Intro
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1
Input by members of the Sansknet Project
(www.sansknet.org)
This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
पाठः
॥ न्यायवार्त्तिकतात्पर्यपरिशुद्धिः ॥
मातः सरस्वति पुनः पुनरष नत्वा
बद्धाञ्जलिः किमपि विज्ञपयाम्यवैहि ।
वाक्चेतसोर्मम तथा भव सावधाना
वाचस्पतेर्वचसि न स्खलतो यथैते ॥
विश्वाराध्य इत्यत्र विश्वशब्देन संसारिचेतनवर्गो विवक्षितः, तस्यैव तदाराधकत्वात् ।
विश्वेशान इत्यत्र समीहितफलसन्दोहः, तस्य भगवदेकाधीनत्वात् ।
विश्वकृदित्यत्रोपादानसमूहः, तस्यैव तत्कृतिव्याप्यत्वात् ।
विश्वसंहारकारीत्यत्र यावदनित्यनिवहः, तस्यैव तद्विनाश्यत्वात् ।
विश्वशक्तिरित्यत्र यावत्कार्यास्तोमः, तस्यैव तच्छक्तिविषयत्वात् ।
विश्वज्ञातेत्यत्र यावञ्ज्ञेयप्रपञ्चः, तस्यैव पज्ज्ञानविषयत्वात् ।
विश्वव्यापीयत्र यावन्मूर्त्तिमद्द्रव्यराशिः, तस्यैव विशेषतस्तद्व्याप्यत्वात् ।
इतरस्य तु तद्द्वारा ।
विश्वमूर्तिरित्यत्र यावत्कारकग्रामः, तस्यैव साक्षात् तत्प्रयत्नाधिष्ठेयतया अस्मदादिशरीरसमानत्वात् ।
अत एव न तत्र शरीरान्तरापेक्षा, साक्षात्प्रयन्तानधिष्ठेयेषु हि सा स्यात् दण्डादिवत् ।
न तु साक्षात्प्रयत्नाधिष्ठेयेषु शरीरवत् ।
पिनाकीति तु विशिष्टशस्त्रधारधमित्तक नामसङ्कोर्तनेन प्रारब्धविघ्नस्य प्रोत्सारणमेव समीहितमिति सूचयति ।
हेतुहेतुमद्भावेन शड्कोत्तराभ्यां योजना ज्यायसी ।
यथावस्थितयोजनायां तु अर्थपौनरूक्त्यप्रसर्क्ता स्तुतित्वमेव समाधानमध्यवसेयम् इति ॥
नमामीत्यादि ।
धर्मो निवर्तकः ।
विज्ञानं शरीरादिविविक्तात्मसाक्षात्कारः ।
वैराग्यं रागाभावः ।
ऐश्वर्यं भूतेन्द्रियजयः ।
तच्छानिपे, अत एव निधये वाग्विशद्धीनाम् ।
अधर्महेतुको ह्यविवेकः ।
अविवेकहेतुकमवैराग्यम्, अवैराग्यमूलमनैश्वर्यम् ।
तन्मूलाश्च वचसामविशुद्धयः ।
तिस्रः खल्वेताः ।
तत्र प्रथमा निरभिधयता ।
द्वितीया विपरीतामिधेयता ।
तृतीया निष्प्रयोजनामिघेयता ।
ता एताः कथं भूतेन्द्रियजयिनो महामुनेर्भविष्यन्ति? अजितभूतस्य हि विवक्षोस्तथाविधप्रयत्नानिष्पत्तेर्निरभिधेया वाक् भवति ।
अजितेन्द्रियस्य च विपर्यासविप्रलिप्साहेतुको विपरीतार्थो वचनसन्दर्भः ।
अजितमनसश्च प्रमादोन्मादवतो निष्प्रयोजनः ।
एताश्च वचसामविशुद्धीः छलजातिनिग्रहस्थानेषु सूत्रकार एव प्रपञ्चयिष्यति ।
सो ऽयं न तथेति भवति वाग्विशुद्धीनां निधिः ।
अत एव तायी तत्त्वाध्यवसायसंरक्षणक्षमसम्प्रदायप्रवर्तकः ॥
एवं परापरगुरून् नत्वा शिष्यबुद्धिसमाधानाय समाहितवैशिष्ट्यं दर्शयति–ग्रन्थेति ।
ननु तात्पर्यटीकेति वदता प्रवृत्तिपाटवार्थं ग्रन्थसङ्क्षेपो दर्शितः, न च शिष्याणां कथन्तासम्बोघविधुराणां राद्धान्तमात्रपरिग्रहः सङ्क्षेपतो विवक्षितः ।
तथात्वे वा उपनिषद एव सन्तु ।
सन्तु वा शवमुष्टिन्यायेनाचार्योपदेशाः ।
किमनेनेत्यत आह–निरस्ताखिलदूषणेति ।
नन्वेवं ग्रन्थतात्पर्यां व्याख्येयम्, दूषणानि च निरस्यानीति पुनरपि ग्रन्थगौरवमित्यत आह–ग्रन्थव्याख्याच्छलेनैवेति ॥
ननु चिरन्तरे ऽस्मिन् निबन्धे महाजनपरिगृहीते बहवो निबन्धास्तथाविधाः सन्तीति कृतमनेने इत्यत आह– इच्छामीति ।
ननु यदि ग्रन्थकारसम्प्रदायविच्छेदेन ते निबन्धाः, कथं कुनिबन्धाः? अथ सम्प्रदायो विच्छिन्नः, कथं तवापीयं विच्छिन्नसम्प्रदाया तात्पर्यटीका सुनिबन्ध इत्यत आह–अतिजरतीनामिति ।
उद्द्योतकरसम्प्रदायो ह्यमूषां यौवनम् ।
तच्च कालपरिपाकवशाद् गलितमिव ।
किं नामात्र त्रिलोचनगुरोः सकाशादुपदेशरसायनमासादितममूषां पुनर्नवीभावाय दीयत इति युज्यते ।
न च कुनिबन्धपङ्कमग्नानां तद्दातुमुचितमतस्तस्मादुत्कृष्य स्वनिबन्धस्थले सन्निवेशनरूपसमुद्धरणमेव साम्प्रतमित्यर्थः ॥
तत्र भगवतो ऽक्षपादस्य मुनिषु मध्ये प्रवरत्वं श्रुत्यादिभ्य एव सुप्रसिद्धम् किमनेन सङ्कीर्तनेन? न चैतदतिशयेन साम्प्रतमुपयुज्यते ।
जगदुपशमनिदानशास्त्रप्रणेतृत्वं च तस्य तत्प्रणयनमेव प्रकटयदस्ति ।
तेनापि किं प्रकटितेन? स्वनिबन्धस्य तद्विषयतापि तद्व्याख्यानादेव लभ्यत इति ।
किं तयापि कथितया? न चास्य न्यायमहोदधेरूत्तानताप्रतिभास एवाग्रतः कर्तुमुचितः ।
तस्माद् भवितव्यमत्र तात्पर्येण ।
तदाह–अथेति ।
तदपनीयत इति ।
तदिति दिग्रागादिसमुत्थापितं शास्त्राच्छादकं कुहेतुसन्तमसमपनेयत्वेन परामृशता शास्त्रस्यैवायं निबन्ध इति दर्शितम् ।
भाष्यस्य च तद्विवरणरूपस्य शास्त्रशरीररूपतया न शास्त्रादाधिक्यं मन्यते, मीमांसाया इव वेदात् ।
अत एव नात्रत्यटीकायाः वात्तिकान्तेन विरोधः ।
एतेन शास्त्रस्य यो निबन्धो भाष्यग्रन्थः स कुतार्किकाज्ञाननिवृत्तिहेतुः करिष्यत इति व्याख्यानं टीकाविरोधेनोपेक्षणीयम् ।
ननु सूत्रोक्तप्रयोजनानुवादः पुनः किमर्थम्? न हीदमनूद्य किञ्चिद् विधेयं प्रतिषेध्यं वेह विद्यते इत्यत आह–सूत्रेति ।
अथ स्वनिबन्धस्य प्रयोजनवत्ताप्रदर्शनेन किं सिद्ध्यतीत्यत आह–प्रेक्षावदिति ।
ननु व्युत्पित्सवो व्युत्पत्तिमघिकृत्य प्रवर्तन्ते ।
अतो व्युत्पादनप्रवृत्तौ व्युत्पत्तिरेवामीषां प्रयोजनमिति किमपरेण प्रयोजनेनेत्यत आह–व्युत्पादमात्रस्येति ।
द्विविधं हि प्रयोजनं मुख्यं गौण च ।
तत्र मुख्यं पुरुषार्थ एव ।
इतरत् तु तदङ्गमिति ।
तत्र मुख्यार्थिनः तत्साधानमभ्यर्थयमानाः तत्र प्रवर्तन्त इति तदपि प्रयोजनमेवति ।
अतो मुख्ये प्रयोजने सति गौणं प्रयोजनम्,
तस्मिस्त्वसति तदपि न स्यादिति निष्प्रयोजनतैवावतिष्ठते ।
न च स्वातन्त्र्येणैवास्य मुख्यं प्रयोजनमस्तीत्यतो यस्येदमङ्ग तस्य मुख्यं प्रयोजनमस्तीति दर्शिते प्रेक्षावान् प्रवर्त्तितो भवतीत्यभिसन्धिः वार्त्तिककृत इत्यर्थः ।
इतो ऽपि टीकाखण्डलकादन्तर्भावितफलवत्सन्निधावफलं तदङ्गमिति न्यायात् ।
शास्त्राङ्गामेवेदं न भाष्याङ्गमिति मन्तव्यम् ।
न हि भाष्यस्य स्वातन्त्र्येण मुख्यं प्रयोजनमस्ति येन वार्त्तिकं तदङ्गतामियात् ।
तस्माद् यथाश्रुति सुन्दरमिति ॥
ननु कर्मेन्द्रियनियमः शम इति सुप्रसिद्धं शान्तो दान्त इत्यादि उपनिषत्सु, न चासौ पुरुषार्थः ।
अतो न मुख्यं प्रयोजनमित्यत आह–अत्र चेति ।
ननु जगतः शमायेति दुर्घटम्, असम्भावितात्वादशक्यात्वाच्च ।
न तावत् कश्चित् जगदुपचिकीर्षुः क्वचित् प्रवर्तते यतो मुनेरपि तथात्वं सम्भावयामः ।
पठन्ति च–मुनेरपि वनस्थस्येत्यादि ।
न च शक्यमेतत्, बुभुक्षूणां प्रवर्तयितुमशक्यत्वात् ।
न च जगदेव मुमुक्षति ।
तस्मादनुष्ठातैव व्युत्पाद्यः शास्त्रान्तरलब्धब्राह्मणत्वदिरूपः शिष्यः ।
तस्य च रूपाणि शमदमादिसम्पत्तिः नित्यानित्यविवेकः ऐहिकामुष्मिकभागवैराग्यं मुमुक्षुता चेति ।
यस्तु अनधिकार्येव प्रवर्तते कर्मकाण्ड इव ब्रह्मकाण्डे स न फलभाग् भवति ।
तत्रैतत् स्यात् ।
न तावदुपेयविषयेयमधिकारचिन्ता, तस्य पुरुषप्रयत्नाविषयत्वात्, इष्यमाणतामात्रस्य चानिषधात् ।
किं नाम उपायविषया, तस्यैव शास्त्रविषयत्वात्, पुरुषप्रवृत्तिविषयत्वाच्च ।
इह चापवर्ग इव तदर्थतया तत्त्वज्ञानमप्युपेयमेव, असिद्धत्वात् ।
उपायस्तु प्रमाणम्, न च वेदाध्ययनवदनुमानस्य प्रत्यक्षस्य चोपादानं शूद्रादिकं प्रति निषिद्धम्, येन तत्राप्येतस्यानधिकारः स्यात् ।
तथा सति धूमादपि वहिमधिगच्छन् प्रत्यक्षाद् वा प्रत्यवायी स्यात्, अधीयान इव वेदम् ।
न चात्मगोचरे प्रत्यक्षानुमाने शूद्रादेर्विशेषतो निषिद्धे स्नातस्य चण्डालदर्शनमिव ब्राह्मणादेः प्रायश्चित्तानुपदेशात् प्रत्युत
स्त्रियो वैश्यास्तथा शूद्रा ये चान्ये पापयोनयः ।
इत्यादिस्मृतेरधिकार एवावसीयते ।
तस्माद् यथा स एव विशिष्टः स्वर्गो वैदिकयागाद्यनधिकृतेनापि उपायान्तरेण त्रैवर्णिकशुश्रूषादिना साध्यते, तथोपायान्तेणानुमानादिना यद्यात्माधिगमः क्रियते शूद्रेणापि, तदा कीदृशो दोषः? सत्यम्, किं त्वनुमानमप्यागमाविरोधेनानुसन्धीयमानमथनिश्चायकम्, नतु तद्विरुद्धमपि ।
यदाह–यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः इति ।
स चागमाविरोधादविरोधनिश्चयः तदर्थनिश्चयाधीनः ।
तत्र चानधिकृत एवायं शूद्राति ।
तन्निरपेक्षस्तु अनुमानमात्रशरणो नरशिरःपावित्र्यादिवदनर्थमेव समासादयेत् ।
तस्मादागमैकवाक्यतया प्रवृत्ते शास्त्रे तदधिकार्येवाधिकारीति शूद्रादयो ऽनधिकृता इव ।
अतो यावदधिकारिपरो ऽयं जगच्छब्द इति केचित् ।
तत्राह–परमकारूणिको हीति ।
सन्त्येव हि केचित् करुणामृदुमनसो येषां जगदेव मित्रम् ।
अन्यथा भूतेवो ऽभयं दत्त्वेति विधिवैयर्थ्यप्रसङ्गः ।
निष्कारणमेव परदुःखप्रहाणेच्छा कारुण्यम् ।
सा च यथैकं दुःखित पश्यतो भवति, तथा जगदेव दुःखित पश्यतः किं न स्यात्? भवति चेत्–तत्प्रहाणोपायप्रवृत्तौ का नामानुपपत्तिः? ननु
करुणार्द्रहृदयो ऽप्यं व्युत्पिसुमेव व्युत्पादयेन्न तु विपरीतम्, न हि बधिरेषु गायनो गायतीत्यत आह–तत्र यदि न कश्चिदिति ।
न हि रोगी मन्दभाग्यतया चरकाद्युपदेशे न प्रवर्तत इति तदर्थता तस्य निवर्तत इत्यर्थः ॥
नन्वनधिकृतव्युत्पादने प्रत्यवायमात्रकमपश्यन्नयं कथमवधेयवचनः स्यात्, पश्यन् वा न प्रवर्तेत? कारुणिकतया पश्यन्नपि प्रवर्तते चेत्, प्रमादी स्यात् ।
तथा च परलोकादबिभ्यतो ऽस्य वचने कः श्रद्धास्यतीत्यत आह–न चेति ।
यद्यपि प्रहीनमोहत्वादेवास्य पापपुण्ययोरुत्पत्तिरेव नास्ति, वक्ष्यति हि
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्येति ।
तथापि क्लेशहानेर्दुरूहत्वात् प्रत्यवायोत्पत्तिमभ्युपगम्य तदभावाय तपःप्रभाव उक्तः ।
नन्वेवमपि प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।
इत्यत आह–तथा चेति ।
न हि गाः पङ्कमग्नाः पङ्कप्रलेपभयादनुकम्पापरवशाः समर्था नोद्धरन्ति ।
अपि तूद्धृत्य पड्कं प्रक्षालयन्तीत्यर्थः ।
ननु यद्यनधिकृतः कथं फलभागी, तथा चेत् कथमनधिकृत इत्यभिसन्धायोक्तं प्रपञ्चयति–तपःप्रभाव एव हीति ।
यथा हि तेषां तपःप्रभावादेवंविधाः पाप्मानो विलीयन्ते, तथा तपःप्रभावादेव सत्यसङ्कल्पतया अनधिकारिणो ऽपि फलभागिन इति न कश्चिद् विरोधः ।
न च फलापेक्षया तेषामनधिकारः ।
किं तर्हि? कर्मापेक्षया ।
अनधिकृतेन तु कृतं कर्म विगुणं सन्न फलाम्य पर्याप्तमित्यपि न, विशिष्टयाजकसाद्गुण्यादेव तस्य परिपूर्णत्वात् ।
याजक एव त्वयाज्यं याजयन् प्रत्यवायमासादयेत्, राज्ञः प्रतिगृह्णन्निव विद्वान् ।
स च तीव्रतदेण तपसैव विलीयत इत्यर्थः ।
तर्हि महाजनो येन गतः स पन्थाः ।
इति न्यायेन वयमप्यनधिकृतान् व्युत्पादयाम इत्यत आह–न चेति ।
ननु कुतार्किकाणामज्ञानं निवर्तयता किमनेन शास्त्रस्योपकृतं स्यादित्याह–कुतार्किकैरिति ।
अज्ञानमसम्यग्ज्ञानम् ॥
इह कर्मारम्भे प्रारब्धस्यान्तरायविरहेण परिसमाप्ति कामयमाना अभीष्टदेवता नमस्कारपूर्वकं प्रेक्षावन्तः प्रवर्तन्ते ।
दृश्यते च तत्र तत्र बहुशों व्यभिचारः कृतनमस्कारस्यापि समीहितासिद्धेः, विपरीतस्यापि समीहितसिद्धः,
विपरीतस्यापि समीहितासिद्धेः ।
न चात्र वृष्टिकामः कारीरी निर्वपेत् ।
इतिवत् प्रारब्धपरिसमाप्तिकामो देवतां नमस्कुर्यादिति श्रुतिरस्ति, येन व्यभिचोरे ऽपि कर्मकर्तृसाधनवैगुण्यं कल्पयामः ।
तस्मादर् थकाम इह वटे प्रतिवसन्तं यक्षं पूजयेदितिव दप्रामाणिकप्रसिद्धिविजृम्भितमेतदित्यभिसन्धाय किमु न कृतो वात्तिककृता इष्टदेवतानमस्कार इत्यत आह–अविगीतेति ।
प्रत्यक्षमिवाविगीतशिष्टाचारो ऽपि श्रुतिसद्भावे प्रमाणमेव, निर्मूलस्य च शिष्टाचारस्यासम्भवात् ।
अप्रमाणमूलकस्य च प्रामाणिकविगानविरहानुपपत्तेः ।
तथा च सत्यभावः कर्मकर्तृसाधनवैगुण्यमवलम्बते ।
असति च भावो जन्मान्तरीयसुकृतसम्पत्तिम् ।
अन्वयव्यतिरेकाभावदर्शनं त्वागमेतरप्रमाणगोचरं कार्यकारणभावमपाकरोतीत्यर्थः ।
यद्यवं किमनेन न कृत इत्यत आह–परमेति ।
यदि कृतः तत् किमिन्द्रलुप्तेन गतः, येन न दृश्यत इत्यत आह–न निवेशित इति ।
अत्रैव दृष्टान्तो न खल्विति ।
न खल्विष्टदेवतानमस्कारवत् तन्निवेशनमपि क्वचिदुपयुज्यत इत्यर्थः ।
नन्वेवम्भूतं शिष्टाचारं शिष्या अपि ग्राहयितव्याः ।
न च तन्निवेशनव्यतिरेकेण ते ग्राहिताः स्युरित्यत आह–मङ्गल्यान्तर वदिति ॥
तत्रेति ।
शास्त्रे व्याख्यातव्ये ।
ननु दण्डकसूत्रस्यानुवादो नास्तीत्यत उक्तं सङ्क्षेपत इति ।
नन्वादिसूत्रत्वमस्य सुप्रसिद्धमेव, अभिसम्बन्धवाक्यत्वात्, तत्किमनेन उदीरितेनेत्यत आह–आदिग्रहणेनेति ।
ननु शास्त्रनिःश्रेयसयोरनेन सम्बन्धो वर्ण्यते, ततः सम्बन्धवाक्यमिदमिति युक्तम्, अभिस्तु किमर्थमित्यत आह–अभिमत इति ।
अस्ति हि शास्त्रनिःश्रेयसयोर्वाच्यवायकभावलक्षणो ऽपि सम्बन्धः, न चासाविहाभिन्तः, प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् ।
न हि वाचकाद् वाच्यप्रतीतेर्वाच्यस्य निष्पत्तिः, यतो मुमुक्षुर्वाचके प्रवर्तताम् ।
उपाये तूपेयार्थो प्रवर्तते ।
तेन हेतुहेतुमद्भाव एव विवक्षित इत्यर्थः ।
ननु नात्र शास्त्रम्, तस्य निःश्रेयसहेतुत्वं वा श्रूयत इत्यत आह–प्रमाणादीति ।
रूढपदातिक्रमे किं तात्पर्यमित्यत आह–न हीति ।
यद्यपि शिष्यते अनुशिष्यते प्रमाणादिकमनेनेति शास्त्रमिति व्युत्पत्त्या अत्रापि कारणता गम्यते, तथापि शासकसम्बद्धव्यापारवत्तया, न तु शिष्यसम्बद्धव्यापारवत्तया ।
सा चेह विवक्षिता ।
अन्यथा प्रमाणादीनि तत्त्वतो ज्ञात्वापि तावन्न मुच्यते
यावन्नानुशिष्यादिति ।
तदिदमुक्तम्–पदार्थतत्त्वावगमकरणतयेति न स्वरूपेणेति च ।
ननु हेतुत्वकरणत्वे न विषयभेदेन भवितुमर्हत इत्यत आह–तेनेति ॥
उभयोरपि हेतुः शास्त्रं करणं च ।
किं तु पदार्थतत्त्वे ज्ञापकतया निःश्रेयसे तद्व्यापारवतः करणतयेत्यर्थः ।
तदिदमुक्तम्–तथा चेति ।
एवं च सति शास्त्रस्य निःश्रेयसे कर्त्तव्ये पदार्थतत्त्वज्ञानस्य निरूक्तिबलेन व्यापारत्वे दर्शिते व्यापारव्यापारिणोः कार्यकारणभावः ।
तथा व्यापारवता शास्त्रेण व्यापारविषयस्य प्रमाणादेः प्रतिपाद्यप्रतिपादकभावः ।
तथा व्यापारविषयेण प्रमाणादिना व्यापारस्य तत्त्वज्ञानस्य विषयविषयीभावः ।
तथा व्यापारेण तत्त्वज्ञानेन व्यापारुलस्य निःश्रेयसस्य कार्यकारणभावः ।
तथा व्यापारविषयफलयोर्हेतुहेतुमद्भावः सम्बन्ध सूचितो नान्तरीयकत्वात् ।
न ह्यतद्धेतुकस्तद्वचापारो नाम, नाप्यतत्कर्म तद्वचापारविषयः, नापि तत्फलाननुगुणस्तद्वचापारः, तद्वचापारविषयो वेति पज्चसु वक्तव्येषु उपलक्षणार्थं द्वयमाह–शास्त्रप्रमाणादिति ।
एनमेव व्युत्पत्तिलभ्यं व्यापारमभिप्रेत्य तत्त्वस्य ज्ञानमिति कर्मणि षष्ठी
भाष्यकारेण दर्शितेति न करणव्युत्पत्तिर्विरूद्धा ॥
ननु शिष्याचार्यशास्त्रतद्व्याख्यानानामपि सम्बन्धाः कैश्चित् समानतान्त्रिकैः प्रदर्शिताः ।
ते कस्मान्न प्रदर्श्यन्ते इत्यत आह–तदिदमभिधेयेति ।
न ह्रास्तीत्येतावन्मात्रेणैव प्रदर्शनीयम् ।
किं नाम? यावत्यप्रतिपादिते प्रेक्षावत्प्रवृत्तिर्न स्यात्, तावत् प्रदर्श्यते ।
न च शिष्याचार्यादिसम्बन्धाः प्रेक्षावत्प्रवृत्त्यङ्गम्, तेषां प्रवृत्तिफलत्वात् ।
प्रवृत्त्युत्तरकालं हि शिष्यः प्रतिपाद्यः, प्रतिपादकश्चाचार्यः, शास्त्रं व्याख्येयम्, व्याख्याता च स इत्यादि सिध्यति ।
न च शास्त्राचार्यादीनां स्वरूपप्रतिपादनमप्युपयुज्यते, प्रमाणान्तरसिद्धत्वात् ।
तस्मात् प्रयोजनमभिधयं तयोः सम्बन्धो ऽभिधेयस्तद्द्वारा शास्त्रस्य प्रयोजनेन सम्बन्ध इत्येतदर्थत्वेमे प्रथमसूत्रस्य न्याय्यमित्यर्थः ।
ननु यस्य मिथ्याज्ञानं संसारं प्रतनोति तस्यैव तत्त्वज्ञानं निःश्रेयसहेतुः, आत्मा च तथा, तदन्येषां तु शास्त्राभिधेयानामपि न निःश्रेयसहेतुत्वम् ।
तथा च न निःश्रेयससम्बन्धः इत्यत आह–यत्पदार्थेति ॥
ननु प्रमाणादिपदार्थतत्त्वज्ञानस्य यदि निःश्रेयसहेतुता शास्त्रप्रवृत्तेः पूर्वमेव प्रमाणसिद्धा निष्प्रयोजनं शास्त्रे प्रयोजनाभिधानम्, मानान्तरसिद्धे उपदेशानपेक्षणात् ।
अथेत एव तन्निश्चयो दुस्त्तरमितरेतराश्रयत्वम् ।
प्रवृत्तो हि प्रयोजनं निश्चिनुयात् ।
निश्चितप्रयोजनश्च प्रवर्तेत ।
न च प्रवृत्तेः प्रागेव मुनिवचनान्निश्चिनोति, प्रथमसूत्र एव प्रयोजनानिश्चयेन प्रवृत्त्यनुपपत्तेः ।
तत्रापि च प्रवृत्त्यर्थं प्रयोजनान्तराभिधाने ऽनवस्था ।
तदनिश्वये ऽप्याद्या प्रवृत्तिश्चेत्, उत्तरोत्तरप्रवृत्तावपि तथात्वप्रसङ्गः ।
तस्मात् प्रयोजनाद्यभिधानमनर्थकमिति केचित् ।
तदनुपपन्नम् ।
त्रिधा हि पुंसां चित्तवृत्तयः, अनुभव इच्छा प्रयत्नश्चेति ।
तत्रानुभवो नेच्छामनुविधत्ते, अनिष्टस्याप्युपलब्धेः ।
इच्छा तु पुरुषार्थे स्वरसोत्थिता, तत्साधने च तथात्वानुमानोत्थाप्या ।
प्रयत्नस्तु साधनविषय एव ।
तत्र साधनगोचराविच्छप्रयत्नौ ।
आद्या प्रवृत्तिरित्युच्यते, न त्वनुभवः ।
फलगोचरा वा इच्छा प्रवृत्तिः, चेन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् ।
न
ह्युपेक्षणीयं निष्प्रयोजनमिति नानुभूयते ।
नापि सुखं प्रयोजनान्तरशून्यकिति नेष्यते ।
नापि मुमुक्षुणानपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते ।
पुरुषार्थसाधने त्विच्छालक्षणा वा प्रयत्नलक्षणा वा प्रवृत्तिर्न स्वरससिद्धा ।
न हि कश्चित् क्षुधी दुःखप्रहाणं तृप्तिसौहित्यसुख वा अननुसन्धायान्नमत्तुमिच्छति प्रयतते वा ।
तस्माद् यत्र यः प्रवर्तयितव्यः स तत्साध्यमर्थं दशयित्वा, यतश्च यो निवर्तयितव्यः स तत्साध्यमनर्थं दर्शयित्वेति ।
उक्तं प्रचोजनादिकम् ।
तत्तु श्रोता कथं श्रद्धास्यति, अश्रद्दधानो वा कथं प्रवर्त्स्यतीत्यवशिष्यते ।
तत्राह–विनिश्चितेति ।
यद्यपि मुनेराप्तत्वावधारणे प्रयोजनानभिधाने ऽपि प्रयोजनसामान्यनिश्चयो भवत्येव प्रयोजनवदिदं शास्त्रमाप्तोक्तत्वादिति , तथापि नासौ प्रवृत्त्यङ्गम् ।
न हि प्रयोजनवदित्येव प्रवर्तते ।
किं तर्हि? अस्मदपेक्षितप्रयोजनवदिदमिति कृत्वा ।
स च प्रयोजनविशेषो वचनादेवावसीयत इति सार्थकमेतदभिधानम् ।
तदिदमुक्तम्–प्रयोजनादि विनिश्चित्य ।
विशेषत इति शेषः ।
विनिश्चयश्च शास्त्रोपायकमेवेदं निःश्रेयसमित्याकारो न त्ववश्यम्भाविप्रयोजनाकारः, कृष्यादाववग्रहादिवदत्राप्यन्तरायसम्भवात् ।
तदिदं प्रयोजनस्य प्रवर्तकत्वमुद्देश्यतया, न तु प्रवृत्तिविषयतया ।
तेन नेष्टाभ्युपायताविधिविरोधः ॥
ननु मुनेराप्तत्वानिश्चये किं तद्वचने प्रवृत्तिर्नास्त्येव? तथा सति तस्याप्तत्वनिश्चयो ऽपि कथमित्यत
आह–आप्तत्वानिश्चये त्वर्थसंशयात् ।
शास्त्रसाध्यतयेति शेषः ।
ननु संशयानस्य कथं प्रेक्षावतः प्रवृत्तिरित्य आह–न खल्विति ।
यद्यपि च सस्याधिगमस्य कृष्यादिसाध्यतया संशयो नास्ति, तथापि भविष्यत्तया अस्त्येव ।
तथापि
तमुद्दिश्य प्रेक्षावन्तः प्रवर्तन्ते ।
यथा च तत्र शतैकांशिकः फलाभावः फलकोटिस्तूत्कटा तथात्रापि ।
न हीन्द्रियापातजो ऽयं संशयः ।
किं नाम? आप्तत्वाविनिश्चयहेतुकाप्रामाण्यशड्क्या समाकृष्टः ।
वस्तुतस्तु सूत्रात् प्रयोजनादिनिश्चयाकारमेव विज्ञानमित्यर्थः ।
ननु संशयः प्रयोजनादिवाक्याभावे ऽपि सुलभः, विशेषस्मृतिस्तु अर्थित्वविशेषात् भविष्यतीत्याह–न चेति ।
यद्वचनेन हि यः प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते, न स्वातन्त्र्येण ।
न हि रोगार्तो ममेदं रोगनिवृत्तिसाधनं भवेन्न वेति यत्र तत्रोच्छृड्खलः स्वयमुत्प्रेक्ष्य प्रवर्तते ।
किं नाम? अनवधृताप्तत्वस्यापि वैद्यस्यैव वचनात् ।
अन्यथा त्वयं प्रयोजनाभिधानमनधिगच्छन् अनर्थमप्याशङ्केत, किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवत्, उताशक्यसाधनप्रयोजनं मृत्युहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत्, अथानभिमतप्रयोजनमार्यावर्तनिवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यकापरिणयप्रक्रमोपदेशवत्, अथाभिमतस्यापि शक्यस्यापि प्रयोजनस्य लघीयस्युपायान्तरे सत्यपि गुरुरयमुपायः पिपासुं प्रति गीर्वाणतरड्गिणीतीरसमीपकूपखननोपदेशवत् ।
एतासु चानर्थसम्भावनासु न प्रवर्तते ।
न च प्रयोजनाभिधाने ऽप्येतासामवकाशः, लोकव्यवहारोच्छेदप्रसङ्गात् ।
न हि कश्चिद् वैद्यवचनादेव माशड्क्य निवर्तते यथा
स्वयमुत्प्रेक्ष्येति भावः ।
तदनर्थकं निष्प्रयोजनमित्यर्थः ।
अशक्यानुष्ठानत्वमुपायस्यासिद्धमित्यत आह–तथा हीति ।
इह द्विविधः प्रमाणशब्दस्यार्थः–प्रमीयते ऽनेनेति च प्रमाणम्, प्रमितिः प्रमाणमिति ।
च ।
तत्र प्रथममधिकृत्योक्तम्–प्रमेयादीनां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनमिति ॥
नन्विदिन्द्रयादीनामज्ञायमानानामेव स्वविषयपरिच्छेदजनकत्वं पश्यन्नपि कथमेवं ब्रूयादित्यत आह–न हीति ।
प्रमाणत्वेनाज्ञायमानं प्रमाणं स्वविषयं परिच्छिनत्ति, न त्ववधारयति ।
तच्चेह विवक्षितमित्यर्थः ।
किमिति नावधारयति? न हिन्द्रियमज्ञायमानमनिश्चयाकारमेव ज्ञानं जनयतीत्यत आह–तावन्मात्रस्येति ।
यद्यपि निश्चयाकारमेव ज्ञानमाधत्ते तथापि तथाभूतस्यैव भूयो भूयः प्रमेयविरहोलब्धेर्विशेषानुपलब्धेश्च सन्देहस्तदवस्कन्दतीत्यर्थः ।
तत्किं क्वचिदप्यवधारणं नास्त्येव? तथा सति तोयमेवेदमित्यादिको लौकिकः प्रत्ययः, तथा पूर्वपक्षिणः क्वचिदपि विनिश्चयो नास्त्येवेत्यादिकश्चाभिमानो विरुद्ध्येतेत्यत आह–अपि त्विति ।
यदि क्वचित् प्रमेयतत्त्वावधारणं परमार्थः, तदा प्रमाणतत्त्वावधारणद्वारेणैव ।
प्रमारान्तरेण तु भवन्न पारमार्थिकमित्यर्थः ।
बोधकत्वं बोधजनकत्वं बोधजननावच्छिन्ना सत्तेति यावत् ।
अव्यभिचारित्वमविपरीतानुभवजनकत्वमविपरीतानुभवजननावच्छि न्ना सत्तेति यावत् ।
एवं चोपधिद्वयावच्छिन्नायाः सत्ताया उपाधिभेदाद् भिन्नाया इवैकस्मिन्नर्थे समवायः कृतकत्वानित्यत्वयोरिव न विरुद्धः ।
तेनाव्यभिचारित्वेन ज्ञायमानेनेति शेषः ।
प्रमाण्यावधारणं तर्हि क्कोपयुज्यत इत्यत आह–तदेव हीति ॥
प्रमाणं हि प्रमाकरणम् ।
न च करणत्वादयः सामान्यविशेषाः सन्ति ।
सामान्यसङ्करप्रसङ्गात् ।
किं नाम? साधकतमत्वमेव करणत्वम् ।
तद्विशेषकस्तु क्रियाविशेष एव ।
स चात्र प्रमालक्षणः ।
प्रमा चाविपरीतोपलब्धिः ।
अतो ऽविपरीतानुभवजनकत्वलक्षणमव्यभिचारित्वमेव प्रामाण्यमित्यर्थः ।
यद्येवं तदवधारणपूर्वकमेव प्रमेयाद्यवधारणमस्त्वित्यत आह–तच्चेति ।
प्रमाकरणत्वं हि नानवधारितायां प्रमायामवधारयितुं शक्यमित्यर्थः ।
तर्हि प्रमात्वमेवावधार्यताम्, न हि तदप्यौपाधिकं येनोपाध्यनवधारणे नैवावधार्येतेत्यत आह–तथा हीति ।
विज्ञानस्य प्रमायाः ।
प्रामाण्यं प्रमात्वम् ।
स्वतो वेत्यस्य स्वात्मना वा स्वग्राहकेण वेत्यर्थः ।
तत्र प्रथमं दूषयति–न खल्विति ।
धर्मधर्मिणोरभेदपक्षे अनात्मसंवेदनमित्येतदेव दूषणम् ।
आनात्मसंवेदनता चोपपादयिष्यत इति हृदयम् ।
भेदपक्षे प्रागेवेति ।
यो हि यद् गृह्णाति स तद्धर्ममपि गृह्णीयादिति सम्भाव्येतापि ।
यस्तु धर्मिणमेव नाकलयति, तस्य धर्मग्रहणवार्तापि क्व? यद्यपि च शब्दगन्धादयो व्योमभूम्याद्यग्रहे ऽपि गृह्यन्ते, तथापि न तद्धर्मतयेत्यर्थः ।
स्वग्राहकेण वेति दूषयति–नापीति ।
तद्धि मानसं वा स्यात् लैड्गिकं वा? उभयमपि मनसो ज्ञाततालक्षणात् लिङ्गाद् वा अविशिष्टात् जायमानं कथमिव तदाभासविशिष्टं गृह्णीयत्? विषयविशेषात् तु तथात्वे अप्रमाण्यस्यापि स्वत एव ग्रहणप्रसङ्गात्, तत्रापि विषयवैशिष्टचस्य सत्त्वात् ।
प्रमायाः प्रायिकतया तद्वासनायाः समुत्कटत्वादप्रमापि समुत्कटत्वादप्रमापि प्रमेत्येव गृह्यते ।
ततो बाधकाधीनमेवाप्रामाण्यमासञ्जितरजततायामिव
शुक्तिकायां शुक्तिकात्वमिति यदि तथाप्यासञ्जकस्यापि यद्यासञ्जकत्वमवगतं कथं न स्वतो ऽप्रामाण्यग्रहणप्रसङ्गः? तत्रापि प्रामाण्यारोपे तु कथं नानवस्था? न च कृत्रिमं रूपमपरिभूय ग्रहणं ग्रहणामित्युच्यते, संशयेनाभिभूतत्वात्
मायालिड्गिनि झटिति परिव्राजकबुद्धिवत् ।
तस्मात् ज्ञानं गृह्यत एवेत्येव न ।
यदि तु दैवाद् गृह्यते, तदा ज्ञानमित्येव; न तु प्रमाणमप्रमाणं वेत्यर्थः ॥
ननु यदि स्वीयात् स्वत इति न निर्वहति, वक्ष्यमाणेन च न्यायेन नापि परतः, अस्ति चायं प्रमाणाप्रमाणप्रविभागव्यवहारो निःशङ्कः ।
ततः स्वसंवेदननय एवास्तु ।
तेन ह्ययं निर्वहेत् ।
न हि तत्र किञ्चिदनवस्थादिकं पश्याम इत्यत आह–एतेनेति ।
स्वसंवेदननयो हि न तावत् प्रमाणसिद्धः ।
कदाचित् प्रमाणव्यवहारसौष्ठवात् स्वीक्रियेतापि यद्ययं तेन निर्वहेत्, न त्वेतदस्ति ।
यथा हि प्रमाणं स्वात्मानं गृह्णत् प्रामाण्यमपि गृह्णाति तथा तदाभासमपि तदाभासत्व गृह्णीयात् ।
तथा च सर्वमिथ्याज्ञानात् अप्रवृत्तिप्रसङ्गस्तदवस्थः ।
न च तत्रापि प्रमाण्यारोपात् प्रवृत्तिः, स्वात्मभूतस्याप्रमाण्यस्य स्वसवेदनतया ग्रहणे समारोपासम्भावात् ।
अग्रहणे वा स्वसंवेदननयानुपपत्तेः ।
धर्मधर्मिणोर्भेदात् स्वरूपग्रहणे ऽपि नाप्रामाण्यरूपधर्मग्रहणमिति यदि, तदा प्रामाण्यस्याप्यग्रहणं स्यात् ।
तस्मात् स्वसंवेदननये ऽपि स्वरूपवेदनमात्रं स्यात् ।
न तु प्रामाण्यादिवेदनमित्यर्थः ॥
परतो वेति दूषयति–नापीति ।
तद्गोचरं तद्गोचरगोचरं मध्यपदलोपात् ।
प्रात्यक्षिके च वह्निज्ञाने प्रात्यक्षिकमेव वह्निज्ञानान्तरमिति यावत् ।
तच्च द्विविधम्, समानेन्द्रियजमिन्द्रियान्तरजं च ।
एवमनुमाने ऽपि अनुमानज्ञानान्तरं तल्लिङ्गजं
लिङ्गान्तरजं च ।
एवं शाब्दे ऽपि शाब्दज्ञानानन्तरं तदाप्तशब्दजमाप्तान्तरशब्दजं चेति समानजातीयसंवादो दर्शितः ।
अर्थक्रियेत्यादिना कार्यलिङ्गकं तद्गोचरेत्यादिना चाकार्यकारणलिङ्गकमनुमानत्रयं विजाजीयसंवादरूपं दर्शितम्, उपलक्षणं चैतत् ।
आप्तोपदेशजमपि संवादकं ज्ञानं भवत्येव ज्ञानं भवत्येव ।
सो ऽयं प्रमाण्ये निश्चेतव्ये संवादो यद्यपि व्यधिकरणस्तथप्यर्थतथात्वमव धारयन्नर्थवत्त्वं प्रवर्तकस्याप्यवधारयतीत्येतावता तथैवोपवर्णितः ।
दूषयति–तच्च सर्वमिति ।
एवं प्रमात्वस्य दुरधिगमत्वमापाद्य तदायत्तावधारणे प्रमाणानां प्रमाणत्वे योजयति–यदा चेति ।
ननु यदि प्रामाण्यावधारणेनैवप्रवृत्तिः, तदा सैव सार्वलौकिकी स्वत इत्यादिविकल्पान् फल्गूकरिष्यति ।
अथ तदवधारणव्यतिरेकेणापि प्रवृत्तिरप्रत्यूहा तदा मावधारि प्रामाण्यम्, किं नश्छिन्नमित्यत आह–तदेवमिति ।
वैदिकं व्यवहारमधिकृत्य चेदं शास्त्रं प्रवृत्तम्, न लौकिकमित्यभिसन्धिः ।
प्रकृते योजयति–तस्मादिति ।
ननु नित्ययोगे मतुबिति दुर्घटम्, प्रमाणार्थयोरेवानित्यत्वात्, परस्परसमवायभावाच्चेत्यत आह–नित्यता चेति ।
नन्वव्यभिचारो ऽपि व्याप्यव्यापकभावलक्षणः प्रमाणप्रमेययोर्नास्तीत्यत आह–इयमेव चेति ।
सो ऽयमविसंवदादो विसंवादाभावो ऽव्यभिचारलक्षणम् ।
अव्यभिचारस्वरूपं तु लक्ष्यभूतं भूतार्थपरिच्छेदकत्वम्, लक्ष्यलक्षणयोरभिन्नाश्रयत्वात् ।
अव्यभिचारस्वरूपं तु लक्ष्यभूतं भूतार्थपरिच्छेदकत्वम्, लक्ष्यलक्षणयोरभिन्नाश्रयत्वात्
सामानाधिकरण्यमिति मन्तव्यम् ।
यद्यपि देशावस्थाभेदे कालभेदो ऽप्यर्थसिद्धस्तथापि यथाकथञ्चित् कालभेदमात्रं विवक्षितमत्रेति ज्ञापनार्थं तद्ग्रहणम् ।
तथा हि दूरस्थे स्थाणौ पुरुषर्पत्ययस्य कालान्तरे ऽपि विसंवादो नास्ति यावत्
न प्रतिपत्ता निकटस्थो भवति ।
प्रत्येतव्य एव वा यावन्न नेदिष्ठः स्यात् ।
एवं स्वप्नावस्थायाम् अर्थप्रत्ययस्य कालभेदे ऽपि तावन्न विसंवादो यावन्न जागरावस्थानुभवः ।
न च वाच्यमेवं सति किं कालभेदग्रहणेनेति, देशावस्थयोरभेदे ऽपि कालक्रमेणापि क्वचिद् विसंवाददर्शनाद् यथा सुनिपुणनिभालनादापातजातस्य कामातुरकामिनीज्ञानस्य भेदे ऽपि क्वचित् कालान्तरे विसंवादात् तदुपग्रहः ।
तदनेनेन्द्रियादीनां कालक्रमभाविनः सहकारिभेदाः स्फुटतरप्रतीतिहेतवः सर्व एव सङ्गृहीताः ।
यद्यपि च प्रमारविषयावेव विसंवादाविसंवादौ सम्भवव्यभिचारलक्षणौ तथाप्यविसंवादस्य ध्रुवविषयत्वप्रतिपादनार्थं स्वरूपग्रहणं सर्वस्य ज्ञानस्य धर्मिण्यविसंवादादिति ॥
प्रवृत्तिसामर्थ्यादिति व्यधिकारणो हेतुरतस्तदर्थमाह–समर्थप्रवृत्तिजनकत्वादिति ।
यद्यपि समर्थप्रवृत्ति त्वादित्युक्तेसमञ्जसं तथापि प्रवृत्तिर्यस्येति सम्बन्धे षष्ठी ।
स च प्रमाणप्रवृत्त्योर्जन्यजनकभाव एवेति स एव
दर्शितः ।
ननु न तावत् प्रमाण्यसमर्थप्रवृत्ति जनकत्वयोरविनाभावः प्रत्यक्षेण शक्यग्रहः, तयोरेवाप्रत्यक्षत्वात् ।
प्रामाण्यं हि समर्थप्रवृत्तिजनकत्वानुमेयम् ।
तच्चान्वयव्यतिरेकानुमेयमेवेति ।
नाप्यनुमानेनान्वयग्रहः ।
प्रामाण्यस्य
क्वचिदप्यसिद्धेः ।
सिद्धौ वा किमनुमानेन, अनुमानन्तरसिद्धत्वे त्वनवस्थैवेत्यत आह–यदि पुनरिति ॥
अत्र चोपेक्षाज्ञानानां पक्षत्वेनानुपादानान्न भागासिद्धिः ।
व्यतिरेकी च सर्वत्र सपक्षाभावमभ्युपेत्य प्रवर्तत इति
नासाधरणानैकान्तिकता ।
न च वाच्यम् एतस्यैवानुमानस्यार्थवत्त्वानवधारणे कथं प्रमाणानामर्थवत्त्वसिद्धिः? तदवधारणे वा कथं केवलव्यतिरेकित्वमिति? द्विविधं ह्यनुमानस्यार्थवत्त्वम्, अविनाभावलक्षणं प्रमाजननलक्षणं च ।
तत्र स्वविषयपरिच्छेदे कर्तव्ये अविनाभावावधारणमेवापेक्षते न प्रमाकरणत्वावधारणमित्यनवघृतप्रामाण्येनैवानेन प्रमाणानां प्रमाणफलत्वलक्षणं प्रामाण्यं साध्यत इति सर्वं सुन्दरम् ॥
एतेनैतदपि निरस्तम् यत् प्रामाण्यानवधारणे अप्रामाण्यानवधारणमपि कथम्? प्रामाण्यनिश्चयेन हि तत् निश्चीयते ।
तदनवधारणे तु व्यतिरेकनिश्चयो ऽपि कथम्, विपक्षस्य तथात्वानिश्चयादिति? स्वरूपतो धर्मतश्चानवधारितेनैव सता प्रमाणेन स्वविषयनिश्चयसिद्धेः ।
ननु नास्त्येवासौ वादी यः प्रामाण्यानिश्चये ऽपि विप्रतिपद्येत ।
न हि प्रामाण्यं स्वीकृत्य तन्निश्चये विप्रतिपत्तिः, स्वीकारस्य निश्चयमूलत्वात् ।
न चास्वीकृत्य, प्रमाणशून्यविप्रतिपत्तेः सर्वत्र सुलभतया सर्ववादविधिनिषेधव्यवहारविलोपप्रसङ्गात् ।
अनिश्चिते च प्रामाण्ये तदतद्रूपसन्देहो ऽपि क्वचिद् दुर्लभः, विशेषस्मृतेरभावात् तत्पूर्वकत्वाच्च सर्वसंशयानाम् ।
नापि सर्वत्राप्रामाण्यासञ्जनम्, प्रामाण्यग्रहणोपायनिराकरणस्याप्रामाण्ये ऽपि तुल्यत्वात् ।
विकल्पनिर्मितमविचारमनोहरं प्रामाण्यादिकमादायापि नास्य दुर्विचारस्य निर्वाहः ।
प्रामाण्यानभ्युपगमे विकल्पनिर्माणस्याप्यसिद्धेः ।
न च विकल्पनिर्मिते न संशयादिव्यवहारः समस्ति ।
नहि वाजिविषाणं वेति कश्चित् सन्दिग्धे, नापि नरविषाणमिति कस्यचिद् विपर्ययः ।
तस्मादस्ति प्रामाण्यादिकं तन्निश्चयश्च ।
तदुपायस्तु चिन्तामर्हति ।
एवं चान्वयो ऽस्त्येव ।
तत् कथं केवलव्यतिरेक्यनुमानम् इत्याशड्क्य सम्प्रतिपत्तिरूत्तरम्–अन्वयव्यतिरेकी वेति ।
केवलव्यतिरेकिवादस्तु अन्वयानभ्युपगमेन कृत इत्यभिसन्धिः ।
अनुमानस्येत्युपलक्षणम् ।
स्वत इति च तदितरस्यापि, स्वतः परतश्च प्रामाण्यसिद्धेरिति ॥
ननु समर्थप्रवृत्तिजनकत्वादित्येतावतैव साध्यसिद्धेः प्रमाणतोर्ऽथप्रतिपत्तावित्यसमर्थविशेषणं वयधिकरण चेत्यत आह–प्रवृत्तिजनकत्वं त्विति ।
प्रामाण्याद्यभिधानद्वारा हि शास्त्रस्य निःश्रेयसेन सङ्गतिः, न तु स्वरूपेण ।
ततो यथा प्रमाणादितत्त्वज्ञानं साध्यतया प्रयोजनं प्रतिज्ञायते तथा प्रमाणाद्यभिधेयतयापि प्रतिज्ञेयं भवति ।
यथा अथातो धर्म व्याख्यास्यामः (वै।सू।१।१।१) इति धर्मस्य व्याख्येयत्वेनैव प्रतिज्ञा समानतन्त्रे न च तदभिधेयताप्रतिज्ञानमत्र ।
तस्मादभिधेयत्त्वाप्रतिज्ञानान्न प्रमाणादयः शास्त्रेणाभिधीयन्त इति श्रोतृबुद्धचनुरोधेनाशड्क्य सूत्रकारहृदयानुरोधेन वार्त्तिकमुत्तरयतिस्यादेतदिति ॥
शिष्याकाङ्क्षाक्रमेण हि शास्त्रमिदं प्रवृत्तम्, अनपेक्षिताभिधाने अनवधेयत्वप्रसङ्गात् ।
न च शिष्याकाङ्क्षा किं वक्ष्यति भवानिति ।
किं तु निःश्रेयसं कुतो ऽधिगम्यत इति ।
तत्रोत्तरम्–प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इति ।
ततः कथमिति? ततः के, कति, किंलक्षणाः प्रमाणादयः इति ।
तत्रोद्देशविभागलक्षणानीति ।
ततः कथमिति? तत्र द्वितीयाध्यायादीति ।
एतच्च सर्वमनुभवसिद्धम् ।
नात्रापि वचनापेक्षा ।
उक्ताबोद्धारं प्रति तु व्याख्यातारो भवन्ति, यत
एवमयमाहेति ।
तदनुभवसिद्धमपि प्रमाणाद्यभिधायकत्वं यः कुतश्चिद् व्यामोहान्न प्रतिपद्यते तं प्रति व्याख्याता शास्त्रस्य पुरुषश्रेयो ऽभिधायकत्वादित्याहेत्यर्थः ॥
ननु श्रेयो ऽभिधानमात्रेणापि न प्रमाणाद्यभिधानं सिध्यति ।
न हि प्रमाणादिपदार्था एव श्रेयः ।
अथ स्वयमेव विवरीष्यति–तत्पदार्थाः प्रमाणादय इति ।
तथापि तच्छास्त्रं श्रेयो ऽभिधत्त इत्यनेने किम्? अथ श्रेयःशब्दस्य प्रमाणादय एवार्थः, तर्हि श्रेयः पुनः सुखमहितनिवृत्तिरिति किमित्यत आह–यद्यपीति ।
यद्यपि शास्त्र पुनः पुरुषः पुनः श्रेयः पुनरिति प्रतिपदं गृहीत्वा विवरणं प्रक्षयेणेत्यन्तेन स्फुटावभासम् ।
न च पुरुषा रागादिमन्त इत्यादावपि
विवरणत्वाशड्का, प्रकृतेनासम्बन्धात् ।
न हि रागादिमन्तं प्रति शास्त्रं न ससाधनं श्रेयो ऽभिधत्ते ।
न च तं प्रति न तत् श्रेयो येन वीतरागो विविच्य गृह्यताम् ।
तथापि, तस्मात् तत् शास्त्रं पुरुषश्रेयो ऽभिधत्त इति मध्यपतितोपसंहार एव विवरणविच्छेदभ्रमो मा भूदित्येतदर्थमवच्छिनत्ति–उपभोगात् प्रक्षयेणेत्यन्तेनेति ॥
ननु समूहो व्यूहविशिष्ट इत्यसङ्गतम्, पर्यायत्वादित्यत आह–व्यूह इति ।
ते खल्वमी समूहाः प्रणेतृपुरुषेच्छानुरोधिनः स्वार्थानुरोधिनो वेत्यत आह–एक-स्मृतीति ।
यद्यप्येकार्थप्रतिपादनावच्छिन्ना वर्णाः
पदमित्येतावदेव लक्षणं तथाप्येतदेव लक्षणं क्षणभड्गुराणां कथमित्येतदुक्तम्–एकस्मृतिसमारूढा इति ।
समूहः पदमिति वार्त्तिके शेषः ।
पदसमूहः सूत्रमिति वार्त्तिकम् ।
तच्चानुपपन्नम् ।
वाक्यविशेषो हि सूत्रम् ।
न च वाक्यसामान्यमपि पदसमूहमात्रम्, गौरश्चः पुरुषो हस्तीत्यादेरपि वाक्यत्वप्रसङ्गादित्यत आह–एवं स्वार्थेति समूहो वेदितव्यः सूत्रत्वेनेति शेषः ।
सूत्रसमूहः प्रकरणमिति वार्त्तिकम् ।
तत्र चावान्तरसमूहभेदे कारणाभावात्, शास्त्रमेव सूत्रसमूहरूपं प्रकरणमिति प्राप्तमित्यत आह–एवं क्वचिदिति ।
तद्यथा प्रयोजनाभिधेयसम्बन्धप्रतिपादनमेकमर्थमधिकृत्य प्रथमद्वितीयसूत्रयोः समूहः प्रकरणम् ।
एवं प्रमाणप्रकरणम्, प्रमेयप्रकरणम्, न्यायपूर्वाङ्गप्रकरणम्, न्यायाश्रयप्रकरणम्, न्यायाश्रयप्रकरणम्, न्यायस्वरूपप्रकरणम्, न्यायोत्तराङ्गप्रकरणमित्याद्यूह्यम् ॥
प्रकरणसमूहश्चाह्निकमिति वार्त्तिकम् ।
तदिदं प्रकरणानामवान्तरैकवाक्यतायामसत्यां न सिध्यतीत्यत आह–प्रकरणानामिति ।
अस्ति ह्यमीषां प्रकरणानां सपरिकरन्यायलक्षकत्वमेकमिति ।
तत्समूह आह्निकम् ।
उत्तरस्मिश्चाह्निके न्यायन्यायाभासविवेकोपायलक्षणमेकम् ।
तत्रापि कथाप्रकरणम्, हेत्वाभासप्रकरणम्, छलप्रकरणम्, पुरुषाशक्तिलिङ्गप्रकरणमित्येवं प्रथमे लक्षणमध्यायार्थः ।
द्वितीये प्रमाणपरीक्षा ।
तृतीये कारणरूपप्रमेयषट्कपरीक्षा ।
चतुर्थे कार्यरूपप्रमेयषट्कपरीक्षा ।
पञ्चमे पुरुषाशक्तिलिङ्गविशेषलक्षणमिति ।
एवं द्वितीयाध्यायादावाह्निकप्रकरणसङ्गतीस्तत्रैव दर्शयिष्यामः ।
तदिदमुक्तम्–एवं तत्र तत्र वेदितव्यमिति ।
तत्र तत्रेत्याहिकादावित्यर्थः ।
ननु च तत्र एकप्रकारो ऽपि न दर्शितः, कथं तत्र तत्र वेदितव्यमित्यत आह–एताश्चेति ॥
ननु शास्त्रस्य ससाधनपुरुषश्रेयो ऽभिधायकत्वं प्रतिज्ञाय शास्त्रस्वरूपदर्शनं क्कोपयुज्यत इत्यत आह–तदेवमिति ।
शास्त्रस्वरूपाख्यानपूर्वकं तदर्थकथनं सुगमं भवतीत्यभिप्रायः ॥
ननु प्रतीतिसिद्धं प्रमाणादीनां षोडशत्वं किमित्यनूद्यत इत्यतस्तन्निराकरणीयाम् आशड्कामाह–नन्विति ।
सामान्यविशेषः साधर्म्यविशेषः ।
यतो ऽस्येति पदसमूहस्य शास्त्रस्य ।
पदार्थाः पदानां समूहिनाम् अर्थाः प्रमाणादयः ।
तस्मात् शास्त्रं वाक्यरूपं पुरुषश्रेयो वाक्यार्थरूपमभिधत्ते ।
समाधानमिति शेषः ।
कथं निःश्रेयसाय कल्पन्त इत्यापाततः ।
परमार्थतो तेषां काल्पनिकत्वे निःश्रेयसमपि काल्पनिकम् ।
ततस्तदर्थं प्रयासो विफलः तस्यायत्नसिद्धत्वादित्याशयः ।
कल्पनाकोशस्यानन्तप्रसरत्वादनन्तात्मान इत्यापाततः ।
परकार्थतो निरात्मान इत्याशयः ।
प्रत्यक्षानुमानेति प्रमाणद्वयोपन्यासः स्वसिद्धान्तविरुद्धो वात्तिककृत इत्याह–प्रमाणादय इति ।
नोपमानविषया इति ।
यद्यप्युपमानस्य सञ्ज्ञासञ्ज्ञिसम्बन्धपरिच्छेदफलस्य शब्दे प्रमाणे ऽस्त्येवोपयोगः, अगृहीतसमयस्य शब्दस्याप्रमापकत्वात् ।
समयस्य च प्रायश उपमानेनाकलनात् ।
तथापि न तेन ते साक्षाद् विषयीक्रियन्ते प्रमाणादय इत्यर्थः ।
ननु यदि साक्षादुपमानस्य प्रकृतानुपयोगादनभिधानम्, तर्हि शब्दो ऽभिधीयताम् ।
स हि साक्षादुपयोगीत्यत आह–यद्यपीति ।
तत्रापीत्यागमविषयपरामर्शः ।
आगमो हि यत्र प्रवर्तते तद्विषयमेव प्रत्यक्षमनुमानं वा अपेक्षते ।
ते तु समूले अपि न स्विषयप्रवृत्तं प्रमाणमपेक्षेते ।
ततो मूलासम्प्लुतविषयत्वात् ते एव दर्शिते इत्यर्थः ।
वैनयिकेति विशिष्टो नयः शास्त्रं न्यायशास्त्रम्, तज्जन्यबुद्धिविरहिण इत्यर्थः ।
नैतान विविञ्चते समारोपिताद् रूपादिति शेषः ।
शुश्रूषादिरित्यादिग्रहणेन श्रवणादौ पाटवम् ।
सन्दिग्धस्यापि जिज्ञासा न भवत्येवानभिमतापवर्गस्येत्यत उक्तम्"–शिष्यस्येति ।
शिष्यतया मुमुक्षुतादिसम्पत्तिमुपलक्षयति ।
विप्रतिपन्नो ऽपि कथामारभमाणो ऽप्यमुमुक्षुर्गलिते ऽहङ्कारे न सापेक्षो भवतीत्यतो निष्फलो जल्पवितण्डारम्भ इत्यत आह– शिष्यमाणस्येति ।
मोहादपि मोक्षमिच्छत इत्यर्थः ।
जल्पवितण्डाभ्यां विगलिते ऽहङ्कारे इति योजना ।
सापेक्षस्य सतः प्रतिपाद्यतेति वाक्यशेषाग्रे ।
केनचित् प्रमारेणेति ।
प्रथमसूत्रपाठप्रकारेणेत्यर्थः ॥
नन्वसन्दिग्धस्यापि सन्दिग्धीकरणे किमस्य प्रयोजनमित्यत आह–असन्दिग्धो ऽपीति ।
तथा च प्रमातणां
सापेक्षाणामिति शेषः ।
ते ऽभी दुर्ललिताः शिष्या यदि मोक्षादावपि इन्द्रियाद्यपेक्षन्ते, तदा कथं प्रतिपाद्या इत्यतो
वार्तिकं पूरयति–कञ्चिदिति ।
दृष्टप्रयोजनोपयोगिनं प्रत्यक्षोपलभ्यमानमित्यर्थः ।
दृष्टप्रयोजनोपयोगिनमेवानुमेयं
जिज्ञासव इत्युत्तरत्रापि पूरणीयमित्याह–एवमुत्तरमपीति ।
नन्वेतावतापि जिज्ञासव इत्युत्तरत्रापि पूरणीयमित्याह–एवमुत्तरमपीति ।
नन्वेतावतापि सापेक्षा अनेनैव शास्त्रेण प्रतिपाद्याः प्रत्यक्षानुमानाभ्यां चेति
परस्परव्याहतमित्यत आह–अयमभिसन्धिरिति ।
परमपुरुषार्थसाधनं तु जिज्ञासव इति शेषे न्यायेनेति शेषः ।
इह यद्यपि सुखं दृष्टमेव विधायकप्रमाणगोचर एव अहितनिवृत्तिरदृष्टैव निषेधकप्रमाणगोचर एवेति यथासङ्ख्यमपि सम्भवति ।
तथापि श्रेयः पुनः सुखमहितनिवृत्तिश्चेति अतो न किञ्चिदधिकमुक्तं भवतीति प्रमाणाविशेषसम्बन्धकथनमेव परम् ।
न च तेनेदानीमस्ति प्रयोजनम् ।
न चाभिमतश्रेयोविशेषनिर्धारणे कर्तव्ये विधिनिषेधगोचरत्वोपवर्णनमुपयुज्यत इत्यभिसन्धायान्यथा व्याचष्टे–तत्रापीति ।
तच्छ्रेयः सुखमहितनिवृत्तिश्चेति तच्छब्देन द्वयमपि श्रेयस्त्वेन परामृश्यत इत्यर्थः ।
यथासङ्ख्यं शड्कां निवारयति–न व्यासज्येति ।
दृष्टं सुखमित्यत्र
द्रृष्टादृष्टशब्दयोरर्थमुदाहरणमुखेन स्पष्टयति–स्रक्चन्दनेति ।
ऐहिकमित्यर्थः ।
स्वर्गादीति आमुष्मिकमित्यर्थः ।
उक्तमन्यत्रापीति दिशति–एवमिति ।
अहितनिवृत्तिरप्यैहिक्यामुष्मिकी चेत्यर्थः ॥
नैवं वात्तिके रूयत इत्यत आह–चकारलोपादिति ।
चकारयोर्लोपरदित्यर्थः ।
तेन दृष्टं सुखमदृष्टं च ।
तथा
अहितनिवृत्तिश्चेति वात्तिकार्थः ।
तदयं सङ्क्षेपः दृष्टं श्रेयः ।
तच्च सुखमहितनिवृत्तिश्च ।
सुखमप्यैहिकमामुष्मिकं च ।
दुःखनिवृत्तिरप्यैहिक्यामुष्मिकी चेति ।
तत्र सुखलक्षणं श्रेयो दृष्टमदृष्टं वा ।
नैतच्छास्त्रसाध्यम्, तस्य स्रगादियागादिसाध्यत्वात् ।
आत्यन्तिकस्य च तस्याभावात् ।
अहितनिवृत्तिरप्यनात्यन्तिकी दृष्टादृष्टभिन्ना नैतच्छास्त्रसाध्या, तस्याः प्रसक्तकण्टकादिहिसादिपरिहारसाध्यत्वात्, तदप्रसक्तौ त्वसाध्यत्वात् ।
अत
आत्यन्तिकीमहितनिवृत्ति निर्धारयितुं पुनर्भिनत्तीत्याह–अहितनिवृत्तेरिति ।
ननु यदि निवृत्तिरिति ननु यदि निवृत्तिः प्रागभावो दुःखस्य, स कथमात्यन्तिकः? उत्तरान्तानवच्छेदो हि आत्यन्तिकत्वम् ।
प्रागाभावस्य च तथात्वे प्रागित्येव न स्यात् ।
अथ निवृत्तिः प्रध्वंसः, स च सर्व एवात्यन्तिक इति कुतो निवृत्तेरात्यन्तिकत्वव्युत्पादनमित्यत आह–आत्यन्तिकत्वमिति ।
निवृत्तस्य निवृत्तजातीयस्य पुनरनुत्पादः ।
तत्रैवात्मनीति शेषः ॥
नन्वेकविंशतिप्रभेदभिन्नदुःक्षहानिरेव आत्यन्तिकी दुःखनिवृत्तिः, तत्कथं हान्येति वात्तिकमित्यत आह–स चेति ।
निवृत्त्या निवृत्तिस्वरूपेण लक्ष्यते ।
अत्र च कार्यशब्देन दुःखमुक्तम् ।
कारणशब्देन शरीरेन्द्रियविषयबुद्धयः ।
अनुषड्गि सुखं दुःखेनैककारणत्वात् ।
अथ शरीरादिषु निवृत्तेष्वपि दुखं किं न भवेत्? मा भूद् दुःखम्, सुखं किं न भवेत्? न
ह्यन्यस्मिन्नत्यन्तनिवृत्ते अन्यन्न भवति ।
तथा चानुषड्गासुखिनिवृत्तिः किमुपवर्ण्यय इत्यत आह–न हीति ।
कारण विना भवत्कार्यं कार्यतामव जह्यात् ।
अत्ः शरीरादिष्वसत्सु दुःखवत् सुखमपि न भवति, तस्यापि तत्कार्यत्वात् ।
भवद्वा शरीरादिषु सत्स्वेव भवेत् ।
तथा च दुःखमपि भवेत् कारणसद्भावादित्यर्थः ।
अत्रैवार्थे वात्तिकं योजनयति–तदिदमुक्तमिति ।
अनेनैव कारणमविद्यातृष्णे, कार्याप्रवृत्तिरनुषड्गिणौ धर्माधर्माविति टीकाव्याख्यानम् अपहस्तितम्, शरीरादीनां दुःखत्वमनुभवबाधितमित्यत आह– गौणेति ॥
नुन घ्राणादिसूत्रे(१।१।१२) पञ्चेन्द्रियाणि प्रसिद्धानि ।
न च प्रदेशान्तरे ऽपि षडित्यत आह–षष्ठमिति ।
तन्त्रयुक्त्येति भावः ।
ननु विषया अप्यनितरेतरसाधनसाध्याः पज्चैव विभागे परीक्षायां च सिद्धाः, न तु षडित्यत आह–तस्येति ।
यद्यपि बुद्धिसुखदुःखान्यपि मनसो विषयः, तथापि, तस्यैव विषयत्वेन दुःखत्वोपचारो चद्विषयीक्रियमाणं दुःखमुपजनयति ।
वक्ष्यति हि–विषया बोध्यत्वादिति ।
न च बुद्धिर्बुध्यमाना दुःखहेतुः ।
वक्ष्यति हि–बुद्धयस्तु साक्षादिति ।
सुखदुःखयोस्तु दुःखहेतुत्वमेव नास्ति, सुखस्य विजातीयारम्भकत्वे ऽपि रागमात्राम्भकत्वात् ।
दुःखस्य तु विजातीयारम्भकत्वादेव ।
इच्छाद्वेषप्रयत्नास्तु प्रतीयमाना एव साक्षाद् दुःख जनयन्ति ।
तथा हि, मुमुक्षुस्तावदिच्छामि द्वेष्मि योगाभ्यासादन्यत्र प्रयत इति प्रतीत्यैव दुःखी भवति, अहितसाधनत्वेनेच्छाद्वेषप्रयत्नानां तेनावधारितत्वात् ।
अन्यो ऽपीष्यमाणालाभे बुभुक्षितो ऽस्मि पिपासितो ऽस्मीति प्रतीत्य दुःखी भवति ।
हितमेवाहितमुपलभ्य द्विषतो निवृत्तभ्रमस्य हितमेव द्वेष्मि, धिड् मामिति दुःखम् ।
एवमनिष्ट एवार्थे इष्टबुद्ध्या प्रयतमानस्य निवृत्ते भ्रमे तथा अलसस्य प्रयत्नमुपलभ्यैव दुःखमित्येतावतैत एव मनसो विषयत्वेन निर्दिष्टाः ॥
ननु जराकुष्टाद्युपहतदेहस्योपलभ्यमानमेव शरीरं दुःखहेतुः, तत्रापि विषयत्वेनैव दुःखत्वोपचारः स्यादित्यत आह–यद्यपीति ।
अन्यथास्य दुःखहेतुभावो ऽसाधारण इति शेषः ।
विषयत्वेन पुररिदं न षड्भ्यो भिद्यते ।
असाधारणेन्द्रियसम्बन्धात्तु भिद्यते ।
न तु स्वरूपेण, विषयाणामनन्तत्वादित्यर्थः ।
इह यद्यपि अनुषड्गो ऽविनाभाव इति वक्ष्यति वात्तिककारः, तदुपपत्तये च समाननिमित्ततासामानाधारतासमानोपलभ्यताः, तथापि न
तावन्मात्रेणाविनाभावो निर्वहति ।
साधारणनिमित्तायामपि ह्यन्यतरासाधारणनिमित्तनिवृत्तावेकतरनिवृत्तौ इतरानवृत्तिसम्भवात् ।
अत एव आधारस्योपलब्धिसाधनस्य च साम्ये ऽप्येकतरस्य कारणाभावेनाभावे ऽप्यन्यतरसभ्दावेनाविनाभाव इत्याशड्क्य सुखस्य दुःखानुषड्गोपपत्तये दुःखहेत्वनुषङ्गमेवाह–साधनेति ।
अतो न द्वितीयसूत्रवार्तिकटीकाभ्यां विरोधः ।
साधनपारतन्त्र्यं कार्यात्वात् ।
अकार्यस्य च सुखस्याभावात् ।
पारतन्त्र्यं च दंःखहेतुः ।
यदाह–
सर्व परवशं दुःखम् ।
इति ।
क्षयित्वं च सुखस्य समवायिकारणवत्त्वात् ।
तदपि दुःखहेतुः, इष्टवियोगो हि दुःखं जनयतीति ।
क्षयित्वं कामे सतीति तु व्याख्यानं दुःखहेतव इति बहुवचनविरुद्धम्, अतः स्वतन्त्रमेवेदं हेतुत्रयम् ॥
काम इच्छा ।
साच सुखतत्साधनयोर्व्यापिका ।
न हि सुख तत्साधनं वा अनिच्छतः सुखं नाम सुखसाधनं च ।
तदपि सुलभं दुर्लभं च ।
तत्र दुर्लभेच्छा दुःखैकफलैव ।
सुलभेच्छात्वनिषिद्धसाधनगोचरा निषिद्धसाधनगोचरा च ।
तत्र निषद्धसाधानगोचरापि स्वरूपतः कार्यतश्चाधर्मजननद्वारेणावश्यं दुःखफलेति ।
अनिषिद्धसुलभसाधानगोचरापि शरीरपाटवे सत्सति वा ।
तत्रासति दुःखहेतुरेव ।
शरीरादिपाटवे ऽपि सविघ्ना निर्विघ्ना च ।
तत्र सविघ्ना दुःखमेव प्रसूते ।
निर्विघ्नाप्यनिष्टसम्भिन्नविषया तद्विपरीता च ।
तत्र प्रथमा अवश्यं
दुःखहेतुः ।
द्वितीया तु विफला सफला च ।
तत्र प्रथमा दुःखहेतुरेव ।
द्वितीया तु सविलम्बफला अविलम्ब्फला च ।
तत्र प्रथमा अवश्यमेव दुःखहेतुः ।
द्वितीयाप्यनायतिविशुद्धा तद्विपरीता च ।
तत्र प्रथमा दुःखहेतुरेव ।
द्वितीया तु विषयस्य पिरिणतिविरसत्वाद् दुःखमेव प्रसूते, अतिव्यामोहाद् विषयेष्वेव मग्नस्येच्छान्तरमेव वा, उभयथाप्यनर्थमूलमिति ।
एवं सुखानुषक्तः कामो ऽपि दुःखहेतुरिति ।
इह यद्यपि रागद्वेषमोहप्रवृत्तयो ऽपि दुःखतदनुड्गिसाधनभावादिन्द्रियादिवत् दुःखत्वेन परिसङ्ख्यातुमुचितास्तथापि न शरीरेन्द्रियादिव्यतिरेकेणामूषामात्मलाभो दुःखं प्रति व्यापारो वा, इन्द्रियादीनां पुनर्देषप्रवृत्त्यभावे ऽपि दुःखं प्रति व्यापारो जीवन्मुक्तस्यास्त्येव ।
प्रवृत्तिफलं तु धर्माधर्मौ यद्यपि सुखदुःखहेतू, तथाप्येकविंशतिविध दुःखमयसंसारनृत्यशाला मूलस्तम्भत्वादनयोर्नात्र परिसङ्ख्यानम् ।
न हि भाविनि जन्मान्तरे शरीरेन्द्रियाविषयबुद्धिसुखदुःखान्याहत्य व्याप्रियन्ते यथा धर्माधर्मौ ॥
एतदेवाभिसन्धाय कारणरूपधर्माधर्मोच्छेदक्रमेण कार्यरूपैकविंशतिविधदुःखस्योच्छेदोवार्त्तिककृता दर्शित इति तथैव वात्तिकमवतारयति–उक्तप्रकारेति ।
इह चागामिधर्माधर्मनिवृत्तावुपायस्तत्साधनप्रवृत्तिपरित्यागः, उत्पन्ननिवृतौ तूपभोग इति
दर्शितम् ।
तदुभयमप्यनुपपन्नम्, वाग्बुद्धिशरीराम्भं परित्यज्य जीवितुमशक्तयत्वात् ।
मृते ऽपि शदीराद्यन्तरज्रलेपस्य दुपनेयत्वात्, उपभागश्चाशक्यः, अनियतविपाकसमयत्वात्, अनन्तत्वादनन्तफलत्वाच्च ।
भोगावस्थायामप्यनन्तकर्मान्तरोत्पादनताया अवरामात् ।
अथ कथञ्चिदुपभोगानुत्पादाभ्यामुत्पन्नानुत्पन्नयोः शक्यः प्रक्षयः, तर्हि शास्त्रवैयर्थ्यप्रसङ्गः, तत एव तत्सिद्धेरित्याशड्क्य वार्त्तिकस्योपस्कुरूते–संशयादीति ।
संशयादीत्यादिपदेन चतुर्दशापि न्यायपरिकरत्वेन सङ्गृहीताः ।
परमन्यायेत्यनेने मूलमूलीभावव्यवस्थितानि चत्वार्यपि प्रमाणानि ।
न्यायो मार्ग इव न्यायमार्गः, निःरेयसभूमेः प्राप्तिहेतुत्वात् ।
द्वादशविधेत्यात्मादि प्रमेयम् ।
तदनेन शास्त्रस्यावसरोपयोगौ दर्शितौ ।
तत्त्वपरिभावनेत्यनेनाभ्यासस्य ।
तदेवं पूर्वोक्तेन न्यायेन मोक्षमाणस्य शास्त्रे प्रवृत्तिः ।
ततः परिकरपरिज्ञानम् ।
ततो न्यायमार्गपरिशोधनम् ।
ततस्तेन द्वादशविधप्रमेयासादनम्, ततो ऽभ्यासः, ततः प्रसङ्ख्यानम् ।
ततः समूलदोषानुषङ्गनिर्मोक्षः ।
ततो ऽप्रवृत्तिः ।
तत आगामिनोर्धर्माधर्मयोरसञ्चयः ।
इत्येवमनागतः प्रवाहो निवारितः ॥
यद्यपि च यावच्छरीरादिभाविनी प्रवृत्तिस्तथापि दोषानुषङ्गसहकारिविरहान्नासौ प्रवृत्तिः
तत्कार्यासमर्थत्वादिति ।
उत्पन्नभोगमुपपादयति–अनादीति ।
यद्यपि यथानादौ भावपरम्परायां कर्माणि प्रचीयन्ते तथापचीचन्ते ऽपि ।
न ह्यारम्भे परं भवस्यानादिता ।
ननूपभोगे कर्मारम्भो ह्यधिकारिणि शरीरे ।
तच्च शरीरकोटिमध्यपतितमेकं शरीरं
कदाचित् किञ्चित् क्वचिदेव ।
भोगस्तु नास्त्येव तच्छरीरं यत्र नास्ति, भोगस्य तदायतनत्वात् ।
तस्मादायव्ययपर्यालोचनया परिमितमेव कर्म ।
अत एव नियविपाकसमयमपि ।
तस्य च क्रमभाविभिरपि कियद्भिः
कैश्चिदेव शरीरैरूपभोगात् प्रक्षयो ऽपि न दुरूपपादः ।
तथाप्यागमप्रामाण्यात् काययौगपद्यस्यापि प्रसङ्ख्यानफलतया सिद्धत्वादनन्तामनियतविपाकसमयतां चाभ्युपगम्यैव परिहृतम् ।
विभूतिमता अनेककालोपभोग्यमप्येकदा भुज्यत इत्यत्र समुद्रपानमुदाहरणम् ।
योगर्धिप्रभावसम्पन्नो विविधफलभोगिनो विचित्रस्वभावानेकदैव बहून् कायान् इच्छामात्रेणैव निर्मिमीत इत्यत्र दण्डकारण्यसृष्टिरूदाहणमिति ॥
इह केचिद् आहुः, दुःखनिवृत्ति पुरुषार्थ एव स्वरूपतो न भवति सोपाधित्वात् ।
सुखं दुःखाभावे सत्येव भवतीति सुखसाधनान्तरवत् दुःखाभावो ऽपि मृत्यते ।
न नु स एव पुरुषस्य समीहित इति ।
तदुक्तम्,
वरं वृन्दावने ऽरण्ये क्रोष्टत्वमभिवाञ्छितुम् ।
न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति ॥
इति ।
तदनुपपन्नम्, विपर्यासस्यापि सम्भवात्, भोजनादिसुखे सत्येव हि बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते ।
न पुनस्तदेव तस्य समीहितमिति किं न कल्पयते ।
क्वचिद् दुःखभावे ऽपि सुखस्येष्यमाणत्वा दिति चेत्–न, दुःखनिवृत्तेरपि क्वचित् सुखाभावे ऽपीष्यमाणत्वादेव ।
दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत्-न, सुखावस्थायां नियमतो दुःखविरहो भविष्यतीत्यभिसन्धेस्तत्रापि सम्भवात् ।
तस्माद् यद्यपि दुःखहानौ सुखम्, सुखे च दुःखहानिर्नियता, तथापि
परस्परनिरपेक्षमेव पुरुषार्थत्वमनयोरिच्छयोः अप्यसङ्कीर्णविषयत्वात् ॥
अन्यस्त्वाह–भवत्येव हि दुःखहानिः पुरुषार्थः, किं त्वनुभूयमानतया ।
न हि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तदर्थं प्रेक्षावन्तः प्रवर्तन्ते ।
तस्मात् मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति ।
तदुक्तम्,
दुःखाभावो ऽपि नावेद्यः पुरुषार्थतयेष्यते ।
न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥
इति ।
तदप्यनुपपन्नम्, पुत्रादिवियोगजन्यदुःखहानिमिच्छतो केषाञ्चिद् विषशस्त्रोदून्धनदावपि प्रवृत्तिदर्शनात् ।
प्रेक्षावन्तो नैवं कुर्वन्तीति चेत्–न, पुरुषार्थत्वाविरोधात् ।
न हि परदारेषु शास्त्रनिषेधाड्कुशनिवारिताः प्रेक्षावन्तो न प्रवर्तन्त इति ।
न तत्र कामः पुरुषार्थः, अपि त्वल्पीयः सुखं महाननर्थ इति निवृत्तिः ।
तथा विषादावपि प्रवृत्तस्य शास्त्रगर्हितत्वादल्पीयाननर्थो निवर्तते ।
महीयान् प्रवर्तत इति न ते प्रवर्तन्त इति ।
इयमेव हि प्रेक्षा यत् पुरुषार्थत्वे ऽपि लोकशास्त्रविरोधपरामर्शः, न तु अपुरुषार्थत्वादेव स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात् पुरुषर्थतायाः ।
अतएव न यत्र लोकशास्त्रविरोधः, तत्र व्याध्यादिपरिपीडिताः प्रयागवटप्रपातानशनादिनापि देहं त्यजन्तः प्रेक्षावन्तो दृश्यन्ते ।
न हि कश्चिद् दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तते, अपि तु दुःख हास्यामीति ।
अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितम्,
दुःखनिवृत्तिसत्तावधिर्वा? आद्यश्चेत्, तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव समाधिप्रभावात् ।
आत्यन्तिकी दुःखनिवृत्तिरनागता वर्तमानाप्यचिरमनुभूयत एव ।
द्वितीये तु प्रसक्तकण्टकादिहेतुकदःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः, सर्वदाननुभूयमानत्वात् ।
तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गात्, निवृत्तेः सर्वदा तादवस्थ्यादिति ।
तस्मात् सर्वदाननुभूयमानापि यथा कण्टकादिजन्यदुःखनिवृत्तिः पुरुषार्थतया पुरुषं प्रयोजयति, तथा शास्त्रार्थभूतापि ।
तदिदं दुःखनिवृत्तेरपुरुषार्थत्वमननुभूयमानतयैव चापुरुषार्थत्वमिति पक्षद्वयमतिनिर्वलमित्येतदित्युपेक्ष्य तृतीयं शङ्कते–स्यादेतदिति ।
तदुक्तम्,
असत्यानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणः ।
इति ।
सिद्धान्तवार्त्तिकमुद्दीपयति–यद्यपीति ।
तदनेन मधुविषसम्पृक्तान्नभोजनदृष्टान्तेन समव्ययफलत्वमपवर्गस्य निराकृतम् ।
यथा ह्यत्रानर्थस्य भूयस्त्वमर्थस्य तु क्षुद्रत्वम्, न तथापवर्गे ऽपीति ।
एतेनैतदपि निरस्तं यदुक्तम्, यथा दुःखशबलं संसारसुखमनादेयम्, तथा सुखशबलतया दुःखमप्युपादेयं किं न स्यात्? दृश्यन्ते हि सुखार्थिनो यगादिदुःखमनुभवन्त इति ।
यस्य दुःखमुपादेयं हेयं तस्य किमुच्यताम् ।
हेयहीनस्य का मुक्तिः केन वाप्युपदिश्यते ॥
इति ।
यस्तु घनतरदुःखतिमिरनिरन्तरात् संसारकान्तारात् सुखखद्योतिकासु द्योतमानास्वपि बिभेति तं प्रति अयं निरस्ततमस्कतया सुगमो मार्ग उपदिश्यत इति ।
तदिदमुक्तम्-तेन मा भूदतदित्यादि ।
नन्वेवं सति नास्य सर्वार्थता ।
तथा च जगतः शमायेत्यनेन विरोध इत्यत आह–अविवेकिनामपीति ।
यद्यपि कस्यचिदप्रवृत्तावपि न सर्वार्थता अस्य हीयत इति प्रपञ्चितमधस्तात्, तथापि हेयं हेयत्वेनागृह्णन्तो मन्दाः कारुणिकेण ग्राहयितव्या इत्यर्थः ॥
ननु शास्त्रेण तत्त्वज्ञानाद् वैराग्यम्, वैराग्याच्च शास्त्रे प्रवृत्तिरिति दुरूत्तरमितरेतराश्रयत्वमित्यत आह–शास्त्रे प्रवृत्तीति ।
दुःखादुद्विजतो भोगवैमुख्यमात्रमिह वैराग्यं विवक्षितम्, न तु रागाभाव एवेत्यर्थः ।
इष्टानिष्टप्राप्तिपरिहारार्थतया द्वैविध्यशड्कामपनयति–ऐकरूप्यं द्वैरूप्यं चेति ।
ननु पुरुषभेदे ऽपि प्रवृत्तेः द्वैविध्यमेव ।
न हि कश्चित् सुखं प्राप्तुमिव दुःखमप्याप्तुं प्रवर्तते ।
नापि कश्चित् दुःखहानायेव सुखहानायापीत्यत आह–पुरुषभेदो रागवैराग्याभ्यामिति ।
ननु सुखस्य हेयत्वमेव कुत इत्यत आह–प्राप्तव्यस्येति ।
अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ।
वार्त्तिककृता इति शेषः ॥
प्रकृतमुपसंहरन्नेवाप्रकृतोपनिपातशड्कामप्यपनेतुं वृत्तवर्तिष्यमाणे अनुकीर्तयति–तदनेनेति ।
तदवयवं विवरीतुमुक्ततात्पर्यस्फोरणार्थमिति शेषः ।
अलौकिकत्वात् ।
लोकस्यास्मदादेर्नित्यपरोक्षत्वात् ।
अयुक्तम् अप्रामाणिकम् ।
विप्रतिषिद्धं मिथो व्यापकविरुद्धम् ।
प्रवृत्त्यै निष्कम्पप्रवृत्त्यै ।
किं तर्हि? प्रमाणमिति ।
गृहीतमित्यनुवर्तते ।
रजतज्ञानमिदं शुक्लभास्वररूपवद् द्रव्यं रजतमित्येवं ज्ञानमित्यर्थः ।
परिच्छिनत्ति उक्तमर्थमालम्ब्य परिच्छित्तिरूपं जायत इत्यर्थः ।
शुक्तिकाज्ञानमपीति ।
इदं शुक्लभास्वररूपं शुक्तिकाद्रव्यं न रजतमिति ज्ञानमित्यर्थः ।
यद्येवं कथमनयोर्बाध्यबाधकभाव इत्यत आह–केवलमिति ।
रजतसमारोपापवादाभ्यामिति ।
समारोपापवादस्वभावतयेत्यर्थः ॥
तदेवं परिच्छेदद्वारेण परिच्छेदकमुन्नीयत इति परिच्छेदस्यैव सामान्यविशेषयोः परिच्छेदत्वापरिच्छेदत्वे दर्शिते ।
न चैकस्यैव ज्ञानस्य विरुद्धधर्मसंसर्गः ।
जात्या हि बुद्धिरनुभवः स्मृतिश्च ।
तत्र स्मुतिरप्रमैव ।
अनुभवस्तु स्वरूपानुभवो ऽस्वरूपानुभवश्च ।
सो ऽयं विषयकृतो विशेषः ।
नानाविषया चैका बुद्धिर्भवत्येव ।
ततश्च सैव बुद्धिः स्वरूपावस्थितेनार्थेन निरूप्यमाणा प्रमा ।
अस्वरूपावस्थितेन निरूप्यमाणा त्वप्रमेति तथाभूतावच्छिन्नानुभवत्वमेव प्रमाणत्वम् ।
अतथाभूतेन त्ववच्छिन्नमप्रमाणत्वमिति भवति अप्रमाणस्यापि सामान्यपरिच्छेदकत्वमिति ।
रचिता भूमिः ।
किमेतावतेत्याह –अस्ति तावदसाधारणं कारणमसमर्थायाः प्रवृत्तेस्तथैवोन्नीयमानम् ।
तस्य च व्यापारो विपरीतार्थपरिच्छेद एवासाधारणः ।
तच्चैवम्भूतव्यापारोपकरणमप्रमाणमिति व्यवह्नियते ।
एवं च प्रवृत्तिसामर्थ्यासामर्थ्यसन्देहे ऽपि यदि तज्जनकमप्रमाणमसमर्थैव सा ।
अथ न तदप्रमाणम्, तज्जन्या प्रवृत्तिरपि नासमर्थेत्यप्रमाणान्नियतः समर्थप्रवृत्तिव्यतिरेकः ।
प्रमाणं चात्रोभयव्यतिरेकग्राहकं विरुद्धकार्यत्वं लिङ्गम् ।
प्रकृतकार्यस्य तद्व्यतिरेकग्राहि च प्रत्यक्षमध्यवसेयमिति नाप्रमाणादर्थव्यभिचारिणोर्ऽथव्यभिचारिज्ञानव्यापारादित्यर्थः ॥
सिद्धो व्यतिरेकः, कि चात इत्यत आह–तथा चेति ।
अर्थवत्त्वमर्थाव्यभिचारित्वम्, अर्थाव्यभिचार्यनुभवजनकत्वमित्यर्थः ।
ननु तस्या इत्यत्र कथमनन्तरत्वेन प्रकृतामसमर्थां विहाय व्यवहित्वेनाप्रकृतापि समर्थैव प्रवृत्ति ।
परामृश्यत इत्यत आह–असमर्था त्विति ।
पूर्वप्रकान्तं योग्यमेव प्रकृतमुच्यते, न त्वनन्तरोक्तमित्यर्थः ।
नन्वनुदितस्यानुवादः क्कोपयुज्यत इत्यत आह–सम्प्रतीति ।
पूर्वं व्याख्यातुमिदानीमाक्षेप्तुमित्यर्थः ।
आक्षेपसमाधानयोः स्फुटावभासित्वे ऽपि सङ्ग्रहविवरणयोः पौनरूक्त्यं परिहरन्नाह–आक्षिपतीति ।
सन्देहादपि प्रवृत्तेस्तत्र तत्र दर्शनात् निरूच्छ्वासमाक्षेपमुज्जीवयति–न तावदिति ।
अमुमेवार्थं भाष्येण संवदति–सेयमिति ।
उक्ता भाष्यकुतेति शेषः ।
किमतो यद्येवमित्यत आह–न चेति ।
अर्थविनिश्चय उक्तरूपः श्रेयोहेतुतानुमानसहित इति यावत् ।
प्रामाण्यावधारणं श्रेयोहेतुतालिङ्गपरामर्शप्रसवोचितमन्तरेणेत्यर्थः ।
एवंरूपता च
प्रामाण्यावधारणस्य व्याप्तिस्मरणसाहित्यमेवेति तस्यापि बीजं समुच्चिनोति–श्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं चेति ।
ताभ्यां विनेति ।
स्वरूपनिश्चयश्रेयोहेतुतानुमानाभ्यां विनेत्यर्थः ।
व्याप्तिग्रहणानन्तर्ये ऽपि तत्फलस्यैवानुमानस्य योग्यतया प्रक्रान्तत्वात् ।
इममेव वार्तिकार्थं परिशोधयन् स्फुटयति–तदिदमुक्तमिति ।
निश्चयानुमाने न प्रामाण्यावधारणानुमानबीजभूतव्याप्तिग्रहणाभ्यां विना ।
ते च न प्रवृत्त्या विना ।
प्रवृत्तिश्च न निश्चयानुमानाभ्यां विनेत्याक्षेपसङ्क्षपः ।
इह च द्विधा प्रवृत्तिः, ऐहिकफला आमुष्मिकफला च ।
तत्रामुष्मिकफला प्रामाण्यावधारणपूर्विकैव ।
ऐहिकफला तु अपेक्षितोपायताज्ञानमात्राधीना अर्थनिश्चयमपि नापेक्षते, प्रागेव प्रमाणस्रूपज्ञानम् ।
कुतस्तरां तद्विनिश्चयम्? यत्रापि प्रवृत्तेः प्रागेव प्रमाणतत्त्वविनिश्चयः, तत्राप्यसौ स्वहेतुबलादायतो न प्रवृत्तिं प्रति प्रयोजकः, अन्यथैकान्तिकविजयानिश्चये प्रामाण्याक्षेपक एव विजिगीषुः कथायां न प्रवर्तेत ॥
न हि जल्पतो वितण्डयतो वा अवश्यमैकान्तिको विजयः ।
तस्मादर्थानिश्चये ऽपि प्रवृत्तिरित्युभयवादिसिद्धं हृदि निधाय सिद्धान्तमुपक्रमते–तत्र ब्रूम इति ।
दृष्टार्थेष्विति अदृष्टार्थागमादिव्युदासः, तत्र प्रवृत्तेः फलाभिसम्बन्धानिश्चयात् ।
अनभ्यासदशापन्नेष्वित्यभ्यासदशापन्नापितृवचनादिव्युदासः ।
ते हि प्रमाणतया प्रवृत्तेः प्रागव निश्चीयन्ते ।
अभ्यासश्वाविपरीतो विवक्षितः ।
तेन स्वात्मन्यभ्यासे ऽपि प्रवृत्तिसामर्थ्यादेव तन्निश्चयो विपरीताभ्यासविरहात् ।
स च विषयगोचरस्तन्नान्तरीयकार्थगोचरो वा तज्जातीयत्वावधारणोपायो यत्र स्वरूपतो ऽपि नास्ति तत्र प्रवृत्तिसामर्थ्यादेव तद्गोचरस्य प्रामाण्यावधारणम्, यथा वैद्यवचनादनर्थनिवृत्ति सम्भावयतो ऽसंस्तुतप्रदेशस्थितेषु मूलेषु ।
यत्र तु स्वरूपाभ्यासो ऽस्त्येव तद्गतं तु श्रेयःसाधनमभ्यस्तम्, तत्र प्रवृत्तिसामर्थ्येन तत्साधनत्वग्राहिणः प्रामाण्यम् ।
यथा अन्गिः पाकादिसमर्थ इति सम्भाविताप्तत्वस्य वचनादुपलभ्य स्वयं पचतः ।
यत्रापि श्रेयःसाधनत्वे ऽभ्यासः स्वरूपे त्वनभ्यासस्तत्रापि स्वरूपगोचरस्यैव प्रामाण्यं प्रवृत्तिसामर्थ्यादवसीयते ।
यथा अग्निः पाकादिसमर्थ एवेति निश्चितवतो ऽपरिशीलितवनवह्नौ ।
सर्वत्रैवार्थभूयस्त्वम्, विपर्यये त्वनर्थमान्द्यं सम्भावयतः प्रवृत्तिः ।
स्वरूपश्रेयःसाधनत्वनिश्चये ऽपि फलसन्देह इवेत्याह–नो खल्विति ॥
तदमी संशयाना अपिप्रवर्तमानाः फल इव स्वरूपश्रेयःसाधनत्वयोरिति शेषः ।
प्रमाणस्य स्वरूपग्राहिणः श्रेयःसाधनत्वग्राहिणश्चेत्यर्थः ।
तत्त्वं प्रमाणत्वम्, अर्थाव्यभिचारिप्रमासाधनत्वमिति यावत् ।
विनिश्चित्यार्थाव्यभिचारिप्रमाविनिश्चयद्वारेणेति शेषः ।
तज्जातीयस्यान्यस्यैतावतैव समर्थत्वे अभ्यासदशापन्नस्येति दृष्टार्थप्रमाणसङ्ग्रहार्थम् ।
प्रवृत्तिसामर्थ्यात् प्रागेव समर्थायाः प्रवृत्तेः पूर्वमेवेति ।
तेनायमर्थः, यद्यपि दृष्टार्थेषु अभ्यासदशापन्नेष्वपि प्रवृत्तिसामर्थ्यमस्ति, तेनापि च प्रामाण्यमवधारयितुं तत्र शक्यते, तथापि तज्जातीयत्वलक्षणेनैव लिड्गेन प्रवृत्तेः प्रागेवावधारिते प्रामाण्ये तत्प्रमातुरूत्तरकालं प्रमित्सैव नास्ति ।
तन्निबन्धनत्वाच्च अनुमानप्रवृत्तेः ।
यदि पुनः प्रमित्सानपेक्षमेव समर्थप्रवृत्तिजनकत्वं परामृश्यते, तदा का क्षतिः? तेनाप्यनुमीयतां प्रामाण्यम् ।
प्रमाणसम्प्लवस्यापि व्यवस्थापनादिति ॥
ननु किमिदं तज्जातीयत्वम्? न तावत् प्रमाणजातीयत्वम्, साध्याविशिष्टत्वप्रसङ्गात् ।
नापि समर्थप्रवृत्तिजनकजातीयत्वम् ।
तद्धि समर्थप्रवृत्तिसम्बन्धो वा स्यात्? तदुपहितो वा नियतप्रागभावः? न तावदाद्यः, प्रवृत्तेः प्रागेवेति वचनात् ।
नाप्युत्तरः, तस्यातीन्द्रियस्य लिड्गं विना प्रत्येतुमशक्यत्वात् ।
लिड्गं च तस्य प्रामाण्यैकनियतस्य यद्यस्ति तदा प्रामाण्यमेव तेनानुमीयताम्, किं तज्जातीयत्वानुमानेन? प्रामाण्यानियतस्य तु तस्यानुमानेन किम्? नापि प्रत्यक्षसिद्ध एव कश्चिद्धर्मस्तज्जातीयत्वम् ।
प्रत्यक्षत्वे तु तस्यानभ्यासदशापननगोचरे ऽपिप्रमाणे प्रतीतिप्रसङ्गात् ।
तथा च
तत्रापि प्रवृत्तेः प्रागेव प्रामाण्यावधारणं स्यात्, व्याप्तेरपि प्रागेव प्रतीतत्वात् ।
न ह्ययं क्वचिदपि तज्जातीयत्वेन प्रामाण्यं नानुमितवात् ।
तत्र नास्त्येव तज्जातीयत्वम्, किं प्रत्यक्षेण प्रतीयतामिति चेत्–न, अभ्यासदशापन्नेषु तज्जातीयत्वेन प्रामाण्ये ऽनुमीयमाने प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य साधनविकलतया दृष्टान्ताभासत्वप्रसङ्गात् ।
तस्मात् तज्जातीयत्वमतिरिक्तं न पश्याम इति ॥
सत्यम्, तथापि ज्ञानस्य विष्यनिबन्धनत्वात् तत्तद्विषयोपाधय एव ते ते ज्ञानोपाधयस्तैस्तैरूपाधिभिरूपाधीयमानं ज्ञानमेव तज्जातीयं तस्य भावस्तत्त्वं भवति ।
ते चोपाधयः प्रतिभेदं स्वसञ्ज्ञाभिरभिधातुमशक्या इति तज्जातीयत्वमित्यनया वाचोभड्ग्या दर्शिताः ।
अत एवात्र वीप्सा द्रष्टव्या
तत्तज्जातीयत्वमिति ।
तथा हि, अनुभवस्तावत् स्वरूपप्रकारावालम्बते ।
तत्र धर्मिस्वरूपेणोपधीयमानो ऽनुभवः प्रमैवेति तेन रूपेणानुभूते तस्मिन् प्रमात्वमेवानुभूतं भवतीत्यग्रे स्फुटीभविष्यति ।
प्रकारविषयस्त्वनुभव उभयथा ।
कश्चित् स्वरूपप्रकारेणोपाधीयते, कश्चिदस्वरूपप्रकारेणापीत्यतः क्वचित् संशयः ।
तत्र स्वरूपप्रकारेणोपहितमनुभव विवेक्तुं विशिष्टाः प्रकारोपाधयो भवन्ति ।
ते च नियमेन विभ्रमविषयविरोधितया निर्धारितस्वभावभेदा गुणादय एव ।
तदिदं सामान्यतस्तावल्लक्षणसहचरितलक्ष्यविषयज्ञानत्वमेव ज्ञानगतं तज्जातीयत्वमिति प्रत्यक्षे गतिः ।
यदा त्वप्रत्यक्षे लक्ष्ये लक्षणेन ज्ञानं जन्यते तदानुमानं तदिति तस्यान्यथैव गतिर्भविष्यतीति ।
तत्र द्रव्ये गन्धवति पृथिवीज्ञानमित्यादि सामान्यतः ।
करचरणादिमति शरीरज्ञानम् इत्यादि विशेषतः ।
गुणेषु केतक्यादौ सौरभज्ञानम्, शड्खादौ श्वेतज्ञानमित्यादि ।
कर्मणि तु अवातुलेन तिष्ठता तीव्रवेगासंस्कृतेन चलज्जलादिस्वच्छविलोकनादिविरहिणा यद् द्रव्यं चलतीत्युपलभ्यते तत् तथेति ।
एवं तेषु तेषु विशेषेषु ते ते विशेषा व्यभिचारविरोधिनो न प्रतिपदमनुक्रमितुं शक्यन्ते ।
तदेवं तत्तदुपाधिविशिष्टतत्तद्विषयानुभवत्वमेव तज्जातीयत्वमिति मन्तव्यम् ।
तदेवम्भूतस्य ज्ञानस्य विषयनान्तरीयकत्वेनोपाध्यभ्यास एवाभ्यासदशापन्नत्वम् ।
यत्र तु स एवार्थो भूयो भूयो ऽभ्यस्तः, तत्र संवादकत्वमेव तज्जातीयत्वम् ।
एवं तावद् बाह्यप्रत्यक्षं समर्थितम् ॥
प्रत्यक्षसमानन्यायतया आगमस्य प्रामाण्यं समर्थयति–एवं चेति ।
अत्रापि तज्जातीयत्वमाप्तप्रणेतृकत्वम् ।
अभ्यासदशापन्नत्वं पुनरेतस्य भूयोदर्शनेन मन्त्रायुर्वेदे तज्जातीयत्वाय प्रामाण्याविनाभावसिद्धिः ।
मन्त्रायुर्वेदस्यानभ्यासदशापन्नत्वं तदसिद्धः निवेदयिष्यते सूत्रकारेण द्वितीयाध्याये ।
यथा च प्रामाण्यं प्रवृत्तिसामर्थ्येनावधार्यते अनभ्यासदशापन्नेषु तथाप्रामाण्यमपि प्रवृत्तिविपर्ययेण ।
यथा च प्रवृत्तेः प्रागेवाभ्यासदशापन्नेषु
तज्जातीयतया प्रामाण्यमवधार्यते, तथाप्रामाण्यमपीति मन्तव्यम् ।
उपाधिविरोधश्च तज्जातीयत्वम् ।
तदभ्यास एवाभ्यासदशापन्नत्वम् ।
यथा चन्द्रमसि चन्द्रद्वयज्ञानम् ।
शड्खे पीतज्ञानम् ।
गुडे तिक्तज्ञानमित्यादि ।
तस्मात् सन्दिग्धे प्रवृत्तिसामर्थ्यमवधारणीयमिति ॥
स्यादेतत् ।
सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः ।
अथ फलज्ञानस्यैव प्रामाण्यं कथमवधारणीयमित्यत्र केषाञ्चिन्मतमाह–न चेति ।
न पुनरूदन्योपशममपि परीक्ष्यत इति उदन्योपशमनमपीत्यर्थः ।
तदेतदनुपपन्नम् ।
फलज्ञानं हि फलस्य सिद्धावस्थस्य साधनानर्हतया निष्प्रयोजनीभूतत्वाद् वा न परीक्ष्येत् तत्तज्जातीयज्ञानस्य सर्वास्ववस्थासु अर्थाव्यभिचारितया निःशङ्कत्वाद् वेति? न तावदाद्यः, फलस्य सिद्धावस्थत्वे तद्वत् तत्साधनीभूतस्यापि निष्प्रयोजनीभूतत्वादपरीक्ष्यत्वप्रसङ्गात् ।
उत्तरोत्तरुलाभिसन्धानेन तत्साधनं परीक्ष्यत इति चेत?
