नमः समन्तभद्राय।
न्यायवादिनम् अपि वादेषु असद्-व्यवस्था-उपन्यासैः शठा निगृह्णन्ति, तन्-निषेध-अर्थम् इदम् आरभ्यते।
असाधन-अङ्ग-वचनम्
अदोष-उद्भावनं द्वयोः ।
निग्रहस्थानम्, अन्यत् तु
न युक्तम् इति न इष्यते ॥१॥
इष्टस्य +अर्थस्य सिद्धिः साधनम्,
तस्य निर्वर्तकम् अङ्गम्,
तस्य अवचनम् - तस्य अङ्गस्य अनुच्चारणं
वादिनो निग्रह-अधिकरणम्,
तद् अभ्युपगम्य अप्रतिभया तूष्णीम्भावात्,
साधन-अङ्गस्य असमर्थाद् वा।
त्रिविधम् एव हि लिङ्गम् अप्रत्यक्षस्य सिद्धेर् अङ्गम्,
स्वभावः कार्यम् अनुपलब्धश् च।
तस्य समर्थनं साध्येन व्याप्तिं प्रसाध्य धर्मिणि भाव-साधनम्,
यथा यत् सत् कृतकम् वा, तत् सर्वम् अनित्यम्, यथा घट-आदिः,
सन् कृतको वा शब्द इति। अत्र अपि न कश्चित् क्रम-
नियमः, इष्ट-अर्थ-सिद्धेर् उभयत्र अविशेषात्। धर्मिणि प्राक्
सत्त्वं प्रसाध्य पश्चाद् अपि व्याप्तिः प्रसाध्यत एव
यथा सन् शब्दः कृतको वा, यश् च एवम्, स सर्वो अनित्यः,
यथा घट-आदिर् इति।
अत्र व्याप्ति-साधनं विपर्यये बाधक-प्रमाण-उपदर्शनम्।
यदि न सर्वं सत् कृतकं वा प्रतिक्षण-विनाशि
स्यात्, अक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थक्रिया-अयोगाद्
अर्थक्रिया-सामर्थ्य लक्षणतो निवृत्तम् इत्य् असद् एव स्यात्।
सर्व-सामर्थ्य-उपाख्या विरह-लक्षणं हि निरुपाख्यम् इति।
एवं साधनस्य साध्य-विपर्यये बाधक-प्रमाण-अनुपदर्शने
विरोध-अभावाद् अस्य विपर्यये वृत्तेर् अदर्शने अपि
सन् कृतको वा स्यान् नित्यश् च इत्य् अनिवृत्तिर् एव शङ्कायाः। ततो
व्यतिरेकस्य सन्देहाद् अनैकान्तिकः स्याद् हेत्वाभासः।
न अप्य् अदर्शन-मात्राद् व्यावृत्तिः, विप्रकृष्टेष्व् असर्व-दर्शिनो
अदर्शनस्य अभाव-असाधनात्, अर्वाग्दर्शनेन सताम् अपि केषाञ्चिद्
अर्थानाम् अदर्शनात्।
बाधकं पुनः प्रमाणम्, यत्र क्रमयौगपद्य-अयोगः,
न तस्य क्वचित् सामर्थ्यम्, अस्ति च अक्षणिके स इति
प्रवर्तमानम् असामर्थ्यम् असल्-लक्षणम् आकर्षति। तेन
यत् सत् कृतकं वा तद् अनित्यम् एव इति सिध्यति, तावता च साधन
धर्म-मात्र-अन्वयः साध्य-धर्मस्य, स्वभावहेतु-
लक्षणं च सिद्धं भवति।
अत्र अप्य् अदर्शनम् अप्रमाणयतः क्रमयौगपद्य-अयोगस्य
एव असामर्थ्येन व्याप्त्य्-असिद्धेः पूर्वकस्य अपि हेतोर्
अव्याप्तिः। इह अपि पुनः साधन-उपक्रमे अनवस्था-प्रसङ्ग
इति चेत्। न, अभाव साधनस्य अदर्शनस्य अप्रतिषेधात्। यद्
अदर्शनं विपर्ययं साधयति हेतोः साध्य-विपर्यये,
तद् अस्य विरुद्ध-प्रत्युपस्थापनाद् बाधकं प्रमाणम्
उच्यते। एवं हि स हेतुः साध्य-अभावे असन् सिध्येत्, यदि
तत्र प्रमाणवता स्व-विरुद्धेन बाध्येत। अन्यथा तत्र
अस्य बाधक-असिद्धौ संशयो दुर्निवारः। न च सर्व-अनुपलब्धिर्
भावस्य बाधिका। तत्र सामर्थ्यं क्रम-अक्रम
योगेन व्याप्तं सिद्धम्, प्रकार-अन्तर-अभावात्। तेन व्यापक-
अनुपलब्धिर् अक्षणिके सामर्थ्यं बाधत इति
क्रमयौगपद्य-अयोगस्य सामर्थ्य-अभावेन व्याप्ति-सिद्धेर्
न अनवस्था-प्रसङ्गः।
एवं स्वभावहेतु-प्रयोगेषु समर्थितं साधन-अङ्गं
भवति। तस्य असमर्थनं साधन-अङ्ग-अवचनं तद्-वादिनः
पराजय-स्थानम् आरब्ध-अर्थ-अप्रसाधनात्, वस्तुतः
समर्थस्य हेतोर् उपादाने अपि सामर्थ्य-अप्रतिपादनात्।
कार्यहेताव् अपि साधन-अङ्गस्य समर्थनम्, यत् कार्य-
लिङ्गं कारणस्य साधनाय उपादीयते, तस्य तेन सह कार्यकारणभाव-
प्रसाधनं भाव-अभाव-साधन-प्रमाणाभ्याम्।
यथा इदम् अस्मिन् सति भवति। सत्स्व् अपि तद्-अन्येषु
समर्थेषु तद्-हेतुषु तद्-अभावे न भवति इति। एवं ह्य्
अस्य असन्दिग्धं तत्-कार्यत्वं समर्थितं भवति।
अन्यथा केवलं तद्-अभावे न भवति इत्य् उपदर्शने
अन्यस्य अपि तत्र अभावे सन्दिग्धम् अस्य सामर्थ्यम्। अन्यत्
तत्र समर्थम्, तद्-अभावात् तन् न भूतम्। एतन्-निवृत्तौ
पुनर् निवृत्तिर् यदृच्छा-संवादः, मातृ-विवाह-उचित-देश-जन्मः
पिण्ड खर्जूरस्य देश-अन्तरेषु मातृ-विवाह-अभावे
अभाव-वत्।
एवं समर्थितं तत् तत्-कार्यं सिध्यति। सिद्धं
सत् स्व-सम्भवेन तत्-सम्भवं साधयति। कार्यस्य कारण-
अव्यभिचारात्। अव्यभिचारे च स्व-कारणैः सर्व-कार्याणां
सदृशो न्यायः। एवम् असमर्थनं कार्यहेताव् अपि साधन-
अङ्ग-अवचनं तद्-वादिनः पराजय-स्थानम्, असमर्थिते
तस्मिन् कार्यत्व-असिद्धेर् अर्थ-अन्तरस्य तद्भाव-अप्रतिबद्ध-
स्वभावस्य भावे तद्भाव-नियम-अभावाद् आरब्ध-अर्थ-
असिद्धेः, वस्तुतः कार्यस्य अप्य् उपादाने तद्-अप्रतिपादनात्।
अनुपलब्धाव् अपि प्रतिपत्तुर् उपलब्धि-लक्षण-प्राप्तस्य
अनुपलब्धि-साधनं समर्थनम्, तादृश्या एव अनुपलब्धेर्
असद्-व्यवहार-सिद्धेः, अनुपलब्धि-लक्षण-प्राप्तस्य
प्रतिपत्तृ-प्रत्यक्ष-उपलब्धि-निवृत्ताव् अप्य् अभाव-असिद्धेः।
तत्र उपलब्धि-लक्षण-प्राप्तिः स्वभाव-विशेषः कारण-अन्तर-
साकल्यं च। स्वभाव-विशेषो यन् न त्रिविधेन
विप्रकर्षेण विप्रकृष्टम्, यद् अनात्म-रूप-प्रतिभास-विवेकेन
प्रतिपत्तृ-प्रत्यक्ष-प्रतिभास-रूपम्। तादृशः सत्स्व्
अन्येषु उपलम्भ-प्रत्ययेषु तथा अनुपलब्धो असद्-व्यवहार-
विषयः। ततो अन्यथा सति लिङ्गे संशयः।
अत्र अपि सर्वम् एवंविधम् असद्-व्यवहार-विषय इति
व्याप्तिः, कस्यचिद् असतो अभ्युपगमे तल्-लक्षण-अविशेषात्; न
ह्य् एवंविधस्य असत्त्वान् अभ्युपगमे अन्यत्र तस्य योगः।
न ह्य् एवंविधस्य सतः सत्स्व् अन्येषु उपलम्भ-कारणेष्व्
अनुपलब्धिः। अनुपलभ्यमाणं त्व् ईदृशं न अस्ति इत्य् एतावन्मात्र-
निमित्तो अयम् असद्-व्यवहारः, अन्यस्य तन्-निमित्तस्य
अभावात्।
सर्व-सामर्थ्य-विवेको निमित्तम् इति चेत्, एवम् एतत् तस्य एव
सर्व-सामर्थ्य-विवेकिन एवं प्रतीतिः, अन्यस्य तत्-प्रतिपत्त्य्-
उपाय-अभावात्। तत्-प्रतिपत्तौ च सत्याम् असद्-व्यवहार
इति इदं तन्-निमित्तम् उच्यते।
बुद्धि-व्यपदेश-अर्थक्रियाभ्यः सद्-व्यवहारो विपर्यये
च असद्-व्यवहार इति चेत्, भवति बुद्धेर् यथोक्त-प्रतिभासायाः
सद्-व्यवहारः, विपर्यये असद्-व्यवहारः।
प्रत्यक्ष-अविषये तु स्याल् लिङ्गजाया अपि कुतश्चित् सद्-व्यवहारः।
असद्-व्यवहारस् तु तद्-विपर्यये अनैकान्तिकः, विप्रकृष्टे
अर्थे प्रतिपत्तृ-प्रत्यक्षस्य अन्यस्य वा प्रमाणस्य
निवृत्ताव् अपि संशयात्।
न च सर्वे बुद्धि-व्यपदेशास् तद्-भेद-अभेदौ वा वस्तु-
सत्तां वस्तु-भेद-अभेद-सत्तां वा साधयन्ति, असत्स्व् अपि
कथञ्चिद् अतीत-अनागत-आदिषु नाना-एक-अर्थक्रियाकारिषु वा अर्थेषु
तद्-भाव स्थापनाय नाना-एकात्म-अभावे अपि नाना-एक-रूपाणां
वृत्तेः, राजा महा-सम्मतः प्रभवो राजवंशस्य, शङ्खश्
चक्रवर्त्ती महा-सम्मत-निर्मितस्य यूपस्य उत्थापयिता,
शश-विषाणम्, रूपं सनिदर्शनं सप्रतिघम्,
घटश् च इति। न हि सनिदर्शन-आदि शब्दा नाना-वस्तु-विषया एकत्र
उपसंहारात्।
नाना-विषयत्वे अप्य् एकत्र उपसंहारस् तन्-निमित्तानान् तत्र
समवायाद् इति चेत्, आयासे वत अयं तपस्वी पदार्थः पतितो
अनेक-सम्बन्धिनम् उपकृत्य-अनेकं शब्दम् आत्मनि तेभ्यः
समाशंसन्। स यैः शक्ति-भेदैर् अनेकं सम्बन्धिनम्
उपकरोति तैर् एव अनेकं शब्दं किं न उत्थापयति।
एवं ह्य् अनेन परम्पर-अनुसार-परिश्रमः परिहृतो
भवति नाना-शब्द-उत्थापन असामर्थ्ये नाना-सम्बन्ध्य्-
उपकारो अपि मा भूत्, अनुपकारे हि तेषां तत्-सम्बन्धिता
अपि न सिध्यति।
घट इत्य् अपि च रूप-आदय एव बहव एक-अर्थक्रियाकारिण
एक-शब्द-वाच्या भवन्तु, किम् अर्थ-अन्तर-कल्पनया।
बहवो अपि ह्य् एक-अर्थ-कारिणो भवेयुश् चक्षुर्-आदि-वत्। तत्-सामर्थ्य-
स्थापनाय तत्र एक-शब्द-नियोगो अपि स्याद् इति युक्तं
पश्यामः। न च निःप्रयोजना लोकस्य अर्थेषु शब्द-योजना।
तत्र ये अर्थाः सह पृथग् वा एक-प्रयोजनास् तेषां तद्भाव-
स्थापनाय ह्य् एक-शब्दो नियुज्यते यदि, किं स्यात्। तद्-अर्थक्रिया-
शक्ति-स्थापनाय नियुक्तस्य समुदाय-शब्दस्य एक-
वचन-विरोधो अपि न अस्त्य् एव। सहितानां सा शक्तिर् एका न
प्रत्येकम् इति समुदाय-शब्द एकस्मिन् समुदाये वाच्ये
एक-वचनं घट इति। जाति शब्देष्व् अर्थानां प्रत्येकं
सहितानां च शक्तेर् नाना-एका च शक्तिर् इति, नाना-एक-शक्ति-विवक्षायां
बहु-वचनम् एक-वचनं च इच्छातो वृक्षा वृक्ष इति
स्यात्, यद्य् एष नियमो बहुष्व् एव बहु-वचनम्, एकस्मिन्न्
एक-वचनम् इति। अस्माकन् तु साङ्केतिकेष्व् अर्थेषु सङ्केत-
वशाद् वृत्तिर् इत्य् अनभिनिवेश एव।
नाना-एको रूप-आदिर् एक-शब्द-उत्थापने शक्त इति चेत्, किं वै
पुरुष-वृत्तेर् अनपेक्षाः शब्दान् अर्थाः स्वयम् उत्थापयन्ति,
आहोस्वित् पुरुषैर् शब्दा व्यवहार-अर्थम् अर्थेषु
नियुज्यन्ते। स्वयम् उत्थापने हि भाव-शक्तिर् अशक्तिर् वा चिन्त्येत,
न च तद् युक्तम्। पुरुषैस् तेषां नियोगे यथेष्टं
नियुञ्जीरन्न् इति कस् तत्र उपालम्भः, निमित्तं च नियोगस्य
उक्तम् एव। अपि च यदि न रूप-आदीनाम् एकेन शब्देन सम्बन्धः,
कथम् एकेन एषाम् आश्रय-अभिमतेन द्रव्येण
सम्बन्ध इति केवलम् अयम् असद्-भूत-अभिनिवेश एव।
न वयम् एक-सम्बन्ध-विरोधाद् एकं शब्दं न इच्छामः,
अपि त्व् अभिन्नानां रूप-आदीनां घट-कम्बल-आदिषु नाना-
अर्थक्रिया-शब्द-विरोधात् त एक-रूपाः समुदाय-अन्तर-असम्भाविनीम्
अर्थक्रियाम् एव न कुर्युः। तेन तत्-प्रकाशनाय एकैकेन
अपि शब्देन न उच्येरन्। भवतु नाम कस्यचिद् अयं
वाञ्च्छा भवेयुर् एक-रूपा रूप-आदयः सर्व-समुदायेष्व् इति।
किम् इदं परस्पर-विविक्त-रूप प्रतिभास-अधियक्ष-दर्शनम्
एनाम् उपेक्षते। अनिष्टं च इदं रूप-आदीनां प्रतिसमुदायं
स्वभाव-भेद-उपगमात्।
यद्य् अन्य एव रूप-आदिभ्यो घट इति एकः स्यात्,
किं स्यात्। अस्तु, प्रत्यक्षस्य सतो अरूप-आदि-रूपस्य तद्-विवेकेन बुद्धौ
स्वरूपेण प्रतिभासेन किम् आवरणम्। प्रतिभासमानाश्
च विवेकेन प्रत्यक्षा अर्था दृश्यन्ते अपृथग्देशत्वे
अपि गन्ध-रस-आदयः, वात-आतप-स्पर्श-आदयश् च एक-इन्द्रिय-ग्राह्यत्वे
अपि। इदम् एव च प्रत्यक्षस्य प्रत्यक्षत्वम्, यद्
अनात्म-रूप-विवेकेन स्वरूपस्य बुद्धौ समर्पणम्।
अयं पुनर् घटो अमूल्य-दान-क्रयी, यः स्वरूपं च न उपदर्शयति
प्रत्यक्षतां च स्वीकर्तुम् इच्छति। एतेन बुद्धि-
शब्द-आदयो अपि व्याख्याता यदि तैस् तत्-साधनम् इष्यते। न च
प्रत्यक्षस्य अनभिभवे रूप-अनुपलक्षणम्, येन तत्-साधनाय
लिङ्गम् उच्यते। अप्रत्यक्षत्वे अप्य् अप्रमाणस्य सत्ता-
उपगमो न युक्तः। तन् न रूप-आदिभ्यो अन्यो घटः। एवं
