्त्तिजातीयत्वं सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वा कारणत्वम्। यद्यपि “यवैर्यजेत व्रीहिभिर्वा” इत्यादौ नियतपूर्ववर्त्तित्वं नास्ति न हि यवकरणकयागनिष्पाद्ये फले व्रीहिकरणकयागस्य पूर्ववर्त्तित्वम् तथापि विकल्पितं विहितकारणं कारणमेव, फलैकजात्येऽपि द्वयोः कारणत्वोपपत्तेः। तथा च सहकारिवैकल्यप्रयुक्तकार्य्याभाववत्त्वं लोकवेदसाधारणी कारणता, नियतपूर्ववर्त्तित्वन्तु अन्वयव्यतिरेकगम्या कारणता लौकिकी, नहि “स्वर्गकामो यजेत” इत्यादौ व्यतिरेकभागोऽपि विषयः प्रवृत्तेरन्वयमात्रज्ञानादेवोपपत्तेः, अत एव “विकल्पे उभयमशास्त्रार्थः” इत्यपि घटते, तज्जातीयस्य फलस्य एकेनैवोपपत्तेरपरानुष्ठानवैयर्थ्यात्। अत एव “श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावनियमः” इत्यप्युचितम् “आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाय” इत्याचार्याभिधानमृज्वर्थतात्पर्य्यकमेव। तृणारणिमणिस्थले तु कार्यवैजात्यमावश्यकं तत्रान्वयव्यतिरेकगम्यत्वात् कारणताया व्यतिरेकाद्व्यतिरेकस्यावश्यकत्वात्। विकल्पस्थले तु फलवैजात्यकल्पने राजसूयवाजपेयादावपि वैकल्पिको कारणता स्यादिति कार्यकारणभावनियममेवोपपादयन्नाह–
न तु कार्याभावात् कारणाभावः ॥ 2 ॥
यदि कार्यकारणभावनियमो न भवति तदा कार्याभावादपि कारणाभावः स्यात्। कार्याभावः कारणाभावं प्रत्यतन्त्रं कारणाभावस्तु कार्याभावं प्रति तन्त्रम्, तेन दुःखाभावार्थं जन्माभावे, जन्माभावार्थं प्रवृत्त्यभावे, तदर्थञ्च दोषाभावे, तदर्थं मिथ्याज्ञाननिवृत्तये, तदर्थञ्चात्मसाक्षात्काराय मुमुक्षूणां प्रवृत्तिः प्रयोजनमौपोद्घातिकस्याप्यस्य द्विसूत्रकप्रकरणस्य ॥ 2 ॥
</1-2-2>
<1-2-3>
पदार्थत्रयोद्देशलक्षणानन्तरमिदानीमुद्दिष्टस्य सामान्यपदार्थस्य लक्षणमाह–
सामान्यं विशेष इति बुद्ध्यपेक्षम् ॥ 3 ॥
सामान्यं द्विविधं परमपरञ्च। तत्र परं सत्ता अपरं सत्ताव्याप्यं द्रव्यत्वादि। तत्र सामान्यस्य तद्विशेषस्य च लक्षणं बुद्धिरेव। अनुवृत्तबुद्धिः सामान्यस्य व्यावृत्तबुद्धिर्विशेषस्य। इतिना द्वयमवच्छिद्य परामृश्यते तेन बुद्ध्यपेक्षमिति नपुंसकनिर्देशः। वृत्तिकारस्तु विशेषान्वयमाह परन्तु “नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्” इत्यनेनैकवद्भावो नपुंसकता चेत्याह–बुद्धिरपेक्षा लिङ्गं लक्षणं वा यस्य तद्बुद्ध्यपेक्षम्। तत्र नित्यमनेकव्यक्तिवृत्ति मामान्यम्, नित्यत्वे सति स्वाश्रयान्योन्याभावसामानाधिकरण्यं वा। परमपि सामान्यमपरमपि तथाऽपरन्तु सामान्यं विशेषसंज्ञामपि लभते यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो नेदं कर्मेति विशेषप्रत्ययः तथा च द्रव्यत्वादीनं सामान्यानामेव विशेषत्वम्।
ननु विधिरूपं सामान्यं नास्त्येव अनुगतमतेरतद्व्यावृत्त्यैवोपपत्तेः भवति हि गौरवमिति प्रतीतेरगोव्यावृत्तोऽयमिति विषयः जातिवादिनाऽपि गोत्वादिविशिष्टप्रत्ययस्य तद्विषयत्वाभ्युपगमात् न हि वैशिष्ट्यमतद्व्यावृत्तेरन्यत्, गवादिपदप्रवृत्तिनिमित्तेप्यगोव्यावृत्त्यादिरेव। किञ्च गोत्वं कुत्र वर्त्तते न तावद् गवि गोत्ववृत्तेः पूर्वं तस्याभावात्, नाप्यगवि विरोधात्, यत्र गोपिण्ड उत्पद्यते तत्र कुत आगत्य गोत्वं वर्त्तते, न तावत् तत्रैवासीत् देशस्यापि तस्य गोत्वापत्तेः। नापि गोत्वमपि तदानीमेवोत्पन्नं नित्यत्वाभ्युपगमात्, नाप्यन्यत आगतं निष्क्रियत्वाभ्युपगम्मत्, न च एक्सयैव नित्यस्य नानाव्यक्तिवृत्तित्वं कार्त्स्नैकदेशविकल्पानुपपत्तेः। न हि कृत्स्नमेकत्रैव वर्तते अन्यत्र तद्विशिष्टप्रत्ययानुदयप्रसङ्गात्। नाप्येकदेशेन, जातेरेकदेशस्याभावात्। तदुक्तं–
न याति न च तत्रासीन्नचोत्पन्नं न चांशवत्।
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ॥ इति॥
सामान्यमस्ति तच्च संस्थानमात्रव्यङ्ग्यं गोत्वघटत्वादिवत् न तु गुणकर्मगतमपीति सगोत्रकलहः।
अत्रोच्यते सामान्यं नित्यं व्यापकञ्च व्यापकत्वमपि स्वरूपतः सवैदेशसम्बद्धत्वम्। न देशानां गोव्यवहारापत्तिः समवायेन तद्व्यवहारस्याब्युपगमात् काले रूपादिमत्त्वेऽपि कालो रूपवानित्यप्रतीतिव्यवहारवत्। न च कालो नास्त्येव पञ्चस्कन्धसंज्ञाभेदमात्रमित्यभ्युपगमादिति वाच्यम् कालस्य साधयिष्यमाणत्वात्। तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्वं तेन सम्बध्यते जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात्। एतेन कीदृश्याश्रये वर्त्तते इत्यत्र यत्र प्रतीयते इत्युत्तरम्। कुत्र प्रतीयते इत्यत्र यत्र वर्तते इत्युत्तरम्। गात्ववृत्तेः पूर्व स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम्। एवञ्च “न वाति न च तत्रासीत्” इत्यादिकं परिदेवनमात्रम्। अतद्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिमुखः प्रत्यय एव बाधकः। न ह्यनुभवोऽपि व्याख्यायते तदुक्तम्–
विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थकः” इति।
न हि गोरयमिति प्रत्ययेऽगोव्यावृत्तिरपि भासते। काऽर्त्स्नैकदेशविकल्पस्तदा भवेत् यद्येकस्य सामान्यस्य कार्त्स्नं भवेदेकदेशो वा। कृर्त्स्नता ह्यनेकाशेषता सा चैकस्मिन्नोपपन्ना। गौरयमित्याद्यनुभव एवासद्विषया न वस्तुव्यवस्थापनक्षम इति। अत्रोत्तरं वक्ष्यते।
प्राभाकरास्तु संस्थानमात्रव्यङ्ग्यं सामान्यमाचक्षते। तद्यद्यनुगतप्रतीतिसाक्षिकं तदा किमपराद्धं गुणकर्मगतैः सामान्यैः भवति हि रूपरसादावनुगतधीः सा च जातिव्यवस्थापिकैव बाधकाभावात्। रूपत्वादिजातिपु न तावद्व्यक्त्यभेदो बाधकः आकाशत्वादिवत्, रूपसादिव्यक्तीनामनेकत्वात्। नापि बुद्धित्वज्ञानत्वादिवत् घटत्वकलसत्वादिवद्वा तुल्यत्वं बाधकम्। तच्चान्यूनानतिरिक्तव्यक्तिकत्वम् गुणत्वापेक्षया न्यूनव्यक्तिकत्वात् नीलत्वाद्यपेक्षया चाधिकव्यक्तिकत्वात्। अत एव न सङ्करः भूतत्वमूर्त्तत्ववत्, परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्तरेण सामानाधिकरण्याभावात्। नाप्यनवस्था रूपत्वदिगतसामान्यान्तरानभ्युपगमात्। नापि रूपहानिर्विशेषत्ववत्, यदि विशेषाः द्रव्याश्रितत्वे सति जातिमन्तः स्युः गुणाः कर्माणि वा स्युः विभुवृत्तित्वे सति यदि जातिमन्तः स्युर्गुणाः स्युरिति यथा विशेषपदार्थस्वरूपहानिस्तथा प्रकृतेऽभावात्। नापि समवायत्ववदसम्बन्धः समवाये समवायाभ्युपगमेऽनवस्थाभयात्तथास्तु, प्रकृते तु समवायस्यैव सम्बन्धस्याभ्युपगमात्। यद्यपि समवायत्वजातिबाधको व्यक्त्यभेद एव तथापि यन्मते उत्पादविनाशशीलाः बहवः समवायास्तन्मतं द्रष्टव्यम्। अभावत्वादिजात्यभ्युपगमे वा बाधकमेतत्। विवादपदमनुगतबुद्धिः अनुगतनिमित्तसाध्या अबाधितानुगतमतित्वात् दामकुसुमबुद्धिवत् इति जातौ मानमिति वृत्तिकारास्तच्चिन्त्यम् ॥ 3 ॥
</1-2-3>
<1-2-4>
सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह–
भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव ॥ 4 ॥
भावः सत्ता अनुवृत्तेरेव हेतुः न तु व्यावृत्तेरपि हेतुः! तथा च विशेषसंज्ञां न लभते ॥ 4 ॥
</1-2-4>
</1-2-5>
केषां सामान्यानां विशेषसंज्ञेत्यपेक्षायामाह–
द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च ॥ 5 ॥
चकारः पृथिवीत्वादीनि-द्रव्यरातजातीः, रूपत्वादीनि-गुणगतजातीः उत्क्षेपणत्वादोनि-कर्मगतजातीः समुच्चिनोति। द्रव्यत्वमित्यादावसमासः परस्परं व्याप्यव्यापकभावाभावसूचनार्थः। सामान्यानि विशेषाश्चेत्यत्राऽसमासः सामान्यत्वे सत्येव विशेषत्वं यथा ज्ञायेत तदर्थम्, अन्यथा सामान्यविशेषा इति षष्ठीसमासभ्रमः स्यात्, तथा च सामान्यत्वे सति विशेषत्वं न प्रतीयेत। ननु द्रव्याकारानुगतमतिसाक्षिकं न द्रव्यत्वम्, पृथिव्यादौ कथञ्चित् तत्-सत्त्वेऽपि वाय्वाकाशादौ तदसम्भवात्। न च गुणत्वावच्छिन्नकार्य्यसमवायिकारणतावच्छेदकतया तत्सिद्धिः नित्यानित्यवृत्तितया गुणत्वस्य कार्य्यतानवच्छेदकत्वात्, गुणत्वार्थमपि पर्यनुयोगस्य तादवस्थ्यात्। मैवम् संयोगत्वावच्छिन्नकार्यसमवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः। सा हि न पृथिवीत्वाद्यवच्छेद्या न्यूनवृत्तित्वात्, नापि सत्तावच्छेद्याऽधिकवृत्तित्वात् अवश्यं ह्यवच्छेदकेन भवितव्यम्, अन्यथाकस्मिकतावत्तेः। तत्रपरमाणुषु द्व्यणुकासमवायिकारणवत्तया द्व्यणुकेषु त्र्यणुकासमवायिकारणवत्तया विभुचतुष्टयस्य सर्वमूर्त्तसंयोगितयैव सिद्धेः नभसि इन्द्रियमनःसंयोगाधारतया वायौ तृणादिनादनाश्रयतया प्रत्यक्षद्रव्येषु प्रत्यक्षतयैव संयोगाभ्युपगमस्यावश्यकत्वात्। अजस्तु संयोगो नास्त्येव येन संयोगत्वस्यापि कार्य्याकार्यवृत्तितया कार्यतावच्छेदकता न म्यात्। एव विभागसमवायिकारणतावच्छेदकतयाऽपि द्रव्यत्वसिद्धेः सुप्रतिपदत्वात्।
गुणत्वन्तु संयोगविभाग समवायिकारणत्वासमवायिकारणत्वशून्ये मामान्यवति यत् कारणत्वं तदवच्छेदकतयैव सिद्धमित्युक्तत्वात्। कर्मत्वमपि प्रत्यक्षद्रव्येषु चलतीति प्रत्ययसाक्षिकम्। अन्यत्र तु संयोगविभागानुमेयम संयोगविभागोभयासमवायिकारणतावच्छेदकतयाऽपि कर्मत्वसिद्धेरावश्यकत्वात्। अत एवादित्यस्य देशान्तरप्राप्त्या गत्यनुमानम्, तत्र च देशान्तरस्याकाशादेरतीन्द्रियत्वेऽपि तत्किरणसंयोगविभागयोस्तन्मण्डलेन प्रत्यक्षत्वात् तत एव गत्यनुमानम्। देशान्तरप्राप्तिमान् आदित्यः अविनाशित्वे द्रव्यत्वे च सति प्राङ्मुखोपलब्धस्य प्रत्यङ्मुखेन तेनैवोपलभ्यतया प्रत्यभिज्ञायमानत्वादिति देशान्तर प्राप्त्या अनुभितया आदित्यगत्यनुमानमित्युद्द्योतकराचार्याः ॥ 5 ॥
</1-2-5>
<1-2-6>
ननु य एव विशेषपदार्थ उद्दिष्टः स एवं किं सामान्यविशेषत्वेनाभिधीयते इति शिष्याकाङ्क्षामपनयन्नाह–
अन्यत्रान्त्येभ्यो विशेषेभ्यः ॥ 6 ॥
अन्त्या विशेषा नित्यद्रव्यवृत्तयो येऽभिहिताः तान् वर्जयित्वा सामान्यविशेषाभिधानमित्यर्थः। अन्तेऽवसाने भवन्तीत्यन्त्या, यतो न व्यावर्त्तकान्तरमस्तीत्याचार्य्याः। उत्पादविनाशयोरन्तेऽवसाने भवन्तीत्यन्त्या नित्यद्रव्याणि तेषु भवन्तीत्यन्त्या विशेषा इति वृत्तिकृतः। ते हि विशेषा एव त्र्यावृत्तिबुद्धिहेतवो न तु सामान्यरूपा अपीति ॥ 6 ॥
</1-2-6>
<1-2-7>
सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाह–
सदिति यतोद्रव्यगुणकर्मसु सा सत्ता ॥ 7 ॥
इतिकारेण यतो प्रत्ययव्यवहारयोः प्रकारमुपदिशति। तथा च द्रव्यादिषु त्रिषु सत्सदिति-प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारकः शब्दप्रयोगो वा यदधीनः सा सत्ता ॥ 7 ॥
</1-2-7>
<1-2-8>
ननु द्रव्यगुणकर्मभ्यः पृथग्बावेन सत्ता नानुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता यतो हि यद् भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह–
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ॥ 8 ॥
द्रव्यादयोऽननुगताः सत्ता चानुगता। तथा च अनुगतत्वाननुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात्। यत्तु तेभ्योःऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् घटपटयोस्तु युतसिद्धिः। न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात्। स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अननुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वादिभिरपि गतम्। अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्व्यवहारोपपत्तौ किं सत्तयेत्यपास्तम्। अत एवार्थक्रयिकारित्वं वा प्रामाणिकत्वं सत्त्वमित्ययुक्तं तदननुसन्धानेऽपि सन् इति प्रत्ययात् ॥ 8 ॥
</1-2-8>
<1-2-9>
भेदकान्तरमाह–
गुणकर्मसु च भावान्न कर्म न गणः ॥ 9 ॥
न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाभिधानं न द्रव्यमित्यपि सूचयति। न हि कर्म कर्मसु वर्त्तते न वा गुणो गुणेषु न वा द्रव्यं गुणे कर्मणि वा, सत्ता तु गुणेकर्मणि च वर्त्तते तेन द्रव्यगुणकर्मवैधर्म्यात्तेभ्यो भिन्नैव सत्ता ॥ 9 ॥
</1-2-9>
<1-2-10>
भेदकान्तरमाह–
सामान्यविशेषाभावेन च ॥ 10 ॥
यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात्। न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाञ्चिदनुभवः ॥ 10 ॥
</1-2-10>
<1-2-11>
एवं सत्ताया द्रव्यगुणकर्मभ्योऽर्थान्तरत्वमभिधाय द्रव्यत्वस्य तेभ्योऽर्थोन्तरत्वमाह–
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ॥ 11 ॥
अनेकं द्रव्यं समवायितया यस्यास्ति तदनेकद्रव्यवत्। अनेकपदमिह सर्वपरं तेन पृथिवीत्वादिभ्यो भेदः, नित्यत्वन्तु सामान्यलक्षणप्राप्तमेव तेनावयविभ्यो भेदः, अनेकद्रव्यवत्त्वञ्च अनेकद्रव्यमात्रसमवेतत्वं तेन सत्ताया भेदः। तेन नित्यमनेकद्रव्यमात्रसमवेतं द्रव्यत्वम्, अजः संयोगो नेष्यत इत्युक्तम्। द्रव्यत्वञ्च साधितमेव। द्रव्यत्वमुक्तमिति। द्रव्यत्वमपि सत्तावदेव व्याख्यातमित्यर्थः ॥ 11 ॥
</1-2-11>
<1-2-12>
ननु द्रव्यत्वमपि जातिः स्याश्रयादभिन्नमेव स्यात् को दोष इत्यत आह–
सामान्यविशेषाभावेन च ॥ 12 ॥
यदि द्रव्यत्वं जातिर्द्रव्याद्यात्मिकैव स्यात् तदा तस्यां पृथिवोत्वजलत्वतेजस्त्वादयः सामान्यविशेषाः स्युरित्यर्थः। न हि भवति द्रव्यत्वं पृथिवी जलं तेजो वेति केषाञ्चित् प्रत्यय इत्यर्थः ॥ 12 ॥
</1-2-12>
<1-2-13>
गुणत्वमाह–
तथा गुणेषु भावाद् गुणत्वमुक्तम् ॥ 13 ॥
गुणेष्वेव भावात् समवायात् गुणत्वं द्रव्यगुणकर्मभ्यो भिन्नं सत्तावदेवोक्तमित्यर्थः ॥ 13 ॥
</1-2-13>
<1-2-14>
भेदकान्तरमाह–
सासान्यविशेषाभावेन च ॥ 14 ॥
यदि द्रव्यगुणकर्मभ्यो गुणत्वमतिरिक्तं न भवेत्तदा द्रव्यत्वगुणत्वकर्मत्वं तदवान्तरजातिमत्तया उपलभ्येतेत्यर्थः ॥ 14 ॥
</1-2-14>
<1-2-15>
द्रव्यगुणकर्मभ्यो भेदकं कर्मत्वस्याह–
कर्मसु भावात् कर्मत्वमुक्तम् ॥ 15 ॥
कर्मस्वेव भावात् समवायात् कर्मत्वमपि जात्यन्तरं द्रव्यगुणकर्मभ्यो भिन्नमुक्तं सत्तावदित्यर्थः ॥ 15 ॥
</1-2-15>
<1-2-16>
भेदकान्तरमाह–
सामान्यविशेषाभावेन च ॥ 16 ॥
कर्मत्वं यदि द्रव्याद्यात्मकं भवेत्तदा द्रव्यत्वादिसामान्यविशेषस्तत्र समवेयादित्यर्थः। सेयमेकाकारा चतुःसूत्रो सत्ताद्रव्यत्वगुणत्वकर्मत्वानां चतसृणां जातीनां द्रव्यगुणकर्मभेदप्रतिपादनाय एकप्रकरणेनोक्तेत्यवधेयम् ॥ 16 ॥
</1-2-16>
<1-2-17>
ननु सत्ता द्रव्यगुणकर्मसु वर्त्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न स्यादत आह–
सदितिलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः ॥ 17 ॥
सदित्याकारकं ज्ञानं शब्दप्रयोगो वा सत्ताया लिङ्गम्। तच्च द्रव्यगुणकर्मसु समानमविशिष्टम्। तेन भावः सत्ता एकैव तेषु वर्त्तते अन्यथा द्रव्यत्वादिभिस्तुल्यव्यक्तिकतया सत्ता वा न स्यात् तानि वा न स्युः। विशेषलिङ्गाभावाच्चेति। विशेषो भेदस्तत्र यल्लिङ्गमनुमानं तदभावाच्च न भेद इत्यर्थः। भवति हि स एवायं दीप इत्यनुगमस्तत्र यथा विशेषलिङ्गं दीर्घह्रस्वत्वादिपरिमाणभेदस्तथात्र विशेषलिङ्ग नास्तीति भावः ॥ 17 ॥
</1-2-17>
** इति श्रीभगवत्कणादसूत्रोपस्कारे शाङ्करे प्रथमाध्यायस्य द्वितीयमाह्निकम्।**
————————————————————-
** द्वितीयाध्याये प्रथमाह्निकम्**
<3-1-1>
द्वितीयाध्यायस्य प्रथमाह्निकस्य नवानां द्रव्याणां लक्षणमर्थः। तत्र पृथिव्यप्तेजसां लक्षणप्रकरणम्, ईश्वरसिद्धिप्रकरणम्, आकाशानुमानप्रकरणम्। तत्र प्रथमोद्दिष्टायाः पृथिव्या लक्षणमाह–
रूपरसगन्धस्पर्शवती पृथिवी ॥ 1 ॥
रूपं नीलपीताद्यनेकप्रकारं पृथिव्या एव, तथाच नीलरूपसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम्। एवं रसः कटुकषायाद्यनेकप्रकारकः पृथिव्यामेव, तथाच कटुरससमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम्। एवं कषायादिपदप्रक्षेपेण लक्षणान्यूहनीयानि। गन्धो द्विविधः सुरभिरसुरभिश्च, तथाच गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम् तथा गन्धसमानाधिकरण-गन्धासमानाधिकरणगुणासमानाधिकरण-जात्यधिकरणद्रव्यत्वं द्रष्टव्यम्। न च पाषाणादौ गन्धरसयोरननुभवात् तत्रात्र्यापकमिदमुभयमपीति वाच्यम् तत्रापाततो गन्धरसयोरननुभवेऽपि तदीयभस्मसु तदुपलम्भात् य एवाधयवाः पाषाणारम्भकास्त एव तद्भस्मारम्भका अपीति नाव्याप्तिः। कथ तर्हि सुरभिः समीरणः तिक्तं कारवेल्लजलमिति-प्रतीतिरिति चेन्न पाथिंवोपाधिकत्वात् तयोर्गन्धरसयोः! स्पर्शोऽप्यनुष्णाशीतः पाकजः पृथिव्यामेव तथाच पाकजस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणम्। पाकजत्वञ्च विशेषान्तरव्यङ्ग्यं पृथिवीस्पर्श एव, विशेषान्तरञ्च शिरीषलवङ्गीकुष्टुमादौ स्पर्शविशेषे स्फुटतरम् न त्वेवं जलादिस्पर्शे। यद्यप्यवयविनि पाकादग्निसंयोगात् स्पर्शादयो नजायन्ते तथापि तत्परम्पराप्रभवतया तत्रापि वैजात्यविशेषोऽनुसरणीयः।
ननु लक्षणामिदं व्यतिरेकिलिङ्गमितरभेदसाधकं व्यवहारसाधकं वा? तत्र पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् यन्नेतरभिन्नं तन्न गन्धवत् यथा जलादि, इतरभेदाभावव्यापकाभावप्रतियोगिगन्धवती चेयं, तस्मादितरभिन्ना। तत्रेतरभेदस्य साध्यस्य प्रसिद्धौ ततो हेतोर्व्यतिरेके सपक्षविपक्षव्यावृत्ततयाऽसाधारण्यम् अव्यतिरेके चान्वयित्वम्। अप्रसिद्धौ च अप्रसिद्धविशेषणः पक्षः। तथा च तत्र न सन्देहो, न वा सिषाधयिषा न वा तद्विशिष्टज्ञानरूपाऽनुमितिः। किञ्च व्यतिरेकयोर्व्याप्तिस्तथा च न व्याप्तस्य पक्षधर्मत्वं पक्षधर्मस्य न व्याप्तत्वमिति वैष म्यम्। अत एवोपनयवैयर्थ्यमपि व्याख्यायते न त्वगृहीतव्याप्तिकमपि। तदुक्तम्–
साध्याप्रसिद्धिवैंषम्यं व्यर्थतोपनयस्य च।
अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूपणम् ॥ इति।
एवं व्यवहारसाध्यकेऽपि। तत्र यद्यपि व्यवहारः पृथिवीपदवाच्यत्वम् तच्च पृथिवीत्वजातावप्यस्ति तत्र च पृथिवीत्वं द्देतुर्नास्तीत्यसाधारण्यम् तथापि पृथिवीत्वप्रवृत्तिनिमित्तकपृथिवीपदवाच्यत्वं साध्यमिति नासाधारण्यम्। यद्वा पृथिवीत्वं क्वाचित्कपदप्रवृत्तिनिमित्तं जातित्वात् घटत्ववदिति सामान्यतः सिद्धौ पृथिवीपदं पृथिवीत्वप्रवृत्तिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति साध्यम्। तथाचात्रापि साध्याप्रसिद्धिरेवेति चेत्।
मैवम् इतरेषां जलादीनाम् भेदस्य घट एव प्रसिद्धेः। वाय्वादेरतीन्द्रियस्यापि भेदस्य अन्योन्याभावस्य घटादौ प्रत्यक्षत एव सिद्धत्वात् अन्योन्याभावग्रहे अधिकरणयोग्यतामात्रस्य तन्त्रत्वात् स्तम्भः पिशाचो न भवतीत्यादौ तथा दर्शनात्। न चैवं घट एवह दृष्टान्तोऽस्तु किं व्यतिरेकिणा।
ऋजुमार्गेण सिद्ध्यन्तं को हि वक्रेण साधयेत्।
इति वाच्यम् अव्यतिरेकिलिङ्गं चेदनाभासं, तदाऽयमपि मार्गो वक्ररूचिं प्रत्यप्रतिहत एव। साध्याप्रसिद्धेर्निरासे तन्मूलकदोषाणां निरस्तत्वात्। व्यतिरेकसहचारेण अन्वयव्याप्तेरेव ग्रहात् व्यतिरेकव्याप्त्याऽन्वयव्याप्तेरनुमानाद्वा न वैषम्यम्। नचोपनयवैयर्थ्यम्, गृहीतव्याप्तेरेव हेतोः पक्षे उपसंहारात्। तदुक्तम्–
नियम्यत्वानियन्तृत्वे भावयोर्यादृशो मते।
त एव विपरीते तु विज्ञेये तदभावयोः ॥ इति।
व्यवहारस्तु गन्धवती पृथिवीत्युपदेशादेव यथा कम्बुग्रीवादिमान् घटपदवाच्य इति। तथा कुत्रचिदेव घृतादौ मृदादौ च गन्धवत्त्वेनोपलक्षणेन पृथिवीत्बे पृथिवोपदप्रवृत्तिनिमित्तत्वं येनोपदेशाद् गृहीतम्, गन्धवत् सर्वं पृथिवीत्वेन प्रवृत्तिनिमित्तेन पृथिवीपदवाच्यं गन्धवत्त्वात् यन्नैवं तन्नैवमिति व्यतिरेकी तस्याप्यवतरत्येव। ननु भेदसधकव्यतिरेकिणि भेदो वैधर्म्यं स्वरूपभेदो वा अन्योन्याभावो वा? न तावदाद्यौ प्रत्यक्षत एव तदवगमात्। न तृतीयः अभावभेदस्यापि साध्यत्वेन तदन्योन्याभावस्य तत्राभावात्, तेन सह स्वरूपभेदे साध्ये साध्याननुगमादिति चेन्न अभावप्रतियोगिकान्योन्याभावस्यापि साध्यत्वात् स यद्यतिरिक्तस्तदाऽस्त्येव न चेत् स्वरूपमादाय तत्पर्य्यवसानात्। वस्तुतो भिन्न एव तद्वैधर्म्यस्य तदन्योन्याभावव्याप्यत्वात्, न चानवस्था यावत्येवानुभवस्तावत्येवाविश्रामात् अन्यत्र त्वननुभवेनैव विश्रामात्। यत्तु त्रयोदशान्योन्याभावास्त्रयोदशसु प्रसिद्धाः मिलिताः पृथिव्यांसाध्यन्ते इति तत्तृच्छं प्रत्येकं प्रसिद्धेरतन्त्रत्वात् मिलितप्रसिद्धेरभावात् किन्तु निर्गन्धत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः साद्येत प्रतियोगितावच्छेदकभेदेनाभावभेदस्यावश्यकत्वात् स च घटादावेव प्रत्यक्षसिद्ध इत्युक्तत्वात्। आकाशादौ का गतिरिति चेत् आकाशमितरभिन्नं शब्दाश्रयत्वात् यन्नैवं तन्नैवमित्यादौ पक्षैकदेशे यद्यपि न साध्यं प्रसिद्धम् तथापि यद् यद्वैधर्म्यवत् तत् तत्प्रतियोगिकान्योन्याभाववदिति सामान्यप्रवृत्तव्याप्तिबलेन शब्दाश्रयत्वात्यन्ताभाववत्प्रतियोगिकान्योन्याभावस्य पूर्वमेव सिद्धौ केवलं पक्षनिष्ठतया इदानीं बोध्यते वह्निरिव पर्वतनुष्ठतया इत्यन्योऽस्मत्सिद्धान्तः तद्वैधर्म्यस्य तदन्योन्याभावव्याप्यत्वात्। शब्दाश्रयत्वात्यन्ताभाववत्त्वमेव विपक्षे न गृहीतमितिचेत् तर्हि शब्दाश्रयत्वस्य न लक्षणत्वं न वा लिङ्गत्वं विपक्षगामित्व शङ्काग्रस्तत्वादिति ॥ 1 ॥
</3-1-1>
<3-1-2>
पृथिव्यनन्तरमुद्दिष्टानामेषां लक्षणमाह–
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः ॥ 2 ॥
शुक्लमधुरशीता एव रूपरसस्पर्शाः द्रव्यत्वञ्च सांसिद्धिकं स्नेहस्तु स्वरूपः। ननु शुक्लमेव रूपमपामित्ययुक्तम् कालिन्दीजलादौ नैल्यस्योपलम्भात्। मधुर एव रस इत्यप्ययुक्तम् जम्बीरकरवीररसादौ आम्ल्यतैक्त्यादेरुपलम्भात्। शीत एव स्पर्श इत्यप्यनुपपन्नम् मध्यन्दिने औष्ण्यस्यैवोपलम्भात्। सांसिद्धिकञ्च द्रवत्वमव्यापकम् हिमकरकादावभावात्। स्नेहस्तु स्वरूपासिद्धोऽतिव्यापकश्च जलेऽननुभवात् घृतादौ पार्थिवेऽनुभवाच्च। न च जलत्वं जातिरेव जललक्षणम् व्यवस्थापकाभावेन तदनुपपत्तेः। न च स्नेहसमवायिकारणतावच्छेदकत्वेन तत्सिद्धिः स्नेहत्वस्य कार्य्याकार्यवृत्तितया कार्यतानवच्छेदकत्वात् तस्माद्भेदकाभावाद् जलं न भिद्यत इति, चेन्मैवम् अभास्वरशुक्लमात्ररूपस्यैव तद्भेदकत्वात् कालिन्दीजलादौ नेल्यस्याश्रयोपाधिकत्वात् वियद्विकीर्णकालिन्दीजले धावल्यस्योपलम्भात्। तेनाभास्वरशुक्लेतररूपासमानाधिकरणरूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् अपां लक्षणम्। रसोपि मधुर एव जम्बीरकवीररसाम्ल्यतैक्त्यादेः पार्थिवोपाधिकत्वात्। जले माधुर्य्यं नानभूयत एवेति चेन्न कषायद्रव्यभक्षणानन्तरं तदभिव्यक्तेः। न च हरीतक्या एव तन्माधुर्य्यं जलाभिव्यङ्ग्यम् तत्र कषायरसस्यैवोपलम्भात् हरीतक्याञ्चामलक्यामिव कषाय एव रसः तस्यैवानुभवात्। न च गुणविरोधेन तत्र रसानारम्भः। अवयवानामपि तत्र कषायरसवत्त्वात् षड्रसत्वप्रवादस्तु तत्तद्रसकार्य्यकारित्वनिबन्धनः। चित्ररसस्तु प्रमाणाभावादेव निरस्तः चित्ररूपे तु पटोपलम्भ एव प्रमाणम् सुरभ्यसुरभ्यवयवारम्भस्तु गुणविरोधनिरस्त एव चित्रगन्धे प्रमाणाभावात्। तस्माद्धरीतकीभक्षणानन्तरं यन्माधुर्य्यमपलभ्यते तत् जलस्यैव, उल्बणता तु द्रव्यविशेषसन्निधानाधीना श्रीखण्डसन्नियोगाज्जले शैत्योल्बणतेव। कर्कटीभक्षणानन्तरन्तु तिक्तता याऽनुभूयते सा कर्कट्या एव तदवयवे जलपानमन्तरेणापि तिक्ततोपलम्भात्, रसनाग्रवर्त्तिपित्तद्रव्यतिक्तताया वा तत्रानुभवात्। तथा च मधुरेतररसासमानाधिकरणरससमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वमपां लक्षणम्। एवं शीतस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमपां लक्षणम्। मध्यन्दिने तु यदौष्ण्यं तत्तेजस एव तदन्वयव्यतिरेकानुविधानात्। एवं सांसिद्धिकद्रवत्वं स्वरूपत एव लक्षणम् सांसिद्धिकद्रवत्ववद्वृत्तिद्वव्यत्वव्याप्यजातिमत्त्वं वा जलत्वम्। स्नेहस्तु गुणविशेषो न तु दुग्धत्ववत् सामान्यविशेषः स्निग्धस्निग्धतरस्निग्धतमेति तारतम्यप्रतीतेः। न च जातौ तारतम्यं सम्भवति। ननु भवतु स्नेहो गुणः स तु जले वर्तत इत्यत्र किं प्रमाणमिति चेन्न सक्तुसिकतादौ जलेन संग्रहे तदनुमानात्। सङ्ग्रहो हि स्नेहद्रवत्वकारितः संयोगविशेषः स हि न द्रवत्वमात्राधीनः काचकाञ्चनद्रवत्वेन सङ्ग्रहानुपपत्तेः, नापि स्नेहमात्रकारितः स्त्यानैर्घृतादिभिः सङ्ग्रहानुपपत्तेः, तस्मादन्वयव्यतिरेकाभ्यां स्नेहद्रवत्वकारितः। स च जलेनापि सक्तुसिकतादौ दृश्यमानः रनेहं जले द्रढयति। इयञ्च प्रत्यक्षोपष्टम्भिकैव युक्तिः स्नेहस्य प्रत्यक्षत्वात्। घृतादौ तु रनेह उपष्टम्भकजलनिष्ठः संयुक्तसमवायेन तद्गततया भानात्। एवं तैलरसादिष्वपि। उपष्टम्भकञ्चातिशयितस्नेहमेव जलम्, स्नेहाधिक्यादेव तस्य जलस्य नानलविरोधित्वम्। यदि पृथिवीविशेषगुणः स्नेहः स्यात् सर्वपार्थिववृत्तिः स्यात् गन्धवत्। जलत्वं च द्रव्यत्वसाक्षाद्व्याप्यजातिः स्नेहवन्मात्रवृत्तिसंयोगगसमवायिकारणतावच्छेदिकाया जातेः परमाणुसाधारण्येन सिद्धत्वात् ॥ 2 ॥
</3-1-2>
<3-1-3>
उद्देशक्रमानुरोधेन तेजोलक्षणमाह–
तेजो रूपस्पर्शवत् ॥ 3 ॥
रूपं भास्वरं स्पर्शश्चोष्णस्तद्वत्तेज इत्यर्थः। ननु भास्वरत्वं परप्रकाशकत्वं तादृशञ्च रूपं नोष्मणि न वा चामीकरस्थे भर्जनकपालस्थे वारिस्थे वा तेजसि, शुक्लञ्च रूपमुक्तेषु न क्वापि, उष्णश्च स्पर्शो न चान्द्रे न वा चामीकरे तत् कथमेतदिति चेन्न ऊष्मादौ तेजस्त्वेन भास्वररूपानुमानात्। तेजस्त्वमेव तत्र स्वरूपासिद्धमिति चेन्न उष्णस्पर्शवत्त्वेन तदनुमानात्। चामीकरे कथमिति चेत् तत्र भास्वररूपाभावेऽपि अत्यन्तानलसंयोगेनानुच्छिद्यमानजन्यद्रावत्वाधिकरणत्वेन व्यतिरेकिणा तेजस्त्वानुमानादिति वक्ष्यमाणत्वात्, भर्जनकपालादिनिष्ठे चोष्णस्पर्शवत्त्वेन तेजस्त्वानुमानात्। चतुर्विधं हि तेजः किञ्चिदुद्भूतरूपस्पर्शं यथा सौसदि, किञ्चिदुद्भूतरूपमनुद्बूतस्पशै यथा चान्द्रम्, किञ्चिदनुद्भूतरूपस्पर्शं यथा नायनम्, किञ्चिदनुद्भूतरूपमुद्भूतस्पर्शं यथा नैदाघं वारिभर्जनकपालादिगतञ्च तेजः। नायनमग्रे साधयिष्यते ॥ 3 ॥
</3-1-3>
<3-1-4>
क्रमप्राप्तं वायुलक्षणमाह–
स्पर्शवान् वायुः ॥ 4 ॥
1–रूपासमानाधिकरणस्पर्शसमानाधिकरणजातिमत्त्वम् 2–रसासमानाधिकरणानुष्णाशीतस्पर्शसमानाधिकरणजातिमत्त्वम् 3–गन्धासमानाधिकरणानुष्णाशीतस्पर्शसमानाधिकरणजातिमत्त्वम्। 4–स्पर्शेतरविशेषगुणासमानाधिकरणविशेषगुणसमानाधिकरणजातिमत्त्वं वा वायुलक्षणम् ॥ 4 ॥
</3-1-4>
<3-1-5>
नन्वाकाशकालदिगात्मनामपि रूपादिमत्त्वं कथं न लक्षणमत आह–
त आकाशे न विद्यन्ते ॥ 5 ॥
अत्र विदिरुपलब्धिवचनः नोपलभ्यन्ते यतोऽतो न ते रूपादयो नियोगतः–समुच्चयतो विकल्पतो वा वर्तन्ते नभःप्रभृतिषु द्रव्येष्वित्यर्थः। ननु दधिधवलमाकाशमिति कथं प्रतीतिरिति चेन्न मिहिरमहसां विशदरूपाणामुपलम्भात्तथाभिमानात्। कथं तर्हि नीलं नभ इति प्रतीतिरिति चेन्न सुमेरोर्दक्षिणदिशमाक्रम्य स्थितस्येन्द्रनीलमयशिखरस्य प्रभामालोकयतां तथाभिमानात्। यत्तु सुदूरं गच्छच्चक्षुः परा र्तमानं स्वचक्षुःकनीनिकामाकलयत्तथाभिमानं जनयतीति मतं तदयुक्तम् पिङ्गलसारनयनानामपि तथाभिमानात्। इहेदानीं रूपादिकमिति-प्रत्ययात् दिक्कालयोरपि रूपादिचतुष्कमिति चेन्न समवायेन पृथिव्यादीनां तल्लक्षणस्योक्तत्वात् न तु सम्बन्धान्तरेणापि इहेदानीं रूपात्यन्ताभाव इत्यपि प्रतीतेः सर्वाधारतैव दिक्कालयोः ॥ 5 ॥
</3-1-5>
<3-1-6>
नन्वपां द्रवत्वं लक्षणमुक्तं तदयुक्तम् पृथिव्यामपि द्रवत्वोपलम्भादित्यत आह–
सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ॥ 6 ॥
सर्पिरादीनां यद्द्रवत्वमस्ति तदग्निसंयोगान्निमित्तात् न तु सांसिद्धिकम् तादृशञ्चापां लक्षणम् द्रवत्वमात्रन्तु पृथिव्या अद्भिः सामान्यं न तु सांसिद्धिकं द्रवत्वमपीति नातिव्याप्तिरित्यर्थः ॥ 6 ॥
</3-1-6>
<3-1-7>
ननु तथापि त्रपुसीसलोहादौ तेजसि गतत्वेन तदवस्थैवातिव्याप्तिरित्यत आह–
त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ॥ 7 ॥
उपलक्षणञ्चैतत् कांस्यताम्रारकूटपारदादीनामप्युपसंग्रहः। शक्य लक्ष्यसाधारणञ्च अत्यन्ताग्निसंयोगानुच्छिद्यमानजन्यद्रवत्वाधिकरणत्वमेव तथाच सुवर्णादीनामपि द्रवत्वं नैमित्तिकमेव निमित्तस्याग्निसंयोगस्यान्वयव्यतिरेकसिद्धत्वात्, परन्तु पूर्वसूत्रेऽग्निपदमौष्ण्यप्रकर्षवत्तेजःपरम्, इह तु वह्निपरमिति विशेषः। ननु सुवर्णादीनामपि पार्थिवत्वमेव द्रव्यान्तरत्वं वापीतिमगुरुत्वादेः पार्थिवत्वव्यवस्थापकत्वाद् द्रवत्वानुच्छेदस्य पृथिवीवैधर्म्यस्याप्यनुभवात् द्रव्यान्तरत्वव्यवस्थापकत्वादिति चेन्न सुवर्णं तैजसम् अत्यन्ताग्निसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवीति व्यतिरेकिणा तैजसत्वसिद्धेः। न च जलपरमाणौ विरुद्धता द्रवत्वस्यानित्यत्वेन विशेषणीयत्वात्। न च प्रदोपादेः सपक्षार्द्धतोर्व्यावृत्तेरसाधारण्यम् सुवर्णं न पार्थिवमिति साध्यार्थत्वात्। न चात्र गुरुत्वाधारस्य पक्षत्वे बाधः तदतिरिक्तस्य पक्षत्वे चाश्रयासिद्धिः, द्रवत्वाधिकरणत्वेन पक्षत्वात्। न चात्यन्तिकत्वं दुर्वचम्, प्रहरपर्य्यन्तमग्निसंयोगेऽप्यनुच्छिद्यमानानित्यद्रवत्वाधिकरणत्वादिति विवक्षितत्वात्। न च तरतमादिप्रत्ययादाश्रयनाशाच्च द्रवत्वनाशोऽप्यवश्यं वाच्य इति वाच्यम् समानाधिकरणद्रवत्वसामग्र्यसमवहिताग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तिद्रवत्वसामान्यवद्द्रवत्ववत्त्वादित्यस्य हेत्वर्थत्वात्। यद्वा पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः प्रहरपर्य्यन्तमनलसंयोगेऽपि पीतरूपभिन्नरूपानाश्रयत्वात् अनलसंयुक्तजलमध्यस्थितपीतपटवत्। ननु चान्धकारे सुवर्णरूपग्रहापत्तिस्तदानीं तद्रूपस्याभिभवाभावात् बलवत्सजातीयग्रहणकृतस्याग्रहणस्याभिभवपदार्थत्वात् इति चेन्न तत्र फलबलेन बलवत्सजातीयसम्बन्धमात्रस्याभिभवपदार्थत्वात्। तदुक्तम्–
भूसंसर्गवशाच्चान्यरूपं नैव प्रकाशते।
इति दिक् ॥ 7 ॥
</3-1-7>
<3-1-8>
एवं स्पर्शवद्द्रव्यचतुष्कलक्षणप्रकरणं समाप्य वायोर्लक्षणमाश्रयासिद्धमिति तत्परिजिहीर्षया आदावनुमानं प्रमाणमुपन्यस्यानुमानस्यैव प्रथमं दृष्टानुसारेण प्रमाण्यमुपपाद्य वायुसाधनप्रकरणमारभते–
विषाणी ककुद्मान् प्रान्तेबालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् ॥ 8 ॥
यथा गोत्वं प्रति विषाणादोनि लिङ्गानि गृहीतव्याप्तिकानि तथाऽतीन्द्रियवाय्वादिद्रव्यपञ्चकलिङ्गान्यपि सामान्यता दृष्टानि प्रमाणभावमासादयन्तीति भावः। अत्र यद्यपि विषाणित्वमात्रं न गोत्वे लिङ्गं महिषादौ व्यभिचारात्, न च सास्नादिमत्त्वं विशेषणम् विशेष्यस्य व्यर्थत्वापत्तेः तथापि गोविषाणे महिषमेषादिविषाणापेक्षया वैलक्षण्यमाकलयतां धूम इव ते ते विशेषा लिङ्गभावमासादयन्त्येव विषाणेष्वपि ऋजुत्ववक्रत्वकठिनत्वसुकुमारत्वह्रस्वत्वदीर्घत्वादयः। ते च विशेषाः निपुणतरवेद्याः सन्त्येव तथाच व्यवहितविप्रकृष्टगोपिण्डे अयं गौर्विषाणविशेषवत्त्वात् पूर्वानुभूतगोपिण्डवदित्यनुमानमप्रत्यूहमेव। एवं कुकुद्वत्तापि लिङ्गं गोत्वे। प्रान्तेबालधिमत्त्वमपि स्वतन्त्रमेव लिङ्गं गोत्वे प्रान्ते बाला आधीयन्तेऽस्मिन्निति प्रान्तेबालधिः-पुच्छविशेषः अलुक्समासात् गोपुच्छ एवान्ते बालधिशब्देनोच्यते, न हि यथा गोपुच्छेषु प्रान्तेबालधित्वं तथाऽश्वमेषादिपुच्छेषु, तेषां सामस्त्येन बालमयत्वात्, महिषादिपुच्छेतादृशी प्रलम्बता नास्तीति वैलक्षण्यात्। अन्तेबालदिमत्त्वमपि गोत्वे लिङ्गं मतुब्लोपात् गोपिण्ड उच्यते, तथा चायं गौः प्रान्तेबालदिमत्त्वात् पूर्वानुभूतगोपिण्डवत्। सास्नावत्ता तु प्रसिद्धैव गोत्वे लिङ्गम् ॥ 8 ॥
</3-1-8>
<3-1-9>
एवं सकललोकयात्रवाहिनोऽनुमानस्य दृष्ट्वानुसारेण प्रामाण्यमभिधाय वायुसाधनप्रकरणमारिप्समान आह–
स्पर्शश्च वायोः । 9 ॥
लिङ्गमिति शेषः। चकारात् शब्दधृतिकम्पाः समुच्चीयन्ते। ननूपलभ्यमानस्पर्शः पृथिव्या एवानुद्भूतरूपायाः स्यादिति चेन्न उद्भूतस्य पृथिवीस्पर्शस्योद्भूतरूपनान्तरीयकत्वात्। तथाच योऽयं स्पर्शोऽनुभूयते स क्वचिदाश्रितः स्पर्शथ्वात् पृथिव्यादिस्पर्शवदिति सामान्यतोदृष्टेन स्पर्शाश्रयसिद्धौ स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूपत्वात् नाकाशादिपञ्चात्मकः स्पर्शवत्त्वादितीतरबाधसहकृतेनाष्टद्रव्यातिरिक्तद्रव्यसिद्धिः। एवं शब्दविशेषोऽपि वायौ लिङ्गम्, तथाहि असति रूपवद्द्रव्याभिघाते योऽयं पर्णादिशब्दसन्तानः स स्पर्शवद्वेगवद्द्रव्याभिघातनिमित्तकः अविभज्यमानावयवद्रव्यसम्बन्धिशब्दसन्तानत्वात्दण्डाभिघातजभेरोशब्दसन्तानवत्। रूपवद्द्रव्याभिघातव्यतिरेकस्तु योग्यानुपलब्धिगम्यः। तच्च स्पर्शवद्वेगवद्द्रव्यमष्टद्रव्यातिरिक्तमेव परिशेषात्। एवं धृतिविशेषोऽपि वायोर्लिङ्गम् तथाहि तृणतूलस्तनयित्नुविमानानां नभसि धृतिः स्पर्शवद्वेगवद्द्रव्यसंयोगजा चेतनानधिष्ठितद्रव्यधृतित्वात् प्रवाहे तृणकाष्ठनौकादिधृतिवत्। अभिध्यानकृतविषादिधृतौ च अस्मदाद्यधिष्ठानमेव। एवं पक्षिकाण्डादधृतावपि। न चेश्वराधिष्ठितत्वेन हेतुविशेषणासिद्धिः चेतनपदेन तदितरस्य विवक्षितत्वात्। एवं कम्पोऽपि वायुसत्त्वे लिङ्गम् तथाहि इदं रूपवद्द्रव्याभिघातमन्तरेण तृणादौ कर्म स्पर्शवद्वेगवद् द्रव्याभिघातजं गुरुत्वप्रयत्नवदात्मसंयोगद्रवत्वसंस्काराणामुपग्रहः तेनं तदजन्यकर्मत्वं हेतुः। ननु प्रत्यक्ष एव वायुः किमत्र लिङ्गगवेषणयेति चेन्न वायुर्न प्रत्यक्षः नोरूपबहिर्द्रव्यत्वात् गगनवदित्यनुमानादतीन्द्रियत्वस्यैव सिद्धेः। ननु वायुः प्रत्यक्षः स्पर्शाश्रयत्वाद् घटवदिति प्रत्यक्षत्वानुमानमिति चेन्न उद्भूतरूपवत्त्वस्यात्रोपाधित्वात् च। न रूपादावात्मनि च साद्याव्यापकमेतत्, पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नस्य साधनधर्मा वच्छिन्नस्य वा साध्यस्य व्यापकत्वात्। न च चाक्षुषप्रत्यक्षत्वं तत्तन्त्रं तत्रैव तदन्वयव्यतिरेकानुविधानात् स्पार्शनप्रत्यक्षत्वे तु योग्यस्पर्शवत्तामात्रस्य तन्त्रतेति वाच्यम् रूपान्वयव्यतिरेकयोरुभयत्रापि तन्त्रत्वात्, न ह्युभयसिद्स्पर्शेनैव प्रत्यक्षता रूपस्य ग्रहमन्तरेण दृष्टा। किञ्च यदि वायुः प्रत्यक्षः स्यात् सङ्ख्यादिसामान्यगुणोपलम्भेऽपि तन्त्रं स्यात्। नन्वस्त्येव फूत्कारादौ सङ्ख्यायाः परिमाणस्य च हस्तवितस्त्यादेः उभयपार्श्ववर्तिनोर्वाय्वोः पृथक्त्वस्य च परत्वापपरत्वयोश्च प्रत्यक्षता वायुजातीयस्य व्यक्तिपरतया तु न तवापि नियमः पृष्ठलग्नवस्त्रादौ तदनुपलम्भादिति चेन्न ञ्यक्तिपरतयैव नियमात् पृष्ठलग्नवस्त्रादौ चार्जवावस्थाने सङ्ख्यादीनां ग्रहणात्, अनार्जवावस्थानदोषात्तु तदग्रहः। उद्भूतरूपस्पर्शौ मिलितावेव बहिर्द्रव्यप्रत्यक्षत्वे तन्त्रे प्रभाया नयनगतपीतद्रव्यस्य चन्द्रमहसश्च त्पर्शानुद्भवादप्रत्यक्षत्वम् निदाघोष्मणोर्विभक्तावयवाप्यद्रव्याणाञ्च रूपानुद्भवादप्रत्यक्षत्वमिति न्यायवार्त्तिकतात्पर्य्यटीकाकृतः। स्पर्शानुद्भवेऽपि प्रभादीनां प्रत्यक्षतैव अत एव चान्द्रालोके नभसि पक्षिकाण्डादिसंयोगविभागयोः प्रत्यक्षतैवेति सम्प्रदायविदः। न चोद्भूतस्पर्शवत्त्वं सामान्यतो बहिर्द्रव्यप्रत्यक्षताप्रयोजकमिति वाच्यम्, इन्द्रनीलप्रभाया अप्रत्यक्षतापत्तेः। न चोद्बूतविशेषगुणवत्त्वमेव तन्त्रम् आकाशस्यापि प्रत्यक्षतापत्तेः। न च जन्यमहत्त्व समानाधिकरणोद्भूतविशेषगुणवत्त्वं तथा रसनाग्रवर्त्तिपित्तद्रव्यस्य तैक्त्योद्भवेऽप्यप्रत्यक्षत्वात्, तस्मादुद्भूतरूपवत्त्वमेवात्मेतरद्रव्यप्रत्यक्षतातन्त्रम् तच्च वायौ नास्तीत्यप्रत्यक्षो वायुः ॥ 9 ॥
</3-1-9>
<3-1-10>
ननु प्रत्यक्षतो दृष्टमिह लिङ्गं नास्ति न हि वह्निधूमयोरिवेह प्रत्यक्षेण व्याप्तिग्रहः। किञ्च पृथिव्याद्यन्यतमस्येव स्पर्शोऽप्ययं भविष्यतीत्यत आह–
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः ॥ 10 ॥
अयं स्पर्शो यः पक्षः क्रियते स दृष्टानां पृथिव्यप्तेजसां न भवति रूपासहचरत्वात्, तथा चायंस्पर्शः क्विचिदाश्रित इत्यनुमेयमित्यदृष्टलिङ्गः। सामान्यतोदृष्टलिङ्गोऽपि पक्षधर्मताबलादायात इत्यर्थः। यद्यपि दृष्टमेव स्पर्शादिचतुष्कं लिङ्गमिति तथापि वायुना सहागृहीतव्याप्तिकत्वाददृष्टलिङ्गत्वमुक्तम् न ह्ययं धर्मी वायुरिति प्रतिज्ञाय वायुः साधयितुं शक्यते, तथाच सामान्यतोदृष्टादेवेतरवासहकृताद्वायुसिद्धिरिति भावः ॥ 10 ॥
</3-1-10>
<3-1-11>
उपलभ्यमानस्पर्शाश्रयमवयविनं साधयित्वा परमाणुलक्षणं वायुं साधयितुमाह–
अद्रव्यवत्त्वेन द्रव्यम् ॥ 11 ॥
द्रव्यमाश्रयभूतमस्यास्तीति द्रव्यवत् न द्रव्यवत् अद्रव्यवत् द्रव्यानाश्रितमित्यर्थः। तथा चाकाशवत् परमाणुलक्षणो वायुर्द्रव्यम् अन्येषां पदार्थानां द्रव्याश्रितत्वात्। आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्य इत्यभिधानात् परमाणुभ्यां द्व्यणुकारम्भात् द्व्यणुकादिप्रक्रमेणावयविनो महत आरम्भस्योपपादनीयत्वादिति ॥ 11 ॥
</3-1-11>
<3-1-12>
वायुपरमाणोर्द्रव्यत्वसाधकं हेतुद्वयं समुच्चिन्वन्नाह–
क्रियावत्त्वाद् गुणवत्त्वाच्च ॥ 12 ॥
वायुपरमाणुर्द्रव्यमिति शेषः। यद्यपि द्रव्यत्वे सिद्धे क्रिवावत्त्वं गुणवत्त्वञ्च सिध्यति तत्सिद्धौ च द्रव्यत्वसिद्धिरित्यन्योन्याश्रयः तथाप्युपलभ्यमानस्पर्शाश्रयस्यावयविनो मूलभूतस्य परमाणोरसमवायिकारणसंयोगान्यथानुपपत्त्या क्रियावत्त्वम्, अवयविस्पर्शरूपादेः कारणगुणपूर्वकत्वनियमाद् गुणवत्त्वञ्च सिद्धं ताभ्याञ्चद्रव्यत्वमित्यदोषः। तत्र क्रियावत्त्वं सपक्षैकदेशवृत्तिगुणवत्त्वञ्च सपक्षव्यापकम्। चकारात् समवायिकारणत्वं द्रव्यत्वसाधकं समुच्चिनोति। ननु परमाणावेव न प्रमाणं कस्य द्रव्यत्वं साध्यत इति चेन्न स्थूलकार्य्यस्य क्रियाविभागादिन्यायेन भज्यमानस्याल्पतरतमादिभावात् यतो नाल्पीयः स एव परमाणुः। अवयवावयविप्रसङ्गस्यानवधित्वे अनन्तावयवत्वाविशेषे सुमेरुसर्षपादीनां परिमाणाविशेषापत्तिः कारणसंयख्याविशेषमन्तरेण परिमाणाप्रचययोरपि परिमाणभेदं प्रत्यतन्त्रत्वात्। न च विनाशावधिरेवायम् अवयवावयविप्रसङ्गः अन्त्यस्य निरवयवत्वेन विनाशानुपपत्तेः सावयवत्वे च निरवधित्वापत्तेस्तत्र च दोषस्योक्तत्वात्। ननु त्रुटिरेवावधिर्दृश्यमानत्वाददृश्यमानकल्पनायां मानाभावादिति चेन्न तस्य चाक्षुषद्रव्यत्वयोरावश्यकत्वात् तस्मात् त्रसरेण्ववयवावयव एव परमाणुर्यथा पृथिव्यादौ तथा वायावपीति सिद्धो वायुपरमाणुः ॥ 12 ॥
</3-1-12>
<3-1-13>
ननु क्रियावत्त्वाद् गुणवत्त्वाच्च घटादिवत् परमाणोरनित्यत्वमनुमेयमत आह–
अद्रव्यत्वेन नित्यत्वमुक्तम् ॥ 13 ॥
परमाणुलक्षणवायोरिति शेषः। द्रव्यं हि समावायिकारणासमवायिकारणान्यतरनाशान्नश्यति परमाणोस्तु निरवयवतया न तदुभयमस्ति तथाच विनाशकाभावान्न विनश्यति। क्रियावत्त्वे गुणवत्त्वे च हेतौ सावयवत्वमुपाधिः। स च पक्षधर्मद्रव्यत्वावच्छिन्नसाध्यव्यापकः केवलसाध्यव्यापकस्तु प्रागभावप्रतियोगित्वमुपाधिः ॥ 13 ॥
</3-1-13>
<3-1-14>
द्व्यणुकादिप्रक्रमेणारम्भसिद्धौ सिद्धमपि वायुनानात्वं प्रकारान्तरेणापि साधयितुमाह–
वायोर्वायुसंमूर्च्छनं नानात्वलिङ्गम् ॥ 14 ॥
वायुसंमूर्च्छनमिति। वाय्वोर्वायूनां वा संमूर्च्छनं संयोगविशेषः। स च समानवेगयोर्विरुद्धदिक्क्रिययोः सन्निपातः। स च तृणतूलकादेरूर्ध्वगमनेनानुमीयते। वाय्वोरूर्ध्वगमनस्य सन्निपातस्य चातीन्द्रियत्वात्। तृणादीनान्तु प्रत्यक्षाणामूर्ध्वगमनलक्षणायाः क्रियायाः प्रत्यक्षायाः स्पर्शवद्वेगवद्द्रव्याभिघातनोदनान्यतरजन्यत्वमनुमीयते। तथाहि तिर्य्यग्गमनस्वभावस्य वायोरूर्ध्वगमनं परस्परप्रतीघातमन्तरेणानुपपद्यमानं परस्परप्रतीघातं साधयति नदीपयःपूरयोस्तथादर्शनात् तदूर्ध्वगमनञ्च तृणाद्यूर्ध्वगमनानुमेयं न हि तृणदीनामूर्ध्वगमनं स्पर्शवद्वेगवद्द्रव्याभिघातनोदनान्यतरद् विनेति ॥ 14 ॥
</3-1-14>
<3-1-15>
नन्वदृष्टलिङ्गो वायुरित्युक्तं तथा च कथमेतदित्यत आह–
वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते ॥ 15 ॥
दृष्टं हि लिङ्गं यत्र प्रत्यक्षेण व्याप्तिग्रहस्तदुच्यते यथा धूमोऽरनेः। वायुसन्निकर्षे च वायुना सहाविनाभावे प्रत्यक्षं नास्ति न हि भवति यो यः स्पर्शकम्पादिमान् स वायुरिति कस्यचित् प्रत्यक्षं वायोरेवाप्रत्यक्षात्वादत एव तादृशं प्रत्यक्षगृहीतव्याप्तिकं लिङ्गं नास्तीत्यर्थः ॥ 15 ॥
</3-1-15>
<3-1-16>
तर्हि वायोरनुमानमेव कथमित्यत उक्तमेव द्रढयितुमाह–
सामान्यतोदृष्टाच्चाविशेषः ॥ 16 ॥
अनुमानं हि त्रिविधं पूर्ववत् शेषवत् सामान्यतोदृष्टम्। तथा चायमनुभूयमानस्पर्शः क्वचिदाश्रितः स्पर्शत्वात् गुणत्वाद्वेति समान्यतोदृष्टादेवेतरबाधसहकृतात् अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं सिध्यतीत्यर्थः। गतं तर्हि केवलव्यतिरेकिणेति चेन्न इतरबाधानन्तरं यत्र सामान्यतो दृष्ट प्रवर्त्तते तत्राष्टद्रव्यानाश्रितत्वं पक्षविशेषणं सिद्धमादाय अष्टद्रञ्यानाश्रितोऽयं स्पर्शः क्वचिदाश्रित इति प्रतिज्ञार्थोऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वमनादाय न पर्य्यवस्यतीतिप्रतीत्यर्थापर्य्यवसन्नतयाऽन्वयिन एव तत्सिद्धिः। यत्र तु पूर्वमेव बाधावतारात् सामान्यतोदृष्टं तत्र प्रतीत्यर्थपर्य्यवसानात् केवलव्यतिरेकोत्यभ्यपगमात्। प्रकारार्थ केवलव्यतिरेकीति तु तुच्छमेव उक्तस्थले प्रकारस्यान्वयिन एवोपस्थितेः। व्यापकतावच्छेदकप्रकारिकैवानुमितिरितिनियमस्त्वप्रामाणिकः सामग्रीविशेषसाचिव्यात् प्रकारान्तरभावन्यापि सम्भवात् ॥ 16 ॥
</3-1-16>
<3-1-17>
ननु चाविशेष इति वायुरयमित्याकासऽनुमितिर्न भवति किन्त्वष्टद्रव्यातिरिक्तद्रव्याश्रितत्वेनैव प्रकारेणेति विवक्षितं यदि तदा तस्य द्रव्यस्य वायुसंज्ञाया किं मानमत आह–
तस्मादागमिकम् ॥ 17 ॥
यस्माद्विशेषाकारेण नानुमितिः तस्माद्वायुरिति नाम आगमिकम्, आगमो वेदस्ततः सिद्धमित्यर्थः। `वायुर्वै क्षेपिष्ठा देवता’ `वायव्यं श्वेतं छागलगालभेत’ `वायव्यं श्वेतं छागलगालभेत’ इत्यादि-विधिशेषीभूतार्थवादादेव वायुसंज्ञाधिगतिः। यथा–
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्।
इत्याद्यर्थवादात् स्वर्गसंज्ञायाः।
वसन्ते सर्वशस्यानां जायते पत्रशातनम्।
मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः॥
इत्यर्थवादात् यवसंज्ञायाः, `अम्बुजो वेतसः’ इत्यर्थवादात् वेतससंज्ञायाः, `वराहं गावोऽनुधावन्ति’ इत्यर्थवादात् वराहसंज्ञायाः। अन्यथा `स्वर्गकामो यजेत’ इत्यादौ विशिष्टसुखानुपस्थितौ यागादिंषु स्वर्गार्थिनां प्रवृत्तिर्न स्यात् न स्याच्च `यवमयश्चरुर्भवति’ `वैतसे कटे प्राजापत्यं धिनोति’ `वाराहो चोपानत्’ इत्यादौ म्लेच्छप्रसिद्धिमनुरुध्य प्रवृत्त्यनध्यवसायः। म्लेच्छा हि यववराहवेतसशब्दान् कङ्गुवायसजम्बुषु प्रयुञ्जते तथाचार्थवादमन्तरेण सन्देहः स्यादित्यागमादेव तत्तदर्शप्रतीतिरिति भावः। नाममात्रमागमिकं द्रव्यसिद्धिस्तु सामान्यतो दृष्टादेव ॥ 17 ॥
</2-1-17>
<2-1-18>
एवं वायुप्रकरणं समाप्य तत् किमुन्मादिजल्पित-डित्थडवित्थसंज्ञावत् वायुसंज्ञापीत्यागमस्य सर्वज्ञप्रणीतत्वमुपपादयन् औपोद्घातिकमोश्वरप्रकरणमारिप्समान आह–
संज्ञा कर्म्म त्वस्मद्विशिष्टानां लिङ्गम् ॥ 18 ॥
तुशब्दः स्पर्शादिलिङ्गव्यवच्छेदार्थः। संज्ञा-नाम, कर्म-कार्य्यं क्षित्यादिः तदुभयमस्मद्विशिष्टानाम् ईश्वर-महर्षीणां सत्त्वेऽपि लिङ्गम् ॥ 18 ॥
</2-1-18>
<2-1-19>
कथमेतदित्यत आह–
प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ॥ 19 ॥