फले ऽप्येवमस्तु ।
सिद्ध एव हि फले परीक्षिते तत्साधनस्य तथात्वसिद्धावुत्तरोत्तरुलाभिसन्धिः स्यात् ।
नापि द्वितीयः, फलज्ञानस्यापि भूयो भूयः स्पप्नाद्यवस्थासु व्यभिचार दर्शनात् ।
स्वस्थावस्थस्य फलज्ञानं न व्यभिचरतीति चेत्–एवं तर्हि पिरीक्षितमेव फलज्ञानं स्यात् ।
तथा हि यत् स्वस्थावस्थस्य फलज्ञानं तदव्यभिचारीति व्याप्तिसिद्धौ यत्रैव तथाभूतज्ञानत्वं पश्यति, तत्रैवाव्यभिचारमवधारयतीत्यनेनाभिप्रायेणाह–वयं त्विति ।
अस्याप्यभ्यासदशापन्नत्वं प्रामाण्याविनामूतलिड्गोपलम्भस्तथा तज्जातीयत्वं पुनः स्वस्थावस्थस्य फलज्ञानत्वमेव ।
एतेनेच्छाद्वेषप्रयत्नज्ञानं व्याख्यातम् ॥
ननु यद्विज्ञान दृष्टान्तयितव्यं तस्यापि प्रामाण्यं कथं साधनीयम्? एवं तत्तत्साधनस्यापि दृष्टान्तपरम्परायाः कथमित्यत आह–न चेति ।
फलज्ञानस्येत्युपलक्षणम् ।
तज्जातीयत्वेन लिड्गेन प्रामाण्ये साधियितव्ये यद्यद् दृष्टान्तीक्रियते तस्य तस्येति मन्तव्यम् ॥
यद्यवम्, प्रवृत्तिसामर्थ्यमनवकाशमेव, न ह्यस्ति तद्विज्ञानं यत् सर्वथैवापूर्वविषयम् ।
तथा च प्रमाणतोर्ऽथप्रतिपत्तिप्रवृत्तिसामर्थ्ययोः कथमनादित्वमाह–वार्त्तिककार इत्यत आह–एतेषु च मध्य इति ।
शड्कितव्यभिचारं तज्जातीयत्वापरामर्शादिति शेषः ।
यद्यपि फलं न प्रवृत्तिविषयस्तथापि तत्साधनगोचरायाः तत्सन्तानगोचराया एव वा प्रवृत्तेः तज्जातीयफलान्तरसम्बन्धस्तन्नान्तरीयकविजातीयफलसम्बन्धो वा स्वस्य नरान्तरस्य वा प्रवृत्तिसामर्थ्यं फलज्ञानस्य द्रष्टाव्यम् ॥
तदेवं समानन्यायतया रूपादिबाह्यर्थप्रत्यक्षप्रामाण्यसमर्थनानन्तरं शब्द्रप्रामाण्यं समर्थ्य तदुभयोपपत्तये समानन्यायतयैव आन्तरप्रत्यक्षज्ञानेषु मध्ये फलज्ञानप्रामाण्यं समर्थितम् ।
समानन्यायतयैवेच्छाद्वेषप्रयत्नगोचरस्यापि
ज्ञानस्य प्रामाण्यसमर्थनं सूचितमित्यनंव्यवसायो ऽवशिष्यते ।
तस्य चानुमानसमानन्यायतया अनुमानप्रामाण्यसमर्थनानन्तरमेव समर्थनं करिष्यत इत्यभिप्रायवानाह–अनुमानस्येति ।
द्विधा हि व्यभिचारशड्का कारणतः स्वरूपतश्च ।
सा च व्याप्तिपक्षधर्मताग्राहकैरेव प्रमाणैरपनीयत इति भवति निरस्तसमस्तव्यभिचारशङ्कमनुमितिज्ञानम् ।
तस्यैवम्भूतस्य स्वत एव प्रामाण्यं निश्चीयत इति शेषः ॥
ननु प्रमाणत्वाविशेषे ऽपि कथमनुमितेरेव स्वतः, न प्रत्यक्षादेरित्यत आह–अनुमेयेति ।
अनुमितिज्ञानं ह्यर्थस्य तथात्वं व्यवच्छिन्ददेवोत्पद्यते वह्निमानेवायमिति ।
तथा चानुव्यवसानेनानुव्यवसीयमानमिदं स्वस्वार्थावधारणात्मकमेवावसीयते ।
न चाविपरीतार्थकत्वमनुभवस्यानध्यवस्यता अवधारणात्मकत्वमस्यावसितं भवति ।
तथा च तद् अवश्यमवसेयम् ।
तदेव च प्रामाण्यम् ।
कदाचिदेवम्भूतानुव्यवसाये ऽपि विपर्ययत्वशड्का तदवस्कन्दतीत्यवशिष्यते ।
सा च लिङ्गसमुत्थत्वादेव नास्ति ।
न हि विशेषदर्शनग्रस्तोत्पत्तौ शड्कावकाशः ।
तदेतदाह–न हीति ।
लिङ्गाकारं विज्ञानं निश्चिताव्यभिचारमिति शेषः ।
प्रत्यक्षशाब्दज्ञाने तु नायोगव्यवच्छेदात्मके, अपि त्वारोपानारापसाधारणविषयमात्रावभासिनी ।
तथा चानुव्यवसायेनापि तथैवानुभूयेते ।
न त्ववधारणात्मकतयेति न तयोः स्वतः प्रामाण्यग्रहः ।
अथ दैवादयोगव्यवच्छेदात्मके एवोत्पद्येते अनुव्यवसीयेते च, तदा च नियामकमन्तर्भाव्यैव ।
तदभावे त्वविशेषादवधारणात्मकत्वं परिभूय तदतद्रूपसाधारणमेवावतिष्ठेत इत्याशयवान् नियामकाभावमेवाह–प्रत्यक्षज्ञानं त्विति ॥
धूमादियुक्तधूमध्वजादिज्ञाने हि यद्यप्यर्थस्याप्यर्थेनाव्यभिचारो ऽस्ति, यद्यपि चार्थादपि तथाभूतादेव तज्ज्ञानं जायते, तथाप्यव्यभिचारो वा, तद्ग्रहो वा? प्राक्तनः तत्राकिश्चित्कर एव, इन्द्रियापातमात्रादेव युगपदुभयोरप्येकज्ञानावभासितया परामर्शकालानपेक्षणात् ।
अपरामृष्टस्य चानियामकत्वात् ।
तदिदमुक्तम्–अपि तु सत्तामात्रेणावस्थितादिति ।
अव्यभिचारिणो ऽपीति शेषः ।
एतेन शड्कामात्रमपनीयते ज्ञानान्तरैरिति यदुक्तं कैश्चित् तन्निरस्तम् ।
शड्का हि संशय एवाभिधीयते ।
स च तत्त्वनिर्णयव्यतिरेकेणापनेतुमशक्य एवेति तत्त्वनिर्णयोपायो ऽनुसर्तव्यः ।
तथा च ज्ञानस्वरूपग्राहिणः कौण्ठ्ये प्रत्यक्षाद्यन्तराभावे चानुमानमेवोपाय इति तदाह–प्रवृत्तिसामर्थ्यमिति ॥
स्यादेतत्, यदि प्रत्यक्षशाब्दज्ञानयोः परतः प्रामाण्यम्, तत् किमिदानीमनुव्यवसायस्यापि परत एव? तथा च लिड्गं निश्चितमेव निश्चायकमित्यनेन न्यायेन लिङ्गान्तरपरम्पराज्ञानमनवस्थामवतारयतीत्यत आह–ज्ञानगतेति ।
अत्रापि सैव युक्तिः ।
अतद्रूपव्युदासेनैव स्वविषयमालम्ब्यैवोत्पत्तेस्तथैवानुभवः ।
उत्पत्तेरेवारभ्य विषयविशेषग्रहणग्रस्तत्वाच्च न शड्कावकाशः ।
विशेषश्चानुव्यवसायत्वमेव ।
न ह्यजानन्नापि कश्चित् जानामीत्यनुव्यवस्यति ।
न च शुक्तिकाकारे ज्ञाने रजतं जानामीति स्यादिति तदिदमुक्तम्–तादृशस्येति ।
उपलक्षणं चैतत् ।
सबाह्यभ्यन्तरं धर्मि मात्रगोचरमपि प्रत्यक्षं स्वत एव प्रमाणम्, विभ्रमस्यापि निरालम्बनस्ये क्वचिदनुपपत्तेरिति ।
उक्तुयुक्तिं हृदि निधायातिदिशति–एतेनेति ।
उपमानमुपमितिरित्यर्थः ।
व्याख्यातम् ।
स्वतो ऽवधार्य प्रामाण्यतयेति शेषः ।
न ह्यतिदेशवाक्यार्थज्ञानसादृश्यज्ञानयोः प्रामाण्ये निश्विते उपमितिराभासीभवति ।
यद्यपि चानुमानोपमानानुव्यवसायधर्मिज्ञानानामपि प्रामाण्यं परतो ऽपि शक्यग्रहमेव, सन्ति हि तत्रापि यथायोगं लिङ्गसादृश्यज्ञानसमुत्थत्वादीनि तज्जातीयत्वलिङ्गानि तथापि कोष्ठगत्या स्वत एव प्रामाण्यग्रहो ऽत्र न स्वयमिति स एव दर्शितः ।
विप्रतिपन्नं प्रति तु परत एव साधनीयं तदिति परमार्थः ।
अतः स्वत एवेत्यवधारणं नायोगव्यवच्छेदे नाप्यन्ययोगव्यवच्छेदे ।
किं तर्हि? अत्यन्तायोगव्यवच्छेद इति ॥
नन्वेतावतापि विज्ञानकरणानमिन्द्रियादीनां प्रामाण्यस्य कुतः सिद्धिः? न हि फलयथार्थत्वमेवामीषां प्रामाण्यमित्यत आह–सेवदनस्य चेति ।
नन्विन्द्रियादयो यद्यर्थव्यामिचारिणः कथमर्थधियमव्यभिचारिणी जनयेयुः, तथात्वे वा रासभो ऽपि वह्नधियमव्यभिचारिणी जनचेत्, अविशेषादित्यत आह–न चेति ।
यथार्द्रेन्धनं दहनव्यमिचार्यपि दहनसम्बन्धात्
दहनाव्यभिचारिणं धूमं जनयन्न नियोगपर्यनुयोगावर्हति कारणस्वाभाव्यात्, तथेन्द्रियाद्यप्यर्थव्यभिचारिणं तथाविधसहकार्युपबृंहितं तेनार्थेन सम्बन्धात् तदर्थाव्यभिचारि ज्ञानं जनयेदित्यर्थः ।
तदेतत्प्रामाण्यं नावश्यं सर्वत्रावधार्यते, तदा श्रयस्यैव संवेदनस्य सर्वत्रानवधारणात् ।
तथा सति चानवस्थाया विषयसञ्चारो न स्यात् ।
तस्मात् तीव्रसंवेगितया यत्तु संवेदनमवश्यं संवेदनीयम्, यत्र यत्र चापरो विशषतः
सामान्यतो वा विप्रतिपद्यते जिज्ञासते वा तत्र तत्र प्रामाण्यमुक्तेनापायेनावधारणीयमित्यतो नानवस्थेत्याशयवानुपसंहारव्याजेनोक्तमर्थं सङ्कलय्य आह–तस्मादथसन्देहादिति ॥
नन्वर्थानिश्वयेनापि प्रवर्तमानो न हि तत्साधनतामनुमाय प्रवर्तितुमर्हति अर्थित्वाभावात्, न हि तत्साधनत्वानुमानं व्याप्तिग्रहणं विना ।
न च सो ऽपि प्रवृत्ति विनेति तदवस्थमेवेतरेतराश्रयत्वमित्यत आह–अर्थस्येति ।
यद्यपि प्रामाण्यानिश्चयवदपेक्षितोपायत्वानिश्चयेनापि तत्र तत्र प्रवर्तते तथाप्यपेक्षितोपायतां पाक्षिकीमप्युररीकृत्य प्रवृत्तिः ।
न च तत्संशयस्तस्यामप्यनुपलब्धायामन्यत्रापि स्यात् ।
अतः पुनरप्युपलब्धिरायातेति ।
अतो ऽनादितामादायैव परिहृतम् ।
अर्थप्रतिपत्तिरिति वार्त्तिके यद्यप्यर्थशब्दो ऽपेक्षितोपायमेवाह तस्यैव प्रवृत्तिविषयत्वात्,
अर्यमानत्वाच्च, तथापि धर्मिमात्रप्रतिपत्त्यनुमेयप्रतिपत्त्योर्भिन्नकालत्वादपेक्षितत्वाच्च तथैव व्याचष्टे–अर्थप्रतिपत्तिरिति ॥
ननु प्रमाणस्य प्रयोजनवत्त्वमाक्षिप्तं वा समाधीयेत जिज्ञासितं वा ज्ञाप्येत? न तावदाद्यः ।
न ह्यस्ति पुरुषो यः प्रमाणं निष्प्रयोजनमिति ब्रूयात्, तन्मूलत्वात् सर्वपुरुषार्थसिद्धेः ।
यस्य तु पुरुषार्थो नास्ति स निरूच्छ्वास एव शीर्येत ।
नापि द्वितीयः, तस्य संशयादिवत् सूत्रपाठानन्तरमेव ज्ञापयितुमुचितत्वादित्यत आह–तत्रेदमिति ।
नेयं प्रमाणप्रयोजनजिज्ञासा ।
किं नाम? शास्त्रार्थौभूतस्य परमन्यायस्य निःश्रेयसं प्रति गुरुपायत्वे मन्यमानेन लघीयति प्रवृत्त्युपायं विद्यमाने शास्त्रारम्भ एवाक्षिप्यते ।
स च समाधातुमारब्ध इत्यर्थः ।
दशानां दुःखसञ्ज्ञाभावनं मुमुक्षुतादाढ्रयार्थम् ।
आत्मनो याथात्म्यं सकलोपाधिविनिर्मुक्तत्वम् ।
तस्य भावनं ध्यानम् ।
आदिग्रहणेन तु तदुपायभूताः प्रवृत्तयो यमनियमासनप्राणायामधारणालक्षण गृह्यन्ते ।
आत्मतत्त्वसाक्षात्कार इति समाधिः ।
वैराग्यं
परमा वशीकारः ।
परिपाकः सवासनक्लेशनिर्मोक्षः ।
एतेन साड्गोपाड्गो योगो दर्शितः ।
शड्कामुक्वा भाष्यमुत्तरयति–तत्रेदमुपनिष्ठत इति तथापि न्यायस्य गुरुपायत्वे न परिहृतम्, न्यायनिर्णोतार्थस्यापि प्रवृत्त्यपेक्षाणात् ।
प्रवृत्तस्य न्यायानपेक्षणादित्यत आह–एतदुक्तं भवतीति ।
ननु उभयोरपि तुल्यत्वे कुतो विशेषात् प्रमाणमेव व्युत्पाद्यते न प्रवृत्तिपरीत्यत आह–तथापीति ।
श्रवणमनननिदिध्यासनसाक्षात्कारलक्षणाया प्रवृत्तेः स्वरूपतः फलतश्च प्रमाणान्तर्भूतत्वात् तद्व्युत्पादनमेव प्रवृत्तिव्युत्पादनम् ।
न च प्रवृत्तिव्युत्पादनेन प्रमाणं व्युत्पादितं भवति ।
न हि प्रवृत्तेः फलं प्रमाणं तत्स्वरूपं वेत्यर्थः ।
ननु शास्त्रार्थस्य प्रयोजनव्युत्पादनावसरे प्रमाणमर्थवदिति कुतः? न हि प्रमाणं शास्त्रर्थः, अपि तु न्याय इत्यत आह–सामान्याभिधानं चेति ॥
तदनेन प्रबन्धेन निष्प्रयोजनत्वाशक्यप्रयोजनत्वानभिमतप्रयोजनत्वोपायगौरवशड्काः परिहृताः ।
तत् किमपरमवशिष्यते यदर्थं लोकवृत्तमनूद्यत इत्यतः प्रथम तात्पर्यमनुस्मारयन्नेव वार्त्तिकमवतारयति–प्रामाण्येति ।
अप्रमाणेनेत्यत्रापि यद्यपि वाञ्मनसविसंवादः निषेधविध्युपाय एव हि प्रमाणम् ।
तस्मान्निषेधोपायतां जानतो ऽप्यप्रमाणेन निषेधामीति वचनं मनोविसंवाद्यव ।
तथापि व्यामोहादप्युपपत्तेरेवम्भूताभिप्रायस्थैर्ये ऽपि नास्माकं काचित् क्षतिरित्येतावता अनुज्ञैवात्तरं दत्तम्–वाड्मनसयोर्विसंवाद इति ।
प्रामाण्याग्रहे प्रमाणेनेत्येवं वक्तुं न शक्यते ।
ततः प्रमाणेनेत्येवं वदतो ऽवश्यं प्रामाण्यं मनसि विपरिवर्तते ।
तथा चागृहीतप्रामाण्येनेति वचनं मनोविसंवादीत्यर्थः ।
लोकवृत्तमबाधितो व्यवहार इत्यर्थः ॥
ननु प्रमाणेन खल्वयं ज्ञातेत्यादि, भाष्यं लोकवृत्तानुवादो ऽस्तु ।
प्रमाणत इत्यादि पुनः कथमित्यत आह–कारणप्रदर्शनद्वारेणेति ।
न हि लोकवृत्तं स्वरूपेणोपयुज्यते ।
किं तर्हि? तस्यावश्याभ्युपेयतया तदुपायो ऽप्यवश्याभ्युपेय इत्यनेनाभिसन्धिना सोपायमेव तदनूद्यत इत्यर्थः ॥
आगामिभाष्ये हेयादीनां स्फुटत्वात् तस्येदानीमक्षरार्थो व्याक्रियत इति मा शड्किष्ठा इत्याह–अस्यैवेति ।
वार्त्तिकसम्बद्धो ग्रन्थोर्ऽथपदानीत्याकारो वार्त्तिकग्रन्थस्तस्य ।
तादृश एव भाष्यगतो भाष्यसम्बद्धो ग्रन्थस्तस्येत्यर्थः ।
अमिधेयानां पौर्वापर्यनियमाय गुणप्रधानभावे जिज्ञास्यमाने अभिधानरूपस्य शास्त्रस्य कः प्रस्ताव इत्यत आह–शास्त्रशब्द इति ।
एवं तर्हि हेयादीनां शास्त्रार्थरूपतया न पृथक्कोटित्वम् ।
तथा चैककोटिकतया किमपेक्ष्य गुणप्रधानभावचिन्तेत्यत आह-अत्र चेति ।
कथं पुनरनेन प्रमाणादिचतुर्वर्गो ऽत्र लभ्यते इति वार्त्तिकमनुक्तोपालभ्भो मा भूदित्यत आह–तेनेति ।
तन्मूलत्वाद् इतरसिद्धेरिति ।
सिद्धिः प्रतीतिर्निष्पत्तिश्च ।
तत्र हेयोपाययोः प्रतीतिरेव ।
अधिगन्तव्यस्य तु प्रतीतिर्निष्पत्तिश्च ।
यद्यपि च हानस्यापि प्रमाणरूपस्य प्रतीतिरस्त्येव, तथापि प्रमाणादेवेति तदितरेत्युक्तम् ।
निष्पत्तिस्तु हानस्याज्ञानादेव यस्मात् किं तज्ज्ञानेन? ज्ञानात् तु यस्मात् तस्य प्रमाणायत्तत्वमेवेति भावः ।
प्रमात्रादिचतुर्वर्गे तु प्रमातृप्रमेययोः सिद्धिः प्रतीतिरेव ।
प्रमायाश्च निष्पत्तिरपीति ।
तदिदमुक्तम्–प्रमायाश्च तत्कार्यत्वादिति ।
ननु प्रमात्रादीनामपि प्रयोजनवत्त्वादर्थवदित्यनेन किं प्रमाणस्याधिक्यमाहितमित्यत आह–अतिशायने मतुचिति ॥
नन्वस्य चतुर्वर्गद्वयस्य निःश्रेयसाधिगमं प्रति विकल्पः, समुच्चयो वा? उभयमाप्यनुपपन्नमभिन्नत्वात् तथा हि य एवार्थः प्रमाता प्रमेयं प्रमितिरिति स एव हेयो ऽधिगन्तव्य इति य एवार्थो हानोपायाविति स एव प्रमाणमिति ।
संशयादीनामपि न्यायपरिकरतया न्यायशरीरत्वात् तस्य च प्रमाणत्वादिति ।
तस्मात् अभिन्नत्वात् न वचनभड्गिभेदमात्रेण विकल्पः ।
नापि समुच्चयः ।
न हि भवति तरूणा वा वृक्षेण वेदं साधनीयं तरूवृक्षाभ्यां वेत्यत आह–विवक्षाभेदेनति ।
तदनुपपत्तेरित्यत अनेन निमित्तभेदमभिप्रैति ।
तेनायमर्थः यद्यप्युभयत्रापि षोडशैव पदार्थाः सङ्गृहीताः, तथापि यथा प्रमाण्त्वेन प्रमाणं ज्ञेयं तथा हानत्वेनापि ।
अन्यथा हानान्तरमनुश्रियेत ।
निरर्थकं च प्रमाणंस्यात् ।
प्रमाणत्वे चाज्ञाते हानता न निर्वहेत् ।
यथा च स्वरूपेण संशयादयो ज्ञेयाः प्रमाणपरिकरतया तथा हानोपायतयापि ।
अन्यथोपायान्तरमनुश्रियेत ।
निरर्थकाश्चैते स्युः ।
परिकरत्वे चाज्ञाते उपायता न निर्वहेत् ।
यथा च शरीरादयो दश प्रमेयतया ज्ञेयाः तथा हेयतयापि, अन्यथा अहेयाः स्युः ।
हेयान्तरं चानुश्रियेत ।
प्रमेयत्वे चाज्ञाते हेयता न निर्वहेत् ।
यथा चापवर्गः प्रमेयतया ज्ञेयः, तथा अधिगन्तव्यतयापि ।
अन्यथा अधिगम्यान्तरमनुश्रियेत ।
अनुपादेयश्च स्यात् ।
प्रमेयतया चाज्ञाते ऽधिगन्तव्यता न निर्वहेत ।
यथा चात्मा प्रमेयतया अधिगन्तव्यः, तथा प्रमातृतयापि ।
अन्यथा प्रमात्रन्तरमनुश्रियेत, अनवस्था च स्यात् ।
प्रमेयत्वे चाज्ञाते सोपाधिनिरूपाधिरूपतया
हेयोपादेयते न निर्वहेचाताम् ।
यथा च बुद्धिर्बुद्धित्वेन तथा तभ्देदः प्रमितितयापि ।
अन्यथा प्रमित्यन्तरमनुश्रियेत, निष्फलं वा प्रमाणं स्यात् ।
प्रमेयत्वे चाज्ञाते हेयता न निर्वहेदिति ।
तस्मात् त एव प्रमाणादयः उभयथा ज्ञायन्तामिति विवक्षित्वोभयचतुर्वर्गोपादानं कृतमित्यर्थः ॥
यदप्युक्तं कैश्चित्–हेयहानोपायाधिगन्तव्येष्वेव चतुर्षु पुरुषार्थः परिसमाप्यते ।
यथा लोके हेयः कण्टकः ।
हानमुपानत् ।
तदुपायस्तु पादुकाकृदातिः अधिगन्तव्यो दुःखाभावः ।
शास्त्रे च हेयो रोगः ।
चिकित्सा हानम् ।
तदुपायो निदानज्ञानम् ।
अधिगन्तव्यमारोग्यमित्यतश्चतुर्षु वक्तव्येषु षोडशपदार्थवर्णनं क्कोपयुज्यत इति तदापि निरस्तम्, चतुर्वर्गस्यैव विवक्षाभेदात् षोडशधा भेदेनाभिधानात् ।
विवक्षाभेदस्य चोपपत्ति प्रतिपदं भाष्यकार एव दर्शयिष्यति ।
एतदवगम्यैव येनाधिकं चोदितं तन्मतमपाकरोति–एतेनेति ॥
व्याख्यायते अवयवश इति विशेषणे क्रियायास्तात्पर्यम् ।
न तु विशेष्ये इत्यर्थः ।
एतदेवात्तरत्र स्फुटयति–तत्रास्यावयवेष्विति ।
कस्मात् प्रमाणादिति नाभिहितम्? एवं ह्यसन्दिग्धैव पञ्चमी स्यादित्यर्थः ।
अस्येति प्रकृतपञ्चमीपरामर्शे लिङ्गासङ्गति रित्यत आह–अस्येति ।
पञ्चम्याः तसेः प्रयोगं दर्शयित्वा पञ्चमीव्यतिरेकेण तसेः आक्षेपसमाधाने असङ्गते इत्याक्षेपं व्याख्यायावतारयति–वचनव्याप्त्यर्थमिति ।
ननु प्रमाणाभ्यां प्रमाणैरिति भवतं सम्प्लवः, प्रमाणेनेति तु कथमित्यत आह–यत्र द्वयोदिति ।
विषयैकतामात्र सम्प्लवः, न तु कारणानां समुच्चयः ।
तथा सति फलभेदो न स्यात् ।
नापि समुच्चितानां करणत्वम् ।
तथा सति व्यापारभेदो न स्यादिति ज्ञापनार्थमित्यर्थः ।
अत एवेति ।
एवकारः साधकतमान्तरं व्यवच्छिन्दन् तस्य व्यापारं फलं च व्यवच्छिनत्ति, न त्वस्य स्वव्यापारुलयोरितरेतरनैरपेक्ष्यं दर्शयति, तस्य सम्प्लवे ऽपि सम्भवादित्यर्थः ॥
कस्मात् पुनः करणार्थो गम्यते? प्रकृतिप्रत्यययोः कतरस्मादित्यर्थः ।
अयमाशयः ।
यदि तृतीयया करणत्वमभिधीयते किं प्रकृतिस्थेन ल्युट्प्रत्ययेन? अथ तेनैव, किं तृतीययेति? ज्ञापकस्य कारकत्वशड्का मा भूदित्यत आह–अर्थमर्थाधिगतिमिति ।
ननु हेतुकरणभावो ऽवगम्यतामित्येतदर्थं विभक्तिव्याप्तिरास्थीयते प्रमाणमिति, प्रातिपदिकादेव साक्षात्करणत्वमर्थतो हेतुत्वं गम्यत इति किं विभक्तिव्याप्त्येत्यत आह–अत्र चेति ।
न च वाच्यं करणभावेनापि प्रमाणफलयोस्तादात्म्यं प्रतिषेद्द्धुं शक्यम्, तत् कि तन्नान्तरीयकहेतुतभ्दावामिधानार्थं पञ्चम्येति, साधाकत्वमात्रस्यैव सामर्थ्ये तमबर्थस्यासमर्थत्वात् ।
तत्र विप्रतिपत्तेश्च ।
कस्मादिति प्रश्नार्थमभिप्रेत्याह–प्रमाणप्रतिपदिकेति ।
तदेवमनुवादकत्वं
समर्थयता ल्युट्तृतीययोः पौनरूक्त्यं समाहितम् ।
न
चानुवादकत्वं शब्दाभ्यासस्य प्रयोजनवत्ताव्यतिरेकेण सिध्यतीत्यतः प्रयोजनं दर्शयति–प्रमाकारकान्तरेभ्य इति ।
लौकिके तु प्रयोगे सङ्ख्याभिधानाद्विभक्तेः सार्थकत्वं द्रष्टव्यमिति ।
विशिष्टविषयत्वेन सम्प्लवाक्षेपो ऽसङ्गत एव, अग्न्यादिविशिष्टे पर्वतादौ प्रत्यक्षानुमानयोः सम्प्लवादित्यत आह–विशिष्टो भिन्न इति ।
विषयत्वसामान्याभिप्रायमेकवचनम् ।
अर्थसमार्थ्यसमुत्थं प्रत्यक्षं यतो ऽतोर्ऽथगोचरम् ।
तत् किं हेतुत्वमेव विषयलक्षणम्? नेत्याह–स एव चार्थ इति ।
किमतो चद्येवमित्यत आह–न च सामान्यमिति ॥
ननु च सांव्यवहारिकं स्वलक्षणमप्येवमेवेत्यत आह–स्वलक्षणमिति ।
देशकालाननुगतं विचारसहमित्यर्थः ।
ननु यद्यपि प्रत्यक्षं न सामान्यरूपमवगाहते तथापि यद्यनुमानमपि स्वलक्षणमवगाहेत तत एव तावतापि सम्प्लवः स्यादित्यत आह–न चेति ।
ननु भवत्वनुमानं सामान्यमात्रनियतम्, प्रत्यक्षमपि ह्यत्र प्रवर्त्स्यति ।
भविष्यति च सामान्यमपि सत्त्वादाकाराधायकमतो ऽपि सम्प्लवसिद्धिरित्यत आह–न चेति ।
भवितुमर्हति परमार्थसदिति शेषः ।
विचारासहत्वादित्यभिप्रायः ।
तत् किं सामान्यस्यासत्त्वात् स्वलक्षणे च प्रतिबन्धग्रहासम्भवादनुमानं निर्विषयमेवेत्यत आह–तदिदमिति ।
तत् किमनुमानमप्रमाणमेव अपरमार्थगोचरत्वात्? यद्येवं कथं तदन्यदुल्लिख्यान्यत्र प्रवर्तयति ।
कथं च तदविसंवादकम्? कथं च बाधिताकारं प्रमाणतया व्यवहियत इत्यत आह-तस्मादिति ॥
ननु प्रमाणान्तरेण सह सम्प्लवो भविष्यत्यनयोरित्यत आह–न चेति ।
नन्वस्ति शब्दादिकमित्यत आह–प्रमाणस्येति ।
ननु नान्तर्भवत्येवास्वलक्षणविषयत्वाद् विषयाप्रतिबद्धत्वाच्चेत्यत आह–अनन्तर्भावे चेति ।
ननु स्वलक्षणसामान्यलक्षणयोर्व्यवस्थायामपि प्रत्यक्षानुमानयोर्विषयान्तरे सम्प्लवो भविष्यत्यनयोः ।
अस्ति हि विषयान्तरं तद्वदित्याह–न चेति ।
न ह्यसता सामान्येन परमार्थसत् स्वलक्षणं तद्वद् भवितुमर्हति, सदसतोः सम्बन्धाभावादित्यर्थः ।
सो ऽयं गहनः पन्था इत्याशयवान् आह–यथा चैतदिति ।
विशेष इत्यत्र यदि कर्मकारकं न च
ततस्तद्वन्नामापरो ऽस्तीत्यत आह–विशेष इति सम्प्लवममृष्यमाण इदमाह मीमांसह इति शेषः ।
अधिगतं चार्थमित्यादिवार्त्तिकस्याधिगतत्वादिवार्त्तिकादधिकार्थतां विवक्षत्राह–स्यादेतादित्यादि ।
अधिगतेर्ऽथे प्रमाणान्तरस्य न तावदर्थाधिगमं प्रत्युपयोगः, तस्य प्रागवे प्रमाणान्तरसिद्धत्वात् ।
नाप्यन्त्तरोत्तरव्यवहारप्रवाहनिर्वाह प्रति, तस्यापि तज्जन्यसंस्कारप्रभवस्मृतिसन्तति सिद्धत्वात् ।
न च वाच्यं स्मृतिसन्ततिरधिगतिसन्ततिर्वा अस्तु व्यवहारप्रवर्तिनी न कश्चिद्विशेष इति, स्मृतिवदुपदर्शितार्थमात्रविषयतया तासामप्रमात्वेन तत्साधानस्याप्रमाणत्वप्रसङ्गात् ।
तासां च तत एव स्मृतित्वप्रसङ्गात् ।
स्मृतिसन्ततेश्चावश्यम्भावितया तत एव व्यवहारिसिद्धावधिगतिसन्ततिकल्पनायां कल्पनागौरवप्रसङ्गादित्याशयवान् पिष्टपेषणमेवोपसंहरति–अधिगतमिति ॥
ननु अन्यथेति वार्त्तिके यदि कारणगतमन्यप्रकारत्वं विवक्षितं तदा कारणगतप्रकारभेदे ऽपि न कश्चिद् विषयगतो विशेषः पिष्टपेषणपरिहारोपयोगी दर्शितः स्यात् ।
अथ विषयगत एव प्रमारभदो दर्शितः, तदा अनधिगतार्थगन्तृतया कुतः सम्प्लवः? न च विषयाभेदे ऽपि प्रमाणभेदात् कश्चित् फलप्रकारभेदः प्रकृतोपयोगवानस्तीत्यत आह–अयमभिसन्धिरिति ।
पिष्टपेषणे निष्फलत्वं वा स्यात्, अविशिष्टफलत्वं वा, अनपेक्षितफलत्वं वा, अधिगते ऽप्यर्थे किमित्यधिगतिसाधनमधिगति करोतीति प्रश्नमात्रं वा, साधनासम्भव एव वेति ।
तत्र साधनासम्भवं दूषयति–न हीति ।
स्वकारणप्रतिबन्धे हि प्रमाणं न स्यात् ।
न च विषयाधिगमः प्रमाकारणविरोधी, येन तस्मिन्, सत्चेव प्रमाकारणमकारणं भवेत् ।
तस्मादालोच्य स्वयमेव निवर्तेरत् यदि चेतयेरन्, न चैतदस्तीत्यर्थः ।
प्रश्नमात्रं दूषयति–नापीति ।
अनपेक्षितफलत्वमुत्थाप्य निराकरोति–प्रमातुरिति ।
निष्फलत्वं निराकरोति–तस्मादिति ।
प्रत्युत्पन्नकारणसामग्रीजनितत्वं तात्कालिकासाधारणकारणविशिष्टसामग्रीजनितत्वम् ।
एतेनानुभवत्वं दर्शितम् ।
स्मृतेर्ह्यसाधारणं कारणं संस्कारः, आत्मान्तःकरणादीनां ज्ञानान्तरसाधारण्यात् ।
स च चिरकालोत्पन्नो न प्रत्युत्पन्नः ।
यत्तु प्रत्युत्पन्नमुद्बोधापरनाम सहकारि न तदाधारणम् ।
अनुभवस्य तु चतुष्टयसन्निकार्षाद्यसाधारणम् ।
तच्च प्रत्युत्पन्नं प्रत्यग्रमुत्पन्नम् ।
तथाभूता बुद्धिरबाधितेति शेषः ॥
अविशष्टफलत्वमभ्युपेत्य पराभिप्रायं निराकरोति–तज्जनकानीति ।
प्रथमप्रमाणफलतो ऽप्यविशिष्टफलतया यद्यानर्थक्यम्, द्वितीयवत् प्रथमप्रमाणस्यापि द्वितीयाविशिष्टफलतया आनर्थक्यं स्यात् ।
अनपेक्षत्वत् सार्थकमिति
चेत्? एवं तर्हि द्वितीयस्यापि स्वफले ऽनपेक्षत्वमेव ।
तत्फलं प्रमारूपमेव न भवति ।
गृहीतमात्रगोचरत्वात् स्मृतिवदित्यपि न
युक्तम्, यथार्थानुभवत्वनिषेधे साध्ये कालातीतत्वात् ।
अनधिकार्थत्वे च सिद्धसाधानात्, साध्यसमत्वाच्च ।
व्यवहारनिषेधे च तन्निमित्तविरहोपाधिकत्वात्, बाधितत्वाच्च ।
प्रमाव्यवहारनिमित्तं च वक्ष्याम इत्यर्थः ।
एवे तर्हि वार्त्तिकार्थः क इत्यत आह–स एव चेति ।
ननु फलस्यापि साक्षात्कारासाक्षात्काररूपः प्रकारभेदो ऽस्त्येव, स एवानेन किं न प्रदर्श्यत इत्यत आह–यद्यपीति ।
आदिग्रहणेन कारणगतो ऽपीन्द्रियलिङ्गादिरूपः प्रकारभेदः सङ्गृहीतः ।
कारणभेदसम्प्लवनिरासार्थमेव हि परः प्रत्यवस्थितः ।
स कथं तेनैव प्रतिबोधनीयः? परप्रतिबोधश्च प्रकृतः ।
तदिदमुक्तम्–प्रकृतानुपयोगादिति ॥
एवं सिद्धं प्रमाणं हृदि कृत्वा सम्प्लवव्यवस्थे विचारिते ।
सम्प्रति प्रमाणस्वरूपं निरूप्यत इत्याह–विभक्त्यर्थमिति ।
अवधारणमिति ।
यदि निश्चयो ऽभिमतः स्यात् तस्य नावश्यं संशयपूर्वकत्वमिति सन्दिग्धस्य प्रश्न उपपन्नः स्यादत आह–अवधार्यत इति ।
तथा च विचारस्य परीक्षाया अवश्यं संशयपूर्वकत्वादग्रे
सन्दिग्धस्य प्रश्नो युक्त इति भावः ।
सन्देहकारणत्वन विप्रतिपत्तिमाह–केचिदिति ।
प्रमाणं हि करणविशेषः ।
करणं च साधकतमम् ।
न च साध्यसिद्धौ तज्जातीयस्य साधकतमत्वमस्ति, छिन्ने वृक्षे परशोरिव ।
तस्माद् यथैवाच्छिन्नविषयतया व्याप्रियमाणः परशुः छेदनं तथा प्रमिते विषये व्याप्रियमाणमिन्द्रियादिकं प्रमाणमिति मोमांसकाः ॥
मतान्तरमाह–विषयसारूप्यमिति ।
फलं तावत् प्रमाणस्यार्थप्रतीतिरेव प्रमारूपत्वात् ।
न हि प्रमाणस्यार्थे प्रमातिरिक्तमपि किञ्चित् कर्तव्यमस्ति ।
प्राप्तिरपि प्रवृत्तिरेव ।
प्रवृत्तिरपि प्रवृत्तियोग्यार्थोपलम्भनमेव ।
तस्मात् प्रमाणस्यार्थप्रमीत्यतिरिक्तं न ।
किञ्चित् फलमिति, यदाह–तदेव प्रत्यक्षज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वादिति ।
प्रमाणमपि तदेव यदर्थं व्यवस्थापयति ।
अर्थमपि तदेव व्यवस्थापयति यदर्थप्रतीतिं तदीयतया नियमयति ।
तथात्वेनानियतायां तु तस्यां न कस्यचित् सा प्रतीतिः ।
सर्वस्य वेति नार्थेन नियता प्रतीतिः स्यात् ।
अनियतार्थप्रतीतिजनकं च कथं प्रमाण नाम? न चेन्द्रियादिभिर्ज्ञानकरणैर्ज्ञानं तदीयता नियम्यते ।
न हि चक्षुषा जनितत्वादेव नीलस्य नीलविज्ञानम्, पीतज्ञानस्यापि तथात्प्रसङ्गात् ।
अपि तु नीलाकारत्वादेव नीलज्ञानं नीलस्य ।
तस्मादर्थाकार एवबुद्धिगतो बुद्धिं तदीयता व्यवस्थापन्नर्थमपि तथा व्यवस्थापयति ।
ततश्चार्थव्यवस्थापनहेतुत्वात् स एव प्रमाणं यदाह–अर्थसारूप्यमस्य प्रमाणम्, तद्वशेनार्थप्रतीतिसिद्धेरिति ।
अर्थप्रतीतिसिद्धेः अर्थप्रतीतिव्यवस्थितेः, तथा चार्थव्यवस्थितेरिति यावत् ।
न चाभिन्नात्मनि करणफलभावो विरुध्यते, तत्र कारणभवस्यैव विरोधात् ।
स हि व्यापारव्यापारिभावो वा, गम्यगमकभावो वा स्वीक्रियते एव ।
वृक्षादिभिः संयुज्यमान एव हि परशुः संयोगेन व्यापारेण करणमिति व्यवह्नियते लोके ।
न च संयोगो नाम विग्रहवानन्यः संयुज्यमानात् परशोरस्ति ।
गम्यगमकभावो ऽपि स्वप्रकाशे विज्ञाने बाह्ये च वृक्षे शिशपया गम्यमाने दृष्ट एव ।
न हि शिंशपातः कश्चिदन्यो वृक्षो ना वृक्षाद् वा शिंशापा ।
वैकल्पिके तु व्यवहारे यथात्र व्यावृत्तिभेदस्तथा आकारतद्वतोरपीति न कश्चिद् विशेष इति सौत्रान्तिकाः ॥
मतान्तरमाह–विज्ञानस्यैवेति ।
अर्थप्रकाशने हि यस्य व्यापारस्तदेव प्रमाणम् ।
प्रकाशनं च चैतन्यरूपं तस्यैव यश्चेतयते ।
न चेन्द्रियादीनि करणान्यपि तथा, जडरूपत्वात् ।
न हि ज्ञानानिरिक्तः कश्चिच्चेतनो नाम ।
तस्माद् विज्ञानमेव चेतनतया दर्शनव्यापारम् ।
तथा च प्रमाणम् ।
व्यापारव्यापारिणोश्चाभेद एवं संयुज्यमानपरशुवदिति निराकारवादिनो वैभाषिकादयः ॥
मतान्तरमाह–उपलब्धीति ।
वृद्धाः प्रमाणवृद्धाः ।
एतेन पूर्वेषां बालत्वं सूचयति ।
भावप्रश्नव्याख्यानेन भवितृप्रश्नो व्याख्यात इति तु सहेत्यश्याहृत्य केचिद् व्याचक्षते ।
केचित् तु भावप्रश्नव्याख्या बोद्धव्या अनेन भवितृप्रश्नो व्याख्यात इति ।
अन्ये तु भवाप्रश्नव्याख्यानेन हेतुना भवितृप्रश्नो व्याख्यातो भावप्रश्नं व्याख्यातुं भवितृप्रश्नो व्याख्यातः, तदन्तरेण तदनुपपत्तेरिति ।
लिपिप्रमादो ऽयमिति सम्प्रदायविदः ।
व्यभिचारो विसंवादः ।
अनर्थवत्त्वं विपरीतर्थत्वम् ।
अतो न साध्याविशिष्टता ।
ननु स्थाणुर्वा पुरुषो वेत्यत्रोपदर्शितयोरन्तरः प्राप्यत एव, तत् कथं विसंवादकत्वम्? कथं चार्थवत्त्वमित्य आह–नो खल्विति ।
यतो न प्राप्यते, अत एव नार्थक्रियासूपयुज्यते,
अप्राप्तेरनुपयोगाच्च नास्तीत्यर्थः ।
यद्यप्यनुभावाभिप्रायेणोपलब्धौ व्याख्यायमानायां स्मृतिहेतौ नास्ति प्रसङ्गः ।
स्मृतेरननुभवत्वात्, तथापि–
बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ।
इति सूत्रयोपलब्धिशब्दो ज्ञानपर्यायः स्वीकृतः ।
अस्ति च स्मृतेरपि ज्ञानत्वमित्यनेनाभिप्रायेणोक्तम्–न ह्यसाविति ।
अतीतार्थे परम्परया तत्कार्यतयापि शब्दलिङ्गादेरर्थसम्बन्धो ऽस्ति, अनागते तु सो ऽपि नास्तीत्यत आशड्कितं ज्ञापकतयेति ।
संस्कारस्यापीति ।
तस्यापि तरम्परया अर्थकार्यत्वमर्थज्ञापकत्वं च साक्षात् समानमित्यर्थः ।
स्मृतिरूपोपलब्धिहेतोः स्मृतिरूपज्ञानहेतोरित्यर्थः ।
परिहरति–नैवमिति ॥
ननु न स्मृति ।
प्रमेत्यत्रैव विवाद इत्यत आह–लोकेति ।
अनेन प्रमाशब्दप्रवृत्तिनिमित्त्ग्राहकं प्रमाणमपलक्षयति ।
तथा हि, न तावद् अस्य स्मृतित्वमेव प्रवृत्तिनमित्तम्, अनुभवस्याप्रमात्वप्रसङ्गात् ।
नापि तदेकार्थमसवेतं ज्ञानत्वादिकं तन्निमित्तम्, येन स्मृतिरपि प्रमा स्यात्, विपर्ययस्यापि तथात्वप्रसङ्गात् ।
नापि प्रमात्वं नाम सामान्यविशेषः समस्ति ज्ञानगतस्य सामान्यविशेषस्य मनोमात्रग्राह्यत्वात् ।
प्रमात्वस्य चानुमेयतया प्रागेव प्रतिपादितत्वात् ।
किं च यदि प्रमात्वं सामान्यविशेषः स्यात्, तदा तदभाववति तद्विरुद्धसामान्यवति वा विपर्ययज्ञाने न समवेयात् ।
तथा च विपर्ययज्ञानं धर्मिण्यपि न प्रमाणं स्यात् ।
एवं च तत् निरालम्बनमापद्येत ।
सामान्यं च सामान्यान्तरेण सह परापरभावेन एकस्यां व्यक्तौ समाविशेत् ।
तत्रानुभत्वं वा परं प्रमात्वं वा? आद्ये स्मृति कथं प्रमा? द्वितीये त्वनुभवः प्रमात्वं न व्यभिचरेत् ।
तथा च विपर्यायो ऽपि दत्तजलाञ्जलिः स्यात् ।
साक्षात्कारित्वे च यदि परं तदा असाक्षात्कारवत्यो ऽनुमितिप्रभृतयो न प्रमाः स्युः ।
अथापरम्, विपर्ययबुद्धिर्न साक्षात्कारवती स्यात् अप्रमात्वादिति ।
तस्मात् न प्रमाणत्वं सामान्यविशेषः ।
यथार्थत्वमायातमिति चेत्–न, स्मरामीत्यत्रापि प्रमिणोमीति बुद्धिव्यपदेशप्रसङ्गात् ।
इष्ट एवायमिति चेत्–न, रिश्वरेतरेच्छामात्रेण लौकिकप्रयोगाप्रयोगयोर्नियन्तुमशक्यत्वात् ।
तेनैवायं प्रमाणशब्दो यथार्थज्ञानमात्रे नियतः कृत इति चेत्–न,
महर्षिभिस्तदभियुक्तैः स्मृतिफलस्य प्रमाणत्वेनापरिसङ्ख्यात् ।
उक्तेष्वन्तर्भावादपरिसङ्ख्यानमिति चेत्–न, प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः ।
लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति ॥
किं च स्मृतेर्याथार्थ्यमपि कृतः? न हि यादृशोर्ऽथः स्मर्यते यदा तादृश एवासौ तदा, पूर्वावस्थाया वर्तमाने निवृत्तत्वात् ।
अनवृत्तौ हि पूर्वतैव न स्यात् ।
न च निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते, पूर्वावस्थानिवृत्तेरननुभूतत्वात् ।
अननुभूते चार्थे अननुभूतं संस्काराभावात् ।
ननु समानविषयत्वेपि स्मृत्यनुभवयोरनुभवो यथार्थो, न तृ स्मृतिरिति कृत एतत्? अनुभवकाले तस्यार्थस्य तादवस्थ्यत्, स्मृतिकाले त्वतादवस्थ्यात् ।
ननु पूर्वं तावत्तदवस्थ एवासावासीत्, एतावतैव ज्ञानमस्तु यथार्थम् ।
न, प्रमारक्ते ऽपि श्यामताप्रत्यस्य यथार्थत्वप्रसङ्गात् ।
नन्वतीतः श्याम इति प्रत्ययः तत्र यथार्थ एव ।
सत्यम्, तद्विषयस्य तदानीमेव तदवस्थत्वात् ।
न तु स्मर्यमाणार्थः तदानी तदवस्थः ।
तस्मात् स्मृतिरयथार्थैव ।
यथानुभव तु भवेत् ।
तत्रानुभवस्य यथार्थत्वात् तदेकविषया स्मृतिरपि यथोर्थेत्युच्यते ।
अत एवानुभवस्यायथार्थत्वे स्मृतिः अवपिरीताप्ययथार्थैव ।
यथा रज्जुं भुजङ्गतया अनुभूय विद्रुतस्य तथैव स्मृतिः ।
तस्मात् स्मृतेर्याथार्थ्यं याचितकमण्डनप्रायम्, नाजानिकम् ।
इदमेव पारतन्त्र्यपदवाच्यं कैश्चिन्निरुक्तिकुण्ठैरन्यथापप्लूत इति ।
तस्मादुभयथापि स्मृतेरन्यस्यानुभवत्वैकनियतं यथार्थत्वमेव प्रमापदस्य प्रवृत्तिनिमित्तं लोको ऽवधारितवान् ।
कथमन्यथा तत्रैव प्रमाशब्दं प्रयुड्क्ते नान्यत्रेति यद्यपि, तथापि धर्मिण्यपि स्मृतेः प्रमाण्यं माभूदित्याशयवान् प्रागुक्तयुक्तिकं लोकप्रयोगमवाश्रितवान् ।
तदिदमुक्तम्–लोकश्चेति ।
एवं तावद्यथार्थो ऽनुभवः प्रमा ।
तत्साधनं च प्रमाणमिति स्वलक्षणमाशड्कितातिव्याप्तिनिराकरणेनादुष्टमिति समाहितम् ॥
न चैतन्मीमांसकस्याप्यनभिमतम् ।
न हि तेनाप्यत्राव्याप्त्यतिव्याप्ती प्रसञ्जयितुं शक्येते ।
न ह्यस्ति सम्भवो मीमांसकस्यापि यथार्थानुभवो न च प्रमेति ।
तल्लक्षणे त्वस्माकं कुतो विप्रतिपत्तिरित्यत आह–अनधिगतार्थगन्तृत्वं चेति ।
उपलक्षणं चैतत् ।
नित्यपदार्थेषु अनधिगतत्वं नाम नास्त्येव ।
यदि नेह जन्मनि जन्मान्तरे ऽप्यधिगमात् ।
यदि न प्रत्यक्षेणानुमानोपदेशाभ्यामपि अनित्येष्वपि प्रायशः उपलब्धानामेवोपलम्भाच्च ।
अन्यथा च प्रत्यभिज्ञानं दत्तजलाञ्जलि स्यात् ।
ततश्च स्वरूपतो ऽप्यनधिगतत्वं बह्वाकुलयेत् ।
प्रकारतो ऽपि भूयो
भूयस्तम्मादिष्वनुभूयमानेषु न कश्चिद् गुणप्रकारः प्रतिक्षणलब्धजन्मापवर्गः परिभाव्यते ।
कर्मकृतो ऽप्याशुतरविनाशी
न प्रतिक्षणमपूर्वः ।
न च चतुःपञ्चक्षणावस्थायिन्यपि तस्मिन्नेकमेवज्ञानं जनयित्वेन्द्रियादिकमुदासीनम् अनागतकर्मादिजन्म प्रतीक्षते ।
ततश्च सर्वजन्मान्तरोपलम्भादन्ये तदुत्तरकालप्रत्यया धारया विच्छेदेन वा भवन्तो न प्रमाणं स्युरित्यर्थः ॥
शङ्कते–नचेति ।
यद्यपि स्वरूपस्य प्रकारस्य वा तथाविधस्य तादवस्थ्यम्, तथापि प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः परिस्फुरति ।
न च क्रमभाविनामेक एव वर्तमानः कालो विषयः, नानाप्रमातृवज्ज्ञानयौगपद्यप्रसङ्गात् ।
प्रत्यभिज्ञानानुपपत्तिश्च, ज्ञानानेकत्वे ऽपि एककालावस्थानाकलनात् ।
तस्मात् पूर्वपूर्वज्ञानैरनाकलित एव वर्तमानोर्ऽथ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेव तत्रापीत्यर्थः ।
परिहरति–परमेति ।
न तावत् प्रतिक्षणवर्तमानत्वं सौगतवद् वस्तुनः एव स्वरूपोत्पादः ।
नापि सङ्ख्यवद् वस्तुरूपस्थैर्ये ऽपि परिणतिभेद एव मीमांसकैः स्वीक्रियते ।
नापि धर्मभेद एव कश्चित्
प्रतिक्षणापूर्वो वर्तमानत्वापरनामा समस्ति ।
न च तैरभ्युपेतः ।
न च कालः प्रत्यक्षगोचरः, नापि भिन्नस्वभावः ।
तस्मात् कालकलाभेदका उपाधय एव कालभेदः ।
तत्प्रत्क्षमेव कालभेदप्रत्यक्षमिति परमार्थः ॥
तत्र न तावत् प्रतीयमानस्तम्मादिसंसृष्टा उपाधयः सम्भवन्तीत्युक्तम् ।
ज्ञाततायाश्च निराकरिष्यमाणत्वात्, धारवहनबुद्धिषु तदभासानाच्च ।
प्रतीयमानेतरसंसृष्टास्तूपाधयः तज्ज्ञानसंसर्गिणो वा स्युरन्यथा वा? न तावत् स्तम्भादिषु तदितरसंसर्गिणः क्षणभड्गुराः केचनावश्यं तज्ज्ञानसंसर्गभाजो भवन्ति ।
क्वचिद् भवन्त्यपीति चेत्, तत्रैव तद्धियां प्रमाणता स्यात् ।
यत्र तु तदेकज्ञानसंसर्गिण उपाधयो न सन्ति तत्र धारावाहिकबुद्धीनामप्रमाणत्वमेव स्यात् ।
तथाविधा एव च विचारविषयत्वेनाभिप्रेता ज्ञानान्तरगोचरा विषयान्तरसंसर्गिण उपाधयो भविष्यन्तीति चेत्–एवं तर्हि धारावहनबुद्धयो न स्युरेव इति लाभाय गतो मूलमपि हारितवात् ।
न खलु प्रमाणान्तरेण इन्द्रियान्तरेण तेनैव वा तद्धर्मिपरित्यागाद्धर्म्यन्तरे अनुभूयमाने विवक्षितैकविषयबुद्धिधारसम्भवः ।
इष्ट एवायमर्थं इति चेत्–न, अपूर्वापूर्वोपाध्युपनिपातनियमे प्रमाणाभावात् ।
अनुपनिपातिनां च ज्ञानान्तरेणाष्यनाकलनात् ।
अत एव घटो ऽयं घटो ऽयमिति बुद्धिसहस्रस्यापि न विषयकृतं विशेषमूपलभामहे ।
अनुपलभ्यमानस्य तु विषयत्वकल्पनायां सर्वसर्वज्ञतापत्तिरिति ॥
तस्मात् स्तम्भादिरेव प्रागभावनिवृत्तिप्रध्वंसाभावानुत्पत्तिरूपो वर्तमानः ।
तदवच्छिन्नः कालो ऽपि वर्तमानः ।
सच तथाविधो ऽनेकज्ञानसाधारण एव ।
न चैतावता ज्ञानयौगपद्यापत्तिः, सूक्ष्मकालापेक्षया क्रमसम्भवात् ।
न च सूक्ष्मोपाधीनामप्रतीतिश्चेदतो ऽसम्भव एव, कार्यक्रमेणैवोन्नीयमानत्वात् ।
नापि प्रत्यभिज्ञानानुपपत्तिः ।
पूर्वज्ञानविषयानुसन्धानमेव हि प्रत्यभिज्ञानम् ।
तच्च ज्ञानक्रमादेवोपपन्नम् ।
तस्मात् कालतदुपाधिप्रत्यक्षत्वे ऽपि न सर्वत्र सूक्ष्मोपाधिसंसर्गः, नापि तत्प्रतीतिः ।
तदिदमुक्तम्–परमसूक्ष्माणामिति ॥
एतेनैतन्निरस्तम्–सिद्धे साधकतमत्वाभावादिति ।
न हि साधकतमस्य तथात्वं साधाकतमान्तरापेक्षया, किं तु प्रधानक्रियाकारकान्तरापेक्षया ।
अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षया अनतिशयितत्वादकरणत्वापत्तेः करणानां समुच्चयः क्वचिदपि न स्यात् ।
इतरकारकापेक्षया तु धारावाहिकबुद्धिष्वपि प्रमाणस्यातिशयित्वमस्त्येव ।
यत्तु छिन्ने कुठारस्याकारणत्वमिति, तच्छिदा लक्षणफलाभावात् ।
न च छिन्ने छिदान्तराभाववान् ।
न च ज्ञाते ऽपि ज्ञानान्तरासम्भवो येनात्राप्यफलत्वादेवाकरणत्वं भवेत्, धारावाहिकज्ञानोत्पत्तेः ।
तस्माद् यो ऽनाधिगतार्थबोधनं प्रमाणमिच्छति, तस्य धारावाहिकबुद्धयो ऽप्रमाः प्रसज्येरन्नित्यर्थः ।
शङ्कते–न चेति ।
प्रवृत्तिं प्राप्तिं च जनयदेव विज्ञानं प्रमा, तदर्थमेव प्रमाणानुसरणात् ।
आद्यं च तथा ।
ततस्तदेव प्रमा ।
द्वितीयादीनां च न प्रवृत्तिप्राप्तिहेतुत्वम् ।
अतो नैतानि प्रमारूपाणि ।
ततस्तज्जनकान्यपि न प्रमाणानीति तदेतदिष्यत एवेत्यर्थः ।
परिहरति–नहीति ।
न ह्यप्रवर्तयदेव विज्ञानमर्थं प्रापयति ।
नापि हठादेव प्रवर्तयति ।
किं त्वर्थोपदृष्टिरूपतया ।
सा च सर्वसमानेत्यर्थः ।
तदिदमुक्तम्–प्रदर्शनं चेति ।
ननु तथापि प्रथमादेवापेक्षितसिद्धः पुरुषस्य किं द्वितीयादिनेत्यत आह–पुरुषेति ॥
स्यादेतत् ।
वादिविप्रतिपत्तयो वार्त्तिककृता न निराकृता ।
नापि विशेषविधानस्य शेषप्रतिषेधविषयवादिति न्यायो नाविरोधात् ।
न ह्यनधिगतार्थगन्तरि सारूप्येवार्थव्यवस्थापयितरि शक्तौ वा
आत्मानात्मप्रकाशयित्र्यामुपलब्धिहेतुत्वं विरुधयते इत्यत आह–उपलब्धीति ।
व्यापकस्याव्यापकविरुद्धत्वादनधिगतार्थगन्तुस्तेन रूपेण प्रमाणत्वमेवार्थान्निषिद्धमित्यर्थः ।
सारूप्यशक्ती निराकरोति–हेत्विति ।
तदीयतया ह्यर्थप्रितीतिं व्यवस्थापयन्नाकारः प्रमाणमिति कोर्ऽथः? न तावत् तदीयतया नियतां प्रतीतं जनयन्, स्वात्मनि क्रियाविरोधात् ।
नापि ज्ञापयन्, स्वात्मीमूतप्रतीतिं प्रति ज्ञानान्तराजनकत्वात् ।
नापि निश्चाययन्, आकारतद्वतोरेकत्वेन व्यावृत्त्योश्चैकनिश्चयगोचरत्वेन निश्चेयनिश्चायकत्वनियमानुपपत्तेः ।
नीलमहं जानमीति ह्यकारनिश्चयः ।
न चातो ऽपरः तदीयतानिश्चयो नाम ।
नीलमिदमित्याकारव्यवसायः प्रर्थमम्, अथ नीलमहं जानामीत्यर्थकर्मकप्रतीत्यनुव्यवसाय इति चेत्–तत् किं बुद्धावनिश्चितायामेवाकारो निश्चितः? न चैतत् सम्भवति, सामान्यानिश्चये विशेषानिश्चयात् ।
निश्र्वीयत एव, परं न तदीयतयेति चेत्–अथ केयमर्थाकारादन्या तदीयता नाम? तदुद्भावत्वमिति चेत्–नन्वेवमनुमितिं भावायन्नाकारः प्रमाणम् ।
ओमिति चेत्–हन्त, हतं तर्हि पामरप्रत्यक्षमतिरिक्तमर्थमनुमापयता आकारेण व्यवस्थापितत्वात् ।
अपि च या क्रिया यत्करणफलत्वेन विवक्षिता, जनयदेव तां तत्करणमिति लोकसिद्धम् ।
न हि छिदामजनयन्तो ऽपि चक्षुरादयस्तन्निश्चायकतामात्रेण छेदनतया वयवह्नियन्ते ।
अपि तु अनिश्चाययन्तो ऽपि जनयन्त एव कुठारादयः ।
तदत्रापि प्रमां जनयदेवानिश्चायकमपि प्रमाणमिति व्यवह्नियताम् ।
न तु तामजनयन्निश्चायको ऽप्याकारः, एवं च लोके ऽनुकूलता ।
अन्यथा तु पिरिभाषां कुर्वता लोको ऽप्रतिपादितः स्यात् ।
न च जन्यजनकयोस्तादात्म्यगन्धो ऽपीति ॥
एतेन शक्तिः प्रमाणमिति प्रत्युक्तम्, शक्तेः शकयनिष्ठत्वात् ।
शकयं च कार्यमुच्यते ।
प्रकाशनं चात्मभूतत्वात् न तस्याः कार्यमिति ।
तदिदमुक्तम्–हेतुहेतुमद्भावस्येति ।
ननु यदि प्रमाण सिद्धम्, किं तत्र प्रमात्रादिना कर्तव्यम्? न हि सिद्धेन सिद्धमेव साध्यते ।
न चान्यत्र चरितार्थस्यान्यत्र कारकत्वमस्ति ।
अथासिद्धम्, कथं प्रमाणम्? न ह्यसिद्धं कारकं नाम ।
नाप्यकारकं करणम् ।
नाप्यकरणं प्रमाणमित्यत आह–अयमर्थ इति ।
करणीभूतस्य परशोः संयोगस्य व्यापारीभूरस्येति शेषः ।
परिणतिविशेषः सहकारिसमवधानम् ।
करणं व्यापार्योत्पाद्य
वा फलार्थं कर्तव्यान्तराभावात् कर्तुश्चरितार्थता ।
करणस्य तु फलेन विना अपर्यवसानमचरितार्थतेत्यर्थः ॥
अथ प्रमेयस्य कथं प्रमाणे चरितार्थत्वम्? न हि प्रमातृवत् तेनापि प्रमाकरणमुत्पाद्यते व्यापार्यते वेत्यत आह–प्रमेयस्य त्विति ।
अयमाशयः ।
सर्वत्र हि कर्मकारककरणफलतद्व्यापारयोर्विषयतया व्यवतिष्ठते ।
तत्र फलविषयत्वमस्य न कर्मत्वं प्रति प्रयोजकम्, असत्त्वेनाकारकस्यापि फलविषयत्वात्, यदाह—केवलमित्यादि ।
करणव्यापारविषयत्वात् तु कर्मत्वम्, न ह्यस्ति सम्भवः कर्म च, न च करणव्यापारविषय इति ।
तत्र करणस्य व्यापारविषयत्वाभावात् व्यापार एव न निर्वहेदिति तन्निर्वाह एवास्य चरितार्थत्वमिति ।
तदिदमुक्तम्–तत्रापीन्द्रियसम्बन्धमात्र इति ।
न च करणमपि कर्तृव्यापारविषयस्तावन्मात्रेणैव चरितार्थमधिकव्यापारवत्त्वात् ।
नापि कर्मव्यापारविषयः करणम् ।
नापि फलविषयः, तदुद्देशेन कर्मणः कर्त्रा अव्यापारितत्वात् ।
फलस्य तन्निरूपणाधीननिरूपणत्वात्, येन कर्मवदस्य चरितार्थत्वं कल्प्येत ।
तस्मात् ।
कर्तृकर्मणोश्चरितार्थत्वे ऽप्यचरितार्थमेव करणमिति ।
समवायित्वविषयत्वकृतां सन्निपत्योपकारकभ्रान्ति प्रयोगाम्यां निराकरोति–तत् सिद्धमेतदिति ॥
यद्यप्यनुमेयाद्यतीताद्यहेतुरेव, तथापि सामान्यनिषेधो विशेषप्रकारमप्याश्रयेतेत्येतावतैव दृष्टान्तत्वम् ।
तस्मात्
तदेव फलहेतुः ।
सन्निपत्येति शेषः ।
कथञ्चिदिति ।
अनाहत्य इत्यर्थः ।
तदनेन कारकान्तरे ऽचरितार्थस्य हेतुत्वमेव करणत्वमिति करणलक्षणं दर्शयता कर्तृव्यापारगोचरः करणमित्यपि करणलक्षणं सूचितम् ।
तथैव टीकाकृता व्याख्यातम् ।
एतच्च यद्वानिति वार्त्तिके स्फुटीभविष्यति ।
अकरणा प्रमाणोत्पत्तिः प्रसज्येत कर्तुः करणे चरितार्थत्वादिति किं केन सङ्गतमित्यत आह–नाकरण इति ।
वस्तुसद्धिप्रधानक्रियासम्बन्धनिबन्धनप्रभृतयः कारकशब्दा इत्याशयवतः चोद्यं यदीत्यादिना बुद्धिसिद्धप्रधानक्रियासम्बन्धनिबन्धनप्रवृत्तयः कारकशब्दा इत्याशयवतः समाधानम्–न पाचकशब्दादिवदित्यादिना इति टीकायां विक्षिप्तस्य वार्त्तिकतात्पर्यस्य सङ्क्षेपः ।
तुल्यवदिति तुलया सम्मितमिव न न्यूनं नातिरिक्तं वेत्यर्थः ।
तदनेन प्रपज्चेन प्रमां प्रमातृप्रमेययोरकारणत्वमेव दर्शितमति भ्रमो मा भूदित्युपसंहारव्याजेनाह–तत्प्रमाणमिति ।
सत्यपि चोपलब्धिसाधनत्वे साक्षादिति शेषः ।
सम्प्रत्ययो झटितिस्फुटप्रत्ययः ।
अत्र हेतुः—सातिशयत्वेति ॥
साधकतमार्थ पृच्छतीति–न तावत् साधकानां फलकृतावतिशयानतिशयौ, तस्यैकस्य सर्वान् प्रत्यविशेषात् ।
नापि व्यापारकृतौ, परस्परव्यापारविलक्षणव्यापारवत्तामात्रस्य सर्वसाधारण्यात् ।
फलानुगुणत्वं तु व्यापारस्याविशिष्टमेवेत्याशयवानिति हृदयशेषः ।
यद्यप्ययोगव्यवच्छेद एवातिशयः, तथापि तुल्यत्वे सत्यप्यतिशयानतिशयौ तस्यैव चिन्त्येते ।
न तु वैधर्म्यमात्रमतिशय इत्यभिसन्धायान्ययोगव्यवच्छेदो ऽपि दर्शितः अयोगान्ययोगव्यवच्छेदाभ्यामिति ।
अमुं चार्थमनन्तरमेव विभावयिष्यति ।
ननु यथा कर्त्रादौ सति फलं नावश्यकम्, तथा करणे ऽपि सति कदाचिन्न भवेत्, कारकत्वाविशेषात् ।
दृश्यते च ।
न हि परशौ सति छिदा भवेत्येवेत्यत आह–प्रमातृप्रमेये हीति ।
उपक्षीणवृत्तिनी इति व्यापारवतः कारकत्वमभिप्रैति ।
तेन परशुरपि व्यापारवानेव सन् करणम् ।
तथाभूतेन च फलस्यायोगव्यवच्छेद एव, न तु व्यापारवतापि कर्त्रादिना, तद्व्यापारेण करणव्यापारस्य सम्पादनविलम्बनात् ।
व्यापारवतस्तु करणस्य नान्यत् सम्पादनीयमस्तीत्यर्थः ।
तदिदमुक्तम्–प्रमाणव्यापारे सति तु भवत्येवेति ।
तदनेन व्यापारवतः फलाव्यभिचारित्वं साधकतमत्वमिति दर्शितम् ॥
कल्पान्तरम्–यद्वानिति ।
परतन्त्रेणेति ।
परव्यापार्येणाश्रीयते अपेक्षत इत्यर्थः ।
एतदेव पूर्वमुक्तमिति स्मारयति–कर्त्रधीनं चेति ।
यद्यपि कर्तृव्यापार्यत्वं करणत्वमिति न व्यभिचरत्येव, तथापि परम्पराव्यापार्येणापि कर्मणा व्यभियारो मा भूदित्याशड्क्य प्रकृते ऽवधारणं सम्भवप्राचुर्यात् कृतम् ।
आगामिवार्त्तिकस्य कल्पान्तरत्वं निवारयति–अस्यैवेति ।
कल्पान्तरमिति ।
पूर्वकल्पविवरणेन पौनरूक्त्यभिया कल्पान्तरं गृहीतं कथञ्चित्
समर्थयति–पूर्वेणेति ।
कर्मणः स्वातन्त्र्यमसम्भवि, ततो विशेषनिषेधो ऽनुपपन्न इत्यत आह–अकतृत्वमिति ।
कल्पान्तरम्–संयोगवदिति ।
अत्रापि कारकान्तरेभ्यः चरमव्यापारं करणमिति लक्षणम् ।
कल्पान्तरम्–प्रतिपत्तेरिति ।
अत्राप्यनन्तरं फलं करणमिति लक्षणम्, विकल्पसमुच्चयाभावात्–चो ऽवधारणे ।
अस्मिन् पक्षे स एतातिशय इत्यर्थः ।
कल्पान्तरम्–असाधारणेति ।
सर्वकरणेष्वसाधारणत्वोपपादनानुपयोगात् प्रकृते प्रमाणे घटयति–चतत्र इति ।
अत्रापि प्रमाविवक्षितजातिभेदव्यपदेशकं प्रमाणमिति लक्षणम् ।
प्रमां प्रति कारणाना साधारणत्वासाधारणत्वे निरूप्यमाणे पुरुषविषयस्य साधारण्यस्य किमायातमित्यत आह–अशेष इति ।
कल्पान्तरम्–प्रमाकारणेति ।
अत्रापि
विवक्षितप्रमाजातिभेदौपयिकत्वेन प्रमित्यसमवायिकारणविशेषकं प्रमाणमिति लक्षणम् ॥
स्वरूपात् कार्यातः कर्तुरर्वाक् प्राक् कर्तृकार्ययोः ।
प्रमाजातेः प्रमाहेतुविशेषान्मानलक्षणम् ॥
इति सङ्ग्रहश्लोकः ॥
तदेभिर्निमित्तैः करणव्यवहारे व्यवस्थाप्यमाने यदि कर्मादिव्यवहारनिमित्तसमावेशात् तद्व्यवहारो ऽपि भवति, भवतु तस्येष्यमाणत्वात् ।
एभिर्निमित्तैस्तु कर्मादिव्यवहारो नेष्यते ।
स तु नास्त्येव ।
तथा हि–सर्वत्र कर्मव्यवहारः करणव्यापारविषयत्वादिभिः, करणव्यवहारश्च कर्तृव्यापारविषयत्वादिभिः ।
तेषां च निमित्तानां भेद एवेति नातिप्रसङ्गः ।
तात्पर्यतो व्याचष्टे–वाक्ये ऽस्फुटत्वादित्यर्थः ।
एवं च सत्यग्रे अर्थ्यत इति व्युत्पत्तिरपि तात्पर्यपरतयैवेति मनतव्यम् ।
कस्मात् पुनरिति ।
न हि प्रमाणविषयस्य प्रमाणस्यार्थवत्त्वमव्युत्पादनीयमेवेति शड्काबीजम् ।
तात्पर्यान्तरमिति ।
कथञ्चिद् भागासिद्धतापरिहारस्य फलस्यैकत्वात् ।
तत् किं प्रवृत्तिसामर्थ्याभावादप्रमाणमेव तदित्यत आह–न चेति ।
कथं तर्हि तत्प्रामाण्यमवसेयमित्यत आह–त्स्यापीति ।
न तावत् सर्वो विषयः सर्वत्र सर्वस्य सर्वदोपक्षणीयः, निर्माणवैयर्थ्यप्रसङ्गात् ।
तथा चानुपेक्षणीयतादशायां प्रवृत्तिसामर्थ्येन तद्विषयस्य ज्ञानस्य प्रामाण्यमवधार्य गृहीतेन तज्जातीयत्वेनोपेक्षणीयतादशायमपि प्रामाण्यं सुग्रहमेव ।
यत्राप्याहत्य प्रवृत्तिर्न भूता तत्राप्यसम्भवद्वाधसंवादित्वं प्रात्यक्षिकमानुमानिकमौपदेशिकं वा तज्जातीयत्वमवसेयमित्यक्षरार्थः ॥
शड्कानिवर्तने मन्द इत्यत आह–अयमभिसन्धिरिति ।
साक्षात् जनकत्वं गृहीत्वा व्यधिकारणत्वशड्का मा भूदित्यवश्यं दर्शनीयम् ।
तच्च प्रमाणस्य प्रतीतिजनकत्वकथनमन्तरेणाशक्यमित्यर्थः ।
कथमयमर्थो वार्त्तिकाल्लभ्यते इत्यत आह–प्रमाणस्य विशेष इति ।
एतावतापि किमुक्तमित्यत आह–एतदुक्तं भवतीति ।
ननु तवायमाशयो न तु वार्त्तिककृत इत्यत आह–तदिदमुक्तमिति ।
तदिदमपरम् अनर्थसूत्रम् ।
न हि प्रतिपत्तिप्रवृत्तिसामर्थ्ययोः
प्रतिपाद्यप्रतिपादकभाव इत्यत आह–अयमर्थ इति ।
ननु अर्थग्रहणेन सर्वसङ्ग्रहो ऽयुक्त एव किमित्याशड्क्यते?
