प्रशस्तपादभाष्यम् । ० ०
प्रणम्य हेतुमीश्वरं
मुनिं कणादमन्वतः । १ १
पदार्थधर्मसङ्ग्रहः
प्रवक्ष्यते महोदयः ॥ १ १
द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानम् {५ वैधर्म्याभ्यां तत्त्व} निःश्रेयसहेतुः ॥ २ १(६)
तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादेव ॥ २ १(७)
अथ के द्रव्यादयः पदार्थाः किं च तेषां साधर्म्यं वैधर्म्यं चेति ॥ २ २(८)
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसञ्ज्ञयोक्तानि {५ सञ्ज्ञोक्तानि} नवैवेति {५ नवैव} । तद्व्यतिरेकेणान्यस्य सञ्ज्ञानभिधानात्{५ तद्व्यतिरेकेण सञ्ज्ञान्तरानभिधानात्} ॥ २ २(८)
गुणाश्च {५ गुणाः} रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्चेति कण्ठोक्ताः सप्तदश । चशब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादूष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिर्गुणाः {५ चतुर्विंशतिगुणाः} ॥ २ २(१०)
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । गमनग्रहणाद्भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्पवननमनोन्नमनादयो गमनविशेषा न जात्यन्तराणि ॥ २ २(११)
सामान्यं द्विविधं परमपरं चानुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता, महाविषयत्वात्सा चानुवृत्तेरेव हेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरम्, अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाख्यामपि लभते ॥ २ २(११)
नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ॥ २ २(१३)
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्धः ’िहऽप्रत्ययहेतुः स समवायः ॥ २ २(१४)
एवं धर्मैर्विना धर्मिणामुद्देशः कृतः ॥ २ २(१५)
षण्णामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि ॥ २ ३(१६)
आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः ॥ २ ३(१६)
द्रव्यादीनां पञ्चानां समवायित्वमनेकत्वं च ॥ २ ३(१६)
गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे ॥ २ ३(१६)
द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धह्, सामान्यविशेषवत्त्वम्, स्वसमयार्थशब्दाभिधेयत्वम्, धर्माधर्मकर्तृत्वं च ॥ २ ३(१७)
कार्यत्वानित्यत्वे कारणवतामेव ॥ २ ३(१७)
कारणत्वं चान्यत्र पारिमाण्डल्यादिभ्यः ॥ २ ३(१८)
द्रव्याश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः ॥ २ ३(१८)
सामान्यादीनां त्रयाणां स्वात्मसत्त्वम्, बुद्धिलक्षणत्वम्, अकार्यत्वम्, अकारणत्वम्, असामान्यविशेषवत्त्वम्, नित्यत्वम्, अर्थशब्दानभिधेयत्वं चेति ॥ २ ३(१९)
पृथिव्यादीनां नवानामपि द्रव्यत्वयोगह्, स्वात्मन्यारम्भकत्वं गुणवत्त्वम्, कार्यकारणविरोधित्वम्, अन्त्यविशेषवत्त्वम् ॥ ३(२०)
अनाश्रितत्वनित्यत्वे चान्यत्रावयविद्रव्येभ्यः ॥ ३(२१)
पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्त्वे ॥ ३(२१)
क्षितिजलज्योतिरनिलमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वानि ॥ ३(२१)
आकाशकालदिगात्मनां सर्वगतत्वम्, परममहत्त्वम्, सर्वसम्योगिसमानद्सत्वं च ॥ ३(२२)
पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्वबाह्यैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि ॥ ३(२२)
चतुर्णां द्रव्यारम्भकत्वस्पर्शवत्त्वे ॥ ३(२४)
त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वानि ॥ ३(२४)
द्वयोर्गुरुत्वं रसवत्त्वं च ॥ ३(२४)
भूतात्मनां वैशेषिकगुणवत्त्वम् ॥ ३(२४)
क्षित्युदकात्मनां चतुर्दशगुणवत्त्वम् ॥ ३(२५)
आकाशात्मनां क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् ॥ ३(२५)
दिक्कालयोः पञ्चगुणवत्त्वं सर्वोत्पत्तिमतां निमित्तकारणत्वं च ॥ ३(२५)
क्षितितेजसोर्नैमित्तिकद्रवत्वयोगः ॥ ३(२५)
एवं सर्वत्र साधर्म्यं विपर्ययाद्वैधर्म्यं च वाच्यमिति द्रव्यासङ्करः ॥ ३(२६)
इहेदानीमेकैकशो वैधर्म्यमुच्यते ॥ ४ ०(२७)
पृथिवीत्वाभिसम्बन्धात्पृथिवी । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती । ४ १(२७)
एते च गुणविनिवेशाधिकारे रूपादयो गुणविशेषाः सिद्धाः । ’चाक्षुषऽवचनात्सप्तसङ्ख्यादयः । पतनोपदेशाद्गुरुत्वम् । ’द्भिः सामान्यऽवचनाद्द्रव्यत्वम् । ’ुत्तरकर्मऽवचनात्संस्कारः । ४ १(२७)
क्षितावेव गन्धः । रूपमनेकप्रकारं शुक्लादि । रसः षड्विधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरबिह्श्च । स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः । ४ १(२७)
सा तु द्विविधा । नित्या चानित्या च । परमाणुलक्षणा नित्या । कार्यलक्षणा त्वनित्या । सा च स्थैर्याद्यवयवसन्निवेशविशिष्टाऽपरजातिबहुत्वोपेता शयनासनाद्यनेकोपकारकरी च । त्रिविधं चास्याः कार्यम् । शरीरेन्द्रियविषयसञ्ज्ञकम् ॥ ४ १(२७)
शरीरं द्विविधम् । योनिजमयोनिजं च । तत्रायोनिजमनपेक्ष्य शुक्रशोणितं देवर्षीणां धर्मविशेषसहितेभ्योऽणुभ्यो जायते । ४ १(२७)
क्षुद्रजन्तूनां यातनाशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते । शुक्रशोणितसन्निपातजं योनिजम् । तद्विविधं जरायुजमण्डजं च । माणुषपशुमृगाणां जरायुजम् । पक्षिसरीसृपाणामण्डजम् ॥ ४ १(२८)
इन्द्रियं गन्धव्यञ्जकं सर्वप्राणिनां जलाद्यनभिभूतैः पार्थिवावयवैरारब्धं घ्राणम् । ४ १(२८)
विषयस्तु द्व्यणुकादिक्रमेणारब्धस्त्रिविधो मृत्पाषाणस्थावरलक्षणः । तत्र भूप्रदेशाः प्राकारेष्टकादयः मृत्प्रकाराः । पाषाणा उपलमणिवज्रादयः । स्थावरास्तृणौषधिवृक्षगुल्मलतावतानवनस्पतय इति ॥ ४ १(२८)
अप्त्वाभिसम्बन्धादापः । रूपरसस्पर्शद्रवत्वस्नेहसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यः । ४ २(३५)
पूर्ववदेषां सिद्धिः । ४ २(३५)
शुक्लमधुरशीता एव रूपरसस्पर्शाः । स्नेहोऽम्भस्येव सांसिद्धिकं च द्रवत्वम् । ४ २(३५)
ताश्च पूर्ववद्द्विविधाः । नित्यानित्यभावात् । तासां तु कार्यं त्रिविधम् । शरीरेन्द्रियविषयसञ्ज्ञकम् । ४ २(३६)
तत्र शरीरमयोनिजमेव वरुणलोके, पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । ४ २(३६)
इन्द्रियं सर्वप्राणिनां रसव्यञ्जकं विजात्यनभिभूतैर्जलावयवैरारब्धं रसनम् । ४ २(३६)
विषयस्तु सरित्समुद्रहिमकरकादिः ॥ ४ २(३६)
तेजस्त्वाभिसम्बन्धात्तेजः । रूपस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वसंस्कारवत् । ४ ३(३८)
पूर्ववदेषां सिद्धिः । ४ ३(३९)
तत्र शुक्लं भास्वरं च रूपम् । उष्ण एव स्पर्शः । ४ ३(३९)
तदपि द्विविधमणुकार्यभावात् । कार्यं च शरीरादित्रयम् । ४ ३(३९)
शरीरमयोनिजमादित्यलोके, पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । ४ ३(३९)
इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमन्यावयवानभिभूतैस्तेजोऽवयवैरारब्धं चक्षुः । ४ ३(३९)
विषयसञ्ज्ञकं चतुर्विधम् । भौमं दिव्यमुदर्यमाकरजं च । तत्र भौमं काष्ठेन्धनप्रभवमूर्ध्वज्वलनस्वभावं पचनदहनस्वेदनादिसमर्थं दिव्यमबिन्धनं सौरविद्युदादि भुक्तस्याहारस्य रसादिपरिणामार्थमुदर्यमाकरजं च सुवर्णादि । ४ ३(३९)
तत्र सम्युक्तसमवायाद्रसाद्युपलब्धिरिति ॥ ४ ३(३९)
वायुत्वाभिसम्बन्धाद्वायुः । स्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्कारवान् । ४ ४(४४)
स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजः । गुणविनिवेशात्सिद्धः । ’रूपिष्वचाक्षुषऽवचनात्सप्त सङ्ख्यादयः । तृणकर्मवचनात्संस्कारः । ४ ४(४४)
स चायं द्विविधोऽणुकार्यभावात् । ४ ४(४४)
तत्र कार्यलक्षणश्चतुर्विधः शरीरमिन्द्रियं विषयः प्राण इति । ४ ४(४४)
तत्रायोनिजमेव शरीरं मरुतां लोके पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । ४ ४(४४)
इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् । ४ ४(४४)
विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गस्तिर्यग्गमनस्वभावो मेघादिप्रेरणधारणादिसमर्थः । ४ ४(४४)
तस्याप्रत्यक्षस्यापि नानात्वं सम्मूर्च्छनेनानुमीयते । सम्मूर्च्छनं पुनः समानजवयोर्वाय्वोर्विरुद्धदिक्क्रिययोः सन्निपातः । सोऽपि सावयविनोर्वाय्वोरूर्ध्वगमनेनानुमीयते; तदपि तृणादिगमनेनेति ॥ ४ ४(४४)
प्राणोऽन्तह्सेरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदादपानादिसञ्ज्ञां लभते ॥ ४ ४(४४)
इहेदानीं चतुर्णां महाभूतानां सृष्टिसंहारविधिरुच्यते । ५(४८ ७)
ब्राह्मणे मानेन वर्षशतान्ते {५ वर्षशतस्यान्ते} वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारखिन्नानाम् {५ संसारे खिन्नानाम्} सर्वप्राणिनां निशि विश्रामार्थं सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसम्योगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्सम्योगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः {किर् । } ५(४८ ८)
तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् {५ उत्तरस्मिंश्च} सति पूर्वस्य पूर्वस्य {५ पूर्वपूर्वस्य} विनाशः ततः प्रविभक्ताः परमाणवोवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धा आत्मानस्{५ आत्मानश्च} तावन्तमेव कालम् । ५(४८ १५)
ततः पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरम् {५ महेश्वरस्य सिसृक्षानन्तरम्} सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्सम्योगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसम्योगेभ्यो द्व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । ५(४८ १९)
तदनन्तरं तस्मिन्नेव वायावाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति तदनन्तरं तस्मिन्नेव {५ तस्मिन्नेव जलनिधो } पार्थिवेभ्यः परमाणुभ्यो {? द्व्याणुकादिप्रक्रमेणोत्पन्न } महापृथिवी {५ अद्द्स्समुत्पन्ना} संहतावतिष्ठते । ५(४९ १)
तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्योऽणुभ्यो द्व्यणुकादिप्रक्रमेणोत्पन्नो महांस्तेजोराशिः केनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति । ५(४९ ५)
एवं समुत्पन्नेन्षु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात्तैजसेभ्योऽणुभ्यः {१ तैजसाणुभ्यः} पार्थिवपरमाणुसहितेभ्यो {१ पार्थिवादिपरमाणुसहितेभ्यो} महदण्डमारभ्यते {५ उत्पद्यते} तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । ५(४९ ७)
स च महेश्वरेण विनियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः {६ ज्ञानवैराग्यभोगायुषः} सुतान् प्रजापतीन्मानसान्मौदेवर्षिपितृगणान्मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि च सृष्ट्वाशयाणुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः सम्योजयतीति ॥ ५(४९ ११)
आकाशकालदिशामेकैकत्वाद्परजात्यभावे {६ साजात्यभावे} पारिभाषिक्यस्तिस्रः सञ्ज्ञा भवन्ति । आकाशः {५ आकाशम्} कालो दिगिति । तत्राकाशस्य गुणाः शब्दसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागाः । ६ १(५८ ५)