तावन् न बुद्धि-व्यपदेशाभ्यां सत्ता-व्यवहारः सत्ता-
भेद-अभेद-व्यवहारो वा अत एव न तद्-विपर्ययाद् विपर्ययः।
अर्थक्रियातस् तु सत्ता-व्यवहारः स्यात्, न सत्ता-भेद-अभेद-
व्यवहारः, एकस्य अप्य् अनेक-अर्थक्रिया-दर्शनात्, यथा
प्रदीपस्य विज्ञान-वर्ति-विकार-ज्वाला-अन्तर-उत्पादनानि, अनेकस्य
अपि चक्षुर्-आदेर् एक-विज्ञान-क्रिया-दर्शनात्।
न ब्रूमो अर्थक्रिया-भेद-मात्रेण सत्ता-भेद इति, किं
तर्हि अदृष्ट-अर्थक्रिया-भेदेन। या अर्थक्रिया यस्मिन्न् अदृष्टा
पुनर् दृश्यते सा सत्ता-भेदं साधयति, यथा मृद्य् अदृष्टा
सत्य् उदक-धारण-आद्य्-अर्थक्रिया घटे दृश्यमाना, अदृष्टा अपि
तन्तुषु प्रावरण-आद्य्-अर्थक्रिया पटे दृश्यत इति सत्ता-
भेदः।
सिध्यति एवम् अर्थ-अन्तरम्, तथा अप्य् अवयवी न सिध्यति।
यथाप्रत्ययं संस्कार-सन्ततौ स्वभाव-भेद-उत्पत्तेर्
अर्थक्रिया-भेदः, अरणि-निर्मथन-अवस्था-भेदाद् इव अग्नेः
स्थूल-करीष-तृण-काष्ठ-दहन-शक्ति-भेदः। तथा यथाप्रत्ययं
स्वभाव-भेद-उत्पत्तेस् तन्त्व्-आदिष्व् अर्थक्रिया-भेदः।
एतेन बुद्धि-व्यपदेश-भेद-अभेदौ व्याख्यातौ।
तत्र यद् उक्तम् अर्थक्रियातः सत्ता-व्यवहार-सिद्धिः,
विपर्ययाद् विपर्यय इति सत्यम् एतत्। स एव तु विपर्ययो
अनुपलब्धि-लक्षण-प्राप्तेषु न सिध्यति। तत्र पुनर् इदम्
अनिच्छतो अप्य् आयातम्, यस्य इदं सामर्थ्यम् उपलब्धि-लक्षण-
प्राप्तं सन् न उपलभ्यते, सो असद्-व्यवहार-विषयः
सामर्थ्य-लक्षणत्वात् सत्त्वस्य इति। तथा अपि को अतिशयः पूर्वकाद्
अस्य। न हि स्वभावाद् अर्थ-अन्तरं सामर्थ्यम्, तस्य
उपलब्धि-लक्षण-प्राप्तस्य यो अनुपलम्भः स स्वभावस्य
एव इति पूर्वका एव इयम् अनुपलब्धिः। तस्माद् अनेन क्वचित्
केषाञ्चिद् असद्-व्यवहारम् अभ्युपगच्छता अतो अनुपलम्भाद्
अभ्युपगन्तव्यो न वा क्वचिद् विशेष-अभावात्। सो
अन्यत्र अपि तथाविधे अविशिष्ट इति सो अपि तथा अस्त्व् इति व्याप्तिः:
सर्व एवंविधो अनुपलब्धो असद्-व्यवहार-विषय इति।
न एव कश्चित् क्वचित् कथञ्चिद् अनुपलब्धो अप्य् असद्-व्यवहार-
विषय इति चेत्, सर्वस्य सर्व-रूपाणां सर्वदा अनिवृत्तेः
सर्वं सर्वत्र सर्वदा समुपयुज्येत। इदं च न
स्यात्: इदम् अतः, नात इदम्, इह इदम्, इह न इदम्, इदानीम्
इदम्, इदानीं न इदम्, इदम् एवम्, इदं न एवम् इति, कस्यचिद्
अपि रूपस्य कथञ्चिद् क्वचित् कदाचिद् विवेक-हेतोर् अभावात्।
अनन्वय-व्यतिरेकं विश्वं स्यात्, भेद-अभावात्।
अवस्था-निवृत्ति-प्रवृत्ति-भेदेभ्यो व्यवस्था इति चेत्, ननु
त एव सर्व-विषयस्य असद्-व्यवहारस्य अभावान् न सम्भवन्ति,
यतस् तेभ्यो व्यवस्था स्यात्। क्वचिद् विषये असद्-व्यवहार-
उपगमे स कुत इति वक्तव्यम्। न ह्य् अनुपलम्भाद्
अन्यो व्यवच्छेद-हेतुर् अस्ति, विधि-प्रतिषेधाभ्यां व्यवच्छेदे
सर्वदा अनुपलम्भस्य एव साधनत्वात्। अनुपलम्भाद्
एव तद्-अभ्युपगमे स यत्र एव अस्ति सर्वो असद्-व्यवहार-
विषय इति वक्तव्यम्, विशेष-अभावात्।
सर्व-प्रमाण-निवृत्तिर् अनुपलब्धिः। सा यत्र सो असद्-विषय
इष्ट इति चेत्, सुकुमार-प्रज्ञो देवानाम्प्रियो न सहते
प्रमाण-चिन्ता-व्यवहार-परिक्लेशं येन न अत्र आदरं कृतवान्।
न ह्य् अनुमान-आदि-निवृत्तिर् अभावं गमयति व्यभिचारात्,
न सर्व-प्रत्यक्ष-निवृत्तिर् असिद्धेः, न आत्म-प्रत्यक्ष-अविशेष-
निवृत्तिर् अपि विप्रकृष्टेषु। तस्मात् स्वभाव-विशेषो यतः
प्रमाणान् नियमेन सद्-व्यवहारं प्रतिपद्यते, तन्-निवृत्तिस्
तस्य असद्-व्यवहारं साधयति, तत्-स्वभाव-सत्तायास् तत्-
प्रमाण-सत्तया व्याप्तेः। न च उपलब्धि-लक्षण-प्राप्तस्य अर्थस्य
प्रत्यक्षाद् अन्य-उपलब्धिर् येन अनुमानाद् अस्य उपलब्धिः
स्यात्। न च तद्-रूप-अन्यथाभावम् अन्तरेण अप्रत्यक्षता-
अन्यथाभावे च तद् एव न स्यात्।
अपि च कुत इदम् अमन्त्र-ओषधम् इन्द्रजालं भावेन
शिक्षितम्, यद् अयम् अजात-अनष्ट-रूप-अतिशयो अव्यवधान-अदूर-
स्थानस् तस्य एव तद्-अवस्था इन्द्रिय-आदेर् एव पुरुषस्य कदाचित्
प्रत्यक्षो अप्रत्यक्षश् च, येन कदाचित् अस्य अनुमानम् उपलब्धिः
कदाचित् प्रत्यक्षं कदाचिद् आगमः, एतस्मिन्न् एव अनतिशये
अमीषां प्रकाराणां विरोधात्।
न अनतिशय एक-अतिशय-निवृत्त्या अपर-अतिशय-उत्पत्त्या च व्यवहार-
भेद-उपगमात्। सो अतिशयस् तस्य आत्मभूतो अनन्वयो निवर्तमानः
प्रवर्तमानश् च कथं न स्वभाव-नानात्वम्
आकर्षयति सुख-दुःख-वत्। सान्वयत्वे च का कस्य
प्रवृत्तिर् निवृत्तिर् वा इति यत् किञ्चिद् एतत्।
अथवा यदि कस्यचित् स्वभावस्य प्रवृत्ति-निवृत्ती स्वयम्
अभ्यनुज्ञायेते, तद् एव परो ब्रुवाणः किम् इति न अनुमन्यते।
तस्य निरन्वय-उपजनन-विनाश-उपगमाद् इति चेत्, को
अयम् अन्वयो नाम भावस्य जन्म-विनाशयोः। शक्तिः, सा अस्त्य्
एव प्राग् अपि जन्मनो निरोधाद् अप्य् ऊर्ध्वम्। तेन अयं न अपूर्वः
सर्वथा जायते, न पूर्वो विनाश्यति इति। यदि सा सर्वदा अनतिशया
किम् इदानीम् अतिशयवत् यत् कृतो अयं व्यवहार-विभागः।
ता अवस्था अतिशयवत्य इति चेत् ता अवस्थाः सा च
शक्तिः, किम् एको भाव आहोस्विन् नाना। एकश् चेत्, कथम् इदानीम्
इदम् एकत्र अविभक्त-आत्मनि निष्पर्यायं परस्पर-व्याहतं
योक्ष्यते: जन्म-अजन्म निवृत्तिर् अनिवृत्तिर् एकत्वं नानात्वं
प्रत्यक्षता-अप्रत्यक्षता अर्थक्रिया-उपयोगो अनुपयोगश्
च इत्य् आदि।
अस्ति पर्यायो अवस्था शक्तिर् इति तेन अविरोध इति चेत्, विस्मरण-
शीलो देवानाम्प्रियः प्रकरणं न लक्षयति। शक्तिर्
अवस्था इत्य् एको भावो अविभाग इति पक्षे अयं विरोध उक्तः।
अथ अस्त्य् अनयोर् विभागो न कश्चिद् विरोधः, केवलं
सान्वयौ भावस्य जन्म-विनाशाव् इति न स्यात्, यस्माद् यस्य अन्वयो
न तस्य जन्म-विनाशौ यस्य च तौ न तस्य अन्वयः।
तयोर् अभेदाद् अदोष इति चेत्, अनुत्तरं बत, दोष-सङ्कटम्
अत्रभवान् दृष्टि-रागेण प्रवेश्यमानो अपि न आत्मानं
चेतयति। अभेदो हि नाम-ऐक्यं ताव् इति च भेद-अधिष्ठानो
भाविको व्यवहारः। निवृत्ति-प्रादुर्भावयोर् अनिवृत्ति-प्रादुर्भावौ
स्थिताव्, अस्थितिर् इत्य् आदिकं नानात्व-लक्षणं च
कथं योज्यते। एष हि भावानां भेद एतद्-विरहश् च अभेदो
यथा सुख-आदिषु शक्त्य्- अवस्थयोश् च एकात्मनि। अन्यथा
भेद-अभेद-लक्षण-अभावाद् भेद-अभेदयोर् अव्यवस्था स्यात्
सर्वत्र।
तदात्मनि प्रादुर्भावो अभेदः, विपर्यये भेदः, यथा
मृद्-आत्मनि प्रादुर्भवतो घटस्य तस्माद् अभेदः।
भेदश् च विपर्यये सुख-दुःखयोर् इति, इदं भेद-
अभेद-लक्षणम्, तेन अविरोध इति चेत्, न वै मृदात्मनि
घटस्य प्रादुर्भावः, किं तर्हि मृदात्मा एव कश्चित्
घटः। न ह्य् एकस् त्रैलोक्ये मृद्-आत्मा, प्रतिविज्ञप्ति-प्रतिभास-
भेदात् द्रव्य-स्वभाव-भेदात्। एवं ह्य् अस्य अपि सुख-आदिषु
चैतन्येषु च भेद-अवगमः समर्थो भवति, यद्य्
एवं भेदः स्यात्।
सत्य् अप्य् एतस्मिन् कस्यचिद् आत्मनो अन्वयाद् ऐक्यम् इति
चेत्, सुख-आदिष्व् अप्य् अयं प्रसङ्गः चैतन्येषु च। न च घट-
आदिष्व् अपि सर्व-आत्मना अन्वयो अवैश्वरूप्य-सहोत्पत्त्य्-आदि-प्रसङ्गात्।
न च घटं मृद्-आत्मानं च कश्चिद् विवेकेन उपलक्षयति।
येन एवं स्याद् इदम् इह प्रादुर्भूतम् इति। न ह्य्
अधिष्ठान-अधिष्ठानिनोर् विवेकेन अनुपलक्षणे एवं भवति।
न च शक्तेः शक्त्य्-आत्मनि प्रादुर्भाव इति तस्याः स्वात्मनो
अभेदो न स्यात्।
एतेन परिणामः प्रत्युक्तः, यो अपि हि कल्पयेत्, यो यस्य
परिणामः, स तस्माद् अभिन्न इति, न हि शक्तेर् आत्म-अपरिणाम
इति, किं च इदम् उक्तं भवति परिणाम इति। अवस्थितस्य
द्रव्यस्य धर्म-अन्तर-निवृत्तिर् धर्म-अन्तर-प्रादुर्भावश्
च परिणामः यत् तद् धर्म-अन्तरं निवर्तते
प्रादुर्भवति च, किं तत् तद् एव अवस्थितं द्रव्यं स्यात्।
ततो अर्थ-अन्तरं वा अन्य-विकल्प-अभावात्।
यदि तत् तद् एव, तस्य अवस्थानं न निवृत्ति-प्रादुर्भावाव्
इति कस्य ताव् इति वक्तव्यम्। अवस्थितस्य धर्म-अन्तरम् इति
च न सिध्यति। न हि तद् एव तस्य अनपाश्रित-व्यपेक्ष-अभेदं
धर्म-अन्तरं भवति।
अथ द्रव्याद् अर्थ-अन्तरं धर्मः, तदा तस्य निवृत्ति-
प्रादुर्भावाभ्यां न द्रव्यस्य परिणतिः। न ह्य् अर्थ-अन्तरगताभ्यां
निवृत्ति-प्रादुर्भावाभ्याम् अर्थ-अन्तरस्य परिणतिः,
चैतन्ये अपि प्रसङ्गात्।
द्रव्यस्य धर्म इति च व्यपदेशो न सिध्यति सम्बन्ध-
अभावात्। न हि कार्यकारणभावाद् अन्यो वस्तु-सम्बन्धो
अस्ति। न च अनयोः कार्यकारणभावः, स्वयम् अतदात्मनो
अतत्-कारणत्वात्, धर्मस्य द्रव्याद् अर्थ-अन्तर-भूतत्वात्।
अर्थान्तरत्वे अपि धर्म-कारणत्वे धर्म-अन्तरस्य
कार्यस्य उत्पादनाद् द्रव्यस्य परिणाम इति इष्टं स्यात्। तद् अविरुद्धम्
अन्यस्य अपि, हेतु-फल-सन्ताने मृद्-द्रव्य-आख्ये पूर्वकान्
मृत्-पिण्ड-द्रव्यात् कारणाद् उत्तरस्य घट-द्रव्यस्य
कार्यस्य उत्पत्तौ मृद्-द्रव्यं परिणतम् इति व्यवहारस्य उपगमात्।
न च धर्मस्य द्रव्यात् तत्त्वान्यत्वाभ्याम् अन्यो
विकल्पः सम्भवति, उभयथा अपि न परिणामः।
न निर्विवेकं द्रव्यम् एव धर्मः, न अपि द्रव्याद्
अर्थ-अन्तरम्, किं तर्हि, द्रव्यस्य सन्निवेशो अवस्था-अन्तरम्,
यथा अङ्गुलीनां मुष्टिः। न ह्य् अङ्गुल्य् एव निर्विवेका मुष्टिः,
प्रसारितानाम् अमुष्टित्वात्, न अप्य् अर्थ-अन्तरम्, पृथक्-स्वभावेन
अनुपलब्धेर् इति चेत्, न, मुष्टेर् अङ्गुलि-विशेषत्वात्। अङ्गुल्य
एव हि काश्चिन् मुष्टिः, न सर्वाः। न हि प्रसारिता अङ्गुल्यो
निर्विवेक-स्वभावा मुष्ट्य्-अङ्गुल्यः, अवस्था-द्वये अपि उभय-
प्रतिपत्ति-प्रसङ्गात्। य एव हि खलु विवेकः स्वभावभूतः,
स एव वस्तु-भेद-लक्षणं सुख-दुःख-वत्। परभूते
च विवेक-उत्पादे अङ्गुल्यः प्रसारिता एव उपलभ्येरन्, न हि
स्वयं स्वभावाद् अच्युतस्य अर्थ-अन्तर-उत्पादे अन्यथा-उपलब्धिः,
अतिप्रसङ्गात्
ननु उक्तं न द्रव्यम् एव निर्विवेकम् अवस्था, न अपि
द्रव्याद् अर्थ-अन्तरम् इति। उक्तम् इदम्, न पुनर् युक्तम्, न
हि सतो वस्तुनस् तत्त्वान्यत्वे मुक्त्वा अन्यः प्रकारः सम्भवन्ति,
तयोर् वस्तुनि परस्पर-परिहार-स्थित-लक्षणत्वेन
एक-त्यागस्य अपर-उपादान-नान्तरीयकत्वात्। अङ्गुलीषु पुनः
प्रतिक्षण-विनाशिनीष्व् अन्या एव प्रसारिताः, अन्या मुष्टिः।
तत्र मुष्ट्य्-आदि-शब्दा विशेष-विषयाः, अङ्गुली-शब्दः सामान्य-
विषयः, बीज-अङ्कुर-आदि-शब्द-वत् व्रीह्य्-आदि-शब्द-वच् च। तेन अङ्गुल्यः