तथाविधशड्कायामनवस्थानादित्यत आह–एकदेशीति ।
व्याघात इति ।
यद्यप्यपवर्गस्य सुखदुःखतद्धेतुभावो नास्ति, अत एव तथात्वेनार्यमाणतयार्थपदेन सर्वसङ्ग्रहो ऽप्यशक्यः, तथापि तदभ्युपगमे व्याघात एव स्फुट इति स एवोक्तः ।
स च शास्त्रावतारेण यदि ह्यपवर्गः सुखदुःखतद्धेतुतया हेयः स्वीकृतः, तर्हि शास्त्रमपि विपरीतप्रयोजनत्वादनारम्भणीयम् ।
शास्त्रप्रमाणयोस्तु सामान्यतो यद्यपि दुःखहेतुत्वम्, तथापि विवक्षितपरमपुरुषार्थविषययोस्तद्धेतुतया दुःखहेतुतां परिभूयोपादेयत्वमेव ।
अन्यथा पुनरपि स एव व्याघातः ।
इतरद्धेयं तावत् प्रमाणेन हीयते ।
प्रमाणं तु प्रमाणान्तरेण हेयं सदनवस्थां सावकाशयति ।
ततश्च सैव प्रमाणव्यक्तिः तेनैव प्रमाणेन हातव्या ।
तच्चाशक्यम् ॥
नन्वशक्यत्वेनाहेयत्वे सुखतद्धेतुत्वेनोपादेयेत्वमपि कथमित्यत आह–न चास्मादिति ।
तस्मादुभयथापि स्वात्मनि क्रियाविरोधेन परमपुरुषार्थहेतुत्वेन च प्रमाणं न शकयहानम् ।
न चैवे सत्यहानिरेवास्य स्यात्, स्वोच्छेदककारणवशेनोपादेयस्य पुरुषप्रयत्नेनाशक्यहानस्यापि सुखवदुच्छेदादित्यर्थः ।
अधिकारादनुवृत्ते रित्यनुपपन्नम्, आदिवाक्यत्वादित्यत आह–प्रवृत्तिसामर्थ्येति ।
अधिकारो योग्यता ।
सा चात्र प्रकृतत्वात् प्रवृत्ति प्रतीत्यर्थः ।
इह हि प्रकरणे समर्थप्रवृत्तिजनकत्वं हेतुरभिप्रेतः ।
स च सुखदुःखतद्धेतुरूपार्थविषयाया एव प्रतिपत्तेरस्ति ।
ततोर्ऽथशब्देन विषयो ऽभिधीयमानः तथाविध एव वक्तव्यो ऽतः प्रकरणविशेषनियम एवाधिकार इतयर्थः ।
एकदेश्युपालम्भे पूर्वहेतुभिः सह हेत्वन्तरस्य समुच्चयं दर्शयन्नाह–न केवलमिति ।
अशक्यत्वादपिं संविदि हेत्वोरसिद्धेरिति शेषः ।
ननु असंवेद्यमानायाः संविदः प्रमाणसद्भावे कथमसंवेद्यत्वम्, तदभावे वा कथं सत्त्वव्यवहार इत्यत आह–न तावदिति ॥
अनवस्थाप्रसङ्गलक्षणं तर्कं दर्शयता तद्विपर्यये मानसमेव प्रत्यक्षं प्रमाणमादर्शितं भवति ।
अज्ञातोपरतज्ञानव्यवहारे
तु कालान्तरे तद्विषयं स्मरणमेव निमित्तम् ।
एवं च सामान्याकारेण जिज्ञासानुरोधात् जज्ज्ञानमस्त्येव, अज्ञातस्य विधिनिषेधव्यवहाराविषयत्वात्, ततश्च सामान्याकारेण सिद्धमादाय विचारणा ।
यदि ज्ञानविषयं ज्ञानमवश्यं ज्ञायेत, अवश्यं वा विज्ञास्येत तदा ज्ञानपरम्परालक्षणा अनस्था स्यात् ।
सा
चानुपलम्भवाधितेत्यर्थः ।
तदिदमुक्तम्–कस्याश्चिदिति ।
भाष्यग्रन्थेनेति वदता न केवलमर्थविरोधः ग्रन्थविरोधश्चेत्यपि प्रतिपादितं द्रष्टव्यम् ॥
चतुष्टयस्योमयत्वविरोधं परिहरन्नाह–कार्यकारणाभ्यामिति ।
नन्वर्थशब्दस्य प्रयोजनवत्तवे ऽपि विरोधव्यधिकरणत्वे तदवस्थे एवेत्यत आह–चन्दनादीति ।
परिसङ्ख्यातुं नियन्तुमिति वदता गणनीयर्थो ऽनभ्युपगमेन परिहृतः ।
अथ किमभिप्रेत्याप्रस्तुतमेव भाष्यकृतो इदं प्रस्तूयत इत्यत आह–एवं किलेति ।
न प्रमाणप्रयोजनं भवितुमर्हन्तीति प्रमाणस्य भूतार्थत्वादित भावः ।
तथा च प्रमाणदीनां शक्याज्ञानत्वे ऽपि तद्व्युत्पादकं शास्त्रमनारम्भणीयमेव, परमार्थिकप्रयोजनविरहादिति निगर्वः ।
तत्रेदमुपतिष्ठते निराकरणभाष्यमिति शेषः ।
सर्वसाधारणनीलादिवैधर्म्येण हि काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि परमार्थिकमेव स्वीकर्तव्यम् ।
तदपारमार्थिकत्वे त्वभिमतसिद्धिरेव न स्यात् ।
न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् ।
तस्माद् यो नीलादि परमार्थिकमिच्छति, तेन कार्यकारणभावो ऽपि परमार्थिक एव एष्टव्यः ।
न चोभयमपि ।
तथा च तत्रापि तुल्यमेतत् ।
इदं त्ववशिष्यते–कथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात्? तत्स्वभावत्वादिति यदि तदोत्पत्तेरारभ्य कुर्यादविशेषत् तत्राह–निवेदयिष्यते हीति ॥
न जात्या जन्मप्रभृतिसहकारिनिरपेक्षतयेत्यर्थः ।
जातिदेशेति ।
स्वभावनियामिका जातिः ।
अव्यवस्थयेति सहकारिव्यवस्थावैचित्र्येणेत्यर्थः ।
प्रमाणार्थः सुखदुःखलक्षणः ।
अनियतः चन्दनात् सुखमेव कण्टकाद् दुःखमेवेति नियमरहितः, अनियत हेतुकत्वात् ।
अनियतचन्दनादिसहकारिकारणकत्वादित्यर्थः ।
प्राणभृदिति सहकारिवैचित्र्यसूचनाय ।
अत एवोदाहरणम्–अनियतकालमिति ।
यथा अनियतकालेत्युपलक्षणम्, देशोवस्थासहकारिणामपि अनियमो द्रष्टव्यः ।
एतदुक्तं भवति, यथा केषुचित् कालदेशावस्थासहकारिषु सत्सु मेघाः सलिलमुद्वमन्ति, केषुचित् तु सत्सु त एव सलिलं पिबन्ति, तथा चन्दनादयो ऽपि केषुचित् सत्सु सुखमुपजनयन्ति केषुचिच्च दुःखमिति ।
विष्टिः दण्डाकृष्टः कर्मकरः ।
नन्वर्थवति च प्रमाणे प्रमात्रादीन्यर्थवन्ति भवन्ति ज्ञायन्त
इत्यभिप्रेतम्, न तु जायन्त इति ।
न चैवमस्ति, प्रमित्यव्यभिचारेणैवेतरेषामव्यभिचारावधाणादित्यत आह–यद्पीति ।
न च वाच्यम्, वैदिकी प्रतिपत्तिरर्थाव्यभिचारिणी आप्तोपदेशजप्रतिपेत्तित्वादिति शकयत एवेति ।
न ह्याप्तोपदेशो ऽव्यभिचारिणीमेवार्थधियमाधत्त इत्यनवधार्य शक्यमिदम् ।
न चाव्यभिचारिप्रतिपत्तिजनकत्वादन्यदेव प्रमाणानामर्थवत्त्वमित्युक्तमेवेति ।
तथापि लोके तावदेवमस्तीति चेत्? अत आह–अदृष्टार्थेति ॥
यद्यपि तत्समवायः प्रमासमवायः प्रमातृत्वमिति प्रकृतोपयोगि स्यादेव, तथापि वार्त्तिककृता प्रश्नोपलक्षणाभ्यां खातन्त्र्यमुपक्रान्तम्–सामान्यन्यायेन विशेषो ऽपि लभ्यत इत्यभिसन्धायातस्तथैवव्याचष्टै–कारकामिधानेनेति ।
प्राधान्येन धातुप्रत्ययाभिधीयमानव्यापारसम्बन्ध एव तत्समवायः ।
प्राधान्यं च कारकान्तरात्तैरश्चीन्यमात्रमभिप्रेतम् ।
तेन पचतीत्यादौ सर्वत्रातिरश्चीनपाकादिव्यापारवतो देवदत्तादेरेव कर्तृत्वं सिद्धं भवति ।
पाचयतीत्यादौ तु प्रयोज्यव्यापारप्रतीतावपि तस्यान्यतिरश्चीनत्वात् न तद्वतः कर्तृत्वम् ।
किं नाम? प्रयोजकस्यैव, तद्व्यापारस्यातिरश्चीनत्वात् ।
एवं तर्हि,
स्वव्यापारे हि कर्तृत्वं सर्वत्रैवास्ति कारके ।
इति न्यायेन करणादिव्यवहारविलोपप्रसङ्ग इत्यत आह–प्राधान्येनेति ।
स्वव्यापारापेक्षया न करणादिव्यवहारः, किं तु प्रधानक्रियापेक्षयेत्यभिप्रायः ॥
ननु च कारकसाध्यत्वाविशेषे ऽपि (करणादिव्यवहारः) प्रधानक्रियापेक्षया इत्येतदेव कुत इत्यत आह– अवान्तरेति ।
अवान्तरेति ।
अस्ति हि काञ्चित् क्रियामुद्देश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः ।
, न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरित्यर्थः ।
ननु न सर्वो व्यापारः प्रधानक्रिया वा पुरुषमाश्रयते, तत् कथमाह–पुरुष इतीत्यत आह–पुरुष इति प्रकृतापेक्षम् ।
तदेतद् वैयाकरणानां लक्षणम् ।
तच्चानुपपन्नम्, शब्दप्रयोगमात्रस्याव्यवस्थापकत्वात् ।
व्यवस्थाहेतोश्च लक्षणत्वात् ।
अभिधानयोग्यतालक्षणमिति चेत्–न, तस्या एव विचार्यमाणत्वात् ।
विवक्षामात्रमिति चेत्–न, तस्या अपि निमित्तमन्तरेणाव्यवस्थितेरित्याशयवानाह–लक्षणान्तरमिति ।
पुरुष इति वर्तते ।
तथा च तत्प्रयोक्तृत्वमित्यत्र तस्य प्रयोक्तेति
विग्रहशड्का मा भूदित्याशायवानाह—तस्य चेतनस्येति ।
एतेन स चासौ प्रयोक्ता चेति वा तस्य चेतनस्य
प्रयोक्तृत्वं धर्म इति वा विग्रह इत्यर्थः ।
अत्र च सव्रकारणानीति स्वेतरपरस्परविसदृशानेककारकामिप्रायम् ।
तेनादृष्टमनधितिष्ठतो ऽपि कुलालस्व कर्तृत्वमक्षतमेवेति ॥
एतावतैव लक्षणे परिसमाप्ते इतराप्रयोज्यत्वमित्यनेन चेतनप्रयुक्ति प्रति स्वातन्त्र्यमितरेषां व्यवच्छिन्दता परस्परप्रयोजनकत्वमपि व्यवच्छिन्नम् ।
चेतनस्यापि तानि व्यापारयत एव कर्तृत्वमित्युक्तम् ।
तथा च यथा कार्यं कर्त्रधीनं तथा कारकान्तराधीनमित्युभयव्याप्तात् कार्यादेकतरापाये ऽप्यन्यतरापाय इति दर्शितम् ।
अतो लक्षणस्य नातिव्यापकत्वम् ।
अचेतनेषु तु कर्तृव्यवहारः कथमित्यवशिष्यते तत्राह–अचेतनस्य त्विति ।
स्वाभाविकं मुख्यम् ।
तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वमिति वदतः करणव्यापारविषयः कर्मेति कर्मलक्षण सम्मतम् ।
तत्र लक्षणे ऽवान्तरव्यापारो ग्राह्यः ।
प्रकृते च प्रधानव्यापारः प्रमितिलक्षण इति विभागः ।
विनियोज्यतेति ।
अनेन वार्त्तिकस्थस्य विनियोगस्य विषयनिष्ठत्वं दर्शयता योग्यतापि विषयगतैव द्रष्टव्येत्यपि दर्शितम् ।
तेन विनियोगाय योग्यता विषयगतैवेत्यर्थः ।
ज्ञानपरं चैतत् ।
तेनायमर्थः विनियोगो वार्थगतस्तद्योग्यताज्ञानं वा चतुर्वर्गस्य पर्यवसानमिति ॥
पञ्चेति ।
रूपं सञ्ज्ञा संस्कारो वेदना विज्ञानमिति ।
तत्र रूपरसगन्धस्पर्शशब्दाः रूपस्कन्धः ।
सविकल्पकं विज्ञानं सञ्ज्ञास्कन्धः ।
समनन्तरप्रत्ययः संस्कारस्कन्धः ।
सुखदुःखे वेदनास्कन्धः ।
निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः ।
जीवेति ।
जीवश्चेतनः ।
तदितरो ऽजीवः ।
आस्त्रवन्तीत्यास्त्रवाः ।
स्रोतांसीन्द्रियाणि ।
स्रोतोभिरिव तैरयं जीवो धर्माधर्माभ्यामापूर्यत इत्यर्थः ।
संवरणं संवरः, जीवाजीवविषयो ऽभेदाभिमानः ।
तेन संवृतोह्ययं जीवो ऽसर्वज्ञ इति ।
निर्जरणं निर्जरः तपश्चरणम्, निगडकटकाभ्यामिवायं बद्धो ऽस्वतनत्रो जीव इत्यर्थः ।
मोक्षः सकलावरणविगम इत्यर्थः ।
सर्वत्र नियमो ऽप्रामाणिकः ॥
ननु न विधायकप्रमाणनिवृत्तिमार्गेणासत्त्वमित्यत आह–तदिति ।
प्रमाणविषयत्वेन सदसतोरेकत्वमविलक्षणव्यवहारविषयत्वमभिमतमेव, ततो निर्दला शड्केत्यत आह–सर्वसामर्थ्येति ।
अर्थक्रियासामर्थ्थं हि सल्लक्षणम् ।
तच्चेद् भवदभिमते अभावे ऽप्यस्ति सो ऽपि सद्व्यवहारविशयः प्रसक्त इति
टीकार्थः ।
न च वयमित्यादिना अभावस्य सामार्थ्यमड्गीकृतम्, न तु सामर्थ्येन सद्व्यवहारः, अननुसंहितसामर्थ्यस्यापि सद्व्यवहारविषयत्वात् ।
अपि त्वस्तिनास्तिप्रतीतिविषयत्वेन ।
न ह्यस्ति सम्भवः सदिति व्यवह्नियते, न चास्तिप्रत्ययविषय इति ।
असदिति वा व्यवह्नियते न च नास्तिप्रत्ययविषयः इति प्रकारणार्थः ॥
स्यादेतत् ।
प्रमेयवैलक्षण्यवत् प्रमाणवैलक्षण्येनापि साक्षात्कारादिवत् प्रतीतिभेदो घटते ।
ततः सदन्तर एवेयं नास्तीति प्रतीति ।
कदाचिद् भवेदित्याशड्क्याह—सम्प्रतीति ।
अबाधिते प्रसिद्धतरे विप्रतिपत्तिर्न काञ्चित् क्षतिमावहतीत्यर्थः ।
ननु निषिध्यतां भावान्तरम् ।
तथाप्यभाविधौ किमायातम्? न हि नीलनिषधे पीतादिविधिरवश्यमित्यत आह–नीलपीतौ हीति ।
ननु सर्वशड्कानिराकरणपटीयसि प्रत्यक्षे ऽपि प्रवृत्ते कुतस्तर्कस्यावकार्शः? ततः किमत्रोपपत्त्येत्यत आह–यदि कश्चिदिति ।
सन्त्येव हि केचिद् वादिनो ये विपक्षदण्डमपश्यन्तः प्रत्यक्षपरिकलितमपह्नुत्य शडकामुत्थापयन्ति, तान् साङ्ख्यादीन् प्रति अयं प्रकार इत्यर्थः ।
पूर्ववद् व्याख्येयम् ।
तुल्योपलम्भयोग्यतातर्कान्तर्भावेनेत्यर्थः ।
नन्वभावे तत्प्रत्यक्षतायां च बहुविप्रतिपत्तिबीजमस्तीत्याह–सर्व चैतदिति ॥
ननु यद्यसद्भेदाः प्रकृतानुपयोगिनः, तदा अनुपयोगादेव नोच्यन्त इत्युच्यताम् ।
अथोपयोगिनस्तदा अवश्यं वक्तव्या एव ।
पारतन्त्र्येण प्रतिभासनात् नोच्यन्त इति क्कोपयुज्यत इत्यत आह–निषेध्येति ।
प्रतिपादनाय हि ते वक्तव्याः ।
तच्च प्रतियोग्यधिकरणप्रतिपादनादेवार्थतो भूतमिति किं तदर्थप्रयासेनेत्यर्थः ।
तदिदमुक्तं गम्यन्त इति नाक्ता इत्यर्थ इति ।
ननु यद्युपायप्रतिपादनेनैव प्रतिपादिता इति नोक्ताः, तर्हि प्रमेयादयो ऽपि प्रमाणप्रतिपादनेनैव प्रतिपादिता इति किं तत्कथनेनापि? अथ प्रतीता अपि प्रयोजनविशेषादभ्यर्हिततया प्रतिपाद्यन्ते, हनतासद्भेदा अपि उपयुक्तास्तथा किं नेत्यत आह–अथ वेति ॥
ननु भावप्रपञ्चवदभावप्रपञ्चे ऽप्युद्दिष्टो वेदितव्य इति प्रतिज्ञातेर्ऽथे चतुर्वर्गानन्तर्भावादिति हेतुर्भागासिद्धो विरुद्धश्चेत्यत आह-निःश्रेयसेति ।
तेन निःश्रेयसानपयोग्यभावप्रपञ्चधिकरणतया चतुर्वर्गानन्तर्भावो हेतुः ।
तदधिकारणतया तथाभूत एव भावप्रपञ्चो दृष्टान्तो नोच्यत इति साध्यम् ।
निःश्रेयसोपयोगी तूद्दिष्टो वेदितव्यः,
चतुवर्गान्तर्भावात् ।
उपयुक्तभावप्रपञ्चवदिति वार्त्तिकार्थ इत्यर्थः ।
अत एवोद्दिष्टो वेदितव्य इति अनुपलब्धिबाधितं मन्यमान उत्तरग्रन्थमवतारयति–अथेति ।
कारणानुपलब्ध्या सर्व एवानुपलब्धिप्रभेदा उपलक्षिताः ।
अपवर्ग एव मर्धाभिषिक्तः प्रधानतया राजकल्पः ।
एतदप्युपलक्षणम् ।
अर्थो ऽपि शत्रुपुत्राद्यभावादिः, प्रवृत्तिरप्यहिंसादिः, प्रेत्यभावो ऽपि पूर्वशरीरपरित्यागादिः,
फलमप्युत्पन्नरोगप्रध्वंसाद्यसद्भेद इति मन्तव्यम् ।
संशयस्य ज्ञानरूपत्वादसद्रूपता न सम्भवतीति तमुल्लड्घ्यातिदिशति–एवं प्रयोजनेति ।
तथा हि सन्ध्यावन्दनप्रायश्चित्तादावहितनिवृत्तिरेव प्रयोजनम् ।
दृष्टान्तो ऽपि कश्चिदभावरूपो यथा सुषुप्त्यवस्थानमपवर्गे दृष्टान्तयिष्यति ।
सिद्धान्तो ऽपि नैरात्म्यादिः परेषाम् ।
अस्माकं च यथा भाभावस्तमः [वै। सू। ५।२।१९] इत्येवमादिः ।
सर्वेषामपवर्गो दुःखाभाव इति ।
अवयवतर्कनिर्णयवादजल्पविण्डास्तु सद्भेदा एव ।
हेत्वाभासा द्विविधाः ।
यथा, अनित्यः शब्दः सत्तारहितत्वात, चाक्षुषत्वादित्येवमादिः ।
छलं जातयश्च सद्भेदा एव ।
निग्रहस्थानेषु विप्रतिपत्तिविधाः सद्भेदाः ।
अप्रतिपत्तिविधा असद्भेदाः ।
तदिदमुक्तम्–एवं तत्र तत्रोहनीयमिति ।
ननु भाष्ये असद्भेदकथनवार्तापि नास्तीत्यत आह–अत्रेति ।
परस्परविरुद्धयोरभिधानानभिधानयोः परमार्थिकत्वं न सम्भवति ।
तत् कतरदत्र पारमार्थिकमित्यत आह–द्वितीये तु कल्पे पारमार्थिकं इति ।
सूत्रस्य सप्रपञ्च तात्पर्यम्–प्रमाणत इत्यादिप्रपञ्चः, सच्च खलु षाडशधा व्यूढमुपदेक्ष्यत इति तात्पर्यम् ।
तस्य तात्पर्यमिति ।
तासां खल्वासामित्यवतारभाष्यस्य, न तु सूत्र पाठस्य ।
अवयवार्थं व्याचिख्यासुनेत्यनेनैव तात्पर्यस्य स्फोरितत्वात् ॥
॥ अवतारणाभाष्यादिव्याख्यानम् ॥
द्वन्द्वस्वरूपमाह तत्तात्पर्याभिधानायेति शेषः ।
द्विग्वव्ययीभावौ प्रयोगमात्रनिराकृतत्वात् नोपन्यस्तौ ।
सम्भावितप्रयोगान् बहुव्रीहिकर्मधारयतत्पुरुषान् निराकरोति–बहुव्रीहीति असम्भवादर्थासम्भवात् ।
षष्ठीसमास इति सम्भाविततत्पुरुषोपलक्षणपरम् ।
इति हि इत्यादि हीत्यर्थः ।
तेनार्थनिर्देशं समुपादाय संशये ऽपि बहुवचनं द्रष्टव्यम् ।
तत्रापि साधर्म्यवैधर्म्यविप्रतिपत्तिजन्यानां संशयानां परस्परनिरपेक्षाणामेव न्यायप्रवर्तकत्वमिति तात्पर्यम् ।
दृष्टान्ते ऽपि विशेषलक्षणकरणावसरे द्विवचनमेव ।
तस्यापि परस्परनिरपेक्षोदाहरणसम्प्रतिपत्तिः प्रयोजनम् ।
एवं
सिद्धान्तानामपि स्वप्रयोजने परस्परानपेक्षत्वेमेव ।
तच्च बहुवचनसमानार्थेन सङ्ख्यावचनेन प्रतिपादितम् ।
अवयवानां तु यद्यप्येकस्मिन् वाक्यार्थे प्रतिपादयितव्ये मिथः सापेक्षत्वम्, तथापि परस्परासम्प्रत्ययितमर्थमभिदधतामेवेति बहुवचनप्रयोजनम् ।
हेत्वाभासेष्वपि बहुवचनस्य स्वव्यापारे परस्परनिरपेक्षत्वप्रतिपादनमेव तात्पर्यम् ।
तथा छलजातिनिग्रहस्थानेष्वपि ।
यत्र तु निर्देशो नास्ति तत्र लक्षणे यथावचनं विग्रहः, सामान्यमात्रस्यैव प्रयोजकत्वादिति भावः ॥
कारकस्यार्थरूपत्वान्न तस्याभिधेयमस्तीत्यत आह–कारकार्थः प्रधानक्रियेति ।
अर्थशब्दः प्रधानक्रियावचनो न क्वचिद् दृष्ट इत्य आह–यदुद्देशेनेति ।
कारकाणामविवक्षेत्येतावतैव सुस्थे प्रधानक्रियाया अविवक्षा किमर्थमित्यत आह–कारकग्रहणेति ॥
ननु कारकाणामविवक्षा शेषलक्षण तदा स्याद् यदि तत्र कारकत्वं सम्भवेत्, तदेव तु नास्तीत्यत आह–यद्यपीति ।
अत्र चोदयति शैषिक्यां षष्ठ्याम् ।
षष्ठी चानर्थिका निष्प्रयोजना ।
अव्यतिरेके तदनुपपत्तेः षष्ट्यर्थस्य सम्बन्धस्यानुपपत्तेः ।
एकदेशित्वे बीजम्–अनियमवादीति ।
तस्यास्वतन्त्रत्वात् प्रमाणादयो गम्यन्त इति किं केन सङ्गतमत आह–भावस्येति ।
न प्रमाणादिमात्रमुच्यते तत्त्वशब्देन अथ च नार्थान्तरं तत्त्वमिति परस्परव्याहतमित्यत एकदेशिनं किञ्चिदुद्दीपयति–अभेदे ऽपीतीति ।
अनारोपितरूपेण स्वरूपतः प्रतीयन्तां प्रमाणादय इत्येतदर्थमनतिरिक्तार्थमपि तत्त्वग्रहणं कृतमित्यर्थः ।
दृष्टान्तमसिद्धं मत्त्वा सोपपत्ति व्याचष्टे–द्वित्वैकत्वयोरिति ।
व्यवहारगतिवस्तुगत्योः समानयोगक्षेमत्वं मन्यमानो ह्यभावमपह्नोतुं न शक्नोत्येव, अभावव्यवहारगतेः सर्ववादिसिद्धत्वात् ।
यस्तु वस्तुनिरपेक्षो ऽपि व्यवहारो ऽस्तीति मन्यते, तन्मतमवशिष्ट इत्याशयवानाह–क्षणभङ्गभड्गेति ।
निवेदयिष्यते वात्तिककृतेति शेषः ॥
यथार्थज्ञानोत्पत्ति प्रति स्वरूपलक्षणा शक्तिरारोपहितत्त्वमेव सहकारिलक्षणदोषविरहीन्द्रियादिः ॥
ननु दृष्टानिःश्रेयसदूषणे किं तात्पर्यम्? न हि तदस्मान्न सिद्ध्यतीत्यत आह–एतदुक्तं भवतीति ।
अदृष्टमेव निःश्रेयसमभिप्रतं शास्त्रफलत्वेनेति शेषः ।
अन्यथा आत्मादिप्रमेयविशेषप्रतिपादनं न कुर्यात्, तत्तत्त्वज्ञानमन्तरेणापि दृष्टनिः- श्रेयससिद्धेरिति भावः ।
अप्रामाणिकं दर्शनाभावादिति दर्शनफलैकोन्नेयं प्रमाण कथं
तदभावे ऽप्यस्तीति भावः ।
आगमानुमानयोः सहकारिता पक्षाद्य१पनाकत्वेन ।
तत्रात्मलक्षणधर्मिसिद्धावागमः,
अयमात्मा [बृह ४।४।३], अपहतपाप्मा [छान्दोग्य १।२।९], अजरो ऽमरः [बृह ४।४।२५], स एष नेति नेत्यादि [बृह ३।९।२६] ।
अनुमानं चेच्छादि [सूत्र-१।१।१०] समुत्थम् ।
जन्माभावरूपलिङ्गसिद्धौ तु,
अशरीरं वाव सन्तम्
[छान्दोग्य ८।१२।१] इत्याद्यागमः ।
अनुमानं तु प्रवृत्त्यभावः ।
प्रवृत्त्यभावे ऽपि,
यस्त्वात्मतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥
[गीता ३।१।७] इत्येवमादि ।
अनुमानं तु दोषाभावः ।
दोषाभावे ऽपि,
रसो ऽप्यस्य परं दृष्ट्वा निवर्तते ।
[गीता २।४९] इत्येवमादि ।
अनुमानं तु मिथ्याज्ञानाभावः ।
अत्रापि
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
[मुण्डक २।२।८] इत्यादि ।
अनुमानं तु तत्त्वज्ञानसद्भावः ।
आत्मतत्त्वज्ञाने ऽपि
आत्मा वा अरे दृष्टव्यः ।
[बृह ४।५।८] इत्येवमादि ।
अनुमानं तूपायाभ्यासप्रकर्ष इत्येवमादि ।
उपलक्षणं त्वागमानुमानग्रहणम् ।
प्रत्यक्षमपि द्रष्टव्यम्, एवं शरीरादिष्वप्यूह्यम्, अनुमानमेवात्रार्थे प्रमाणमिति विप्रतिपन्नं प्रतिपिपादयिषतामिति शेषः उपनिषदापि
तमेव विदित्वातिमृत्युमेति ।
[श्वेता ३।८] इत्यादीनां प्रामाण्यात् ।
सन्तानानुमानस्य च पृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः प्रथमसूत्रे एतद्विवरणाद्वचवच्छेत्तुरग्रन्थमेवावतारयति–यदि चेति ।
विहितत्वादाद्येन सूत्रेणेति ।
श्रुत्यर्थाभ्यामिति शेषः ।
तदियता
प्रबन्धेन वार्त्तिककृता किं कृतमित्यत आह–तदनेनेति ॥
उत्तरवार्त्तिकविषयीभूतभाष्यं तावद् व्याचष्ट–अथ किमिति ।
ननु द्वितीयसूत्रार्थो नात्रोदितः, तत् कथं तत्रानूद्यत इत्यत आह– निःश्रेयसेति ।
अत्र च हेत्वाद्यनुवादत्रार्त्तिकं नास्त्येवेत्यनाशङ्कनीयम्, टीकाकृता सिद्धवदुत्थापितत्वात् ।
क्वचिल्लिप्यभावस्य लेखकदोषेणाप्युपपत्तेः ।
अन्यथा भाष्यतात्पर्यार्थानुवादकत्वात् ।
व्याचष्ट इति तु यद् व्याख्यातम्, तदभिप्रायं तेन तच्चैतदुत्तरसूत्रेणानूद्यते इत्यस्यानुवादानन्तरमव्याख्याने ऽपि न दोषः ।
एवं चार्थं द्वितीयसूत्र इत्यादिना पूर्वमेव व्याख्यातत्वात् तु नेहेदं व्याख्यातमित्यर्थः ॥
ननु द्वेषः किहेय एव न वा प्रवृत्तिहेतुरित्यत आह–उपलक्षणमिति ।
ननु हानपदमात्यन्तिकपदसमभिव्याहारादपवर्गे वर्तते, तत् कथं तत्त्वज्ञानमित्युच्यत इत्यत आह–हीयते हीति ।
करणव्युत्पत्तिमाश्रित्यानेन तत्त्वज्ञानं विवक्षितम् ।
भावव्युत्पत्त्या त्वात्यन्तिकपदसमभिव्याहारादपवर्ग इत्यर्थः ।
तत्त्वज्ञानपदस्य व्युत्पत्तिसन्देहमपनयन्नेवाह– तस्य प्रमाणस्येति ।
एतेनादिवाक्यविरोधः परिहृतः ।
अर्थपदानीति भाष्यगतस्यार्थपदस्य त्वन्यथार्थो भविष्यतीति यदुक्तं तदाह–पुरुषार्थस्थानानीति ।
तात्पर्यमित्यर्थः ।
वार्त्तिकस्येति शेषः ॥
प्रस्थानं प्रकार इत्थम्भावः तथा चेत्थम्भूतत्वादान्वीक्षिक्या इति यद्यप्यभिमतमेव, तथापि निरूपपत्तिक इत्थम्भावः स्यादित्यत आह–प्रस्थानं व्यापारः ।
तदनेन भाष्यगतस्य प्रस्थानपदस्य प्रकृत्यर्थो ऽभिहितः, प्रत्ययार्थस्तु संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते इति वदता भाष्यकारेणैव दर्शितः ।
तदेतदुक्तं भवति, न्याव्युत्पादने व्यापारवत्तया हि इयमान्वीक्षिकी विद्यान्तराद् भिद्यते ।
स च संशयाद्यड्गोपाङ्गव्युत्पादनेनैव व्युत्पादितो भवति ।
ततो ऽस्याः संशयादयो ऽपि विषयभूताः तानन्तरेण निर्विषयतया विद्यैव न स्यात् ।
विषयान्तरवत्तया विद्यान्तरमेव वा स्यादिति ।
अत्रेव शङ्कते–न च वाच्यमिति ।
न ह्यन्या विद्याः स्वं स्वमर्थं प्रतिपादयन्त्यो ऽपि कथमेतदित्यश्रद्धामलमपनेतुमीशते विनैनामान्वीक्षिकीमित्याशयवान् परिहरति–एतस्या एवेति ।
वार्त्तिकान्तरविषयं भाष्यं दर्शयति–स चाचमित्यादिभाष्यमिति ।
निर्दलं देश्यं दीपयति ज्ञानमिति ।
उपलब्धो ऽनिर्णोतश्चेति व्याघातो ऽनुपपन्न एव उपलब्धेर्निर्णयपर्यायत्वस्यानन्तरमेव निराकृतत्वात् ।
नापि प्रमाणप्रवृत्तिविषय उपलब्धो भवन्निर्णोत एव भवेदित्यत आक्षेप्तुरभिप्रायन्तरं दर्शयति–पञ्चरूप इति ।
यथा प्रत्यक्षमागमो वा अज्ञाते ऽप्यवतरति, तथा असन्दिगधे ऽपि ।
अनुमानं तु यथा नाज्ञाते तथा असन्दिग्धे ऽपि तस्मादस्यान्यैव रीतिरित्यर्थः ।
समानविषयत्वम् एकविषयत्वम् ।
समामानाधिकारण्यं न समर्थयस इति, न तादात्म्यमिति भावः ।
परस्परसमानेनाधिकरणेन सम्बन्धमात्र सामानाधिकरण्यम् ।
न तु तादात्म्यमित्यभिप्रेत्य परिहारं विवृणोति–सामान्य विशेषयोरिति ।
सन्दिग्धे प्रवर्तवे इत्यस्य योग्यतापरतां दर्शयति-असन्दिग्ध इति ।
संशयानर्हश्च प्रकारद्वयेन, सर्वथा अज्ञातो विशेषतो वा निर्णातः, तद्विपरीतस्तु सन्दिग्धः संशयार्हः ।
तत्र न्यायः प्रवर्तत इति तात्पर्यम् ।
अत एव व्यतिरेकप्रधानामुपलक्षणतयैकां विधामुदाहरति–नहीति ॥
ननु किं पुनः प्रयोजनमिति प्रश्ने येन प्रयुक्तः प्रवर्तत इत्युत्तरं वैयात्यादित्यत आह–स्फुटतरमेवैतदिति ।
ननु वयं
न्विति स्वाभिमतप्रदर्शनमेकदेशिमते अपरितोषं सूचयितुम्, न चापरितोषबीजमुपलभामह इत्यतस्तद्वीजं प्रश्नपूर्वकमेव तावद् दर्शयति–तत्रेति ।
सर्वेषामेव काम्यत्वात् धर्मादीनामिति ।
तथा च धर्मादिविषयस्तात्साधनविषयो वा कामस्तत्रापि प्रवर्तक इत्यर्थः ।
न च तद्विषयत्वेनापि धर्मादीनामुपादानम्, स्रक्चन्दनादीनामप्युपादानप्रसङ्गादिति ।
सरकः पानम् ।
ननु तथापि नैतेषां प्रयोजनत्वक्षतिरित्यत आह–धर्ममोक्षयोरिति ।
उपलक्षण चैतत् ।
काकार्थयोरपि विरक्तान् प्रत्यप्रयोजकत्वमिति द्रष्टव्यम् ।
तेनैतदुक्तं भवति, न हि धर्मादिषु धर्मत्वादिकमेव प्रवृत्तिं प्रति प्रयोजकम् ।
किं नाम? इष्यमाणत्वम् ।
अन्यथा अविशेषेण सर्वस्य सर्वत्र प्रवृत्तिप्रसङ्गादिति ।
ननु यथाश्रुते को दोषो येन विषयेण विषयिणं प्रत्ययमुपलक्षयतीति व्याख्येत्यत आह–असत्योरिति ।
सत्योर्वेति सप्तमी ।
उत्तरवार्त्तिकं ग्रहीतुमेतत् ।
यथाश्रुतं दूषयति–तथापीति ।
इह फलज्ञानमन्यत्र प्रवर्तवत् तत्साधन एव प्रवर्तयतीति अतो नातिप्रसङ्ग इत्येवं यद्यपि शङ्कितुमुचितम्, तथापि
तत्सधनत्वेनाज्ञाने प्रवृत्तिरेव नास्ति इत्यतस्तज्ज्ञानमन्तर्भाव्य आशङ्कते–तत्साधनत्वज्ञानादिति ।
सामानाधिकरण्येन एकविषयतया, सम्प्रतिपत्तेरविरोधतः कार्यकारणभावसिद्धेरित्यर्थः ।
एवं तर्हि
सुखदुःखाप्तिहानिभ्यामिति वार्त्तिकमसङ्गतमेव किमित्यत आह–एतदुक्तं भवतीति ।
विवक्षितु प्रस्थलीकरोतितेनेति ।
प्रवृत्तिविषयतयेष्यमाणत्वमुपादेयता, स्वरूपेणेष्यमाणत्वमुद्देश्यता, उभयोरपि ज्ञानं प्रयोजयतीति उभयमपि प्रयोजनम् ।
इयांस्तु विशेषो यदुपादेयज्ञानं साक्षात् प्रवर्तंयति ।
एतदेव च तस्य साक्षात्प्रवर्तकत्वं यत् साक्षात् प्रयत्नजननसमर्थामिच्छां प्रसूते ।
सैवाद्या प्रवृत्तिरित्युच्यते ।
उद्देश्यज्ञानं तु तद्विषयामिच्छां जनयत् तथाभूततत्साधनज्ञानजननद्वारेण इत्यर्थः ॥
न्यायपरीक्षाशब्दयोरेकार्थत्वमपश्यत आक्षेप इत्याह–न्यायेति ।
ननु परीक्षाशब्दस्य विचारणार्थत्वे प्रयोजनापेक्षित्वं कदाचिद् युज्यते, स चेत् न्यायार्थस्तस्य च व्युत्पत्तिबलेन प्रमाणमात्रमर्थः, तस्य च न प्रयोजनापक्षेति सर्वं समाकुलमित्याक्षेपावतारटीकार्थाः ।
नन्वेतावतापि चोद्यं तदवस्थमेवेत्यत समाधानं विभजते–प्रत्यक्षादीति ।
ननु अवयवैरर्थस्य परीक्षणमधिगतिर्यदि न्यायः, तर्हि किं तस्य फलमित्यत आह–अर्थस्य
लिङ्गस्येति ।
अथ यदि परीक्षापरनामा न्यायो नानुमेयविषयः, कुतस्तदधिगमो भविष्यतीत्यत आह–परीक्षितं त्विति ।
अथ यथा प्रमाणमूलैरवयवैर्लिड्गां प्रतिपाद्यते तथानुमेयमेव किं नेत्यत आह–न त्विति ।
ननु सन्दिग्धत्वाविशेषे ऽपि कुत एतदित्यत आह–तस्येति ।
परीक्षानास्पदत्वाल्लिङ्गप्रतिपादनमन्तरेण तदपेक्षिण प्रत्याहत्य प्रतिपादयितुमशक्यत्वादित्यर्थः ।
न तर्हि प्रमाणैरिति ।
तथा चार्थस्य लिङ्गस्य परीक्षाधिगतिर्न प्रमाण्फलं स्यात् ।
अथ प्रमाणैरेव, निष्फलास्तर्हि अवयवा इत्याशयः ।
न साक्षादित्यादिना लिङ्गाधिगताववयवानां स्वातन्त्र्यं निराकुर्वता अधिगतेरप्रमाणफलत्वमपास्तम्, अवान्तरव्यापरत्वं चावेदयता अवयवानामानर्थक्यमपास्तमिति ।
प्रमाणत्वाविशेषैऽपि तस्यैव विप्रतिपन्नपुरुषप्रतिपादकत्वं नान्यस्येत्यत्रापि हेतुं परः प्रक्ष्यतीत्यतस्तथैवाह–समस्तेति ।
तदयं वार्तिकार्थः सो ऽयमित्थम्भूतसमस्तप्रमाणोपकरणात्मा यतस्तस्माद विप्रतिपन्नपुरुषप्रतिपादकः ततश्र्व परम इति
व्यवह्रियत इत्यर्थः ।
ननु नाविरुद्धत्वमेवाश्रितत्वमाश्रितस्यापि अविरुद्धत्वाद् विरुद्धस्याप्याश्रितत्वात्, अत एव नाविनाभावो ऽप्यनयोः, तत्कथमाह–आश्रितत्वमित्यविरोधीति? न चैव तत्प्रकृतमित्यत आह–पज्चावयवे इति ।
न्यायमूलफलयोरेकविषयत्वं वस्तुतः, तच्चाविरोधे सति निर्वहति नान्यथेति ।
तदेतद्भाष्यकारेणार्थतः कथिन्तं वार्त्तिककारेणाक्षरैरेव विवृतमित्यर्थः ।
यद्यपि अग्निशब्दस्तेजोविशेषवचनः सूर्यालोकादावग्निव्यवहारादर्शनात्, तथापि तेजामात्रे ऽपि क्वचित् प्रयुज्यजे ।
तदभिप्रायेण परमाणुना भागासिद्धतापि मा भूदित्याशयवानाह"–अग्निरवयवीति ॥
ननु विरुद्धार्थम्परिच्छेद एव प्रमाणविरोधः, स चात्र प्रत्यक्षेण स्फुटतर एवेति किमर्थ प्रश्नः कः पुनरित्यत आह–इदमत्रेति ।
तत एव रूपत्रयासम्पत्तेरेव ।
तदनुमानमाभासमिति व्यवहर्तव्यमिति शेषः ।
न च रूपत्रयसम्पन्नमेवेदम्, साध्यसिद्धिप्रसङ्गादिति ।
अत्र शङ्गते–अथेति ।
ननु यदि रूपत्रयसम्पत्तिरेव अविनाभावः तदा कथं बाधया सह सम्भवः? इहैव सम्भवादित्यत आह–बाधायामिति ।
पक्षधर्मत्वं स्वीकृत्यानैकान्तिकत्वव्युपादनम् ।
अतो न च सपक्षेत्यादिशड्का न निरवकाशा भवति ।
यत्रेदं तत्रेदमित्याकारेण पक्षस्यापि साधनवतः साधर्म्यवत्ताप्रतीतिः सर्वोपसंहारः ।
अयं च यत्र नेदं साध्यमस्ति तत्राप्येतत् साधनमभिमतमस्तीत्येतावन्मात्रेणैव भज्यते ।
एष च व्यभिचारप्रकारः पक्षे ऽपि न निवारयितुं शक्य इत्यर्थः ।
न बाधस्य स्वातन्त्र्येण दूषणत्वं व्यभिचारात् पक्षधर्मताविरहिणि तदभावात् ।
यत्र च बाधसम्भवस्तत्र तयोरेवान्यत्रावगतस्वातन्त्र्ययोर्विद्यमानत्वादनुमानमाभासतां गतम्, व्यभिचाराद्युत्थापनेन तु विरोघः चरितार्थ इति
पूर्वपक्षार्थम्ः ॥
अनुमानाविषये प्रयोग इति यथाश्रुते वार्त्तिके पराभिमतमपक्षधर्मत्वमेव स्फुटमपक्षस्यैवानुमानाविषयत्वात्, अतो ऽन्यथा व्याचिख्यासुर्भूमिमारचयति–वक्ष्यते हीति ।
अतिप्रसङ्गादतिव्याप्तेरित्यनुमानाधिकारे वक्ष्यते हीति योजना ।
किमतो यद्येवमित्यत आह–स चेति ।
आर्द्रेन्धनमेकोपाधिरेकव्यभिचारात्,
अध्ययनमुभयोपाधिरूभयव्यभिचारात् ।
सो ऽयमित्यादिना नास्तीत्यन्तेन प्रत्यक्षस्याकारो दर्शितः ।
यद्यभविष्यदिति तर्कस्य ।
नास्त्येवति फलभूतस्य निश्र्वयस्य ॥
ननु कृतकस्य तेजसो बद्धौ विपरिवर्तानत्वे यो यः कृतकः सर्वो ऽनुष्ण इति सर्वोपसंहारो न सम्भवत्येव ।
अपरिस्फुरति च तस्मिन् न तराम् ।
न हि यद्यत्र न स्फुरति तदपि तस्य विषय इत्यत आह–सामान्येन यो यः कृतक इति ।
अनेनाकारेण सो ऽपि बुद्धौ विपरिवर्तत एव, न तु विशेषाकारेण व्याप्तिग्रहणविषयतामग्निरगादित्यत आह–न तु निर्विमज्य विशेषतो ज्ञात्वा तेजो ऽवयविनि एव सम्बन्धो ऽवधारित इत्यर्थः ।
अथ सामान्याकारेणापि तेजो ऽवयविनः किमित्यवकाशो देयो यावता पृथिव्यादावेव व्याप्तिरवधार्यतामित्यत आह–न हीति ।
न हि समान्याकारेण व्याप्तौगृह्यमाणायां प्रत्यक्षबाधात् प्रागेव तेजो ऽवयविपरित्यागे काचिदुपपत्तिरस्ति, अन्यत्रादर्शनात् ।
तथा च न केवलं स एव न दृष्टः, पृथिव्यादयो ऽपि केचिन्न दृष्टा एवेति ते ऽपि परित्याज्याः ।
एवं च गृहीत्वा गृहीत्वा व्याप्तिर्ग्रहीतव्या ।
अदृष्टेषु व्यभिचाराशङ्कया न वेत्युभयथापि सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः ।
स्वयमेव परः पक्षं गृह्णात्वित्यभिसन्धिना सुकुमारप्रकारमाह–न तावदिति ।
न हि व्याप्त्यनपवादे व्यभिचारावकाशः समस्तीति हृदयम् ।
तर्हि तदपवादे सत्येव हेतोरनैकान्तिकत्वमस्त्वित्याशयवानाशङ्कते–प्रत्यक्षेणेति ।
इह व्याप्तेरपवादः पक्षतामपरिभूय, तत्परिभवे वा? तत्राद्यं तावद् दूषयति–नेति ।
प्रवृत्तानुमानाप्रतिरोधे व्याप्तेरपवाद इति कुतः? तत्प्रतिरोधं तु विपरीतप्रत्यक्षं न चेत् करोति, को ऽपरः करिष्यतीत्याशयः ।
ननु यदि पक्षे ऽपि व्यभिचारः सम्भवति, स नोद्भाव्य इति कस्यायं दण्ड इत्यत आह–अन्यथेति ।
न न पक्षधर्मतामपरिभूय प्रत्यक्षेण व्यभिचारः शक्यग्रहः, न ह्यस्ति सम्भवः सन्दिग्धसाध्यधर्मा धर्मो तद्विरहेण निर्णोतश्चेति शून्यहृदयं प्रति तु प्रतिबन्दिरित्यर्थः ।
प्रत्यक्षेण पक्षधर्मतापरिभवाद् व्यभिचारो भविष्यतीत्याशङ्गते–प्रत्यक्षेणेति ।
निराकरोति–तर्हीति ।
यथा हि साध्यविपरीतप्रवृत्तिरेव साध्यनिवृत्तिः, तथा विपरीतप्रमाणप्रवृत्तिरेव साधननिवृत्तिः ।
अन्यथा विपरीतप्रमाणप्रवृत्तावपि यदि साधकं न निवर्तते तदा तदायत्तं साध्यमपि न निवर्तेत, तदनिवृत्तौ तु न पक्षत्वक्षतिरिति न व्यभिचारावकाश
इत्यर्थः ॥
सिद्धमर्थं वार्त्तिके समर्पयति–तदिदमुक्तमिति ।
ननु यदि नामानुमाननिवृत्तेः पूर्वमपक्षधर्मत्वं व्यभिचारो बोद्धारयितुं न शक्यस्तथापि तदुत्तरकालं तावच्छाक्यत एव, ततस्तावेव स्ताम्, कृतमपहृतविषयत्वेनेत्यत आह–एवं चेति ।
यावद्धि प्रत्यक्षविरोधेनानुमानं न दूष्यते, तावद् व्यभिचाराद्यवकाशो नास्त्येव ।
ततः सावकाशावेतौ
प्रत्यक्षविरोधमुपजीवतः ।
तेन चेद् दूषितमनुमानम्, किमाभ्याम्? न हि मृतो ऽपि मार्यत इति सिद्धान्तसङ्क्षेपः ॥
नन्वश्रावणः शब्द इत्येवं ब्रुवाणः कथं शब्दासत्त्वमभिप्रेयात्, यावतेन्द्रियान्तरग्राह्यमेव किमिति नामिप्रैति?
अथ तत्र विरोधो ऽस्ति, तत् किं स्वरूपापलापे स नास्ति? तस्मादभिप्रायः परस्य नियन्तुं न शक्यत इत्यत आह–न हीति ।
इन्द्रियान्तरव्यापारव्यभिचारात् तदग्राह्यत्वविनिश्चयपक्षे स्वरूपापलाप एवाभिप्रेतः ।
तत्रैवेदमुदाहरणमित्यर्थः ।
बलितपूर्वपक्षादलनादलग्नकं वार्त्तिकं निवेशयितुं पीठमारचयति–सविशेषणे हीति ।
विशिष्टविधानपि इत्युपलक्षणं विशिष्टनिषेधो ऽपि द्रष्टवय इति ।
अगतिः प्रमाणान्तरादलाभः ।
लौहित्यविशिष्टमुष्णीषं
विधीयते ।
जीर्णतामलवत्ताविशिष्टं वासः प्रतिषिध्यते ।
न समसितश्रावणपदश्रवणं श्रुतिः ।
विशेषणाविशेष्यभावावस्थितपदसमूहो वाक्यम्, तयोः सामर्थ्यात् ।
एतदुक्तं भवति, समासे न उत्तरपदार्थनिषेधार्थः,
तत्रैवास्य सामर्थ्यं वाचकत्वं यतः ।
असमासपक्षे ऽपि समानाधिकारणयोर्विशेषणविशेष्ययोर्मध्ये विशेषणेनैव न सम्बध्यते, तत्रैवास्य सामर्थ्यमन्वययोग्यता यतः ।
तदिहोभयथापि सड्केतबलादन्वययोग्यताबलाद् वा न नः शब्दपदेन सम्बन्ध इति ॥
स्यादेतत् ।
श्रूयमाणस्य नः श्रावणपदेनैवास्तु सम्बन्धः, शब्दनिषेधस्त्वर्थादापद्यत इत्यत आह–नापीति ।
श्रूयमाणो ह्यर्थो येन विना नोपपद्यते स तेनाक्षिप्यमाणोर्ऽथाद् आपद्यत इत्युच्यते ।
न चोपपादको विरोधी नाम ।
स ह्यनुपपादक एवेत्यर्थः ।
विरोध मेव द्योतयति–श्रावणत्वेति ।
ननु कल्पितेनाप्यधिकरणेन निषेधनिरूपणमुपपद्यते, तस्य
तुच्छत्वात् ।
तथा च नासत्त्वाधिकरणत्वयोर्विरोध इत्यत आह–न चेति ।
एवं व्यवस्थिते वार्त्तिकार्थ
द्योतयति–न च श्रावणत्वमिति ।
शब्दश्रोत्रयोः सम्बन्ध शब्दग्रहणोपायभूतः ॥
ननु यदि सम्बन्धः, कथं वार्त्तिककारो वृत्तिरित्याहेत्यत आह–वृत्तिरिति ।
ननु न साक्षाद् वेदे नरशिरः
कपालाशौचं श्रूयते ।
प्रत्युत,
रुद्रो ह वा महाव्रतं चचार ।
स एव नरशीर्षमम्पसन्दधार इति विपरितैव श्रुतिः ।
अतः कथमागमविरोध इत्यत आह–मन्वादिमिरिति ।
यद्यप्यस्मिन्नर्थे न साक्षात् श्रुतिः प्रतीयते, तथापि तन्मूला स्मृतिरेव स्फुटतरा प्रमाणम् ।
रुद्रो हवेत्यादि त्वर्थवादमात्रं नरमेधादौ प्राशस्त्यप्रतिपादनार्थम्, नास्य शुचितायां प्रमाणं भवतीत्यर्थः ।
ननूपदर्शितमागमं दृष्ट्वापि कुतः पृच्छतीत्यत आह–नास्माकमिति ।
अत्र वस्तुति शब्देतरप्रमाणगोचरे आगमान्तराणामप्रमाण्यादित्यर्थः ।
कुतः पुनरस्य निर्घृणस्य कपालशौचाभिमान इत्यत आह–अविगीता हीति ।
न ह्यागमादेव धर्मादिविनिश्चयो ऽपि त्वविगीताद् व्यवहारादपि ।
स चास्माकमप्यस्ति ।
न च वाच्यं सार्वत्रिको व्यवहारः प्रमाणम् ।
यथा कन्यापरिणयनविधौ पुरन्ध्रीणामाचारः ।
प्रादेशिकस्त्वयमित्याशड्क्योदाहरणं कृतम्–दाक्षिणात्यानामिवेति ॥
उपहासे बीजमाह–श्रुतिस्मुतीति ।
आह्नेनैवुकादिक्रिया आम्नायमूला अविगीतवेदार्थानुष्ठातृव्यवहारत्वादग्निहोत्रादिवदिति प्रयोगः ।
अथ श्रेयोहेतुतैवास्याः कुतो नावसीयत इत्यत आह–न खल्विति ।
यद्यपि शक्यत एवैतदापाततः, तथापि निर्मूलत्वशड्कालकड्कितत्वेनानुष्ठानपर्यन्ततां न यायात् ।
अतो मूलानुमानमेव साधीय इत्यर्थः ।
न वेदानुमाने मूलं लिङ्गमित्यर्थः ।
किमुक्तं भवति शुचीत्यनेन पुनरुक्ततां परिहरन्नाह–अपि चेति ।
अथ त्रयीविद्वेषादिति ।
न च वाच्यम्, यावति विवादस्तावानेवार्थः पक्षः ।
गोमयादेस्तु शुचित्वमुभयवादिसिद्धमतस्तावदेव दृष्टान्तयिष्यत इति ।
तस्यापि शुचित्वं नागमप्रामाण्यमनभ्युपगम्य शक्यमभ्युपगन्तुमिति चोदयति–अथेति ।
व्युत्थिताभिसन्धेः प्रश्न इत्यर्थः ।
अभिसन्धिमाह–न खल्विति ।
नन्वेकस्मिन्ननुमानद्वयसमावेशो विरोधश्चरस्त्येव तत् कथमभावादित्यत आह–अयमभिसन्धिरिति ।
न हि पूर्वप्रवृत्तेन यदेव तदेव बाध्यते, अनियमप्रसङ्गात्, अत उक्तम्–तब्दलभावीति ।
स्वसिद्ध्यर्थं स्वाश्रयसिद्ध्यर्थं स्वस्यापकसिद्ध्यर्थं च तदपेक्षमित्यर्थः ।
स्वव्यापकसाधकेन बाधितमुदाहरति–एवमिति ।
स्वसाधकेन बाधितं तु यथैकसन्ततिपतितानि ज्ञानानि एकप्रतिपत्तृविरहे ऽपि प्रतिसन्धानयोग्यानि कार्यकारणभावादित्यपि द्रष्टव्यम् ॥
न ह्यत्र कार्यकारणभाव एकप्रतिपत्रभावे सिद्ध्यति ।
क्व तर्हि असमावेशो यदभिसन्धायाह–समावेशाभावादित्यत आह–तस्मादिति ।
समस्तरूपोपपत्तिः सामर्थ्यम् ।
समावेशपक्षे ऽवश्यमन्तत एकतरस्यान्यतररूपहान्या भवितव्यम् ।
अन्यथा तदेकं वस्तूभयात्मकमनुभयात्मकं वा स्यात् ।
तस्माद्
वस्तुतस्तुल्यबलयोर्विरुद्धयोः समावेशो नास्ति ।
समाविष्टयोश्च न वास्तवी तुल्यबलतेत्यर्थः ॥
तत् किमिदानीं सत्प्रतिपक्षता नास्त्येवेत्यत आह–न हीति ।
एवमेतद् वस्तुतः सत्प्रतिपक्षता नास्त्येव, किं त्वगृह्यमाणविशेषवस्थायां प्रमानुत्पादकत्वं परस्परप्रतिक्षेपेण ।
अतः स एव दोषत्वेनोपनिबद्धो मुनिनेत्यर्थः ।
एतदेव वार्त्तिकमुखेन दर्शयति–कस्मात् पुनरिति ।
अनुमानयोरुक्तरूपयोरन्वयव्यतिरेकसम्पन्नयोरपि समावेशदर्शनात् यथाश्रुतवार्त्तिकमसङ्गतमित्यत आह–इहेति ।
अबाधितविषयेण सह प्रत्यक्षादीनामपि समावेशो नास्ति ।
ततस्तेभ्यो न
कश्चिदनुमानस्य विशेष उक्तः स्यात् ।
अतस्तद्रूपपरिहारेणोपलक्षणम् ॥
ननु यथा अगृह्यमाणविशेषावस्थायामनुमानयोः सत्प्रतिपक्षत्वं तथा प्रत्यक्षानुमानयोरप्यस्तु ततः क्व बाध्यबाधकभावः? अथ विशेषेण गृहीते प्रत्यक्षमनुमानस्य बाधकमिष्यते, अनुमानमप्येवमिष्यताम् ।
तथा च परस्परनिरपेक्षयोरनुमानयोरपि बाध्यबाधकभावो ऽस्त्वित्याशयवान् चोद्याभिप्रायमाह–प्रत्यक्षमपीति ।
परिहाराभिप्रयमाह–तुल्यबलौ हीति ।
प्रत्यक्षं हि नानुमानस्यान्यथासिद्ध्यनन्यथासिद्धी प्रतीक्षते ।
किं तु स्वयमनन्यथासिद्धं सदनुमानमास्कन्दत्येव, यथोष्णत्वग्राहिणानन्यथासिद्धेन प्रत्यक्षेणानुष्णत्वानुमानमनौपाधिकतया बाधकज्ञानात् पूर्वमनन्यथासिद्धमप्यास्कन्दितम् ।
तदेतदनयोर्हेनाधिकबलत्वम् ।
अनुमानं तु स्वयमनन्यथासिद्धमपि सत्प्रतिपक्षानुमानस्यान्यथासिद्धिं प्रतीक्षते ।
न ह्यनन्यथासिद्धं तत्त्वेन बाधितुं शक्यते अविशेषात् ।
तदेतदनयोस्तुल्यबलत्वम् ।
न चानन्यथासिद्धेनाप्यन्यथासिद्धं बाध्यतामिति युक्तम्, तस्यान्यथासिद्धत्वेनैव दूषितत्वात् ।
न च यत्र प्रत्यक्षमन्यथासिद्धं तत्रानुमानेनावश्यमन्यथासिद्धेन भवितव्यम्, उभयोरनन्यासिद्धौ वस्तु
दुस्तरं व्यसनमासादयेत्, ततस्तदपि तेनैव परिभूतम्, किं तत्र प्रत्यक्षबाधयेति वाच्यम् ।
तदन्यथासिद्धेः प्रत्यक्षबाधोत्थाप्यत्वादिति विशेषः ।
तस्माद् यावत् प्रत्यक्षस्यानन्यथासिद्धत्वं नावधार्यते, तावत्कालमेव तत्र
निर्णयानुदयः सत्प्रतिपक्षरूपतां प्रतिरूपयति ।
तदुत्तरकालं तु किं वराकमनुमानमित्यर्थः ।
तदिदमुक्तम्– प्रत्यक्षमनन्यथासिद्धमिति ।
उपदर्शितप्रकारादन्येन प्रकारेण व्यवस्थापयितुमशक्यम् इत्यर्थः ।
अन्यप्रकारव्यवस्थापनं च विषयसेकोचमात्रेण न बाधकं विना भ्रान्तत्वेनापि ।
तथा सत्यतिप्रसङ्गादिति ॥
अथोपमानेत्यादि चोद्यं सम्भावयति गोसदृश इति ।
ननु नोपमानविरुद्धमिति विप्रतिपत्तिरेव सम्प्रतिपत्तिर्नागरिकलोकसम्प्रदायेनेत्यत आह–न भवतीत्यनुषज्यते ।
योद्यवार्त्तिकस्थमिति शेषः ।
अन्यथासिद्धप्रत्यक्षागमसमुत्थापितमुपमानमनुमानेन यदि वाध्यते सत्प्रतिपक्ष्यते वा, तदा तथाभूतौ प्रत्यक्षागमावेवाबाधितौ सत्प्रतिपक्षितौ वा स्याताम् ।
तथा च सति सर्वं समाकुलमापद्येत ।
तसमाद् यथा ताभ्यामनुमानमपनुद्यते तथा तदुत्थापितफलशरीरेणोपमानेनापीति टीको पबृंहितस्य वार्त्तिकस्यार्थः ॥
प्रयोजनस्वरूपेति भ्रान्तस्याक्षेप इति विवरणफलम् प्रयोजनव्याख्यानाङ्गमिति ।
वादजल्पौ सप्रयोजनावित्यादिभाष्ये यद्यपि प्रयोजनमङ्गतया श्रूयते तथाप्यड्गि प्रत्येतव्यम् ।
तेनायमर्थो भाष्यस्य, प्रयोजनं तावद् वादजल्पौ व्याप्नोति, वितण्डां तु व्याप्नोति न वेति चिन्त्यत इति विवरणार्थः ।
ननु वादजल्पयोः प्रयोजनवत्त्वसिद्धौ वितण्डायास्तच्चिन्त्येतापि, तयोरेव तु प्रयोजनवत्त्वं केन भाष्येण प्रतिपादितमित्यत आह–तत्र शब्दार्थमिति ।
वक्ष्यति हि पृथगुपदिष्ट उपलाक्षणार्थम्, उपलक्षितेन व्यवहारस्तत्त्वज्ञानार्थं भविष्यतीति ।
स च व्यवहारो हेत्वाभासेभ्यो हेतोविवेचनलक्षणो ऽवान्तरप्रयोजनमपि असाधारणतयेह तत्रशब्देन भाष्यकारस्य विवक्षितमतस्तदेव वार्त्तिककृता व्याख्यातमित्यर्थः ।
ननु तथापि तत्र न्याये विवेचयितव्ये इति युक्तं , न हि न्यायाभास एव विवेक प्रधानमित्यत आह–न्यायामास इति तु सन्निधानादिति ॥
तदनेन विचारविषयो विविच्य दर्शितः ।
परीक्षपूर्वरूपं संशयं दर्शयितुन्तत्कारणतया व्याख्यातृविप्रतिपत्तिमाह–प्रतिपक्षेति ॥
परीक्षाया३ प्रयोजनमाह–तत्र यदीति ।
पूर्वपक्षःः—तत्र केचिदिति ।
सिद्धान्तः—परपक्षसाधनेति ।
यद्यपि परपक्षदूषणेनापि प्रयोजनेन वितण्डायाः सप्रयोजनत्व सिद्धचति,
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ।
इति वचनात्, यदि च परपक्षदूषणमपि नाधिकुर्यात् तदा वैतण्डिक एव न स्यात् ।
तथाप्येतदेव स्वयं किञ्चिदप्यनभ्युपगच्छतो न स्यादित्यतः पारिशेष्यादपि स्वपक्षसिद्धिम् अभिसन्दधानस्यैव प्रवृत्तिर्युक्तेत्याशयः ।
ननु
नास्त्येवासौ वादी यः किञ्चिदपि नाभ्युपगच्छेत्, अन्ततो नर्थस्यैवाभ्युपगमात् ।
तदनभयुपगमे तु किञ्चिदपि
नाभ्युपगच्छामीत्येतदपि न ब्रूयात् ।
तस्मात् किमनेनासदुद्भावनेनेत्यत आह–नास्तिको हीति ।
नास्तिको माध्यमिकादिः ।
अनेन हि परपक्षो नाम्युपगम्यते न पुनः परपक्षप्रतिषेधो ऽभ्युपगम्यत इत्यर्थः ।
तदिदमुक्तं परपक्षप्रतिषधमात्रप्रयुक्तः प्रवर्तत इति ।
तथा हि नेदं जगदस्ति, बाध्यमानत्वात् ।
नापि नास्ति, प्रतीयमानत्वात् ।
नापि सदसद्रूपम्, विरोधात् ।
नाप्यनुभयरूपम्, विरोधादेवाप्रतीतेश्चेति ।
ननु न हि यदेव प्रत्येति, तदेवाभ्युपगच्छति ।
तथा सति प्रतिवादिवचनार्थः प्रतीतश्चेदभ्युपगतः स्यादित मतानुज्ञा निग्रहस्थानम् ।
अप्रतीतश्चेदज्ञानं निग्रहस्थानम् इत्यायातमित्यत आह–प्रतिपत्तिरभ्युपगमः ।
इह विवक्षित इति शेषः ।
तथाप्यभ्युपगमविषयत्वादेव न पक्षस्तस्य ज्ञाप्यत्वादित्यत आह–यद्यपीति ।
तन्नान्तरीयकत्वादिति अभ्युपगमनान्तरीयकत्वात् ।
ज्ञाप्यतायाः पक्षशब्देन सिद्धान्तो ऽत्र विवक्षित इत्यर्थः ।
असिद्धविरुद्धत्वादिदोषो वाद्युक्तसाधनविषय इति शेषः ॥
अदृष्टान्तस्यापि साधनविकलादेः प्रत्यक्षविषयत्वादित्यतिव्याप्तिः ।
आगमादिविषयस्यापि व्याप्तिग्रहणगोचरस्य दृष्टान्तत्वादित्यव्याप्तिः ।
ननु तथाप्यतिव्याप्तिरेवेत्यत आह–अत्र चेति ।
सम्मुग्धं वार्तिकं विवेचयति–यत्तेषु तेष्विति ।
अथ लक्षणसूत्रव्याघात एव कस्मान्न भवति, यावता तदपि प्रत्यक्षाप्रत्यक्षसाधारणमित्यत
आह–न तूदाहरणेति ।
साधारणं विशेषविषयतयापि शक्यं व्याख्यातुमित्यर्थः ॥
तत् किमिदानी भाष्यमलग्नमेवेत्यत आह–तस्मादिति ।
नन्वनुमानात् को ऽपरो न्यायो येनानुमानाश्रयतामुक्त्वापि न्यायाश्रयतां दृष्टान्तस्य पृथगाह भाष्यकारः, वार्तिककारो ऽपि तथैवानुमन्यत इत्यत
आह–न्यायस्य पञ्चावयवात्मकस्येति ।
तथाप्याश्रयत्वं संयोगसमवायाभ्यां दृष्टान्तस्य न घटते,
वाक्यस्याकाशाश्रयत्वादित्यत्त उक्तं–मूलमिति ।
तथाप्यनुमानाश्रयत्वं दृष्टान्तस्यासङ्गतं लिङ्गस्य पक्षाश्रयत्वात्
तज्ज्ञानस्य चामाश्रयत्वात् ।
अत उक्तम्–अनुमानं निमित्तत्वमाहेति ।
पूर्वप्रत्यक्षदृष्टमिति यथाश्रुतं बह्वाकुलयतीत्यत आह–दृष्टान्तेति ।
एवं च सत्यनुमाननिमित्तत्वात् पक्षस्यापि पृथगभिधानं स्यादिति न चोद्यम् ।
सिद्धान्ताभिधानेनैव गतार्थत्वादिति ।
ननु शब्दे दृष्टान्तापेक्षा नास्त्येव,
अग्निष्टोमेन यजेत स्वर्गकामः
इत्यादौ तमन्तरेणैव वाक्यार्थप्रतीतेरित्यत आह–सम्बन्धग्रहणविषय इति ।
सम्बन्धग्रहणविषयतामात्रेण दृष्टान्तत्वं विवक्षित्वेदमुक्तम्, न पुनर्व्याप्तिलक्षणसम्बन्धविशेषग्रहणविषयतयेत्यभिप्रायः ।
यत्तु तत्प्रमाण्ये तद्विषयगोचरानुमानाभिप्रायेण दृष्टान्तापेक्षा आगमस्याप्यस्तीति कैश्चिद् व्याख्यातं तत् पूर्वं ज्ञातं चार्थं परस्मा आचष्ट इति वदता वार्तिककृतैव अपास्तम् ।
अतस्तदुपेक्षितवानिति ॥
अत्रार्थाम्युपगमयोर्गुणप्रधानभावस्य विवक्षातन्त्रत्वादर्थाभ्युपगमो ऽभ्युपगम्यमानो वार्थः सिद्धान्तः ।
तेन सूत्रभाष्यवार्त्तिकटीकासु मिथो न विरोधः ।
इदमित्थम्भूतशब्दयोर्विशेषणविशेष्यमावभ्रमं निवारयति–इदमितीति ।
न तु
पुरुषविशेषे व्यवस्थापयतीति ।
व्यवस्थाशब्दो न पुरुषविशेषे अभ्युपगमनियममाह–किं तर्ह्यनभ्युपगमसमुच्चयं निराकुर्वन् स्वरूपनियममित्यर्थः ।
ननु वादादिप्रवृत्त्यर्थं प्रतितन्त्रसिद्धान्त एवोपयुज्यते, तत् किमपरैरित्यत आह–तथेति ।
ननु यत एव सर्वतन्त्रसिद्धान्त न विप्रतिपत्तिविषयः, अत एव न वादादिप्रवृत्तिहेतुरित्यत आह–तथा
हीति ।
यद्यपि स्वरूपेण सर्वतन्त्रसिद्धान्तो न वादादिप्रवृत्त्यङ्गम्, तथापि प्रतितन्त्रादिसिद्धान्तोत्थापनद्वारा न्यायाश्रयतया चोपयुज्येत इत्यर्थः ।
एतेनैव प्रतितन्त्रसिद्धान्तप्रयोजनं छलतः प्रकटीकृतम् ।
किमाश्रयश्र्व न्यायः स्यात्? असति सर्वतन्त्रसिद्धान्त इति शेषः ।
अधिकरणसिद्धान्तप्रयोजनमाह–तथेति ।
साध्यसामान्यव्याप्तं साधानसामान्यमिति साधनविशेषात् साध्यविशेषः कथं गम्येतेति योजना ।
अयमर्थः ।
अधिकरणसिद्धान्तेन हि फलेन विषयेण वा पक्षधर्मता फलवती विषयवती वा स्यात् ।
तदभावे तु सा निष्फला निर्विषया वा, तथा च व्याप्तिरपि सामान्यविषया सती केवला सामान्यमात्रमुपनीय पक्षे कथं व्यवस्थापयेत्? अव्यवस्थाप्य च कथं कृतार्था स्यात्? तथा चानुमानमात्रम् उच्छिद्येत ।
एवं च क्व न्यायः? क्व वा वादायत इति? तस्मादधिकरणसिद्धान्तो ऽपि पक्षधर्मताफलविषयतया अवश्यं व्युत्पादनीयो येन व्याप्तिरपि तत्सहाया सती फलवती स्यादिति ॥
मुख्यमर्थ गृहीत्वा शङ्कते–नन्विति ।
भक्त्या च वृत्त्या परिहरति–अवयवा इवेति ।
भक्तिमाह–यथा हीति, क्रियोदाहरणं–सोमेनेति, सोमपदस्य कर्मनामधेयत्वात् ।
धात्वर्थमात्रविवक्षया च करकपदात् पृथगमिधानम्,
वस्तुतस्तु सोमस्यापि कारकत्वमेव ।
गोदोहनेनेति कारकोदाहरणम्, अपः प्रणयनस्य वाक्यान्तरप्राप्तत्वात् ।
प्रातिपदिकार्थोदाहरणम्–यस्येति व्रात्यशब्दस्यार्थवतो ऽधात्वप्रत्ययरूपत्वात् ।
तथापि न समूहो व्युत्पादित इत्यत आह–तदनेनेति ।
ननु विशेषप्रत्ययहेतवो ऽवाक्यभूता अपि सन्तीति अनेनाभिप्रायेण पृच्छति–क इति ।
प्रत्ययस्य प्राधान्यं निराकुर्वन्नेव प्रत्ययपदोपादानप्रयोजनमाह–न च तदिति ।
विशेषणासिद्धिं परिहारन्नाहप्रतीतिश्चेति ॥
अथानुभव एव कस्मान्न भवति? न ह्यन्त्यपदं नानुभूयत एव ।
तथा सति स्मर्येतापि कथमित्यत आह–न हीति ।
तथाप्येवम्भूतस्यापि तदस्य स्मृतिरनुभूतिमन्तरेण न स्यादित्यत आह–सम्भवन्ति त्विति ।
अस्तु तर्हि तदनुभव एवार्थप्रतीत्यङ्गमित्यत आह–न चैत इति ।
तदनेनानुभव एवार्थप्रत्यायनाङ्गमिति निरस्तम् ।
अनुभवस्मृतिसमुच्चयं निराकरोति–न च पूर्वेति ।
स्मृत्युनभवयोस्तु स्यात् सहभाव इत्यनुषञ्जनीयम् ।
एतच्च उपान्त्यान्त्यवर्णानुभवान्तराले स्मृत्यभ्युपगमेन द्रष्टव्यम् ।
यदि तु वर्णानां निरन्तरोत्पादवतां निरन्तरा एवानुभवास्तदा विनश्यदविनश्यदवस्थयोः उपान्त्यान्त्यानुभवयोरेव सहभावः शङ्गनीयः, निराकरणीयश्चोक्तयुक्त्या ।
अतो न पृथगाशड्कितः टीकाकृता ।
कारणसमुच्चयवशाद् विषयासमुच्चयवतः प्रत्ययस्य स्वरूपसमुच्चयं परस्वीकृतं शङ्कते–न च पूर्वेति ।
निराकरोति–सम्बन्धेति ॥
यद्यपि सहकारिलाभादपरः संस्कारस्योद्बोधो नाम नास्ति, तथापि न यः कश्चित् प्रत्ययः तस्य सहकारी, सर्वदा सर्वसंस्कारोद्वोधे सर्वस्मृतिप्रसङ्गात् ।
नापि सड्केतविशेषस्मरणे पदैकदेशवर्णानुभवस्तत्संस्कारस्य सहकारी, तथा सत्यतिप्रसङ्गात् ।
तस्मात् पदत्वेन प्रतिसन्धानमेव समयस्मृतिहेतुसंस्कारस्य
सहकारीत्युपगन्तव्यम् ।
तथा चैकप्रघट्टकेनापि विचित्रज्ञानेन विषयीकृतो वर्णाः खण्डशः पदभावेन प्रतिसन्धेयाः,
अर्थसम्बद्धत्वेन स्मर्तव्या इति कुतो ऽनुभवावकार्शः इत्यर्थः ।
प्रक्रिया त, अन्त्यवर्णानुभवस्योत्पादः,
तत्संस्कारपदत्वप्रतिसन्धानयोरूत्पद्यमानतेत्येकः कालः ।
अथ तयोरूत्पादः, स एव पदप्रतिसन्धानोत्पादात्मा समयसंस्कारोद्बोधः सम्बन्धस्मरणस्योत्पद्यमानता संस्कारोद्बोधाद् विचित्रप्रत्ययस्य विनश्यत्तेत्येकः कालः ।
अथ सम्बन्धस्मरणोत्पादः विचित्रप्रत्ययस्य विनाशः पदत्वानुसन्धानस्य विनश्यत्तेत्येकः कालः ।
न चैतददृष्टं कल्पनमित्याह–अत एवेति ॥
नन्वेकप्रघट्टकेन विचित्रप्रत्यय एवानुसङ्घानात्मा भविष्यति, करिष्यति च समयस्मृतिं तथाविधाम् ।
अथापि
पूर्वस्मृतिरशेषपदावगाहिन्येकैव स्वीकर्तव्या इत्यत आह–एवं चेति ।
अनुभूतं हि प्रतिसन्धीयते, न तं प्रथमत एव, तथा च पूर्ववर्णाणामुनभूतत्वेन पदत्वानुसन्धानसम्भवे ऽपि अन्त्यवर्णस्याननुभूततया नान्त्यपदप्रतिसन्धानसम्भवः ।
न चानुभवानुसन्धानयोरेककालता, कार्यकारणभावात् ।
तस्मात् तदनन्तरमेव पदत्वानुसन्धानमिति सुष्ठूक्तम्, यदा पदार्थप्रत्यायने ऽनुभवो न कारणमिति तदौपयिकस्मृत्युत्पत्तौ तु कारणमेवेति ।
अवधारणादीत्यत्रादिशब्देन तषां स्मरणं विवक्षितम् ।
प्रकरणादयस्तु योग्यताविशेषत्वात् तत्रैवान्तर्भूता इति तत एव वाक्यार्थप्रतीतेरूपपत्तेः, अनुपपत्तौ त्वसिद्धिर्लक्षणस्य दोष इत्याशयः ॥
ननु क्रमानुभूतानामप्येकस्मृतिसमारोहः सम्भवत्येव, किं तु पदानि क्रमेणापि नानुभूतानीत्यत उक्तम्–निरन्तरेति, निरन्तरस्मृतिभिर्विषयीकृतानि तत एकस्मृतिसङ्कलितानित्यर्थः ।
नैरन्तर्यं च स्मृतीनां सन्निकर्षाद् बोद्धव्यम् ।
नन्वेतावतापि असिद्धमेव लक्षणम् ।
न ह्येवम्भूतमप्यन्त्यपदं विशेषप्रतिपत्तिहेतुरित्याशयवानाह–स्यादेतदिति ।
ननु प्रत्येकं व्यभिचारे हि परस्परानुग्रहः स्यात् ।
न च पदकदम्बकप्रतिसन्धानवत् तदर्थस्मृतिरपि तथाविधां वाक्यार्थप्रत्ययोत्पत्ति प्रति व्यभिचरतीत्यत आह–एतदुक्तं भवतीति ।
अयमाशयः, न तावत् तदार्था एव वाक्यार्थे प्रमाणम्, सर्वदातत्प्रतीतिप्रसङ्गात् ।
नापि त एव स्मृताः, प्रकारान्तरेणापि स्मृतानां तथाभावप्रसङ्गात् ।
नापि त एव पदैः स्मारिताः, पदानां पदार्थस्मरणमात्रोपयोगे पूर्ववत् प्रतीतिप्रसङ्गात् ।
वाक्यार्थप्रतीत्युपयोगे तु तेषां कथं न तद्धेतुत्वम् ।
तथापि गुणप्रधानभावविनगिमनायां को हेतुरिति
चेत्? असाधारणकारणत्वं पदानाम् ।
तदर्थानां तु अतीतानागतादिरूपतया कारणत्वमेव नास्ति, कुतो ऽसाधारणत्म्? अत एव न स्मृतिस्तेषां व्यापारः, किं तु कारणीभूतानां पदानामेव ।
तथा च व्यापाराव्यभिचारमादाय निर्व्यापारावस्थाया व्यभिचारवतामकारणत्वाभ्युपगमो बहुव्याकुलयतीति ॥
प्रतिसन्धीयमान इति वार्त्तिकनिराकरणीयमतिव्यापकत्वं दर्शयति–यदीति ।
निष्पत्तेर्भेदं दर्शयितुं पुनः
सिद्धिर्व्याख्यानमनुवदति–वास्तव इति ।
न हि प्रतिज्ञावचनं निश्वायकं विशिष्टस्येति शेषः ।
हेतुवचनादिवैयर्थ्यात्
वैयर्थ्यप्रसङ्गात् ।
साधनस्य न्यायः प्रवृत्तिप्रकारः ।
स च नानुपलब्ध इत्यादिभाष्ये दर्शितः ।
तस्यातिपातो ऽभाव एव ।
तमेव व्युत्पादयेत् प्रधानतयेति शेषः ।
तस्य च न्यायविषेषस्य आत्मादिविषयस्येत्यर्थः ।
अलौकिकोपचारत्वात् प्रयोजनमाह–आगमोपचारस्येति ।
अर्थसंवादेनेति करणे तृतीया ।
आगमविरोधशङ्गानिवृत्तिरनुग्रहः ।
दृढभूमिश्च संस्कार आगमैकविषयत्वात् ।
सप्रयोजनश्च भवति निःश्रेयसेन प्रयोजनेन प्रयोजनवांश्च ज्ञातो भवतीत्यर्थः ।
कुतः?
