Intro
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,2
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,2
Input by members of the Sansknet Project
(www.sansknet.org)
This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
पाठः
॥ प्रथमाध्याये द्वितीयाह्निकम् ॥
॥ कथालक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं प्रथमाह्निके साङ्गोपाङ्गो न्यायस्तावल्लक्षितः ।
स च परार्थो ऽपि पृच्छोपक्रमप्रतियोगिन्येकवक्तृके विचारे विविच्य प्रवर्त्तनीयः ।
तत्र च सिद्धिपरत्वम् ।
न्यायस्य दूषणोपक्रमप्रतियोगिनी तु नानाप्रवक्तृके कथानाम्नि क्रियाव्यतिहारे प्रवर्त्यं विवेचनीयः ।
तत्र चोपालम्भपरत्वं तस्य ।
एवं च प्रवर्तनीयविवेचनीयसिद्धिपरसाङ्गन्यायलक्षणं प्रथमाह्निकार्थः ।
द्वितीयाह्निकार्थस्तु प्रवर्तनविवेचन उपालम्भपरपदार्थलक्षणमिति युक्त इदानीं तस्यारम्भः ।
तत्रापि प्रवर्त्यविवेचनीयद्वारेण प्रवृत्तिप्रकारत्वाच्च कथायाः प्रथमं कथाप्रकरणमारभ्यते ।
यद्यपि च कथा साक्षात् नोद्दिष्टा, तथाप्यसङ्गतिभिता भाष्यकारः तदुपसङ्ग्रहेणैव वादादीन् विभजते ।
अन्यथा हि वादादिलक्षणस्य पूर्वापरप्रकरणाप्रवेशात् आह्निकाप्रवेशे शास्त्रबहिर्भावप्रसङ्गः ।
अथ सूत्रकृतैव कथा कथं साक्षात् नोद्दिष्ट, विवक्षितफले एकानेकत्वानुरोधेन सामान्यविशेषयोर्यथायथमुद्देशात्? तद् यथा चतुर्षु प्रमैव विवक्षितं फलमिति प्रमाणत्वेन, सैव द्वादशविषयिणी विवक्षितेति प्रमेयत्वेन, हानमेव विवक्षितमिति सुखं दुःखत्वेन ।
इह तु तत्त्वनिर्णयः, जल्पे स्वशक्तिपराशक्तिख्यापनम्, वितण्डायां पराशक्तिमात्रप्रख्यापनं च फलानि विवक्षितानि ।
तानि च न कथामात्रसाध्यानीति विशेषत एवोद्देशः ।
तत्र यौगिकं कथाशब्दमुपादायानवसरदुस्थतया भाष्यम् आक्षिप्य वार्त्तिकेन समाधत्ते—तदयुक्तमित्यादिना ।
नायं कथाशब्दो योगमात्रानुरोधी, अपि तु सत्येव तस्मिन् रूढिनियत इति ।
अनवसरदोषं परिहरन्नाह—अपि त्विति ।
ननु पूर्वपक्षोत्तरपक्षबलाबलनिरूपणं विचारः, स च न कथाया आश्रयः किं तु विषय इत्यत आह—विचारविषयेति ।
प्रौढगौडनैयायिकमते चतस्रः कथाः ।
स प्रतिपक्षस्थापनाहीनो वितण्डा ।
इत्यत्र जल्पवद् वादस्यापि परामर्शात् ।
पुरुषाभिप्रायानुरोधेन चतुर्थोदाहरणस्याप्युपपत्तेरिति सानातनिः ।
एक एवायं कथामार्ग इति बाह्याः ।
ते द्वे अपि तिस्र एवेति नियमयता निराकृते ।
तत्त्वबुभुत्सुकथा च वितण्डा चेति व्याहतम् ।
न हि प्रथमसाधननिवृत्तावेव तत्त्वनिर्णयः, निःसाधनस्य तस्यानुपपत्तेः ।
नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वात् ।
यदि तु प्रतिपक्षसाधनमनिरूप्यैव विजिगीषुवितण्डावत् तावतैव वादिनौ कृतिनौ, न तर्हि तत्त्वबुभूत्सू ।
एवं च यदि विजिगीषुः, कथमप्रतिभाद्यनुद्भावनम् ।
न च विजयतत्त्वनिर्णयाभ्यां फलान्तरमवशिष्यते कथायाः, यदर्थं वादवितण्डा ।
अनुत्पन्नस्य हि तत्त्वनिर्णयस्योत्पादनम्, उत्पन्नस्य पालनम्, पालितस्य च विनियोगः ।
स च स्वयमभ्यासः, कारुणिकतया परव्युत्पादनम् ।
एतच्च सर्वं कथात्रयपर्यवसितम्, नाप्येककथानिर्वाह्यमिति ॥
नन्वेतावतापि न सामान्यलक्षणं विभावितमित्यत आह—तथा चेति ।
नानाप्रवक्तृका मिथः कर्मतया युद्धवदालिङ्गनवच्च ।
एतेन वाक्यसन्दृब्धिर्महावाक्यमुक्तं स्यात्, मिथः कर्मतया साकाङ्क्षत्वात्, विजयाद्यनेकप्रयोजनवत्त्वाच्चेति ।
वक्त्रोश्च प्रशब्देन प्रकर्षो दर्शितः ।
स च कथारूपमहावाक्यनिर्वाहकत्वम् ।
तथा च स्वस्थः सर्वञ्जनप्रत्ययानपलापी मतमात्रावलम्बी अवहितो ऽकलहकारश्चेति कथाधिकारिणो दर्शिताः ।
विपर्ययेण हेया इति ।
वसतीति निरुक्तिभङ्गभयादाह—अर्थाभिधानेति वादेति ।
अनधिकारिणो हातुमिति भावः ।
ते ऽपि प्रकृतोक्तिको ऽविप्रलम्भको यथाकालस्फूर्तिकः अनाक्षेपको युक्तिसिद्धसम्प्रत्ययी चेति पञ्च वादे उपादेयाः विपर्ययेण हेयाः ।
एवं भूताश्च विष्यादय एव प्रायेणेति त एवोक्ताः ।
एवं च सति हेयान् विहाय यो यथाभूतः स तथाभूतेन वक्तुमर्हति ।
तथा सति कथा महावाक्यसिद्धौ फलसिद्धेः ।
न हि युयुत्सुरिरंसू प्रतिपद्य चिरं असिद्धं सम्भूय समीहितं साधयतः ।
यथोद्देशमिति ।
तत्त्वप्रतिपत्तिहेतुत्वाद् वादस्यादावुद्देशः ॥
वार्त्तिकमुपवेशयितुं पीठमारचयति—तदनवसायादिति ।
एवमिति ।
अतिदेशार्थमाह—न विचारमिति ।
श्रुतिव्यवच्छेद्यतया वितण्डां तावद् व्यवच्छिनत्तियद्यपीति ।
तात्पर्यव्यवच्छेद्यतया इदानीं जल्पं व्यवच्छिनत्ति—यद्यपि चेति ।
प्रमाणमूलैः प्रमाणमूलाभिमतैर्नियमेनेति शेषः ।
नाभिप्रायनियमः श्रूयत इत्यत आह—यथा चैतदिति ।
साधने च तर्कस्य प्रमाणापेक्षा, उपालम्भे तु केवलो ऽपि समर्थः, प्रतितर्कप्रतिहतस्यासाधनत्वात् ।
आगामिनं भावसाधनत्वस्वीकारमिव दृष्ट्वा प्राह—उभयथेति ।
तद्गताक्षेपस्तु उद्देश एव प्रमाणतर्कशब्दस्य साधनोपालम्भशब्दवत् स्ववाचकलक्षणया वा, शब्दावान्तरव्यापारतया वा शब्दप्रतिपादिततया वा समर्थितप्रायः ।
ततः सिद्धवदाह—यद त्विति ।
अपराधप्रतिपादनं ह्युपालम्भः ।
न च अचेतनो ऽपराध्यति, नापि प्रतिपाद्यते, किं पुरुषः ।
तदिदमुक्तम्—पुरुषधर्मोपालम्भेति ।
कर्मकरणयोर्हि प्रधानव्यापारः, फलमेकमेव ।
तद्द्वारा च विषयः ।
प्रकृते कर्मकरणयोरपि कर्मैव ।
इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो कर्मकरणयोरपि कर्मैव ।
इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो जिज्ञासिततया, विषयत्वदशायां तु वस्तुतयेत्याशयवान् यथाश्रुतवार्त्तिकानुरोधेन व्याचष्टे—धर्मीति ।
अन्यथा तु विषयः शक्तिविषयः शक्यं कार्यमिति यावदित्येवमपि सुगममेतत् ।
अत्र हि जल्पे निग्रहस्थानविनियोगादित्यादिभाष्ये न हिंस्यात् सर्वभूतानि ।
इतिवद् वादे सर्वनिग्रहस्थानप्रतिषेधे अग्नीषोमीयं पशुमालभेत इतिवत् सिद्धान्ताविरुद्ध इत्यादिविशेषविधिरित्यर्थः ।
स्फुटः प्रतीयते ।
वार्तिककारस्तु रागतः सर्वपञ्चनखभक्षणप्राप्तिवत् उपालम्भग्रहणात् सर्वनिग्रहस्थानप्राप्तौ पञ्च पञ्चनखा भक्ष्याः इतिवत् परिसङ्ख्यानार्थमुत्तरपदारम्भ इति व्याख्यातवान् ।
तदेतदतिकुशलतया मिथः अविरोधयन्नाह—जल्प इति ।
तथापि नियमार्थे इत्यसङ्गतम् ।
पाक्षिकव्यवच्छेदफलो हि नियमः ।
न चात्राप्रतिभादि पाक्षिकम्, उपालम्भपदेन निराशङ्कमेव प्रतिपादितत्वात् इत्यत आह—नियमः परिसङ्ख्येति ।