शब्दः {५ तत्र इत्यधिकम्} प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादयावद्द्रव्यभावित्वादाश्रयादन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुणः । बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायादहङ्कारेण विभक्तग्रहणाच्च नात्मगुणः । ६ १(५८)
श्रोत्रग्राह्यत्वाद्वैशेषिकगुणभावाच्च न दिक्कालमनसाम् । परिशेषाद्{६;४ पारिशेष्यात्} गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् । शब्दलिङ्गाविशेषाद्{१ शब्दलिङ्गाविस्षत्वा} एकत्वं सिद्धम् । ६ १(५८)
तदनुविधानादेकपृथक्त्वम् {५ विधानात्पृथक्त्वम्; २ विधानादेव पृथक्त्वम्} । विभववचनात्परममहत्परिमाणम् {१ महत्परिमाणम्} । शब्दकारणत्ववचनात्{५ शब्दकारणवचनात्} सम्योगविभागाविति । ६ १(५८)
अतो गुणवत्त्वाद्{६ गुणवचनवत्वा} अनाश्रितत्वाच्च द्रव्यम् । समानासमानजातोयकारणाभावाच्च नित्यम् । सर्वप्राणिनां च शब्दोपलब्धौ निमित्तम् {५ शब्दोपलम्भेकनिमित्तम्; १ शब्दोपलब्धिनिमित्तम्} श्रोत्रभावेन । ६ १(५८)
श्रोत्रं पुनः श्रवणविवरसञ्ज्ञको नभोदेशः {६ नभह्प्रदेशः} शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धस्तस्य च नित्यत्वे सत्युपनिबन्धकवैकल्याद्बाधिर्यमिति ॥ ६ १(५८)
कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गम् । तेषां विषयेषु पूर्वप्रत्ययविलक्षणानाम् {६ प्रत्ययानामित्यधिकम्} उत्पत्तावन्यनिमित्ताभावाद्यद्{६ निमित्तासम्भवाद्} अत्र निमित्तं स कालः । ६ २(६३ १५)
सर्वकार्याणाम् {५;६ सर्वकार्याणामुत्पत्ति} चोत्पत्तिस्थितिविनाशहेतुस्तद्व्यपदेशात् । क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्त्वयनसंवत्सरयुगकलपमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः {५ हेतुश्च} । ६ २(६३)
तस्य गुणाः सङ्ख्यापरिमाणपृथक्त्वसम्योगविभागाः । काललिङ्गाविशेषादेकत्वं सिद्धम् । तदनुविधानात्पृथक्त्वम् । कारणे काल इतिवचनात्परममहत्परिमाणम् । कारणपरत्वादिवचनात्{५ कारणमहत्त्वा} सम्योगः । ६ २(६३)
तद्विनाशकत्वाद्विभाग इति । तस्याकाशवद्द्रव्यत्वनित्यत्वे सिद्धे {नोत्सेएनिन् १} काललिङ्गाविशेषादञ्जसैकत्वे[म्ऽ]पि सर्वकार्याणाम् {५ पूर्वभूतकार्याणाम्} आरम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपपाधिभेदान्मणिवत्पाचकवद्वा नानात्वोपचार इति ॥ ६ २(६४)
दिक्पूर्वापरादिप्रत्ययलिङ्गा । मूर्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येष्वेतस्मादिदम् {५ द्रव्येषु तस्मादिदम्} पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण {५ दक्षिणपश्चिमेन पश्चमोत्तरेण} उत्तरपूर्वेण चाधस्तादुपरिष्टाच्चेति {५ उपरिष्टादिति} दश प्रत्यया यतो भवन्ति {५ प्रत्ययान्ना? भवति; ६ प्रत्यया भवन्ति यतः} सा दिगिति । ६ ३(६६ २०)
अन्यनिमित्तासम्भवात् । ६ ३(६६)
तस्यास्तु गुणाः सङ्ख्यायपरिमाणपृथक्त्वसम्योगविभागाः कालवदेते सिद्धाः । दिग्लिङ्गाविशेषादञ्जसैकत्वेऽपि दिशः परममहर्षिभिः {६ परमर्षिभिः } श्रुतिस्मृतिलोकसंव्यवहारार्थम् {५ लोकव्यवहारार्थम्} मेरुं प्रदक्षिणमावर्तमानस्य भगवतः सवितुर्ये सम्योगविशेषाः लोकपालपरिगृहीतदिक्प्रदेशानाम् {५ सम्योगास्तेषां लोकपाल} अन्वर्थाः प्राच्यादिभेदेन दशविधाः सञ्ज्ञाः कृताः अतो {५ ततो} भक्त्या दश दिशः सिद्धाः । ६ ३(६७)
तासामेव देवतापरिग्रहात्{६ परिगृहीतत्वात्; ५ परिग्रहवशात्} पुनर्दश सञ्ज्ञा भवन्ति । {६ तद्यथा} माहेन्द्री वैश्वानरी याम्या {५ यामो} नैरृती वारुणी वायव्या कौवेरी {५ वायवो चान्द्रमसी} ऐशानी ब्राह्मी नागी चेति । ६ ३(६७)
आत्मत्वाभिसम्बन्धादात्मा । तस्य सौक्ष्म्यादप्रत्यक्षत्वे सति {५ऽपि} करणैः शब्दाद्युपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते । वास्यादीनाम् {६;७ वास्यादीनामिव} करणानां कर्तृप्रयोज्यत्वदर्शनात्{१ प्रयोज्यत्व} शब्दादिषु प्रसिद्ध्या च प्रसाधकोऽनुमीयते । ६ ४(६९ ६)
न शरीरेन्द्रियमनसामज्ञत्वात्{५ अज्ञानत्वात्; १ न शरीरेन्द्रियमनसां चैतन्यमज्ञत्वात्} । न शरीरस्य चैतन्यं घटादिवद्भूतकार्यत्वात्मृते चासम्भवात् । नेन्द्रियाणां करणत्वातुपहतेषु विषयासान्निध्ये चानुस्मृतिदर्शनात्{१ चात्र स्मृति} । ६ ४(६९)
नापि मनसः करणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात्{५ युगपदालोचनानुस्मृति} स्वयं करणभावाच्च । परिशेषाद्{५;६ पारिशेष्याद्} आत्मकार्यत्वात्{६ आत्मकार्यं ज्ञानम्} तेनात्मा समधिगम्यते शरीरसमवायिनीभ्यां च हिताहितप्राप्तिपरिहारयोग्याभ्यां प्रवृत्तिनिवृत्तिभ्याम् {१ प्रवृत्तिनिवृत्तिभ्यां नोत्सेएन्} रथकर्मणा सारथिवत्प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते प्राणादिभिश्चेति । ६ ४(६९)
कथं शरीरपरिगृहीते {५ विगृहीते} वायौ विकृतकर्मदर्शनाद्भस्त्राध्मापयितेव निमेषोन्मेषकर्मणा नियतेन दारुयन्त्रप्रयोक्तेव देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात्{६ संरौहणाभ्याम्} ६ ४(६९)
गृहपतिरिव अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनह्कर्मणा गृहकोणेषु पेलकप्रेरक इव {५ गृह?कोणव्यवस्थितपेलक इव प्रेरक इव} दारकः नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनादनेकगवाक्षान्तर्गतप्रेक्षकवद्{५ प्रेरक} उभयदर्शी कश्चिदेको विज्ञायते । ६ ४(७०)
सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते ते च न शरीरेन्द्रियगुणाः {५ विशेषगुणाः} कस्मादहङ्कारेणैकवाक्यताभावात्प्रदेशवृत्तित्वादयावद्द्रव्यभावित्वाद्बाह्येन्द्रियाप्रत्यक्षत्वाच्{५ ग्राह्यत्वा} च तथाहंशब्देनापि पृथ्श्श्दिव्यादिशब्दव्यतिरेकादिति । ६ ४(७०)
तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागाः । आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः {६ प्रयत्नान्ताश्च प्रसिद्धाः} । ६ ४(७०)
धर्माधर्मावात्मान्तरगुणानामकारणत्ववचनात्संस्कारः स्मृत्युत्पत्तौ कारणवचनात् । व्यवस्थावचनात्{५ वचनाभिसम्बन्धात्} सङ्ख्या पृथक्त्वमप्यत एव {१ मत एव} तथा चात्मेतिवचनात्परममहत्परिमाणम् । ६ ४(७०)
सन्निकर्षजत्वात्सुखादीनां सम्योगः । तद्विनाशकत्वाद्विभाग इति ॥ ६ ४(७०)
मनस्त्वयोगान्मनः । सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात्करणान्तरमनुमीयते । श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात्बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरभावाच्चान्तह्करणम् । ६ ५(८९ ८)
तस्य गुणाः सङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्काराः । प्रयत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वं सिद्धम् । पृथक्त्वमप्यत एव । तदभाववचनादणुपरिमाणम् । ६ ५(८९)
अपसर्पणोपसर्पणवचनात्सम्योगविभागौ । मूर्तत्वात्परत्वापरत्वे संस्कारश्च । अस्पर्शवत्त्वाद्द्रव्यानारम्भकत्वम् । क्रियावत्त्वान्मूर्तत्वम् । साधारणविग्रहवत्त्वप्रसङ्गादज्ञत्वम् । ६ ५(८९)
करणभावात्परार्थम् । गुणवत्त्वाद्द्रव्यम् । प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारि चेति ॥ ६ ५(८९)
इति प्रशस्तपादभाष्ये द्रव्यपदार्थः ॥ ६ ०(८९)
अथ गुणपदार्थनिरूपणम् । ७ ०(९४ ५)
रूपादीनां गुणानां सर्वेषां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निर्गुणत्वं निष्क्रियत्वम् ॥ ७ ०(९४ ६)
रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगा मूर्तगुणाः ॥ ७ ०(९५ ३)
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अमूर्तगुणाः ॥ ७ ०(९५ ९)
सङ्ख्यापरिमाणपृथक्त्वसम्योगविभागा उभयगुणाः ॥ ७ ०(९५ १३)
सम्योगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः ॥ ७ ०(९५ १५)
शेषास्त्वेकैकद्रव्यवृत्तयः ॥ ७ ०(९५ २१)
रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः ॥ ७ ०(९५ २४)
सङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वनैमितिकद्रवत्ववेगाः सामान्यगुणाः ॥ ७ ०(९६ ५)
शब्दस्पर्शरूपरसगन्धा बाह्यैकैकेन्द्रियग्राह्याः ॥ ७ ०(९६ ११)
सङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वस्नेहवेगा द्वीन्द्रियग्राह्याः ॥ ७ ०(९६ १४)
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तह्करणग्राह्याः ॥ ७ ०(९६ १९)
गुरुत्वधर्माधर्मभावना ह्यतीन्द्रियाः ॥ ७ ०(९८ ४)
अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वगुरुत्वद्रवत्वस्नेहवेगाः कारणगुणपूर्वकाः ॥ ७ ०(९८ ७)
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगुणपूर्वकाः ॥ ७ ०(९८ २०)
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसम्योगनैमित्तिकद्रवत्वपरत्वापरत्वापाकजाः सम्योगजाः ॥ ७ ०(९८ २४)
सम्योगविभागवेगाः कर्मजाः ॥ ७ ०(९९ ६)
शब्दोत्तरविभागौ विभागजौ ॥ ७ ०(९९ ८)
परत्वापरत्वद्वित्वद्विपृथक्त्वादयो बुद्ध्यपेक्षाः ॥ ७ ०(९९ ११)
रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वस्नेहाः समानजात्यारम्भकाः ॥ ७ ०(९९ १४)
सुखदूह्खेच्छाद्वेषप्रयत्नाश्चासमानजात्यारम्भकाः ॥ ७ ०(९९ २२)
सम्योगविभागसङ्ख्यागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजात्यारम्भकाः ॥ ७ ०(१०० ३)
बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः ॥ ७ ०(१०० ११)
रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः ॥ ७ ०(१०० १६)
सम्योगविभागसङ्ख्यैकपृथक्त्वगुरुत्वद्रवत्ववेगधर्माधर्मास्तूभयत्रारम्भकाः ॥ ७ ०(१०० २०)
गुरुत्वद्रवत्ववेगप्रयत्नधर्माधर्मसम्योगविशेषाः क्रियाहेतवः ॥ ७ ०(१०१ ३)
रूपरसगन्धानुष्णस्पर्शसङ्ख्यापरिमाणैकपृथक्त्वसनेहशब्दानामसमवायिकारणत्वम् ॥ ७ ०(१०१ ९)
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वम् ॥ ७ ०(१०२ १)
सम्योगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारणत्वम् ॥ ७ ०(१०२ ४)
परत्वापरत्वद्वित्वद्विपृथक्त्वादीनामकारणत्वम् ॥ ७ ०(१०२ १२)
सम्योगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम् ॥ ७ ०(१०२ १६)
शेषाणामाश्रयव्यापित्वम् ॥ ७ ०(१०३ ८)
अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वसांसिद्धिकद्रवत्वगुरुत्वस्नेहानां यावद्द्रव्यभावित्वम् ॥ ७ ०(१०३ ११)
शेषाणामयावद्द्रव्यभावित्वं चेति ॥ ७ ०(१०३ १५)
रूपादीनां सर्वेषां गुणानां प्रत्येकमपरसामान्यसम्बन्धाद्रूपादिसञ्ज्ञा भवन्ति ॥ ८ १(१०३ १८)
तत्र रूपं चक्षुर्ग्राह्यम् । पृथिव्युदकज्वलनवृत्ति द्रव्याद्युपलम्भकं नयनसहकारि शुक्लाद्यनेकप्रकारं सलिलादिपरमाणुषु नित्यं पार्थिवपरमाणुष्वग्निसम्योगविरोधि सर्वकार्यद्रव्येषु कारणगुणपूर्वकमाश्रयविनाशादेव विनश्यतीति ॥ ८ १(१०४ १)
रसो रसनग्राह्यः । पृथिव्युदकवृत्तिः जीवनपुष्टिबलारोग्यनिमित्तं रसनसहकारी मधुरांललवणतिक्तकटुकषायभेदभिन्नः । अस्यापि नित्यानित्यत्वनिष्पत्तयो रूपवत् ॥ ८ २(१०५ ८)
गन्धो घ्राणग्राह्यः । पृथिवीवृत्तिः घ्राणसहकारी सुरभिरसुरभिश्च । अस्यापि पूर्ववदुत्पत्त्यादयो व्याख्याताः ॥ ८ ३(१०५ २३)