आगमार्थज्ञानस्येति ।
निरूढत्वात् प्रसिद्धत्वादित्यर्थः ।
तत् खलु हेतुवचनमनुमानप्रतिपादकं परामृश्यमानलिङ्गप्रतिपादकं यदि स्यात्, तदा विषयतयानुमानेन परामृश्यमानेन लिड्गेनानुग्रहीतव्यम् ।
न च तस्य परामृश्यमानं लिङ्ग विषय इति भावः ॥
ननु यदेव दृश्यमानं लिड्गं हेतुवचनस्य विषयः, तदेवानुमितिभावकमित्यत आह–न च लिङ्गदर्शनमात्रमिति ।
दृश्यमानलिङ्गमात्रमिति ।
अपि तु सम्बन्धस्मृतिसहकारीति परामृश्यमानं लिङ्गमित्यर्थः ।
तदिदमुक्तम्–तस्मान्न लिङ्गवचनमनुमानप्रतिपादकमिति ।
द्वितीयदशनविषयलिड्गं प्रतिपादकं न परामृश्यमानं लिड्गं प्रतिपादकमित्यर्थः ।
व्याख्यानं ग्रन्थानुरोधादस्फुटमित्याशयवानाह–एतदुक्तं भवतीति ।
एवं च तत्प्रतिपादकस्य तद्विषयप्रतिपादकस्येत्यर्थः ।
लिङ्गपरामर्शस्तावदनुमानम् ।
तस्य च
व्याप्तिस्मृतिसहकारितानुमितौ, द्वितीयालिङ्गदर्शनस्यापि व्याप्तिस्मृतिसहकारिता परामर्शज्ञानजनन एवेत्युभयोरपि सम्बन्धस्मृतिसहकारितासाम्यादनुमानत्वम् ।
ततस्तद्विषयलिङ्गस्यापि, ततस्तदनुगृहीतस्य तद्वचनस्यापीत्यर्थः ।
किमस्योपचारस्य फलमित्यत आह–एवं चेति ॥
ननु प्रत्यक्षविषयस्य स्मृतितः पुनरूपदर्शनादिति वक्तव्ये कुतो विपरीतमभिहितमित्यत आह–यत्रेति ।
यद्यपि पूर्वप्रत्यक्षविषयो दृष्टान्तः, तथाप्युदाहरणकाले तयास्मृत्यारूढ एव व्याप्रियत इत्येतावता तथैवोक्तमित्यर्थः ।
न केवलं प्रत्यक्षेण सहैकविषयत्वमुपचारे बीजम्, अपि तु समानव्यापारत्वमपीत्याह–पुनरूपदर्शनात् पनुः स्मरणात् ।
प्रत्यक्षमपि हि विप्रतिपत्ति परिभूय व्याप्तिविषयतया दृष्टान्तं स्मारयति–तद्वचनमपीति ।
अपरमपि बीजमाह–मूलभूतेति ॥
ननु यथा शब्दतदर्थयोरूपनये वार्तापि नास्ति, तत् कथमाह—यथा तथेति? अत आह—उपनयो हीति ।
यद्यपि निगमने ऽपि प्रमाणविशेषसमावेशो ऽस्त्येव, तथापि जात्यभिप्रायेणायं विवक्षितः, न च तत्र चतुष्टविजातीयं प्रमाणमस्तीत्यतस्तद्व्याख्यानात् पूर्वमेव परमत्वोपपादनाय समस्तप्रमाणविनिवेशनमाह—सो ऽयमिति ॥
मूलसमवायाभावादौपचारिकः समवायो भविष्यतीत्यत उक्तम्–प्रमाणानां वेति ।
अध्यारोपो विनिवेशनं वा भ्रान्तिर्वा न सम्भवतीत्यत आह–अध्यारोप इति ।
समार्थ्य हीति ।
धर्मः कारणत्वलक्षणः ।
तदनेन किं पुनः समर्थ्यमिति पृच्छतो ऽभिसन्धिः दर्शितः ।
उत्तराभिसन्धिमाह–इह त्विति ।
सामर्थ्याकाङ्क्षयोः परस्परव्याप्तेराकाङ्क्षैव सामर्थ्यशब्देनेह विवक्षितेत्यर्थः ।
तदेवरूपयोः समवायसामर्थ्ययोः प्रदर्शनेन फलं दर्शयति–तदत्रेति ।
प्रयोजनाभेदे ऽप्याकाङ्क्षाविरहितत्वात् वाक्यैकवाक्यत्वं न भवति ।
यथा—
भगो वां विभजतु, पूषा वां विभजत, अर्यमा वां विभजतु इत्यादि ।
अत उक्तं विभज्यमानेति ।
आकाड्क्षायामपि प्रयोजनानकत्वे वाक्यैकवाक्यत्वं न भवति ॥
यथा—
स्योनं ते सदनं कृणोमि घुतस्य धारया सुशेवं कल्पयामि इत्यादि ।
अत उक्तमेकं प्रयोजनमिति ।
तदेनेन,
अर्थैकत्वादेकं वाक्यं साकाड्क्षं चेद्विभागे स्यात्
इति जैमिनीय वाक्यैकवाक्यतालक्षणमभिमतम् ।
ननु यदि विप्रतिपन्नः वाक्येनैव परः प्रतिबोधयितुं शक्यते, अथ वाक्ये तदर्थे वा विप्रतिपद्यमानः केनोपायेन बोधनीयः? वाक्यान्तरेण चेदनवस्थेत्यत आह–यद्यपीति ।
अनन्यथासिद्धप्रत्यक्षागमागोचराभिप्रायमेतदित्यर्थः ।
विकल्पः अनुवादविशेषः ।
तस्य प्रयोजनं विधिः प्रतिषेधो वा? अत्र चाक्षेपावसरे प्रतिषध एव, विशेषप्रतिपादकत्वमिति वदता तत्त्वव्यवस्थाश्रयत्वं विवृतम्, तत्र तत्त्वं विशेषः ।
तस्य प्रतिपत्तिर्व्यवस्था ।
तद्धेतुत्वम् आश्रयत्वम् ।
तत्र विशेषः क इत्यत उक्तम–धर्मविशिष्टो धर्मोति ।
वाक्याद्धि साधनधर्मविशिष्टो धर्मो साक्षात् प्रतीयते साध्यरूपधर्मविशिष्टस्तु तद्द्वारेत्युभयमपि विवक्षित्वा सम्मुग्धमुक्तमिति ॥
ननु प्रमाणान्तरत्वे ऽपि तर्कस्य प्रमाणपदेन सङ्ग्रह एव सामान्येन विशेषस्य सङ्कलनात्, तत् किमित्याह–न
प्रमाणान्तरमिति? अत आह–प्रमाणपदेन हीति दृष्टो हि सामान्यशब्देनापि कस्यचिदसङ्ग्रहः कुतश्चित् कारणादित्यभिसन्धिः ।
अत एव प्रमाणान्तरत्वशड्कायां सङ्गृहीतेभ्यो विशेषेभ्यो ऽन्यत्वमुक्त्वा प्रमेयं दृष्टान्तत्वेनोपात्तम् ।
अनिश्र्वायकत्वात् ।
स्वातन्त्र्येणेति शेषः ।
किं तु प्रमाणविषयविभागहेतुतयेति ।
यस्य
प्रमाणस्येयमितिकर्तव्यता तदीयविषये तदपेक्षत्वादित्यर्थः ।
एतदुक्तं भवति, तर्को हि प्रमारूपं वा प्रमाणं स्यात् लिङ्गदर्शनवत्, अप्रमारूपं वा इन्द्रियादिवत् ।
न तावदाद्यः, तस्याहार्यारोपरूपत्वात् ।
अत एव न तत्करणस्यापि प्रामाण्यमप्रमाफलत्वात् ।
नापि द्वितीयः, स्वविषयव्याप्यविषर्यये ह्यस्य प्रामाण्यमाशाड्रिकतम् ।
तेन च नास्य नियामकः सम्बन्धः ।
असम्बद्धस्य गमकत्वे ऽतिप्रसङ्गः ।
तद्विपर्ययस्य तु तेन सह स्वाभाविकः सम्बन्धो ऽस्ति ।
तेन तत्संवलितस्य प्रवृत्तेस्तदितिकर्तव्यतात्वमेव ।
न हि विपर्ययापर्यवसितं क्वचिदपि कृतार्थं प्रसङ्गमीक्षामहे ॥
नन्वेवं तर्हि प्रमाणस्यापि केवलस्य न क्वचिदपि कृतार्थत्वम् ।
तथा च सति प्रसङ्गतद्विपर्ययपिण्ड एव प्रमाण्यं पर्यवस्येत् ।
एवमेतत्, सेतिकर्तव्यताकस्यैव सर्वत्र करणत्वात् ।
इतिकर्तव्यतातद्वद्भावकल्पनायां त्वयं विभागः ।
तदिदं वक्ष्यति–तस्य प्रसङ्गरूपतया पारतन्त्र्येण स्वयमसाधाकत्वादिति ।
प्रसञ्जनीयस्य प्रमाणविरुद्धत्वेनानिष्टत्वमयुक्तत्वम् ।
साधनीयस्य प्रमाणाविरुद्धत्वेनेष्टत्वं युक्तत्वम्, तेनायमर्थो वार्त्तिकस्य, यद्येवं नाभविष्यत् तदैवं युक्तत्वमहास्यत्, इदं चायुक्तत्वमुपादास्यतेत्यत आह–इतिकारेणेति ।
ततः
प्रसङ्गारूपव्युत्पादनसय वार्त्तिकेन अविरोधः ।
भाष्यं तु प्रसङ्गे स्फुटमेव ।
ननु भवतीति प्रमाणव्यापारात् प्रागेव यदि निश्चितम्, तदा तर्कः प्रमाणमेव स्यादित्यत आह– सम्भवतीति ।
सम्भावना चेहाविरोधमात्रम्, न तु संशयः,
अयुक्तांशस्यापि संशयास्पदत्वात् ।
अनुज्ञा चेयमेव यत् प्रवर्तमानप्रमाणानुकूलत्वेनावस्थानम् ।
तदाह–एतदुक्तं भवतीति ।
अनुजानन् तद्विरुद्धधर्मव्युदासरूपेणाविरोधयन्नित्यर्थः ।
अनुगृह्णाति सव्यापारीकरोतीत्यर्थः ।
तद्विषयप्रमाणानुकूल्येन तर्कस्यापि तद्विषयत्वमिति भ्रान्तिमाशड्क्य निराकरोति–न चेति ।
पारतन्त्र्येण विपर्ययपरतन्त्रतयेत्यर्थः ।
आरोपरूपतामुपदर्शमन्नेव स्वविषयद्वाराप्यस्य प्रामाण्यं निराचष्टे–अस्ति हीति ।
न प्रसड्गो हेतुर्न प्रसज्यमानो
हेतुर्लिङ्गमसिद्धत्वादित्यर्थः ।
ननु न हि यदेव विद्यते तदेव दृश्यत इत्यस्ति नियम इत्यत आह–तेन सहेति ।
तस्मात् नास्तीति फलद्वारेण तर्कस्यानुग्राह्यं प्रमाणं दर्शितम् ।
तेनानुज्ञायमानं प्रमाणं प्रवर्तते फलं साधयति ।
फलमाह-केवलमेवेदमिति ।
कैवल्यस्वरूपविप्रतिपत्तेस्तद् विवृणोति–नेहेति ॥
तदेवमभावविषये प्रत्यक्षे ऽपि तर्कं दर्शयता अनुपलब्धिलिङ्गकानुमानस्य साध्यो ऽभाव इति सौगतमतमपास्तम् ।
अनुपलब्धेरपि निषेधरूपतया अनुमानान्तरसाध्यतायाम् अनवस्थानात्, असिद्धायाश्चागमकत्वात्, प्रत्यक्षतस्तत्सिद्धौ त्वनुमानानवकाशात्, व्यवहारस्यापि विकल्पानुगतव्यापारात् प्रत्यक्षत एव सद्धित्वात् ।
अन्यथा विधिव्यवहारार्थमप्युपलब्धिलिङ्गकमनुमानमास्थेयम् ।
एवं च पुनरप्यनवस्थैव ।
न हि लिङ्गमप्यव्यवह्नियमाणमेवानुमितिं भावयेत् ।
तस्माद् विधिव्यवहारवन्निषेधव्यवहारो ऽपि प्रत्यक्षसिद्ध एव ।
विप्रतिपन्नं प्रति तु परीक्षकैस्तर्कः सहायत्वेनोपनेय इति रमणीयम् ।
आगमसहायं तर्कमाह–एवं स्वर्गेति ।
यजेतेत्यत्र समानपदोपात्तत्वाद् भाव्यत्वाच्च धात्वर्थः साध्यो भवतु, भवतु, वा पुरुषार्थत्वात् स्वर्ग इति संशये तर्कस्यावतारः ।
यदि साध्यो धात्वर्थः स्यात्, तदोपदेष्टुराप्तत्वं विधेश्चेष्टोपायत्वं वाक्यस्य तदभिधायकत्वं प्रेक्षावता च प्रवृत्तिर्न स्यात् ।
अस्ति चैतत् सर्वं प्रमाणतः सिद्धमित्यर्थः ।
अनुज्ञायमानं प्रमाणमाह–समानपदेति ।
न हि यागभावनायाः स्वर्गफलत्वे धात्वर्थस्यातत्फलत्वे समानपदोपात्तत्त्वभाव्यत्वयोः कश्चिद् विदोधः ।
तस्मात् तदविरोधेन स्वर्गफलत्वं युक्तम् ।
धात्वर्थस्य च साध्यत्वं विरुद्धतया अयुक्तमित्यर्थः ॥
ननु प्रमाणानुग्रहाय युक्तत्वायुक्तत्वे विवेचयति तर्को न तु निश्चिनोति इति कुतो विशेषादित्यत आह–न चेति ।
क्रियातिपत्तिरिति, क्रियातिपत्तिः प्रत्ययोपस्थापिते घटसत्त्वधात्वर्थसाध्यत्वे एव क्रियातिपत्तिशब्देन विवक्षिते, न ह्येवम्भूतप्रत्ययाविषयो घटो वा साध्यतया धात्वर्थो वास्तीत्यर्थः ।
किमतो यद्येवमित्यत आह–यदाश्रयेति ।
यस्मिन्नाश्रये तुल्योपलम्भयोग्यत्वेन दुःखत्वेन वा अनिष्टप्रसञ्जकेन हेतुना उपपन्नस्तर्को युक्तायुक्तविषयविश्चयसाधनं
भविष्यति स एव नास्तीत्यर्थः ।
तदनेन प्रसज्यमानस्याश्रयासिद्धिसाधनासिद्धी दिर्शिते, पूर्वं तु स्वरूपासिद्धिर्दर्शिता ।
तस्मादारोपत्वान्न स्वविषये प्रमाणं स्वविषयव्याप्यविपर्यये नियामकाभावाच्च ।
नियतसम्बद्धस्वविषये विपर्ययापेक्षित्वे तु पारतन्त्र्यात् न प्रमाणमित्यर्थः ।
तर्हि क्वास्योपयोग इत्यत आह–निश्रयाय त्विति ॥
ननु तर्कप्रमाणयोरभिमतं भेदं मीमांसाया वेदादभेदवादो विरूणद्धीत्यत आह–प्रमाणेति ।
अथ यथाश्रुत एव
वार्त्तिकार्थः कास्मान्न भवतीत्यत आह–इतिकर्त्तव्यतात्वं चेत्यादिना ।
निकायविशिष्टाभिः रित्यस्य व्याख्यानस्य
शरीरेन्द्रियाणां शुक्रशोणितादेराहारादिभूतकार्यत्वात्, तत्कार्यत्वाच्च बुद्धिवेदनयोर्निमित्तान्तरे प्रमाणं नास्तीति तात्पर्यम् ।
विचित्रनिमित्तत्वे साध्ये भेदवत्वादिति हेतुः स्वरूपाभिप्रायेणानैकान्तिकः स्यात् स्वरूपभेदवतामपि घटादीनामविचित्रनिमित्तत्वादतः प्रकारभिप्रायेण व्याचष्टे—विचित्रत्वादित्यर्थ इति ।
वैचित्र्येणोत्पादादित्यर्थः ॥
ननु निमित्तवैचित्र्यमात्रप्रसाधने सिद्धसाधनम्, न हि निमित्तं किश्चिद् विचित्रम् अस्तीत्येतावतैव धर्माधर्मसिद्धिः, धर्माधर्मलक्षणविचित्रनिमित्तसाधनेन तु नान्वयो न व्यतिरेक इत्यत आह–प्रमाणमुक्त्वेति ।
निमित्तस्य वैचित्र्ये जन्मनो वैवित्र्यग्रसङ्गः निमित्तस्यावैचित्र्ये जन्मनो ऽवैचित्र्यप्रसङ्गः ।
यागादीनामेव निमित्तत्वे निरन्वयप्रध्वस्तात् कार्योत्पत्तिप्रसङ्गः ।
निमित्तस्य नित्यत्वे कार्यस्य सदातनत्वप्रसङ्गः ।
अनेकद्रव्यत्वे ऽभ्युदयसाधारणत्वप्रसङ्गः ।
साधारणैकद्रव्यत्वे ऽपि एव दोषः ।
एमिस्तर्कैः पक्षधर्मतामुपजीव्य प्रवृत्तैरनुगृह्यमाणं सामान्यव्याप्तिबलप्रवृत्तं वैचित्र्यानुमानं विशेषविरोधं परिभूयाभिमतं विशेषं साधयतीत्यर्थः ॥
ननु जात्या किं फलनिर्णयो नास्त्येव, येन कालविशेषं पृच्छति कदा पुनरित्यतो ऽभिप्रायमाह–स्यादेतदिति ।
ननु निर्णयोपादानप्रयोजने वक्तव्ये निर्णीतप्रयोजनस्य तर्कस्य पुनरावृत्तौ किं तात्पर्यमित्यत आह–सङ्कलय्येति ।
सङ्कलनया उभयोरविनाभावो विवक्षित इत्यर्थः ॥
स्वसिद्धान्तानुरूपं साधनं दूपणं चाहतुरिति स्वाध्यपरसाध्ययोर्यथासङ्ख्यम् ।
ननु यद्यपि सर्वत्र जल्पे निर्णयावसानत्वमेव नास्ति क्वचिदनिर्णये ऽपि पुरुषापराधतः कथाविच्छेदात्, तथापि यत्र निर्णयावसानत्वमस्ति, न ततो जल्पादन्यतराधिकरणनिर्णयावसानत्वेन वादो व्यवच्छेतुं शक्यते ।
न च सर्ववादव्याप्तिः, निर्णयस्य वादफलत्वात् ।
फलस्य चोपायाव्यापकत्वादित्यत आह–वादे हीति ।
निर्णया वसानता हि तद्योग्यता अभिप्रेता ।
सा च विवदमानयोः तत्त्वबुभुत्सुतया तमुद्धिश्य प्रवृत्तिः ।
तदिदमुक्तम्, तत्वबुभुत्सोर्वादिनोर्वादे ऽधिकारादिति ।
तदयमर्थः, तत्त्वनिर्णयमुद्धिश्य तयोः साधनदूषणवचनसन्दर्भो वाद इति ।
एवं च नाव्याप्तिर्न वा अतिप्रसङ्गः ॥
जल्पः पुनः कीदृश इत्यत आह–जल्पे त्विति ।
पुरुषशक्तीत्युद्देश्यमाह ।
तदयमर्थः, भवतु नाम क्वचित जल्पतो ऽपि तत्त्वनिर्णयः ।
तथापि नासावद्देश्यो न च श्रद्धेयः ।
स्वशक्तिपराशक्तिख्यापनमात्रमुद्देश्यमिति ।
तस्मादन्यतरनिर्णयावसानत्वेनेति ।
निर्णयावसानाभिप्रायेणेत्यर्थः ॥
ननु जल्पवितण्डयोर्वादविशेषत्वे कथं सामान्यविशेषयोः परिसङ्ख्यासमभिव्याहारः, कथं च परस्परविरुद्धयोः सामान्यविशेषभावो ऽपीत्यत आह–विशिष्येते इति ।
अपरमपि भेदहेतुमाह–वादात् जल्पवितण्डयोरिति शेषः ।
पूर्वं वादव्याख्यानावसरे भेदे हेतुरुद्देश्यविशेषाभिसन्धिरुक्तः तदपेक्षया अपरमपीति ।
यौ तौ वादजल्पयोः प्रयोक्तातौ तावेकत्राविजिगीषया अन्यत्र विजिगीषया विशेषितौ वादजल्पौ परस्परतो व्यवच्छिन्दाते इत्यर्थः ॥
दूषयितुम् एकदेशिव्याख्यानं तन्मतेन व्याचष्टे इति योज्यम् ।
उभयथाप्यनैकान्तिकत्वादिति ।
यद्यपि व्यभिचारादर्शने ऽपि अविनाभावो न सिध्यति पृथगभिधानस्य पुरुषेच्छाधीनत्वात्, वादे चोदनीयत्वस्य चानुद्भावने तत्त्वप्रतिपत्तिव्याघातहेतुत्वप्रयुक्तत्वात्, तथापि व्यभिचारस्य स्फुटत्वात् स एव दर्शितः ।
तस्माद् वादे चोदनीया भविष्यन्तीत्यनेन पृथगभिधानप्रयोजनमात्रं प्रतिपादितम् ।
हेतुत्वं पुनरविवर्क्षितमेव तार्किकम्मन्येनैकदेशिना आरोपितामित्यर्थः ।
नन्वेवंरूपप्रयोजनलाभो ऽपि कथम्? न हि पृथगभिधानमात्रमत्रप्रमाणयितुं शक्यमित्यत आह—सामान्येनेति ।
सामान्यो ऽभिहितं विशेषतो ऽभिदधता सूत्रकृता प्रयोजनविशेषः सूचितः ।
स एव भाष्यकृता दर्शित इत्यर्थः ।
अथ यद्येतदेव विवक्षितमस्य सूत्रकृतः, तदा किमिति न क्वचित् शास्त्रप्रदेशे स्वयमेव दर्शितवानित्यत आह–एतावानेवेति ।
अथ भाष्यकारेण कथमिदमुन्नीतमित्यत आह–तत्रेति ।
किमेवमपीति ।
किमनेन प्रतिपादितेन फलमित्यर्थः ।
नन्वग्रेवादे चोदनीयत्वमेव प्रतिपादयति, इह तु विद्याप्रस्थानभेदज्ञापनार्थत्वं वर्णयति ।
तत् कुतो न विरोध इत्यत आह–वादजल्पवितण्डा इत्यादि ।
अत्रैवार्थे सूचकं वार्त्तिकमाह–अत एवेति ।
अयमर्थः ।
यदि विद्याशब्देनास्य वादादयो न विवक्षिताः कथमग्रे वादव्यापारं दर्शयित्वा जल्पवितण्डयोः सर्वाण्येव निग्रहस्थानानि व्यापारत्वेनाह? तद् यदयमेव ब्रूते नूनमयमस्यार्थो विवक्षित इति ।
तदयं तात्पर्यसङ्क्षपंः, न तावदज्ञातस्वरूप वदज्ञातव्यापारफलभेदा वादादयश्चेतनेनाधिष्टातुं शक्यन्ते ।
न चानधिष्ठिभ्यः फलसिद्धिः ।
तस्मात् स्वरूपवद् व्यापारफलभेद अप्यमीषां प्रतिपादनीया भवन्ति ।
अत एव चतुर्थे फलमपि दर्शयिष्यति
सूत्रकारः ॥
प्रयुज्येरन् सम्भाव्येरन्निति ।
न तु तेषामस्ति सम्भवति प्रयोग इति ।
ननु लक्षणेन पदार्थस्वरूपं न व्यवस्थाप्यते, अपि तु व्यवस्थितं ज्ञाप्यते, तत् कुतो लक्षणतन्त्र्त्वमित्यत आह–लक्ष्यत इति लक्षणमिति ।
ननु यदि पृथगभिधानेनैव वादे चोदनीयत्वं प्रतिपाद्यते, कथं न्यूनाधिकापसिद्धान्तानां पृथगनभिधाने तत्र चोदनीयत्वप्रतिपत्तिः? अथान्यथापि तेषां तद् गम्यत एव तदा हेत्वाभासेष्वपि स एव प्रकारो ऽस्त, कृतं पृथगभिधानेनेत्यत आह–हेत्वाभासानां चेति ।
अयमाशयः ।
न हि हेत्वाभासाः पृथगभिहिता इत्येव वादे चोदनीयत्वं तेषां गम्यते ।
अपि तु वादस्य तत्त्वप्रतिपित्सुकथात्वात्, हेत्वाभासानां चानुद्भावने तत्त्वप्रतिपत्तिव्याघातात् तत्त्वबुभुत्सुना अवश्यमुद्भावनीयास्ते ।
अन्यथा वादो वादत्वं जह्यात् ।
हेत्वाभासानां चानुद्भावनं तत्त्वप्रतिपत्तिव्याघातकमिति ।
अयमेव च न्यायो विशेषतः पृथगभिधानेन सूचितः सूत्रकारेण ।
स च न्यूनादिषु
समान इति ।
एवं च व्यवस्थिते वार्तिककृतो ऽपि प्रश्नो नाप्रास्ताविक इत्याह–तत्र पृच्छतीति ।
ननु यदि जल्पवितण्डयोस्तत्त्वप्रतिपादनार्थमवतारः किम् अप्रतिभाद्युद्भावनेन? अथ न तदर्थत्वं तयोः, किं तदवतारेण? न चान्यार्थत्वे तयोरेतच्छास्त्रव्युत्पाद्यत्वमित्यत आह–साहङ्कारो हीति ।
अहङ्कृतस्य तस्य
तत्त्वप्रतिपत्तेरयोगादहङ्कारशातनमेवानयोस्तत्त्वप्रतिपादनार्थत्वम्, तच्चाप्रतिभाद्युद्भावनं विना न स्यादिति तत्त्वं प्रतिपिपादयिषता कर्तव्यमेवेदमित्यर्थः ॥
ननुच् छलादीनां परिज्ञानं न साक्षान्निःश्रेयस उपयुज्यते आत्मादिवत् ।
नापि तद्व्यवस्थानद्वारा प्रमाणवत् ।
नापि न्यायाङ्गतया संशयादिवत् ।
न च परिज्ञानमेव फलम्, अपुरुषार्थत्वादित्यत आह–परिज्ञानस्य च फलमुक्तमिति ।
तत्त्वप्रतिपत्युपायभूतकथात्रयपरिकरशुद्धिद्वारा तत्परिज्ञानं निःश्रेयसोपयोगीत्यर्थः ।
स्वयं च सुकरः प्रयोग इति ग्रन्थस्य प्रत्यक्षसिद्धत्वात् किमुक्तं भवतीति तत्स्वरूपप्रश्नो ऽसङ्गत इत्यतः पूरयति–अनेन भाष्येणेति ॥
भाष्ये प्रयोजनान्तराभिधानं न सूत्रकृदभिहितप्रयोजनविरोधि, किं तु तदनुगुणम् एवेत्याशयवान् सौत्रं प्रयोजनमनुवदति–सूत्रकारेणेति ।
अनुगुणत्वं तु व्याप्तिप्रदर्शनेन ।
न ह्यस्ति सम्भवः, पुरुषार्थश्चाप्रमाणहेतुकश्चेति ।
तेनायमर्थो भाष्यस्य, यतः सर्वं प्रेक्षावत्प्रयोजनमान्वीक्षिकीव्युत्पाद्यप्रमाणमूलम्, अतो निःश्रेयसस्य परमपुरुषार्थस्य तन्मूलतायां विपर्ययशड्कैव नास्ति, अतन्मूलत्वे पुरुषार्थत्वहानिप्रसङ्गादिति ।
तदिदमुक्तं नास्त्येव तदिति ।
ननु न
तावदितरासु प्रमाणव्यवहारो नास्त्येव, तदितरव्यवहारस्याप्युच्छेदप्रसङ्गात्, प्रमाणव्यवहार सद्भावे तु किमान्वीक्षिक्या तत्र प्रकाशयितव्यम्? तत्प्रमाणैरेव प्रकाशितत्त्वादित्यत आह–यद्यपीति ।
व्युत्पादितेन प्रमाणादीना तत्र व्यवहारस्तद्व्युत्पत्तिस्त्वित एव, न तु तत इत्यर्थः ॥
ननु प्रणेतृश्रोत्रप्रमाणोपजीवनमान्वीक्षिक्यामपि समानमतो न विद्यान्तराद् विशेष इत्यत आह–न तु प्रमाणादीति ।
प्रमाणोपजीवने समाने ऽपि यथैतद्व्युत्पाद्यमुपजीवन्ति ताः, नैवं तद्व्युत्पाद्यमियमपीत्यर्थः ।
ननु उपजीवकतासाम्ये ऽपि परस्परोपजीव्योपजीवकभावः क्व नाम दृष्ट इत्यत आह–यथेति ।
प्रत्यक्षाद्यपि हि स्वप्रामाण्यव्यवस्थितये प्रमाणान्तरमपेक्षते ।
अनुमानमपि स्वोत्पत्तये ।
तथापि प्रत्यक्षाद्येवापेक्ष्यानुमानं स्वविषयु प्रवर्तते ।
न तूपजीवकानुमानमपेक्ष्य प्रत्यक्षादि, अनुमानान्तरं तु स्वप्रामाण्यव्युत्पादकमपेक्षते ।
तदपि न तदैव, किं तु प्रागेव इत्यभिप्रायेण व्युत्पाद्यसजातीयापेक्षानिराकरणायोक्तम्–न प्रत्यक्षादिविषयमपि तदानीमेवेति ।
प्रत्यक्षादिरूपो विषयः प्रत्यक्षादिविषय इति ।
विद्योपकरणं प्रमाणादि ।
तस्य ग्रहणं प्रमाणादिग्रकाशितमर्थमितरा विद्याः प्रतिपाद्यन्ते इति वार्त्तिकेन ।
एतदुक्तं भवति, वार्त्तिके प्रमाणादिग्रहणं भाष्योक्तविद्याप्रकाशकत्वनिर्वाहाय ।
न तु स्वातन्त्र्येण ।
अतो न विरोधः ।
तदेवं स्वरूपेणापेक्षां दर्शयित्वा विषयगता अपेक्षा भाष्यकृता दर्शिता–उपाय इति ।
तद्वार्त्तिकं योजयितुं व्याचष्ट–सम्प्रतीति ।
ननु विद्यान्तराणां शब्दात्मकतया प्रमाणत्वात् तस्य च स्वप्रतिपाद्ये ऽनपेक्षत्वात्, किं तत्रान्वीक्षिकी करिष्यतीत्यत आह–न हीति ।
प्रमाणस्य सतः स्वप्रतिपाद्ये प्रमाणान्तरापेक्षा नास्ति, न तु स्वेतिकर्तव्यताभूततर्कापेक्षापि ।
स चान्वीक्षिकीलभ्य इत्यर्थः ॥
अथ तर्कमनपेक्षमाणस्य किं स्यादित्यत आह–मा भूदिति ।
आदिग्रहणेन
यजमानः प्रस्तरः
इत्यादि ग्राह्यम् ।
तर्कश्च संशयमन्तरेण नावतरतीत्युपसंहारे सो ऽपि दर्शितः ।
यद्यपि सतर्कप्रमाणप्रवृत्तिरेव परीक्षा, तथापीह गोबलीवर्दन्यायेन प्रमाणस्य स्वपदोपात्तत्वात् प्रयोजनजिज्ञासातर्का एव विवक्षिताः ।
प्रमाणस्य निवशः प्रवत्तिः ।
तस्य द्वारमविरोधः ।
अर्थतत्त्वं पदार्थतत्त्वं वाक्यार्थतत्त्वं वा, अवधार्य प्रमाणान्तरादर्थवादादेव वा ।
तत्र त्रयी विधिनिषेधरूपा निवेशनीयेत्यर्थः ।
एवं च दण्डनीत्यां यथा यमो राजा कुबेरो वा राजत्यादि, वार्त्तायां माघे परिकर्षिता भूमिः सुवर्णमयं फलमाधत्त इत्यादि तर्कानपेक्षया विफलायते ।
तस्मात् तत्रापि तदपेक्षा अस्तीत्यतिदिशति–एवमिति ।
विषयमिति शेष इत्यत्रापि विधेयतया निषेध्यतयेति शेषः ॥
इदानीं व्यापारगतामपेक्षामाह भाष्यमतेन–अपि चेति ।
द्रव्यस्य यथा
दध्ना जुहोति
इत्यादि ।
गुणस्य यथा
अरूणया सोमं क्रीणाति
इत्यादि ।
कर्मणो यथा
व्रीहीनवहन्ति
इत्यादि ।
दण्डनीत्यामपि यथा द्रव्यस्य
स्वाम्यमात्य-
इत्यादि ।
गुणस्य यथा
सामभेद-
इत्यादि ।
कर्मणो यथा
शस्त्रशिक्षा गजवाजिवाहनम्
इत्यादि ।
वार्त्तायामपि द्रव्यस्य यथा
यथर्तु बीजं सङ्गृह्णीयात् ।
इत्यादि ।
गुणस्य यथा
भूमिं प्लावयेच्छोषयेत् ।
इत्यादि ।
कर्मणो यथा
स्यानान्तरं निनीषन्ननोकहमभिमन्त्रयेत् ।
इत्यादि ।
विषयं दर्शयित्वा संशयमाह–तत्र किमिति ।
संशयकारणं च विधिपदसमभिव्याहारस्तत्पदस्य ।
विधिपदसमभिव्याहृतस्वपदो ह्यधिकारी न विधिविषयः ।
तथाभूतमेव चाग्निहोत्रं तद्विषयः ।
अतः साध्ये संशयः किं विधिपदसमभिव्याहृतपदत्वादग्निहोत्रादिवद्विधिविषयो भवतु स्वर्गो ऽधिकारिवद् वा नेति पूर्वपक्षमादर्शयन्नेव तत्रानिष्टप्रसङ्गमाह–तत्र यदीति ।
न च श्येनादिसाध्याया हिंसाया विहितत्वेनार्थत्वमेव भवतु का क्षतिरिति वाच्यम् ।
विधिर्हि प्रवर्तकः स्वज्ञानेन इच्छामन्तरा कृत्वा प्रयत्यनोत्पादकं इति यावत् ।
स च प्रयत्नो न साध्यविषयः कर्तुं शक्यते ।
उपयो हि प्रयत्नविषयो न तु फलम् ।
तस्मात् प्रयत्नविषयत्वात् साधनेतिकर्तव्यते एव विधीयेते न तु साध्यम्, तदविषयत्वात् ।
न हि ज्ञापकत्वमात्रं विधित्वम्, अपि त्विच्छाप्रयत्नविषयज्ञापकत्वमिति ।
तस्मात् श्येनादिसाध्या हिंसा अनर्थभूतैवार्थः स्याद् यदि विधिविषयः स्यादिति साधूक्तम् ।
सिद्धान्ते प्रमाणमादर्शयन्नेव साध्यपदसमभिव्याहारस्तर्हि क्वोपयुज्यते इत्याशड्कामपनयति–अथ साध्यांशमिति ।
इष्टाभ्युपायता हि नेष्टमप्रतीत्य प्रत्येतुं शक्या ।
न चाप्रवृत्तैव सा प्रवर्तयति ।
अतस्तां विशेष्टुमिष्टस्यानुवादो ऽयमित्यर्थः ॥
तत् किमिदानीमविहितमित्येतावतैवानर्थः? नेत्याह–न हिंस्यादिति ।
ननु भवत्वेवं तावत् तथाप्यान्वीक्षिक्या किमायातमित्यत आह–तदिहेति ।
विषयान्तरमाह–एवमिति ।
यथा आभिख्यायाः प्रयोजकत्वं क्षीरहोमस्थाने तद्विनिवेशनाद् रसादिसाम्यात्, वाजिनस्याप्रयोजकत्वमवर्जनीयोत्पत्तिकत्वात् ।
आदिग्रहणेन शेषभागहोमविलोपादयो गृह्यन्ते ।
सर्वा विद्या इति विद्यशब्देन तद्धर्मान् लक्षयतीति न भाष्यव्याख्याविरोधः ।
वार्त्तिककारस्तु धर्माणां विद्यापारतन्त्र्यं विवक्षन्निति शेषः ।
सङ्करप्रसङ्ग इति फलस्य ।
तथा च विद्यान्तरुलेनैवास्य फलवत्त्वं न
पुनरसाधारणं फलमस्या अस्तीत्यर्थः ।
असाङ्कर्यं दर्शयितुं तासामेव तावदसाधारणं फलमाह–विद्यान्तराणीति ।
एतस्या असाधारणं फलमाह–इह त्विति ।
अन्यत्रास्याः प्रतिपादितोपयोगविरोधो मा भूदिताशयवतोक्तम्–प्रमाणादि
यद्यपि साधारणमिति ।
एतेनैतदुक्तं भवति, विद्यान्तरुलान्यपि यदान्वीक्षिक्यामायतन्ते सेयमूष्मसिद्धिरस्याः ।
यत्तु प्रधानमस्याः फलं तदसङ्कीर्णमेव विद्यान्तरेष्वसम्भवादिति ॥
वादादीनामिति अतद्गुणसंविज्ञानो बहुव्रीहिः, वादस्य पराभिभवार्थमप्रवृत्तेः ।
जल्पादयो हि मदादिहेतवः पराभिभवोपायत्वात् द्रव्यशरीरसम्पत्तिवदिति प्रयोगः ।
तत्रास्य विरुद्धत्वं तावदाह–तत्र जल्पादीनामिति ।
अयमाशयः ।
न तावत् प्रतिपाद्यस्य जल्पवितण्डयोरधिकारः ।
किं तु प्रतिपन्नस्य तत्त्वप्रतिपत्तिपालनार्थं दुरवलिप्तप्रतिपादनार्थं च तयोरधिकारः ।
पराहङ्गारशातनं च मदमानादिविरुद्धमेव, तेषां दोषविशेषत्वात् ।
अहड्कारशातनस्य च तन्निरोधरूपत्वात् ।
न च पराभिभावोपायभूतशब्दवाच्यतामात्रेणानुमानम्, वागादीनामपि विषाणित्वप्रसङ्गादिति ॥
स्यादेतत् ।
पराभिभवोपायत्वेन हेतुना मदमानादिहेतुत्वं मा सैत्सीत्, अन्वयव्यतिरेकाभ्यामेव तु सिद्धचत्वित्यत आह–मदमानादिहेतुत्वं च हेतुरसिद्ध इति ।
सति च तत्त्वविदां न सम्भवन्तीति वदता यथाश्रुतस्य
पराभिभवोपायत्वस्यानैकान्तिकत्वमपि सूचितम् ।
अतो जल्पादितत्त्वज्ञानवतामपि यदि मानादयो दृश्यन्ते, न ते तद्धेतुकाः, किं तु बलवन्मिथ्याज्ञानहेतुका एवेति सनकाद्युदाहरणफलमिति ।
एतच्च स्फुटमित्यभिप्रायेणाह–उपसंहरतीति ॥१ ॥
॥ परिशुद्धिः ॥
अप्रतीतस्वरूपस्य प्रयोजनामिसम्बन्धस्य परीक्षा न युज्यते, रिराश्रयत्वात् ।
प्रथमसूत्रं तूद्देशपरमेवेत्यत आह–तदेवमिति ।
अभिधेयसम्बन्धप्रयोजनपरादेव तस्मादुद्देशो ऽप्यवगतः ।
स चापेक्षितत्वाद् गृहीत इत्यर्थः ।
एतेन परीक्षाविषयो दर्शितः ।
उचितं दर्शयन्नेव तदतिक्रमे हेतुमाह–तेषामिति ।
ऐतेन छलतः सम्बन्धपरीक्षायाः प्रयोजनमपि
दर्शितम् ।
अभिधानस्य द्वैविध्यम्-उभयकोटिसंस्पर्शः ।
समीचीनमित्याद्यनुरोधेन यथा वार्त्तिकादित्यादावार्थः क्रमो ग्राह्यः ।
तस्मादमिधानसामान्यात् अभिधानसाधर्ग्यमात्रात् निर्णायकरहितात् दृश्यमानादिति यावत् ।
उभयथा दर्शनाच्चेति ।
तत्सहचरितोभयकोटिदर्शनजसंस्कारभुवः स्मरणादिति यावत् ।
एतच्च सूत्रकारस्याप्तत्वावधारणात् प्रागिति मन्तव्यम् ।
यद्यपि
चात्र वचन एव साक्षात् संशयं दर्शयति, तथापि तद्द्वारा अर्थ एव द्रष्टव्य इति ।
सम्बन्धिनि च प्रयोजने तत्त्वज्ञानकार्यतया परीक्ष्यमाणे सम्बन्ध एव कार्यकारणभावलक्षणः परोक्षितो भवतीति तदेव परीक्ष्यतया निर्दिश्यते–तत् खलु वै निःश्रेयसमिति ।
वस्तुतस्तु सम्बन्धपरीक्षैवेयमित्यतो न प्रतिज्ञासंशयपरीक्षाणां वैयधिकरण्यमिति ।
तत्रेति ।
सूत्रे व्याख्यातव्ये ।
उत्सूत्रेणेति ।
पूर्वपक्षं विना सिद्धान्तसूत्रस्यावताराभावात् इत्याशयः ॥
ननु जीवन्मुक्तिपक्षे तद्वतामवस्थानं न स्यादिति चोद्यमानमनवकाशमित्यत आह–तदत्यन्तेति ।
ननु मा भूत्
तत्त्वज्ञानानन्तरमेव निःश्रेयसम्, का नो हानिः ।
न ह्येवं प्रतिज्ञातमस्माभिरित्यत आह–तथा सतीति ।
यद्यपि साक्षादेवं न प्रतिज्ञातम्, तथापि तत्त्वज्ञाननिश्रेयसयोः कार्यकारणभावः सूत्रकृता दर्शितः, स चाननन्तर्यनियम एव स्यात्, नातो ऽन्यथेति पूर्वपक्षी मन्यत इत्यर्थः ।
तदिदमुक्तम्–मिथ्येति ॥
ननु तथापि, तदत्यन्तविमोक्षो ऽपवर्गः ।
[१।१।२२] इत्यतावदेव निःश्रेयसमिति केन प्रतिज्ञानं यावता जीवन्मुक्तिरपि रिःश्रेयसं भवत्येवेत्यत आह–न चान्यदिति ।
अभिसन्धौ बीजं तत्त्वज्ञानस्योत्पन्नस्यापवर्गे
कर्तव्ये ऽपेक्षणीयाभावः ।
भावे वा तदेवापवर्गसाधनम्, न तत्त्वज्ञानमिति ।
तदिदकुक्त वार्त्तिककृता–सत्यपि तत्त्वज्ञाने
यस्याभावान्नापवृज्यते सो ऽन्योर्ऽथः इति स्फुटं वार्त्तिकमिति टीकार्थः ।
सूत्रसमुत्थतां सिद्धान्तवार्त्तिकस्य दर्शयितुं सूत्रमवतारयति–अत्रेदमिति ।
यथाश्रुतं वार्त्तिकं न पूर्वापक्षाच्छादकं न ह्यपरमपि निःश्रेयसं शास्त्रीयात् तत्त्वज्ञानात् साक्षाद्भवतीति, यस्माच्च साक्षाद्भवति न तच्छास्त्रीयमित्यतो भूमिमरचयति–चतस्रो हीति ।
सा चान्वीक्षिक्यामायतते आयत्ता भवति ।
तत्परिकरोपयोगमाह–आन्वीक्षिकी चेति ॥
ननु श्रवणस्य तावदाकाङ्क्षोत्थापनेनोपयोगो, मननस्याप्येवमेवेत्यवधारणेन, तत् किमपरमवशिष्यते यदर्थं प्रतिपत्त्यन्तरोपासनम्? न हि निश्चयातिरिक्तं कस्यचित् प्रमाणस्य फलमित्यत आह–न चायमिति ।
आयमाशयः ।
न हि निश्चयो मोहः औपदेशिकेनानुमानिकेन वा तत्त्वनिश्चयेन निराकर्तुं पार्यते, तदुपायानुष्ठानेन तु तयोरूप्योगः ।
तस्माद् ये वेदान्तिनो वाक्यार्थज्ञानादेव मुक्तिमिच्छन्ति, ते प्रष्टव्याः, किं भवतां वस्तुसन्तमुपायोपेयभावसम्बन्धमभ्युपगम्य प्रवृत्तिः, सवृतिसन्तं वा? आद्ये ऽद्वैतसिद्धान्तक्षतिः, कार्यकारणभावस्य भेदाधिष्ठानतया तयोः परमार्थिकत्वे भेदस्यापि पारमार्थिकत्वप्रसङ्गात्, द्वितीये तु किमविशेषेण प्रवृत्तिः, यथासंवृतिव्यवस्थं वा? आद्ये भोगिनो ऽप्यपवृज्येरन् ।
द्वितीये तु न शाब्दादानुमानिकाद् वा तत्त्वज्ञानादैन्द्रियकव्यामोहविगमः ।
किं तर्हि, साक्षात्कारादेव दृष्ट इति तथैव तदर्थिनः प्रवृत्तिर्युक्ता ।
न च वाच्यं वाक्यादेवात्मसाक्षात्कारोदय इति, तस्य केवलस्य सामर्थ्यानुपलम्भात् ।
यदि तु स्वसंविदितस्वरूपतया किं तत्र ध्यानादिकमपूर्वमाधास्रूतीत्युच्यते, तदा श्रुतेरपि वैफल्यमनेनैव न्यायेन ।
यदपि भौतदशकनदीसन्तरणमुदाहृतम्, तत्रापि न केवलेनैव वाक्येन साक्षात्कारः किं तु चक्षुरादिनैव ।
इहापि मनसा सहकृतेन भविष्यतीति चेत्–न, अनेकधा श्रुतश्रुतेरपि सत्यपि च पटीयसि मनसि ब्रह्मसाक्षात्काराभावात् ।
तत् कस्य होतोः? भौतानामिव स्वशरीरे चाक्षुषस्य दृढतराभ्यासस्य मुमुक्षोर्मानसस्यात्मन्यभावात् ।
तस्मात् तदर्थमभ्यास एव शरणम् ।
तदिदमुक्तं लोकसिद्धमिति ।
लोकसिद्धः कार्यकारणभावस्तात्त्विको भवतु मा वा भवतु सर्वस्य पुरुषार्थप्रवृत्तस्य तावत् स एव शरणम् ।
तदनादरे तु पुरुषार्थो ऽपि नादरणीयस्तुल्ययोगक्षेमत्वादिति ॥
यदि नाम चतस्रः प्रतिपत्तय आत्मादौ प्रमेये, प्रकृते तु किमायातमित्यत आह–अथेति ।
एतदुक्तं भवति–यदि श्रौतमानुमानिकं वा तत्त्वज्ञानमादाय पूर्वपक्षः, तदा अनभ्युपगम एवोत्तरम् ।
न हि तस्य साक्षान्निःश्रेयसहेतुत्वमाचक्ष्महे ।
किं तर्हि? परम्परया सैव चतस्रो हीत्यादिना दर्शिता ।
तस्मात् साक्षात्कारमादाय पूर्वपक्षः ।
तस्य हि साक्षादेव निःश्रेयसहेतुता अभ्युपगम्यते ।
तत्राभयनोद्यपरिहारार्थं निःश्रेयसद्वेविध्यप्रतिपादनमुपस्थाप्यत इति भावः ।
अथ इद्युच्यत इत्यन्तेन पूर्वपक्षः ।
पूर्वः पूर्वो हेतुरुत्तर उत्तरस्तद्वानिति ॥
ननु साक्षात्कारवांश्च देहादिमाश्चेति दुर्घटमिदम् ।
न हि श्रवणादेरिव परे निःश्रेयसे कर्तव्ये साक्षात्कारस्यापि किञ्चित् कर्तव्यान्तरमस्तीत्यत आह–न चैवमिति ।
चोद्यसम्भावनाय दृष्टान्तः–न च प्रायश्चित्तेनेवेति ।
न तावत् प्रायश्चित्तस्याधिकारापत्तिः फलम्, आगममन्तरेणादृष्टकर्मणां फलविशेषकल्पनायां प्रमाणाभावात् श्रूयमाणफलपरित्यागप्रसङ्गाच्च ।
बलवति बाधके सति नेदमनिष्टमिति चेत्–न, अनन्यथासिद्धस्यागमस्य बाधकसहस्रेणाप्यपनेतुमशक्यत्वात् ।
शक्यत्वे वा सुरापयेत्वानुमानमपि दुर्निवारमिति हैतुकानां दत्तः स्वहस्तः स्यात् ।
अत एव न प्रायश्चित्ताचरणदुःखमेव ब्राह्महत्यादीनां फलम्, तत्फलत्वेनाश्रुतेः, प्रायश्चित्तविधिवैफल्यप्रसङ्गाच्च
अविशेषाधानाच्च ।
अनिच्छेतो ऽपि कर्मबलादेव तत्सिद्धेश्च ।
तस्माददत्तफलान्येव कर्माणि प्रायश्चित्तेन क्षीयन्त इत्येव साधु ।
तथा तद्वदेव तत्त्वसाक्षात्कारो ऽपि करिष्यतीत्यर्थः ॥
अत्र चागमबलप्रवृत्ता आगमेनैव बोधयितुं युज्यन्त इत्याशयवानाह,
नाभुक्तं क्षीयते
[]इति ।
ननु
ज्ञानाग्निः सर्वकर्माणि॥।भस्मसात् कुरूते तथा ।
[गीता ४।३७] इत्येवं विपक्षे ऽपि स्मृतिरस्ति ।
तत् कथं निर्णयो भविष्यतीत्यत आह–अन्त्यसुखेति ।
स्यादप्येवं यदि नाभुक्तमित्यादिस्मृतेरनुग्राहको न्यायो न स्यात्, अस्ति च तथा ।
तथा च प्रयोगः, विवादाध्यासितानि कर्माणि
भोगादेव क्षीयन्ते अचीर्णप्रयश्चित्तकर्मत्वादारब्धशरीरकर्मवत् ।
न चात्रागमविरोर्धः, तस्यागमान्तरविरोधेनानिर्णायकत्वादित्यर्थः ।
न चोत्सर्गसिद्धायाः स्मृतेरसति बाधके ऽन्यथामावो युज्यत इत्याशयवानाह–औत्सर्गिकस्येति ।
ननु,
मिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
[मुण्डक। २।२।८] इति श्रुतौ परिपन्थिन्यां कथमुच्यते ऽसति बाधक इति, कथं च तद्विरोधेन स्मृतेर्निर्णायकत्वमनुमानानुग्रहो ऽपीत्यत आह–क्षीयन्त इति ।
न हीयं श्रुतिरदत्तफलानामेव कर्मणां तत्त्वज्ञानात् क्षयमाह, किं तु क्षयमात्रम् ।
तच्चोपभोगेनापि भवन्नकिञ्चिद् विरूणद्धीति भावः ।
देहेषूपभोगो देहोपभोगः ।
अपि च विपरीतापि श्रुतिर्विद्यत इत्याह–तावदेवेति ।
अस्य तत्त्वसाक्षात्कारवतः तावदेव चिरं विलम्बः ।
यावन्न विमोक्ष उपात्तकर्मराशेः सकाशात् फलोपयोगेन ।
अथ तस्मिन् सति सम्पत्स्यते कैवल्येनेत्यर्थः ।
भोगेन त्वितरे क्षपयित्वा
[]इति वाक्यशेषात् ॥
ननु भोगेन प्रक्षयो ऽनुपपन्न एव, कर्मराशेरनन्ततया अनियतविपाककालतया चेत्यत आह–योगर्द्धीति ।
उक्तम् आदिवाक्ये ।
शङ्कते–न चेति ।
अयमाशयः–यदि तावत् कर्मणामेवायं महिमा, यदेकदैव नानाविधदेहाद्यवान्तरव्यापारैस्तैस्तैरूपभोगः साध्यः, किं योगप्रभावपरिकल्पनया? अथ नैष महिमा नेषाम्, तथापि क्व योगप्रभावस्योपयोगः? न हीश्वरो ऽपि कर्मणां स्वभावं विपर्यासयितुमर्हति ।
तस्मात् स्वप्रतिभया कल्पनीयमेतत् ।
एवं चेद् वरमदत्तफलान्येव योगप्रभावात् क्षीयन्त इति कल्प्यतां लाघवायेति ।
परिहरति–दृष्टानुसारेणेति ।
प्रमाणानुसारेण ॥
यथा ह्युपभोगादेव कर्मणां क्षयः, देहादिषु सत्स्वेव चोपभोगः, लब्धवृत्तिभिरेव कर्मभिर्देहादिसम्भवः, सहकारिलाभ एव तेषां वृत्तिलाभः, ते च सहकारिणः क्वचित्फलोन्नेयाः यथा युगपदनेकेन्द्रियोपग्रहे, क्वचिदागमगम्या यथा वासुदेवसौभरिप्रभृतीनां काययौगपद्य इति सर्वत्र प्रमाणमस्ति, नैवमनुपभुक्तकर्मक्षये ।
यथा च महाप्रलये सर्वकर्मणामेकदैव वृत्तिनिरोध आगमप्रामाण्यादास्थीयते, तथा योगर्द्धिकाले ऽपि सर्वेषां वृत्तिलाभ आस्थेय आगमप्रामाण्यादेवेति न किञ्चित् स्वप्रतिभामात्रेण कल्पितमित्यर्थः तादृशश्च मुनिरपरनिःश्रेयसवानित्यर्थः ।
किमतो यद्येवमित्यत आह–इति न वातपुत्रीयमिति ।
अथ परं निःश्रेयसं कीदृशमित्यत आह–परं त्विति ।
इत्युपपन्नं निःश्रेयसद्वैविध्यमिति ।
पूर्वपक्षनिराकरणायेति शेषः ।
न सुखदुःखतया मनुते रागद्वेषप्रसवहेतुत्वाभावादित्यर्थः ।
न ह्यस्ति सम्भवो न तत्र तृष्यति तच्च तस्य सुखु यादृशमज्ञानिनः तृष्णाजनकम्, न तद् द्वेष्टि तच्च तस्य दुःखमिति यादृशमज्ञानिनो द्वेषजनकमित्यर्थः ।
उक्तं तात्पर्यमक्षरार्थीकर्तुं समर्थितमेव शङ्कते–स्यादेतदिति ।
उपभोगप्रयत्न आस्थेयो मोक्षाय त्वरमाणेनापि कायव्यूहादाविति शेषः ।
यस्तु त त्वरते यदा भविता कर्मक्षयस्तदा भविता मोक्षो ऽपि किं त्वरया? प्राप्ता तावन्निरपाया भूमिरिति समर्थितहृदयः, तस्य तु निःश्रेयसद्वययौगपद्यशड्कापि नास्तीति भावः ॥
नन्वेतावतैव सर्वं सुस्थं किमुत्तरप्रबन्धेनेत्यत आह–तदेवमर्थगतिमिति ।
मिथ्याज्ञानदोषप्रवृत्तीनां प्रवाहरूपाणामिति बोद्धव्यम् ।
प्रवृत्तिश्चात्र कारणरूपा ग्राह्या, कार्यरूपाया अनुच्छेदात् ।
जन्मदुःखयोः प्रवाहरूपयोरूच्छेदक्रमो नास्ति ।
कुतः? पूर्वोपात्तस्येति ।
मूलानुच्छेदादित्यर्थः ।
आगामिवार्त्तिकविरोधं परिहरन्नाह–इदं चेति ॥
यद्यपि दुःखादीनामेकार्थसमवायलक्षणो ऽपि योगः सम्भवति तथापि शरीरादेर्जन्मनः स नास्ति ।
कार्यकारणभावस्तु तस्यापि स एव ग्राह्य इत्याह–योग्यतयेति ।
कारणस्य हि पूर्ववर्तित्वं युज्यत इत्यत आह–अत्र
चेति ।
उत्तरस्यानन्तरं च पूर्वमेव स्यात्, न च पूर्वं कार्यमित्यत आह–तदनन्तरत्वं चेति ।
अव्यवहितमव्यवधानं
तेनादौ पाठो ऽव्यवहितादिपाठः ।
मिथ्याज्ञाने कारणे तत्कार्या दोषाः अव्यवधानेनैव आदौ पठिता इति शेषः ।
यथैतत् तथान्यत्रापीत्यत आह–एवमिति ।
तेनायमर्थः ।
दुःखादीनां कार्यकारणभावः ।
तेषामेवोत्तरोत्तरापाये
तदनन्तराभावादपवर्गं इति ।
दूषयति–न हीति ।
अपवर्ग एकोर्ऽथम्ः ।
उत्तरोत्तरापाये तदनन्तराभावादिति च पदद्वयम् ।
केषामिति दुःखादीनामिति च पदं किं भवतीति साकाड्क्षम् ।
तस्मादेकवाक्यत्वलक्षणयोगादेकमेवेदं वाक्यमित्यर्थः ।
यदपि वाक्यभेदेन प्रयोजनाधिक्यमभिहितम्, तदपि नास्तीत्याह–एकनिवृत्त्येति ॥
विश्वतोमुखत्वे ऽप्यसन्दिग्धत्वं प्रकरणानुवृत्त्यादिभिरित्यविरोधः ।
सारवत् प्रयोजनवत् ।
अनवद्यं शिष्टानामदुःखप्रतीतिकरम् ।
प्रकृतत्वेनास्तोभमिति व्याचष्टे–अस्तोभमिति ।
यथाव्याख्याते विप्रतिपद्यमानं लक्षणान्तरेण बोधयति–तथा ह्याहुरिति ।
लाघवं वाक्येषु पदकृतम्, पदेषु स्वल्पत्वमक्षरकृतमित्यपौनरूक्त्यम् ।
एतच्च कार्यकारणभावस्य योगविभागेनाभिधीयमानत्वमभ्युपगम्योक्तम् ।
वस्तुतस्तु तेनाप्यसौ सूचनीय एव ।
न हि योगविभागस्य एतत्सामर्थ्यम् ।
अपि त्वर्थाधिक्यसूचनमात्रम् ।
एतच्च विभागे ऽपि लभ्यत इत्याह–इतरेतरेत्यादि ।
ननु सूत्रे मिथ्याज्ञानमात्रमेव श्रूयते, तत् कथमाह तत्रात्मादावित्यत आह–यद्यनि सामेति ।
भाष्यविषयतां वार्त्तिकस्य दर्शयति–तदेतेनेति ।
न खलु यथा कुण्डे बदरं संयोगेन पटे वा शौक्ल्यं समवायेनेत्यर्थः ।
ननु न तावत् सत्तामात्रेण सारूप्यं भ्रान्तावुपयुज्यते जपाकुसुमादिसन्निधानपरिभूतसितिम्नि स्फठिकादावनुपलभ्यमानविशेषस्मरणे ऽपि रजतादिविपर्यासाभावात् ।
तस्मादुपलभ्यमानमेव सारूप्यं तद्धेतुरित्यास्थेयम् ।
तदप्यसङ्गतम्, सारूप्यस्य भेदाधिष्ठानतया तत्प्रतिभासने भेदस्यापि प्रतिभानाभेदारोपानवकाशात् ।
तस्मात् सदसतोः सारूप्याभावादित्याशड्कैवेयमनुपपन्नेत्यत आह–सर्वत्र हीति ।
न हीदमने, सदृशमिति कृत्वा सारूप्यग्रहणमिति ब्रूमः ।
किं तर्हि? रजतादौ यो धर्मश्चकचिक्यादिः उपलब्धपूर्वः स एव तज्जातीयो वा पुरोवर्तिन्युपलभ्यते यदि तदा भ्रान्ति, नातो ऽन्यथेत्यर्थः ॥
अन्वयं दर्शयित्वा व्यतिरेकमाह–न हीति ।
यद्यपि हस्तिमशकादावपि यथा कथञ्चित् सारूप्यमस्त्येव, तथापि व्यवच्देदकधर्मेणानभिभूतं सारूप्यमिहाभिप्रतम् ।
व्यवच्छेदकानभिभूतत्वं च तत्र नास्तीत्यतः सर्वात्मना वा सारूप्यमेकदेशेन वेत्येवमादि परास्तं वेदितव्यम् ।
शङ्कते–असदृशे ऽपीति ।
इदमत्र विवक्षितम्, सारूप्यं ह्यारोप्यस्यारोपविषयेण चिन्त्यते, अन्यथा वा? अनन्तरे ऽतिप्रसङ्गः ।
प्रथमे तु न तावत पीतगुणी शुक्लगुणिनि शड्खे आरोप्यते, पीतं चिरविल्वमिदमिति प्रत्ययानुदयात् ।
नापि शुक्लगुणे पीतगुणः, शुक्लगुणस्याप्रतिभासनात् ।
नापि शुक्लत्वसामान्याधारे रूपस्वलक्षणे पीतगुणः, चाक्षुषप्रतीतौ शुक्लत्वसामान्यानवभासे तदाधारस्य रूपस्वलक्षणस्य भासनायोगात् ।
भासने ऽपि वा द्रव्यत्वसामानाधिकरण्यं न स्यात् ।
नापि पीतत्वं सामान्यं शुक्लत्वसामान्याधारे ।
तद्धि तदात्मतया वा आरोप्येत्, तत्संसर्गितया वा? आद्ये शुक्लत्वसामान्याधारा व्यक्तिः पीतत्वसामान्यात्मना प्रथमाना न देशकालनियता स्यात् ।
व्यक्तिर्हि देशकालनियता न सामान्यम् ।
सा चाप्रथितैव ।
न च पीतत्वसामान्यमेव शुक्लगुणव्यक्तिरूपेणरोप्यत इति साम्प्रतम् ।
तथा सति पीतत्वं न प्रतीयेत ।
नापि शुक्लत्वसामान्यमेव पीतत्वसामान्यतदात्मतया आरोप्येत, तथा सति शुक्लत्वेन शुक्लत्वं प्रतीयेत ।
न हि तस्यान्यत् किञ्चिद् रूपमस्ति, येन प्रतीतिपथमवतरेत् ।
सर्वथा अप्रतीतं च नारोपविषय इत्यसङ्गतिरेवास्य कल्पस्य, संसर्गितया तु सामान्ये आरोप्यमाणे शुक्लगुणस्य शुक्लत्वेनैव प्रतीतिः स्यात् ।
न च पीतिमप्रतीतेर्विनयतारतम्यं स्यात्, सामान्यस्यैकरूपत्वात् ।
तस्मात् पीतगुण शङ्खे समारोप्यत इति वाच्यम् ।
तथा च गुणगुणिनोः क्व सादृश्यवार्तापीत्यर्थः ॥
समाधत्ते–न तत्रापीति, न ह्यत्र पीतगुण आरोप्यो ऽपि तु पीतगुणश्च शड्खश्च आरोपविषयौ, संसृष्टस्वभावत्वं त्वारोप्यम् ।
तथा च संसृष्टस्वभावाभ्यां गुणगुणिभ्यामनयोः असंसृष्टस्वभावयोः सारूप्यमिह प्रयोजकम् ।
उपदर्शितं च तदिति किमप्रयोजकेन गुणिसारूप्येण गुणसारूप्येण वा, सता असता वेत्यर्थः ।
असम्बन्धाग्रहो वैयधिकरण्याग्रहो विषयिण विषयमुपलक्षयति ।
तेन व्याधिकरणग्रहणाविषयीकृतत्वं सारूप्यं तयोः, यथा पीतिमाचिरबिल्वयोः तथैव पीतिमशड्खयोरित्युक्तं भवति ।
एकेन्द्रियोपनतसम्बन्धिद्वयविषयं सारूप्यमुपपाद्यन्द्रियद्वयोपनीतसम्बन्धिद्वयविषयं सारूप्यमुपपादयति–एवं त्वगिन्द्रियेति ।
न चैवं सति
तादात्म्यभ्रमे ऽपि भेदाग्रह एव सारूप्यमस्तु, कृतं चाकचिक्यादिनेति वाच्यम्, तदन्तरेण संस्कारानुद्बोधात्, तेन च
विना रजतारोपनियमानुपपत्तेः ।
इह तु संसृष्टत्वानुभवजनितसंस्कारोद्बोधो यावन्मात्रेण तावदेवोपयुक्तम्, संसर्गस्य च संसृज्यमानावेव विषयः ।
तौ चानुभूयमानावेवेति, किं तदुपनायकसादृश्यान्तरापेक्षयेति सर्वमवदातम् ।
नन्वयमनुभवक्रमो ऽनुभवबाधित एवेत्यत आह–अतिशीघ्रतयेति ॥
ननु सादृश्यं चेद् भ्रान्तिबीजमुपपादितम्, तर्हि सर्वं सर्वत्रारोप्येत्, अस्ति हि केनचित् कस्यचित् कथञ्चित् सारूप्यमित्यत आह–नेति ।
एवं द्विचन्द्रेति ।
तथाविधापेक्षाबुद्धिविषयत्वं द्विचन्द्रभ्रमे, भेदमात्रारोपे तु नानादिग्देशावयवसम्बन्धः ।
प्राच्यां प्रतीचीभ्रमे दक्षिणोत्तरान्यत्वे सति दिक्त्वमेव ।
एवमन्यत्रापि अलातचक्रभ्रमे मध्यासम्बन्धे सति सर्वदिक्सम्बन्धः ।
आदिग्रहणादगच्छति गतिविभ्रमे विभागवैपरीत्यम् ।
अस्थूलेषु केशेषु स्थूलविभ्रमे
तावद्देशाच्छादकत्वम् ।
अप्सु दण्डस्य वक्रताभ्रमे तरङ्गवक्रिमदण्डयोरसंसर्गग्रह इत्येवं नेयम् ।
सर्वत्र च तत्त्वाग्रहः
सम्प्लवत इति ॥
इहात्मनो दुःखहेतुत्वेन शरीरेन्द्रियादिवद् हेयत्वमेव बौद्धैरापादितम् ।
यथा हि, इन्द्रियादिना विना नात्मा दुःखं जनयितुमलम्, एवं नेन्द्रियादिकमपि तमन्तरेण ।
न हि निराश्रयं दुःख नाम ।
अत आत्मापि हेयः ।
तदुक्तम् धर्मकीर्तिना—
न तैर्विना दुःखहेतुरात्मा चेत् ते ऽपि तादृशाः ।
निर्देषं द्वयमप्येवं वैराग्यं च द्वयोस्ततः ॥
[प्र।वा।१।२२७] इति तच्चैतदसाधीयः तथा हि, न तावदात्मनो हानं रोगादिवद्विनाशलक्षणम्, नित्यत्वात् ।
नापि दन्दशूकदष्टाड्गुलीवद् विप्रयोगादिलक्षणम्, नापि सुतमरणादिवत् प्रतिपत्तिनिरोधलक्षणम्, स्वसंवेदनत्वादिति वेदान्तिनः ॥
वयं तु ब्रूमः—तद्धि तदा स्यात्, यदि ज्ञातस्य सतो दुःखं प्रत्यात्मनो हेतुत्वं सुतमरणादेरिव ।
न त्वेतदस्ति ।
किं नाम? सत्तामात्रेण ।
तस्मादात्मनो हेयत्वव्युत्पादनं वैयात्यमात्रविजृम्भितमेतत् ।
आत्मदृष्टेस्तु हेयत्वव्युत्पादनं मनाक् सदलमित्याशड्क्य निराकरोति–न त्विति ।
अभ्यर्हिततमम् उपकार्यतमम् ।
सत्त्वम् आत्म ।
यद्यपि रागादिनिवृत्तिहेतुर्नैरात्मदर्शनमिति गुडजिह्विका, वस्तुतस्तु न तावन्नित्यात्माभावदर्शनमात्रं रागादिनिवृत्तिहेतुः, चार्वाकादीनामेव वीतरागत्वप्रसङ्गात् ।
अहङ्कारनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तत एव रागादिनिवृत्तिरिति चेत्? सापि किं शरीरादौ, चेतने वा? आद्ये सिद्धसाधनम्, शरीरादवहङ्कारस्य मिथ्यात्वात् ।
तन्मूलत्वाच्च रागद्वेषयोः, तन्निवृत्तौ तयोरपि निवृत्तिरिति को नाम नाभ्युपैति ।
न च शरीरादावहङ्कारनिवृत्तेर्नित्यात्मदर्शनं विरोधि, किं त्वनुकूलमेव, न हि शुक्तिकातो रजतं भेदेनाव्यवस्थापयतस्तस्य रजतबुद्धिःनिवर्तते ।
अथ चेतनविषयैवाहङ्कारनिवृत्ती रागादीनपनयतीति विवक्षितम्? हन्तैवं स्वाकारे ऽपीदन्ताव्यवहारिणां पृथग्जनानां वीतरागत्वप्रसङ्गः ।
न हि ते शरीरादिविविक्तम् अहमिति प्रतियन्ति ॥
अथ बाह्याभ्यन्तरविषयतयाहङ्कारनिवृत्तिरभिप्रेता? सापि किं सर्वथा ज्ञानाभावादेव, चेतनस्यापीदन्तास्पदत्वादेव वा, तस्मिन्नेव नास्तित्वाध्यारोपाद् वा? न तावदाद्यः, अदृष्टित्वप्रसङ्गात् ।
न चैतत् प्रयत्नशतेनापि सिध्यति ।
यथा यथा दृष्टिनिरोधाय प्रयत्नः, तथा तथा दृष्टेः प्रत्यापत्तेः ।
न चादृष्टेरेव रागादयो विनिवर्तन्ते, युगसहास्त्रमपि सुप्तस्य पुनर्जागरावस्थायां रागादिदर्शनात्, नापि द्वितीयः, अहमभावे सतीदमो ऽप्यभावात्, आत्मानि सति परसञ्ज्ञेति त्वयैवोक्तं यतः ।
नापि तृतीयः, ग्रहणाग्रहणयोरूभयोरपि असम्भवात् ।
यदि ह्यहमास्पदं चेतनो गृहीतः, कथं नास्तिताध्यारोपः? न गृहीतश्चेत् कुत्र नास्तिताध्यारोपः? न च प्रथमं ग्रहः
पश्चादारोप इति त्वया वक्तुं शक्यते ।
न चापरिस्फरति निषेध्ये निषेधसम्भवः ।
स्वप्रतिपष्ठज्ञानमात्रेणेति चेत्–न, ज्ञानस्य स्वप्रतिष्ठताध्रौव्ये ऽपि रागादिदर्शनात् ।
तत्तब्दहिरूपप्लवविरहे सतीति चेत्? तर्हि बहिरूपप्लवविरहे स्वात्मप्रतिष्ठं ज्ञानं रागादिनिवृत्तिहेतुरित्येवम्भूतयात्दृष्ट्या किमपराद्धम्, येन तां निरस्य नैरात्म्यदृष्टिरूपादीयते? औदासीन्यदृष्टिरेव नैरात्म्यदृष्टिरिति चेत्? किमिदमौदासीन्यम्? शून्यत्वमिति चेत्? एवं तर्हि स्वात्मदृष्टिरपि दृष्टिर्न स्यादित्यदृष्टित्वप्रसङ्गः ।
अनालम्बनतया निःसम्बन्धित्वमौदासीन्यमिति चेत्? तर्हि निरात्मीयतादृष्टिं वदन् कुतो नैरात्म्यदृष्टिं सुप्त इव प्रलपसीति ।
एवं प्रेत्यभावाभावज्ञानस्येति परमं निदानमिति अनुषज्यते ।
तथा च
इत्यपि गुडजिह्विका ।
वस्तुतस्तु नास्ति कर्म, नास्ति कर्मफलम्, नास्ति प्रेत्यभाव इति ।
यावज्जीवेत् सुखं जीवेन्नास्ति मृत्योरगोचरः
इति न्यायमालम्बमानेन प्राणिवधादत्तादानादावेव घटितव्यम् ।
साधीयश्चैवमस्य कैवल्यमिति ।
न च
सन्तानमादाय प्रेत्यभावादिदृष्टिरूपपत्स्यत इति वाच्यम्, तदा हि तमादाय सोपपद्येत, यदि तद्दृष्टिरनर्थान्निवर्तयेत्
अर्थाच्च प्रवर्तयेत् प्रवृत्तिनिवृत्ती च सैव दृष्टिः करोति या रागद्वेषौ प्रसूते, तन्मूलत्वात् तयोः ।
तथा च तादृशी सन्तानदृष्टिरपि हेयैव ।
न तादृशी चेन्नास्तिकत्वमेव निर्वाहयेत् ।
तदिदमुक्तम्–सो ऽयं वृश्चिकभियेति ।
तस्माद् यः परलोकार्थो तस्य परलोकिनमात्मानमड्गीकृत्यैव स्वर्गे ऽपपर्गे वा प्रयत्नः, यस्तु नित्यमात्मानं नाभ्युपैति तस्य चार्वाकस्य इव स्वर्गापवर्गावेव न स्तः, कुतस्तदर्था प्रवृत्तिरित्याशयवानाह–सेयमिति ॥
यत्तूक्तम्–आत्मानमभ्यर्हितं पश्यन्निति सो ऽयं कस्य प्रसङ्गः? किं सर्वदुःखोपशममुपकारमपश्यतः, पश्यतो
वा? आद्यश्चेदेवमेतत् ।
न ह्येवम्भूतस्य नैरात्म्यदृष्टिरभ्युपपद्यते ।
न ह्यात्मोच्छेदमेव कश्चिदुपकारत्वेन मनुते, अपि तु दुःखं जिहासमान आत्मानं जहाति, आत्मानमनपहाय दुःखस्य हातुमशक्यत्वादिति मन्यमानस्तस्माद् दुःखमजिहासतः सुखं चोपादातुमिच्छतो नैरात्म्यदृष्टेरसम्भव एव ।
तथा च तथाभूतस्य नैरात्म्यदर्शिनो नित्यात्मदर्शिनो वा तुल्यः संसारः ।
द्वितीयस्तु कल्पो ऽसङ्गत एव ।
न हि सर्वदुःखोच्छेदम् एवोपकारं पश्यति सुखाय तदुपकाराय च घटत इति ।
सर्वदुःखोच्छेदश्च सुखं चेति विप्रतिषिद्धमेतत् ।
एवं सर्वदुःखोच्छेदमिच्छति परं चापकरोतीत्येतदप्यसङ्गतम्, न हि परापकारः सर्वदुःखोच्छेदनिदानमिति हृदि निधायाह–अभ्यर्हितता चेति ॥
सामान्यधर्मो ऽहङ्कारास्पदत्वम् ।
अहमिति कर्तृपदविषयत्वम्, अनेन तत्प्रवृत्तिनिमित्तस्य कर्तृत्वस्यैकदेशमुपलक्षयति ।
तेनायमर्थः, इतरकारकप्रयोक्तृत्वम् बाह्यकारकप्रयोज्यतां च दृष्ट्वा भेदाग्रहे सति शरीरादौ कर्तृत्वमारोप्यात्मत्वेन विपर्यस्यतीति तदिदमुक्तम्–तां खल्विति ।
एवं सिद्धं कृत्वा विपर्ययम् अन्यथाख्यातिरूपमिति शेषः ।
सम्प्रति सन्दिहानो विशेषत इति शेषः ।
ननु स्थाणावेवायं मम चोरप्रत्ययो वृत्त इत्यागापालाङ्गनं प्रसिद्धमिति तदत्र संशय एव नास्तीत्यत आह–परीक्षकाणामिति ।
प्रतिपत्तुः प्रत्ययात् प्रत्येतव्यात् ।
अव्यतिरेकात् अभेदादित्यर्थः ।
नन्विदं रजतमित्यत्र द्वयं प्रतिभाति, ज्ञानस्यात्मा, पुरोवर्ति द्रव्यं च ।
तत्र पुरोवर्तिनो रजतत्वे प्रतिषिद्धे, अर्थादापद्यते ज्ञानस्येति, तदन्येषां तु प्रतिपत्त्यनारोहादेव नावकार्शः ।
तत् कथमुच्यते वणिग्वीथ्यादाविति, अत आह–आन्तरत्वं त्वस्यानुपलब्धचरं कतस्त्यम्? यद्धि यस्य कदाचिदवगतम्, तदन्यत्र प्रतिषेधे पारिशेष्यात् तत्र गम्यते, न तु प्रतीतिपथमवतीर्णयोरन्यतरत्र प्रतिषेधे पारिशेष्यादितरत्रासम्भावितमपि, तथा सति नेदं रजतमिति शुक्तिकायां रजतत्वप्रतिषेधे तदेकज्ञानसंसर्गिणो भूतकादेरपि रजतत्वं विदध्यात् ।
न चैवम् ।
तत् कस्य हेतोः? तस्य रजतत्वं कदाचिदपि नोपलब्धचरं ।
यतः, तथा
स्वात्मानो ऽपि रजतात्मत्वं न कस्यचिदुपलब्धिगोचरः कदाचित् स्वप्ने ऽपि ।
अथ दृष्टमेव सत्यरजतज्ञाने रजताकारत्वमात्मन इत्याशयः? सो ऽयं स्वप्नायते, तत्रापि हि पुरोवर्तिनि रजते अनुभूयमाने स्वात्मनो रजताकारत्वं
कस्य प्रमाणस्य गोचर इति ।
तदनेन स्वाकारस्य बाह्यत्वे साधकप्रमाणाभावो दर्शितः ।
बाधकमपि सूचितम् ।
यथा हि नेदं रजतमिति बाधकबलेन पुरोवर्तिनो रजतत्वप्रतिषेधः, तथा नाहं रजतमित्यपि बाधकं स्फुटमेव ।
अयमेव भ्रम इति चेत्? एवं तर्हि न रजतत्वमारोप्यते बाह्ये, किं तु तस्मिन्नेवाहमास्पदे बाह्यत्वमारोप्यते इत्याशयः ।
तथा सति बाधकप्रत्ययेन तदेवापनेयम्, तस्मिश्चापनीते ऽहं रजतमिति स्यात् ।
एवं च सतीदं रजतमिति कोर्ऽथः? नाहं रजतमिति ।
नेदं रजतमिति कोर्ऽथः? अहं रजतमिति ।
ततश्च यथेदं नेदमहं नाहमित्यनयोर्विरोधात् समुच्चयाभिमानो ऽपि नास्ति, तथा नेदं रजतं नाहं रजतमित्यनयोरपि विरोधात् समुच्चयाभिमानो ऽपि न स्यात् ।
अस्ति च, तस्मादुभयोरपि रजतत्वप्रतिषेधो ऽन्यस्य रजतत्वं व्यवस्थापयतीति पाषाणरेखेयं न दुरूत्तरपांसुपूरणमात्रेणापनेतुं शक्यते ॥
सामर्थ्यातिशयः स्वभावातिशयः ।
अतिशयस्तु विषयजन्यज्ञानापेक्षया ।
सन्तमिवेति सत्यज्ञानाभिप्रायं स्वरूपाभिप्रायं वा ।
विषयसामर्थ्यमिति सामर्थ्यं कारणत्वम्, तभ्दावसिद्धेः ।
अत एवेति कृत्वा वेदान्त्येकदेशिनः अपि
निराकारबौद्धमतानुमतिर्दर्शिता ।
सदसत्त्वेन गृह्णातीति न विकल्पितमतिनिर्दलत्वात् ।
प्रवृत्त्यौपयिको ह्यर्थः प्रकृते प्रकाशते, न तु सदसत्त्वेन गृहीत्वा प्रवृत्तिरूपपद्यते ।
असदेव रजतं प्रकाशते ।
पुरोवर्तिभेदग्रहाच्च शुक्तो
प्रवृत्तिर्नान्यत्रेत्यादि नाशड्कितम्, प्राभाकरपक्षेण तुल्ययोगक्षेमत्वादपोहे निराकरिष्यमात्वाच्च ॥
अनिर्वचनीयख्यातिमनुभवविरोधेन निराकरोति—न चेति ।
त थाहि किमिदम् अनिर्वचनीयत्वम्, किं निरूक्तिविरह एव, आहोस्विन्निरूक्तिनिमित्तविरह एव? न तावदाद्यः, इदं रजतं नेदं रजतमिति
निरूक्तेरनुभूयमानत्वात् ।
नापि द्वितीयः, निरूक्तिनिमित्तं ज्ञानं वा स्यात् विषयो वा? न तावदाद्यस्य विरहः, ख्यातेः स्वयमवाभ्युपगमात् ।
नापि द्वितीयः, विषयो ऽपि किं भावरूपो ऽभावरूपो वा? आद्ये असत्ख्यात्यभ्युपगमप्रसङ्गः ।
द्वितीये तु सत्ख्यातिरेव ।
उभौ न स्त इति चेत्? अथ भावाभावशब्देन लोकप्रतीतिसिद्धावेवोभावभिप्रेतौ, विपरीतौ वा? आद्ये तावद्
यथाभयोर्विधिर्नास्ति, तथा प्रतिषेधो ऽपि, परस्परविधिनिषेधयोवि धिनिषेधनान्तरीयकत्वात् ।
द्वितीये तु न काचित् क्षतिः ।
न ह्यलौकिकविषयसहस्रनिवृत्तावपि सत्यज्ञानविषयनिवृत्तिस्तन्निरूक्तिनिवृत्तिर्वेति ।
अथापि निःस्वभावत्वमनिर्वचनीयत्वम्? अत्रापि निसःप्रतिषेधार्थत्वेन स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे पूर्ववत् प्रसङ्गः ।