अयमर्थः, यद्यपि विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति कीर्त्यते ॥
इति भेदो दर्शितः, तथाप्यल्पीयानयमिति मन्यमानेन परिसङ्ख्यायामपि नियमपदं प्रयुज्यते, इतरव्यवच्छेदलक्षणस्य फलस्याविशिष्टत्वादिति ।
इह वादे चतुर्धा निग्रहस्थानगतिः ।
किञ्चिदसम्भावनीयमेव यथा, हानिः सन्न्यासो निरर्थकमर्थान्तरमविज्ञातार्थमपार्थकमिति षट्कम् ।
किञ्चित् सम्भवदप्यनुद्भाव्यमेव यथा, प्रतिज्ञान्तरं हेत्वन्तरमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमिति सप्तकम् ।
किञ्चित् तूद्भाव्यमात्रं यथा, विरोधो ऽप्राप्तकालं न्यूनमधिकं पुनरुक्तमयथानुभाषणमपसिद्धान्त इति सप्तकम् ।
किञ्चिच्च कथावसानिकं यथा, हेत्वाभासो निरनुयोज्यानुयोगश्चेति द्वयमिति ।
तत्र हान्यादीनामशक्तिसङ्गुहनप्रकारत्वात्, तत्त्वबुभुत्सुतया च वादे तदभावात् तेषामसम्भवः ।
सम्भवतामनुद्भावने हेतुमाह—न खल्विति ।
कथामपर्यवसाययतामप्युद्भावने हेतुमाह—अधिकं त्विति ।
तत्त्वप्रतिपत्तेः साक्षाद् व्याघातो विपरीतप्रतिपत्तिर्यथा, हेत्वाभासानुद्भावने निरनुयोज्यानुयोगानुद्भावने च पारम्पर्यव्याघातो व्यासङ्गादीना तत्सामग्रीप्रतिरोधः ।
तत्राधिकानुद्भावने प्रथमो यदि न स्यात्, तथापि द्वितीयः स्यादेव ।
तथा हि, विरोधे योग्यताविरहः ।
अप्राप्तकाले आकाङ्क्षाविरहः ।
न्यूने आकाङ्क्षितासमभिव्याहारः ।
स चानासक्तिविशेषः ।
अधिके अनाकाङ्क्षितसमभिव्याहारः ।
पुनरुक्ते ऽप्येवम् ।
सो ऽप्याकाङ्क्षाविरहविशेषः ।
अयथानुभाषणे उक्ताप्रतिसन्धानम् ।
अपसिद्धान्ते सम्मुखप्रमाणबाधाक्रान्तिरिति आकाङ्क्षायोग्यतासत्तिमत्तया प्रतिसंहितं प्रमाणान्तराप्रतिहतं च वाक्यं तत्त्वप्रतिपत्तेरङ्गम्, नान्यथा ।
तस्मादेतदर्थमिदमुद्भाव्यमिति ॥
तदेतत् सर्वमभिप्रायं नियमयतः सूत्रकारस्य सम्मतं सूत्रादेव च लभ्यते ।
वार्त्तिककृता तु न्यूनादिचतुष्टयमुदाहरणार्थं दर्शितम्, न तु नियमः कृत इति व्याजेन दर्शयति—तथा चेति ।
ननु व्यतिसङ्गो व्यतिहारः ।
स च साधनोपलम्भवानित्येतावतैवोक्ते गम्यते ।
ततः प्रमाणतर्कग्रहणमतिरिच्यत इत्यत आह—पूर्वस्मिन्निति ।
तथाप्यस्मिन् पक्षे किमस्य प्रयोजनमित्यत आह—साधनोपालम्भविशेषणाय चेति ।
अनुविधेयस्थेयसभ्यपुरुषवती जनता सभेत्युच्यते ।
तत्रानुविधेयस्य यथाशक्ति यथानियमं सम्मानासम्मानव्यञ्जकं कर्म ।
नैतद् वादे ।
तत्र हि तत्त्वबुभुत्सुतया स्वयमवातत्त्वज्ञः तत्त्वज्ञानिनमुपासीत ।
स्थेयानां तु वादस्थानकथाविशेषव्यवस्थापनं पूर्वोत्तरवादस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिवादिप्रबोधनं लोके निष्पन्नकथाफलप्रतिपादनं च कर्माणि ।
एतदर्थं च तत्र प्राश्निकोपयोगो यद् वादिनौ कारणग्रहेण एवं कर्तुमशक्तौ ।
न चैवं वादे ।
तत्र तयोरेव वीतरागतया शक्तत्वादित्याशयवानाह—न वादे प्राश्निकानामिति ।
तत् किं परिवर्जनमेव तत्र तेषाम्? नेत्याह—दैवागतानां त्विति ।
सवादेनप्रामादिककथाभासशङ्कामपनेतुं नतूक्तकर्माणि कारयितुमिति भावः ॥१ ॥
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥१ ॥
॥ परिशुद्धिः ॥
उभयसाधनवत्त्वसाधर्म्याद् वादानन्तरं जल्पोद्देशसिद्धिः ।
तत्सिद्धौ सत्यां सङ्गतिम् आह—उद्देशेति ।
ननु जल्पस्योभयसाधनवत्त्वासम्भवान्न वितण्डाव्यवच्छेदः ।
तथा हि यदि पूर्वसाधनं दूषितम्, निगृहीतस्तर्हि वादी, जितं द्वितीयेन ।
निवृत्ता कथा ।
न दूषितं चेत्—उत्तराभासवचनेन चावचनेन च निगृहीतस्तर्हि द्वितीयो, जितं प्रथमेन, निवृत्ता कथेति नास्ति द्वितीयसाधनावसर इति ।
नैतदेवम् ।
यथा हि वादे स्वसाधनस्थितौ परसाधननिवृत्तौ च तत्त्वनिर्णयो न विपर्यये, तथा जल्पे ऽपि स्वसाधनस्थितौ परसाधननिवृत्तौ च विजयो विपर्यये भङ्गः ।
उभयस्थितिनिवृत्त्योः परिषदेव विजयते ।
तदयं जल्प्रपवृत्तिक्रमः वादिनि साधनमात्रं प्रयुज्य सङ्क्षेपतो विस्तरतो वा आभासान् उद्धृत्य विरते सति उच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थमवगम्यानूद्य दूषयित्वा प्रतिवादीस्वपक्षे स्थापनां प्रयुञ्जीत ।
अप्रयुञ्जानस्तु दूषितपरपक्षो ऽपि नविजयी ।
श्लाध्यस्तु स्यादात्मानमरक्षन् परघातीव वीरः ।
तस्मिन्नप्येवं विरते सति अनुक्तोच्यमानग्राह्यनिग्रहालाभे तद्ववचनमवगम्यानूद्य दूषणाङ्गं प्रति दूष्याभासबहिरुक्तग्राह्यनिग्रहालाभेद प्रथमवादी स्थापनांशं दूषयेत् ।
अदूषयंसतु रक्षितस्वपक्षो ऽपि न विजयी ।
श्लाध्यस्तु स्यात् वञ्चितपरप्रहार इव तमप्रहरमाणः ।
अनुक्तोच्यमानग्राह्याभासबहिरुक्तग्राह्यनिग्रहलाभे तु तावतैव कथाविरतिर्न साधनविचारावकार्शः ।
शरसन्धानसमय एव यो मूर्च्छितः तद्वाणवारणतत्प्रहरणानुष्ठानवद् विफलत्वात् ।
तत्रानुक्तग्राह्यमप्रतिभादि ।
उच्यमानग्राह्यमप्राप्तकालादि ।
आभासबहिरुक्तग्राह्यं प्रतिज्ञाविरोधादि ।
एष्वसत्सु आभासचिन्ता ।
ततः पुनः प्रतिदूषणोक्तौ आभासबहिःप्रतिज्ञाहान्यादि ।
एतच्च पञ्चमे प्रपञ्चनीयमिति ॥
यद्यपि निग्रहस्थानपदेनाविशेषात् सर्वप्राप्तौ सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति पदद्वयातिदेशो मन्दः, तथापि गोर्बलीवर्दन्यायेनापि यथाश्रुतभाष्योपपत्तौ कृतं तद्भाङ्गेनेति मन्यमानो भाष्यं वार्त्तिकेन समञ्जसयन्नाह—उक्तमात्रमित्यादि ।
यद्यप्यपराधसङ्गूहनार्थं प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञासन्न्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातार्थविक्षेपापसिद्धान्तानामुपादानं सम्भवति, तथापि न सर्वनिग्रहोपादानसम्भवः ।
अपि च प्रमादस्खलिते ऽपि छलादिभिरेव प्रत्यवस्थातुमुचितम्, निग्रहस्थानापेक्षया तेषामनुद्भटापराधत्वात् ।
तस्मादुद्भाव्यतयैवामीषां सर्वेषामवतारः ।
तथा च नायुक्तत्वमित्यभिप्रायवानाह—तत् किमिति ।
साधुसाधनोपादाने च वादिना कृत इत्युपलक्षणम् ।
परेण साधुसाधनोपादाने च कृत इत्यपि द्रष्टव्यम् ।
ननु भाष्यं दूषयित्वा किमधिकममिहितम्? तेनापि तत्त्वरक्षणार्थत्वप्रतिपादनादित्यत आह—तदनेन प्रकारेणेति ।
प्रकारे भाष्यम् असङ्गतम्, न तु प्रयोजने ।
ततस्तदप्येवमेव नेयमिति ।
छलादिव्युत्पादनं प्रयोज्यतयेति शेषः ॥२ ॥
स प्रतिपक्षस्थापनाहीनो वितण्डा ॥३ ॥
॥ परिशुद्धिः ॥
ननु वितण्डायाः प्रतिपक्षस्थापनाहीनत्वमसङ्गतम्, एकसाधनतायां पुरुषशक्तेरप्यनिरूपणात् ।