प्रसारिता न मुष्टिः।
तद् यदि प्राग् असद् एव कारणे कार्यं भवेत्, किं न
सर्वः सर्वस्माद् भवति। न ह्य् असत्त्वे कश्चिद् विशेष इति।
ननु सर्वत्र सर्वस्य सत्त्वे अप्य् अयं तुल्यो दोषः। न हि
सत्त्वे कश्चिद् विशेषः। विशेषे वा स विशेषस् त्रैगुण्याद्
भिन्नः स्यात्, तद्भावे विशेषस्य अनन्वयात्। सतश् च सर्वात्मना
निष्पन्न-अवस्थायाम् इव किं जायते। साधन-वैफल्यं
च, साध्यस्य कस्यचिद् अभावात् यस्य कस्यचिद् अतिशयस्य
तत्र कथञ्चिद् असत उत्पत्तौ, सो अतिशयस् तत्र असन्
कथं जायते। जातौ वा सर्वः सर्वस्माज् जायेत इति तुल्यः पर्यनुयोगः।
न अतिशयस् तत्र सर्वथा न अस्ति, कथञ्चित् सत एव भावाद्
इति चेत्, यथा न अस्ति, स प्रकारस् तत्र असन् कथं जायेत।
न च सर्वथा सतः कश्चिज् जन्म-अर्थ इत्य् उक्तम्।
असतो अपि कार्यस्य कारणाद् उत्पादे, यो यज्-जनन-स्वभावः,
तत एव तस्य जन्म, न अन्यस्माद् इति नियमः।
तस्य अपि स स्वभाव-नियमः स्व-हेतोर् इत्य् अनादि-भाव-स्वभाव-
नियमः।
अपि च, यदि मृत्-पिण्डे घटो अस्ति, कथं तद्-अवस्थायां
न पश्चाद्-वद् उपलब्धिः, तद्-अर्थक्रिया वा। व्यक्तेर् अप्रादुर्भावाद्
इति चेत्, तस्य एव तद्-अर्थक्रिया-आदि-भावे घटत्वात्,
तद्-रूपस्य च प्राग् असत्त्वात्, कथं घटो अस्ति। न हि रूप-अन्तरस्य
सत्त्वे रूप-अन्तरम् अस्ति। न च रूप-प्रतिभास-भेदे वस्त्व्-
अभेदो युक्तः, अतिप्रसङ्गात्।
तस्माद् य उपलब्धि-लक्षण-प्राप्त-स्वभावो अनुपलब्धः,
स न अस्त्य् एव। न हि तस्य तत्-स्वभाव-स्थिताव् अनुपलब्धिः।
तद्-अस्थितिश् च अतत्त्वम्। परस्पर-स्वभाव-अस्थितयोर्
इव दुःख-सुखयोर् इति व्याप्तिर् असद्-व्यवहार-निश्चयेन
अनुपलब्धि-विशेषस्य।
तेन अनुपलब्ध्या कस्यचिद् व्यवच्छेदं प्रसाधयता
तस्य यथोक्त-उपलब्धि-लक्षण-प्राप्तिर् उपदर्शनिया। उपदर्श्य-
अनुपलब्धि-निर्देशः समर्थनं स्वभाव-अनुपलब्धौ।
व्यापक-अनुपलब्धाव् अपि धर्मयोर् व्याप्यव्यापकभावं
प्रसाध्य व्यापकस्य निवृत्ति-प्रसाधनं समर्थनम्।
कारण-अनुपलब्धाव् अपि कार्यकारणभावं
प्रसाध्य कारणस्य निवृत्ति-प्रसाधनं समर्थनम्। तद्-
विरुद्ध-उपलब्धिष्व् अपि द्वयोर् विरुद्धयोर् एकस्य विरुद्धस्य
उपदर्शनं समर्थनम्।
एवम् अनुपलब्धौ साधन-अङ्गस्य असमर्थनं साधन-
अङ्ग-अवचनं तद् वादिनो निग्रहस्थानम्, असमर्थने
तस्मिन् साध्य-असिद्धेः।
अथवा साध्यते तेन परेषाम् अप्रतीतो अर्थ इति साधनं
त्रिरूप-हेतु-वचन-समुदायः। तस्य अङ्गं पक्ष-धर्म-
आदि-वचनम्। तस्य एकस्य अप्य् अवचनम् असाधन-अङ्ग-वचनम्।
तद् अपि वादिनो निग्रहस्थानम् तद्-अवचने हेतु-रूपस्य
एव अवचनेन सिद्धेर् अभावात्।
अथवा तस्य एव साधनस्य यन् न अङ्गं प्रतिज्ञा-उपनय-
निगमन-आदि, तस्य असाधन-अङ्गस्य साधन-वाक्ये उपादानं
वादिनो निग्रहस्थानम्, व्यर्थ-अभिधानात्।
अन्वय-व्यतिरेकयोर् वा साधर्म्यवति वैधर्म्यवति
च साधन-प्रयोग एकस्य एव अभिधानेन सिद्धेर् भावात्,
द्वितीयस्य असामर्थ्यम् इति तस्य अप्य् असाधन-अङ्गस्य अभिधानं
निग्रहस्थानम् व्यर्थ-अभिधानाद् एव।
ननु च विषय-उपदर्शनाय प्रतिज्ञा-वचनम् असाधन-अङ्गम्
अप्य् उपदेयम् एव। न, वैयर्थ्यात्। असत्य् अपि प्रतिज्ञा-
वचने यथोक्तात् साधन-वाक्याद् भवत्य् एव इष्ट-अर्थ-सिद्धिर्
इत्य् अपार्थकं तस्य उपादानम्। यदि च विषय-उपदर्शनम्
अन्तरेण प्रतीतेर् अनुत्पत्तिः, कथं न प्रतिज्ञा साधन-
अवयवः। न हि पक्ष-धर्म-आदि-वचनस्य अपि प्रतीति-हेतु-
भावाद् अन्यः साधन-अर्थः। स प्रतिज्ञा-वचने अपि तुल्य इति
कथं न साधनम्।
केवलस्य असामर्थ्याद् असाधनत्वम् इति चेत्, तत् तुल्यं
पक्ष-धर्म-वचनस्य अपि इति तद् अपि न साधन-अवयवः स्यात्।
न हि पक्ष-धर्म-वचनात् केवलात् प्रतिपत्तेर् उत्पत्तिः।
एतेन संशय-उत्पत्तिः प्रत्युक्ता, पक्ष-धर्म-वचनाद् अपि
केवलाद् अप्रदर्शिते सम्बन्धे संशय-उत्पत्तेः। तस्माद्
व्यर्थम् एव साधन-वाक्ये प्रतिज्ञा-वचन-उपादानं वादिनो
निग्रहस्थानम्।
अथवा साधनस्य सिद्धेर् यन् न अङ्गम् असिद्धो विरुद्धो
अनैकान्तिको वा हेत्वाभासः। तस्य अपि वचनं वादिनो
निग्रहस्थानम् असमर्थ-उपादानात्।
तथा साध्य-आदि-विकलस्य अनन्वय-अप्रदर्शित-अन्वय-आदेर् अपि
दृष्टान्ताभासस्य असाधन-अङ्गस्य वचनम् अपि वादिनो निग्रहस्थानम्,
असमर्थ-उपादानाद् एव। न हि तैर् हेतोः सम्बन्धः
शक्यते प्रदर्शयितुम्, अप्रदर्शनाद् असामर्थ्यम्।
अथवा सिद्धिः साधनम् तद्-अङ्गं धर्मो यस्य अर्थस्य
विवाद-आश्रयस्य वाद-प्रस्ताव-हेतोः, स साधन-अङ्गः।
तद्-व्यतिरेकेण अपरस्य अप्य् अजिज्ञासितस्य विशेषस्य शास्त्र-आश्रय-
व्याज-आदिभिः प्रक्षेपो घोषणं च पर-व्यामोहन-अनुभाषण-
शक्ति-विघात-आदि-हेतोः। तद् अप्य् असाधन-अङ्ग-वचनं
वादिनो निग्रहस्थानम्, अप्रस्तुत-अभिधानात्, तथा विशेष-सहितस्य
अर्थस्य प्रतिवादिनो अजिज्ञासितत्वात्। जिज्ञासायाम् अदोषः।
जिज्ञासितं पुनर् अर्थस्य अन्यस्य प्रसङ्ग-परम्परया
येष पन्न-आदिना बहिः प्रतिवादिनः प्राश्निकानां च
न्यायदर्शिनाम् इति। एभिः कथा-विच्छेद एव करणीयः, न
हि कश्चिद् अर्थः क्वचित् क्रियमाण-प्रसङ्गे न प्रयुज्यते,
नैरात्म्यवादिनस् तु तत्-साधने नृत्य-गीत्य्-आदेर् अपि तत्र
प्रसङ्गात्।
यथा प्रतिज्ञा-अभिधान-पूर्वकं कश्चित् कुर्यात्। न अस्त्य्
आत्मा इति वयं बौद्धा ब्रूमः। के बौद्धाः। ये बुद्धस्य
भगवतः शासनम् अभ्युपगताः। को बुद्धो भगवान्।
यस्य शासने भदन्त-अश्वघोषः प्रव्रजितः। कः पुनर्
भदन्त-अश्वघोषः। यस्य राष्ट्र-पालं नाम नाटकम्।
कीदृशं राष्ट्र-पालं नाम नाटकम् इति प्रसङ्गं कृत्वा
नान्द्यन्ते ततः प्रविशति सूत्रधार इति पठेन् नृत्येद्
गायेच् च। प्रतिवादी तं च सर्व-प्रसङ्गं न अनुकर्तुं
समर्थ इति पराजितः स्याद् इति।
सभ्यः साधु-सम्मतानां विदुषां तत्त्व-चिन्ता-प्रकारः।
न च एवं प्रस्तुतस्य पर्यवसानं सम्भवति, अनिश्चय-
फलत्वाद् अनारम्भ एव वादस्य।
कथं च एवं जय-पराजयौ, प्रतिवादिनो अप्य् अननुभाषणस्य
एवम्प्रकारस्य प्रसङ्गस्य विस्तरेण अनुभाषण-
व्याजेन सम्भवाद् अनिश्चितत्वाच् च। तस्मात् प्रतिज्ञा-वचनम्
एव तावन् न न्याय्यम्। कुतः पुनर् तत्र अजिज्ञासित-
विशेष-प्रसङ्ग-उपन्यासस् तद्-व्याख्या-प्रसङ्ग-वितथ-प्रलापश्
च। सर्वश् च अयं प्रकारो दुर्मतिभिः शठैर् न्याय-सामर्थ्येन
अर्थ-प्रतिपादने असमर्थैः प्रवर्तितः। यथा
पुरुष-अतिशय-पूर्वकानि तनु-करण-भुवन-आदीनि इति प्रतिज्ञाय
तनु-करण-भुवन-व्याख्या-व्याजेन सकल-वैशेषिक-शास्त्र-अर्थ-
घोषणम्, नित्यः शब्दो अनित्यो वा इति वादे द्वादश-लक्षण-
प्रपञ्च-प्रकाशन-शास्त्र-प्रणेतुर् जैमिनि-प्रतिज्ञत-तत्त्व-
नित्यता-अधिकरण-शब्द-घट-अन्यतर-सद्वितीयो घट इति
प्रतिज्ञाम् उपरचय्य द्वादश-लक्षण-अर्थ-व्याख्यानम्। सर्वो
अयं दुर्मतीनाम् असामर्थ्य-प्रच्छादन-उपायः, न तु
सत्यैर् अस्त्य् उपेतः, तत्त्व-परीक्षायां फल-आदि-प्रतिसरण-
दण्ड-प्रयोग-आदीनाम् अयुक्तत्वात्।
भवत्य् एव नाटक-आदि-घोषणे अर्थ-अन्तर-गमनात् पराजय
इति चेत्, अन्यस्य अप्य् अजिज्ञासितस्य किं न भवति। न हि
अस्य अपि काचिद् विवक्षित-साध्य-धर्म-सिद्धौ नान्तरीयकता।
यथा हेतु-प्रत्यय-पारतन्त्र्य-लक्षण-संस्कार-दुःखता-
आदि-सिद्धिम् अन्तरेण न अनित्यता-सिद्धिः, तथाविधस् तु
धर्मः पृथग् अनुक्तो अपि साध्य-धर्मे अन्तर्भावात् पक्षीकृत
एव इति न पृथग् अस्य उपन्यासो व्याख्यानं वा। तस्माद्
एवंविधस्य अपि तदानीं प्रतिवादिना अजिज्ञासितस्य अर्थस्य
प्रतिज्ञायाम् अन्यत्र वा उपन्यासो व्याख्यानं वा अर्थ-अन्तर-
गमनान् निग्रहस्थानम् एव। तेन जिज्ञासित-धर्म-मात्रम्
एव साधन-अङ्गं वाच्यम्। न प्रसङ्ग उपक्षेप्तव्यः,
तद्-उपक्षेपे अतिप्रसङ्गात्।
एवम् असाधन-अङ्ग-वचनं वादिनो निग्रहस्थानं प्रतिवादिना
तथाभावे प्रतिपादिते, अन्यथा द्वयोर् एकस्य अपि
न जय-पराजयाव् इति।
अदोष-उद्भावनं प्रतिवादिनो निग्रहस्थानम्। वादिना
साधने प्रयुक्ते अभ्युपगत-उत्तर-पक्षो यत्र विषये प्रतिवादी
यदा न दोषम् उद्भावयति तदा पराजितो वक्तव्यः।
साधन-दोषाः पुनर् न्यूनत्वम् असिद्धिर् अनैकान्तिकता
वादिनः साधयितुम् इष्टस्य अर्थस्य विपर्यय-साधनम्
अष्टादश दृष्टान्त-दोषश् च। तेषाम् अनुद्भावनम् अप्रत्यायनम्
अप्रतिपादनं प्रतिवादिनः पराजय-अधिकरणम्।
तत् पुनः साधनस्य निर्दोषत्वात्, सदोषत्वे अपि प्रतिवादिनो
अज्ञानात् प्रतिपादन-असामर्थ्याद् वा। न हि दुष्ट-साधन-अभिधाने
अपि वादिनः प्रतिवादिनो अप्रतिपादिते दोषे पराजय-
व्यवस्थापना युक्ता, तयोर् एव परस्पर-सामर्थ्य-उपघात-
अपेक्षया जय-पराजय-व्यवस्थापनात्। केवलं हेत्वाभासाद्
भूत-प्रतिपत्तेर् अभावाद् अप्रतिपादकस्य जयो अपि न अस्त्य्
एव। न हि तत्त्व-चिन्तायां कश्चिच् छल-व्यवहारः।
यद्य् एवं किं न पराजयः, तत्त्व-सिद्धि-भ्रंशात्।
न अनिराकरणात्। निराकरणं हि तस्य अन्येन पराजयः, न
सिद्ध्य्-अभावः, प्रतियोग्य्-अनपेक्षणात् सिद्ध्य्-अभावस्य,
साधन-अभावे असत्य् अपि प्रतियोगिनि भावात्। प्रतियोगिनश् च
तन्-निराकरणे असामर्थ्यात् पराजयस्य अनुत्पत्तेर् अपराजयः।
तस्माद् अयम् असमर्थ-साधन-अभिधाय्य् अपि परेण
तथाभावे अप्रतिपादिते अपराजितो वक्तव्यः।
छल-व्यवहारे अपि विजिगीषूणां वाद इति चेत्, न, दुर्जन-
विप्रतिपत्त्य्-अधिकारे सतां शास्त्र-प्रवृत्तेः। न हि पर-अनुग्रह-
प्रवृत्ता मिथ्या-प्रलाप-आरम्भ-आत्म-उत्कर्ष-पर-पंसन-
आदीन् असद्-व्यवहारान् उपदिशन्ति। न च पर-विपंसनेन
लाभ-सत्कार-श्लोक-उपार्जनं सताम् आचारः। न अपि तथा-प्रवृत्तेभ्यः
स्व-हस्त-दानेन प्राणिनाम् उपतापनं सत्-सम्मतानां
शास्त्रकार-सभासदां युक्तम्। न च न्याय-शास्त्राणि
सद्भिर् लाभ-आद्य्-उपार्जनाय प्रणीयन्ते। तस्मान् न योग-विहितः
कश्चिद् विजिगीषु-वादो नाम। पर-अनुग्रह-प्रवृत्तास् तु सन्तो
विप्रतिपन्नं प्रतिपादयन्तो न्यायम् अनुसरेयुः सत्-
साधन-अभिधानेन भूत-दोष-उद्भावनेन वा, साक्षि-प्रत्यक्षं
तस्य एव अनुप्रबोधाय। तद् एव न्याय-अनुसरणं सतां
वादः, उक्त-न्याये तत्त्व-अर्थी चेत् प्रतिपद्येत, तद्-अप्रतिपत्ताव्
अप्य् अन्यो न प्रतिपद्येत इति।
तत्त्व-रक्षण-अर्थं सद्भिर् उपहर्तव्यम् एव छल-आदि
विजिगीषुभिर् इति चेत्, न, नख-चपेट-शस्त्र-प्रहार-आदीपन-आदिभिर्