अत्रापि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्त्तुंर्जगत्कर्त्तुश्चाभेदसूचनार्थः। तथाहि यस्य स्वर्गापूर्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्वादिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवत्। एवञ्च घटपटादिसंज्ञानिवसेनवत्। एवञ्च घटपटादिसंज्ञानिवेशनमपि ईश्वरसङ्केताधीनमेव यः शब्दो यत्रेश्वरेण सङ्केतितः स तत्र साधुः यथा या काचिदोषधिर्नकुलदंष्ट्राभ्रस्पृष्टा सा सर्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं, याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते साऽपि `द्वादशेऽहनि पिता नाम कुर्य्यात्’ इत्यादिविधिना नूनमोश्वरप्रयुक्तैव तथाच सिद्धं संज्ञाया ईश्वरलिङ्गत्वम्। एवं कर्मापि कार्य्यमपीश्वरे लिङ्गम् तथाहि क्षित्यादिकं सकर्तृकं कार्य्यत्वात् घटवदिति। अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्चातिप्रसक्तत्वेन पक्षतानवच्छेदकत्वात्, किञ्च सकर्तृकत्वमाप यदि कृतिमज्जन्यत्वं तदाऽस्भदादिना सिद्धसाधनम् अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात्, उपादानगोचरकृतिमज्जन्यत्वेऽपि तथा अस्मदादिकृतेरपि किंञ्चिदुपादुदानगोचरत्वात्, कार्य्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति। तथापि क्षितिः सकर्तृका कार्य्यत्वात्। अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्य्यत्वञ्च प्रागभावावच्छिन्नसत्ताप्रतियोगित्वम्। न चाङ्कुरादौ सन्दिग्धानैकान्तिकत्वम् साध्याभावनिश्चये हेतुसदसत्त्वसन्देहे सन्दिग्धानैकान्तिकत्वस्य दोषत्वात् अन्यथा सकलानुमानोच्छेदप्रसङ्गात् न च पक्षातिरिक्ते दोषोऽयमिति वाच्यम् राजाज्ञापत्तेः, नहि दोषस्यायं महिमा यत् पक्षं नाक्रामति। तस्मादङ्कुरस्फुरणदशायां निश्चितव्याप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् क्व सन्दिग्धानैकान्तिकता तदस्फुरणदशायान्तु सुतरामिति संक्षेपः ॥ 19 ॥
</2-1-19>
<2-1-20>
एवं सूत्राभ्यामीश्वरप्रकरणं समाप्याकाशप्रकरणमारिप्समान आह–
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ॥ 20 ॥
इतिशब्दः प्रकारार्थः, उत्क्षेपणादीन्यपि कर्माणि संगृह्णाति। स्पर्शवद्द्रव्यसञ्चारो निष्क्रमणं प्रवेशनञ्च तदकार्य्यस्याकाशस्य लिङ्गमिति साङ्ख्याः ॥ 20 ॥
</2-1-20>
<2-1-21>
तदेतद् दूषयितुमाह–
तदलिङ्गमेकद्रव्यत्वात् कर्मणः ॥ 21 ॥
निष्क्रमणप्रवेशनादिकर्म न तावत् समवायिकारणतया आकाशमनुमापयति कर्मण एकद्रव्यत्वात् एकमात्रमूर्त्तसमावायिकारणकत्वात्, न कर्मापि व्यासव्यवृत्तीत्युक्तं न वाऽमूर्त्तवृत्तीति ॥ 21 ॥
</2-1-21>
<2-1-22>
ननु चासमवायिकारणतयैवाकाशमनुमापयिष्यति निष्क्रमणप्रवेशनादोत्यत आह–
कारणान्तरानुक्लृप्तिवैधर्म्याच्च ॥ 22 ॥
अनुक्लृप्तिर्लक्षणम् अनुकल्प्यते ज्ञाप्यतेऽनेनेति व्युत्पत्त्या, कारणान्तरस्य असमवायिकारणस्य याऽनुक्लृप्तिर्लक्षणं तद्वैधर्म्यादित्यर्थः। द्रव्यन्तावदसमवायिकारणं न भवत्येव। असमवायिकारणता च कारणैकार्थप्रत्यासत्त्या कार्य्यैकार्थप्रत्यासत्त्या च। प्रथमा तन्तुरूपाणां पटरूपं प्रति, इयञ्चासमवायिकारणता महतीतिसंज्ञां लभते गुरुप्रतिपत्तिकत्वात्। द्वितीया च यथा आत्ममनःसंयोगस्य ज्ञानादिकं प्रति, इयञ्चासमवायिकारणता लघ्वीति संज्ञां लभते लघुप्रतिपत्तिकत्वात्। आकाशस्य तु निष्क्रमणप्रवेशनादौ कर्मणि न समवायिकारणता नाप्यसमवायिकारणता। तथा च न च कर्माकाशसत्त्वे लिङ्गमिति ॥ 22 ॥
</2-1-22>
<2-1-23>
ननु निमित्तकारणमस्तु कर्मण्याकाशम्, दृश्यते ह्याकाशे पक्षिकाण्डादीनां सञ्चरणमत आह–
संयोगादभावः कर्मणः ॥ 23 ॥
मूर्त्तसंयोगेन कर्मकारणस्य वेगगुरुत्वादेः प्रतिबन्धात् कर्मणोऽभावोऽनुत्पादो न त्वाकाशाभावात् तस्य व्यापकत्वात्। तस्मादाकाशान्वयोऽन्यथासिद्ध एव नाकाशनिमित्ततां साधयतीत्यर्थः ॥ 23 ॥
</2-1-23>
<2-1-24>
एवं साङ्ख्यामते दूषिते शब्दमाकाशे लिङ्गमुपपादयिष्यन् परिशेषानुमानाय पीठमारचयन्नाह–
कारणगुणपूर्वकः कार्यगुणो दृष्टः ॥ 24 ॥
पृथिव्यादिलक्षणे कार्ये ये विशेषगुणा रूपादयस्ते कारणगुणपूर्वका दृष्टाः। शब्दोऽपि विशेषगुणः जातिमत्त्वे सति बाह्यैकेन्द्रियमात्रभाह्यत्वात् रूपादिवत्। तथा च तादृशं कार्यं नोपलभ्यते यत्र कारणगुणपूर्वकः शब्दः स्यादित्यर्थः ॥ 24 ॥
</2-1-24>
<2-1-25>
ननु वीणावेणुसृदङ्गशङ्खपटहादौ कार्ये शब्द उपलभ्यते तथाच तत्कारणगुणपूर्वकः स्यादत आह-
कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः ॥ 25 ॥
भवेदेवं यथा तन्तुकपालादिषु रूपरसाद्यनुबूयते तत्सजातीयञ्च रूपरसान्तरं पटघटादावुपलभ्यते तथा वीणावेणुमृदङ्गाद्यवयवेषुः यः शब्द उपलब्धस्तत्सजातीयश्चेत् वीणावेणुमृदङ्गाद्यवयविन्युपलभ्येत न चैवम्। प्रत्युत निःशब्दैरेवावयवैर्वीणाद्यारम्भदर्शनात्, नीरूपैस्तु तन्तुकपालादिभिः पटघटाद्यारम्भस्यादर्शनात्। किञ्च यदि शब्दः स्पर्शवतां विशेषगुणः स्यात् तदा तत्र तार-तारतर-मन्द-मन्दतरापदभावो नानुभूयित न ह्येकावयव्याश्रिता रूपादयो वैचित्रेयणानुभूयन्ते तस्मान्न स्पर्शवद्विशेषगुणः शब्दः ॥ 25 ॥
</2-1-25>
<2-1-26>
नन्वात्मगुणो मनोगुणो वा शब्दो भविष्यतीत्यत आह–
परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ॥ 26 ॥
शब्दो यद्यात्मगुणः स्यात् तदाऽहं सुखोयते जाने इच्छामीत्यादिवत् अहं पूर्य्ये अहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति, किन्तु शङ्खः पूर्य्यते अहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति, किन्तु शङ्खः पूर्य्यते वीणा वाद्यते इति प्रतियन्ति लौकिकाः। किञ्च शब्दो नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादिवत् अपि च शब्दो यद्यात्मयोग्यविशेषगुणः स्याद्बधिरेणाप्युपलभ्येत दुःखादिवत् तस्मात् सुध्ठूक्तं परत्र समवायादिति। अमनोगुणत्वे हेतुमाह–प्रत्यत्वादिति। नात्ममनसोर्गुण इति समासे कर्त्तव्ये यदसमासकरणं तेन तुल्यन्यायतया प्रत्यक्षत्वादित्यनेनैव हेतुना दिककालयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचितम् ॥ 26 ॥
</2-1-26>
<2-1-27>
यदथमयं परिशेषस्तदाह–
परिशेषाल्लिङ्गमाकाशस्य ॥ 27 ॥
शब्द इति शेषः। अत्रापि शब्दः क्वचिदाश्रितो गुणत्वात् रूपादिवदिति सामान्यतोदृष्टादष्टद्रव्यातिरिक्तद्रव्यसिद्धिः। गुणश्चायं वाह्यैकेन्द्रियग्राह्यजाती यत्वात् रूपादिवत्, अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत्। अनित्यत्वञ्च साधयिष्यते। परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणाभावान्नित्यत्वं सर्वत्र शब्दोपलब्धेविंभुत्वम् ॥ 27 ॥
</2-1-27>
<2-1-28>
शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह–
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ 28 ॥
अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि, गुण्वत्त्वाद् यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः ॥ 28 ॥
</2-1-28>
<2-1-29>
तत् किं बहून्याकाशानि एकमेव वेत्यत आह–
तत्त्वम्भावेन ॥ 29 ॥
व्याख्यातमिति विपरिणतेनान्वयः। भावः सत्ता सा यथैका तथाकाशमप्येकमेवेत्यर्थः ॥ 29 ॥
</2-1-29>
<2-1-30>
नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् आकाशे कथमेकत्वं तद्दृष्टान्तेन सेत्स्यतीत्यत आह–
शब्दलिङ्गाविशेषाद्विशेषलिंगाभावाच्च ॥ 30 ॥
तत्त्वमाकाशस्य सिद्धिमित्यर्थः। वैभवे सति सर्वेषां शब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः। अन्यदपि यदाकाशं कल्पनीयम् तत्रापि शब्द एव लिङ्गम् तच्चाविशिष्टम् न च विशेषसाधकं भेदसाधकं लिङ्गान्तरमस्ति। आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मनानात्वसिद्धिरिति वक्ष्यते ॥ 30 ॥
</2-1-30>
<2-1-31>
नन्वाकाशस्य एकत्वं तावदस्तु, वैभवात् परममहत्त्वमप्यस्तु, शब्दासमवायिकारणत्वात् संयोगविभागावपि स्याताम् एकपृथक्त्वं कथमत आह–
तदनुविधानादेकपृथक्त्वञ्चेति ॥ 31 ॥
नियमेनैकपृथक्त्वमेकत्वमनुविधत्ते इत्येकपृथक्त्वसिद्धिः। इतिराह्निकपरिसमाप्तौ मानसप्रत्यक्षाविषयविशेषगुणवद्द्रव्यलक्षणमाह्निकार्थः। तेन चतुर्दशगुणवती पृथिवी, ते च गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्काराः। तावन्त एव गन्धमपीस्य स्नेहेन सहापाम्। एत एव रसगन्धस्नेहगुरुत्वान्यपास्य तेजसः। गन्धरसरूपगुरुत्वस्नेहद्रवत्वान्यपास्य वायोः। शब्देन सह सङ्ख्यादिपञ्चगुणवत्त्वमाकाशस्य। सङ्ख्यादिपञ्चकमात्रं दिक्कालयोः। परत्वापरत्ववेगसहितं सङ्ख्यादिपञ्चकं मनसः। सङ्ग्यादिपञ्चकं ज्ञानेच्छाप्रयत्नाश्चेश्वरस्य ॥ 31 ॥
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे द्वितीयाध्याय–
</2-1-31>
स्याद्यमाह्निकम्॥
द्वितीयाध्याये द्वितीयाह्निकम्
<2-2-1>
इदानीं भूतानां लक्षणानि गन्धादीनि परीचिक्षिषुर्गन्धादीनां स्वाभाविकत्वमौपाधिकत्वञ्च व्यवस्थापयन्नाह–
पुष्पवस्त्रयोः सति सन्निर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् ॥ 1 ॥
रूपरसगन्धस्पर्शा यत्र कारणगुणप्रक्रमेणोत्पद्यन्ते तत्र स्वाभाविकाः सन्तो लक्षणतामुपयन्ति नान्यथा, न हि समीरण उपलभ्यमानं सौरभं शिलातले उपलभ्यमानं शैत्यं जले उपलभ्यमानमौष्ण्यं वा लक्षणं भवति तदेतदाह–पुष्पवस्त्रयोरिति। न हि कनककेतकीकुसुमसन्निकृष्टे वाससि कनककेतकीशौरभनुपलभ्यमानं वासवः। न हि वाससः कारणगुणप्रक्रमेण तदुत्पन्नम्, किन्तर्हि? कनककेतकीसन्निधानादौपाधकं, न हि वस्त्रे गन्धाभावे केतकीगन्धाभावो लिङ्गम्। किं लिङ्गमत उक्तं गुणान्तराप्रादुर्भाव इति। गुणान्तरात् कारणगुणात् अप्रादुर्भावोऽनुत्पत्तिः यदि हि वस्त्रे यो गन्ध उपलभ्यते स तस्य स्वाभाविकः स्यात्तदा तदवयवेष तन्तुषु केतकीसन्निकर्षात् पूर्वं तत्र वस्त्रे चोलपभ्येत न चैवमित्यर्थः। तथाच विवादाध्यासितो गन्धो न वस्त्रसमवेतः तदवयवगुणाजन्यविशेषगुणत्वात् शीतोष्णस्पर्शादिवत् ॥ 1 ॥
</2-2-1>
<2-2-2>
स्वाभाविकं गन्धं पृथिव्या लक्षणमाह–
व्यवस्थितः पृथिव्यां गन्धः ॥ 2 ॥
पृथिव्यां व्यवस्थितोऽयोगान्ययोगाभ्यां परिच्छिन्नः समानासमानजातीयव्यावर्त्तकतया गन्धो लक्षणमित्यर्थः। भवति हि पृथिवी गन्धवत्येव, पृथिव्येव गन्धवत्येव, पृथिव्येव गन्धवतीति, तदेवं समानजातीयेभ्यो जलाद्यष्टभ्योऽसमानजातीयेभ्यो गुणादिपञ्चभ्यो व्यावर्त्तकः स्वाभाविकः पृथिव्यां गन्ध इति व्यवस्थितम् ॥ 2 ॥
</2-2-2>
<2-2-3>
गन्धस्य स्वाभाविकत्वव्यवस्थापनप्रकारमुष्णतायां तेजोलक्षणेऽप्यतिदिशन्नाह–
एतेनोष्णता व्याख्याता ॥ 3 ॥
अबादिलक्षणे शैत्यादावप्ययमतिदेशो द्रष्टव्यः ॥ 3 ॥
</2-2-3>
<2-2-4>
तेजोलक्षणं परोक्षते–
तेजस उष्णता ॥ 4 ॥
स्वाभाविक्युष्णता तेजोलक्षणमित्यर्थः। रूपमपि शुक्लभास्वरमुपलक्ष्यते ॥ 4 ॥
</2-2-4>
<2-2-5>
अपां लक्षणं परीक्षते–
अप्सु शीतता ॥ 5 ॥
स्वाभाविकी शीतता अपां लक्षणमित्यर्थः। तथाच शिलातलश्रीखण्डादौ नातिव्याप्तिरिति भावः। शीततया रूपरसावप्युक्तलक्षणौ स्नेहं सांसिद्धिकद्रवत्वञ्चोपलक्षयति। ननु उद्देशलक्षणक्रमभङ्गः कुत इति चेन्न तेजःस्पर्शस्य पृथिवीजलस्पर्शयोरभिभावकत्वसूचनाय तयोर्मध्ये तेजःपरीक्षाया उक्तत्वात्, वायुपरीक्षासूचनार्थं वा क्रमलङ्घनम्। तथा चापाकजानुष्णाशीतस्पर्शो वायोः स्वाभाविकः सन् लक्षणमित्युन्नेयमिति तात्पर्य्यम् ॥ 5 ॥
</2-2-5>
<2-2-6>
तदेवं कारणगुणपूर्वकाः स्पर्शवतां विशेषगुणाः गन्धादयः पृथिव्यादीनां लक्षणानीत्युक्तम्। इदानीं क्रमप्राप्तं काललक्षणप्रकरणमारभमाण आह–
अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि ॥ 6 ॥
इतिकारो ज्ञानप्रकारपरः प्रत्येकमभिसम्बध्यते, तथाचापरमितिप्रत्ययो युगपदितिप्रत्ययः चिरमितिप्रत्ययः क्षिप्रमितिप्रत्ययः काललिङ्गानीत्यर्थः। अपरस्मिन्नपरमित्यनेन परस्मिन् परमित्यपि द्रष्टव्यम् तेनायमर्थः बहुतरतपनपरिस्पन्दान्तरितजन्मनि स्थविरे युवानमवधिं कृत्वा परत्वमुत्पद्यते तच्च परत्वमसमवायिकारणसापेक्षम्। न च रूपाद्यसमवायिकारणं व्यभिचारात् त्रयाणां गन्धादीनां वायौ परत्वानुत्पादक वात्। स्पर्शस्याप्युष्णादिभेदेन भिन्नस्य प्रत्येकं व्यभिचारात्। न चावच्छिन्नपरिमाणं तथा तस्य विजातीयानारम्भकत्वात्, तपनपरिस्पन्दानाञ्च व्यधिकरणत्वात्। तदवच्छिन्नद्रव्यसंयोग एवासमवायिकारण परिशिष्यते तच्च द्रव्यं पिण्डमार्त्तण्डोभयसंयुक्तं विभु स्यात्। आकाशस्य तत्स्वाभाव्यकल्पने क्वचिदपि भेर्यभिधातात् सर्वभेरीषु शब्दोत्पत्तिप्रसङ्गः। तथाच कालस्यैव मार्त्तण्डक्रियोपनायकः। आत्मनश्च द्रव्यान्तरधर्मेषु द्रव्यान्तरावच्छेदाय स्वप्रत्यासत्त्यतिरिक्तसन्निकर्षापेक्षत्वात् अन्यथा वाराणसीस्थेन महारजनारुणिम्ना पाटलिपुत्रेऽपि स्फटिकमणेरारुण्यप्रसङ्गात्। कालस्य तु तत्स्वभावतयैव कल्पनादयमदोषः। कालेनापि रागसंक्रमः कथं नेति चेत् नियतक्रियोपनायकत्वेनैव तत्सिद्धेः। एवं स्थविरमवधिं कृत्वा यूनि अपरत्वोत्पत्तिर्निरूपणीया। युगपदिति। युगपज्जायन्ते युगपत्तिष्ठन्ति युगपत् कुर्वन्ति इत्यादिप्रत्ययानाञ्च एकस्मिन् काले एकस्यां सूर्यगतौ एकस्मिन् सूर्यगन्यवच्छिन्नकाले इत्यर्थः। नचाप्राप्ता एव सूर्यगतयो विशेषणतामनुजन्ति न च स्वरूपप्रत्यासन्ना एव ताः, तस्मादेतादृशविशिष्टप्रत्ययान्यथानुपपत्त्या विशेषणप्रापकं यद् द्रव्यं सकालः ॥ 6 ॥
</2-2-6>
<2-2-7>
ननु सिध्यतु कालः, स तु नित्यो द्रव्यं बेति न प्रमाणमत आह-
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ 7 ॥
यथा वायुपरमाणोर्गुणवत्त्वाद् द्रव्यत्वम् अद्रव्यत्वाच्च नित्यत्वं तथा कालस्यापीत्यर्थः ॥ 7 ॥
</2-2-7>
<2-2-8>
तथापि सन्तु बहवः काला इत्यत आह–
तत्त्वम्भावेन ॥ 8 ।
व्याख्यातमिति विपरिणतेनान्वयः। चिरादिप्रत्ययानां काललिङ्गानां सर्वत्रविशेषादनेकत्वेऽप्यात्मनामिव विशेषलिङ्गाभावात् सत्तावदेकत्वं कालस्येत्यर्थः। नन्बेवं क्षणलवमुहूर्त्तयामदिवसाहोरात्रपक्षमासर्त्वयनसंवत्सरादिभेदेन भूयांसः कालास्तत् कथमेक इति चेन्न भेदभानस्य उपाधिनिबन्धनत्वात्। यथा एक एव स्फटिकमणिर्जवातापिञ्जाद्युपाध्युपरागेण भिन्न इव भासते तथैक एव कालः सूर्यस्पन्दाद्यवच्छेदभेदेन तत्त्कार्याविच्छेदभेदेन च भिन्न इव भासते इत्यभ्युपगमात्। तथा च कालोपाध्यव्यापकः कालोपाधिः, स्वाधेयकादाचित्काभावाप्रतियोग्यनाधारः कालो वा क्षणः प्रतिक्षणं कस्यचिदुत्पत्तेः कस्यचिद्विनाशादेतदध्यवसेयम्। क्षणद्वयञ्च लव इत्याद्यागमप्रसिद्धम्। ननु तथाप्यतीतानागतवर्तमानभेदेन कालत्रयमस्तु श्रूयते हि “त्रैकाल्यासिद्धिः” इत्यादीति चेन्न। वस्तुतत्प्रागभावतत्प्रध्वंसावच्छेदेन त्रैकाल्यव्यवहारात् येन हि वस्तुना यः कालोऽवच्छिद्यते स तस्य वर्त्तमानः, यत्प्रागभावेन यः कालोऽवच्छिद्यते स तस्य भविष्यत्कालः यत्प्रागभावेन यत्प्रध्वंसेन यः कालोऽवच्छिद्यते स तस्यातीतकालः तथाचावच्छेदकत्रित्वाधीनः कालत्रित्वव्यवहारः ॥ 8 ॥
</2-2-8>
<2-2-9>
इदानीं सर्वोत्पत्तिमतां कालः कारणमित्याह–
नित्येषु भावादनित्येषु भावात्कारणे कालाख्येति ॥ 9 ॥
इतिशब्दो हेतौ इति हेतोः कारणे सर्वोत्पत्तिमत्कारणे काल इत्याख्या। हेतुमाह नित्येष्वभावादनित्येषु भावादिति। नित्येषु आकाशादिषु युगपज्जातः चिरं जातः क्षिप्रं जातः इदानीं जातः दिवा जातः रात्रौ जात इत्यादिप्रत्ययस्याभावात्, अनित्येषु च घटपटादिषु यौगपद्यादिप्रत्ययानां आवात् अन्वयव्यतिरेकाभ्यं कारणं काल इत्यर्थः। न केवलं यौगपद्यादिप्रत्ययबलात् कालस्य सर्वोत्पत्तिमन्निमित्तकारणत्वम् अपि तु पुष्पफलादीनां हैमन्तिकवासन्तिकप्रावृषेण्यादिसंज्ञाबलादप्येतदध्यवसेयम् ॥ 9 ॥
</2-2-9>
<2-2-10>
काललिङ्गकरणं समाप्य इदानीं दिग्लिङ्गप्रकरणमारभमाण आह–
इत इदमिति यतस्तद्दिश्यं लिङ्गम् ॥ 10 ॥
दिश इदं दिश्यं दिगनुमापकम्। इतोऽल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदं संयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरमिति नियतदिग्देशयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः। न हि तादृशं द्रव्यमन्तरेण भूयसां संयुक्तसंयोगानामल्पायसां वा पिण्डयोरुपनायकमन्यदस्ति न च तदुपनयमन्तरेण तत्तद्विशिष्टबुद्धिः न च तामन्तरेण परत्वापरत्वयोरुत्पत्तिः न च तदुत्पत्तिं विना तद्विशिष्टप्रत्ययव्यवहारौ। न च काल एव संयोगोपनायकोऽस्तु किं द्रव्यान्तरेणेति वाच्यम् कालस्य नियतक्रियोपनायकत्वेनैव सिद्धेः। अनियतपरधर्मोपनायकत्वकल्पनायान्तु काश्मीरकुंकुमपङ्करागं कार्णाटकामिनीकुचकलशं प्रत्युपनयेत्। आकाशान्मनोरपि तथा परधर्मोपसंक्रामकत्वे स एव प्रसङ्गः।
दिशस्तु नियतपरधर्मोपसंक्रामकतयैव सिद्धत्वान्नातिप्रसङ्गः। एवञ्च क्रियोपनायकात् कालात् संयोगोपनायिका दिक् पृथगेव। किञ्चास्मात् पूर्वमिदम् अस्मादुत्तरमिदम् अस्माद्दक्षिणपूर्वमिदम् अस्माद्दक्षिणपश्चिममिदम् अस्मात्पश्चिमोत्तरमिदम् अस्मादुत्तरपूर्वमिदम् अस्मादधस्तादिदम् अस्मादुपरिष्टादिदम् इत्येते प्रत्यया इत इदमितीत्यनेन सङगृहीताः एतेषां प्रत्ययानां निमित्तान्तरासम्भवात्। किञ्च नियतोपाध्युन्नायकः कालः अनियतोपाध्युन्नायिका दिक। भवति हि यदपेक्षया यो वर्त्तमानः स तदपेक्षया वर्तमान एव, दिगुपाधौ तु नैवं नियमः यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीचीत्वात्। एवमुदीच्यादिष्वपि वाच्यम्। यदपेक्षया सूर्य्योदयाचलसन्निहिता या दिक सा तदपेक्षया प्रतीची। सन्निधानन्तु सूर्यसंयुक्ते संयोगाल्पोयस्त्वं ते च सूर्य्यसंयोगा अल्पीयांसो भूयांसो वा दिगुपनेयाः। एवं प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्नादिगुदीचो, तादृशपुरुषदक्षिणभागावच्छिन्ना दिक् दक्षिणा। वामत्वदक्षिणत्वे तु शरीरारवयववृत्तिजातिविशेषौ। गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगाश्रयो दिक् अधः। अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयो दिगूर्ध्वा। एवञ्चेन्द्राग्नियमनिर्ऋतवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दश दिश इति व्यपदेशान्तरं प्राच्यादिव्यपदेशात् ॥ 10 ॥
</2-2-10>
<2-2-11>
दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह–
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ 11 ॥
गुणवतत्वाद् द्रव्यत्वम् अनाश्रितत्वाच्च नित्यत्वमित्यर्थः ॥ 11 ॥
</2-2-11>
<2-2-12>
एकत्वमतिदिशन्नाह–
तत्त्वम्भावेन ॥ 12 ॥
दिग्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च सत्ताकदेकत्वं तदनुविधानादेकपृथक्त्वम् ॥ 12 ॥
</2-2-12>
<2-2-13>
ननु यद्येकैव दिक् कथं तर्हि दश दिश इति प्रतीतिव्यवहारावित्यत आह–
कार्यविशेषेण नानात्वम् ॥ 13 ॥
कार्य्यविशेषः कार्य्यभेदस्तेन नानात्वोपचार इत्यर्थः ॥ 13 ॥
</2-2-13>
<2-2-14>
तमेव कार्यभेदं दर्शयन्नाह–
आदित्यसंयोगाद् भूतपूर्वाद्भविष्यतो भूताच्च प्राची ॥ 14 ॥
प्राक् अस्यां सविता अञ्चतीति प्राची, तथाच यस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमं संयोगो भूतपूर्वो भविष्यन् वा भवन् वा सा दिक प्राची। अत्र पुरुषाभिसन्धिभेदमाश्रित्य कालत्रयोपवर्णनम्, भवति हि कस्यचित्पूर्वेद्युः प्रातरस्यां दिशि आदित्यसेयोगः प्रथमं वृत्त इतीयं प्राचीति प्राचीव्यवहारः कस्य चिदपरेद्युरस्याम्, आदित्यसंयोगः प्रथमं भावीत्यभिसन्धाय प्राचीव्यवहारः, कस्यचिदिदानीम् अस्याम् आदित्यसंयोगो भवन्नस्तीत्यभिसन्धाय प्राचीव्यवहारः। भूतादिति आदिकर्मणि क्तप्रत्ययः तेनाभिसन्धेरनियमात् यदाप्यादित्यसंयोगो नास्ति रात्रौ मध्याह्नादौ तत्रापि प्राचीव्यवहारानुगमः सिद्ध्यतीति भावः ॥ 14 ॥
</2-2-14>
<2-2-15>
दिगन्तरव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह–
तथा दक्षिणा प्रतीची उदीची ॥ 15 ॥
तद्वदेव दक्षिणदिग्वर्त्तिनगादिना सहादित्यसंयोगाद् भूतपूर्वाद्भविष्यतो भूताद्वा दक्षिणाव्यवहारः। एवं प्रतीच्युदीच्योरपि व्यवहार उन्नेयः। वामत्वदक्षिणत्वे निरुक्ते एव ॥ 15 ॥
</2-2-15>
<2-2-16>
दिगन्तरालव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह–
एतेन दिगन्तरालानि व्याख्यातानि ॥ 16 ॥
प्राचीदक्षिणयोर्दिशोर्लक्षणसाङ्कर्येण दक्षिणपूर्वा दिगिति व्यवहारः। एवं दक्षिणपश्चिमा पश्चिमोत्तरा उत्तरपूर्वेत्यूह्यम्। एते चादित्यसंयोगा येन विभुना द्रब्येणोपनीयन्ते सा दिगिति कणादरहस्ये व्युत्पादितं विस्तरतः ॥ 16 ॥
</2-2-16>
<2-2-17>
चतुर्णा भूतानां रूपादीनि लक्षणानि कारणगुणपूर्वकतया तात्त्विकानि अन्यथा त्वौपाधिकानीति व्यवस्थितं पूर्वमेव। विशेषगुणशूनय्विभुलिङ्गञ्चोक्तम्। इदानीमाकाशस्य लिङ्गं शब्दः परोक्षणीयः। सन्ति चात्र तान्त्रिकाणां विप्रतिपत्तयः। केचिच्छब्दं द्रव्यमाचक्षते, केचिद् गुणम्, गुणत्वे सत्यप्येके नित्यमाहुः अपरे त्वनित्यम्। अन्ये तु शब्देऽपि स्फोटाख्यं शब्दान्तरमाहुः। तदत्र परीक्षामारभमाणः परीक्षाप्रथमाङ्गं संशयमेव तावल्लक्षणतः कारणतश्च व्यवस्थापयन्नाह–
सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः ॥ 17 ॥
सामान्यप्रत्यक्षादिति। सामान्यवतो धर्मिणः प्रत्यक्षात् ग्रहणात् मतुब्लोपात्। विशेषाप्रत्यक्षादिति। विशेषस्य परस्परव्यावर्त्तकस्य धर्मस्य वक्रकोटरादेः शिरःपाण्यादेश्चाप्रत्यक्षादग्रहणात्। विशेषस्मृतेः विशेषस्य कोटिद्वयस्य स्थाणुत्वपुरुषत्वलक्षणस्य स्मरणात्। स्मरणमपि ग्रहणपरं कचिदनुभूयमानधर्मयोरपिकोटित्वात्, चकाराददृष्टादेः संशयकारणस्य संग्रहः। असाधारणो धर्मोऽनाध्यवसायात्मकज्ञानजनक इति नोक्तः। यद्वा असाधारणस्यापि व्यावृत्तिद्वारा कारणत्वं सपक्षविपक्षव्यावृत्तिः साधारणधर्म एवेति नोक्तः। विप्रतिपत्तिरपि विरुद्धप्रतिपत्तिद्वयजन्यं वाक्यद्वयं शब्दो नित्य इत्यपरं तदुभयं, तदुभयजन्यञ्च ज्ञानद्वयमयुगपद्भावित्वात् सम्भूय न संशायकमतस्तत्र शब्दत्वादिरसाधारणः, सत्त्वप्रमेयत्वादिः साधारणो वाधर्मः सशायक इति पृथङ् नोक्ता।
समानतन्त्रे गौतमीयेऽनध्यवसायज्ञानस्यानभ्युपगमात् असाधारणो धर्मः संशयकारणत्वेनोक्तः। विप्रतिपत्तेर्विरुद्धवाक्यद्वयस्यान्वयव्यतिरेकशालितया संशयकारणत्वमुक्तम्। न्यायभाष्ये च उपलभ्यमानत्वं यत् संशयकारणमुक्तं सदप्युलभ्यते असदप्युपलभ्यते इति उपलभ्यमानमिदं सदसद्वेति, यच्चानुपलभ्यमानत्वं सदपि नोपलभ्यते मूलककीलकोदकादि, असदपि नोपलभ्यते गगनारविन्दादि, तथा च पञ्चविधः संशय इति। तदेतत्सामान्यमेवेति सामान्यप्रत्यक्षादित्यनेनैव गतार्थम्। न्यायवार्त्तिकेऽपि यत् कारणभेदेन संशये त्रित्वमुक्तं तदपि न सम्भवति व्यभचारेण समानधर्मादीनां त्रयाणां कारणत्वस्यैवासम्भवात्। न हि तृणारणिमणिजन्यवह्नौ वैजात्यवदत्रापि वैजात्यं कल्पनोयं संशयत्वावच्छिन्नकार्यं प्रति समानधर्मत्वेनैव कारणतायाः कल्पनात्। यच्च प्रधानविधिकोटित्वप्रधाननिषेधकोटित्वादि वैजात्यमुक्तम्, तदननुगतत्वान्नावच्छेदकम्। तथाच संशयो न त्रिविधो न वा पञ्चविधः किन्त्वेकविध एव, प्रकारान्तरेण तु द्वैविध्यं सूत्रकृदेव स्पष्टयति। ननु जिज्ञासाजनकज्ञानं संशय इति न लक्षणम् अनध्यवसायेऽपि गतत्वात्, संस्काराजनकज्ञानं संशय इत्यपि निर्विकल्पकसाधारणं विसिष्टज्ञानत्वेन संशयस्यापि संस्कारजनकत्वात्, संशयत्वञ्च जातिरपि न लक्षणं धर्म्यंसं संशयत्वाभावेन तदंशं तज्जात्यभावात् जातेश्चाव्याप्यवृत्तित्वानभ्युपगमात् इति चेत्, एकस्मिन् धर्मिणि विरोधिनानाप्रकारकं ज्ञानं संशय इति तल्लक्षणात् ॥ 17 ॥
</2-2-17>
<2-2-18>
द्विविधः संशयो बहिर्विषयकोऽन्तर्विषयकश्च। बहिर्विषकोऽपि दृश्यमानधर्मिकोऽदृश्यमानधर्मिकश्च। तत्र दृश्यमानधर्मिको यथा ऊद्ध्वत्वविशिष्टस्य धर्मिणो दर्शनात् अयं स्थाणुः पुरुषो वेति। अदृश्यमानधर्मिको यथा अरण्ये झाटाद्यन्तरिते गोगवयादिपिण्डे विषाणमात्रदर्शनात् अयं गौर्गवयो वेति। वस्तुतस्तत्रापि विषाणधर्मिक एव सन्देहो विषाणमिदं गोसम्बन्धि गवयसम्बन्धि वेति। विवक्षामात्रात्तु द्वैविध्याभिधानम्। यत् सामान्यं संशयहेतुस्तदनेकत्र दृष्टं संशायकम् एकत्र धर्मिणि वा दृष्टं संशयहेतुरित्यत्र प्रथमां विधामाह–
दृष्टञ्च दृष्टवत् ॥ 18 ॥
दृष्टमूर्द्धत्वं संशयहेतुः। दृष्टवदिति वतिप्रत्ययः तेन दृष्टाम्यां स्थाणुपुरुषाभ्यां तुल्यं वर्त्तते पुरोवर्त्तिनि यदूर्ध्वत्वं तद्दृष्टं संशयहेतुरित्यर्थः ॥ 18 ॥
</2-2-18>
<2-2-19>
एकधर्भिविषयं यद् दृष्टं तदुदाहरति–
यथादृष्टमयथादृष्टत्वाच्च ॥ 19 ॥
संशयहेतुरिति शेषः। चकारः पूर्वोक्तसमुच्चयार्थः। अयथादृष्टत्वाद्धेतोर्यथादृष्टमपि संशायकम् यथा–चैत्रो यथा दृष्टः केशवान्, कालान्तरे अयथादृष्टः केशविनाकृतो दृष्ट इत्यर्थः। क्रमेण तत्रैव चैत्रे वस्त्रावृतमस्तके दृष्टे सति भवति संशयश्चैत्रोऽयं सकेशो निष्केशो वेति। तत्र हि चैत्रत्वं समानो धर्मः संशायकः स चैकत्रैव दृष्टः संशयहेतुः ॥ 19 ॥
</2-2-19>
<2-2-20>
विद्येति। आन्तरसंशयो हि विद्याऽविद्योभ्यां भवति यथा मौहूर्त्तिकः सम्यगादिशति चन्द्रोपरागादि, असभ्यगपि। तत्र स्वज्ञाने संशयोऽस्य जायते सम्यगादिष्टमसम्यग्वेति। यद्वा ज्ञानं हि क्विचिद्विद्या भवति क्वचिच्चाविद्या अप्रमा भवति, तथाच ज्ञायमानत्वात् सदिदमसद्वेति संशयो जायते। पुनः संशयग्रहणमिहापि सामान्यप्रत्यक्षादेव संशयो न तु निमित्तान्तरादिति सूचनार्थम्। तथा च “समानानेकधर्मोपपत्तेर्निप्रतिपत्तिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः” इति गौतमीये लक्षणे उपलब्ध्यनुपलब्ध्यव्यवस्थेत्यस्य पृथगेव संशयकारणत्वं कैश्चिदुक्तं तन्निरस्तम् ॥ 20 ॥
</2-2-20>
<2-2-21>
एवं लक्षणतः स्वरूपतश्च परीक्षाप्रथमाङ्गं संशयं व्युत्पाद्य इदानीं परीक्षा विषयं शब्दं धर्मिणं दर्शयन्नाह–
श्रोत्रग्रहणो योऽर्थः स शब्दः ॥ 21 ॥
श्रोत्रं ग्रहणं ग्रहकरणं यस्य स श्रोत्रग्रहणः, अर्थ इति धर्मीत्यर्थः। तथा च शब्दवृत्तिधर्मेषु श्रोत्रग्राह्येषु शब्दत्वतारत्वादिगुणत्व-सत्त्वादिषु नातिव्याप्तिः। अर्थपदेन धर्मिपरेण जातिधर्मित्वम् अभिप्रेतम् अतः स्फोटनामा शब्दसमवेतः शब्दो नास्तीति सूचितम्। नन्वेकं पदम् एकं वाक्यमिति प्रतीतिबलादवश्यं स्फोटोऽङ्गीकर्त्तव्यः, न हि बहुवर्णात्मके पदे बहुवर्णात्मके वा वाक्ये भवत्येकत्वप्रत्ययः। स्फोट इति चार्थस्फुटीकरणाधीना संज्ञा। वर्णानां प्रत्येकं तावदथेप्रत्ययाजनकत्वमेव, मिलनन्त्वेकवक्तृकाणामाशुतरविनाशिनाममम्भवीति स्फोटादेवार्थप्रत्ययः, तज्ज्ञानमन्तरेणार्थस्फुटीभावाभावात्। स च स्फोटो यद्यपि पदभावेनावस्थितेषु सर्वेष्वेव वर्णेषु तथापि चरमवर्णे स्फुटीभवति। मैवम्। सङ्केतधद्वर्णत्वं पदत्वं तथा च सङ्खेतबलादेव पदादर्थप्रतीतौ कि स्फोटेन। वर्णानाम्बहूनामप्येकार्थप्रतिपादकत्वमेकं धर्ममभिप्रेत्य एकं पदमिति भाक्तो व्यवहारः एवं वाक्येऽपि। यदि वर्णातिरिक्तः पदात्मा कश्चित् प्रत्यक्षतो गृह्येत स्वीक्रियेतापि स्फोटः सोऽयं स्फोटवादस्तुच्छत्वादुपेक्षितः सूत्रकृता ॥ 21 ॥
</2-2-21>
<2-2-22>
तदेवं शब्दे धर्मिण्युपस्थिते गुणत्वे सत्येव तस्याकाशलिङ्गत्वम्। अतो गुणत्वव्यवस्थापनाय त्रिकोटिकं संशयमुपपादयन्नाह–
तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् ॥ 22 ॥
शब्दे संशय इति शेषः। शब्दे शब्दत्वं श्रोत्रग्राह्यत्वं चोपलभ्यते, तच्च तुल्यजातीयेषु त्रयोविशतौ गुणेषु अर्थान्तरभूतेषु द्रव्येषु कर्मसु च विशेषस्य व्यावृत्तेः उभयथा उभयत्र दशनात् `शब्दः किं गुणो द्रव्यं कर्म वेति’ संशये जनयति। सामान्यविशेषसमवायकोटिकत्वन्तु सत्त्वकारणवत्त्वादिवैधर्म्यदर्शनान्न भवति। ननु चासाधारणधमस्यानध्यवसायजनकत्वात् संशयजनकत्वं प्रतिषिद्धम् शब्दत्वं श्रोत्रग्राह्यत्वञ्चासाधारण एव धर्मः कथं संशयं जनयिष्यतीति चेत्सत्यम्। ब्यावृत्तिरस्य जातीयासजातीयसाधारणीति व्यावृत्तेः साधारणस्यैव धर्मस्य संशयजनकत्वेनोत्तत्वात्।
शब्दत्वप्रतियोगिको व्यावृत्तिः समानो धर्मः उभयगतव्यावृत्तिप्रतियोगित्वञ्च शब्दत्वमसाधारणो धर्मः। तदुक्तं विशेषस्योभयथा दर्शनादिति’। अत्र हि विशेषस्य व्यावृत्तेरुभयत्र सजातीये विजातीये च दर्शनस्य संशयहेतुत्वेनोपादानात् स च समान एव धर्म इति ॥ 22 ॥
</2-2-22>
<2-2-23>
तदेवं संशयं दर्शयित्वा द्रव्यत्वकोटिव्युदासायाह–
एकद्रव्यत्वान्न द्रव्यम् ॥ 23 ॥
एकं द्रव्यं समवायि यस्य तदेकद्रव्यं द्रव्यञ्च किमप्येकद्रव्यसमवायिकारणकं न भवतीति द्रव्यवैधर्म्यान्नायं शब्दो द्रव्यमित्यर्थः ॥ 23 ॥
</2-2-23>
<2-2-24>
ननु कर्मैकद्रव्यमेव तथा च शब्दः कर्म स्यादित्यत आह–
नापि कर्माऽचाक्षुषत्वात् ॥ 24 ॥
प्रत्ययस्य शब्दविषयकस्याचाक्षुषत्वात् चक्षुर्भिन्नबहिरिन्द्रियजन्यत्वादित्यर्थः। तथा च शब्दत्वं न कर्मवृत्ति चाक्षुषप्रत्यक्षावृत्तिजातित्वात् रसत्वादिवदिति भावः ॥ 24 ॥
</2-2-24>
<2-2-25>
ननु शब्दः कर्म आशुतरविनाशित्वात् उत्क्षेपणादिवदिति चेदत्राह–
गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ॥ 25 ॥
अपवर्गः आशुनाशः स च गुणत्वेऽपि द्वित्वादिवदाशुभाविनाशकसन्निपाताधीन इति कर्मभिः साधर्म्यमात्रमस्य न तु कर्मत्वमेव। त्वदुक्तहेतोराशुतरविनाशित्वस्य द्वित्वज्ञानसुखदुःखादिभिरनैकान्तिकत्वमिति भावः ॥ 25 ॥
</2-2-25>
<2-2-26>
ननु सिध्यतु शब्दो गुणस्तथापि नासावाकाशलिङ्गम्। आकाशं हि तदाऽनुमापयेत् यदि तस्य कार्यःस्यात्। किन्तु नित्य एवायं, कदाविदनुपलम्भस्तु व्यञ्जकाभावप्रयुक्त इत्याशङ्क्याह–
सतो लिङ्गाभावात् ॥ 26 ॥
यदि हि उच्चारणात् प्रागूध्व शब्दः सन् स्यात् तदा सतोऽस्य लिङ्गं प्रमाणान्तरं स्यात्। न चाश्रवणदशायां शब्दसत्त्वे प्रमाणमस्ति, तस्मात् कार्य्य एवायं न व्यङ्ग्य इति ॥ 26 ।
</2-226>
<2-2-27>
इतश्च न व्यङ्ग्योऽसावित्याह–
नित्यवैधर्म्यात् ॥ 27 ॥
नित्येन सहास्य शब्दस्य वैधर्म्यमुपलभ्यते यतश्चैत्रो वक्तीत्यत्रावृतोऽपि चैत्रमैत्रादिर्वचनेनानुमीयते। न च व्यञ्जकः प्रतीपादिर्व्यङ्ग्येन घटादिना क्वचिदनुमीयते, तस्माज्जन्य एवायं न व्यङ्ग्य इति भावः ॥ 27 ॥
</2-2-27>
<2-2-28>
व्यङ्ग्यत्वे बाधकमुक्त्वा सम्प्रत्यनित्यत्वे हेतुमाह–
अनित्यश्चायं कारणतः ॥ 28 ॥
कारणत उत्पत्तेर्दृष्टत्वादिति शेषः। उपलभ्यते हि भेरीदण्डसंयोगादिभ्यः प्रादुर्भवन् शब्दः, तथा चोत्पत्तिमत्त्वादनित्योऽयमिति। यद्वा कारणत इति कारणवत्त्वहेतुमुपलक्षयति ॥ 28 ॥
</2-2-28>
<2-2-29>
ननु च कारणवत्त्वं शब्दस्य स्वरूपासिद्धमत आह–
न चासिद्धं विकारात् ॥ 29 ॥
शब्दस्य कारणवत्त्वमसिद्धमिति न वाच्यम् तीव्रमन्दादिभावेन विकारस्य दर्शनात् भेरीदण्डाभिघातस्य तीव्रतया तीव्रस्य मन्दतया मन्दस्य शब्दस्योपलम्भात्। नह्यभिव्यञ्जकतोव्रत्वाद्यधीनोऽभिव्यङ्ग्यतीव्रत्वादिः। तथाच कारणतो विकारादनुमीयते जन्योऽयं न त्वभिव्यङ्ग्य इति ॥ 29 ॥
</2-2-29>
<2-2-30>
ननु व्यञ्जकस्यैवायं महिमा यत्तीव्रमन्दादिभावेनाभिव्यनक्ति भेरीदण्डाद्यभिहतो वायुरेव तीव्री मन्दश्च तथा प्रत्ययमाधत्ते अत आह–
अभिव्यक्तौ दोषात् ॥ 30 ॥
शब्दस्याभिव्यक्तौ समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं दोषः स्यात्। न च तादृशानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं क्वचिद् दृष्टम्। अत्र यदि तथा न स्वीक्रियेत तदा ककाराभिव्यक्तौ सर्ववर्णाभिव्यक्तिप्रसङ्गः। ननु समानदेशानामपि सत्त्वनरत्वब्राह्मणत्वानां स्वरूपभेदःसंस्थानयोनिव्यङ्ग्यानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं दृष्टमेवेति चेन्न तेषां समानदेशत्वाभावात्। न हि यावान् देशः सत्त्वस्य तावानेव नरत्वस्य ब्राह्मणत्वस्य वा ॥ 30 ॥
</2-2-30>
<2-2-31>
इतश्च नाभिव्यह्ग्यतेत्याह–
संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः ॥ 31 ॥
संयोगात् भेरीदण्डादिसंयोगात्, विभागात् वंशे पाट्यमाने। तत्र संयोगस्तावन्नाद्यस्य शब्दस्य कारणं तदभावात् तस्मात् वंशदलद्वयविभागो निमित्तकारणं दलाकाशविबागश्चासमवायिकारणम्। यत्र च दूरे वीणादावुत्पन्नः शब्दः तत्र सन्तानक्रमेण उत्पद्यमानः शब्दः कर्णशष्कुल्यवच्छिन्नमाकाशदेशमासादयन् गृह्यते तेन शब्दादपि शब्दनिष्पत्तिरिति ॥ 31 ॥
</2-2-31>
<2-2-32>
अनित्यत्वे हेत्वन्तरं समुच्चिनोति–
लिङ्गाच्चानित्यः शब्दः ॥ 32 ॥
वर्णात्मकः शब्दोऽनित्यः जातिमत्त्वे सति श्रोत्रग्राह्यत्वात् वीणादिध्वनिबदित्यर्थः ॥ 32 ॥
</2-2-32>
<2-2-33>
इदानीं नित्यत्वे सिद्धान्तिनोक्तान् हेतून दूषयितुमाह–
द्वयोस्तु प्रवृत्त्योरभावात् ॥ 33 ॥
तुशब्दः पूर्वोक्तव्यवच्छेदकः पूर्वपक्षाभिव्यक्त्यथः। द्वयोराचार्य्यान्तेवासिनोरध्यापनेऽध्ययने च प्रवृत्तिर्दृश्यते तस्या अभावात् अभावप्रसङ्गात्। अध्यापनं हि सम्प्रदानं सम्प्रदीयते गुरुणा सिष्याय वेदः स यदि स्थिरो भवति तदा तस्य सम्प्रदानं सम्भवति। ननु सम्प्रदीयमानं गवादि दातृप्रतिग्रहीत्रोरन्तराल उपलभ्यते, न च वेदादि गुरुशिष्ययोरन्तराले उपलभ्यत इति नाध्यापनं सम्प्रदानमिति चेत् अन्तरालेऽपि तत्रस्थपुरुषश्रोत्रेण तदुपलम्भात्। किञ्चाभ्यासादपि शब्दस्ये नित्यता, यथा पञ्चकृत्वो रूप पश्यतीति स्थिरस्य रूपस्याभ्यासो दृष्टः तथा दशकृत्वोऽधोतोऽनुवाकः विशतिकृत्वोऽधीत इत्यभ्यासः स्थैर्य्ये शब्दस्य प्रमाणम्। सिद्धे च स्थैर्य्ये पिनाशकानुपलब्धेः “तावत् कालं स्थिरञ्चैनं कः पश्चान्नाशयिष्यति” इति नित्यतैव पर्य्यवसन्नेति भावः ॥ 33 ॥
</2-2-33>
<2-2-34>
हेत्वन्तरं शब्दस्य नित्यत्वे आह–
प्रथमाशब्दात् ॥ 34 ॥
`त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति प्रथमोत्तमयोः सामिधेन्योस्त्रिरुच्चारणं स्थैर्य्यं विनाऽनुपपन्नमित्यर्थः ॥ 34 ॥
</2-2-34>
<2-2-35>
शब्दनित्यत्वे हेत्वन्तरमाह–
सम्प्रतिपत्तिभावाच्च ॥ 35 ॥
सम्प्रतिपत्तिः प्रत्यबिज्ञा तद्भावात् तत्सद्भावादित्यर्थः। प्रतिपत्तिशब्दादेव तद्विशेषस्य प्रत्यभिज्ञाया लाभात् सम्पूर्वः सत्यत्वमाह। तथाच यैव गाथा मैत्रेणोच्चारिता तामेवायमुच्चरति तमेव श्लोकं पुनः पुनः पठति उक्तमेव वचनं पुनः पुनरभिधत्से यदेव वाक्यं परारि परुच्च त्वयोक्तं तदेवेदानीमपि ब्रूषे स एवायं गकार इत्यादिप्रत्यभिज्ञाबलात् स्थैर्य्यं शब्दस्येति ॥ 35 ॥
</2-2-35>
<2-2-36>
सर्वानिमान् हेतून् दूषयन्नाह–
सन्दिग्धाः सति बहुत्वे ॥ 36 ॥
सन्दिग्धा अनैकान्तिका इत्यर्थः। तदुक्तं–“विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत्"इति। तथा च बहुत्वे नानात्वेऽपि अध्ययनमभ्यसनं प्रत्यभिज्ञानञ्च दृष्टमित्यनैकान्तिकत्वं हेतूनाम्। तथाहि नृत्यमधीते नृत्यमभ्यस्यति द्विरनृत्यत् यदेव नृत्यं परुदकार्षोरैषणोऽपि तदेव करोषि यदेव नृत्यमेकेन चारणेन कृतं तदेवायमपि करोतीति नृत्ये दृष्टत्वात्, तस्य च कर्मविशेषस्य त्वयाऽपि स्थैर्य्यानभ्युपगमात् ॥ 36 ॥
</2-2-36>
<2-2-37>
ननु पञ्चादशद्वर्णा अष्टाक्षरो मन्त्रः त्र्यक्षरो मन्त्रः अष्टाक्षराऽनुष्टुबित्यादिसङ्ख्या कथं? वर्णानामनित्यत्वे उच्चारणभेदेनानन्त्यसम्भवादित्यत आह–
संख्याभावः सामान्यतः ॥ 37 ॥
सङ्ख्यायाः पञ्चाशदादिसङ्ख्याया भावः सद्भावः सामान्यतः कत्वगत्वादिजातित इत्यर्थः। ककारादीनामानन्त्येऽपि कत्वगत्वाद्यवच्छिन्नानां पञ्चाशत्त्वं त्रित्वमष्टत्वं वा द्रव्यगुणादीनामान्तर्गणिकभेदेनानन्त्येपि नवत्वचतुर्विशतित्वादिवदिति भावः।
ननु स एवायं गकार इति प्रत्यभिज्ञैव स्थैर्य्यसाधिका, न चैषा तीव्रो गकारो मन्दो गकार इति प्रतीत्या विरुद्धधर्म गोचरयन्त्या बाध्यते तीव्रत्वादेस्तत्रौपाधिकत्वात्। न चोपाधिभेदादपि भेदो माभूत् तर्हि जवातापिञ्जादिसंयोगान्नीलपीतादिभावेन प्रथमानः स्फटिकमणिरपि नाना, कृपाणमणिदर्पणेषु दीर्घादिभावेन भासमानं मुखमपि वा नाना न बासेत। ननु कस्यायं तीव्रताधर्मोगकारोपाधिक इति चेन्न वायुधर्मो नादधर्मो ध्वनिधर्मो वा भविष्यति कि तत्र विशेचिन्तया। त्वयापि तारत्वादेः कत्वगत्वादिना परापरभावानुपपत्त्या स्वाभाविकत्वाभ्युपगमादिति चेत्।
मैवम्। उत्पन्नो गकारः, नष्टो गकारः श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इत्यादिविरोधिप्रतीतौ सत्यामपि चेत् इयं प्रत्यभिज्ञा न निवर्त्तते तदास्या जातिविषयताकल्पनात्। अन्यथा व्यक्तिस्थैर्य्यमालग्बमानायामस्यां सत्यामुक्तविरोधिप्रत्यया एव नोत्पद्येरन्। न चायं वायुधर्मस्तद्धर्भाणां श्रोत्राविषयत्वात्। नापि नादधर्मः, नादो यदि वायुरेव तदा दोषस्योक्तत्वात् अन्यस्य निर्वक्तुमशक्यत्वात्। नापि ध्वनिदधर्मः, शङ्खादिध्वनावनुपलभ्यमानेऽपि गकारे तारत्वादिप्रतीतेः। स्वाभाविकत्वे तु न जातिसाङ्कर्य्यं गत्वादिव्याप्यस्य तस्य नानात्वाभ्युपगमात्। किञ्च शुकसारिकामनुष्यप्रभवेषु गकारादिषु स्फुटतरा रूपभेदप्रथाऽस्थि एवं स्त्रीपुंसप्रभवेषु स्त्रीपुंसभेदप्रभवेषु च, यतः काण्डपटाद्यावृता अपि शुकादयोऽनुमीयन्ते। औपाधिकत्वन्त्वस्य नानुभूयमानोपाधिनिबन्धनं कुङ्कमारुणा नरुणीतिवत्। नाप्यौपपत्तिकमौपाधिकत्वम् उपपत्तेस्तादृशप्रमाणस्याभावादिति संक्षेपः ॥ 37 ॥
</2-2-37>
इति वैशेषिकसूत्रोपस्कारे शाङ्करे द्वितीयाध्यायस्य द्वितीयमाह्निकम्।
समाप्तश्चायं द्वितीयोऽध्यायः।
———————————————————-
** तृतीयाध्याये प्रथमाह्निकम्**
<3-1-1>
तदेवं द्वितीयाध्याये बहिर्द्रव्यपरीक्षामुपाद्य उद्देशक्रमादिदानीमात्मपरीक्षायै पीठमारचयितुमाह–
प्रसिद्धा इन्द्रियार्थाः ॥ 1 ॥
इन्द्रियाणामर्था गन्धरसरूपस्पर्शशब्दा बाह्यैकैकेन्द्रियग्राह्याः। तत्र “श्रोत्रग्रहणो योऽर्थः स शब्द” इति शब्दप्रसिद्धौ दर्शितायामर्थाद् गन्धादौ स्पर्शपर्य्यन्ते प्रसिद्धिर्दर्शितेत्यर्थः। तथाहि घ्राणग्रहणो योऽर्थः स गन्धः, रसनग्रहणो योऽर्थः स रसः, चक्षुर्मात्रग्रहणी योऽर्थः तद्रूपम्, त्वगिन्द्रियमात्रग्रहणो योऽर्थः स स्पर्शः। सर्वत्र चार्थशब्देन धर्मी भावभूत उच्यते तेन गन्धत्वादौ गन्धा द्यभावे च नातिव्याप्तिः, तदेवं घ्राणग्रहणवृत्तिगुणत्वावान्तरजातिमत्त्वं गन्धत्वम्। एवं रसादावपि वाच्यम् तेन नातीन्द्रियगन्धाद्यनुपग्रहः ॥ 1 ॥
<3-1-2>
इन्द्रियार्थप्रसिद्धेरात्मपरीक्षायामुपयोगमाह–
इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः ॥ 2 ॥
हेतुर्लिङ्गमर्थान्तरस्य आत्मनः। इन्द्रियार्भ्येयः इति। इन्द्रियेभ्योर्थेभ्यश्च रूपादिभ्यस्तद्वद्भ्यश्च यदर्थान्तरम् आत्मा तस्य लिङ्गमित्यर्थः। यद्यपि ज्ञानमेव लिङ्गमिह विवक्षितम् तथापीन्द्रियार्थप्रसिद्धे रूपादिसाक्षात्कारस्य प्रसिद्धतरतया ताद्रूप्येणैव जिङ्गत्वमुक्तम्। तथाहि प्रसिद्धिः क्वचिदाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा। सा च प्रसिद्धिः करणजन्या क्रियात्वात् छिदिक्रियावत्। यच्च प्रसिद्धेः करणं तदिन्द्रियम्। तच्च कर्तृप्रयोज्यं करणत्वात् वास्यादिवत् तथा यत्रेयं प्रसिद्धिराश्रिता यः घ्राणादीनां करणानां प्रयोक्ता स आत्मा ॥ 2 ॥
<3-1-3>
ननु शरीरमिन्द्रियाणि वा प्रसिद्धेराश्रयोऽस्तु प्रसिद्धिं प्रति तदुभयान्वयव्यतिरेकयोः स्फुटतरत्वात् किं तदन्याश्रयकल्पनया। तथाहि चैतन्यं शरोरगुणः तत्कार्यत्वात् तद्रूपादिवत्। एवमिन्द्रियगुणत्वेऽपि वाच्यमित्याशङ्क्याह–
सोऽनपदेशः ॥ 3 ॥
अपदेशो हेतुः तदाभासोऽनपदेशः। तथाच तत् कार्यत्वं ग्रदीपजन्यज्ञानादावनैकान्तिकत्वादनपदेश इत्यर्थः ॥ 3 ॥
<3-1-4>
ननु तत्कार्यत्वं चैतन्यत्वावच्छिन्नस्यैव कार्यत्वं विवक्षितं प्रदीपादीनाञ्च समस्तमेव चैतन्यं न कार्यमिति न व्यभिचार इत्याशङ्क्याह–
कारणाज्ञानात् ॥ 4 ॥
शरीरकारणानां करचरणादीनां तदबयवानां वा अज्ञानात् ज्ञानशून्यत्वादित्यर्थः। पृथिव्यादिविशेषगुणानां हि कारणगुणपूर्वकता दृष्टा तथा च शरीरकारणेषु यदि ज्ञानं स्यात्तदा शरीरेऽपि सम्भाव्येत, न चैवम्। नन्वस्तु शरीरकारणेष्वपि चैतन्यमिति चेन्न ऐकमत्याभावप्रसङ्गात्। न हि बहूनाञ्चेतनानामैकमत्यं ष्टदृम्, करावच्छेदेनानुभूयतस्य करच्छेदेऽस्मरणप्रसङ्गात्, यतो “नान्यदृष्टं स्मरत्यन्यः” इति। किञ्च शरीरनाशे तत्कृतहिंसादिफलानुपभोगप्रसङ्गात्। न हि चैत्रेण कृतस्य पापस्य फलं मैत्रो भुंक्ते ततश्च कृतहानिरकृताभ्यागमश्च स्यात् ॥ 4 ॥
<3-1-5>
ननु शरीरकारणेषु सूक्ष्ममात्रया भानमस्ति शरीरे तु स्फुटमतो नाकारणगुणपूर्वकता न चैकमत्यानुपपत्तिरित्याशङ्क्याह–
कार्येषु ज्ञानात् ॥ 5 ॥
यदि हि शरीरमूलकारणेषु परमाणुषु चैतन्यं स्यात् तदा तदारब्धेषु कार्येषु घटादिष्वपि स्यात्। किञ्च पार्थिवविशेषगुणानां सर्वपार्थिववृत्तितया व्याप्तेः कार्येष्वपि घटादिषु चैतन्यं स्यान्न च तत्र चैतन्यमुपलभ्यते इत्यर्थः ॥ 5 ॥
<3-1-6>
ननु घटादावपि सूक्ष्ममात्रया चैतन्यमस्त्येवेत्याशङ्क्याह–
अज्ञानाच्च ॥ 6 ॥
सर्वैः प्रमाणैरज्ञानात् कुम्भादौ न चैतन्यमित्यर्थः। सर्वप्रमाणागोचरस्याप्यभ्युपगमे शशविषाणादेरप्यभ्युपगमप्रसङ्गः। न हि घटादौ चैतन्यं केनापि प्रमाणेन ज्ञायत इति ॥ 6 ॥
<3-1-7>
ननु श्रोत्रादिभिः करणैरधिष्ठाताऽनुमीयते इत्युक्तं, तदयुक्तम् न हि श्रोत्रादिभिरात्मनस्तादत्म्यं तदुत्पत्तिर्वा, न च ताभ्यामन्तरेणाविनाभावसिद्धिः, न चाविनाभावमन्तरेणानुमितिरित्यत आह–
अन्यदेव हेतुरित्यनपदेशः ॥ 7 ॥
हेतुः साध्यादन्य एव भवति न तु साध्यात्मा साध्याविशेषप्रसङ्गात्, तस्मात्तादा म्यघटितो हेतुरहेतुरनपदेश इत्यर्तः ॥ 7 ॥
<3-1-8>
ननु श्रोत्रादिभिरिन्द्रियैरात्मनो यथा न तादात्म्यं तथा तदुत्पत्तिरपि नास्ति नहि वह्नेर्धूम इव आत्मनः श्रोत्रादिकरणमुपपद्यते इत्यत आह–
अर्थान्तरं ह्यर्थान्तरस्यानपदेशः ॥ 8 ॥
हि यतः कार्यं धूमादि यथा रासभादेरर्थान्तरन्तथा कारणाद्वह्न्यादेरप्यर्थान्तरमेव। तथा चार्थान्तरत्वाविशेषात् धूमो रासभं न गमयति किन्तु वह्निमेव गमयतीत्यत्र स्वभावविशेष एव नियामकः। स च स्वभावो यदि कार्यादन्यस्यापि भवति तदा सोऽप्यदेशो भवत्येव। तथा च कार्य्यमविवक्षितस्वभावभेदम् अनपदेशः। तथा च तादात्म्यतदुत्पत्ती एवाविनाभावः तयोरेवाविनाभावपर्यवसानम् ताभ्यां समानोपायो वा तदुभयमात्रग्रहाधोनग्रहो वेति स्वशिष्यव्यामोहनाय परिभाषामात्रमिति भावः ॥ 8 ॥
<3-1-9>
सम्प्रत्यविनाभावस्य तदुभयव्यभिचारमेव स्फुटयितुमाह–
र्सयोगि समवाय्येकार्थसमवायि विरोधि च ॥ 9 ॥
शरीरे त्वग्वद् शरीरत्वादित्ययं हेतुः संयोगी। वृद्धिक्षयवद्द्रव्यसहजावरणं हि त्वगित्युच्यते। तच्च न शरीरस्य कार्यं कारणं वा, किन्तु सहोत्पत्तिकमात्रं नियतसंयोगवत्। एवं समवायि यथाकाशं परिमाणवद् द्रव्यत्वात् घटादिवदिति। अत्र परिमाणं साध्यं द्रव्यत्वेनाकाशसमवायिना धर्मेण साध्यते यद्वा पिरिमाणतारतम्यं क्वचिद्विश्रान्तमित्यनेनाणुत्वं परिमाणविशेषः सिद्धः। तेन तदाश्रयः परमाणुरनुमीयते। शब्दादिना त्वाकाशस्य, ज्ञानादिना त्वात्मनोऽनुमानं कार्येणैव कारणानुमानमिति नोदाहृतम् ॥ 9 ॥
<3-1-10>
एकार्थसमवायिनं सूत्रकृदुदाहरति–
कार्यं कार्य्यान्तरस्य ॥ 10 ॥
कार्यं रूपं कार्यान्तरस्य स्पर्शस्य लिङ्गम्। उपलक्षणञ्चैतत् अकार्यमप्याकाशैकत्वम् आकाशैकपृथक्त्वे लिङ्गम्। एवं परममहत्त्वे ॥ 10 ॥
<3-1-11>
विरोधिलिङ्गमुदाहरति–
विरोध्यभूतं भूतस्य ॥ 11 ॥
अभूतं वर्षं, भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम्। एवं स्फोटादेर्विरोधी मन्त्रपाठः। तथा चाबूतमनुत्पन्नं स्फोटादि भूतस्य मन्त्रपाठस्य लिङ्गम् ॥ 11 ॥
<3-1-12>
विरोधिलिङ्गस्योदाहरणान्तरमाह–
भूतमभूतस्य ॥ 12 ॥
भूतं स्फोटादिकम् अभूतस्य मन्त्रपाठस्य लिङ्गम्। एवं भूतो वाय्वभ्रसंयोगोऽभूतस्य वर्षस्य लिङ्गम्। एवं भूतो दाहोऽभूतस्य मण्यादिसमवधानस्य लिङ्गमेवमन्यदप्यूह्यम् ॥ 12 ॥
<3-1-13>
लिङ्गान्तरमुदाहरति–
भूतो भूतस्य ॥ 13 ॥
विद्यमानेनैव विरोधिना विद्यमानस्यैव विरोधिनः क्वचिदनुमानम् यथा विस्फूर्जन्तमहिं दृष्ट्वा झाटान्तरितस्य नकुलस्य। अत्र हि विस्फूर्जन्नहिर्भूतो विद्यमानो झटान्तरितो नकुलोऽपि विद्यमान एवेति भवति भूतो भूतस्य लिङ्गमित्यर्थः। वर्षवाय्वभ्रसयोगस्य तु नैकस्मिन् काले विद्यमानता न वा स्फोटमन्त्रपाठयोरिति ॥ 13 ॥
<3-1-14>
इदानीं परिगणनस्य प्रयोजनमाह–
प्रसिद्धिपूर्वकत्वादपदेशस्य ॥ 14 ॥
प्रसिद्धिः स्मर्य्यमाणा व्याप्तिः अपदेशो हेतुवचनं, तेन स्मर्यमाणव्याप्तिविशिष्टो हेतुर्हेत्ववयवेनोपनयावयवेन वोच्यते इति भवति प्रसिद्धिपूर्वकोऽपदेश इति। तथाच श्रोत्रादिना करणेनाधिष्ठातुः, ज्ञानादिना च गुणेन तदाश्रयस्थात्मनोः यदनुमानमुक्तम् तत्र सर्वत्र व्याप्तिरस्ति त्वया तु शरीरकार्य्यत्वेन हेतुना ज्ञानस्य यच्छरीरगुणत्वं साधितं तत्र न व्याप्तिरिति भावः।
ननु केयं व्याप्तिः?