तथात्वे वा कृतं जल्पेन प्रयासबहुलेन, अन्ततः सत्प्रतिपक्षतयापि द्वितीयसाधनप्रवेशात् ।
नैतदेवम्, पुरुषशक्तिनिरूपणाविशेषे ऽपि जल्पे प्रत्यवेक्षापराघातोभयगोचरशक्तिनिरूपणात्, कृतविद्यक्षत्रियद्वययुद्धवत् ।
वितण्डायां तु दशरथदशाननतनयतमसिवमीयुद्धवत्, काकोलूकयुद्धवद् वा ।
एकस्य स्वप्रत्यवेक्षाशक्तिरपरस्य पराघातनैपुणं निरूप्यते ।
कथमयं विशेष इति चेत्? वादिनोरभिप्रायवशादनुविधेयस्थेयानुरोधात् वेति न किञ्चिदेतत् द्वितीयसाधनप्रवेशसतु दूषणतया न प्रतिषिध्यते ।
अपि तु स्थापनात्वेन ।
न चायं नियमः, असिद्धत्वादुद्भावनेनापि कथापर्यवसानादिति, समाख्यानिर्वचनसामर्थ्यात् एव गम्यत इति ।
न चैवमस्त्विति वाच्यम्, जल्पे ऽपि परपक्षाघातस्य गतत्वेनातिव्यापकत्वात् ।
मात्रग्रहणात् तु तन्निवृत्तिरिति चेत्—न, तेन साधनानिवृत्तेः ।
तत्र साधनोपालम्भसमुदाये दूषणमात्रं वितण्डेत्येवमप्युपपत्तेरिति ॥३ ॥
॥ इति कथालक्षणप्रकरणम् ॥
॥ हेत्वाभासलक्षणप्रकरणम् ॥
॥ परिशुद्धि ॥
एवं कथाप्रकरणं समर्थिमतम् ।
तस्याश्च शरीरं साधनं दूषणं च ।
तत्र साधनवादिना प्रथमतस्तदाभासपरिहारे दूषणवादिनापि सदुत्तरपरिग्रहे यत्नवता भवितव्यम् ।
सदुत्तरालाभे हि असदुत्तरावतार इति शिक्षार्थं हेत्वाभासाः प्रथमं छलादिभ्य उद्दिष्टा इति सैव सङ्गतिरिहापीत्याह—उद्देशेति ।
अत्र त्रिषोडश्यां व्यापकाव्यापकभेदेन या द्विषोडशी सा असिद्धविशेषणासिद्धविशेष्या समर्थविशेषणा समर्थविशेष्यसन्दिग्धविशेषणसन्दिग्धविशेष्यभेदेन विवक्षिता द्वानवतं शतं भवतीति ।
सैवासिद्धिसन्देहयोर्वादिप्रतिवादिसम्बन्धादष्टाविंशतं शतं भवेत् ।
सैवान्यतरासिद्ध्या व्यधिकरणसमर्थसन्दिग्धविशेषणविशेष्यभेदात् द्वावनतं शतमपरं स्यात् ।
सैवोमयान्यतराश्रयासिद्धविशेषणविशेष्यसम्बन्धादपरमष्टाविंशतं शतं भवेत् ।
सैवाश्रयासिद्धविशेषणाव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसम्बन्धादपरं द्वानवतं शतम् ।
सैव सन्दिग्धव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसम्बन्धादपरं द्वानवतं शतम् ।
इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शतम् ।
सैव सन्दिग्धतां परित्यज्यान्यथासिद्धिमुपादायापरं द्वानवतं शतम् ।
इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शन्तम् ।
सैवान्यथासिद्धिं विहाय विरुद्धतामुपादायापरं द्वानवतं शतम् ।
अत्रैव पुनराश्रयासिद्धिं प्रक्षिप्यापरं द्वानवतं शतम् इति ।
सो ऽयमसिद्धविरुद्धानैकान्तिकानां प्रपञ्चः ।
प्रकरणसमं प्रपञ्चयितुं वस्तुगतिं तावदाहेत्याह—तन्नेति ।
अन्तत इति ।
अगृह्यमाणविशेषदशायामित्यर्थः ।
कालात्ययापदिष्टस्तूद्देश एव प्रपञ्चितः इति ॥
अत्र चातीतकालो मन्दतमप्रयोगः, कालाभावात् ।
यस्य ह्यवसरो नास्ति, तस्यार्थक्रिया प्रति विचारतः सत्त्वं नास्तीति ।
मन्दतरप्रयोगस्त्वसिद्धः, सति स्वकाले स्वयमेवाभावात् ।
यस्तु स्वयमेव नास्ति, तस्य देशकालावस्थाविरोधसामर्थानां नावकाशः ।
मन्दप्रयोगस्तु सत्प्रतिपक्षः, सतोः कालदेशवत्त्वयोरवस्थाभावात् ।
अवस्थाभावे ऽविरोधसामर्थ्ययोरनवकाशात् ।
सावकाशप्रयोगस्तु विरुद्धः, कालदेशावस्थासु सतीषु विरोधात् ।
यस्त्वेवं तस्य कुतः सामर्थ्यम्? प्रायःप्रयोगस्तु सव्यभिचारः, कालदेशावस्थाविरोधेषु सत्सु सामर्थ्यमात्राभावादित्यनेन हेतुना सव्यभिचारादिक्रमोद्देशः ।
यद् वा सुग्रहः सव्यभिचारः, विच्छेदमात्रसिद्धौ तत्सिद्धेः, उपदर्शितविपरीतग्रहणे तत्सिद्धिः ।
यत्नग्राह्यो विरेद्धः ।
अतियत्नग्राह्यः प्रकरणसमः, तदितरसमस्तरूपसम्पन्नमन्यदपनीय तत्सिद्धेः ।
दुर्ग्रहो ऽसिद्धः, असिद्धाश्रयो ऽपि कश्चित् हेतुरिति परमतनिराकरणावष्टम्भेन तत्सिद्धेः ।
दुर्ग्रहतरः कालात्ययापदिष्टः, बाधकस्यानन्यथासिद्ध्या प्रामाण्यं व्यवस्थाप्य तत्सिद्धेरिति ।
तद्विवक्षया क्रमनियम इति ॥४ ॥
॥ परिशुद्धिः ॥
ननु विभागसूत्रे सव्यभिचार इत्युद्दिष्टं पदमिह माष्यकारो लक्षणत्वेनैव व्याचष्टे ।
एवं चोद्दिष्टं न लक्षितम्, लक्षितं च नोद्दिष्टमित्यत आह—अत्र चेति ।
तथापि लक्षणे वक्तव्ये पदनिरुक्तिः क्वोपयुज्यते इत्यत आह—एतदुक्तं भवतीति ।
किं त्वेकस्मिन्नन्ते यो नियत इति अन्वयतो व्यतिरेकतो वा साध्येनैव सहचरितो दृष्ट इत्यर्थः ।
तद्विपर्ययादनैकान्तिको ऽनियतः साध्येनैव सहितो न दृष्टः ।
उभयपक्षगामीति यावदिति उभयपक्षप्रसञ्जक इत्यर्थः ।
एतेन साधारणासाधारणानुपसंहार्याः सङ्गृहीता इति स्फुटम् ।
बोधाभासप्रसञ्जितामतिव्याप्तिमनेन व्याख्यानेन व्युदस्तामाह—न चैवम्भूता ।
एतच्च तत्र तत्र वक्ष्यते ।
तदेवमिति ।
अनैकान्तिकपदवत् सव्यभिचारपदमपि व्याख्येयमित्यर्थः ।
नन्वेतावतैव सर्वं व्याख्यातम्, तत् किमपरमवशिष्यते यदर्थं सर्वो ऽयमित्यादि वार्तिकमित्यत आह—अवगतम् इति ।
न नु अन्यत्र प्रमेयादिति असङ्गतम् ।
साध्यतद्विपर्ययौ ह्यन्तद्वयम् ।
न च तदस्य नास्ति ।
अथायमर्थः, न तत्रायमन्वयतो व्यतिरेकतो वा नियत इति ।
तथापि नायमेवैवम्भूतः, सर्वेषामेवानैकान्तिकानामेवंरूपत्वात् ।
तदस्यैव वर्जनमनुपपन्नम् ।
उदाहरणमात्रार्थत्वान्न दोष इत्यपि न युक्तम्, नित्यश्चानित्यश्चेत्यादिसङ्ग्राह्यकोटावनैकान्तिकस्याप्रदर्शनादित्यत आह—प्रमेयपदार्थस्य त्विति ।
तदयं वार्त्तिकार्थः, कश्चिद् धर्मः सर्वस्यप्रमेयत्वादिलक्षणः, कश्चित् कस्यचिदेव नित्यत्वादिलक्षणः ।
तत्र सर्वस्य वा कस्यचिद् वा यो धर्मो हेतुतयोपात्त उभावन्तौ साध्यधर्मतद्विपर्ययौ आश्रित्य प्रसज्य प्रवर्तते धर्मिणि सो ऽनैकान्तिक इति ।
व्यतिरेक्यव्यतिरेकितया धर्मद्वैविध्यप्रदर्शनेनानैकान्तिकस्य विषयविवेचनं सूचितम् ।
व्यतिरेकिण्येव हि धर्मे साध्ये ऽनैकान्तिकः सम्भवत्प्रयोगो न त्वव्यतिरेकिणि ।
न नु पर्युदासाभिप्रायेणैव प्राक् व्याख्यातम् ।
तत् कथं तत्प्रतिषेध इत्यत आह—पर्युदासपक्ष इति ।
तथापि नाब्राह्मण इति प्रसज्यप्रतिषेधोदाहरणम् ।
न हि गोघटादावब्राह्मण इति वक्तारो भवन्ति, अपि तु क्षत्रियादावित्याह—न पुनरित्यादि सुबोधम् ॥५ ॥
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥६ ॥
॥ परिशुद्धिः ॥
सूत्रे समानकर्तृकत्वाभावात् क्त्वाप्रत्ययानुपपत्त्या शब्ददोषमाह—न खल्विति ।
अर्थदोषमाह—न च पक्ष इति ।
उपलक्षण चैतत् ।
एतस्मिन् सति विरोधापसिद्धान्तौ निग्रहस्थाने निरवकाशे ।