स्पर्शस्त्वगिन्द्रियग्राह्यः । क्षित्युदकज्वलनपवनवृत्तिः त्वक्षहकारी रूपानुविधायी शीतोष्णानुष्णाशीतभेदात्त्रिविधः । अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् ॥ ८ ४(१०६ ८)
पार्थिवपरमाणुरूपादीनां पाकजोत्पत्तिविधानम् । घटादेरामद्रव्यस्याग्निना सम्बद्धस्याग्न्यभिघातान्नोदनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते तेभ्यो विभागाः विभागेभ्यः सम्योगविनाशाः सम्योगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति । ८ ५(१०६ १९)
तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुष्वग्निसम्योगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः पुनरन्यस्मादग्निसम्योगादौष्ण्यापेक्षात्पाकजा जायन्ते । ८ ५(१०६)
तदनन्तरं भोगिनामदृष्तापेक्षादात्माणुसम्योगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसम्योगाद्द्व्यणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः । ८ ५(१०७)
न च कार्यद्रव्य एव रूपाद्युत्पत्तिर्विनाशो वा सम्भवति सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावादणुप्रवेशादपि च व्याप्तिर्न सम्भवति कार्यद्रव्यविनाशादिति ॥ ८ ५(१०७)
एकादिव्यवहारहेतुः सङ्ख्या । सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपदीनामिव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । ८ ६(१११ ३)
तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद्विनाश इति । कथम् । ८ ६(१११)
यदा बोद्धुश्चक्षुषा समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सति तत्सम्युक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्तावेकत्वसामान्यतस्सम्बन्धज्ञानेभ्य एकगुणयोरनेकविषयिण्येका बुद्धिरुत्पद्यते तदा तामप्क्ष्यैकत्वाभ्यां स्वाश्रययोर्द्वित्वमारम्भ्यते ततः पुनस्तस्मिन् द्वित्वसामान्यज्ञानमुत्पद्यते तस्माद्द्वित्वसामान्यज्ञानादपेक्षाबुद्धेर्विनश्यत्ता द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । ८ ६(१११)
तत इदानीमपेक्षाबुद्धिविनाशाद्द्वित्वगुणस्य विनश्यत्ता द्वित्वगुणज्ञानं द्वित्वसामान्यज्ञानस्य विनाशकारणं द्वित्वगुणतज्ज्ञानसम्बन्धेभ्यो द्वे द्रव्ये इति द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । ८ ६(१११)
तदनन्तरं द्वे द्रव्ये इति द्रव्यज्ञानस्योत्पादः द्वित्वस्य विनाशः द्वित्वगुणबुद्धेर्विनश्यत्ता द्रव्यज्ञानात्संस्कारस्योत्पद्यमानतेत्येकः कालः तदनन्तरं द्रव्यज्ञानाद्द्वित्वगुणबुद्धेर्विनाशो द्रव्यबुद्धेरपि संस्कारात् । ८ ६(१११)
एतेन त्रित्वाद्युत्पत्तिरपि व्याख्याता । एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाच्च विनाश इति । क्वचिच्चाश्रयविनाशादिति । कथम् । ८ ६(११२)
यदैकत्वाधारावयवे कर्मोत्पद्यते तदैवैकत्वसामान्यज्ञानमुत्पद्यते कर्मणा चावयवान्तराद्विभागः क्रियते अपेक्षाबुद्धेश्चोत्पत्तिः । ८ ६(११२)
ततो यस्मिन्नेव काले विभागात्सम्योगविनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते सम्योगविनाशाद्द्रव्यविनाशः सामान्यबुद्धेश्चोत्पत्तिः । ८ ६(११२)
ततो यस्मिन्नेव काले सामान्यज्ञानादपेक्षाबुद्धेर्विनाशः तस्मिन्नेव काले आश्रयविनाशाद्द्वित्वविनाश इति शोभनमेतद्विधानं बध्यघातकपक्षे सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् । ८ ६(११२)
गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद्द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग इति । लैङ्गिकवज्ज्ञानमात्रादिति चेतस्यान्मतं यथाऽभूतं भूतस्येत्यत्र लिङ्गाभावेऽपि ज्ञानमात्रादनुमानं तथा गुणविनाशेऽपि गुणबुद्धिमात्राद्द्रव्यप्रत्ययः स्यादिति । ८ ६(११२)
न । विशेष्यज्ञानत्वात् । नहि विशेष्यज्ञानं सारूप्याद्विशेषणसम्बन्धमन्तरेण भवितुमर्हति । तथा चाह सूत्रकारः समवायिनः श्वैत्याच्छ्वैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते इति । ८ ६(११२)
न तु लैङ्गिकं ज्ञानमभेदेनोत्पद्यते तस्माद्विषमोऽयमुपन्यासः न आशूत्पत्तेः यथा शब्दवदाकाशमिति अत्र त्रीणि ज्ञानान्याशूत्पद्यन्ते तथा द्वित्वादिज्ञनोत्पत्तावित्यदोषः । ८ ६(११३ १)
बध्यघातकपक्षेऽपि समानो दोष इति चेत्स्यान्मतम् । ननु बध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्ति प्रसङ्गः । कथम् । द्वित्वसामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति । न । ८ ६(११३)
समूहज्ञानस्य संस्कारहेतुत्वात्समूहज्ञान्मेव संस्कारकारणं नालोचनज्ञानमित्यदोषः । ज्ञानयौगपद्यप्रसङ्ग इति चेत्स्यान्मतं ननु ज्ञानानां बध्यघातकविरोधे ज्ञानयौगपद्यप्रसङ्ग इति । न । ८ ६(११३)
अविनश्यतोरवस्थानप्रतिषेधात् । ८ ६(११३)
ज्ञानायौगप्द्यवचनेन ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यते नहि बध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिर्विनश्यतोश्च युगपदवस्थानमस्तीति ॥ ८ ६(११३)
परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधमणु महद्दीर्घं ह्रस्वं चेति । तत्र महद्द्विविधम् नित्यमनित्यं च । नित्यमाकाशकालदिगात्मसु परममहत्त्वमनित्यं त्र्यणुकादावेव । ८ ७(१३० २०)
तथा चाण्वपि द्विविधं नित्यमनित्यं च । नित्यं परमाणुमनस्सु तत्पारिमाण्डलुयम् । अनित्यं द्व्यणुक एव । कुवलयामलकबिल्वादिषु महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः । ८ ७(१३०)
दीर्घत्वह्रस्वत्वे चोत्पाद्ये महदणुत्वैकार्थसमवेते । समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः । ८ ७(१३१ २)
अनित्यं चतुर्विधमपि सङ्ख्यापरिमाणप्रचययोनि । तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्व्यणुकेषु बहुत्वसङ्ख्या तैरारब्धे कार्यद्रव्ये त्र्यणुकादिलक्षणे रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वं च करोति । ८ ७(१३१)
द्विबहुभिर्महद्भिश्चारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् । समानसङ्ख्यैश्चारब्धेऽतिशयदर्शनात् । ८ ७(१३१)
प्रचय तूलपिण्डयोर्वर्तमानः पिण्डारम्भकावयवप्रशिथिलसम्योगानपेक्षमाण इतरेतरपिण्डावयवसम्योगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि । ८ ७(१३१)
समानसङ्ख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात् । द्वित्वसङ्ख्या चाण्वोर्वर्तमाना द्व्यणुकेऽणुत्वमारभते । महत्त्ववत्त्र्यणुकादौ कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योपत्तिः । ८ ७(१३१)
अणुत्ववद्द्व्यणुके द्वित्वसङ्ख्यातो ह्रस्वत्वस्योत्पत्तिः । अथ त्र्यणुकादिषु वर्तमानयोर्महत्त्वदीर्घत्वयोः पर्स्परतः को विशेषः द्व्यणुकेषु चाणुत्वह्रस्वत्वयोरिति । ८ ७(१३१)
तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषह्, महत्सु दीर्घमानीयतां दीर्घेषु च महदानीयतामिति विशिष्टव्यवहारदर्शनादिति । ८ ७(१३१)
अणुत्वह्रस्वत्वयोस्तु परस्परतो विशेषस्तद्दर्शिनां प्रत्यक्ष इति । तच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति ॥ ८ ७(१३२ २)
पृथक्त्वमपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यमनेकद्रव्यं च । तस्य तु नित्यानित्यत्वनिष्पत्तयः सङ्ख्यया व्याख्याताः । एतावांस्तु विशेषः एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः सङ्ख्यया तु विशिष्यते तद्विशिष्टव्यवहारदर्शनादिति ॥ ८ ८(१३८ ५)
सम्योगः सम्युक्तप्रत्ययनिमित्तम् । स च द्रव्यगुणकर्महेतुः । द्रव्यारम्भे निरपेक्षस्तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्चेति वचनात् । गुणकर्मारम्भे तु सापेक्षः सम्युक्तसमवायादग्नेर्वैशेषिकमिति वचनात् । ८ ९(१३९ १३)
अथ कथंलक्षणः कतिविधश्चेति । अप्राप्तयोः प्राप्तिः सम्योगः स च त्रिविधः अन्यतरकर्मजः उभयकर्मजः सम्योगजश्च । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य । ८ ९(१३९)
यथा स्थाणोः श्येनेन्न विभूनां च मूर्त्तैः । उभयकर्मजो विरुद्धदिक्क्रिययोः सन्निपातः । यथा मल्लयोर्मेषायोर्वा । ८ ९(१३९)
सम्योगजस्तूत्पन्नमात्रस्य चिरोत्पन्नस्य वा निष्क्रियस्य कारणसम्योगिभिरकारणैः कारणाकारणसम्योगपूर्वकः कार्याकार्यगतः सम्योगः । ८ ९(१३९)
स चैकस्माद्द्वाभ्यां बहुभ्यश्च भवति । एकस्मात्तावत्तन्तुवीरणसम्योगात्द्वितन्तुकवीरणसम्योगः । द्वाभ्यां तन्त्वाकाशसम्योगाभ्यामेको द्वितन्तुकाकाशसम्योगः । बहुभ्यश्च तन्त्तुरीसम्योगेभ्य एकः पटतुरीसम्योगः । ८ ९(१४० २)
एकस्माच्च द्वयोरुत्पत्तिः । कथम् । यदा पार्थिवाप्ययोरण्वोः सम्योगे सत्यन्येन पार्थिवेन पार्थिवस्यान्येनाप्येन चाप्यस्य युगपत्सम्योगौ भवतस्तदा ताभ्यां सम्योगाभ्यां पार्ह्तिवाप्ये द्व्यणुके युगपदारभ्येते । ८ ९(१४०)
ततो यस्मिन् काले द्व्यणुकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिः तस्मिन्नेव काले इतरेतरकारणाकारणगतात्सम्योगादितरेतरकायाकार्यगतौ सम्योगौ युगपदुत्पद्येते । किं कारणम् । ८ ९(१४०)
कारणसायोगिना ह्यकारणेन कार्यमवश्यं सम्युज्यते इति न्यायः अतः पार्थिवं द्व्यणुकं कारणसम्योगिनाप्येनाणुना सम्बद्ध्यते आप्यमपि द्व्यणुकं कारण्सम्योगिना पार्थिवेनेति । ८ ९(१४०)
अथ द्व्यणुकयोरितरेतरकारणाकारणसम्बद्धयोः कथं परस्परतः सम्बन्ध इति । तयोरपि सम्योगजाभ्यां सम्योगाभ्यां सम्बन्ध इति । नास्त्यजः सम्योगो नित्यपरिमण्डलवत्पृथगनभिधानात् । ८ ९(१४०)
यथा चतुर्विधं परिमाणमुत्पाद्यमुक्त्वाह नित्यं परिमण्डलमित्येवमन्यतरकर्मजादिसम्योगमुत्पाद्यमुक्त्वा पृथङ्नित्यं ब्रूयान्न त्वेवमब्रवीत्तस्मान्नास्त्यजः सम्योगः । ८ ९(१४०)
परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः सम्योगः । विभूनां तु परस्परतः सम्योगो नास्ति युतसिद्ध्यभावात् । ८ ९(१४१ ३)
सा पुनर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं पृथगाश्रयाश्रयित्वं चेति । विनाशस्तु सर्वस्य सम्योगस्यैकार्थसमवेताद्विभागात्क्वचिदेस्रयविनाशादपि । कथम् । ८ ९(१४१)
यदा तन्त्वोः सम्योगे सत्यन्यतरतन्त्वारम्भके अंशौ कर्मोत्पद्यते तेन कर्मणा अंश्वन्ततराद्विभागः क्रियते विभागाच्च तन्त्वारम्भकसम्योगविनाशः सम्योगविनाशात्तन्तुविनाशस्तद्विनाशे तदाश्रितस्य तन्त्वन्तरसम्योगस्य विनाश इति ॥ ८ ९(१४१)
विभागो विभक्तप्रत्ययनिमित्तम् । शब्दविभागहेतुश्च । प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविधः । अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग इति । ८ १०(१५१ ४)
तत्रान्यतरकर्मजोभयकर्मजौ सम्योगवत् । विभागजस्तु द्विविधः कारणविभागात्कारणाकारणविभागाच्च । तत्र कारणविभागात्तावत्कार्याविष्टे कारणे कर्मोत्पन्नं यदा तस्यावयवान्तराद्विभागं करोति न तदाकाशादिदेशात्यदा त्वाकाशादिदेशाद्विभागं करोति न तदावयवान्तरादिति स्थितिः । ८ १०(१५१)