न तावदन्यभिचरितः सम्बन्धः अव्यभिचारस्य साध्यात्यन्ताभावसामानाधिकरण्यानधिकरणत्वस्य केवलान्वयिन्यप्रसिद्धेः। साध्यानधिकरणत्वस्यापि केवलान्वयिन्यसम्भवात् धूमादेरपि यत्किञ्चित्साध्यानधिकरणाधिकरणत्वात्।
नाप्यविनाभावः। स हि साध्यं विनाऽभावो वा हेतोः, अविनासाध्यान्वये सति भावो वा? धूमस्यापि क्वचिद्रासभाभावेऽभावात्, रासभसत्त्वे सत्त्वाच्च नियतव्यतिरेको नियतश्चान्वयो विवक्षित इति चेत्, न नियमस्यैव निरूप्यमाणत्वात्।
नापि कार्त्स्नेन सम्बन्धः स यदि कृत्स्नस्य साध्यस्य साधनसम्बन्धः, स विषमव्याप्ते धूमादावपि नास्ति। अथ कृत्स्स्नस्य साधनस्य साध्यसम्बन्धः, सोऽप्येकस्य साध्यस्य कृत्स्नसाधने सम्बन्धाभावादनुपपन्नः। अथ कृत्स्नस्य साध्यस्य कृत्स्नेन साधनेन सम्बन्धः, एतदप्ययुक्तम् न हि कृत्स्नेन साधनेन कृत्स्नस्य साध्यस्य क्वचिदपि सम्बन्धः सम्भवति, प्रत्येकमेव साध्यसाधनयोः सम्बन्धात्, विषमव्याप्ते चाव्याप्तेः।
नापि स्वाभाविकः सम्बन्धः। स्वभावी हि स्वस्य भावो वा स्वमेव भावो वा, तत्र तज्जन्यत्वञ्चेत्तद्धितार्थः, तदा समवायलक्षणायां व्याप्तावव्याप्तेः। तदाश्रितत्वञ्चेत्तद्धितार्थः, तदापि समवायेऽव्याप्तिः, न हि समवायः क्वचिदाश्रितः संयोगस्यापि हेतुधर्मधूमत्वाद्यजन्यत्वाच्च।
नाप्यनौपाधिकः सम्बन्धः। उपाधेरेव दुर्व चत्वात्। सुवचत्वेऽपि दुर्ग्रहत्वात् सुग्रहत्वेऽप्यन्तोनेयाश्रयात्। साध्यव्यापकत्वे सति साधनाव्यापकत्वादेर्व्याप्तिग्रहाधीनग्रहत्वात्।
नापि स्बन्धमात्रं व्याप्तिः। व्यभिचारिसम्बन्धस्यापि देशविशेषकालविशेषगर्भतया व्याप्तिरूपत्वेऽपि, तजज्ञानस्यानुमितावतन्त्रत्वात् अनुमितिकारणीभूतज्ञानविषयव्याप्तेरेव निरूपयितुमिचितत्वात्।
नापि साधनवन्निष्ठात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः। वह्नेरपि धूमवन्निष्ठात्यन्ताभावप्रतियोगित्वात् न हि धूमवति महानसे पर्वतोयवह्नेर्नात्यन्ताभावः। इदं संयोगि द्रव्यत्वादित्यादौ संयोगात्यन्ताभावस्य साधनसमानाधिकरणत्वादव्यापकताप्रसङ्गात्। प्रतियोगिविरुद्धस्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः संयोगात्यन्ताभावस्यप्रतियोगिविरुद्धत्वाभावादिति चेन्न संयोगात्यन्ताभावस्यापि प्रतियोगिविरुद्धत्वात् अन्यथाऽवच्छेदभेदकल्पनावैयर्थ्यात् न हि कृतकत्वानित्यत्वयोर्वृत्त्यर्थमवच्छेदभेदः कल्प्यते। नापिसाध्यवैयधिकरण्यानधिकरणत्वम्। केवलान्वयिनि साध्यवैयधिकरण्याप्रसिद्धेःसाध्यानधिकरणाधिकरणत्वं हि तत्। नापि यत्सम्बन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः वह्निवत्त्वस्यापि धूमसम्बन्धितावच्छेदकत्वात्। अधिकदेशवृत्तितया तन्न तथेति चेत् व्यापकतावच्छेदकस्याधिकदेशवृत्तेरप्यभ्युपगमात् धूमत्वस्यापि गगनतलावलम्बिधूमवृत्तितयाऽधिकदेशवृत्तित्वात्। अतएव तद्वारणार्थं विशेषणमिति चेत्, तर्हि यद् व्याप्यतावच्छेदकं तदेव सम्बन्धितावच्छेदकत्वेनाभिमतमित्यभिमतं तथा चात्माश्रयः। एवञ्च यत् सामानाधिकरण्यावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिरित्यप्युक्तदोषाक्रान्तमिति चेत्, अत्रोच्यते अनौपाधिकः सम्बन्धो व्याप्तिः। अनौपाधिकत्वन्तु यावः स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यम्, यावत्स्वसमानाधिकरणात्याताभावप्रतियोगिकात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यं वा। यावत्साधनाव्यापकाव्याप्यसाध्यसामानाधिकरण्यमिति निरुक्तिद्वयार्थः। यावत्माध्यव्यापकाव्याप्यसाध्यसामानाधिकरण्यमिति निरुक्तिद्वयार्थः। यावत्माध्यव्यापकव्यापकत्वं वा बहुव्रीहिणा दुर्ग्रहमिदमिति चेत् अत एव तत्र भूयोदर्शनापेक्षा तर्कापेक्षा च। यद्वा साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः। अत्यन्ताभावश्च वह्नित्वादिसामान्यावच्छिन्नप्रतियोगिताको विवक्षितः तेन महानसीयधूमे पर्वतीयवह्न्यत्यन्ताभावसामानाधिकरण्येऽपि न देषः, धूमवति वह्निर्ना स्तीति प्रतीतेरनुदयात्। द्रव्यत्वन्तु संयोगित्वात्यन्ताभावासमानाधिकरणमेव, न हि भवति द्रव्यं न संयोगीति प्रतीतिः, संयोगानां प्रत्येकमव्याप्यवृत्तित्वेऽपि संयोगित्वसामानय्स्य व्याप्यवृत्तित्वात् तस्यैव च व्यापकत्वात्। नन्वनौपाधिकत्वमुपाधिविरहः उपाधिरेव दुष्परिकलनीय इति चेन्न साध्यव्यापकत्वे सति साधनाव्यापकस्योपाधित्वात्। तदुक्त्–
साधने सोपाधि- साध्ये निरुपाधिरुपाधिः।
ननु केवलसाध्यव्यापकोपाध्यव्यापकमेतत्। यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वम्, स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वम्, न ह्युद्भूतरूपवत्त्व प्रत्यक्षत्वव्यापकम् आत्मनि गुणकर्म्मादौ च प्रत्यक्षे तदभावात्, नापि शाकपाकजत्वं श्यामत्वव्यापकम् काककोकिलजलदजम्बूफलादौ श्यामे तदभावादिति चेन्न पर्य्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वस्य तथा विवक्षितत्वात्। पर्य्यवसितञ्च साध्यं यद्धर्मावच्छेदेनोपाधेर्व्यापकत्वमभग्नं तद्धर्मावच्छिन्नम्, प्रकृते बहिर्द्रव्यत्वावच्छेदेन प्रत्यक्षत्वस्योद्भूतरूपवत्त्व व्यापकम्, अन्यव्यतिरेकाभ्यां गृहीतम्, औत्पत्तिकनरश्यामत्वावच्छिन्नं साध्यं प्रति चरकसुश्रुतादौ शाकपाकजत्वस्य व्यापकत्वावधारणादेवमन्यत्राप्यूह्यम्। ननु नायमुपाधिपदवाच्यः, यद्धर्मोऽन्यत्र भासते स उपाधिः यथो स्फटिकादौ जवाकुसुमादि विषमव्याप्तोपाधौ च व्याप्यत्वाभावात्तद्धर्मस्य साधनाभिमतेऽनवभासनादिति चेत्, सत्यम् समव्याप्त एवार्द्रेन्धनप्रभववह्निमत्त्वादौ मुख्य उपाधिपदप्रयोगः, अन्यत्र तु गौणः। गुणश्च व्यभिचारोन्नायकत्वम्, यद्धि यद्व्यापकव्यभिचारि तस्य तद्व्यभिचारित्वनियमात् भवति च साध्यव्यापकस्योपाधेव्यभिचारि साधनम्, अतः साध्यव्यभिचारीति। यद्व्यापकाव्याप्यं यत् तत् तदव्याप्यम् इति व्याप्यत्वासिद्ध्युन्नायकत्वं वा। सत्प्रतिपक्षोत्थापकत्वं वा पक्षे उपाधेः साध्यव्यापकस्याभावात् साध्याभावसाधनात्। तदुक्तं–
वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः।
पर्य्यवसितं नियमयन् दूषकताबोजसाम्यात् ॥ इति।
उन्नोयते चायं बाधव्यभिचारानुकूलतर्काभावप्रतिकूलतर्कैः। यत्तु यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिरिति। तत्र तृतीया न करणे न हेतौ न प्रकारे न लक्षणे। न च यद्व्यभिचारित्वेन ज्ञातेन साधनस्य साध्यव्यभिचारित्वं ज्ञायते इति पूरणीयम् अज्ञायमानोपार्ध्यव्यापनात् स्फुटव्यभिचारस्थलोपाध्यव्यापनात्। योग्यतागर्भा तु दुर्निरूपा, व्यभिचारोन्नायकत्वमव्यवस्थाप्य उपाध्युद्भावनाशक्यत्वाच्च। पक्षेतरत्वन्तु उपाधिलक्षणाक्रान्तमपि स्वव्याधातकत्वान्नोपाधिः यथा पक्षे सन्दिग्धानैकान्तिकत्वम्। यदि हि तत्र न सन्देहस्तदा न पक्षता, यदि पक्षता तदा सन्देहस्यावश्यकता सन्दिग्धानैकान्तिकत्वध्रौव्यात्। अवशिष्टं मयूखेऽन्वेष्टव्यम् ॥ 14 ॥
<3-1-15>
इदानीं वृत्तानां वर्त्तिष्यमाणानाञ्च हेतूनां हेत्वाभासाद्विवेकाय हेत्वाभासप्रकरणमारभमाण आह–
अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः ॥ 15 ॥
अप्रसिद्ध इति। अव्याप्तोऽगृहीतव्याप्तिको विपरीतव्याप्तिकश्च विरुद्धः। एतेन व्याप्यत्वासिद्धविरुद्धयोः संग्रहः। असन् इति। पक्षेऽसन् अपक्षधर्म इत्यर्थः। स च क्वचित् स्वरूपतिरहात् क्वचित् सन्देहसिषाधयिषयोरभावात्। सिद्धसाधने। सन्दिग्ध इति। पक्षे साध्यसदसत्त्वकोटिकसंशयजनकः। स च संशयः समानधर्मदर्शनात् क्वचिदसाधारणधर्मदर्शनात् क्वचित् पक्ष एव हेतोः साध्यतदभावसाहचर्य्यदर्शनात्। आद्यः साधारणानैकान्तिकः। द्वितीयस्त्वसाधारणानैकान्तिकः। तृतीयोऽनुपसंहारी ॥ 15 ॥
<3-1-16>
तत्र व्याप्यत्वासिद्धविरुद्धस्वरूपासिद्धानामुदाहरणमाह–
यस्माद्विषाणी तस्मादश्वः ॥ 16 ॥
यत्र रासभपिण्डं पक्षीकृत्यायमसावश्यः विषाणित्वात् यस्तु नाश्वो नासौ विषाणी, यथा शशशृगालनरवानरादिरिति व्यतिरेकसहचारदर्शनाहितव्यामोहः प्रयुङ्क्ते। तत्र व्याप्यत्वासिद्धस्वरूपासिद्धविरुद्धानामुदाहरणमिदम् ॥ 16 ॥
<3-1-17>
अनैकान्तिकमुदाहरति–
यस्माद्विषाणी तस्माद् गौरिति चानैकान्तिकस्योदाहरणम् ॥ 17 ॥
यत्र महिषं पक्षयित्वा अयं गौर्विषाणित्वादिति साधयति तत्र साधारणानैकान्तिकता। यदा त्वाकाशं नित्यं शब्दाश्रयत्वादिति साधयति तदाऽस्यासाधारणानैकान्तिकता एवं शब्दोऽनित्यः शब्दत्वादित्याद्यप्यगृह्यमाणदशायामसाधारणानैकान्तिकमेव, यदा तु विपक्षबाधकतर्कावतारात् पक्ष एवं साध्यं सिध्येत् तदा सपक्षवृत्तिताज्ञानदशायां सद्धेतुरेव पक्षस्यापि सपक्षत्वात्। तत्र व्याप्तपक्षधर्मतयाऽप्रमितोऽसिद्धः। स च त्रिविधः व्याप्यत्वासिद्धः स्वरूपासिद्धः आश्रयासिद्धश्च। तत्रागृहीतव्याप्तिको व्याप्यत्वासिद्धः, सत्या एव व्याप्तेरग्रहात् व्याप्तेरभावाच्च उभयथापि। तेनानुकूलतर्काभावादयोऽसिद्धभेदाः। स चायमसमर्थविविशेषणा-समर्थविशेष्या-समर्थोभय-संदिग्धासमर्थविशेषण-सन्दिग्धासमर्थविशेष्य-सन्दिग्धासमर्थोभय-भेदप्रपञ्चेन सहस्रधा भिद्यते। सर्वत्र चात्र सिद्धिविरह एवोद्भाव्यः।
अत्रेदं तत्त्वम्। हेतुस्तावत् केवलान्वय्यन्वयव्यतिरेकिकेवलव्यतिरेकिभेदात्त्रिविधः। तत्र सर्वधर्मिगतो धर्मः केवलान्वयो, यथा प्रमेयत्वा-भिधेयत्व-विशेष्यत्व विशेषणत्व-नित्यद्रव्यात्यान्ताभावा-श्रयनाश्यगुणादिध्वंसात्यन्ताभावादयः। नह्यस्ति तादृशं किञ्चित्, यत्रैते धर्मा न विद्यन्ते। तथा च सवर्गतत्वम् अत्यन्ताभावाप्रतियोगित्वं वा केवलान्वयित्वम्। एतेषाञ्च स्वात्मवृत्तित्वेऽपि न दोषः तदुक्तम्–
प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नते यतः। इति।
केवलान्वयिसाध्यको हेतुः केवलान्वयी। अस्य च पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितत्वानि चत्वारि रूपाणि गमकत्वौपयिकानि। अन्वयव्यतिरेकिणस्तुहेतोर्विपक्षासत्त्वेन सह पञ्च केवलव्यतिरेकिणः सपक्षसत्त्वव्यतिरेकेण चत्वारि। तथाच यस्य हेतोर्यावन्ति रूपाणि गमकतौपयिकानि तदनय्तररूपहीनः स हेतुराभासः। एबञ्च गमकतौपयिकान्यतररूपशून्यत्वं हेत्वाभासत्वम्, तेनान्यतररूपशून्यत्वस्य निश्चयवत्सन्देहोऽप्यनुमितिप्रतिबन्धकः वादिहेतोरसाधकतासाधकञ्च। न च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोरन्यतररूपशून्यतया हेत्वाभासत्वापत्तिः, केवलान्वयिनि विपक्षासत्त्वास्य केवलव्यरतिरेकिणि सपक्षसत्त्वस्य गमकत्वौपयिकत्वाभावात्। एवञ्चाश्रयासिद्धस्वरूपासिद्धभागासिद्धानां पक्षसत्त्वरूपविरहादाभासत्वम्। व्याप्यत्वासिद्धविरुद्धसाधारणानैकान्तिकानां विपक्षासत्त्वरूपवैकल्यात्। असाधारणानैकान्तिकानुपसंहारिणोः सपक्षसत्त्ववैकल्यात्। बाधितसत्प्रतिपक्षितयोरबाधितत्वासत्प्रतिपक्षितत्वविरहात्। एवं सोपाधिकत्वाप्रयोकजत्वयोरपि विपक्षासत्त्वनिश्चयाभावादगमकत्वम्। अनुकूलसाधनविकलोभयविकलदृष्टान्ताभासानां यदि हेत्वाभासविधया दोषत्वं तदा सपक्षत्त्वानिश्चयात्, यदि स्वातन्त्र्येण दृष्टान्ताभासतया तथापि द्वारं हेतोः सपक्षसत्त्वानिश्चय एव। अनुपदर्शितान्वयानुपदर्शितव्यतिरेकविपरीतोपदर्शितान्वयविपरीतोपदर्शितव्यतिरेकास्तु न्यूना,- प्राप्तकाल-निग्रहस्थानपर्य्यवसन्ना एव आत्माश्रयान्योन्याश्रयचक्रकानवस्थास्तु व्याप्तिनिश्चयं विघटयन्तः सपक्षसत्त्वविपक्षासत्त्वान्यतररूपविकला एव हेत्वाभासतामासादयन्ति। तत्र पक्षे साध्यसदसत्त्वकोटिकसंशयजनको हेत्वाभासः सव्यभिचारः। पक्षे साध्याभावनिश्चयफलको हेत्वाभासो विरुद्धः। व्याप्तिपक्षधर्मताप्रमितिविरहोऽसिद्धः। बाधसत्प्रतिपक्षौ तु काश्यपीये मते न स्वतन्त्रौ। तत्र बाध आश्रयासिद्धावनैकान्तिके वा पर्यवस्यति। तदुक्तं “बाधायामपक्षधर्मो हेतुरनैकान्तिको वा” इति। सत्प्रतिपक्षोऽप्यन्यतरत्र व्याप्त्यादिसंशयमापादयन् अनैकान्ति कादावेव पर्यवस्यति।
वृत्तिकारस्तु “अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धाश्चनपदेशः” इति सूत्रस्थचकारस्य बाधसत्प्रतिक्षसमुच्चयार्थतामाह। तेन “सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकालाः पञ्च हेत्वाभासाः” इति गौतमीयमेव मतमनुदावति। परन्तु “विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत्” इत्याद्यभिधानात् सूत्रकारस्वरसो हेत्वाभासत्रित्वे, चकारस्तूक्तसमुच्चयार्थ इति तत्त्वम्। ग्रन्थगौरवभयात् प्रपञ्चो न कृतो मयूखे विस्तरोऽन्वेष्टव्यः ॥ 17 ॥
<3-1-18>
इदानीं हेत्वाभासविवेचनस्य फलमाह–
आत्मेन्द्रयार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् ॥ 18 ॥
आत्मेन्द्रियार्थसन्निकर्षात्तावज्ज्ञानमुत्पद्यते तच्चात्मनि लिङ्गम् असिद्धविरुद्धानैकान्तिकेभ्योऽन्यत् अनाभासमित्यर्थः। तथाहि ज्ञानमात्मन्युभयथा लिङ्गम्, ज्ञानं क्वचिदाश्रितं कार्यत्वाद्रूपादिवदिति वा, प्रत्यभिज्ञारूपतयावा योऽहमद्राक्षं सोऽहं स्पृशामीति। तत्र ज्ञानगतं कार्यत्वं नासिद्धं यन्निष्पद्यत इत्यभिधानात्। न विरुद्धं सामान्यतोः दृष्टेऽत्र विरोधाभावात्। न चानैकान्तिकम् तत एव। तथाच स्वगतकार्यत्वगुणत्वद्वारा सामान्यतोदृष्टेन ज्ञानमेवात्मनि लिङ्गम्। प्रत्यभिज्ञानन्तु भिन्नकर्तृकेभ्यो व्यावर्त्तमानमेककर्तृकतायां पर्यवस्यति। न च बुद्धिचैतन्येऽपि कार्यकारणभावनिबन्धनमेव प्रतिसन्धानम्, शिष्यगुरुबुद्ध्योरपि प्रतिसन्धानप्रसङ्गात्। उपादानोपादेयभावस्तत्र नास्ति स च प्रतिसन्धानप्रयोजक इति चेदुपादानत्वस्य द्रव्यधर्मतया बुद्धावसम्भवात्, सम्भवे वा बुद्धीनां क्षणिकतया पूर्वानुभूतप्रतिसन्धानानुपपत्तेः। न हि पूर्वबुद्ध्या उत्तरासु बुद्धिषु कश्चित् संस्कार आधीयते, स्थिरस्य तस्य त्वयाऽनभ्युपगमात्। क्षणिकबुद्धिधारारूपस्य च कालान्तरस्मृतौ प्रतिसन्धाने वाऽसामर्थ्यात्। आलयविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानादन्य एव स्मर्त्ता च प्रतिसन्धाता चेति चेत्, स यदि स्थिरः तदा सिद्धं नः समीहितम्। क्षणिकबुद्धिधारारूपश्चेत् तदा पूर्वदोषानतिवृत्ते, न हि तत्रापि स्थिरः कश्चित् संस्कारः। किञ्च प्रवृत्तिविज्ञानातिरिक्ते तत्र प्रमाणाभावः। अहमिति बुद्धिधारैव प्रमाणमिति चेत् भवतु तत्र यदि प्रवृत्तिविज्ञानान्यालयविज्ञानमेव चेदुपादत्ते तदा प्रवृत्तिविज्ञानानामुपादानताविरहे निमित्तताऽपि न स्यात्, उपादानताव्याप्तत्वान्निमित्ततायाः। माऽस्तु निमित्तताऽपीति चेत् तर्हि सत्त्वमपि गतम्, अर्थक्रियाकारित्वस्य सत्त्वलक्षणत्वात्. प्रवृत्तिसन्तानालयवित्रानसन्तानाभ्यां सम्भूय सन्तानद्वयमुपादीयत इति चेत् तर्हि किमपराद्धमवयविसंयोगादिभिः, व्यासज्यवृत्तितायास्त्वयाप्यभ्युपगमात्। तस्माज्ज्ञानेनाश्रयतयाऽनुमितमात्मानं प्रतिसन्दानं स्थिरत्वेन साधयतीति न किञ्चिदनुपपन्नम्।
यद्वा नित्या बुद्धिर्नात्मानं कारणत्वेन गमयितुमर्हतीतिसाङ्ख्यमतनिरासाय सूत्रमिदमुपतिष्ठते “आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्”। बुद्धितत्त्वं यत्त्वयोच्यते तज्ज्ञानम्व, बुद्धिरुपलब्धिर्ज्ञानमिति हि पर्य्यायाभिधानं तच्चात्मादिसन्निकर्षादुत्पन्नम्, अन्यदेव त्वदभ्युपगतादन्तःकरणादित्यर्थः। तथाच भवति तत् आत्मनो लिङ्गमिति भावः ॥ 18 ॥
<3-1-19>
आत्मन्यनुमानमभिदाय इदानीं परात्मानुमानमाह–
प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ॥ 19 ॥
प्रत्यगात्मनीति। स्वात्मनीत्यर्थः। इच्छाद्वेषजनिते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहितप्राप्तिपरिहारफलके शरीरकर्मणी चेष्टालक्षणे जन्येते। तथाच परशरीरे चेष्टा दृष्ट्वा इयं चेष्टा प्रयत्नजन्याचेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्यः आत्मनिष्ठो वा प्रयत्नत्वात् मदीयप्रयत्नवदिति परमात्मानुमानम् ॥ 19 ॥
इति शाङ्करे वैशेषिकसूत्रोपस्कारे तृतीयाध्यायस्याद्यमाह्निकम्।
तृतीयाध्याये द्वितीयाह्निकम्
<3-2-1>
हेतुहेत्वाभासविवेकः आह्निकार्थः। इदानीमात्मपरोक्षांशे वर्त्तयिष्यन् उद्देशक्रमलङ्घनेन मनःपरीक्षामवतारयन्नाह–
आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥ 1 ॥
मनोगतिमात्मनो लिङ्गं वक्ष्यति। तद् यदि मनो ज्ञानकरणत्वेन मूर्त्तत्वेन च परीक्षितं भवति तदा यत्प्रेरितं मनः इन्द्रियान्तरादभिमतविषयग्राहिणि इन्द्रिये सम्बन्धते स आत्मेति सिद्धं भवतीत्येतदर्थे क्रमलङ्घनम्। आत्मेन्द्रियार्थसन्निकर्षेसति यस्मिन् इन्द्रियसन्निकृष्टे ज्ञानस्य भावः उत्पादः, असन्निकृष्टे ज्ञानस्याभावोऽनुत्पादस्तन्मन इत्यर्थः। ननु मनोवैभवेऽपि करणधर्मत्वादेव ज्ञानासमवायिकारणसंयोगाधारत्वादात्मवत्, स्पर्शात्यन्ताभाववत्त्वादाकाशवदित्यादि वैभवसाधकं प्रमाणमिति चेत्, मैवम् यदि मनो विभु स्यात्तदा सर्वेन्द्रियसन्निकृष्टात्ततः सर्वेन्द्रियकमेकमेव ज्ञानं स्यात्। कार्य्यविरोधान्नैवमिति चेन्न न हि सामग्री विरोधाविरोधमाकलयति येन चाक्षुषत्वरासनत्वादिविरोधाय बिभ्येत्, चित्ररूपवत् चित्राकारमेव वा स्यात्। भवत्येव दीर्घशष्कुलीभक्षणस्थले इति चेन्न तत्रापि व्यासङ्गदर्शनात्। तर्हि रूपरसगन्धस्पर्शान् युगपत् प्रत्येमीति कथमनुव्यावसाय इति चेन्न शीघ्रसंचारिमनोजनितेषु पंचसु स्मृत्युपनीतज्ञानेषु यौगपद्याभिमानात्। व्यासङ्गोऽपि करणधर्माधीन इति चेन्न उक्तोत्तरत्वात्। बुभुत्साधोनो व्यासङ्ग इति चेन्न सर्वबुभुत्सायां सर्वविषयकसर्वोदयप्रसंगात्। बुभुत्साया अपि अभिमतार्थग्राहीन्द्रियमनःसम्बन्धमात्रफलकत्वात्, तस्माज्ज्ञानायौगपद्यान्यथानुपपत्त्या सिध्यति अणु मनः। ततो धर्मिग्राहकमानबाविताः वैभवहेतवः। किंच मनोवैभवे पादे मे सुखं शिरसि मे वेदनेतिप्रादेशिकत्वं सुखादीनां न स्यात् बिभुकार्य्याणामसमवायिकारणावच्छिन्नदेशे उत्पादनियमात्। तथापि सुखादीनामणुदेशापत्तिरिति चेन्ना असमवायिकारिणं विभुकार्य्यं स्वदेशे जनयत्येवेति नियमात्, तथाच निमित्तचन्दनाद्यवच्छेदादधिकदेशेऽपि जननाविरोधात्। ममापि निमित्तसमवधानानुरोध इति चेन्न उक्तनियमभंगप्रसंगात्। किंचात्मना विभुना मनसः संयोगोऽपि कथं स्यात्। अजोऽसाविति चेन्न विभागस्याप्यजत्वप्रसंगात्। अवच्छेदभेदेनोभावप्यविरुद्धाविति चेन्न संयोगविभागयोरवच्छेदभेदस्य स्वकारणाधीनत्वात् अजयोस्तु तदभावादिति दिक् ॥ 1 ॥
</3-2-1>
<3-2-2>
ननु सुखाद्युपलब्धिः करणसाध्या क्रियात्वात् रूपोपलब्धिवदित्याद्यनुमानात् युगपज्ज्ञानानुत्पत्त्या वा यन्मनः सिद्धं तत्करणतया तथाच तस्य द्रव्यत्वं नित्यत्वञ्च कुत इत्यत आह–
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ 2 ॥
यथाऽवयविद्रव्यानुमितो वायुपरमाणुर्गुणवत्त्वात् क्रियावत्त्वाच्च द्रव्यम्, तथा युगपज्ज्ञानात्पत्त्याऽनुमितं मनो गुणवत्त्वाद् द्रव्यं, न हि तस्य इन्द्रियसंयोगमन्तरेण ज्ञानोत्पादकं येन गुणवत्त्वं न स्यात्। किञ्च सुखादिसाक्षात्कारः इन्द्रियकरणकः साक्षात्कारत्वात् रूपादिसाक्षात्कारवदतीन्द्रियत्वेन मनः सिद्धम्। इन्द्रियत्वञ्च ज्ञानकरणमनःसंयोगाश्रयत्वमित्ययत्नसिद्धमेव मनसो द्रव्यत्वम्। नित्यत्वञ्च तस्यानाश्रितत्वात्। तस्यावकल्पनायां प्रमाणाभावादनाश्रितत्वमिति ॥ 2 ॥
</3-2-2>
<3-2-3>
तत् किं प्रतिशरीरमेकमनेकं वेति सन्देहे निर्णायकमाह–
प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् ॥ 3 ॥
मनः प्रतिशरीरमिति शेषः। यद्येकैकस्मिन्नपि शरीरे बहूनि मनांसि स्युस्तदा ज्ञानप्रयत्नानां यौगपद्यंस्यात्। यत्तु नर्त्तकीकरचरणाङ्गुलीषु युगपत् कर्मदर्शनाद् युगपदेव बहवः प्रयत्ना उत्पद्यन्ते इति मतम्। तदयुक्तम् मनसः शीघ्रसञ्चारादेव तदुपपत्तेः अविनश्यदवस्थयोग्यात्मविशेगुणानां यौगपद्यानभ्युपगमात्। एतेनैकस्मिन्नपि शरीरे पंच मनांसि तेषां द्वित्रिचतुःपंचानां तत्तदिन्द्रियसंयोगे द्वे त्रीणि चत्वारि पञ्च वा ज्ञानानि युगपज्ज्ञायन्ते इति मतं निरस्तम कल्पनागौरवप्रसंगात्। यौगपद्याभिमानस्तु समर्थित एव। रसनेन्द्रियावच्छेदेन त्वगिन्द्रियसम्बन्धेन मनसस्तिक्तो गुड इति ज्ञानद्वययौगपद्यापत्तिरपि करणधर्मत्वादेव नास्ति। द्वित्रिच्छिन्नगोधिभुजगादावपि अवयवदूये कर्म खड्गाद्यभिघाताद्वा मनस आशु संचाराद्वा तदानीमेवादृष्टेन पण्डमनोन्तरग्रहणाद्वा। यत्तु मनोऽवयव्येव जलौकावत् तत्सङ्कोचविकाशाभ्यां त्रानयौगपद्यायौगपद्ये इति, तत् तदवयवकल्पनागौरवप्रतिहतमिति दिक् ॥ 3 ॥
</3-2-3>
<3-2-4>
इदानीं क्रमलङ्घनप्रयोजनमादर्शयन्नेवात्मपरीक्षाशेषं वर्त्तयिष्यन्नाह–
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि ॥ 4 ॥
प्रसिद्धिर्ज्ञानमेव केवलमात्मनो लिङ्गमिति न मन्तव्यम् प्राणादयोऽपि सन्ति आत्मनो लिंगानि। तथाहि शरीरान्तश्चारिणि समीरणे प्राणापानक्षणे ऊर्ध्वाधोगती उत्क्षेपणावक्षेपणे मुसलादाविव प्रयत्नं विनाऽनुपपद्यमाने यस्य प्रयत्नाद् भवतः स नूनमात्मा। न हि तिर्यग्गमनस्वभावस्य वायोरेव स्वबावविपर्ययो विना प्रयत्नात्। न च विरुद्धदिक्क्रिययोर्वाय्वोः सलिलयोरिवोर्ध्वगतिः स्यादिति वाच्यम् एवं सत्यूर्ध्वगमनमेव स्यान्न त्वधोगमनं पूत्कारादौ वा तिर्यग्गमनम्। तथा चास्ति कश्चित्, यः प्रयत्नेन वायुमूर्ध्वमधो वा प्रेरयति सुषुप्तिदशायां कथं प्राणापानयोरूर्ध्वाधोगती इति चेन्न इदानीं योग्यप्रयत्नाभावेऽपि प्रयत्नान्तरस्य सद्भावात्। स एव जीवनयोनिः प्रयत्न इत्युच्यते।
एवं निमेषोन्मेषावपि शरीरस्याधिष्ठातारमनुमापयतः। तथाह निमेषस्तावत् अक्षिपक्ष्मणोः संयोगजनकं कर्म। उन्मेषस्तयोरेव विभागजनकं कर्म। एते च कर्मणी नोदनाभिधातादिदृष्टकारणमन्तरेण निरन्तरमुत्पद्यमाने प्रयत्नं विना नोत्पद्येते। यथा दारुपुत्रकनर्तनं कस्यचित् प्रयत्नात् तथाऽक्षिपक्ष्मनर्तनमपि, तेन प्रयत्नवाननुमीयते।
एवं जीवनमप्यात्मलिङ्गम्। तथाहि जीवनपदेन लक्षणया जीवनकार्यं वृद्धिक्षतभग्नसंरोहणादि लक्षयति। तथा च यथा गृहपतिर्भग्नस्य गृहस्य निर्म्माणं करोति लधीयो वा गृहं वर्द्धयति, तथा देहाधिष्ठाता गृहस्थानीयस्य देहस्याहारादिना वृद्धिमुपचयं करोति क्षतञ्ज भेषजादिना प्ररोहयति भग्नञ्च करचरणादि संरोहयति तथा च गृहपतिरिव देहस्याप्यधिष्ठाता सिध्यतीति।
एवं मनोगतिरप्यात्मलिङ्गम्। तथाहि मनस्तावन्मूर्तमणु चेति पूर्वप्रकरणे साधितम्। तस्य चाभिमतविषयग्राहिणि इन्द्रिये निवेशनम् इच्छाप्रणिधानाधीनम्। तथाच यस्येच्छप्रणिधाने मनः प्रेरयतः स आत्मेत्यनुमीयते यथा गृहकोणावस्थितो दारकः कन्दुकं लाक्षागुटकं वा गृहाभ्यन्तर एव इतस्ततः प्रेयति। ननु दारुपुत्रनर्त्तयिता गृहपतिर्दारको वा न शरीरादन्यो यो दृष्टान्तः किञ्च शरीरमेव चैतन्याश्रयः अहङ्कारास्पदत्वात्, भवति हि गौरोऽहं स्थूलोऽहमित्याद्यहङ्कारसामानाधिकरण्येन प्रत्ययः। यत्तु बाल्येऽनुभूतं यौवने वार्द्धक्ये वा स्मरति तत्र चैत्रमैत्रवच्छरीरभेदेऽपि स्मरणं न स्यात् `नान्यदृष्टं स्मरत्यन्यः’ इति। तत्र चैत्रमैत्रयोर्भिन्नसन्तानत्वेन प्रतिसन्धानं माऽस्तु बाल्यकौमारभेदेऽपि सन्तानैकत्वात् कार्यकारणभावेन प्रतिसन्धानमुपपत्स्यत इति। तत्र ब्रूमः पित्राऽनुभूतस्य पुत्रेणापि स्मरणप्रसङ्गः। तत्र शरीरभेदग्रहो बाधक इति चेत्, वृद्धेन बालिशरीराद्भेदेनैव स्वशरीरस्य ग्रहात् प्रतिसन्धानानुपपत्तेः- अनुपलब्धपितृकस्य बालस्य शरीरबेदाग्रहस्यापि सत्त्वात्। मम शरीरमिति ममकारसामान्येनाहङ्कारस्य भानात् ममात्मेत्यत्रापि तथेति चेन्न तत्र ममकारस्यौपचारिकत्वात् राहोः शिर इतिवदभेदेऽपि षष्ठ्युपपत्तेः, हिसादिफलञ्च कर्त्तरि न स्यात् शरीस्यान्यत्वात्, पातकमिच्छतो। भूतचैतनिकस्य कृतहानमकृताभ्यागमश्च दोष इति दिक्।
इन्द्रियान्तरविकारात्। रखल्वपि दृश्यते हि नागरङ्गस्य चिरविल्वस्य वा रूपविशेषसहचरितं रसविशेषमनुभूय पुनस्तादृशं फलमुपलभमास्य रसगर्द्धिप्रवर्त्तितो दन्तोदकसंप्लवः। स च नाम्लरसानुमितिमन्तरेण, अनुमितिर्न व्याप्तिस्मृतिमन्तरेण, सा च न संस्कारं विना, स च न व्याप्त्यनुभवमन्तरेण, स च न भूयोदर्शनमन्तरेणेति इयं ज्ञानपरम्परा नैकं तर्त्तारमन्तरेण कार्यकारणभूता सम्भवतीति। तथा च गौतमीयं सूत्रम् `इन्द्रियान्तरविकारात्’ अo 3 आ 1 सूo 12 इति।
सुखादयशच् ज्ञानवदेवात्मलिङ्गानि द्रष्टव्याः। तताहि सुखादिकं क्वचिदाश्रितं द्रव्याश्रित वा कार्यवस्तुत्वात् गुणत्वाद्वा रूपादिवदितीतरबाधसहकृतं सामान्यतो दृष्टमेव अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं विषयीकरोति। न हि `पृथिव्याद्यष्टकानाश्रिता इच्छा द्रव्याश्रितेति’ प्रतिज्ञा अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं प्रकारमनादायपर्य्यवस्यति। यत्र तु प्रथमं न वाधावतारस्तत्राष्टद्रव्यातरिक्तद्रव्याश्रितत्वं व्यतिरेकिसाध्यमिति विभागः। व्यापकतावच्छेदकप्रकारिकैवानुमितिरिति तु तुच्छम्, येन विना प्रतीतिर्न पर्य्यवस्यति तस्यैव तत्र प्रकारत्वात्। अन्यथा द्व्यपुकं कार्य्यानाश्रितं सत् क्वचिदाश्रितम् अवयवित्वादित्यादावकार्य्याश्रितत्वप्रकारिकाऽनुमितिर्न स्यात् ॥ 4 ॥
</3-2-4>
<3-2-5>
ननु सिध्यतु आत्मा स्थिरः, सतु नित्य इति कुतः, कुतश्च द्रव्यमित्यत आह–
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ 5 ॥
यथा वायुपरमाणोरवयवकल्पनायां न प्रमाणमतो नित्यत्वं तथात्मनोऽपि। यथा गुणवत्त्वाद्वायुपरमाणुर्द्रव्यं तथात्माऽपीत्यर्थः ॥ 5 ॥
</3-2-5>
<3-2-6>
पूर्वपक्षमाह–
यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते ॥ 6 ॥
सन्निकर्षे सति अयं यज्ञदत्त इति चेत् प्रत्यक्षं नास्ति तदा दृष्टं प्रत्यक्षतो गृहीतव्याप्तिकं लिङ्गं नास्ति। यथा वह्निना प्रत्यक्षेण सहचरितो गृहीतो धूमो वह्नौ दृष्टं लिङ्गं तथात्मसाधकं लिङ्गं दृष्टं नास्तीत्यर्थः ॥ 6 ॥
</3-2-6>
<3-2-7>
ननु प्रत्यक्षदृष्टव्याप्तिकस्य दृष्टलिङ्गस्याभावेऽपि सामान्यतो दृष्टमेव लिङ्गं भविष्यति, न हि ततो नानुमितिरित्याशङ्क्य पुनः पूर्वपक्षी आह–
सामान्यतो दृष्टाच्चाविशेषः ॥ 7 ॥
सामान्यतो दृष्टमपि लिङ्गं भवति न तु तत आत्मत्वेन अष्टद्रव्यातिरिक्तद्रव्यत्वेन वा स्यादात्मसिद्धिः, किन्तु तेनेच्छादीनां क्वचिदाश्रितत्वमात्रं सिध्येत् तथ नात्ममननौपयिकमित्यर्थः। तदेतदाह अविशेष इति ॥ 7 ॥
</3-2-7>
<3-2-8-9>
तत् किं `योऽपहतपाप्मा स आत्मा’ इत्याद्यागमोऽनर्थक एवेत्याशङ्क्य स एवाह–
तस्मादागमिकः ॥ 8 ॥
आगममात्रसिद्ध एवात्मा नत्वनुमेयः दृष्टसामान्यतोदृष्टयोर्लिङ्गयोरभावात्। तस्मात् सम्यगुपनिषदां श्रवणात् तत्त्वसाक्षात्कार उत्पद्यते न तु मननप्रणालिकया। तथा च मननप्रयोजनकमिदं तन्त्रमतन्त्रम्। दृष्ट हि भूतदशकनदोसन्तरणादावुपदेशमात्रादेव साक्षात्कारि ज्ञानम्।
तदेवं त्रिभिः सूत्रैः पूर्वपक्षे सिद्धान्तवाद्याह–
अहमितिशब्दस्य व्यतिरेकान्नागमिकम् ॥ 9 ॥
नाममात्रं प्रमाणमात्मनि किन्त्वहमितिपदमात्मपदं वा साभिधेयं पदत्वात् घटादिपदवद् इत्यनुमानादप्यात्मसिद्धिः। ननु पृथिव्याद्येव तदभिधेयं स्यादित्यत आह व्यतिरेकादिति। पृथिव्यादितोऽहमिति पदस्य व्यतिरेकादिति। पृथिव्यादितोऽहमिति पदस्य व्यतिरेकाद्व्यावृत्तेरित्यर्थः। न हि भवत्यह पृथिवी अहमापः अहन्तेजः अहं वायुः अहमाकाशम् अहं कालः अहं दिक् अहं मन इति व्यपदेशः प्रत्ययो वा। शरीरे भवतीति चेन्न परशरीरेऽपि तत्प्रसङ्गात्। स्वशरीरे भवतीति चेन्न स्वस्यात्मभिन्नस्यानिरुक्तेः मम शरीरमिति वैयधिकरण्येन प्रत्ययाच्च। नन्विदमपि सामान्यतोदृष्टमेव तच्च विशेषापर्यवसन्नमिति दूषतमेवेति चेन्न अहम्पदेऽहन्त्वमात्मत्वमेव प्रकारः, तथाच पक्षधर्मताबलादेवाहन्त्वस्य प्रवृत्तनिमित्तः पर्यवसन्नं तच्चानन्यसाधारणमेघेति विशेषसिद्धेः। एवं सामान्यतो दृष्टादपि बाधसहकृताद्विशेषसिद्धिः। यच्चोक्तं `श्रवणादेव साक्षात्कारः किमनेनेति’ तदयुक्तम्, न हि मननमन्तरेण सङ्कसुकस्याश्रद्धामलक्षालनम्, न च तदन्तरेण तत्र निदिध्यासनाधिकारः, न च निदिध्यासनमन्तरेण सवासनमिथ्याज्ञानोन्मूलनक्षमस्तत्त्वसाक्षात्कारः। अब्यासादेव हि कामातुरस्याकस्मात् कामिनीसाक्षात्कारः। न हि शाब्दमानुमानिकं वा ज्ञानं मिथ्याज्ञानोन्मूलनक्षमं दिङ्योहादौ दृष्टमिति भावः। ननु तथापि परोक्षे आत्मनि कथं संकेतग्रहः (दृष्टो ह्ययं घटपदेवाच्य इति प्रत्यक्षे संकेतग्रह) इति चेत्? क एवमाह नात्मा प्रत्यक्ष इति, किन्तु मनसा संयोगप्रत्यासत्त्यात्मग्रहः। कथमन्यथाऽहं सुखी जानामीच्छामि यते दुःखीत्यादिप्रत्ययः। नह्ययमवस्तुकः सन्दिग्धवस्तुको वा नीलादिप्रत्ययवत् अस्यापि निश्चितवस्तुकत्वात्। न च लैङ्गिकः, लिङ्गज्ञानमन्तरेणापि जायमानत्वात्। नाषि शब्दः, तदनुसन्दानाननुविधानात्। प्रत्यक्षाभासोऽयमिति चेत्, तर्हि क्वचिदनाभासविषयोऽपि नह्यप्रमितमारोप्यते इत्यावेदयिष्यते ॥ 9 ॥
</3-2-8-9>
<3-2-10>
एवञ्चेत् किमनुमानेनेति पूर्वपक्षवादी आह–
यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति ॥ 10 ॥
इति शब्दो ज्ञानप्रकारमाह। दृष्टमिति भावे-क्तप्रत्ययान्तम्, अन्वक्षमित्यध्यक्षम्। तेनायमर्थः-अयं देवदत्तः अयं यज्ञदत्त इति प्रकारकं दृष्टं दशनं अध्यक्षमेवास्ति यदि किमनुमानप्रयासेन `न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽमुमातारः” ॥ 10 ॥
</3-2-10>
<3-2-11>
अत्र सिद्धान्त्याह–
दृष्टयात्मनि लिंगे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः ॥ 11 ॥
दृष्टे प्रत्यक्षेण गृहीते आत्मनि लिङ्गे सम्भूतसामग्रीके सति एक एव एकवैषयिक एव प्रत्ययः। प्रत्यय इति निरस्तसमस्तविभ्रमाशङ्कित्वमाह। कुत एवमित्यत आह-दृढत्वात् प्रमाणसंप्लवेनान्यथाभावशङ्कानिर्क्तनपटुत्वात्। तत्र दृष्टान्तमाह-प्रत्यक्षवदिति। यथा दूरात्तोयप्रत्यक्षे सत्यपि संवादार्थं बलाकालिङ्गेनापि तदनुमानम्। तदुक्तम् “प्रत्यक्षपरिकलितमप्यनुमानेन बुभुत्सम्ते तर्करसिकाः” इति। इदमत्राकूतम्-यद्यात्मा कदाचित् प्रत्यक्षे चैतस भासत एव तथापि अहं गौरः अहं कृशः इत्यादिविरोधिप्रत्ययान्तरतिरस्कृतो न तथा स्थेमानमासादयति विद्युत्सम्पातसञ्जातज्ञानवत्, तत्र लिंगेन अनन्ययासिद्धेन ज्ञानान्तरमुत्पद्यमानं पूर्वज्ञान (विषय) मेव स्थिरीकरोति। किञ्च `श्रोतव्यो मन्तव्यः’ इत्यादिविधिबोधितस्यात्ममननस्य इष्टसाधनत्वावगतौ अनुमित्सयाऽवश्यमात्मानुमानप्रवृत्तिः तद्व्यतिरेके निदिध्यासनासम्भवे साक्षात्काराभावेऽपवर्गासम्भवादिति भावः। अहं देवदत्तोऽहं यज्ञदत्त इति प्रतीतिद्वयामिधानमात्मनः प्रत्यात्मवेदनीयत्वं सूचयितुम् ॥ 11 ॥
</3-2-11>
<3-2-12>
ननु यदि यज्ञदत्तोऽहमिति प्रत्यय आत्मनि तदा यज्ञदत्तो गच्छतीति गमनसामानाधिकरण्यभानमनुपपन्नमित्यत आह–
देवदत्तो गच्छति यज्ञदत्तौ गच्छतीत्युपचाराच्छरीरे प्रत्ययः ॥ 12 ॥
अस्ति हि अहं गौरः अहं स्थूल इति प्रत्ययः, अस्ति च मम शरीरमिति भेदप्रत्ययः। तत्र देवदत्तो गच्छतीति गतिसामानाधिकरण्यानुभवो व्यवहारश्च भाक्तः, ममेति प्रत्ययस्य यथार्थत्वात्। यद्यपि देवदत्तत्वं शरीरवृत्तिर्जातिस्तेन देवदत्तो गच्छतीति मुख्य एव प्रयोगो यथार्थ एव च प्रत्ययः तथापिदेवदत्तपदं तदवच्छिन्नात्मनि प्रत्युक्तञ्चेत् तदौपचारिको बोद्धव्यः ॥ 12 ॥
</3-2-12>
<3-2-13>
अत्र शङ्कते–
सन्दिग्धस्तूपचारः ॥ 13 ॥
तुशब्दः पूर्वपक्षद्योतकः। आत्मशरीरयोस्तावदहमितिप्रत्ययः ग्रयोगश्चेत् दृश्यते तत्र क्व मुख्यः क्व वौपचारिक इति सन्देहः ॥ 13 ॥
</3-2-13>
<3-2-14>
समाधत्ते–
अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः ॥ 14 ॥
अर्थान्तरभात्मत्वरूपं प्रत्यक्ष यत्र प्रत्यये स प्रत्ययोऽर्थान्तरप्रत्यक्षः। अयमर्थः-अहमिति प्रत्ययस्य प्रत्यगात्मनि स्वात्मनि भावात् परत्र परात्मनि अभावात् अर्थान्तरे स्वात्मन्येव मुख्यः कल्पयितुमुचितः। यदि तु शरीरे मुख्यः स्यात् तदा बहिरिन्द्रियजः स्यात्। न हि शरीरं मानसप्रत्यक्षं मानसश्चायमहमिति प्रत्ययः बहिरिन्द्रियव्यापारमन्तरेणापि जायमानत्वात्, अहं सुखी जाने यते इच्छाम्यहमिति योग्यविशेषगुणोपहितस्यात्मनो मनसा विषयोकरणात्। नायं लैङ्गिको लिङ्गानुसन्धानमन्तरेणापि जायभानत्वात्। न शब्दः शब्दाकलनमन्तरेणापि जायमानत्वात्। तस्मान्मानस एव, मनसश्च बहिरस्वातन्त्र्येण शरीरादावप्रवृत्तेरिति भावः। किञ्च यदि शरीरे स्यात् परशरीरे स्यात्, स्वात्मनि यदि स्यात् तदापि परात्मनि स्यादिति चेन्न परात्मनः परस्यातीन्द्रियत्वात् तद्विशेषगुणानामयोग्यत्वात्, योग्यविशेषगुणोपग्रहेण तस्य योग्यत्वात्। न केवलमात्मन इदं शीलं किन्तु द्रव्यमात्रस्य, द्रव्यं हि योग्यविशेषगुणोपग्रहेणैव प्रत्यक्षं भवति। आकाशमपि तर्हि शब्दोपग्रहणे वा रूपवत् स्यात्। आत्मनोऽपि नीरूपत्वे तुल्यमिति चेत्, वहिर्द्रव्यमात्र एव प्रत्यक्षतां प्रति रूपवत्त्वस्य तन्त्रत्वात्। प्रत्यगित्ययं शब्दोऽन्यव्यावृत्तमाह ॥ 14 ॥
</3-2-14>
<3-2-15>
पुनः शङ्कते–
देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षेऽहङ्कारः ॥ 15 ॥
अहङ्कारोऽहमिति प्रत्ययः। स च शरीरप्रत्यक्षः शरीरं प्रत्यक्षं विषयो यत्र स शरीरप्रत्यक्षः। देवदत्तो गच्छतीत्युपचारात्तावत् प्रयोगः प्रत्ययो वा त्वया समाहितः। स चोपचार आभिमानिकः यतोऽहं गौरः अहं कृशः सौभागिनोऽह पुनरुक्तजन्मेत्यादयः प्रत्ययाः प्रयोगाश्चोपचारेण समन्वयितुमशवया इत्यर्थः ॥ 15 ॥
</3-2-15>
<3-2-16>
सिद्धान्तमाह–
सन्दिग्धस्तूपचारः ॥ 16 ॥
तुशब्दोऽयं सिद्धान्तमभिव्यनक्ति। उपचारोऽयमाभिमानिकः किन्तु शरीर एवायमहम्प्रत्यय इति यदुक्तं तत्रापि सन्देह एवेत्यर्थः। तथाच प्रत्ययस्योभयत्रापि कूटसाक्षित्वेन विशेषावधारणाय यतितव्यम् नत्र यत्ने क्रियमाणे निमीलिताक्षस्याप्यहमिति-प्रत्ययदशनात् शरीरभिन्ने बहिरिन्द्रियागोचरे वस्तुनि स मन्तव्यः। शरीरे भवन् परशरीरेऽपि स्यात्, चक्षुर्नैरपेक्ष्येण च न स्यात्। अहं कृशः स्थूलो वा सुखीति कथं सामानाधिकरण्यमिति चेन्न तुखाद्यवच्छेदकत्वेनापि तत्र शरीरभानसम्भवात् सिंहनादवदिद गहनमितिवत्, अहन्त्वमात्रं शरीरे समारोप्यते मनसोपस्थितम्, त्वगिन्द्रियोपनोतमौष्ण्यम् उष्णं शरीरमितिवत् ॥ 16 ॥
</3-2-16>
<3-2-17>
सिद्धान्तमुपबृंहयन्नाह–
न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः ॥ 17 ॥
ज्ञानमिति योग्यं सुखदुःखादिकमात्मगुणमुपलक्षयति। यथा यज्ञदत्तविष्णुमित्रयोः शरीरं परम्परभिन्न तथा ज्ञानसुखादिकमपि भिन्नमेव। तथाच यथा यज्ञदत्तस्येदं शरोरं तथा यज्ञदत्तस्य ज्ञाने सुखादौ वाऽनुत्पन्ने अह सुखी जनि यते इच्छामाति ज्ञानादिकं विषयो भवति योग्यशरीरविषयकत्वेन तदीयरूपादिवत्तदीयज्ञानादीनामपि प्रत्यक्षत्वसम्भवात्। न च सम्भवति, तस्मात् ज्ञानसुखादीनां शरोरादन्य एवाश्रयो वक्तव्य इति भावः। शरीरविशेषात् शरीरस्य भेदादित्यर्थः। तथाच शरीरभेदं प्राप्य ज्ञान न तु विषय इति’ ल्यब्लोपे पञ्चमी ॥ 17 ॥
</3-2-17>
<3-2-18>
नन्वात्मा न प्रत्यक्षः नीरूपद्रव्यत्वात् निरवयवद्रव्यत्वाद्वा आकाशवत्, तथाचाहं कृशो गौर इति बुद्धेः शरीरमेव विषयो वाच्यः, क्वचिदहं सुखीत्यादिवीरपि यद्यप्यस्ति तथाप्यश्रयमन्तरेण भासमानानां सुखादीनां शरीरे समाराप इत्येव कल्पयितमुचितम्, यथोष्णं सूरभि जलम् इत्याश्रयमन्तरेण प्रतीयमानयोरौष्ण्यसौरभयोर्जले समारोपः। न त्वेतदनुरोधेन जलप्रत्ययस्यापि प्रसिद्धजलमन्तरेणान्यविषयत्वम्, तथाऽहमित्यप्यहन्त्वं शरीर एव वास्तवम्, सुखादिकन्तु कदाचित्तत्रारोप्यते तेनात्मनि प्रत्यक्षाकारं ज्ञानं नास्त्येव। सुखाद्याधारत्वेन यत्कल्पनीयं तदागमसिद्धं भवतु न तत्रापि ग्रह इत्यत् आह–
अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरे व्यभिचाराद्विशेषसिद्धेर्नागमिकः ॥ 18 ॥
अयमर्थः। अहं सुखी अहं दुःखीतिप्रत्ययो नागमिको न शाब्दो नापि लैङ्गिकः शब्दलिङ्गयारनुसन्धानमन्तरेणापि तायमानत्वात्। प्रत्यक्षत्वे च नीरूपत्वं निरवयवत्वञ्चयद्बाधकमुक्तं तद्बहिरिन्द्रियप्रत्यक्षतायां भवति तत्र हि रूपवत्त्वानेकद्रव्यसत्त्वयोः प्रयोजकत्वात्, मानसप्रत्यक्षता च तदन्तरेणापि। ननु स्यादेवं यद्यात्मनि प्रमाणं स्यात् तदेव तु नास्तीत्यत आह-शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेरिति। यथा क्षित्यादिषु द्रव्येषु शब्दस्य व्यतिरेकोऽव्यभिचारो नियतस्तेन तदाश्रयस्याष्टद्रव्यातिरिक्तस्याकाशरूप(स्य) विशेषस्य सिद्धिः एवमिच्छायाः पृथिव्यादिषु व्यतिरेकस्याव्यभिचारात् तदाश्रयेणापि अष्टद्रव्यातिरिक्तेन भवितव्यम्। नन्वेतावताऽप्यानुमानिक एव आत्मा न तु प्रत्यक्ष इत्यत आह-अह मिति। मुख्ययोग्याम्यामिति। अहमितीतिकारेण ज्ञानकारमाह, तेनाहमिति ज्ञानं शब्दलिङ्गानुसन्धानमन्तरेण निमीलिताक्षस्य यदुत्पद्यते तन्मुख्येन अहन्त्ववता योग्येन प्रमाणसिद्धेन उपपादनीयम्, नतु शरीरादिना तत्रेच्छाया व्यतिरेकाव्यभिचारात्। मुख्ययोग्याभ्यामित्यनन्तरम् उपपादनीयमिति पूरणीयम्। आत्मनि प्रमाणानि बहूनि ग्रन्धगौरवप्रिया त्यक्तानि मयूखेऽन्वेष्टव्यानि ॥ 18 ॥
</3-2-18>
<3-2-19>
आत्मपरीक्षाप्रकरणं समाप्य इदानीमात्मनानात्वप्रकरणमारभते तत्र पूर्वपक्षसूवम्–
सुखःदुखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् ॥ 19 ॥
एक एव आत्मा चैत्रादिदेहभेदेऽपि। कुतः सुखदुःखज्ञानां निष्पत्तेरुत्पत्तेरविशेषात्, सर्वशरीरावच्छेदेन सुखदुःखज्ञानानामुत्पत्तिरविशिष्टैव यतः। यद्यात्मभेदसाधकं लिङ्गान्तरं भवेत्तदा सिध्येदात्मभेदः न च तदस्ति, यथा तत्तत्प्रदेशावच्छेदेन शब्दनिष्पत्तावपि शब्दलिङ्गाविशेषादेकमेवाकाशम्, यौगपद्यादिप्रत्ययलिङ्गाविशेषादेक एव कालः, पूर्वापरादिप्रत्ययलिङ्गाविशेषादेकैव दिक् ॥ 19 ॥
</3-2-19>
<3-2-20>
सिद्धान्तमाह–
व्यवस्थातो नाना ॥ 20 ॥
नानाआत्मानः। कुतः? व्यवस्थातः। व्यवस्था प्रतिनियमः यथा कश्चिदाढ्यः कश्चित् रङ्कः’ कश्चित् सूखी, कश्चिद् दूःखी, कश्चिदुच्चामिजनः, कश्चिन्नीचाभिजनः, कश्चिद्विद्वान् कश्चित् जाल्म इतीयं व्यवस्था आत्मभेदमनत्रेणानुपपद्यमाना साधयत्यात्मनां भेदम्। न च जन्मभेदेन बाल्यकौमारवार्द्धक्यभेदेन वा, एकस्याप्यात्मनो यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वन्यम् कालभेदेन विरुद्धधमाध्याससम्भवात् ॥ 20 ॥
</3-2-20>
<3-2-21>
प्रमाणान्तरमाह–
शास्त्रसामर्थ्याच्च ॥ 21 ॥
शास्त्रं श्रुतिः, नयाऽप्यात्मनो भेदप्रतिपादनात्। श्रूयते हि `द्वेब्रह्मणो वेदितव्ये’ इत्यादि तथा `द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते’ इत्यादि च ॥ 21 ॥
</3-2-21>
इति श्राशाङ्करे कणादसूत्रोपस्कारे तृतीयाध्यायस्य द्वितीयाह्निकम्।
समाप्तश्चायं तृतीयोऽध्यायः।
———————————————————–
** चतुर्थाध्याये प्रथमाह्निकम्**
<4-1-1>
पृथिव्यादीना नवानामुद्देशं लक्षणपरीक्षां निवर्त्य प्रकृतेर्मूलकारणतां साङ्ख्या भिगतां निराचिकीर्षुः परमाणूनां मूलकारणत्वं पृथिव्याद्यन्तर्भावञ्च सिषाधयिषुर्नित्यत्वसामान्यलक्षणं तावदाह–
सदकारणवन्नित्यम् ॥ 1 ॥
न कारणवदकारणवत् पदसंस्कारात्। तदेवं घटादीनां व्यवच्छेदः। तथापि प्रागभावेऽतिव्याप्तिरित्यत आह-सदिति। सत्तायोगीत्यर्थः। समवायविशेषपदार्थयोः सत्तैकार्थसमवाय एव सत्तायोगः, सामान्यान्तरस्य सत्तायाश्च सत्प्रत्ययविषयतैव सत्तायोगः, स च प्रत्ययो वस्तुस्वरूपमात्रनिबन्धन इत्यन्यदेतत्। न चान्यत्रापि तथैवास्तु कि सत्तयेति वाच्यम् अनुगतमतेस्तत्सिद्धेरुक्तत्वात् ॥ 1 ॥