तयोः सतोरयं वा मीमांसकाभिमतो विशेषविरोधो ऽपि विरुद्ध स्यादित्यपि ।
अभ्युपगमेति ।
सिद्धान्तशब्देनात्र पक्षो विवक्षितो ऽतो न प्रकृतहानं नाप्यपसिद्धान्तवैयर्थ्यमित्यर्थः ।
विशेषविरुद्धप्रसङ्गनिवारयति—विशेषेति ।
अभ्युपेत्य इत्यनेन प्रतिज्ञायेति विवक्षितम्, न त्वभिप्रेत्येति ।
न च विशेषः प्रतिज्ञायते ऽपि तु अभिप्रेयते न च तथाभूतेन विरोधोपलम्भसम्भवो ऽसिद्धिदशायामनुपम्भेन सिद्धिदशायां सहोपलम्भेनानवसरपराहतत्वात् ।
एवम्भूतस्याभिप्रायगोचरत्वमपि कथमित्यपि न युक्तम्, स्वार्थानुमानसमये प्रकृतोपपादकतया तत्सिद्धेः अनुपपादकस्तु विशेषो न सिध्यति ।
अत एव नाभिप्रायगोचरो ऽपि ।
तदापि कथं सर्वथानुपलब्धचरः सिध्यतीत्यपि न वाच्यम्, आकाङ्क्षादिसम्पत्तौ पदार्थानामिवापूर्वार्थप्रतिपादने व्याप्तिपक्षधर्मतामाहात्म्यस्यापह्नोतुमशक्यत्वात् ।
तस्माद् ययोरेव परस्परधर्मिपरिहारेण नियमवतोः स्थितिरूपलभ्यते, तयोरेव विरोधो नान्यथेत्यर्थः ।
अनुक्तश्च सङ्गृहीतश्चेति विप्रतिषिद्धमित्यत आहर्—इदृशं व्याख्यानमिति ॥
स्यादेतत्, विरोधे हि हेतुर्न स्यात् साध्य वा ।
आद्ये ऽसिद्ध एव ।
द्वितीये तु कालात्ययापदिष्टः ।
क्वेदानीं विरुद्धः? अन्यतरानिश्चये ऽपि सन्दिग्धासिद्ध इत्याशक्ङ्क्योक्तं वार्त्तिककृता यस्मादम्युपगतं बाधत इति ।
नासिद्धः, पक्षे निश्चितत्वात् ।
नापि कालातीतः, प्रमाणान्तरेण बलवता अबाधनात्, किं त्वयमेव सिसाधयिपितं बाधत इति वार्त्तिकार्थः सुगम एव ।
द्वितीयं वार्त्तिकमभ्युपगतेन बाध्यते इति ।
तदपि यद्यपि प्रतिज्ञार्थेन तद्बाधने ऽसिद्धः स्यात्, तथापि विरोधस्यैव यत्रोद्भटत्वम्, तत्र तदुल्लङ्घनेन प्रयत्नसाध्यमसिद्धत्वं नोद्भाव्यमेव, दैवतस्तत्प्रतीकारे निरनुयोज्यानुयोगापत्तेः, विरुद्धद्वारेणैवासिद्धेरपि व्यवस्थापने तदुद्भावनस्यावश्यकत्वाच्चेति ।
सुगमम् ।
उत्तरवार्त्तिकानुरोधेन तु व्याचष्टे—स्वरूपेण हेतुत्वेन वेत्यर्थः ।
अत्रोदाहरणभाष्यमित्यादि ।
उक्तमित्यर्थ इति ।
अन्तष्टीकायां भाष्यस्येति शेषः ।
विरोधनिग्रहस्थानादेतस्यामेदमाशङ्क्य यथा परिहृतं वार्त्तिककृता, तदनुरोधेन व्याख्यातम् ।
प्रतिज्ञाश्रितत्वमिति ।
विरोधवैभवेन चोदाहरणानि वार्त्तिके ।
वस्तुतस्तु स्वमते मानान्तरसिद्धस्यार्थस्यान्यथावचनमपसिद्धान्तः ।
वाक्यांशयोरेकार्थभावाभावविषयत्वेन व्याधाती विरोधः ।
विपर्ययव्याप्तत्वेन निश्चितो विरुद्धो हेत्वाभासः ।
स च विधिसाधने स्वभावानुपलब्धिर्व्यापकानुपलब्धिर्व्यापकविरुद्धोपलब्धिरिति त्रिविधः ।
तद्यथा धूमवानयं योग्यस्य सतस्तद्वत्तया अनुपलभ्यमानत्वात्, निरग्निकत्वात्, जलाशयत्वादिति ।
निषेधसाधने ऽपि स्वभावोपलब्धिर्व्याप्योपलब्धिरिति द्विविधः ।
तद्यथा निरग्निको ऽयम्, तद्वत्तयोपलभ्यमानत्वात्, धूमवत्तवादिति ।
सर्वश्चायं विशेषणद्वारापि प्रतिसन्धेयः ।
यथा कृष्णागुरुरारुप्रभववह्निमानयम्, कटुकासुरभिविपाण्डुरधूमवत्त्वादिति सङ्क्षेपः ॥ ६ ॥
यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ ७ ॥
॥ परिशुद्धिः ॥
इह खलु हेत्वाभासानां तत्त्यानुसंहितानां यथासङ्ख्यं संशयो विवक्षितविपरीतज्ञानं जिज्ञासा अज्ञानं व्याप्तिबाधश्चेति फलानि ।
तत्र फलद्वारकं प्रकरणसमलक्षणमुपक्रम्यतेयस्मादित्यादि ।
तदेतद् भाष्यमुखने व्याचष्टे—प्रकरणेति ।
यस्मात् प्रक्रियमाणार्थजिज्ञासामात्रं भवति स प्रकरसम इति सङ्क्षेपः ।
तथाहि, पक्षे समबलबाधकसहप्रवृत्तेर्न तत्त्वनिर्णयः, प्रतिबलेन प्रतिरुद्धत्वात् ।
नापि ततो ऽनुसन्धानेनापि सहसा व्याप्तिबाधो ऽनुगृह्यमाणविशेषतया समबलत्वात् ।
नाप्यज्ञानमेव पक्षे विद्यमानतयैककोटिप्रसञ्जकत्वात् ।
नापि विपरीतज्ञानम्, तेनाव्याप्तेः ।
नापि सन्देहः कोटिद्वयानुपनायकत्वात् ।
तस्मादेकां कोटिमुपनयन् समबलेन प्रतिरुद्धः कथमत्र निर्णयो भवत्विति जिज्ञासां जनयन् प्रकरणसम इतरेभ्यो भिद्यत इति ।
तच्च सत्प्रतिपक्षत्वं सिद्धोभयहेतुकमसिद्धोभयहेतुकं सिद्धसाध्योभयहेतुकं च ।
प्रथममरूपद्रव्यत्वोलभ्यमानस्पर्शाधिष्ठानत्वयोः ।
तृतीयं श्रावणत्वकृतकत्वयोः ।
मध्यममिहोदाहरिष्यते ।
तदनुरोधेन व्याचष्टे—स खल्विति ।
यद्यपि जिज्ञासामात्रमत्रोपयोति, तथापि संशयानुवृत्तिनिवृत्त्योः जिज्ञासानुवृत्तिनिवृत्ती इति मत्त्वोक्तम्—तत्र सन्दिग्धे तद्वा जिज्ञासते इति ।
ननु यत एव जिज्ञासा कथं तमेव प्रेक्षावान् तत्त्वनिर्णयाय प्रयोक्ष्यत इत्यत आह—विचित्राभिसन्धितयेति ।
पूर्वसमयो दुष्प्रत्ययो जातु प्रयोज्यबुद्धिरिति हि साधनोत्तराभासप्रयोगे हेतव इत्यर्थः ।
नन्वेकैकपक्षनियततया कथमुभयपक्षसाम्यमनुपलब्धेरित्यत आह—सेयमिति ।
ननु व्युत्पत्तिमाश्रित्य चेत् प्रकरणसमपदं प्रवर्तते कृतं तर्हि यस्मादित्यादिलक्षणान्तरेणेत्यत आह—व्युत्पत्तीति ।
अथैतदेव प्रवृत्तिनिमित्तं किं न स्यादित्यत आह—अन्यथेति ।
अत्र भाष्यकारेण सव्यभिचारात् प्रकरणसमं भेदयता तस्य संशयहेतुत्वमस्य च प्रकरणप्रवृत्तिहेतुत्वमुक्तम् ।
तच्च सम्मुग्धम्, पक्षप्रतिपक्षौ प्रकरणम् इति प्राग्व्याख्यानात्, सूत्रविरोधाच्च ।
न हि यस्मात् प्रकरणमिति सूत्रमपि तु यस्मात् प्रकरणचिन्तेति ।
अत आह—एतदुक्तं भवतीति ।
अपि तु सत्प्रतिपक्षतयैव हेत्वाभासत्वमिति ।
जिज्ञासामात्रहेतुतया निर्णयानुत्पादकत्वादिति भावः ।
एतेन भाष्ये प्रकरणशब्दो जिज्ञासापर इत्युक्तम् ।
ननु नित्यधर्मानुपलब्धिः कादाचित्की विवक्षिता, सदातनी वा? आद्या अनैकान्तिक्येव, आकाशादावपि कदाचिन्नित्यधर्मानुपलब्धेः ।
द्वितीया त्वसिद्धैव ।
न हि नित्यधर्मोपलब्ध्या शब्दे कदाचिदपि न भवितव्यम् इति प्रमाणमस्ति ।
तथा चासिद्धत्वं विहाय कुतः प्रकरणसमत्वमुद्भावयतीत्यत आह—न च तत्त्वानुपलब्धिरिति ।
अयमर्थः, यस्यैवं विशेषग्रहः, तस्य तावदसिद्ध एवायमित्यस्तु, यस्तूपलम्भाभावेन सुलभामनुपलब्धिं मत्वा विशेषमप्रतिसन्धाय प्रतिबलेन च प्रतिबन्धमुपन्यस्यति, तं प्रति किमयमाभासतां यातु न वा? न तावन्न याति ।
तथा सति साधयेत् ।
एवं च ततो ऽगृहीतविशेषा द्वितीयापि साधयेदेव ।
न चैवम्, न चानाभासमसाधकमतिप्रसङ्गात् ।
न च तदानीं दोषान्तरमत्र परिस्फुरति, अन्यत्र प्रतिबलेन प्रतिबन्धादिति ।
यत्रापि युगपदनेकदोषपरिस्फुरणम्, तत्रापि सत्प्रतिपक्षत्वम् अप्युद्भाव्य विरम्यते ।