अतोऽवयवकर्मावयवान्तरादेव विभागमारभते ततो विभागाच्च द्रव्यारम्भकसम्योगविनाशः तस्मिन् विनष्टे कारणाभावात्कार्याभाव इत्यवयविविनाशः तदा कारणयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसम्युक्तादाकाशादिदेशाद्विभागमारभते न निष्क्रियस्य कारणाभावादुत्तरसम्योगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः न तु तदवयवकर्माकाशादिदेशाद्विभागं करोति तदारम्भकालातीतत्वात्प्रदेशान्तरसम्योगं तु करोत्येव अकृतसम्योगस्य कर्मणः कालात्ययाभावादिति । ८ १०(१५१)
कारणाकारणविभागादपि कथम् । ८ १०(१५१)
यदा हस्ते कर्मोत्पन्नमवयवान्तराद्विभागमकुर्वदाकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे सम्योगानारभते तदा ते कारणाकारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते तदनन्तरं कारणाकारणसम्योगाच्च कार्याकार्यसम्योगानिति । ८ १०(१५२ १)
यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः कारणसम्योगानन्तरं कार्यसम्योगोत्पत्तिः नन्वेवमवयवावयविनोर्युतसिद्धिदोषप्रसङ्गः इति । न । ८ १०(१५२)
युतसिद्ध्यपरिज्ञानात् । सा पुनर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वमियन्तु नित्यानामनित्यानां तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति । ८ १०(१५२)
त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोस्तीति परस्परेण सम्योगः सिद्धः । अण्वाकाशयोस्त्वाश्रयान्तराभावेप्यन्यतरस्य पृथग्गतिमत्त्वात्सम्योगविभागौ सिद्धौ । ८ १०(१५२)
तन्तुपटयोरनित्ययोराश्रयान्तराभावात्परस्परतः सम्योगविभागाभाव इति । दिगादीनां तु पृथग्गतिमत्त्वाभावादिति परस्परेण सम्योगविभागाभाव इति । ८ १०(१५२)
विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वादुत्तरसम्योगावधिसद्भावाद्क्षणिक इति । ८ १०(१५२)
न तु सम्योगविद्ययोरेव विभागस्तयोरेव सम्योगाद्विनाशो भवति कस्मात्सम्युक्तप्रत्ययवद्विभक्तप्रत्ययानुवृत्त्यभावात्तस्मादुत्तरसम्योगावधिसद्भावात्क्षणिक इति । ८ १०(१५२)
क्वचिच्चाश्रयविनाशादेव विनश्यतीति । कथम् । ८ १०(१५३ ३)
यदा द्वितन्तुककारणावयवे अंशौ कर्मोत्पन्नमंश्वन्तराद्विभागामारभते तदैव तन्त्वन्तरेऽपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसम्योगविनाशः तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ८ १०(१५३)
ततो यस्मिन्नेव काले विभागात्तन्तुसम्योगविनाशः तस्मिन्नेव काले सम्योगविनाशात्तन्तुविनाशस्तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाश इति । एवं तर्ह्युत्तरविभागानुत्पत्तिप्रसङ्गः । ८ १०(१५३)
कारणविभागाभावात् । ततः प्रदेशान्तरसम्योगवति सम्योगाभाव इत्यतो विरोधिगुणासम्भवात्कर्मणश्चिरकालावस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वमिति दोषः । कथम् । ८ १०(१५३)
यदाप्यद्व्यणुकारम्भकपरमाणौ कर्मोत्पन्नमण्वन्तराद्विभागं करोति तदैवाण्वन्तरेऽपि कर्म ततो यस्मिन्नेव काले विभागाद्द्रव्यारम्भकसम्योगविनाशः तदैवाण्वन्तरकर्मणा द्व्यणुकाण्वोर्विभागः क्रियते ततो यस्मिन्नेव काले विभागात्द्व्युअणुकाणुसम्योगस्य विनाशः तस्मिन्नेव काले सम्योगविनाशात्द्व्यणुकस्य विनाशः ८ १०(१५३)
तस्मिन् विनष्टे तदाश्रितस्य द्व्यणुकाणुविभागस्य विनाशः ततश्च विरोधिगुणासम्भवान्नित्यद्रव्यसमवेतकर्मणो नित्यत्वमिति । ८ १०(१५४)
तन्त्वंश्वन्तरविभागाद्विभाग इत्यदोषः । आश्रयविनाशात्तन्त्वोरेव विभागो विनष्टो न तन्त्वंश्वन्तरविभाग इति एतस्मादुत्तरो विभागो जायते अङ्गुल्याकाशविभागाच्छरीराकाशविभागवत्तस्मिन्नेव काले कर्म सम्योगं कृत्वा विनश्यतीत्यदोषः । ८ १०(१५४)
अथवा अंश्वन्तरविभागोत्पत्तिसमकालं तस्मिन्नेव तन्तौ कर्मोत्पद्यते ततोंश्वन्तरविभागात्तन्त्वारम्भकसम्योगविनाशः तन्तुकर्मणा च तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ८ १०(१५४)
ततः सम्योगविनाशात्तन्तुविनाशः तद्विनाशाच्च तदाश्रितयोर्विभागकर्मणोर्युगपद्विनाशः । तन्तुवीरणयोर्वा सम्योगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनाश्रयविनाशसम्योगाभ्यां तन्तुवीरणविभागविनाश इति ॥ ८ १०(१५४)
परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधं दिक्कृतं कालकृतं च । तत्र दिक्कृतं दिग्विशेषप्रत्यायकम् । ८ ११(१६४ ३)
कालकृतं च वयोभेदप्रत्यायकम् । तत्र दिक्कृतस्योत्पत्तिरभिधीयते । कथम् । एकस्यां दिश्यवस्थितयोः पिण्डयोः सम्युक्तसम्योगबह्वल्पभावे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधारेऽसन्निकृष्टा बुद्धिरुत्पद्यते । ८ ११(१६४)
ततस्तामपेक्ष्य परेण दिक्प्रदेशेन सम्योगात्परत्वस्योत्पत्तिः । तथा विप्रकृष्टं चावधिं कृत्वा एतस्मात्सन्निकृष्टोयमित्यपरत्वाधारे इतरस्मिन् सन्निकृष्टा बुद्धिरुत्पद्यते । ८ ११(१६४)
ततस्तामपेक्ष्यापरेण दिक्प्रदेशेन सम्योगादपरत्वस्योत्पत्तिः । कालकृतयोरपि कथम् । ८ ११(१६४)
वर्तमानकालयोरनियतदिग्देशसम्युक्तयोर्युवस्थविरयो रूढश्मश्रुकार्कश्यबलिपलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा स्थिविरे विप्रकृष्टा बुद्धिरुत्पद्यते । ८ ११(१६४)
ततस्तामपेक्ष्य परेण कालप्रदेशेन सम्योगात्परत्वस्योत्पत्तिः । स्थविरं चावधिं कृत्वा यूनि सन्निकृष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्यापरेण कालप्रदेशेन सम्योगादपरत्वस्योत्पत्तिरिति । ८ ११(१६४)
विनाशस्त्वपेक्षाबुद्धिसम्योगद्रव्यविनाशात् । अपेक्षाबुद्धिविनाशात्तावदुत्पन्ने परत्वे यस्मिन् काले सामान्यबुद्धिरुत्पन्ना भवति ततोऽपेक्षाबुद्धेर्विनश्यत्ता सामान्यज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । ८ ११(१६४)
ततोऽपेक्षाबुद्धेर्विनाशो गुणबुद्धेश्चोत्पत्तिः ततोऽपेक्षाबुद्धिविनाशाद्गुणस्य विनश्यत्ता गुणज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । ततो द्रव्यबुद्धेरुत्पत्तिर्गुणस्य विनाश इति । ८ ११(१६५ ४)
सम्योगविनाशादपि कथम् । अपेक्षाबुद्धिसमकालमेव परत्वाधारे कर्मोत्पद्यते तेन कर्मणा दिक्पिण्डविभागः क्रियते अपेक्षाबुद्धितः परत्वस्योत्पत्तिरित्येकः कालः । ८ ११(१६५)
ततः सामान्यबुद्धिएरुत्पत्तिः दिक्पिण्डसम्योगस्य च विनाशः ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिक्पिण्डसम्योगविनाशाद्गुणस्य विनाशः । द्रव्यविनाशादपि कथम् । ८ ११(१६५)
परत्वाधारावयवे कर्मोत्पन्नं यस्मिन्नेव कालेऽवयवान्तराद्विभागं करोति तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते ततो विभागाद्यस्मिन्नेव काले सम्योगविनाशः तस्मिन्नेव काले परत्वमुत्पद्यते ततः सम्योगविनाशाद्द्रव्यविनाशः तद्विनाशाच्च तदाश्रितस्य गुणस्य विनाशः । ८ ११(१६५)
द्रव्यापेक्षाबुद्धोर्युगपद्विनाशादपि कथम् । यदा परत्वाधारावयवे कर्मोत्पद्यते तदैवापेक्षाबुद्धिरुत्पद्यते कर्मणा चावयवान्तराद्विभागः क्रियते परत्वस्योत्पत्तिरित्येकः कालः । ८ ११(१६५)
ततो यस्मिन्नेव कालेऽवयवविभागाद्द्रव्यारम्भकसम्योगविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तदनन्तरं सम्योगविनाशाद्द्रव्यविनाशः सामान्यबुद्धेश्चापेक्षाबुद्धिविनाश इत्येकः कालः । ८ ११(१६६ १)
ततो द्रव्यापेक्षाबुद्धोर्विनाशात्परत्वस्य विनाशः । द्रव्यसम्योगविनाशादपि कथम् । ८ ११(१६६)
यदा परत्वाधारावयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति तस्मिन्नेव काले पिण्डकर्मापेक्षाबुद्धोर्युगपदुत्पत्तिः ततो यस्मिन्नेव काले परत्वस्योत्पत्तिस्तस्मिन्नेव काले विभागाद्द्रव्यारम्भकसम्योगविनाशः पिण्डकर्मणा दिक्पिण्डस्य च विभागः क्रियते इत्येकः कालः । ८ ११(१६६)
ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले द्रव्यारम्भकसम्योगविनाशात्पिण्डविनाशः पिण्डविनाशाच्च पिण्डसम्योगविनाशः ततो गुणबुद्धिसमकालं पिण्डदिक्पिण्डसम्योगविनाशात्परत्वस्य विनाशः । ८ ११(१६६)
सम्योगापेक्षाबुद्धोर्युगपद्विनाशादपि कथम् । यदा परत्वमुत्पद्यते तदा परत्वाधारे कर्म ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले पिण्डकर्मणा दिक्पिण्डविभागः क्रियते ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च दिक्पिण्डसम्योगविनाश इत्येकः कालः । ८ ११(१६६)
ततः सम्योगापेक्षाबुद्धिविनाशात्परत्वस्य विनाशः । ८ ११(१६६)
त्रयाणां समवाय्यसमवायिनिमित्तकारणानां युगपद्विनाशादपि कथम् । यदापेक्षाबुद्धिरुत्पद्यते तदा पिण्डावयवे कर्म ततो यस्मिन्नेव काले कर्मणावयवान्तराद्विभागः क्रियतेऽपेक्षाबुद्धेः परत्वस्य चोत्पत्तिस्तस्मिन्नेव काले पिण्डेऽपि कर्म ततोऽवयवविभागात्पिण्डारम्भकसम्योगविनाशः पिण्डकर्मणा च दिक्पिण्डविभागः क्रियते सामान्यबुद्धेश्चोत्पत्तिरित्येकः कालः । ८ ११(१६७ १)
ततः सम्योगविनाशात्पिण्डविनाशः विभागाच्च दिक्पिण्डसम्योगविनाशः सामान्यज्ञानादपेक्षाबुद्धेर्विनाश इत्येतत्सर्वं युगपत्त्रयाणां समवाय्यसमवायिनिमित्तकारणानां विनाशात्परत्वस्य विनाश इति ॥ ८ ११(१६७)
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः ॥ ८ १२(१७१ १६)
सा चानेकप्रकारार्थानन्त्यात्प्रत्यर्थनियतत्वाच्च ॥ ८ १२(१७२ १३)
तस्याः सत्यप्यनेकविधत्वे समासतो द्वे विधे विद्या चाविद्या चेति । तत्राविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा ॥ ८ १२(१७२ १९)
संशयस्तावत्प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनादुभयविशेषानुस्मरणादधर्माच्च किंस्विदित्युभयावलम्बी विमर्षः संशयः । ८ १२ १ १(१७४ २०)
स च द्विविधः अन्तर्बहिश्च । अन्तस्तावतादेशिकस्य सम्यङ्मिथ्या चोद्दिश्य पुनरादिशतस्त्रिषु कालेषु संशयो भवति किन्नु सम्यङ्मिथ्या वेति । ८ १२ १ १(१७४)
बहिर्द्विविधः प्रत्यक्षविषये चाप्रत्यक्षविषये च । ८ १२ १ १(१७४)
तत्राप्रत्यक्षविषये तावत्साधारणलिङ्गदर्शनादुभयविशेषानुस्मरणादधर्माच्च संशयो भवति । यथाऽटव्यां विषाणमात्रदर्शनाद्गौर्गवयो वेति । ८ १२ १ १(१७५ १)
प्रत्यक्षाविषयेऽपि स्थाणुपुरुषयोरूर्ध्वतामात्रसादूश्यदर्शनात्वक्रादिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणादुभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किं नु खल्वयं स्थाणुः स्यात्पुरुषो वेति ॥ ८ १२ १ १(१७५)
विपर्ययोपि प्रत्यक्षानुमानविषय एव भवति । ८ १२ १ २(१७७ १०)
प्रत्यक्षविषये तावत्प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनातसन्निहितविषयज्ञानजसंस्कारापेक्षादात्ममनसोः सम्योगादधर्माच्चातस्मिंस्तदिति प्रत्ययो विपर्ययः । ८ १२ १ २(१७७)
यथा गव्येवाश्व इति । असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति यथा व्यपगतघनपटलमचलजलनिधिसदूशम्बरमञ्जनचूर्णपुञ्जश्याअं शार्वरं तम इति । ८ १२ १ २(१७७)
अनुमानविषयेऽपि बाष्पादिभिर्धूमाभिमतैर्वह्यनुमाणं गवयविषाणदर्शनाच्च गौरिति । ८ १२ १ २(१७७)