अपि इति वक्तव्यम्। तस्मान् न ज्यायान् अयं तत्त्व-रक्षण-
उपायः। साधन-प्रख्यापनं सतां तत्त्व-रक्षण-उपायः
साधन-आभास-दूषणं च, तद्-अभावे मिथ्या-प्रलापाद् अत्र
पर-उपताप-विधाने अपि तत्त्व-अप्रतिष्ठापनात्। अन्यथा अपि न्याय-
उपवर्णने विद्वत्-प्रतिष्ठानात्। तस्मात् पर-अनुग्रहाय
तत्त्व-ख्यापनं वादिनो विजयः, भूत-दोष-दर्शनेन मिथ्या-
प्रतिपत्ति-निवर्तनं प्रतिवादिनः।
अथवा यो न दोषः साधनस्य तद्-भावे अपि वादिना साधयितुम्
इष्टस्य अर्थस्य सिद्धेर् विघात-अभावात्, तस्य उद्भावनं
प्रतिवादिनो निग्रह-अधिकरणम्, मिथ्या-उत्तर-अभिधानात्।
यथा साध्यतया अनिष्टो अपि वादिनो धर्मः, शास्त्र-उपगमात्
साध्य इति तद्-विपर्यासेन विरोध-उद्भावनम्। न अस्त्य्
आत्मा इति तव प्रतिज्ञा-पदयोर् विरोध इति प्रतिज्ञा-दोष-उद्भावनम्।
प्रयत्नानन्तरीयकः शब्दो अनित्यः प्रयत्नानन्तरीयकत्वाद्
इति हेतोर् धर्म-विशेषत्वात् प्रतिज्ञार्थैकदेश इत्य्
असिद्ध-उद्भावनम्, सर्वाणि साधर्म्य-वैधर्म्य-सम-आदीनि
जात्य्-उत्तराणि इत्य् एवम्-आदेर् दोषस्य उद्भावनम् अदोष-उद्भावनम्।
तस्य वादिना दोष-आभासत्वे प्रख्यापिते प्रतिवादी पराजितो
वक्तव्यः, पूर्वपक्षे साधनस्य निर्दोषत्वात्। दोषवति
पुनः साधने न द्वयोर् एकस्य अपि जय-पराजयौ, तत्त्व-
अप्रख्यापनात् अदोष-उद्भावनाच् च। अप्रतिपक्षायां च
पक्ष-सिद्धौ कृतायां जेता भवति।
तस्माज् जिगीषता स्व-पक्षश् च स्थापनीयः पर-पक्षश् च
निराकर्तव्यः। निर्दोषे साधन-अभिधाने अपि वादिनः प्रतिवादिना
दोष-आभास उद्भाविते, दूषण-आभासत्व-ख्यापन एव
जय-पराजयौ, न अन्यथा, भावतस् तत्त्व-अभिधाने अपि प्रतिपक्ष-
निराकरणेन तत्त्वस्य प्रख्यापन-असामर्थ्यात्। न
प्रतिवादिनो अप्य् अत्र, भावतो मिथ्या-प्रतिपत्तेर् इति।
इदं न्याय्यं निग्रहस्थान-लक्षणम् उक्तम् अस्माभिः।
अन्यत् तु न युक्तम् इति न इष्यते।
यत्र इदं यथोक्तं निग्रहस्थान-लक्षणं न अस्ति तस्य
निग्रहस्थानत्वम् अयुक्तम् इति न उक्तम् अस्माभिः।
प्रतिदृष्टान्त-धर्म-अभ्यनुज्ञा-स्व-दृष्टान्ते प्रतिज्ञाहानिर्
निग्रहस्थानम् इति अत्र भाष्यकार-मतं दूषयित्वा वार्त्तिककारो
अयं स्थित-पक्षम् आह। तम् एव ब्रूमः।
प्रतिदृष्टान्तस्य यो धर्मस् तं यदा स्व-दृष्टान्ते
अभ्यनुजानाति निगृहीतो वेदितव्यः। तत्र दृष्टश् च असाव् अन्ते च
व्यवस्थित इति दृष्टान्तः। स्व-दृष्टान्तः स्व-पक्षः, प्रतिदृष्टान्तः
प्रतिपक्षः। प्रतिपक्षस्य धर्मं स्व-पक्षे
अभ्यनुजानन् पराजितः, यथा अनित्यः शब्द ऐन्द्रियकत्वाद्
इति ब्रूवन् प्रतिपक्ष-वादिनि सामान्येन प्रत्यवस्थिते आह
यदि सामान्यम् ऐन्द्रियकं नित्यं शब्दो अप्य् एवम् अस्त्व् इति
एषा प्रतिज्ञाहानिः प्राक्-प्रतिज्ञातस्य शब्द-अनित्यत्वस्य त्यागाद्
इति।
अत्र उपगत-प्रतिज्ञा-त्यागात् प्रतिज्ञाहानौ विशेष-प्रतिनियमः
किं कृतो अनेन प्रकारेण प्रतिज्ञां त्यजतः प्रतिज्ञाहानिर्
इति। सम्भवति ह्य् अन्येन अपि प्रकारेण हेतु-दोष-उद्भावन-
आदिना प्रतिपक्ष-साधन-अभिधानेन च स्व-पक्ष-परित्यागः
पर-पक्ष-उपगमश् च। इदम् एव च प्रतिज्ञाहानेः
प्रधानं निमित्तम् एवं प्रतिपादितेन प्रतिज्ञा हातव्या
हानौ च पराजय इति।
इदं पुनर् असम्बद्धम् एव सामान्यं नित्यम् ऐन्द्रियकम्
इत्य् उक्ते शब्दो अप्य् एवम् अस्त्व् इति। कः स्वस्थ-आत्मा स्वयम्
ऐन्द्रियकत्वाद् अनित्यः शब्दो घटवद् इति ब्रुवन् सामान्येन
उपदर्शन-मात्रेण नित्यं शब्दं प्रतिपद्यते।
सामान्यस्य अपि नित्यस्य ऐन्द्रियकत्वे अप्य् अनित्ये घटे दर्शनात्
संशयितः स्यात्।
जाड्यात् प्रतिपद्येत अपि इति चेत्, तथा अपि किं सामान्यस्य उपदर्शनेन।
एवम् एव नित्यः शब्द इति वक्तव्यं जडस्य
प्रतिपत्तौ विचार-अभावात्।
न च नित्य-सामान्य-उपदर्शनेन तद्-धर्मं शब्दे प्रतिपद्यमाने
प्रतिपक्ष-धर्म-अभ्यनुज्ञातो भवति, अनित्यः
शब्द इति च वदतो नित्यः शब्द इत्य् आञ्जसः प्रतिपक्षः
स्यात्, न नित्यं सामान्यम् इति।
तस्माद् ऐन्द्रियकत्वस्य नित्य-अनित्य-पक्ष-वृत्तेर् व्यभिचाराद्
असाधन-अङ्गस्य उपादानान् निग्रह-अर्हः, न प्रतिपक्ष-
धर्म-अनुज्ञया अनेन प्रकारेण प्रतिज्ञाहानेः।
प्रतिज्ञा-अर्थ-प्रतिषेधे धर्म-विकल्पात् तद्-अर्थ-निर्देशः
प्रतिज्ञा-अन्तरम् प्रतिज्ञातो अर्थो अनित्यः शब्द ऐन्द्रियकत्वाद्
इत्य् एव, तस्य हेतु-व्यभिचार-उपदर्शनेन प्रतिषेधे
कृते धर्म-भेद-विकल्पात् सामान्य-घटयोः सर्वगतत्व-
असर्वगतत्व-धर्म-विकल्पेन प्रतिज्ञा-अन्तरं करोति, यथा
घटो असर्वगतो अनित्य एव शब्दो अप्य् असर्वगतो अनित्य
इति। एतत् प्रतिज्ञा-अन्तरं नाम निग्रहस्थानं साधन-सामर्थ्ये
अप्य् अपरिज्ञानात्। स हि पूर्वस्या अनित्यः शब्द इति
प्रतिज्ञायाः साधनाय उत्तराम् असर्वगतः शब्द इति प्रतिज्ञाम्
आह। तद्-दर्शनाय तद्-अर्थ-निर्देश इत्य् आह। तद्-अर्थः
पूर्व-उक्त-साध्य-सिद्ध्य्-अर्थ उत्तर-प्रतिज्ञा-निर्देशस् तद्-अर्थ-
निर्देशः। न च प्रतिज्ञा प्रतिज्ञा-अन्तर-साधने समर्था
इति निग्रहस्थानम्।
अत्र अपि न एवम्-ब्रुवता प्रतिज्ञा-अन्तरं पूर्व-प्रतिज्ञा-साधनाय
उक्तं भवति, किं तर्हि विशेषणम् ऐन्द्रियकत्वस्य
हेतोः सामान्ये वृत्त्या व्यभिचार उद्भाविते असर्वगतत्वे
सत्य् ऐन्द्रियकत्वस्य हेतोर् विशेषण-उपादाने व्यभिचारं
परिहरति। न पुनः प्रतिज्ञा-अन्तरम् आह, असर्वगतत्वस्य
शब्दे सिद्धत्वात् प्रतिज्ञायाश् च साध्य-निर्देश-लक्षणत्वात्।
यद् अप्य् उक्तं पूर्व-प्रतिज्ञा-साधनाय उत्तरां प्रतिज्ञाम्
आह इति तद् अप्य् अयुक्तम्। न हि प्रतिज्ञा प्रतिज्ञा-साधनाय
उच्यमाना प्रतिज्ञा-अन्तरं भवति, किं तर्हि हेत्व्-आदेर् अनन्यतमः।
साध्य-साधनाय उपादानात् साधन-निर्देशः स
स्यान् न साध्य-निर्देशः। उदाहरण-साधर्म्य-आदेश् च हेतु-लक्षणस्य
असर्वगत्वे भावात् प्रतिज्ञा-लक्षणस्य च अभावात्, हेतुत्वम्
असर्वगत्वे प्रयुक्तं न प्रतिज्ञा-अन्तरत्वम्। अत्यन्त-
असम्बद्धं च इदं प्रतिज्ञां प्रतिज्ञा-साधनाय आह इति।
यो हि प्राक् प्रतिज्ञाम् उक्त्वा हेतु-उदाहरण-आदिकं वक्तुं
जानाति, स किञ्चिद् अनुक्रमं साधनस्य जानात्य् एव हि, जानन्
कथम् अविकल-अन्तःकरणः प्रतिज्ञाम् एव प्रतिज्ञा-साधनाय
उपाददीत। उपाददता च अनेन प्रतिज्ञा-मात्रेण सिद्धिर्
इष्टा भवति, ततश् च न प्राग् अपि हेतुं ब्रूयात्।
एवम्प्रकारणाम् असम्बद्धानां परिसङ्ख्यातुम्
अशक्यत्वात्, लक्षण-नियमो अप्य् असम्बद्ध एव प्रतिज्ञा-
अन्तर-अभिधाने प्रतिज्ञा-अन्तरं नाम निग्रहस्थानम् इति।
असम्बद्ध-अभिधानं निग्रहस्थानम् इति एवम्प्रकाराणाम्
एकम् एव लक्षणं वाच्यं स्यात्। न च एवंविधः
कश्चिद् विवादेषु दृष्ट-पूर्वो व्यवहारो येन तद्-अर्थं
यत्नः क्रियते। न च बाल-प्रलाप-अनुदिश्य शास्त्रं प्रवर्तते
प्रवृत्तौ च का निष्ठा तेषाम् अनिष्टानात्। दृश्यते च
विदुषाम् अपि न अतिनिरूपणाद् असिद्ध-अभिधानम् इति। व्यवहार-
दर्शनात् तादृशं पराजय-अधिकरणं व्यवस्थाप्यते।
तस्माद् इह अपि यदि निवृत्त-आकाङ्क्षे वादिनि परो अनैकान्तिकताम्
उद्भावयेत्, असाधन-अङ्गस्य अनैकान्तिकस्य अभिधानान्
निग्रहस्थानं वादिनः, एवं यदि प्रतिवादी सत् सामान्यम्
ऐन्द्रियकं नित्यं च प्रमाणेन प्रतिपादयितुं
शक्नुयात्। अनुदिश्य-अप्रमाणकं शास्त्र-उपगमं प्रमाणेन
एषाम् अर्थानाम् अप्रतिपादने न भूत-दोष-उद्भावनम् इति
न कश्चित् पराजयो अभ्युपगम-मात्रेण वस्तु-सिद्धेर् अभावात्
प्रतिवादिना दोषस्य अप्रतिपादितत्वात्। प्रमाणैर् असमर्थित-
साधन-अभिधानात् तु जेता अपि न भवति इति।
अनित्य-आकाङ्क्षे पुनर् वादिनि न कश्चिद् दोषो विशेषण-अभिधानेन
हेतोः समर्थन-उपक्रमात्।
प्रतिज्ञा-हेत्वोर् विरोधः प्रतिज्ञा-विरोधः। यथा गुण-व्यतिरिक्तं
द्रव्यम् इति प्रतिज्ञा, रूप-आदिभ्यो अर्थ-अन्तरस्य अनुपलब्धेर्
इति हेतुः, सो अयं प्रतिज्ञा-हेत्वोर् विरोधः। एतेन
एव प्रतिज्ञा-विरोधो अप्य् उक्तो यत्र प्रतिज्ञा स्व-वचनेन
विरुध्यते, यथा श्रमणा गर्भिणी, न अस्त्य् आत्मा इति वा, हेतु-
विरोधो अपि यत्र प्रतिज्ञया हेतुर् विरुध्यते, यथा सर्वं
पृथक् समूहे भाव-शब्द-प्रयोगाद् इति। एतेन प्रतिज्ञया
दृष्टान्त-विरोधो अपि व्याख्यातः। हेतोश् च दृष्टान्त-आदिभिर्
विरोधः प्रमाण-विरोधश् च प्रतिज्ञा-हेत्वोर् वक्तव्यः।
पर-पक्षे स्व-सिद्धेन गोत्व-आदिना अनैकान्तिक-चोदनाद्
विरोधः, यः पर-पक्षं स्व-सिद्धेन गोत्व-आदिना व्यभिचारयति,
तद् विरुद्धम् उत्तरं वेदितव्यम् स्व-पक्ष-अनपेक्षं
च, यश् च स्व-पक्ष-अनपेक्षं हेतुं प्रयुङ्क्ते
अनित्यः शब्द ऐन्द्रियकत्वाद् इति, तस्य स्व-सिद्धस्य गोत्व-आदेर्
अनित्यत्व-विरोधाद् विरुद्धः। उभय-पक्ष-सम्प्रतिपन्नस्
त्व् अनैकान्तिकः, यद् उभय-पक्ष-प्रतिपन्नं वस्तु,
तेन अनैकान्तिक-चोदना इति।
अत्र अपि प्रतिज्ञायाः साधन-वाक्ये प्रयोग-प्रतिषेधात्
तद्-आश्रयस् तत्-कृतो वा हेतु-दृष्टान्तयोर् न विरोध इति न प्रतिज्ञा-
विरोधो नाम किञ्चित् निग्रहस्थानम्।
स्याद् एतत्, असत्य् अपि प्रतिज्ञा-प्रयोगे गम्यमानो अपि प्रतिज्ञा-
हेत्वोर् विरोधो भवति, यथा रूप-आदिभ्यो अर्थ-अन्तरस्य अनुपलब्धिः
तद् गुण-व्यतिरिक्तम्, न उपलभ्यते च रूप-आदिभ्यो
अर्थ-अन्तरं द्रव्यम् इत्य् उक्ते अपि गम्यत एव साध्य-
साधनयोर् विरोधः; कथं ततो अर्थ-अन्तरस्य-अनुपलब्धिस्
तद्-व्यतिरेकश् च इति।
सत्यम्, स्याद् अयं विरोधः, यदि हेतुः साध्य-धर्म-
विपर्ययं साधयेत्। यदि ह्य् उपलब्धि-लक्षण-प्राप्तत्वेन
उपगतस्य सतो द्रव्यस्य रूप-आदि-प्रतिभास-विवेकेन स्व-
प्रतिभास-अनुपलब्धिः, तत् तद्-व्यतिरेकेण न अस्ति इति इष्ट-व्यतिरेक-
विपर्यय-साधनाद् विरुद्धो हेतुर् अस्माभिर् उक्त एव इति
भवत्य् एव इदं निग्रह-अधिकरणम्, यद्य् एवंविधः प्रतिज्ञा-
हेत्वोर् विरोध इष्टः। अथ पुनर् अस्य उपलब्धि-लक्षण-
प्राप्तिर् लुप्यते, तदा न कश्चित् प्रतिज्ञा-हेत्वोर् विरोधः,
व्यतिरिक्तानाम् अपि भावानां कुतश्चिद् विप्रकर्षिणां तद्-
व्यतिरेकेण अनुपलब्धाव् अपि व्यतिरेकस्य भावात्।
यद् उक्तं प्रतिज्ञायाः स्व-वचन-विरोधे प्रतिज्ञा-विरोध
इति तत्र इदम् एव निग्रह-अधिकरणम् असाधन-अङ्ग-
भूतायाः प्रतिज्ञायाः साधन-वाक्ये प्रयोगः; न विरोधः
तद्-अधिकरणत्वात्। यदि प्रतिज्ञा-अनपेक्षो विरोधः स्यात्, स्यात्