न हि यावदस्ति तावदुद्भाव्यम्, अन्यत्र सम्भूय प्रतिज्ञायां सर्वत्रोद्भावननियमादिति ।
यद्यपि प्रत्यक्षवत् तत्त्वानुपलब्धिरपि न केवला, अपि तु समानधर्मदर्शनादिसहितैव संशयकारणम् ।
तथा च चोद्यचुञ्चोरभिमतभ्रंसः, तथापि तमुपेक्ष्य स्वसिद्धान्तावरोधेन परिहरति—न ह्यकारणानामिति ।
ननूभयेति ।
एकस्मिन् पक्षे उभयपदं विहायापरस्मिन् व्यावृत्तिद्वारेति पदमध्याहृत्य फक्किकाबोधः, अपि तु तत्त्वानुपलब्धिरेवास्मदुक्ता प्रकरणसमोदाहरणमिति शेषः ।
एवं जिज्ञासाहेतुत्वाभावात् प्रकरणसमलक्षणायोगितया शरीरादन्यत्वं न तदुदाहरणमित्युक्तम् ।
इदानीं संशयहेतुतया अनैकान्तिकलक्षणायोगात् ।
तदुदाहरणमेवेदमित्याशयवानाहेत्याह—इतश्चेति ।
केचित् तु मन्यन्ते, तत्त्वानुपलब्धिरेव परं प्रकरणसमो हेत्वाभासस्तन्निराकरणं सूचयति—एवमन्यान्यपीति ।
नागृह्यमाणविशेषदशायामनुपलब्ध्योरन्ययोर्वा धर्मयोः कश्चित् विशेषो गृह्यमाणविशेषदशायां तु यथान्यस्यान्यत्र हेत्वाभासे ऽन्तर्भावः तथानुपलब्धेरपीति सापि त्याज्या ।
न चानुपलब्ध्योरात्यन्तिकमगृह्यमाणविशेषत्वम् ।
उभयोः सिद्धत्वे वस्तुन उभयानुभयात्मकत्वप्रसङ्गात् ।
एकस्यासिद्धत्वे वा कथमगृह्यमाणविशेषत्वमात्यन्तिकमुभयोरपि वास्तव्यामसिद्धौ पुनरुभयानुभयात्मकत्वप्रसङ्गादिति ॥ ७ ॥
साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ ७ ॥
॥ परिशुद्धिः ॥
तस्मात् साध्यत्वादसिद्धतेति ।
साध्यतया असिद्धतया ।
साध्येनाविशिष्टः साध्याविशिष्टः ।
सा चासिद्धता कस्यचिदित्यादि सुगमम् ।
तदेवं शिष्यप्रतिपत्तिलाघवाय वाक्यगौरवम् ।
वस्तुतस्तु असिद्धः साध्यसम इत्येतावदेव लक्षणमुक्तम् ।
असिद्ध इत्यस्यापि पक्षधर्मतया न निश्चित इत्यर्थः ।
परामर्शविषयः पक्षधर्मता ।
सा च स्वसाध्येन निरुपाधिसम्बन्धस्य पक्षसम्बन्धः ।
तथापि च व्याप्तिनिश्चयसहितेन सम्बन्धिद्वयनिश्चयेन निश्चीयते ।
व्याप्तिलिङ्गपक्षेषु त्वेकतमानिश्चये ऽपि नेति ।
तत्र पक्षानिश्चयादाश्रयासिद्ध ।
लिङ्गस्यैवानिश्चयात् स्वरूपासिद्धः ।
व्याप्तेरनिश्चयादन्यथासिद्धः ।
एतेषां चानिश्चयः सन्देहाद् वा, अभावनिश्चयाद् वेति न कश्चित् फलं प्रति विशेषः ।
एतेन व्योमपद्मां सुगन्धि पद्मात्वात् इत्यादयो ऽपि सङ्गृहीता भवन्ति ।
अन्यथा यः पक्षे ऽसन्निति लक्षणेनैतल्लभ्यते ।
यथा हि, असति सपक्षे विपक्षे च प्रतिषेधः कर्तु न शक्यते, तथा पक्षे ऽपीति ।
सत्या एवेति सत्येनाभ्युपगताया इत्यर्थः ।
तस्या नित्यत्वाभावादिति ।
तदसिद्धमिति चेत्—न, कदाचिदुपलम्भलक्षणेनापि अनित्यत्वेन साध्यसिद्धेः तेषां व्यञ्जकवैचित्र्ये ऽपि व्यक्त्याश्रयसम्बन्धिनामुपलम्भमन्तरेणानुपलम्भनियमात् ।
उपलम्भे वा तत्त्वानुपपत्ते ।
सदोपलम्भप्रसङ्गाच्च ।
तेजसाभिभूतत्वात् न तथेति चेत्—न, आश्रयानभिभवे तेषामनभिभावात् ।
तदभिभवे तु तेषामुपलम्भे तदुपलम्भप्रसङ्गात् ।
अत एव न भाभावस्य तद्व्यञ्जकत्वम् ।
तस्मात् कदाचिदुपलम्भ एवास्याः सामान्याविरूपतां प्रतिक्षिपतीति ।
नापि कर्मेति ।
स्वाश्रयं प्राग्देशाद् विभज्य देशान्तरं प्रापयत् कर्म तत्तायां व्यवतिष्ठते ।
नातो ऽन्यथा, चलनव्यवहारस्यानाकस्मिकत्वात्, अन्यनिमित्ताभावात् ।
एवम्भूतार्थान्वयव्यतिरेकानुविधानाच्च छायायास्त्वाश्रय एव तावन्नोपलभ्यते, प्रागेव तस्य विप्रयोजनसम्प्रयोजने इत्यर्थः ।
न गुणो द्रव्यासमवायादिति ।
द्रव्यासमवेतं ह्यद्रव्यसमवेतं वा, असमवेतमेव वा स्यात्? उभयथापि गुणवे व्याघातः, सामान्यवतः स्वतन्त्रस्य द्रव्यत्वापत्तेः ।
निःसामान्यस्य गुणलक्षणव्याघातात् ।
सामान्यवानगुणः इत्यादि हि तत् ।
गुणकर्मणां निर्गुणतया गुणस्य तत्र समवायविरोधेन तत्समवाये सामान्यरूपत्वोपपत्तेरित्यर्थः ।
द्रव्यासमवायादिति ।
हेतुं साधयति—न मन इति तेषां विशेषगुणविरहात् सामान्यगुणो ऽयं भवेत् ।
तथा चाश्रयसहोपलम्भनियमे तदप्रत्यक्षतायां नियमादप्रत्यक्षत्वप्रसङ्ग इत्यर्थः ॥
नाप्यात्मगुण इति ।
इयं हि बाह्यकरणप्रत्यक्षता इदन्तासामानाधिकरण्येन व्याप्ता ।
तदात्मगुणतामादाय निवर्तमानमनात्मगुणतायां विश्राम्यतीत्यर्थः ।
नापि नभोनभस्वतोरिति ।
चाक्षुषतो हि गुणानां रूपिद्रव्यसमवायेन व्याप्ता ।
तच्च रूपित्वं गगनपवनाभ्यां व्यावर्तमानं चाक्षुषगुणसम्बन्धमपि व्यावर्तयतीत्यर्थः ।
नापि तेजसः तद्गुणत्वं हि प्रतीतौ तदविरोधित्वेन व्याप्तम्, अन्यथा गुणिनः स्वगुणप्रतीतिपरिपन्थित्वे गुणस्य नित्यानुपलम्भप्रसङ्गात्, सति समवाये उपलम्भविरोधात्, असति समवाये चासत्त्वात् ।
तच्चातो निवर्तमानं तद्गुणत्वमपि निवर्तयतीत्यर्थः ।
तत्सहचरितगुणान्तरानुपलब्धेश्चेति ।
अयमर्थः, न तावत् छाया तेजसो रूपमेतद्रूपस्य शुक्लभास्वरत्वनियमातृ ।
न चेन्द्रनीलप्रभारूपवदाश्रयोविधानात् ।
तस्मात् गुणान्तरमेवेदं तस्येति वाच्यम् ।
तथा च चक्षुषोपलभ्यमानं न रूपमनन्तर्भाव्योपलब्धुं शक्यते, चक्षुषस्तथैव सामर्थ्याकलनादिति ।
अत एवेति ।
अयमर्थः, चक्षुर्मात्रग्राह्यतया तावच्छाया न गुणान्तरत्वेन शङ्कास्पदम्, रूपं तु सम्भाव्येत ।
तच्चोपलभ्यमानं पाथस उपलभ्य शैत्यद्रवत्वादिव्याप्तम्, अतादृशस्तोयत्वायोगात् ।
पृथिव्यास्तु उपलभ्यगन्धादिव्याप्तम्, अतथाभूतस्य पृथिवीत्वायोगात् ।
तच्च शैत्यगन्धादिसाहचर्यमतो निवर्तमानमनुपलम्भेन तद्गुणतामपि निवर्तयतीति ।
अपि चेति ।
अतैजसद्रव्यरूपग्रहणे हि बाह्यालोकव्याप्तस्यैव चक्षुषः सामर्थ्यमधिगतम् ।
न च यत्सहितस्य यस्य यत्र सामर्थ्यं तद्रहितेन तेन तत्करणम् ।
तथा सति वह्निरहितमप्यार्द्रमिन्धनं धूमं विदध्यादित्यर्थः ॥
विरोधकस्त्वधिक इत्याह—तस्मिस्त्विति ।
एतेन पार्थिवं रूपमारोपितं तम इति निरस्तम्, बाह्यालोकसहकारिविरहे चक्षुषस्तथारोपे ऽप्यसामर्थ्यात् तदेव हि धर्म्यन्तरे वा समारोप्येत पित्तपीतिमवत्, तत्रैव वा नियतदेशे ऽवगम्यमाने अनियतदेशत्वमिति नेदीयस्यणीयस्यपि महत्त्ववत् ।
उभयथापि तत्प्रथममन्तरेणानुपपत्तिरेकत्रारोप्यत्वादन्यत्रारोपविषयत्वात् तस्यैव ।
न चालोकमन्तरेण रूपग्रहणे चक्षुषः सामर्थ्यमित्युक्तम् ।
न चारोप्यारोपविषयाप्रथने भ्रान्तिसम्भवः ।
न चोभयोरन्यतरस्मिन्नव्यापृतस्यैवचक्षुषो भ्रान्तिजनकत्वम्, न चायमचाक्षुषः प्रत्ययः, तदन्वयव्यतिरेकयोरनन्यथासिद्धत्वादिति ।
नापि द्रव्यमिति ।
न पृथिव्यगन्धत्वात् ।
न जलमरसत्वात् ।