प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत्? अत्र तु स्ववचनविरोधः, प्रतीत्यगोचरश्च प्रतीयते चेति ।
यद् यथा प्रतीयते तत् तथा नेति चेत्? अत्र न विप्रतिपद्यामहे ।
तस्मात् आकारासदनिर्वचनीयख्यातिवादिभिरप्यन्यथाख्यातिरवश्याभ्युपगन्तव्येत् इ ॥
ननु यद्यथासत्प्रकाशते प्रपञ्चो ऽपि तर्हि तथैवास्तु जात्यादिकं चेत्यत आह—यः पुनरिति ।
असच्चेत्? असत्तेयैव प्रकाशेत, न प्रवृत्तिगोचरः स्यात् ।
सत्तया चेत्? नूनं सादृश्यमप्यपेक्ष्यम् ।
न च तदस्ति ।
असदृशस्यापि सत्तया प्रकाशने चातिप्रसङ्ग इत्यर्थः ॥
संविद्विरुद्धम् विचार्यसंविद्विरुद्धम् ।
सर्वसर्वज्ञतापत्तिरतीतानागताभिज्ञतापत्तिश्चेत्यपि द्रष्टव्यम् ।
प्रतिभासमानं युदल्लिखद्विज्ञानं जायत इत्यर्थः ।
औत्सर्गिककार्यानुकूलसहकार्यभिप्रायेण श्यामाकवीजम् उदाहृतम् ।
तत्प्रतिरोधिकारणान्तरसाहित्याभिप्रायेण कृटजबीजमिति ।
विवादध्यासिते विभ्रमे प्रवृत्तिकारणमग्रहो वा स्यात्, इदमिति ज्ञानं वा, रजतमिति ज्ञानसहितं वा, भेदाग्रहसहितं वा उभयमिति? तत्राद्ये न तावदित्यादि दूपणम् ।
द्वितीये तु हन्त भोः इत्यादि ।
तृतीये तु ननु रजतविज्ञानम् इत्यादि ।
चतुर्थे तु साम्यापादने सति ज्ञानधर्मो वा अग्रहो विशेषणम्, वस्तुधर्मो वा? आद्ये साम्यं नास्ति, उभयज्ञानस्यागृहीतभेदस्य भ्रान्तिहेतुत्वेनानभयुपगमात् ।
द्वितीये तु विषयधर्माणामज्ञातानां प्रवृत्तावकिञ्चित्करत्वम् ।
ज्ञप्तौ पुनरस्त्येव ।
तत्र दृष्टान्तमाह–मैवं ज्ञानहेतूनामित्यादि ॥
अथवा दृश्यकारणसाम्ये ऽप्यदृश्यहेतुविशेषवशाद् भ्रान्तिसम्भवः, कार्योन्नेयत्वात् सामग्र्याः ।
तदिदमुक्तम्–मैवमित्यादि ।
मामाप्येवमिति चेत्—न, तस्य कारणविशेषस्य स्वातन्त्र्येणाप्रवर्तकत्वात् ।
तदिदमुक्तम्–चेतनेति ।
ज्ञानद्वारेणेति चेत्–न, तस्य पवृत्तिनिवृत्तिसाधारण्यात् ।
तदिदमुक्तम्–बुद्धिपूर्वकत्वे त्विति ।
अतो न साम्यम् ।
तत्सिद्धमित्यादिप्रयोगो विप्रतिपन्नं प्रति ।
नियमेन निश्चयेनेति सामान्यज्ञानस्य विशेषप्रवर्तकत्वव्युदासावद्योतनार्थम् ।
न च फलज्ञानेनानैकान्तिकत्वं तस्याप्रवर्तकत्वादेव ।
तत्साधनज्ञानं तु प्रवर्तकम् ।
तच्च तद्विषयमेवेति ।
कार्यत्वबोधस्तु प्रवर्तक इति निराकरिष्यते ।
अनवभासमानत्वादिति हेतुपक्षे ऽसिद्धत्वं सिद्धसाधनं वा दूषणम् ।
प्रत्यक्षोपवर्णने तु शुक्तिकात्वेनानालम्बनत्वमस्माकमप्यनुमतम् ।
सितभास्वरतया त्वनवभासमानत्वमनुभवविरुद्धमिति परमार्थः ।
दोषवत्त्वादिति हेतुपक्षे ऽनैकान्तिकोद्भावनम् दृष्टान्तमात्रोद्भावने तुवेत्रबीजादिः ।
नेदं रजतमिति उपलक्षणम् ।
शुक्तिरियमित्याद्यपि द्रष्टव्यम् ॥
अनाश्वासस्तु यथार्थत्वाज्ञानं वा स्यात्, यथार्थत्वायथार्थत्वसन्देहो वा? आद्यः प्रामाण्योपायकथनेनैव निरस्तः ।
द्वितीयस्तु विशेषोपलब्धैः प्रागिष्यत एवेत्याह–यथा चेति ॥
ननु क्रमव्यतिक्रमो ऽनादितां प्रतिपादयितुमुक्तः ।
अनादिताप्रतिपादनं पुनः किमर्थमित्यत आह–अनादित्वाच्चेति ।
तस्यापि बाध्यत्वग्रसङ्गादिति ।
तथा च सर्त्यागथ्याज्ञानयोरविशेषप्रसङ्ग इति भावः ।
पूर्वज्ञानस्य मिथ्यात्वमादर्शयत् इति ।
तदुपदर्शितप्रकारासहनतया जायमानमित्यर्थः ।
तज्जनितां प्रवृत्तिं विघटयदिति तदुचितव्यपदेशाभिप्रायम्, विपरीतमभिप्रायं कुर्वदित्यर्थः ।
फलमस्यापहरतीति विषयदारभ्य फलपर्यन्तमित्यर्थः ।
अयमेव विषयापहारो यत्तद्विषयाधिक्षेपस्य स्वभावस्य समुत्पादः ।
स च तत्फलप्रवाहप्रतिक्षेपपर्यन्त इति समुदायार्थः ।
परस्पराभावधर्मिणोरिति ।
ययार्धर्मिणोर्यौ धर्मौ
परस्पराभाववन्तावुपलब्धौ तयोरित्यर्थः ।
बाध्यत्वे हेतुरिति ।
हेतुर्व्यतिरेकलिङ्गलक्षणमिति यावत् ।
तत्त्वविषयबुद्धिधारामिति ध्यानम् इत्यर्थः ।
अनुगतमेकं स्वरूपं समानासमानजातीयव्यच्छेदको धर्मो लक्षणमिति यावत् ॥२ ॥
॥ परिशुद्धिः ॥
सर्वत्र तस्य सुलभत्वादिति ।
स्वाभाविकं तु शास्त्रस्य त्रैविध्यं नास्त्येव तस्य पुरुषायत्तत्वादित्यपि द्रष्टव्यम् ।
प्रयोजनस्येति ।
अवान्तरस्येत्यर्थः ।
चतूरूपोभवतीति प्रतीतिविषय इति शेषः ।
अर्थविपर्ययकीर्ततेन व्याघातादिति ।
प्रत्यक्षप्रमाणानुवादः ।
अतो न साध्याविशिष्टत्वं व्यधिकरणत्वं वा? अवद्यमाने शशविषाणादावलक्षणम्, विद्यमाने त्वनुपयोगिनि गङ्गावालुकादावलक्षणम् ।
अतः समानधर्मदर्शनात् असति निभागे संशयः, तन्निवृत्त्यर्थो विभागारम्भः ॥
ननु सदनुपयोगिसंशयानुच्छेदे किं स्यात्? कथमनुपयुक्तं तदिति जिज्ञासाया अनिवृत्तिः? अपि
चार्थापत्त्यादीनामुपयोगवतामपि परैरूद्घुष्यमाणानामपि लक्षणाकरणात् स्यात् सन्देहः– किं लक्षणाकरणादसन्ति, अनुपयोगीनि वेति? तत्रैवान्तर्भूतानि वा? अतस्त्तदपनुत्तये विभागः ॥
तथा बौद्धापेक्षया मीमांसकानामधिकप्रमाणलक्षणाभिधानं विनैव प्रमाणानाम् आधिक्यात् ।
साङ्ख्यस्य तु तदपेक्षयैव अधिकप्रमाणलक्षणाभिधानं सत्याधिक्ये ।
तद् इहापि साङ्ख्यापेक्षया अधिकाभिधाने भवति सन्देहः, किं सत्याधिक्ये अथासतीति? तदपनोदनाय विभागवचनम् ।
अत एवाधिक्यमाशड्क्य विभागपरीक्षामवर्तयत् सूत्रकारः ।
पूर्वापरग्रन्थसङ्गतिश्चात्र स्फुटेत्येतदपि मन्तव्यम् ॥
शक्तेरनभ्युपगमे प्रमाणाभावो मूलम्, असत्प्रतिपक्षेभ्यो दृष्टकारणेभ्य एव कार्योत्पत्तावर्थापत्तेः क्षीणत्वात् ।
प्रतिपक्षता च मन्त्रादीनां सहकारिविरहरूपत्वात् ।
तद्विरहस्य च व्यतिरेकमुखेन सहकारित्वावधारणात् ।
त्रयो हि
भावा भवन्ति कार्यानुकेलाः, तत्प्रतिकूलास्तदुदासीनाश्च ।
तत्रानुकूला दहनादेः पवनादयः ।
तत्प्रतिकूला अपि
द्विविधाः स्वरूपतः सहकारितश्च ।
स्वरूपतो जलावसेकादयः ।
सहकारितो मन्त्रादिप्रयोक्तारः ।
ते हि मन्त्रादीन्
प्रयुञ्जानास्तद्विरहलक्षणं सहकारिणं विरुन्धन्ति ।
उदासीनास्तु तत्रैव रासभादयः ।
तत्रानुकूलत्वमन्वयव्यतिरेकरम्यम् ।
प्रतिकूलत्वं च तदन्वये कार्यव्यतिरेकगम्यम् ।
तच्च तद्विपर्यर्यान्वये पर्यवस्यति ।
उदासीनत्वं च व्यभिचारगम्यम् ।
एवं च सति यत्र यदा यस्य यथानुकूलत्वे प्रतिकूलत्वे वा प्रमाणमस्ति, तत्र तदा तस्य तथैव स्वीकर्तव्यम् ।
किमधिकसामर्थ्यकल्पनया? सर्वश्च परेषां विमर्शसम्भवो ऽतीन्द्रियसामर्थ्ये ऽपि समान इत्यर्थापत्तिम् उपेक्ष्यान्यदेवातीन्द्रियशक्तिस्वीकारबीजमाशड्क्य विमृशति–स्यादेतदिति ॥
स्वरूपस्य प्रत्यक्षत्वे साकल्यस्य च कार्यैकव्यड्ग्यत्वे ऽनुमेयमतीन्द्रियं सामर्थ्यम् अवशिष्यत इति पूर्वपक्षार्थः ।
कार्यसम्बन्धितां कार्योपलक्षिततामित्यर्थः ।
यदाह– कार्योपहितं रूपमिति ।
नन्वन्यकार्येणोपधानं तत्कार्येणैव वा? आद्ये अहेतुरेव हेतुः स्यात् ।
द्वितीये त्वितरेतराश्रयत्वम्, तस्य तत्कारणत्वे सिद्धे सति तत्कार्यत्वं सिद्धं स्यात् ।
तत्कार्यत्वे सति च तदुपलक्षितं कारणत्वं भवेदित्यत आह–इदमेव चास्य तदुपधानं यत् तत्कार्योत्पादात् पूर्वमवश्यम्भावः ।
युदत्पादात् पूर्व यस्यावश्यम्भावः तत् कारणमितरत् कार्यमित्यर्थः ॥
नन्वेवंरूपं कारणत्वं तज्जातीयस्य समामन्यतो ऽनुमीयेत प्रतिव्यक्ति वा? न तावत् प्रतिव्यक्ति, तदुत्तरकार्याभावे ऽपि कासाञ्चिद् विनाशदर्शनात् ।
तज्जातीयस्य तु प्रागेव सामान्यतो ऽवधारितम् ।
तदिह स्मर्यत इत्याशड्क्याह–न च तज्जातीयस्येति ।
यथा यो यो धूमः सो ऽग्निमानिति सामान्यतो ऽवधारणे ऽपि एष धूमो ऽग्निमानिति नवाधारितम् ।
तथेदमुदकं पिपासोपशमननिमित्तमित्यनवधृतभेवावधार्यत इत्यर्थः ।
न च क्वचित् कार्यमकृत्वैव विनष्टे व्यभिचारः, सति सहकारिसाकल्ये कुर्यादिति साध्यत्वात्, तस्य च सहकार्यसाकल्यप्रयुक्तकार्याभाववत्त्वरूपस्य तत्रापि भावादिति ।
तस्माद् या नोभयप्रयत्नप्रसवहेतुः सोपेक्षाबुद्धिः तृतीयेति विषयभेदाद् बुद्धिभेदः ।
स च सुखहेतुर्दुःखहेतुरतद्धेतुश्चेति त्रिविध इति सुव्यक्तमित्यर्थः ॥
अनुमानपदं व्युत्पादयता भाष्यकृता प्रसङ्गात् लक्षणमप्यभिहितमिति टीकाकृद् अपि स्मृत्यादिव्यवच्छेद्यं दर्शयति–तथा चेत्यादिना ।
यतो भाष्ये लक्षणमप्युक्तम्, अतो वार्त्तिके तदाक्षेपो नानुक्तोपालम्भ इत्याह–तदेतद्भाष्यमनुभाष्येति ।
फलवतः प्रमाणत्वात्, तद्विशेषत्वाच्चानुमानस्य नाफलत्वं युज्यते ।
कथञ्चित् फलान्तरसम्भवे ऽप्येतस्य प्रत्यक्षफलं लिङ्गपरामर्शः, सुप्रसिद्धमनुमानमनेन व्याप्यत इत्यपि पूर्वपक्षे द्रष्टव्यम् ।
एवं च सति तत्रेत्यादिनोभसमाधानसङ्गतिः ।
समाधानान्तरमाहेति ।
कस्मिन्नाक्षेप इत्यत आह–पूर्वोक्तमिति ॥
ननु हानादिविषयं प्रामाण्यमुच्यमानमनुमानस्य स्वगोचरं प्रत्येवोक्तं भवति, हानादावेव तस्य व्यापारानुबन्धात् ।
अत आशड्कैवेयमनुपपन्ना किमत्र समाधानेनेत्याशड्क्य व्यापारानुबन्धितया हानादिरस्य गोचरः, प्रतीपत्यनुबन्धितया तु वहिनज्ञानस्य वहिनरेव विषयः, तदभिप्रायेण च शड्कासमाधाने इत्यभिप्रायवानाह–यद्पीति ।
विज्ञाने यत् प्रकाशते येन विज्ञानं निरूप्यत् इत्यर्थः ॥
न च स्वविषयादन्यद् विषयान्तरमस्य सम्भवति, अतिप्रसङ्गादिति भावः ।
पूर्वपक्षिण इति शेषः ।
औत्पत्तिक इति स्वभावाप्रतिबद्धः ।
ननु हेयादिबुद्धयः केन विशेषेण द्वितीयानुमानस्य फलम्, न तु द्वितीयस्य प्रत्यक्षस्येत्याह–परोक्षार्थावगाहितयेति ॥
ननु सामीप्यस्य सादृश्यस्य मानं मितिः सञ्ज्ञासञ्ज्ञिपरिच्छेदे प्रमाणमित्युक्ते कुतो व्याघातावकाश इत्यत
आह–अनुमानशब्दवदित्यादि ॥
ननु स्वविषयपरिच्छित्तौ तावत् स्वरूपतः प्रमाणम्, व्यापारवतः कारणविशेषस्य प्रमाणत्वात् ।
नापि वाक्यार्थप्रतिपत्तिरस्याः फलम्, तदानीं तस्या विनष्टत्वात् ।
नच स्मृतिरूपाया अपि शब्दप्रवृत्तेस्तत्फलत्वम्, अनुपयुक्तसमयानामस्मर्यमाणपदार्थानां शब्दस्मरणे ऽपि तदभावादित्यत आह–यत् खलु चैत्रेति ॥
ननु स्वविषयपरिच्छित्तौ प्रधान्यमनुमानादेरपि, तत् कुतः प्रत्यक्षस्य प्रधानत्वाद् इति एकदेशी वक्तीत्यत आह–प्रत्यक्षपरा हीति ।
प्रायेण प्रत्यक्षमात्रपूर्वकमिति साक्षात्, परम्परया तु सर्वमेवानुमानं तथेत्यर्थः ।
उपमानं तु प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेति ।
शब्दपूर्वकत्वे सत्येव प्रत्यक्षपूर्वकत्वं तस्य, केवला तु प्रत्यक्षपूर्वकता अनुमानमात्र एवेत्यर्थः ॥
नन्वेवं सति शब्दानन्तरमुपमानमभिधीयतामित्यत आह–स्मरणसहकारितेति ।
यद्यपि शब्दस्यपि प्रमाणस्य वाक्यरूपस्य स्मृतिस्थस्य पदार्थस्मृति पदार्थस्मृतिसहकृतस्यैव वाक्यार्थबोधकत्वम्, तथापि न
क्वचिदप्यनुभूयमानस्य लिड्गं त्वनुभूयमानमपि शब्दस्य विशेषाभिधाने न्यायसिद्धे ऽप्येकदेश्यभिमतप्रयोजनाभिधानं
तदकौशलख्यापनाय यद्यपि प्रथममेकदेशिमतं दुष्यत्वेनाभिमतमेव, तथापि दूषणाभासेन त तद् दुषयितुं शक्यमिति शिक्षयितुं वार्त्तिककृतमनरञ्जयन्नेवोत्तरग्रन्थमवतारयति–तदेतदेकदेशिमतमिति ।
प्रत्यक्षं पूर्व प्राधान्यादित्येके ।
उक्तमुपपादयितुं महाविषयत्वाच्चादौ शब्दोपदेश इत्यपरश्चेद्यचञ्चुः ।
तत्र महाविषयत्वमनैकान्तिकामिति शब्दस्य महाविषयत्वात् आद्यत्वमापादयता प्रत्यक्षस्यानाद्यत्वमिच्छता अन्य एव दृष्टान्त उदाहरणीयः ।
तथा च चित्रादौ विपक्षभूते प्रत्यक्षऽपि गतत्वेन महाविषयत्वमनैकान्तिकत्वमित्यर्थः ॥
तदेतत् प्रसङ्गावस्थायाम्, स्वतन्त्रसाधनपक्षे तु कालात्ययापदिष्टत्वम् ।
शब्दचरमतायाः प्रत्यक्षप्राथम्यस्य च प्रत्यक्षसिद्धत्वादेव ।
व्यतिरेकिपक्षे च विरुद्धत्वमित्यपि द्रष्टव्यम् ।
महाविषयत्वेति ।
पूर्वमुपदिश्यमानं प्रमाणं धर्मि, महाविषयत्वादिति साधारणो धर्मः प्रत्यक्षं वा शब्दो वेति सन्देहः ।
साघरणतया न हेतुरिति भाव इति ।
प्राधान्यख्यापनं प्रयोजनं यदि प्राथम्यं विना न सिद्ध्येत् तदानुमानस्यापि प्राधान्यात् प्राथम्यं स्यादित्यर्थः ॥
नन्वसति च सम्प्लवे का नो हानिः? सति वा किं भेवद् येन भाष्यकारो विचारयति स्मेत्यत आह–स्यादेतदिति ।
व्यवस्थितविषयत्वात् प्रत्यक्षस्यानुमानविषये प्रवृत्तिस्तदा न स्यात, यद्यनुमानमपि व्यवस्थितविषयं भवेदित्यत आह—न चानुमानविषये सामान्यरूप इति ।
अतो न पुनरूक्तम् ।
अव्याख्याने कारणमिति किमिति न व्याख्यातमिति शङ्गानिवृत्तिकारणमित्यर्थः ।
सन्दिग्धेन हीति उपदेशप्रामाण्ये तद्द्वार वह्नावप्युत्तरकालमिति मन्तव्यम्, अतो वहिनं प्रत्याहित उत्पादितः प्रत्ययो निश्चयो यस्येत्यनेन न विरोधः ।
अभ्यर्हिततमं मन्यत इत्येकदेशोत्कीर्तनेन पूर्वोक्तसम्प्लवोपपादनं स्मारयति ॥
ननु च निश्चवफलत्वाविशेषे ऽपि प्रत्यक्षत एव आकाक्षानिवृत्तिरिति कुत एतदित्यत आह–तावदयमिति ।
प्रत्यक्षफलसाक्षात्कारस्यैवंस्वभावत्वादित्यर्थः ॥
नन्वड्गं विशेषणमित्येकोर्ऽथः, तत् कुतो व्यापकत्वेनेति व्याख्यायते? कुतश्च पूर्वाचार्यप्रदशितः पन्थाः परिह्नीयत इत्यत आह–तत्त प्रकृतानुपयोगितयेति ।
निरूपधानलक्षणं साक्षात्कारणमाकाक्षानिवर्तनयोग्यं प्रत्यक्षधर्मो ऽनुमानादिषु नास्ति, तेन नानुमानादिपरिच्छिन्नेर्ऽथे आकाक्षानिवृत्तिरिति हि प्रकृतम्, न च विशिष्टार्थग्राहकत्वोपदर्शनेनानुमानादिषु तदभावो दर्शिती भवति ।
विशिष्टार्थग्राहकत्वे ऽपि प्रत्यक्षस्य तभ्दावादित्यर्थः ।
व्यवस्थितानां प्रत्येकमेकत्वादिति द्वितीयासंसृष्टविषयत्वादित्यर्थः ॥
॥ तात्पर्यपरिशुद्धौप्रथमाध्याये
त्रिसूत्री समाप्ता ॥
॥ प्रमाणप्रकरणम् ॥
॥ परिशुद्धिः ॥
प्रत्यक्षादिप्रमाणविशेषलक्षणानामिति स्वरूपकथनार्थम् ।
लक्षण हीत्यादि, अर्थाक्षिप्तेति च
प्रकृतस्वरूपसङ्गतिकथनार्थम् ।
लक्षण हि जिज्ञासुप्रतिपादनाय, सा चानिर्ज्ञातसामान्यस्य विशेषे नास्ति ।
सामान्यज्ञानं च तल्लक्षणाधीनमतस्तल्लक्षणम् ।
विशेषविभागं च कृत्वा शिष्यस्य जिज्ञासामुत्थाप्य विशेषलक्षणावतारः ।
तथा च सामान्यलक्षणविभागोद्देशज्ञानस्य जिज्ञासदिजननद्वारा विशेषलक्षणज्ञानं प्रति हेतुत्वात् तद्गोचरयोरपि हेतुहेतुमभ्दावं विवक्षित्वोक्तम्–हेतुत्वेनेति ॥
व्यवच्छेदो नास्यामिधेय इत्यत आह–प्रयोजनमिति समानजातीयमनुमानादि प्रमाणत्वेन, अप्रत्यक्षेण तु तदपि विजातीयमेव ।
अतो नासाधारण्यं लक्षणस्य ।
विशेषकत्वं लक्षणधर्मः ।
तत्प्रयोजनमित्यसङ्गतम् ।
अतः कारकात् फलभूतां क्रियां निष्कृष्य दर्शयति–विशेषकत्वं विशेष इति ।
विपक्षव्यावृत्तप्रत्यक्षप्रतिपादनम् इत्यर्थः ।
कः पुनरनेन लक्षणेन प्रतिपादयिष्यत इत्यत आह–यः खल्विति ।
न च सर्वे व्यामूढाः, येन प्रतिपाद्यप्रतिपादकव्यवस्था न स्यात् ।
न च सर्वत्र व्यामोहो येनानवस्था स्यात्, न च सर्वे व्यामोहहेतवो येनाप्रतिपत्तिः स्यात् ।
न च सर्वाप्रतिपत्तिः, येनाश्रयासिद्धिः स्यादिति भावः ॥
ननु लक्ष्यमप्रसिद्धत्वात् कथं धर्मि? प्रसिद्धत्वे वा किं लक्षणेन? किं चास्याभिधेयम्, यदिभिदधत् तत्परं स्यादित्यत आह–तस्मादिति ।
ननु लक्षणं यदि प्रसिद्धं किं विधेयम्, तस्याप्रसिद्धत्वात् ।
विधेयं चेत् कथं लक्षणम्, तस्याप्रसिद्धत्वादित्यत आह–इतस्त्ववगतलक्षण इति ।
प्रतिपाद्याप्रसिद्धत्वाद् विधेयत्वमग्निहोत्रादिवत्, न तु प्रतिपादकाप्रसिद्धत्वात् ।
प्रतिपाद्यश्च विधेः प्रतीत्यैव लक्षणं यागमिव पश्चात् साध्यं साधयतीत्यर्थः ।
विशेष्यज्ञानं सविकल्पकमित्यर्थः ॥
नन्विन्द्रियार्थसन्निकर्षः प्रत्यक्षकारणमेव न भवति, सत्यपि तस्मिन् परमाण्वादिषु इन्द्रियसंयुक्तव्यवघायकसंयुक्तेषु च घटादिषु तदनुपपत्तेः ।
अतो ऽसिद्धमिदं लक्षणमित्यत आह–अर्थग्रहणेनेति ॥
ननु रूपत्वादिसामान्यं नास्त्येव, तत् किमर्थं संयुक्तसमवेतसमवायाभ्युपगम इत्यत आह–न चेति ॥
ननु सादृश्यमर्थान्तरं रोचयमानानामपि कुतो व्याघातः, न हि तद्विपरीतमिह किञ्चिदभ्युपेतमित्यत आह–तषामिति ॥
नन्वसन्निकृष्टस्यैव सन्निकृष्टाश्रयस्य वा ग्रहणमग्रहणमेव वा भविष्यति, तत् कुतो व्याघात इत्यत आह–इतरथेति ।
असन्निकृष्टस्य हि ग्रहणे इन्द्रियप्राप्यकारिताभ्युपगमव्याघातः ।
सन्निकृष्टाश्रयस्य तु ग्रहणे संयुक्तसमवायाभ्युपगमव्याघातः ।
अग्रहणे च तदभ्युपगमव्याघातः, प्रमाणाभावादित्यर्थः ।
चतुर्थसन्निकर्षाननुभवात् कुतस्तद्व्याघात इत्यत आह–अनुभूयन्ते हीति ।
रूपत्वाद्यनुभवस्य चतुर्थसन्निकर्षकार्यतया तमभ्युपगमयंस्तदनभ्युपगमं व्याहन्तीत्यर्थः ।
उपहितप्रत्ययायोगात् ।
तन्मूलस्य चोपहितव्यपदेशस्य तदभावे ऽनुपपत्तेरित्यर्थः ॥
न च रूपत्वादिसामान्यविशेषविशिष्टरूपाद्युपलब्धिमन्तरेण प्रमाणमस्ति परस्परव्यावृत्तेषु चक्षुरादिषु विशिष्टोपलब्धेरेव प्रमाणत्वे परस्पराश्रयत्वम् ।
न चाविशिष्टोपलब्धिमात्रोपनीतमविशिष्टमिन्द्रियमात्रमुपधिर्विष्टव्यपदेशे रसादिष्वपि रूपादिव्यपदेशप्रसड्गाद् इत्याशयवानाह–न चेन्द्रियाणीति सो ऽयं चाक्षुषत्वाद्युपधिनिबन्धनत्वमिमानः परस्य रूपादिव्यपदेशाभेद इति स
एवोदाहृत्य निराकृतः ।
परमार्थतस्तु नीलमधुरादिव्यपदेशाभेदे सो ऽपि नास्ति ।
तावताप्यस्माकमभिमतलाभ इति ।
शब्दत्वासिद्धौ तु तात्पर्याम्, ततः साधारणवचसोपसंहरति–तस्मादिति ॥
ननु नेन्द्रियविशेषणतया कस्यचिद् ग्रहणमस्ति, अन्यविशेषणतया तद्ग्रहणे किमायातमिन्द्रियसन्निकषस्येत्यत आह–विशेषणभावेन चेति ।
न च विशेषणभावपदेनोभयसङ्ग्रहे समवायपदेनापि चतुष्टयसङ्ग्रहो ऽस्त्विति वाच्यम्, विशेषणभावस्य शुद्धस्य प्रत्यक्षानङ्गस्वेन तदङ्गप्रस्ताव विशिष्टस्य सुलभत्वात्, समवायस्य शफद्धस्यापि प्रत्यक्षाङ्गत्वेन प्रस्तुततया तत्पदस्य तावन्मात्राभिधानेनैव पर्यवसितत्वादिति ॥
समवाये चाभावे च विशेषणविशेष्यभावादिति वार्त्तिकम् ।
तच्चानुपपन्नम्, समवायस्य तत्प्रत्यक्षतायाश्वासिद्धत्वादित्यत आह–अवयवेत्यादि ॥
नन्ववयवश्वावयवी चेत्याद्येवापलभ्यते, न तु तयोः सम्बन्धो ऽपीत्यत आह–नान्यथेति ।
एवम्भूता हि
प्रतिपत्तिः परस्परासम्बद्धेभ्यो व्यावर्तमाना परस्परसम्बद्धेषु विश्राम्यतीति भावः ॥
ननु सामानाधिकरण्यं समानेनाधिकरणेन सम्बन्ध इति पर्यायौ, तत् किमनेनोक्तम् इत्याशयवान् पृच्छति–किं
पुनरिति ।
न ह्यत्र कुण्डमिव द्रव्यमधिकरणत्वेन परिस्फरति ।
नापि बदराणीव शुक्लत्वपटत्वे आधेयत्वेन, अपि तु य एव शुक्लः स एव पट इत्यभेदेनैव प्रतीतिरित्याशयवानाशड्ते–तादात्म्यमिति चेदिति ।
बुद्धेः पौनरूक्त्यं पूर्वापेक्षया अन्यूनानतिरिक्तार्थत्वम् ।
यदि हि गुणगुणिनोरभेद एव स्यात् तदा तद्वाचकयोरेकार्थत्वात् तरूवृक्षशब्दवत् सहप्रयोगो न स्यात् ।
पटमानयेत्युक्ते यत्मिञ्चित् शुक्ल्मानयेत्, तस्यैव पटत्वात् ।
अपटः पट इतिवदशुक्लः पट इत्यपि विरुध्येति ।
अन्धस्यापि पटो ऽयमितिवत् शुक्लो ऽयमित्यपि प्रतिपत्तिः स्यात् ।
शुक्लाप्रतिपत्तिवद् वा पटप्रतिपत्तिरपि न स्यात् ।
महारजनादिसंयुक्ते शुक्लत्ववत् पटो ऽपि तिरोहित इति न प्रतीयेतेत्येवमादितर्कसहायं प्रत्यक्षमेव पटशुक्लत्वयोर्भेदमाकलयतीति परिहारार्थः ॥
स्यादेतत् ।
एकान्ताभेदे हि सर्वमेतद् दूषणम् ।
वयं त्वनेकान्तवादिनः ।
तथा हि भेदमादायापौनरूक्त्यम्, अभेदमादाय च सामानाधिकरण्यमित्यत आह–न चैकं वस्त्विति ।
भेदाभेदयोः परस्परविरोधादित्यर्थः ।
भेदो हि लौकिकपरीक्षकप्रसिद्धः ।
अभेदे तु सामानाधिकरण्यप्रतिपत्तिः प्रमाणमित्याह परः ।
सा चाभेदं नोल्लिखतीति चिन्तितमधस्तादित्यतो लोकप्रसिद्धयोर्भेदाभेदयोरसङ्कीर्णतया विरोध एव, लौकिकभेदाभेदातिरिक्तस्तु भेदाभेदनामा समवायो वा स्यात्, वाज्ञ्मात्रं वा, उभयथापि न नो दर्शनहानिरित्याशयवानुपसंहरति–तस्मादिति ॥
ननु यद्यपि सामानाधिकरण्यप्रतिपत्तिन तादात्म्यमुल्लिखति, तथापि भेदसम्बन्धाभ्यां व्यावर्तमाना अभेदं वा अभेदसम्बन्धं वा साधयेत् ।
तथा हि प्रयोगः, पटशुक्लत्वे न भिन्ने सम्बद्धे, सामानाधिकरण्यात् ।
ये पुनर्भिन्ने सम्बद्धे न ते समानाधिकरणे यथा दधिकुण्डे ।
न च तथेमे ।
तस्मान्न तथेत्याशयवानाशङ्कते—सम्बन्धे ऽपीति ॥
भवेदेवम्, यदि भेदसन्बन्धाभ्यामस्य व्यतिरेकः स्वाभाविकः स्यात् ।
किं तु रक्तः पटः, अग्निर्माणवक इतिवत् शब्दवृत्तिभेदोपाधिकः ।
शब्दवृत्तिभेदस्तु सड्केतोपाधिक इत्याह—न शब्देति ।
सामानाधिकरण्यादिति ।
च हेतुर्यथा भेदसम्बन्धाभ्यां व्यावर्तते तथा अभेदसम्बन्धाभ्यामपीत्यसाधारणः ।
अभिन्नं च तत्सम्बन्धि चेति साध्यम्, न चैवम्भूतमुभयवादिसम्प्रतिपन्नं किञ्चिदस्ति यतो व्यावृत्तेरसाधारणो हेतुः स्यादिति चेत् न, उभयव्यवच्छेदपर्यवसानस्य मनोरथेनाप्यसिद्धेः ॥
यो ह्यभिन्नः स कथं सम्बद्धः, सम्बन्धस्य भेदाधिष्ठानत्वात् ।
यः सम्बद्धः स कथमभिन्नः, तेनैव तस्यासम्बन्धात् ।
भिन्नो ऽपीति चेत्? तथापि भेदमादायैव सम्बन्धो न पुनरभेदमादाय ।
तथा च सम्बन्धो भेदेनैव व्याप्तः ।
अभेदस्त्वसम्बन्धेनैवेति कथम् अभिन्ने सम्बन्धे इति प्रतिज्ञा न व्याहता? प्रकारभेदमादायेति चेत्—न, तस्याभावात्, न हि द्रव्यस्य गुणत्वमप्यस्ति, गुणस्य वा द्रव्यत्वमपि, येनाभेदः स्यात् ॥
उक्तप्रकारेण च भेद एव ।
सत्त्वेनाभेद इति चेत्? किमिदं सत्त्वं सत्ता वा, स्वरूपं वा? स्वरूपं तावद्
गुणो गुण एव, द्रव्यं द्रव्यमेव ।
सत्ता तु ताभ्यामसाधारणाभ्यां साधारणी भिन्ना कथमिव तयोः स्वभावः? केनचिदाकारेण तथेति चेत्? न वैद्रव्यगुणकर्मसाधारणादाकारादसाधारणमाकारं सत्तायाः पश्यामो येन सा तथा स्यात् ।
एवं तेषामपि द्रव्यगुणकर्मणां परस्परासड्कीर्णात् रूपान्न स्वभावान्तरं पश्यामः प्रतीयमानरूपमेवाभिन्नमित्युच्यमाने सत्ता वा न स्यात्, तानि वा न स्युरित्युक्तप्रायम् ।
तस्मात् द्रव्यगुणयोः सत्तैव
साधारणं स्वरूपं स्वभावो धर्मो विशेषणमित्यर्थः ।
द्रव्यत्वगुणयोर्द्रव्यमेव स्वभावो धर्मी विशेष्यमित्यर्थः विशेष्यस्यैकस्यैव विशेषणद्वयद्वारोभयशब्दबुद्धिविषयत्वाद् गुणगुण्यादीनामेवाभेदं भेदाभेदौ वा परे मेनिरे इति यद्युपनिबन्धेनाह–शब्दानां त्विति ॥
नन्वेकान्तभिन्नानां कालतो देशतो वा विवेकख्यातिरूपलब्धा ।
सा गुणगुणिभ्यां व्यावर्तमाना स्वव्याप्यमैकान्तिकं भेदमपि व्यावर्तयतीति अत आह–अयुतसिद्ध्येति ।
अस्त्येवासौ, न तु स्फुटतरो निर्लुठितगर्भतया ।
न च तन्निवृत्तिमात्रेण भेदनिवृत्तिः, लोहदहनयोरभेदप्रसड्गादित्यर्थः ॥
स्यादेतत् ।
भिन्नसम्म्बन्ध्यनुभवे ऽपि कुतः सम्बन्धानुभव इत्यत आह—न चासाविति ।
न ह्यगृह्यामाणे विशेषणे विशिष्टप्रतिपत्तिः ।
न च बुद्ध्या बोध्यमनुमीयते प्रत्यक्षोच्छेदप्रसड्गादित्यर्थः ।
यो विशेषणविशेष्यभावः सर्वः सन्न्धान्तरपूर्वकं इति व्याप्तिरिहैव भज्यत इति परेणापि स्वीकरणीयमेव ।
न ह्यसौ समवायमभावं वा अभ्युपगच्छन् विशेषणतामस्य न स्वीकरोति ।
अन्यथा समवायाभावविशिष्टप्रतीतिमेव न स्वीकुर्यात् ।
किं तु
सम्बन्धान्तररहितो विशेषणविशेष्यभावः प्रत्यक्षाड्गं न भवतीति कदाचिद् ब्रूयात् ।
अतस्तं समानन्यायेन निवारयति–तत्
किमत्रेति ।
यथा विनैव सम्बन्धान्तरेण तद्विशिष्टप्रतिपत्तिः, तथा तस्या एवैन्द्रियकत्वनान्तरीयकः साक्षात्कारः प्रतीयते, विपक्षे त्वनवस्थाप्रसङ्गलक्षणस्तर्कः समान इत्यर्थः ॥
न च गुणकर्मसामान्येष्वपि विशेषणत्वमात्रेणैव ग्रहणमस्तु, कृतं समवायादिनेति वाच्यम् ।
शब्दस्य स्वाश्रयाविशेषणस्यापि समवायेन ग्रहणात् ।
सो ऽपि तृतीयो ऽस्त्विति चेत्—न, गन्धरसयोरतथाभूतयोरपि संयुक्तसमवायेन ग्रहणात् ।
सो ऽपि चतुर्थो ऽस्त्विति चेत्—न, शब्दरूपत्वयोरपि प्रतीयमानत्वात् ।
विशेषणभावेनैवेति चेत्—न, द्रव्यगुणकर्मसामान्यानां सम्बन्धाभावे विशेषणभावस्यैवानुपपत्तेः ।
सम्बन्धश्च प्रसाधितः ।
अतो न समवायाभाववत् प्रत्यक्षबाधः, नाप्यनवस्था, सम्बन्धान्तरनिरपेक्षसम्बन्ध एव विश्रान्तेः इति ॥
स्यादेतत् ।
भूतलमेव घटाभावस्तच्च संयोगादेव प्रतीयते ।
अतः किं तदर्थेन विशेषणभावेनेत्यत आह—न चेति ।
सत्यपि घटादौ भूतरस्य भावात् ।
भूतलव्यवहारवत् घटाभावव्यवहारप्रसड्गादिति शेषः ॥
न च केवल्यमिति ।
केवल्यं हि भूतलधर्मो घटाद्यविरोधी युद्युच्येत न घटादिना सह सम्भवेत्, तथा च स दोषस्तदवस्थ एव, विरोधी चेत्? स तावन्नोभयवादिसिद्धद्रव्यादिष्वन्यतमः, तेषां घटेन सह सम्भवात्, अभावव्यवहारकाले ऽपि च केषाञ्चिदसम्भवात्, भूतलधर्माणां च तेषां घटैनाविनाशादनावृतेश्च ।
तदतिरिक्तं तु दशमं द्रव्यम्, पञ्चविशतितमो वा गुणः, षष्ठं वा कर्म, सामान्यविशेषसमवाया न सम्भवन्त्येव, तस्य द्रव्याद्यन्यतमत्वेन तदविनाभाविधर्मापत्तेः ।
अनापत्तौ वा तत्त्वानुपपत्तेः ॥
स खल्वयं सप्तमः पदार्थो भवेत्? तत्राप्यसौ भावनिषेधाकारो वा स्यात्, अन्यथा वा? न तावदन्यथा ।
तथा सति अविरोधित्वप्रसङ्गात् ।
निषेधाकारो ऽपि यद्यनुत्पन्नो ऽपि न निवर्तते, तदा घटादिव्यवहारः कदाचिदपि न स्यात् ।
उत्पन्नो वा यदि निवर्तेत, तदा विनष्टो ऽपि घटः कदाचिदुपलभ्येत ।
अतः पदार्थानां सप्तमो निषेधरूपो ऽनुत्पन्नप्रध्वंसी च उत्पन्नविनाशी च भूतलादिधर्मः कैवल्यमभाव इति एकोर्ऽथ इति ।
तदिदमुक्तम्–न घटाभावादन्यो घटाभाव एवेत्यर्थः ॥
स्यादेतत् यद्यपि ज्ञेयरूपं तत्त्वान्तरं नास्ति, तथापि ज्ञानरूपं भविष्यति ।
विषयश्च तस्य दृश्ये प्रतियोगिनि भूतलमेवेत्यत आह–न चेति, यथा भूतलपक्षे घटवत्यपि प्रसड्गो भवति, तथा भूतलज्ञानपक्षे घटवभ्दूतलज्ञाने ऽपि प्रसङ्ग इत्यर्थः ॥
ननु दृश्ये प्रतियोगिनीत्युक्तं घटवभ्दूतलज्ञाने तु घटो न दृश्यः किं तु दृश्यमान इत्यत आह—नहीति ।
न हि दर्शनानर्हे दृश्यत इत्यर्थः ।
दर्शनार्हे हि घटः तत्र यदि न नास्ति तदा भूतलवदकामेनाप्युपलभ्येतैव, भूतलमपि वा नोपलभ्येत, तुल्ययोगक्षेमत्वात् ।
तस्माद् भूतलोपलब्धावपि तदनुपलम्भस्तदभावमादायैवोपपद्यत इति ।
यद्यप्युपलभ्याभावमड्गीकारयितुं शक्यते तर्कगत्या परः, तथापि स्ववचनविरोधमप्यपश्यन्तं प्रति किं तेनापीत्याशयवानाह—दृश्ये ऽनुपलभ्यमान इति ॥
अनुपलम्भो ह्युपलम्भाभावाक वा स्यात्, दृश्ये स्मर्यमाणे भूलोपलम्भ एव वा, घटोपलम्भे वा स्मर्यमाणे केवलात्मोपलम्भः? न तावद् द्वितीयतृतीयौ, स्मर्यमाणे दृश्यमाने घटे भूतलोपलम्भे सति घटवत्यपि प्रसङ्गस्य
दुर्निवारत्वात् ।
तस्मादुपलम्भाभाव एवानुपलम्भः ॥
नन्व्नेनैव सर्वव्यवहारोपपत्तो किमुपलभ्याभावेनेत्यत आह–किमपराद्धमुपलभ्याभावेनेति ।
तथा हि यथोपलम्भनिषेधकात् प्रमाणादुपलम्भाभावसिद्धिस्तथोपलभ्यनिषेधकात् प्रमाणबलादेवोपलभ्याभावसिद्धिरपि भवति ।
भवति हि घटं नोपलभैतिवत् घटो नास्तीति प्रतीतिः ।
न चैकविषयत्वमनयोः, निमीलितलोचनस्य ह्युपलम्भाभावनिश्चय उपलभ्याभावे च सन्देहो जिज्ञासा च कथञ्चिद् भूतलनिश्चये ऽपि ।
न चैतदेकत्रैकदा सम्भवतीत्याशयवानुपसंहरति—तस्मादिति ।
असदिति सन्निषेध इत्यर्थः ॥
स च दृश्यानुपलब्धरेवावगम्यते, अक्षव्यापारस्याधिकरणग्रहणोपक्षीणत्वादिति केचित् ।
तदनुपपन्नम्, अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभावप्रतीतिप्रसड्गात् ।
अस्ति हि तस्याधिकरणस्य ग्रहणम्, अस्ति च प्रतियोगिस्मरणम्, अस्ति च नीले शुक्लत्वस्य योग्यस्याभावो ऽनुपलब्धिश्च ॥
अधिकरणग्राहकेणेन्द्रियेण ग्राह्याभाववादिनो ऽपि समानमेतदिति चेत्—न, प्रतियोगिग्राहकेणेन्द्रियेण
तदभावो गृह्यते भावायत्तत्वात् तस्येति सिद्धान्तमर्मत्वात् ।
ममापि यदभावो ऽनुपलब्ध्या बोध्यः तद्ग्राहकेणेन्द्रियेणाधिकरणग्रहणे स गृह्यत इति सिद्धान्तसारमिति चेत्—न, वायौ त्वगिन्द्रियोपनीते
रूपाभावप्रतीत्यनुदयप्रसड्गात् ।
न हि रूपग्राहकेण तत्राधिकरणमुपनीतम् ।
तत्रापि तावच्चक्षुरिन्द्रियं सम्बद्धमिति चेत्? एवं तर्हि तस्य नाधिकरणग्रहणे व्यापारः, नापि प्रतियोगिस्मरणे रूपाभावप्रतीत्या च नियमेन अपेक्षत इत्यायातम्, अनन्यथासिद्धमैन्द्रियकत्वमभावस्येत्यन्यथासिद्धत्वप्रलापं गजनिमीलनेनावधीर्य विद्धवदाह—इन्द्रियव्यापारे सति तत्प्रत्ययादिति ।
आन्तरालिकमेव व्यापारं व्यवधायकमिति भ्रान्तं प्रतिबोधयन्नाह—न च प्रतियोगीति ॥
प्रतियोगिस्मरणमित्यत्र वाक्छलवादिनमुत्थाप्य बोधयति—न च शब्दस्मरणादीनामिति ।
अभावज्ञानोत्पत्ताविन्द्रियार्थसन्निकर्षो न कारणं व्यभिचारादिति वादिनम् उत्थापयति—ननु स्वरूपेति ।
तदियमिति ।
प्रमाणान्तरं तु तेन सम्भवतीत्यभिमानः परस्येत्यर्थः ।
सेयमनुपलब्धिः सत्तामात्रैणाभावं गमयेत, स्वज्ञानेन वा? न तावदाद्यः, तदानीं गेहस्य विप्रकृष्टस्य व्यवहितत्वेन योग्यानुपलब्धेरसत्त्वात् ।
न द्वितीयः, अनवस्थाप्रसड्गात्, अनुपलब्धेरप्यभावरूपतया अनुपलब्ध्यन्तरसाधनीयत्वात् ॥
योग्यस्य स्मरणाभावस्तावदस्तीति चेत्—न, अभावे विपर्ययसंशयाभावप्रसङ्गात् ।
भवति हि कदाचित् प्रतियोग्यधिकरणयोः स्मरणे ऽप्यसतो ऽपि सभ्दावप्रतीतिः, सतो ऽभावप्रत्ययः, कथमन्यथा नास्तीत्युक्त्वा झटिति सञ्जातवाधः प्राह, न हि न हि भ्रान्तो ऽस्मि, दृष्ट एवासौ तत्र मयेति, अस्तीति वा प्रथममुक्त्वा पश्चान्नास्तीति ।
किमासीन्नवेति नावधारयामीति वेति ।
न हि प्रतियोगिनमधिकरणं वानुपलब्धमेवान्यथाकारं स्मरति ।
न च स्वरससिद्धस्य स्मरणस्यानुपलभ्यमानस्यैव विपर्ययः सम्भवति ।
इयती च सामाग्री यदुत प्रतियोग्यधिकरणस्मरणं तत्तास्मरणं चेति ।
न वा साधारणं प्रमाकरणमदूषयन्त एव दोषा विपर्ययहेतवः, सर्वत्रानाश्वासप्रसड्गात् ।
त्वयाप्येतत् समर्थनीयमिति चेत्—न, योग्यास्मरणस्य मया लिङ्गत्वेनेष्टत्वात् ।
लिङ्गविपर्ययसंशयाभ्यां च तल्लैड्गिकसंशयविपर्यययोः सुलभत्वात् ।
यदा तु सुनिपुणैकज्ञानग्रहणयोग्यस्य चैत्रस्य गेहस्मरणैऽप्यस्मरणलक्षणं लिङ्गमवधार्यते, तदा लिड्गिप्रतीतिरविपरीता भवत्येव ।
अत एव क्षणं ध्यात्वेत्याह ।
अन्यथा ध्यानमप्यनुपपन्नम् ।
अस्मरणमात्रस्य हि व्यभिचारम् उपलभ्य तदनादृत्य विशिष्टास्मरणं ज्ञातुकामस्य प्रणिधानमुपपद्यते ।
तस्मात् लिङ्गत्वेनैव अस्मरणमुपयुज्यते ।
किं तु तदपि कथं ज्ञातव्यमित्यवशिष्यते? तत्राह—नैतदिति ।
व्यधिकरणतां परिहर्तुं प्रयोगं दर्शयति—तथा हीति ॥
न चावच्छेद्यावच्छेदकयोर्वैयधिकरण्यं दोषः, विशेषण एव तन्नियमात्, अत्र तूपलक्षणत्वात्, वैयधिकरण्ये ऽप्युपलक्षणत्वाविरोधात्, न[?]अतावन्मात्रेणैवोपयोगात् ।
उपलक्षितं तु साध्यसमानाधिकरणमेव ।
अत एवानुत्पन्नपादविहारस्य अचलचक्षुष इत्यादि व्यधिकरणमेव दर्शयति स्म वार्त्तिककारः ।
टीकाकारो ऽपि तथा अनुमेने, यतो नान्यथाकृतवान् ।
परैरपि यद्यदा यज्जाननसमर्थमिति वदभ्दिः स्वीकृतमेवैतत् ।
तत् कस्य हेतोः? तथैव प्रतिबन्धसिद्धेः ॥
नन्विन्द्रियार्थसन्निकर्षव्यभिचारस्तदवस्थ इत्यत आह—न च यदिति ।
साक्षात्कारिणी हि
प्रतीतिरस्मदादीनामिन्द्रियार्थसन्निकर्षं न व्यभिचरति, इयं त्वानुमानिकी पारोक्ष्यवती तस्मान्न क्वचिद् व्यभिचारशड्का ।
यद्यनुमानगम्यो ऽभावः, कथं प्रत्यक्षस्य तत्र प्रवृत्ति? अनयोरसड्कीर्णविषयत्वादिति तु कदाचिद् ब्रूयात् ।
तच्च सम्प्लवव्यवस्थापनयैव समाहितमित्यर्थः ॥
न तर्हि इत्यादिभाष्येण कः सूत्रावयवो व्याख्यात इति शड्कामपनयन्नेव वार्त्तिकमवतारयति—सम्प्रतीति ।
ननु लक्षणं तथाप्यदुष्टमित्यत आह—प्रत्यक्षकारणेति ।
कारणावधारणाभिमानिनश्चोद्यमित्यर्थः ।
विषयसंयोगिचक्षुरालोकश्चेति वदता विषयसंयोगेनैवालोकव्यापारो न त्वगिन्द्रियाधिष्ठानसंयोगेनेत्युक्तम् ॥
एतच्चान्धकारमध्यवर्तिनाप्यालोकमध्यवर्तिविषयोपलब्धेरालोकमध्यवर्तिनापि चान्धकारमध्यस्थानुपलब्धेरून्नेयम् ।
ननु महत्त्वानेकद्रव्यवत्त्वयोः परस्पराविनाभूतयोरगृह्यमाणविशेषत्वेनोभयोरपि चाक्षषत्वं प्रति कारणत्वात् समुच्चय एव ।
विशेषे वा एकस्यैव कारणत्वम्, कुतो विकल्पः? परस्परव्यभिचारिणो ह्यर्थक्रियायां विकल्पसम्भवो न त्विमे तथा ।
तस्माच्चाक्षुषद्रव्यलक्षणे कर्तव्ये ऽनयोर्विकल्पोपन्यासः कर्तव्यः ।
उभयोपादाने चासमर्थविशेषणं लक्षणं भवेदित्यर्थः ।
अत एवाग्रे सत्यप्येवं लक्षणकत्व इत्याह उक्तसामग्रीसम्भवे ऽपि चक्षुरवयविनो न प्रत्यक्षता, अत उक्तं वार्त्तिककृता उपलब्धिफलः संस्कार इति ।
स च दुर्निरूपः ।
तथाहि गुणिधर्मो वासौ स्यात्, गुणधर्मो वा स्यात्? तत्र गुणिधर्मत्वे तब्दले रूपस्पर्शयोरविशेषेण ग्रहणम्, न तु क्वचिद् ग्रहणम् अग्रहणं च क्वचिदिति ।
तदेकार्थसमवेतयोर्ग्रहणमेवेति चेत्—न, निशि निदाघसमये तेजः-स्पर्शग्रहे ऽपि रूपाग्रहात्, चन्द्रातपरूपग्रहे ऽपि स्पर्शाग्रहात्, गुणधर्मस्त्वनित्यो न भवत्येव, नित्यस्तु सामान्यरूपो न संस्कारशब्दवाच्यो नाप्युपलब्धिफलः, तस्य
स्वेपलब्धेरन्यत्रानिमित्तत्वादित्यत आह–धर्माधर्मनिमित्त उभ्दवसमाख्यात इति ।
रूपादीना स्वकारणवशादेव स स्वभावभेदो जायते केषाञ्चित्, यत्रोभ्दवत्वं नाम सामान्यविशेषः समवैति ।
स च धर्माधर्मजन्यतया संस्कार इत्युच्यते, उपलब्धिफलश्च भवतीत्यर्थः ।
प्रत्यक्षलक्षणतया तत्कारणमुक्तम्, न तु कारणतयैव ।
न च कारणं लक्षणमित्येकम् ।
उत्पत्तिव्यवस्थापकं हि लक्षणमलक्षणं वा, कारणस्वरूपव्यवस्थापकं तु कारकमकारकं वा लक्षणम् ।
न चैवमालोकादयः, तेषामतिव्यापकतया अव्यापकतया च प्रत्यक्षस्वरूपाव्यवस्थापकत्वात् ।
उत्पत्तिव्यवस्थापकाः पुनरेते भवन्ति ।
तेषामन्यतमापाये ऽपि प्रत्यक्षानुपपत्तेरित्याशयवान् परिहारं व्याचष्टे—प्रत्यक्षलक्षणेति ॥
ननु यद्यपि स्वरूपतः सन्तानतो वा इन्द्रियाभेदादिन्द्रियमनःसन्निकर्षाभेदो यथायथं सम्भवति, तथापि विज्ञानाभेदो व्यक्तिकृतो जातिकृतो वा स्यात् ।
पूर्वस्मिन्निन्द्रियार्थसन्निकर्षाभेदे ऽपि धारावाहिकविज्ञानानि भिद्यन्ते ।
उत्तरत्र तु इन्द्रियार्थसन्निकर्षभेदे प्यभेद एव, सर्वेषां साक्षात्कारिजातीयत्वादिति ।
तत् एकदेशिपरिहारो गर्भस्त्रावेणैव गत उपन्यासयोग्यो ऽपि न भवतीत्याशयवानाह—यदा हीति ॥
अस्ति हि स्वरूपजातिकृतभेदातिरिक्तो विषयकृतो विशेषो बुद्धीनाम् ।
स चेन्द्रियार्थसन्निकर्षभेदादेव दृष्टः, नेन्द्रियमनःसन्निकर्षभेदात् ।
यत्र तु धारावाहिज्ञाने नेन्द्रियार्थसन्निकर्षो भिद्यते, तत्र ज्ञानस्यापि न विषयकृतो भेद इत्यर्थः ।
तदिदमुक्तम्—क्रमवन्ति हास्तिकाश्वीयादिविज्ञानानीति ।
निराकरणे ऽप्येतदनुरूपमुदाहरति—यदा इति ।
तस्यैव गोश्चक्षुषा संयोगेन तत्रैव गवि समवायेन प्रथमं शुक्लगुणज्ञानं पश्चाद् गमनकर्मज्ञानमिति भेदे ऽभेदादिति ।
समानमित्यर्थः ॥
यद्यप्यप्रसिद्धत्वमव्यपदेशकत्वव्यापकत्वात् तदभिधानेनैव लब्धम्, तथाप्यालोकविषयसन्निकर्षो ऽव्यपदेशकत्वे ऽपि प्रसिद्धः, इन्द्रियमनःसन्निकर्षस्त्वव्यपदेशको ऽप्रसिद्धश्च इत्येतावता प्रकारान्तरत्वम् ॥
नन्वन्यतरातीन्द्रियाधारत्वमिन्द्रियार्थसन्निकर्षस्याप्यस्ति, उभयातीन्द्रियाधारता तु आत्ममनःसन्निकर्षस्यापि नास्तीत्यत आह–आत्मा तु यद्यपीति ॥
ननु विशिष्टकर्माभिनिर्वर्तितत्वेन प्रसन्नान्धानन्धकृष्णसाराणां न कश्चिद्विशेषः, न हि रूपोपभोगानर्थिनः कृष्णसारे तृष्णा तत्कर्मसम्भवः ।
असम्भवे च कथमस्योत्पत्तिरिति? अतः कार्ये ऽपि कर्मणः सहकारितामाह–एतदुक्तं भवतीति ।
कर्मक्षयात् इत्युपलक्षणम्, प्रतिबन्धात्, सहकारिविरहाच्चेत्यपि द्रष्टव्यम् ।
यदि हि रथादिसंयोगानां नभोव्यापकत्वं भवेत् तदा तत्कार्यस्यपि शब्दस्य सर्वत्रोत्पादप्रसड्गेः ।
असमवायिकारणप्रादेशिकत्वानुरोधेन हि
व्यापकगुणाः प्रदेशावच्छेदेन जायन्ते ।
इह तु तदभावादनवच्छिन्नदेशतैव स्यात् ।
ततश्च तद्द्वारेणोपलम्यमाना रथादयस्तत्संयोगाश्च न नियतदेशतया प्रतीयेरन्नित्याशयवानाह—मा भूतसर्वत्रेति ॥
नन्वाकाशप्रत्यक्षतापक्षः किमिति नाशड्कित इति परिहरत्नाह–नास्माकमिति ।
त्वगादिभिरिति तत्र त्वगुदाहणमुक्तम् ।
रसनोदाहरणं तु तिक्तत्वाभावविशिष्टो मधुरतरो गुडः ।
तथा घ्राणोदाहरणं पूतिग्रन्धाभावविशिष्टा सुरभितरा कस्तूरिकेत्यतो बहुवचनाविरोधः ।
बौद्धसिद्धान्ते च गुणगुणिनोरभेदाद् गुणिमूर्तत्वमेव गुणमूर्तत्वम् ।
गुणग्राहकमेवेन्द्रियं गुणिग्राहकम् ।
गुणाभाव एव च गुण्यभावः ।
अतो मूर्ताभावविशिष्टग्रहे उदाहरणीये
अल्पाभावविशिष्टग्रहमाहेति ॥
ननु मा भूत् सहान्तरेण ग्रहणं सान्तर इति वा ग्रहणं हेत्वर्थः, शरीरेन्द्रियाधिष्ठानासम्बन्धस्य ग्रहणमर्थो भविष्यति ।
न ह्ययमन्यथासिद्धः, एतस्यैवोत्तरोपाधित्वेन प्रयोजकत्वादित्यत आह—इन्द्रियसम्बन्धो भवतु मा वेति ।
यच्छरीरसम्ब्द्धं तदवश्यमिन्द्रियसम्बद्धमिति ।
यदिन्द्रियसम्बद्धं तदवश्यं शरीरसम्बद्धमिति वा न प्रमाणमस्ति,
तयोर्विभिन्नत्वात्, विभिन्नाश्रयत्वाच्च ।
न ह्यस्ति नियमो यत् प्रदीपेन सम्बण्सते तदवश्यं मल्लिमयापि यद् वा मल्लिमया तदवश्यं प्रदीपेनापि ।
तस्मात् तत्र साधाकबाधकप्रमाणाभावात् सन्देह एवेत्यर्थः ।
तस्मात् तदन्यथासिद्धिरेवेत्यसिद्धिव्यवच्छेदार्थं सजलसतेजःपटादिग्राहिणा प्राप्यकारिणा त्वगिन्द्रियेण विरुद्धमपि सहान्तरेण ग्रहणं द्रष्टव्यम् ॥
आवरणानुपपत्तिरूपस्य तर्कस्योपस्कुर्वाणः प्रयोगेण प्रमाणमाह–प्रयोगस्त्विति ॥
इह द्विविधः सम्बन्धः प्राप्तिलक्षणो यथा, आलोकादीनां घटादिभिः ।
तद्विपरीतश्च यथा, अभिधानज्ञानादीनामभिधयज्ञेयादिभः ।
तत्र स्वविषयं प्राप्येति सिद्धसाधनव्युदासार्थम् ।
जनकत्वादित्युक्ते शब्दादिभिरप्राप्तस्वविषयप्रतिपत्त्यादिजनकैरनैकान्तिकमतस्तदप्राप्तावजनकत्वादिति ।
एतावन्मात्रेण तु सर्वथा
अजनकैरनैकान्तिकमतो जनकत्वे सतीति ।
युक्त्यन्तरम् तर्कान्तरम्, दूरान्तिकाननुविधानप्रसङ्गः ।
अस्यापि विपर्ययेण प्रयोगो द्रष्टव्यः ॥
ननु प्राप्तत्वाविशेषे सूर्यमण्डलवन्मेरूपृष्ठमध्यन्दिनोल्काप्रकाशावपि गृह्णीयात् ।
अथानुभ्दूताभिभूततया न सूरसदनादीनां ग्रहणम्, उभ्दूतानभिभूतत्वात् सूर्यमण्डलं गृह्यत इति, एवं तर्हि विषय एव स कश्चित् तादृशो यो गृह्यते नेतर इत्यभ्युपेयताम्, किं व्यभिचारिप्राप्तिपरिग्रहेगोत्यत आह—प्राप्तौ त्विति ।
विषयमाहात्म्यं हि प्राप्तिसहकारि, न तु स्वतन्त्रम् ।
न हि स्पर्शरसादयो ग्रहणयोग्या इत्यप्राप्तैरेव त्वगादिभिर्गृह्यन्ते, प्राप्यकारित्वाद् वा तैरनुभ्दूताभिभूता अपि ते प्राप्तत्वमात्रेण गृह्यन्त इत्यर्थः ॥
यद्यपि क्षणभङ्गपरिणामनये ऽपि प्राप्तानामेव परस्परं कर्तृकरणकर्मणां कार्यजननम्, न त्वप्राप्तानामपि, न हि परस्परमप्रत्यासीदन्तः सहकारिप्रत्यया भावानतिशाययन्तो दृश्यन्ते ।
प्रत्यासत्तिस्तु निरन्तरोत्पाद एव तेषाम् ।
सैव च स्वरूप्योग्यता ।
तथा च स्वरूपयोग्यतामिन्द्रियार्थयोब्रुवता निरन्तरोत्पाद एव वक्तव्यः, न पुनर्व्यवहितविप्रकृष्टोत्पन्नानां क्वचिदपि स्वरूपयोग्यता नाम ।
तस्मात् प्राप्तौ स्वरूपातिरिक्तायां विप्रतिपद्येत, न तु निरन्तरोत्पादे ऽपि तत्राधिकाप्राप्तिः साधनमर्हतीत्याशयवानाह—निषेत्स्येते हीति ॥
एवं निवारिताभिमानः परदर्शने ऽपि प्रमाणमपश्यन् सन्दिग्ध इति ॥
ननु जनकत्वे सतीति निर्णयहेतुं पश्यन् कथं नाम सन्दिग्ध इत्यत आह—अयमभिसन्धिरिति ।
अदृश्यमानप्राप्तावयस्कान्ते ऽपि दृष्टत्वादनैकान्तिकस्याभिमन्यते पर इत्यर्थः ।
त्वगादीनां दण्डादीनां च प्राप्तानामेव कार्यजनकत्वं पश्यन् कथमिव सर्वत्र विप्रतिपद्यत इत्यतो विप्रतिपत्तिबीजमाह—योग्यतयैवेति ।
नन्वयस्कान्तस्याप्राप्यकारित्वे हेत्वन्तरे ऽपि कः प्रतीकार इत्यत आह—अयस्कान्तमणेरिति ।
ननु तस्य वृत्तिभेदः अनुपलम्भबाधित इत्यत उक्तम्—चक्षुष इवेति ।
तुल्ययोगक्षेमत्वादित्यर्थः ॥
व्यवधानविप्रकर्षौ हि अनिरन्तरोत्पादो वा स्यादप्राप्तिर्वा, स्वरूपयोग्यता वा? तत्रानिरन्तरोत्पादाभावो
निरन्तरोत्पादः स्यात् ।
न च कृष्पासारस्यार्थेन मणेर्वा लोहेन निरन्तरोत्पादः सम्भवति ।
अप्राप्त्यभावस्तु प्राप्तिरेव, तथा च कः प्रतिकूलो ऽनुकूलमाचरति? अयोग्यताभावस्तु योग्यतैव ।
स च बौद्धनये कारणजातीयस्य निरन्तरोत्पादान्न भिद्यत इत्युक्तम् ।
तस्मात् स्थिरनये कार्यं जनयन्ति कारणानि परस्परप्राप्तिं वा व्यभिचरन्ति,
प्राप्तिर्वा स्वरूपयोग्यताप्रयुक्तां व्याप्तिमुपजीवतीत्यवशिष्यते ।
तत्राह—प्राप्तेरेवेति ॥
ननु लक्षणान्तरेण व्यवस्थिते लक्ष्ये कथमन्योन्याश्रयत्वमित्यत आह—अगतिर्वेति ।
तद्धि लक्ष्यसापेक्षमनपेक्षं वा? आद्ये अन्योन्याश्रयत्वदोषादेवागतिः ।
उत्तरत्र तु अवगते लक्ष्ये तत्सापेक्षेण लक्षणेन किं गमयितव्यमित्यगतिरेवेत्यर्थः ।
अस्ति हीति ।
यदि विज्ञानाभिन्नहेतुजत्वात् सुखं विज्ञानजातीयं स्यात् सुखाभिन्नहेतुजत्वात् तदपि सुखजातीयं भवेत् ।
विज्ञानं न सुखेनाभिन्नहेतुजमिति चेत्? एवं तर्हि कथं सुखमपि विज्ञानेनाभिन्नहेतुजमित्यर्थः ।
ननु ज्ञानहेत्वनुगमः सुखे ऽप्यस्ति, न तु सुखहेत्वनुगमो ज्ञाने, अतो यत्कारणानुगमो
यत्र तज्जातीयत्वं तत्रास्तु ।
यथाड्कुरमात्रकारणानुगमे यवाड्कुरस्याप्यड्कुरजातीयत्वम् ।
न तु सर्वस्य यवाड्कुरत्वम् तत्कारणानुगमाभावादित्याशयवान् आशङ्कते—अवान्तरेति ।
न ह्यस्ति नियमो यज्जातीयकार्यहेतुचक्रानगमो यत्र तत्र तज्जातीयत्वमिति ।
बीजजातीयकार्यहेतुचक्रानुगमे ऽप्यड्कुरस्य बीजाजातीयत्वादिति सामान्योपसंहारे ऽनैकान्तिकत्वम्, विशेषोपसंहारे तु
सन्दिग्धानैकान्तिकत्वमाह—न किञ्चिदिति ॥
आकस्मिकत्वप्रसङ्गभयाद्धि कार्यभेदोपपत्तये सकलकारणभेदमनुसरन् प्रयस्यति भवान्, स च कार्यभेदः किञ्चित्कारणभेदेनैव बीजाड्कुरादिवत् ज्ञानसुखादावप्यनाकस्मिक इत्यर्थः ।
तदिदमुक्तं तदर्थत्वाच्चेति ।
ननु रूपरसगन्धस्पर्शानां हि उपादानभेदाभेदमात्रानुविद्धं तज्जातीयातज्जातीयत्वम् ।
न ह्यस्ति सम्भवो रूपाद्युपादानं चारूपादिकं चेति ।
अतो ज्ञानोपादानत्वे सुखं ज्ञानजातीयमेव स्यात् ।
अज्ञानत्वे वा न ज्ञानोपादानत्वमिति यदि प्रत्यवतिष्ठते तत्राह—न चेति ।
यदि ह्येकजातीयोपादानतयैकजातीयत्वं भवेत्, अवान्तरैकजातीयमपि किं न स्यात्? तथा चैकस्मात् समनन्तरप्रत्ययादनेकावान्तरजातीनयानुत्पादप्रसङ्गः ।
दृश्यते च रूपज्ञानाद् रूपज्ञानं रसज्ञानादिजातीयं च ।
साक्षात्कारिणः साक्षात्कारश्चासाक्षात्करश्चेत्यादि ॥
अथ विलक्षणानेकसहकारिप्रवेशादनेकावान्तरजातीयकार्यकरणस्वभावस्य कस्यनचिदेवोत्पादनियम उपपाद्य ।
एवमवान्तरजातिभेदोपपादनवद्विवक्षितैकजातीयोपादानत्वे ऽपि विलक्षणानेकसहकारिप्रवेशाद् विवक्षितानेकजातीयकार्यकरणस्वभावस्य कस्यचिदेवोत्पादनियम उपपत्स्यत इत्यर्थः ॥
सो ऽयमेकोपादानकत्वे ऽप्यवान्तरजातिभेदाभ्युपगमः परेषां दृष्टान्तार्थमुभ्दावितः अपि चेत्याद्युभ्दावितं सन्दिग्धव्यावृत्तिकत्वं स्फुठयितुमतो नासङ्गतमिति ।
तदेतत् सकलं बौद्धसिद्धान्ताभ्युपगमेनोक्तम् ।
परमार्थतस्तु यदुपादानवत् तत्सजातीयं यद्व्यापकोपादानवत् तद्गुणजातीयमिति नियमः ।
अतः परमनियमः ।
तद्यदि सत्तया गुणत्वेन वा सुखज्ञानयोरेकजातीयत्वं साध्यते, तदा सिद्धसाधनम् ।
अन्यत्रानियमे ऽसड्कीर्णमुदाहरणम् आह—अत एवेति ।
एकोपादानत्वे ऽपि रूपादीनां न व्यक्तिकृतो भेदः, नाप्यवान्तर जातिकृतः नापि गुणतया पिठरोपादानत्वे ऽपि कर्मणो ऽगुणत्वात् ।
अत्रोपादानमात्रबलेन यथा द्रव्यगुणकर्मणामसतामेव सत्त्वं बहिः, तथा आन्तरमपि ज्ञानसुखादीनाम् ।
यथा च तेषाभवान्तरकारणभेदाद् द्रव्यत्वं पृथिव्यादीनाम्, गुण्त्वं रूपादीनाम्, कर्मत्वमुत्क्षेपणादीनाम्, तथावान्तरकारणभेदाद् दर्शनस्पर्शनस्मरणादीनां ज्ञानत्वं निरूपाध्यनुकूलानूकूलतरादीनां सुखत्वमित्यादि ।
एकमवान्तरासाधारणनिमित्तादिभेदाद् यथा पृथिव्या घटादिभेदो, रूपस्य शुक्लादिभेदः, उत्क्षेपणस्य च पाटवादिभेदस्तथा ज्ञानस्यापि दर्शनादिभेदः सुखस्यापि तारतम्यादिभेदो भविष्यतीत्यर्थः ॥
स्यादेतत्, अज्ञानरूपतायां पुनः किं प्रमाणमित्यत उपसंहारव्याजेनाह—तस्मादिति ।
यद्यपि विज्ञानसुखादीनां भिन्नजातीयत्वमनुभवसिद्धम् ।
न हि चन्दनमहं जानामीत्यत्र सुखं परिस्फुरति तदाहं सुखीति स्यात् ।
नापि सुख्यहमित्यत्र ज्ञानं परिस्फुरति तदा जानामीति स्यात्, न चैतदस्ति ।
ज्ञानविशेषः सुखं तथाविधे च सुखबुद्धिर्भवत्येवेति चेत्—हन्त भोस्तस्य ज्ञानविशेषस्य विषयविशेषो ऽप्यस्ति न वा? नास्ति चेत्? निर्विषयज्ञानं सुखमिति प्राप्तम् ।
न चैतद् दृष्टमिष्टं शकयं वा साधयितुम् ।
अस्ति चेत्? बाह्य आभ्यन्तरो वा? न तावद् बाह्यः कश्चिद् विषयभेदो ऽस्ति ।
यदेव हि रागवता गीतमनुभूयते तदेव वीतरागेणापि ।
तदेव गीतम्, परं रागवता अनुकूलतया, वीतरागेण तु तद्विपरीततयेति चेत्? किमनुकूलत्वमस्य निरूपाधिकम्, सोपाधिकं वा? कथं कञ्चित् प्रति, सोपाधिकत्वे स एवोच्यताम् ।
इच्छैवोपाधिरिति चेत्—न, इतरेतराश्रयत्वप्रसड्गात् ।
इष्यमाणत्वादनुकूलत्वम्, तेन चेष्यमाणत्वमिति ॥
तस्मात् तस्य ज्ञानविशेषस्य सुखत्वेनाभिमतस्याभ्यन्तर एव विषयविशेषो निसर्गानुकूलस्वभाव एष्टव्यः, यद्धेतुतया बाह्यो विषयो ऽनुकूलतयाभिमतत्वेनेष्यमाणो भवति स एवोक्तरूपो विषयः सुखमित्युच्यते ।
तथापि मूढधियां व्यवहारार्थं समानासमानजातीयव्यवच्छेदका धर्मा ज्ञानादीनामुक्ताः ।
तत्रार्थप्रवणत्वं ज्ञानस्यार्थनिरूपणाधीननिरूपणत्वमित्यर्थः ।
तदप्रवणत्वमज्ञानलक्षणम् ।
तत्राप्यनुकूलवेदनीयत्वं सुखलक्षणम्, प्रतिकूलवेदनीयत्वं दुःखस्येत्येवमादि समानतन्त्रानुसादेण बोद्धव्यमित्यर्थः ॥
नन्वज्ञानात्मकत्वे घटादिवदवश्यसंवेद्याः सुखादयो न भवेयुः ।
अवश्यसंवेद्याश्च ते ।
न ह्यसंविदिते
सुखे प्रमाणमन्यदस्ति ।
तदेतद् ज्ञानात्मत्वे परमुपपद्यते स्वसंवेदनत्वादित्यत आह—तीव्रसंवेगितयेति ।
सन्ति हि पदार्थाः स्वकर्मोपार्जितत्वाविशेषे ऽपि केचिदध्यक्षा एव, यथा स्वशरीरादयः ।
केचित् तु परोक्षा एव, यथा तदन्तर्गतनाडीसंस्थानादयः ।
एवमज्ञानत्वाविशेषे ऽपि कारणलब्धस्वभावभेदाः केचित् अवश्यसंवेद्याः सुखादयः केचिदन्यथेत्यर्थः ॥
सगोत्रमुत्थापयति—स्यादेतदिति ।
तथापि जागरावस्थायां तावदनुभवजननद्वारा सुखोत्पत्ताविन्द्रियार्थसन्निकर्ष उपयुज्यते ।
अन्यथा सुखवदनुभवो ऽपि तेन विनैव स्यात् ।
न च साक्षात्कारणमेव कारणम्, तथा सति व्यापारिण उदासीनाः प्रसज्येरन् ।
व्यापाराव्यवधायकत्ववादस्त्वत्रापि तुल्य इत्यत आह—इन्द्रियार्थसन्निकर्षस्य त्विति ।
ज्ञानमात्रमव्यापारीभूतं तत्र उपयोगादित्यर्थः ॥
अयमाशयः ।
भवेदेवं यदीन्द्रियार्थसन्निकर्षस्य ज्ञानं व्यापारः स्यात् ।
सहि कार्यासवानो व्यापार्यव्यभिचारी भवति ।
ज्ञानं पुनः कार्यावसानमपि इन्द्रियार्थसन्निकर्षम् अतिपतत्येव स्वप्नान्तिके ।
अन्यथा तु व्यापारकल्पनायामनियमप्रसङ्गः इति ।
परिहरति—तदयुक्तमिति असिद्धेरप्रतीतेः ।
प्रमाणाभावादिति शेषः ।
ननु मानसः अत्रानुभवः प्रमाणमित्यत आह—तद्ज्ञानस्येति ।
कुतो मिथ्यात्वावगतिरित्यत आह—यथा हीति ।
आलम्ब्नं त्वस्य विपर्यासस्य यथा पूर्वानुभूता स्मरणार्हा कामिनीत्येवं तज्जान्मपूर्वानुभूतं स्मरणार्हं सुखमेव ।
विपर्यासत्वं पुनरेतावतैवास्य यत् विप्रकृष्टदेशकालयोः कामिनीतज्जन्यसुखयोः सन्निकृष्टदेशकालतयावभासः ।
न पुनरकामिन्यसुखयोः कामिनीसुखत्वेन प्रतिभानम् ।
तथा सति कामिनीत्वसुखत्वनिषेधेनान्यस्य कस्यचित् प्रतिभासनं बाधकं भवेत् ।
न च वाच्यम् यदि न स्वप्नान्तिके सुखमुत्पद्यते न
नस्मै घिरही स्पृहयेदिति, मोहादसाधने ऽपि प्रवृत्तिदर्शनात् ।
शीतापनुत्तये गुञ्जापुञ्ज इव मर्कटानाम् ।
तदिदमुक्तम्—स्मरणविपर्यास इति ।
स्मरणे प्राप्ते विपर्यासः स्मरणविपर्यासः अनुभवलक्षणस्तद्विषय एवेत्यर्थः ॥
ननु सुखदुःखोत्पादप्रयोजनौ धर्माधर्मौ यदसुखदुःखारूपान् देहादीन् उत्पादयतः तत्तदर्थतयैव, एवं तयोः सर्वोत्पत्तिमतां निमित्तत्वं निर्वहति ।
इदं तु स्वप्नज्ञानं न सुखरूपम्, सङ्खसाधनमपि यदि न स्यात्, न तर्हि धर्मनिमित्तकम् ।
नाप्यधर्मनिमित्तकमदुःखत्वादतद्धेतुकत्वाच्च ।
ततश्चादृष्टनिरपेक्षोत्पत्तिरस्य च बह्वाकुलयेदित्यत आह—सुखेति ।
सुखाद्युपभोगो ह्यदृष्टस्य प्रधानं प्रयोजनम् ।
न च सुखादि स्वरूपतः उपभोगः, किं तु तदनुभवः ।
स च प्रत्युत्पन्नसुखाद्यनालम्बनत्वे ऽपि पूर्वोत्पन्नम् आलम्ब्य जायमानः सर्वं समञ्जसयति ।
न च सर्वत्रैवमस्तु सामग्रीवैचित्र्यात्, सत्यमिथ्याप्रत्ययविभागव्यवस्थापनात् ॥
न ह्येकदोपलब्धरजतविषयसंस्कारवशादरजते ऽपि रजतप्रत्ययः इति सर्वदैवमेवास्त्विति वक्तुमुचितम् ।
यस्तु मन्यते स्वप्ने तावत्सुखादिकमनुभूयत इत्यविवादम् ।
तत्र तु बाधकं भवद् द्विरूपं भवेत्—असुखमेतदिति वा, नासीत् सुखमिति वा ।
न चैतदस्ति ।
जागरावस्थायां तु नासीत् कामिनीति युज्यते बाधकं स्थिरत्वात् ।
सहसापसरणस्याप्यसम्भवात् ।
तत्कार्याणां च दशननखक्षतादीनामननुवृत्तेः ।
चरमधातुविसर्गादीनां चानुवृत्तावप्यतत्कार्यत्वात् ।
तत्कार्यत्वेन तदनुवृत्तावन्येषामपि तत्कार्याणाम् अनुवृत्तिप्रसड्गात् ।
नास्तीदानीं सुखमिति त्विदानीन्तरसुखस्य बाधो न प्राक्तनस्य, क्षणिकत्वात् तस्य ।
तत्कार्याणां च हर्षाश्रुपुलकादीनामनुवर्तमानानामुपलम्भादन्यथा आशुतरविनाशिनां क्षणान्तरे ऽदर्शनात् तदनुभवानामप्रामाणिकत्वमेव स्यात् ।
तस्मातबाधितानुभवसिद्धत्वादस्ति स्वप्नान्तिके सुखमिति तं प्रत्याह—न चासतीति ।
यद्यपि स्वप्नान्तिकसुखस्य जागरावस्थायामाहत्य बाधकं नास्ति, तथापि स्वप्नान्तिक एव तत्कारणत्वेन प्रतीतानां चन्दनवनितादीनामस्ति बाधकम् ।
कारणे च बाधिते कार्यं बाधितमेव यथा स्वप्नान्तिकदृष्टपयोदपटलबाधे
तदाश्रयो विद्युदुद्योतः ।
हर्षाश्रुप्रभृतयस्तु न सुखकार्याः किं तु सुखज्ञानकार्या इति न तावन्मात्रेण तत्सम्भवोपपत्तिः ।
तस्मात् स्वप्नान्तिकोदाहरणबलेन ज्ञानमात्रकार्यतो सुखस्य सिध्यतीति मनोरथाद्युदाहृत्य परिहृतम् ॥
चतुर्धा खलु संसारिणां सुखमुत्पद्यते ।
किञ्चिदभ्यासाद् यथा मृगयादिषु ; किञ्चिदभिमानाद् यथा चन्दनादिषु ; किञ्चित विषयसम्भोगाद् यथा सुरभिमधुरगौरगान्धारादिषु ; किञ्चिन्मनोरथादिसम्प्रत्ययमात्राद् यथा भविष्यत्पुत्रादिजन्मदिनमहोत्सवानुचिन्तनादिषु ।
ते चामी स्वरूपभेदवन्तो ऽनुभूयन्ते ।