</4-1-1>
<4-1-2>
नित्यसामान्यमभिधायेदानीं परमाणुमधिकृत्याह–
तस्य कार्यं लिङ्गम् ॥ 2 ॥
तस्य परमाणोः कार्यं घटादि लिङ्गम्। तथाच गौतमोयं सूत्रम्-`व्यक्तात् व्यक्तस्य निष्पत्तिः प्रत्यक्षप्रामाण्यात्’ आo 4 आo 1 सूo 11 इति। अवयवावयविप्रसङ्गस्तावदनुभूयते स यदि र्निरवधिः स्यात् तदा मेरुसर्षपयोः परिणामभेदो न स्यात्, अनन्तावयवारब्धत्वाविशेषात्। न च परिमाणप्रचयविशेषाधीनो विशेषः स्यादिति वाच्यम् सङ्ख्याविशेषाभावात्तयोरप्यनुपपत्तेः। प्रलयावधिः स्यादिति चेत् अन्त्यस्य कस्यचिन्निरवयवत्वे प्रलयस्यैवानुपपत्तेः, अवयवविभागविनाशयोरेव द्रव्यनाशकत्वात्। विभागश्च नावधिः तस्यैकाश्रयत्वानुपपत्तेः। तस्मान्निरवयवं द्रव्यमवधिः स एव परमाणुः। न च त्रसरेणुरेवावधिः, तस्य चाक्षुषद्रव्यत्वेन महत्त्वादनेकद्रव्यवत्त्वाच्च, महत्त्वस्य चाक्षुषप्रत्यक्षत्वे कारणत्वाम् अनेकद्रव्यवत्त्वमादायैव, अन्यथा महत्त्वमेव न स्यात् कस्य कारणत्वम्भवेत्। न च त्रसरेणोरवयवा एव परमाणवः, महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् तन्तुवत् कपालवच्च। तस्मात् यत् कार्य्यद्रव्यं तत् सावयवम्, यच्च सावयवं तत् कार्य्यं द्रव्यम्। तथाच यतोऽवयवात् कार्य्यत्वं निवर्त्तते तत्र सावयवत्वमपीति निरवयवपरमाणुसिद्धिः। तदुक्तं प्रशस्तदेवाचार्य्यैः `सा च द्विविधा नित्या चानित्या च’ इति ॥ 2 ॥
</4-1-2>
<4-1-3>
इदानीं परमाणौ रूपादिसिद्धये प्रमाणमाह–
कारणभावात् कार्य्यभावः ॥ 3 ॥
रूपादीनां कारणे सद्भावात् कार्य्ये सद्भावः, कारणगुणपूर्वका हि कार्य्यगुणा भवन्ति घट-पटादौ तथा दर्शनादित्यर्थः ॥ 3 ॥
</4-1-3>
<4-1-4>
इदानीं सर्वानित्यतावादिनिराकरणायाह–
अनित्य इति विसेषतः प्रतिषेधभावः ॥ 4 ॥
विशेषत इति पष्ठ्यन्तात्तसिः। (तथाच) विशेषस्य नित्यस्य प्रतिषेधस्तदा स्यात् यद्यनित्य इति प्रत्ययः शब्दप्रयोगश्च न स्यात् नञ उत्तरपदार्थनिषेवार्थत्वात् तत् कथं नित्याभावेऽनित्य इति स्यात्, भवति च ततो नित्यमस्तीति सिद्धम्। यद्वा अनित्य इति न नित्यः परमाणुरित्यनेन प्रकारेण नित्यस्य त्वया प्रतिषेधः कतव्यः। अनेन च प्रकारेण प्रतिषेधो न सिध्यति सिद्धयसिद्विप्रतिहतत्वात्। सूत्रञ्चैवं योजनीयम्-अकारः स्वतन्त्र एव प्रतिषेधवचनः `अमानोनाः प्रतिपेधवचनाः’ इति तथा चानित्य इति न नित्य इत्यर्थः। प्रसिषेवभावः प्रतिषेधस्वरूपं तेन न नित्य इति विशेषस्य नित्यस्य प्रतिषेधस्वरूपम्, तच्च न सम्भवतीति शेषः ॥ 4 ॥
</4-1-4>
<4-1-5>
ननु परमाणुर्न नित्यः मूर्तत्वात् घटवत्, एवं रूपवत्त्वरसवत्त्वादयः प्रत्येकं हेतव उन्नेयाः, एवं षट्केन युगपद्योगात् परमाणोः षडंशता तथा च सावयवत्वात् अव्याप्यवृत्तिसंयोगाश्रयत्वात्। किञ्च परमाणोर्मव्ये यद्याकाशमस्ति तदा सच्छिद्रत्वेनैव सावयवत्वम्, अथ नास्ति, तदाकाशस्यासर्वगतत्वप्रसङ्गः। किञ्च छायावत्त्वात् आवृत्तिमत्त्वात्। अपिच यत् सत् तत् क्षणिकमित्यादिक्षणिक्त्वसाधकानुमानादपि परमाणोरनित्यता, तथा चैतावती चेदनुमितिपरम्परा तदा कथमुच्यते परमाणुर्नित्य इत्यत आह–
अविद्या ॥ 5 ॥
परमाणोरनित्यत्वविषया सर्वाप्यनुमितिः अविद्या भ्रमरूपा आभासप्रभवत्वात्। आपाततो धर्मिग्राहकमानबाधः सर्वत्र विपक्षबाधकप्रमाणशन्यत्वाद्व्यप्यत्वासिद्धिः क्वचित् स्वरूपासिद्धिरित्यादि समानतन्त्रेऽन्वेष्टव्यम् ॥ 5 ॥
</4-1-5>
<4-1-6>
ननु यदि परमाणुरस्ति कथमिन्द्रियेण न गृह्यते रूपवत्त्वस्पर्शव त्त्वादयश्चैन्द्रियकत्वप्रयोजकास्त्वयैवोपपादिता इत्यत आह–
महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः ॥ 6 ॥
महति महत्त्ववति द्रव्ये महच्छब्दात् परिमाणवाचकात् गुण वाचकान मतुपो लोपात्। अनेकद्रव्यवत्त्वादिति। अनेकं द्रव्यमाश्रयो यस्य तदनेकद्रव्यम् तद् यस्यास्ति तदनेकद्रव्यवत् तद्भावस्तस्मात् अनेकद्रव्यवत्त्वात्। एव सति वायुरपि प्रत्यक्षः स्यादत उक्तं-रूपाच्चेति। उद्भूतादनभिभूतादिति वक्ष्यते। उपलब्धरिति। बहिरिन्द्रियेणेति शेषः। तथाच परमाणोर्महत्त्वाभावादनुपलब्धिरित्युक्तं भवति। अनेकद्रव्यवत्त्वञ्च अनेकद्रव्याश्रितत्वम्, अवयवबहुत्वाधीनमहत्त्वाश्रयत्वं वा। न च महत्त्वेनैवानेकद्रव्यवत्त्वमन्यथासिद्धमिति वाच्यम्, वैपरत्यस्यापि सम्भवात्। जन्येन जनकस्यान्यथासिद्धिर्न तु जन्यस्येति चेन्न जन्यजनकयोर्युगपदन्वयव्यतिरेकग्रहेऽन्यथासिद्ध्याभावात्, अन्यथा भ्रामणादिना दण्डादीनामन्यथासिद्धिप्रसङ्गात्। महत्त्वोत्कर्षात् प्रत्यक्षतोत्कर्षो दूरादाविति चेन्न अनेकद्रव्यवत्त्योत्कर्षस्यापि तत्र सम्भवाद्विनिगमनाविरहात्। किञ्च मर्कटकीटसूत्रजाले हस्तचतुष्टयादिमिते दूरादप्रत्यक्षे मर्कटमात्रप्रत्यक्षताऽनेकद्रव्यवत्त्वोत्कर्षाधीनैव महत्त्वीत्कर्षस्य जाले वर्त्तमानत्वात्। एवं सूक्ष्मतन्तुघटितपटादौ दूरत्वे महत्त्वोत्कर्षेऽपि स्वल्पपरिमाणमुद्गरादिप्रत्यक्षे द्रष्टव्यम् ॥ 6 ॥
</4-1-6>
<4-1-7>
रूपसमवायिनो महतश्चोपलम्भः स्यात् अत आह–
सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः ॥ 7 ॥
रूपसंस्कारपदेन रूपसमवायो रूपोद्भवो रूपानभिभवश्च विवक्षितः। तेन यद्यपि वायौ य एव स्पर्शसमवायः स एव रूपसमवायः तथापि रूपनिरूपितो नास्ति तत्र रूपात्यन्ताभावसत्त्वात्। चाक्षुषे च रश्मौ रूपसंस्कारः रूपोद्भवो नास्ति, मध्यन्दिनोल्काप्रकाशे च रूपसंस्कारो रूपानिभिभवो नास्ति इति न तेषां प्रत्यक्षता। एवं ग्रीष्मोष्मभर्जनकपालानलकनकादिषु रूपसंस्काराभाव उन्नेयः।
वृत्तिकृतिस्तु रूपञ्च रूपसंस्कारश्चेत्येकरूपपदलोपः तेन रूपाभावाद्वायोरनुपलब्धिः रूपसंस्काराभावाच्चक्षुरादीनामनुपलब्धिरित्याहुः ॥ 7 ॥
</4-1-7>
<4-1-8>
एवं परमाणुनित्यताप्रकरणानन्तरं परमाणुलिङ्गतयोपोद्धातसङ्गत्या वहिर्द्रव्यप्रत्यक्षताप्रकरणं समाप्य उपोद्धातेन गुणप्रत्यक्षताप्रकरणं वर्तयिष्यन्नाह–
अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः ॥ 8 ॥
रूपगतो विशेषो रूपविशेषः तच्चोद्भूतत्वमनभिभूतत्वं रूपत्वञ्च तस्माद्रूपस्योलब्धिः। नन्वेवं परमाणोर्द्व्यणुकस्य च रूपं गृह्येतेत्यत उक्तमनेकद्रव्यसमवायादिति। अनेकपदं भूयस्त्वपरं तेनानेकानि भूयांसि द्रव्याणि आश्रयतया यस्य तदनेकद्रव्यं त्रसरेणुप्रभृति तत्समवायात् घटादयोऽप्यवयवद्वयारब्धाः परम्परयाऽनेकद्रव्याश्रया एव, रसस्पर्शादौ रूपादिविशेषगुणगतो जातिविशेष एव रूपत्वादिव्याप्यः। नन्वेवं शुक्लत्वसुरभित्वशीतत्वकटुत्वादिभिरपि परापरभावानुपपत्तिरेव, तत्द्व्याप्यतन्नानात्वकल्पने तु कल्पनागौरवम् उद्भवपदस्य नानार्थत्वञ्चेति चेन्न बाह्यैकैकेन्द्रियग्रहणयोग्यगुणत्वस्यैवोपाधेरुद्भवत्वात् तदुपाधिविरहस्यैवानुद्भवत्वात्। अनुद्भवाभाव एव उद्भव इति केचित्। तच्चिन्त्यम् अनुद्भवत्याप्वेवं व्वस्थापयितुमशक्यत्वात्। अतीन्द्रियविशेषगुणत्वमनुद्भूतत्वमिति चेत्, एवं तर्हिं ऐन्द्रियकविशेषगुणत्वस्यैवोद्भवत्वापत्तेः। ऐन्द्रियकत्वावच्छेदकं किमिति चेत्, तुल्यम्। विशेषगुणेष्वेकैवोद्भूतत्वं जातिः गुणगतजातौ परापरभावानुपपत्तिर्न दोषायेत्यपि वदन्ति ॥ 8 ॥
</4-1-8>
<4-1-9>
स्पर्शातिरिक्तानां रूपसामानाधिकरण्यमेव बहिरिन्द्रियग्राह्यताप्रयोजकमिति रूपप्रत्यक्षसामग्रीमभिधाय तामन्यत्रातिदिशन्नाह–
तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ॥ 9 ॥
तेनेति रूपप्रत्यक्षज्ञानेनेत्यर्थः। यथा रूपविशेषात् रूपत्वानभिभूतत्वोद्बूतत्वाद्रूपोपलब्धिस्तथा रसविशेषात् रसत्वानभिभूतत्वोद्भूतत्वलक्षणात् रसोपलब्धिः, एवमितरत्रामि योज्यम्। अनेकद्रव्यसमवायश्चातिदेश्यः। घ्राणरसनत्वगिन्द्रियाणामनुद्भवाद्गन्धरसस्पर्शानामग्रहणम्, पाषाणादावनुद्भवाद्गन्धरसयोः–तद्भस्मनितयोरुपलम्भात्। तयोः पाषाणादावुपलम्भ एव न तु स्पष्टइत्येके। विभक्तावयवाप्यद्रव्यरूपानुद्भवात्तदग्रहणम्। एवं रसस्यापि। उष्ण जले तेजोरूपस्यानुद्भवात् स्पर्शस्य चाभिभवात्, विततकर्पूरचम्पकादौ रूपरसस्पर्शानामनुद्भवादनुपलम्भः। कनकादौ रूपमुद्भूतमेव शुक्लत्वभास्वरत्वे परमभिभूते। रूपमप्यभिभूतमित्येके। कनकग्रहणन्तु रूपान्तरसाहचर्यात्। अभिभवश्च बलवत्सजातीयग्रहणकृतमग्रहणं न तु बलवत्सजातीयसम्बन्धमात्रम्, बलवत्सजातीयसम्बन्धस्याप्यग्रहणनिरूप्यतया अग्रहणस्यैवोपजीव्यत्वात्। न चाग्रहणप्रयोजकत्वेन बलवत्सजातीय एवोपजीव्यः, अग्रहणस्य ग्रहणपागभावस्य तदत्यन्ताभावस्य वा तदप्रयोज्यत्वात्, ग्रहणध्वंसस्य च तत्राभावात्। तवापि तर्हि बलवत्सजातीयग्रहणकृतमग्रहणमनुपपन्नमेवेति चेत्, अस्त्वेवम्, तथापि सजातीयस्य बलवत्त्वे दुर्बलत्वे वा तादृशसम्बन्धसत्वे वा ग्रहणाग्रहणे एव प्रयोजके इति स एवाभिभवपदार्थः ॥ 9 ॥
</4-1-9>
<4-1-10>
ननु गुरुत्वमप्यनेकद्रव्यसमवेतं रूपमहत्त्वसमानाधिकरणञ्चेति कथं न प्रत्यमत आह–
तस्याभावादव्यभिचारः ॥ 10 ॥
तस्य रूपत्वादेः सामान्यस्य उद्भवस्य च गुरुत्वेऽभावान्न गुरुत्वं प्रत्यक्षम्। ननु माभूत् तत्र रूपत्वादिकं तथापि तत्प्रत्यक्षं स्यादत आह अव्यभिचार इति। एकैकेन्द्रियग्राह्यत्वं प्रति रूपत्वादीनां पञ्चानां जातीनाम् अव्यभिचारो नियम एव। यत्रैव रूपत्वादिपञ्चकान्यतमं तत्रैव वाह्यैकैकेन्द्रियग्राह्यत्वं तद्व्यतिरेकादित्यर्थः। सूत्रे तु गुरुत्वादिकारस्यास्फुटत्वात् प्रशस्तदेवैरतीन्द्रियेषु मध्ये परिगणितमपि वल्लभाचार्य्यैः स्पार्शनमुक्तं गुरुत्वम् ॥ 10 ॥
</4-1-10>
<4-1-11>
एवमेकैकेन्द्रियग्राह्यानभिधाय द्वीनद्रियग्राह्यानाह–
संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायात् चाक्षुषाणि ॥ 11 ॥
एतेषां चाक्षुषत्वे स्पार्शनत्वे वा परस्परानपेक्षत्वसूचनायासमासः। यद्यपि महत्त्वापेक्षाऽरित तथापि न परिभाणत्वेन। चकारः स्नेहद्रवत्ववेगानामुपसङ्ग्रहार्थः। चाक्षुषाणीति-स्पर्शनत्वमप्युपलक्षयति। यदा चकार एव चाक्षुषाणि चेत्यत्रापि योज्यः। सङ्ख्या–इति बहुवचनम् एकत्वादिकाः सर्वा एव सङ्ख्याः सङ्गृह्णाति। एकत्वं सामान्यमेव न तु गुण इति चेत् तद् यदि द्रव्यमात्रवृत्ति तदा द्रव्यत्वेन सहान्यूनानतिरिक्तवृत्तित्वम्। अथ गुणकर्मणोरपि वर्तते तदा सत्तया सहा (1) न्यूनानतिरिक्तवृत्तित्वम्। कथं तर्हि गुणादावप्येकत्वादि प्रत्यय इति चेत्, आरोपितेनैकत्वन, एकार्थसमवायप्रत्यासत्त्यासम्यगेवैकत्वप्रत्ययी वा तदेतदेकत्वं नित्यद्रव्येषु नित्यम् अनित्येषु च कारणैकत्वासमवायिकारणकम्। द्वित्वादिकन्तु अपेक्षाबुद्धिजन्यम्। अपेक्षाबुद्धिश्च नानैकत्वसमूहालम्बनरूपा, सजातीययोर्विजातीययोर्वा द्रव्ययोश्चक्षुषा सन्निकर्षे ॥ 11 ॥
</4-1-11>
<4-1-12>
एतावन्त्येव कर्मपर्यन्तानि अभिप्रेत्याह–
अरूपिष्वचाक्षुषाणि ॥ 12 ॥
रूपरहितद्रव्येषु वर्त्तमानानि कर्मपर्यन्तानि सङ्ख्यादीन्यचाक्षुषाणि, न स्पार्शनानीत्यपि द्रष्टव्यम्। अप्रत्यक्षाणीति नोक्तम्, तथा सत्यात्मैकत्वमपि प्रत्यक्षं न स्यात् ॥ 12 ॥
</4-1-12>
<4-1-13>
रूपादीनामेकैकेन्द्रियग्राह्यत्वं सङ्ख्यादीनां द्विन्द्वियग्राह्यत्वं सुखादीनां मानसत्वं, तथा च सत्तागुणत्वयोः सामान्ययोः सर्वेन्द्रियग्राह्यत्वमायातमित्याह–
एतेन गुणत्वे भावे च सर्वेन्द्रियं व्याख्यातम् ॥ 13 ॥
व्यक्तिग्रहणयोग्यतैव जातिग्रहणयोग्यता। व्यक्तयश्य यथायथं यदि सर्वे न्द्रियैगृह्यन्ते तदा जात्योरपि गुणत्वसत्तयोः सर्वेन्द्रियग्राह्यत्वं पर्य्यवसन्नमित्यर्थः ॥ 13 ॥
</4-1-13>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे चतुर्थाध्यायस्याद्यमाह्निकम्।
चतुर्थाध्याये द्वितीयमाह्निकम्
<4-2-1>
स्पर्शवद्द्रव्यपरीक्षार्थे चतुर्थाध्याये मूलकारणपरमाणुपरीक्षानन्तरं कार्यद्वारा स्पर्शवन्त्येव द्रव्याणि परीचिक्षिषुराह–
तत् पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् ॥ 1 ॥
तत्र शरीरत्वं प्रयत्नवदात्मसंयोगासमवायिकारणवत् क्रियावदन्त्यावयवित्वम् उपाधिभेदः, न तु शरीरत्वं जातिः पृथिवीत्वादिना परापरभावानुपपत्तेः। इन्द्रियत्वञ्च स्मृत्यजनकज्ञानकारणमनः-संयोगाश्रयत्वम्, शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वं वा। नक्तञ्चरनयनरश्मिस्तु तेजोऽन्तरमेव। चुक्षुष्ट्वे तु शब्दरूपेतरोद्बूतविशेषगुणानाश्रयत्वे सतीति देयम्, न त्विन्द्रियत्वं जातिः, पृथिवीत्वादिना परापरभावानुपपत्तेः। विषयत्वञ्च यद्यपि प्रतीयमानतया भोगसाधनत्वम्, तच्च लौकिकसाक्षात्कारविषयत्वमेव द्रव्यगुणकर्मसामान्याभावसाधारणम्, तथापि सूत्रानुरोधात् लौकिकसाक्षात्कारविषयककार्यद्रव्यत्वं द्रष्टव्यम्। त्रिविधमिति हि सूत्रम्, तथा च विषयत्वमपि न जातिः ॥ 1 ॥
</4-2-1>
<4-2-2>
इदानीं शरीरस्य त्रैभौतिकत्वचातुर्भौतिकत्वप्रवादं निराकर्त्तुमाह–
प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते ॥ 2 ॥
`गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं’ अ.3 आ.1 सू.3. यदि शरीरं भवेत् तदाऽप्रत्यक्षं भवेत् यथा प्रत्यक्षाप्रत्यक्षाणां वायुवनस्पतीनांसंयोगोऽप्रत्यक्षस्तथा शरीरमप्यप्रत्यक्षं स्यादिति दृष्टान्तद्वारकं सूत्रम्। पञ्चात्मकं न विद्यते इति। शरीरमिति शेषः। क्लेदपाकादयस्तु उपष्टम्भकजलानलगता एव। चातुर्भौतिकोऽप्येवम्। नन्वस्तु त्रैभौतिकम् त्रयाणां भूतानां प्रत्यक्षत्वादिति चेन्न विजातीयारम्भस्य प्रतिषेधात्। एकस्य गुणस्यावयविनि गुणानारम्भकत्वात्। तद् यदि पृथिवीजलाभ्यामारम्भः स्यात् तदा तदारब्धमगन्धमरसञ्च स्यात्, एवं पृथिव्यनलाभ्यामगन्धमरूपमरसञ्च स्यात् पृथिव्यनिलाभ्यामगन्धमरसमरूपमस्पर्शञ्च स्यादित्याद्यूह्यम् ॥ 2 ॥
</4-2-2>
<4-2-3>
एतदेवाह–
गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् ॥ 3 ॥
पृथिव्यप्तेजसां प्रत्यक्षाणामेवारब्धं शरीरं प्रत्यक्षं स्यादपि, यदि तत्र गुणान्तरं कारणगुणपूर्वकं प्रादुर्भवेत्, न त्वेतदस्ति एकस्य गन्धादेरनारम्भकत्वस्योक्तत्वात्। तथा च न त्र्यात्मकमपि शरीरं न रूपवदभूतत्रयारब्धमपीत्यर्थः ॥ 3 ॥
</4-2-3>
<4-2-4>
कथं तर्ह्येकस्मिन्नेव शरीरे पाकादीनामुपलम्भः? इत्यत आह–
अणुसंयोगस्त्वप्रतिषिद्धः ॥ 4 ॥
मिथः पञ्चानां भूतानां परस्परमुपष्टम्भकतया संयोगो न निषिध्यते, किन्तु विजातीययोरण्वोर्द्रव्यं प्रत्यसमवायिकारणं संयोगो नेष्यते, तथा च तदुपष्टम्भात् पाकादीनां शरीरे भवत्युपलम्भ इति। तर्हि किम्प्रकृतिकमिदं मानुषशरीरमित्यत्र गौतमीयं सूत्रमुपतिष्ठते-`पार्थिवं तद् विशेषगुणेपलब्धेः अ. 3 आ. 1 सू. 31। पृथिवीविशेषगुणो गन्धो मानुषशरीरे आनाशमनपायी दृश्यते, पाकादयस्तु शुष्कशरीरे नोपलभ्यन्ते इति तेषामौपाधिकत्वं गन्धस्य स्वाभाविकत्वमिति पार्थिवत्वव्यवस्थितेः ॥ 4 ॥
</4-2-4>
<4-2-5>
शरीरं विभजते–
तत्र शरीरं द्विविधं योनिजमयोनिजञ्च ॥ 5 ॥
तत्र पार्थिवाप्यादिशरीरेषु मध्ये पार्थिवं शरीरं द्विविधम्। के ते द्वे विधे इत्यत्राह योनिजमयोनिजञ्चेति। आप्यतैजसवायवीयशरीराणां वरुणादित्यवायुलोकेषु प्रसिद्धानामयोनिजत्वमेव। अयोनिजत्वं शुक्रशोणितसन्निपातानपेक्षत्वम्। अयोनिजञ्च देवानामृषीणाञ्च, श्रूयते हि `ब्रह्मणो मानसा मन्वादयः’ इति। कारणमन्तरेण कथं कार्य्यमिति चेत् योनेः शरीरत्वावच्छेदेनाकारणत्वात् उष्मजकृमिमशकादिशरीरे व्यभिचारात्, संस्थानविशेषवत्त्वस्य चासिद्धेः देवर्षिशरीरापेक्षयाऽस्मदादिशरीराणामन्यादृशत्वात्। योनिजमपि द्विविधं जरायुजमण्डजञ्ज। जरायुजं मानुषपशुमृगाणां गर्भाशयस्य जरायुत्वात् पक्षिसरीसृपाणामण्डजं परितः सर्पणशीलत्वात्, सर्पकीटमत्स्यादयोऽपि सरीसृपा एव। यद्यपि वृक्षादयोऽपि शरीरभेदा एव भोगाधिष्ठानत्वात्, न खलु भोगाधिष्ठानत्वमन्तरेणजीवन-मरण-स्वप्न-जागरण-भेषजप्रयोग-बीजसजातीयानुबन्धानुकूलोपगम-प्रतिकूलोपगमादयः सम्भवन्ति। वृद्धिक्षतभग्नसंरोहणे च भोगोपपादके स्फुटे एव, आगमोऽप्यस्ति–
नर्मदातीरसम्भूताः सरलार्जुनपादपाः।
नर्मदातोयसंस्पर्शाद् ये यान्ति परमां गतिम् ॥
इत्यादिः।
श्मशाने जायते वृक्षः कह्कगृध्रादिसेवितः।
इत्यादिश्च, तथापि चेष्टावत्त्वमिन्द्रियवत्त्वञ्च नोद्भिदां स्फुटतरमतो न शरीरव्यवहारः ॥ 5 ॥
</4-2-5>
<4-2-6>
अयोनिजशरीरोत्पत्तिकारणमाह–
अनियतदिग्देशपूर्वकत्वात् ॥ 6 ॥
अनियतदिग्देशाः परमाणवो धर्मविशेषजनितकर्माणस्तत्पूर्वकत्वादयोनिजशरीराणाम् ॥ 6 ॥
</4-2-6>
<4-2-7>
ननु परमाणूनां कर्मविना कथं द्रव्यासमवायिकारणं संयोगः, कथं वा संयोगमन्तरेण द्रव्योत्पत्तिरत आह–
धर्मविशेषाच्च
अदृष्टवदात्मसंयोगादेव सर्गादौ परमाणूनां कर्म तेन च कर्मणा सम्भूय परमाणवो द्व्यणुकादिप्रक्रमेण अयोनिजं देवर्षीणां शरीरमारभन्ते इत्यर्थः। उपलक्षणञ्चैतत् अधर्मविशेषाच्च क्षुद्रजन्तूनामूष्मजानां मशकादीनां यातनामयानि शरीराण्युत्पद्यन्ते इत्यपि द्रष्टव्यम् ॥ 7 ॥
</4-2-7>
<4-2-8>
देवर्षीणामयोनिजे शरीरे प्रमाणान्तरमाह–
समाख्याभावाच्च ॥ 8 ॥
समाख्या अन्वर्था संज्ञा श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धा। तथाहि"दुर्वासःप्रभृतयोमानसाः, अहह्कारेभ्यः समभवदङ्गिरा" इत्यादिका, तथाऽपि ज्ञायते सन्त्ययोनिजानि शरीराणि देवर्षीणामिति ॥ 8 ॥
</4-2-8>
<4-2-9>
प्रमाणान्तरमाह–
संज्ञाया आदित्वात् ॥ 9 ॥
सर्गादौ या ब्रह्मादिसंज्ञा आदिभूता प्राथमिकी तया ज्ञायते अस्त्ययोनिजं शरीरमिति, नहि तदा ब्रह्मणो मातापितरौ स्तः याभ्यां ब्रह्मादिसज्ञा कृता स्यादिति भावः ॥ 9 ॥
</4-2-9>
<4-2-10>
उपसंहरित–
सन्त्ययोनिजाः ॥ 10 ॥
शरीरविशेषा इति शेषः ॥ 10 ॥
</4-2-10>
<4-2-11>
उपसंहृतेऽतिदाढर्यार्थं प्रमाणान्तरमाह–
वेदलिङ्गाच्च ॥ 11 ॥
वेदो मन्त्रः स च लिङ्ग्यते ज्ञाप्यतेऽनेनेति वेदलिङ्गं ब्राह्मणम्, ततोऽप्ययोनिजं शरीरं प्रतिपद्यते इत्यर्थः। तथाहि ब्राह्मणम् - प्रजापतिः प्रजा अनेका असृजत् स तपोऽतप्यत प्रजाः सृजेयमिति स मुखतो ब्राह्मणमसृजत् बाहुभ्यांराजन्य मूरुभ्यां वैश्यम् पद्भ्यां शूद्रम्’ इति। वेदोऽपि-`ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत’ इत्यादिः। तदेव योनिजमयोनिजञ्च पार्थिवशरीरमुक्तम्। आप्यं तैजसं वायवोयञ्चायोनिजमैव शुक्रशोणितयोर्नियमेन पार्थिवत्वात्, पार्थिवेन च पाथसीयानारम्भात्।
इन्द्रियन्तु पार्थिवं घ्राणं सर्वप्राणभृत्साधारणं जलाद्यनभिभूतैः पार्थिवभागैरारब्ध्रं घ्राणम्। घ्राणं पार्थिवं रसाद्यव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् मृगमदगन्धव्यञ्जककुक्कुटोच्चारवत्। एवं रसनमाप्यं रूपाद्यव्यञ्जकत्वे सति रसस्यैव व्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकसलिलवत्। एवञ्चक्षुस्तैजसं रसाद्यव्यञ्जकत्वे सति रूपस्यैव व्यञ्जकत्वादालोकवत्। त्वगिन्द्रियं वायवीयं गन्धाद्यव्यञ्जकत्वे सति स्पर्शस्यैव व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनवातवत्।
विषयस्तु पार्थियो मृत्पाषाणस्थावरलक्षणः। तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः, अद्रिमणिहीरकगैरिकादयः पाषाणाः, स्थावरास्तृणौषधिवृक्षगुल्मलतावतानवनस्पतयः। आप्यास्तु विषयाः सरित्समुद्रहिमकरकादयः। तैजसस्तु विषयो भौमदिव्योदर्याकरजभेदाच्चतुर्विधः। भौमं काष्ठेन्धनप्रभवम्। दिव्यम् अबिन्धनं विद्युदादि। उदर्य्यम् अन्नादिरसार्जनक्षमं जाठरम्। आकरजञ्ज हिरण्यादि। वायवीयस्तु विषयः उपलभ्यमानस्पर्शाश्रयो वायुः। वायोश्चतुर्थः कार्यः प्राणाख्यः शरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदादपानादिसंज्ञां लभत इति ॥ 11 ॥
</4-2-11>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे चतुर्थाध्यायस्य
द्वितीयमाह्निकम्।
समाप्तश्चायं चतुर्थोध्यायः।
————————————————————-
** पञ्चमाध्याये प्रथमाह्निकम्**
<5-1-1>
कर्मपरीक्षा पञ्चमाध्यायार्थः। प्रयत्ननिष्पाद्यकमपरीक्षा प्रथमाह्निकार्थः। तत्राप्युत्क्षेपणप्रकरणम्, अप्रयत्नसिद्धोत्क्षेपणप्रकरणम्, पुण्यहेतुकमप्रकरणम्, पुण्यपापोदासीनकर्मप्रकरणञ्च। चेष्टाविशेषमधिकृत्याह–
आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म ॥ 1 ॥
संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ आत्मनः संयोगप्रयत्नौ ताभ्यां हस्ते समवायिकारणे कर्म। तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणम्, प्रयत्नश्च निमित्तकारणम्। इयमेव चेष्टा, प्रयत्नवदात्मसंयोगासमवायिकारणक्रियायाश्चेष्टात्वात्, स्वासमवेतस्वातिरिक्तस्पर्शवदन्यप्रयत्नजन्यक्रियाया वा ॥ 1 ॥
</5-1-1>
<5-1-2>
हस्तोत्क्षेपणमुक्वा तदधीनं मुसलोत्क्षेपणमाह–
तथा हस्तसंयोगाच्च मुसले कर्म ॥ 2 ॥
चकारेण गुरुत्वं निमित्तकारणान्तरं समुच्चिनोति। तथेति। तादृशमुत्क्षेपणरूपमेवेत्यर्थः। यद्वा तथा हस्तसंयोगादुत्क्षेपणवद्धस्तसंयोगादित्यर्थः। अत्र च प्रयत्नवदात्मसंयुक्तेन हस्तेन मुसलस्य संयोगोऽसमवायिकारणम्, मुसलं समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे ॥ 2 ॥
</5-1-2>
<5-1-3>
उदूखलाभिहतस्य मुसलस्याकस्माद् यदुत्पतनं जायते तत्र कारणमाह–
अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः ॥ 3 ॥
अत्र यद्यपि मुसलेन उत्पतता हस्तस्य संयोगोऽप्यस्ति तथाऽपि स संयोगोऽन्यथासिद्धः किन्तु उदूखलाभिघात एव असमवायिकारणम्। कुत एवमित्यत आह व्यतिरेकादिति। प्रयत्नस्य व्यभिचारादित्यर्थः। यदि तदा प्रयत्नः स्यात् मुसलस्यैवाकस्मिकमुत्पतनं न भवेत् विधारकेण प्रयत्नेन मुसलस्य धारणमेव भवेत् चेष्टाधीनं मुसलस्य पुनरुत्पतनं वा भवेत् इति भावः ॥ 3 ॥
</5-1-3>
<5-1-4>
संयोगस्यासमवायिकारणत्वं निराकर्तुमाह–
तथात्मसंयोगो हस्तकर्मणि ॥ 4 ॥
मुसलेन सहोत्पततो हस्तस्य कर्मणि आत्मसंयोगः प्रयत्नवदात्मसंयोगस्तथा अकारणमित्यर्थः। अकारणमिति पूर्वसूत्रस्थं तथेत्यतेदिश्यते ॥ 4 ॥
</5-1-4>
<5-1-5>
कुतस्तर्हि हस्ते तदोत्पतनमत आह–
अभिधातान्मुसलसंयोगाद्धस्ते कर्म ॥ 5 ॥
यथा मुसले उत्पतति मुसलमुखस्थं लोहमुत्पतति तथा हस्तोऽपि तदोत्पतति। अत्राभिघातशब्देन अभिघातजनितः संस्कार उच्यते उपचारात्। उत्पततो मुसलस्य पटुतरेण कर्मणा अभिघातसहकृतेन स्वाश्रये मुसले संस्कारो जनितस्तत्कृतं संस्कारमपेक्ष्य हस्तमुसलसंयोगादसमवायिकारणाद्धस्तेऽप्युत्पतनं न तु तदुत्पतनं प्रयत्नवदात्मसंयोगासमवायिकारणकम्, अवशो हि हस्तो मुसलेन सहीत्पततीति भावः ॥ 5 ॥
</5-1-5>
<5-1-6>
ननु शरीरे शरीरावयवे वा यत् कर्मोत्पद्यते तत्र प्रयत्नवदात्मसंयोगः कारणं प्रकृते कथं न तथेत्यत आह–
आत्मकर्म हस्तसंयोगाच्च ॥ 6 ॥
आत्मशब्दः शरीरावयवपर उपचारात्। अन्वयानुपपत्तिरेवोपचारबीजम्। तथा चात्मनः शरीरावयवस्यापि हस्तस्य यत् कर्म तत् हस्तमुसलसंयोगात्। चकाराच्च वेगसमुच्चयः। हस्तकर्मणि हस्तसंयोगस्तावदसमवायिकारणं तत्र व्यभिचारो नास्ति। स च क्विचित् प्रयत्नवदात्महस्तसंयोगः, क्वचिद्वेगवन्मुसलादिहस्तसंयोगो यथा वातुलस्य शरीरावयवकर्मेति भावः ॥ 6 ॥
</5-1-6>
<5-1-7>
प्रयत्नानधीनकर्मप्रकरणमारभते–
संयोगाभावे गुरुत्वात् पतनम् ॥ 7 ॥
संयोगपदेन प्रतिबन्धकमात्रमुपलक्षयति, तेन प्रतिबन्धकाभावे गुरुत्वादसमवायिकारणात् पतनम्-अधःसंयोगफलिका क्रिया जायते। तत्र गुरुत्ववति फलादौ प्रतिबन्धकः संयोगः, विहङ्गमादौ तु विधारकः प्रयत्नः पतनप्रतिबन्धकः, काण्डादौ क्षिप्ते संस्कार एव पततप्रतिबन्धकः। एतेषामभावे गुरुत्वादीनं पतनमित्यर्थः। अभिध्यानादिना विषादेरन्तरिक्षस्थापने अदृष्टवदात्मसंयोगो मन्त्रादिरेव वा प्रतिबन्धकस्तेषामपि संयोगपदेन संग्रहः ॥ 7 ॥
</5-1-7>
<5-1-8>
ननु गुरुत्वाद् यदि पतनं तदा लोष्टादेरुत्क्षिप्तस्य कचिदूर्ध्वं क्वचिच्च तिर्य्यग्गमनं कथम्भवेदित्यत आह–
नोदनविशेषाभावान्नोर्ध्वं न तिर्य्यग्गमनम् ॥ 8 ॥
गुरुत्वततोऽपि लोष्टकाण्डादेर्यदूर्ध्वं तिर्थ्यक् च गमनं तन्नोदनविशेषात् तीव्रतरान्नोदनात्। तथाच फलपक्षिबाणादौ संयोगप्रयत्नसंस्काराभावे यत् पतनं तत्र नोदनविशेषो नास्ति तेन न तिर्य्यङ्न वोर्ध्वं गमनमिति भावः ॥ 8 ॥
</5-1-8>
<5-1-9-10>
ननु नोदनविशेष एव कुत उत्पद्यते तत्राह–
प्रयत्नविशेषान्नोदनविशेषः ॥ 9 ॥
नोदनविशेषादुदसनविशेषः ॥ 10 ॥
तिर्य्यके ऊर्ध्वं दूरम् आसन्ने वा क्षिपमीतीच्छाकारणकः प्रयत्नविशेषः तज्जनितो नोदनविशेषस्ततो गुरुत्ववतो द्रव्यस्य लोष्टादेरूर्ध्वं तिर्यक् च गमनमुपपद्यते। उदसनंदूरोत्क्षेपणम् ॥ 9 ॥ 10 ॥
</5-1-9-10>
<5-1-11>
उदूखलाबिघातात् मुसलेन सह हस्ते यत् कर्म उत्पन्नं तत्तावत् प्रयत्नपूर्वकं न भवति, नापि पुण्यपापहेतुरतस्तत्तुल्यां बालकस्य क्रीडाकरचरणादिचालनं यत्तत्रातिदिशति–
हस्तकर्मणा दारककर्म व्याख्यातम् ॥ 11 ॥
बालकस्य यद्यपि करचरणादिचालनं प्रयत्नपूर्वकमेव तथापि हिताहितप्राप्तिफलकं न भवति न वा पुण्यपापहेतुरित्यतिदेशार्थः ॥ 11 ॥
</5-1-11>
<5-1-12>
इदानीं प्रयत्नपूर्वकेऽपि कर्मणि यत्र न पुण्यपापहेतुत्वं तत्र दारककर्मतुल्यतामतिदिशन्नाह–
तथा दग्धस्य विस्फोटने ॥ 12 ॥
आततायिना केनाऽप्यगारे दाह्यमाने तत्र दग्धस्य पुरुषस्य विस्फोटे वह्निकृते जाते सति तस्याततायिनो वधानुकूलेन प्रयत्नेन हस्तादौ यत् कर्म जनितं तन्न पुण्यहेतुर्म वा पापहेतुः। यथाहुः–
नाततायिवघे दोषो हन्तुर्भवति कश्चन।
प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहा।
क्षेत्रदारापहारी च षडेते आततायिनः ॥ 12 ॥
</5-1-12>
<5-1-13>
इदानीं यत्नं विना यानि कर्माणि भवन्ति तान्याह–
यत्नाभावे प्रसुप्तस्य चलनम् ॥ 13 ॥
प्रसुप्तस्येति चैतन्याभावदशामुपलक्षयति। तेन मूर्च्छितस्य जीवतोऽचैतन्येऽपि वायुकृतं चलनं द्रष्टव्यमत्र ॥ 13 ॥
</5-1-13>
<5-1-14>
शरीरकर्माणि व्याख्याय तदितराण्याह–
तृणे कर्म वायुसंयोगात् ॥ 14 ॥
तृणपदेन वृक्षगुल्मलतावतानादिकं सर्वमुपलक्षयति ॥ 14 ॥
</5-1-14>
<5-1-15>
अदृष्टाधीनं कर्म परिगणयन्नाह–
मणिगमनं सूच्यभिसर्पणमदृष्टकारणकम् ॥ 15 ॥
मणिपदेन कास्यादिकमुपलक्षयति। तेनाभिमन्त्रितं मणिकांस्यादि तस्कराभिमुखं यद् गच्छति तत्र गमने मण्यादि समवायिकारणम्, अदृष्टवत्तस्करात्ममणिसंयोगोऽसमवायिकारणम्, तस्करस्य पापं निमित्तकारणम्। सूच्यभिसर्पणमिति। सूचीपदेन लोहमात्रं तृणञ्चोपलक्षयति। तथा चायस्कान्ताभिमुख यत् सूच्यादेर्गमनं तत्र सूच्यादि समवायिकारणम्, यस्य हितमहित वा तेन तृणसूच्यादिगमनेन तददृष्टवदात्मसंयोगोऽसमवायिकारणम्, तददृष्टमेव निमित्तकारणम्। एवमन्यदप्यूह्यम्। तद् यथा वह्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं सर्गादौ परमाणुकर्मादि ॥ 15 ॥
</5-1-15>
<5-1-16>
ननु शरविहङ्गमालातचक्रादीनामुपरमपर्य्यन्तमेकमेव कर्म नाना वेति संशये निर्णयहेतुमाह–
इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः ॥ 16 ॥
इषाविति षष्ठ्यर्थे सप्तमी। इदमत्राकूतम्-वेगेन गच्छतां शरादीनां कृड्यादिसंयोगानन्तरं शरादौ सत्येव गत्युपरमो दृश्यते अत्राश्रयनाशस्तावन्न तन्नाशकः आश्रयस्य विद्यमानत्वात्। विरोधिगुणान्तरञ्च नोपलभ्यते, तेन स्वजन्यः संयोग एव कर्मनाशक इत्युन्नीयते। स च संयोगश्चतुर्थक्षणे जातः पञ्चमक्षणे कर्म नाशयति। तथाहि-कर्मोत्पत्तिरथ विभागः अथ पूर्वसंयोगनाशः उत्तरसंयोगः कर्मनाशः। तेनायुगपत्संयोगविशेषः कर्मनानात्वज्ञापका इत्यर्थः। संयोगविशेषा इति। संयोगे विशेष स्वजन्यत्वमेव अन्यथा संयोगमात्रस्य कर्मनाशकत्वे कर्म क्वचिदपि न तिष्ठेत् ॥ 16 ॥
</5-1-16>
<5-1-17>
नोदननिष्पाद्यकर्मप्रकरणानन्तरं संस्कारनिष्पाद्यकर्मप्रकरणमारभते–
नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरञ्च ॥ 17 ॥
पुरुषप्रयत्नेनाकृष्टया पतञ्जिकया नुन्नस्येषोराद्य कर्म जायते, तत्र नोदनमसमवायिकारणम्, इषुः समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे तेन चाद्येन कर्मणा समानाधिकरणो वेगाख्यः संस्कारो जन्यते। स च वेगेन गच्छतीति प्रत्यक्षसिद्ध एव। तेन संस्कारेण तत्रेषौ कर्म जायते तत्रासमवायिकारणं संस्कारः, समवायिकारणमिषुः, निमित्तकारणन्तु तीव्रो नोदनविशेषः। एवञ्च यावदिषु पतनमनुवर्त्तमानेन संस्कारेण उत्तरोत्तरः कर्मसन्तानो जायते स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्कारेण कर्मान्तरजननादेक एव संस्कारः कर्मसन्तानजनकः न तु कर्मसन्तानवत् संस्कारसन्तानोऽप्यभ्युपगन्तुमुचितो गौरवादिति दर्शयितुमाह-तथोत्तरमुत्तरञ्चेति, तत्कर्मकारिताच्च संस्कारादित्येकवचनञ्च। न्यायनये तु कर्मसंतानवत् संस्कारसन्तानस्वीकारे गौरवम्। यत्तु युगपत् प्रक्षिप्तशरयोरेकस्य तीब्रो वेगोऽपरस्य तु मन्दः, तत्र नोदनतीव्रत्वमन्दत्वे निमित्तम् ॥ 17 ॥
</5-1-17>
<5-1-18>
ननु संस्कार एक एव चेत् कर्मसन्तानजनकस्तदा कदाचिदपि शरपातो न स्यात् कर्मजनकस्य संस्कारस्य सत्त्वादित्यत आह–
संस्काराभावो गुरुत्वात् पतनम् ॥ 18 ॥
गुरुत्वन्तावत् पतनकारणमनुवर्त्तमानमेव। तच्च गुरुत्वं संस्कारेण प्रतिरुद्धं पतनं नाजीजनत्। अथ प्रतिबन्धकाभावे तदेव गुरुत्वं पतनं करोतीत्यर्थः । 18 ॥
</5-1-18>
इति श्रीशङ्करे वैशेषिकसुत्रोपस्कारे पञ्चमाध्यायस्य
प्रथममाह्निकम्।
पञ्चमाध्याये द्वितीयाह्निकम्
<5-2-1>
नोदनादिनिष्पाद्यकर्मपरीक्षाप्रकरणम्। तत्राह–
नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म ॥ 1 ॥
नोदनं संयोगविशेषः–येन संयोगेन जनितं कर्म संयोगिनोः परस्परं विभागहेतुर्न भवति, यः संयोगः शब्दनिमित्तकारणं न भवति वा। यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्म संयोगिनोः परस्परविगागहेतुश्च भवति स संयोगविशेषोऽभिघातः। ताभ्यामपि प्रत्येकं कर्म जन्यते। पङ्काख्यायां पृथिव्याञ्चरणेन नोदनात् चरणाभिघाताच्च कर्म जायते तत्र पङ्कः समवायिकारणम्, नोदनाभिघातौ यथायथमसमवायिकारणम्, गुरुत्ववेगप्रयत्ना यथासम्भवं निमित्तकारणम्। संयुक्तसंयोगादिति। नोदनादभिघाताद्वा पङ्के कर्म तत्पङ्कस्थिते घटादावपि तत्समकालमेव कर्मदर्शनात् ॥ 1 ॥
</5-2-1>
<5-2-2>
ननु भूकम्पादौ नोदनाभिघातवन्तरेण जायमाने किमसमवायिकारणमत आह–
तद् विशेषेणादृष्टकारितम् ॥ 2 ॥
तदिति पृथिवीकर्म परामृशति। पृथिव्यामेव कर्म यदि विशेषेण आशयेन भवति तदाऽदृष्टकारितम्, तेन भूकम्पेन यस्य दुःखं सुखं वा भवति अवदृष्टत्तदात्मसंयोगस्तत्रासमवायिकारणम्, भूः समवायिकारणम्, अदृष्टं निमित्तकारणम्।
यद्वा तदा नोदनाभिघातो परामृशति। विशेषो व्यतिरेकः। तथाच नोदनाभिघातव्यतिरेकेण यत् पृथिव्यां कर्म तददृष्टकारितमित्यर्थः ॥ 2 ॥
</5-2-2>
<5-2-3>
इदानीं द्रवद्रव्यसमवेतकर्मपरीक्षाप्रकरणम्। तत्राह–
अपां संयोगाभावे गुरुत्वात् पतनम् ॥ 3 ॥
अपां यत् पतनं वर्षणरूपं तद्गुरुत्वासमवायिकारणकम्। तत् संयोगस्य मेघसंयोगस्याभावे सति भवति, तेन संयोगाभावस्तन्निमित्तकारणमित्यर्थः ॥ 3 ॥
</5-2-3>
<5-2-4>
तेषामेव वृष्टिबिन्दूनामन्योनयसंयोगजनकं कर्म कथमत आह–
द्रवत्वात् स्यन्दनम् ॥ 4 ॥
क्षितौ पतितानामपां विन्दूनां परस्परं संयोगेन महज्जलावयविस्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंसरणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणादप्सु समवायिकारणेषु ॥ 4 ॥
</5-2-4>
<5-2-5>
ननु यदि भूमिष्ठानामपाम् ऊर्द्ध्वं गमनं भवति तदा गुरुत्वात् पतनवर्षणं सम्भाव्यते, तदेव तु कुत इत्यत आह–
नाड्यो वायुसंयोगादारोहणम् ॥ 5 ॥
कारयन्तीति शेषः। यदपामूर्ध्वमारोहणं तत् नाड्यः सूर्य्यरश्मय एव आरोहयन्त्यप इत्यर्थः। क्वचित् पाठो नाड्यवायुसंयोगादिति। स च नाड्यो नाडीसम्बन्धी यो वायुसंयोग इत्युपपादनीयः ॥ 5 ॥
</5-2-5>
<5-2-6>
ननु सूर्य्यरश्मीनां कथमयं महिमा यत् भूमिष्ठा अप ऊर्ध्व नयन्तीत्यत आह–
नोदनापीडनात् संयुक्तसंयोगाच्च ॥ 6 ॥
नोदनेन बलवद्वायुनोदनेन आपीडनादास्कन्दनात् वायुसंयुक्ता रश्मयस्तत्संयुक्ता आप ऊर्ध्वं धावन्ति यथा स्थालीस्था अपः क्वथ्यमानाः वायुनिन्नवह्निरश्मय ऊर्ध्वं नयन्ति। चकार इवार्थस्तत्र च उपमानं स्थालीस्था एवापो द्रष्टव्याः ॥ 6 ॥
</5-2-6>
<5-2-7>
भिघातौ न वाऽऽदित्यरश्मयः प्रभवन्ति, तत् कथं तदित्यत्राह–
वृक्षाभिसर्पणमित्यदृष्टकारितम् ॥ 7 ॥
अभितः सर्पणमभिसर्पणं तदभिसर्पणं मूले निषिक्तानामपां वृक्षे तददृष्टकारितं पत्रकाण्डफलपुष्पादिवृद्धिकृतं सुखं दुःखं वा येषामात्मनाम् अदृष्टवत्तदात्मसंयोगादसमवायिकारणात् अदृष्टान्निमित्तादप्सु समवायिकारणेषु तत् कर्म भवति येन कर्मणा आप ऊर्ध्वे गत्वा वृक्षं वर्द्धयन्तीत्यर्थः ॥ 7 ॥
</5-2-7>
<5-2-8>
नन्वपां सांसिद्धिकद्रवत्वं लक्षणमुक्तं तादृशानामेवापामूर्ध्वमधस्तिर्य्यक् च गमनमुपपादितं हिमकरकादीनाञ्च शैत्यादप्त्वमविवादसिद्धम्, तत् कथं तेषां संघातः काठिन्यम्, कथ़ञ्च विलयनमित्यत आह–
अपां संघातो विलयनञ्च तेजः संयोगात् ॥ 8 ॥
दिव्येन तेजसा प्रतिबन्धादाप्याः परमाणवो द्व्यणुकमारभमाणा द्व्यणुकेषु द्रवत्वं नारभन्ते ततो द्रवत्वशून्यैरवयवैर्द्व्यणुकादिप्रक्रमेण द्रवत्वशून्या हिमकरकादय आरभ्यन्ते तेन तेषां काठिन्यमुपलभ्यते। नन्वेवं हिमकरकादीनामाप्यत्वे किं प्रमाणमत उक्तःविलयनञ्च तेजःसंयोगादिति। तेजःसयोगेन बलवता हिमकरकारम्भकपरमाणूनां क्रिया क्रियातो विभागस्तत आरम्भकसंयोगनाशपरम्परया हिमकरकादिमहावयविनाशस्तत्र द्रवत्वप्रतिबन्धकतेजः संयोगविगमात् त एव परमाणवः द्व्यणुकेषु द्रवत्वमारभन्ते। ततो द्रवत्ववता हिमकरकादीनां विलयनं तत्र च बलवत्तेजोऽनुप्रवेशो निमित्तम् ॥ 8 ॥
</5-2-8>
<5-2-9>
ननु बलवद्दिव्यतेजोऽनुप्रवेशस्तत्र इत्यत्र किं प्रमाणमित्यत आह–
तत्र विस्फूर्जथुर्लिङ्गम् ॥ 9 ॥
तत्र दिव्यासु अप्सु दिव्यानां तेजसामनुप्रवेसे विस्फूर्जथुर्लिङ्गं वज्रनिर्घोष एव लिङ्गमित्यर्थः। आत्यन्तिकविद्युत्प्रकाशस्तावत्प्रत्यक्ष एव तदनुपदञ्च स्फूर्जथुः सोऽपि प्रत्यक्ष एव, तेनानुमीयते यस्मान्मेघात् करकाः प्रादुर्भ वन्ति तत्र दिव्यन्तेजो विद्युद्रूपमनुप्रविष्टं तदुपष्टम्भेन करकारम्भिकाणामपां द्रवत्वप्रतिबन्ध इति ॥ 9 ॥
</5-2-9>
<5-2-10>
अत्रैव प्रमाणान्तरमाह–
वैदिकञ्च ॥ 10 ॥
अपां मध्ये तेजोऽनुप्रवेश आगमसिद्ध एवेत्यर्थः। तथाहि “आपस्ता अग्निं गर्भमादधीरन्, या अग्निं गर्भं दधिरे मुवर्णम्” इत्यादि ॥ 10 ॥
</5-2-10>
<5-2-11>
ननु विस्फूर्जथुः कथमुत्पद्यते संयोगविबागौ शब्दयोनी तौ च नानुभूयेते इत्यह आह–
अपां संयोगाद्विभागाच्च स्तनयित्नोः ॥ 11 ॥
विस्फूर्जथरिति शेषः। अद्भिः स्तनयित्नोः संयोगविभागौ निमित्तकारणीभूय स्तनयित्नोरेवाकाशेन संयोगादसमवायिकारणादाकाशे समवायिकारणे शब्दं गर्जितं जनयतः। क्वचिच्च वायुवलाहकसंयोगविभागौ निमित्तकारणे। बलाहकवियत्संयोगविभागावसमवायिकारे। कर्मकारणाधिकारेऽपि प्रासङ्गिक्रमिदमुक्तम्।
यद्वा मेघाकाशसंयोगे विभागे वा शब्दासमवायिकारणे कारणम् अपामेव नोदनाभिघातजनितं कर्मेति सूचितं, कर्मण एवाधिकारप्राप्तत्वात् ॥ 11 ॥
</5-2-11>
<5-2-12>
पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् ॥ 12 ॥
भूकम्पंप्रत्यदृष्टवदात्मसंयोगः कारणमुक्तम्, तत्रेवाकस्मिकदिग्दाहहेतोस्तेजसः आकस्मिकवृक्षादिक्षोभहेतोश्च प्रभञ्चनस्य कर्म यत् संजायते तत्राप्यदृष्टवदात्मसंयोगोऽसमवायिकारणम्, वायुतेजसी समवायिकारणम्, अदृष्टं निमित्तकारणमित्यर्थः। कर्मशब्दस्य द्व्यावृत्तिर्महोल्कादिकर्मसूचनार्था ॥ 12 ॥
</5-2-12>
<5-2-13>
अदृष्टवदात्मसंयोगासमवायिकारणकं कर्मान्तरमाह–
अग्नेरूर्ध्वज्वलनं वायोस्तिर्य्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् ॥ 13 ॥
आद्यमिति। सर्गाद्यकालीनमित्यर्थः। तदा नोदनाभिघातादीनामभावात् अदृष्टवदात्मसंयोग एव तत्रासभवायिकारणम्। आद्यमूर्ध्वज्वलनम् आद्यं तिर्य्यकपवनमिति। इतरेषां ज्वलनपवनकर्मणां वेगासमवायिकारणकत्वमेव मन्तुमुचितं दृष्टे कारणे-सत्यदृष्टकल्पनानवकाशात् ॥ 13 ॥
</5-2-13>
<5-2-14>
अनाद्यं(मनः) कर्माधिकृत्याह–
हस्तकर्मणा मनसः कर्म व्याख्यातम् ॥ 14 ॥
मुसलोत्क्षेपणादौ यथा प्रयत्नवदात्मसंयोगासमवायिकारणकं हस्तकर्म तथाऽभिमतविषयग्राहिणीन्द्रिये सन्निकर्षार्थं यन्मनसः कर्म तदपि प्रयत्नवदात्मसंयोगासमवायिकारणकमेव। यद्यपीन्द्रियं मनो न साक्षात्प्रयत्नविषयस्तथापि मनोवहनाडीगोचरेण प्रयत्नेन मनसि कर्मोत्पत्तिर्द्रष्टव्या। नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्त्तव्यम्, अन्यथा प्राणवहनाडीचरेण प्रयत्नेनाशितपीताद्यभ्यवहरणमपि न सम्भवेत् ॥ 14 ॥
</5-2-14>
<5-2-15>
ननु मनसि कर्म उत्पद्यत इत्यत्रैव न प्रभाणमत आह–
आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे ॥ 15 ॥
सुखदुःखे इत्युपलक्षणं ज्ञानप्रयत्नाद्यपि द्रष्टव्यम्। मनसो वैभवं पूर्वमेव निराकृतम्, अणुत्वञ्च साधितम्, युगपञ्ज्ञानानुत्पत्तिश्च मनसो लिङ्गामित्युक्तम्, तेन तत्तदिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे न स्यातामेव यदि मनसि कर्म न भवेत्, न भवेच्च पादे मे सुखं शिरसि मे वेदनेत्याद्याकारोऽनुभव इत्यर्थः। यद्यपि मनःसन्निकर्षाधीनः सर्वोऽप्यात्मविशेषगुणस्तथापि सुखदुःखे तीव्रसंवेगितयाऽतिस्फुटत्वादुक्ते ॥ 15 ॥
</5-2-15>
<5-2-16>
नन्वेवं यदि चपलं मनस्तदा चित्तनिरोधाभवाद्योगं विना नात्मसाक्षात्कारो, न वा तमन्तरेण मोक्ष इति शास्त्ररम्भवैफल्यमत आह–
तदनारम्भ आत्भस्थे मनसि शरीरस्य दुःखाभावः संयोगः ॥ 16 ॥
विषयेष्वलम्प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो व्यावृत्तं मनो यदात्मस्थामात्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुणप्रयत्नाभावात् कर्म भनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः। चित्तनिरोधलक्षणत्वाद् योगस्य। तदनारम्भ इति। मनसः कर्मानारम्भ इत्यर्थः। यद्वा तत्पदेन सुखदुःखे एवामिधीयेते प्रक्रान्तत्वात्। दुःखाभाव इति। दुःखाभावसाधनत्वाद्योग एव दुःखाभावः “अन्नं वै प्राणा” इतिवत्। यद्वा दुःखस्याभावो यत्रेति बहुव्रीहिः, शरीरस्येति शरीरावच्छिन्नस्यात्मनः स योग इति प्रसिद्धिसिद्धतया तत्पदम्, अयं स योगः। यद्वात्मपदेनात्र प्राण उच्यते उपचारात् प्राणानुमेयत्वादात्मनः। तथाच प्राणवहनाड्यां कर्मणा प्राणकर्मापि जायते। यद्वा जीवनयोनियत्नवदात्मप्राणसंयोगासमवायिकारणकं प्राणकर्म। जीवनयोनिश्च यत्नोऽतीन्द्रियः प्राणसञ्चारानुमेयः, कथमन्यथा सुषुप्त्यवस्थायामपि श्वासप्रश्वासगतागतमिति भावः ॥ 16 ॥
</5-2-16>
<5-2-17>
ननु प्राणस्य मनसश्च कर्म यदि प्रयत्ननिमित्तिकं तदा प्राणमनसी यदा मरणावस्थायामपसर्पतः-देहाद्वहिर्भवतुः देहान्तरोत्पत्तौ तत्र पुनरुपसर्पतःप्रविशतः, तत्र प्रयत्नाभावात्तदुभयमनुपपन्नम्, अशितपीतं भक्तपानीयादि तस्यापि शरीरावयवोपचयहेतुर्यः संयोगस्तज्जनकं यत् कर्म यच्च गर्भवासदशायां संयोगविभागजनकं कर्म तेषां कथमुत्पत्तिरत आह–
अपसर्पममुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि ॥ 17 ॥