न तेजः अनुष्णत्वात् ।
न वायुरस्पर्शत्वात् ।
नाकाशमशब्दसमवायिकारणत्वात् ।
न दिक्कालो परत्वापरत्वासमवायिकारणसंयोगानाधारत्वात् ।
नात्मा बुद्ध्यनाधारत्वात् ।
न मनो ज्ञानासमवायिकारणसंयोगानाधारत्वादित्यर्थः ।
नाप्यन्यदिति ।
नेदमद्रव्यं रूपिद्रव्यम्, अस्मदादिप्रत्यक्षत्वात् ।
अस्मदादिप्रत्यक्षं हीन्द्रियेण व्याप्तम् ।
तच्च नियतविषयसामर्थ्येन व्याप्तम् ।
तच्च विपक्षान्निवर्तमानमिन्द्रियं निवर्तयत् प्रत्यक्षत्वमपि निवर्तयतीत्यर्थः ।
अस्पर्शत्वादिति ।
नेदमनेकद्रव्यं द्रव्यमस्पर्शत्वात् ।
अस्पर्शता हि द्रव्यस्यानारभ्यतया व्याप्ता ।
स च निषेध्यादनेकद्रव्यान्निवर्तमाना स्वव्याप्यं स्पर्शरहितत्वं गृहीत्वा तद्विपरीते विश्राम्यतीत्यर्थः ।
अनारम्भकत्वेनेति ।
अविद्यमानमारभ्भकं यस्य तत् तथोक्तम् ।
तस्य भावस्तत्वत्त्वमिति ।
एतेनाश्रयासिद्धिः परिहृता ॥
यत् तूक्तम्, मनसा द्रव्यान्तरानारम्भे वैयर्थ्यमुपाधिः, न पुनरस्पर्शत्वम्, तत् किं वैयर्थ्यादनारम्भकत्वमुन्नीयते, अनारम्भकाद् वा वैयर्थ्यमिति? न तावदाद्यः, सर्वोत्पत्तिमत्प्रयोजनस्यास्मदादिभिः पिशितलोचनैरनाकलनात् ।
तस्माद् यद्यारम्भकस्वभावत्वं मनसस्तदा कदाचिदारम्भे प्रयोजनमपि किञ्चिद् भविष्यतीति ।
न चेत् तत्स्वभावकत्वं प्रयोजनसहस्रेणापि नारम्भः ।
स्वभावानुविधायीनि हि प्रयोजनानि ।
न तु प्रयोजनानुविधायिनः स्वभावाः ।
प्रत्यक्षबाधस्तु तदा स्यात् यदि तम एवापह्नूयेत ।
द्रव्यत्वे प्रत्यक्षस्याजागरुकत्वात्, नीलिमगुणशालिनः प्रतीतेः ।
कथमेवमेतदिति चेतृ—न, वस्तुतो ऽस्य नीलत्वे ऽचाक्षुषत्वप्रसङ्गात् ।
आलोकसहकारिण एव चक्षुषः तत्र सामर्थ्यावधारणादित्युक्तम् ।
शुक्लभास्वरविरोधितासाम्यात् तु तथा व्यवहारः ।
एवं तर्हि रक्तादिव्यवहारो ऽपि प्रसज्यत इति चेत्—न, व्यवहारे हि सति निमित्तानुस्मरणात् ।
न तु निमित्तामस्तीत्येव व्यवहारः यथा शषयोः शव्यवहारो गौडानां वर्णत्वनिमित्ताविशेषे ऽपि न कादिव्यवहारः ।
अदृष्टादिसामग्रीविशेषान्नियमो नात्रापि दण्डवारितः इति ।
तत् किं न किञ्चिदेवच् छायेत्यत आह—तस्माद् भाभाव एवच् छायेति ।
न च वाच्यम्, सो ऽपि कथमालोकमन्तरेण प्रतियोगिस्मरणाधिकरणग्रहणविरहे विधिमुखेन चाक्षुषो विषय इति ।
यद्ग्रहे हि यदपेक्षं चक्षुस्तदभावग्रहे ऽपि तदपेक्षमेव ।
एवं हि तदितरसामग्रहीसाकल्यं स्यात् ।
तदिहाप्यालोकाभावे तदालोकापेक्षा स्यात्, यद्यालोके ऽपि तदपेक्षा भवेत् ।
न चैतदस्ति ।
प्रत्युत विरोध एव तस्मिन् सति हि तदभाव एव न स्यात् ।
किं तत्सापेक्षेण चक्षुषा गृह्येत दिवा च प्रतियोगिनः प्रभामण्डलस्य ग्रहे एव प्रदेशान्तरे तद्ग्रहणमिति न किञ्चिदनुपपन्नम् ।
अन्यदापि न रात्रिमप्रतिसन्धायान्धकारग्रहः ।
रात्रिज्ञानं च न दिवसमप्रतिसन्धाय ।
तथा हि निरस्तैतद्द्वीपवर्तिरविरश्मिजालः कालविशेषो ऽत्र रात्रिरित्युच्यते ।
गिरिदरीविवरवर्तिनस्तु यदि योगिनो न तिमिरालोकिनः ।
तिमिरदर्शिनश्चेत्—नूनं स्मृतालोका इति ।
अधिकरणम् अपि दृष्टमनुमितं स्मृतं वा इहेदानीमन्धकार इति प्रत्ययात् ।
विधिमुखस्तु प्रत्ययो ऽसिद्धः ।
न हि नाप्रयोगमात्रेण विधित्वम्, प्रलयविनाशावस्थानादिषु व्यभिचारात् ।
नार्थान्तर्भावेन वाक्यार्थे पदप्रयोगाददोष इति चेत्? इहापि मात्सर्यमपनीय एषैव रीतिरनुगम्यतामिति सुष्ठूपसंहृतम्—तस्माद् भाभाव एवच् छायेति ।
देशान्तरप्राप्तिमत्त्वप्रयुक्तं हि गतिमत्त्वम् ।
न तु देशान्तरदर्शनप्रयुक्तम् तच्च प्रयोजकमिह निश्चितव्यावृत्ति ।
तथा हि स्वातन्त्रयेण देशान्तरप्राप्तौ वारकानुविधाननियमो न स्यात् ।
प्रभातुल्यत्वे तेजःप्रभाश्रयेषु रत्नविशेषेषुच् छाया दिवसे न स्यात् ।
छाययैवाभिभवे वा बहलतमे तमसि तेषामालोको न स्यात् ।
आलोकान्तरेणैवाभिभवे छायाया अप्युद्भावो न स्यादिति ॥
सङ्कलयति—सेयमिति ।
असिद्धिः अनिरूपणम् ।
न चैतावतेति ।
वाच्यमिति शेषः ।
कुतः? सव्यभिचारत्वादिति ।
अयमर्थः, यद्यपि तत्रापि स्वाभाविकसम्बन्धविरहादस्त्येव हेतुत्वासिद्धिः, न ह्यस्ति सम्भवः स्वभावप्रतिबद्धश्च सव्यभिचारादिश्चेति ।
तथापि न तावत् स्वरूपत आश्रयतो वा तत्रासिद्धिरुद्भावयितुं शक्यते, तयोर्निश्चितत्वात् ।
नाप्युपाधित उपाध्यपेक्षया व्यभिचारादेर्लघुप्रतिपत्तिकत्वात्, उपाधेस्तु तद्द्वारैव प्रतिपत्तेः ।
यदि च तेन दूषयितुं न शक्यते तद्द्वाराप्यपाधिरेवोद्भाव्येत ।
न चैतदस्ति ।
व्यभिचारादौ ह्युद्भाविते सुतरां निवर्तते ।
उपाधौ तु कदाचिद् विप्रतिपद्यते, तस्य दुरूहत्वादिति ।
अस्तु तर्हि सव्यभिचारवत् अप्रयोजको नाम षष्ठो हेत्वाभासः, तस्याप्येवंरूपविशेषशालित्वादित्यत आह—अन्यथासिद्धस्य त्विति ।
भवेदेवम्, यद्यौपाधिकत्वं स्वाभाविकसम्बन्धविरहादन्यतृ ।
न त्वेतदस्ति ।
अनौपाधिकत्वं हि सम्बन्धस्य स्वाभाविकत्वम् ।
औपाधिकत्वं च तद्वरहः ।
तस्माद् विशेषान्तराभावात्, साध्यसमसमानलक्षणवत्त्वाच्च तत्रैव तस्यान्तर्भाव इत्यर्थः ।
भाष्ये गतिमत्त्वादिति सन्दिग्धः ।
वार्त्तिके सती छाया गतिमती देशान्तरे दर्शनादिति विशेषणद्वारा आश्रयासिद्धः ।
अयमेव सत्त्वं विहाय निश्चितोपाधिसहवृत्तिरन्यथासिद्धः ।
तदेतावन्त एवासिद्धभेदा इति भ्रमनिरासार्थमुदाहरति—त एत इति ।
चाक्षुषत्वादिति निश्चितासिद्धः ।
अशरीरत्वादिति धर्मित एवाश्रयासिद्धः ।
मैत्रतनयत्वादिति सन्न्दिग्धोपाधिसहवृत्तिरन्यथासिद्धः ॥ ८ ॥
कालात्ययापदिष्टः कालातीतः ॥ ९ ॥
॥ परिशुद्धिः ॥
अत्र यथाश्रुतभाष्यवार्त्तिकदर्शनात् सर्वमसमञ्जसमिति मत्त्वा स्वव्याख्यां स्थानान्तरीयभाष्याद्युपन्यासेन संवदन्नाह—अत्रेत्यादिना ।
अनुष्ण इत्यादिना प्रतिषेध्यविधेयधर्मग्राहकप्रमाणबाधो दर्शितः ।
धर्मिग्राहकप्रमाणबाधस्तु घटो व्यापकः सत्त्वादाकाशवदिति प्रत्यक्षेण ।
परमाणुः सावयवो मूर्तत्वाद् घटवदित्यनुमानेन ।
मेरुः पाषाणमयः पर्वतत्वाद् विन्ध्यवदित्यागमेन ।
हेतुग्राहकप्रमाणबाधस्तु, जलानिलाविष्णौ पृथिवीतो विपरीतस्पर्शवत्वात् तेजोवदिति प्रत्यक्षेण ।
मनो विभुज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवदित्यनुमानेन ।
ब्राह्मणस्य राजसूयं कर्म, स्वर्गसाधनत्वात् अग्निष्टोमवदित्यागमेन ।
एवं नवविधो ऽयमेकविधोपमानबाधेन सङ्क्षेपतो दशविध इति ।
ननु बाधो नाम नाविनाभावभङ्गादपरः कश्चित् ।