न हि यथा मनोरथेषु सुखं तथा विषयसम्भोगे ।
तथा सति तत्परित्यागेनान्योपादानवैयर्थ्यात् ।
तावदेव हि बुभुक्षितो मोदकान् मनोरथयति
यावदमी नास्य परमार्थतः सन्निधीयन्ते ।
अथ मनोरथव्यसनमपहाय तत्रैव नियमतः प्रवर्तते, तदेकजातीयत्वे सर्वमसमञ्जसं स्यात् ।
जातिभेदे तु कारणभेदो ऽवश्याभ्युपेतव्य इत्यर्थः ॥
तदत्रेन्द्रियार्थसन्निकर्षस्य सत्त्वमनुविधत्वे सुखोत्पत्तिरिति सिद्धान्तिनो विवक्षितम् ।
तच्चान्यथासिद्धमिति मन्वानः पुनः पूर्वोक्तं स्मारयति—ज्ञानमात्रमेवेति ।
नात्र तत्सत्त्वानुविधानमात्रं विवक्षितम् ।
किं नाम? जातिभेदः
कारणभेदमाक्षिपति ।
स च कारणभेदो ऽनुविहितभावाभाव एव सिध्यतीत्यत्र विवक्षितमिति प्रतिपिपादयिषुरुक्तम् एवानुभाषते ।
न, विषयासन्निधान इति ।
तदिदमुक्तम्—तादृशस्य सुखभेदस्य अनुत्पादादिति ।
यादृश इन्द्रियार्थसन्निकर्षादुत्पद्यत इति शेषः ॥
शङ्कते–विषयेति ।
ज्ञानाभेदे हि भिन्नजातीयं सुखं कारणान्तरं भिन्नमाक्षिपेत् ।
इह तु ज्ञानमेव भिन्नजातीयमित्यर्थः ।
परिहरति–हन्तेश्वरस्यापीति ।
ननु विषयसाक्षात्कारो ऽपीष्टोपलब्धिलक्षणः सुखहेतुः ।
स च तादृशो नास्तीश्वरे तस्य बुभुक्षाविरहात् , कथं तस्य सुखोत्पादप्रसङ्ग इत्यत आह–योगर्द्धिसम्पन्नानामिति ।
ननु ते ऽप्यलम्प्रत्ययवन्तः कथमिव सुखभाजो भवेयुरित्यत आह–असत्यामिति ।
न हि ते सर्वदैव प्रतिपक्षधारणावन्तो मा भूदमीषां सर्वदा भोगविरहाद् धर्माधर्मप्रचयतादवस्थ्यम् ।
तस्माद् यदा प्रतिपक्षधारणा नास्ति तदा विषयसाक्षात्कारमात्रादेव तेषां सुखं प्रसज्येतेत्यर्थः ॥
न च वाच्यम्, यदि भवेदेवं कीदृशो दोष इति ।
कायव्यूहे शरीरेन्द्रियनिर्माणवैयर्थ्यप्रसड्गात् ।
इष्टानिष्टसाक्षात्कारस्य एकस्मिन्नेव शरीरे मनसैव सिद्धत्वात् ।
न चेन्द्रियाणामर्थानां च परस्परमसन्निकृष्टानामेव सत्तामात्रैण क्वचिदात्मधर्मसमुत्पादे सामर्थ्यमधिगतम्, तस्माद् योगर्द्धिमतां सत्यपि विषयसाक्षात्कारे इन्द्रियार्थसन्निकर्षाभावात् सुखं नास्तीत्यभिप्रेत्योपसंहरति–तस्मादिति ।
तदयं प्रमाणार्थः, योगर्द्धीनीन्द्रियाणि सुखदुःखसमुत्पादप्रयोजनानि, सुखदुःखतब्दोधान्यत्वे सत्यन्यत्राचारितार्थत्वात्,
इष्टानिष्टोपलब्धिवत् ।
न चायमसिद्धः ।
अन्यत्र हि चरितार्थत्वं साक्षात्कारे सम्भाव्येत, स तु योगजधर्मसहकृतेन मनसैव जनितः ।
ते च सुखदुःखे सन्निकृष्टैरेवेन्द्रियैर्जन्येते, बाह्येन्द्रियजन्यत्वे सत्यात्मघर्मत्वात्, अस्मादादिविषयसाक्षात्कारवदिति ।
सो ऽयं सन्निकर्षो यदा नास्ति तदा तेषामपि न सुखादिकमिति ।
तदिदमुक्तम्–स चेति ॥
नन्विन्द्रियार्थसन्निकर्षजन्मा विषयसाक्षात्कारः सुखादिहेतुः, न च तथा सिद्धानामस्ति, अतो न तेषां सुखोत्पादप्रसङ्ग इत्यत आह–अपि चेति ।
न तावदिन्द्रियजन्याजन्ययोः साक्षात्कारयोः कश्चिदाजानतो विशेषः, किं तु इन्द्रियार्थसन्निकर्षरूपकारणसम्बन्ध एव विशेषः ।
स च यदि कार्ये विवक्षितः, कथं न तस्य कारणता सुखादिकं प्रति? अविवक्षितश्चेत्, सिद्धानामपि तदुत्पादप्रसड्गो दुर्वारः, तुल्ययोगक्षेमत्वात् ।
तस्मात् चरमभाविन्येव साक्षात्कारे सति किमिन्द्रियेणेत्यहृदयस्याभिप्रायः अवशिष्यते ।
तत्र चातिप्रसङ्ग इत्यर्थः ।
अत्रैवार्थे वृद्धसम्मतिमाह–स्रगादीति ।
अत्र स्रगादीति कारणचक्रकथनम् ।
यदुत्पद्यत इत्यनुकूलप्रवेदनीयं स्वरूपम् ।
अनुग्रहादीति कार्यम् ।
अनुग्रहो भोगापरनामा सुखप्रत्ययः ।
अभिष्वङ्गः पुनः पुनः सुखप्रवाहस्याविच्छेदेच्छा ।
प्रसादः सुखविषयग्रहणपाटवमिति ॥
नन्वव्यपदेश्यव्यवसायात्मकपदयोः सङ्ग्राह्यं व्यवच्छेद्यं वा न पश्याम्ः प्रत्युत परस्परविरुद्धयोरनयोरेकस्मिन् प्रत्यक्षे ऽसमावेश एवेत्यत आह–इह द्वयीति ।
सङ्गृहीतापि स्वशब्देनोपात्ता किमिति चेदिति शड्काशेषः ।
उत्तरम्–तत्र विप्रतिपत्तेः ।
यतस्तत्र विप्रतिपत्तिस्ततस्तां निषेद्धुमित्यर्थः ।
व्यपदिश्यते व्यवच्छिद्यते ऽनेनेति व्यपदेशः, सा च व्यवच्छित्तिर्व्यावृत्तिप्रतीतिरूभाभ्यां क्रियत इति तदुभयमाह–विशेषणमिति ॥
तत्र समानाधिकरणं व्यवच्छेदकं विशेषणम् ।
व्यधिकरणं तूपलक्षणम् ।
यथा दण्डी देवदत्तो जटाभिस्तातस इति ।
न तु सेदव विशेषणम्, अतिव्यापकतया अलक्षणत्वात् ।
लक्षणविशेषणमेतदिति चेत्? अथ लक्षणं किम्? स्वोपरक्तप्रतीतिजनकत्वमिति चेत्? एतदेव किमुक्तं स्यात् अवच्छेदकत्वमन्यद्वा? न तावदाद्यः, उपलक्षणस्याप्यवच्छेदकत्वात् ।
अत एव सदिति विशेषणमिति चेत्–न, सतो ऽपि कस्यचिदुपलक्षणत्वेनेष्टत्वात् ।
अन्युत्तु समानाधिकरणव्यवच्छेदकत्वान्नान्यत् ।
तस्मात् सद् वा असद् वा समानाधिकरणं व्यवच्छेदकं विशेषणं विपरीतमुपलक्षणमिति ।
अत एव विशेषणमात्रमुदाहरन्नोपलक्षणम्, तत् कस्य होतोः? तदेव व्याधिकरणतयोपलक्षण
यतः ।
व्यपदेश्यं विशेष्यमिति यावदिति ।
व्यवच्छेद्यमिति यावदित्यर्थः ।
एवमुत्तरत्रापि ।
नामधेयान्विताः नामधेयात्मान इत्यर्थः ।
एतदेव व्यतिरेकतो दर्शयति–नास्तीति ।
नामधेयेन सह वियुज्यते विभिद्यत इत्यर्थः ।
तैरित्यत्र कारणताभ्रमो मा भूदित्येतदर्थमुपेतदेनापूर्य व्याचष्टे–अर्था हीति ।
तदयं समुदायार्थः ।
नामधेयात्मानोर्ऽथास्तत्सामानाधिकरण्येन प्रतीयमानत्वात् ।
यत् पुनर्यदात्मकं न भवति न तत् तत्सामानाधिकरण्येन
प्रतीयते ।
यथा गोरश्वसामानाधिकरण्येन ।
प्रतीयन्ते चार्थाः शब्दसामानाधिकरण्येन तस्मात् तदात्मान इति ॥
ननु गवाश्वादीनां सामानाधिकरण्यव्यावृत्ति किमभेदव्यावृत्तेरूत तत्प्रतीत्योरूपायोपेयभावव्यावृत्तेरिति सन्दिह्यत इत्यत आह–न चेति ।
अपि च यदि शब्दार्थयोः सामानाधिकरण्ये उपायोपेयभाव उपाधिः स्यात्, उपायत्वनिवृत्तावेव तदपि निवर्तेत, न च निवर्तत इत्यत आह–अपि चेति ॥
हेत्वन्तरमाह–किं चेति ।
उत्कर्षः प्राशस्त्यम् ।
उपकर्षो ऽप्राशस्त्यम् ।
न चेदं व्यवहारमात्रम् ।
शब्दनिबन्धनो
ह्युत्कर्षापकर्षव्यवहारः तथाभूतवस्तुप्रत्ययादेव भविष्यति ।
यथा षड्जाद्युत्कर्षापकर्षव्यवहारनिबन्धनो मयूराद्युत्कर्षापकर्षव्यवहार इति दृष्टान्तार्थं षड्जादिष्वित्युक्तम् ।
अन्यथा नामधेयतादात्म्यप्रसाधनप्रस्तावे किमनेन ।
अत एव सिद्धान्ते सञ्ज्ञानिवेशनमित्याह ।
प्रयोगस्तु नामधेयात्मानोर्ऽथा तदुत्कर्षापकर्षानुविधायित्वात् ।
यत् पुनर्यदात्मकं न भवति न तत् तदुत्कर्षाद्यनुविधायि, यथा गौरश्वस्येति ॥
ननु यद्यर्थप्रत्ययो नामधेयोत्कार्षाद्यविधत्ते तत् तस्यैव तादात्म्यमस्तु, किमायातमर्थस्येत्यत आह–प्रत्ययस्येति ।
साक्षादनभिधाने ऽपि गुणगुण्यादेरपि योग्यतया सपक्षत्वेन तद्गतसामानाधिकरण्येन विरोध उभ्दावयितुं न शक्यत इति तदुपेक्ष्यान्यथा शङ्कते–अस्तीति ।
अस्ति हि शुक्लभास्वरत्वादिभिः युक्तिकागतै रजतत्वस्य सामानाधिकरण्यप्रत्ययो नतु तादात्म्यं परस्परं धर्मिणोरित्यर्थः ।
पुनरुक्तभ्रमो मा भूदित्येतदर्थम् आह–उक्तमपि व्यपदेशमिति ।
व्याख्यानस्य चैतत् प्रयोजनम्, यद्धेत्वन्तरसूचनम्, तथा च प्रयोगः, रूपाद्यर्थविषयं ज्ञानं रूपादिशब्दविषयम्, नियमतस्तेन व्यपदिश्यमानत्वात्, यत् तु यद्विषयं न भवति, न तन्नियमतस्तेन व्यपदिश्यते यथा रूपविज्ञानं रसेनेति ।
अनुविद्धता संश्लेषलक्षणार्थेनैव विज्ञानस्य नास्ति, कुतस्तरां तदात्मनापि शब्देन भविष्यतीत्यत उक्तमिवेति ।
यथा ह्यर्थो ज्ञानान्तर्निविष्ट इव विषयतया
परिस्फुरति, तथा शब्दो ऽपीत्यर्थः ।
शब्दानुव्याधवदेव शब्दसम्भिन्नविषयमेवेत्यर्थः ।
न चेदमप्रामाणिकम्, यदवोचत् प्रमाणमित्यादिशेषौ ।
शब्दस्यानुभवः, संस्कारः, स्मरणम्, समुच्चारणेच्छा, प्रयत्नः, स्थानाभिघातः, शब्दाभिव्यक्तिरिति स्वात्मान्येव क्रमावगमः ।
तदतो बाले ऽपि प्रथमतः शब्दमुच्चारयति एष एव क्रम उन्नीयत इत्यर्थः ॥
प्रथमे पक्षे ऽसिद्धो हेतुः अप्रसिद्धविशेषणश्च पक्षः शब्दब्रह्मण एव वाजिविषाणायमानत्वात् ।
दृश्यत्वादृश्यत्वलक्षणविरुद्धधर्माध्यासस्य भेदापादकत्वात् विपरीतप्रमाणोपपत्तिश्चेत्यपि द्रष्टव्यम् ।
द्वितीये तु भागासिद्धो हेतुरित्यर्थः ।
न हि अविशदे ऽपि बालमूकादिशब्दे प्रमाणमस्ति ।
न हि भावना वा तज्जनिता स्मृतिर्वा पूर्वानुभूतस्य सत्तायाम् इदानीमनुभूयमानसम्भेदे वा प्रमाणमस्ति ।
तथा सति विनष्टो घटः स्मर्यमाणत्वात् सन्नेव स्यात् ।
अनुभूयमानं न भूतलं घटसम्भिन्नं भवेदेवं चोच्छिन्नमघटं भूतलमिति ।
तस्मादभ्युपेत्य विरुद्धधर्माध्यासवादो मन्तव्यः ॥
ननु बालेनानुभूयमानं रूपं तावद् विशदमेव ।
ततश्च तदात्मा रूपशब्दो ऽपि कथमविशदः स्यात्, कथं चाप्रामाणिको रूपस्य प्रामाणिकत्वात्, केवलमव्युत्पन्नो ऽपि शब्देन व्यवहरेदिति प्रसज्येत, तदसम्बद्धम् ।
न हि शब्दात्मताप्रत्ययं व्यवहाराङ्गम् आचक्ष्महे, किं तु सम्बन्धग्रहणमित्यत आह–न चेति ॥
अयमप्यभ्युपगमवाद एव ।
शब्दो हि वक्तृवक्त्रावरुद्धनभोभागावच्छिन्नतया श्रोत्रेण प्रतीयते ऽप्रतीयमाने ऽप्यर्थे ।
अर्थो ऽपि पुरोवर्तितया चक्षुषा प्रतीयते ऽनवगते ऽपि शब्दे ।
तदयं बालो यद् रूपं पश्यति स एव रूपशब्द इति लोष्टलड्डुकदृष्टान्तमनुहरतीति ।
सो ऽयं भेदप्रत्ययो भ्रानत इति यदि शङ्कते तत्राह–न चेति ।
अयमप्यभ्युपगमवाद एव, न ह्यस्ति भ्रान्तत्वे ऽस्य प्रमाणम् ॥
स्यादेतत्, बालमूकादिज्ञानानां शब्दसम्भेदस्तावत् सान्देहिक एवास्तु, व्युत्पन्नानां पुनः सविकल्पा धियः शब्दसामानाधिकरण्येन जायमानाः शब्दात्मकत्वमर्थस्य व्यवस्थापयन्तु ।
तथा सति बालमूकादिविज्ञानानां
तद्विषयत्वात् शब्दसम्भिन्नविषयत्वमर्थतः सिद्धं भवतीत्यत आह–सामानाधिकरण्यनिरासायेति ।
सास्नादिमद्रूपस्येति ।
न तु गकारादिरूपस्येति तात्पर्यम् ।
अयं शब्दो गकाराद्याकारो न तु सास्नाद्याकार इति तात्पर्यम् ।
ननु यो डित्थ इति डित्थशब्दमेवोच्चारयसि, न त्वयं डित्थशब्द इति तमेव निषेधसि चेति किमिदमित्यत आह–औत्सर्गिकं हीति ।
अर्थपरता ह्यस्य स्वपरतानिषेधेनैवाविरोधतः सिद्ध्यतीत्यर्थः ।
तत् किं सर्वत्रैवमेव? नेत्यत आह–क्वचित् पुनरिति ॥
यत्र तर्हि असम्भदेन सङ्केतग्रहे नित्यादिपदानि सन्ति, तत्रासङ्केतितत्वान्न तावदर्थपरः, स्वपरो ऽपि यदि न स्याद् व्यर्थः प्रयोगः स्यादित्यत आह–यत्रापीति ।
यथा हि गौर्वाहीक इत्यत्र गोत्वं गोगुणयोगलक्षकत्वेन वाहिकोपाधिर्न तत्समवायात्, तादात्म्याद् वा, तथा हि डित्थो ऽयमित्यत्रापि डित्थशब्दो वाच्यत्वोपलक्षकतया पिण्डोपाधिर्न तु तत्समवायात् तादात्म्याद् वेति ।
यथा चात्र वाहीके गौरिति प्रत्ययाभावः प्रमाणम्, तथात्रापि वृक्षविशैषे डित्थो ऽयमिति प्रत्ययाभावः प्रमाणमिति समुदायार्थः ॥
ननु शब्दपुरःसरत्वनियमाद् विकल्पस्य तदुपायता वा तद्विषयत्वं वा स्यात्, तत्पुरःसरत्वनियमस्यातदुपायादतद्विषयत्वान्नियमतो व्यावृत्तेः तत्र यद्यर्थविकल्पस्तच्छब्दविपयस्तदा सिद्धं नः समीहितम् ।
अथोपायस्तदा ज्ञातो ऽज्ञातो वा? अज्ञातत्वे निर्विकल्पकत्वानुपपत्तिरेव, तस्मात् शब्द उपायो भवन् ज्ञात एव वक्तव्यः ।
न चासन्निहिते ज्ञानमस्ति ।
तस्मादर्थतादात्म्यात् शब्दस्यार्थसन्निधानमेव तत्सन्निधिः इत्यर्थालोचनमेव तदालोचनमित्यनिच्छतापि स्वीकर्तव्यमित्यत आह–यत्त्विति ॥
न तावत् शब्दः पूर्वं नियमतो भवति विकल्पस्य ।
किं नाम? व्युत्पन्नस्य शब्दस्मरणपुरःसरत्वं नियमवद् दृष्टम् ।
न चैतावतैव घटज्ञानस्य घटशब्दविषयत्वम् ।
तथा सति घटाभावज्ञानस्यापि घटविषयता स्यात्, तत्स्मरणपुरःसरत्वात् ।
तस्माद् घटे विकल्पयिततव्ये अनुपायो विषयश्च घटशब्दः किमिति नियमतः स्मर्यत इत्यवशिष्यते ।
तत्रेयं स्मरणपरिपाटी कथितेति ।
शब्दपुरःसरा शब्दस्मरणपुरःसरा इत्यर्थः ॥
अत्रैव वृद्धसम्मतिमाह–यदाहुरिति ।
प्रतिसम्बन्धिपिण्डदर्शनसहकृतस्तत्संस्कारः स्मृतिं जनयति, धूमानुभवसहकृत इव महानसस्थदहनानुभवप्रभवः संस्कारः तत्स्मृतिम् ।
न चैतावता नियमेव शब्दस्मरणपिण्डविकल्पयोरूपायोपेयभावः, शब्दस्य वा विकल्पविषयत्वं सिध्यति, येन तयोस्तादात्म्यमाशड्क्येत ।
तथा सति वह्निस्मरणधूमविकल्पयोरपि तथाभावः स्यात्, वह्नेरपि वा धूमविकल्पविषयता भवेदिति वार्त्तिकार्थः ॥
स्यादेतत् ।
सर्व एव व्यवहारः स्वार्थः परार्थो वा विकल्पसाध्यो न त्वालोचनेनापि कश्चिदर्थः साधयितव्यो ऽस्ति ।
अतो निष्प्रयोजनमिदं कथमुत्पद्यत इत्यत आह–तस्मादिति ।
न तावत् सर्वस्यैवोत्पत्तिमतः प्रयोजनं पिशितचक्षुषः साक्षात्कुर्मः ।
न च प्रयोजनाप्रतिपत्तिमात्रेण पटुतरप्रत्यक्षपरिकलितमपि कार्यं नानुमन्यामहे ।
तदेतत् प्रयोजनाप्रतिपत्तिलक्षणमलीकमुत्तरम् ।
तथापि स्फुटं सविकल्पकोत्पत्तिरेवास्य प्रयोजनम् इति सादर्शितेति ॥
नामधेयस्मरणायेति ।
नामावच्छिन्ने विकल्पे कर्तव्ये यतो न विशिष्यते विशेषेण न गृह्यते, अतो वैधर्म्यस्य योग्यप्रमाणबाधितत्वात् तदर्थज्ञानं तादृगेव भवति तत्समानजातीयमेव भवतीत्यर्थः ।
अतो भाष्यपौनरूक्त्यं परिहरतो न साध्याविशिष्टो हेतुरिति ॥
व्यपदेशव्याख्यया भाष्यकारेण सूचितं हेतुं स्फुटयति–नन्विति ।
अर्थव्यपदेशाकारम् अर्थव्यपदेशविषयम् ।
विषयिरूपज्ञानस्य तावद्रूपविषयतोभयवादिसिद्धा ।
तस्य च तद्व्यपदेशविषयता तदा स्यात् यदि रूपतद्व्यपदेशयोरभेदः स्यादित्यर्थः ॥
अन्येनान्यस्य व्यपदेशे अतिप्रसड्गो व्यवहारविलोपश्च विप्रलम्भादित्यत्र तन्नामधेयत्वादेव नियम इति स्फुटं भाष्य एव ।
स्वरूपेणैव विषयेणैव वा किमिति ज्ञानं न व्यपदिश्यत इत्येतद् विवृण्वन् परिहरति–अर्थाकारमेवेति ।
आत्मानं प्रति तावत् स्वरूपेणैव ज्ञानमज्ञानाद् व्यवच्छिद्यते, ज्ञानान्तरात् तु विषयेणापीत्येतत् को नाम नाभ्युपैति? परस्य तु नित्यपरोक्षं परज्ञानम् ।
अत एव तद्विषयो ऽपि तत् कथं स्वरूपविषयाभ्यां परो बोध्यताम्? कथं वा अबोधितो व्यवहरताम्? तस्मात् तज्ज्ञानवाचकेन ज्ञानमर्थवाचकेन चार्यमसौ प्रतिपाद्यः ।
न चाज्ञातेन
वाचकेन वाच्यमधिगत्तुमर्हतीत्यवर्जनीयतया प्रतिपादको वाचकमुच्चारयति ।
नचैतावता अर्थशब्दयोरभेदसिद्धिः ।
न हि प्रमाणव्यतिरेकेण प्रमेयमधिगन्तुं न शक्यते इत्येतावतैव तयोरभेदः स्यादिति तदिदमुक्तम्–अन्यथा अशक्यत्वादिति ॥
ननु कदाचिदर्थज्ञानकाले ऽपि शब्दो व्याप्रियत एव, यदा प्रयोजकवृद्धात् प्रयोज्यवृद्धोर्ऽथमधिगच्छतीत्य आह–प्रतीयमानतया विषयतयेत्यर्थः ॥
स्यादेतत् ।
उत्कर्षापकर्षाद्यनुविधायित्वं हेतुः कीदृगित्यत आह–तदनेनेति ।
न तावत् तारतमत्वादेरूत्कर्षान्मयूरादेरिव गवादेरप्युत्कर्षः प्रतीयते ।
न हि गोशब्दे कर्णजपिते ऽपभ्रष्टे वा अणीयान् गौः कृश उपहताकृतिर्विकृतो वा प्रतीयते, विपरीते वा विपरीतः ।
नापि साधुत्वादिभेदवतो गोशब्दस्य प्राशस्त्यमप्राशस्त्यं च किञ्चिदस्ति ।
नन्दाभद्रेत्यादिमङ्गलसञ्ज्ञानिवेशस्य त्वर्थमङ्गल्यादिव्यभिचारः स्फुटतर एव, अभद्रादावपि भद्रादिव्यपदेशात् ।
तस्माद् व्यवहारोत्कर्षापकर्षमात्रेण नोभदसिद्धिरतिप्रसड्गादित्यर्थः ॥
अस्यैव साक्षादव्यपदेश्यपदात् प्रतीयमानस्यैव ।
शब्दानुव्याधरहितता शब्दार्थानुव्याधरहिततोपपत्तिरित्यतो ऽस्य निराकरणं सूचितमिति पूर्वोक्तेन न विरोधः ॥
ननु वार्त्तिकतात्पर्यव्याख्यानमुपक्रम्य भाष्यव्याख्या अकाण्डकूष्माण्डपतनवृत्तान्तमनुहरतीत्यत आह–तदेतभ्दाष्यमिति ।
तदेतद् वार्त्तिकं व्याख्यातुमयमस्माकं भाष्यव्याख्यापरिश्रम इत्यर्थः ।
शब्दो हि यत्कार्यो यत्कारणं यद्ग्राह्यो यत्प्रमाणं यद्विरोधि यद्धर्मा यद्रूपो यद्विषयः, तदकार्यस्तदकारणं तदग्राह्यस्तदप्रमाणं तदविरोध्यतद्धर्मातद्रूपो ऽतद्विषयोर्ऽथः प्रत्यक्षत एवावसीयते ।
तदेतदस्यार्थज्ञानस्य विषयभेदानुविधायित्वं शब्दाभ्देदग्राहकत्वम् ।
यदि पुनरेषा प्रतीतिर्भेदमुल्लिखन्त्यप्यवधीर्यते, तदोक्तधर्माणामविरोधे धर्मिपरिवर्तेनाप्युपलम्भाः स्युः ॥
तत्रोदाहरणार्थं कांश्चिदाह–चाक्षुषं हीति ।
चाक्षुषं हि चक्षुषैव जन्यते, रूप एव नियतम् रूपेणेव निरूप्यते; न शब्दे प्रवर्तते, न शब्देनैव निरूप्यत इत्यर्थः ।
एवमुत्तरत्रापि ।
विषयिविषयानियमप्रसड्गामुक्त्वा कर्मकरणानियमप्रसङ्गमाह–अपि चेति ।
ननु श्रोत्रमेवास्य कदाचिन्नास्तीत्यत आह–अस्ति हीति ।
किमत्र प्रमाणमत आह"–शब्दज्ञानं चेति ।
ननु लोचनाभावे ऽप्यग्रहणमुपपद्यत इत्यत आह–अस्ति हीति ।
किमत्र प्रमाणमत आह–रूपज्ञानं चेति ।
उपलक्षणं चैतत् ।
अर्थसामान्यस्य सर्वेन्द्रियग्राह्यत्वात् शब्दसामान्यमपि सर्वेन्द्रियैर्गृह्येत, शब्दसामान्यस्य वा श्रोत्रेन्द्रियैकवेद्यत्वात् अर्थसामान्यमपि श्रोत्रेन्द्रियैकवेद्यं भवेत् ।
तथा चेन्द्रियान्तराणां वैयर्थ्यमित्यपि द्रष्टव्यमिति ॥
इतरेतराभाववत्ताव्यवहाराभावप्रसङ्गमाह–अशब्द इति ।
उपलक्षणं चैतत् ।
अनुत्पन्नो विनष्टो ऽत्यन्तासन्नित्यत्राप्यभावत्रये विवक्षितविपरीतमापद्यत इति मन्तव्यम् ।
इतरेतराभावव्यपदेशे विरोधप्रसङ्गमाह–अभाव इति ।
अत्राप्यनुत्पादो विनाशो ऽत्यन्ताभाव इति विरुद्धं स्यादिति मन्तव्यम् ।
इह ह्यर्थशब्देनेन्द्रियग्राह्य एवाभिप्रेतोर्ऽयमाणतयेति व्याख्यानात् ।
इन्द्रियस्य च ग्राह्यः स एव यस्तज्जन्यज्ञानविषयः ।
तदमी चक्षुरादिसन्निकृष्टा अप्यन्यविषयज्ञानापेक्षाया
अतदर्था एव ।
एवं चेन्द्रियगतिज्ञाने कः प्रत्यक्षतायाः प्रसङ्गः?
न हि तदपेक्षया धटादयस्तदर्थाः ।
तस्मादप्रसक्ते ऽप्यर्थशब्दस्य पदार्थमात्रपरत्वमभ्युपगम्य परिहारे गत्यन्तरं वार्त्तिककृता दर्शितम् ।
तच्च दुःखबोधमिति व्याचष्टे–नैतदिति ।
नैतदिन्द्रियार्थसन्निकर्षादुपजायते सत्तामात्रव्यवस्थितात् ।
इन्द्रियार्थसन्निकर्षो ह्यज्ञायमान एव सत्तामात्रव्यवस्थितः प्रत्यक्षे विवक्षितः ।
अनुमाने तु लिङ्गस्य ज्ञायमानत्वमेव विवक्षितम्, न तु सत्तेत्यर्थः ॥
नन्वनुमाने ऽपि लिड्गासत्तैव कि न विवक्षितेत्यत आह–अत एवेति ।
तत्स्मरणमात्रादेवेति ।
मात्रग्रहणं सत्ताममिप्रेत्य नत्वनुमेयज्ञानं प्रति कारणताममिप्रेत्य, धूमस्यैव ज्ञायमानस्य तत्कारणत्वात् ।
अन्यथा तत्कालाननुविधानप्रसड्गात् ।
चत्र हि विषयानपेक्षं ज्ञानमेव कारणं तत्र न विषयकालानुविधानम् ।
यथा अभावज्ञाने प्रतियोगिज्ञानजन्ये प्रतियोगिनः ।
अपि च लिड्गानपेक्षस्य लिङ्गज्ञानस्य लिड्गिज्ञानजनकत्वे प्रमाणादीनां गतिद्वयवादो ऽपि तत्र तत्र न स्यात् ॥
तदयमर्थः ।
इन्द्रियार्थसन्निकर्षात् सत्तामात्रव्यवस्थितादुत्पद्यते ज्ञानं तत्साधकतमं प्रत्यक्षम् ।
लिड्गात् तु
पञ्चरूपसम्पन्नादपि ज्ञायमानादेवासतो ऽपि यदुत्पद्यते ज्ञानं तदनुमानमिति ॥
नन्विन्द्रियविषयेष्वित्यध्याहारस्तर्हि सूत्रे पूर्वेषां किं मूलम् इत्यत आह–इमं चेति ।
न ह्यनुमेयस्येन्द्रियेण सन्निकर्षादिति वदता ह्येवमुक्तं यस्येन्द्रियेण सन्निकर्षात् तज्ज्ञानमुत्पद्यते नासौ तस्य विषयः, यस्तु विषयो न तस्येन्द्रियेण सन्निकर्षात् इदं जायते ।
तस्मादिन्द्रियार्थसन्निकर्षादुपजातं विज्ञानं यदि तदर्थविषयमेव भवति, तदा तत्प्रत्यक्षम् ।
न चैतत् सूत्रात् लभ्यते ।
तस्माद् वार्त्तिककृता एव कृतो ऽयमध्याहार इति केश्चिद् बुद्धम् ।
स
चायमसङ्गतो बोधः, अध्याहारस्योभयथाप्यनुपपत्तेः, तद्व्यावर्त्यस्यान्यथैव व्यावर्तितत्वादप्रसक्तेश्चत्यर्थः ॥
इन्द्रियार्थसन्निकर्षादुत्पन्नस्य हि ज्ञानस्य व्यभिचारसम्भादव्यभिचारीति विशेषणं यद्यपि नानुपपन्नम्, तथाप्येतद्व्यावर्त्त्यस्य सामान्यलक्षणेनैव व्यावृत्तत्वात् निष्प्रयोजनमिदम् ।
अवश्यं च तदनुवर्तनीयम् ।
न हि यत इत्यध्याहृतपदेन करणमात्रं परामृश्यते तस्याप्रकृतत्वात्, किं तु प्रमाकरणम् ।
तथा चायमर्थः, इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं यतः प्रमाणाद् भवति तत्प्रत्यक्षम् ।
एवं च व्यभिचारिणि कः प्रसङ्ग इत्यत आह–यद्यपीति ॥
नन्वव्यभिचारिपदकरणं प्रमाणपदानुवर्तनं वेति कश्चिद् विशेष इत्यत आह–अन्यथेति ।
अव्यभिचारिपदं प्रमाणपरमित्यर्थः, प्रमाणस्यैवाव्यभिचारित्वात् ।
यद्यपि तत्र तत्पूर्वकमिति लक्षणपदपर्यालोचनयैव व्यभिचारिनिरासः,
न ह्युक्तरूपे द्वे प्रत्यक्षे पूर्वं यस्य ज्ञानस्य तद्व्यभिचारिणीमपि प्रमां जनयेत् ।
अत एव तदर्थं तत्र सामान्यलक्षणानुवर्तनमसारमेव ।
तथाप्येवम्भूतप्रत्यक्षद्वयजनिते संस्कारे निर्णये च अनुमानत्वप्रसङ्गस्तदवस्थ एव ।
तस्मात् तन्निवृत्त्यर्थं प्रमाणपदं न कृतं चेदवश्यमनुवर्तनीयमित्यर्थः ।
यद्येवं किमव्यभिचारिपदप्रयोजनमित्यत आह–तथापीति नोपयुज्यते न च शक्यते परस्पराश्रयप्रसड्गादित्यपि द्रष्टव्यम् ।
तथापि नियमो न स्फुटीभूत इत्यत आह–तत्रेति ॥
नन्वनुमानवदव्यभिचारसिद्ध्या फलसिद्धिर्न प्रत्यक्षे यथा, तथा शब्दे ऽपि ।
ततस्तदवबोधनार्थ तत्राप्यव्यभिचारिपदावतारप्रसङ्ग इत्यत आह–शब्दादौ त्विति ।
प्रत्यक्षे फलाव्यभिचारनिर्णयेनैवाव्यभिचारनिश्चय
इति नियमो नान्यत्रेत्यर्थः ।
अव्यभिचारिपदोपादानं फलविशेषणतयेति शेषः ।
अयं च नियमः स्वरूपतो ऽपि फलद्वारैव प्रत्यक्षमुन्नीयते, न त्वन्यथेति ।
अनुमानादिकं तु प्रतीतं सत्फलाय कल्पते, न त्वन्यथेति नियमे सति स्यादिति ।
अयमप्यर्थाक्षिप्ततया प्रागेव दर्शितो द्वयीति ।
अपरमप्युत्पत्तिज्ञप्तिभ्यां नियमद्वयं श्लिष्टमाह–अथवेति ॥
कारणमुत्पादकं प्रत्यायकं च उभयं साधयति—न हीति ।
उपाधिशड्कानिवृत्त्यर्थं तर्कसहायत्वोपवर्णनम् ॥
आगमस्यापि च वक्तृश्रोतृगतत्वेन प्रत्यक्षापेक्षा उत्पत्तौ ज्ञप्तौ च चतो ऽतः सम्मुग्धमाह–एवमिति ।
तथाप्ययमर्थः कथमव्यभिचारिपदोपादानमात्रत् लभ्यत इत्यत आह–न हीति ।
तदयं सङ्क्षेपः ।
सो ऽयं सूत्रकारस्येह विशेषतः प्रयत्नो ज्ञापयति यदेतस्मिन्नव्यभिचारिण्यन्यत्र व्यभिचारशड्कैव नास्ति, अत इहैव तद्ग्रहाय विशेषतो यतितव्यमिति ।
यद्यपि ज्ञाप्तिपक्षे लौकिकवचसां प्रवृत्तिसामर्थ्यादिना व्यभिचाराभावग्रहः, तथापि पारलौकिकागमाव्यभिचारनिश्चय आप्तोक्तत्वेनैव ।
तच्च मूलभूतप्रत्यक्षशुद्धेरेवेति ॥
ननु भाष्यवार्त्तिकायोः का गतिः? न ह्ययमर्थस्ततः प्रतीयते ।
किं नाम? व्यभिचारिव्यावृत्तिमात्रमित्यत आह–तस्मात् सुष्ठूक्तमिति ।
स एवार्थः, किं तु नियम्यतया, न तु विधेयतयेत्याशयः ।
उच्चावचमुच्चलत इति जलसादृश्य सङ्कीर्तनं भ्रान्तिबीजतया ।
उपघातदोषान्नयनस्यातपादिना ।
एतदुक्तं भवति ।
उपदर्शितार्थाप्रापकत्वं व्यभिचारः ।
न चार्थेन कश्चिदर्थ उपदर्शितो यमप्रापयन्नर्थो व्यभिचरेत् ।
अन्यथार्थोपदर्शनस्वभावस्य चोत्पत्तिः, न
चार्थोपदर्शनस्वभावो न चान्यथोत्पन्नः ।
तस्मादेवम्भूतो व्यभिचारो ज्ञानस्यैव न चार्थस्य ।
तदिदमुक्तम्–प्रत्ययो भ्रान्तो जायत इति ।
वृद्धसम्मतिमाह–यथाहुरिति ।
अन्ध इति यम्यग्दर्शनोपायरहितत्वमात्रपरम् ।
न पश्यतीत्यपि सम्यग्ज्ञानाभावमात्रोपलक्षणपरम् ।
तेन पुरुषापराधः स भवतीति ।
अत्रादर्शनं विपरीतदर्शनं वेत्यपराध इत्यर्थः ।
यथा हि स्थाणुरदृश्यमानस्तथैव पुरुषत्वेनापि दश्यमान इति तात्पर्यम् ॥
यद्यनि संशयो ऽपि सामान्यलक्षणानुवृत्त्यैव निरस्तस्तस्याप्रमाणफलत्वात्, तथाप्यव्यभिचारिपदं नियमज्ञापनार्थमवश्यं कर्तव्यम् ।
तेन च व्यभिचारिव्युदासमुखेनैव नियमः प्रदर्शयितव्यः ।
संशयो ऽपि
व्यभिचारिजातीयः, अतस्तेनैवास्य व्युदासो युक्त इत्याशयवान् आह–अव्यभिचारिपदेनैवेति ॥
ननु व्यभिचारित्वमेवास्य कथम्? विपर्याज्ञानं हि निश्चयाकरम्, अयं तु न तथेत्यत आह–नो खल्विति ।
न हि निश्चयत्वं प्रयोजकमत्र, किं तु विसंवादः ।
स च प्राप्त्ययोगः ।
न च प्राप्तियोगो द्विरूपस्य वस्तुनः, क्वचित् कदाचित् केनचिद् अप्राप्तेरित्यर्थः ॥
न च वाच्यं भ्रान्तेरभ्रान्तिप्रतियोगित्वादनियतस्य चार्थस्य क्वचिदपि
प्रमाणागोचरत्वादसत्ख्यातेरनभ्युपगमाच्च सर्वमिदमसमञ्जसमिति ।
नो खलु दोलायमानः स्थाणुपुरुषव्यतिरिक्तः
कश्चिदनियतो नामार्थः परिस्फुरति यत्रासमञ्जसं स्यात् ॥
ननु स्थाणुपुरुषावुभावपि यद्यारोपितौ तदोभयोपमर्दात्मना बाधकेन भवितव्यम् ।
अथान्यतदस्यारोपस्तदा अपरस्य पारमार्थिकत्वात्तत्प्रतिपत्तेरबाध्यत्वमेव स्यात् ।
यथा युक्तौ रजतांशस्य मिथ्यात्वे शुक्लभास्वरत्वादिनिश्चयस्य सत्यत्वम्, तथा च स्थाण्वंशे निश्चयः पुरुषांशे त्वेककोटिसन्निवेशवानेव विभ्रम इति संशयो दत्तजलाञ्जलिः प्रसक्तः ।
तस्माद् उभयस्मरणमात्रात्मको ऽयमिति स्यात् ।
न स्यात्, यत्र तावदुभयोरनुभयात्मके पाषाणस्तम्भादौ समारोपस्तत्रोभयोपमर्दात्मक एव बाधक इति किमत्र वक्तव्यम्? यत्राप्येकतरारोपस्तत्रापि नापरांशे निश्चयः, परस्परप्रतिक्षेपोपस्थितिव्याहत्या अनिश्चयात्मकस्यैव ज्ञानस्योत्पादात् ।
यत्र हि रजतत्वारोपे ऽपि शुक्लत्वादौ निश्चयस्तत्रारोपितानानोपितयोर्मिथो विरोधाभावः ।
तस्मादारोपितानारोपितत्वाविशेषे ऽपि यत्रारोपितानारोपितौ परस्पराविरुद्धौ स विपर्ययः ।
यत्र तु परस्परविरुद्धौ स संशय इति सर्वमवदातम् ।
यद्येवं संशयो ऽपि विपर्ययान्तर्भूतस्तदपाकरणेनैवापाकृतश्च ।
किमर्थं तर्हि व्यवसायात्मकपदं सूत्राकारश्चकार? सन् वा स उदारार्थो व्याख्यातृभिः किमित्युपेक्षितः? तथाभूतोर्ऽवाचीनैः कथमुन्नीयत इत्यत आह–तस्मादिति ॥
स्यादेतदिति ।
स्यात् तदवबोधार्थम्, यदि तत्प्रत्यक्षं स्यात्, न त्वेतदस्तीत्यर्थः ।
हेतुमाह–अभिलापेति ।
अभिधानाकारसंसर्गयोग्याभिधेयाकारं हि तदित्यर्थः ।
विपक्षाद् व्यतिरेकमाह–न चेति ।
अभिधानाभिधेयसंसर्गे हि तदाकारयोः संसर्गनियमः ।
स च संयोगसमवायकार्यकारणभावरूपस्तावन्न सम्भवतीत्याह–न ह्यर्थे शब्दाः सन्तीति ।
संयोगेन समवायेन कार्यतया वेति शेषः ।
तदात्मानो वेति ।
न हीत्यनुषज्यते ।
उपपत्तिमाह—तथा सतीति ।
न चेति ॥
स हि संवेदनधर्मो ग्राह्याकाररूपो वा स्यात्? तन्निरपेक्षग्राहकाकाररूपो वा? न तावदाद्यः, अर्थासंस्पर्शी यतः, अर्थासंस्पर्शश्चास्यातद्वृत्तित्वादतदुत्पत्तेश्चेति पूर्वैव युक्तिरित्याशयः ।
नापि द्वितीयः, अर्थेषु तन्नियोजनात् ।
अर्यमानेषु बाह्येष्वर्थेष्वेव तस्यामिलापस्य नियोजनात् ।
नियोगतो बाह्यसामानाधिकरण्येन प्रतीतेरित्यर्थः ॥
एतदुक्तं भवति संवेदनाकारो हि ज्ञातृत्वादिस्तत्सामानाधिकरण्येन प्रतीयते ।
अभिलापस्तु बाह्यसन्नियुक्तस्तत्सामानाधिरण्येनेत्यतो न संवेदनधर्मः ।
तस्माद् विषयतः स्वरूपतश्च यतो ऽस्य नाभिभलापसंसर्गयोग्यतासम्भवस्तस्मादिदमर्थात् सरूपकादुपजायमानं ज्ञानं विकल्परूपमर्थमेवादर्शयेदिति प्रसङ्गः ।
नामिलापमर्थसंसर्गितयेति शेषः ॥
स्यादेतत् ।
स्वकारणदुपजातस्य कारणमकारणं वा कश्चिदेव विषयः ।
एवं चार्थादुपजातस्याप्यनेको ऽभिलापो ऽप्यस्य विषयो यदि स्यात् को दोष इत्यत आह—न हीति ।
रूपाच्चक्षुषो विषयादुपजायमानं चाक्षुषं विज्ञानं नयनाविषयरससहितमतद् रूपमिति ॥
एतदुक्तं भवति ।
साकारवादसिद्धौ तावदनुपप्लुतमाकारमादधदेवार्थो विषयः ।
न च शब्दसंसर्गयोग्यता
अर्थस्यास्ति येन तदाकारं ज्ञानं भवेत् ।
न चेन्द्रियविज्ञानं शब्दः स्वतन्त्र एवाकाराधायको, विकल्पकाले तदभावात् ।
भावे ऽपि वा स्वतन्त्रः प्रतिभासेत नार्थसंसर्गितयेत्युक्तम् ।
निराकारपक्षे ऽप्यात्मानात्मप्रकाशनशक्तेर्विज्ञानस्य स एव विषयो यत्रेन्द्रियं
नियतसामर्थ्यम्, अन्यथातिप्रसड्गात् ।
न च चक्षुरिन्द्रियान्तरविषये समर्थम् ।
न च चक्षुर्विषयस्यैव शब्दसंसर्गो ऽस्तीति चिन्तितमिति ॥
प्रसङ्गमुक्त्वा विपर्ययार्थमाह–तस्मादिति ।
अमिलापसंसर्गानपेक्षमर्थं तत्संसर्गिणमादर्शयदध्यवस्यद् विकल्पवासनोत्थापितं नार्थसामर्थ्यसमुत्थमिति भावः ॥
विपर्यये किं बाधकमित्यत आह–अनियतार्थग्राहि यतः, विकल्पगतमर्थाकारं प्रत्यनियामकत्वात् तस्येत्यर्थः ॥
एतदुक्तं भवति, यदि हि प्रतिभासमानोर्ऽथोपि विकल्पस्य जनको भवेत्, तदा तदाकारं नियमयेत्, न तु नियमयति, तदसन्निधावपि विकल्पवासनावशात् तस्य तथाविधाकारोपस्थितेः ।
नन्विन्द्रियमस्य जनकमस्तु, न हि तस्याकारनियामकतया कारकत्वमित्यत आह–मानसमिति ।
मनोमात्रप्रभवमित्यर्थः ॥
इन्द्रियमपि हि ज्ञानजनकं भवदाकारनियामकार्थसन्निकर्षेणैव, न तु तन्निरपेक्षम् ।
न चास्य तथाविधार्थसन्निकर्षो ऽस्तीत्युक्तमिति भावः ॥
ननु विवादाध्यासिते विकल्पे दृश्यतयैवार्थाकारः परिस्फुरति ।
न चैवमुभयवादिसिद्धार्थसन्निधिनिपेक्षविकल्पेष्वपरोक्षतयार्थः प्रकाशते, तद्विशेषो विकल्पोर्ऽथसन्निधिसापेक्षः ।
तथा चार्थस्य तदाकारनियामकत्वात् तज्जनकत्वमनिच्छताप्यभ्युपेयम् ।
अन्यथोत्प्रेक्षाव्यापारत्वाद् विकल्पस्य प्रवर्तकत्वमपि न निर्वहेदित्यत आह–आत्मीयमिति ॥
उत्प्रेक्षा असदारोपणं यतो भवत्यवश्यमतो ऽप्येवमुत्प्रेक्षामह इति व्याहारः ।
तिरस्कारो ऽनध्यवसायः ।
दर्शनं साक्षात्करणम् ।
पुरस्कारो भेदाग्रहो वा, तद्धेतुक आरोपो वा ।
तत्सिद्धमिति ।
प्रसड्गाद्युपनिबन्धेन ।
यदि विवादाध्यासिता विकल्पा अर्थसामर्थ्यलब्धजन्मानः, तदा न शब्दकल्पनानुगता इत्यर्थः ।
तदनुगतत्वमिति ।
शब्दकल्पनानुगतत्वम् ।
तस्योपलब्धिरभिलापानुगतत्वं निराकुर्वती अर्थसामर्थ्यजत्वं विरूणद्धीति शेषः ॥
असिद्धविरुद्धयोरसम्भवादिह सम्भाविततया पूर्वोक्तस्मारणपुरःसरं सन्दिग्धानैकान्तिकत्वाशड्कामेवापनयति–न चेति ।
अर्थरूपमनुकुर्यादर्थरूपसदृशाकारं भवेदित्यर्थः ।
तादात्म्यतदुत्पत्तिभ्यामसम्बद्धरूपानुकारे नियामकाभावात् सर्वरूपानुकारेण सर्वेषां सर्वज्ञतापत्तिः ।
सद्रूपानुकारमात्रत्वात् तद्विषयताया इति भावः ।
न हि तादात्म्यतदुत्पत्तिलक्षणः सम्बन्धः स्वरूपेणोपपुज्यते ।
कि नाम? नियामकतया, तदत्र सड्केत एव नियामको यदि स्यात् को दोष इत्याशयवानाशङ्कते–सड्केतेति ।
तदेव दृष्टं सत् स्मारयेदेतान्नियमेनेति शेषः ।
किमेतावपीत्यत आह–तत्रैव चेति ।
अनुगतमनुगमगोचरः ।
अत एव सामान्यं देशकालानुगतम्, तत्रैव सड्केतस्य सुकरत्वादिति भावः ॥
किमेतावतापीत्यत आह–न च तत्तत् दृष्टं साक्षात्कृतं किं तु स्वलक्षणं दर्शनगोचरः ।
सरूपकत्वादिति शेषः ।
सरूपकत्वमेवास्य कुत इत्यत आह–तदेव हीति ।
परमार्थो ऽकृत्रिममनारोपितं रूपं तेनास्तीति परमार्थसत् ।
एतदेव कुत इत्यत आह–विज्ञानस्य कारणम् ।
विज्ञानस्येति प्रकृतोपयोगात् कारणमर्थक्रियासमर्थं यत इत्यर्थः ॥
ननु सामान्यमपि किं न दर्शनगोचर इत्यत आह–न तु सामान्यमिति ।
कुतः? सर्वसामर्थ्यरहितं हि तत् ।
सर्वः पुरुषार्थो हेयोपादेयरूपस्तस्य सामर्थ्यं शक्तिः, तद्रहितं यस्मात् तत् ।
न हि किञ्चित् पुरुषप्रयोजनं सामान्यसाध्यमस्ति ।
अतोर्ऽथक्रियायामशक्तत्वात् न तत् परमार्थसत् असत्त्वान्नतद्विज्ञानजनकम् ।
अजनकत्वान्न सरूपकम् ।
असरूपकत्वान्न दर्शनगोचर इत्यर्थः ॥
ननु सामान्यस्य तावदर्थक्रियाविरहाद् दर्शनगोचरत्वं मा भूत्, दर्शनगोचरस्यैव तु वाच्यतास्तु ।
सड्केतो ऽपि तत्र केनाप्युपायेन भविष्यति ।
तन्निर्विचिकित्समेव तर्ह्यर्थक्रियासमर्थवस्पुप्रतिपादनाभिप्रायवन्तः प्रयोजकवृद्धाः प्रयोज्यवृद्धाश्च तथाविधार्थप्रतिपत्तिमन्तः शाब्दे व्यवहारे उपलभ्यन्त इत्यत आह–अपि चेति ।
न ह्यौप्ण्यात् अतिरिक्तो वह्निर्नामास्ति बौद्धराद्धान्ते ।
न चोभयवादिसम्प्रतिपत्तिविषयः प्रतीतमौष्ण्यं शीतापनोदनं करोतीत्यपि कदाचित् ।
अकुर्वद्धि सर्वथा अप्रतीतं न कुर्यादारोपितं वा ।
न च वह्निशब्दात् सर्वथा वह्नेरप्रतीतिः ।
तस्मात्
शब्दकल्पनोल्लिखितमवस्त्वेव वस्त्वाभासमित्यभिप्रायः ॥
जात्यादीन् परमार्थिकानभ्युपेत्याह–तन्नेति ।
विवेकेन देशभेदेनेत्यर्थः ।
अवच्छेद्यावच्छेदकभावेन हि मिथो योजना विशेषणविशेष्यभावः ।
स च विविक्तदेशताप्रतीत्या व्याप्तः ।
सा चातो निवर्त्तमाना स्वव्याप्यं विशेषणविशेष्यभावमादायैव निवर्तते ।
ततश्च जात्यादीनां परस्परमसम्बन्धान्न स्वतनत्रेषु तेषु शब्दो ऽपि सुकरसड्केतेः ।
तथा च न संसृष्टवेदनमित्यर्थः ॥
एतेन शब्दस्य विवेकग्रहसम्भवे ऽपि तद्योजना निरस्तो बोद्धव्या ।
एकमसमुदितम् ।
अविभागमनंशम् ।
स्वलक्षणं
त्रैलोक्यविलक्षणम् ।
तथातथेति ।
गुणकर्मादिसमुदितत्वेन साधारणत्वेन विकल्प्यते ।
न तु दश्यत इत्यर्थः ॥
अपि च परमार्थसद्वस्तुत्रयवेदने ऽपि विवेकेनेति शेषः ॥
ननु न ह्येकज्ञानविषयौ समानकाले ऽड्गुल्यौ न कार्यकारणभूते इति नियतपूर्वापरत्वे ऽपि ते सर्वज्ञैकविज्ञानगोचरौ न तथेति युक्तं वक्तुम् ।
यद्युच्येत को दोषः? न ह्युपलब्धिभेदाभेदप्रयुक्ते कारणाकरणत्वे ।
किं तर्हि? यदनपेक्षं तत् कारणम् सापेक्षं च कार्यमिति, तदत्रापि समानम् ।
एकज्ञानगोचरत्वे ऽपि यदवच्छेदकं
तद्विशेषणम्, अवच्छेद्यं च विशेष्यमिति ।
यत्तु नैवं न तत् यथेत्यत आह–विशेषणं खल्विति ।
नान्यथेति ।
अतिप्रसड्गादिति शेषः ।
तर्हि उपकारो ऽपि कश्चिदस्त्वित्यत आह–न चैकेति ।
किमिति न स्यादित्यत आह–तयोरिति ।
प्रसड्गादिति शेषः ।
स्वरूपतः पौर्वापर्यनियमः कार्यकारणभावः ।
ज्ञाप्तितस्तु ज्ञाप्यज्ञापकभावः ।
स चायमेकज्ञानगोचरयोरेककालयोश्च द्विरूपो ऽपि नियतो नास्ति यस्मादित्यर्थः ॥
स्यादेतत् ।
यद्यप्युक्तस्वरूपमुपकारद्वयं न सम्भवति तथाप्याधाराधेयभावो भवेत्, स हि समानकालयोरेव कुण्डबदरयोर्दृष्टः ।
क्षणभङ्गस्तु त्वयाप्युपपादनीयो मयापिभञ्जनीय इत्यत आह–अपि चेति ।
यद्यपि तीर्थिकैः कुण्डाधावशान्न बदरस्यैव अपतनधर्मकस्योत्पादः स्वीक्रियते स्थैमश्रद्धाजडत्वात्, तथापि गतिनिवृत्तिलक्षणां गुरुत्वप्रतिबन्धकसंयोगलक्षणां वा स्थितिं तद्धर्मभूता विदधदेव बदरस्य कुण्डमाधारतया अभ्युपेतं तैः ।
किं चातो ऽत आह–तद्वदिहापीति ।
एतावतापि किमित्यत आह–न च शक्त्यन्तरैरिति ॥
यद्यपि बदरवज्जात्यादीनां धर्मस्य कस्यचिदुपजनापायरूपमुपकारं नाभ्युपगच्छत्येव परः, तथाप्यभ्युपगमवादो ऽयं सौगतस्येति मन्तव्यम् ॥
तथा चेति ।
सन्नित्यनेन हि विकल्पेन सत्त्वोपकारसमर्थो विषयीकृतः न च ततो ऽन्यः कश्चिद् द्रव्यत्वाद्युपकारसमर्थो ऽसत्त्वोपकारसमर्थो ऽस्ति, यत्र द्रव्यादिविकल्पाः सार्थकाः स्युः ।
तस्मादेते द्रव्यवत्वाद्युपकारसमर्थेर्ऽथे सत्त्वोपकारसमर्थाभेदिनि प्रवर्तमानास्तदधिकरणमर्थमस्पृशन्तो ऽनर्थकाः प्रसक्ता इति समुदायार्थः ॥
बौद्धस्यातिपरामर्शकुशलतां चोद्यस्य चातितुच्छतामालक्ष्यास्माकमेव मतिलाघवं सम्भावयिष्यतीत्याशड्क्य तद्ग्रन्थं लिखति–यदाहेति ।
अयं वार्त्तिकार्थः ।
यस्य दर्शने नानोपाधेरप्यर्थस्य धीः विकल्पधीर्ग्राहिका भेदिनो विशिष्टस्य ।
नानोपाध्युपकाराड्गं या शक्तिस्तदेकात्मनस्तस्य ।
सर्वात्मना सर्वैः उपाधिभिरेकस्वभावस्यैवोपकार्यस्य विशेष्यस्य ग्रहे सति को भेदो भिद्यत इति भेदो विशिष्यत इति यावत् ।
अनिश्चितः स्यात्? अपि तु सर्वोपाधिमिर्विशिष्टो निश्चित एव स्यादित्यर्थः ।
एमस्योपाधेः उपकारकस्वभावे ग्राह्ये गृह्यमाणे सति नोपकारा उपकारकाः स्वभावा उपाध्यन्तराणां ततो ऽपरे भिन्न विद्यन्ते ये तस्मिन्नेकोपकारकस्वभावे दृष्टे ऽपि न दृष्टाः स्युः ।
किं नाम? स एर्वेकस्वभावः सर्वेषामुपकारकः ततसद्ग्रहे तदेकोपाधिविशिष्टग्रहे ।
सकलग्रहः सकलोपाधिविशिष्टग्रहः प्रसक्त इत्यर्थः ॥
ननु वरं वस्तुस्वभाववादमास्थायानुपकार्यानुपकारकयोरपि विशेषणविशेष्यभावं स्पष्टदृष्टमुपपादयितुं शक्ताः परे ।
उपाधुपाधिमभ्देदाच्चापौनरूक्त्यम् ।
न पुनः सौगताः सत्त्वादीनामुपाधीनां वस्तुत्वानभ्युपगमात् ।
एवं च त्वच्छरास्त्वय्येव निपतिता इत्यत आह–अस्माकं त्विति ।
यच्च गृह्णन्ति सामान्यमात्रम्, यच्चाध्यवस्यन्ति सन्तानम् ।
न मनागपि सामान्येनापि रूपेण ।
गाहन्ते गोचरन्ति ।
तस्यालीकतया वस्तुधर्मत्वाभावादित्यर्थः ।
तर्हि कथमविसंवादकाः प्रवर्तका वेत्यत आह–पारम्पर्येणेति ।
ततः किमित्यत आह–अत इति ।
यत्र विषयाधीना धीः तत्र
तदायत्तौ विशेषाविशेषौ, अत्र तु विपर्ययो विषयस्यैव प्रतिभाससत्तया बुद्ध्यधीनत्वात् ।
तदिह विकल्पस्य विषयो विशेष्यः ।
तत्तद्वद्विशेषणविशिष्टतयापि किं भिन्नो ऽभिन्नो वेत्यत्र विकल्प एव साक्षी, न विचार इत्यर्थः ॥
ननु परमार्थसन्नर्थो मा भूद्विकल्पस्य विषयः, जनकस्तु भविष्यतीत्यत आह–अपि चेति ।
न विकल्पिकामपीति ।
अपिर्भिन्नक्रमः ।
अर्थो विकल्पस्य न गोचरो जनको ऽपि नेत्यर्थः ॥
अर्थोपयोगः सन्निकर्षः ।
न च यदेवेत्यादि ।
न्यायादिति ।
वाच्यमिति शेषः ।
नो खल्विति ।
स्मरणेन्द्रिययोरेकविषयसामर्थ्याभावात् न परस्परापेक्षत्वम् ।
ततश्च स एवार्थोपयोगीऽविशिष्ट इत्यर्थः ।
एकगोचरत्वमेवानयोः कुतो नेत्यत आह–तद्गोचरत्वे चेति ।
अननुभूतपूर्वाणामप्यर्थानां चक्षुषोर्व्यापारमात्रेण
पूर्वावस्थास्मरणप्रसङ्ग इत्यपि द्रष्टव्यम् ।
तेन स्यात् ।
तथा सति प्रसज्येतेत्यर्थः ।
अक्षापाये ऽपि नेत्रधीरित्युपलक्षणम् ।
वासनाभावे स्मृतिधीरित्यपि द्रष्टव्यम् ।
सहते प्रतीक्षत इत्यर्थः ॥
सिद्धान्तमुपक्रमते–अत्रेति ।
गौरयमित्यादेर्विकल्पस्य तावदभिलापसंसर्गयोग्यप्रतिभासवदर्थसाक्षात्कारो ऽप्यनुभवसिद्धः ।
अस्ति चोस्येन्द्रियार्थान्वयव्यतिरेकानुविधानम्,
तदन्यथासिद्धम्, तयोरालोचनमात्र एव चरितार्थत्वादिति चेत्? तत् किमिदानीमालोचनस्यायं महिमा विकल्पोपजननं प्रति? तथा सति तस्मान्न कदाचित् अप्यालोचनं जायेत ।
वासनापरिपाकविरहान्न तथेति चेत्? स खलु वासनापरिपाको यदि नियमादिन्द्रियार्थमध्यमधिशेते कथं न तदपेक्षा कार्यस्य? काकतालीयश्चेत्? सन्निधिसन्निहितेष्वपीन्द्रियार्थेषु कदाचिद् विशिष्टाद् वासनापरिपाकात् साक्षात्कारवान् विकल्प उत्पद्यत ।
न वै साक्षात्कावान् विकल्पः कश्चित्, किं तु निर्विकल्पकभेदाग्रहात् तद्वानिवावभासत इति चेत्–न, प्रमाणाभावात् ।
न
हि विवादाध्यासितविकल्पगतो दर्शनव्यापारो ऽयमौपाधिक इत्यस्ति प्रत्यक्षम् ।
नाप्यनुमानम् ।
दर्शनव्यापारता कल्पनापोढत्वेन व्याप्ता, तच्चातो निवर्तमानं तामपि निवर्तयतीति चेत्–न, विपर्ययस्यापि वक्तुं सुकरत्वात् ।
तथाहि
दर्शनव्यापारत्वं कल्पनानुगतत्वेन व्याप्तम् ।
तच्च तदनुगतत्वमालोचनान्निवर्तमानं स्वव्याप्यं दर्शनव्यापारत्वमपि निवर्तयति ।
तथा च विकल्पसान्निध्यादौपाधिको दर्शनव्यापारो ऽयमालोचनमिति किं न स्यात्? अनुभवस्तूपाधिशङ्कया त्वयैवासाक्षीकृतः ।
अनागते विकल्पे कथमिव तद्धर्मो निर्विकल्पके प्रतिभासेतेति चेत्–न, कालभेदस्योभयत्रापि तुल्यत्वात् ।
उपादानोपादेयभावश्च नियमहेतुः समानः ॥
ननूपादाधर्मा उपादेयमनुगच्छन्ति ।
न तूपादेयधर्मा उपादानमिति चेत्–न, वस्तुतो ऽवस्तुधर्माणामप्रतिसङ्क्रमात् ।
आभिमानिके तु प्रतिसङ्क्रमे ऽनियमः ।
उपादानप्रत्ययबलादुपादेयप्रत्ययस्तथोत्पद्यत इति चेत्? हन्त यदि साक्षात्कारः साक्षात्कारवानुत्पद्यते कथमस्य तथात्वमौपाधिकम् ।
तावन्मात्रादेवेन्द्रियादिनिरपेक्षादुपजातमित्येतावतैव तदौपाधिकमित्युच्यत इति चेत्–न, समनन्तरप्रत्ययसाक्षात्कारमहिम्ना साक्षात्कारोत्पत्तावसाक्षात्कारानुत्पादप्रसड्गात् ।
न चासाक्षात्कारिणः साक्षात्कारः कदाचिदुपपद्येत ।
सहकारिविशेषादेवमपि स्यादिति चेत्? तर्हि यादृशि कार्ये यादृगन्वयव्यतिरेकानुविधानं दृष्टम्, तादृशस्य तत्र सहकारित्वमास्थेयम् ।
दृष्टं चोभयवादिसम्प्रतिपन्ननिर्विकल्पके साक्षात्कारं प्रतीन्द्रियार्थयोः सामर्थ्यम्, न विकल्पस्य इत्युक्तप्रायम् ॥
एवं तावदर्थंसाक्षात्करणं स्वाभाविकम् ।
तन्नान्तरीयकतया इन्द्रियार्थसामर्थ्यसमुत्थत्वमस्य स्थितम् ।
अविसंवादित्वमप्यस्यानोपाधिकम् ।
तथाहि, यद्यस्य पारमार्थिको विसंवादः स्यात्, तदा प्रतीयमानो ऽप्यौपाधिको ऽयमविसंवाद इति सम्भाव्येत, स च देशकालाकारकृतस्तावन्न भवति ।
अननुगतमेवानुगततया दर्शयतीति चेत्–न, असाधारणस्य स्वलक्षणस्य विकल्पेनासंस्पर्शात् ।
संस्पर्शे वा तज्जन्यत्वप्रसङ्गः ।
अजनकस्यैव तु वस्तुसतो विषयत्वे प्रत्यक्षत्वमर्थसामर्थ्यसमुत्थत्वेन व्याप्तमिति सुप्तप्रलापः ।
विकल्पस्तावत् साधारणं स्वरूपमुल्लिखन्नेव प्रवर्तयति ।
तच्च सर्वसामर्थ्यरहितम् ।
न चार्थक्रियार्थी तदसमर्थं दृष्ट्वा प्रवर्तते, ततो ऽसमर्थमेव समारोपितसामर्थ्यं विकल्प्यते ॥
तथा च कथमस्य विपरीतारोपरूपस्य संवादो नामेति चेत्–न, यदि हि सामर्थ्यमेवारोपयेत्, असाधारणमेवोल्लिखेत् ।
न ह्यन्यदसाधारणाद्रूपात् समर्थं नाम तव दर्शने ।
तस्मात् समर्थमिव तद्दर्शयति विकल्पः ।
इवार्थश्च न तत्रारोप्यः, विकल्पार्थस्य समर्थेनासादृशत्वात् ॥
नन्वसामर्थ्यव्यावृत्तिमात्रमेव सामर्थ्यं न तु तत्त्वान्तरम्, तस्य च न साधारणरूपविरोधः ।
तथा चैकात्म्यप्रथनं न विरुद्धमिति चेत्–न, अविरोधे सति समारोपानुपपत्तेः ।
न हि यद् यत्राविरुद्धं सत् प्रथते तत् तत्रारोपितं नाम ।
तस्माद् भेदाग्रहात् प्रवृत्तिः ।
न च स एव विसंवादः ।
तथा च सत्यालोचनमपि विसंवादि स्यात्, कल्पनालोचनयोर्भेदानुल्लेखात् ।
एतेन स्वप्रतिभासे ऽनर्थे अर्थाध्यवसायेन प्रवृत्तेरिति परास्तम् ॥
अनर्थत्वं हि विकल्पादभेदो विकल्प्यस्य स्यात्, आलोचनीयाद् भेदो वा? न तावत् कल्पनागोचरस्यालीकस्य कल्पनया अभेदः सम्भवति, येन भेदोल्लिखनमारोपः स्यात् ।
आलोचनीयाद् भेदे ऽपि
नाभेदप्रथेति नारोपः ।
स्वप्रतिभासे ऽनर्थ इति वचनात् नैष दोषः ।
स खल्वाकारो विकल्पादभिन्नो ऽपि भिन्न आरोप्यत इति चेत्? यदि तावत् विज्ञाननयमालम्ब्यैतदुच्यते, तदालोचनस्याप्येषैव गतिरिति तस्याप्यारोपरूपत्वात् ।
ग्राह्याकारे ऽप्रामाण्यं विकल्पस्यापि स्वात्मनि च संवेदनत्वादुभयोरपि प्रामाण्यमेवेति न कश्चिद् विशेषः ॥
अथ बाह्यमर्थमधिकृत्य प्रस्तुतेयं कथा? तथापि यादृशाकारो विकल्पस्तादृशाकार एव बाह्यतया प्रतिभासेत? न चासौ साधारणाकारः समस्ति ।
ततो येदतत् साधारणं रूपमाभाति तन्न विकल्पाकारमभिनिविशते
इति बहिरेवावतिष्ठते ।
बाह्यत्ववत् साधारणत्वमप्यस्यारोप्यत इति चेत्–न, असाधारण्यस्य पारमार्थिकस्य क्वचिदप्यनुपलब्धेरारोपयितुमशक्यत्वात् ।
असदुल्लेखे त्वलीकालम्बनत्वमेव विकल्पस्याभ्युपगतं स्यात् ।
तत्र चारोपसम्भावनैव नास्तीत्युक्तम् ॥
पूर्वापरयोर्विकल्पाकारयोरभेदानुसन्धानमेव साधारण्यमिति चेत्–न, आकारिणां भेदप्रतीतावाकाराणामेकत्वेन प्रतिसन्धातुमशक्यत्वात्, तयोस्तादात्म्याम्युपगमात् ।
विकल्पस्यात्माप्याकारो भिन्नो बाह्यतयारोपितः ।
ततो विकल्पात्मानां भेदावसाये ऽपि नाकाराणां भेदावसायः ।
ततस्तदेकतयानुसन्धानमिति चेत्? हन्त, यद्ययमाकारो विकल्पात्मा तथेति प्रतीयेत, कथं बाह्यत्वेनारोप्येत? तादात्म्याप्रतीतिस्तूभयथापि स्यात्, अस्वसंवेद्यत्वाद् विकल्पस्य, स्वसंवेदनत्वेन वा, ततो भिन्नात्वात् तादात्म्यस्य ।
आद्यः तावत् सौगतैरनभ्युपगमादेव दुःस्थः ।
द्वितीयस्तु सर्वैरेवावगतः ।
अवगतं न तु निश्चितमिति चेत्–न, निश्चयानिश्चयलक्षणविरुद्धधर्मसंसर्ङ्गेण भेदापत्तेः ।
व्यावृत्त्योर्भेद एव न तु वस्तुनीति चेत्? अथ केयं व्यावृत्तिर्नाम? न किश्चिदिति चेत्? एवमस्तु ।
तथा च नारोपवार्तापि ।
ततो नास्योपदर्शितार्थविसंवादगन्धो ऽपि ।
असदर्थप्रकाशनमेव विसंवादनमिति चेत्? आस्तां तावदेवत्, यथाविषयमात्रमत्र विवक्षितम्, प्रकृतोपयोगात् ।
एवं चाविपरीतार्थत्वात् प्रामाण्यम् ।
प्रमाणस्य सतः साक्षात्कारित्वात् प्रत्यक्षत्वम् ।
अस्मदादिप्रत्यक्षत्वाच्च इन्द्रियार्थसामर्थ्यसमुत्थत्वम् ।
एवं सति सर्व एव सौगतेनप्रयुज्यमानाः कालात्ययापदिष्टतया प्रतिपक्षहेतवः पदमध्यारोपयितुमसमर्थाः प्रागेव विकल्पस्याप्रत्यक्षतां साधयितुम् ।
तथापीदमवशिष्यते, यदेतावतापि न परमार्थसद् विषयस्य प्रामाण्यं साधितम् ।
तत्र चावयोर्विवाद इति तत्राह–स्याद्विरोध इति ॥
ननु परमार्थसतो ऽभिलापसंसर्गयोग्यता अशक्यव्युत्पादनैव क्षणिकत्वात् जगत इत्यत उक्तम्–स्थेमभाजमिति ।
ननु स्थैर्यसिद्धावपि जात्यादीनां दुरूपपादत्वात् कथं परमार्थसतो ऽभिलापसंसर्गयोग्यतेत्यत उक्तम्–जात्यादिमन्तम् ।
तथा चेति ॥
यद्यप्युक्तरूपार्थव्यवस्थापने सति कालात्ययापदिष्टो ऽयं प्रसङ्गहेतुः, तद्दर्शनेचापक्षधर्मः,न ह्यस्ति सम्भवो विकल्पस्यार्थसामर्थ्यसमुत्थत्वं निश्चितमनिश्चितं च तदर्थस्य परमार्थसत्त्वम्, तथापि परो ऽपि तन्निराकरणसिद्ध्यैव प्रत्यवस्थितो न राजाज्ञया निराकरणीयः ।
तस्मादापाततस्तत्सन्देहे सन्दिग्धविपक्षवृत्तित्वमेवास्त्वित्यर्थः ।
एतेन विपर्ययो ऽपि निराकृतो बोद्धव्यः ॥
नमु सन्तु जात्यादयः परमार्थभूतास्तथापि यदि ते ऽपि पिण्डात्मभूताः कथं भेदेन प्रतिभासरेन्? तथा अप्रतिभासमानाश्च कथं विशेष्यतया विशेष्यमवच्छिन्द्युः, अनात्मभूताश्चेत् कथं सामानाधिकरण्यमश्नुवीरन्नित्यत आह–न चेति ।
तथापि शब्दो भिन्नात्मा अतद्वृत्तिः कथमवच्छेदकः स्यात्, यदि तद्गतस्तदात्मा वा न प्रतीयेत ।
एवमेव त्ववच्छेदे ऽतिप्रसङ्गः ।
अवच्छेदप्रतीतौ तु भ्रान्तिरित्याशङ्कते–न चेति ॥
अभेदकल्पनमवच्छेदकल्पनम् ।
तच्च तदात्मतया तत्संसर्गितया वा? उक्तमेतत् इति न हि तद्वृत्तितयैव तत्संसर्ग इति नियमः, अपि तु तटस्थेनापि ज्ञानेनेव ज्ञेयस्य वाचकेन वाच्यस्य न विरुद्ध इत्यर्थः ॥
ननु तटस्थो ऽप्ययमवच्छेदको न सत्तामात्रेण, अपि तु ज्ञातः ।
न तु शब्दज्ञाने तदानीं श्रवणस्य व्यापारः, विषयस्य विप्रयोगात् ।
सव्यापारे चक्षुषि मनसस्तत्र व्यासड्गाच्च ।
तस्माद्यथा स्व्प्नावस्थायामिन्द्रियोपरमे ऽपि पूर्वसंस्कारपाटवान्मनसैवैकेन अविद्यमाना अप्यर्था विषयीक्रियन्ते, तथा अशब्दव्यावृत्तिविकल्पजनितवासनापटुना चक्षुषैव मनसा वा शब्दो ऽपि विषयीक्रियत इत्यविद्यमानशब्दालम्बनत्वाद् भ्रान्तिरेवेत्यत आह–न च शब्दार्थयोरिति ।
एकेन्द्रियग्राह्यतेत्यत्र प्रसङ्ग इति शेषः ॥
अयमर्थः, यदि मनो ऽभिप्रायेणैकेन्द्रियग्राह्यता प्रसज्यते न किञ्चिदनिष्टम्, तस्य सर्वविषयत्वात् ।
अथ
बाह्येन्द्रियमभिप्रेत्य, तत्रापि किं नाम योजनात्मके विकल्पे, किं वा जात्यादियोजनात्मके? तत्र नाम्नो विशेषणत्वपक्षस्तावदनभ्युपगमेनैव परिहृतः ।
उपलक्षणत्वं तु तटस्थस्यैवेति प्रतिपादितमेव ।
तच्चेन्द्रियान्तरोपनीतस्यपि निर्वहतीति नैन्द्रियके विकल्पे नामस्फुरणमुपयुज्यते ।
जात्यादियोजनायां तु शब्दस्मरणस्यापि नास्त्युपयोगः, प्रागेव तद्ग्रहणस्य, तस्यानवच्छेदकत्वात् ।
केवलं किमिति नियमतः स्मर्यते शब्द इत्यवशिष्यते ।
तत्रेदमुक्तम्–किं त्विति ॥
तत्किमिदानीं शब्दस्मरणस्य न कश्चिदस्त्युपयोग इत्यत आह–इन्द्रियजविकल्पोत्पादं प्रति ।
व्यवहारं प्रति
त्वस्त्येवोपयोग इत्यर्थः ।
सड्केतसमयेति ।
पूर्वावस्थास्मरणग्रहणयोरन्यतरोपलक्षणपरम् ।
शब्दस्तु न निवेशयत्यात्मानं गृहीतः स्मृतो ऽपीति शेषः ।
चक्षुषापि स एवायं दृश्यते, न तु पूर्वहृदयस्थः शब्दो ऽपीत्यर्थः ।
एतदेव व्याख्याय श्लोकान्तरेण द्रढयति–अननेन हीत्यादि ।
न तु शब्दनिवेशनमपीति ।
शब्दरूपमपि विषयमित्यर्थः ॥
यद्यपि सञ्ज्ञा हीत्यादि श्लोके सा तटस्थेत्येतावदेव प्रकृतोपयोगि, तथाप्यनागतं प्रतिविधित्सुरवयवान्तरं व्याचष्टे–नार्थेन्द्रियेति ।
अर्थसहितमिन्द्रयमर्थेन्द्रियम् ।
यद्यपि क्षणमङ्गपक्षे ऽपि,
प्रत्येकमसमर्थेषु येषु सम्भाव्यते गुणः ।
संहतौ हेतुता तेषाम्
इति न्यायेनातिशयपरम्परोत्पादेन पूर्वावस्थास्मरणादिसहकारिमध्यमध्यासीनं यदेवेन्द्रियं तदेव विकल्पजनकं नेतरदिति नास्ति कश्चिद् विरोधः ।
तथापि विकल्पस्य स्थिरविषयत्वात् क्षणिकत्वस्वीकारे निर्विषयत्वमापाद्येतेति निस्फलः प्रयासः स्यादिति मन्यमानः स्थैर्यमालम्ब्यैव परिहरति–न च जनकत्वेति ।
स्यादेतदिति ।
स्यादेतत्सहकारित्वं संस्कारस्येन्द्रियं प्रति, यद्यनयोर्विषयभेदो न स्यादित्यर्थः ।
तत्किमिति ।
इन्द्रियसंस्कारयोः परस्पराधिपत्यं विषयभेदात् कीदृशान्न भवति किं प्रतिपत्त्यनुबन्धिनो, व्यापारानुबन्धिनो वा? न तावदाद्यः, तथाविधविषयभेदे ऽपि गन्धज्ञानचक्षुषोः परस्पराधिपत्येन रूपज्ञानोत्पत्तिदर्शनात् ।
द्वितीयस्त्वसिद्धः, तस्य कार्येणानुविधीयमानतामात्रोन्नेयत्वात् ।
एतच्चोमयमप्युभयवादिसिद्धमित्यर्थः ॥
ननु व्यापारनुबन्धितया संस्कारस्य यदि पुरोवर्ती विषयः, तदा अतीतावस्थास्फुरणं न स्यादेव ।
न ह्यन्यविषयो व्यापारः, अन्यत्र क्रियेत्यभ्युपगमः ।
तस्मादतीतविषयत्वात् क्रियायाः व्यापारानुबन्धितयापि संस्कारस्य स एव विषयः, न तु पुरोवर्ती ।
एवमिन्द्रियस्यापि यद्यतीतावस्थस्यैव व्यापारवतो विषयः, तदा पुरोवर्तिविषयस्फुरणं न स्यात् ।
तस्मात् तस्यापि व्यापारवतः पुरोवर्त्येव विषय इति व्यापारतो ऽपि कथमेकविषयतेति? समनन्तरप्रत्ययस्तु प्रतिपत्तितो गन्धविषयो ऽपि व्यापारतो रूपविषयः ।
रूपविषयव्यापारमेव चक्षुरपेक्षते ।
न हि चक्षुष्यपि सहकारिणि गन्धज्ञानाद् गन्धज्ञानम्, अपि तु रूपज्ञानमेवेति ॥
नैतत्साधीयः, सहकारीभेदादेव व्यापारभेदस्यापि नियमात् ।
न हि चक्षुरादिसहकारिविरहे ऽपि गन्धज्ञानस्य रूपविषयव्यापारनियमः ।
तथा सति गन्धज्ञानाद् रसनादिसहकारिणो ऽपि रूपज्ञानमेव स्यात्, न रसादिज्ञानम् ।
तस्मात् केवलस्य चक्षुषो यद्यपि रूपमेव व्यापारविषयः, तथापि पूर्वावस्थासंस्कारसहकारिमतस्तद्वानेव पुरोवर्ती व्यापारविषय इति न कश्चिद् विरोधः ।
पूर्वावस्था चक्षुषा असन्निकृष्टा कथं तद्व्यापारविषय इति ।
अवशिष्टं तु शङ्कते–नन्वतीतेति ।
अत्र तत्सम्बन्धमेव तद्व्यापारविषयत्वं स्यात्, सम्बन्धस्य तद्व्यापकत्वं वा? आद्यं निराकारोति–तत्किमिति ।
द्वितीयं शङ्कते–नन्वसम्बद्धमिति ॥
प्रधानव्यापारविषयता ह्यवान्तरव्यापारविषयतया व्याप्ता, सा चातीतावस्थातो निवर्तमाना तामपि निवर्तयति ।
अथ सविकल्पके जनयितव्ये पूर्वावस्थास्मरणमेवावान्तरव्यापारो न तु विषयसम्बन्धः, तदा लक्षणविरोधो दूषणमित्यर्थः ।
मा भूदिति ।
इन्द्रियागोचरः इन्द्रियसन्निकर्षगोचर इत्यर्थः ।
न चेति ।
अयमाशयः, न तावत् सर्वथैवातीतावस्था नेन्द्रियसन्निकृष्ट, संयुक्तविशेषणतायाः सम्भवात् ।
अस्यापि संयुक्तसमवायवत् प्रत्यक्षज्ञानोत्पादकतया सन्निकर्षपदेन सङ्ग्रहात् ।