त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेष्विदं श्रेय इति मिथ्याप्रत्ययः विपर्ययः शरीरेन्द्रियमनस्स्वात्माभिमानः कृतकेषु नित्यत्वदर्शनं कारणवैकल्ये कार्योत्पत्तिज्ञानं हितमुपदिशत्स्वहितमितिज्ञानमहितमुपदिशत्सु हितमितिज्ञानम् ॥ ८ १२ १ २(१७७)
अनध्यवसायोपि प्रत्यक्षानुमानविषय एव सञ्जायते । तत्र प्रत्यक्षविषये तावत्प्रसिद्धार्थेष्वप्रसिद्धार्येषु वा व्यासङ्गादर्ह्तित्वाद्वा किमित्यालोचनमात्रमनध्यवसायः । ८ १२ १ ३(१८२ १)
यथा वाहीकस्य पनसादिष्वनध्यवसायो भवति । तत्र सत्ताद्रव्यत्वपृथ्वीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षोऽध्यवसायो भवति । ८ १२ १ ३(१८२)
पनसत्वमपि पनसेष्वनुवृत्तमांरादिभ्यो व्यावृत्तं प्रत्यक्षमेव केवलं तूपदेशाभावाद्विशेषसञ्ज्ञाप्रतिपत्तिर्न भवति । ८ १२ १ ३(१८२)
अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात्कोनु खल्वयं प्राणी स्यादित्यनध्यवसायो भवति ॥ ८ १२ १ ३(१८२)
उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणैव यदनुभवनं मानसं तत्स्वप्नज्ञानम् । कथम् । ८ १२ १ ४(१८३ १३)
यदा बुद्धिपूर्वादात्मनः शरीरव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रमार्थमाहारपरिणामार्थं वादृष्टकारितप्रयत्नापेक्षादात्मान्तह्करणसम्बन्धान्मनसि क्रियाप्रबन्धादन्तर्हृदये निरिन्द्रिये आत्मप्रदेशे निश्चलं मनस्तिष्ठति तदा प्रलीनमनस्क इत्याख्यायते ८ १२ १ ४(१८३)
प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति तस्यामवस्थायां प्रबन्धेन प्राणापानसन्तानप्रवृत्तावात्ममनह्सम्योगविशेषात्स्वापाख्यात्संस्काराच्चेन्द्रियद्वारेणैवासत्सु विषयेषु प्रत्यक्षाकारं स्वप्नज्ञानमुत्पद्यते । ८ १२ १ ४(१८३)
तत्तु त्रिविधम् । संस्कारपाटवाद्धातुदोषाददृष्टाच्च । ८ १२ १ ४(१८४ १)
तत्र संस्कारपाटवात्तावत्कामी क्रुधो वा यदा यमर्थमादूतश्चिन्तयन् स्वपिति तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा सञ्जायते । ८ १२ १ ४(१८४)
धातुदोषाद्वातप्रकृतिस्तद्दूषितो वा आकाशगमनादीन् पश्यति । पित्तप्रकृतिः पित्तदूषितो वाग्निप्रवेशकनकपर्वतादीन् पश्यति । ८ १२ १ ४(१८४)
श्लेष्मप्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति । ८ १२ १ ४(१८४)
यत्स्वयमनुभूतेष्वननुभूतेषु वा प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा यच्छुभावेदकं गजारोहणच्छत्त्रलाभादि तत्सर्वं सांस्काराधर्माभ्यां भवति विपरीतं च तैलाभ्यञ्जनखरोष्टारोहणादि तत्सर्वमधर्मसंस्काराभ्यां भवति । ८ १२ १ ४(१८४)
अत्यन्ताप्रसिद्धार्थेष्वदृष्टादेवेति । ८ १२ १ ४(१८४)
स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथाप्यतीतस्य ज्ञानप्रबन्धस्य प्रत्यवेक्षणात्स्मृतिरेवेति भवत्येषा चतुरिविधाऽविद्येति ॥ ८ १२ १ ४(१८४)
विद्यापि चतुर्विधा । प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा ॥ ८ १२ २(१८६ ६)
तत्राक्षमक्षं प्रतीत्योत्पद्यते प्रतक्षम् [ ५ प्रतीत्य यदुत्पद्यते तत्प्रत्यक्षम् ] । ८ १२ २ १(१८६ १२)
अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्छ्रोत्रमनांसि षट् । तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते । ८ १२ २ १(१८६)
द्रव्ये तावद्द्विविधे महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद्धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम् । ८ १२ २ १(१८६)
सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्ममनः सन्निकर्षात्प्रत्यक्षमुत्पद्यते सद्द्रव्यं पृथिवी विषाणी शुक्लो गौर्गच्छतीति । ८ १२ २ १(१८६)
रूपरसगन्धस्पर्शेष्वनेकद्रव्यसमवायात्स्वगतविशेषात्स्वाश्रयसन्निकर्षान्नियतेन्द्रियनिमित्तमुत्पद्यते । तेनैवोपलब्धिः । ८ १२ २ १(१८६)
सङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणां प्रत्यक्षद्रव्यसमवायाच्चक्षुः स्पर्शनाभ्यां ग्रहणम् । ८ १२ २ १(१८७ १)
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः सम्योगादुपलब्धिः । भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणमित्येतदस्मदादीनां प्रत्यक्षम् । ८ १२ २ १(१८७)
अस्मद्विशिष्टानां तु योगिनां युक्तानां योगजधर्मानुगृहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमणुवायुमनसस्सु तत्समवेतगुणकर्मसामान्यविशेषेषु समवाये चावितथं स्वरूपदर्शनमुत्पद्यते । ८ १२ २ १(१८७)
वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद्योगजधर्मानुग्रहसामर्थयात्सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते । ८ १२ २ १(१८७)
तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रं प्रत्यक्षं प्रमाणं प्रमेया द्रव्यादयः पदार्थाः प्रमानात्मा प्रमितिर्द्रव्यादिविषयं ज्ञानम् । ८ १२ २ १(१८७)
सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रं प्रत्यक्षं प्रमाणमस्मिन्नान्यत्प्रमाणान्तरमस्ति अफलरूपत्वात् । ८ १२ २ १(१८७)
अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षादवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणं प्रमेया द्रव्यादयः पदार्थाः प्रमातात्मा प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनमिति ॥ ८ १२ २ १(१८७)
लिङ्गदर्शनात्सञ्जायमानं लैङ्गिकम् ॥ ८ १२ २ २(२०० ४)
लिङ्गं पुनः ८ १२ २ २(२०० १८)
यदनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । ८ १२ २ २(२००)
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ ८ १२ २ २(२००)
विपरीतमतो यत्स्यादेकेन द्वितयेन वा । ८ १२ २ २(२००)
विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥ ८ १२ २ २(२००)
यदनुमेयेनार्थेन देशविशेषे कालविशेषे वा सहचरितमनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धमनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव तदप्रसिद्धार्थस्यानुमापकं लिङ्गं भवतीति ॥ ८ १२ २ २(२०१ १८)
विधिस्तु यत्र धूमस्तत्राग्निरग्न्यभावे धूमोऽपि न भवतीति । एवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात्साहचर्यानुस्मरणात्तदनन्तरमग्न्यध्यवसायो भवतीति । ८ १२ २ २(२०५ १०)
एवं सर्वत्र देशकालाविनाभूतमितरस्य लिङ्गम् । शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थं कस्माद्यूतिरेकदर्शनात् । ८ १२ २ २(२०५)
तद्यथा अध्वर्युरोंश्रावयन् व्यवहितस्य होतुर्लिङ्गं चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च शरदि जलप्रसादोऽगस्त्योदयस्येति । ८ १२ २ २(२०५)
एवमादि तत्सर्वमस्येदमिति सम्बन्धमात्रवचनात्सिद्धम् । तत्तु द्विविधम् । दृष्टं सामान्यतो दृष्टं च । ८ १२ २ २(२०५)
तत्र दृष्टं प्रसिद्धसाध्ययोरत्यन्तजात्यभेदेऽनुमानम् । यथा गव्येव सास्नामात्रमुपलभ्य देशान्तरेऽपि सास्नामात्रदर्शनाद्गवि प्रतिपत्तिः । ८ १२ २ २(२०५)
प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोऽनुमानं सामान्यतो दृष्टम् । ८ १२ २ २(२०६ १)
यथा कर्षकवणिग्राजपुरुषाणां च प्रवृत्तेः फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानमिति । ८ १२ २ २(२०६)
तत्र लिङ्गदर्शनं प्रमाणं प्रमितिरग्निज्ञानम् । अथवाग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनमित्येतत्स्वनिश्चितार्थमनुमानम् । ८ १२ २ २(२०६)
शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात् । ८ १२ २ २ अ(२१३ १२)
यथा प्रसिद्धसमयस्यासन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति । ८ १२ २ २ अ(२१३)
श्रुतिस्मृतिलक्षणोऽप्याम्नायोवक्तृप्रामाण्यापेक्षः तद्वचनादाम्नायप्रामाण्यं लिङ्गाच्चानित्यो बुद्धिपूर्वा वाक्यकृतिर्वेदे बुद्धिपूर्वो ददातिरित्युक्तत्वात् ॥ ८ १२ २ २ अ(२१३)
प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात्तदप्यनुमानमेव ॥ ८ १२ २ २ अ(२२० १०)
आप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ॥ ८ १२ २ २ अ(२२० १७)
दर्शनार्थादर्थापत्तिर्विरोध्येव श्रवणादनुमितानुमानम् ॥ ८ १२ २ २ अ(२२३ १)
सम्भवोऽप्यविनाभावित्वादनुमानमेव ॥ ८ १२ २ २ अ(२२५ १०)
अभावोऽप्यनुमानमेव यथोत्पन्नं कार्यं कारणसद्भावे लिङ्गम् । एवमनुत्पन्नं कार्यं कारणासद्भावे लिङ्गम् ॥ ८ १२ २ २ अ(२२५ १४)
तथैवैतिह्यमप्यवितथमाप्तोपदेश एवेति ॥ ८ १२ २ २ अ(२३० २४)
पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनां परार्थानुमानम् । पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् ॥ ८ १२ २ २ ब्(२३१ ३)
अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः । ८ १२ २ २ ब्(२३३ २४)
८ १२ २ २ ब्१(२३३ २५) तत्रानुमेयोद्देशोऽविरोधी प्रतिज्ञा ।
प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषयमापादयितुमुद्देशमात्रं प्रतिज्ञा । यथा द्रव्यं वायुरिति । ८ १२ २ २ ब्१(२३४ १)
अविरोधिग्रहणात्प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । ८ १२ २ २ ब्१(२३४)
यथाऽनुष्णोऽग्निरिति प्रत्यक्षविरोधी घनमम्बरमित्यनुमानविरोधी ब्राह्मणेन सुरा पेयेत्यागमविरोधी वैशेषिकस्य सत्कार्यमितिब्रुवतः स्वशास्त्रविरोधी न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी ॥ ८ १२ २ २ ब्१(२३४)
८ १२ २ २ ब्२(२३७ १६) लिङ्गवचनमपदेशः । यदनुमेयेन सहचरितं तत्समानजातीये सर्वत्र सामान्येन प्रसिद्धं तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तं तस्य वचनमपदेशः ।
यथा क्रियावत्त्वाद्गुणवत्त्वाच्च तथा च तदनुमेयेऽस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्वमसार्वस्मिन् क्रियावत्त्वम् । ८ १२ २ २ ब्२(२३७)
उभयमप्येतदद्रव्ये नास्त्येव तस्मात्तस्य वचनमपदेश इति सिद्धम् ॥ ८ १२ २ २ ब्२(२३७)
एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति । तत्रासिद्धश्चतुर्विधः । उभयासिद्धोऽन्यतरासिद्धः तद्भावासिद्धोऽनुमेयासिद्धश्चेति । ८ १२ २ २ ब्२(२३८ ९)
तत्रोभयासिद्धः उभयोर्वादिप्रतिवादिनोरसिद्धः यथाऽनित्यः शब्दः सावयवत्वादिति । ८ १२ २ २ ब्२(२३८)
अन्यतरासिद्धः यथाऽनित्यः शब्दः कार्यत्वादिति । तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ कर्तव्यायामुपन्यस्यमानो वाष्पे धूमभावेनासिद्ध इति । ८ १२ २ २ ब्२(२३८)
अनुमेयासिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूपवत्त्वादिति । यो ह्यनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन्नास्ति तद्विपरीते चास्ति स विपरीतसाधनाद्विरुद्धः यथा यस्माद्विषाणी तस्मादश्व इति । ८ १२ २ २ ब्२(२३८)
यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः सन्नेव स सन्देहजनकत्वात्सन्दिग्धः यथा यस्माद्विषाणी तस्माद्गौरिति । एकस्मिंश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोर्विरुद्धयोः सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति केचित् । ८ १२ २ २ ब्२(२३८)
यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोरिति । ८ १२ २ २ ब्२(२३९)