सो ऽपि न त्रैरूप्यप्रच्यवादन्य इत्यत आह—बाधेति ।
न हि बाधम् अव्यवस्थाप्यानैकान्तिकत्वमपक्षधर्मत्वं वावतारयितुं शक्यम् ।
अतो ऽस्यावश्योद्भाव्यतयावश्याभ्युपगन्तव्यः, अन्यथा विरोधमपि नाभ्युपगच्छेत् ।
विरोधे हि हेतोरभावे स्वरूपासिद्धिः ।
साध्याभावे ऽपक्षधर्मता दुर्निवारा ।
अथ विरोधस्यैव प्रथमं बुद्धावुपनिपातात् तदुद्भावनमन्तरेण पक्षधर्मत्वस्योद्भावयितुमशक्यत्वाच्च सो ऽवश्याभ्युपगन्तव्यः ।
तदेतत् समानमन्यत्रापीत्युक्तमित्यर्थः ।
यद्येवम्, भाष्यमिदानीं कथमित्यत आह—एवमिति ।
अथ यद्ययमर्थो भाष्यकारस्य विवक्षितः, किमिति नैतदनुरूपमुदाहरणमित्यत आह—अत्र चेति ।
तथाप्यैहिकमुदाहरणमसङ्गतमित्यत आह—परमतेनैवेति ।
अथैतदुदाहरणं स्वमते पञ्चकोटिषु क्वान्तर्भविष्यतीत्यत आह—स पुनरिति ।
तत् किमिति नोद्भावयाम्बभूव एवमित्यत आह—स्थूलतयेति ।
वार्त्तिकमिदानीं कथमित्यत आह—यस्यापदिश्यमानस्येत्यादि ।
भदन्तं प्रत्येकदेशिनः परीहारः—समीकृते ऽभिधानादिति ।
तद् विवृणोति—अयमर्थ इति ॥ ९ ॥
॥ हेत्वाभासलक्षणप्रकरणम् ॥
॥ छलप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं यत्नेनोद्भावनीयपरिहरणीयहेत्वाभासवप्रकरणं समर्थितम् ।
अथ साधनवादी प्रमादी प्रतिवादी वा सदुत्तरसमाधानयोरपरिस्फूर्तौ तयोर्विजिगीषुः तदाभासमपि ब्रूयादिति तदाभासव्युत्पादनावसरः ।
तत्रापि जातेः स्वपक्षव्याघातापादकत्वेन जघन्यत्वात् छलस्य तु तात्पर्यतो दुष्टत्वे ऽपि वचनतो ऽदुष्टत्त्वादस्फूर्तिदशायामपि तदेव प्रयोक्तव्यम् ।
तस्याप्यस्फूर्तौ जातिरिति विशेषज्ञापनार्थं जातेः पूर्वं छलोद्देशः ।
सैव लक्षणे ऽपि सङ्गतिरिति भाष्यार्थमाह—उद्देशेति ॥
नन्वतिव्यापकमिदं लक्षणम् ।
अर्थवैचित्र्योपपत्त्या वचनविघातस्य जातावपि सम्भवादित्यत आह—यथा वक्तुरिति ।
इह वाग्वृत्तिविपर्यासेन प्रत्यवस्थानं न तु तत्रेति भेद इत्यर्थः ।
ननु विभागो नोदाहृतः तत्कथं विभागे तूदाहरणानीति भाष्यमित्यत आह—विभज्यत इति ॥ १० ॥
॥ परिशुद्धिः ॥
यद्येवं कथं विभागश्चेति कृत्वा विभागसूत्रमेव पठतीत्यत आह—विभज्यते ऽनेनेति ।
उक्तिपूर्वकत्वात् तात्पर्यस्य तदनुसन्धानपूर्वकत्वादुपचारस्योद्देशकमनियमः ।
तदनुरोधाच्च लक्षणक्रमनियमः ॥ १।१ ॥
परिशुद्धिः
अभिधावृत्तिसञ्चारो यत्रच् छले तद्वाक्छलमिति लक्षणार्थः, वाचीति विषयसप्तमी, भ्रमं निवारयति—वाचि निमित्त इति ।
नन्वेतत् सर्वच्छलसाधारणमित्यत आह—नवकम्बल इत्यादि ।
तदिदं वाक्छलमुत्तरदशायां नवविधम् ।
तद्यथा भूभृदयं वीर्यशाली महावयवत्त्वादित्यत्र धर्मिपदसञ्चारेण न नखप्रसूनाञ्चितकरपल्लवो ऽयं नित्यकर्मकरत्वादित्यत्र साध्यपदसञ्चारेण ।
अता गर्भवती रक्तविलोचनत्वादित्यत्रोभयपदसञ्चारेण ।
तदेतत् प्रतिज्ञाश्रयं त्रयम् ।
आढ्यो ऽयं नवकम्बलत्वादित्यत्रासिद्धत्वोद्भावनेन ।
गजो ऽयं विषाणीत्वादित्यत्र विरोधोद्भावनेन ।
दुरालोको ऽसौ राजा तेजोमयत्वादित्यत्रानैकान्तिकत्वोद्भावनेन ।
तदेतत् हेत्वाश्रयं त्रयम् ।
दुव्यं वायुः सावयवत्वात् अम्बरवदित्यत्र साधनविकलत्वेन ।
अस्मदादिदुरासदाः तारका गगनेचरत्वात् पतङ्गवदित्यत्र साध्यविकलत्वेन ।
पशुरेष विषाणित्वाद् गोवदित्यत्रोभयविकलत्वेन ।
तदेतद् दृष्टन्ताश्र त्रयम् ।
प्रत्युत्तरदशायां तु प्रतिपक्षसाधने नवविधमेव ।
अन्यत्र तु यावद्दूषणभेदम् ।
तद् यथा, अन्यथासिद्धो ऽसिद्धश्चेति व्याघातः कथमपि सिद्धत्वात् ।
साध्यविपर्ययव्याप्तो ऽयमिति, गुण एवान्यथा साध्याभेदप्रसङ्गात् ।
अम्बरेणानैकान्तिकमित्यसङ्गतम्, तस्याप्यनित्यत्वात् ।
नायं पक्षी कुतो ऽस्य पक्षबाधसम्भावनेत्यादि स्वयमूह्यम् ।
अस्य प्रत्यवस्थानमित्यादि भाष्यं न पूर्वसूत्रव्याख्यानं नोत्तरसूत्रपरं वेत्यत आह—तदेतच्छलमिति ॥ १।२ ॥
सम्भवतोर्ऽथस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १।३ ॥
॥ परिशुद्धिः ॥
यत्र तात्पर्यसङ्क्रान्तिस्तत् सामान्यच्छलमिति सूत्रार्थः ।
तच्च क्वचित् सम्भवविधिविशेष्येषु ।
यथा सम्भवद्विद्याचरणसम्पदयं ब्राह्मणत्वात् ।
अनित्यः शब्दः ।
शतं द्विजातयो भोजिता इति ।
क्वचित् तु हेतुत्वोद्देशविशेषणेषु यथा ब्राह्मणादुपजातो ऽयं ब्राह्मणत्वात् ।
अनित्यं कार्यं द्विजशतं भोजितमिति ।
तदेतत् सर्वं विवक्षितमाप्नोति चात्येति चोभयसमानं चेत्यतिसामान्यमुच्यते ।
एतन्निमित्तकं छलं सामान्यच्छलमिति ।
भाष्यानुरोधात् विशेषनिष्ठं व्याचष्टे—सम्भवत इति ।
तत्राद्यमुदाहरणं स्फुटमेव ।
द्वितीयं तु, अनित्यः शब्दः कृतकत्वादित्युक्ते धटो ऽप्यनित्यः तर्हि कृतकत्वात् शब्दः स्यात् ।
तृतीयं तु, शतं द्विजातयो भोजिता इत्युक्ते शतसङ्ख्यावच्छिन्ना अपि भोजिताः सनकादयो न द्विजातय इति ।
चतुर्थं तु, ब्राह्मणाज्जातो ऽयं ब्राह्मणत्वादित्युक्ते सम्भावनाविषयो ऽयमभिहितो न हेतुरिति ।
पञ्चमं तु, अनित्यं कार्यमनित्यत्वादित्युक्ते साध्याविशिष्टो हेतुरिति ।
षष्ठं तु, द्विजशतं भोजितमित्युक्ते द्विजा भोजिताः, न तु तद्मता शतसङ्ख्येति ।
एवं प्रत्युत्तरदशायामप्येतत् षड्विधमेवेति ॥ १।३ ॥
धर्मविकल्पनिर्देशेर्ऽथसद्भावप्रतिषेध उपचारच्छलम् ॥ १।४ ॥
॥ परिशुद्धिः ॥
उपचारवृत्तिव्यत्ययो यत्र तदुपचारच्छलमिति लक्षणार्थः ।
एतदप्युत्तरे नजविधम् ।
तद् यथा, अयं माणवकः सिंहः, अयं सिंहो राज्ञः, अयं पुरुषसिंहो राजशार्दूलस्येति प्रतिज्ञामारित्य त्रयम् ।
वर्षाषु नौसञ्चार्येयं भूमिर्गङ्गात्वात्, घोषाणां सुखवसतिहेतवस्ते देशा गङ्गात्वात्, स प्रदेशो धनकाशादिवनो गङ्गात्वादिति हेतुमाश्रित्यत्रयम् ।
ये ध्वनिहेतवस्ते क्रोशन्ति यथा मञ्चाः, ये क्रोशन्ति ते ध्वनिहेतवो यथा मञ्चाः, ये क्रोशनप्रयोजनवन्तस्ते क्रोशन्ति यथा मञ्चाः, इति दृष्टान्तमाश्रित्य त्रयम् ।
प्रत्युत्तरे तु प्रतिसाधने तावदेव ।
अन्यत्र तु यावद्दोषभेदम् ।
तद्यथा, अशरीरत्वादिति हेतुरयमाश्रयासिद्ध इत्युक्ते नैवम्, हेत्वाश्रयस्याकाशस्य सिद्धत्वात् ।
न च हेतुरसिद्धत्वादीना दूष्यते अपि तु लिङ्गमेव ।
अतो निरनुयोज्यानुयोगो भवत इत्यादि धर्मविकल्पनिर्देशशब्देनाभिधानधर्मो द्वेधाभिधीयत इति वार्त्तिकैकवाक्यताम् आपादयितुं भूमिं रचयित्वा यथाश्रुतभाष्यमुपेक्ष्य खण्डखण्डं व्याचष्टे—शब्दस्येति ।
द्ययपि नेह स्फुटम् तथाप्येकत्र वस्तुसद्भावः प्रतिषिध्यते ।