पराजय-आश्रयः। प्रतिज्ञा-अधिकरणत्वे पुनस् तत्-प्रयोगकृत
एव पराजयो अस्य प्रस्ताव-उपसंहार-अवसानत्वात्। व्यर्थं
विरोध-उद्भावनं पराजित-पराजय-अभावाद् भस्मीकृत-प्रज्वलन-वत्।
ये तु केचिद् विचार-प्रसङ्गेष्व् एकत्र साध्ये बहवो
हेतव उच्यन्ते, तेषां विकल्पेन तत्-साध्य-साधनाय
वृत्तेः सामर्थ्यम् अन्यथा द्वितीयस्य वैयर्थ्यात्। यदि हि
तत्र अप्य् एक-प्रयोगम् अन्तरेण अपरस्य प्रयोगो न सम्भवेत्,
न तदा द्वितीयस्य कश्चित् साधन-अर्थः प्रतीत-प्रतिपादन-
अभावात्। तस्मान् न प्रतिज्ञायाः स्व-वचन-विरोधो नाम
किञ्चित् निग्रहस्थानम्।
न च न अस्त्य् आत्मा इत्य् अत्र कश्चित् प्रतिज्ञा-विरोधः न अस्त्य् आत्म-
शब्दार्थस्य भाव-उपादानत्व-निषेधात्। शब्दार्थ-निषेधे
हि विरोधः स्यात्। न च स्व-लक्षणं शब्दार्थ इति।
यः पुनः प्रतिज्ञया बाधनाद् हेतु-विरोध उक्तः, यथा
सर्वं पृथक् समूहे भाव-शब्द-प्रयोगाद् इति, न अत्र
प्रतिज्ञायाः प्रयोगः, न अपि हेतोर्, येन विरोधः स्यात्, किं
तर्हि प्रतिपादित-अर्थ-उपदर्शनेन उपसंहार-वचनम् एतस्मात्।
अन्यैर् एव हेतुभिः शब्दस्य एक-विशेष-अनभिधानम्
अनेक-अर्थ-सामान्य-अभिधानं च प्रतिपाद्य सर्वस्य शब्दार्थस्य
नाना-अर्थ-रूपतया एक-वस्तु-विशेष-स्वभावता-भावम्
उपदर्शयन् शब्दार्थम् अधिकृत्य सर्वं पृथग्
इति ब्रूयात्। एतेन तद्-विरोधः प्रत्युक्तः। दृष्टान्त-उपदर्शनं
च एतद् अनित्यः शब्दः कृतक-अनित्यत्वाद् इति यथा। क्वचिद्
अर्थे विप्रतिपत्तौ प्रसिद्धम् अनेक-अर्थ-सामान्ये शब्द-
प्रयोगम् उपदर्श्य प्रतिपादित-विप्रतिपत्ति-स्थानः सामान्येन
उपसंहरति सर्वं पृथग् इति।
यदि दृष्टान्त-प्रयोगः किं ऋजुना एव तत्-प्रयोग-क्रमेण
न प्रयुक्तो विप्रतिपत्ति-विषयश् च किं न दर्शित इति चेत्, न,
समास-निर्देशात्, एवम् अपि प्रयोग-दर्शनाद् असाधन-वाक्यत्वाच्
च। अत एव न प्रतिज्ञया हेतोर् बाधनम्। न च एकम्
एव किञ्चिन् न अस्ति इति ब्रुवाणः कश्चित् तत्-समुच्चय-रूपम्
एकं समूहम् इच्छति येन विरोधः स्यात्।
यो अपि युगपत् षट्केन योगाद् इत्य् आदिना परमाणोर्
भेदम् आह, न तस्य अप्य् एकः समुच्चय-रूपः साधयितुम्
इष्टः, किं तर्ह्य् अभाव एव एक-अनेक-प्रतिषेधात्। अतः सो अपि
न समूहस् तस्य इष्टः, न तत्र शब्द इति न विरोधः।
न विरोधो अयं पूर्वकात् प्रतिज्ञा-हेतु-विरोधात् भिद्यते
येन पृथग् उच्येत। तत्र हेतु-प्रतिज्ञायोर् बाधनम्, इह
प्रतिज्ञया हेतोर् इत्य् अस्ति भेद इति चेत्, अर्थ-विरोधे हि हेतु-
प्रतिज्ञयोर् बाध्यबादकभावः स्यात्। सर्वो अर्थ-विरोधो
द्विष्व् इत्य् अपि परस्परं बाधकम् एक-अर्थ-सन्निधाव् अपर-
अर्था-सम्भवात्। तत्र हेतु-प्रतिज्ञायोः पृथग् बाध-उदाहरणयोर्
न कश्चिद् अर्थ-भेदः।
अपि च अयं विरुद्धो अविरुद्धो वा सति हेतु-प्रयोगे व्यधिकरणत्वाद्
असिद्ध इत्य् असिद्धता हेतोर् निग्रहस्थानम्।
स खलु उच्यमान एव अतद्-धर्मतया प्रतीतो वक्तुः पराजयम्
आनयति। पराजिते तस्मिंस् तद्-अर्थ-विरोध-चिन्तया न
किञ्चित्।
अपि च सर्वत्र अयं प्रतिज्ञा-हेत्वोर् विरोधः सम्भवन्
न द्वयीं हेतु-दोष-जातिम् अतिपतति विरुद्धताम् असिद्धतां
च इति। विरुद्धता सिद्धे हेतोर् धर्मिणि भावे साध्य-धर्म-
विपर्यय एव भावेन प्रतिज्ञा-अर्थ-विरोधात्। असिद्धता
पुनर् धर्मिणि प्रतिज्ञाता-अर्थ-सिद्धौ विरुद्धयोः स्वभावयोर्
एकत्र असम्भवात्। न च अन्यथा विरोधः।
असिद्धे धर्मि-स्वभावे अभिहितयोर् हेतु-प्रतिज्ञा-अर्थयोर्
विरोधाद् विरोध-सम्भव इति चेत्, अप्रमाण-योगे तु उभयोर्
धर्मिणि संशयः। तथा सति हेतोर् धर्मिणि भाव-संशये
असिद्धता एव हेतु-दोष इत्य् असिद्ध-विरुद्धाभ्याम् अन्यो
न प्रतिज्ञया विरोधो नाम पराजय-हेतुः। असिद्ध-विरुद्धे
च हेत्व्-आभास-वचनाद् एव उक्त इति न पृथक् प्रतिज्ञा-विरोधो
वक्तव्य इति।
उभय-आश्रितत्वाद् विरोधस्य विवक्षातो अन्यतर-निर्देश इति
चेत्, स्याद् एतत् प्रतिज्ञा-हेत्वोर् विरोध इति प्रतिज्ञा-हेतू आश्रित्य
उभय-आश्रयो भवति। तत्र यदा प्रतिज्ञा-विरोधो विवक्षितस्
तदा प्रतिज्ञा-विरोध इति उच्यते, यदा प्रतिज्ञाया हेतोर् वा
विरोधस् तदा विरुद्धो हेतुर् इति। अतः प्रतिज्ञा-विरोधो हेतु-विरोधो
वा इत्य् अदोषः। तत्र हेतोर् उदाहरणं नित्यः शब्द
उत्पत्ति-धर्मकत्वाद् इति, प्रतिज्ञा-विरोधस्य न अस्त्य् आत्मा इति,
प्रतिज्ञा-हेत्वोः परस्पर-विरुद्ध-उदाहरणं गुण-व्यतिरिक्तम्
इत्य् आदि, प्रतिज्ञया हेतु-विरोध-उदाहरणं न अस्त्य् एको
भाव इत्य् आदिकम् इति।
न, सर्वत्र हेत्व्-अपेक्षस्य विरोधस्य हेत्व्-आभास-अनतिक्रमात्,
यथोक्तं प्राक्। अनपेक्षे च केवले स्वतः प्रतिज्ञा-
विरोधे विवक्षिते प्रतिज्ञा-हेत्वोर् विरोध इति हेतु-ग्रहणम्
असम्बद्धम्। न च उत्पत्ति-धर्मकत्वान् नित्यम् इत्य्
अत्र अपि हेतु-विरोधो युक्तः, प्रतिज्ञया हि हेतोर् बाधने
हेतु-विरोधः। इह तु हेतुना प्रतिज्ञा बाध्यत इति प्रतिज्ञा-विरोधो
युक्तः, उभय-आश्रये अपि विरोधे बाध्यमान-विवक्षया
तद्-विरोध-व्यवस्थापनात्।
यद् अप्य् उक्तम् एतेन प्रतिज्ञया दृष्टान्त-विरोध-आदयो अपि
वक्तव्या भण्डालेख्यन्यायेन इति तत्र अपि पक्षीकृत-धर्म-
विपर्ययवति दृष्टान्ते विरोधः स्यात्। विरुद्धे च दृष्टान्ते
यदि पक्ष-धर्मस्य वृत्तिर् अनन्य-साधारणा प्रसाध्यते,
विरुद्धस् तदा हेत्व्-आभासः साधारणायाम् अप्रसाधिते वा
तद्-वृत्ति-नियमे अनैकान्तिकः अवृत्तौ वा असाधारणः।
विरुद्ध-दृष्टान्ता-वृत्तौ विपर्यय-वृत्तौ च हेतोर् न
कश्चिद् हेतु-दोषो दृष्टान्त-विरोधश् च प्रतिज्ञया इति चेत्, न,
तद् अपि संशय-हेतुत्व-अनतिवृत्तेर् दृष्टान्त-विरोधो हि प्रतिज्ञायाः
साधर्म्ये दोषः, न वैधर्म्ये, अभिमतत्वात्।
साधर्म्य-दृष्टान्ते च विपरीत-धर्मवति वस्तुतः साध्या-अव्यभिचारे
अपि हेतोर् न अव्यभिचार-धर्मता शक्या दर्शयितुम्
इति न अप्रदर्शित-अविनाभाव-सम्बद्धाद् हेतोर् निश्चयः।
तन् न प्रतिज्ञया दृष्टान्त-विरोधो हेत्व्-आभासान् अतिवर्तते।
उभयथा अपि दोषो अस्त्व् इति चेत्, न न हेतु-दोषस्य प्राक्
प्रसङ्गेन पराजितस्य दोष-अन्तर-अनपेक्षणात्। विशेषेण साधन-
अवयव-अनुक्रम-नियम-वादिन उदाहरण-साधर्म्यं
हेतु-लक्षणं विरुद्धे दृष्टान्ते न सम्भवति इति प्राक्
प्रयुक्तस्य हेतोर् दोषेण पराजय इति न उत्तर-दृष्टान्त-अपेक्षया
विरोधश् चिन्ताम् अर्हति। हेतोर् अपि दृष्टान्त-विरोधे असाधारणत्वं
विरुद्धत्वं वा वैधर्म्ये यदि वृत्तिः स्यात्।
प्रमाण-विरोधे तु हेतोः, यथा न दहनो अग्निः शैत्याद्
इत्य् आदि ह्य् असिद्धो हेत्व्-आभासः।
प्रतिज्ञायाः प्रमाण-विरोधः स्व-वचन-विरोधेन व्याख्यात
इति।
सर्व एते साधन-विरोधा हेत्व्-आभासेष्व् एव अन्तर्भवन्ति
इति हेत्व्-आभास-वचनेन एव उक्ताः।
यत् तु विरुद्धम् उत्तरं पर-पक्षे स्व-सिद्धेन गोत्व-आदिना
अनैकान्तिक-चोदना इति, तद् असम्बद्धम् एव। यदि हि स्व-सिद्धेन
गोत्व-आदिना परस्य व्यभिचार-सिद्धिम् आकाङ्क्षेत,
तस्य तत् स्व-पक्ष-विरुद्धं न अभिमतम् इति विरोध
युज्येत। स हि स्वयं प्रतिपन्ने गोत्वे हेतु-वृत्तेः संशयानो
अप्रतिपत्तिम् आत्मनस् तथा ख्यापयति। स च हेतुः
सत्य् असति गोत्वे अप्रसाधित-साधन-सामर्थ्यः संशय-हेतुत्वाद्
अनैकान्तिक एव प्रसाधिते तु सामर्थ्ये गोत्वे
अवृत्त्या हेतोर् न संशय एव सर्व-संशय-प्रकाराणां
परिहारेण समर्थनात्। एतेन स्व-पक्ष-अनपेक्ष-हेतु-प्रयोगस्य
अनैकान्तिकता व्याख्याता, सो अपि स्व-अभिमत-नित्य-गोत्व-
वृत्तिं हेतुम् अनित्यत्वे ब्रुवाणो असमर्थित-साधन-अङ्गतया
संशय-हेतुम् एव आह इति। यत् पुनर् उक्तम् उभय-पक्ष-सम्प्रतिपन्नेन
वस्तुना अनैकान्तिक-चोदना इति, तत्र अप्य् अवश्यं
संशय-हेतुत्व-मुखेन एव अनैकान्तिको वक्तव्यः। तद्
असमर्थिते अन्यत्र अपि तुल्यम् इति न उभय-सिद्ध-इतरयोर् अनैकान्तिकत्वैर्
विशेषः।
यद् अप्य् उक्तम्, दृष्टान्त-आभास-हेत्व्-आभास-पूर्वकत्वात्
तद्-अभिधानेन एव उक्ता इति न पृथग् निग्रहस्थानेषु उक्ता इति,
तद् अप्य् अवयव-अन्तर-वादिनो अयुक्तम्। यो अवयव-अन्तरं
दृष्टान्तं हेतोर् आह, तस्य न हेत्व्-आभास-उक्त्या दृष्टान्त-आभास-
उक्तिर् व्याप्या तद्-वचनेन गम्यमानस्य तस्मात् साधन-अन्तर-
अभाव-प्रसङ्गात्। दृष्टान्त-आभासानां हेत्व्-आभासेष्व्
अन्तर्भावाद् दृष्टान्तस्य अपि हेताव् अन्तर्भाव इष्टो भवति,
तथा च न दृष्टान्तः पृथक् साधन-अवयवः स्याद् अपृथग्-वृत्तेः।
यो दृष्टान्त-साध्यो अर्थस् तस्य हेताव् अन्तर्भावाद्
हेतुना एव साधित इति न दृष्टान्तस्य पृथक् किञ्चित् सामर्थ्यम्।
अपि च न किञ्चित् पूर्व-पक्ष-वादिनो हेत्व्-आभास-असंस्पर्षे
न्याय्यं निग्रहस्थानम् अस्ति इति तत्-सम्बन्धीनि सर्वाण्य्
एव हेत्व्-आभास-वचनेन एव उक्तानि इति न पृथग् वाच्यानि
स्युः। अर्थ-अन्तर-गमन-आदेर् अपि हेतोर् असामर्थ्य एव सम्भवात्।
न हि समर्थे हेतौ साध्ये च सिद्धे अर्थ-अन्तर-
गमनं कश्चिद् आरभते असमर्थस्य मिथ्या-प्रवृत्तेर् इति।
पक्ष-प्रतिषेधे प्रतिज्ञाता-अर्थ-अपनयनं प्रतिज्ञा-सन्न्यासः।
यः प्रतिज्ञातम् अर्थम् अनित्यः शब्द ऐन्द्रियकत्वाद्
इति सामान्य-वृत्त्या हेतोर् व्यभिचार-प्रदर्शनेन
प्रतिषेधे कृते क एवम् आह अनित्यः शब्द इति परित्यजति,
तस्य प्रतिज्ञा-सन्न्यासो नाम निग्रहस्थानम् इति।
अत्र अपि यद्य् उद्भाविते अपि हेतोर् व्यभिचारे न स पक्षं
परित्यजति, किं न गृह्येत। निगृहीत एव हेत्व्-आभास-अभिधानाद्
इति चेत्, किम् इदानीम् उत्तर-प्रतिज्ञा-सान्न्यास-अपेक्षया,
तस्य तद् एव अद्यं निग्रहस्थानम् इति किम् अन्यैर्
अशक्य-परिच्छेदैः क्लीब-प्रलाप-चेष्टितैर्। उपन्यस्तैर् एवं
ह्य् अतिप्रसङ्गः स्यात्। पक्ष-प्रतिषेधे तूष्णीम्भवतस्
तूष्णीम्भावो नाम निग्रहस्थानम् प्रपलायमानस्य
प्रपलायित्वं नाम निग्रहस्थानम् इत्य् एवम् आद्य् अपि वाच्यं
स्यात्, तस्माद् एतद् अप्य् असम्बद्धम् इति।
अविशेष-उक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्व्-अन्तरम्।
निदर्शनम् एक-प्रकृति इदं व्यक्तं परिमाणात्, मृत्-पूर्वकाणां
शराव-प्रभृतीनां दृष्टं परिमाणम् इति। अस्य
व्यभिचारेण प्रत्यवस्थानं नाना-प्राकृतीनाम् एक-प्रकृतीनां
च दृष्टं परिमाणम् इति एवं प्रत्यवस्थित आह
एक-प्रकृति-समन्वय-विकाराणां परिमाण-दर्शनात् सुख-