नन्वयमसाधारण एवाचाक्षुषत्वप्रत्यक्षत्ववत्संहतयोरन्यतरपक्षासम्भवात्ततश्चानध्यवसित इत्वक्ष्यामः । ८ १२ २ २ ब्२(२३९)
ननु शास्त्रे तत्रतत्रोभयथा दर्शनं संशयकारणमपदिश्यत इति न संशयो विषयद्वैतदर्शनात् । ८ १२ २ २ ब्२(२३९)
संशयोत्पत्तौ विषयद्वैतदर्शनं कारणं तुल्यबलत्वे च तयोः परस्परविरोधान्निर्णयानुत्पादकत्वं स्यान्न तु संशयहेतुत्वं न च तयोस्तुल्यबलवत्त्वमस्ति अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वादयं तु विरुद्धभेद एव । ८ १२ २ २ ब्२(२३९)
यश्चानुमेये विद्यमानस्तत्समानासमानजातीययोरसन्नेव सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वादनध्यवसितः यथा सत्कार्यमुत्पत्तेरिति । ८ १२ २ २ ब्२(२३९)
अयमप्रसिद्धोऽनपदेश इति वचनादवरुद्धः । ८ १२ २ २ ब्२(२३९)
ननु चायं विशेषः संशयहेतुरभिहितः शास्त्रे तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथा दृष्टत्वादिति नान्यार्थत्वाच्छब्दे विशेषदर्शनात् । ८ १२ २ २ ब्२(२३९)
संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्याच्छ्रावणत्वं किं तु सामान्यमेव सम्पद्यते कस्मात्तुल्यजातीयेष्वर्थान्तरभूतेषु द्रव्यादिभेदानामेकैकशो विशेषस्योभयथा दृष्टत्वादित्युक्तं न संशयकारणमन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात्तस्मात्सामान्यप्रत्ययादेव संशय इति ॥ ८ १२ २ २ ब्२(२३९)
८ १२ २ २ ब्३(२४६ १४) द्विविधं निदर्शनं साधर्म्येण वैधर्म्येण च । तत्रानुमेयसामान्येन लिङ्गसामान्यस्यानुविधानदर्शनं साधर्म्यनिदर्शनम् । तद्यथा यत्क्रियावत्तद्द्रव्यं दृष्टं यथा शर इति । अनुमेयविपर्यये च लिङ्गस्याभावदर्शनं वैधर्म्यनिदर्शनम् । तद्यथा यदद्रव्यं तत्क्रियावन्न भवति यथा सत्तेति ॥ ८ १२ २ २ ब्३(२४६)
अनेन निदर्शनाभासा निरस्ता भवन्ति । ८ १२ २ २ ब्३(२४७ १)
तद्यथा नित्यः शब्दोऽमूरत्वात्यदमूर्तं दृष्टं तन्नित्यं यथा परमाणुर्यथा कर्म यथा स्थाली यथा तमः अम्बरवदिति यद्द्रव्यं तत्क्रियावद्दृष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यनिदर्शनाभासाः । ८ १२ २ २ ब्३(२४७)
यदनित्यं तन्मूरतं दृष्टं यथा कर्म यथा परमाणुर्यथाकाशं यथा तमः घटवत्यन्निष्क्रियं तदद्रव्यञ्चेति लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासा इति ॥ ८ १२ २ २ ब्३(२४७)
निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य्स लिङ्गसामान्यस्यानुमेयेऽन्वानयनमनुसन्धानम् । ८ १२ २ २ ब्४(२४९ ७)
अनुमेयधर्मात्रत्वेनाभितं लिङ्गसामान्यमनुपलब्धशक्तिकं निदर्शने साध्यधर्मसामान्येन सह दृष्टमनुमेये येन वचनेनानुसन्धीयते तदनुसन्धानम् । तथा च वायुः क्रियावानिति । ८ १२ २ २ ब्४(२४९)
अनुमेयाभावे च तस्यासत्त्वमुपलभ्य न च तथा वायुर्निष्क्रिय इति ॥ ८ १२ २ २ ब्४(२४९)
८ १२ २ २ ब्५(२५० २५) अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रप्त्याम्नायः ।
प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्यामनायः । तस्माद्द्रव्यमेवेति । ८ १२ २ २ ब्५(२५१ २)
न ह्येतस्मिन्न सति परेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति गम्यमानार्थत्वादिति चेन्न अतिप्रसङ्गात् । ८ १२ २ २ ब्५(२५१)
तथाहि प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यं विदुषामन्वयव्यतिरेकस्मरणात्तदर्थावगतिर्भविष्यतीति तस्मादत्रैवार्थपरिसमाप्तिः । ८ १२ २ २ ब्५(२५१)
कथमनित्यः शब्द इत्यनेनानिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते प्रयत्नानन्तरीयकत्वादित्यनेनानित्यत्वसाधनधर्ममात्रमभिधीयते । ८ १२ २ २ ब्५(२५१)
इह यत्प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इत्यनेन साध्यसामान्येन साधनसामान्यस्यानुगाममात्रमुच्यते । ८ १२ २ २ ब्५(२५१)
नित्यमप्रयत्नानन्तरीयकं दृष्टं यथाकाशमित्यनेन साध्याभावेन साधनस्यासत्त्वं प्रदर्श्यते । ८ १२ २ २ ब्५(२५१)
तथा च प्रयत्नानन्तरीयकः शब्दो दृष्टो न च तथाकाशवदप्रयत्नानन्तरीयकः शब्द इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते तस्मादनित्यः शब्द त्यनेनानित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते तस्मात्पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्र्तिपादनं क्रियते इत्येतत्परार्थानुमानं सिद्धमिति ॥ ८ १२ २ २ ब्५(२५१)
विशेषदर्शनजमवधारणज्ञानं संशयविरोधी निर्णयः । एतदेव प्रत्यक्षमनुमानं वा । ८ १२ २ २ च्(२५५ २३)
यद्विशेषदर्शनात्संशयविरोध्युत्पद्यते स प्रत्यक्षनिर्णयः । ८ १२ २ २ च्(२५५)
यथा स्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्यालोचनाद्विशेषेष्वप्रत्यक्षेषूभयविशेषानुस्मरणात्किमयं स्थाणुपुरुषो वेति संशयोत्पत्तौ शिरह्पाण्यादिदर्शनात्पुरुष एवायमित्यवधारणज्ञानं प्रत्यक्षनिर्णयः । ८ १२ २ २ च्(२५५)
विषाणमात्रदर्शनाद्गौर्गवयो वेति संशयोत्पत्तौ सास्नामात्रदर्शनाद्गौरु एवायमित्यवधारणज्ञानमनुमाननिर्णय इति ॥ ८ १२ २ २ च्(२५५)
ल्ङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः सम्योगविशेषात्पट्वाभ्यासादरप्रत्ययजनिताच्च संस्काराद्दृष्टश्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुरतीतविषया स्मृतिरिति ॥ ८ १२ २ ३(२५६ १७)
आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः सम्योगाद्धर्मविशेषाच्च यत्प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । ८ १२ २ ४(२५८ १)
तत्तु प्रस्तारेण देवर्षीणां कदाचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो मे भाताऽऽगन्ति हृदयं मे कथयतीति ॥ ८ १२ २ ४(२५८)
सिद्धदर्शनं न ज्ञानान्तरं कस्मात्प्रयत्नपूर्वकमञ्जनपादलोपखड्गगुलिकादिसिद्धानां दृश्यद्रष्टॄणां सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु यद्दर्शनं तत्प्रत्यक्षमेव । ८ १२ २ ५(२५८ २१)
अथ दिव्यान्तरिक्षभौमानां प्राणिनां ग्रहनक्षत्रसञ्चारादिनिमित्तं धर्माधर्मविपाकदर्शनमिष्टं तदप्यनुमानमेव । ८ १२ २ ५(२५९ १)
अथ लिङ्गानपेक्षं ध्रमादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्षयोरन्यतरस्मिन्नतर्भूतमित्येवं बुद्धिरिति ॥ ८ १२ २ ५(२५९)
अनुग्रहलक्षणं सुखम् । स्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसोः सम्योगादनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम् । ८ १३(२५९ १५)
अतीतेषु विषयेषु स्मृतिजम् । अनागतेषु सङ्कल्पजम् । यत्तु विदुषामसतु विषयानुस्मरणेछासङ्कल्पेष्वाविर्भवति तद्विद्याशमसन्तोषधर्मविशेषनिमित्तमिति ॥ ८ १३(२५९)
उपघातलक्षणं दुःखम् । ८ १४(२६० १९)
विषाद्यनभिप्रेतविषयसान्निध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षादात्ममनसोः सम्योगाद्यदमर्षोपघातदैन्यनिमित्तमुत्पद्यते तद्दुःखम् । ८ १४(२६०)
अतीतेषु सर्पव्याघ्राचौरादिषु स्मृतिजम् । अनागतेषु सङ्कल्पजमिति ॥ ८ १४(२६०)
स्वार्थं परार्थं वाऽप्रप्तप्रार्थनेच्छा । सा चात्ममनसोः सम्योगात्सुखाद्यपेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते । ८ १५(२६१ ६)
प्रयत्नस्मृतिधमाधर्महेतुः । कामोऽभिलाषः रागः सङ्कल्पः कारुण्यं वैराग्यमुपधा भाव इत्येवमादय इच्छाभेदाः । मैथुनेच्छा कामः । ८ १५(२६१)
अभ्यवहारेच्छाभिलाषः । पुनः पुनर्विषयानुरञ्जनेच्छा रागः । अनासन्नक्रियेच्छा सङ्कल्पः । स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । ८ १५(२६१)
दोषदर्शनाद्विषयत्यागेच्छा वैराग्यम् । परवञ्चनेच्छा उपधा । अन्तर्निगूढेच्छा भावः । चिकीर्षाजिहीर्षेत्यादिक्रियाभेदादिच्छाभेदा भवन्ति ॥ ८ १५(२६१)
प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स चातम्मनसोः सम्योगाद्दुःखापेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते । ८ १६(२६२ १४)
प्रयत्नस्मृतिधर्माधर्महेतुः । क्रोधो द्रोहः मन्युरक्षमामर्ष इति द्वेषभेदाः ॥ ८ १६(२६२)
प्रयत्नः संरम्भ उत्साह इति प्रयायाः । सद्विविधो जीवनपूर्वः इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वख्; सुप्तस्य प्राणापानसन्तानप्रेरकः प्रबोधकाले चान्तह्करणस्येन्द्रियान्तरप्राप्तिहेतुः । ८ १७(२६३ ३)
अस्य जीवनपूर्वकस्यात्ममनसोः सम्योगाद्धर्माधर्मापेक्षादुत्पत्तिः । इतरस्तु हिताहितप्राप्तिपर्हिहारसमर्थस्य व्यापारस्य हेतुः शरीरविधारकश्च । ८ १७(२६३)
स चातम्मनसोः सम्योगादिच्छापेक्षाद्द्वेषापेक्षाद्वोत्पद्यते ॥ ८ १७(२६३)
गुरुत्वं जलभूम्योः पतनकर्मकारणम् । अप्रत्यक्षं पतनकर्मानुमेयं सम्योगप्रयत्नसांस्कारविरोधि । अस्य चाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः ॥ ८ १८(२६३ २५)
द्रवत्वं स्यन्दनकर्मकारणम् । त्रिद्रव्यवृत्ति । तत्तु द्विविधं सांसिद्धकं नैमित्तिकं च । सांसिद्धिकमपां विशेषगुणः । नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः । ८ १९(२६४ २३)
सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः । सङ्घातदर्शनात्सांसिद्धिकमयुक्तमिति चेन्न । ८ १९(२६४)
दिव्येन तेजसा सम्युक्तानामाप्यानां परमाणूनां परस्परं सम्योगो द्रव्यारम्भकः सङ्घाताख्यः तेन परमाणुद्रवत्वप्रतिबन्धात्कार्ये हिमकरकादौ द्रवत्वानुपत्तिः । ८ १९(२६४)
नैमित्तिकं च पृथिवीतेजसोरग्निसम्योगजम् । ८ १९(२६५ ३)
कथं सर्पिर्जतुमधूच्छिष्टादीनां कारणेषु परमाणुष्वग्निसम्योगाद्वेगापेक्षात्कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसम्योगविनाशात्कार्यद्रव्यनिवृत्तावग्निसम्योगादौष्ण्यापेक्षात्स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते ततस्तेषु भोगिनामदृष्टापेक्षादात्माणुसम्योगात्कर्मोत्पत्तौ तज्जेभ्यः सम्योगेभ्यो द्यूणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते तस्मिंश्च रूपाद्युत्पत्तिसमकालं कारणगुणप्रक्रमेण द्रवत्वमुत्पद्यत इति ॥ ८ १९(२६५)
स्नेहोऽपां विशेषगुणः । उप्तो हेरे ८ २०(२६६ १६)
सङ्ग्रहमृजादिहेतुः ।
अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ॥
संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्च । ८ २१(२६६ २३)
तत्र वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु
निमित्त-विशेषापेक्षात् कर्मणो जायते
नियत-दिक्-क्रिया-प्रबन्ध-हेतुः
स्पर्शवद्-द्रव्य-सम्योग-विशेष-विरोधी
क्वचित् कारण-गुण-पूर्व-क्रमेणोत्पद्यते ।
English (सत्य-शर्मा)
Vega is a saṃskāra (guṇa) which originates in a dravya of limited size (non-omnipresent), due to action caused by a specific nimitta (saṃyogas like nodana, abhighāta, etc.),
and causes a series of actions in a specific direction,
but is opposed to a certain contact with dravyas which possess sparśa (guṇa).
[Translation with inputs from Vyomaśivācārya’s commentary on this passage.]
विश्वास-टिप्पनी
Basic ideas (albeit unquantified) pertaining to Newton’s laws of motion are found here.