अत्र `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामि’ति नपुंसकनिर्देशः संयोगपदञ्च तत्कारणे कर्मणि लाक्षणिकम्। अपसर्पणं देहारम्भककर्मक्षये देहादेव प्राणमनसोरुत्क्रमणम्, उपसर्पणञ्च देहान्तरोत्पत्तौ तत्र प्राणामनसोः प्रवेशानम्, अशितपीतादिसंयोगहेतुश्च कर्म, कार्यान्तरं गर्भशरीरं तत्संयोगहेतुश्च यत् कर्म तत् सर्वमदृष्टवदात्मसंयोगासमवायिकारणकम्। इतिकारेण धातुमलकर्मणामप्यदृष्टवदात्मसंयोगासमवायिकारणकत्वं सूचयति ॥ 17 ।
</5-2-17>
<5-2-18>
ननु देहान्तरोत्पत्तेरावश्यकत्वञ्चेत्तदा कतं मोक्ष इत्यत आह–
तदभावे संयोगाबावोऽप्रादुर्भावश्च मोक्षः ॥ 18 ॥
इदमत्राकूतं-योगबलेनात्मतत्त्वसाक्षात्कारे सति तेन च सवासनमित्याज्ञाने ध्वस्ते तन्निबन्धनानां रागद्वेषमोहानां दोषाणामपायात् प्रवृत्तेरपाये तन्निबन्धन स्य जन्मनोऽपाये तन्निबन्धनस्य दुःखस्यापाय इति तावद्वस्तुगतिः। तत्र योगिनो योगजधर्मबलेन तत्तद्देशकालतत्तत्तुरगमतङ्गजविहङ्गमादिदेहोपभोग्यमुखदुःखासाधारणकारणधर्मनिकुरम्बमालोच्य तत्तत्कायव्यूहं निर्वाह्य भोगेन पूर्वोत्पन्नधर्मा धर्मयोः क्षयः, निवृत्तदोषस्य धर्माधर्मान्तरानुत्पत्तावपूर्वशरीरान्तरानुत्पत्तौ पूर्वशरीरेण सहात्मनो यः संयोगाभावः स एव मोक्षः तदभाव इति। अनागतशरीरानुत्पादे संयोगाभाव इत्यर्थः। नन्वियमवस्था प्रलयसाधारणीत्यत आह-अप्रादुर्भाव इति। यदनन्तरं शरीरादेः पुनः प्रादुर्भावो न भवतीत्यर्थः स मोक्ष इति। तस्यामवस्थायां यो दुःखध्वंसः स मोक्ष इत्यर्थः ॥ 18 ॥
</5-2-18>
<5-2-19>
ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात्, तत्र न प्रयत्नो न वा नोदनाभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्तान्तरं वक्तव्यं तच्च नानुभूयमानमित्यत आह–
द्रव्यगुणकर्मनिष्पत्तिधर्म्यादभावस्तमः ॥ 19 ॥
एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम्। द्रव्यनिष्पत्तिस्तावत् स्पर्शवद्द्रव्याधीना। न च तमसि स्पर्शोऽनुभूयते। न चानुद्भूत एव स्पर्शः, रूपोद्भवे स्पर्शोद्भवस्यावश्यकत्वात्। पृथिव्यामय नियमः तमस्तु दशमं द्रव्यमिति चेन्न द्रव्यान्तरस्य नीलरूपानधिकरणत्वात् नीलरूपस्य च गुरुत्वेनान्तरीयकत्वात्, रसगन्धनान्तरीयकत्वाच्च। यथाऽऽकाश शब्दमात्रविशेषगुणं तथा तमोऽपि नीलरूपमात्रविशेषगुणं स्यादिति चेन्न चाक्षुषत्वविरोधात्। यदि हि नीलरूपवन्नीलं रूपमेव वा तमः स्यात् बाह्यलोकप्रग्रहमन्तरेण चक्षुषा न गृह्येत ॥ 19 ॥
</5-2-19>
<5-2-20>
तर्हि गतिप्रतीतिः किन्निबन्धनेत्यत आह–
तेजसो द्रव्यान्तरेणावरणाच्च ॥ 20 ॥
गच्छता द्रव्यान्तरेणावृते तेजसि पूर्वदेशानुपलम्भादग्रिमदेशे चोपलम्भात्ते जोऽभवस्य गच्छद्द्रव्यसाधर्म्याद् मतिभ्रमो न तु वास्तवी तव मतिरित्यर्थः, अन्वयव्यतिरेकाभ्यां तथा प्रतीतेः उद्भूतरूपवद्यावत्तेजःसंसर्गाभावस्तमः ॥ 20 ॥
</5-2-20>
<5-2-21>
एवं द्विसूत्रकं प्रासङ्गिकं तमःप्रकरणं समाप्य कर्मशून्यताप्रकरणमाह–
दिक्कालावाकाशञ्च क्रियावद्वैधर्म्यान्निष्क्रियाणि ॥ 21 ॥
चकारादात्मसंग्रहः। क्रियावता वैधर्म्यं दिगादीनाममूर्तत्वं मूर्त्त्यनुविधानात् क्रियायाः ॥ 21 ॥
</5-2-21>
<5-2-22>
गुणकर्मणोर्निष्क्रियत्वमाह–
एतेन कर्माणि गुणाश्च व्याख्याताः ॥ 22 ॥
एतेनेति। क्रियावद्वैधर्म्येणेत्यर्थः क्रियावद्वैधर्म्यममूर्तत्वं गुणकर्मणोरपीति ते अपि निष्क्रियत्वेन व्याख्याते इत्यर्थः ॥ 22 ॥
</5-2-22>
<5-2-23>
ननु गुणकर्मणी यदि निष्क्रिये तदा ताभ्यां द्रव्यस्य कथं सम्बन्धः? संयोगसम्बन्धः सम्भाव्येत स च कर्माधीन एवेत्यत आह–
निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः ॥ 23 ॥
निष्क्रियाणां गुणकर्मणां समवाय एव सम्बन्धः, स च कर्मभ्यो निष्द्धः तस्य सम्बन्धस्य उत्पत्तिरेव नास्ति दूरे तु कर्माधीनतेत्यर्थः ॥ 23 ॥
</5-2-23>
<5-2-24>
ननु यद्यमूर्त्तत्वात् गुणाः कर्मसमवायिकारणं न भवन्ति तदा गुणैर्गुणाः कर्माणि च कथमुत्पद्यन्ते न हि समवायिकारणातिरिक्तत्वरूपेणापि कारणता सम्भवतीत्यत आह–
कारणन्त्वसमवायिनो गुणाः ॥ 24 ॥
गुणा असमवायिकारणं न तु समवायिकारणमपि येन कर्माधाराः स्युः। सा चासमवायिकारणता क्वचित् कार्यैकार्थंसमवायात् यथाऽऽत्मनः संयोगस्यात्मविशेषगुणेषु संयोगविभागशब्दानां शब्दे। क्वचित् कारणैकार्थसमवायात् यथाऽऽत्ममनः संयोगस्यात्मविशेषगुणेषु संयोगविभागशब्दानां शब्दे। क्वचित् कारणैकार्थसमवायात् यथा कपालादिरूपादीनां घटादिरूपादिषु ॥ 24 ॥
</5-2-24>
<5-2-25>
ननु इह कर्मोत्पद्यते इदानीं कर्मोत्पद्यते इत्यादिप्रतीतिबलात् दिक्कालावपि कर्मसमवायिकारणे एव, कथमन्यथा तत्र तयोराधारतेत्यत आह–
गुणैर्दिग् व्याख्याता ॥ 25 ॥
यथा गुरुत्वादयो गुणा न कर्मसमवायिकारणममूर्तत्वात् तथा दिगपि न कर्मसमवायिकारणमूर्त्तत्वादेवेत्यर्थः। आधारता तु समवायितामन्तरेणापि, कुण्डे बदराणि, कुण्डे दधि, वने सिंहनाद इत्यादिवदुपपद्यत इति भावः ॥ 25 ॥
</5-2-25>
<5-2-26>
उक्तेनैवाबिप्रायेणाह–
कारणएन कालः ॥ 26 ॥
निष्क्रियत्वेन व्याख्यात इति परिणम्यानुषङ्गः। कारणेनेति भावप्रधानो निर्देशः तेन निमित्तकारणत्वेनाधारमात्रं कर्मणः कालो न तु समवायीत्यर्थः ॥ 26 ॥
</5-2-26>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे प़ञ्चमाध्यायस्य द्वितीयमाह्निकम्।
समाप्रश्चायं पञ्चमाध्यायः।
—————————————————————-
** षष्ठाध्याये प्रथमाह्निकम्**
<6-1-1>
संसारमूलकारणयोर्धर्माधर्मयोः परीक्षा षष्ठ्याध्यायार्थः। धर्माधर्मौ च “स्वर्गकामो यजेत” `न कलञ्जं भक्षयेत्’ इत्यादिविधिनिषेधबलकल्पनीयौ विधिनिषेधवाक्ययोः प्रामाण्ये सति स्याताम्। तत्प्रामाण्यञ्च वक्तुर्यथार्थवाक्यार्थज्ञानलक्षणगुणपूर्वकत्वादुपपद्यते स्वतः प्रामाण्यस्य निषेधादतः प्रथमं वेदप्रामाण्यप्रयोजकगुणसाधनमुपक्रमते–
बुद्धिपूर्वा वाक्यकृतिर्वेदे ॥ 1 ॥
वाक्यकृतिर्वाक्यरचना सा बुद्धिपूर्वा-वक्तृयथार्थवाक्यार्थज्ञानपूर्वा वाक्यरचनात्वात् नदीतीरे पञ्चफलानि सन्तीत्यस्मदादिवाक्यरचनावत्। वेद इतिवाक्यसमुदाय इत्यर्थः। तत्र समुदायिनां वाक्यानां कृतिः पक्षः। न चास्मदादिबुद्धिपूर्वकत्वेनान्यथासिद्धिः, “स्वर्गकामो यजेत” इत्यादाविष्टसाधनतायाः कार्य्यताया वा अस्मदादिबुद्ध्योचरत्वात्। तेन स्वतन्त्रपुरुषपूर्वकत्वं वेदे सिद्ध्यति। वेदत्वञ्चशब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् ॥ 1 ॥
<6-1-2>
प्रकारान्तरेण वेदवाक्यानां बुद्धिपूर्वकत्वमाह–
ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ॥ 2 ॥
ब्राह्मणमिह वेदभागस्तत्र यत् संज्ञाकर्म नामकरणं तत् व्युत्पादकस्य बुद्धिमाक्षिपति, यथा लोके लम्बकर्ण-दीर्घनास-लम्बग्रीवादिनामकरणम् ॥ 2 ॥
<6-1-3>
प्रकारान्तरमाह–
बुद्धिपूर्वो ददातिः ॥ 3 ॥
“स्वर्गकामो गां दद्यात्” इत्यादौ यद्दानप्रतिपादनं तद्दानेष्टसाधनताज्ञानजन्यम्। ददातिरिति धातनिर्द्देशो धात्वर्थं दानमुपलक्षयति ॥ 3 ॥
<6-1-4>
प्रमाणान्तरमाह–
तथा प्रतिग्रहः ॥ 4 ॥
प्रतिग्रहप्रतिपादिका अपि श्रुतयो बुद्धिपूर्विकाः। प्रतिग्रहपदं स्वविषयां श्रुतिमुपलक्षयति। तेन भूम्यादिप्रतिग्रहप्रतिपादिकाः श्रुतयः प्रतिग्रहीतुः श्रेयःसाधनतापराः। कृष्णसारचर्मादिप्रतिग्रहप्रतिपादिकाः श्रुतयः प्रतिग्रहीतुरनिष्टसाधनताबोधिकाः। न चेष्टानिष्टसाधनते अर्वाचीनपुरुषबुद्धिगोचरौ भवितुमर्हतः ॥ 4 ॥
<6-1-5>
इदानीं “शास्त्रदेशितं फलभनुष्ठातरि” इति जैमिनीयं सूत्रं संवादयन्नाह–
आत्मान्तरगुणानामात्गान्तरेऽकारणत्वात् ॥ 5 ॥
आत्मन्तरगुणानां यागहिंसादिपुण्यपापानाम् आत्मान्तरे यौ सुखदुःखात्मकौ गुणौ तयोरकारणत्वात्। एवञ्च प्रत्यात्मनिष्ठाभ्यामेव धर्माधर्माभ्यां सुःखदुखे न व्यधिकरणाम्यामन्यथा येन यागहिंसादिकं न कृतं तस्य तत् फलं स्यादिति कृतहानिरकृताभ्यागमश्च प्रसज्यते।
ननु नायं नियमः पुत्रेष्टिपितृयज्ञादौ व्यभिचारात्। तथाहि पुत्रेण कृतस्य श्राद्धादेः पितरि फलश्रवणात्, पित्रा च कृतायाः पुत्रेष्टेः पुत्रे फलश्रवणात्। न च स्वर्गभागिपितृकत्वस्य तेजस्विपुत्रकत्वस्य च फलस्य पुत्रपितृगामितया सामानाधिकरण्यमेवेति वाच्यम्, श्रुतिविरोधात् पितृतृप्त्यादेः पुत्रतेजस्वितादेरेव फलस्य श्रवणात् फलान्तरस्य च गौरवपराहतत्वात्। अस्तु तर्ह्यपूर्वं फलं कर्त्तरि स्वर्गस्तु पितरीति चेन्न, व्यापारस्य फलसामानाधिकरण्यनियमात्, अन्यथा श्राद्धानन्तरं मुक्ते पुत्रे पितुः स्वर्गो न स्यात्। न स्यादिति चेन्न मुक्ते पितरि साङ्गादपि श्राद्धात् फलं न स्यादिति तुल्यत्वात्। मैवम्। `शास्त्रदेशित फलमनुष्ठातरि’ इत्यस्योत्सर्गत्वात् क्वचिद् बलवता वाधकेनापोद्यत्वात्, प्रकृते च पितृपुत्रगतफलश्रवणस्यैव बाधकत्वात्। तथा सत्यतिप्रसह्ग इति चेन्न तादृशश्रुतेरेवातिप्रसङ्गनिवारकत्वात्।
यत्तु महादानादौ स्वर्गमात्रमेव फलं तच्च यदुद्देशेन क्रियते तद्गतमपि फलं जनयतीति।
तत्तुच्छम्, तत्रोत्सर्गे बाधकाभावात् बाधकाभावसहितोत्सर्गस्यनियमत्वात्, राजादीनामुपवासाद्यनुष्ठानानापत्तेः परिद्वारैत्र तत्तत्कर्मणां स्वगतफलमुद्दिश्यानुष्ठानसम्भवात्। सम्यग्गृहस्थाश्रमपरिपालनाय ब्रह्मलोकावाप्तिकपे च फले नियम एव प्रातिस्विकफलाभिप्रायेण तूत्सर्गाबिधानात्।
३बृत्तिकारास्तु `शास्त्रदेशितम्’ इत्यादिर्नियम एव। पित्रादीनान्तु यत् फलं तच्छ्राद्धादौ ब्राह्मणानामाशीर्मन्त्रानुभावात्, `कृतार्थास्ते पितरो भूयासुः’ इति पितृयज्ञे। पुत्रेष्टौ तु सन्तुष्टानामृत्विजामाशीर्दानात्-`तेजस्वी वर्चस्व्यन्नादस्ते पुत्रो भूयात्’ इत्यादेः,–जाह्गलिकमन्त्रपाठादिव सर्पदष्टस्य विषापहारणमित्याहुः ॥ 5 ॥
<6-1-6>
अदुष्टानां यथाशास्त्रमनुवर्तमानानां भोजनात् तृप्तानामाशीर्दानात् तत् फलं न तु दुष्टानां पात्रत्वेन निषिद्धानामपि कुण्डगोलकप्रभृतीनामित्याह–
तद्दुष्टभोजने न विद्यते ॥ 6 ।
तदित्याशीर्दानफलं परामृशति, दुष्टा ब्राह्मणाः पात्रानधिकारिणोयत्र श्राद्धे भोज्यन्ते तत्र पितरि तत् फलं न विद्यते न भवतीत्यर्थः। श्राद्धफलमेव वा न भवति पितरीत्यर्थः ॥ 6 ॥
<6-1-7>
के ते दुष्टा इति दुष्टलक्षणमाह–
दुष्टं हिंसायाम् ॥ 7 ॥
हिंसायामिति निषिद्धकर्ममात्रोपलक्षणम्। तेन निषिद्धे कर्मणि प्रवृत्तं पुरुषं दुष्टं विजानीयादित्यर्थः ॥ 7 ॥
<6-1-8>
न केवलं दुष्टब्राह्मणस्य श्राद्धे निमन्त्रितस्य भोजनेन फलाभावः किन्तु पापमपि भवतीत्याह–
तस्य समभिव्याहारतो दोषः ॥ 8 ॥
तस्य निषिद्धे कर्मणि प्रवृत्तस्य ब्राह्मणस्य समभिव्याहारात् एकपङ्क्तिभोजनसहशयनसहाध्ययानादिलक्षणात् दोषः पापमित्यर्थः ॥ 8 ॥
<6-1-9>
तत् किमदुष्टसमभिव्याहारादपि दोष एव? नेत्याह–
तददुष्टे न विद्यते ॥ 9 ॥
तत् पापमदुष्टे यथाशास्त्रं व्यवहरमाणे ब्राह्मणे श्राद्धे भोजिते न विद्यते न भवतीत्यर्थः ॥ 9 ॥
<6-1-10>
ननु सत्पात्राप्रतिलम्भो यत्र श्राद्धदानादौ प्रथमं दुष्टा एव निमन्त्रिताः क्रमेण तु सत्पात्रप्रतिलम्भे किं विधेयभित्यत्राह–
पुनर्विशिष्टे प्रवृत्तिः ॥ 10 ॥
श्राद्धे प्रतिग्रहे वा विशिष्टा यथाशास्त्रमनुवर्तमाना यदि लम्यन्ते तदा निमन्त्रितानपि निन्द्यान् परिहृत्य तानेव भोजयेत्। `न निमन्त्रितान्प्रत्याचक्षीत’ इति तु सत्पात्रपरम्। निन्द्यांस्तु निमन्त्रितान् द्रविणदानादिना सन्तोषयेत् ॥ 10 ॥
<6-1-11>
यत्र स्वापेक्षया विशिष्टा न लभ्यन्ते श्राद्धदानादौ तत्राह–
समे हीने वा प्रवृत्तिः ॥ 11 ॥
समे स्वसदृशे, हीने स्वापेक्षया गुणादिना न्यूने, अदुष्टे पात्रे श्राद्धदानादौ प्रवृत्तिस्तेषामेवाशीर्दानात् पितरि सुखमित्यर्थः। निषिद्धानां परं त्यागो न त्वदुष्टानां समहीनानामपीति भावः ॥ 11 ॥
<6-1-12>
श्राद्धे दानादौ च सम्प्रदानसाद्गुण्येन धर्मोत्पत्तिमभिधाय तादृशादपादानादपि धर्मोत्पत्तिमतिदिशति–
एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम् ॥ 12 ॥
यथोत्तरं धर्मोत्कर्षः, हीनग्दपि भूम्यादिप्रतिग्रहे, समादपि, स्वापेक्षया विशिष्टादपि धार्मिकात् धर्म इत्यर्थः। परस्वादानं परस्मात् स्वस्य धनस्यादानं प्रतिग्रहः।
वृत्तिकारास्तु परस्वादानं चौर्यादिना परस्वग्रहणं व्याख्यातम्। तथाच श्रुतिः-`शूद्रात् सप्तमे वैश्याद्दशमे क्षत्रियात् पञ्चदशे ब्राह्मणात् प्राणसंशये’इति। क्षुधापीडितमात्मानं कुटुम्बं पा रक्षितुं सप्त दिनान्याहारमप्राप्य शूद्रभक्ष्यापहारः कार्यः, एवं दशदिनान्याहारमप्राप्य वैश्यात्, पञ्चदश दिनान्याहारमप्राप्य क्षत्रियात्, प्राणसंशये ब्राह्मणात् भक्ष्यापहरणं न दोषायेत्याहुः ॥ 12 ॥
<6-1-13>
न केवलं प्राणसंशये परस्वादानं न निषिद्धं किन्तु तस्यां दशायामपहर्तुं ये न प्रयच्छन्ति तेषां वधोऽपि कार्यो न तावता धर्महानिरधर्मप्रादुर्भावो वेत्याह–
तथा विरुद्धानां त्यागः ॥ 13 ॥
तस्यां दशायां विरुद्धानां विपरीतमाचरतां त्यागो वधः कार्यं इत्यर्थः। तदुक्तम्–
कर्मणा येन केनापि मृदुना दारुणेन वा।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ इति 13॥
<6-1-14>
ननु चाविशेषेणैव परस्य वधः, नेत्याह–
हीने परे त्यागः ॥ 14 ॥
यदि स्वस्माद्धीनः परो भवति योऽपहर्तु न ददाति तस्य शूद्रादेस्त्यागो वधः ॥ 14 ॥
<6-1-15>
सममधिकृत्याह–
समे आत्मत्यागः परत्यागो वा ॥ 15 ॥
यदि स्वसदृशो ब्राह्मण एव विरोधी भवति तदात्मन एवोपवासादिना त्यागोऽवसादः कर्तव्यः। यदि स्वस्य कुटुम्बस्य वा रक्षाप्रकारो न दृश्यते विरोधश्च समो भवति तदा तस्यैव त्यागो वध इत्यर्थः ॥ 15 ॥
<6-1-16>
तत् किं स्वापेक्षया यदि विशिष्टो भवति विरोधी तदा तस्यापि वध एव कार्यः! नेत्याह–
विशिष्टे आत्मत्याग इति ॥ 16 ॥
स्वापेक्षया विशिष्टे वेदाध्ययनादिना उत्कृष्टे विरोधिनि आत्मन एव त्यागो विधेयः। प्राणसंशये सत्यप्यात्ममरणमेवाभिप्रेयात् न तु ब्राह्मणं हन्यादित्यर्थः। इति राह्निकपरिसमाप्तौ ॥ 16 ॥
इति श्रीशाङ्करे व्यैशेषिकसूत्रोपस्कारे षष्ठाध्यायस्य
प्रथममाह्निकम्।
षष्ठाध्याये द्वितीयाह्निकम्
<5-2-1>
एवं पूर्वाह्निके वैदिकी प्रमा गुणजन्येति तदुत्पत्तौ गुणाभिधानम्, `शासत्रदेशितं फलमनुष्ठातरि’ इति विवेचनम्, निषिद्धाचरणेऽपि प्रत्यवायानुत्पत्तिः कस्याञ्चिद्दशायामित्यस्य विवेचनञ्च वृत्तम्। अधुना `यतोऽभ्युदयनिःश्रेयससिद्धिः’ इति द्वितीयं सूत्रं व्याचिख्यासुर्विशेषतो धर्मात्पत्तिपरीक्षायां वर्त्तिष्यमाणायामाह–
दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥ 1 ॥
दृष्टप्रयोजनानि कृषिवाणिज्यराजसेवादीनि, अदृष्टप्रयोजनानि यागदानब्रह्मचर्यादीनि, एतेषां कर्मणां मध्ये यत्र दृष्टं प्रयोजनं नोपलभ्यते तत्रादृष्टं प्रयोजन ंकल्पनीयं, तच्चाभ्युदयाय तत्त्वज्ञानाय। यद्वा अभ्यदयायेति चतुर्थी प्रथमार्थे तेन फलमभ्युदय इत्यर्थः। अदृष्टं फलमपूर्वमेव तद् यदि योगजं तदाऽभ्युदय आत्मसाक्षात्कारः। यदि च यागदानादिजं तदाऽभ्युदयः स्वर्गः। तत्रापि यथा दोग्धि पचतीत्यादिक्रिया सद्यःफलिका, वपति कर्षतीत्यादिक्रिया च विलम्बभाविफला तथा यजति ददाति ब्रह्मचर्यं चरतीत्यादिक्रिया तावत् सद्यःफलिका न भवति तादृशस्य फलस्यानुपलब्धेः। न च धार्मिकतया ज्ञानाञ्जाभादिकमेव फलम्, प्रच्छन्न ब्रह्मचर्यादि चरतां तत्फलानुद्देशात् तस्माच्चिरभाविस्वर्गादिकमेव फलं तच्चाशुतरविनाशिन्याः क्रियाया न साक्षादित्यान्तरालिकं क्रियाफवयोः समानाधिकरणमपूर्व पर्यवस्यति ॥ 1 ॥
<5-2-2>
अदृष्टफलानि कर्माणि परिसञ्चष्टे–
अभिषेचनो-पवास-ब्रह्मचर्य-गुरुकुलवास-वानप्रस्थ-यज्ञ-दान-प्रोक्षण-दिङ्-नक्षत्र-मन्तर्-काल-नियमाश्चादृष्टाय ॥ 2 ॥
अदृष्टायेत्यदृष्टलक्षणाय फलाय, अदृष्टद्वारा स्वर्गापवर्गलक्षणाय फलाय वा। एतेनादृष्टफलकश्रौतस्मात्तसकलकर्मोपसंग्रहः। तत्राभिषेचनं स्नानं `गङ्गायां स्नायात्’ इत्यादिविधिविधेयः ब्रह्मचर्यः सामान्यत एव धर्मसाधनम्। गुरुकलवासो ब्रह्मचारिणां वेदाध्ययनमहानाम्न्यादिव्रतार्थः। वानप्रस्थं वयः परिणामे वनं प्रस्थितानां यत् कर्म। यज्ञो `राजसूयवाजपेयादिः’। दानं `गां दद्यात्’ इत्यादिविधिविधेयम्। प्रोक्षणं-`व्रीहीन् प्रोक्षति’ इत्यादिविधिविधेयम्। दिक् `प्राचोनप्लवने यजेत’ `प्राङ्मुखोऽन्नानि भुञ्जीत’ इत्यादिविधिविधेया। नक्षत्रं श्राद्धादौ मघादि। मन्त्र-आपोहिष्ठेत्यादिः। कालः–`मासि मासि वोऽशनम्’ `अमावास्यायामपराह्णे दद्यात्’ `ग्रीष्मे पञ्चतपाः’ `वसन्तेऽग्नीनादधीत’ इत्यादिविधिविधेयः। नियमोः वर्णाश्रमिणां यथाशास्त्रमनुष्ठानम्। तदेवं धर्मस्य आत्मा समवायिकारणम्, श्रद्धा स्वर्गादिलक्षणप्रयोजनज्ञानञ्च निमित्तकारणमनुसन्धेयम् ॥ 2 ॥
<5-2-3>
एवं धर्मसाधनमभिधाय अधर्मसाधनमपि समुच्चिन्वन्नाह–
चातुराश्रम्यमुपधा अनुपधाश्च
चतुर्णामाश्रमाणां समानं यद्धर्मसाधनं तत्तावत् पूर्वसूत्रेणैवोक्तमिति शेषः। उपधाः भावस्य श्रद्धाया दोषाः, अनुपधाः श्रद्धाया भावस्यादोषाः तेऽपि धर्माधर्मयोः साधनानि यथास्वमूहनीयानि। उपधापदेनाधर्मसाधनानि सर्वाण्युपसंगृहीतानि ॥ 3 ॥
<5-2-4>
उपादानुपधे लक्षणतो विवेचयन्नाह–
भावदोष उपधाऽदोषोऽनुपधा ॥ 4 ॥
भावः–इच्छा–रागः प्रमादोऽश्रद्धामदमानासूयाप्रभृतयो भावदोषा उपधापदेनोच्यन्ते, श्रद्धा मनःप्रसादो देशितकर्मानुष्ठानाध्यवसाय इतिकर्तव्यतापरिच्छेदश्चानुपधा। तदेतयोर्धर्माधर्मनिमित्तकारणत्वमुक्तम् ॥ 4 ॥
<5-2-5>
शुच्यशुचिनी चोपधानुपधे। तत्र शुच्यशुचिनी विवेचयति–
यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितञ्च तच्छुचि ॥ 5 ॥
इष्टं श्रुत्या स्मृत्या च यद्रूपादिकं विहितं यस्य द्रव्यस्य तत्तथा। तत्र रूपम्-`अरुणया एकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति’ `श्वेतं छागलमालभेत’ इत्यादौ। प्रोक्षितं मन्त्रेणोदकसिक्तम्। अभ्युक्षितं विना मन्त्रमुदकसिक्तम्। चकारान्त्यायतो लब्धम् तच्च `याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो घनमर्जयेत्’ इत्यादिनियमविधिबोधितम् ॥ 5 ॥
<5-2-6>
अशुचिलक्षणमाह–
अशुचीति शुचिप्रतिषेधः ॥ 6 ॥
यद्द्रव्यं शुचि तद्विपरीतमशुचीत्यर्थः। अशस्तरूपरसगन्धस्पर्शममन्त्रप्रोक्षितमनभ्युक्षितं निषिद्धजलाभ्युक्षितं वा अन्यायागतम् कृषिवाणिज्यागतं ब्राह्मणस्य द्रव्यमशुचीत्यर्थः ॥ 6 ॥
<5-2-7>
अशुच्यन्तरमाह–
अर्थान्तरञ्च ॥ 7 ॥
प्रशस्तरूपरसगन्धस्पर्शमपि प्रोक्षितमभ्युक्षितं न्यायार्जितञ्च यत्तत्रापि वागदुष्टञ्च भावदुष्टं च यत्तदप्यशुचीत्यर्थः ॥ 7 ॥
<5-2-8>
इदानीं धर्माधर्मौ प्रति सहकार्यन्तरमाह–
अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावात् विद्यते वाऽर्थान्तरत्वात् यमस्य ॥ 8 ॥
अयतस्य यमरहितस्यासंयतस्येति यावत्। “हस्तौ पादौ प्रक्षाल्याचम्य वाग्यतो भुञ्जीत, भोक्ष्यमाणः प्रयतोऽपि द्विराचामेत्” इत्यादिबोधितयमरहितस्य भोजनं नाभ्युदयाय किन्तु पापाय। कुत एवमित्यत आह-निंयमाभावात्। नियमस्य सहकारिणोऽबावात्। नियमे सति यत्तदाह-विद्यते वा। यथोक्तयमसाहित्येन भोजने भवत्येवाभ्युदयः। कुत इत्यत आह-अर्थान्तरत्वाद् यमस्य। भोजनादर्थान्तरं यतो यमः। तथा च सहकारिकारणं विना न फलसिद्धिस्तस्मिन् सति फलसिद्धिरित्यर्थः ॥ 8 ॥
<5-2-9>
ननु यममात्रमेव तन्त्रं तर्हि भोजनमतन्त्रमेवेत्यत आह–
असति चाभावात् ॥ 9 ॥
यमे सत्यपि शुचिभोजनेऽसति अभावादभ्युदयस्येति शेषः। तथा च यमो भोजनञ्च द्वयमेव पुण्यकारणमित्यर्थः। भोजनमित्युपलक्षणम् यागदानस्नानहोमादीनामपि श्रौतस्मार्तकर्मणां यमनियमौ सहकारिणौ ॥ 9 ॥
<5-2-10>
धातुं दोषनिदानमाह–
सुखाद्रागः ॥ 10 ॥
स्रक्चन्दनवनितादिविषयसेवनजन्मनः सुखादुत्तरोत्तरं तज्जातीये सुखे तत्साधने वा राग इच्छा सञ्जायते। अहिकण्टकादिजन्मनो दुःखात् तत्र तत्साधने वा द्वेष इत्यपि द्रष्टव्यम्। रागद्वेषमीहाः प्रवर्तकत्वेन दोषा इत्यभिधीयन्ते। तथा च गौतमीयं सूत्रम्–`प्रवर्त्तनालक्षणा दोषाः’ अo 1 आo 1 सूo 18 इति ॥ 10 ॥
<5-2-11>
अत्र सुखदुःखे एव यदि रागद्वेषौ जनयतः तदा तयोर्नाशे कथं तौ स्यातामत आह–
तन्मयत्वाच्च ॥ 11 ॥
रागद्वेषौ भवत इति शेषः। विषयाभ्यासजनितो दृढतरः संस्कारविशेषस्तन्मयत्वं यद्वशात् कामातुरस्य कामिनीमलभमानस्य सर्वत्र कामिनीदर्शनम्। एकदा भूजङ्गदृष्टस्य तत्र दृढतरसंस्कारतः सर्वत्र भुजङ्गदर्शनम्। तदुक्तम्–
तन्मयत्वं तत्प्रकाशो बाह्याभ्यन्तरतस्तथा। इति ॥ 11 ॥
<5-2-12>
हेत्वन्तरं समुच्चिनोति–
अदृष्टाच्च ॥ 12 ॥
रागद्वेषाविति शेषः। यद्यप्यदृष्टं साधारणकारणम् तथापि क्वचित्तौ प्रति असाधारणतामप्यनुभजति। यथा तज्जन्मानुभूतकामिनीसुखस्यापि यौवनोद्भेदे कामिनीरागः, अननुभूतभुञ्जङ्गदंशदुःखानामपि भुजङ्गेषु द्वेष इत्याद्युन्नेयम्। न च प्राग्भवीयः संस्कार एवात्र निबन्धनम्, तत्कल्पने तदुद्बोधकल्पने च प्रामाणाभावात् अदृष्टस्यावश्यकल्पनीयत्वात् ॥ 12 ॥
<5-2-13>
सहकार्यन्तरमाह–
जातिविशेषाच्च ॥ 13 ॥
तथाहि मनुष्यजातीयानामन्नादौ रागः, मृगजातीयानां तृणादौ, करभजातीयानां कण्टकादौ। तत्रापि तत्तज्जातितिष्पादकमदृष्टमेव तन्त्रम् द्वारमात्रन्तु जातिर्जन्मविशेषः। एवं पारावतादीनामुत्करे रागः। तथा महिषजातीयानां तुरङ्गमे द्वेषः सारमेयाणां शृगाले नकुलानां भुजङ्गमे इत्याद्युन्नेयम् ॥ 13 ॥
<5-2-14>
धर्माधर्मकारणत्वं प्रवृत्तिद्वारेत्याह–
इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः ॥ 14 ॥
विहिते कर्मणि रागनिबन्धना-निषिद्धे कर्मणि हिंसादौ द्वेषनिबन्धना प्रवृत्तिः, रागनिबन्धना यागादौ प्रवृत्तिर्धर्म प्रसूते द्वेषनिबन्धना हिंसादौ प्रवृत्तिरधर्मम्। तावेतौ रागद्वेषौ संसारमनुवर्तयतः। तथाच गौतमीयं सूत्रम्-`ग्रवृत्तिर्वाग्बुद्धिशरीरारम्भः’ अo 1 आo 1 सूo 17 इति। वागारम्भो वाचिकी प्रवृत्तिः, सत्यं प्रियं हितमिति पुण्या, असत्यमप्रियमहितमिति पापा। बुद्धिः बुध्यते ज्ञायतेऽनेनेति मन उच्यते, तेन मानसी प्रवृत्तिर्भूतदयादिः। शारीरी प्रवृत्तिर्दान परिचरणमित्यादिका दशविधा पापा दशविधा पुण्या चेति ॥ 14 ॥
<5-2-15>
इदानीं धर्माधर्मयोः प्रयोजनं प्रोत्याबावमाह–
तत्संयोगो विभागः ॥ 15 ॥
ताभ्यां धर्माधर्माभ्यां संयोगो जन्म अपूर्वाभिः शरीरेन्द्रियवेदनाभिः सम्बन्धः संयोग इहोच्यते। विभागस्तु शरीरमनोविभागो मरणलक्षणः। तथा चायं जन्ममरणप्रबन्धः संसारः प्रेत्यभावापरनामा धर्माधर्माभ्यामित्यर्थः। अस्यैव च प्रेत्यभावस्याजरञ्जरीभाव इति वैदिकी संज्ञा ॥ 15 ॥
<5-2-16>
मोक्षं निरूपयितुमाह–
आत्मकर्मसु मोक्षो व्याख्यातः ॥ 16 ॥
अयमेव शरीरमनोविभागः आत्मकर्मसु सत्सु मोक्षो भवतीत्यर्थः। तत्रात्मकर्माणि तावत् श्रवणं मननं योगाभ्यासो निदिध्यासनमासनं प्राणायामः शमदमसम्पत्तिः आत्मपरात्मसाक्षात्कारो देहदेशान्तरोपभोग्यपूर्वोत्पन्नधर्माधर्मपरिज्ञानं तद्भोगानुरूपनानादेहनिर्माणं तयोर्भोगेन प्रक्षयो रागद्वेषलक्षणदोषतुषारदमादग्रिमधर्माधर्मयोरनुत्पादात् दुःखापायलक्षणोऽपवर्गस्तत्र षट्पदार्थोयतत्त्वज्ञानमाद्यमात्मकम् ॥ 16 ॥
इति श्रीशाह्करे वैशेषिकसूत्रोपस्कारे षष्ठाध्यायस्य
द्वितीयमाह्निकम्।
समाप्तश्चायं षष्ठाध्यायः।
———————————————————-
** सप्तमाध्याये प्रथमाह्निकम्**
<7-1-1>
संसारमूलकारणतया सर्वोत्पत्तिमन्निमित्तकारणतया भोगसाधनतया चोत्पत्तितः प्रत्यात्मनियतत्वेन परादृष्टस्यापि परस्योपयोगित्वेन च धर्माधर्मौ परीक्ष्येदानीं गुणान् परीक्षिषुस्तेषामुद्देशं लक्षणञ्च स्मारयन्नाह–
उक्ता गुणाः ॥ 1 ॥
उद्दिष्टा लक्षिता गुणाश्चेत्यर्थः। तत्र रूपादयः सप्तदश कण्ठरवेणोक्ताः चशब्दसमुच्चिताः सप्त, तेन चतुर्विशतिरपि गुणा उक्ताः। तत्र नित्यवृत्ति-नित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वम्, समवायिकारणावृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं वा, असमवायिकारणवृत्तिनित्यवृत्तिसाक्षाद्व्याप्यजातिमत्त्वं वा, कार्य्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं वा ॥ 1 ॥
</7-1-1>
<7-1-2>
तत्र गुणत्वेन गुणपरीक्षा सप्तमाध्यायार्थः। तत्र प्रथमाह्निके नित्यतया गुणपरीक्षा, अनित्यतया गुणपरीक्षा, पाकजगुणपरीक्षा, सङ्ख्याद्यनेकवृत्तिगुणपरीक्षा, परिमाणपरीक्षा, चेति पञ्चप्रकरणानि, तत्र रूपादीनाञ्चतुर्णामनित्यत्वमाह–
पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ॥ 2 ॥
पृथिव्यादीनां वायवन्तानामवयविनां रूपादयश्चत्वारो गुणा अनित्याः। यद्यप्यन्येऽपि गुणा अवयविषु वर्त्तमाना अनित्या एव, तथापि तेषामन्यतोऽपि विनाशः। रूपादयश्चत्वारो गुणा आश्रयनाशादेव नश्यन्ति न तु विरोधिगुणान्तरात्। द्रव्यानित्यत्वादिति। द्रव्यस्याश्रयभूतस्यानित्यत्वादाश्रितानामनित्यत्वमिमित्यर्थः ॥ 2 ॥
</7-1-2>
<7-1-3>
मित्याक्षेपबललभ्यमित्याह–
एतेन नित्येषु नित्यत्वमुक्तम् ॥ 3 ॥
रूपादीनामेव चतुर्णां नित्येष्वाश्रयेषु वर्त्तमानानां नित्यत्वमुक्तम्। एतेनेति। आश्रयानित्यत्वेनानित्यत्वाभिधानेनेत्यर्थः। वृत्तिकृतस्तु नित्येष्वनित्यत्वमुक्तमित्यकारप्रश्लेषस्तथाच पार्थिवपरमाणुष्वरिनसंयोगान्नाश इति व्याचक्रुः ॥ 3 ॥
</7-1-3>
<7-1-4>
तत् किं पार्थिवेऽपि नित्यवृत्तिरूपादीनां नित्यत्वमेवेत्यतो विशिनष्टि–
अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् ॥ 4 ॥
आप्यपरमाणौ रूपरसस्पर्शा नित्याः, तैजसपरमाणौ रूपस्पर्शौ, वायुपरमाणौ स्पर्शो नित्यः। ननु नित्येऽपि वर्तमानानां रूपादीनामनित्यत्वे को विरोधः शब्दबुद्ध्यादीनाभिव, इत्यतश्चकारेण गुणान्तराप्रादुर्भावो हेत्वन्तरं सूचितम्। शब्दे हि तीव्रमन्दादिभावेन गुणान्तरप्रादुर्भावोऽनुयते, ज्ञानादौ च ज्ञानादिविरोधी संस्कारादिः. आप्यतैजसवायवीयपरमाणुषु रूपादिविरोधि गुणान्तरं न प्रादुर्भवति, यदि प्रादुर्भवेत्तदा तदरिब्धेष्वपि द्व्यणुकादिप्रक्रमेणाऽऽप्याद्यवयविष्वपि पूर्वविजातीयं रूपाद्यनुभूयेत। नहि शुक्लरूपविजातीयं रूपं तोयतेजसोनं वा शीतोष्णस्पर्शविजातीयौ स्पर्शौ, उष्णं जलं शीतो वायुरित्यादिप्रतीतिस्तूपाधिनिबन्धनेति भावः ॥ 4 ॥
</7-1-4>
<7-1-5>
पूर्वं पृथिवीमन्तर्भाव्यानित्येष्वनित्या इत्युक्तमिदानीमाप्यादिष्वेवाह–
अनित्येष्वनित्या द्रव्यानित्यत्वात् ॥ 5 ॥
अबाद्यवयविरूपादय आश्रयनाशादेव नश्यन्ति न तु विरोधिगुणान्तरादपीत्यर्थः ।. 5 ॥
</7-1-5>
<7-1-6>
ननु पृथिव्यामयविरूपायामपि रूपादयोऽग्निसंयोगादेवोत्पद्यन्ते नश्यन्ति च, तत् कथमाश्रयनाशमात्रनाश्या इत्यत आह–
कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥ 6 ॥
पाकजा इति। रूपरसगन्धस्पर्शा इत्यर्थः। कारणगुणपूर्वका इति। रूपाअयस्य घटादेर्यत् समवायिकारणं कपालादि तद्गुणपूर्वका। तथाच कपालरूपं कारणैकार्थसमवायप्रत्यासत्त्या घटरूपाद्यसमवायिकारणम्। एवं रसादावपि। रूपरसगन्धम्पर्शाः रूपत्वादिगुणत्वसाक्षाद्व्याप्यजातिमन्तः।
ननु चक्षुर्ग्राह्यत्वमेव रूपत्वमुपाधिरिति चेत् इन्द्रियपातमात्रेण रूपमिति प्रत्ययानुदयप्रसङ्गात्। अननुसंहितोपाधेरुपहितप्रत्ययायोगादिति। उपाधिश्चात्र चक्षुस्तच्चातीन्द्रियं ग्राह्यत्वञ्च ग्रहणविषयत्वं तदप्यचाक्षुषं रूपत्वविशिष्टप्रतीतेश्च चाक्षुषत्वात्. चक्षुर्मात्रबहिरिन्द्रियग्राह्यगुणत्वं रूपत्वम्। अतीन्द्रियरूपाव्याप्तिरिति चेन्न चक्षुर्मात्रबहिरिन्द्रियग्राह्यजातिमत्त्वस्य विवक्षितत्वात् तादृशी च जाती रपत्वं नीलत्वादिका चेति। नन्वेकैका एव नीलपीतादिव्यक्तयो नित्या न तु तत्र नीलत्वादिजातय एकव्यक्तिकत्वादिति चेन्न नीलतरनीलतमादिप्रत्ययानुदयप्रसङ्गात्। दावल्यादिसम्भेदाभावकृतस्तत्र तारतम्यव्यवहार इति चेन्न प्रमाणाभावात्, श्यामं रूपं नष्टं रक्तमुत्पन्नमिति प्रतीतेश्च। न च सा समवायोत्पत्तिविनाशकृतेति वाच्यम् समवायस्य तत्रानुल्लेखात्, तस्य नित्वत्वाच्च घटादेरप्यनित्यतायामेवंसत्यनाश्वासापत्तेः समवायानित्यत्वेनैव तत्राप्यन्यथासिद्धेः सुवचत्वात्।
ननु नीलपीतादयो गुणा द्रव्याभिन्ना एव धर्मधर्मिणोरभेदादिति चेन्न रूपं घटः स्पर्शो घट इत्यादिव्यवहारप्रसङ्गात्। ननु नेदमनिष्टं यतो भवत्येव शुक्लः पटो नीलः पट इत्यादिप्रतीतिरिति चेन्न मतुब्लोपादभेदोपचाराद्वा प्रतीत्युपपत्तेः। भेदे प्रमाणे सति कल्पनेयं यथाकथञ्चिदुपपद्यते इति चेन्न चन्दनस्य रूपं चन्दनस्य गन्ध इत्यादिव्यपदेशबलाद्भेदसिद्धेः, पटस्य रूपाभेदे पटवद्रूपमपि त्वगिन्द्रियेण गृह्येत, पटमानयेत्युक्ते यत्किञ्चिद्रूपमानयेत् रूपमानयोत्युक्ते यत्किञ्चिद् द्रव्यमानयेत्। अस्तु तर्हि भेदाभेद; अत्यन्तभेदेऽत्यन्ताभेदे च सामानाधिकरण्यानुपपत्तेरिति चेन्न अवच्छेदभेदं विना विरुद्धयोर्भेदाभेदयोरेकत्रासम्भवात्। अन्योन्याभावत्वमव्याप्यवृत्तिवृत्तिनित्याभाववृत्तधर्मत्वादत्यन्ताभावत्ववदिति चेन्न एकत्र संयोगतदत्यन्ताभावयोः प्रतीतिबलादत्यन्ताभावस्याव्याप्यवृत्तित्वाभ्युपगमात्, अन्योन्याबावे तु तथाप्रतीतेरभावात्।
तदेतद्रूपं पृथिव्यां नानाप्रकारकम्, पाथसि तेजसि च शुक्लमेव। क्वचित् पटादौ च चित्रमपि रूपमधिकम् अन्यथा तदचाक्षुषत्वापातात् नपवत एव चाक्षुषद्रव्यत्वात्। न च विजातीयरूपै रूपानारम्भः, नोलपीतादीनामारम्भे रूपत्वेनैव साजात्यस्यापेक्षितत्वात् अन्यथा तचाक्षुषत्वापत्तेरुक्तत्वात्। न चावयवरूपोपग्रहेणैवावयविग्रहः अवयवानामपि चित्रतया नीरूपत्वप्रसङ्गात्, यत्र वा पाकात् परमाणुषु चित्रं रूपं तत्रैव तत्परम्परारब्धपटादौ चित्ररूपोपपत्तेः। न च हरीतक्यां रसोऽपि चित्र इति वाच्यम् हरीतक्या नीरसत्वेऽपि दोषाभावात्, षड्रसत्वव्यवहारस्तु तत्तद्रसगुणकारितया। एवं गन्धोऽपि न चित्रः सौरभासौरभवदवयवद्वयस्यानारम्भकत्वात्। कर्कट्यादौ क्वचिदवयवे तैक्त्यं क्वचिन्माधुर्यं तथाच कतमो रसः कर्कट्यामिति चेन्माधुर्यमेव। गुणविरोधेन कथं तथा स्यादिति चेत् तदवयवे तैक्त्याभावात्। तथाऽनुभवः कथमिति चेत् कर्कटीभक्षणक्षुभितरसनाग्रवर्त्तिपित्तद्रव्यस्य तिक्ततापलस्मात्, तत एव कदाचिन्मुखमपि तिक्तायते। हरीतक्यामपि कथमियं न गतिरिति चेन्न तदवयवेषु कषायमाधुर्यलवणादिनानारसानुभवादित्यलं पल्लवेन।
तच्च रूपं नयनसहकारि। नन्वेवं वायौ रूपाभावस्य तमसश्च कथं चाक्षुषतेति चेन्न भावग्रह एव रूपस्य नयनसहकारित्वात्, विषयालोकचक्षुषां त्रयाणामपि रूपाणि चाक्षुषप्रतीतिप्रयोजकानि।
रसोऽपि रसत्वजातिमान्। रसस्वं रसनेन्द्रियमात्रजन्यसाक्षात्कारविषयजातिः तादृशजातिमत्त्वञ्च रसत्वम्। सोऽयं जीवनपुष्टिबलारोग्यहेतुः रसनसहकारी। रसनेन्द्रियग्राह्यगुणत्वव्याप्यजातिमत्त्वं रसत्वम्, तथासति नातीन्द्रियरसाव्याप्तिः।
घ्राणणात्रग्राह्यो गुणो गन्धः। घ्राणमात्रग्राह्यगुणत्वव्याप्यजातिमत्त्वं गन्धत्वम्, स च सुरभिरसुरभिश्चेति द्विविधः। यद्वा पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं गन्धत्वम्।
एवं स्पर्शोऽपि स्पर्शत्वजातिमान् गुणः। त्वगिन्द्रियमात्रग्राह्यगुणत्वसाक्षाद्व्याप्य जातिमत्त्वं स्पर्शत्वम्। द्रव्यचतुष्टयवृत्तिश्चायम्। अनुष्णाशीतशीतोष्णभेदात् त्रिविधः।
इदानीं प्रसङ्गात् पाकजप्रक्रिया चिन्त्यते–तत्र कार्यकारणसमुदाय एव पच्यते इति पिठरपाकवादिनः।
पालवः–परमाणव एव स्वतनत्राः पच्यन्ते, तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्यत्तिः कारणगुणपक्रमेण चावयविनि रूपाद्युत्पद्यते इति पीलुपाकवादिनः।
अत्रेदं तत्त्वम्। आपाके निःक्षिप्तस्य घटादेरामद्रव्यस्य वह्निना नोदनादभिघाताद्वा तदारम्भकेषु परमाणुषु द्रव्यारम्भकसंयोगविरोधिविभागेनारम्भकसंयोगनाशे द्रव्यनाशावश्यम्भावात्। दृश्यते हि स्थाल्यामाहितानां तण्डु लादीनामप्यधःसन्तापनमात्रेण भर्जनात्तदानीमेव नाशः, क्षीरनीरादीनाञ्चात्यन्तमुल्बणता। तथा चापाके वह्निज्वालाजालाभिहतानां द्रव्याणामवस्थानमिति महती प्रत्याशा। किञ्च यदि द्रव्यनाशस्तदा मध्यभागे पाकानुपत्तिः, न हि दृढतरावयवान्तरावरुद्धे मध्यभागे तेजःसंयोगासम्भावना येन तत्र श्यामादिनिवृत्तिः स्यात्, तथा च श्यामा अवयवाः अवयवी च रक्त इति महद्वैशसम्। ननु सच्छिद्राण्येवावयविद्रव्याणि, कथमन्यथा कुम्भादावन्तर्निहितानां तैलघृतादीनां स्यन्दनं श्रपणञ्च, तथा च मध्यभागेऽपि तेजःसंयोगः स्यादेवेति चेन्न मूर्त्तानां समानदेशताविरोधात्, अवयवान्तरसंयुक्ते मध्यभागे तेजःसंयोगासम्भवात्। ननु यदि द्रव्यनाशः कथं तर्हि स एवायं घट इति प्रत्यभिज्ञा, कथं वा सर्वास्ववस्थास् आपाकादौ घटादेस्तादृशस्यैव दर्शनम्, घटादेरुपरि निहितानां शरावोदञ्चनादीनां तथैव दर्शनं घटादिस्फुटने हि तेषां पातः स्यात्, कथं वा यावन्त एवापाके निहितास्तावन्त एव पुनः प्राप्यन्ते परमाणुभिर्द्व्यणुकादिप्रक्रनेण न्यूनानामिधकानां वा तदानीमारम्भसम्भवात्, कथं वा तावत्परिमाणान्येव घटादीन्यापाकोत्तोर्णान्युपलभ्यन्ते, रेखोपरेखादिचिह्निविलोपो वा कथं न भवेत्,? तथा चावयविष्वेव पाक इति चेत् मैवम्, सूच्यग्रेण घटादौ त्रिचतुरत्रसरेणुविभागे सति द्रव्यारम्भकसंयोगनाशे द्रव्यनाशे सर्वासामनुपपत्तीनामुभयसमाधेयत्वात् न हि तत्र द्रव्यं न नश्यतीति पिठरपाकवादिनोऽपि वक्तुमुत्सहन्ते।
तत्रापि घटादयो न नश्यन्ति कतिपयावयवनाशेऽप्यवशिष्टावयवमाश्रित्य कार्यावस्थानसम्भवादन्यथा प्रत्यभिज्ञानाद्यनुपपत्तिरेवेति मीमांसकाः।
ते तु तावदवयवास्थानयोग्यस्य घटादेः स्वल्पेष्ववयवेषु कथं वृत्तिः स्यादिति प्रष्टव्याः। अविनष्ट एव पटे परिमाणसङ्कोचवदेतदुपपत्स्यते इति तेषामुत्तरमिति चेन्न कठिनतरावयवानां काष्ठपाषाणस्तम्भकुम्भकुम्भादीनां सङ्कोचविकाशयोरदर्शनात्। घटादिनाशकाभिमतेन तत्परिमाणमेव नश्यतीति चेन्न परिमाणम्याश्रयनाशैकनाश्यत्वात् घटादिप्रत्यभिज्ञानवत् सूचीदलनस्थले परिमाणस्यापि प्रत्यभिज्ञायमानत्वात्, त्वन्मते तन्नाशस्याप्यनुपपत्तेरिति दिक्।
येषा मते द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीतदप्रतिद्वन्द्वी च विभाग एकयैवावयवप्रक्रियया जन्मते तेषां द्व्यणुकनाशमारभ्य नवमक्षणे द्वणुकान्तरे रक्ताद्युत्पत्तिरेकस्मिन्नेव परमाणौ क्रियाचिन्तनात्। तथा हिवह्निना नोदनाद् द्व्यणुकारम्भके परमाणौ कर्म, ततो विभागस्ततो द्रव्यारम्भकसंयोगनाशस्ततो द्व्यणुकनाशः नष्टे द्व्यणुके केवले परमाणावग्निसंयोगाच्छ्यामादिनिवृत्तिः। श्यामादौ निवृत्ते अन्यस्मादग्निसंयोगाद्रक्ताद्युत्पत्तिः। रक्तादावुत्पन्ने परमाणुक्रियानिवृत्तियानिवृत्तिस्तदनन्तरमदृष्टवदात्मसंयोगात् परमाणौ कर्म ततो विभागः ततो द्व्यणुकोत्पत्तिः उत्पन्ने द्व्यणुके कारणगुणप्रक्रमेण रक्ताद्युत्पत्तिः इति नव क्षणाः। यदि पूर्वक्रियानिवृत्तिक्षण एव क्रियान्तरमुत्पद्यते तदा, यदि तु पूर्वक्रियानिवृत्त्यनन्तरकाले क्रियान्तरमुत्पद्यते तदा दश क्षणाः।
विभागजविभागाद्युपगमेऽपि यदि द्रव्यारम्भकसंयोगनाशविशिष्टं कालमपेक्ष्य विभागजो विभागस्तदा दशक्षणाः यदि तु द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागेन विभागान्तरं जन्यते तदैकादशक्षणा प्रक्रिया। तथा हि-द्व्यणुकनाशविभागजविभागावित्येकः कालःततःपूर्वसंयोगनाशस्यामादिनिवृत्ती उत्तरसंयोगरक्ताद्युत्पत्ती उत्तरसंयोगेन विभागजविभागक्रियानिवृत्ती ततो द्रव्यारम्भानुगुणा परमाणुक्रिया, क्रियातो विभागो विभागात् पूर्वसंयोगनिवृत्तिस्ततो द्रव्यारम्भकः संयोगस्ततो द्रव्योत्पत्तिः उत्पन्ने द्रव्ये रक्तीद्यत्पत्तिः इति दशक्षणाः।
यदा तु द्रव्यविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागो जन्यते तदैकक्षणवृद्ध्या एकादश क्षणाः। तथा हि–द्रव्यविनाशः ततो विभागजविभागश्यामादिनिवृत्ती ततः पूर्वसंयोगनाशः तत उत्तरसंयोगरक्ताद्युत्पत्ती ततो विभागजविभागकर्मणीर्निवृत्तिः ततः परमाणौ द्रव्यारम्भानुगुणा क्रिया ततो विभागः पूर्वसंयोगनिवृत्तिः द्रव्यारम्भकसंयोगोत्पत्तिः द्व्यणुकोत्पत्तिः रक्ताद्युत्पत्तिश्चेत्येकादश क्षणाः। एकस्मिन्नेव परमाणौ क्रियाक्रियोपरमचिन्तनादेवम्। परमाण्वन्तरे यदि द्रव्यारम्भानुगुणा क्रिया चिन्त्यते तदा द्व्यणुकविनाशमारभ्य पञ्चमे षष्ठे सप्तमेऽष्टमे वा रक्ताद्यत्पत्तिरूपनीया। विवृञ्चैतत् कणादरहस्ये ॥ 6 ॥
</7-1-6>
<7-1-7>
पार्थिवपरमाणुरूपादीनां तेजःसंयोगासमवायिकारणकत्वं साधयितुमाह–
एकद्रव्यत्वात् ॥ 7 ॥
पाकजानामिति शेषः। अत्र च गुणत्वे कार्यत्वे सतीति विवक्षितम्। तदयं प्रयोगः-पार्थिवपरमाणुरूपादयः संयोगासमवायितकारणकाः कार्यगुणत्वे सति नित्यनिष्ठाद्विष्ठगुणत्वात् शब्दवत्, बुद्धद्यादिवच्च। संयोगजत्वमात्रं वा साध्यं तेन विभागजशब्दे न व्यभिचारः वायुसंयोगस्य शब्दमात्रे निमित्तकारणत्वात्। पार्थिवरूपादीनाञ्च तेजोऽन्वयव्यतिरेकदर्शनात् तेजःसंयोगासमवायिकारणकत्वं पक्षधर्मताबलात् सिध्यति ॥ 7 ॥
</7-1-7>
<7-1-8>
रूपरसगन्धस्पर्शानेकग्रन्थेन व्युत्पाद्य परिमाणस्य सर्वसिद्धत्वेन सङ्ख्यायाञ्च विप्रतिपत्तिबाहुल्यादुद्दशक्रममतिक्रम्य सूचीकटाहन्यायेन प्रथमं परिमाणपरीक्षामारभमाण आह–
अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ॥ 8 ॥
नित्ये,-इति विषयेण विषयिणं नित्यत्वप्रतिपादकं चतुर्थाध्यायमुपलक्षयति। उपलब्ध्यनुपलब्धी इति यथायोगमन्वयः `येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः’ इति न्यायेन। तथा चाणोरनुपलब्धिरिति लभ्यते। तदेवं स्थूलो नीलः कलश इति प्रात्यक्षिकप्रत्यये यथा नीलं रूपं विषयस्तथा परिमाणमपि, तेन च परिमाणेन परमाणुपर्यन्तं परिमाणमुन्नीयते द्रव्यत्वाच्च। किञ्च द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणं, न हि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति। तथा च द्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यतयापरिमाणं गुणीऽस्तीति निश्चीयते। यदि हि घटादिस्वरूप परिमाणं स्यात् तदा महदानयेत्युक्ते घटमात्रमानयेत् तथा च प्रैषसंप्रतिपत्ती विरुध्येताम्। एवं घटपदात् परिमाणं प्रतीयेत परिमाणपदाद्वा घट इति।
मानव्यवहारासाधारणकारणत्वम्, द्रव्यसाक्षात्कारकारणविषयनिष्ठसामान्यगुणत्वं वा महत्त्वत्वम्। मानव्यवहारो हस्तवितस्त्यादिव्यवहारो न तु पलसङ्ख्यादिव्यवहारः। तच्च परिमाणञ्चतुर्विधं–महत्त्वमणुत्वं दीर्घत्वं ह्रस्वत्वञ्च। तत्र परममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्त्तिनी, परमाणुत्वपरमह्रस्वत्वे परमाणुवर्त्तिनी, अवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्त्तिनी, त्रसरेणुमारभ्य महावयविपर्यन्तं महत्त्वदीर्घत्वे। एवञ्च सर्वाण्यपि द्रव्याणि परमाणुद्वयवन्ति। बिल्वामलकादावणुत्वव्यावहारः समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यहारो भाक्तः। भक्तिश्चात्रे प्रकर्षभावाभावः। आमलके यः प्रकर्षभावस्तस्याभावः कुवले, बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके, स च गौणमुख्योभयभागित्वाद् भक्तिपदवाच्य। दीर्घत्वह्रस्वत्वे नित्ये न वर्त्तेते इत्येके। परिमाण एव ते न भवत इत्यपरे। महत्सु दीर्घमानीयतामितिवद् महत्सु वर्त्तलं त्रिकोणञ्चानीयतामितिनिर्धारण बलाद्वर्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात् ॥ 8 ॥
</7-1-8>
<7-1-9>
इदानीं परिमाणकारणानि परिसञ्चष्टे–