यद्यपि समवायेतरभावरूपधर्मेषु सम्बन्धान्तरगर्भ एव विशेषणविशष्यभावः, तथापि विद्यमानधर्मविषयैव सा व्यवस्थितिरिति न कश्चित् सूत्रविरोध इति यद्यपि रहस्यम्, तथापि अतीतावस्थायाः सम्बन्धानभ्युपगमे ऽपि न काचिल्लक्षणक्षतिः ।
न हि यावत्प्रत्येतव्यगोचर इन्द्रियसन्निकर्ष
इति सूत्रम् ।
किं तर्हि? इन्द्रियार्थसन्निकर्षजनितं विज्ञानं प्रत्यक्षफलम् ।
तथाविधफलविषयोर्ऽथः प्रत्यक्षः ।
तथाविधफलसाधनं प्रत्यक्षं प्रमाणमिति ॥
स्यादेतत् ।
कार्यमेकमधिकृत्येन्द्रियसन्निकर्षसंस्कारयोः परस्परसहकारिता, तदेव त्वेकमनयोः कुत इत्याशयवान् चोदयति–ननु पूर्वापरेति ।
सूचीकटाहन्यायेन पश्चादुक्तमपि प्रथमं विवृणोति–तथा हीति ।
यद्यपि तदित्युल्लेखो न सर्वविकल्पव्यापी, तथापि प्रतिसन्धानज्ञाने तावदस्ति ।
तस्य च प्रामाण्यं स्थिरवादिभिरवष्याभ्युपेतव्यम् ।
अन्यथा सर्वमालूनविशीर्णमापद्यते ।
परेणापि तदेव विशेषतो निराकर्तव्यम् ।
तन्निराकरणेनैव हि जात्याद्यभावे अप्रतिसन्धानात्मकस्यापि विकल्पस्य प्रत्याख्यानमयत्नसिद्धमित्यभिसन्धिः ॥
ननु विरुद्धधर्मसंसर्गो ऽपि स्यात्, न च भेद इत्यत आह–त्रैलोक्यस्यैकत्वप्रसड्गात् ।
तथा च
भेदव्यवहारस्याकस्मिकत्वप्रसङ्ग इत्यर्थः ।
विषयभेदश्चेति ।
यद्यपि विषयभेदवतो ऽपि सर्वज्ञविज्ञानस्यैकत्वमक्षतमेव, तथापि क्षणिकानेककालीन (?) नीलालम्बनत्वमव यदि प्रतिसन्धानस्य परो ऽभ्युपगच्छेत्, न तस्य काचिदिष्टसिद्धिः ।
नाप्यस्माकमिदमनिष्टं किं तु तदपरिस्फरणमेव विकल्पे ।
तस्मादारोपितैकत्वविषयत्वमस्य पारमार्थिकैकत्वविषयत्वं वा? तत्र प्रथमं यदि परो ऽभ्युपगच्छेदनुकूलयेदेवास्मान् तस्मात् नानावस्थाविशिष्टपारमार्थिकैकविषयतयास्त्येकत्वं पराभिप्रायगोचरः ।
तच्च विषयभेदापादनेनैव निरस्यत इत्यमिसन्धिः ॥
अत्रोच्यत इति ।
यद्यपि तदिदमितिज्ञानं पूर्वावस्थायामप्यपरोक्षमेव ।
न हि तदित्युल्लेखादेव परोक्षत्वम् ।
तथा सति शाब्दलैड्गिकविकल्पानां तदित्युल्लेखविरहिणाम् अपरोक्षत्वप्रसड्गात् ।
नापीदमास्पदत्वादेव साक्षात्कार इति बौद्धस्याभ्युपगमो ऽपसिद्धान्तप्रसड्गात् ।
किं तु सन्निहितविषयमसन्निहितविषयं वा यदेव लिड्गादिनिरपेक्षेण इन्द्रियेण विज्ञानं जन्यते, तदेवापरोक्षरूपं समुत्पद्यते ।
अनिन्द्रियजं तु परोक्षमिति विभागः ।
तत्र परोक्षमपरोक्षं वानुभूतावस्थाविशिष्टविषयतया तदित्युल्लिख्यते ।
सन्निहितविषयतयेदमिति ।
सो ऽयं विषयकृतो विशेषः ।
तथाप्यभ्युपगमवादे ऽपि न कश्चिद् विरोध इति प्रतिबन्दिग्रह इति मन्तव्यम् ।
तस्माद् विषयभेदादविरोध इति त्वया समाधातव्यमिति चेत्? नन्विहापीति ॥
तत् किमिदानीं विकल्पविकल्पनीययोर्यथा भेदस्तथैव तदिदन्तास्पदयोरपीति? नन्वेवं सति दत्तः स्वहस्तो बौद्धानामित्यत आह–सम्बन्धेति ।
विशेषणे उत्तरत्राप्येवम्, विशेष्यं त्वेकमेव ।
तत्र चापरोक्षत्वमेवास्येत्याशयः ।
यो ऽपीति ।
अत्रापिनानादिग्देशसम्बन्धः प्रतिबन्दीकर्तव्यः ॥
ननु प्रत्यभिज्ञानान्नानाकालसबद्धैकत्वसिद्धौ परस्पराविनाभावभङ्गप्रसङ्गः, तच्च लूनपुनर्जातकदलीकाण्डादौ व्यभिचारदर्शनादप्रमाणमेव ।
न च कदलीकाण्डप्रत्यभिज्ञानतः पद्मरागप्रत्यभिज्ञानस्य कञ्चिद् विशेषमुपलभामहे ।
ननु नानादिग्देशसम्बद्धस्यापि तव कदाचिदेकत्वमुपलभ्यते, तत् कथं तस्याप्येकत्वनिश्चयः? अथ नानादिग्देशसंसर्गः स्वाश्रयं भेदयित्वा न निवर्तत इति निःस्वभावता वापादयेत्, अनैकान्तिको वा स्यात् ।
अतो नायं विरुद्धः ।
सिद्धास्तर्हि संयोगावयव्यादयः ।
तुल्यं चैतत् कालभेदे ऽपि ।
तथा हि यदि पूर्वापरकालसम्बन्धो वस्तुनि विरुध्येत, विज्ञाने ऽपि विरुध्येत ।
तथा च विज्ञानमप्येकमतीतवर्तमानविषयं न स्यात् ॥
एवं च बुद्धीनां नियतार्थतया प्रतिसन्धानगन्धो ऽपि न स्यात् ।
तथा च मूलाभावान्निरीहं जगज्जायेत ।
सर्वज्ञश्च दत्तजलाञ्जलिः प्रसक्तः ।
अतीतवर्तमानविषयत्वे ऽपि नैकं ज्ञानमतीतं वर्तमानं च स्वीक्रियत इति चेत्? अथ किमिद्र च वर्तमानत्वम् सत्त्वं सदन्तरसम्बन्धो वा? एवं चातीतत्वमपि नष्टत्वं नष्टान्तरसम्बन्धो वा ।
तत्र सदन्तरनष्टान्तरसम्बन्धः प्रतिसन्धाने सर्वज्ञविज्ञाने चास्त्येव नष्टानष्टविषयत्वात् ।
तदविषयत्वे
प्रतिसन्धानत्वसर्वज्ञत्वानुपपत्तेः ।
सत्त्वनष्टत्वे परस्परं विरुध्येते, ते चैकत्र प्रतिसन्धाने न स्त इति चेत्? एवं तर्हि पद्रागमणिरप्युत्पत्तेरारभ्य स्वावयवविभागपर्यन्तं सत्स्वरूपः ।
नास्य नष्टत्वसंसर्गः ।
स एव तु सता केनचित् संसृष्टः केनचिदसता प्रतिसन्धानमिव सदसभ्द्यां विषयाभ्यामिति ।
तन्नास्ति विरुद्धधर्मसंसर्गः ।
ततः परिमाणभेदादयो विरुद्धधर्मसंसर्गा वक्तव्याः ।
ते यत्र पद्मरागादौ न सन्ति तत्रौत्सर्गिकमेकत्वमेवेति समः समाधिरित्यभिप्रायेण देशमन्तर्भाव्योपसंहरति–तस्मादिति ।
न चान्यस्य सम्बन्धिनः कालस्य भेदो विरुद्धधर्मसंसर्गः अन्यस्य पद्मरागमणेर्भेदं नानात्वम् ।
न चेन्द्रियेति ।
यदि विकल्पजातीयं प्रतीन्द्रियार्थसन्निकर्षो न कारणं
व्यभिचारादिति परस्याभिप्रायस्तदानुज्ञैवोत्तरम् ।
न हि वयमपि विकल्पमात्रं प्रति तस्य कारणत्वं ब्रूमः, किं तु साक्षात्कारिविज्ञानं प्रति ।
न चासौ इन्द्रियार्थसन्निकर्षमन्तरेणापि भवतीति सारम् ।
निर्विकल्पकप्रतिबन्दिग्रहस्त्विममर्थं सुखेन ग्राहयितुम् ॥
स्यादेतत् ।
विकल्पस्योभयथासम्भवे हि सामान्यव्यभिचाराद्विशेषमादाय कार्यकारणतावधारणं स्यात् ।
न तु साक्षात्कारादिरस्य विशेषो ऽस्ति, औपाधिकत्वात् तस्येति आशड्क्य निराकरोति—न च विकल्पगत इति ।
विकल्पगतः साक्षात्कारलक्षणो धर्मस्तावदनुभूयत इत्यविवादम्, तस्यौपाधिकत्वं न तावदानुभविकमित्याह—सर्वा
एव हीत्यादि ।
तस्माद् दर्शनव्यापारा विकल्पा इन्द्रियार्थसन्निकर्षजन्मान इति योजना ।
नाप्यौपपत्तिकम्, उपपत्तेः प्रागेव निराकृतत्वादित्याशयः ।
नन्विन्द्रियविषय एव यदि शब्दो ऽपि प्रवर्तेत, सो ऽपि साक्षात्कारिणमेव विकल्पमादध्यात्, इन्द्रियमपिचोत्प्रेक्षाव्यापारिणम्, विषयविशेषमन्तरेण ज्ञाने विशेषाभावात् ।
तस्माद् शब्दैकविषयतया प्रवर्तमानो विकल्पो नेन्द्रियविशयं स्पृशति, तदस्पर्शे च न स्वाभाविकमस्य साक्षात्कारित्वमित्याशनयवानाशड्क्य निराकरोति—न च शब्देति ।
एकत्रार्थे इन्द्रियं कारणम् अन्यत्र तन्निरपेक्षः शब्दादिरित्यर्थः ।
तुच्छतयोपेक्षणीयमपि शिष्यहिततया दूषयति—न च वह्नीति ।
वह्निज्ञानादुष्णज्ञानादित्यर्थः ।
शीतद्रव्यापगमः, तदपगमे वा तदनुपलम्भः, तद्धेतुकदुःखाभावो वा शीतापनोद इत्युच्यते, स चोष्णद्रव्योपगमसाध्यो न तु तदुपलम्भसाध्यः ।
अन्यथा सन्निपातमूढस्य स्वेदने ऽपि दोषापगमो न स्यात्, उष्णद्रव्यानुपलम्भात् ।
तुहिनाचलगुहामध्यवर्तिनि च सर्वज्ञे वडवानलसाक्षात्कारवति तुहिनाचलविलयः स्यादित्यर्थः ॥
यस्यापीत्यादिवार्त्तिकार्थं दूषयति—न चैकेनेति ।
उपाधयः सत्त्वादयस्तैः विशिष्टत्वं तैर्विशेषणैः सम्बन्धः ।
अयमर्थः ।
एकेनैव स्वभावेन तावदुपकरोति सर्वोपाधीनामिति परमार्थः ॥
तत्रोपकारकस्यैकस्वभावतया उपकाराणामवच्छेदानामुपकार्याणां चोपाधीनां तदैकत्वं स्यात्, यद्युपकारस्वभावान्तर्भूतत्वं तेषामभ्युपेयेत, न चैवमातिष्ठामहे ।
त्वयाप्येवमेव समर्थनीयं किं त्वलीकविषयतयेति विशेषः ।
स एष न्यायो यदि परमार्थसत्यपि स्यात्, कीदृशो दोषः? न केवलं काल्पनिके व्यवहारे तवेदं समर्थनमपि तु पारमार्थिके ऽपीत्याह—अपि चेति ।
परमाणुस्वभाव इति षष्ठतत्पुरुषः ।
परमाणवो ज्ञानस्य स्वभाव इत्यपि द्रष्टव्यम् ।
परमाणुस्वभावत्वे ज्ञानस्यापि नानात्वप्रसड्गात् ।
तथा चैकेकपरमाणुनियमे स्थूलप्रतिभासो भ्रान्तो ऽपि न स्यात् ।
ज्ञानस्वभावत्वे ऽपि च परमाणुनामप्येकत्वप्रसड्गादमूर्तत्वादिप्रसड्गाच्चेति स एव दोष इत्याद्युत्तानं दूषणमुत्सृज्य अन्यमाह—तेषां सर्वान् प्रतीति ।
परमाणूनामेकज्ञानस्वभावत्वे वा न ते द्वितीयेन विदिता स्युरित्यपि द्रष्टव्यम् ।
यद्यपि तादात्म्याभावे ऽपि ज्ञानज्ञेययोः कार्यकारणभावः सम्बन्धो विषयविषयिनियमार्थं बौद्धेन स्वीकृतस्तथापि कार्यकारणभावे ऽपि को नियन्तेति तुल्यो ऽनुयोगः ।
अतः स्वभावेनैवोत्तरयति—स्वभाव एवेति ॥
भावाभावयोः समवायतद्वतोर्विषयविषयिणोश्च वयमपि स्वभावेनैव परस्परोपहितं सम्बन्धमातिष्ठामहे ।
द्रव्यगुणकर्मजातितद्वतां यद्यपि स्वभावेनैवोपाध्युपाधिमभ्दावः, तथापि सम्बन्धो ऽप्यनुभूयमानो विना बाधकं नोपेक्षितुं युज्यते ।
यथा स्वभाविके विषयविषयीभावे कार्यकारणभावस्त्वया नोपेक्षितः, तस्मादतिरिक्तसम्बन्धे क्षणभङ्गसाधनं बाधकमवशिष्यत इत्यर्थः ॥
न तावद्विशिष्टव्यवहार एव नास्ति, तस्य स्पष्टतया निह्नोतुमशक्यत्वात् तदभावे सर्वव्यवहाराभावप्रसड्गाच्च ।
तस्मादस्मदुक्तप्रकारेर्ष्यया प्रकारान्तरेणायमुपपादनीयः ।
तत्राह—भिन्नज्ञानागोचरत्वे ऽपीति ।
अपिशब्छः चोद्याभासतुल्यतामात्रेण ।
नन्वस्ति व्यवहारो न तु वास्तवः, स च
यथाकथञ्चिद्वासनाद्वारेणापि निर्वहेत्, येषां त्वयं वास्तवः, तैरर्थद्वारैवास्य निर्वाहश्चिन्तनीय इन्याशङ्कते–ताभयामिति ॥
त्वदुक्तमेव वासनाद्वारमुपादाय येति वास्तव एवायं व्यवहारः स्यात्, तदा कीदृशो दोष इत्याशयवानाह–अस्तु तावदिति ।
तथापि वास्तव एवायमित्यत्र किं प्रमाणमित्यत आह—तथा सतीति ।
अस्येन्द्रियार्थसन्निकर्षजत्वे स्वाभाविकं साक्षात्कारित्वमेव प्रमाणमित्यर्थः ।
निर्विकल्पकोपधानं कल्पेत विनाप्रमाणमिति शेषः ।
यदि हि स्वकारणबलेन नोत्पत्तेरविचारकत्वं मानसस्याप्यविचारकत्वप्रसङ्ग
इत्याशयवाना—हन्तेति ।
मनसः सर्वविषयत्वं न तावद् व्यापारानुबन्धितया परस्य विवक्षितम्, इन्द्रियार्थसन्निकर्षस्यापि संस्कारसहितस्य तथाभावव्यवस्थापनात् ।
तस्मात् प्रतिपत्त्यनुबन्धितया वा स्यात्, सर्ववासनाधारतया वा? आद्यं दूषयति–यदि पूर्वकमिति ।
अस्माकं तु मनः सर्वविषयकमपि न प्रतिपत्त्यनुबन्धितया असर्वविषयमप्रतिपत्तिरूपत्वात् इति भावः ।
न च सकलसंस्काराधारतयेत्याह–अचेतनतया न विचारकम् इति ।
विचारौपयिकसकलवासनानाधारत्वादित्यर्थः ।
त्वदभिप्रेतस्य च मनसः सकलवासनाधारकत्वं निषेत्स्यत इत्यनेनाभिप्रायेणाह–तस्मादात्मैवेति ।
स्थितं ज्ञानं ज्ञानवासनेत्यर्थः ।
अत्र हेतुः–स हि बौद्धेति ।
अत्र
प्रमाणम्–गम्यत इति ।
अतः स्मरणे ऽस्य सामर्थ्यम् ।
चो हेतौ ॥
ननु यद्येवम्भूतचेतनाधिष्ठितमिन्द्रियम्, तर्हि निर्विकल्पकोत्पत्तिकाल एव लब्धसस्कारसचिवतया विकल्पमेव जनयेदित्यत आह–स खल्विति ।
प्रागालोच्य उद्बुद्धसंस्कारसमुपजातस्मृतिसहायः पश्चाद् विकल्पयतीति योजना ।
एवं तर्हीन्द्रियार्थसन्निकर्षादालोचनम्, संस्कारोद्बोधः, ततः स्मृतिः, तत्सहायश्च विकल्पयतीति न चक्षुषः कश्चिदुपयोग इत्यत आह–चक्षुषेति ॥
नन्वेवम्भूता सामग्री मिलितापि यदि चक्षुर्व्यापारविरहे न विकल्पिकां धियम् उपजनयेत्, ततस्तस्यापि कारणत्वं कल्प्येत, नत्वेतदस्तीत्यत आह–गौरयमिति ।
एतेन साक्षात्कारं प्रति तस्यान्वयव्यातिरेकौ स्त इति दर्शितम् ।
एतदेवाभिप्रेत्योत्तरश्लोकमाह–यथाहेति ।
सह चेतनया वर्तत इति सचेतनः ॥
तथापि क उपकारः समर्थित इत्यत आह–तेनेति ।
ज्ञाप्यज्ञापकभाव इत्युपलक्षणम्, कार्यकारणभावो ऽपि न सर्वत्रास्तीति द्रष्टव्यम् ।
क्वचित्तु द्रव्यगुणकर्मणाम् अस्तीति नोदाहृतः ।
तदर्थालोचनानुगतं स्मरणं ययोस्ते विशेषणविशेष्ये तथोक्ते तयोः ।
अतदधिकरणव्यवच्छेदप्रतीतिजननमेव विशेषणेन विशेष्यस्योपकार इत्यर्थः ।
यद्यपि स्वाभाविको विशेषणविशेष्यभावो नोपकारमपेक्षत इति तत्र तत्र वक्ष्यति ।
न चोपकार्योपकारकभावो ऽप्युपकारान्तरप्राप्तः, तथा सत्यनवस्थापातात् ।
तथापीह सम्भवप्राचुर्येणाभिधीयत इति मन्तव्यम् ॥
ननु यदि स्वाभाविकमनयोर्विशेषणविशेष्यत्वम्, प्रथमतः स्वभावे गृह्यमाणे किं न गृहीतम्, न च स्वभावस्तदानीं न गृहीत इत्यत आह–अर्थौ हीति ।
न खलु रूपपरमाणुषु स्पर्शादिपरमाणवो ऽपि स्वभावतः स्थिता इत्येतावतैव प्रतीतिपथमवतरन्ति ।
सामग्र्यभावान्न तथेति चेत्? स इहापि समान इत्यर्थः ।
अत एव प्रमाणं कृत्स्नवृत्तीति मत्वा यदापादितम्, तदपि नास्तीत्यत आह–तेनेति ॥
स्वरूपाभिप्रायेण कृत्स्नवृत्तित्वं प्रमाणस्यानुमन्यामहे एव, स्वाभाविकसमस्तसम्बन्धाभिप्रायेण तु सर्वज्ञेतरधियामप्रामाण्यमापादयतीति उपसंहारं स्थाने सङ्कलय्याहा—सविकल्पकं त्विति ।
पश्चादपि जायमानमिति योजना आलोचनादिति शेषः ।
तस्मात् सर्वं तुल्यम् ।
क्षणभड्गे परं विवादो ऽवशिष्यत इत्याशयवानाह—अक्रमस्यापीति ।
विवादाध्यासिता इति ।
साक्षात्कारिण इत्यर्थः ।
तेन तदितरव्युदासः ।
सिद्वसाध्यताव्युदासार्थं स्वगोचर इति ।
पीतः शड्ख इत्यादिना व्यभिचारनिवृत्त्यर्थम् अव्यभिचारित्वे सतीति ।
अत्र च कृतः प्रयत्नः ॥
न चैतन्मन्तव्यमिति भाष्यमिति इन्द्रियार्थसन्निकर्षमन्तरेणापि संशयोत्पत्तिदर्शनात् अतत्कारणतया प्रसङ्ग एवास्य नास्ति ।
कुतो ऽन्वाचीयमाने ऽपि व्युदास इति पूर्वः पक्षः ।
यद्यपि न सवः संशयः इन्द्रियार्थसन्निकर्षजस्तथापि साक्षात्कारवानवश्य तज्जन्यः ।
तस्माद् व्युदासो ऽन्वाचीयत इति प्रकारणार्थः ॥
स्यादेतदित्यादि ।
मन एव केवलमिन्द्रयनिरपेक्षं बहिर्व्याप्रियमाणं साक्षात्कारिसंशयादि जनयति, दृष्टो
ह्यस्यानुव्यवसीयमानज्ञानविशेषणे घटदौ व्यापारः, इन्द्रियव्यापारविगमे ऽपि सौदामिनीसम्पातादौ सकृदुपजातस्यार्थनिश्चयस्य समन्धकारे ऽप्यनुव्यवसीयमानत्वात्, तस्य चानुव्यवसायस्य साक्षात्कारिजातीयत्वात् ।
तस्मात् अप्रसङ्ग एव पुनरापतित इति ।
मनसा ह्यनुव्यवसीयमानज्ञानलक्षणविशेष्यसन्निकृष्टेन असन्निकृश्टो घटादिरवच्छेदकतया व्यवसीयते ।
चक्षुषेव घटसन्निकृष्टेन प्रागुपलब्धा तदवस्था ।
संशयज्ञानं तु नोर्ध्वार्थोपलब्धिविषयम्, नापि स्थाणुपुरुषस्मृतिविषयम्, किं त्वनिर्धारितस्थाणुपुरुषत्वोर्ध्वपदार्थविषयम् ।
न च तत्सन्निकृष्टं मनः ।
बाह्येन विशेष्येणाप्यसन्निकृष्टं मनः कथमिव ज्ञानमुत्पादयेत्? उत्पादने
वान्धबधिरादेरप्युत्पादयेत् इति सिद्धान्तः ॥
तत्पूर्वं व्यवसायोत्पत्तौ ।
स्वविषयप्राप्तिसम्पत्तय इति शेषः ।
तथा च संशयज्ञानोत्पादे ऽपीति सहकारितयेति शेषः ।
अव्यापकत्वेनेत्यादि चोदयति पार्श्वस्थः ।
परिहरति पूर्वपक्षी ।
पुनः पार्श्वस्थस्य शड्का मा भूदिति ।
अत आहेति ।
पूर्वपक्षी ।
न च सुखादौ प्रमाणान्तरमस्ति ।
प्रत्यक्षं विहायेति शेषः ।
संवेदनत्वे हि तेषां स्वसंवेदनता शड्कास्पदमपि स्यादिति शेषः ।
नन्विन्द्रियस्य वै सत इति वदतो भाष्यकृतो मनस इन्द्रियत्वमिष्टमेवेत्यत आह—न च तदिति ।
मनस इन्द्रियत्वाभ्युपगमो वात्स्यायनीये गौतमीयसूत्र विरुद्ध इत्यर्थः ।
मा भूद् विभागपरमिदं सूत्रम्, तथापि सूत्राकारस्य मन इन्द्रियं यद्यभिमतमिन्द्रियप्रकरण एव लक्षयेदित्यत आह—तत्र चेति ।
इन्द्रियत्वेन तत्प्रकरण एवाभिघाने प्राप्ते यदन्यत्र करोति तेनाधिकमस्य किञ्चिद् रूपं विज्ञेयमिति सूचयति, न त्विन्द्रियत्वमेव न सहत इत्यर्थः ।
दर्शयिष्यति हि वातिककार इत्यागामिका फक्किका भ्रमनिरासार्थं भूताभूतेति ।
शब्दो ऽत्र दुष्टो, न त्वभिप्राय इति ।
उपलक्षणं चैतत् ।
सगुणानां चक्षुरादीनामिन्द्रियभावो, मनस्तु न सगुणमिन्द्रयमित्यत्रापि यो विशेषगुणो येनेन्द्रियेण गृह्यते तज्जातीयेन गुणेन सह वृत्तिः सगुणत्वम् ।
ग्राह्यविशेषगुणजातीयविरहश्च मनस इति यद्यभिप्रेतं भाष्यकृता तदैतदपि वैधर्म्यमेव, किं त्वेभिरक्षरैरेतदप्यभिधातुं न शक्यते ।
विभक्तिविपरिणामेन तु भाष्यं सुगमम् ।
तथा हि, इन्द्रियभूतानामेषां सगुणत्वं ग्राह्यैर्गुणैः सह सम्बन्धश्चक्षुरादीनाम् ।
मनसस्त्विन्द्रियमूतस्यैव न सगुणत्वम्, न ग्राह्येन गुणेन सह सम्बन्ध इति ।
तस्मादत्रापि शब्ददोषः, न त्वभ्रिपायदोष इति मन्तव्यम् ॥
नन्वनभिमतनिषेधेन मतसुन्नेष्यत इति शङ्कते—न चेति ।
निराचष्टे–अभावस्येति ।
यावदनभिमतनिषेधेनाभिमतलाभे गरीयो गौरवमापद्येत, तत्तन्निषेध्यम् अनुपनीय निषेधस्य प्रतिपादयितुमशक्यत्वात् ।
विशेषविधौ तु शेषनिषेधो लघीयानिति भावः ॥
सत्राकारवचनस्य विवादास्पदत्वात् कथं तेनैव निर्णय इत्यत आहेति पूरयति भाष्यकार इति ।
शाब्देत्यनेन शब्देन्द्रियसमाहारजमयमसावश्व इति ज्ञानं व्यवच्छेद्यमभिमतं वार्त्तिककृत इति केषाञ्चिन्मतमपनयति—न खल्विति ॥
वाच्यत्वेन हि विशेषणतया गृहीतेन निशेष्यनिष्ठेन भवित्वयमतः केवलवाच्यत्वप्रस्तावे ऽपि तथैवोदाहृतम् ।
इन्द्रियव्यतिरेकव्यभिचाराच्च तद्व्यतिरेको न शड्कितः ।
गृहीते ह्यश्वत्वे तदसन्निकर्षे ऽपि यो ऽयं पिण्डस्त्वया दृष्टो ऽयमसावश्व इत्युपदेशात् केवलादेव वाच्यत्वप्रतीतिदर्शनात् ।
नस्मादिन्द्रियस्य सम्बन्धिसमर्पण एव व्यापारः ।
एवमुत्तरत्रापि तव्यार्थः सड्केतयितुरभिप्रायविशेषः ।
यद्यपि पराभिप्रायस्तदुपहितो वार्थो नेन्द्रियगोचरः, तथाप्यभ्युपगम्याशङ्कते—अथायमपीति ।
इदमैन्द्रियकमिदम् अतीन्द्रियमिति हि साक्षात्कारासाक्षात्कारोन्नेयो ऽयमर्थः ॥
तत्र स्पष्टग्रहणरूपत्वात् साक्षात्कारापरव्यपदेशादैन्द्रियकमेतदिति युक्तं स्यात्, न त्वसाक्षात्कारादपि ।
तयोश्च को ऽत्र मनसा वेद्यत इति भवानेव परिभावयतु ।
तत्र साक्षात्कारित्वपक्षे प्रत्यक्षमेवेदमतो न व्यवच्छेदनीयम्, असाक्षात्कारित्वपक्षे च नेदम् ऐन्द्रियकमिति प्रथमपदेनेव व्युदस्तम् ।
नाव्यपदेश्यपदस्यावकाश इति गाथापाठस्यार्थः ॥
किमर्थं तर्ह्यव्यवदेश्यपदम्, कश्चास्य वार्त्तिकस्यार्थ इत्यत आह—व्यवसायात्मकपदेन त्विति ।
एकपदपरिग्रहं स्फुटं मन्वानो ऽपि द्विपदपरिग्रहं व्याचष्ट—द्विपदेति ॥
उत्तरप्रबन्धोपयोगं दर्शयन्नाह–तदेवमिति ।
लक्षणमिदमनुमानम् ।
तच्च तदाभासाद् विवेकेन सुगमं भवति ।
स च तदाभासेषु आविष्कृतेषु भवतीत्याशयवतः अयमारम्भ इत्यर्थः ।
ततोर्ऽथादित्यत्र हि पञ्चम्या हेतुत्वमर्थस्य विज्ञानं प्रतिदर्शितम् ।
तत्परश्च एवकारः एवं सम्बध्यते–स व्यपदेशकोर्ऽथो हेतुरेव यस्य न पुनरहेतुरपि तद्विज्ञानं प्रत्यक्षमिति ।
एवं चायोगव्यवच्छेद एव ।
तथाप्यन्ययोगव्यवच्छेदो ऽपि वार्त्तिककृता निराकर्तव्य इति व्याख्यायामुभयं दर्शितवान् ।
यदि तत एव तभ्दवति, नार्थान्तरादित्यव्यपदेशकादित्यतो न विरोधः ॥
नन्वनुमानविशेषस्तावत् कश्चिदव्यपदेशकादेवोत्पद्यते ।
ततो न तस्य व्युदासः कृत इत्यत आह–ततोर्ऽथादित्यत्र हीति ।
प्रत्यक्षजातेरिदं लक्षणम् ।
तस्याश्च प्रतियोगिन्यनुमानादिजातिरेव, तथा च तस्या एव
जातेर्व्यवच्छेदो विवक्षितः ।
स चैतावतैव सिद्ध इत्यर्थः ॥
यत्रैव यज्जातीय एव ।
तदयोगस्तस्य व्यपदेशकस्य हेतुत्वेनायोगस्तदप्रत्यक्षमिति ।
तेन व्यपदेशो हि तदुपाधिकं निरूपणमि विवक्षितम् ।
न च ज्ञानं कर्त्रा करणेन वा निरूप्यते, अपि तु कर्मणैवेत्यर्थः ।
अभिधानापर्यवसानात् शब्दव्यापारापर्यवसानात् ।
तच्छब्दस्य पूर्वप्रक्रान्त एवार्थे सड्केतितत्वात्, तदनभिधाने ऽवाचकत्वप्रसड्गादिति भावः ।
पूर्वप्रक्रान्तश्च व्यपदेशक एव ।
स चार्थ एवेति विशेष्यः प्राप्यते, नान्तरीयकत्वादित्यर्थः ।
नैवं वार्त्तिकमित्यत आह—अभ्युपेत्य त्विति ।
अनुमानादिव्युदासार्थं ह्ययोगव्यवच्छेदः ।
स
चान्ययोगव्यवच्छेदे ऽपि सिध्यतीत्यर्थः ॥
नन्वन्योगव्यवच्छेदो ऽशक्य एव, इन्द्रियादेरव्यपदेशकस्यापि तत्कारणत्वादत आह–अन्यव्यवच्छेदे ऽपीति ।
इन्द्रियादयो ह्यव्यपदेशका अपि व्यपदेशकाधिपत्येनैव ज्ञानजनका इत्यविरोधितया न ते व्यवच्छेद्याः ।
लिड्गादयस्तु व्यपदेशकाधिपत्यनिरपेक्षतया तद्विरोधिन इति त एवान्ये व्यवच्छेत्तव्या इत्यर्थः ॥
ननु सर्वं च स्वविषयादिति वार्त्तिकमसङ्गतमेव, स्मृत्यनुमितिभ्रान्तीनां स्वविषयापनुत्पत्तेरत आह–यत्संवृतित्वेनेति ।
ननु भ्रान्तिज्ञानमपि न व्यपदेशकम् अन्तरेण भवति, तत् कुतश्चोद्यमतस्मादपीत्यत आह–पुरोवर्तीति ।
अतस्मादपीत्यत्र यद्यपि न श्रूयते, तथापि व्यपदेशकादपि न भवतीति बोद्धव्यमित्यर्थः ।
तदिदमुक्तम्–येन विशेषरूपेण तस्य व्यपदिश्यते न ततस्तभ्दवतीति ।
तस्माद् यत्तत एव भवति ततो भवत्येवेत्यर्थः ।
अततश्च न ततश्चेत्यर्थः ॥
ननु व्यपदेशकादनुत्पत्तेरित्यव्यपदेशकादुत्पत्तेरिति वा चोद्यमुपक्राभ्याशक्ते रजतात् नोत्पद्यत इति वाक्छलमात्रामित्यत आह–न ह्यतस्मादारोपिताद् रूपादिति ।
अयमर्थः ।
मिथ्याज्ञाननिरासो ह्यन्ययोगव्यवच्छेदेन वा, अयोगव्यवच्छेदेन वा? न तावदाद्यः, अन्ययोगव्यवच्छेदस्य तत्रापि भावात् ।
तदा हि स न स्यात् ।
यद्यव्यपदेशकस्यैव, वणिग्वीथ्यां स्वतन्त्रस्य रजतस्य हेतुत्वं स्यात् ।
न चैतदस्ति ।
तदिदमुक्तम्–न ह्यतस्मादारोपितात् तत्रासतस्तन्मिथ्याज्ञानं भवति ।
नापि द्वितीयः, व्यपदेशकस्य हेतुत्वादेव ।
रजतं व्यपदेशकं न हेतुरिति चेत्? कथं पुना रजतं व्यपदेशकं स्वातन्त्र्येण पुरोवर्त्यात्मना वा? न तावदाद्यः,
सामानाधिकरण्यानुपपत्तेः, स्वमिथ्यात्वप्रसड्गाच्च ।
पुरोवर्त्यात्मना च प्रत्यन्तरे तद् भवति व्यपदेशकम् ।
स च पुरोवर्त्यात्मा हेतुरेवेत्ययोगव्यवच्छेद एव ।
तदिदमुकम्–आरोपितं तु रजतमस्य विषयो दृश्यमानाकारतयेति ।
अयं त्वभिप्रायः स्यात्, यादृशाकारेण व्यपदेशकोर्ऽथः तादृशादुत्पन्नं ज्ञानं प्रत्यक्षमिति ।
न त्वयं लक्षणपदानामर्थः ।
न चाभिप्रायविशुद्धिमात्रेण परः प्रतिपादयितुं शक्यते, प्रत्यभिज्ञास्वसंवेदनाव्यापकत्वाच्च ।
एतच्च जैमिनीये स्फुटीभविष्यति ॥
तदेतल्लक्षणमाभिप्रायिकमप्यस्मन्नये कदाचित् सम्भाव्येत, त्वन्नते तु विरुद्धमसिद्धं चेदमुक्तं वार्त्तिककृता ।
तदेतद् व्युत्पादयति–यद्यप्येतदिति ।
व्यपदेशको ह्यर्थो वर्तमानतया सर्वत्र प्रत्यक्षस्य विषयः ।
स चेद्धेतुरेवैवमतीतः स्यात् ।
तथा च प्रत्यक्षत्वे साध्ये ऽप्रत्यक्षत्वमेव सिध्यतीति भवति विरुद्धत्वमित्यर्थः ।
अथ वर्तमान एव व्यपदेशकस्तदा समानकालतया ततोर्ऽथादित्यसिद्धमाह–तत्समानेति ॥
यत्तु केनचित् प्रलपितम्–अपरोक्षज्ञानावभासितैव वर्तमानतेति, तत् तुच्छमित्युपेक्षितवान् ।
तथा ह्यपरोक्षैकसर्वज्ञविज्ञानावभासितया सर्वेषामर्थानामेककालत्वात् सव्येतरगोविषाणवत् कार्यकारणभाववार्तैवोच्छिद्येत ।
पूर्वोक्तश्चानुयोगस्तदवस्थ एवेति ॥
भिन्नकालं कथं ग्राह्यम्
इत्यादिना कार्यकारणभावविशेष एव ग्राह्यग्राहकभावः ।
स च भिन्नकालयोरेव भवतीति स्वभाषया समर्थितं परेण ।
न च वयं भिन्नकालयोः कार्यकारणभावविशेषम् अवजानीमहे; किं त्वतीतस्य वर्तमानतयावभासनं तस्य वा सत्यत्वम् ।
न च तदनेन समर्थितमित्यर्थः ॥
ननु ज्ञानाकारार्पणक्षममिति वदतैव समर्थितमेतत् ।
अनेने हि न प्रतिभासमानतयार्थो ग्राह्य इति व्यवह्नियते ।
किं नाम? आकारार्पकतयेति दर्शितम् ।
आकार एव त्ववभासममानतया ग्राह्यः, स च ज्ञानात्मभूततया वर्तमान एवेति न कश्चिद् विरोध इत्यत आह–अनहड्कारेति ।
विज्ञानाद् भिन्नस्य नीलादेरनुभवो
यदि सत्यो, न ज्ञानगताकारवेदनम् ।
असत्यश्चेन्न प्रतयक्षं प्रमाणमिति सेयमुभयतः पाशा रज्जुरित्यर्थः ॥
अपि च भवत्वाकारवेदनम्, भवतु वार्थस्याकारार्पकत्वं वा , तथापि
ततोर्ऽथाद्विज्ञानं प्रत्यक्षम्
इत्यसिद्धं लक्षणम् ।
तथा हि प्रतिभासमानस्यैव ज्ञानं व्यपदिश्यते, न त्वप्रतिभासमानस्य ।
आकारश्च प्रतिभासने न तु जनको ऽप्यर्थः ।
तस्माद् व्यपदेशकोन जनकः, जनकश्च न व्यपदेशक इति ॥
अत्र शङ्कते—न चेति ।
प्रतिभासमानाकारद्वारार्थो व्यपदेशको जनकश्चेत्यपि न चेत्यर्थः ।
कुतः?
भाक्तत्वप्रसड्गात् ।
किमतो यद्येवमित्यत आह—न च गौणमुख्येति ।
यथा ह्यविनाभावमन्तर्भाव्यैव गड्गाशब्दस्तीरे, लक्ष्यमाणगुणयोगमन्तर्भाव्यसिहशब्दो माणवके वर्तते, न तथा धूमप्रत्यक्षमग्नौ सिंहप्रत्यक्षं माणवके, प्रमाणान्तरोच्छेदप्रसड्गादित्यर्थः ।
तदिदमुक्तम्–भिन्नप्रस्थानत्वादिति ॥
एतेनैतदपि निरस्तम्, यदाहुः–प्रत्यक्षसिद्धेनाकारेण अर्थो ऽनुमीयत इति फलतः प्रत्यक्षोर्ऽथ इति ।
अनुमीयत इति कोर्ऽथः? अनुमितौ परिस्फुरतीति, तच्च बौद्धनये स्वप्ने ऽपि दुर्लभम्, अनुमितेरपि स्वाकारालीकयोरेवान्यतरस्मिन् पर्यवसितत्वात् ।
यश्च सर्वथैव ज्ञानागोचरः स व्यवह्नियत इति कुतः? तस्मादाकारवादपक्षेबाह्योर्ऽथो हेयः, तदभ्युपगमे वा आकारवाद इत्यनेनाभिप्रायेणाह–तस्मान्निराकारमिति ॥
शङ्कत इति ।
न हि किञ्चिद् वस्तुभूतं वाच्यं नाम सौगतानां समस्ति, लक्षणवाक्येन तु व्यवहारमात्रं प्रसाध्यते, स चातद्व्यावृत्तिनिष्ठ इत्यर्थः ।
ज्ञानस्य कल्पनापोढस्य प्रत्यक्षतया व्युत्पाद्यमानस्य कथं सर्वेर्ऽथा प्रत्यक्षतया प्रसज्येरन्नित्यत आह–न हीति ।
दिग्नागस्यातिव्यापकतया अलक्षणम्, कीर्तेस्त्वव्यापकतया विकल्पप्रत्यक्षानवरोधात्, तस्य च प्रत्यक्षतया व्युत्पादनात्, अनिष्टमात्रस्यातिप्रसञ्जकत्वादिति सिद्धान्तः ।
स्वदर्शनसमाधित्सया वार्त्तिकमिति दर्शयितुं चोदयति–ननु यदीति ।
सामान्यान्वितम्, अभिधीयत इति वार्त्तिकशेषः ।
मनुष्यत्वजातिमानित्यर्थ इति ।
मनुष्यशब्दस्य ब्राह्मणो ब्राह्मणत्वादिजातिमत्तया अवाच्यो ऽपि मनुष्यत्वजातिमत्तया वाच्य एवेत्यर्थः ॥
पौनरुक्त्यं परिहरन्नाह–अथाश्चकर्णेति ॥
ननु व्यत्यये ऽपि सत्सम्प्रयोग इति स्यात्, न तु तत्तच्छब्दस्य प्रकृततया विषयः कश्चिदस्तीत्याह–बुद्ध्येति ।
यद्यपि प्रत्यक्षज्ञानमप्यनेन लक्षणेन स्वात्मनि प्रत्यक्षं न स्यादेव, तथापीन्द्रियार्थसन्निकर्षजन्यत्वमात्रं तावत् तत्राप्यस्तीति कदाचित् परो ब्रूयादित्यत आह–अनुमानादीति ।
एतेन ततोर्ऽथादित्यस्याभिप्रायशेषो दूषितः, प्रत्यभिज्ञानस्वसंवेदनयोरव्यापकत्वादिति
॥ ४ ॥
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥१।१।५ ॥
॥ परिशुद्धिः ॥
सूत्रं पठति ।
व्याख्यातुमिति शेषः ।
सूत्रावतारमात्रमसहमानं प्रत्याह—अत्रेति ।
साधर्म्येण हि नियमवतेति
शेषः ।
उपलक्षणं चैतत् ।
वैधर्म्येणेत्यपि द्रष्टव्यम् ।
अप्रामाण्यविधानं प्रामाण्यनिषेध एव ।
नाप्रत्यक्षं प्रमाणमित्यनेन हि विशेषनिषेधेन कण्ठतः अनुमानप्रामाण्यनिषेधोर्ऽथतः प्रत्यक्षप्रामाण्यविधिश्च विवक्षितः ।
न चैतदुभयमपि प्रमाणम् अन्तरेण सिध्यति ।
न चात्र प्रत्यक्षमेव प्रभवतीति चिन्तितमादिवाक्ये ।
नापि शब्दोपमाने, स्वप्रत्यये तयोरनवकाशात्, परप्रत्यये ऽपि धर्म्यसिद्धेः ।
सिद्धावपि परस्याप्तत्वानिश्चयात् ।
तस्मादतीन्द्रियविधिनिषेधयोरनुमानमनड्गीकृत्याशक्यत्वादशक्यापह्नवमनुमानमित्यर्थः ।
दृष्टसाधर्म्यं च नियतमिति शेषः ।
कथं तेनैव तस्याप्रामाण्यमिति व्याघातमात्रं विवक्षितम्? तेनायमर्थः—यद्यनु मानमप्रमाणम्, कथं तेनैव विधिनिषेधसिद्धिः? अथ तेन विधिनिषेधसिद्धिः, कथं तस्याप्रामाण्यमिति? किं चानुमानमनड्गीकृत्य परप्रत्यायनाय शब्दप्रयोगो ऽप्ययमशक्यः—परवेदनप्रतिपत्तेरव तदन्तरेणाशक्यत्वात् ।
न चेत् परप्रत्यायनम्, नूनमौन्मत्त्यमाविष्करोति वक्तुरित्याह—अपि चेति ॥
सूत्रे विभागो ऽप्यस्तीति व्यवच्छिद्याह–लक्षणसूत्रतात्पर्यमाहेति ।
स्यादेतदतिव्यापकमिति ।
अत्राव्यापकं चेत्यपि द्रष्टव्यम्, अत उभयव्युत्पादनोपसंहारविरोधः ।
विग्रहत्रयप्रदर्शनं विग्रहत्रयं द्रष्टव्यमित्यर्थः ।
व्याप्तिस्मृतिसहायाद् द्वितीयलिङ्गदर्शनादेवानुमितिसिद्धेरलं तृतीयलिङ्गदर्शनकल्पनयेति यथाश्रुतभाष्यानुसारिणः तान् रिस्यति न चेति ॥
स एष संस्कारोद्बोधमधिकमभ्युपगच्छतो दोष उक्तः ।
यस्तु सहकारिलाभादन्यो न कश्चिदुद्बोधो नामेति मन्यते, तं प्रत्याह–विनश्यदवस्थस्येति ।
न हि व्याप्तिस्मरणमात्रादनुमितिः, नापि लिङ्गदर्शनमात्रात् ।
किं तर्हि?
व्याप्तिविशिष्टलिङ्गदर्शनात् ।
न च व्याप्तिविशिष्टं लिङ्गमेकैकस्योभयस्य वा गोचरः, किं तु स्वतन्त्रमुभयमुभयस्य ।
न च स्वतन्त्रोभयज्ञाने ऽपि विशिष्टज्ञानं भवति ।
तदिदमुक्तम्–परस्परवार्तानभिज्ञतया स्वतन्त्रस्वस्वविषयपर्यवसिततया ।
मिथो घटनायोगो विशिष्टप्रत्यययोग इत्यर्थः ।
न च स्वतन्त्रमेतदुभयमेकात्मसमवायमात्रेणानुमिति भावयिष्यतीति वाच्यम् ।
द्वितीयलिङ्गदर्शनं हि वसतुगत्या लिङ्गविषयमित्येतावतैव व्याप्तिस्मृतेः सहकारिलिङ्गत्वरूपोल्लेखितया वा? न तावदाद्यः, दूराद् धूमविषयवस्तुत्वज्ञानस्यापि प्रकारान्तरायातव्याप्तिस्मृतिं प्रति सहकारित्वप्रसड्गात् ।
द्वितीयस्तु द्वितीयलिङ्गदर्शने
नास्त्येव ।
तदिदमुक्तम्–वृत्त्या सल्वयं घटयेत्, व्यापारेण न रूपतो नोभयसमवायितामात्रेणातिप्रसड्गादिति ॥
तस्मात् लिङ्गत्वोल्लेखि तृतीयं लिङ्गदर्शनमास्थेयमित्त्याह–तस्मादिति ।
इह तादात्म्यतदुत्पत्तिस्वरूपादिनिश्चये प्रतिबन्धनिश्चयस्तदा न स्यात् यदि ते एव प्रतिबन्धः, ताभ्यां समानोपायो वा प्रतिबन्धः, तयोरेव वा प्रतिबन्धपर्यवसानम्, ते एव वा प्रतिबन्धनिश्चयोपायः ।
तत्रोपायत्वं सहचारावसाये वा, व्यभिचारशड्कानिरासे वा, व्यभिचारशड्काप्युपाधिदर्शनाद् वा, उपाधिशङ्कया वा, भूयो भूयः सहचरितयोः अप्युलब्धयोः कयोश्चिदर्थयोर्व्यभिचारानुसन्धानमात्रेण वेति? तत्र च सहचारावसायः तावदिन्द्रियसन्निकर्षाधीनोत्पत्तिः तदुत्पत्त्यनिश्चये ऽपि वह्निधूमयोः सिध्यति, व्यभिचारशड्कापि दर्शनयोग्योपाध्यधीना योग्यानुपलम्भबाधादेव निरस्ता ।
अतीन्द्रियास्तु उपाधयः अन्यत्र प्रमाणपरिदृष्टाः शड्किता अपि यथा निवर्तन्ते, तथा वक्ष्यामः ।
प्रमाणपथानवतीर्णोपाधिशड्का तु तदुत्पत्तिनिश्चयमप्यास्कन्दतीति कथं सा
तेन निवर्तनीयेत्याह–अत्रोच्यत इति ।
सहचरितयोर्व्यभिचारदर्शनमात्रेण तु व्यभिचारशड्का कार्यकारणयोरपि समाना, तदुत्पत्तिलक्षणविशेषसिद्धौ विपक्षे बाधकप्रमाणवृत्त्या शड्गानिवृत्तिरिति यदि, तदास्माकमपि स्वाभाविकसम्बन्धसिद्धौ विपक्षे बाधकप्रमाणवृत्त्यैव शड्कानिवृत्तिरिति समः समाधिः ।
विशेषस्तु स्वाभाविकसम्बन्धस्य व्यापकत्वम्, अव्यापकत्वं तु तदुत्पत्त्यादेरित्याह–अपि चेति ।
तदिदमुक्तम्–स च यो वा स वेति ।
न च समानोपायत्वादुभयोरन्यतरानिश्चये नान्यतरनिश्चय इति साम्प्रतम्, प्रतिबन्धानिश्चये ऽपि हुताशभस्मनोः कार्यकारणभावावधारणात् ।
कार्यकारणभावानिश्चये ऽपि धामधूमयोः प्रतिबन्धावबोधात् ।
यदनतीतमेव वह्निमनुमिमत इत्याह–अपि च कार्यादिति ।
तयोरेव प्रतिबन्धः पर्यवस्यतीति पक्षं निराचष्टे–अपि च रसादिति ॥
यत्तु भेदे सति व्याप्यव्यापकाभाव एव कार्यकारणभाव एव कार्यकारणभाव इति व्युदपादि प्रज्ञाकरेण तत् पापादपि पापीयः ।
तथा हि नियामकविरहे भिन्नायोरव्यभिचारः शड्काकलड्काड्कितत्वात् दुरवधारण इति तामपनेतुं कार्यकारणभावो ऽनेनोपनीतः, स चेद् रूप एव कथं तन्निश्चयेनैवाव्यभिचारनिश्चयः?
न चैतत् कीर्तेरनुमतं यद् रसेन रूपानुमाने ऽन्यथाभ्युपायमाह–यदि च सर्वलोकसिद्धमतिवाह्य स्वयङ्कृतलक्षणैर्व्यवहारः, तदा भेदे सतीत्येतदपि परिहीयताम् ।
अव्यभिचारमात्रं तदुत्पत्तिरित्येवास्तु ।
लघु चैवं सति लक्षणं स्यात् ।
तदात्मनो ऽपि एतदस्तीति चेत्? अस्तु शिशपापि वृक्षकार्यम् ।
कथं तेनैव तत्कर्तव्यमिति चेत्? को दोषः? असिद्धं सिद्धेन साध्यते, नतु तदेव सिद्धमसिद्धं चेति चेत्? हन्तैवमनागतमपि कथं व्यापकतामात्रेण कारणमसिद्धत्वात्? वर्तमानमपि कथं व्याप्यतामात्रेण कार्यं सिद्धत्वात्? एवं समानकाले ऽपि कथमविनाभावमात्रेण कार्यकारणभूते, असिद्धावस्थायामुभयोरप्यसाधकत्वाविशेषात्, सिद्धावस्थायामुभयोरप्यसाध्यत्वाविशेषात्? तस्मात् पूर्वकालभावनियमः कारणत्वं कश्चाद्भावितानियमः कार्यत्वम् ।
अविनाभावस्तु नियममात्रमित्येव ज्यायः ॥
अपि च रसरूपयोः कार्यकारणभावनिश्चयो वह्निधूमयोरिव प्रत्यक्षानुपलम्भसाध्यो वा स्यात्, क्षणभङ्गसिद्धौ पुञ्जात् पुञ्जान्तरोत्पात्तिरिति न्यायेन वा? आद्यस्तावत् क्षणयोरशक्य एव, तयोरेव प्रत्यक्षानारोहात् ।
तत्र तस्यानिश्चायकत्वात्, सन्तानयोरपि दुरवबोधः ।
न हि वह्नेरिव रूपस्य पूर्वकालतानियमं धूमस्येव रसस्य प्रश्चाद्भावितानियमं लौकिकाः प्रतिपद्यन्ते ।
क्षणभङ्गसिद्धिन्यायस्तु न लौकिक इति वस्तुतो लौकिकानां रसतो रूपानुमानं न स्यादित्याह—लौकिकानां चेदमिति ॥
अपि च इत्यनेन ते एव प्रतिबन्ध इति निरस्तम् ।
तादात्म्यं तु गम्यगमकभावे प्रत्युत विरुद्धमित्याह–अपि चेति ।
न हि तदेव कर्म निश्चेयम्, कर्तृ च स्वनिश्चयेन निश्चायकं च, निश्चितानिश्चितयोः परस्परविरोधादित्यर्थः ।
भवत्वभेदे ऽपि गम्यगमकभावः, तथापि न शिशपात्वेन वृक्षत्वानुमानमनवसरदुस्थात्वात् ।
न ह्यस्ति सम्भवः सामान्यमनिश्चितं निश्चितस्तु विशेष इत्याशड्क्य केनचित् समर्थितम् उत्थाप्य दूषयति—यत्विति ।
भिन्नयोरेव व्यावृत्त्योर्गम्यगमकभावः किं त्वभिन्नाध्यवसेयसम्बन्धात् तयोरपि तादात्म्यं व्यवह्नियत इति ।
स यद्यभिन्नदेवदत्तसम्बन्धात्, छत्रकुण्डलयोरप्यभेदं व्यवहरति को वारयिता? केवलं प्रमाणप्रयोजनयोर्व्यावृत्तिर्लौकिकविरोधश्चेत्यनेनाभिप्रायेणोपसंहरति—तस्मादित ॥
अस्येदं कार्यं कारणमित्येकः सम्बन्धः ।
स्वाभाविकं सम्बन्धमुपसंहृत्य तस्य स्वरूपमाह—तथा हीति ।
स्वाभाविको निरूपाधिरित्यर्थः ।
यद्यपि व्यभिचाराव्यभिचारव्याप्ते औपाधिकत्वानौपाधिकत्वे, ताभ्यां च
व्यभिचाराव्यभिचाराविति नियमः ।
तौ हि न तावन्निर्निमित्तौ सार्वत्रिकत्वप्रसड्गात्, नियतविषयौ चोपलभ्येते ।
नाप्यनिमित्तौ ।
सोपाधेरप्यव्यभिचारे निरूपाधेरपि व्यभिचारे अनियमप्रसड्गात्, , तथा सति कार्यात्मनोरपि कारणात्मव्यभिचारः प्रसज्येत ।
तस्मादुपाधाववश्यं व्यभिचारो ऽनुपाधौ अवश्यमव्यभिचारः ।
व्यभिचारे ऽवश्यमुपाधिरव्यभिचारे ऽवश्यमुपाध्यभावः ।
तथापि यत्र स्फुटो व्यभिचारस्तत्र निष्फलमुपाध्यनुसरणं तदर्थत्वात् तस्य ।
अस्फुटे तु व्यभिचारे तस्योपयोगः ।
न तूपाधितदमावसिद्धये व्यभिचाराव्यभिचारपर्येषणमुपयुज्यते ।
व्यभिचारादिसिद्धौ सत्यामुपाधितदभावपरीक्षाया निष्फलत्वात् ।
तस्मादन्योन्यव्याप्तिप्रदर्शनमात्रप्रयुक्तो व्यभिचारमुद्भाव्याप्युपाधिमाह–यदा त्विति ।
यतो न स्वाभाविको न निरूपाधिकः, ततो न नियतो नाव्यभिचारीत्यर्थः ॥
अथ धूमादीनामपि वह्न्यादिभिः कथं स्वाभाविक इत्यत आह—स्वाभाविकस्त्विति ।
नन्वस्फुटे व्यभिचारे
सफलमुपाध्यनुसरणम् ।
तत् किमत्र नासौ स्फुट इत्यत आह—क्वचिद्व्यभिचारस्यादर्शनादिति ।
ननु क्वचित् कदाचिद् व्यभिचारो ऽपि स्यादयोग्यत्वाच्च न दृश्येतापीत्यत आह—अनुपलभ्यमानस्यापि कल्पनानुपत्तेः, अनुपलभ्यमानव्यभिचारकल्पनाद्वारीभूतोपाध्यभावादित्यर्थः ।
अतो नियतः अव्यभिचारीत्यर्थः ॥
ननूपाध्यभावे ऽनुपलभ्यमानव्यभिचारकल्पनानवकाशः, स एव तूपाध्यभावः कुतस्त्य इत्याशङ्कते—न चेति ।
परिहरति—अवश्यमिति ।
उपाधिर्हि प्रमाणपदवीमवतीर्ण एव वक्तव्यः ।
अन्यथा सर्वैः प्रमाणैः सर्वदा सर्वत्र सर्वेषां जात्या कश्चित् अनुपलभ्यमानो ऽपि स्यादुपाधिरिति शड्का तदुत्पत्तावपि ब्रह्मणाप्यपनेतुमशक्या ।
नानाप्रमाणगोचरार्थसाक्षात्कारवतः सर्वज्ञस्यापि स्वभावत एवानुपलभ्यः कश्चिदर्थो भवेत्, भवेच्च सर्वप्रमाणापोढमपि कदाचिदद्वैतम्, प्रकृतिपुरुषौ वा, निःस्वभावता वा जगतः, वेदानां वाप्रामाण्यम् ।
तत् कथं चैत्यवन्दनादावपि भिक्षुः प्रवर्तेत? अर्थसन्देहात् प्रवृत्तिरिति चेत्? यत्र प्रमाणानि परिभूय शड्कापिशाची प्रसरति कुतस्तत्रार्थसम्भावनापि? आस्तां तावत् परलोकप्रवृत्तिः, इहलोकप्रवृत्तिरपि न
स्यात् इत्याह—अन्तत इति ॥
यद्यपि विशिष्टाहारानन्तरं भूयो भूयः पुष्टिधातुसाम्यादि दश्यते, मरणं तं रोगाद्यनन्तरमेव, तथापि आहारविशेषो मरणस्यैव हेतुः कदाचिद् भवेत्, कथमन्यथान्ते तदन्तरमस्योपलम्भः ।
यत्त्वियन्तं कालं न मारितवान्
तन्मन्त्रप्रतिबद्धवह्निवत्, केनचित् प्रतिबद्धत्वात् ।
स एव प्रतिबन्धकः पुष्ट्यादिहेतुरित्यपि सम्भाव्येत ।
रोगादिकमेव च पुष्ट्यादिहेतुः, तत्तु पुष्ट्यादिकाले अदृश्यत्वादेव नापलभ्यते ।
न हि पुष्ट्यादिकारणैर्दृश्यैरेव भवितव्यमित्यपि कदाचित् स्यात्, यथा चाप्रामाणिकोपाधिशड्क्या व्यभिचारित्वशङ्कया वा अनुमाननिवृत्तिः, तथाप्रामाणिकानर्थशङ्कयैव विशिष्टाहारभोजनादिनिवृत्तिरित्यर्थः ।
तस्मादुत्प्रेक्षितार्थनिश्चयवत् तच्छड्कापि बन्ध्यैव, प्रमितस्यैव तु निश्चयवत् शड्कापि समीहोपयोगिनीत्याह—तस्मादिति ॥
तदयं सङ्क्षेपः ।
व्यभिचार एव प्रतिबन्धाभावः ।
उपाधेरेव व्यभिचाराशड्का ।
प्रमाणनिश्चित एवोपाधित्वेन शङ्कनीयः ।
साधने सोपाधिः साध्ये निरूपाधिरेव उपाधित्वेन निश्चेयः ।
अतो ऽन्यश्चान्यथात्वेनेति ।
प्रमाणपरिदृष्टेष्वेव कश्चिदुपाधिर्भविष्यतीत्यत आह—प्रयत्नेनेति ॥
अयं प्रयत्नार्थः ।
प्रत्यक्षोपलभ्यास्तावद् योग्यानुपलब्धेरेव निरस्ताः ।
प्रमाणान्तरपरिदृष्टानामपि व्यापकानामुपाधित्वे वह्नेः सार्वत्रिकत्वप्रसङ्गः ।
अव्यापकानमपि नित्यानाम् उपाधित्वे बह्नेः सदानुवृत्तिप्रसङ्गः ।
अनित्यास्तु त्रिविधाः उभयाव्यभिचारिणः, उभयव्यभिचारिणः, अन्यतराव्यभिचारिणश्चेति ।
तत्र प्रथमद्वितीया उपाधिलक्षणाभावादेव नोपाधयः ।
अन्यतराव्यभिचारिणश्च द्विविधाः—धूममात्राव्यभिचारिणो वह्निमात्राव्यभिचारिणश्चेति ।
पूर्वे लक्षणाभावादेव नोपाधयः ।
वह्निमात्राव्यभिचारिणो ऽपि द्विविधाः, व्याप्यमात्ररूपा उभयरूपाश्चेति ।
पूर्ववदेव पूर्वे ।
उभयरूपास्तु सामग्रीतः ।
नापि परे विद्यन्ते ।
सा च न क्वचिदुपाधिः, धूमस्य वह्निनेव तयापि स्वभावसम्बन्धात् ।
वह्निजननसामग्र्यां वह्नेरप्यन्तर्भावाच्च ।
न च कृतकत्वानुष्णत्वयोः सम्बन्धे तेजोजातीयेतरत्ववदिहापि साध्यधर्मजातीयेतरत्वमुपाधिः, तस्य प्रमाणबाधैकमात्रनियतत्वात् ॥
अत एव उपाधिमपश्यन्तो ऽपि विरोधिप्रमाणसदसद्भावनिश्चयव्यग्रतया मुहूर्तम् अनुमितौ विलम्बामहे ।
तदेवं सर्वथोपाध्यनुपलम्भात् तदभावनिश्चयो यथा धूमसम्बन्धे तथान्यत्रापि द्रष्टव्यः ।
तर्कश्च सर्वशड्कानिराकरणपटीयान् विजयत इति ॥
ननु प्रमाणसिद्धे वस्तुनि स्वभावो ऽवलम्बनम्, न तु स्वभावावलम्बनेनैव वस्तुव्यवस्थेत्याशयवान् पृच्छति—केन पुनरिति ।
प्रथमदर्शनेनैव वह्निधूमयोः अव्यभिचारग्रहणम्, द्वितीयादिभिस्तु शड्कामात्रमपनीयत इति केषाञ्चिन्मतमपनयन्नेव प्रकृतं प्रपञ्चयति—यदा तावदिति ।
अत्र चैष परमार्थः ।
यो ऽयमुपाधिमादाय येन सह सम्बध्यते स निरूपाध्यवस्थायां तस्यागमको यथा वह्निर्धूमस्य ।
सोपाध्यवस्थायामप्युपाधेः, केवलस्यैव सामर्थ्ये स एव गमको न तूपहितः ।
यथाहारपरिणतिभेदस्यैव गमकत्वे मैत्रतनयत्वम् ।
यत्र तूपाधिः केवलो व्यभिचारी तत्र सोपाधिरपि गमक एव ।
यथार्द्रेन्धनवान् वह्निर्धूमस्येति ।
तत् कस्य हेतोः? विशिष्टस्य निरूपाधित्वादिति भूयोदर्शनमिति ।
तज्जनितसंस्कारसहितमिन्द्रियमित्यर्थः ॥
अग्रे चैतदेव स्फुटीकृतमित्यविरोधः ।
मणिभेदतत्त्ववदिति ।
यथा मणिर्यैर्यैर्विशेषैः तत्तद्व्यवहारविषयो भवति, धारयितुश्च तत्तत्फलभेदसम्पादकश्चोन्नीयते, ते ते सूक्ष्मा विशेषाः परीक्षकैर्भूयोभिर्दर्शनैरून्नीयन्ते, तथात्रापीति ।
तथा
हि, प्रथमतस्तावद् भूयोदर्शनं काकतालीयन्यायव्युदासाय ।
ततः सातत्योर्ध्वगत्यादिविशेषावसायाय ।
तत उपाधिशड्कानिराशाय ।
अत्र च न वारंसख्यानियमे ऽभ्युपयोगः, मृदुमध्याधिमात्रबुद्धिभेदेन पुंसां विचित्रशक्तित्वात् ।
न चैवं सति लक्षणशास्त्रवैयर्थ्यम्, अनियतवारविशिष्टतत्त्वसाक्षात्कारावधियोगाभ्यासोपदेशवदिहापि निरूपाधिसम्बन्धबोधावधिनियमात् ।
कार्यकारणभावावगमे ऽप्ययमेव मार्गो, न तु पञ्चप्रत्यक्षानुपलम्भाः ।
अन्यतो ऽनागतस्य तत्रासतस्तदनन्तरम् उपलम्भे ऽपि ततो ऽन्यस्मादनुत्पत्तेः भावमात्रेण निश्चेतुमशक्यत्वात् ; काकतालीयन्यायेनापि सम्भवात् ।
भूयःप्रवृत्तौ तु यदि न व्यभिचारोपलम्भः, उपाध्युपलम्भो ऽपि न स्यात्, द्वयोपगमे तु तन्नियतः सम्बन्ध इति ॥
स्यादेतत् ।
धूमादीनां मैत्रतनयत्वादीनां च भूयोदर्शनत्वाविशेषे ऽपि कुतो विशेषादेकस्य गमकत्वमपरस्य नत्यत आह—न चेति ।
यत् त्वत्रोक्तम्, यथा ह्यनार्देन्धने वह्नौ न धूम इति वह्नेस्तत्सम्बन्धे तथाविधमिन्धनमुपाधिः ।
तथा यदि मैत्राज्जातस्यापि कस्यचिद् विवक्षिताहारपरिणतिविरहेण श्यामतोपालप्स्यत स
उपाधिर्निरचेष्यत ॥
न त्वेतदस्ति ।
तथा सत्यपि चोपाधिवादो व्यर्थः, व्यभिचारादेव मैत्रतनयस्याहेतुत्वादिति ।
तदिदमनवधारितोपाधिलक्षणस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं न किञ्चिदेव ॥
तथा हि नोपहितस्य निश्चित एव साध्यव्यभिचारः, उपाधेर्लक्षणं किं नाम? साधनाव्यापकत्वे सति साध्यव्यापकत्वम् ।
तच्च साध्याभिमतधूमश्यामत्वे प्रति व्यापकत्वेम् आर्द्रेन्धनान्नपानपरिणतिभेदयोरविशिष्टम्, अविशिष्टं च साधनाभिमतदहनमैत्रतनयत्वे प्रति तयोरव्यापकत्वम् ।
इयांस्तु विशेषः, वह्नेर्धूमेनेवार्द्रेन्धनेनापि साक्षादेव विनाभाव उपलभ्यते ।
मैत्रतनयस्य तु श्यामत्वेनेवान्नपानपरिणामेनाप्युपाधेरेवोन्नीयत इति ।
ननु वज्रे लोहलेख्यत्वं प्रति पार्थिवत्वहेतोः क उपाधिः? प्रशिथिलावयवत्वम् ।
तर्हि तन्निवृत्तौ पवेरिव स्फटिकादावपि लोहलेख्यत्वनिवृत्तिप्रसङ्गः ।
न खलु निबिडावयवत्वेन उभयोः कश्चिद् विशेषः ।
न मृदादिभ्यो निबिडावयवत्वे ऽपि स्फटिकस्य प्रशिथिलावयवत्वादेव ।
न ह्यद्भ्यो मेदिनी निबिडेति न प्रशिथिलावयवा ।
इयांस्तु विशेषः ।
यथा यथा शैथिल्यापकर्षस्तथा तथा लेखितुः प्रयत्नप्रकर्षः ।
यदि तु शैथिल्यमप्रयोजकं तदा मृत्काष्ठपाषाणादिषु प्रयत्नप्रकर्षो ऽपि विफलः, पार्थिवत्वस्य सर्वत्राविशेषात् ।
स्फटिके कथमेषा प्रतिपत्तिरिति चेत्? लोहलेख्यत्वादेव ।
लोहलेख्यत्वप्रशिथिलावयवत्वयोः समव्याप्तिकत्वात् ।
अत एवानयोरेकतरप्रवृत्तिनिवृत्त्योरेवान्यतरप्रवृत्तिनिवृत्ती, न तु पार्थिवत्वप्रवृत्तिनिवृत्त्योरेव लोहलेख्यत्वप्रवृत्तिनिवृत्ती, वज्रे ऽदर्शनात् ; जलादौ दर्शनाच्च ।
वह्नावनुष्णत्वसाधनस्य तु कृतकत्वस्य तज्जातीयेतरत्वलक्षणमुपाधिः, स च बाधैकनियतविषय इति नातिप्रसङ्ग इत्युक्तम् ।
तदेतत्सर्वं हृदि निधायाह—इत्यादय इति ॥
यद्यपि द्वितीयलिङ्गदर्शनस्य स्मृत्या सह विनश्यदवस्थस्यैव परामर्शजनकत्वं क्वचित्, तथापि यत्र दृष्टमात्र एव वह्निनिवृत्तौ निवृत्तो धूमः कालान्तरे जिज्ञासावशात् परामृश्यते, तत्र द्वयोरपि लिङ्गदर्शनयोरतीतत्वमित्याशयवतोक्तम्—यद्यपीत्यादि ॥
येन च परामर्शो नेष्यते तेन वाक्यस्य चतुर्थो ऽवयव अपनयो ऽपि नेषितव्यः ।
पक्षधर्मताप्रतिपादनेन तस्योपयोगः परार्थानुमाने ।
स्वार्थानुमाने तु सा द्वितीयलिङ्ग दर्शनादेवावगतेति किं परामर्शेनेति चेत्—न, पक्षधर्मता हि व्याप्त्या सह प्रतिसंहितानुमानोपयोगिनी, तादृशी चोपनयेन प्रदर्श्यते, न तु द्वितीयलिङ्गदर्शनेन ।
तस्य तु व्याप्त्यनुसन्धानरहितं पक्षधर्मतामात्रमेव गोचरः ।
न च तदनुमानोपयोगि ।
तस्मादुपनयार्थो न द्वितीयलिङ्गदर्शनविषयः ।
ततः स्वार्थानुमाने यद्यस्ति तस्योपयोगः, नूनं परामर्शो ऽपि तृतीयः स्वीकर्तव्यः ।
नास्ति चेत्, परार्थानुमाने ऽपि लिङ्गपरामर्शैकार्थः उपनयो ऽपि नादरणीयः, तुल्यविषयत्वादित्याशयवान् सङ्कलय्यानयोः समानविषयत्वमाह—सम्बन्धेति ॥
ननु व्यापारानुबन्धितया विषयत्वम्, विषयत्वे च व्यापारानुबन्ध इति परस्पराश्रयत्वम् ।
अथ व्यापारानुबन्धितयैव विषयत्वम्? तथाप्यसम्बद्धत्वाविशेषात् कथं तस्यैव व्यापारानुबन्धितेत्याशड्क्य परिहरति–न चातिप्रसङ्ग इति ।
न धूमज्ञानस्याग्निः स्वतन्त्रस्य व्यापारविषयो येनासम्बद्धत्वाविशेषादतिप्रसङ्गः स्यात्, किं तु ज्ञेयविशेषणस्य, तस्य च ज्ञायमानस्य धूमस्याग्निना सह नियामकः स्वभावसम्बन्ध एव, अतो नातिप्रसङ्गः इत्यर्थः ॥
पूर्वं लक्ष्यपदार्थप्रश्नावसरे अनुमीयते ऽनेनेति कारणार्थ इत्युत्तरं दत्तम् ।
इदानीमनुमितिः कस्याञ्चिदवस्थायामनुमानं प्रमाणं भवेन वेति विज्ञासाप्रश्ने भावः करणं वेत्युत्तरम् ।
अतो न विरोधो ऽशतः, पौनरूक्त्यं वा ।
अतः टीकाकृद् अपि व्यापारत्वेनाप्रमाण्यं पूर्वपक्षयित्वा फलान्तरहेतुत्वेन प्रामाण्यं समर्थयति स्म ।
इह यद्यपि विज्ञानप्रमाणयोरन्यतराधिकारेण संस्कारनिर्णययोर्व्युदासः, विज्ञानाधिकारे हि तत्पूर्वकम् अनुभवकारणमनुमानमिति सूत्रसम्बन्धः ।
न चैवम्भूतौ संस्कारनिर्णयविशेषौ, तयोरनुभवं प्रत्यहेतुत्वात् ।
प्रमाणाधिकारऽपि फलतः स एवार्थः, तत्पूर्वकं प्रमाकरणमनुमानमिति सूत्रसम्बन्धात् ।
तथापि विवक्षाभेदात् विकल्पेनोभयमुभयत्र सम्भन्त्स्यत इति विवक्षित्वा एकैककनिष्ठतयैकैकं दर्शितमिति तथैव व्याख्यातवान् ।
वस्तुतस्तु उभयमुभयत्र सम्बद्धम् इति निगर्वः ।
विपक्षावृत्तिरिति वार्त्तिके बहुव्रीहिसमासस्थितो विशेषणतया व्यतिरेको निष्कृष्य स्वप्रधानतया तत्पुरुषपदेन प्रदर्शितो विपक्षावृत्तिर्व्यतिरेक इति ।
अतो न वार्त्तिके हेतुसामानाधिकरण्यविरोधः ।
व्यतिरेकाभावं व्यतिरेकनिरूपणाभावम् इत्यर्थः ।
इहावस्तुनो विधिनिषेधव्यवहारविषयत्वं लौकिकसमीहानुरोधाद् वा,
शुक्तिरजतवद्रज्जुसर्पवच्च प्रमाणानुरोधाद्, वा गन्धं प्रति पृथिवीवदुदकवद् वा, वचनमात्रानुरोधाद् वा प्रधानवत् शशविषाणवच्च, मूढप्रश्नानुरोधाद् वा धर्मान्तरं प्रति पूर्ववदेव स्ववचनविरोधभयाद् वेति ॥
तत्र प्रथमस्तावदवस्तुन्यसम्भवी, लौकिकप्रवृत्तिनिवृत्त्योर्वस्तुमात्रविषयत्वात् द्वितीयादिष्वेव च परम्परया प्रविशतीति न
पृथक् निराक्रियते ।
द्वितीयनिराकरणाय प्रामाणिकनिषेधव्यवहाररीतिमाह—सद्भ्यामिति ।
यदि तद्विविक्तेतरस्वभावो ऽभावो यदि चोमयथातिरिक्तस्वभावः, उभयथापि निषेध्यनिषेधाधिकरणाभ्यामेव निरूप्यते, न त्वेकेन सता निषेध्येन निषेधाधिकरणेन वेत्यर्थः ॥
ननु सत एव कुतश्चित् प्रमाणप्रतीतान्निवर्त्स्यतीत्यत आह—पक्षादन्यस्येति ।
तदनेनासत्यधिकरणे निवृत्तिनिरूपणं प्रतिषिद्धम्, निवृत्तौ तु मूकतैवोचितेति हृदयम् ।
निवृत्तिरेव प्रतिषिद्धेति ।
भ्रान्तस्तु चोदयति—न निवर्तते चेदिति ।
निरूपणम् आदायैव परिहरति—यस्येति ।
यत्र खलु भावः सर्वथैव न निरूपितः तदधिकरणतया
तस्यान्यत्रोपलब्धस्याभावो निरूप्यत इति दृष्टम्, यथा गवि दृष्टस्य श्रुङ्गस्य शशे ।
यत्र तु शृड्गाभावो ऽपि गगनकमलादौ निरूपयितुं न शक्यते, तत्र शृङ्गमेव निरूप्यत इत्यलौकिकमित्यर्थः ।
पुनर्भ्रान्तः शङ्कते–तत् किमिदानीमिति ।
स्ववचनविरोधभयमाशङ्कते–ननु चेति ॥
तदुक्तं ज्ञानश्रिया
धर्मस्य कस्यचिदवस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्काप्यस्ति चेत् कथमियन्ति न ढूषणानि
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥
इति ।
यद्यपि स्ववचनविरोधभियापि सर्वथाविचारासहोर्ऽथः स्वीकर्तुं न शक्यते, वचनाद् विचारो गरीयानिति न्यायात्, अन्यथा विकल्पशब्दौ न वस्तुगोचराविति स्ववचनविरोधादेव परिहर्तव्यम् ।
तथा हि स्वलक्षणस्यासाधारण्येनाशक्यसमयगोचरतया, शब्दस्य च समयाधीनप्रवृत्तिकतया विकल्पस्य च तदेकविषयतया
न तयोर्वस्तुगोचरत्वमिति विचारे,
शब्दस्य काचिदपि वस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमाहास्ति नो वा ।
अस्त्येव चेत् कथमियन्ति न दूषणानि
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥
इति तुल्या विभीषिका ।
तथापि तत्त्वं निरूपयन् परिहरति—न वै तत्त्वत इति ॥
ननु यदि नैकतरनिषेधो विधिर्वा तत् किमुभयविधिः निषेधो वा? तथा सति अतितरा दुर्घटमापद्येतेत्यत आह—नो खल्विति ।
ननु सर्वव्यवहाराभाजनमित्यपि निषेधव्यवहारभाजनत्वेनैव निर्वहेत्, अन्यथा पुनरपि स्ववचनप्रतिरोध इत्यत आह—उपयोगे वेति ।
स्ववचनप्रतिरोधभयाद्धि तदा निषेधव्यवहारगोचरत्वस्वीकारः स्याद्
यदि तथा सति भयं निवर्तेत ।
न त्वेतदस्ति ।
नो खलु सकलव्यवहाराभाजनं च तन्निषेधव्यवहारभाजनं चेति वचनं
परस्परमविरोधि ।
विधिव्यवहारमात्राभिप्रायेणाभाजनत्वव्यवहारे कुतो विरोध इति चेत्? हन्त ! सकलविधिनिषेधव्यवहाराभाजनत्वेन किञ्चिद् व्यवह्नियते न वा? उभयथापि स्ववचनविरोधः ।
उभयथाप्यवस्तुनैव तेन भवितव्यम्, वस्तुनः सर्वव्यवहारविरहानुपपत्तेः ।
नेति पक्षे सकलविधिनिषेधव्यवहाराभाजनमित्यनेनैव व्यवहारेण विरोधात्, अव्यवहृतस्य निषेद्धुमशक्यत्वात् ।
व्यवह्नियत इति पक्षे तु विषयस्वरूपपर्यालोचनेनैव विरोधात् ।
न हि सर्वव्यवहाराभाजनं च व्यवह्नियते चेति च ॥
अपि च यद्यवस्तुनो निषेधव्यवहारगोचरत्वम्, विधिव्यवहारविषयतापि किं न स्यात्? प्रमाणाभावस्योभयत्रापि तुल्यत्वात् ।
बन्ध्यासुतस्यावक्तृत्वे ऽचेतनत्वादिकमेव प्रमाणम्, वक्तृत्वे तु न किञ्चिदिति—चेत्—न, तत्रापि सुतत्वस्य विद्यमानत्वात्, न हि बन्ध्यायाः सुतो न सुतः ।
तथा सति स्ववचनविरोधात् ।
वचनमात्रमेतन्न तु परमार्थतः सुत एवासाविति चेत्? अचेतनस्याप्येवंरूपत्वात्, चेतनादन्यत्
स्वभावान्तरम् एवाचेतनमित्युच्यते ।
चैतन्यनिवृत्तिमात्रमेव विवक्षितमिह, तच्च सम्भवत्येवेति चेत्—न तत्राप्यसुतत्वनिवृत्तिमात्रस्यैव विवक्षितत्वात् ।
असुतत्वनिवृत्तिमात्रस्य स्वरूपतः कृतिज्ञप्त्योरसामर्थ्ये समर्थमर्थान्तरमवसेयम् अनन्तर्भाव्य कुतो हेतुत्वमिति
चेत्—न, अचैतन्ये ऽप्यस्य न्यायस्य समानत्वात् ।
व्यावृत्तिरूपमपि च तदेव गमकं यदतस्मादेव, यथा शिंशपात्वम् ।
बन्ध्यासुतस्त्वसुतादिव घटादेः, सुतादपि देवदत्तादेः व्यावर्तते, अतो न हेतुरिति चेत्? नन्वचैतन्यमप्यस्यैवं रूपमेव ।
न हि बन्ध्यासुतश्चेतनादिव देवदत्तादेरचेतनादपि काष्ठादेर्न व्यावर्तते ।
अतो न हेतुरिति ।
वक्तृत्वं वस्त्वेकनियतो धर्मः स कथमवस्तुनि साध्यो विरोधादिति चेत्? स पुनरयं विरोधः कुतः प्रमाणात् सिद्धः, किं वक्तृत्वविविक्तस्यावस्तुनो नियमेनोपलम्भात्, आहोस्वित् वस्तुविविक्तस्य वक्तृत्वस्यानुपालम्भादिति? न तावदवस्तु केनचित् प्रमाणेनोपलम्भगोचरः ।
तथात्वे वा नावस्तु ।
नाप्युत्तरः समानत्वात् ।
न ह्यवक्तृत्वमपि वस्तुविविक्तं कस्यचित् प्रमाणस्य विषयः ।
तद्विविक्तविकल्पनमात्रं तावदस्तीति चेत्?