भावनासञ्ज्ञकस्त्वात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुर्भवति ज्ञानमददुःखादिविरोधी ।
पट्वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षादात्ममनसोः सम्योगादाश्चर्येऽर्थे पटुः संस्कारातिशयो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनादिति । विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात्प्रत्ययादात्ममनसोः सम्योगात्संस्कारातिशयो जायते । प्रयत्नेन मनश्चक्षुषि स्थापयित्वाऽपूर्वमर्थं दिदूक्षमाणस्य विद्युत्सम्पातदर्शनवदादरप्रत्ययः तमपेक्षमाणादात्ममनसोः सम्योगात्संस्कारातिशयो जायते । यथा देवह्रदेराजतसौवर्णपद्मदर्शनादिति । स्थितिस्थापकस्तु स्पर्शवद्द्रव्येषु वर्तमानो घनावयवसन्निवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावस्थितं स्थापयति । स्थावरजङ्गमविकारेषु धनुह्शाखाशृङ्गदन्तास्थिसूत्रवस्त्रादिषु भुग्नसंवर्तितेषु स्थितिस्थापकस्य कार्यं संलक्ष्यते । नित्यानित्यत्वनिष्पत्तयोस्यापि गुरुत्ववत् ॥
धर्मः पुरुषगुणः । ८ २२(२७२ ८)
कर्तुः प्रियहितमोक्षहेतुः अतीन्दिर्योऽन्त्यसुखसंविज्ञानविरोधी पुरुषान्तह्करणसम्योगविशुद्धाभिसन्धिजः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः ।
तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि ।
तत्र सामान्यानि धर्मे श्रद्धा अहिंसा भूतहितत्वं सत्यवचनमस्तेयं ब्रहमचर्यमनुपधा क्रोधवर्जनमभिषेचनं शिचिद्रव्यसेवनं विशिष्टदेवताभक्तिरुपवासोऽप्रमादश्च ।
ब्राह्मणक्षचियवैश्यानामिज्याध्ययनदानानि ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः ।
क्षत्रियस्य सम्यक्प्रजापालनमसाधुनिग्रहो युद्धेष्वनिवर्तनं स्वकीयाश्च संस्काराः ।
वैश्यस्य क्रियविक्रयकृषिपशुपालनानि स्वकीयाश्च संस्काराः ।
शूद्रस्य पूर्ववर्णपारतन्त्र्यममन्त्रिकाश्च क्रियाः ।
आश्रमिणां तु ब्रह्मचारिणो गुरुकुलनिवासिनः स्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञजनादिवर्जनं च ।
विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैरर्थैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानं सायम्प्रातरनुष्ठानमेकाग्निविधानेन पाकयज्ञसंस्थानां च नित्यानां शक्तौ विद्यमानायामग्न्याधेयादीनां च हविर्यज्ञसंस्थानामग्निष्टोमादीनां सोमयज्ञसंस्थानां च । ८ २२(२७३ १)
ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनं च ।
ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासो वल्ककाजिनकेशश्मश्रुनखरोमधारणं च ।
वन्यहुतातिथिशेषभोजनानि वानप्रस्थस्य ।
त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा सन्न्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थप्रसङ्ख्यानाद्योगप्रसाधनं प्रव्रजितस्येति ।
दृष्टं प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादं चापेक्ष्यात्ममनसोः सम्योगाद्धर्मोत्पत्तिरिति ॥
अधर्मोऽप्यात्मगुणः । ८ २३(२८० ४)
कर्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी ।
तस्य तु साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि विहिताकरणं प्रमादश्चैतानि दुष्टाभिसन्धिं चापेक्ष्यात्ममनसोः सम्योगादधर्मस्योत्पत्तिः ॥
अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मात्प्रकृष्टात्स्वल्पाधर्मसहितात्ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्टशरीरेन्द्रियविषयसुखादिभिर्योगो भवति । ८ २४(२८० २०)
तथा प्रकृष्टादधर्मात्स्वल्पधर्मसहितात्प्रेततिर्यग्योनिस्थानेष्वनिष्टशरीरेन्द्रियविषयदुःखाभिर्योगो भवति ।
एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देवमनुष्यतिर्यङ्नारकेषु पुनः पुनः संसारबन्धो भवति ॥ ८ २४(२८१ १)
ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद्विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाद्यभावात्तज्जयोर्धर्माधर्मयोरनुत्पत्तौ पूर्वसङ्चितयोश्चोपभोगान्निरोधे सन्तोषसुखं शरीरपरिच्छेदं चोत्पद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते । ८ २४(२८१ १९)
तदा निरोधात्निर्बीजस्यात्मनः शरीरादिनिवृत्तिः पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ॥
शब्दोऽम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधी सम्योगविभागशब्दजः प्रदेशवृत्तिः समानासमानजातीयकारणः । ८ २४(२८७ १७)
स द्विविधो वर्णलक्षणो ध्वनिलक्षणश्च ।
तत्र अकारादिर्वर्णलक्षणः शङ्खादिनिमित्तो ध्वनिलक्षणश्च ।
तत्र वर्णलक्षणस्योत्पत्तिरात्ममनसोः सम्योगात्स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्मवायुसम्योगाद्वायौ कर्म जायते स चोर्ध्वं गच्छन् कण्ठादीनभिहन्ति ततः स्थानवायुसम्योगापेक्षमाणात्स्थानाकाशसम्योगात्वर्णोत्पत्तिः ।
अवर्णलक्षणोऽपि भेरीदण्डसम्योगापेक्षाद्भेर्याकाशसम्योगादुत्पद्यते । ८ २४(२८८ २)
वेणुपर्वविभागाद्वेण्वाकाशविभागाच्च शब्दाच्च सम्योगविभागनिष्पन्नाद्वीचीसन्तानवच्छब्दसन्तान इत्येवम्ण्सन्तानेन श्रोत्रप्रदेशमागतस्य ग्रहणं श्रोत्रशब्दयोर्गमनागमनाभावादप्राप्तस्य ग्रहणं नास्ति प्ररिशेषात्सन्तानसिद्धिरिति ॥
प्रशस्तपादभाष्ये गुणपदार्थः समाप्तः ॥ ८ ०(२८८ ९)
अथ कर्मपदार्थनिरूपणम् । ९ ०(२९० १)
उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः । ९ १(२९० २)
एकद्रव्यवत्त्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वमगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसम्योगजत्वं स्वकार्यसम्योगविरोधित्वं सम्योगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वं स्वपराश्रयसमवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यानारम्भकत्वं च प्रतिनियतजातियोगित्वम् ।
दिग्विशिष्टकार्यारम्भकत्वं च विशेषः ॥
तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभागिभिः प्रदेशैः सम्योगकारणमधोभाग्भिश्च प्रदेशैः विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसम्योगेभ्यस्तदुत्क्षेपणम् ॥ ९ २ १(२९१ १०)
तद्विपरीतसम्योगविभागकारणं कर्मापक्षेपणम् ॥ ९ २ १(२९१ १७)
ऋजुनो द्रव्यस्याग्रावय्वानां तद्देशैर्विभागः सम्योगश्च मूलप्रदेशैर्येन कर्मणावयवी कुटिलः सञ्जायते तदाकुञ्चनम् ॥ ९ २ २(२९१ २१)
तद्विप्रययेण सम्योगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते तत्प्रसारणम् ॥ ९ २ २(२९२ ३)
यदनियतदिक्प्रदेशसम्योगविभागकारणं तद्गमनमिति ॥ ९ २ ३(२९२ ६)
एतत्पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च सत्प्रत्ययमसत्प्रत्ययं च यदन्यत्तदप्रत्ययमेव तेष्वन्येषु च तद्गमनमिति । ९ ३(२९२ ८)
कर्मणां जातिपञ्चकत्वमयुक्तङ्गमनाविशेषात् ।
सर्वं हि क्षणिकं कर्म गमनमात्रमुत्पन्नं स्वाश्रयस्योर्ध्वमधिस्तिर्यग्वाप्यणुमात्रैः प्रदेशैः सम्योगविभागात्न् करोति सर्वत्र गमनप्रत्ययोऽवुसिष्टस्तस्माद्गमनमेव सर्वमिति ।
न वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनातिहोत्क्षेपणं परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्ती दृष्टे तद्धेतुः सामान्यविशेषभेदोऽवगम्यते ।
तेषामुदाद्युपसर्गविशेषात्प्रतिनियतदिग्विशिष्टकार्यारम्भत्वादुपलक्षणभेदोऽपि सिद्धः ।
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः ।
निष्क्रामणप्रवेशनादिष्वपि वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् ।
यद्युत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेद इष्यते एवं च निष्क्रमणप्रवेशनादिष्वपि ।
कार्यभेदात्तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति चेत्न उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः ।
अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतुरस्तीति न जातिसङ्करप्रसङ्गात् ।
निष्क्रमणादीनां जातिभेदात्प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते ।
कथं द्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टौ तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च ।
यदा तु प्रतिसीराद्यपनीतं भवति तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः किन् तु गमनप्रत्यय एव भवति ।
तथा नालिकायां वंशपत्त्रादौ पतति बहूनां द्रष्टॄणां युगपद्भ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः ।
न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः तस्मादुत्क्षेपणादीनामेव जातिभेदात्प्रत्ययानुवृत्तिव्यावृत्ती निष्क्रमणादीनां तु कार्यभेदादिति ।
कथं युगपत्प्रययभेद इति चेत् ।
अथ मतं यथा जातिसङ्करो नासितेवमनेककर्मसमावेशोऽपि नास्तीत्येकस्मिन् कर्मणि युगपद्द्रष्टॄणां भ्रमणपतनप्रवेशनप्रत्ययाः कथं भवन्तीति ।
अत्र ब्रूमः न अवयवावयविनोर्दिग्विशिष्टसम्योगविभागानां भेदात् ।
यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्प्रदेशैः सम्योगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भव्ति यो ह्यवयविनि ऊर्ध्वप्रदेशैर्विभागमधः सम्योगं चावेक्षते तस्य पतनप्रत्ययो भवति । ९ ३(२९४ १)
यः पुनर्नालिकान्तर्देशे सम्योगं बहिर्देशे च विभागं पश्यति तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेद इति ।
भवतूत्क्षेपणादीनां जातिभेदात्प्रत्ययभेदः निष्क्रमणादीनां तु कार्यभेदादिति ॥
अथ गमनत्वं किं कर्मत्वपर्यायः आहोस्विदपरं सामान्यमिति । ९ ३(२९६ १)
कुतस्ते संशयः ।
समस्तेषूत्क्षेपणादिषु कर्मप्रत्ययवद्गमनप्रत्ययाविशेषात्कर्मत्वपर्याय इति गम्यते ।
यतस्तूत्क्षेपणादिवद्विशेषसञ्ज्ञयाभिहितं तस्मादपरं सामान्यं स्यादिति ।
न ।
कर्मत्वपर्यायत्वात् ।
आत्मत्वपुरुषत्ववत्कर्मत्वपर्याय एव गमनत्वमिति ।
अथ विशेषसञ्ज्ञया किमर्थं गमनग्रहणं कृतमिति न भ्रमणाद्यवरोधार्थत्वात् ।
उत्क्षेपणादिशब्दैरनवरुद्धानां भ्रमणपतनस्पन्दनादीनामवरोधार्थं गमनग्रहणं कृतमिति ।
अन्यथा हि यान्येव चत्वारि विशेषसञ्ज्ञयोक्तानि तान्येव सामान्यविशेषसञ्ज्ञाविषयाणि प्रसज्येरन्निति ।
अथवा अस्त्वपरं सामान्यं गमनत्वमनियतदिग्देशसम्योगविभागकारणेषु भ्रमणादिष्वेव वर्तते गमनशब्दश्चोत्क्षेपणादिषु भाक्तो द्रष्टव्यः स्वाश्रयसम्योगविभागकर्तृत्वसामान्यादिति ॥
सत्प्रत्ययकर्मविधिः । ९ ४(२९७ १९)
कथं चिकीर्षितेषु यज्ञाध्ययनदानकृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छत्यपक्षेप्तुं वा तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते तं प्रयत्नं गुरुत्वा चोपेक्षमाणादात्महस्तसम्योगाद्धस्ते कर्म भवति हस्तवत्सर्वशरीरावयवेषु पादादिषु शरीरे चेति ।
तत्सम्बद्धेष्वपि कथं यदा हस्तेन मुसलं गृहीत्वेच्छां करोति उत्क्षिपामि हस्तेन मुसलमिति तदनन्तरं प्रयत्नस्तमपेक्षमणादात्महस्तसम्योगाद्यस्मिन्नेव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद्धस्तमुसलसम्योगात्मुसलएऽपि कर्मेति ।
ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा निवर्तते पुनरप्यपक्षेपणेच्छोत्पद्यते तदनतरं प्रयत्नस्तमपेक्षमाणाद्यथोक्तात्सम्योगाद्धस्तमुसलयोर्युगपदपक्षेपणकर्मणी भवतः ततोऽन्त्येन मुसलकर्मणोलूखलमुसलयोरभिघाताख्यः सम्योगः क्रियते स सम्योगोमुसलगतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति । ९ ४(२९८ ४)
तत्कर्माभिघातापेक्षं मुसले संस्कारमारभते तमपेक्ष्य मुसलहस्तसम्योगोऽप्रययं हतेऽप्युत्पतनकर्म करोति ।
यद्यपि प्राक्तनः संस्कारो विनष्टः तथापि मुसलोलूखलयोः सम्योगः पटुकर्मोत्पादकः सम्योगविशेषभावात्तस्य संस्कारारम्भे साचिव्यसमर्थो भवति ।
अथवा प्राक्तन एव पटुः संस्कारोऽभिघातादविनश्यन्नवस्थित इति ।
अतः संस्कारवति पुनः संस्कारारम्भो नास्त्यतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणात्मुसलहस्तसम्योगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति ॥
पणिमुक्तेषु गमनविधिः । ९ ४(३०० १२)
कथं यदा तोमरं हस्तेन गृहीत्वोत्क्षेप्तुमिच्छोत्पद्यते तदनन्तरं प्रयत्नः तमपेक्षमाणाद्यथोक्तात्सम्योगद्वयात्तोमरहस्तयोर्युगपदाकर्षणकर्मणी भवतः ।
प्रसारिते च हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते तदनन्तरं तिर्यगूर्ध्व दूरमासन्नं वा क्षिपामीतीच्छा सञ्जायते तदनन्तरं तद्नुरूपः प्रयत्नस्तमपेक्षमाणस्तोमरहस्तसम्योगो नोदनाख्यः तस्मात्तोमरे कर्न्तोपन्नं नोदनापेक्षं तस्मिन् संस्कारमारभते ततः संस्कारनोदनाभ्यां तावत्कर्माणि भवन्ति यावद्धस्ततोमरविभाग इति ततो विभागान्नोदने निवृत्ते संस्कारादूर्ध्वं तिर्यग्दूरमासन्नं वा प्रयत्नानुरूपाणि कर्माणि भवन्त्यापतनादिति ॥