नैव क्रोष्टारो मञ्चा इति परीक्षावार्त्तिकमनागतमवेक्ष्याह—वार्त्तिकमते त्विति ॥ १।४ ॥
वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ १।५ ॥
॥ परिशुद्धिः ॥
सङ्गतिर्हि द्वेधा भववति, अन्तर्भावलक्षणा आनन्तर्यलक्षणा च ।
तत्र न तावत् पूर्वा छलपरीक्षासूत्राणां लक्षणस्याध्यायार्थत्वात् ।
अध्यायानन्तर्भूतस्य चाह्निकप्रकरणयोः अन्तर्भावात्, परीक्षात्वेन द्वितीयादावेवान्तर्भावार्हत्वाच्च ।
नाप्युत्तरा षोढाप्यत्र सम्भाव्यते, स्मारकाभावेन प्रसङ्गाभावात्, तया विनैव प्रकृतसिद्धेः, उपोद्घाताभावात्, जातिनिग्रहस्थानलक्षणावरोधेनावसराभावात्, उत्तरप्रबन्धं प्रति अकारणत्वेन हेतुत्वायोगात्, छलपरीक्षाया उत्तरत्राव्यवहारेणानिर्वाहकत्वात्, छलपरीक्षाजात्यादिलक्षणसूत्राणां प्रकृतोपयोग्येककार्यायोगेन तन्निबन्धनाय अपि सङ्गतेरभावादित्यत आह—परीक्षापर्वण इति ।
प्रासङ्गिकी सङ्गतिः ।
प्रसङ्गाश्च परीक्षापर्वसन्निधानेनोपोद्वलित इत्यर्थः ॥
पृथक्सूत्रणात् साधर्म्यसहिताया विशेषानुपलब्धेश्च संशय ।
परीक्षितं सत्सु विवचितं सुग्रहं सुपरिहरं छलं भविष्यतीति परीक्षाप्रयोजनं स्फुटीकृत्य पूर्वपक्षमाह—यथा हीति ।
लक्षणाभेदादेकत्वमित्यर्थः ॥ १।५ ॥
न तदर्थान्तरभावात् ॥ १।६ ॥
॥ परिशुद्धिः ॥
न तदर्थान्तरभावादिति सिद्धान्तसूत्रम् ।
तत्र च भाष्यम्—अन्यार्थान्तरकल्पना, अन्योर्ऽथसद्भावप्रतिषेध इति ।
तदेतदविशदम्, अर्थान्तरकल्पनाया उभयत्रापि पूर्वपक्षे दर्शितत्वात् ।
अर्थसद्भावप्रतिषेधस्तु यथाकथञ्चित् सर्वसाधारणः अन्यथा वचनविधातत्वलक्षणक्षतेः ।
परमार्थतस्तु न क्वचिदपि ।
वार्त्तिकं तु एकत्र धर्मः प्रतिषिध्यते ऽन्यत्र धर्मीति ।
एतच्चासिद्धम् ।
न ह्यत्र मञ्चा एव धर्मिणः प्रतिषिध्यन्ते ।
अपि तु कम्बलधर्मसङ्ख्यावत् मञ्चधर्मः ।
क्रोशनमिहापि प्रतिषिध्यत इत्यत आह—विधेयं वस्त्विति ।
अत्रैवोत्तरशङ्कान्तरमपनयति—किं त्विति ।
तदेतत्समाधानं प्रकृतोदाहरणापेक्षं द्रष्टव्यम् ।
सर्वव्यापकं तु मुख्योपचारवृत्त्यनुगतत्वेन अनयोर्भेदकौ नियतौ धर्माविति ॥ १।६ ॥
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥१७ ॥
॥ परिशुद्धिः ॥
अवि—ङ्गः ॥ १७ ॥
॥ इति छलप्रकरणम् ॥
॥ पुरूषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
यद्यप्यसदुत्तरतया जातेः छलप्रकरण एवान्तर्भावो युक्तः, तथापि प्रतिज्ञाहान्यादेर्निग्रहस्थानस्यापि तथाभावात् तां सङ्गतिमुपेक्ष्यार्थदूषणत्वाभिप्रायेण प्रयोगस्य साम्यादुत्तरप्रकरण एवान्तर्भावः ।
तत्रान्तर्भूतायाश्च जातेः पृथक्करणे उद्देश एव प्रयोजनमुक्तम्, प्रतिज्ञाहान्याद्यपेक्षया चानुद्भटापराधतया परव्यामोहनहेतुत्वात्, पराजयदशायां प्रयोक्तव्यत्वज्ञापनार्थं तस्मात् प्रागुद्देशः ।
सैव सङ्गतिरिहापीत्याह—उद्देशेति ॥
छलस्य सम्यग्दूषणस्य च इत्युपलक्षणम्, प्रतिज्ञाहान्यादेरित्यपि द्रष्टव्यम् ।
न च छले इत्युपलक्षणं तथैव, तथापि सम्यग्दूषणस्याव्युदासः, तस्यापि हेतुतो वैधर्म्येण हेत्वाभाससाधर्म्येण प्रत्यवस्थानरूपत्वादित्यत आह—न चेति ।
अयं च मात्रशब्दार्थो जातीनामवतारं वादे प्रतिषेधता असदुत्तरत्वख्यापनेनैव सूत्रकृता सूचितः ।
भाष्ये जातिपद व्युत्पादनप्रयोजनं दर्शयति—जल्पे हीति ॥१८ ॥
वप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥१९ ॥
॥ परिशुद्धिः ॥
निग्रहस्थानेनैव समस्तकथामुद्रणादर्थतो ऽस्य पश्चादभिधानम् ।
तत् किमित्यत्र सङ्गत्यनुसरणेनेत्याशयवान् सूत्रं प्रत्याहरति—विप्र—नमिति ॥ १९ ॥
यद्यपि लोकव्यवहारकथाव्यवहारयोः पुरुषस्यापराध एव निग्रहस्थानम् ।
अपराद्धो हि निग्रहं शास्तिं खलीकारं प्राप्नोति ।
अन्यत्र लोके शरीरविडम्बना ।
कथायां त्वपराधमात्रोद्भावानमात्रम् ।
अन्यत्र वादिनोः कामचारः ।
अपराधश्च कथायां विप्रतिपत्त्यप्रतिपत्तिभागद्वयपर्यवसितं तात्कालिकमतत्त्वज्ञानमेव ।
तथापि तस्य स्वरूपेणोद्भावयितुम्—अशक्यत्वात्, निरर्थकापार्थकादिसामानाधिकरण्यानुपपत्तेश्च तदुन्नयनोपायोपलक्षणतया सूत्रं व्याख्यातम् ।
तेन कथायां प्रवृत्तयां वादिनोरतत्त्वज्ञानज्ञापिका क्रिया निग्रहस्थानमिति सूत्रार्थः ।
एतच्च प्रतिज्ञाहान्यादिसामानाधिकरण्येन प्रयुक्तनिग्रहस्थानपदपदार्थालोचनया ।
स्वरूपेण शक्योद्भावनप्रतिपादकवार्त्तिकदर्शनाच्च सुगमम्, भाष्ये ऽप्यनन्तरमेव स्फुटीभविष्यति ॥
स्यादेतत्, न प्रतिपत्तेर्विरीतत्वादन्यत् कृत्सितत्वमित्यत आह—सूक्ष्मेति ।
कथमसौ निग्रहस्थानमिति ।
कथमसौ स्वरूपतो ऽप्रतीयमानैव सत्तामात्रेण निग्रहस्थानं भविष्यति? न ह्यप्रतीतमेव परदारधर्षणं निग्रहाय पर्याप्तमित्यर्थः ।
विप्रतिपद्यमान इति ।
यतो विप्रतिपद्यमानः प्राप्तपराजयो भवति, अतः पराजयप्राप्तिद्वारेण उन्नेतुं शक्यते ।
अथ पराजयप्राप्तिरेव का इत्यत उक्तम्—निग्रहस्थानं प्रतिज्ञाहान्यादि खलु स्पष्टम् पराजयप्राप्तिरिति भाष्यं स्फुटमित्यर्थः ।
यद्यप्यधिके विप्रतिपत्त्यप्रतिपत्ती सम्भवतस्तदसम्भवे निग्रहस्थानत्वानुपपत्तेः, तथापि विप्रतिपन्नवस्तुगोचरत्वेन न तु तत्रेति तदनिग्रहस्थानत्वभ्रमनिवारणार्थमसमासकरणमित्यर्थः ।
अधिकं नामेत्युपलक्षणम्, पुनरुक्तमपि द्रष्टव्यम् ।
दूष्यं वा इत्यागामिपक्षापेक्षया वाशब्दः ॥ १९ ॥
॥ परिशुद्धिः ॥
यथोद्देशमिति—यथोद्देशक्रमं भवतु लक्षणम्, न तु लक्षणक्रमानतिक्रमेण परीक्षा भविष्यति, प्रथमत एव व्यतिक्रमादित्यत आह—यथालक्षणं यथास्वरूपमित्यर्थ इति ।
नन्वेवं सति प्रथमद्वितीयसूत्रे तात्पर्यान्तरेणावष्टब्धत्वान्न त्रिविधशास्त्रप्रवृत्त्यन्तर्भाविनी ।
आर्थ्या वृत्त्या प्रथमसूत्रस्य उद्देशान्तर्भावे ऽपि द्वितीयसूत्रमलग्नकम् असङ्गतिकत्वादित्यत आह—तस्मादिति ।
औपोद्घातिक्या सङ्गत्या प्रथमोद्देशमङ्गतमेव द्वितोयसूत्रमर्थात् ।
श्रुत्या च प्रयोजनपरतयेति न प्रकरणासङ्गतिरित्यर्थः ।
शेषं सूबोधमिति ।
कीर्त्त्यत इति कीर्तितम् ।
तथा च यथायोगमभिसम्बन्ध इति सुखबोधमित्यर्थः ॥
अनभ्यासज्ञेयाच्छ्रुतिविवरगर्भेषु लघुतः सुखग्राह्यान्मन्दैः कुसुमसुकुमारात् प्रथमतः ।
मनः श्रीमद्वाचस्पतिवचनविन्यासविसरात्
त्रसत्यद्याप्येतन्मुहुरिव मुहुर्निर्वृतमपि ॥ २० ॥
॥ इति पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥
॥ इत्यौदयनतात्पर्यपरिशुद्धौ प्रथमाध्यायस्य द्वितीयाह्निकम्
समाप्तः प्रथमाध्यायः ॥