कारणबहुत्वाच्च ॥ 9 ॥
चकारो महत्त्वप्रचयौ समुच्चिनोति। परिमाणमुत्पद्यते इति सूत्रशेषः। तत्र कारणवहुत्वं त्र्यणुके महत्त्वदौर्घत्वे जनयति महत्त्वप्रचययोस्तत्कारणेऽभावात्। तच्च बहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽप्यदृष्टविशेषोपग्रहो नियामकः। एवं परमाणुद्वयगतं द्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते। द्वाभ्यां तन्तुम्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहुत्वप्रचययोस्तत्राभावात् यत्र च द्वाभ्यां तूलकपिण्डाभ्यां तूलकपिण्डारम्भस्तत्र परिमाणोत्कर्षदर्शनात् प्रचयः कारणं बहुत्वस्याभावात्, महत्त्वस्य सत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात्। एनञ्च सति यदि महत्त्व तत्र कारणं तदा न दोषः। तदुक्तं–`द्वाभ्यामेकेन सर्वैर्वा’ इति। प्रचयश्च आरम्भकः संयोगः। स च स्वाभिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिमुखकिञ्चिदवयवसंयोगलक्षणः। स चावयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः `गुणकर्मारम्भे सापेक्ष’ इति वचनात् ॥ 9 ॥
</7-1-9>
<7-1-10>
महत्त्वदीर्घत्वे व्युत्पाद्याणुत्वं व्युत्पादयति–
अतो विपरीतमणु ॥ 10 ॥
अतः प्रत्यक्षसिद्धान्महतः परिमाणाद्यद्विपरीतं तदणुपरिमाणमित्यर्थः। वैपरीत्यञ्चाप्रत्यक्षत्वात् कारणवैपरीत्याच्च। महत्त्वे हि महत्त्वबहुत्वप्रचयानां कारणत्वम्। अणुत्वे च कारणगतस्य द्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य कारणत्वम्। एतेन दीर्घत्वविपरीतं ह्रस्वत्वमित्यपि द्रष्टव्यम्। वैपरीत्यञ्चात्रापि पूर्ववत् ॥ 10 ॥
</7-1-10>
<7-1-11>
इदानीं कुवलामलकादावणुत्वव्यवहारो भाक्त इति दर्शयति–
अणु महादिति तस्मिन् विशेषभावाद् विशेषाभावाच्च ॥ 11 ॥
इति शब्दो व्यवहारपरतां दर्शयति। तेन बिल्वापेक्षया कुवलमणु कुवलापेक्षयामलकं महत् आमलकापेक्षया बिल्वं महदिति तावद्व्यवहारोऽस्ति, तत्र महति तेषु ध्यवहारो मुख्यः। कुत एवमत आह–विशेषभावात् महत्त्वविशेषस्यैव तरतमादिभावेन भावात्, अणुव्यवहारस्तु तेषु भाक्तः। कुत एवमत आह–विशेषभावात् अणुत्वविशेषस्य तत्राभावात्। अणुत्वं हि कार्यं द्व्यणुकमात्रवृत्ति, नित्यं तु परमाणुवृत्ति, कुवलादौ तदभावात्।
यद्वा विशेषस्य महत्त्वकारणस्वैवावयवबहुत्वमहत्त्वप्रचयानां कुवलाद्यववयवेयु रूपावात् सद्भावात्, विशेषाभावाद् विशेषस्य अणुत्वकारणस्य महत्त्वासमानाधिकरणद्वित्वस्य कुवलाद्यवयवेष्वभावादसद्भावादित्यर्थः ॥ 11 ॥
</7-1-11>
<7-1-12>
अणुत्वव्यवहारो भाक्त इत्यत्र हेतुमाह–
एककालत्वात् ॥ 12 ॥
महत्त्वमणुत्वञ्च द्वयमप्येकस्मिन् कालेऽनुभूयते, ते च महत्त्वाणुत्वे परस्परविरोधिनी नैकत्राश्रये सह सम्भवतः, अतो महत्त्वकारणसद्भावान्महत्त्वप्रत्ययस्तत्र मुख्योऽणुत्वप्रत्ययप्रयोगौ च भाक्तावित्यर्थः ॥ 12 ॥
</7-1-12>
<7-1-13>
महत्त्वप्रत्ययस्य मुख्यत्वे हेतमाह–
दृष्टान्ताच्च ॥ 13 ॥
दृश्यते तथा वस्तुगत्या महत्स्वेव कुवलामलकबिल्वेषु स्थूलरथूलतरस्थूलतमव्यवहारेण भवितव्यमित्यर्थः। यथा वस्तुगत्या शुक्लेष्वेव पटशङ्खस्फटिकादि षुशुक्लशुक्लतरशुक्लतमव्यवहारः ॥ 13 ॥
</7-1-13>
<7-1-14>
नन्वणु महत्परिमाणमिति व्यवहारबलान्महत्त्वे अपि परिमाणे महत्त्वम णुत्वेऽप्यणुत्वमस्तीति ज्ञायते तत् कयं द्रव्यमात्रवृत्तित्वमनयोः कथं वा गुणे गुणवृत्तित्वविरोधो नापद्यत इत्यत आह–
अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥ 14 ॥
यथा गुणकर्मणी नाणुत्वप्रहत्त्ववती नथाऽणुत्वकहत्त्वे अपि नाणुत्वमहत्ववती इत्यर्थः। प्रयोगश्च भाक्तो द्रष्टव्यः ॥ 14 ॥
</7-1-14>
<7-1-15>
ननु यथा गुणा गुणवन्तः,-कथमन्यथा महान् शब्दः द्वौ शब्दौ एकः शब्दः चतुर्विशतिर्गुणा इत्यादिव्यवहारः। कर्माण्यपि च कर्मवन्ति प्रतीयन्ते कथमनय्था शीघ्रं गच्ति द्रुतं गच्छतीति व्यवहारः तथा चाणुत्वमहत्त्वे अपि तद्वती स्यातामित्यत आह–
कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः ॥ 15 ॥
कर्मभिः कर्माणि न तद्वन्ति गुणैश्च गुणा न तद्वनत्स्तथाऽणुत्वमहतत्वेपि न न तद्रती। व्यवहारस्त् सर्वत्र भाक्त इत्यर्थः ॥ 15 ॥
</7-1-15>
<7-1-16>
ननु महान्ति कर्माणि अणूनि कर्माणि महान्तो गुणाः अणवा गुणा इत्यादिव्यवहारादणुत्वमहत्त्ववन्ति कर्माणि तदुभयवन्तश्च गुणाः प्रसक्ता इत्यत आह–
अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः ॥ 16 ॥
यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा न कर्माणि तदुभयवन्ति न ववा गुणास्तदुभयवन्त इत्यर्थः। प्रयोगस्तु पूवद्भाक्त इति भावः ॥ 16 ॥
</7-1-16>
<7-1-17>
अणुत्वमहत्त्वप्रक्रियां दोर्घत्वहस्वत्वयोरतिदिशति–
एतेन दीर्घत्वह्रस्वत्वे व्याख्याते ॥ 17 ॥
ह्रस्वत्वदीर्घत्वे अपि न ह्रस्वत्वदीर्घत्ववती महत्त्वोत्पादकमेव दीर्घत्वोत्पादकमणुत्वोत्पादकमेव ह्रस्वत्वोत्पादकम्। कारणेक्यात् कथं कार्य्यभेद इति चेन्न, प्रागभावभेदेन पाकजवदुपपत्तेः। यत्रैव महत्त्वं तत्र दोर्घत्वं यत्राणुत्वं तत्र ह्रस्वत्वं यत्र नित्यमणुत्वं तत्र नित्यह्रस्वत्वमित्याद्यतिदेशार्थः ॥ 17 ॥
</7-1-17>
<7-1-18>
इदानीं विनाशकमाह–
अनित्येऽनित्यम् ॥ 18 ॥
एतच्चतुर्विधमपि परिमाणं विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव नश्यति न तु विरोधिगुणान्तरात्। घटे सत्यपि तत्परिमाणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभिज्ञेति चेन्न। आश्रयनाशेन तत्र घटनाशावश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे तदाश्रितस्य त्रसरेणोस्तदाश्रितस्य चूर्णशर्करादेरविनाश इति युक्तिरभ्युपगमो वा। कथं तर्हि प्रत्यबिज्ञेति चेत्? सैवेयं दीपकलिकेतिप्रत्यभिज्ञानवद् भ्रान्तत्वात्। प्रदीपप्रत्यभिज्ञाऽपि प्रमैव ह्रस्वत्वदीर्घत्वं परमुत्पादविनाशशालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुपपत्तेरुक्तत्वात् ॥ 18 ॥
</7-1-18>
<7-1-19>
तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतमणुत्वं राब्दबुद्व्यादिवदाकाशादिगतं महत्त्वमपि महत्त्वमपि नश्यतीत्यत आह–
नित्ये नित्यम् ॥ 19 ॥
नित्येष्वाकाशादिषु परमाणुषु च यत् परिमाणं तन्नित्यं विनाशकाभावात् ॥ 19 ॥
</7-1-19>
<7-1-20>
परमाणुपरिमाणस्य वैशेषिकसिद्धां संज्ञामाह–
नित्यं परिमण्डलम् ॥ 20 ॥
परिमण्डलमेव पारिमाण्डल्यम्, तदुक्तम्-“अन्यत्रपारिमाण्डल्यादिभ्यः” इति ॥ 20 ॥
</7-1-20>
<7-1-21>
ननु कुवलामलकादिषु समिदिक्षुप्रभृतिषु च व्यवह्रियमाणमणुत्वं ह्रस्वत्वं वा यदि न पारमार्थिकं तदा परिमार्थिकयोस्तयोः कि प्रमाणगत आह–
अविद्या च विद्यालिंगम् ॥ 21 ॥
विद्यालिङ्गमविद्या। तदयमर्थः-कुवलामलकादावणुत्वज्ञानं समिदिक्षुप्रभृतिषु ह्रस्वत्वज्ञानं तावदविद्या तत्र पारमार्थिकाणुतवह्रस्वत्वयोरभावात्। सर्वत्राप्रमा प्रमापूर्विकैव भवतीत्यन्यथाख्यातिवादिभिरभ्युपगमात्, तथाच सत्यमणुत्वज्ञानं सत्यञ्च ह्रस्वत्वज्ञानमनुमेयमित्यर्थः। एवञ्च भाक्तः शब्दप्रयोगो मुख्यमन्तरेण न भवतीति मुख्येऽणुत्वह्रस्वत्वे क्वचिदवश्यं मन्तव्ये ॥ 21 ॥
</7-1-21>
<7-1-22>
द्रव्यत्वेन हेतुनाऽऽकाशादीनामनुमितस्य परिमाणस्य स्वरूपमाह–
विभवान्महानाकाशस्तथा चात्मा ॥ 22 ॥
विभवः सर्वमूर्त्तसंयोगित्वं तच्च परममहत्त्वमन्तरेणानुपपद्यमानं परममहत्त्वमनुमापयति। दृश्यते चेह वाराणस्यां पाटलिपुत्रे च युगपदेव शब्दोत्पत्तिस्तत्र चैकमेवाकाशं समवायिकारणमित्याकाशस्य व्यापकत्वं सिद्धम्। व्यापकत्वञ्च परममहत्परिमाणयोग एव, नानाऽऽकाशकल्पने गौरवमित्येक एवाकाशोऽभ्युपगन्तव्यः। आकाशस्य प्रदेश इति तु व्यपदेशः प्रदेशवद्भिर्घटादिभिः सयोगनिबन्धनो भाक्तः। भक्तिश्च प्रदेशवद्द्रव्यसंयोगित्वम्। तथात्मेति। यथाकाशंविभवात् सर्वमूर्त्तसयोगित्वात् परममहत् तथात्मापि परममहान्। यद्यात्मनः सकलमूर्तसंयोगित्वं न भवेत् तदा तेषु तेषु मूर्त्तेषु अदृष्टवदात्मसंयोगात् क्रिया नोत्पद्येत व्यधिकरणम्यादृष्टस्य प्रत्यासत्त्यपेक्षया क्रियाजनकत्वात्. सा च प्रत्यासत्तिरदृष्टवदात्मसंयोग एव। एवं संञ्चारिणि शरीरे तत्र तत्र ज्ञानसुखादीनामुत्पत्तिरात्मनो वैभवमन्तरेणानुपपन्नेत्यात्माऽपि व्यापकः। स च नाकाशवदेक एव व्यवस्थादर्शनादित्युक्तमिति भावः। तच्च महत्त्वं सातिशयं नित्यञ्च परमाण्वणुत्ववत्। एवमाकाशादौ परमदीर्घत्वं परमाणुषु च परमहस्वत्वमूहनीयम् ॥ 22 ॥
</7-1-22>
<7-1-23>
ननु मनो विभु सर्वदा निःस्पर्शद्रव्यत्वादाकाशवत् ज्ञानाद्यममवायिकारणसंयोगाधारत्वादात्मवदित्याकाशात्मनोः साहचर्येण मनोऽपिकिं नोक्तमत आह–
तदभावादणु मनः ॥ 23 ॥
तस्य विभवस्य सर्वमूर्तसंयोगित्वस्याभावादणु मनः। सकलमूर्त्तसंयोगित्वे तु युगपदनेकेन्द्रियसंयोगे ज्ञानयौगपद्यं स्यात्, तथा च व्यासंगो न स्यात्। अनुमाने तु मनो यावन्न सिद्धं तावदाश्रयासिद्धे मनःसिद्धिदशायान्तु धर्मिग्राहकमानबाधिते। ननु विभवाभावादेव नाणुत्वं सिध्यति धटादौ व्यभिचारादिति चेन्न विभवाभावेनाव्यापकत्वसाधनात्। तथा चैकस्मिन्देहे मनस्तावदेकं नानाकल्पने गौरवापत्तेः। एकस्याप्यवयवकल्पने कल्पनागौरवान्निः। स्पर्शत्वेनानारम्भकत्वाच्चेत्यादियुक्तेरणुत्वसिद्धेरिति भाव ॥ 23 ॥
</7-1-23>
<7-1-24>
दिशः परममहत्त्वे युक्तिमाह–
गुणैर्दिग् व्याख्याता ॥ 24 ॥
गुर्णैः सकलद्वीपवर्त्तिपुरुषसाधारणपूर्वापरादिप्रत्ययरूपैः सकलमूर्तनिष्ठापरत्वापरत्वलक्षणैः दिर्गापि व्यापकत्वेन व्याख्यातेत्यर्थः। परत्वापरत्वयोरुत्पत्तौ संयुक्तसंयोगभूयस्त्वाल्पीयस्त्वविषयापेक्षा बुद्धेः कारणत्वस्य वक्ष्यमाणत्वात्। नानादिक्कल्पनस्य कल्पनागौरवप्रतिहतत्वात्। कथं तर्हि दश दिश इति प्रतीतिव्यपदेशाविति चेन्न तत्तदुपाधिनिबन्धनत्वादित्युक्तत्वात् ॥ 24 ॥
</7-1-24>
<7-1-25>
कालस्य व्यापकत्वमाह–
कारणे कालः ॥ 25 ॥
परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययकारणे द्रव्ये काल इति समाख्या। न चैतादृशः प्रत्यय सर्वदेशपुरुषसाधारणः कालस्य व्यापकतामन्तरेण सम्भवतीति तस्य व्यापकत्वं परममहत्त्वयोग इत्यर्थः।
यद्वा इदानीं जात इत्यादिप्रतीतिबलात् सर्वोत्पत्तिमन्निमित्तकारणत्वं कालस्य प्रतीयते तदपि व्यापकत्वाधीनं निमित्तकारणस्य समवाय्यसमवायिकारणप्रत्यासन्नत्वनियमात्।
यद्वा अतीतानागतवर्तमानव्यवहारः सार्वत्रिक इति सर्वगत एव कालः।
यद्वा क्षणलवमुहूर्त्तयामदिनाहोरात्रपक्षमासर्त्वयनसंवत्सरादिव्यवहारकारणे द्रव्ये कालाक्येति व्यवहारस्य सार्वत्रिकत्वात् कालः सार्वत्रिक इति परममहान्, तस्य नानात्वकल्पना च कल्पनागौरवप्रतिहतेत्युक्तम् ॥ 25 ॥
</7-1-25>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे सप्तमाध्यायस्य
आद्यमाह्निकम्।
सप्तमाध्याये द्वितीयाह्निकम्
<7-2-1>
द्वितीयाह्निके एकानेकवृत्तिगुणपरीक्षाप्करणम् अनेकमात्रवृत्तिगुणपरीक्षाप्रकरणम्। प्रसङ्गाच्छब्दार्थसम्बन्धपरीक्षाप्रकरणम्। विशेषगुणरहितविभुसंयोगासमवायिकारणकैकवृत्तिगुणपरोक्षाप्रकरणम् समवायपरीक्षाप्रकरणञ्चेति। तत्र महत्त्वैकार्थसमवायाधीनं संख्यादीनामपि प्रत्यक्षत्वमिति चोद्देशक्रममतिक्रम्य परिमाणनिरूपणानन्तरं संख्यां पृथक्त्वञ्च परीक्षितुमाह–
रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् ॥ 1 ॥
रूपरसगन्धस्पर्शेति,-संख्यादिप़ञ्चकभिन्नगुणोपलक्षणम्। व्यतिरेकादिति व्यभिचारात्। तदयमर्थः–एको घट इति विशिष्टप्रतीतिर्विशेषणजन्या, तच्च, विशेषणं न रूपादि, तद्व्यतिरेकेण जायमानत्वात्, न च घटत्वादिकमेव निमित्तम्, पटेऽपि जायमानत्वात्। न चैकत्वं सत्तावत् सामान्यम्, सत्तया सहान्यूनानतिरिक्तवृत्तित्वात्। न च द्रव्यमात्रसामान्यं तत्, द्रव्यत्वेनान्यूनानतिरिक्तदेशत्वात्। न चान्यूनानतिरिक्तदेशत्वेऽपि प्रतीतिभेदाद्भेद; प्रतीतिभेदस्य स्वरूपकृतत्वे सत्ताऽपि भिद्येत, विषयभेदकृतत्वे तु विषयभेदानुपपत्तेरुक्तत्वात्, अन्यथा घटत्वकलसस्वयोरपि भेदापत्तेः। न च स्वरूपाभेद एकत्वमिति बूषणमतं युक्तम्, घटस्वरूपाभेदश्चेदेकत्वं तदा पटादावेकत्वप्रत्ययो न स्यात्। स्वरूपभेदो द्वित्वादिकमित्यपि भूषणमतमनुपपन्नम् स्वरूपभेदस्य त्रिचतुरादिसाधारण्येन व्यवहारवैचित्र्यानुपपत्तेरिति भावः ॥ 1 ॥
</7-2-1>
<7-2-2>
एकत्वतुल्यतयैकपृथक्त्वमपि साधयितुमाह–
तथा पृथक्त्वम् ॥ 2 ॥
अपोद्धारव्यवहारस्तावदस्ति–इदमस्मात् पृथगन्यदर्थान्तरमित्याकारः। अपवृज्यावधिमपेक्ष्य य उद्धारो निर्धारणं स ह्यपोद्धारः, तत्र च न रूपादि तन्त्रं व्यभिचारादवध्यनिरूप्यत्वाच्च। नन्वन्योन्याभाव एव पृथक्त्वम्, इदमस्मात् पृथगन्यदर्थान्तरमितिवद्भिन्नमिति प्रतीतेरन्योन्या भावावलम्बनत्वात्। न, पृथगादिशब्दानां पर्यायत्वेऽपि नान्योन्याभावार्थत्वं तत्र पञ्चमीप्रयोगानुपपत्तेः, इदमस्मात् पृथक् इदामिदं न भवतीतिप्रतीत्योभिन्नविषयत्वात्। न चान्योन्याभाववानर्थः पृथक्त्वन् अघटः पट इत्यत्रापि पञ्चमीप्रयोगापत्तेः। ननु पृथगिति विशिष्ट इति-प्रतीत्योरेकाकारत्वाद्वैशिष्ट्यमेव पृथक्त्वमिति चेन्न मैत्रस्य दण्डवैशिष्ट्यदशायां मैत्रात् पृथगयंमैत्र इत्यपि प्रतीत्यापत्तेः। अत एव वैधर्म्यमपि न पृथक्त्वं पाकरक्ते घटे श्याभाद् घटात् पृथगयं घट इति व्यवहारापत्तेः, तद्विरोधिधर्मवत्त्वमेव हि तद्वैधर्म्यं तच्च श्यामानन्तरं रक्ततादशायामपि। न च सामान्यमेव पृथक्त्वं सामान्यस्यावध्यनिरूप्यत्बात्। जातिसङ्करप्रसङ्गाच्च-सन्मात्रवृत्तित्वे सत्तया, द्रव्यमात्रवृत्तित्वे द्रव्वत्धेनान्यूनानतिरिक्तवृत्तित्वापत्तेः ॥ 2 ॥
</7-2-2>
<7-2-3>
नन्वेकमेकत्वं-रूपादिभ्यः पृथक् पृथक्त्वमिति व्यवहारादेकत्वेऽप्येकत्वं, पृथक्त्वेऽपि पृथक्त्वमेवं तत्र तथापीत्यत आह–
एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥ 3 ॥
यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तद्व्यवहारस्तत्र भाक्तस्तथैकत्वैकपृथक्त्ववती तद्व्यवहारस्तत्र भाक्त इत्यर्धः। “कर्मभिः कर्माणि” “गणैर्गुणाः” इत्यपि दृष्टान्तसूत्रद्वय पूर्वदृष्टान्तसूत्रेणैकवाक्यतापन्नमेवात्र प्रतिभासते यथा कर्माणि न कर्मवन्ति गुणाश्च न गुणवन्तस्तष्टौकत्वेकपृथक्त्वे न तद्वती इत्यर्थः ॥ 3 ॥
</7-2-3>
<7-2-4>
ननु गुणेषु कर्मसु च साधारण एवैकत्वव्यवहारः किमत्र विनिगमकं यद्द्रव्येष्वेवैकत्वं न गुणादिष्विस्यत्राह–
निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते ॥ 4 ॥
सर्वेषामेकत्वं सर्वैकत्वं तन्न विद्यते, कुरु इत्यत आह–निःसंख्यत्वात् कर्मगुणानामिति। संख्याया निष्कान्ताः निःसंख्यास्तेषां भावो निसंख्यत्वम्, तथा च कर्माणि गुणाश्च निःसंख्यानि, संख्याया गुणत्वेन गणेषु तावत् संख्या न न विद्यते न वा कर्मसु, गुणानां कर्मसु निषेधात् अन्यथा द्रव्यत्वप्रसङ्गात्। साधितञ्च संख्याया गुणत्वमेकत्वस्य च संख्यात्वमिति भावः ॥ 4 ॥
</7-2-4>
<7-2-5>
तर्हि कथमेकं रूपमेको रस इत्यादिज्ञानमित्यत आह–
भ्रान्तं तत् ॥ 5 ॥
गुणकर्मसु यदेकत्वज्ञानं तद् भ्रान्तमित्यर्थः। सूत्रे च ज्ञानमिति शेषः आक्षिप्तपूर्वपक्षत्वात् प्रयोगस्तु भाक्तः स्वरूपाभेद एव च भाक्तः न च तदेवैकत्वमुक्तोत्तरत्वात् ॥ 5 ॥
</7-2-5>
<7-2-6>
ननु द्रव्येष्वप्ययमेकत्वप्रयोगो भाक्तोऽस्तु प्रत्ययस्तु तत्र भ्रान्तः किमेकत्वेनेत्यत आह–
एकत्वाभावाद् भक्तिस्तु न विद्यते ॥ 6 ॥
यदि पारमार्थिकमेकत्वं क्वचिन्नाभ्युपगन्तव्यं तदा न प्रयोगो भाक्तः मुख्यपूर्वकत्वाद्भक्तेः, न वा प्रत्ययो भ्रान्तः प्रमापूर्वकत्वाद् भ्रमस्य, प्रमितं ह्यारोप्यते नाप्रमितम् असत्ख्यातेर्निरासाद् अन्यथा ख्यातेः साधनादिति भावः ॥ 6 ॥
</7-2-6>
<7-2-7>
कार्यकारणयोस्तन्तुपटयोरेकत्वमेकपृथक्त्वञ्च, यत एवैकत्वमत एवैकपृथक्त्वमपि न हि स्वस्मादेव स्वं पृथगिति सम्भवति, न हि पटे पाट्यमाने प्रत्येकं तन्तूनामाकर्षे तद्भिन्नः पट उपलभ्यते, यदि तन्तुभिन्नः पटः स्यात् तदा तद्भिन्नतयोपलभ्येत घटवत्, एवं घटेऽपि भग्ने कपालद्वयातिरिक्तस्यानुपलम्भात् घटोऽपी कपालद्वयात्मक एव। तदुक्तं-“नान्योऽवयव्यवयवेभ्यः” इति तदिदं साङ्ख्यीयं मतं प्रसङ्गान्निराचिकीर्षुराह–
कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते ॥ 7 ॥
कार्यं कारणञ्च द्वयमेकं न भवति, कुत एतदित्याह–एकत्वाभावादभेदाभावात्। तर्हि यदेव कार्यं तदेव कारणं तन्तवः पट इति बहुत्वैकत्वयोः सामानाधिकरण्यानुपपत्तेः। भवत्येव सामानाधिकरण्यमेकस्यामपि पाथः कणिकायामाप इति प्रयोगात् एकस्यामपि योषिति दारा इति प्रयोगदिति चेन्न तत्रावयवबहुत्वमादायोपपत्तेः। पाथः परमाणौ तु प्रकृतिगतं रूपादिबहुत्वमादायेत्येके। शब्दस्वाभाव्यमिदमपर्यनुयज्यमित्यपरे। न च रण्डाकरण्डावस्थितास्तन्तवः पटव्यपदेशं लभन्ते, न वा धारणाकर्षणे तन्तवः प्रत्येकं कर्तुमीशते, न वा कार्य कारणञ्च द्वयमप्येकपृथक्त्वाश्रयः परस्परावधिकत्वप्रतीतेः। कुत इत्यत आह-एकपृथकत्वाभावात् एकपृथक्त्वमवैधर्म्यं तदभावात् कार्यकारणयोरन्योन्यवैधर्म्यानुभवात् तन्तुत्वपटत्वयोः घटत्वकपालत्वयोश्च भिन्नबुद्धिव्यपदेशयोः सार्वलौकिकत्वात्। कथं तर्हि रूपरसगन्धस्पर्शानां न भेदेनोपलम्भः? अत्यन्तसारूप्यात्, क्वचिच्चित्रपटादौ भेदोपलम्भोऽपि, सह्ख्यापरिमाणादिभेदस्य चातिस्फुटत्वात् ॥ 7 ॥
</7-2-7>
<7-2-8>
अनित्ययोरेकत्वेकपृथक्त्वयोः कारणगुणपूर्वकत्वमाह–
एतदनित्ययोर्व्याख्यातम् ॥ 8 ॥
अनित्ययोः सङ्ख्यापृथक्त्वयोः कारणगुणपूर्वकत्वं यद्वाख्यातं तदनित्ययोरेकत्वैकपृथक्त्वयोरेव बोद्धव्यम्, अन्येषां सङ्ख्यापृथक्त्वानामपेक्षाबुद्धिजन्यत्वात्, यथाऽनित्ययोस्तेजोरूपस्पर्शयोः कारणगुणपूर्वकत्वं तथैकत्वैकपृथक्त्वपसङ्ख्यानम्, उपसङ्ख्यानान्तरञ्च-`तत्समानाधिकरणञ्च द्विपृथक्त्वादिपरार्द्धपृथक्त्वपर्यन्तम्’।
तदयं द्वित्वाद्युत्पादविनाशक्रमः-समानजातीययोरसमानजातीययोर्द्रव्ययोश्चक्षुःसन्निकर्षे सतितन्निष्ठैकत्वसङ्ख्यायोर्यत्सामान्यमेकत्वं तयोर्निर्विकल्पकानन्तरं तद्विशिष्टगुणबुद्धित्वमुत्पद्यते, सैव चापेक्षाबुद्धिस्तया तयोर्द्रव्ययोर्द्वित्वमुत्पद्यते उत्पन्नस्य च द्वित्वस्य यत्सामान्यं द्वित्वत्वं तदालोचनं तेनालोचनेनापेक्षाबुद्धेर्नाशो द्वित्वत्वविशिष्टं द्वित्वगुणविषया विशिष्टबुद्धिश्चैकदा भवति, तदग्रिमक्षणे च द्वित्वगुणस्यापेक्षाबुद्धिविनाशाद्विनाशः द्वे द्रव्ये इति द्वित्वविशिष्टद्रव्यज्ञानञ्च युगपदुत्पद्यते, ततस्तस्माद् द्वित्वविशिष्टद्रव्यज्ञानात् संस्कारः।
तदयं संक्षेपः-उत्पत्स्यमानद्वित्वाधारेणेनद्रियसन्निकर्षः? ततः एकत्वगुणगत सामान्यज्ञान 2 तत एकत्वत्वसामान्यविसिष्टैकत्वगुणसमूहालम्बनरूपाऽपेक्षाबुद्धिः 3ततो द्वित्वगुणोत्पत्तिः 4 तद्गतसामान्यस्य ज्ञानं 5 ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानं 6 ततो द्वित्वगुणविशिष्टद्रव्यज्ञानं 7 ततः संस्कारः 8 इतीनद्रियसन्निकर्षमारभ्य संस्कारपर्यन्तमष्टौ क्षणाः।
विनाशक्रमरत्-एकत्वत्वसामान्यज्ञानस्यापेक्षाबुद्धितो विनाशः द्वित्वत्वसामन्यज्ञानादपेक्षाबुद्धेर्विनाशः द्वित्वसामान्यज्ञानस्य च द्वित्वगुणबुद्धितो विनाशः द्वित्वगुणबुद्धेश्च द्वित्वविष्टद्रव्यज्ञानात् तस्य च संस्कारात् विषयान्तरज्ञानाद्वेति।
नन्वेकत्वज्ञानात्तद्विशिष्टद्रव्यज्ञानमेव कथं नोत्पद्यते तत्सामाग्रीसत्त्वात्, न हि गुणज्ञाने सति द्रव्यज्ञाने विलम्बोऽस्ति तथा च तत एवापेक्षाबुद्धेर्विनाशे तन्नाशाच्च तदग्रिमक्षण एव द्वित्वनाश इति द्वे द्रव्ये इति विशिष्टज्ञानपूर्वक्षण एव द्वित्वविनाशापत्त्या द्वित्वविशिष्टद्रव्यज्ञानस्यानुत्पत्तिरेवेति चेन्न द्वित्वाद्युपत्तिसामग्र्यनभिभूताया एवापेक्षाबुद्धेर्द्रव्यविशिष्टज्ञानजनकत्वनियमात् फलवलेन तथा कल्पनात्। ननु तथापि स्वजनितसंस्कारेणैवापेक्षाबुद्धिविनाशे पुनः स दोषस्तदवस्थ एव, द्वित्वविशिष्टज्ञानपूर्वक्षण एव द्वित्वनाशस्य सम्भवादिति चेन्न केवल गुणज्ञानस्य संस्काराजनकत्वात् न हि केवलो गुणः क्वापि स्मर्यते, सर्वत्र द्रव्योपरागेणैव गुणस्मरणात्। ननु भवत्वेवं तथापि विशिष्टबुद्धिकालेऽपि द्वित्वनाशे विशिष्टप्रतीत्यनुदयस्तदवथ एव, नहि वर्तमानावभासिनी विशिष्टप्रतीतिर्विशेषणनाश्काले सम्भवति तथाऽदर्शनादिति चेन्न विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहस्य विशिष्टज्ञानसामग्र्याः प्रकृतेऽपि सम्भवात्। यदि तु विशेषणेन्द्रियसन्निकर्षोऽपि मृग्यते तदा पूर्वक्षणे तस्यापि सत्त्वात् पूर्वक्षणवर्त्तिन एव सन्निकर्षस्य कारणत्वेनाभ्युपगमात् विशेषणं विशिष्टज्ञानागोचरोऽपि सम्भवति विशिष्टज्ञानविषयत्वमात्रमेव हि विशेषणत्वे तन्त्रं न तु विशिष्टज्ञानाविषयत्वमपि। उपलक्षणस्यात्येवं विशेषणत्वापत्तिरिति चेन्न प्रत्याय्यव्यावृत्तिसामानाधिकरण्यस्य विशेषणत्वे तन्त्रत्वात्, उपलक्षणन्तु तद्व्यधिकरणम्। एवं यदा देवदत्तगृहे काकवत्ता तदा काको विशेषणं, यदा तु उपरि भ्रमन् असन् तदोपलक्षणम्। एवं सति रूपवति रस इत्यादौ रूपादेरपि विशेषणत्वापत्तिरिति चेन्न इष्टत्वात्। तर्हि तत्रापि रसो वर्तेतेति चेन्न विशिष्टवृत्तेर्विशेषणवृत्तित्वानावश्यकत्वात्, न हि विशेषणं विशिष्टमित्येकं तत्त्वम्। द्वित्वनाशकाले विशेषणसम्बन्धो नास्ति कुतो विशिष्टप्रत्यय इति चेन्न अतद्व्यावृत्तेरेव वैशिष्ट्यपदार्थत्वात्, तद्भानन्तु तत्रापीति न किञ्चिदनुपपन्नमित्याचार्याः। एवं द्वित्वोत्पत्तिविनाशवत्त्रित्वोत्पत्तिविनाशावप्यूहनीयौ।
द्वित्वमपेक्षाबुद्धिनाशनाश्यम्, आश्रयनाश-विरोधिगुणान्तराभावे गुणस्य सतोऽविनाशित्वात् चरमज्ञानवत्, चरमज्ञानस्यादृष्टनाशनाश्यत्वात्।
क्वचिदाश्रयनाशादपि नश्यति यत्र द्वित्वाधारावयवकर्मसमकालमेकत्वसामान्यज्ञानम्। यथा अवयवकर्मसामान्यज्ञाने विभागापेक्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्यनाशद्वित्वसामान्यज्ञाने तत्रद्रव्यनाशाद्द्वित्वनाशः, सामान्यज्ञानादपेक्षाबुद्धिनाशः, अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकालत्वात् कार्यकारणसमानभावाभावात्।
यदा तु द्वित्वाधारावयवकर्मापेक्षाबुद्ध्योर्यौगपद्यं तदा द्वाभ्यामाश्रयनाशापेक्षाबुद्धिनाशाभ्यां द्वित्वनाशः। तद्यथा अवयवकर्मापेक्षाबुद्धी विभागोत्पत्तिद्वित्वोत्पत्ती संयोगनाशद्वित्वसामान्यज्ञाने द्रव्यनाशापेक्षाबुद्धिनाशौ ताभ्यां द्वित्वनाशः प्रत्येकं सामर्थ्यग्रहात्। इयञ्च प्रक्रिया ज्ञानयोर्बद्यषातकपक्षे परमुपपद्यते स एव च पक्षः प्रामाणिकः।
ननु द्वित्वत्रित्वादीनां सामग्रीसाम्ये कथं कार्यवैलक्षण्यं? द्वाभ्यामेकत्वाभ्यां द्वित्वं त्रिभिरेकत्वैस्त्रित्वमिति चेन्न एकत्वे द्वित्वाद्यभावात्। समवायिकारणगतमेव द्वित्वत्रित्वादिके तन्त्रमिति चेन्न द्वित्वाद्युत्पत्तेः पूर्वं तत्र द्वित्वाद्यभावात्, तत्रापि कारणचिन्ताया अनिवारणात् अपेक्षाबुद्धावेकत्वेषु च तादृशविशेषस्यानुपलम्भबोधित्वात्, फलबलेन तत्कल्पने, वा द्वित्वादिव्यवहारोऽपि तत एवास्तु किं द्वित्वादिना। अदृष्टविशेषाद्विशेष इति चेदेवं सति द्वित्वारम्भकयाऽपि सामग्र्या कदाचित्त्रित्वं चतुष्ट्वञ्चोत्पद्येतेत्यनियमप्रसङ्गः।
अत्रोच्यते-प्रागभावविशेषाद्विशेषोपपत्तेः, यथा तुल्यया सामग्र्या पाकजानां रूपरसगन्धस्पर्शानाम्। प्रगभावोऽपि साधारण एवेति चेन्न स्वस्वप्रागभावस्यैव कार्यं प्रति कारणत्वावधारणात्। यद्वा शुद्धयाऽपेक्षाबुद्ध्या द्वित्वं द्वित्वसहितया त्रित्वमिति नेवम्। शतं पिपीलिकानां मया हतमित्यादौ समवायिकारणाभावे द्वित्वं तावन्नोत्पद्यते तथाच गौणस्तत्र सङ्ख्याव्यवहारो द्रष्टव्यः। सेनावनादौ नियतापेक्षाबुद्ध्यभावाद्धहुत्वमात्रमुत्पद्यते न तु शतसहस्त्रदिसङ्ख्येति श्रीधराचार्याः। एवं सति शतसहस्रादिकोटिकस्तत्रसंशयो न स्यात्, न स्याच्च महती महत्तरा सेनेति नैवमित्युदयनाचार्याः।
अत्रैवमालोचनीयम्-त्रित्वादिपरार्द्धपर्यन्ता सङ्ख्यैव बहुत्वम्, तद्भिन्नं वा वा सङ्ख्यान्तरम्? नाद्यः सेनावनादावपि शतसहस्रादिसङ्ख्योत्पत्तिनियमात्। न द्वितीयः त्रित्वादिविलक्षणस्य बहुत्वस्याननुभवात्। तथाच प्रतिनियतैकत्वानालम्बनापेक्षाबुद्धिजनितशतादिसङ्ख्यैव बहुत्वं शताद्यभिव्यक्तिस्तु तत्र न भवति तादृशव्यञ्जकाभावात्।
वयन्तु ब्रूमः-त्रित्वादिसमानाधिकरणं सङ्ख्यान्तरमेव बहुत्वं त्रित्वादिजनकापेक्षाबुद्धिजन्यं प्रागभावभेदादेवं भावः कथमन्यथा-`बहवस्तावत् सन्ति शतं वा सहस्रं वेति विशिष्य न जानीम्’ इति। यथैकद्रव्ये महत्त्वं दीर्घत्वञ्च तथैकत्रैवाधिकरणे त्रित्वादिकं बहुत्वञ्च। भवति हि `शतं वा सहस्रं वा चूतफलान्यानयामीति?’ प्रश्ने बहवस्तावदानीयन्तां किं विशेषजिज्ञासयेति। एवञ्च द्वित्त्वसहितापेक्षाबुद्ध्या त्रित्वं त्रित्वसहितापेक्षाबुद्ध्या चतुष्ट्वमेवमुत्तरोत्तरोत्तरम् बहुत्वोत्पत्तौ तु नापेक्षाबुद्धौ पूर्वपूर्वसङ्ख्याविशिष्टत्वनियमः। अत एव सेनावनादिषु बहुत्वमात्रमुत्पद्यते न तु सङ्ख्यान्तरं संशयस्त्वसत्कोटिकोऽपि भवत्येवेति। `तत्समानाधिकरणञ्च पृथक्त्वमिति यथा द्वित्वं तथा द्विपृथक्त्व’ मित्यादि। ननु द्वित्वत्रित्वादिसमानाधिकरणैरेकपृथकत्वैरेव तद् व्यवहारोपपत्तौ किं द्विपृथक्त्वादिनेति चेन्न घटात् पटलोष्टौ पृथगिति-द्विपृथक्त्वस्यान्योन्यावाधिकत्वाप्रतीतेः प्रत्येकपृथक्त्वे च तत्प्रतीतेरिति वैषम्यात्। न चैवं द्विपरत्वापत्तिः द्वित्वसमानाधिकरणाभ्यां परत्वाभ्यामेव तदुपपत्तेः। यथा पृथक्त्वे परस्परावधिकत्वविरोधस्तथा न परत्वे, द्वाविमौ परावितिद्वाविमौ नीलाबितिवदुपपत्तेः समानदेशस्थयोः संयुक्तसंयोगभूयस्त्वसाम्येऽपि दिक्पिण्डसंयोगस्यासमवायिकारणस्य भेदेन भिन्नकार्योत्पत्तिसम्भवात्। मिलितयोरेकत्वयोर्द्वत्वं प्रति यथाऽसमवायिकाकणत्वं तथा मिलितयोरेकपृथक्त्वयोर्द्विपृथक्त्वं प्रत्यसमवायिकारणत्वसम्भवात् द्रव्यातिरिक्तमेकं कार्यं प्रत्यनेकेषां संयोगानां कार्यैकार्थसमवायप्त्यासत्त्या सम्भूयारम्भकत्वादर्शनात्। कारणैकार्थप्रत्यासत्त्या तु बहबस्तन्तुतुरीसंयोगा एकं पटतुरीसंयोगमारभन्त एवेति दिक्। द्वित्वादिविनाशवद्द्विपृथक्त्वादिविनाशोऽप्यूहनीयः ॥ 8 ॥
</7-2-8>
<7-2-9>
प्रकरणान्तरमारभते–
अन्यतरकर्मजः उभयकर्मजः संयोजश्र संयोगः ॥ 9 ॥
संयोगे संयुक्तप्रतीतिरबाधिता प्रमाणं कार्याणि च,–अवयवसंयोगेषु द्रव्यमग्निसंयोगे पाकजा रूपादयः प्रचये परिमाणविशेषः भेर्याकाशसंयोगे शब्द इत्याद्यूह्यम्। न चाविरलोत्पत्तिरेव संयोगः, क्षणभङ्गपरिणामयोर्निरासात्।
अप्रप्तिपूर्विका प्राप्तिः संयोगः। स चान्यतरकर्मजः–क्रियावता श्येनेन निष्क्रियस्य स्थाणोस्तदभिमुखक्रियारहितस्य सक्रियस्यापि धावतः यथा धावता पूरुषान्तरेण पृष्ठदेशसंयोगः। उभयकर्मजः–मेषयोर्मल्लयोर्वा प्रत्येकं गृहीतसामर्थ्याभ्यामुब्यामेव तज्जननात्। तृतीयस्त्वङ्गुलितरुसंयोगाद्धस्ततरुसंयोगः। स चैकस्मादपि भवति यथा-तन्तुवीरणसंयोगात् पटवीरणसंयोगः। क्कचिद्द्वाभ्यां संयोगाभ्यामेकः संयोगः यथा-द्वाभ्यां तन्तुभ्यामाकाशस्य द्वौ संयोगौ ताभ्यामेक एव द्वितनतुकपटस्याकाशेन संयोगः। क्वचिच्च बहुभिरपि संयोगैरेकः संयोग आरभ्यते यथा-दशभिस्तन्तुभिराकाशस्य दश संयोगा एकमेव दशतन्तुकपटा काशसंयोगमारभन्ते। क्वचित् पुनरेकस्मादपि संयोगादसमवायिकारणात् संयोगद्वयमुत्पद्यते यथा-पार्थिवाप्ययोः परमाण्वोः प्रथममनारम्भके संयोगे जाते पार्थिवे परमाणौ पार्थिवपरमाण्वन्तरेण, आप्ये च परमाणावाप्यपरमाण्वन्तरेण, द्व्यणुकद्वयारम्भकं संयोगद्वयमुत्पद्यते, ताभ्यां संयोगाभ्यां सजातीयनिष्ठाभ्यां द्व्यणुकद्व्यं युगपदारभ्यते, तत्र यः पार्थिवाप्यपरमाण्वोरनारम्भकः संयोगउत्पन्नस्तेनैकेनैव पार्थिवपरमाणुनाऽऽप्यद्व्यणुकेनैकः संयोगः आप्यपरमाणुना पार्थिवद्व्यणुकेनापरः संयोगो द्व्यणुकयो रूपाद्युत्पत्तिसमकालमेव जायते, कारणाकारणसंयोगेन कार्याकार्यसंयोगयोरवश्यं जननात्।
मूर्त्तैर्विभूनामन्यतरकर्मज एव। विभुनोस्तु न संयोगः कारणाभावात् कर्म तावत्तत्र नास्ति न च कारणं तेन कारणाकारणसंयोगात् कार्याकार्यसंयोगोऽपि नास्ति। नित्यस्तु संयोगो न सम्भवति अप्राप्तिपूर्विकायाः प्राप्तेः संयोगत्वात् नित्यत्वे तद्विघातात् एवञ्च सति विभागोप्यजतस्तत्र स्यात्। न चेष्टापत्तिः संयोगविबागयोर्विरोधिनोरविनश्यदवस्थयोरेकत्रानुपपत्तेः। किञ्च संयोगं प्रति प्रयोजिका युतसिद्धिः, न च विभुनोस्तत्सम्भवः। सा हि द्वयोरन्यतरस्य वा पृथग्गतिमात्रं युताश्रयाश्रयित्वं वा।
विनाशस्तु संयोगस्य समानाधिकरणाद्विभागादाश्रयनाशदपि क्वचित् यथा तन्तुद्व यसंयोगानन्तरमेकस्य तन्तोरवयवेंऽशौ कर्म जायते तेनांश्वन्तराद्विभागः क्रियते विभागादारम्भकसंयोगनाशस्ततस्तन्तुविनाशस्तन्तुविनाशात संयोगनाशो यत्र तन्तुद्वयं चिरं संयुक्तं सदनुत्पन्नक्रियं भवति।
केचित्तु तन्त्ववयवकर्मणा यदा तन्त्वारम्भकसंयोगनाशः क्रियते तदा तन्त्वन्तरे कर्मचिन्तनात् आश्रयनाशविभागाभ्यां युगपदुत्पन्नाभ्यां संयोगो नश्यतीत्याहुः।
तच्चानुपपन्नं समवायिकारणनाशक्षणे विभागानुत्पत्तेः समवायिकारणस्य कार्यसमकालस्थायित्वनियमात्। स चायं संयोगो द्रव्यारम्भे निरपेक्षो, गुणकर्मारम्भे सापेक्षः, स्वसमानाधिकरणात्यन्ताभावप्रतियोगी तथैवानुभवात्। शाखामात्रावच्छेदेनापि महति न्यग्रोधतरौ वर्त्तमानः कपिसंयोगः"न्यग्रोधतरौ कपिसंयोग" इत्यनुभवात्। अवच्छेदमात्रेणान्यथासिद्धौ परमाणुवृत्तिरापद्येत तथा च नीपलभ्येत। विभूतामप्युपाधिभेद एव प्रदेशस्त दवच्छेदेन वर्त्तमानस्य संयोगस्याव्यप्यवृत्तित्वं परमाणुनिष्टस्यापि संयोगस्य दिगादयोऽवच्छेदकास्चिन्तनीयाः ॥ 9 ॥
</7-2-9>
<7-2-10>
विभागे संयोगोत्पत्तिप्रकारभतिदिशन्नाह–
एतेन विभागो व्याख्यातः ॥ 10 ॥
संयोगवद्विभागोऽप्यन्यतरकर्मज उभयकर्मजो विभागजश्च। श्येनकर्मणा स्थाणुश्येनावभागः, संयुक्तयोर्मल्लयोर्मेषयोर्वा कर्मभ्यां तदुभयविभागः। स चायं कर्मोत्पत्त्यव्यवहितक्षणोत्पत्तिकः अपेक्षणीयान्तराभावात्। तदुक्तं–“संयोगविभागयोरनपेक्षकारणं कर्म” इति। चेन्न स्वोत्पत्त्यन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो निरपेक्षत्वात्। विभागजस्तु विभागो द्विविधः कारणमात्रविभागजकारणाकारणविभागभेदात् कारणाकारणविभागजकार्याकार्यविभागभेदाच्च। तत्र कारणमात्रविभागात् कारणाकारणविभागो यथाकपालद्वयविभागात् कपालाकाशविभागः। कारणाकारणविभागाच्च कार्याकार्यविभागो यथा-ऽङ्गुलीतरुविभागाद्धस्ततरुविभागस्ततः शरीरतरुविभाग इति।
ननु विभाग एव न प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्न संयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यवहारप्रसङ्गात्। द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो विभक्तप्रत्ययहेतुरिति चेन्नावयवावयविनोरपि प्रसङ्गात्। अकार्यकारणभूतयोर्द्रव्ययोरिति चेत् विन्ध्यहिमवतोरपिस्यात्। भवत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणोरपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात्। संयोगविनाशो विबाग इति चेत् एकतरसंयोगिनाशेन नष्टे संयोगे तद्व्यहारप्रसङ्गात्। संयोगिनोर्विद्यमानयोरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोः कुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात् तत्रयावदर्थाभावात्। तस्मादस्ति विभागोऽर्थान्तरम्।
स च गुणः विरोधिगुणान्तरनाश्यः’ विरोधिनं समानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपत्तेः। कमव संयोगनाशकं स्यादिति चेन्न विरोधिनोगुणस्य गुणनाशकत्वात्। किञ्च यत्राङ्गुलीहस्तभुजशरीराणां स्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन कर्मणाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुभुजतरुशरीरतरुसंयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात् अङ्गुलीकर्मणश्च व्यधिकरणत्वात्। व्यधिकरणस्यापि कर्मणः संयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्वसंयोगनाशापत्तेः। त्वन्मते तत्र का गतिरिति चेत् अङ्गुलीतरुवि भागेन हस्ततरुविभागो जनितो हरततरुसंयोगनाशक इत्यभ्युपगमात्। `व्यधिकरणेनाङ्गुलीकर्मणैव हस्ततरुसंयोगनाशोऽस्तु, न चातिप्रसङ्गः आश्रयाश्रितपरम्परासंयोगस्यैव व्यधिकरणकर्मनाश्यत्वाभ्युपगमादिति’ सर्वज्ञेन यदुक्तम्, तदपि न युक्तं-विरोधिनःसमाधिकरणस्यैव सर्वत्र नाशकत्वानुभवात्बाधकमन्तरेण तत्परित्यागानुपपत्तेः। शब्दविभागौ च विभागकार्यौ, तत्र विभागस्य शब्दासमवायिकारणत्वं मृष्यामहे, न हि वंशे पाठ्यमाने दले च चरणयन्त्रणावष्टव्ये दलान्तरेचोपरिकृष्यमाणे यः शब्दो जायते तत्र दलाकाशविभागादनय्दसमवायिकारणं पश्यामः। न च दवदहनदह्यमानस्फुटद्वेणुचीत्कारो विभागातिरिक्तमसमवायिकारणं पश्यामः। कारणाकारणविभागाच्च कार्याकार्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गुलोतरुविभागे सति अङ्गुलीतरुसंयोगानाशे सत्यपि हस्ततरुसंयोगादीनां नाशः, तत्र हि विभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात्। कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्रत्यय यतो वंशदले यदुत्पन्नं कर्म तेन दलान्तरविभागवदाकाशादिविबागस्यापि जननसम्भवात् यावद्भिः संयुक्तमासीत् तावद्भस्तत्कर्मणा विभागस्य दर्शनात्, न ह्यङ्गुल्यामुत्पन्नेन कर्मणाऽङ्गुल्यन्तरविभागवदाकाशादिदेशेभ्योऽपि विभागा न जन्यन्ते कमलदले चोत्पन्नेन कर्मणा दलान्तरविबागवदाकाशादिदेशेभ्यो वा न विभागा आरभ्यन्ते। द्रव्यारम्भकसंयोगाविरोधिनः शतमपि विभागानेकं कर्मारभतां तत्तु कर्म द्रव्यारम्भकसंयोगविरोधिनं विभागभारमते न तत् द्रव्यारम्भकसंयोगाविरोधिनमपि यच्च द्रव्यारम्भकसंयोगाविरोधिनं न तद् द्रव्यारम्भकसंयोगविरोधिनमिति ब्रूमः। कुत एतदिति चेत् कार्यय्वैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात्। ननु कर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसयोगविरोधिनं विभागं जनयतु यथा विकसत्कमलकुड्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिनञ्चोभयमिति। मैवम्, कार्य्यविरोधो हि कारणवैचित्र्यकल्पनामूलं स च विरोधः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वन्द्वित्वेन, अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापि कल्पनौचित्यात्। तच्चेदं वंशदले वर्तमानं कर्म दलद्वयविभागमात्रं जनयति, स च विभागोऽग्रे आकाशादिदेशाद्विबागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते, तस्य च निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशविशिष्टं कालमपेक्षते। ननु तदानीमपि कर्मैव तज्जनयतु अतीतकालत्वात् विभागजनने कर्मणः स्वोत्पत्त्यनन्तर एव कालः। नन्वेव विभागन जनिते विभागान्तरे कर्म प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रति कर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्योत्तरसंयोगमात्रनाश्यत्वात्।
सोऽयं विभाग उत्तरसंयोगनाश्यः क्षणत्रयस्थायो। क्वचिदाश्रयनाशनश्यः, तद् यथा-तन्तोरवयवेऽशौ कर्म तदनन्तरसंशुद्वयविभागस्तदैव तन्त्वन्तरे कर्म ततोंऽशुद्वयविभागेन तन्त्वारम्भकसंयोगनाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगनाशात्तन्तुनाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभागनाशः। नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्याद्विनाशकाभावात् उत्तरसंयोगेन हि कालमपेक्षते। ननु तदानीमपि कर्मव तज्जनयतु, अतीतकालत्वात् विभागजनने तन्नाश्येत, विभागे च नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मोत्पन्नं तेन यथा विनश्यदवस्यतन्तोर्विभागो जनितस्तथा तदंशोरपि विभागो जननीयः सोऽप्यारम्भकसंयोगविरोध्येव तेनांशुतन्तुविभागेन तन्त्वाकाशविभागस्तेन चोत्तरसयोगस्तेनततः कर्मनाशः। यद्वा यत्र तन्तौ यदा कर्म तदंशावपि तदैव कर्म तच्च कर्म विनश्यदवम्यतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभागानारभते सर्वेषां विभागानामारम्भकसंयोगाविरोधित्वात्, तथा च कारणमंशुरकारणञ्चा काशादि तद्विभागात् कार्यस्य तन्तोरकार्येणाकाशादिना यो विभाग उत्पन्नस्तद नन्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणो विनाश इति। क्वचिद्वाभ्यां, तदु यथा-तन्तुवीरणयोः संयोगे सति तन्त्ववयवेऽशौ कर्मवीरणे च कर्मेत्येकः कालः, अंशुकर्मणाऽश्वन्तरविभागस्तेन च संयोगस्य तन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरणविभागस्तुन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशानन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्य प्रदेशान्तरसंयोगस्ताभ्यामाश्रययनाशसंयोगाभ्या विभागनाशः ॥ 10 ॥
</7-2-10>
<7-2-11>
ननु संयोगेऽपि संयोगोऽस्तुविभागेऽपि विभाग इति प्रसङ्गनिवारणार्थमाह–
सयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥ 11 ॥
यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा संयोगविभागौ न संयोगविभागवन्तौ ॥ 11 ॥
</7-2-11>
<7-2-12>
कर्मभिः कर्माणि गुणैर्गणा अणुत्वमहत्त्वाभ्यामिति ॥ 12 ॥
द्वितीय़ञ्च सूत्रं व्याख्यातं मेव ॥ 12 ॥
</7-2-12>
<7-2-13>
ननु द्रव्ययोरवयवावयविनोः संयोगः कथं नेत्यत आह–
युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते।
असम्बन्धोर्विद्यमानत्वं युतसिद्धिः पृथगाश्रयाश्रितत्वं वा तदभावस्त्ववयवावयविनोरित्यर्थः ॥ 13 ॥
</7-2-13>
<7-2-14>
इदानीं प्रसङ्गाच्छब्दार्थयोः साङ्केतिकं सम्बन्धं साधयितुं प्रकरणान्तरम्, तत्र पूर्वपक्षमाह–
गुणत्वात् ॥ 14 ॥
संयोस्येति शेषः। तथाच गुणस्य शब्दस्य गुणः संयोगः कथं स्यात् अर्थेन घटादिनेत्यर्थः ॥ 14 ॥
</7-2-14>
<7-2-15>
किञ्च विषयोऽपि क्वचिद्रुपरसादिलक्षणस्तेन संयोगो न सम्भवति गुणे गुणानङ्गीकारादित्याह–
गुणोऽपि विभाव्यते ॥ 15 ॥
गुणोऽपि विषय इति शेषः। गुणोऽपि रूपादिः शब्दस्य विषयो न तु तेन समं संयोगः सम्बन्ध इत्यर्थः।
यद्वा गुणोऽपि शब्देन विभाव्यते प्रतिपाद्यते तेन च शब्दस्य न संयोगः सम्बन्ध इत्यर्थः ॥ 15 ।
</7-2-15>
<7-2-16>
किञ्च कस्यचिदाकाशादेर्द्रव्यस्य नान्यतरकर्मजः संयोगो नोभयकर्मजः शब्दस्यापि निष्क्रियत्वादित्याह–
निष्क्रियत्वात् ॥ 16 ॥
शब्दस्य कस्यचिदर्थस्य चेति शेषः ॥ 16 ॥
</7-2-16>
<7-2-17>
सम्बन्धे बाधकान्तरमाह–
असति नास्तीति च प्रयोगात् ॥ 17 ॥
असत्यपि घटपटादौ - नास्ति गेहे घटः, नास्ति पटः, श्रतपूर्वोगकारो नास्ति, अभूत् पटः, पटो भविष्यतीत्यादिप्रयोगदशंनादित्यर्थः। तथाचासता घटादिना शब्दस्य न संयोगो न वा समवाय इति भावः ॥ 17 ॥
</7-2-17>
<7-2-18>
किञ्चात इत्यत आह–
शब्दार्थावमम्बन्धौ ॥ 18 ॥
शब्दार्थयोः संयोगश्चेन्नास्ति तदेतदायातं-शब्दार्थावसम्बन्धावेवेत्यर्थः।
</7-2-18>
<7-2-19>
ननु संयोगसमवाययोरन्यतरसम्बन्धः कथं न स्यादित्यत आह–
र्सयोगिनो दण्डात् समवायिनो विशेषाच्च ॥ 19 ॥