दुःख-मोह-समन्वितं हि इदं सर्वं व्यक्तं परिमितं
गृह्यते। तस्य प्रकृत्य्-अन्तर-रूप-समन्वय-अभावे सत्य् एक-
प्रकृतिकत्वम् इति। तद् इदम् अविशेष-उक्ते हेतौ प्रतिषिद्धे विशेषं
ब्रुवतो हेत्व्-अन्तरं भवति। सति च हेत्व्-अन्तर-भावे
पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम्।
अत्र अपि पूर्वस्य एव हेतोर् अनैकान्तिकस्य अभिधानान् निगृहीते
हेत्व्-अन्तर-चिन्ता क्व उपयुज्यते। यदि प्राक्-साधन-वादी
हेतुम् अनैकान्तिकम् उक्त्वा दत्त-उत्तर-अवसरः, तेन एव निगृह्यते
अदत्त-उत्तर-अवसरः, हेत्व्-अन्तर-अभिधाने अपि न निग्रहम्
अर्हत्य् अविरामात्।
प्रकृताद् अर्थाद् अप्रतिबद्ध-अर्थम् अर्थ-अन्तरम्। यथोक्त-
लक्षणे पक्ष-प्रतिपक्ष-परिग्रहे हेतुतः साध्य-सिद्धौ
प्रकृत्यायां कुर्यान् नित्यः शब्दो अस्पर्शत्वाद् इति हेतुः,
हेतुश् च नाम हिनोतेर् धातोस् तु-शब्दे प्रत्यये कृद्-अन्तं
पदम्। पदं च नाम-आख्यात-उपसर्ग-निपाता इति प्रस्तुत्य
नाम-आदीनि व्याचष्टे, इदम् अर्थ-अन्तरं नाम निग्रहस्थानम्
अभ्युपगत-अर्थ-असङ्गतत्वाद् इति।
न्याय्यम् एतन् निग्रहस्थानम्, पूर्व-उत्तर-पक्ष-वादिनोः
प्रतिपादिते दोषे प्रकृतं परित्यज्या-साधन-अङ्ग-वचनम्
अदोष-उद्भावनं च। साधन-वादिनो ह्य् उपन्यस्त-साधनस्य
समर्थने कर्तव्ये तद् अकृत्वा अपरस्य प्रसङ्गेन अप्रसङ्गेन
वा अतन्-नान्तरीयकस्य अप्य् अभिधानं पराजय-
स्थानम् उत्तर-वादिनो अपि दोष-उद्भावन-मात्राद् अपरस्य उपक्षेप
इति।
वर्ण-क्रम-निर्देशवन् निरर्थकम्। यथा नित्यः शब्दो
जबगडदशत्वात् झभञ्घढधषवद् इति। साधन-अनुपादानान्
निगृह्यत इति।
इदम् अप्य् असम्बद्धम्, न हि वर्ण-क्रम-निर्देशाद् एव इष्ट-
अर्थ-सिद्धाव् आनर्थक्यम्। यद् एव किञ्चिद् असाधन-अङ्गस्य
वचनम्, तद् एव अनर्थकं साध्य-सिद्ध्य्-उपयोगिनो
अभिधेयस्य अभावात् निष्प्रयोजनत्वाच् च इति, प्रकार-विशेष-उपादानम्
असम्बद्धम्।
वतेर् उपादानाद् अदोष इति चेत्, स्याद् एतत्, वर्ण-क्रम-निर्देशवद्
इति वतिर् अत्र उपात्तः सो अन्यदा अप्य् अननुरूपं गृह्नति इत्य्
अदोष इति। न, अर्थ-अन्तर-आदेर् निग्रहस्थानस्य अवचन-प्रसङ्गात्,
एवं हि ता न पृथग् वाच्या निरर्थकेन एव अभिधानात्।
न साध्य-सिद्धाव् अनर्थकं निरर्थकम्, यस्य न एव
कश्चिद् अर्थः, तन् निरर्थकम् इष्टम् इति चेत्, यस्य कस्यचिद्
अवादिनो अपि हि निरर्थक-अभिधाने किं न निग्रहो निग्रह-
निमित्त-अविशेषात्।
न, तस्य इह अप्रस्तावाद् इति चेत्, आयातम् इह यो निरर्थकं
ब्रवीति, तस्य तेन एव निग्रह इति। तत् तुल्यं सर्वस्य असाधन-
अङ्ग-वादिन इति। स सर्वो निरर्थक-अभिधाय्य् अनेन एव
निग्रहस्थानेन निग्रह-अर्हः।
न च वर्ण-क्रम-निर्देशः सर्वत्र निरर्थकः क्वचित्-
प्रकरणे तस्य अपि अर्थवत्त्वात्। तस्माद् अत्र एव अस्य आनर्थक्यात्
निग्रहस्थानत्वम्।
अपि च अत्यल्पम् इदम् उच्यते वर्ण-क्रम-निर्देशो निग्रहस्थानम्
इति कपोल-वादित-कक्ष-घट्टितकम् इत्य् एवम्-आदीनाम्
अपि वाच्यत्वात्।
पर्षत्-प्रतिवादिभ्यां त्रिर्-अभिहितम् अप्य् अविज्ञातम्
अविज्ञात-अर्थम्। यद् वाक्यं पर्षदा प्रतिवादिना च त्रिर्-अभिहितं
न विज्ञायते श्लिष्ट-शब्दम् अप्रतीत-प्रयोगम् अतिद्रुत-
उच्चारितम् इत्य् एवम् आदिना कारणेन, तद् अविज्ञात-अर्थम्, असामर्थ्य-
संवरणाय प्रयुक्तं निग्रहस्थानम् इति।
न इदं निरर्थकाद् भिद्यते। स यदि प्रकृत-अर्थ-सम्बद्धं
गमकम् एव कुर्यात्, न अस्य-असामर्थ्यम्, तत्र
जाड्यात् पर्षद्-आदयो न प्रतिपद्यन्त इति न विद्वान् निग्रहम्
अर्हति।
पर्षत्-प्रज्ञाम् अपरिकल्प्य वचनान् निग्रह-अर्ह एव इति चेत्,
न्यायवादिनो जाड्याद् उक्तम् अजानन् किं न प्रतिवादी निगृह्यते।
जाड्यात् पर्षद्-आदेर् अविज्ञात-प्रतिपादन-असामर्थ्य इति विजेता न
स्यान् न निग्रह-अर्हः। असम्बद्ध-अभिधाने निरर्थकम्
एव इति न पृथग् अविज्ञात-अर्थं नाम निग्रहस्थानम् इति।
पौर्वापर्य-अयोगाद् अप्रतिबद्ध-अर्थम् अपार्थकम्। यत्र
अनेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो
न अस्ति इत्य् असम्बद्ध-अर्थता गृह्यते, तत् समुदाय-अर्थस्य अपायाद्
अपार्थकम्, दश-दाडिम-आदि-वाक्य-वत्।
इदं किल पदानाम् असम्बन्धाद् असम्बद्ध-वर्णान्
निरर्थकात् पृथग् उक्तम् नन्व् एवम् असम्बद्ध-वाक्यम्
अपि पृथग् वाच्यं स्यात्। न उभय-सङ्ग्रहात् अपार्थकम्,
निरर्थकस्य अपि सङ्ग्रह-प्रसङ्गात्। एवंविधाच् च विशेष-
समाश्रयात् पृथग्-निग्रहस्थान-लक्षण-प्रलपने अतिप्रसङ्गो
अप्य् उक्तः। न च सङ्ग्रह-निर्देशे किञ्चिद् दोषं पश्यामः
प्रभेदे वा गुण-अन्तरम् इति यत् किञ्चिद् एतत्।
अवयव-विपर्यास-वचनम् अप्राप्तकालम्। प्रतिज्ञा-आदीनां
यथालक्षणम् अर्थ-वशात् क्रमः, तत्र अवयवानां विपर्ययेण
अभिधानं निग्रहस्थानम्।
न, एवम् अपि सिद्धेर् इति चेत्, न प्रयोग-अपेत-शब्द-तुल्यत्वात्।
यथा गौर् इत्य् अस्य पदस्य अर्थे गोणी इति प्रयुज्यमानं
पदं ककुद-आदिमन्तम् अर्थं प्रतिपाद्यति इति। न शब्द-अन्वाख्यानं
व्यर्थम्, अनेन पदेन गो-शब्दम् एव प्रतिपद्यते,
गो-शब्दात् ककुद-आदिमन्तम् अर्थम्; तथा प्रतिज्ञा-आद्य्-
अवयव-विपर्ययेण अनुपूर्वीं प्रतिपद्यते, आनुपूर्व्या
च अर्थम् इति, तथा हि पूर्वं कर्म-उपादीयते ततः करणं
मृत्-पिण्ड-आदिकं लोक इति।
तद् एतद् उन्मत्तस्य उन्मत्त-संवर्णनम् इव प्रयोग-अपेत-
शब्द-वद् एतद् इति। यदि गोणी-शब्दात् ककुद-आदिमत्य्
अर्थे प्रतीतिः, शब्द-अन्वाख्यान-प्रयत्नेन अर्थं न पश्यामः।
गोणी-शब्दस्य अर्थ-प्रतिपादने असामर्थ्यात् प्रतिपादक-
व्युत्पत्त्य्-अर्थम् अन्वाख्यानम् इति चेत्, ननु गोणी-शब्दाद् अपि
लोके प्रतीतिर् दृष्टा। सत्यं दृष्टा, न तु साक्षाद् इत्य् उक्तम्।
उक्तम् एतन् न पुनर् युक्तम्, स्त्री-शूद्राणाम् उभय-प्रतीतेर्
अभावात्। यः खलु उभयं वेत्ति शब्दम् अपशब्दं च, स
एवं प्रतिपद्यते। यस् तु नक्क-शब्दं मुक्क-शब्दम् एव
वा वेत्ति, न नासा-शब्दम्, स कथम् अपशब्दाच् शब्दं प्रतिपद्य
ततो अर्थं प्रतिपद्येत। दृष्टा च अनुभय-वेदिनो अपि
प्रतीतिर् इति न परम्परया प्रतीतिः।
अर्थे असमर्थस्य शब्दे अपि प्रतीति-जनन-असामर्थ्याच् च।
न ह्य् अर्थे अपि वाचकत्वं नाम अन्यद् एव तद्-विषय-प्रतीति-
जननात्। अपशब्दश् चेच् शब्दे प्रतीतिं जनयेत्, अर्थ एव
किं न जनयति। न ह्य् एतस्य अर्थात् किञ्चिद् भयं पश्यामो
येन तं परिहरेत्।
अकृत-समयस्य शब्दे अप्य् अप्रतीति-जननाच् च। न ह्य्
अयम् अपशब्दः शब्दे अपि स्वभावतः प्रतीतिं जनयत्य्
अदर्शनात्, समयत एव तु जनयेत्। समय-वशाद् वर्तमानो
अर्थ एव किं न प्रवर्तते। एवं हि प्रतिपत्ति-परम्परा-
परिश्रमः परिहृतो भवति।
विपर्यय-दर्शनाच् च। शब्दाद् अर्थम् अप्रतिपद्यमानाः
अपशब्दैर् एव बहुलं व्युत्पद्यमाना लोके दृश्यन्ते
इति व्यर्थं शब्द-अनुशासनम्।
न व्यर्थं संस्कृत-शब्द-व्युत्पत्त्य्-अर्थत्वाद् इति चेत्,
को अयं शब्दानां संस्कारः। न ह्य् एषां प्रज्ञा-बाहु-श्रुत्य्-
आदिकं संस्कारं पश्यामः, न अप्य् एषाम् एकान्तेन
श्रव्यता, न अप्य् अर्थ-प्रत्यायने कश्चिद् अतिशयः। न
धर्म-साधनता मिथ्या-वृत्ति-चोदनेभ्यः संस्कृतेभ्यो
अप्य् अधर्म-उत्पत्तेः, अन्येभ्यो अपि विपर्यये धर्म-उत्पत्तेः।
शब्दस्य सुप्रयोगाद् एव स्वर्ग-मोदन-घोषणा वचन-मात्रम्।
न च एवंविधान् आगमान् आद्रियन्ते युक्तिज्ञाः। न च
दान-आदि-धर्म-साधन-चोदना-शून्य-केवल-शब्द-सुप्रयोगान्
नरक-पातम् इति ब्रुवाणस्य कस्यचिन् मुखं वक्रीभवति।
तस्मान् न संस्कृतो नाम कश्चिच् शब्दः।
शिष्ट-प्रयोगः संस्कार इति चेत्, के शिष्टाः। ये विदित-वेद्यता-
आदि-गुण-युक्ताः। कः पुनर् एषां गुण-उत्कर्ष-अनपेक्षो अलीक-निर्बन्धः,
यत् ते अमून् एव शब्दान् प्रयुञ्जते, न अपरान्। न
च अत्र कश्चिच् शब्दे परोक्षः साक्षी, यत इदम् एवं निश्चिनुमः
प्रयुञ्जते नाम शिष्टाः। नन्व् एवं वयं गुण-अतिशयम्
अपश्यन्तः संस्कारं केषाञ्चिच् शब्दानाम्
अनुमन्यामहे, तद्-अन्वाख्यान-यत्नं वा, गुण-अतिशय-अभावात्।
वेद-रक्ष-आदिकं च अप्रयोजनम् एव अतत्-समय-स्थायिनः।
सत्य् अपि गुण अतिशये न करणीय एव अन्वाख्याने यत्नः
तत्-स्वभावस्य अन्यतो अपि सिद्धेः, प्राकृत-अपभ्रंश-
द्रमिड-अन्ध्र-आदि-भाषा-वत्। न हि प्रतिदेशं भाषाणां
किञ्चिल् लक्षणम् अस्ति, अथ च सम्प्रदाय-वशात् ता लोकस्
तथा एव प्रतिपद्यते तासां च प्रयोग-भ्रंशम् तथा
संस्कृतानां शब्दानां प्रतीतिर् भविष्यति इति। जड-प्रवृत्तिर्
एव एषा, या शब्दानां लक्षणे प्रवृत्तिः।
अवयव-विपर्यये अपि यदि तेषां वचनानां सम्बन्ध-प्रतीतिर्, न
विपर्ययो न अप्य् अर्थ-अप्रतीतिः सामर्थ्यात्। न ह्य् अत्र कश्चित्
समयः प्रत्यायन-अविशेषे अप्य् एवम् एव अवयवाः प्रयोक्तव्या
इति।
स एव तेषां क्रमो यथावस्थितेभ्यो अर्थ-प्रतीतिर् भवति इति
न विपर्ययात् प्रतीतिः, तत आनुपूर्वी-प्रतिपत्त्या प्रतीतिर्
इति चेत्, न अप्रतीयमान-सम्बन्धेभ्य आनुपूर्वी-प्रतिपत्तिः।
येषां शब्दानां कश्चित् सम्बन्धो जायते, इदम् इह
सम्बध्यत इति तेषु विदित-सम्बन्धेषु कः कस्य पूर्वो
अपरो वा क्रमः, येन क्रमेण व्यवस्थाप्येरन्। सम्बन्ध-
प्रतिपत्तौ स एव तेषां क्रमः, यो यथावस्थितानां
सम्बन्धः प्रतीयते। न हि वाक्येषु पदानां क्रम-नियमः
कश्चित्, यथा राज्ञः पुरुषः, पुरुषो रज्ञ इति। यावद्भिः
पदैर् अर्थ-परिसमाप्तिः तदा एकं वाक्यम्, यथा
देवदत्त गाम् आनय कृष्णाम् इति। अत्र पदानां यथाकामं
प्रयोगे अपि न अर्थ-प्रतीतौ विशेष इति कश्चित् क्रम-अभिनिवेशः।
प्रतिपादितं च प्रतिज्ञा-वचन-अन्तरेण अपि यथार्थं
प्रतीतिर् भविष्यति इति प्रतीयमान-अर्थस्य च शब्दस्य प्रयोगे
अतिप्रसङ्गः। परिशिष्टेषु च सम्बन्धं प्रदर्श्य
धर्मिणि भावः प्रदर्श्येत, धर्मिणि भावं प्रदर्श्य
सम्बन्धः प्रदर्श्येत इति न नियमः कश्चिद् उभयथा अपि
प्रतीत्य्-उत्पत्तेर् इत्य् उक्तम्। अप्रतीयमान-सम्बन्धेषु च पदेषु
न तेभ्य आनुपूर्व्या अपि प्रतीतिर् इति न इदम् अपार्थकाद्
भिद्यत इति; न अप्राप्तकालं पृथग् वाच्यं स्याद् इति।
हीनम् अन्यतमेन अप्य् अवयवेन न्यूनम्। यस्मिन् वाक्ये
प्रतिज्ञा-आदीनाम् अन्यतमो अवयवो न भवति, तद् वाक्यं
हीनं साधन-अभावे साध्या-सिद्धेः।
न प्रतिज्ञा-न्यूनं हीनं तद्-अभावे प्रतीति-भावाद् इति