तथा यन्त्रमुक्तेषु गमन्विधिः । ९ ४(३०१ १३)
कथं यो बलवान् कृतव्यायामो वामेन करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धाय सशरां ज्यां मुष्टिना गृहीत्वा आकर्षणेच्छां करोति सज्येष्वाकर्षयाम्येतद्धनुरिति ।
तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्महस्तसम्योगादाकर्षणकर्म हस्ते यदैवोत्पद्यते तदैव तमेव प्रयत्नमपेक्षमाणाद्धस्तज्याशरसम्योगाद्ज्यायां शरे च कर्म प्रयत्नविशिष्टहस्तज्याशरसम्योगमपेक्षमाणाभ्यां ज्याकोटिसम्योगाभ्यां कर्मणी भवतो धनुष्कोट्योरित्येतत्सर्वं युगपत् ।
एवमाकर्णादाकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानं ततस्तदाकर्शणार्थस्य प्रयत्नस्य विनाशस्ततः पुनर्मोक्षणेच्छा सञ्जायते तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्माङ्गुलिसम्योगादङ्गुलिकर्म तस्माज्ज्याङ्गुलिविभागः ततो विभागात्सम्योगविनाशः तस्मिन् विनष्टे प्रतिबन्धकाभावाद्यदा धणुषि वर्तमानः स्थितिस्थापकः संस्कारो मण्डलीभूतं धनुर्यथावस्थितं स्थापयति तदा तमेव संस्कारमपेक्षमाणाद्धनुर्ज्यासम्योगाज्ज्यायां शरे च कर्मोत्पद्यते तत्स्वकारणापेक्षं ज्यायां संस्कारं करोति
तमपेक्षमाण इषुज्यासम्योगो नोदनं तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते ।
तस्मात्संस्कारान्नोदनसहायात्तावत्कर्माणि भवन्ति यावदिषुज्याविभागो विभागान्निवृत्ते नोदने कर्माण्युत्तरोत्तरानीषुसंस्कारादेवापतनादिति । ९ ४(३०२ ८)
बहूनि कर्माणि क्रमशः कस्मात्सम्योगबहुत्वातेकस्तु संस्कारोऽन्तराले कर्मणोऽपेक्षाकारणाभावादिति ॥
एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रययं च कर्मोक्तम् । ९ ४(३०३ २०)
अनधिष्ठितेषु बाह्येषु चतुर्षु महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति । ९ ५(३०३ २१)
तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नान् समस्तव्यस्तानपेक्षमाणो यः सम्योगविशेषो नोदनमविभागहेतोरेकस्य कर्मणः कारणं तस्माच्चतुर्ष्वपि महाभूतेषु कर्म भवति ॥
यथा पङ्काख्यायां पृथिव्याम् । ९ ५(३०४ ७)
वेगापेक्षो यः सम्योगविशेषा विभागहेतोरेकस्य कर्मणः कारणं सोऽभिघातः ।
तस्मादपि चतुर्षु महाभूतेषु कर्म भवति यथा पाषाणादिषु निष्ठुरे वस्तुन्यभिपतितेषु तथा पादादिभिर्नुद्यमानायामभिहन्यमानायां वा पङ्काख्यायां पृथिव्यां यः सम्योगो नोदनाभिघातयोरन्यतरापेक्ष उभयापेक्षो वा स सम्युक्तसम्योगः तस्मादपि पृथिव्यादिषु कर्म भवति ।
ये च प्रदेशा न नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते ।
पृथिव्युदकयोर्गुरुत्वविधारकसम्योगप्रयत्नवेगाभावे सति गुरुत्वाद्यदधोगमनं तत्पतनम् ।
यथा मुसलशरीरादिषूक्तम् ।
तत्राद्यं गुरुत्वाद्द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् ॥
स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत्तद्द्रवत्वात्स्यन्दनम् । ९ ५(३०५ २०)
कथं समन्ताद्रोधह्सम्योगेनावयविद्रवत्वं प्रतिबद्धमवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धमुत्तरोत्तरावयवद्रवत्वानि सम्युक्तसम्योगैः प्रतिबद्धानि ।
यदा तु मात्रया सेतुभेदः कृतो भवति तदा समन्तात्प्रतिबद्धत्वादवयविद्रवत्वस्य कार्यारम्भो नास्ति सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद्वृत्तिलाभः ।
ततः क्रमशः सम्युक्तानामेवाभिसर्पणं ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैरवयविर्दीर्घं द्रव्यमारभ्यते तत्र च कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते तत्र च कारणानां सम्युक्तानां प्रबन्धेन गमने यदवयविनि कर्मोत्पद्यते तत्स्यन्दनाख्यमिति ॥
संस्कारात्कर्मैष्वादिषूक्तम् । ९ ५(३०७ १०)
तथा चक्रादिष्ववयवानां पार्श्वतः प्रतिनियतदिग्देशसम्योगविभागोत्पत्तौ यदवयविनः संस्कारादनियतदिग्देशसम्योगविभागनिमित्तं कर्म तद्भ्रमणमिति ।
एवमादयो गमनविशेषाः ॥
प्राणाख्ये तु वायौ कर्म आत्मवायुसम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षाज्जाग्रत इच्छानुविधानदर्शनात्सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षात् । ९ ५(३०८ १)
आकाशकालदिगात्मनां सत्यपि द्रव्यभावे निष्क्रियत्वं सामान्यादिवदमूर्तत्वात् ।
मूर्तिरसर्वगतद्रव्यपरिमाणं तदनुविधायिनी च क्रिया सा चाकाशादिषु नास्ति तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ॥
सविग्रहे मनसीन्द्रियान्तरसम्बन्धार्थं जाग्रतः कर्म आत्ममनह्सम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षातन्वभिप्रायमिन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । ९ ५(३०८ १८)
सुप्तस्य प्रबोधकाले जीवनपूर्वकप्रयत्नापेक्षात् ।
अपसर्पणकर्मोत्पसर्पणकर्म चात्ममनह्सम्योगाददृष्टापेक्षात् ।
कथं यदा जीवनसहकारिनोर्धर्माधर्मयोरुपभोगात्प्रक्षयोऽन्योन्याभिभवो वा तदा जीवनसहाययोर्वैकल्यात्तत्पूर्वकप्रयत्नवैकल्यात्प्राणनिरोधे सत्यन्याभ्यां लब्धवृत्तिभ्यां धर्माधर्माभ्यामात्ममनह्सम्योगसहायाभ्यां मृतशरीराद्विभागकारणमपसर्पणकर्मोत्पद्यते ।
ततः शरीराद्वहिरपगतं ताभ्यामेव धर्माधर्माभ्यां समुत्पनेनातिवाहिकशरीरेण सम्बन्ध्यते तत्सङ्क्रान्तं च स्वर्गं नरकं वागत्वा आशयानुरूपेण शरीरेण सम्बध्यते तत्सम्योगार्थं कर्मोपसर्पणमिति । ९ ५(३०९ ४)
योगिनां च बहिरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनं च ।
तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थं कर्मादृष्टकारितम् ।
एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकारसमर्थं च भवति तदप्यदृष्टकारितम् ।
यथा सर्गादावणुकर्म अग्निवाय्वोरूर्ध्वतिर्यग्गमने महाभूतानां प्रक्षेभणम् ।
अभिषिक्तानां मणीनां तस्करं प्रति गमनम् ।
अयसोऽयस्कान्ताभिसर्पणं चेति ॥
इति प्रशस्तपादभाष्ये कर्मपदार्थः समापतः ॥ ९ ०(३०९)
अथ सामान्यपदार्थनिरूपणम् । १० ०(३११ १३)
सामान्यं द्विविधं परमपरं च । १०(३११ १४)
स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् ।
कथं प्रतिपिण्डं सामान्यापेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद्यदनुगतमस्ति तत्सामान्यमिति ।
तत्र सत्तासा{ं मा}न्यं परमनुवृत्तिप्रत्ययकारणमेव ।
यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकस्मानिलद्रव्याभिसम्बन्धात्नीलं निलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थानतर्ं सा सत्तेति सिद्धा ।
सत्तानुसम्बन्धात्सत्सदिति प्रत्ययानुवृत्तिः तस्मात्सा सामान्यमेव । १०(३१२ ३)
अपरं द्रव्यत्वगुणत्वकर्मत्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यं विशेषश्च भवति ।
तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात्सामान्यं गुणकर्मभ्यो व्यावृत्तिहेतुत्वात्विशेषः ।
तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवृत्तिहेतुत्वात्सामान्यं द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वात्विशेषः ।
तथा कर्मत्वं परस्परविशिष्तेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यं द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः एवं पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यविशेषभावः सिद्धः ।
एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात्प्राधान्येन सामान्यानि स्वाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानीति ॥
लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं सिद्धम् । १०(३१४ १५)
अत एव च नित्यत्वम् ।
द्रव्यादिषु वृत्तिनियमात्प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् ।
प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम् ।
यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात्कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि ।
अन्तराले च सम्योगसमवायवृत्त्यभावादव्यपदेश्यानीति ॥
इति प्रशस्तपादभाष्ये सामान्यपदार्थः समाप्तः ॥ १० ०(३१४ २३)
अथ विशेषपदार्थनिरूपणम् । ११ ०(३२१ ११)
अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः । ११(३२१ १२)
विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः ।
यथास्मदीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसम्योगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्लः शीघ्रगतिः पीनककुद्मान्महाघण्ट इति ।
तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च अन्यनिमित्तासम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः ।
यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाद्धर्मात्प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं च स्यात्ततः किं स्यान्नैवं भवति । ११(३२२ २)
यथा न योगजाद्धर्मादशुक्ले शुक्लप्रत्ययः सञ्जायते अत्यन्तादृष्टे च प्रत्यभिज्ञानम् ।
यदि स्यान्मिथ्या भवेत्तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात्प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हति ।
अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यते इति चेन्न तादात्म्यात् ।
इहातदात्मकेष्वन्यनिमित्तः प्रत्ययो भवति यथा घटादिषु प्रदीपात्न तु प्रदीपे प्रदीपान्तरात् ।
यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषां तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात्परमाण्वादिष्विति ॥
इति प्रशस्तपादभाष्ये विशेषपदार्थः समाप्तः ॥ ११ ०(३२२ १७)
अथ समवायपदार्थनिरूपणम् । १२ ०(३२४ १८)
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः । १२(३२४ १९)
द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां वायुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमितिबुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावः स समवायाख्यः सम्बन्धः ।
कथं यथेह कुण्डे दधीतिप्रत्ययः सम्बन्धे सति दृष्टस्तथेह तन्तुषु पटः इह वीरणेषु कटः इह द्रव्ये गुणकंरणी इह द्रव्यगुणकर्मसु सत्ता इह द्रव्ये द्रव्यत्वमिह गुणे गुणत्वमिह कर्मणि कर्मत्वमिह नित्यद्रव्येऽन्त्या विशेषा इतिप्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते ॥
न चासौ सम्योगः सं बन्धिनामयुतसिद्धत्वातन्यतरकर्मादिनिमित्तासम्भवात्विभागान्तत्वादर्शनादधिकरणाधिकर्तव्ययोरेव भावादिति ॥ १२(३२६ १)
स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात् । १२(३२६ १२)
यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात्तेभ्यः पदार्थान्तरत्वमिति ।
न च सम्योगवन्नानात्वं भाववल्लिङ्गाविशेषात्विशेषलिङ्गाभावाच्च तस्माद्भाववत्सर्वत्रैकः समवाय इति ॥
ननु यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात्पदार्थसङ्करप्रसङ्ग इति न आधाराधेयनियमात् । १२(३२७ ९)
यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याधाराधेयनियमोऽस्ति ।
कथं द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति ।
एवमादि कस्मादन्वयव्यतिरेकदर्शनात् ।
इहेतिसमवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात्सर्वत्रैकः समवाय इति गम्यते ।
द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात्प्रतिनियमो ज्ञायते ।
यथा कुण्डदध्नोः सम्योगैकत्वे भवत्याश्रयाश्रयिभावनियमः ।
तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति ॥
सम्बन्धनित्यत्वेऽपि न सम्योगवदनित्यत्वं भाववदकारणत्वात् । १२(३२८ १९)
यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तं तथा समवायोऽपीति ।
न ह्यस्य किञ्चित्कारणं प्रमाणत उपलभ्यते इति ।
कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते ।
न सम्योगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात् ।
नापि समवायस्तस्यैकत्वात्न चान्या वृत्तिरस्तीति ।
न ।
तादात्म्यात् ।
यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति ।
एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात्स्वात्मवृत्तिः ।
अत एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषु वृत्त्यभावात्स्वात्मगतसंवेदनाभावाच्च । १२(३२६ २)
तस्मादिहबुद्ध्यनुमेयः समवाय इति ॥
इति प्रशस्तपादभाष्ये समवायपदार्थः समाप्तः ॥ १२ ०(३२६ ५)
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । ० ०(३२६ ७)
चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ॥
इति प्रशस्तपादविरचितं द्रव्यादिषट्पदार्थभाष्यं समाप्तम् ॥ ० ०(३२६ ९)