दण्डी पुरुषः-हस्ती कुञ्जर-इति प्रत्ययौ स्तः, तत्र प्रथमः संयोगात्, द्वितीयः समवायात् हस्तेऽवयवविशेषे कुञ्जरस्य समवायाधीनः प्रत्ययः। हन्तः समवायितया यस्यास्ति स हस्तीति। विशेषादिति। विशेष एव हस्तादौ समवायसम्बन्धाद्विशेषणत्वं न तु तन्त्वादीनामपि तन्तुमान् पट इत्यादिरवयवविशेषणबावेन प्रत्ययो भवति, एवं घटशब्दवान् घटोऽर्थ इति प्रत्ययो न भवति, तथाच शब्दार्थयोर्न संयोगो नापि समवाय इति भावः ॥ 19 ॥
</7-2-19>
<7-2-20>
ननु यदि न संयोगो न वा समवायः शब्दार्थयोस्तर्हि केन सम्बन्धेन शब्दो नियतमर्थं प्रतिपादयतीत्यत आह–
सामयिकः शब्दादर्थप्रत्ययः ॥ 20 ॥
सामयिक इति। समय ईश्वरसङ्केतः-अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारः, यः शब्दो यस्मिन्नर्थे भगवता सङ्केतितः स तमर्थं प्रतिपादयति, तथा च शब्दार्थयोरीश्वरेच्छैव सम्बन्धः स एव समयस्तदधीन इत्यर्थः। यथा नकुलदंषट्राग्रत्पृष्टा या काचिदोषधिः सा सर्वाऽपि सर्पविषं हन्ति।
स च समयः क्वचिव्द्यवहाराद् गृह्यते, यथा-प्रयोजकेन घट मानयेत्युक्ते प्रयोज्यस्य कम्बुग्रीवावन्तमर्थमानयतो ज्ञानं तावद नुमिनोति तटस्थो बालः-इयमस्य प्रवृत्तिर्ज्ञानजन्या प्रवृत्तित्वात् मत्प्रवृत्तिवत्। तच्च झानमेत द्वाक्यजन्यमेतदनन्तरभावित्वात्, एतजज्ञानविषयोऽयं कम्बुग्रीवावानर्थो घटपदवाच्य इत्यावापोद्वापप्रक्रियया बालस्य घटपटादावर्थे व्युत्पत्तिः।
क्वचिच्च साक्षादाप्तवाक्यादेव यथाऽयं कम्बुग्रीवावानर्थो घटपदवाच्य इति।
क्वचिदुपमानात्, यथा-गोसदृशो गवयः, यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णीत्यादि साधर्म्योपमानात्। क्वचिन्निन्दाकारादपि वाक्यात्, यथा-धिक् करभमतिलम्बौष्ठं दीर्घग्रीवं कठोरकण्टकाशिनमपसदं पशूनामिति निन्दावाक्यश्रवणानन्तरं तादृशपिण्डमुपलभ्यायमसौ करभ इति व्युत्पत्तिः।
क्वचित् प्रसिद्धपदसामानाधिकरण्यात्, यथा-प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीति वाक्यश्रवणानन्तरं भवत्ययमसौ मधुकरपदवाच्यः प्रभिन्नकमलोदरे मधुपानकर्तृत्वात्, यथा वा सहकारतरौ मधुरं पिको रौतीति। तदेतदनुमानं वा शब्द एव वा प्रसिद्धपदसामानाधिकरण्यसामर्थ्याद्व्युत्पादकः, उपमानविशेष एव वा, मधुपानकर्तृत्वस्य भ्रमरादिव्यक्त्यन्तरसाधर्म्यस्योपनयात्।
समयशच् जातिमात्रे, व्योक्तेराक्षेपत एवोपस्थितेरिति तौतातिकाः।
(1 जातौ व्यक्तौ चोभय (त्र) शक्तिः किन्तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसती प्रयोजिकेति प्राभाकराः।
समयः शक्तिरेव `व्यक्त्याकृतिजातयः पदार्थः (अo2आo2न्याoसूo63) इति’ वृद्धाः. गवादिपदानामियं गतिः, गुणकर्मादिवाचकण्दानान्तु जातिव्यक्ती एवार्थ इति मयूखे विपञ्चितम् ॥ 20 ॥
</7-2-20>
<7-2-21>
इदानीमुद्देशक्रमप्राप्ते परत्वापरत्वे परस्परानुबद्धव्यवहारकारणतया शिष्यबुद्धिवैशद्यार्थ संक्षेपार्थञ्चैकग्रन्थेनाह–
एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च ॥ 21 ॥
परमपरञ्चेति भावप्रधानो निर्देशः। उत्पद्यत इति शेषः। यद्वा परमपरञ्चेति व्यवहार इति शेषः। इतिरध्याहार्य्यम्। एका दिग् ययोस्तावेकदिक्कौ, ताभ्यामेकदिक्काम्यां पिण्डाभ्यामित्यर्थः। तुल्यदेशावप्येकदिक्कौ भवतः न तु ताभ्यां परत्वापरत्वे उत्पद्येते व्यवह्लियेते वेत्यत उक्तं सन्निकृष्टविप्रकृष्टाभ्यामिति। सन्निकर्षः संयुक्तसंयोगाल्पत्वम्, विप्रकर्षस्तद्भूयस्त्वम्, तद्वद्भ्यामित्यर्थः। एतेन समवायिकारणमुक्तम्। दिक्पिण्डसंयोगस्त्वसमवायिकारणम्, तथा हि प्राङ्मुखस्य पुरुषस्य प्राच्यवस्थितयोः पिण्डयोरेकस्मिन् संयुक्तसंयोगभुयस्त्वमपरस्मिन संयुक्तसंयोगाल्पतरत्वञ्चापेक्ष्य परत्वमपरात्वञ्चोत्पद्यते, (असमवायिकारणमुक्तम)। सन्निकृष्टविप्रकृष्टाभ्यामिति,-विषयेण विषयिणं प्रत्ययमुपलक्षयति। तथा चापेक्षाबुद्धेर्निमित्तकारणत्वमुक्तम्। एकदिगवस्थितयोरेव परत्वापरत्वे उत्पद्येते इति न सर्वत्रोत्पत्तिः। एकस्यैव द्रष्टुरपेक्षाबुद्धिः समुत्पद्यते इति न सर्वथोत्पत्तिः। अपेक्षाबुद्धिनियमान्न सर्वदोत्पत्तिः। कारणशक्तेरुत्पन्नयोः प्रत्यक्षसिद्धत्वान्न परस्पराश्रयत्वम्, अन्यथा हि नोत्पद्येयातां न वा प्रतीयेयातां, परस्परापेक्षायां हि द्वयोरनुत्पत्तिरप्रतीतिश्च स्यात्, प्रतीयेते च परत्वापरत्वे, प्रतीतिश्च तयोर्नोत्पत्तिमन्तरेणेति।
एककालाभ्यामिति,-कालिकपरत्वापरत्वे अभिप्रेत्य। तत्रैककालाभ्यामिति, एको वर्त्तमानः कालो ययोर्युवस्थविरपिण्डयोः तावेककालौ ताभ्यामेककालाभ्यामित्यर्थः। सन्निकर्षोऽल्पतरतपनपरिस्पन्दान्तरितजन्मत्वम्। अत्रापि विपयेण विषयिणीं बुद्धिमुपलक्षयति, तेन युवस्थविरपिण्डौ समवायिकारणे, कालपिण्डसंयोगश्चासमवायिकारणम्, अल्पतरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिरपरत्वे बहुतरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिः परत्वे निमित्तकारणम्। एते च परत्वापरत्वे अनियतदिग्देशयोरपि पिण्डयोरुत्पद्येते।
तत्र दैशिकपरत्वापरत्वयोः सप्तधा विनाशः। उत्पादस्तु युगपदेव द्वयोरन्यथाऽन्योन्याश्रयः स्यात्। अपेक्षाबुद्धिनाशात् 1, संयोगस्यासमवायिकारणस्य नाशात् 2, द्रव्यस्य च समवायिकारणस्य नाशात् 3, निमित्तासमवायिकारणयोर्नाशात् 4, निमित्तसमवायिकारणयोर्नाशात् 5, समवाय्यसमवायिकारणयोर्नाशात् 6, निमित्तनाशासमवायिकारणनाशसमवायिकारणनाशेभ्यः 7।
तत्रापेक्षाबुद्धिनाशात् तावत्-परत्वोत्पत्तिः परत्वसामान्यज्ञानं ततोऽपेक्षाबुद्धिविनाशस्तद्विनाशात् परत्वविशिष्टद्रव्यज्ञानकाले परत्वनाशः, द्वित्वनाशवदेव सर्वमूहनीयम्।
उपमवायिकारणनाशादपि, तद् यथा-यदैवापेक्षाबुद्धिस्तदैव परत्वाधारे पिण्डे कर्म। ततो यदैव परत्वोत्पत्तिस्तदैव दिक्पिण्डविभागस्ततो यदा परत्वसामान्यज्ञानं तदा दिक्पिण्डसंयोगनाशः। ततः सामान्यज्ञानादपेक्षाबुद्धिनाशस्तदैव दिक्पिण्डसंयोगनाशात् परत्वापरत्वयोर्नाशः। तत्र चापेक्षाबुद्धिनाशस्य परत्वनाशसमकालत्वान्न तन्नाशकत्वम्। नन्वसमवायिकारणानाशादपि गुणनाशे आत्ममनःसंयोगनाशादपि संस्कारादृष्टादीनां विनाशे बहु व्याकुलं स्यादिति चेन्न, विप्रकृष्टत्वेन परत्वस्य व्यापनात् परत्वाधारस्यान्यत्र गमने विप्रकर्षाभावात्, परत्वनिवृत्तिरावश्यकी। न च तदा नाशकान्तरमस्तीत्यन्यथाऽनुपपत्त्या संयोगनाश एव नाशकः कल्प्यते, संस्कारादृष्टादेः कार्य्यस्य स्मृतिसुखादेश्चिरेणापि दर्शनान्न तन्नाशकल्पना। उपलक्षणञ्चैतत् अवधेर्द्रष्टुश्च तद्देशसंयोगनाशादपि परत्वापरत्वे विनश्यतः, युक्तेस्तुल्यत्वात्।
समवायिकारणनाशादपि क्वचित् परत्वनाशः। तथाहि-यदा पिण्डावयवे समुत्पन्नेन कर्मणाऽवयवान्तराद्विभागस्तदैवापेक्षाबुद्धिः, विभागात् पिण्डारम्भकसंयोगनाशः परत्वोत्पत्तिः, अग्रिमक्षणे संयोगनाशाद् द्रव्यनाशः परत्वसामान्यज्ञानं, द्रव्यनाशात् परत्वनाशोऽपेक्षाबुद्धिनाशश्च सामान्यज्ञानात्। तथा च यौगपद्यान्नापेक्षाबुद्धिनाशात् परत्वनाश इति।
क्वचिद् द्रव्यनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाशः। तद्यथा-पिण्डावयवे कर्मापेक्षाबुद्धेरुत्पादस्ततोऽवयवान्तरविभागः परत्वोत्पत्तिश्च, तत आरम्भकसंयोगनाशसामान्यज्ञाने ततो द्रव्यनाशापेक्षाबुद्धिनाशौ ततश्च तपत्वनाशः।
क्वचिद् द्रव्यस्य संयोगस्य च नाशाभ्यां परत्वनाशः, तद् यथा यदा द्रव्यावयवविभागस्तदैव पिण्डकर्मापेक्षाबुद्ध्योरुत्पादस्तदनन्तरमवयवसंयोगनाशदिक्पिण्डविभागपरत्वोत्पत्तयः। ततो द्रव्यानाशदिक्पिण्डसंयोगनाशपरत्वसामान्यबुद्धयः। ततो द्रव्यनाशदिक्पिण्डसंयोगनाशाभ्यां परत्वनाशः सामान्यबुद्धेरपेक्षबुद्धिनाश इति।
क्वचित् संयोगनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाशः, तद्यथा-परत्वोत्पत्तिपिण्डकर्मणी सामान्यज्ञानविभागौ अपेक्षाबुद्धिनाशदिक्पिण्डसंयोगनाशौ ततः परत्वनाशः।
क्वचिद् समवाय्यसमवायिनिमित्तनाशेभ्यः। तद्यथा-परत्वोत्पत्तिपिण्डावयवविभागपिण्डकर्माणि युगपत्, तदनन्तरं परत्वसामान्यज्ञानावयवसंयोगनाशदिक्पिण्डविभागा तदनन्तरमपेक्षाबुद्धिनाशद्रव्यनाशदिक्पिण्डसंयोगनाशेभ्यो युगपदुत्पन्नेभ्यः परत्वस्यापरत्वस्य वा दैशिकस्य नाशः।
कालकृतयोस्तु परत्वापरत्वयोरसमवायिकारणनाशादीनो नाशो नास्ति, दैशिकयोर्दिक्र्पिण्डसंयोगनाशे सन्निकर्षविप्रकर्षनाशो यथा न तथा कालिकयोरिति, तयोः समवायिकारणनाशादपेक्षाबुद्धिनाशात् द्वाभ्याञ्चेति त्रयः पक्षाः पूर्ववदूहनीयाः ॥ 21 ॥
</7-2-21>
<7-2-22>
कालिकपरत्वापरत्वे प्रति विशेषमाह–
कारणपरत्वात् कारणापरत्वाच्च ॥ 22 ॥
परत्वापरत्वयोः कारणं कालस्तस्य परत्वापरत्वे परत्वासमवायिकारणकालसंयोगोऽपरत्वासमवायिकारणकालसंयोगश्च लक्षणयोक्तः अन्यथाऽनन्वयापत्तेः, न हि परत्वापरत्वाभ्यामेव परत्वापरत्वे उत्पद्येते। तस्मात् परत्वापरत्वपदयोस्तदुत्पादककालसंयोगावर्थौ लक्षणया ॥ 22 ॥
</7-2-22>
<7-2-23-25>
ननु परत्वेऽपि परत्वमपरत्वेऽप्यपरत्वं किं न स्यादित्यत आह–
परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥ 23 ॥
कर्मभिः कर्माणि ॥ 24 ॥
गणैर्गुणाः ॥ 25 ॥
एतानि सूत्राणि पूर्वमेव व्याकृतकल्पानि नेह व्याक्रियन्ते ॥ 23-25 ॥
</7-2-23-25>
<7-2-26>
परत्वापरत्वादीनां मूर्त्तमात्रसमवेतत्वमुक्तं ज्ञानमुखादीनाञ्चात्मसमवेतत्वम्। तत्र समवाय एव क इति शिष्यजिज्ञासामनुरुध्य बुद्धेरुद्धेशक्रमप्राप्ताया अपि लङ्घनात् समवायपरीक्षामाह–
इहेदमिति यतः कार्यकारणयोः स समवायः ॥ 26 ॥
कार्यकारणयोरित्युपलक्षणम्, अकार्यकारणयोरित्यपि द्रष्टव्यम्। तदुक्तं पदार्थप्देशाख्ये प्रकरणे- “अयुतसिद्धानामाधार्य्याधारभूतानां यः सम्बन्ध इहेतिप्रत्ययहेतुः स समवायः” इति। असम्बद्धयोरविद्यमानत्वमयुतमिद्धिः, इह कुण्डे दधि इह कुण्डे बदराणीतिवत् इह तन्तुषु पट इह वीरणेपु कट इह द्रव्ये गुणकर्माणि इह गवि गोत्वम् इहाऽऽत्मनि ज्ञानम् इहाऽऽकाशे शब्द इतीहबुद्धिरुत्पद्यमाना न विना सम्बन्धमुत्पत्तुमर्हति तेनानुमीयतेऽस्ति कश्चित् सम्बन्धः। न चासौ संयोग एव, अन्यतरकर्मादीनां तदुत्पादकानामभावात् विभागपर्य्यवसानाभावाच्च सम्बन्धिनामयुतसिद्धत्वाच्च नियताधिकरणतयैवोन्नेयत्वात् अप्रत्यक्षत्वादेकत्वान्नित्यत्वाच्च। नन्वेकश्चेत् समवायस्तदा द्रव्यत्वादीनां सङ्करप्रसङ्गः, कर्मत्वादिसमवायस्य द्रव्ये सस्भवात्। मैवम्, आधाराधेयनियमादेवासङ्करात्। यद्यपि य एव द्रव्यत्वसमवायः स एव गुणत्वकर्मत्वादीनामपि, तथापि चैषां न द्रव्यमाधारस्तत्र तेषामप्रतीतेः द्रव्येष्वेव द्रव्यत्वं प्रतीयते गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वं नत्वन्यत्रेत्यन्वयव्यतिरेकदर्शनादेव नियमः, यथा कुण्डदध्नोः संयोगविशेषेऽपि कुण्डमेवाधारो न दधीत्याश्रयाश्रयिभावनियमस्तथा व्यङ्ग्यव्यञ्जकशक्तिभेदादेवात्रापि नियम उपपत्स्यते, न हि द्रव्येण द्रव्यत्ववत् कर्मत्वाद्यप्यभिव्यज्यते। तदुक्तम्–
“संविदेव हि भगवती वस्तूपगमे नः शरणम्” इति।
न ह्याधारत्वं प्रति विपरीता संविदस्ति, न हि भवति द्रव्यं कर्मेति, न वा भवति पटे तन्तव इति। एतेन वायौ रूपसमवायेऽपि वायौ रूपमित्याधारता न वायोः प्रतीयते। तस्मात् स्वभावशक्तिरेव सर्वत्र नियामिका। स चायं नित्य अकारणकत्वात्। भावानां हि समवायिकारणादुत्पत्तिनियमः, तदनुरुद्वे च निमित्तासमवायिनी, तथाच समवायस्य समवायिकारणं यत् स्यात् तत् समवायान्तरेण तेनैव समवायेन वा? न तावदाद्यः, अनवस्थापातात्। न द्वितीयः, न हि स एव समवायः स्वेनैव समवेतः सम्भवतीत्यात्माश्रयात्। तन्तुषु पटसमवायः पटे रूपसमवाय इति प्रतीतिः कथमिति चेत् स्वरूपसम्बन्धेन, समवायान्तराङ्गीकारेऽनवस्थापातात्। तर्हीह पटरूपमित्यपीहप्रत्यः स्वरूपसम्बन्धेनैव स्यात् किं समवायेनेति चेन्न, तत्रातिरिक्तसम्बन्धे बाधकाभावात्। तर्हीह भूतले घटाभाव इत्यत्रापि समवायः सम्बन्धान्तरं वा स्यादिति चेन्न, स्वरूपसम्बन्धेनैव तदुपपत्तेः, अन्यथा घटात्यन्ताभावान्योन्याभावयोर्नित्ययोरनेकसमवेतयोः सामान्यत्वापत्तेः। प्रध्वंसस्य च समवेतकार्य्यत्वेन विनाशित्वापत्तेः, प्रागभावस्य च समवेतानुत्पन्नत्त्वेनाविनाशित्वापत्तेश्च। न च भावत्वं तत्र तन्त्रम्, भावत्वस्यापाद्यत्वात्।
अभावेऽस्त्येव वैशिष्ट्याख्यं सम्बन्धान्तरमिति भाट्टाः।
तत्र यदि सर्वाभावव्यक्तीनामेकमेव वैशिष्ट्यां तदा घटवत्वपि घटाभावप्रत्यप्रसङ्गः पटाभाववैशिष्ट्येनैव घटाभाववैशिष्ट्यसत्त्वात्। घट एव तत्र घटाभावधीप्रतिबन्धक इति चेत् वैशिष्ट्यसम्बन्धेन प्रतिबन्धकाभावस्यैव तत्र सत्त्वात्। न चाश्रयस्वबाव एव तादृशो येन न तत्र घटाभावाभिव्यक्तिः, घटापसारणानन्तरं तत्रैव घटाभावप्रतीतेः। तवापि रूपनाशानन्तरं कथं न रूपवत्ताप्रत्ययः समवायस्य नित्यत्वादेकत्वाच्चेति चेत्, रूपनाशादेव तदप्रतीतेरुपपत्तेः। समवायप्रतिबिन्धिः (न्दी?)प्रत्यक्षमयूखे मोचित एवेत्यास्ताम् ॥ 26 ॥
</7-2-26>
<7-2-27>
द्रव्यादिभ्यः पञ्चभ्यो भेदं साधयन्नाह-
द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः ॥ 27 ॥
भावः सत्ता। यथा सत्ता न द्रव्याद्यात्मिका विलक्षणबुद्धिवेद्यत्वात् वथा समवायोऽपि तत एव द्रव्यादिभ्यो भिन्नः। द्रव्यत्वगुणत्वेत्युपलक्षणं कर्मत्वाद्यपि द्रष्टव्यम् ॥ 27 ॥
</7-2-27>
<7-2-28>
एकत्वं साधयति–
तत्त्वभावेन ॥ 28 ॥
व्याख्यातमिति शेषः। तत्त्वमेकत्वं भावेन सत्तया व्याख्यातम्। यथैका सत्ता सर्वव सद्बुद्धिप्रवर्तिका तथैक एव समवायः सर्वत्र समवेतबुद्धिप्रवर्तकः स्वलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च, न हि समवायस्य विशेषलिङ्गं भेदकं लिङ्गमाकलयामो येन नानात्वमभ्युपगच्छामः। अत एव नित्यः देशकालादिबेदेऽप्यभिन्नस्य सत्तावदेवानित्यत्वायोगात्। ननु समवायो यद्ययं सम्बन्ध एव तदा तन्तुपटयोः पटरूपयोर्वा विश्लेषः स्यादिति, चेन्न, युतसिद्ध्यभावाद्विश्लेषानुपपत्तेः, न हि रूपरूपवतोरवयवावयविनोर्वाऽसम्बद्धयोर्विद्यमानत्वमस्ति येन विश्लेषः स्यात्। युतसिद्धिरेवापाद्यत इति चेन्न, कदाचिदपि तथाऽननुभवेनापाद्यबाधात्।
समवायो नानाऽनित्यश्चेति प्राभाकराः। तच्चानुपपन्नम्, रूपं नष्टमिति हि प्रत्ययो न तु रूपसमवायो नष्ट इति कस्यापि प्रत्ययः।
प्रत्यक्षः समवाय इति नैयायिकाः। तदप्यनुपपन्नम्, समवायोऽतीन्द्रियः आत्मान्यत्वे सत्यसमवेतभावत्वात् मनोवत्, कालादिवद्वा ॥ 28 ॥
</7-2-28>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे सप्तमाध्यायस्य द्वितीयाह्निकम्।
** समाप्तश्चायं सप्तमाध्यायः।**
——————————————————–
अष्टमाध्याये प्रथमाह्निकम्
<8-1-1>
शिष्यजिज्ञासानुरोधात् क्रमलङ्घनम्, इदानीमुद्देशक्रममालम्बते। तत्र बुद्धिपरीक्षा अष्टमाध्यायार्थः। आत्मसाधनाय पूर्वं बुद्धिरुक्ता, तां स्मारयन्नाह–
द्रव्येषु ज्ञानं व्याख्यातम् ॥ 1 ॥
द्रव्येष्विति, विषयेण विषयिणं तृतीयाध्यायमुपलक्षयति। “इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः” “आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्” इत्येताभ्यां सूत्राभ्यां ज्ञानं व्याख्यातमित्यर्थः। तत्र “बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्य्यायाः” अo 1आ 1 न्याoसूo 15 इति समानतन्त्रे बुद्धिलक्षणे साङ्ख्यमतनिरासार्थं पर्य्यायाभिधानम्।
साङ्ख्या हि बुद्ध्यादिशब्दानामर्थभेदमात्तक्षते। तथाहि-“सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सा चैकैव, पुरुषास्तु परं भिद्यन्ते, ते च कृटस्था नित्या अपरिणामिनो नित्यचैतन्यस्वभावाः। ते च पङ्गवोऽपरिणामित्वात्, प्रकृतिस्त्वन्दा जडत्वात्। यदा विपयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृतेर्भवति तदा सा पुरुषोपरागवशात् परिणमते। तस्याश्चाद्यः परिणामो बुद्धिरन्तःकरणविशेषः। बुद्धिरेव महत्त्वं तदुक्तम्–“प्रकृतेर्भहान्” इति। सा च बुद्धिर्दपणवन्निर्मला, तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घट इति पट इत्याद्याकारस्तज्ज्ञनं वृत्तिरिति चाख्यायते, स्वच्छायां बुद्धौ वर्त्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाग्रहादहं जानामीति योऽभिमानविशेषः सैवोपलब्धिः। स्रक्चन्दनादिविषयसन्निकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेषः स प्रत्ययः। अतएव ज्ञानसुखदुःखेच्छाद्वेपप्रयत्नसंस्कारधर्माधर्माः सर्व एव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावेव वर्त्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति च। पुरुषस्तु पुष्कलपलाशवन्निर्लेषः प्रतिबिम्बते परं बुद्धाविति”–यन्मन्यन्ते तदनेन पर्य्यायाबेधानसूचितप्रमाणेन निराक्रियते। तथाहि-बुद्धिशब्दो यदि बुद्ध्यतेऽनयेति करणव्युत्पन्नस्तदा मन एव तत्पर्य्यवस्यति। न च मनः प्रत्यक्षम्, बुद्धिस्त्वहं बुद्ध्ये इति प्रत्यक्षवेद्यैव। न चान्तःकरणस्य ज्ञानादयो धर्माः, कर्तृधर्मत्वेनैव तेषां सिद्धेः, भवति हि अहं जाने अहं प्रत्येमि अहमुपलभे इत्यहन्त्वसामानाधिकरण्येन प्रतिभासः। अभिमानोऽसाविति चेत् तात्त्विकत्वे बाधकाभावात्। पुरुषस्यागन्तुकधर्मानाधारत्वं कूटस्थत्वं तदेव बाधकमिति चेन्न, आगन्तुकधर्माधारत्वेऽपि नित्यत्वसम्भवात्, न हि धर्मी धर्मश्चेत्येकं तत्त्वं येन धर्मोत्पादविनाशावेव धर्म्युत्पादविनाशौ स्याताम्। तथाच य एव चेतयते स एव बुद्ध्यते जानात्युपलभते प्रत्येति चेति नार्थान्तरकल्पना युक्तेति दिक् ॥ 1 ॥
</8-1-1>
<8-1-2>
तच्च ज्ञानं द्विविधं-विद्या चाविद्या च। विद्या चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा। अविद्याऽपि चतुर्विधा संशयविपर्य्ययस्वप्नानध्यवसायलक्षणा। तत्र यल्लैङ्गिकं तदनिन्द्रियजम्, कुत एतदित्याह–
तत्रात्मा मनश्चाप्रत्यक्षे ॥ 2 ॥
आत्माऽत्र परमात्मा स्वात्मा वा, स्वात्मनि मानसस्य क्वाचित्काहम्प्रत्ययस्याहं गौरः कृशो महाबाहुरित्यादिप्रत्ययतिरस्कृतत्वात् स्वात्मनोऽप्यप्रत्यक्षतोक्ता। चकारादाकाशकालदिशां वायोः परमाणूनाञ्च द्रव्याणामुषग्रहः।
इन्द्रियजमपि द्विविधं-सर्वज्ञीयमसर्वज्ञीयञ्च। सर्वज्ञीयं–योगजधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानं, तथाहि परमाणवः, प्रसक्ताः प्रमेयत्वादभिधेयत्वात् सत्त्वात्। सामग्रीविरहात् कथमेवं महत्त्वस्यापि प्रत्यक्षं प्रति कारणत्वात् न च परमाणवो महान्तः, रूपवत्त्वस्यापि चाक्षुषप्रत्यक्षकारणत्वात्, न च दिगादयो रूपवन्त इति चेन्न, योगजधर्मसहकारिणा मनसैव तत्सम्भवात्, तदुपग्रहाच्चक्षुरादिना वा, अचिन्त्यप्रभावो हि योगजो धर्मो न सहकार्यन्तरमपेक्षरो न मीमांसाभिज्ञः पुरुषत्वादहमिव" इत्यादिवद्विपक्षबाधकतर्कशून्यत्वादप्रयोजकम्।
असर्वज्ञीयञ्च प्रत्यक्षं द्विविधं-सविकल्पकं निर्विकल्पकञ्च।
सविकल्पकं ज्ञानं न प्रमाणमिति कीर्त्तिदिङ्नागादयः। तथाहि-अबिलापसंसर्गयोग्यप्रतिभासं हि तत्, न ह्यभिलापेन नाम्ना सम्भवत्यर्थस्य सम्बन्धो येन घट इति पट इति वा नामानुरञ्जितः प्रत्ययः स्यात्। न च सतः स्वलक्षणस्यासता सम्बन्धः सम्भवति, न चासत् इन्द्रियगोचरः, तस्मादिन्द्रियेणालोचनं जन्यते आलोचनमहिम्ना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्त्तयत् प्रत्यक्षमिति चोच्यते इति।
तच्चैतदनुपपन्नम्, अभिलापसंसर्गयोग्यप्रतिभासञ्च भवेत् प्रमाणञ्चेन्द्रियार्थसन्निकर्षजन्यं स्यादिति सन्दिग्धव्यतिरेकित्वम्। नामवैशिष्ट्यञ्च चाक्षुषज्ञाने सम्भवत्येव, सुरभिचन्दनमितिवदुपनीतभानसम्भवात्। यद्वा संज्ञावेशिष्ट्यं प्रत्यक्षज्ञाने न भासते संज्ञायाः स्मरणमात्रम्, स्मृतैव सा अर्थव्यावर्त्तिका, अभावज्ञाने प्रतियोगिस्मरणवत्। जात्यादिकञ्च वस्तुभूतं साधितमेवातः सविकल्पकमपीन्द्रियार्थसन्निकर्पजत्वात् प्रत्यक्षम्। ननु निर्विकल्पकं न व्यवहारप्रवर्तकं न वा व्यवहारविषय इति किन्तत्र प्रमाणमिति चेत्, सविकल्पकमेव। तद्धि विशिष्टज्ञानम्, न च विशेषणज्ञानमन्तरेण तदुत्पद्यते, विशिष्टज्ञाने हि विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहस्य कारणत्वावधारणात् ॥ 2 ॥
</8-1-2>
<8-1-3>
यत्र यथा ज्ञानं यत्कारणकञ्च तद्विशदयितुमाह–
ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः ॥ 3 ॥
ज्ञानान्तरान्निर्देष्टव्यं यत्प्रकारकं यद्विषयकं यद्धर्मकं तत्र ज्ञाननिर्देशे कर्त्तव्ये ज्ञानस्य निष्पत्तिविधिरुत्पत्तिविधिरुत्पत्तिप्रकार उक्तः-उच्यते इत्यर्थः। आदिकर्मणि क्तविधानात् ॥ 3 ॥
</8-1-3>
<8-1-4>
कीदृशो निष्पत्तिविधिस्तमाह–
गुणक्रमसु सन्निकृष्टेषु ज्ञानिष्पत्तेर्द्रव्यं कारणम् ॥ 4 ॥
गुणेषु रूपादिषु कर्मसु चोत्क्षेपणादिषु यज्ज्ञानं निष्पद्यते तत्र द्रव्यं कारणं योग्यद्रव्यनिष्ठमेव तदुभयं गृह्यत इति द्रव्ययोग्यतैव तत्र तन्त्रम्, सन्निकर्षश्च तेषां द्रव्यघटित एव, संयुक्तसमवायेन तेषां ग्रहणात्। यद्यपि विषक्तचम्पकावयवकर्पूरभागानामयोग्यानां गन्धो गृह्यते, तथापि सन्निकर्षघटकं तत्रायोग्यमपि द्रव्यमेव। यद्यपि शब्दग्रहे द्रव्ययोग्यता न तन्त्रं, तथापि तत्रैव समवेतः शब्दो गृह्यत इति तदेव तन्त्रम्। नन्वदृष्टसन्निकर्षकल्पना कुतः क्रियते इति चेन्न, ज्ञाननिष्पत्तेः, कार्य्येण हि कारणमवश्यं कल्पनीयमिति भावः ॥ 4 ॥
</8-1-4>
<8-1-5>
अपरं ज्ञाननिष्पत्तिविधिमाह–
सामान्यविशेषेषु सामान्यविशेषाभावात्तत एव ज्ञानम् ॥ 5 ॥
सामान्यं सत्ता तस्य विशेषा द्रव्यत्वगुणत्वकर्मत्वानि एवमेतेषामपि सामान्यानां विशेषाः पृथिवीत्वादिरूपत्वाद्युत्क्षेपणत्वादीनि। तत्र द्रव्यगतानां सामान्यानां तत एव योग्याश्रयविशेषादेव तन्निबन्धनाच्च सयुक्तसमवायात् गुणकर्मगतानामपि सामान्यानां तत एव योग्याश्रयादेव तन्निबन्धनाच्च संयुक्तसमवेतसमवायात् समवेतसमवायाच्च सार्वेन्द्रियं ज्ञानम्, -गुणत्वे च संयुक्तसमवेतसमवायात्, शब्दत्वकत्वादौ समवेतसमवायात्। सत्तायाः संयुक्तसमवायात् संयुक्तसमवेतसमवायात् समवेतसमवायाच्च सार्वेन्द्रियं ज्ञानम्। गुणत्वे च संयुक्तसमवायः समवायश्च न प्रत्यासत्तिरिति। ननु तत एव स्वाश्रयसन्निकर्षादेवेत्यवधारणानुपपत्तिः, यतः सामान्ये विशेषेषु च पृथिवीत्वादिषु सामान्यविशेषान्तरमस्त्येव तत्सन्निकर्षोऽपि कारणमेवात आह–सामान्यविशेषाभावादिति। न हि सामान्यविशेषेषु सामान्यविशेषा वर्तन्ते, अनवस्थाप्रसह्गात्। तेषां परस्परं भेदप्रतीतिः स्वरूपत एव, गवेतरावृत्तित्वे सति सकलगोवृत्तित्वलक्षणोपाधिसम्भेदाद्बा। एवं घटत्वादावपीति ॥ 5 ॥
</8-1-5>
<8-1-6>
ननु सामान्यविशेषेषु सामान्यविशेषाभावाद्यथा तन्निरपेक्षमेव ज्ञानं तथा द्रव्यगुणकर्मस्वपि किं तन्निरपेक्षमेव? नेत्याह–
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥ 6 ॥
ज्ञानमुत्पद्यते इति प्रकृतम्। द्रव्यगुणकर्मसु द्रव्त्वगुणत्वकर्मत्वविशिष्टबुद्धिस्तावदस्ति, विशिष्टज्ञानञ्च विशेष्यविशेषणेन्द्रियसन्निकर्षादुत्पद्यते इति सामान्यविशेषापेक्षा तत्रावश्यकी। भवति हि द्रव्यमिदं गुणोऽंय कर्मेदमिति विशिष्टज्ञानमिति भावः ॥ 6 ॥
</8-1-6>
<8-1-7>
तत् किं द्रव्येऽपि सामान्यविशेषमात्रापेक्षमेव ज्ञानम्? अत आह–
द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥ 7 ॥
ज्ञानमुत्पद्ते इति प्रकृतम्। घण्टावान् शुक्लो गौर्गच्छतीति ज्ञानम्। तत्र द्रव्यं घण्टा विशेषणम्, शुक्ल इति गुणः, गच्छतीति कर्म। तथाच नागृहीतविशेषणा विशिष्टप्रतीतिर्न वा विशेषणसम्बन्धमन्तरेणेति भवति द्रव्यगुणकर्मापेक्षेति भावः ॥ 7 ॥
</8-1-7>
<8-1-8>
तत् किं गुणकर्मणोरपि गुणकर्मापेक्षा? नेत्याह–
गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते ॥ 8 ॥
ज्ञानमिति शेषः। गुणे गुणविशिष्टबुद्धेः कर्मसु कर्मविशिष्टबुद्धेरभावात् गुणकर्मापेक्षा न तद्गतबुद्धिः। न हि गुणे गुणो, न वा कर्मसु कर्म, येन तत्र विशेषणत्वेन भासेतेति भावः ॥ 8 ॥
</8-1-8>
<8-1-9>
नु गुणकर्मणोः स्फुरणाद् गुणबुद्धौ कर्मबुद्धौ च कथं न गुणकर्मापेक्षेत्याशङ्क्य प्रकरणान्तरमारभते–
समवायिनः श्वैत्याच्छ्वैत्यबुद्धेश्च श्वेते बुद्धिस्ते एते कार्य्यकारणभूते ॥ 9 ॥
समवायिन इत्यभिधानात् सम्बन्धस्य कारणतामाह, तथाच गुणे गुणसमवायाभावात् कर्मसु कर्मसमवायाभावाच्च न तत्तज्ज्ञाने गुणकर्मापेक्षा विशेषणत्वेन विशेष्यत्वेन त्वस्त्येव। एवञ्च श्वेतः शङ्ख इत्यादिप्रतीतौ श्वैत्यसमवायस्य श्वैत्यगुणस्य श्वैत्यविशेषणज्ञानस्य च कारणत्वमित्युक्तम्, तथा च विशेषणसम्बन्धविशेषणतज्ज्ञानानां विशिष्टप्रत्यक्षप्रमां प्रति कारणत्वमिति, तेन पूर्वोक्तं सर्वं सिध्यति ॥ 9 ॥
</8-1-9>
<8-1-10>
ननु यथा घण्टावानित्यत्र द्रव्यापेक्षं द्रव्यज्ञानम्, तथाऽयं स्तम्भः अयं कुम्भ इत्यादावपि द्रव्याविशेषणकबुद्धौ द्रव्यबुद्धिः कारणम्, तथाच क्वापि प्रथमतो द्रव्यबुद्धिर्न स्यादित्यत आह–
द्रव्येष्वनितरेतरकारणाः ॥ 10 ॥
बुद्धय इति शेषः। स्तम्भज्ञानानन्तरकालीनमपि कुम्भज्ञानं न स्तम्भज्ञानकार्यं स्तम्भस्य कुम्भं प्रति विशेषणत्वायोगात् ॥ 10 ॥
</8-1-10>
<8-1-11>
ननु घटपटादिबुद्धीनां क्रमो दृश्यते, क्रमश्च कार्यकारणभावघटित एवेत्यत आह–
कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् ॥ 11 ॥
कारणक्रमाधीनो घटपटाद्बिद्धीनां क्रमो, न हेतुफलभावाधीनः। कारणक्रम एव कथमत आह-कारणायौगपद्यादिति। बुद्धीनां यौगपद्यं प्रतिषिद्धमतो नानाबुद्धिकारणानामपि न यौगपद्यम्, यदि तु कारणयौगपद्यं भवेत्तदा कार्ययौगपद्यमप्यापद्येतः तथाच युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति बहु भज्येतेति भावः ॥ 11 ॥
</8-1-11>
** इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारेऽष्टमाध्यास्य प्रथमाह्निकम्।**
—————————————————————–
अष्टमाध्याये द्वितीयाह्निकम्
<8-2-1>
प्रात्यक्षिकस्य सविकल्पकस्य निर्विक्ल्पकस्य च ज्ञानस्य निष्पत्तिविधिमभिधायेदानीं विशिष्टवैशिष्ट्यप्रत्यक्षमभिधातुमेकदेशमाह–
अयमेष त्वया कृतं भोजयनमिति बुद्ध्यपेक्षम् ॥ 1 ॥
सन्निकृष्टे वस्तुनि तावदयमिति बुद्धिरुत्पद्यते, विप्रकृष्टे च वस्तुन्येप इति क्रियायां स्वतन्त्रोऽयमिति बुद्धिमपेक्ष्य त्वयेति कर्तृत्वोपरक्ता बुद्धिः। कारणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतमिति कर्मबुद्धिः। अयं भुजिक्रियायां कर्त्ता प्रयोजकश्चायमिति बुद्धिमपक्ष्य भोजयेति। नियोज्यनियोक्तृव्यापारस्य विषयोऽयमिति बुध्द्यपेक्षमेनामिति। एवमन्यदपि बुद्ध्यपेक्षमूहनीयम् ॥ 1 ॥
</8-2-1>
<8-2-2>
अन्वयव्यतिरकपरिच्छेद्यमेवैतदित्याह–
दृष्टेषु भावाददृष्टेष्वभावात् ॥ 2 ॥
यदाऽयमितिबुद्धेः सन्निकृष्टो विषयः, एष इति बुद्धेर्विप्रकृष्टोऽपि बुद्ध्यारूढो विषयः, त्वयेतिबुद्धेः सन्निकृष्टः कर्त्ता विषयः, कृतमिति बुद्धेः कर्म विषयः, भोजयेतिबुद्धेर्नियोज्यनियोक्तारौ विषयौ, एनमितिबुद्धेस्तदुभयव्यापारो विषयः, सन्निकृष्टो भवति तदैतादृशो बुद्धिरुत्पद्यते, अदृष्टेषु तु विषयेषु नैता बुद्धयः प्रादुर्भवन्तीत्यन्वयव्यतिरेकगम्यमेवैतदित्यर्थः ॥ 2 ॥
</8-2-2>
<8-2-3>
इदानीं प्रकरणान्तरमारभते–
अर्थ इति द्रव्यगुणकर्मसु ॥ 3 ॥
एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम्, तेन तेषु त्रिषु वेशेषिकाणामर्थ इति परिभाषा, अर्थपदेन त्रयाणामुपस्थितेः। तदुक्तं-प्रशस्तदेवाचार्यैः “त्रयाणामर्थशब्दाभिधेयत्वञ्च” इति ॥ 3 ॥
</8-2-3>
<8-2-4>
प्रकरणान्तरमवतारयति–
द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ॥ 4 ॥
द्रव्येष्विति द्रव्यपदार्थनिरूपणप्रकरणमुपलक्षयति। प्रत्यक्षाप्रत्यक्षाणामित्यादिसूत्रेण शरीरादीनां पंचात्मकत्वं पंचभूतात्मकत्वं प्रतिषिद्धं निराकृतम्। यथा शरीरस्य न नानाप्रकृतिकत्वं तथा वक्ष्यमाणानां घ्राणादीनामिन्द्रियाणामपि। तेन तेषां प्रतिनियतगुणग्राहकत्वं सिद्ध्यतीति भावः ॥ 4 ॥
</8-2-4>
<8-2-5>
यदर्थमिदमारब्धं तदाह–
भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः ॥ 5 ॥
गन्धो ज्ञायतेऽनेनेति ज्गन्धज्ञानं घ्राणन्तत्र पृथिवी पृथिवीमात्र प्रकृति- उपादानकारणम्। कुत एतदित्यत आह-गन्धवत्त्वात्। न हि गन्धवत् निर्गन्धेनारब्यते इत्युक्तम्। गन्धवतत्वं च बहिरिन्द्रियाणां ग्राह्यजातीयगुणवत्त्वनियमात् सिद्धम्। तर्हि पार्थिवत्वाविशेषेऽपि शरीरावयवान्तराणां न गन्धव्यञ्जकत्वं किन्तु घ्राणस्यैवेति कुतो नियम इत्यत आह-भूयस्त्वादिति। इतरद्रव्यानभिभूतैः पार्थिवावयवैरारब्धत्वमेव भूयस्त्वम्। पारिभाषिकं चैतद् भूयस्त्वं समानतन्त्रेऽपि ॥ 5 ॥
</8-2-5>
<8-2-6>
इनद्रियान्तरेऽप्येतदतिदिशति–
तथापस्तेजोवायुश्च रसरूपस्पर्शाविशेषात् ॥ 6 ॥
रसनचक्षुष्ट्वगिन्द्रियाणां प्रकृतिरिति शेषः। तेन यथासख्यं रसनादीनामबादयः प्रकृतयः, तत्तत्प्रतिनियतार्थग्राहकत्वात्। अत्रापि नियमे भयस्त्वमेव तन्त्रम्। रसादिमत्त्वे च रसनादीनां ग्राह्यजातीयविशेषगुणवत्त्वनियमएव प्रमाणमित्युक्तम्। एव्च विशिष्टादृष्टोपगृहीतकर्णशष्कुल्यवच्छिन्नो नभोदेश एव श्रोत्रम् ॥ 6 ॥
इति श्रीशङ्करे वैशेषिकसूत्रोपस्कारोऽष्टमाध्यायस्य द्वितीयमाह्निकम्।
** समाप्तश्चायमष्टमोऽध्यायः।**
————————————————————
नवमाध्याये प्रथमाह्निकम्।
<9-1-1>
संयोगसमवायान्यतरसन्निकर्षजलौकिकप्रत्यक्षनिरूपणानन्तरं तदितरप्रत्यासत्तिजन्यलौकिकप्रत्यक्षव्युत्पादनफलकं नवमाध्यायमाह–
क्रियागुणव्यपदेशाभावात् प्रागसत् ॥ 1 ॥
कार्यमिति शेषः। प्रागिति कार्योत्पत्तेः प्राक् कार्यं घटपटादि असत् तत्कालीनस्वजनकाभावप्रतियोगीत्यर्थः। अत्र हेतुः क्रियागुणव्यपदेशाभावात्। यदि तदानीमपि कार्यं घटादि सदेव स्यात् तदा क्रियावत्त्वेन गणवत्वेन च व्यपदिश्येत, यथोत्पन्ने घटे घटस्तिष्ठति घटश्चलति रूपवानयं दृश्यते घट इत्यादिप्रकारेण व्यपदिश्यते न तथोत्पत्तेः प्रागपि व्यपदेशोऽस्ति। तेन गम्यते तदानीमसन्निति। स च व्यूह्यमानेषु वीरणेषु योज्यमानेषु योज्यमानेषु तन्तुषु चक्रारूढायां मृदि कुलालादिव्यापारेषु अनुवर्त्तमानेषु भविष्यत्यत्र कटः पटो घटो वेति सार्वलौकिकी प्रत्यक्षप्रतीतिः, चक्षुर्विस्फारणानन्तरं जायमानत्वात्। न च संयोगसमवायान्यतरघटिता प्रत्यासत्तिरत्र प्रभवति, तस्मादिन्द्रियसम्बद्धविशेषणता प्रत्यासत्ति रत्र तन्त्रम्। ननु चान्योन्याश्रयः सत्यां विशेषणतायां तत्प्रतीतिः प्रतीतौ च विशेषणतेति चेन्न, विशेषणता हि तदुभयस्वरूपमेव उपश्लिष्टप्रत्ययजननयोग्यम्। तच्च प्रतीतेः पूर्वमपि सदेव, तदुक्तं न्यायवार्त्तिके–“समवायेऽभावे च विशेषणविशेष्यभावः” इति। स चायं प्रागभावः प्रतियोगिजनकः न हि घटे जाते स एव घटस्तदानीमेवोत्पद्यते तत्र कारणान्तरसत्त्वेऽपि कारणवैकल्यमनुस्रियमाणं स्वप्रागभाववैकल्यमेवानुसर्त्तु मर्हति। तद्धटोत्पत्तौ स एव घटः प्रतिबन्धक इति चेत्तर्हि प्रतिबन्धकाभावत्वेन तस्य कारणत्वमवर्जनीयम्। ननु यदि घट एव तस्याभावस्तदा घटे नष्टे तदुन्मज्जनापत्तिरिति चेन्न, घटनाशस्यापि तद्विरोधित्वात्, न हि विरोधिसत्त्वकालेऽपि विरोध्यन्तरप्रादुर्भाव इति। न ह्यनयोर्देशकृतो विरोधो येन गोत्वाश्वत्ववत् समानकालीनत्वं स्यात्। किं तर्हि? कालकृतस्तथाच कथमेककालावस्थायित्वम्भवेत् ॥ 1 ॥
</9-1-1>
<9-1-2>
अभावान्तरं प्रतीतिबलसिद्धमाह–
सदसत् ॥ 2 ॥
यथा कारणव्यापारात् पूर्वं प्रत्यक्षानुमानाभ्यां कार्यस्यासत्त्वं प्रमीयते तथा विनाशकस्य मुद्गरादेर्व्यापारानन्तरं सदेव कार्यं घटादि इदानीमसदिति प्रत्यक्षानुनामाभ्यामेव प्रमोयते। भवति हि घटो नष्टो ध्वस्य इदानीं श्रुतपूर्वो गकारो नास्तीत्यादिधीरिति भावः ॥ 2 ॥
</9-1-2>
<9-1-3>
ननु घट एवावस्थाविशेषे ध्वंसव्यवहारं करोति न तु घटादन्यस्तस्य ध्वंस इत्यत आह–
असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ॥ 3 ॥
सदिति सूत्रशेषः। असतः सत् अर्थान्तरम्। कुत इत्यत आह–क्रियागुणव्यपदेशाभावादिति। न हि प्रध्वंसकालेऽपि वर्त्तते घटः–अस्ति घटः–इदानीं रूपवान् घटः–घटमानयोत्यादिव्यपदेशस्तदितो वैधर्म्यादसतः सदर्थान्तरमिति ॥ 3 ॥
</9-1-3>
<9-1-4>
प्रागभावप्रध्वंसौ साधयित्वाऽन्योभावं साधयितुमाह–
यत्र सदेव घटादि असदिति व्यवह्रियते तत्र तादात्म्याभावः प्रतीयते। भवति हि असन्नश्वो गवात्मना-असन् गौरश्वात्मना-असन् पटो घटात्मना अघटः पटः-अनश्वो गौः-अगौरश्व इत्यादि प्रतीतिः। तदस्यामश्वान्याभाववान् गौः पटान्योन्याभाववात् घट इत्यन्योन्याभाव एव तादात्म्याभावापरनामा भासते। तदत्र तादात्म्यं प्रतियोगितावच्छेदकम्। प्रतियोगिसमानाधिकरणश्चायमभावः, भवतिहि घटो न भूतलमिति प्रतीतिः। नित्यश्च, कदाचिदपि घटपटयोस्तादात्मया सम्भवात् ॥ 4 ॥
</9-1-4>
<9-1-5>
इदानीं चतुर्थमभावमत्यन्ताभावाख्यमाह–
यच्चान्यदसदतस्तदसत् ॥ 5 ॥
अतः पूर्वोक्तादभावत्रयात्, यदन्यदसत् तदसत् तदत्यन्तासत्त्वम्। असदित्युभयत्र भावप्रधानो निर्देशः। तत्रैकमसदुद्देश्यमपरमसद्विधेयम्, तथा चोक्ताभावत्रयभिन्नो योऽभावः सोऽत्यन्ताभाव इति पर्य्यवसन्नोऽर्थः। तत्र प्रागबावस्य उत्तरावधिकत्वम्, प्रध्वंसस्य पूर्वावधिकत्वम्, अन्योन्याभावस्य प्रतियोगिसमानाधिकरणत्वमत्यन्ताभावस्य तु त्रितयवैधर्म्यमतश्चतुर्थोऽयमभावः ॥ 5 ॥
</9-1-5>
<9-1-6>
इदानीं प्रकरणान्तरमारभते, तत्र प्रध्वंसे तावत् प्रत्यक्षसामग्रीमाह–
असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत् ॥ 6 ॥
असदितीतिकारेण प्रत्यक्षाकारं ज्ञानमाह, तेनासन् घटः-नष्टो घटः-ध्वस्य इदानीं घट-इति प्रत्यक्षप्रतीतिरस्ति। तत्र दृष्टान्तो-विरोधिप्रत्यक्षवदिति। विरोधिनो घटादेर्यथा स्पष्टं प्रत्यक्षं तथा तत्प्रध्वंसस्यापि। तत्र कारणमाहभूतप्रत्यक्षाभावादिति। भूतस्य उत्पद्य विनष्टस्य घटादेः प्रत्यक्षाभावात्। एतेन योग्यानुपलब्धिमाह। तत्र चायं तर्कः सहकारी-यद्यत्र घटोऽभविष्यत् भतलमिवाद्रक्ष्यत न च दृश्यते तस्मान्नास्तीति। सहकार्यन्तरमाह-भूतस्मृतेरिति। भूतस्य प्रतियोगिनो घटादेः स्मृतेरिति प्रतियोगिस्मरणमुक्तम् ॥ 6 ॥
</9-1-6>
<9-1-7>
प्रागभावे प्रध्वंसप्रत्यक्षताकारमतिदिशन्नाह–
तथाऽभावे भावप्रत्यक्षत्वाच्च ॥ 7 ॥
सामान्यवच्यप्ययमभावशब्दः प्रकरणात् प्रागभावपरः। यथा प्रध्वंसे प्रत्यक्षज्ञानं तथा प्रागभावेऽपि। कुतः? भावप्रत्यक्षत्वात्। भावस्य व्यूह्यमामानवीरणादेः प्रत्यक्षत्वात् प्रत्यक्षेण विषयीक्रियमाणत्वात्।
यद्वा भावस्याधिकरणस्य प्रतियोगिनश्च प्रत्यक्षत्वात् योग्यत्वादित्यर्थः। संसर्गाभावग्रहेऽधिकरणयोग्यतायाः। प्रतियोगियोग्यतायाश्च तन्त्रत्वात्। चकारात् प्रतियोगिस्मरणमुक्तञ्च तर्कं समुच्चिनोति। अनादेरपि प्रागभावस्यानन्तस्यापि प्रध्वंसस्याविशेषमात्रे प्रत्यक्षत्वम् ॥ 7 ॥
</9-1-7>
<9-1-8>
अन्योन्याभावस्य प्रत्यक्षतामाह–
एतेनाघटोऽगौरधर्मश्च व्याख्यातः ॥ 8 ॥
एतेनेति प्रतियोगिस्मरणाधिकरणग्रहणप्रागुक्ततर्कानतिदिशति। योग्यानुपलम्भः सर्वत्र समानः। चकार उक्तसमुच्चयार्थः। अधर्म इत्यतीन्द्रियस्यपि धर्मस्य सुखज्ञानादावधिकरणेऽन्योन्याभावस्य प्रत्यक्षतां वदन् अन्योन्याभावग्रहे प्रतियोगियोग्यता न तन्त्रं किन्त्वधिकरणयोग्यतामात्रं तन्त्रमित्युपदर्शयति। कथमन्यथा स्तम्भः पिशाचो न भवतीति पिशाचान्योन्याभावः स्तम्भे गृह्येत स्तम्भात्मतया पिशाचानुपलम्भस्य तदन्योन्याभावग्राहकत्वात्, तस्याप्यनुपलम्भस्य प्रतियोगिसत्त्वविरोधित्वात् स्तम्भे पिशाचतादात्म्ये सत्यनुपलम्भानुपपत्तेः। ननु पिशाचतादात्म्यमिह न प्रतियोगि, किन्तर्हि? पिशाचः स च स्तम्भे वर्त्तमानोऽपि गुरुत्ववन्नोपलभ्यते इति तदनुपलम्भः प्रतियोगिसत्त्वविरोधी न भवतीति चेन्न, प्रतियोग्यनुपलम्भवत् प्रतियोगितावच्छेदकानुपलम्भस्याप्यभावग्रहकारणत्वात्। ननु प्रतियोगित्वग्रहाधीनोऽन्योन्याभावग्रहः, प्रतियोगित्वञ्चान्योन्याभावविरहात्मत्वं ततश्चान्योन्याभावग्रहाधीन एवान्योन्याभावग्रह इति चेन्नाधिकरणावृत्तित्वेन ज्ञायमानो धर्म एव प्रतियोगितावच्छेदकत्वेनापि तद्ग्रहस्तन्त्रमित्युक्तत्वात् ॥ 8 ॥
</9-1-8>
<9-1-9>
अथेदानीमत्यन्ताभावप्रत्यक्षतामाह–
भूतमिदानीं नास्तीतिप्रतीतिर्ध्वंसमालम्बते भूतत्वं नोल्लिखति किन्त्विदं नास्तीतिमात्रोल्लेखिनी प्रत्यक्षप्रतीतिरत्यन्ताभावमालम्बते। अबूतमित्युत्पादविनाशालम्बनत्वं द्योतयति, अनर्थान्तरत्वमपि तदभिप्रायकमेव यथा जले पृथिवीत्वं नास्ति पृथिव्यां न जलत्वमिति। यदि हि जलावयविनि पृथिवीत्वं स्यात् उषलभ्येत न चोपलभ्यते तस्मान्नास्तीतित्तर्कपुरस्कारोऽत्रापि द्रष्टव्यः। एवञ्च यद्वस्तु यत्र न कदाऽपि भविष्यति न च कदाचिद् भूतं तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः। भूतभविष्यतोश्च तत्र प्रध्वंसप्रागभावालम्बन एव तत्राधिकरणे नास्तीति प्रत्ययः। अत एवायमात्यन्तिकस्त्रैकालिक इत्यभिधीयते ॥ 9 ॥
</9-1-9>
<9-1-10>
ननु गेहे घटाबावो नात्यन्ताभावः कदाचित्तत्र घटसत्त्वात्, नापि प्रागभावप्रध्वंसौ, तयोः समवायिकारणमात्रवृत्तित्वात्, नाप्युत्पादविनाशशीलोऽत्यन्ताभाव एव आत्यन्तिकश्चोत्पादविनाशशीलश्चेति विरोधात्, नापि चतुर्थ एवायं संसर्गाभावः, तस्य त्रैविध्यविभागव्याघातादित्यत आह–
नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः ॥ 10 ॥
गेहे घटस्य यः संसर्गः संयोगस्तस्य प्रतिषेधः, स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव, भविष्यतः प्रागभावो भूतस्य प्रध्वंसाभावः। तर्हि घटसंसर्गो गेहे नास्तीति–प्रतीत्या भवितव्य, मिति चेत् प्रतीत्या भवितव्यमिति कोऽर्थः? यदि तद्विषयया प्रतीत्या भवितव्यमित्यापादनार्थस्तदेष्टापत्तिः अथ तदुल्लेखिन्येति, तदा गेहे इत्यधिकरणोल्लेखस्यैव संसर्गोल्लेखपर्य्यवसानमाधारत्वस्यैव धर्मसम्बन्धाकारत्वात्. तत् किं घटस्तत्रास्त्येव। अस्त्येवेति कोऽर्थस्तत्र समवेतः संयुक्तो वा? नाद्यः समवेतघटस्य तत्राभावात्। न द्वितीयः संयोगस्य निषेधात्। नन्वेवं घटादीनां केवलान्वयित्वप्रसङ्गः, तत्संयोगसमवायान्तरस्यैव सर्वव निषेधादिति चेन्न, तदुभयनिषेधस्यैव घटनिषेधात्मकत्वात्। तत् किं घटस्तत्संयोगश्चेत्येकं तत्त्वं, येन घटसंयोगनिषेधो घटनिषेधः स्यात्, तत् किं घटस्तत्संयोगसमवायावेकं तत्त्वं, येन तद्विधिरेव घटविधिः स्यात्, न हि तौ यत्र निषेध्येते तत्र घटान्वयो येन केवलान्वयित्वं तस्य स्यात्, तथाच यस्य यो विधिस्तन्निषेध एव तन्निषेध इति। यद्वा घटस्य समवायितया गेहेऽत्यन्ताभाव एव, स एव गेहे घटो नास्तीति प्रतीतिविषयः, कपाले संयोगितयेव। एवं सति केवलान्वय्यत्यन्ताभावप्रतियोगितया घटोऽसन् स्यादिति चेत् भवेदेवं यदि संयोगित्वसमवायित्वाभ्यां सर्वत्रासत् स्यादिति भावः ॥ 10 ॥
</9-1-10>
<9-1-11>
प्रकरणान्तरमारभते–
आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् ॥ 11 ॥
ज्ञानमुत्पद्यते इति शेषः। द्विविधास्तावद्योगिनः समाहितान्तःकरणा ये युक्ता इत्यभिधीयन्ते, असमाहितान्तःकरणाश्च ये वियुक्ता इत्यभिधीयन्ते। तत्र युक्ताः–साक्षात्कर्त्तव्ये वस्तुन्यादरेण मनो विधाय निदिध्यासनवन्तः, तेषामात्मनि स्वात्मनि परमात्मनि च ज्ञानमुत्पद्यते। आत्मप्रत्यक्षमिति। आत्मा प्रत्यक्षः साक्षात्कारविषयो यत्र ज्ञाने तत्तथा। यद्यप्यस्मदादीनामपि कदाचिदात्मज्ञानमस्ति तथाप्यविद्यातिरस्कृतत्वात् तदसत्कल्पमित्युक्तमात्ममनसोः सन्निकर्षविशेषादिति। योगजधर्मानुग्रह आत्ममनसोः सन्निकर्षे विशेषस्तस्मादित्यर्थः ॥ 11 ॥