प्रतिपादितम्। हीनम् एव तत् न्यूनतायाम् अपि निग्रहाद् इत्य्
अपरः। यः प्रतीयमान-अर्थम् अनर्थकं शब्दं प्रयुङ्क्ते,
स निग्रहम् अर्हेत्। न अर्थ-उपसंहितस्य अभिधाता इत्य्
असमीक्षित-अभिधानम् एतत्। अत एव च प्रतिज्ञाया न साधन-
अङ्ग-भाव इति।
हेतु-उदाहरण-अधिकम् अधिकम्। एकेन कृतत्वाद् अन्यतरस्य
आनर्थक्यम् इति तद् एतन् नियम-अभ्युपगमे वेदितव्यम्।
यत्र एक-साधन-वाक्य-प्रयोग-पूर्वको विचारः, तत्र अधिक-
अभिधानम् अनर्थकम् इति निग्रहस्थानम्। प्रपञ्च-कथायां
तु न कश्चिद् दोषो नियम-अभावाद् इति।
शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्।
शब्द-पुनरुक्तम् अनित्यः शब्दो अनित्यः शब्द इति।
अर्थ-पुनरुक्तम् अनित्यः शब्दो निरोध-धर्मको ध्वान
इति।
अत्र न शब्द-पुनरुक्तं पृथग् वाच्यम् अर्थ-पुनरुक्त-
वचनेन एव गतत्वात्। न ह्य् अर्थ-भेदे शब्द-साम्ये अपि
कश्चिद् दोषः, यथा
हसति हसति स्वामिन्य् उच्चै रुदत्य् अतिरोदिति ।
कृत-परिकरं स्वेद-उद्गारं प्रधावति धावति ।
गुण-समुदितं दोष-अपेतं प्रणिन्दति निन्दति ।
धन-लव-परिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥२॥
यथा वा यद् यस्मिन् भवति भवति, न भवति न भवति,
तत् तस्य कार्यम्, इतरत् कारणम् इति।
गम्यमान-अर्थं पुनर्वचनम् अपि पुनरुक्तं नियत-
पद-प्रयोगे साधन-वाक्ये यथा प्रतिज्ञा-वचनम् इति।
अर्थ-पुनरुक्तेन एव गत-अर्थत्वात् न पृथग् वाच्यम्। अयम्
अपि नियत-साधन वाक्य एव दोषो वक्तव्यः, न विस्तर-कथायाम्,
व्याचक्षाणो हि कदाचिद् असम्यक्-श्रवण-प्रतिपत्ति-
शङ्कया साक्षि-प्रभृतीनां पुनः पुनर् ब्रूयात्, अपि न तत्र
किञ्चिच् छलम्।
न अविषयत्वाद् इति चेत्, न अयं गुरुर् न शिष्य इति न यत्नतः
प्रतिपादनियः, येन पुनः पुनर् उच्यत इति पुनर्वचने
निग्रह एव इति चेत्, न, साक्षिणां यत्नेन प्रतिपाद्यत्वात्,
तद्-अप्रतिपादने दोष-अभिधानात्, प्रतिपाद्यस्य शिष्यत्वात्,
विजिगीषु-वाद-प्रतिषेधत्वात्, त्रिर्-अभिधान-वचनात्, पुनर्वचन-
प्रसङ्गे समय-नियम-अभावाच् च।
न च इदम् अधिकाद् भिद्यत इति न पृथग् वाच्यम्। विनियत-
पद-प्रयोगे हि साधन-वाक्ये आधिक्य-दोष इति पुनर्वचने
अपि गत-अर्थस्य-आधिक्यम् एव पदस्य इति।
प्रपञ्च-कथायाम् अप्य् अकथित-एक-अर्थ-साधन-अधिकरणायां
नाना-अर्थ-साधन-ईप्सायां नाना-साधन-ईप्सायां वा
श्रोतुर् हेत्व्-आदि-बाहुलस्य पुनर्वचनस्य अदोषत्वात् प्रतीत-
प्रत्यय-अभावाद् हेत्व्-आदि-बाहुल्यं वचन-बाहुल्यं च साधन-
दोष इति आधिक्य-पुनर्वचनयोस् तुल्य-दोष इति सङ्ग्रह-
वचनं न्याय्यम्, दोष-अभावाद् एव गुण-अभावात्, एवम्प्रकारानां
भेदानां वचने च अतिप्रसङ्गाद् इत्य् उक्तम्।
पर्याय-शब्द-कल्पो ह्य् अपरो हेतुर् एक-हेतु-प्रतिपादिते विषये
वर्तमानः प्रतिपाद्यस्य विशेष-अभावात्। अर्थः पुनः-
प्रतिपादनान् न भिद्यते।
यत् पुनर् उक्तम्, अनुवादे त्व् अपुनरुक्तं शब्द-अभ्यासाद्
अर्थ-विशेष-उपपत्तेः, यथा हेत्व्-अपदेशात् प्रतिज्ञायाः
पुनर्वचनं निगमनम् इति, प्रतिज्ञाया एव गम्यमान-अर्थाया
वचनं पुनर्वचनम्, किं पुनर् अस्याः पुनर्वचनम्
इत्य् अयुक्तं निगमनम्।
विज्ञातस्य पर्षदा त्रिर्-अभिहितस्य अप्रत्युच्चारणम् अननुभाषणम्।
विज्ञात-वाक्य-अर्थस्य पर्षदा प्रतिवादिना
त्रिर्-अभिहितस्य यद् अप्रत्युच्चारणम्, तद् अननुभाषणं
नाम निग्रहस्थानम्। अप्रत्युच्चारयन् किम्-आश्रयं पर-
पक्ष-प्रतिषेधं कुर्याद् इति।
उत्तरेण अवसानान् न इदं निग्रहस्थानम् इति चेत्, स्याद्
एतत्, उत्तरेण गुण-दोषवता मूढ-अमूढत्वं गम्यत इति
किं पुनर्-उच्चारितेन। अस्ति हि कश्चिद् उत्तरे समर्थो न प्रत्युच्चारणे,
न असौ तावता निग्रहम् अर्हेद् इति।
न, उत्तर-विषय-अपरिज्ञानात्। यद्य् अयं न प्रत्युच्चारयति,
निर्विषयम् उत्तरं प्रसज्येत। अथ उत्तरं ब्रवीति,
कथं न उच्चारयति। तद् इदं व्याहतम् उच्यते, न उच्चारयत्य्
उत्तरं च ब्रवीति इति। अप्रतिज्ञानाच् च। न च इदं प्रतिज्ञायते,
पूर्वं सर्वम् उच्चारयितव्यम्, पश्चाद् उत्तरम्
अभिधातव्यम् इति, अपि तु यथाकथञ्चिद् उत्तरं वाच्यम्,
उत्तरं च आश्रय-अभावे अयुक्तम् इति, युक्तम् अप्रत्युच्चारणं
निग्रहस्थानम् इति।
यदि नाम वादी स्व-साधन-अर्थ-विवरण-व्याजेन प्रसङ्गाद्
अपरापरं घोषयेत्, विवाद-आस्पदं च जिज्ञासितम्
अर्थ-मात्रम् उक्त्वा प्रतिज्ञा-आदिष्व् अर्थ-विशेष-परम्परया अपरान्
अर्थान् उपक्षिप्य कथां विस्तारयेत्, तच् च सर्वं यदा
न अनुवक्तुं शक्नुयात्, कस् तस्य विवाद-आश्रय-अर्थ-मात्र-उत्तर-
वचने सामर्थ्य-विघातः, येन वादि-वचन-अननुभाषणं
निग्रहस्थानम् उच्यते। तस्माद् सर्वां वादि-कथाम्
अननुभाषमाणो न उत्तरे असमर्थः।
यद्-वचन-नान्तरीयका जिज्ञासित-अर्थ-सिद्धिः यथा पक्षधर्मता-
व्याप्ति-प्रसाधन-मात्रं न तत्र अपि प्रसङ्ग-अन्तर-
उपक्षेपः, तद् अवश्यं साधन-अङ्ग-विषयत्वाद् दूषणेन उपदर्श्यत
एव। तत्र अपि न सर्वं प्राग् अनुक्रमेण उच्चारितव्यम्,
पश्चाद् दूषणं वाच्यं द्विर् उच्चारण-प्रसङ्गात्। दूषण-
विषय-उपदर्शन-अर्थे अनुभाषणे वादि-वचन-अनुक्रम-
घोषणं व्यर्थम् इति, न कार्यम् एव दूषयता अस्य अयं दोष
इति नान्तरीयत्वात् प्रतिदोष-वचनं विषय-उपदर्शनं
क्रियत एव। न हि सर्व-विषय-उपदर्शनं कृत्वा युगपद्
दोषः शक्यते अभिधातुम्, प्रत्यर्थं दोष-भेदात्। तस्माद्
यं पदार्थं दूषयति, स एव तद्-दूषण-विषयस् तदा
प्रदर्शनीयो न अपरः, तद्-दूषणे अपर-उपदर्शनस्य असम्भवात्।
तस्मिन् दूषिते पुनर् अन्यो अर्थो अपर-दोष-विषय इत्य्
अयम् अनुभाषणे दूषणे च न्यायः। सकृत्-सर्व-अनुभाषणे
अपि दोष-वचन-काले पुनर् विषयः प्रदर्शनीय एव, अप्रदर्शिते
दोषस्य वक्तुम् अशक्यत्वात्। तथा च द्विर्-अनुभाषणं
कृतं स्यात्। तत्र प्रथमं सर्व-अनुक्रम-अनुभाषणं निष्प्रयोजनम्।
दूषण-वादिना दूषणे वक्तव्ये यन् न तत्र उपयुज्यते,
तस्य अभिधानम् अदोष-उद्भावनं द्विर्-उक्तिश् च इति
सकृत्-सर्व-अनुभाषणं पराजय-अधिकरणं वाच्यम्।
तथा अस्त्व् इति चेत्, स्याद् एतत्, उक्तं एतद् अर्थ-अन्तरं निग्रहस्थानम्
इति। तत्र साधने यतः कुतश्चित् प्रसङ्ग-आदिना
अनान्तरीयका-अभिधानं वादिनो अर्थ-अन्तर-गमनम् एव इति
स निग्रहा-अर्हः। न कश्चित् तत्-कथित-क्रियमाण-प्रसङ्गो
न प्रसज्यते। न अपि तत् तस्य अनुभाषणीयम्, न च इदम् अप्य्
अस्माभिर् अनुज्ञायते, सर्वं प्राक् सकृद् वक्तव्यं पश्चाद्
दूषणम् इति, किं तु दूषयता अवश्यं विषयो दर्शनीयो
अन्यथा दूषणा-वृत्तेर् इति।
एवं तर्हि न अननुभाषणं पृथग् निग्रहस्थानं
वाच्यम् अप्रतिभया गतत्वात्, उत्तरस्य ह्य् अप्रतिपत्तिर्
अप्रतिभा। न च उत्तर-विषयम् अप्रदर्शयन्न् उत्तरं प्रतिपत्तुं
समर्थः। न ह्य् अनाक्षिप्त-अनुत्तर-प्रतिपत्तिकम्
अननुभाषणम्। तेन अननुभाषणस्य व्यापिकायाम् अप्रतिभायां
विहितं निग्रहस्थानत्वम् अननुभाषणे लब्धम्
एव, गवि विहितम् इव सास्ना-आदिमत्त्वं बाहुलेये अपि। तस्माद्
अप्रतिभा एव निग्रह-अधिकरणत्वेन वाच्या, न अननुभाषणम्।
कश् च अयं समय-नियमस् त्रिर्-अभिहितस्य अननुभाषणम्
इति। यदि तावत् पर-प्रतिपादन-अर्था प्रवृत्तिः, किं
त्रिर् अभिधीयेत। तथा तथा स ग्राहणीयः, यथा अस्य प्रतिपत्तिर्
भवति। अथ पर-उपतापन-अर्था, तदा अपि किं त्रिर्
अभिधीयते, साक्षिणां कर्णे निवेद्य प्रतिवादी कष्ट-प्रतीत-
द्रुत-सङ्क्षिप्त-आदिभिर् उपद्रोतव्यः, यथा-उत्तर-प्रतिपत्ति-
विमूढस् तूष्णीम्भवति। न हि पर-उपतापन-क्रमे कश्चिन्
न्यायः, येन कष्ट-प्रतीत-प्रयोग-द्रुत-उच्चारितानि निवार्यन्ते
त्रिर्-अभिधानं वा विधीयते। न च पर-उपतापाय सन्तः प्रवर्तन्ते
शास्त्राणि वा प्रणीयन्ते इत्य् अदो वक्तव्यम्। तस्मात्
तावद् वक्तव्यम्, यावद् अनेन न गृहीतम्, न त्रिर् एव। अग्रहण-
सामर्थ्ये प्राग् एव परिच्छिन्न-सामर्थ्येन परिहर्तव्यः
परान् अनुप्रतिबोध्येति।
अविज्ञातं च अज्ञानम्। विज्ञातं पर्षदा प्रतिवादिना यद्
अविज्ञातम्, तद् अज्ञानं नाम निग्रहस्थानम्। अर्थे खल्व्
अविज्ञाते न तस्य प्रतिषेधं ब्रूयाद् इति।
एतद् अप्य् अननुभाषण-वद् अप्रतिभया एव गम्यत्वाद्
अवाच्यम्। यथा अननुभाषणे अप्रदर्शित-विषयत्वाद् उत्तर-
प्रतिपत्तिर् अशक्या इति अनुत्तर-प्रतिपत्त्या एव निग्रहस्थानत्वम्
उत्तर-विषय-प्रदर्शन-प्रसङ्गम् अन्तरेण अनुभाषणस्य
वैयर्थ्यात्, तथा-ज्ञाने अप्य् उत्तर-अप्रतिपत्त्या एव
निग्रहस्थानत्वम्, अजानानः कथम् उत्तरम् उत्तर-विषयं
च उत्तरं ब्रूयाद् इति विषय-अज्ञानम् उत्तर-ज्ञानं
च निग्रहस्थानम्, अन्यथा-प्रतिभाया निर्विषयत्वात्। अनवधारित-
अर्थो हि न अनुभाषेत्। अननुभाषमाणो विषयम्
अप्रदर्श्य-उत्तरं प्रतिपत्तुं न शक्नुयाद् इति उत्तरं
न प्रतिपद्येत ज्ञात-उत्तर-तद्-विषयस्य उत्तर-अप्रतिपत्तेर् असम्भवात्।
उभयम् एतद् उत्तर-अप्रतिपत्तेः कारणम् इति।
तद्-अभावे प्रतिपत्तिर् भवत्य् एव इति तयोः पृथग् वचने
अप्रतिभायाः को विषय इति वक्तव्यम्, निर्विषयत्वाद् अवाच्या
एव स्यात्।
न उत्तर-अज्ञानम् अज्ञानं किं तर्हि विषय-अज्ञानम्, अज्ञाते
हि विषये उत्तर-अज्ञानात् तन् न प्रतिपद्येत इति अस्ति विषयो अप्रतिभाया
इति चेत्, एवं तर्ह्य् अननुभाषणं निर्विषयम्,
अज्ञानेन आक्षेपात्। न हि विषयं सम्यक् प्रतिपद्यमानः
कश्चिन् न अनुभाषेत इति न अननुभाषणं पृथग् वाच्यम्।
उत्तर-अज्ञानस्य च आक्षेपात्। विषय-अज्ञानेन उत्तर-अज्ञानम् अप्य्
आक्षिप्तम् एव। न हि विषयम् अजानन्न् उत्तरं जानाति इति न एव अप्रतिभाया
विषयो अस्ति।
ज्ञाते अपि विषये पुनर् उत्तर-अज्ञानम् अप्रतिभाया विषय
इति चेत्, एवं तर्हि विषय-उत्तर-अज्ञानयोर् अपि प्रभेदान् निग्रहस्थान-
अन्तराणि वाच्यानि। यथा अज्ञानस्य विषय-अज्ञानम् उत्तर-
अज्ञानम् इति प्रभेदाद् असत्य् अपि गुण-अतिशये निग्रहस्थान-
अन्तर-व्यवस्था क्रियते, तथा अज्ञानयोर् अपि सर्वा-ज्ञान-अर्ध-
अज्ञानम् इत्य् आदि-प्रभेदान् निग्रहस्थान-अन्तराणि किं न उच्यन्ते।
न च उभयस्य अप्य् अज्ञानस्य सङ्ग्रह-वचने कश्चिद्
दोषः, गुणस् तु स्याद् इति सङ्ग्रह-वचनं न्याय्यम्।
तस्माद् अननुभाषण-ज्ञानयोर् अप्रतिभा-विषयत्वान् न
पृथग्-वचनम्। अपि च न पूर्व-उत्तर-वादिनो हेत्व्-आभासा-प्रतिभाभ्याम्
अन्यन् निग्रहस्थानं न्याय्यम् अस्ति तद्-उभय-