</9-1-11>
<9-1-12>
तत् किमात्मन्येव युक्तानां ज्ञानं तत् कुतः सार्वज्ञ्यमित्यत आह–
ज्ञानमुत्पद्यत इति प्रकरणायातम्। तथेति योगजधर्मानुगृहीतेनैव मनसा, द्रव्यान्तरेषु चतुर्ष्वणुषु मनसि वायुदिक्कालाकाशेषु, द्रव्यपदेन तद्गतगुणकर्मसामान्यानां विशेषपदार्थस्य समवायस्य प्रत्यक्षगतस्यापि गुरुत्वस्थितिस्थापकादेरात्मगतस्यापि जीवनयोनियत्ननिर्विकल्पकभावनाधर्माधर्मादेः सङ्ग्रहः सामग्र्या योगजधर्मोपग्रहस्य तुल्यत्वात् अन्यथा सार्वज्ञ्यमुक्तं न भवेत् ॥ 12 ॥
</9-1-12>
<9-1-13>
युक्तानां प्रत्यक्षं ज्ञानमभिधायेदानीं वियुक्तानामाह–
असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषाञ्च ॥ 13 ॥
असमाहितान्तःकरणा इत्यस्यैव व्याख्यानमुपसंहृतसमाधय इति। यद्वा कथमसमाहितान्तःकरणा इत्यत आह-उपसंहृतसमाधय इति। उपसंहृतो दूरीकृतः समाधिर्निदिध्यासनात्मको यैस्ते तथा। ते हिसमाधिप्रभावाद्विकरणधर्मा- अणिमाद्याः शरीरसिद्धीर्दूरश्रवणाद्याश्चेन्द्रियसिद्धीराप्तवन्तः समाधावप्यलंप्रत्ययमासादयन्तः “तावदेवास्य चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इत्यादि श्रतिसमधिगतकृत्यान्तराभावाः भोगमात्रस्य कर्त्तव्यतामाकलय्य तेषु तेषु प्रदेशेषु द्वीपोपद्वीपादिषु तेन तेन जन्मना तुरङ्गमातङ्गविहङ्गभुजङ्गादिना (यावदेव- चिरं यावत्) देवर्षिमानुषभावेन च पूर्वोपात्तान् कमशियानुपभुञ्ज्महे तावत् प्राप्तैव निरपाया भूमिरित्याकलयन्तः सकलमर्थजातं योगजधर्मबलोपबृंहितेन्द्रियशक्तयो व्यवहितं विप्रकृष्टञ्च प्रत्यक्षीकुर्वन्ति ॥ 13 ॥
</9-1-13>
<9-1-14>
ननु न तावत्तेषु मानसं ज्ञानं मनसो बहिरस्वातन्त्र्यात्, नापि बहिरिन्द्रियजन्यम् तेषां सम्बद्धवर्त्तमानार्थग्राहित्वात् यथायोगं रूपोद्भवादिसापेक्षत्वात् आलोकादिसव्यपेक्षत्वाच्चेत्याशङ्क्यकेषुचित् पदार्थेषु प्रत्यासत्तिमुपपादयन्नाह–
तत्समवायात् कर्मगुणेषु ॥ 14 ॥
प्रत्यक्षज्ञानं जायते इति शेषः। भौतिकानीन्द्रियाणि यदि सन्निकर्षमपेक्षन्ते तदा परमाण्वाकाशदिक्कालसमवेतेषु स्वमनःसंयोगिसमवायात् इतरद्रव्येषु च कायव्यूहोपभोगार्थोपगृहीतनानापण्डमनःसंयोगात् तत्संयुक्तसमवायात् तत्तद्द्रव्यगुणादिषु ज्ञानमुत्पद्यते। एतच्चोपपत्तिसौकर्यमनुरुध्योक्तम्।
वस्तुतो बाह्येन्द्रियेषु मनसि च योगज एव धर्मः प्रत्यासत्तिस्तत एव सर्वानुपपत्तिशान्तेः, अगस्त्यसमुद्रपानं दण्डकारण्यनिर्माणञ्चेति दृष्टान्तः ॥ 14 ॥
</9-1-14>
<9-1-15>
सत्तिः, नेत्याह–
आत्मसमवायादात्मगुणेषु ॥ 15 ॥
योगिनां प्रत्यक्षं ज्ञानमुत्पद्यते इति प्रकृतम्। आत्मसमवेतानान्तु बुद्ध्यादीनां संयुक्तसमवायादेव प्रत्यक्षे ज्ञानमुत्पद्यतेऽस्मदादीनामिवेति न तत्र सन्निकर्षान्तरापेक्षेत्यर्थः। तत्रेन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारिज्ञानं लौकिकालौकिकप्रत्यक्षम्, अर्थजं वा। साक्षात्त्वयोगिज्ञानं प्रत्यक्षमिति लौकिकालौकिकसाधारणम् ॥ 15 ॥
</9-1-15>
** इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे नवमाध्यायस्य प्रथमाह्निकम्।**
———————————————————
नवमाध्याये द्वितीयाह्निकम्।
<9-2-1>
तदेवं पूर्वाह्निके योगिप्रत्यक्षमयोगिप्रत्यक्षञ्च कारणतः स्वरूपतो लक्षणतश्च निरूपितम्। प्रमाणं द्विविधं प्रत्यक्षं लैङ्गिक़्चेति यद्विभक्तं तत्र लैङ्गिरुमिदानीं निरूपयितुमुपक्रमते–
अस्येदं कार्य्यं कारणं संयोगि विरोधि समवायि चेति सैङ्गिकम् ॥ 1 ॥
ज्ञानमिति प्रकृतम्। लिङ्गाज्जातं लैङ्गिकं व्याप्तिविशिष्टः पक्षधर्मो लिङ्गम्। तत्र व्याप्तिरुक्ता, यत्सिषाधयिषाविरोधिप्रमाणाबावो यत्र स तं प्रति पक्षः। तादृशं प्रमाणं साधकं भाधक़्च, तदुभयाभाववतः पक्षत्वात्। न हि साधके बाधके वा प्रमाणे सतिकस्यचित् संशयः सिषाधयिषा वा। अत एव सन्दिग्ध साध्यधर्मा धर्मी सिषाधयिषितसाध्यधर्मा धर्मी वा पक्ष इति प्राञ्चः।
उत्पाद्यसाध्यवत्तानिर्णयनिवर्त्यसंशयोत्पत्तिप्रतिबन्धकमानत्वावच्छिन्नाभावो यत्र स पक्ष इति जीवनाथमिश्राः। सिषाधयिषाविरहसहकृतसाधकमानाभावो यत्र स पक्ष इति केचित्। एतन्मते तु बाधस्थलेऽपि पक्षता। तदेतदनुमानमयूखे द्रष्टव्यम्। तदेतस्य पक्षस्य धर्मो लिङ्गमित्युक्तं भवति। लिङ्गञ्च दृष्टमनुमितं श्रुतं वा यदनुभवरूपं ज्ञानं जनयति तल्लैङ्गिकम्। तदुक्तम्–
अनुमेयेन सम्बद्धं प्रसिद्धञ्च तदन्विते।
तदभावे तु नास्त्येव तल्लिङ्गमनुमापकम् ॥ इति।
एतेन लिङ्गमेवानुमितिकरणं न तु तस्य परामर्शः, तस्य निर्व्यापारत्वेनाकरणत्वात्, लिङ्गस्य तु स एव व्यापार। यत्र धूमादेरतीतत्वमनागतत्वं वा तत्र कथमनुमितिरिति चेन्न, साध्यस्याप्यतीतानागतत्वयोस्तत्रानुमानात्, तत्रैव प्रतिबन्धात्. अतीतत्वमनागतत्वं वर्त्तमानत्वञ्च धूमादेर्यत्र न निश्चितं तत्र कथमनुमितिरिति चेत्, न कथञ्चित् तत्र साध्यस्यापि सन्देहात्। पूर्वापरदिनयोः सत्त्वनिश्चये मध्यन्दिने तु सन्देहे कथमनुमितिरिति चेत् तद्दिनावच्छिन्नधूमादिना तद्दिनावच्छिन्नवह्न्यादेरनुमानात्, तथैव व्याप्तेः कारणत्वावधारणात्। धूलीपटलात् कथं धूमभ्रमादनुमितिरिति चेत् व्याप्तत्वेन ज्ञातस्यैव लिङ्गत्वात् ज्ञानस्य च यायार्थ्यायाथार्थ्याभ्यामनुमितेस्ताद्रूप्यात्, अन्यथा तवापि कथं तत्र परामर्शः करणं स्यात्। अतीन्द्रियलिङ्गस्थले परामर्शस्य तदजन्यतया कथं तद्व्यापारत्वमिति चेत् तत्सत्तानिर्वाहकत्वरूपक्षैमिकसाधनतायास्तत्र व्यापारत्वघटकत्वात्, अन्यथा समवायस्य श्रवणादेर्व्यापारत्वानुपपत्तेरिति। कार्य्याल्लिङ्गात् धूमालोकादेरग्न्याद्यनुमानम्। कारणादपि यथा बधिरस्य भेरीदण्डसंयोगविशेषात् शब्दानुमानम्, यथा वा धार्मिकस्य यथाविधियागस्नानाद्यनुष्ठानाद्धर्मस्वर्गाद्यनुमानम्, यथाविधि कारीर्य्याद्यनुष्ठानाद्वा वर्षानुमानम्, पयःपूर्णनद्यादौ खन्यमानप्रवाहाद्वा जलनिःसरणानुमाम्, उपरिवृष्टिदर्शनाद्वा नदीवृद्ध्यनुमानम्। स चायं कार्य्यकारणभावलक्षणेकसम्बन्धः प्रकारद्वयेनोक्तः। संयोगिनः शरीरस्य दर्शनात्त्वगिन्द्रियानुमानम्। विरोधिनो विस्फूर्जतोऽहेर्दर्शनाज्झाटाद्यन्तरितनकुलानुमानम्। समवायिना जलौष्ण्येन तत्सम्बन्धतेजोऽनुमानम् ॥ 1 ॥
</9-2-1>
<9-2-2>
नन्वव्यापकमिदं परिसङ्ख्यानम्। न हि चन्द्रोदयेन समुद्रजलवृद्धेःजलप्रसादेनागस्त्योदयस्य-कुमुदप्रकाशेन चन्द्रोदयस्य-चतुर्दशनक्षत्रोदयेनापरचतुर्दशनक्षत्रास्तमयस्य-रसेन रूपस्य-रूपविशेषेण वा रसविशेषस्यानुमानमनेन संगृह्यते इत्यत आह–
अस्येदं कार्य्यकारणसम्बन्धश्चावयवाद्भवति ॥ 2 ॥
अस्येदमित्येतावदेव प्रयोजकं भवतीति, अस्य साधनस्य धूमादेरिदं साध्यं वह्न्यादि। यद्वाऽस्य वह्नयादेरिदं व्याप्यं धूमादि। तथाच व्याप्यत्वग्रहमात्रं तन्त्रं न तु कार्यकारणभावादिरपि। ननु पूर्वसूत्रे तर्हि परिसह्ख्यानमतन्त्रमत आह - कार्य्यकारणसम्बन्ध इति। अनेन चोक्तं सम्बन्धान्तरमप्युपलक्षयति। सम्बन्धपदे च विषयिलक्षणा, तेन सम्बन्ध इति सम्बन्धोपन्यास इत्यर्थः। कुतस्तदुपन्यास इत्यत आह-अवयवात् एकदेशात् उदाहरणमात्रात् ल्यब्लोपे पञ्चमी। तेनोदाहरणमनुरुध्य कार्य्यकारणभावादेः सम्बन्धस्योपन्यास इह दर्शने साङ्ख्यादिदर्शने च भवतीत्यर्थः।
एवं च स्वाभाविकसम्बन्धशालित्वं व्याप्यत्वम्। स्वाभाविकत्वं चानौपाधिकत्वम्। तच्च प्रत्यक्षाणां केषांचित् साध्याव्यपकत्वनिश्चयात्, केषांचित् साधनेव्यापकत्वनिश्चयादेवानुपाधित्वं ज्ञेयम्। अतीन्द्रियाणां च प्रमाणसिद्धानां केषांचिदुभयव्यापकत्वम् उभयाव्यापकत्वं साधनमात्रव्यापकत्वं साध्यमात्रव्यापकत्वं वा। तत्राद्ये साधनव्यापकत्वात् द्वितीये साध्याव्यापकत्वात् चतुर्थेऽपि साधनव्यापकत्वादेवानुपाधित्वं निश्येयम्। तृतीयेऽपि व्यापकस्य तन्मात्रव्यापकत्वानुपपत्तिरितरस्य तु कथं तन्मात्रव्यापकत्वमित्यत्र तर्कोऽनुसन्धेय इति तुल्ययोगक्षेमत्वादिनाऽनुपाधित्वमध्यवसेयम्। भविष्यति कश्चिदत्रोपाधिरितिशङ्कापिशाची सकलविधिनिषेधव्यवहारानास्कन्दतीत्यनादेयेत्यनौपाधिकत्वनिश्चयसम्भवात्। उपाधिलक्षणं व्याप्तिलक्षणं चोक्तम्।
तच्चानुमानं द्विविधं–स्वार्थं परार्थञ्च। तत्र स्वार्थं स्वयगेव व्याप्तिपक्षधर्मतयोरनुसन्धानात्। परार्थञ्च परोदीरितन्यायजन्यव्याप्तिपक्षधर्मताज्ञानात्। न्यायश्च तृतीयलिङ्गपरामर्शप्रयोजकशब्दज्ञानजनकवाक्यम्। तदवयवाश्च पञ्च। तत्रावयवत्वं तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानज्ञनकशाब्दज्ञानजनकवाक्यत्वम्। तानि च वाक्यानि प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि।
तत्र प्रतिज्ञा- उद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकं न्यायावयववाक्यम्। हेतुश्च प्रकृतसाधनगतपञ्चम्यन्तो न्यायावयवः। उदाहरणन्तु प्रकृतसाध्यसाधनाविनाभावप्रतिपादको न्यायावयवः। उपनयश्चाविनाभावविशिष्टस्य हेतोः पक्षवैशिष्ट्यप्रतिपादको न्यायावयवः। निगमनन्तु पक्षे प्रकृतसाध्यवैशिष्ट्यप्रतिपादको न्यायावयवः। एवं च प्रवर्त्तते न्याय-शब्दोऽनित्यः कृतकत्वात्, यद् यत् कृतकं तदनित्यम्, अनित्यत्वव्याप्यकृतकत्ववांश्चायम्, तस्मादनित्यः।
एतेषामेव प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नाया इत्यन्वर्था वैशेषिकाणां सज्ञाः। अत्र च वादजल्पवितण्डानां प्रवृत्तिप्रकारश्छलजातिनिग्रहस्थानलक्षणानि च वादिविनोदेऽन्वेष्टव्यानि ॥ 2 ॥
</9-2-2>
<9-2-3>
प्रमाणान्तराणि लैङ्गिकेऽन्तर्भावयितुं प्रकरणान्तरमारभते–
एतेन साब्दं व्याख्यातम् ॥ 3 ॥
शाब्दं शब्दकरणकं ज्ञानमिदमिति यन्नैयायिकादीनामभिमतं तदप्येतेन लैङ्गिकत्वेन लिङ्गप्रभवत्वेनैव व्याख्यातम्। यथा व्याप्तिपक्षधर्मताप्रतिसन्धानापेक्षं लैङ्गिकं तथा शाब्दमपि। तथाहि एते पदार्थाः मिथः संसर्गवन्तः आकाङ्क्षादिमद्भिः स्मारितत्वात् गामभ्याजेति पदार्थसार्थवत्। तत्र हि आकाङ्क्षादिमत्त्पदकदम्बमारिस्तत्वं पदार्थानां मिथः संसर्गवत्त्वव्याप्यं गृहीत्वैव संसर्गवत्त्वमनुमिनोति किं कल्पनीयप्रमाणभूवेन शब्देन। ननु नदीतीरे पंच फलानि सन्तीत्यनाप्तवाक्ये व्यभिचारान्नेदमनुमानमिति चेन्न, आप्तोक्तत्वेनापि विशेषणात्, आप्तत्वं हि प्रकृतवाक्यार्थगोचरयथार्थवाक्यार्थज्ञानवत्त्वं न त्वप्रतारकत्वमात्रम्, तच्च वाक्यार्थप्रतीतेः पूर्वं दुर्ग्रहमिति चेन्न, शब्दप्रामाण्यवादिभिरपि व्यभिचारिशब्दव्यावर्त्तकस्याप्तोक्तत्वस्य ग्राह्यत्वेनाभिमतत्वात्। तेषां प्रामाण्यग्रहणार्थं तदपेक्षा, शाब्दन्तु ज्ञानं तद्ग्रहमनत्रेणाप्युपपद्यते, तव तु यादृशं लिङ्गं तादृशग्रहणमावश्यकम्, व्याप्यन्त्वाप्तोक्तत्वविशिष्टमिति चेन्न, अयमत्राभ्रान्त इति सामान्यतो ग्रहणसम्भवात्। नन्वत्रेति प्रकृतसंसर्गे इत्येव पर्य्यवस्यति तथाच पूर्वमशक्यमेव तद्ग्रहणमिति चेन्न, प्रकरणसमभिव्याहारादिमाहात्म्यात् सामान्यत आप्तत्वनिश्चयसम्भवेन लिङ्गनिश्चयसम्भवात्, कदाचित्तत्र विसंवादेऽपि वाष्पादौ धूमधर्मेणेवानुमानप्रवृत्तेः।
नन्वेते पदार्थाः संसृष्टा एवेति वा साध्यम् सम्भावितसंसर्गा इति वा? नाद्यः, अनाप्तोक्ते व्यभिचारात्, न द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गानिश्चयान्निष्कम्पप्रवृत्त्यनुपपत्तेः, योग्यतायाश्च पूर्वमेव हेतुविशेषणत्वेन ज्ञातत्वात् किमनुमानेनेति चेन्न, नियमस्यैव साध्यत्वात् आप्तोक्तत्वेन विशेषणाच्च न व्यभिचार इत्युक्तत्वात्।
नन्वाकाङ्क्षा श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, स च स्वरूपसन्नेव हेतुस्तज्ज्ञाने च संसर्गज्ञानस्य पूर्वमेव भावादनुमानवैयर्थ्यमिति चेन्न, न हि संसर्गावगमप्रागभावमात्रमाकाङ्क्षां ब्रूमः। किं तर्हि? स्मारिततदाक्षिप्ताविनाभावविशिष्टम्, तथा च विशेषणांशज्ञानादेवाकाङ्क्षाया ज्ञानात्। तर्हि तावदेवाकाङ्क्षाऽस्त्विति चेन्न, विमल जलं नद्याः कच्छे महिषश्चरतीत्यत्रापि नदीकच्छयोरविनाभावसत्त्वेनान्वयबोधापत्तेः, नीलमुत्पलमित्यत्र नीलोत्पलयोरविनाभावाभावेऽपि तदाक्षिप्तयोर्द्रव्यगुणयोरविनाबावसम्भवात्।
यद्वा पदस्मारितगोचरा जिज्ञासैवाकाङक्षा अभिधानापर्य्यवसानं वा। तथापि तज्ज्ञानमावश्यकं ज्ञायमानकारणे ज्ञानोपयुक्तव्यभिचारिवैलक्षण्यात् व्याप्तवत्। अत एवानन्वयनिश्चयविरहो वा, बाधकप्रमाणाभावो वा, सजातीये दर्शनं वा, इतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावाप्रतियोगित्वप्रमाविशेष्यत्वं वा योग्यताऽस्तु, तज्ज्ञानमावश्यकम्। आसत्तेरप्यव्यवधानेन स्मरणरूपाया ज्ञानं तन्त्रम्। संसर्गे च संसृज्यमानविशेषादेव विशेष इति नानभिमतविशेषसिद्धिः।
यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षायोम्यतासत्तिमत्पदकदम्वत्वात् गामभ्याजेति पदकदम्बवदित्यनुमानात् ज्ञानावच्छेदकतयाऽबिमतविशेषसिद्धिः।
यत्तु एतानि पदानि स्मारितार्थसंसर्गवन्तीति साध्यम्, तत् पदानां पदार्थसंसर्गवत्त्वं बाधितमित्युपेक्षणीयम्। न च लिङ्गतया संसर्गज्ञापकत्वमेव पदानां संसर्गवत्त्वम्, तस्यानुमानात् पूर्वमसिद्धत्वेन व्याप्तेरग्रहात्।
केचिच्चेष्टा प्रमाणान्तरामिति वदन्ति।
तत्रोच्यते–चेष्टा द्विविधा कृतसमयाऽकृतसमया च। तत्र कृतसमया अभिप्रायस्थं शब्दं स्मारयति न तु संसर्गप्रमामपि जनयति लिपिवत्, स्मृत्यारूढः शब्द एव तत्र प्रमाणं शब्दस्य च लिङ्गत्वमुक्तम्। न च शब्दस्मरणं चेष्टाया अवान्तरव्यापारः, चेष्टामन्तरेणापि शब्दार्थप्रत्ययात् व्यापारत्वे तु चेष्टानैयत्यापत्तेः। नन्वेवं कथमेडमूकस्य चेष्टाधीनो व्यवहारः? तस्य तत्रसमयग्रहाभावादिति चेन्न, तस्य चेष्टातः कथमर्थेऽपि संप्रत्यय इति चिन्तनीयत्वात् तस्यार्थेऽपि सङ्गतिग्रहाभावात्। व्यवहारस्तु तस्याविनाभावग्रहात् करितुरगयोरिव कशाङ्कुशाभिघातात्तत्तद्व्यवहारपाटवोपपत्तेः।
अकृतसमया तु या कृत्यान्वयिनी सा प्रयोजकाभिप्रायं स्मारयन्ती प्रयोज्यं प्रवर्त्तयति, न तु कुत्रचित् प्रमां जनयति। यथा शङ्खध्वनौ त्वया गन्तव्यमिति श्रुतशङ्खध्वनिः प्रतिष्ठते, तता यदा मया तर्जन्यूर्ध्वीक्रियते तदा त्वयाऽसौ ताडनीय इति तदा ताडयति, न तु किञ्चित् प्रमिणोति। ज्ञप्त्यन्वयिनी त्वकृतसमया यथा-दशानामङ्गुलीनामूर्ध्वकरणेन दश सङ्ख्या मुद्राणां पुराणानां वा त्वया ज्ञातव्येति-कारकप्रधाना। हस्ताकुञ्चनदर्शनात्त्वया समागन्तव्यमिति क्रियाप्रधाना। तथाचानया चेष्टया पदार्था एव स्वतन्त्राः परं स्मार्य्यन्ते न तु तेषां परस्परमन्वयोऽपि बोध्यते, तद्बोधककर्तृकर्मादिविभक्तिवत् प्रकृते चेष्टैकदेशानां नियतानामभावात्। तर्हि संसर्गबोधमन्तरेण चेष्टातः कथं प्रवृत्तिनिवृत्ती इति चेत् संशयप्रतिभयोरन्यतरस्मादिति गृहाण। तस्मान्न चेष्टाऽपि प्रमाणमितिं ॥ 3 ॥
</9-2-3>
<9-2-4>
ननु शब्दः कथं लिङ्गं शब्दस्यापदेशस्वभावत्वेन लिङ्गभिन्नत्वादित्याशङ्क्याह–
हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् ॥ 4 ॥
अपदिश्यते कथ्यतेऽनेनार्थ इत्यपदेशः शब्दः, स च हेतुलिङ्गपर्य्याय एव प्रमाणमिति। लिङ्गविधया प्रमाकरणमित्यर्थः। एवं करणशब्दोऽपि लैङ्गिकज्ञानकरणे लिङ्ग एव वर्त्तते। द्वयी करणगतिः, किञ्चित् सन्निकर्पाधीनप्रवृत्ति किञ्चिच्चाविनाभावबलप्रवृत्ति। शब्दस्य तु अर्थेन न सन्निकर्षो नाप्यविनाभाव इति कथमर्थं गमयेत्। सङ्केताद् गमयतीति चेत् सङ्केतो हि पदार्थे न तु तत्संसर्गे। तत्रापि सङ्केत इति चेन्न, तस्यानेकविधत्वेन सङ्केतविषयभावानुपपत्तेः। पदार्थसङ्केतबलादेव वाक्यार्थोऽपि भासते इति चेन्न, अन्यसङ्केतेनान्योपस्थितावतिप्रसङ्गात्, शब्दस्मारितसंसर्गत्वेन नियम इति चेत् तथाचैतन्नियमबलेनानुमानस्यैव लब्धावसरत्वात्। सङ्केतस्यापि इच्छामात्रत्वेनाति प्रसक्तत्वात्। ईश्वरेच्छा नातिप्रसक्तेति चेन्न, तदिच्छामन्तरेणापि गङ्गादिपदात्तीराद्युपस्थितेरित्यलं नैयायिकेषु धृष्टतयेति ॥ 4 ॥
</9-2-4>
<9-2-5>
उपमानादीनामपि पराभिमतानाम् अविनाभावबलप्रवृत्तिकानां लैङ्गिक एवान्तर्भाव इति प्रतिपादयितुमाह–
अस्येदमिति बुद्ध्यपेक्षितत्वात् ॥ 5 ॥
उपमानार्थापत्तिसम्भवाभावानामिति शेषः। अस्य व्यापकस्य इदं व्याप्यमित्याकारा या बुद्धिः सा जनकत्वेनापेक्षिता येषां ते तदपेक्षितास्तस्य भावस्तदपेक्षितत्वं तस्मादित्यर्थः। आहिताग्निपाठात् क्तान्तेन बहुव्रीहिः, तारकादिपाठादितो वा ॥
तत्रोपमानं तावदनुमानमेव शब्दद्वारा। तथाहि गोसदृशो गवय इति वाक्यन्तावत् आरण्यकेन कीदृक् गवय इति नागरिकजिज्ञासायामभिधीयते तत्र यो गोसदृशः स गवयशब्दवाच्य इति सामानाधिकरण्यबलात् अतिदेशवाक्यश्रवणानन्तरमेव परिच्छिनत्ति, वनं गतस्तु तादृश पिण्डमुपलभ्यायमसौ गवयशब्दवाच्य इति प्रतिसन्धत्ते। अतिदेशवाक्यश्रवणसमये गवयत्वं प्रवृत्तिनिमित्तं न ज्ञातमतः कथं संज्ञापरिच्छेद इति चेत् लक्षणया तत्प्रतीतिसम्भवात्। गोसदृशो गवय इति वाक्येऽन्वयानुपपत्तिविरहात् कथं लक्षणेति चेत् तात्पर्य्यानुपपत्तेः सत्त्वात्, न हि व्युत्पित्सुं प्रति गोसादृश्यस्य सखण्डस्य प्रवृत्तिनिमित्तत्वेनोपदर्शनमनुचितं तस्मादखण्डजातिविशेषे तात्पर्यमस्येति लक्षणामम्भवात्।
यद्वा गवयशब्दो गवयवाचकः असति वृत्त्यन्तरे शिष्टैस्तत्र प्रयुज्यमानत्वात्, असति वृत्त्यन्तरे यः शब्दो यत्र शिष्टेः प्रयुज्यते स तस्य वाचको यथा गोशब्दो गोरित्यनुमानादेव गवयसंज्ञां परिच्छिनत्ति। तर्कश्च यस्त्वयोपमानसहकारी वाच्यः स वरमनुमाने क्लृप्तप्रमाणभावेऽस्तु किं कल्पनीयप्रमाणभावेनोपमानेनेति, अनुमानमयूखे विस्तरोऽत्रान्वेष्टव्यः।
अर्थापत्तिरप्यनुमानमेव। तथाहि दृष्टाथषित्तिस्तावज्जोवतश्चैत्रस्य गृहासत्त्वेन दृढतरप्रमाणावधृतेन बहिःसत्त्वं कल्पयति। तत्रोपपाद्योपपादकयोर्व्याप्यव्यापकभावावधारणाधीनैव बहिःसत्त्वप्रतीतिः, भवति हि जीवतो गृहीसत्त्वं बहिःसत्त्वेन सहचरितं, बहिःसत्त्वं विना जीवतो गृहासत्त्वमनुपपन्नमिति वा ज्ञानम्। तत्राद्येऽन्वयव्याप्तिरेवान्त्ये तु व्यतिर्कव्याप्तेरेव ग्रह इति। व्याप्तिरस्ति न तस्य ग्रहणमिहोपयुज्यते इति चेत् व्याप्तिग्रहमन्तरेणार्थापत्त्याभासानवकाशात्, स्वरूपसत्या व्याप्त्या वस्तुतो यदुपपादकं तस्यैव कल्पना स्यादिति दिक्। संशयकरणिकाया विरोधकरणिकायाश्चानुमानान्तर्भाव ऊहनीयः। विरोधस्यापि सहानवस्थाननियमलक्षणस्य व्याप्तिघटितत्वात्। श्रुतार्थापत्तिरप्यनुमितानुमानं-पीनो देवदत्तो दिवा न भुङ्क्ते इत्यनेन वाक्येन पीनत्वमनुमितं तेन च पीनत्वेन रात्रिभोजनानुमानम्-देवदत्तो रात्रौ भुङ्क्ते दिवाऽभोजित्वे सति पीनत्वासम्भवादिति।
सम्भवोऽप्यनुमानमेव, तदुदाहरणं हि–सम्भवति खार्य्यां द्रोणः सम्भवति द्रोणे आढकम् सम्भवति सहस्रे शतमित्यादि तत्रेयं खारी द्रोणवती तद्धटितत्वात् यद्येन घटितं तत्तेन तद्वत्, यथाऽवयववान् घटः। एवमन्यदप्यूह्यम्। यत्तु सम्भवति ब्राह्मणे विद्या-सम्भवति क्षत्रिये शौर्य्यमित्यादि, तत्प्रमाणमेव न भवति अनिश्चायकत्वात्।
अभावोऽपि न मानान्तरं कार्य्येण कारणानुमानवत् कार्य्याभावेन कारणाभावानुमानस्य व्याप्तिमूलकत्वेनानुमान एवान्तर्भवात्।
भट्टमते तु भूतलादावभावग्राहकं प्रमाणमनुपलम्भाख्यम्। यत् क्वचित् प्रत्यक्षे क्वचिच्चानुमानेऽन्तर्भूतं चक्षुरादिनैवाभावग्रहात्। न चेन्द्रियमधिकरणग्रह एवोपक्षीणम्, अभावग्रहपर्य्यन्तं तद्व्यापारसत्त्वात्।
ऐतिह्यमविज्ञातप्रवक्तृकं प्रवादपारम्पर्य्यम्। इति हेति निपातसमुदायः पुरावृत्ते वर्त्तते, तस्य भाव एतिह्यम्। तत् यदि बाधितार्थं न भवति तदा शब्दान्तर्निवेशादनुमानम्। यदिह वटे यक्षो मधूकतरौ गौरीत्यादि, तद् यद्याप्तोक्तं तदा पूर्ववत्। नाप्तोक्त्चेत्तदा न प्रमाणम्। तदेवं प्रत्यक्षमनुमानञ्चेति सिद्धं द्वयमेव प्रमाणमिति ॥ 5 ॥
</9-2-5>
<9-2-6>
लैङ्गिकं व्याख्याय इदानीं प्रकरणान्तरमारभते–
आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः ॥ 6 ॥
उत्पद्यत इति शेषः। संयोगविशेषः प्रणिधानादिसन्निधानम्। एतस्मादसमवायिकारणादात्मनि समवायिनि स्मृतिर्विद्याविशेष उत्पद्यते। निमित्तकारणमाह–संस्कारादिति। चकारेण व्यापारी पूर्वानुभवः समुच्चीयते। अनुभवयाथार्थ्यायाथार्थ्यमियमनुविधत्ते, रज्जुं भुजङ्गतयोपलभ्य पलायितस्य तथैव स्मृतेः। न च सततं स्मृतिप्रसङ्गः, संस्कारोद्बोधाधीनत्वात् तदुक्तं प्रशस्तदेवपादैः–“लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्ययजनिताच्च संस्काराद्दृष्ट श्रुतानुभूतेषु शेषानुव्यवसायस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिः” इति।
आर्षं ज्ञानं सूतर्कृता पृथङ् न लक्षितं योगिप्रत्यान्तर्भावितम्। पदार्थप्रदेशाख्ये तु प्रकरणे तदुक्तं तद्यथा-“आम्नायविधातॄणामृषीणामतीतानागतवर्त्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेषु लिङ्गाद्यनपेक्षादात्ममनसोः संयोगाद्धर्मविशेषाच्च प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम्” इति। तच्च कदाचिल्लौकिकानामपि भवति यथा `कन्यका वदति श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति’ ॥ 6 ॥
</9-2-6>
<9-2-7>
तदेवं चतुर्विधां विद्यां व्युत्पाद्य इदानीमविद्यां व्युत्पादयितुमर्हति। तत्र संशयविपर्य्ययौ प्रसङ्गात् पूर्वमेव निरूपितौ, स्वप्नं निरूपयितुमाह–
तथा स्वप्नः ॥ 7 ॥
यथाऽऽत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिस्तथा स्वप्नज्ञानमपीत्यर्थः। उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रिण्द्वारेण यदनुभवनं मानसम्, तत् स्वप्नज्ञानम्।
तच्च त्रिविधम्। किञ्चित् संस्कारपाटवात् कामी क्रुद्धो वा यमर्थमादृतश्चिन्तयन् स्वपिति तस्य तस्यामवस्थायां प्रत्यक्षाकारं ज्ञानं पुराणादिश्रवणजनितसंस्कारवशाज्जायते कर्णार्जुनीयं युद्धमिदमित्याकारम्। किञ्चिद्धातूनां वातपित्तश्लेष्मणां दोषात्। तत्र वातदोषादाकाशगमनः वसुन्धरापर्य्यटन-व्याग्रादिभयपलायनादीनि पश्यति। पित्तोपचयदोषमहिम्ना वह्निप्रवेश-वह्निज्वालालिङ्गन-कनकपर्वत-विद्युल्लताविस्फुरण-दिग्दाहादिकं पश्यति। श्लेष्मदोषप्राबल्यात्तु समुद्रसन्तरण-नदीमज्जन-धारासारवर्षण-रजतपर्वतादि पश्यति। अदृष्टवशादपि तज्जन्मानुभूतेषु जन्मान्तरानुभूते वा सिद्धोप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते, तत्र शुभावेदकं धर्मात् गजारोहण-पर्वतारोहण-छत्रलाभपायसभक्षण-राजसन्दर्शनादिविषयकम्। अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहण-पङ्कमज्जन-स्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते। त्रयाणां मिलितानामेवात्र कारणत्वं गुणप्रधानभावमाश्रित्यायं विभागो द्रष्टव्यः ॥ 7 ॥
</9-2-7>
<9-2-8>
ननु यज्ज्ञानं स्वप्नमध्ये स्वप्नज्ञानानुभूतस्यैवार्थस्य स्मृतिरूपं जायते तत्र स्वप्नत्वं न वर्त्तते स्वप्नस्यानुभवरूपत्वात् तथा च कस्मात् कारणात्तदुत्पत्तिरित्यत आह–
स्वप्नान्तिकम् ॥ 8 ॥
तथेति पूर्वसूत्रादनुवर्त्तते। तेनात्ममनसोः संयोगविशेषात् संस्काराच्च यथा स्वप्नस्तथा स्वप्नान्तिकमपीत्यर्थः। एतावानेव विशेषो यत् स्वप्नज्ञानं पूर्वानुभवजनितात् संस्करात्, स्वप्नान्तिकन्तु तत्कालोत्पन्ननुभवजनितसंस्कारादेव। तदुक्तं प्रशस्तदेवाचार्य्यैः–“अतीतज्ञानप्रत्यवेक्षणात् स्मृतिरेव”
इति। उक्तञ्च वृत्तिकारैः–“अनुभूतवस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वप्नज्ञानम्” इति।
स्वप्नमध्ये प्रमाभूतं यज्ज्ञानं तत् त्वप्नान्तिकमिति केचित्। यथा शय्यायां शयानोऽस्मीत्यादि ॥ 8 ॥
</9-2-8>
<9-2-9>
स्वप्नस्वप्नान्तिकयोः कारणं समुच्चिनोति–
धर्माच्च ॥ 9 ॥
अधर्मसमुच्चयार्थश्चकारः। कृतव्याख्यानमेतत् ॥ 9 ॥
</9-2-9>
<9-2-10>
इदानीं पर्य्यायमधिकृत्याह–
इन्द्रियदोषात् संस्कारदोषाच्चाविद्या ॥ 10 ॥
अविद्येति सामान्यवाच्यपि पदं विपर्य्यये वर्त्तते प्रकरणात् संशयस्वप्नानध्यवसायानामुक्तत्वात्। तत्रेन्द्रियदोषो वातपित्ताद्यभिभवकृतमपाटवम्। संस्कारदोषो विशेषादर्शनसाहित्यं तदधीनं हि मिथ्याज्ञानं जायते ॥ 10 ॥
</9-2-10>
<9-2-11>
अविद्यासामान्यलक्षणमाह–
तदित्यव्ययपदं सर्वनामसमानार्थकमविद्यां परामूशति। साऽविद्या दुष्टज्ञानं–व्यभिचारिज्ञानमतस्मिंस्तदिति ज्ञानं-व्यधिकरणप्रकारावच्छिन्नं–विशेष्यावृत्तिप्रकारकमिति यावत्। दोषश्च ज्ञानस्यानिश्चयरूपत्वमपि। तेनैककोटिसत्त्वेऽपि संशयो दुष्ट एवानवधारणात्मकत्वात्। तदनेन संशयविपर्य्ययस्वप्नानध्यवसायानाञ्चतुर्णामप्युपग्रहः ॥ 11 ॥
</9-2-11>
<9-2-12>
अदुष्टं विद्या ॥ 12 ॥
ज्ञानमित्यनुवर्त्तते। अदुष्टमदुष्टेन्द्रियजन्यं यत्र यदस्ति तत्र तदनुभवो वा समानाधिकरणप्रकारानुभवो वा विशेष्यावृत्त्यप्रकारकानुभवो वा विद्येत्यर्थः। तच्चाध्यक्षं लैङ्गिकञ्च द्वयमेव ॥ 12 ॥
</9-2-12>
<9-2-13>
नन्वार्षमपि ज्ञानं समानाधिकरणप्रकारकमेव तच्च नेन्द्रियजन्यमसन्निकृष्टार्थगोचरत्वात्। न लैङ्गिकं लिङ्गानुसन्धानमन्तरेण जायमानत्वात्। तथा चैतत्करणं तृतीयं प्रमाणमायातसत आह–
आर्षं सिद्धदर्शनञ्च धर्मेभ्यः ॥ 13 ॥
ऋषीणां गालवप्रभृतीनां यदतीतानागतविषयकं ज्ञानं तदार्षम्। यच्च सिद्धानां मन्त्रौषधिगुटिकाञ्जनादिना व्यवहितविप्रकृष्टार्थगोचरज्ञानं प्रतिसिद्धिगतानां यद्दर्शनं तदुभयं धर्मेभ्यो यथार्थसाक्षात्कारि ज्ञानं जायते। तद्योगिप्रत्यक्षेऽन्तरमिति वृत्तिकृतः। आर्षं ज्ञानं चतुर्थी विद्यैव, सा च ऋषीणां लौकिकानाञ्च भवति। तच्च मानसं प्रत्यक्षमेव उत्प्रेक्षासहकृतेन मनसा जनितं नियमसन्दर्शनादि-लिङ्गजनितं वा। प्राग्भवीयसंस्काराधीनैवात्र व्याप्तिधीः, स्तनपानेष्टसाधनताव्याप्तिग्रहवत्।
प्रशस्ताचार्य्यास्तु सिद्धदर्शनं न ज्ञानान्तरमित्याहुः। तथा हि यदि सिद्धानां गुटिकाञ्जनादिसिद्धिनिमित्तप्रभवं व्यवहितविप्रकृष्टविषयं तदुच्यते तदा प्रत्यक्षमेव। यदि तु दिव्यान्तरीक्षभौमानां ग्रहनक्षत्रसञ्चारादिनिमित्ताधीनं तदा तल्लैङ्गिकमेव तथा सहचारदर्शनेन व्याप्तिपरिच्छेदादिति ॥ 13 ॥
</9-2-13>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे नवमाध्यायस्य द्वितीयामाह्निकम्।
** समाप्तश्चायं नवमोऽध्यायः।**
—————————————————
** दशमाध्याये प्रथमाह्निकम्**
<10-1-1>
आत्मगुणानां कारणतो भेदव्युत्पादनं दशमाध्यायार्थः। तत्र “आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” अo 1 आo 1 सूo 9 इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखाभिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःखयोरेव प्रथमं भेदमाह–
इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः ॥ 1 ॥
सुखदुःखयोर्मिथः परस्परमर्थान्तरभावो भेदो वैजात्यमिति यावत्। कुत इत्यत आह-इष्टानिष्टकारणविशेषात् इष्टं इष्यमाणं स्रक्चन्दनविनतादि अनिष्टमनिष्यमाणमहिकण्टिकादि तद्रूपं यत् कारणं तस्य विशेषाद्भेदात्, कारणवैजात्याधीनं कार्य्यवैजात्यमावश्यकं यतः। भेदकान्तरमाह–विरोधात् सहानवस्थानलक्षणात् न ह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः। चकारादनयोः कार्य्यभेदे भेदकं समुच्चिनोति। तथाहि–अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य, दैन्यमुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः. तदुक्तं प्रशस्ताचार्य्यैः-“अनुग्रहलक्षणं सुखं स्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्मनसोः संयोगाद् यदनुग्रहाभिष्वङ्गनयनादिप्रमोदजनकमुत्पद्यते तत् सुखम्” इति। तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजमनागतेषु सङ्कल्पजम्। गौतमीये सूत्रे सु चापरिगणनं वैराग्याय सुखमपि दुःखत्वेन भावयतो वैराग्यं स्यादेतदर्थमिति ॥ 1 ॥
<10-1-2>
नन्वास्तां सुखदुखे परस्परं भिन्ने ज्ञानादभिन्ने स्यातां स्मृत्यनुभववदित्यत आह–
संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः ॥ 2 ॥
सुखदुःकयोर्ज्ञानान्तरत्वे ज्ञानभिन्नत्वे संशयनिर्णयाभ्यन्तरत्वाभावो हेतुर्लिङ्गमित्यर्थः। तदयमर्थः-सुखं दुःखं वा ज्ञानं भवत् संशयरूपं वा स्यात् निर्णयरूपं वा? नाद्यः कोटिद्वयानुल्लेखित्वात्। न द्वितीयः एककोट्यनुल्लेखित्वात्। तथा च यावद्विशेषबाधात् सामान्यबाधः। द्वावेव हि ज्ञानस्य विशेषौ संशयत्वं निर्णयत्वञ्च, तदुभयञ्च सुखे दुःखे च बाधितमिति ज्ञानत्वमपि तत्र बाधितम्। चकरादनुभावबाधं समुच्चिनोति। सुखदुःखयोरहं सुखी दुःखीति मानसोऽनुभवो न त्वहं जाने सन्देह्यि निश्चिनोमीत्याकारोऽनुभव इति ॥ 2 ॥
<10-1-3>
भेदकान्तरमाह–
तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ॥ 3 ॥
तयोः संशयनिर्णययोर्निष्पत्तिरुत्पत्तिः प्रत्यक्षाल्लिङ्गाच्च सुखं दुःखं वा न प्रत्यक्षसामग्रीजन्यं न वा लिङ्गजन्यम्। चतुर्विधं हि सुखं-वैषयिकं मानोरथिकम् आभिमानिकमाभ्यासिकञ्च। तत्र त्रयाणामन्द्रियसन्निकर्षप्रभवत्वं नास्त्येव। प्रथममिन्द्रियार्थसन्निकर्षजत्वात् ज्ञानं स्यादिति चेन्न सामग्र्येकदेशस्य कार्य्यस्य साजात्यानापादकत्वात् अन्यथा दिक्कालसाधारण्येन सकलकार्य्यैकजात्यापत्तेः। किञ्च इन्द्रियार्थसन्निकर्षादुत्पद्यमानं सुखं निर्विकल्पकं वा स्यात् सविकल्पकं वा? नाद्यः अतीन्द्रियत्वप्रसङ्गात्। न द्वितीयः विशेष्यविशेषणभावेन द्वयोरना कलनरूपत्वात्। किञ्च सुखदुःखयोरवश्यसंवेद्यत्वात् ज्ञानस्यावश्यसंवेद्यत्वेऽनवस्थाप्रसङ्गात्। लैङ्गिकमिति लिङ्गमेव वैषयिकवत्।
वृत्तिकृतस्तु तयोर्ज्ञानसुखयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां प्रत्यक्षलैङ्गिकज्ञानव्याख्यानाभ्यां व्याख्याता। प्रत्यक्षं ज्ञानमिन्द्रियजम्, लैङ्गिकन्तु लिङ्गजम्, सुखादिकन्तु नैतादृशमिति व्याचक्रुः ॥ 3 ॥
<10-1-4>
लैङ्गिकज्ञानात् सुखादेः प्रकारभेदाधीनं भेदमाह–
अभूदित्यपि ॥ 4 ॥
इतिशब्दः प्रकारे। अपिशब्दो भविष्यतीत्याकारान्तरसमुच्चये। तथा च पर्वते वह्निरभूद्भविष्यति वेति लैङ्गिके ज्ञानेऽतीतादिः प्रकारो दृश्यते, न चैवंप्रकारं सुखं दुःखं वोत्पद्यमानमुपलब्धम् ॥ 4 ॥
<10-1-5>
भेदकान्तरं समुच्चिनोति–
सति च कार्य्यादर्शनात् ॥ 5 ॥
सति इन्द्रियार्थसन्निकर्षे सति च व्याप्तिपक्षधर्मतादिप्रतिसन्धाने कार्य्यस्य सुखस्य दुःखस्य वाऽदर्शनात् न प्रत्यक्षमात्रं सुखं दुःखं वा, न लैङ्गिकमात्रं वा। तदयमर्थः–ज्ञानसामान्यं तावत् सुखदुःखे न भवत इत्युक्तम्। ज्ञानविशेषः प्रत्यक्षज्ञानं वा भवेदनुमितिरूपं वा? इन्द्रियार्थसन्निकर्षे स्रकचन्दनादिप्रत्यक्षे सुखत्वानुभवाभावात्। न द्वितीयः, चन्दनाद्यनुमितौ बन्ह्याद्यनुमितौ वा सुखत्वदुःखयोरननुभवान्न तद्विशेषोऽपीति ॥ 5 ॥
<10-1-6>
भेदकान्तरमाह–
एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ॥ 6 ॥
सुखदुःखयोरिति शेषः। शुखं प्रति एकार्थसमवेतानि असाधारणकारणानिधर्मः सुखे रागः सुखकारणेच्छा तदुपादानयत्नः स्रक्चन्दनादिज्ञानम्। दुःखं प्रति तु–अधर्मः अनिष्टकण्टकादिज्ञानम्, एषु एकार्थसमवायिषु कारणेषु दृष्टत्वादित्यर्थः। ज्ञानन्तुनिर्विकल्पकमेकार्थसमवेतमसाधारणकारणं नापेक्षत एव। सविकल्पकन्त्वपेक्षते विशेषणज्ञानं तत्तु कारणान्तरं स्वविजातीयकारणं न भवति, मनःसंयोगस्तु साधारणत्वादविवक्षितः। यद्यपि स्मृतिः संस्कारमसाधारणमपेक्षते तथापि तद्भेदास्फुटसिद्ध एवेत्यनुभवमादाय भेदचिन्तनात्। लैङ्गिके यद्यपि व्याप्तिस्मृतिपक्षधर्मतादिज्ञानापेक्षा तथाप्यन्तरशब्देनैव तद्व्युदासः। तदयं प्रमाणार्थः-सुखदुःखे अनुभवभिन्ने स्वसमानाधिकरणस्वजातीयासाधारणकारणजन्यत्वात् स्मृतिवदाद्यशब्दवच्च ॥ 6 ॥
<10-1-7>
ननु यदि कारणभेदाधीनो ज्ञानात् सुखदुःखयोः सुखाच्च दुःखस्य स्तम्भकुम्भादिवदेव परस्परं भेदः, स्यात्, तत्र हि परमाणुद्व्यणुकादीनां लोहितरेतसोर्वा कारणानामविशेषादित्यत आह–
एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषेभ्यः ॥ 7 ॥
एकदेश इति। अवयवे इत्यर्थः। एकस्मिन्निति शरीरे इत्यर्थः। शिर इत्येकदेशः उदरं पृष्ठं मर्माणि च स्नायुप्रभृतीनि तेषां विशेषो वैज्यात्यम्, तद्विशेषेभ्य स्तत्कारणविशेषेभ्यः। तत्रावि कारणवैजात्यादेव वैजात्यम्, न हि यज्जातीयं शिरःसमवायिकारणं तज्जातीयमेवोदरपृष्ठादेरपि, तन्तुकपालाद्युपादानवैजात्यात् पटघटादौ वैजात्यवत् तत्रापि वैजात्यसम्भवात्। तन्तुकपालादेरपि अंशुशर्करादिवैजात्यात्। एवं तत्र तत्राप्यन्वेष्टव्यम्। परमाणनां साधारण्येऽपि त्वत्वीपादानवैजात्यस्य सर्वत्र वैजात्यप्रयोजकत्वात्। द्रव्यत्वेन तूपादानसाजात्यं न वैजात्यप्रयोजकमिति दिक् ॥ 7 ॥
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे दशमाध्यायस्य प्रथममाह्निकम्॥
———————————————————————-
दशामाध्याये द्वितीयाह्निकम्
<10-2-1>
इदानीं प्रसङ्गतस्वयाणां कारणानां विशेषविवेचनमारभते–
कारणमिति द्रव्ये कार्य्यसमवायात् ॥ 1 ॥
कारण समवायिकारणमिदमिति-प्रतीतिप्रयोगौ द्रव्ये द्रष्टव्यौ। कुत एवमत आह-कार्य्यसमवायात्। कार्याणि द्रव्यगुणकर्माणि तत्रैव समवेयन्ति यतः ॥ 1 ॥
<10-2-2>
तत् किं समवायिकारणत्वमात्रं द्रव्याणामत आह–
संयोगाद्वा ॥ 2 ॥
पटोत्पत्तौ तन्तूनां समवायिकारणत्ववत् निमित्तकारणत्ववत् निमित्तकारणत्वमपि तुरीतन्तुसंयोगस्यापि पटकारणत्वात्, तत्संयोगद्वारा तुर्य्यास्तन्तोश्च पटनिमित्तकारणत्वमपि। वाकारः समुच्चये। तुरीतन्तुसंयोगं प्रति तन्तोः समवायिकारणत्वेऽपि पटं प्रति तद्द्वारा निमित्तकारणत्वात् ॥ 2 ॥
<10-2-3>
कर्मणि यादृशकारणत्वं तदाह–
कारणे समवायात् कर्माणि ॥ 3 ॥
असमवायिकारणानीति शेषः। असमवायिकारणत्वञ्च कार्यकारणभावसम्बन्ध्येकार्यसमवेतकारणत्वम्। तच कार्यैकार्थसमवायात् कारणैकार्थसमवायाद्वा। तत्राद्या लध्वी द्वितीया महतीतिवैरोषिकपरिभाषा। तत्र कया प्रत्यासत्त्या संयोगविभागसंस्कारान् प्रति कर्मणामसमवायिकारणत्वमित्यत आह-कारणे समवायात्। कारणे संयोगादिसमवायिकारणे समवायात्, तथाच कार्यैकार्यसमवायलक्षणया लध्व्या प्रत्यासत्त्या संयोगादौ कर्मणोऽसमवायिकारणत्वमित्यर्थः ॥ 3 ॥
<10-2-4>
रूपादीनां गुणानामवयववर्त्तिनामवयविगुणादिषु कीदृशी कारणतेत्यपेक्षायामाह–
तथा रूपे कारणैकार्थसमवायाच्च ॥ 4 ॥
रूप इति। रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वगुरुत्वस्नेहाद्युपलक्षयति। तथेत्यसमवायिकारणत्वमतिदिशति। कारणैकार्थसमवायादिति। अवयविरूपादीनां समवायिकारणं यदवयवि तेन सहैकार्थसमवायेन महत्या प्रत्यासत्त्याऽवयविरूपादिकमारभते, तद् यथा कपालरूपादि घटे रूपादिकमारभते इति सर्वत्रद्रष्टव्यम्। चकारादमीषां क्वचिन्निमित्तत्वमपि समुच्चिनोति ॥ 4 ॥
<10-2-5>
द्रव्यारम्भे संयोगस्यासमवायिकारणस्य लध्वीं प्रत्यासत्तिमाह–
कारणसमवायात् संयोगः पटस्य ॥ 5 ॥
कारणे समवायिकारणे समवायात् संयोगोऽपि पटादौ कार्य्ये कार्य्यैकार्थसमवायलक्षणया प्रत्यासत्त्याऽसमवायिकारणमित्यर्थः। पटपदेन कार्य्यद्रव्यकारणैकार्थसमवायोऽपीति कश्चित् ॥ 5 ॥
<10-2-6>
संयोगस्य क्वचित् महत्या प्रत्यासत्त्या कारणत्वमित्याह–
कारणकारणसमवायाच्च ॥ 6 ॥
तूलपिण्डावयवे वर्त्तमानः प्रचयाख्यः संयोगस्तूलकपिण्डे महत्त्वमारभते तत्र कारणैकार्थसमवायः प्रत्यासत्तिरित्यर्थः ॥ 6 ॥
<10-2-7>
एवं समवायिनिरूपितां कारणतां निरूप्य निमित्तकारणतां निरूपयितुं प्रकरणान्तरमारभते–
संयुक्तसमवायादग्नेर्वैशेषिकम् ॥ 7 ॥
अग्नेर्वैशेषिकं विशेषगुणमौष्ण्यं संयुक्तसमवायात् पाकजेषु निमित्तकारणम्। उपलक्षणञ्चैतत् ज्ञानं प्रतिसर्वेषां निमित्तकारणत्वं, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वमेव। सुखादीनां बेदप्रतिपादनाय प्रपञ्चोऽयंद्रष्टव्यः ॥ 7 ॥
<10-2-8>
इदानीमाम्नायप्रामाण्यं द्रढयितुमुक्तमेवार्थमाह–
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय ॥ 8 ॥
दृष्टानां-प्रमाणत उपलब्धानां कर्मणां यागदानस्नानादीनां, दृष्टप्रयोजनानां-दृष्टमुपदिष्टं प्रयोजनं येषां, तथाहि “स्वर्गकामो यजेत” “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यादौ विधिसमभिव्याहृतमेव फलम्, क्वचिदार्थवादिकं यथा “य एता रात्रीरधीयीत तस्य पितरो, घुतकुल्या मधुकुल्याः क्षरन्ति” इत्यादौ, क्वचिच्चौपादानिकम् यथा “विश्वजिता यजेत” इत्यादौ, अत्र हि न विधिसमभिव्याहृतं नार्थवादोरस्थितमित्यौपादानिकं–काल्पनिकं स्वर्गस्यैव त्वतःसुन्दरस्य फलस्य कल्पनीयत्वात्, तथा चाशुतरविनाशितामेतेषां कर्मणां चिरभाविने फलाय कारणत्वमनुपपद्यमानमत एवेषां प्रयोगोऽनुष्ठानमभ्युदयायापूर्वायेत्यर्थः। ननु श्रुतुप्रामाण्ये सति स्यादेवं तदेव तु दुर्लभम्, न हि मीमांसकानामिव नित्यनिर्दोषत्वेन श्रुतिप्रामाण्यं त्वयेष्यते, गैरुषेयत्वेनाभ्युपगमात्, पुरुषस्य च भ्रमप्रमादविप्रलिप्सादिसम्भवादत् आह-दृष्टाभाव इति। दृष्टं पुरुषान्तरेऽस्मदादौ, भ्रमप्रमादविप्रलिप्सादिकं पुरुषदूषणं तदभावे सतीत्यर्थः। क्षितिकर्तृत्वेन वेदवक्तृत्वेन वाऽनुमितस्य पुरुषधौरेयस्य निर्दोषत्वेनैवोपस्थितेः। तताच तद्वचसां न निरभिधेयता न विपरीताभिधेयता न निष्प्रयोजनाभिधेयता, भूतेन्द्रियमनसां दोषात् भ्रमप्रमादकरणापाटवादिप्रयुक्ता एव वचनसामविशुद्धयः सम्भाव्यन्ते. न चेश्वरवचसि तासां सम्भवः, तदुक्तम्
रागाज्ञानादिभिर्वक्ता ग्रस्तत्वादनृतं वदेत्।
ते चेश्वरे न विद्यन्ते स ब्रूयात् कथमन्यथा ॥ इति ॥ 8 ॥
<10-2-9>
ननु तेनेश्वरेण वेदः प्रणीत इत्यत्रैव विप्रतिपत्तिरत आह–
तद्वचनादाम्नायस्य प्रामाण्यमिति ॥ 9 ॥
इति शास्त्रपरिसमाप्तौ। तद्वचनात्तेनेश्वरेण वचनात् प्रणयनादाम्नायस्य वेदस्य प्रामाण्यम्। तथाहि वेदास्तावत् पौरुषेया वाक्यत्वदिति साधितं न चास्मदादयस्तेषां सहस्रशाखावच्छिन्नानां वक्तारः सम्भाव्यन्ते, अतीन्द्रियार्थत्वात्, न चातिन्द्रियार्थदर्शिनोऽस्मदादयः। किञ्चाप्तोक्ता वेदा महाजनपरिगृहीतत्वात्, यन्नाप्तोक्तं न तन्महाजनपरिगृहीतं महाजनपरिगृहीत़ञ्चेद तस्मादाप्तोक्तम्। स्वतन्त्रपुरुषप्रणीतत्वञ्चाप्तोक्तत्वम्। महाजनपरिगृहीतत्वञ्च सर्वदर्शंनान्तःपातिपुरुषानुष्ठीयमानार्थत्वाम्। क्वचित् फलाभावः कर्मकर्तृसाधनवेगुण्यादित्युक्तम्। कर्तृस्मरणाभावान्नैवमिति चेन्न, कर्तृस्मरणस्य पूर्वमेव साधितत्वात्। तत्प्रणीतत्वञ्च स्वतन्त्रपुरुषप्रणीतत्वादेव सिद्धम्, न त्वस्मदादीना सहस्रसाखवेदप्रणयने स्वातन्त्र्यं सम्भवतीत्युक्तत्वात्। किञ्च प्रमाया गुणजन्यत्वेन वैदिकप्रमाया अपि गुणजन्यत्वमावश्यकम्। तत्र च गुणो वक्तृयथार्थवाक्यार्थज्ञानमव वाच्यः, तथा च तादृश एव वेदे वक्ता, यः स्वर्गापूर्वादिविषः यकसाक्षात्कारवात्, तादृशश्च नेश्वरान्य इति सुष्ठु ॥ 9 ॥
अकृत भवानीतनयो भवनाथसुतो भवार्चने निरतः।
पतं कणादसूत्रोपस्कारं शङ्करः श्रीमान्॥
श्लाघास्पदं यद्यपि नेतरेषामियं कृति- स्यादुपहासयोग्या।
तथापि शिष्यैर्गुरुगौरवेण परस्सहस्रैः समुपासनीया॥
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे दशमाध्यायस्य द्वितीयमाह्निकम्।
समाप्तश्चायं दशमाध्यायः।
समाप्तञ्चेदं शास्त्रम्।
————–
]