वचनेन एव सर्वम् उक्तम् इति। तद्-उभय-आक्षिप्तेषु प्रभेदेषु
गुण-अतिशयम् अन्तरेण वचन-आदेर् अतिप्रसङ्गाद् व्यर्थः
प्रपञ्च इति।
उत्तरस्य अप्रतिपत्तिर् अप्रतिभा। पर-पक्ष-प्रतिषेध
उत्तरं यदा न प्रतिपद्यते, तदा निगृहीतो वक्तव्यः।
साधन-वचन-अनन्तरं प्रतिविषयम् उत्तरे व्यर्थं
तद्-अज्ञान-क्रम-घोषण-श्लोक-पाठ-आदिना कालं गमयन् कर्तव्य-
अप्रतिपत्त्या निग्रह-अर्ह इति न्याय्यं निग्रहस्थानम्
इति।
कार्य-व्यासङ्गात् कथा-विच्छेदो विक्षेपः। यत् किञ्चित् कर्तव्यं
व्यासज्य कथां विच्छिनत्ति, इदं मे करणीयं
परिहीयते, अस्मिन्न् अवसिते पश्चात् करिष्यामि, प्रतिश्यायकला
मे कण्ठं क्षिणोत्य् एवम्-आदिना कथां विच्छिनत्ति, स विक्षेपो
नाम निग्रहस्थानम्। एकतर-निग्रह-अन्तायां कथायां
स्वयम् एव कथा-अन्तं प्रतिपद्यत इति।
इदम् अप्य् यदि पूर्वपक्ष-वादी कुर्याद् व्याज-उपक्षेप-मात्रेण,
न पुनर् भूतस्य तथाविध-कथा-उपरोधिनः कार्यस्य
भावे, तस्य स्व-साधन-असामर्थ्य-परिच्छेदाद् एव
विक्षेपः स्यात्। तथा च इदम् अर्थ-अन्तर-गमन एव अन्तर्भवेद्
असमर्थ-साधन-अभिधानाद् हेत्व्-आभासेषु वा। प्रकृत-
साधन-असम्बद्ध-प्रतिपत्तेश् च निरर्थक-अपार्थकाभ्यां
न भिद्यते। अतिप्रसङ्गश् च एवम्प्रकाराणाम् असम्बद्ध-
साधन-वाक्य-प्रतिपत्ति-भेदानां पृथग्-निग्रहस्थान-
व्यवस्थापने प्रोक्तः। अथ उत्तरपक्ष-वाद्य् एवं विक्षिपेत्,
तस्य अपि साधन-अनन्तरम् उत्तरे प्रतिपत्तव्ये तद्-अप्रतिपत्त्या
विक्षेप-प्रतिपत्तिर् अप्रतिभायाम् अर्थ-अन्तरे वा अन्तर्भवति।
ननु न अवश्यं साधन-दूषणाभ्याम् एव सर्वस्य प्रतिपत्तिर्,
येन सर्वा वादि-प्रतिवादिनोर् न असम्यक्-प्रतिपत्तिर्
हेत्व्-आभासेष्व् अप्रतिभायां वा अन्तर्भवेत्। भवति हि अनिबद्धेन
अपि कथा-प्रपञ्चेन विवाद इति, न, असम्भवात्।
एकत्र अधिकरणे विरुद्ध-अभ्युपगमयोर् विवादः स्यात्, अविरुद्ध-
अभ्युपगमयोर् अनभ्युपगमयोर् वा विवादा-अभावात्।
तत्र अवश्यम् एकस्य प्राग्-वचन-प्रवृत्तिः, युगपत्-प्रवृत्तौ
परस्पर-वचन-श्रवण-अवधारण-उत्तराणाम् असम्भवेन
प्रवृत्ति-वैफल्यात् स्वस्थ-आत्मनाम् अप्रवृत्तेः। तेन
च स्व-उपगम-उपन्यासे अवश्यं साधनं वक्तव्यम्,
अन्यथा परेषाम् अप्रतिपत्तेः, अपरेण च तत्-सम्बन्धि दूषणम्।
उभयोर् असम्यक्-प्रतिपत्तौ हेत्व्-आभास-अप्रतिभयोः
प्रसङ्ग इति। सर्वो न्याय-प्रवृत्तः पूर्व-उत्तरपक्ष-उपन्यासो
द्वयं न अतिपतति। एतेन एव वितण्डा प्रत्युक्त-अभ्युपगम-
अभावे विवाद-अभावात्।
यदा तर्ह्य् अभ्युपगम्य वादं विफलतया न किञ्चिद्
वक्ति, अन्यद् वा यत् किञ्चित् प्रलपति, तदा कथं हेत्व्-आभास-
अन्तर्भावः। असमर्थित-साधन-अभिधान एवम् उक्तम्,
अनभिधान अन्य-अभिधानयोर् अपि पराजय एव इत्य् उक्तम्
अभ्युपगम्य वादम् असाधन-अङ्ग-वचनात्। एतेन अधिकस्य
पुनरुक्तस्य च प्रतिज्ञा-आदेर् वचनस्य च निग्रहस्थानत्वं
व्याख्यातम्, तद् अपि हि प्रतिपादित-अर्थ-विपर्ययत्वात्
साधन-सामर्थ्य-अनभिधानम्। अप्रतीत-प्रत्ययतया लक्षणात्
साधनस्य असाधन-अङ्ग-वचनम् इति निग्रहस्थानम्
इति।
स्व-पक्ष-दोष-अभ्युपगमात् पर-पक्षे दोष-प्रसङ्गो मत-अनुज्ञा।
यः परेण चोदितं दोषम् अनुद्धृत्य, भवतो
अप्य् अयं दोष इति ब्रवीति, यथा भवांश् चौरः पुरुषत्वाद्
इत्य् उक्ते स तं प्रतिब्रूयाद्, भवान् अपि इति, स स्व-पक्षे दोष-अभ्युपगमात्
पर-पक्षे तं दोषं प्रसञ्जयन् पर-मतम्
अनुजानाति इति मत-अनुज्ञा निग्रहस्थानम् इति।
अत्र अपि यदि पुरुषत्वाच् चौरो भवान् अपि स्यात्, न च भवता
आत्मा एवम् इष्टः, तस्मान् न अयं चौर्य-हेतुर् इति यद्य्
अयम् अभिप्रायः, तदा न कश्चिद् दोषः, अनभिमते तद्-आत्मनि
चौरत्वेन हेतु-दर्शनेन दूषणात्।
प्रसङ्गम् अन्तरेण आञ्जसेन एव किं न व्यभिचारित इति
चेत्, यत् किञ्चिद् एतत्, सन्ति ह्य् एवम्प्रकारा अपि व्यवहारा लोक
इति। अथ तद् उपक्षेपम् अभ्युपगच्छत्य् एव, तदा अप्य्
असाव् उत्तर-अप्रतिपत्त्या एव तत्-साधने निग्रह-अर्हः, न अपरत्र
स्व-दोष-उपक्षेपात्, तत्-साधन-निर्दोषतायां हि तद्-अभ्युपगम
एव उत्तर-अप्रतिपत्तिर् इति तावता एव पूर्वम् आपन्न-निग्रहस्य
पर-दोष-उपक्षेपस्य अनपेक्षणीयत्वाद् इति।
निग्रह-प्राप्तस्य अनिग्रहः पर्यनुयोज्य-उपेक्षणम्। पर्यनुयोज्यो
नाम निग्रह-उपपत्त्या चोदनीयः, तस्य उपेक्षणं
निग्रह-प्राप्तो असि इत्य् अननुयोगः। एतच् च कस्य पराजय
इत्य् अनुयुक्तया पर्षदा वक्तव्यम्, न खलु निग्रह-प्राप्तः
स्व-कौपीनं विवृणुयाद् इति।
अत्र अपि यदि साधन-वादिनं निग्रह-प्राप्तम् उत्तर-वादी
न पर्यनुयुङ्क्ते, अप्रतिभा एव अस्य उत्तर-अप्रतिपत्तेर् इति न
पर्यनुयोज्य-उपेक्षणं पृथग् निग्रहस्थानम्। न्याय-चिन्तायां
पुनर् न द्वयोर् एकस्य अपि अत्र जय-पराजयौ, साधन-
आभासेन अर्थ-अप्रतिपादनाद् भूत-दोष-अनभिधानाच् च।
अथ कञ्चिद् दोषम् उद्भावयति, कञ्चिन् न, न तदा
निग्रहम् अर्हति उत्तर-प्रतिपत्तेः।
अर्हति एव, सर्वस्य सतो दोषस्य अनुद्भावनाद् इति चेत्, न
सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्या अवचने वा
निग्रहः, एकेन अपि तत्-साधन-विघाताद्, एक-साधन-वचन-वत्।
यथा एकस्य अर्थ-अस्य अनेक-साधन-सद्भावे अप्य् एकेन एव
तत्-सिद्धेर् न सर्व-उपादानम् इति न दोषम् उद्भावयन्न् एव अपरस्य
अनुद्भावनान् निग्रह-अर्हः।
अथ पूर्व-पक्ष-वादी उत्तर-पक्ष-वादिनं निग्रह-प्राप्तं
न निगृह्णाति, तदा तयोर् न्यायेन न एकस्य अपि पूर्ववज्
जय-पराजयौ। दोष-आभासं ब्रूवानम् उत्तर-वादिनं स्व-
साधनाद् अनुत्सारयतो असमर्थित-साधन-अङ्गत्वान् न जयो
वादिनः, सर्व-दोष-असम्भव-प्रदर्शनेन साधन-अङ्ग-समर्थनात्।
न अप्य् उत्तर-वादिनो भूत-दोष-अप्रतिपादनात्। तस्माद्
एवम् अपि न पर्यनुयोज्य-उपेक्षणं नाम पराजय-अधिकरणम्
इति।
अस्थाने निग्रहस्थान-अनुयोगो निरनुयोज्य-अनुयोगः। निग्रहस्थान-
लक्षणस्य मिथ्या-अवसायाद् अनिग्रहस्थाने निगृहीतो
असि इति ब्रुवन् निरनुयोज्य-अनुयोगान् निगृहीतो वक्तव्यः।
अत्र अपि यदि तत्-साधन-वादिनम् अभूतैर् दोषैर् उत्तर-
वाद्य् अभियुञ्जीत, सो अस्थाने निर्दोषे निग्रहस्थानस्य अभियोक्त-
उद्भावयिता न भवति। तथा च भूत-दोष-उद्भावन-लक्षणस्य
उत्तरस्य अप्रतिपत्तेर् इतरेण उत्तर-आभासत्वे प्रतिपादिते
अप्रतिभया एव निगृहीत इति न इदम् अतो निग्रहस्थान-अन्तरम्।
अथ उत्तर-वादिनं भूतं साधन-दोषम् उद्भावयन्तम्
अपरो दोष-आभास-वचनेन अभियुञ्जीत, तस्य तेन भूत-
दोषत्वे प्रतिपादिते साधन-आभास-वचनेन एव निगृहीत इति।
एवम् अपि न इदं हेत्व्-आभासेभ्यो भिद्यते। अवश्यं हि
विषय-अन्तर-व्याप्त्य्-अर्थं हेत्व्-आभासा निग्रहस्थानत्वेन
वक्तव्याः, तद्-उक्ताव् अपर-उक्तिर् अनर्थका इति।
सिद्धान्तम् अभ्युपेत्या-नियमात् कथा-प्रसङ्गो अपसिद्धान्तः।
कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञाता-
अर्थ-विपर्ययात् कथा-प्रसङ्गं कुर्वतो अपसिद्धान्तो
विज्ञेयः। यथा न सतो विनाशः, न असद् उत्पद्यत इति सिद्धान्तम्
अभ्युपेत्य पक्षम् अवस्थापयति एका प्रकृतिर्
व्यक्तस्य, विकाराणाम् अन्वय-दर्शनात्। मृद्-अन्वयानां शराव-
आदीनां दृष्टम् एक-प्रकृतिकत्वम्, तथा च अयं व्यक्त-
भेदस् सुख-दुःख-मोह-समन्वितो गृह्यते। तत् सुख-आदिभिर्
एक-प्रकृतिर् इति। स एवम् उक्तवान् पर्यनुयुज्यते।
अथ प्रकृतिर् विकार इति कथं लक्षयितव्यम् इति। यस्य अवस्थितस्य
धर्म-अन्तर-निवृत्तौ धर्म-अन्तरं प्रवर्तते,
सा प्रकृतिः। यत् तद् धर्म-अन्तरम्, स विकार इति। सो अयं
प्रकृत-अर्थ-विपर्ययाद् अनियमात् कथां प्रसञ्जयति। प्रतिज्ञातं
खल्व् अनेन न असद् आविर्भवति, न सत् तिरोभवति इति।
सद्-असतोश् च तिरोभाव-आविर्भावाव् अन्तरेण न कस्यचित् प्रवृत्त्य्-
उपरमः प्रवृत्तिर् वा इति एवं प्रत्यवस्थितो यदि सत
आत्म-हानम् असतश् च आत्म-लाभम् अभ्युपैति, अपसिद्धान्तो
भवति अथ न अभ्युपैति, पक्षो अस्य न सिध्यति इति।
इह अपि न कश्चिद् अनियमात् कथा-प्रसङ्गः यत् तेन उपगतन्
न असद् उत्पद्यते, न सद् विनश्यति इति तस्य समर्थनाय
इदम् उक्तम् एक-प्रकृतिकम् इदं व्यक्तम् अन्वय-दर्शनाद्
इति। तत्र एका प्रकृतिः सुख-दुःख-मोहः। तद्-अविभक्त-
योनिकम् इदं व्यक्तं तद्-अन्वय-दर्शनात्। व्यक्तस्य
तत्-स्वभावता-भेद-उपलब्धेर् इति सुख-आदीनाम् उत्पत्ति-
विनाश-अभ्युपगम-अभावात् सर्वस्य तद्-आत्मकस्य न उत्पत्ति-
विनाशाव् इति सिद्धं भवति। अत्र तद्-उक्तस्य हेतोर् दोषम्
अनुद्भाव्य विकार-प्रकृति-लक्षणं पृच्छन् स्वयम् अयं
प्रकृत-असम्बन्धेन अनियमात् कथां प्रवर्तयति।
तत्र इदं स्याद् वाच्यम्, व्यक्तं नाम प्रवृत्ति-निवृत्ति-
धर्मकम्, न तथा सुख-आदयः। व्यक्तस्य सुख-आद्य्-अन्वये
सुख-आदि-स्वभावतायां प्रवृत्ति-निवृत्ति-धर्मता-लक्षणम्
अवहीयत इति। न तद्-रहित-सुख-आदि-स्वभावता व्यक्त-लक्षण-
विरोधाद् इति। सुख-आद्य्-अन्वय-दर्शनाद् इत्य् असिद्धो हेतुर्
इति। एवं हि तस्य साधन-दोष-उद्भावनेन पक्षो दूषितो
भवति। सो अनुपसंहृत्य साधन-दोषं कथां प्रतानयन्
स्व-दोषं परत्र उपक्षिपति।
अयम् एव दोषो अनेन प्रकरणेन उच्यत इति चेत्, एष नैमित्तिकाणां
विषयः, न लोकः शब्दैर् अप्रतिपादितम् अर्थं
प्रतिपत्तुं समर्थ इति। स एव अयं भण्डालेख्यन्यायो
अत्र अपि। यथोक्तेन न्यायेन पूर्वकस्य असाधन-अङ्गस्य असिद्धस्य
हेतोर् अभिधानाद् एव निग्रहः, न अपि अनियमात्
कथा-प्रसङ्गाद् इति। इदम् अपि हेत्व्-आभासेष्व् अन्तर्भावान् न
पृथग् वाच्यम्।
हेत्व्-आभासाश् च यथोक्ताः। हेत्व्-आभासाश् च निग्रहस्थानानि।
किं पुनर् लक्षण-अन्तर-योगाद् हेत्व्-आभासा निग्रहस्थान-
भावम् आपद्यन्ते, यथा प्रमाणानि प्रमेयत्वम्
इत्य् अत आह यथोक्त-हेत्व्-आभास-लक्षणेन एव निग्रहस्थान-
भाव इति।
अत्र अपि यथोक्तं कृत्वा चिन्त्यम् एव, किं ते यथालक्षित-प्रभेदास्
तथा एव, आहोस्विद् अन्यथा इति। तत् तु चिन्त्यमानम्
इह अतिप्रसज्यत इति न प्रतन्यते। हेत्व्-आभासाश् च यथान्यायं
निग्रहस्थानम् इति एतावन्-मात्रम् इष्टम् इति।
लोके अविद्या-तिमिर-पटल-उल्लेखनस् तत्त्व-दृष्टेर्
वादन्यायः परहित-रतैर् एष सद्भिः प्रणीतः ।
तत्त्व-आलोकं तिमिरयति तं दुर्विदग्धो जनो अयं
तस्माद् यत्नः कृत इह मया तत्-समुज्ज्वालनाय ॥३॥
वादन्यायो नाम प्रकरणं समाप्तम्।