तत्संसृष्टिविकल्पने ऽपि को वारायिता?
ननु वक्तृत्वं वचनं प्रति कर्तृत्वम्, तत् कथमवस्तुनि, तस्य सामार्थ्यविरहलक्षणत्वादिति चेत्? अथावक्तृत्वमपि कथं तत्र, तस्य वचनेतरकर्तृत्वलक्षणत्वात् ।
सर्वसामर्थ्यविरहे वचनसामर्थ्यविरहो न विरुद्ध इति चेत्? अथ सर्वसामर्थ्यविरहो बन्ध्यासुतस्य कुतः प्रमाणात् सिद्धः? अवस्तुत्वादेवेति चेत्? नन्वेतदपि कथम्? सर्वसामर्थ्यविरहादेवेति चेत्? सोयं केवलैर्वचनैरितस्ततो निर्धनाधमर्णिक इव साधून् भ्रामयन् परस्पराश्रयदोषमपि न पश्यति ॥
क्रमयौगपद्यविरहादिति चेत् न, तद्विरहसिद्धावपि प्रमाणानुयोगस्यानुवृत्तेः ।
सुतत्वे च परामृष्यमाणे तदविनाभूतसकलवक्तृत्वादिधर्मप्रसक्तौ कुतः क्रमयौगपद्यविरहसाधनस्यावकाशः? कुतस्तरां चावस्तुसाधनस्य? कुतस्तमां चावक्तृत्वादिसाधनानाम्? ततश्च प्रमाणमेव सीमा व्यवहारनियमस्य, तदतिक्रमे त्वनियम एवेत्यनेनाभिप्रायेणेदमुक्तम् ।
उपयोगे वा निषेधव्यवहारोपयोगे वा ।
न निरूपाख्यो न विधिव्यवहाराविषयः ।
यस्मिन् किञ्चिन्निषिध्यते प्रमाणेन, तस्मिन् किञ्चिद् विधीरऽपीति नियमादित्यर्थः ।
तत्र प्रष्टुरूत्तरे वक्तव्ये न
विरुद्धमनर्थकं वा वक्तुमुचितमित्याशयवानाह—कसतर्हीति ।
उत्तरम्—अथेति ।
अनुत्तरविषये अहृदयैर्यदेवोत्तरीक्रियते, तदेव विरुद्धमित्यर्थः ॥
न च केवलमत्रोत्तरदः, प्रष्टाप्यहृदय एव ।
न ह्यप्रतीते देवदत्तादौ स किं गौरकृष्णो वेति वैयात्यं विना प्रश्नः ।
तत्रापि यद्येको ऽप्रतीतपरमार्थविषय एवोत्तरं ददाति न गौर इति, अपरो ऽपि किं न दद्याद् गौर इति? न चैवं सति काचिदर्थसिद्धिः, प्रमाणाभावविरोधयोरूभयत्रापि तुल्यत्वात् ।
तदिदमुक्तम्—अहृदयवाचामिति ।
नन्वप्रतीते व्यहाराभाव इति युक्तम्, कूर्मरोमादयस्तु प्रतीयन्त एव ।
न ह्येते विकल्पाः कञ्चिदर्थभेदमनुल्लिखन्त एवोत्पद्यन्ते ।
न च प्रमाणास्पदमेव व्यवहारास्पदमित्यस्ति नियम इत्यत आह—न चात्यन्तेति ।
यद्यपि सर्वथाप्रतीते व्यवहाराभाव इति वदतो बौद्धस्यापि स्ववचनविरोध एव, तथाप्ययं विरोधः प्रागेवोद्भावितप्राय इत्येनमुपेक्ष्य शड्कामात्रं समर्थितम् ॥
तथा हि शशविषाणमिति ज्ञानमन्यथाख्यातिः स्यादसत्ख्यातिर्वा? न तावदाद्यस्ते रोचते, तथा सति किञ्चिदारोप्यं किञ्चिदारोपविषय इति स्यात् ।
तथा चारोपविषयस्तत्रैवास्त्यारोपणीयं त्वन्यत्रेति जितं नैयायिकैः ।
नापि द्वितीयः, कारणानुपपत्तेः ।
इन्द्रियस्य ज्ञानजनने स्वविषयाधिपत्येनैव व्यापारात्, लिङ्गशब्दाभासयोरप्यन्यथाख्यातिजनकत्वात् ।
अपहस्तितस्वार्थयोश्चासत्ख्यातिजनकत्वे शशविषाणशब्दात् कूर्मरोमादिविकल्पानामप्युत्पत्तिप्रसङ्गः, नियामकाभावात् ॥
स हि सड्केतो वा स्यात्, शब्दस्वाभाव्यं वा? न तावदाद्यः, सड्केतविषयाप्रतीतेर्निराकृतत्वात् ।
अत एव प्रतीतेरितरेतराश्रयत्वम् ।
पदसड्केतबलेन तु प्रवृत्तौ स्वार्थापरित्यागात् ।
तथा चानन्विताः पदार्था एवान्विततया परिस्फुरन्तीति विपरीतख्यातिरेवावर्तते ।
स्वार्थपरित्यागे तु पुनरप्यनियमः, असामयिकार्थप्रत्यायनात् ।
शब्दस्वाभाव्यात् तु नियमे व्युत्पन्नवदव्युत्पन्नस्यपि तथाविधविकल्पोदयप्रसङ्गः ।
वासनाविशेषादिति चेत्? अथासदुल्लेखिनः प्रत्ययस्य वासनैव कारणमुत वासनापि? न तावदाद्यः, शशविषाणादिप्रत्ययानां
सदातनत्वप्रसड्गात् ।
कदाचिद् वासनायाः, प्रबोधात् कदाचिदिति चेत्—न, प्रबोधो ऽपि सहकार्यन्तरं वा, अतिशयपरम्परापरिपाको वा? आद्ये वासनैवेति पक्षानुपपत्ति ।
द्वितीयो ऽपि यदार्थान्तरप्रत्यासत्तेस्तदा पूर्ववत् ।
स्वसन्ततिमात्राधीनत्वे तु बाह्यवादव्याघातः, नीलादिबुद्धीनामपि वासनापरिपाकादेव उत्पादात् ।
वासनापीति पक्षे तु
तदन्यो ऽपि कश्चद्धेतुर्वक्तव्यः ।
स विचार्यमाणः पूर्वं न्यायं नातिवर्तत इति ॥
न च शशविषाणादिशब्दानामसदर्थैः सह सम्बन्धावगमो ऽपि ।
तथा हि परबुद्धीनामनुल्लेखात् तद्विषयस्याप्यनुल्लेख एव ।
न चार्थक्रियाविशेषो ऽप्यस्ति यतो विषयविशेषमुन्नीय तत्र सड्केतो गृह्यताम् ।
न च
सड्केतयितुरेव वचनात् तदवगमः ।
तद्विषयाणां वचनानां सर्वेषामेवाप्रतीतविषयत्वेनागृहीतसमयतया अप्रतिपादकत्वात् ।
न च शशविषाणशब्दमुच्चारयतः कश्चिदभिप्रायो वृत्तः, तद्विषयो ऽस्य वाच्य इति सुग्रहः समय इति वाच्यम् ।
न ह्येवमाकारः समयग्रहः ।
गां बधानेत्युक्ते अप्रतीतशब्दार्थस्य अभिप्रायमात्रप्रतीतौ समयग्रहप्रसड्गात् ।
न च विशेषान्तरविनाकृतः कल्पनामात्रविषयो ऽस्य वाच्य इति साम्प्रतम्, घटकूर्मरोमादीनापि तदर्थत्वप्रसड्गात् ।
न च सर्वे प्रतिपत्तारः स्ववासनया असदर्थशब्दसम्बन्धप्रतिपत्तिभाज इति साम्प्रतम् ।
परस्परवार्तानभिज्ञतया अपरार्थत्वप्रसड्गात् ।
न हि स्वयङ्कृतं सड्केतमग्राहयित्वा परो व्यवहारयितुं शक्यते ।
न च व्यवहारोपदेशावन्तरेण ग्राहयितुमपि ।
न च गां बधानेतिवत् शशविषाणापदार्थे वृद्धव्यवहारः ।
न चायमसावश्च इतिवदुपदेशः ।
न च यथा गौस्तथा गवय इति वदुपलक्षणातिदेशः ।
न चेह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीतिवत् प्रसिद्धपदसामानाधिकरण्यम् ।
तदमूः शशविषाणादिकल्पना नासत्ख्यातिरूपाः, तथात्वे कारणाभावात् भूकस्वप्नवदसाव्यवहारिकत्वप्रसड्गाच्च ।
तस्मादन्यथाख्यातिरूपा एवेति नैतदनुरोधेनाप्यवस्तुनो निषेधव्यवहारगोचरत्वमित्यर्थः ॥
भवतु तथापि नासौ सिद्ध्युपालम्भयोगीत्याह—कल्पितगोचरश्चेति ।
तथा हि को ऽयं व्यतिरेको नाम? यद्यतो व्यतिरिच्यते तस्य तत्राभावो वा, तदभावस्वभावत्वं वा? तत्र न तावत् क्रमयौगपद्ययोः शशविषाणे ऽभावः प्रमाणगोचरः, वृक्षरहितभूभृत्कटकवत् क्रमयौगपद्यरहितस्य शशविषाणस्य प्रमाणाविषयत्वात् ।
नापि क्रमयौगपद्याभावरूपत्वं शशविषाणस्य प्रामाणिकम्, घटाभाववत् शशविषाणस्य प्रमाणेण अनुपलम्भात् ।
घटाभावो ऽपि न प्रमाणगोचर इति चेत्–न, तस्य तद्विविक्तेतरस्वभावस्यापि प्रमाणत एव सिद्धेः ।
असिद्धौ वा तत्राप्यव्यवहार एव ।
घटस्तावत् स्वाभावविरहस्वभावः प्रमाणसिद्धः ताद्रूप्येण कदाचिदप्यनुपलम्भात् ।
एतावतैव तदभावो ऽपि घटविरहस्वभावः सिद्ध इति चेत्—न, घटाभावस्य तद्विरहस्वभावत्वानभ्युपगमात् ।
न चान्यस्य स्वभावे प्रमाणगोचरे तदन्यो ऽपि सिद्धः स्यात्, अतिप्रसड्गात् ।
एवम्भूतावेव घटतदभावौ यदेकस्य परिच्छित्तिरेवापरस्य व्यवस्थितिरिति चेत्—न, घटवद् घटाभावस्यापि प्रामाणिकत्वानभ्युपगमे स्वभाववादानभ्युपगमात् ।
प्रमाणसिद्धे हि वस्तुनि स्वभाववादालम्बनम् ।
न तु स्वभाववादालम्बनेनैव वस्तुपरिच्छित्तिरिति हि भवतामेव तत्र तत्र जयदुन्दुभिः ।
यदुक्तं वार्तिकालड्कारे,
यक्तिञ्चिदात्माभिमतं विधाय
निरूत्तरस्तत्र कृतः पदेण ।
वस्तुस्वभावैरिति वाचयमित्थं
तदोत्तरं स्याद् विजयी समस्तः ॥
तत् किमिदानीं स्वाभावविरहस्वभावो घटः प्रमाणानैव सिद्धः? तव दृष्ट्या एवमेतत् ।
घटो हि यादृक्तादृक्स्वभावस्तावत् प्रमाणपथमवतीर्णः तस्य यदि परमार्थतः अभावो ऽपि कश्चित् स्यात्, परमार्थतः सो ऽपि तद्विरहस्वभाव इति तथैव प्रमाणावेदितः स्यात् ।
न चैतदभ्युपगम्यते भवता ।
तस्माद् घटवत् तदभावस्यापि प्रामाणिकत्वेनैवानयोः परस्परविरहलक्षणव्यतिरेकसिद्धिः ।
अप्रामाणिकत्वे वा अनयोरपि न तथाभाव इति शशविषाणादिष्वपीयमेव गतिः ॥
ननु काल्पनिकरूपसम्पत्तिरेवास्त्वनुमानाङ्गमित्यत आह—तस्याः सर्वत्र सुलभत्वादित ।
दहनवत्त्वादिसाधने प्रमेयत्वादौ शब्दानित्यत्वादिसाधने चाक्षुषत्वादौ नित्यत्वादिसाधने कृतकत्वादावित्यर्थः ।
ननु पक्षसपक्षविपक्षास्तावद् वस्त्ववस्तुभेदेन द्विरूपाः ।
तत्र ये कल्पनोपनीताः, तत्र काल्पनिका एव
पक्षधर्मत्वान्वयव्यतिरेकाः ।
प्रमाणोपनीतेषु तु प्रामाणिका एवेति विभागः ।
तदिह काल्पनिकान्निरग्नेर्यद्यपि प्रमेयत्वादेर्व्यावृत्तिः काल्पनिकी सिद्धा, तथापि प्रामाणिकात् जलह्नदादेः प्रामाणिक्येवैषितव्या, सा च न सिद्धेति कुतस्तस्य हेतुत्वम्? एवं प्रामाणिकात् शब्दे ऽपि पक्षीकृते प्रामाणिक एव हेतुसद्भावो ।
वक्तव्यः न चासौ चाक्षुषत्वस्यास्तीति सो ऽपि कथं हेतुः? एवं कृतकत्वस्यापि वस्त्वेकनियतस्य धर्मस्य वास्तव एवान्वयो वक्तव्यः ।
वस्तुनो विपक्षाच्च वास्तव एव व्यतिरेको वक्तव्यः ।
न च तस्य तौ स्तः ।
तत् कथमसावपि हेतुरिति ।
? प्रलपितमेतत् ।
न हि नियामकमन्तरेण सम्पदं प्रति कल्पना त्वरते, विपदं प्रति तु विलम्बत इति शक्यं वक्तुम् ।
तथा च निरग्निकमपि कूर्मरोम सधूममिति कल्पनामात्रेण विपक्षवृत्तित्वाद् धूमो नाग्नि गमयेत् ।
वास्तव्यां रूपसम्पत्तौ किममेन काल्पनिकदोषेणेति चेत्? तर्हि वास्तव्यामसम्पत्तौ किं काल्पनिक्या तयेति समानम् ।
विरोधाविरोधौ विशेष इति चेत्? कुत एतत्? उभयोरेकत्र वस्त्ववस्तुत्वादन्यत्रावस्तुवदिति चेत्? तत् किं काल्पनिको ऽपि
धूमो वस्तुभूतो येन कूर्मरोम्णस्तेन सह विरोधः स्यात्?
क्वचिद् वस्तुभूत इति चेत्? निर्धूमत्वमपि क्वचिद् वस्तुभूतमिति तेनापि विरोध एव ।
तस्माद् यथा काल्पनिकी विपत्तिर्न दोषाय, तथा काल्पनिकी सम्पत्तिरपि न गुणायेति तस्याश्च सर्वत्र सुलभत्वादिति टीकार्थः ।
एतच्चाभ्युपेत्योक्तम्—वस्तुतस्तु न न निरूपाख्यं कस्यचिद् व्यवहारस्य भाजनमिति ॥
ननु यद्यावयोरकुशलतया स्ववचनविरोधः, अथ प्रष्टुः किमुत्तरं वक्तव्यमित्यवशिष्टमुपसंहरन् परिहरति—तस्मादिति ।
यत्र वचने सर्वथैव विरोधसतत्रावचनमेव श्रेय इत्यर्थः ।
एतेन मूकताहेतुविकल्पाः परिहृता बोद्धव्या इति ॥
नन्वेकरूपमविकलमिदं कथं गमकम्? गमकत्वे वा व्यतिरेकविकलवद् रूपान्तरविकलमपि तथा किं न स्यादविशेषादित्याशड्क्याह—न चैतावतेति ।
रूपान्तरवैकल्यवन्न व्यतिरेकवैकल्यमविनाभावक्षतिमावहतीत्यर्थः ।
एवं तर्हि सत्यपि विपक्षे व्यतिरेको न पर्येषणीय इत्यत आह—विपक्षसम्भवे त्विति ।
विपक्षे सति तत्र वृत्तिशड्का, ततस्तन्निवृत्त्यर्थं तदुपयोगः ।
विपक्षाभावे तु शड्कैव नास्ति, यथोक्तं प्राक् ।
न हि तायाभ्यवहरणे ऽप्यसमर्थस्य मुमूर्षोः शष्कुलीभक्षणं शङ्कते चेतन इत्यर्थः ॥
स्वमते त्विति ।
अस्य तु काल्पनिको ऽपि विपक्षः परेणाभिधातुं न शक्यते, अभिधाने सपक्षत्वापत्तेः असपक्षत्वे ऽनभिधानप्रसड्गात्, ततश्चाभिधेयत्वे साध्ये यः कश्चिद्धेतुरूपादीयते, तस्य किं विपक्षे वृत्तिरवृत्तिर्वेति प्रश्ने अनेनोत्तरकोविदेन किं वक्तव्यम्? मूकीभूय तिष्ठासोस्तु न कश्चित् प्रतिमल्ल इति स्वयमेवोल्लपितमनेन ।
न त्वेवम्भूतो ऽहेतुरेव दोषाभावात्, अरूचिमात्रस्य सर्वत्र सुलभत्वादिति भागासिद्धिनिराकारणाय व्याप्त्येति वदतः ॥
पूर्ववदित्यतिशायने मतुपो विधानम् ।
अतिशयश्च व्याप्तिरेवेत्याशयः ।
तदिदम् उक्तं टीकाकृता—अस्ति गन्धवत्वस्य साध्यं न तु व्याप्त्येति ।
ननु साध्यसजातीये शेषशब्दस्य न काचिद् वृत्तिरित्यत आह—साध्यस्योपयुक्तत्वादिति ।
पौनरूक्त्यभ्रममपाकरोति—पदानि विभज्येति ।
न मन्तर्भाव्य व्याख्याने सामान्यतोदृष्टपदमेवं योजनीयम्, उक्तविशेषरहितत्वेन विपक्ष एव सामान्य इत्युच्यते ।
तत्रादृष्टम् ।
सप्तम्यास्तसिः ।
योग्यदर्शननिवृत्त्या च दृश्यनिवृत्तिर्विवक्षिता, तेन विपक्षे असदित्यर्थः ।
अतः सिद्धवत्
त्रिरूपसम्पत्तिमभ्युपेत्य रूपद्वयसम्पदे चकारमवतारयति—तथा चेति ॥
तदेवं तत्पूर्वकमित्यनेन लिङ्गपरामर्शो ऽनुमानमिति लक्षणार्थे व्याख्याते, अथ किं लिङ्कम्, कतिविधं वेति जिज्ञासायां त्रिविधमित्यवच्छेदेन व्याख्याय, किं लक्षणम् इति जिज्ञासायां पूर्ववदित्याद्येकवाक्यतया व्याख्यानेन परामर्शविषयः सञ्ज्ञितो विभक्तो लक्षितश्च ।
विषयविषयिणोरभेदविवक्षया च सामानाधिकरण्यमिति मन्तव्यम् ।
एवम् अन्यान्यपीति ।
तद्यथा, मनोज्ञमत्तकाशिनीसन्दर्शनेन संसारिरागानुमानम्, शत्रुदर्शनेन क्रोधानुमानम्, विषयभोगेन सुखानुमानम्, रोगादिना दुःखानुमानम्, अविकलेन्द्रियस्य योग्यविषयावधानेन ज्ञानानुमानम्, श्रद्धावतां यथाविधि यागाद्यनुष्ठानेन धर्मानुमानम्, निषिद्धाचरणेनाधर्मानुमानम्, पट्वभ्यासादरप्रत्ययैः संस्कारानुमानम्, मिथ्याप्रत्ययेन भविष्यत्संसारप्रवाहानुमानमित्यध्यात्मम् ।
बाह्ये च ज्वलन्तं तृणराशिमुपलभ्य भविष्यद्भस्मानुमानम्, तथाविधवृष्ट्या भविष्यन्नदीपूरादिज्ञानम्, प्रकारान्तरावगतेन वायुना त्वरावता वृक्षादिसङ्क्षोभानुमानमित्यादि नेयम् ॥
दुरवबोधमिति ।
सामान्यतोदृष्टस्वरूपस्यैवाविवेचनादित्यर्थः ।
उदाहरणद्वारेण तद्विवेचनं
भविष्यतीत्याह—शेषवदुदाहरणानतर्गतं चेति ।
शेषवल्लक्षणयोगे ऽपि तदुदाहरणान्तरवैलक्षण्येनेदमेव सामान्यतोदृष्टपदार्थे भविष्यतीत्यत आहा—न चैतावतेति ।
न तावदश्वकर्णादिशब्दवदयं सूर्यव्रज्यानुमाने वर्तते, अन्यत्रापि वृद्धप्रयोगात् ।
नापि सूत्रकारस्यैव परिभाषेयम्, निष्प्रयोजनत्वात् ।
तस्मादुदाहरणवैलक्षण्यमात्रविवक्षयेदमुच्यते ।
तथा चातिप्रसङ्ग इत्यर्थः ।
तस्माद् भाष्यकारव्याख्यानविरुद्धोदाहरणमात्राख्यानमरोचयमानः सामान्यतोदृष्टपदं व्याख्यायान्यथोदाहरणमाहेति योजना ।
क्षयवृद्धिप्रत्ययाविषयत्वे सतीति स्पष्टार्थम्, प्राड्मुखोपलभ्यत्वे परिवृत्त्य तत्प्रत्ययविषयत्वादिति पर्यालोचनयैवाविनाशस्य प्राप्तत्वात् ॥
न ह्युपलब्धविनाशे उपलब्धं प्रत्यभिज्ञायते भ्रान्तावप्यनुपलब्धमेवोपलब्धतयेति ।
प्राड्मुखोपलभ्यत्वे चेत्यस्य टीकया स्फोरितस्य प्राड्मुखोपलब्धस्य प्राड्मुखेनानुपलम्भे सतीत्यर्थः ।
नरान्तरस्य तत्समानदेशस्थस्येति मन्तव्यम् ।
अन्यथा मार्तण्डमण्डलस्यापि लोकान्तरवर्तिपुरुषापेक्षया प्राड्मुखोपलभ्यता दुर्वारेत्यसिद्धं विशेषणं स्यात् ।
तदेतत् नरपदेन सूचितम् ।
तदभिमुखदेशसम्बन्धादिति शिष्यहिततया व्यभिचारौपयिकपादविहरणज्ञापनाय ।
न हि यथातथा पादविहारणमात्रमस्य हेतोः क्षतिमावहतीति ।
सत्यविनाशे इति च द्रष्टव्यम् सति द्रष्टव्यत्व इति वेति शेषः ॥
इह यद्यपि दिशः प्रत्यक्षत्वे साध्ये ऽड्गुल्या निर्देशो व्यधिकरणः, तरूनगरादिषु एवाड्गुल्या व्यपदेशात् ।
दिशः सामानाधिकरण्यं त्वड्गुलीव्यपदेशस्य न तदधिकरणतासाधनमन्यथासिद्धत्वात् ।
तथापि यस्यां दिशि एते तरवः सा प्राचीति तर्वादिभेदेन अप्यड्गुल्या व्यपदेशो ऽस्तीति न व्यधिकरणत्वमाहत्याभिधातुं शक्यत इत्यनेनाभिप्रायेण अन्यथासिद्धिमेव वार्तिकार्थमाह—अन्यथासिद्धतयेति ।
उपलक्षणं चैतत्, चलन्तीं पताकामुपलभ्यायं वायुर्वातीति अडगुलीनिर्देशस्याचाक्षुषे वायावपि गतत्वेन व्यभिचारस्य अपि सम्भवात् ।
रूपेण स्पर्शानुमानमित्यादावादिग्रहणेन रसेन रूपानुमानम्, गन्धेन रसानुमानमित्यादि ।
वृक्षादर्शने सन्देहे वा न शिशपादर्शन निश्चयो वा ततो ऽनवसरपराहतमेवानुमानम् ।
वृक्षशब्दप्रयोगलक्षणव्यवहारानुमानं तु न स्वार्थम्, अविदितसमयेनाशक्यत्वात् ; विदितसमयस्य च व्यर्थत्वात् ।
परो ऽपि यदि व्युत्पन्नो, यदि विदितशब्दप्रवृत्तिनिमित्तः,
तदा स्वयमेव व्यवहरेत् ।
विपरीतस्तु शिशपात्वमपि न प्रतीयात् ।
अव्युत्पन्नश्चेत्, समयमग्राहयित्वा व्यवहारयितुमशक्य एव ।
न चायं समयग्रहप्रकारः ।
तथा सति शिशपात्वादयं वृक्षो व्यवहर्तव्यः इति शिशपात्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमाकलयेत् ।
न च शिशपात्वादयं वृक्षशब्दप्रवृत्तिनिमित्तवानिति वाक्यार्थः, विदिततन्निमित्तं प्रति व्यर्थत्वात् ; विपरीतं प्रत्यप्रद्धिविशेषणत्वप्रसड्गात्, सामान्योपक्रमे समयग्रहानुपपत्तेः ; पुरुषेच्छामात्राधीनत्वाचच समयस्य पक्षधर्मतया नियन्तुमशक्यत्वात् ; अविदितसमयं प्रति चान्वयोपक्रमस्यायुक्तत्वादित्यत आह—श्रुतेनेति ।
तदनेन ये चान्ये साध्यसमानकालाः, ते सर्वे सामान्यतोदृष्टानुमानसङ्ग्राह्यत्वेन उपलक्षिता इति ॥
स्वमतेन व्याख्यानान्तरम्, न तु तात्पर्यान्तरमित्यर्थः, पूर्वं साध्यं तद्यस्य व्याप्त्येत्यनेनैकतात्पर्यत्वात् ।
अनेनैवाभिप्रायेणाह—अत्रापि यथासम्भवमिति ।
नानन्तर्भावचकारनिरपेक्षते चास्मिन् व्याख्याने पूर्वस्माद् विशेषः ।
सामान्येन कार्यं वा कारणं वा अनुभयात्मकं वा अविनाभावितया दृष्टं निश्चितं सामान्यतोदृष्टमेव च योजना ।
तदिदमुक्तम्—असन्दिग्धतामाहेति ।
तत्र तत्पूर्वकमिति ।
स्वरूपविप्रतिपत्तिनिवृत्तिः स्वलक्षणसामर्थ्येन न्यूनाधिकसङ्ख्यत्वाशड्कानिवृत्तिः प्रथमं तात्पर्यम् ।
नियमज्ञापने त्वशक्यलक्षणत्वशड्कानिवृत्तिस्तात्पर्यमिति न पौनरूक्त्यमिति वृत्तवर्तिष्यमाणानुकीर्तन फलम् ॥
यद्यपि प्रतिपन्नं प्रत्यनुमानस्य न संशयविपर्ययनिवृत्तिरज्ञातज्ञानं वोपयोगः, तथाप्यध्यवसिताभ्यनुज्ञानं वस्तुबलायातमपेक्षिते विषये ऽनुपेक्षणीयमेवेति तस्याप्यनुमानप्रतिपाद्येषु गणना ।
तेनादिवाक्ये प्रतिपन्नः प्रतिपादयितेति प्रतिपन्न एव प्रतिपादयिता, न तु प्रतिपन्नः प्रतिपादयितैवेति बोद्धव्यम् ॥
पुनः पौनरूक्त्यपरिहारार्थं वृत्तवर्तिष्यमाणे अनुकीर्तयति—पूर्वं सिद्धवदिति ।
साक्षात्कृत्यनुमित्योः क्रिययोस्तुल्यता विषयगता द्रष्टव्या ।
तेनायमर्थः ।
व्याप्तिग्राहकप्रमाणयोग्यो धर्मो यत्रानुमीयते तत् पूर्ववदनुमानम् ।
तदयोग्यस्तु यत्र तत् सामान्यतोदृष्टमिति ।
धूमत्वैकार्थसमवायिभिरिति ।
सतात्पर्यं विशेषणम् ।
न हि सन्ततमूर्ध्वगमनमात्रेणाग्निरनुमातुं शक्यते, धूलीपटलादौ व्यभिचारात् ।
एकद्रव्यत्वादित्यस्य सपक्षे रूपादावन्वयस्य
स्पष्टत्वात् विपक्षव्यतिरेक एवोक्तः ।
द्विविधमेव हीति ।
न त्वत्रान्वयाभिधानमात्रेण केवलव्यतिरेकिशड्का कर्तव्या ।
समानजातीयारम्भकत्वं शब्दस्य असिद्धमतः साधयति—कार्यत्वादिति ।
कार्यत्वं पुनरस्यानुपलब्धिकारणभावे सति अनुपलब्धस्योपलभ्यमानत्वाद् वा प्रत्यक्षाद् वेति ।
सर्वत्रोपलब्धिप्रसड्गादित्यस्य विपर्ययेण हेतुः ।
प्रयोगस्त्वेवम्—अव्याप्यवृत्तिः शब्दः, आश्रयाप्राप्तावपि क्वचिदनुपलभ्यमानत्वे सति क्वचिदुपलभ्यमानत्वात् संयोगवदिति ॥
यद्यपि चैतावन्मात्रेण गुणत्वं सिध्यति, तथापि भाष्यकारीयो हेतुरूपेक्षितः स्यादित्यतो ऽव्यापकतामात्रं प्रसाध्यैव प्रकृते लगयति—कर्णेति ।
अत्रापि प्रयोगः, शब्दो वीचीतरङ्गन्यायेन कर्णशष्कुलीमन्तमाकाशदेशमासादयति, प्रकारान्तरासम्भवे सत्युपलभ्यमानत्वादिति व्यतिरेकी ।
उदाहरणार्थं विवेचयति—इदं त्विति ।
सदाद्यभेदः सत्तायोगः, अनित्यत्वम्, कारणवत्त्वम्, सामान्यविशेषवत्त्वमिति ।
साध्यधर्मिण्यस्मदादिभिः कदाचित् प्रत्यक्षेणानुपलम्भादित्यर्थः ॥
आभिप्रायिको ह्यर्थः पक्षधर्मताया विषयः ।
स एवाभिप्रायेण व्याप्यते, येन विना प्रतिज्ञातोर्ऽथो नोपपद्यते ।
उभयथा सम्भावनायाकेकतरत्र बाधकोपपत्तावन्यतरः प्रमाणान्तरगोचरः, तत्र विधायकप्रमाणाभावे केवलव्यतिरेकिणो ऽवतारः ।
तथा हि
क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्र सर्वज्ञत्वमन्तरेण क्षित्यादीनां कर्तृत्वमेव नोपपद्यते, परमाण्वदृष्टादीनामज्ञाने तदधिष्ठानानुपपत्तेः ।
तदधिष्ठाने वा असर्वज्ञत्वानुपपत्तेः ।
तस्मात् सर्वज्ञत्वमन्तरेण प्रतिज्ञातार्थानुपपत्तौ तदभिप्रायव्याप्तम् ।
आभिप्रायिकत्वाच्च पक्षधर्मतागोचरः ।
इच्छादयः परतन्त्रा गुणत्वादित्यत्र पुनरात्मा नाभिप्रायव्याप्तः ।
न हीच्छादीनां क्षित्यादिपारतन्त्र्यमसम्भावित्, अपि तु मानसप्रत्यक्षवेद्यत्वादिभः बाधितम् ।
धूमगतनीलत्वेनेव धूमस्यापालालत्वम् ।
तस्मादुभयथापि सम्भवादात्मा नैवाभिप्रायव्याप्तः, तदव्याप्तत्वाच्च न पक्षधर्मता तमङ्कमारोपयितुमर्हति, अपि त्विच्छासम्बद्धपरमात्रमादायैव निवर्तते ।
एतदुत्तरकालं क्षित्यादौ बाधिते तदन्यासिद्धौ विधायकप्रमाणाभावान्निषेधमुखेन व्यतिरेकी प्रवर्तते ।
तमिमं विशेषं हृदि निधायोक्तम्—बाधकैरपनीते द्रव्याष्टकगुणत्व इति ॥
ननु सामान्यतोदृष्टाद् यद्रूपं सिद्धम्, न तत् केवलव्यतिरेकिणा साध्यम् ।
यादृशं च तेन साध्यम्, तादृशं
न क्वचित् सिद्धम् ।
तथा चाप्रसिद्धविशेषणः पक्षः ।
न च तथाभूते सन्देहो ऽपि कारणाभावात् ।
समानासमानधर्मविप्रतिपत्तीनामनुपलब्धचराविषयत्वादित्यत आह—यद्यपि चायमिति ।
स्वरूपेण असाधारणरूपेणेत्यर्थः ॥
न हि वाक्यार्थसयापूर्वतया पदार्थानां विशेषणविशेष्यभावो विहन्यते ।
तथा सति, अन्वयिनोप्यनुत्थानमिति प्रलीनमनुमानेन ।
न च द्रव्याष्टकातिरिक्तादिपदार्था एवापूर्वे, येनाप्रसिद्धविशेषणता स्यात् पक्षस्य ।
न चैवं सति शशशृङ्गधनुर्धरादावपि प्रसङ्गः, तत्रापि तदार्थमात्राप्रसिद्धेः सर्वत्र सुलभत्वादिति वाच्यम् ।
सामान्यतोदृष्टपूर्वकत्वनियमसीमायाः दुर्लड्घ्यत्वात् ।
अन्यथा सामान्यतो ऽप्यसिद्धः कथं निष्प्रमाणकशब्दसामर्थ्यमात्रमाश्रित्य परामृश्येत ।
अपरामृष्टश्च कथं प्रमाणव्यवहारमवतारयेत् ।
तदिदम् उक्तम्—अदूरविप्रकर्षेण परामृष्ट इति ।
विशेषसिद्धेः सामान्यसिद्भिरदूरविप्रकर्षः, तदसिद्धिस्तु तद्विपर्यय
इत्यर्थः ॥
एवं च संशयो ऽप्यत्र वादिविप्रतिपत्तेरेव सुगमः, इच्छादीनामुभयवादिसिद्धे सामान्यतो ऽधिकरणे द्रव्याष्टकातिरिक्तानतिरेककोट्योरूभाभ्यां समुत्थापनात् ।
अथवा प्रत्येकोत्थितः संशयः समुदाये विश्राम्यतीति न्यायः ।
तथा हि गुणत्वं पृथिव्याश्रिते गन्धादौ, तदतिरिक्ताश्रिते स्नेहादौ च दृष्टम्, इच्छादिषु च दृश्यते ।
तत् किमिच्छादयः पृथिव्याश्रिता, उत तदतिरिक्ताश्रिता इत्यनेनाकारेण सर्वद्रव्येषु भवन् सन्देहः समानधर्मदर्शनादेव द्रव्याष्टकतदतिरिक्तकोट्योरेव पर्यवसितो भवति ।
तदिदमुक्तम्—धर्मिणि चेत्यादि ॥
विभागवचनादेवेत्यादिभाष्यवक्रव्याख्यायाः शड्कापोषणे तात्पर्यम् ।
ननु सदसती तत्त्वमित्यत्र सदसच्छब्दाभ्यां भावाभावावुक्तौ ।
तदिह वर्तमानावर्तमानार्थत्वव्याख्यानं तद्विरुद्धमपि कुत उपादीय इत्यत आह—प्रत्यक्षं हीति ।
अथ तथैव किं न स्यादित्यत आह—यद्यपीति ।
न विशेषण्त्वं स्वातन्त्र्येण स्वातन्त्र्याभिधानेनेत्यर्थः ।
आहो न्यायोप्यस्तीत्यस्याक्षरार्थेन नः सम्बन्धानुपपत्तेः, तात्पर्यार्थेनसम्बन्धमाह—न सन्देह
इति ।
न्यायाभावेन हि तर्कस्य निश्चयापर्याप्तौ सन्देहस्तदवस्थ इत्याशड्कितम्, अतस्तन्निषेध एवोत्तरं युक्तमिति ।
अस्त्येव न्यायः, सन्देहविरोधिनिश्चयसमर्थो यत इति शेषः ।
निमित्तत्वं यदि विषयत्वं तन्नात्मनि दृष्टान्ते ।
अथोपादानत्वम्, न तत्साध्ये समवाय इत्यत आह—निमित्तत्वं कारणत्वमिति ॥
ननु व्यापकत्वं परममहत्परिमाणयोगः, सर्वसंयोगिसमानदेशता वा ।
तदुभयमपि समवाये न सम्भवतीत्यत
आह—सत्युपलब्धीति ।
उपलभ्यतेत्युच्यमाने घटादेरपि व्यापकत्वप्रसङ्गः ।
अत उक्तं सर्वत्रेति ।
देशस्यावच्छेदकतामात्रेण सप्तम्या निर्देशो वने सिहनाद इतिवत् ।
तथाप्यसिद्धं लक्षणम्, न ह्यात्मादयः सर्वत्रोपलभ्यन्ते इत्यत उक्तम्—सत्युपलब्धिकारण इति ।
तथापि विषयस्याप्युपलब्धिकारणत्वाद् यत्र यत्र घटादिपरमाण्वन्ताः स्वोपलब्धिसामग्रीसहिताः, तत्र तत्रोपलभ्यन्त एवेति तैरेव व्यभिचार इत्यत उक्तम्—अन्तरेति ।
एतच्च द्रव्यरूपकारणान्तराभिप्रायेण द्रष्टव्यम् ।
अन्यथा यत्र घटादयो न सन्ति, तत्र ततो ऽन्यस्य तदुपलब्धिकारणस्य तदिन्द्रियसंयोगस्याभावादेव तेषामनुपलम्भः, तत्सद्भावे तु सर्वत्रोपलम्भ एव इत्येतदप्याशड्क्येत ।
तथापि परमाण्वादिगुणैरेव यावद्द्रव्यभाविभिराश्रयाधीननिरूपणैर्व्यभिचारः, तन्निवृत्त्यर्थमनेकसम्बन्धित्वे सतीति द्रष्टव्यम् ।
एतच्च सर्वत्रेत्यनेन टीकाकृता सूचितम् ।
यद्यपि च सर्वत्रास्तित्वं व्यापकत्वम्, तथापि लक्षणमन्तरेण तद् दुरवबोधमिति तदेवोक्तमिति ।
न्यायेतिकर्तव्यताभूतं तर्कं पृच्छति ।
कर्त्रा अव्यापार्यमाणस्य करणस्य स्वयं व्यापारायोगादित्याशयवानिति भावः ॥
अथोक्तमनवस्थानप्रसङ्गमवतारयितुं किमित्यनाधारत्वप्रसङ्ग उच्यते, यावता स्वतन्त्र एवायं प्रसङ्गः किं
न स्यात्? न हि कार्यस्यानाधारत्वमस्येष्टमेवेत्यत आह—स्यादेतदिति ।
पश्चात् तुर्या संयुक्त इति शेषः ।
न ह्युत्पन्नो ऽप्यसंयुक्त एव तुर्या प्रथमेक्षणे पट इति कस्यचिन्निश्चयः, अथ च प्रमाणबलादिष्ट एवायमर्थः, तथोत्पन्ने ऽपि प्रथमे क्षणे तन्तुष्वसमवेत एवेष्यत इति पादौ प्रसार्य तिष्ठतो नेदमुत्तरमित्यर्थः ।
तस्मादनवस्थाप्रसड्गावतारणायैवेदमुक्तमित्याह—समवायश्चेतीति ।
यद्यप्युपाधिकथनेनैव वृत्तिमत्त्वस्य प्राप्तिधर्मत्वं निराकृतम्, तथापि प्राप्तित्वस्यानैकान्तिकत्वसूचनाय पुनरप्यनवस्थाप्रसङ्गमवतारयति—अथेति ।
अनवस्थाभिया अवश्यमन्ततः काचित् प्राप्तिश्च न च वृत्तिमतीति स्वीकर्तव्यम्, ततश्च तथैव प्राप्तिमत्त्वमनैकान्तिकमित्यर्थः ॥
अथानवस्थास्वीकारे को दोष इत्याशड्क्य निराकरोति—नन्वियमिति ।
अनादितायां ह्यड्कुरोत्पादानुगुणसमयसम्भविना बीजेन जनिते ऽड्कुरेण जनिते बीजे वर्तमानं बीजत्वं तस्याड्कुरपूर्वकतामवगमयतीति युज्यते, अविकलस्य हेतोः प्रमाणस्य विद्यमानत्वात् ।
इदम्प्रथमतायां तु कार्योत्पादानुगुणसमये भविष्यत्प्रवाहस्यासत्त्वात् प्रथमस्यानुत्पादे तदाश्रयस्य हेतोस्तस्मिन्नसत्याश्रयासिद्धतया सर्वस्यागमकत्वे प्रमाणाभाव इत्यर्थः ॥
अभ्युपेतकणादाप्तत्वस्य शास्त्रविरोधश्चेत्यादि ।
कार्यमकृतकसम्बन्धवदिति प्रतिज्ञायां घटादेर्भूतलादिनाप्यकृतक एव सम्बन्धः स्यात्, स चानिष्ट इति प्रतिज्ञां विशिनष्टि—स्वोपादानेनेति ।
स्वसमवायिनेत्यर्थः ।
कार्यमिति च समवेतमात्रोपलक्षणपरम्, अन्यथा जात्यादिषु विपक्षेषु सम्भवे हेतोर्विरोधः स्यात् ।
अथवा प्रतिज्ञा यथाश्रुतैव, आधारवत्त्वादित्यत्राधारशब्देन नाश्रयमात्रं विवक्षितम्, किं त्वधिकरणं कारकम् ।
तेनाधिकरणकारकवत्त्वाद् इत्यर्थः ।
न च वाच्यम्—कारकवत्त्वमात्रेणैव पर्याप्तौ किमधिकरणग्रहणेनेति, प्रध्वंसेन विरोधप्रसड्गात् ।
न कार्यस्य कार्यः सम्बन्ध इत्यर्थः ।
मिथः सम्बध्येते ।
आधार्याधारभावेनावतिष्ठेते इत्यर्थः ।
सो ऽपि समवाये नास्ति समवायान्तराभावादित्यर्थः ।
सन्नप्यसौ न कार्यमाधारवत् करोति, स्वसमवायेनैव तस्याधारवत्त्वात्, तदभावे त्वेकार्थसमवायो ऽपि न स्यादित्यर्थः ।
सहोत्पादे कार्यमनाधारं स्यात् ।
सर्वदेति शेषः ।
समवायिकारणाभावे ऽसमवायिकारणशड्कापि नास्ति, तत्प्रत्यासन्नस्वभावत्वात् तस्येत्यभिप्रायवता तदुपेक्ष्य निमित्तमात्रादुत्पत्तिराशड्क्य निराकृता ॥
ननु विधीयमाननिषिध्यमानव्यतिरेकेण जगति न स्वतन्त्रो नाम ।
तत् कथं धर्मत्रैविध्यमित्यत आह—अत्र चेति ।
विधीयमानो वर्तमान इत्यर्थः ।
प्रतिषिध्यमानः अवर्तमान इत्यर्थः ।
तत्र ये वर्तमानाः, तेषां कश्चित् परतन्त्रो वृत्तिमानित्यर्थः ।
कश्चित् स्वतन्त्रो वृत्तिरहित इत्यर्थः ।
प्रतिषिध्यमानास्तु परतन्त्रा न सन्ति, असत्त्वादेव इति ।
तदेवं विधीयमानः स्वतन्त्रो विधीयमानः परतन्त्रः प्रतिषिध्यमानः स्वतन्त्रश्चेति तिस्रो विधा इत्यर्थः ।
तदेवमवर्तमानो घर्मः प्रतिषिध्यमानतयैव व्यवह्रियते, न चासौ प्रत्यक्षविषयः, किं त्वनुमानविषय इति दर्शितम् ।
तच्चानुपपन्नमिति शड्कावार्त्तिकार्थम् आह—नन्विति ।
असन्नित्युद्देश्यम् ।
तेनायमर्थः, असन्नवर्तमानो न केवलं प्रतिषेधव्यवहारविषयः, किं तु विधीयमानो ऽपि, विधिव्यवहारविषयो ऽपि ।
एवमसौ न केवलम् अनुमानविषयः, प्रत्यक्षश्च ।
क्वचित् प्रत्यक्षविषयश्चेत्यर्थः ।
क्केत्यत आह—यथेति ।
कथमसौ विधीयमान इत्यत आह—जायमान इति ।
कथमसौ प्रत्यक्षविषय इत्यत आह—विस्फारितेति ।
कथमसाववर्तमान इत्यत आह—न चासाविति ।
असत्तया सत्तया वानभ्युपगमादिति सत्ताया जायमानतया विरोधात्, असत्तया विधिविषयतयेति भावः ।
कथं नाभ्युपगम्यते न हि सत्तासत्ताभ्यामन्यः प्रकारो ऽस्तीत्यत आह—निषेधविषयतया त्विति ।
विधीयमानतापक्षे हि जायमानताभ्युपगमे उभयथापि विरोधो, न तु प्रतिषिध्यमानतापक्षे ऽपीत्यर्थः ॥
तस्मात् जायमाने घटे न विधायकप्रत्यक्षप्रवृत्तिः, विरोधात् ।
निषेधकं तं प्रत्यक्षं प्रवर्तमानमपि तन्निषेधमेव गोचरयेत्, न तु निषेध्यं घटम् ।
ततः सिद्धो विषयभेद इति सारम् ।
उपपादनीय इति सत्कार्यवादमपनीय ।
अपरे त्विति ।
अर्थातिरेकमात्रम् ।
अर्थपदातिरेकमात्रम् ।
एवमुत्तरत्रापि ॥
ननु केनैतदुक्तम्, यदुभयपदव्यभिचार एव विशेषणसमासो भवतीत्यत आह—विशेषणमिति ।
ननु तथाप्युभयोरपि पृथिवीद्रव्यशब्दयोरूभयवाचित्वात् कथं विशेषप्रतिपत्तिरित्यत आह—न चेति ।
न हि भवति पृथिवीत्वं द्रव्यत्वमित्युपलक्षणम् ।
पृथिवीत्वं द्रव्यम्, द्रव्यत्वं च पृथिवीत्यपि न भवतीत्यपि द्रष्टव्यम् ।
न च नान्तरीयकार्थशब्दयोरपीयमेव गतिरस्त्विति वाच्यम्, अनियमप्रसड्गात् ।
नान्तरीयकत्वार्थयोरपि सामानाधिकरण्यादर्थत्वनान्तरीकयोरपीति ।
ततस्तद्व्यवच्छेदार्थं पुनरपि प्रयत्नान्तरमास्थेयम् ॥
तस्मादनेकार्थत्वे ऽपि विशेषपर एवायं नान्तरीयकशब्द इत्यकामेनाप्यभ्युपेयम् ।
तथा च पूर्वदूषणानिवृत्तिरिति ।
ननु अनियतप्रसरेणासति नास्तीति सहितेनेष्टलाभो यद्यपि तथापि सर्वथा सपक्षावृत्तिरसाधारणो ऽपि निवर्तयितव्यः, न हि पक्षव्यापको विपक्षे च नास्त्येवैतावतैव तस्य निराकरणम्, तस्याप्येवम्भूतत्वात् ।
तस्मात् तत्तुल्ये सद्भाव इति कर्तव्यमेवेत्याशड्क्याह—प्रसक्तमप्रतिषिद्धमनुमतमेवेति ।
प्रसक्तस्य प्रतिषेधादुपादाने तद्विपरीतस्य हानमर्थायातमित्यर्थः ।
न चासम्भवो ऽपि प्रसक्तो, येनानिषेधात्
तस्याप्युपादाने तद्विपरीतहानं सम्भाव्येत ।
प्रथमे पदे सम्भवस्य विधेयत्वेन इवासम्भवस्य निषेध्यत्वेनानुपादानादिति ।
समुच्चीयमानेत्यादि वैचित्र्येण हि निपातसम्बन्धे वाक्यभेदप्रसङ्गः, अथैकवाक्यत्वमिच्छन्नवैचित्र्येणैव निपातसम्बन्धमिच्छेदित्यर्थः ।
एतदेवानूद्यमानसमुच्चयमाशड्क्यमानः स्फुटयति—न चेति ।
उदितं ह्यनूद्यते, नत्वनुदितम् न चोभयत्वविशिष्टं हविरूदितम् ।
किं तु हविर्मात्रम् ।
तथा चानुवादपक्षे उभयत्वमविवक्षितम् ।
उभयत्वविवक्षायां तु नायमनुवादः, किं तु वाद एव ।
तथा च वाक्यभेदः ।
एवं दार्ष्टान्तिके ऽपि यदि साध्यायोगव्यच्छेदविशिष्टो हेतुरूदितः, युक्तमिदानीं यत्तथासावनूद्यते, न त्वेतदस्ति ।
हेतुमात्रं त्वविशिष्टमुद्दिष्टम् ।
विशिष्टस्य तु तस्यायमेव प्रथमो वादावतारः ।
तद्यदि यस्येत्ययमनुवादो, नूनमनुमेये सद्भाव एवेत्यविवक्षितं विशेषणम्, विवक्षिते तस्मिन्ननेनैव वाक्येन विशिष्टो वादः कर्तव्यः ।
पश्चादिदमेवावृत्त्यानुवाद इति वाक्यभेद इत्यर्थः ।
सो ऽयं प्रयत्नान्तरीयस्थानशब्दस्यार्थः ॥
ननु यद्यनूद्यमानमशक्यं विशेष्टुम्, अथार्तिरपि कथं हविषा विशेष्यत इत्यत आह—अत्र हि यद्यपीति ।
अनन्यगतिकत्वात् प्राप्तेन हविषा विशेषणमार्तेः ।
उभयत्वस्य तु न पूर्वप्राप्तत्वम्, नापि तदन्तरेणार्तिरशक्यप्रतिपत्तिः, साध्यायोमव्यवच्छेदः अपि हेतोरीदृश इत्यर्थः ।
यद्येवमुभयवचनं किमर्थमित्यत आह—प्रतीयमानमपि उभयत्वमविवक्षितम् ।
विशेषणतयेति शेषः ॥
अयं वाक्यार्थः ।
आर्तिविशेषणतया हविस्तावदुपादातव्यम्, तस्य चाज्यपुरोडाशाद्यनेकरूपत्वादुभयत्वमप्यस्तीति प्रायिकतया तदप्युपात्तम् ।
तेनेदं सिद्धं भवति, एकमनेकं वा हविर्यस्यार्तिमार्च्छेदित्यादि ।
उभयत्वविवक्षापक्षे तु नैकैकहविरार्तौ प्रायश्चित्तविधिः स्यादिति दोषः ॥
न चैवमस्त्विति वाच्यम्, वाक्यभेदप्रसङ्गस्य तादवस्थ्यादिति ।
न चानुमेये सद्भाव एव, तत्तुल्य एव सद्भाव इति वाक्यद्वयमेवेदमुभयविधायकमस्तु, को दोष इति वाच्यम्, त्रिरूपसम्पन्नस्य हेतुरूपस्यैकस्यार्थस्यालाभप्रसड्गात् ।
वाक्यभेदे ह्यवश्यमर्थभेद इति न्यायात् ।
शङ्कते—अथेति ।
अवान्तरवाक्यभेदे ऽपि महावाक्यस्यैकत्वात्, विवक्षितैकार्थप्रतिलम्भ इति शड्कार्थः ॥
अत्र नैयायिकसमाधानमाशड्क्य बौद्धः स्वभाषया निराकरोति—न चेति ।
यद्यपि तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वं तदा स्याद् यदि विषयान्तरसङ्कोचः स्यात्, स च तदेकवाक्यतयेति परस्पराश्रयदोषः ।
अन्यथोभयोरपि तत्तुल्यान्यत्वाविशेषे विपक्षयोगस्य व्यवच्छेदो न त्वनुमेययोगस्येति कुतः? विहितत्वात् तस्येति चेत्? अत एव विरोधादेकवाक्यत्वासङ्गतिरित्युच्यते, यस्मात् तदेकवाक्यतायामेव सत्यां विपक्षमात्रविषयत्वमस्य वक्तुं शक्यते ।
सापि तस्मिन् सत्येवेति दुरूत्तरदोषापत्तिः ।
तथापि बौद्धनये शाब्द्धं व्यवहारमाश्रित्य समुच्चय एव न निर्वहेत्, कृतमनया विरोधे सूक्ष्मेक्षिकयेत्याशयवानाह—अन्यापोहेति ।
सो ऽयं साधारणो ऽपि न्यायो ऽप्रस्तुतत्वभिया विशेषनिष्ठतयावतारित इति ॥५ ॥
॥ परिशुद्धिः ॥
यथोद्देशं च लक्षणादिति भावपदम् ।
लक्षणमाह इत्यनयोर्मध्ये इतिः पूरणीयः ।
अत्रापीत्यपिशब्दः प्रत्यक्षलक्षणोपक्षया ।
ननु साध्यते ऽनेनेति साधनमित्येवास्तु, सम्भवति चायमर्थो ज्ञानस्य करणतायाम्, तस्य प्रसिद्धसाधर्म्यसमुत्थत्वादित्यत आह—तदेतदिति ।
न सामान्यातिरिक्तं सादृश्यम्, अनाश्रितस्यान्याश्रयत्वे द्रव्यत्वप्रसड्गात्, अनन्याश्रितस्याप्ययुतसिद्धोभयव्यड्ग्यत्वे समवायत्वप्रसड्गात्, गोगवयादियुतसिद्धनिष्ठाभिव्यक्त्यनुपपत्तेश्च ।
युतसिद्धाभिव्यड्ग्यत्वे ऽभावत्वप्रसड्गात्, अयुतसिद्धावयव्यवयवादिनिष्ठाभिव्यक्त्यनुपपत्तेश्च ।
नित्यस्यानेकाश्रयत्वे जातित्वप्रसड्गात् एकाश्रयत्वे तस्य नाशे अनाश्रयस्यावस्थानानुपपत्तेः नित्यत्वे प्रमाणाभावप्रसड्गाच्च ।
सामान्यं ह्येकाश्रयनाशे ऽपि आश्रयान्तरे ताद्रूप्येणैव
प्रत्यभिज्ञानात् नित्यमिति व्यवस्थाप्यते ।
इदं तु न तथेति कथं नित्यमिति ज्ञातव्यम्?
प्रत्युतानित्यैकाश्रयत्वादेवानित्यत्वमेवानुमीयते, नित्यैकवृत्तित्वे तु स्वरूपसतो विशेषत्वप्रसङ्गात् ।
सत्तासतो गुणत्वापत्तेः ।
अनित्येषु च सदृशव्यवहारहानप्रसड्गात्, अनित्यस्य त्वनेकाश्रयत्वे गुणवतो द्रव्यत्वप्रसड्गात् ; निर्गुणत्वे गुणत्वप्रसड्गात् ।
एकाश्रयत्वे संयोगविभागयोरनपेक्षकारणस्य कर्मत्वप्रसड्गात् ।
तद्विपरीतस्य तु गुणत्वप्रसड्गात् ।
गुणेषु च कर्मसु च सादृश्यव्यवहारो न स्यात्, तेषां समवायिकारणत्वाभावेनानित्यधर्मायोगात् ।
आश्रयसादृश्येन तद्व्यवहारोपपत्तौ विसदृशाश्रयाणां गुणकर्मणां तद्व्यवहारानुपपत्तेः, कारणत्रयविचारानुपपत्तेश्चेत्यर्थः ।
साधर्म्यप्रसिद्धिरपि द्रष्टव्येति ।
सूत्रे सा च कर्मधारयसमाश्रयेण ।
इत्याप्तवाक्यादिति वाक्यादारभ्यं प्रत्यक्षपर्यन्तेनेति हृदयम् ॥
प्रज्ञापनीयस्य गवयशब्दवाच्यतयेति वदता अतिदेशवाक्यस्याकृतसमयसञ्ज्ञासमभिव्याहारो दर्शितः ।
तथापि करणव्युत्पत्त्या साधनपदव्याख्यानस्य परित्यागे न काचिदुपपत्तिर्दर्शिता, प्रज्ञापनपदस्यापि करणव्युत्पत्तिसम्भवादत
आह–पिण्डस्य हीति ।
प्रत्यक्षात् सादृश्यात् प्रजानन् तेन प्रज्ञाप्यत इति वदन् सादृश्यस्यैव प्रज्ञायमानस्य कारणत्वमभिप्रैति ।
तथा च तेन सह साध्यसाधनपदस्य व्यधिकरणत्वादन्यस्य च करणस्याभावात् साध्यसाधनपदमनर्थकमापद्येत, यदि भावसाधनं न स्यात् ।
न च तज्ज्ञानमेवास्तु करणमिति वाच्यम्, अवान्तरव्यापारविरहिणः करणत्वायोगात् ।
असमीचीने ऽपि सादृश्यज्ञाने तथाभावप्रसड्गाच्च ।
तदपि हि सादृश्यज्ञानमेव ।
प्रमाणानुवृत्त्या तन्निवृत्तिरित्यपि न वाच्यम्, वृत्तैरेव पदैः समीहितसिद्धावनुवृत्तेरनवकाशात् ।
सापि हि ग्रन्थवैचित्र्यमापादयन्ती पदान्तरवृत्तिरेव ।
तथापि प्रज्ञानं प्रसिद्धिपदार्थोन तु प्रज्ञापनमित्यत आह—इत्येतदर्थे ।
प्रमाणस्य व्यापारो ऽव्यवधानेन फलोपरक्ता प्रातिस्विकी क्रिया ।
ज्ञायमानस्य सादृश्यस्य करणत्वमाविष्कर्तुं तस्यान्यत्र अचरितार्थः फलानुगुणो व्यापारो दर्शित इति तात्पर्यार्ऽथः ॥
तत्रेति ।
तात्पर्यार्थाक्षरार्थयोः ।
लक्ष्यपदं हि लक्षणव्यवस्थापकं न भवति परस्पराश्रयत्वमगतिर्वेति दोषात् ।
ननु उपस्थापकमपीत्याशयवानाशड्क्य द्वितीयपदोपादानतात्पर्यमाह–यद्यपीति ।
नन्वेवं सति प्रथमैवास्तु, न चेयमशोकवनिका, तस्याः प्रथमत्वादेव प्रथमं बुद्धावुपनिपातात् ।
न साध्यसाधनपदेन फलवाचिना सामानाधिकरण्यानुपपत्तेः ।
अस्तु तर्हि तदपि करणसाधनम् ।
एवं यत इत्यध्याहारकष्टसृष्टिरपि न स्यात् ।
सत्यमेवैतत्, किन्तु फलाभावेनैव हेतुनोपमानस्य प्रामाण्यमपनीयते परेण ।
तस्मात् तदवबोधाय निष्कृष्य फलमस्य दर्शनीयमिति तथैव सूचितवान् ।
एतच्चाग्रे स्फुटमिति नेह टीकाकृता दर्शितम् ॥
भाष्यवार्त्तिकयोः विरोधमाशड्क्याह—वार्तिककारेणेति, तृतीयासमास इत्युपलक्षणम् अर्थसिद्धः
कर्मधारयसमासो ऽपि न निरस्त इति द्रष्टव्यम्, अविरुद्धत्वात् ।
प्रसिद्धं साधर्म्यं यस्येति बहुव्रीहावपि कर्मधारयार्थस्य प्रविष्टत्वात् ।
एवं प्रसिद्धेन साधर्म्यमित्यत्र तृतीयातत्पुरुषस्य प्रवेशाद् विरोधान्तरमाशड्क्याह—भाष्यकारेण हीति ।
नायमर्थो भाष्याक्षरेभ्यः श्रूयत इत्यत आह—आक्षिप्रेति ।
प्रश्चान्निष्कृष्याभिधानं कृतम्, समयप्रतिपत्तेः फलस्य ।
तदाह—समाख्येति ।
तथापि किमायातं वार्त्तिकविरोधस्येत्यत
आह—एतदेवेति ।
प्रतिपद्यतामयमित्यादिशड्कोत्तरार्थ सूत्रोक्तं करोति—प्रसिद्धसाधर्म्यादित्यत्रेति ॥
अत्रोपमानस्य फले विप्रतिपद्यमानान् प्रति साशड्कं जरन्नैयायिकजयन्त प्रभृतीनां परिहारमाह–यद्यपीति ।
सञ्ज्ञाकर्म सञ्ज्ञाकरणम् ।
मानान्तरं शब्दो वा शब्दार्थो वा लिङ्गभूतः ।
तत्र लिङ्गपक्षे, उपलक्षितः प्रतिपादितः ।
शब्दादवगतेन गोसादृश्येन प्रतिपाद्यमानः पिण्ड समानासमानजातीयेभ्यो व्यवच्छिन्नः शक्यमवगनतुमिति सम्बन्धः ।
शब्दपक्षे, तु गोसादृश्येनोपलक्षितो विशिष्टः शब्दादवगम्यमानः पिण्डः समानासमानजातीयेभ्यो व्यवच्छिन्नः शक्यो ऽवगन्तुम्, गुणकर्मादिवत् सादृश्यस्यापि समानसमानजीतीयव्यवच्छेदकत्वादिति सुगमम् ।
गोसदृशो गवयशब्दवाच्य इति तावदस्तु ।
अथ गोसदृश एव क इत्याशड्कानिवर्तनासामर्थ्यमतेः परिप्लवः ।
एनमेवार्थं कश्चिदित्यादिना दर्शितवान् ।
तत्रेति ।
तर्हि विशिष्टैव प्रतिपत्तिर्वाक्यादस्तु इत्यत आह—न चेति ।
प्रत्यक्षमात्राद् भविष्यतीत्यत आह—न चेति ॥
एतेन वाक्यप्रत्यक्षसमाहारो ऽपि निरस्तः ।
स हि प्रमाणसमाहारो वा स्यात्, फलसमाहारो वा? आद्ये ऽपि प्रमाणत्वे सति समाहारः, समाहृतयोर्वा प्रामाण्यमिति? न तावत् प्रथमः, फलानेकत्वे सति समाहारानुपपत्तेः,
तस्यैकफलं प्रति परस्पराधिपत्यरूपत्वात् ।
नापि द्वितीयः, वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् ।
वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बद्धेनापीन्द्रियादिना तद्गतसादृश्यानुपनये समयपरिच्छेदासिद्धेः ।
फलसमाहारे तु तदन्तर्भावे ऽनुमानशब्दयोरपि प्रत्यक्षत्वप्रसङ्गः ।
तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव, अन्तर्भावे वा कियती सीमा? तत्तदसाधारणेन्द्रियादिसाहित्यम् ।
अस्ति तर्हि सादृश्यादिज्ञानकाले ऽपि विस्तारितस्य चक्षुषो व्यापारः? न, तस्मिन् सति
तस्यानुपयोगात् ।
उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यस्मृतिमतः कालान्तरे ऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तिरिति ।
तदेतत् जरन्नैयायिकमतमास्कन्दति—नन्विति ।
पूर्वे हि यथा गौस्तथेत्येव वाक्यं गवयपदेनाप्रतीतसमयेनापि प्रयोगमात्रोपयोगिना सहितं सम्बन्धप्रतिपत्तिहेतुः, प्रतिसम्बन्धिनस्तु शब्दाद् वोपलक्षणाद् वोपस्थापनमित्याहुः ।
आधुनिकास्तु प्रतिसम्बन्ध्युपस्थितिः पूर्ववदेव, समयपरिच्छेदस्तु प्रयोगानुमानादित्याहुः ॥
अवाचकप्रयोगस्य वाक्यानङ्गतयेति तद्विरहिणश्च सम्बन्ध्युपलक्षणपर्यवसानादिति मन्यमाना एतदेव
प्रयोगमारोप्य दर्शयन्ति—यो हीति ।
एतेनैव परिप्लवो निरस्तः ।
यदि हि सम्बन्धो विदितः, कः परिप्लवार्थः? अथ न विदित इति तत्राकाड्क्षानुवृत्तेरेवमुच्यत इति चेत्–तदप्ययुक्तम् ।
न हि विशेषनिष्ठः समयः, तथा सत्यशक्यग्रहत्वात्, अपि तु किञ्चित् निमित्तीकृत्य देशकालादिविशेषविनाकृतव्यक्तिमात्रनिष्ठः ।
तदेव निमित्तं नावगतमिति चेत्? अवगतिरेव तर्हि सन्न्धस्य सम्बन्धिनो ऽनवगमादिति किं परिप्लुतं प्रमातुः? न चैष परमार्थः, सादृश्यविशिष्टपिण्डोपक्षेपे निमित्तस्याप्युपक्षेपात् ।
अन्यथा पिण्डोपक्षेपे ऽपि निमित्तानुपक्षेपे मनोधर्मादिशब्दानां जातिशब्दत्वं न स्यात्, अवाचकत्वमेव वा स्यात्, तज्जातीयानां नित्यपरोक्षत्वादिति ॥
अत्रोच्यते अभिनवनैयायिकैः, पञ्चधा हि वाच्यवाचकभावव्यवस्था ।
निमित्तोपलक्षणरहिते शृङ्गग्राहिकया चैत्रमैत्रवत् ।
निर्निमित्ते ऽन्तर्भूतोपलक्षणे निर्वचनिकया पाचकादिशब्दवत् ।
निर्निमित्त एव तटस्थोपलक्षणे परिभाषणिकया आकाशादिशब्दवत् ।
सनिमित्ते तटस्थोपलक्षण एवम्प्रकारिकया पृथिव्यादिवत् ।
विशेषवन्निमित्ते निमित्तसण्ड्कोचनिकया स्वर्गादिवदिति ।
तत्र प्रथमद्वितीययोरसम्भावितत्वादिह विदितवृत्तान्ततया तृतीयं प्रकारं निरस्य पञ्चमश्चतुर्थमुपयातीति चतुर्थं व्यवस्थापयति—न तावदिति ।
अविदितगवयशब्दवृत्तान्तस्य तु यद् भविष्यति, तदनन्तरमेव वक्ष्यति ।
तदिदमुक्तमिति ।
परमार्थो वस्तुगतिः ।
ततश्च तथाभूत एव पिण्डे सम्बन्धो ग्राह्यो,
न तु सादृश्योपलक्षणोपनीते पिण्डमात्र इत्यर्थः ॥
ननु निमित्तमप्यवगतमित्यत आह—न चेति ।
न च गोसादृश्येनोपलक्ष्यत इति उपलक्षणमनुमापनम्, स्मारणं वा ।
उभयमप्यदृष्टसम्बन्धे ऽनुपपन्नम् ।
स्मरणमात्रापेक्षया दण्डपुरुषोदाहरणम् ।
एतावदेव च स्यात् ।
यदुत
गवयशब्दो वा गवयत्वं गमयेत्, यथा गौः तथा गवय इति ।
शब्दार्थो वानुमापयेत् अव्यभिचारपक्षे ।
व्यभिचारपक्षे तु स्मारयेदिति ।
ननु सादृश्यमेव जातिभेदमनन्तर्भाव्य प्रत्येतुं न शक्यम्, तस्य भिन्नप्रधानसामान्यव्यक्तिगुणावयवकर्मसामान्यबाहुल्यरूपत्वात् ।
तस्मात् सादृशयथातथादिशब्दा एव तस्य प्रत्यायकाः ।
केवलं प्रसिद्धाप्रसिद्धसन्देहो ऽवाशिष्यते ।
तत्र हस्तित्वादिकं गोशब्देन निरस्तम् ।
महिषत्वादिकं तु अनुचितविषयतया, अन्यथोपमानस्वीकारे ऽप्यप्रतीकारात् ॥
तदयं गोसदृश इत्यस्यार्थः ।
गोतो भिन्नजातीयः, तद्गतगुणावयवादिसामान्यबाहुल्यवानिति ।
नैतदपि साधीयः, दर्पण इव चन्द्रः, चन्द्र इव मुखम् मुखमिवारविन्दम्, अदो ऽरविन्दमिवेदमरविन्दमिति चतुर्धा सादृश्यगतौ भिन्नप्रधानसामान्यनियमायोगेन तदनन्तर्भाव्यैव सादृश्यप्रतिपत्त्युपपत्तेः ।
क्वचिद् दृष्टमिह स्मर्येत तावदिति चेत्? स्मर्यतां तावदत्रावगतम्, न त्विह तदवगतमिति ब्रूमः ।
तस्माद् गोसामान्येनोपलक्ष्यमाणः पिण्डः किं तद्वानेव गवयशब्दस्य वाच्यो भवतु? पचिक्रिययोपलक्ष्यमाणः कर्तेव पाचकशब्दस्य, आहोस्वित् तटस्थमेव गोसादृश्यम्, तदुपलक्षित एव पिण्ड आकाशवत् तस्य वाच्यो भवेत्? किं वोपलक्षणं विहाय गन्धापलक्षितपृथिवीत्वजातिमानिव गोसादृश्योपलक्षितजातिविशेषवानेव पिण्डो ऽस्य वाच्यो भविष्यतीतरनियतकोटिसंशयतिरस्कारेण कोटित्रयावलम्बी सन्देह एव जरन्नैयायिकैरूपप्लुतः सम्बन्धपरिच्छेद इत्युच्यते, एतास्ववश्यमन्यतमा कोटिर्गवयपदार्थो भविष्यतीति निर्धारणसम्भावनां हृदि निधाय ।
ऐतेन मनोधर्मादिप्रतिबन्दिग्रहः प्रत्युक्तः ।
तत्राप्यनुमानेनोन्नीयमानानां मनोव्यक्तीनां समानगुणतया समानार्थक्रियाकारितया
समानजातीयत्वानुमानात् ।
सामान्यानवगतौ तु तत्राप्यशक्य एव समयग्रहः ।
सामान्यं वा न तस्य प्रवृत्तिनिमित्तमिति ॥
तदिदमुक्तम्–सर्वथानुपलब्धेरिति ।
यद्यपि गवयत्वावगमे ऽपि सञ्ज्ञासञ्ज्ञिसम्बन्धानवगमे तत्र प्रयुज्यमानत्वादिति हेतुरसिद्ध एव ।
न ह्यसति वृत्त्यन्तरे तद्विषयतया प्रयोगः सङ्गतिमविज्ञाय ज्ञातुं शकयते, प्रागेव प्रमाणान्तरात् तदवगमे तु किमनुमानेन साधनीयम्? अत एव प्रत्यक्षे ऽपि गवये अनुमानमनवकाशमेव ।
तथापि सम्बन्ध्यवगमे गवयपदसमभिव्याहृतं वाक्यमेव सम्बन्धं बोधयिष्यति ।
अवाचकस्यापि च समभिव्याहार उपयोक्ष्यते उपमानपक्ष इव ।
तदपि ह्यतिदेशवाक्यं
वाक्यमेवेति मत्वा तन्निरासार्थं सम्बन्धिन एवाप्रतिपत्तिरूपपादिता ॥
अत एवाह—कुतो वाक्याद् वेति ।
अत एव वाक्यस्य व्याप्तिपरतापि निराकृता, सम्बन्धिनो ऽनवगमात् ।
न च व्यतिरेके तात्पर्यम्, सङ्केतयितुरभिप्रायोपाधिकत्वात्, सत्प्रतिपक्षत्वाच्चेति ।
यद्यपि विनिगमनायां हेत्वभावे ऽपि नोपमानस्य काचित् क्षतिः, उभयोरपि वाच्यत्वे सम्बन्धस्य तदानीमवधारणात्, तथापि वस्तुगति विवेचयति—तथापि
किम् इत्यादि तदनुजानाति इत्यन्तं करभवृत्तान्तम् ।
परिहरति—साध्यर्म्यग्रहणं चेति ।
उपलक्षणपदप्रयोगश्चावान्तरभेदसंसूचनाय तेनेयं सूत्रगतिः ।
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।
स च प्रसिद्धो धर्मः समानः प्रतियोगितया तदुपक्षिप्तो ऽसमानश्चेति ।
बहुव्रीहिपक्षे तु प्रसिद्धधर्मण इति ।
शेषं पूर्ववत् ॥
जरन्मीमांसकमतं गोसादृश्यं गवयस्थं प्रत्यक्षमेवेति वदता निरस्तम् ।
शाबरमतमाशड्क्य निराचष्टे–गोस्थामिति ।
जात्यन्तरवर्ति जात्यन्तरस्येति प्रायोवादः ।
तथापि गवयव्यक्त्यवच्छिन्नस्य न गोव्यक्त्यवच्छेदो ऽवगतः, तत्रोपमानमवतरिष्यतीत्यत आह–तस्माद् यथेति ।
दृष्टान्ते तात्पर्यम् ।
प्रयोगस्त्वित्यादि ।
अकृतसमयसञ्ज्ञासमानाधिकरणवाक्यार्थोपधानं प्रमाणवैलक्षण्यमिह द्रष्टव्यम् ।
विषयस्वरूपवैलक्षण्ययोरसिद्धत्वादति ॥६ ॥
॥ परिशुद्धि ॥
इह शब्दे त्रिविधा विप्रतिपत्तिः—प्रामाण्यतो, भेदतो, लक्षणतश्चेति ।
तत्र प्रथमः कल्पो वचनविरोधादेव निरस्तः, तत्प्रामाण्यमनभ्युपगम्य विवक्षितार्थस्य प्रतिपादयितुमशक्यत्वात् ; प्रतिपादने वा तत एव तत्प्रामाण्यसिद्धेरिति ।
भेदस्तु परीक्षापर्वणि निरूपणीयः, लेशतस्त्विहापि ।
व्यावर्तकधर्मयोगादेव भेदव्यवहारो ऽपि ।
लक्षणं च तथा ।
ततः तदेव विवेचनीयम् ।
तत्र विप्रतिपद्यमानं प्रति तु परीक्षावतार इत्याशयवान् सिद्धवत् सङ्गतिभाष्यं व्याख्याय लक्षणमवतारयति—अथेति ॥
तत्र समयबलेन सम्यक्परोक्षानुभवसाधनं शब्द इति एके ।
इह चाद्येन पदेनानुमानम्, द्वितीयेन शब्दाभासः, तृतीयेन सविकल्पकप्रत्यक्षम्, चतुर्थेन पदार्थस्मरणम्, पञ्चमेन कर्तृकर्मणी निरस्येते ।
अपरे तु
चेष्टायामपि गतमेतदित्यतिव्यापकं मत्त्वा शब्दत्वसमवाये सतीत्याहुः ॥
अत्र प्राचयानामयमाशयः ।
यदि चेष्टा न प्रामाणम्, अप्रसङ्ग एव तस्याः, किं शब्दत्वसमवाये सतीत्यनेन निर्वर्तनीयम्? प्रमाणं चेत् तस्याः प्रत्यक्षाद्यनन्तर्भावे पञ्चमप्रमाणाभ्युपगमप्रसङ्गः ।
तस्मात् शब्द एव चेष्टायाः प्रवेशः समयबलप्रवृत्तेः ।
शब्द एव तु शब्दव्यवहारो लौकिकः प्रायिकत्वात्, चाक्षुषे ज्ञानदर्शनव्यवहारवदिति ।
ते ऽपि स्थूलदृश्वानः ।
चेष्टा ह्यभिप्रायस्थशब्दस्मरणमात्रोपयोगिनी लिपिवत् ।
शब्द एव तु चेष्टोत्पादितस्मरणसमारूढः प्रमाणम् ।
अर्थेन च स्मृत्युत्पादनात् शब्दविषयम् एवास्याः प्रामाण्यम्, प्रमाणफलस्य प्रमाणत्वात् ।
न च स्मृतिरस्याः अवान्तरव्यापारः ।
यदि चेष्टोपधानमन्तरेणावगतो ऽपि शब्दो नार्थं गमयेदेवमपि सम्भवेत्, न चैतदस्ति ॥
नन्वेवं सति चेष्टया एडमूकव्यवहारानुपपत्तिः, न ह्यसौ ततः शब्दस्मृतिमान्, अगृहीतसमयत्वादिति चेत्? —अत एव तं प्रति समयबलेन शब्दवदर्थे ऽपि चेष्टायाः कुण्ठत्वमेव ।
व्यवहारस्तु अन्वयव्यतिरेकाभ्यां नियतविषयाविनाभावग्रहे प्रवृत्तिनिमित्तौपयिकः, अभिप्रायानुमानादेव एडमूकस्य, करितुरगयोः
कशाड्कुशाभिघातादिव ।
अथ कृतसमयापि चेष्टैव किं न स्यात्, अविनाभावाभावात्? स्मारयतु वा पदार्थान्, तथापि न प्रमाणम् ॥
द्विविधा हि सा समयप्रमारभेदात्—कृत्यन्वयिनी, ज्ञप्त्यन्वयिनी च ।
तत्र कृत्यन्वयिनी प्रयोजकाभिप्रायं स्मारयन्ती प्रवर्तयति, न तु किञ्चित् प्रमाणयति शड्खध्वनिवत् ।
अतो ऽप्रमाणमेव ।
ज्ञप्त्यन्वयिनी तु कारकेषु प्रतिपदिकार्थप्रधाना, क्रियासु वर्तमानार्थप्रधाना ।
तथा च गौरश्वः पुरुष इत्यादिपदैरिव स्वतन्त्रेषु पदार्थेषु स्मारितेषु परस्परान्वययोगः ।
पदैकदेशविभक्तिविशेषवत् चेष्टैकदेशविशेषात् प्रकरणादिविशेषाद् वा कारकादिस्मृतिनियम इति चेत्—चेष्टैकदेशविशेषाभावात् ।
न ह्यतीतानागतवर्तमानपाकादिप्रतिपादकं चेष्टैकदेशविशेषं पश्यामः ।
प्रकरणादयस्तु विषयविशेषे शब्दान् नियमयन्ति, न तु कारककालविशेषेषु प्रवर्तयन्ति ।
तथात्वे वा गौरश्वः पुरुषो हस्तीत्यादावपि कर्मत्वादीन्युन्नीय विवक्षितार्थावसायः स्यात् ।
न हि चेष्टाकलापे प्रकरणादयः
कारकविशेषादीनाक्षेप्तुमलम्, न तु पदकदम्ब्क इत्यस्ति नियमः ।
तथा च कालसङ्ख्याकारकविशेषप्रतिपादकविभक्तिसमभिव्याहारवैयर्थ्यप्रसङ्गः ॥
कथं तर्हि ततो व्यवहारविशेषाः? संशयप्रतिभयोरन्यतरस्माद् विशेषानुपलम्भे विदूरवर्तिनि समानधर्मिणि स्थाण्वर्थिन इवेति ।
तस्मादुभयथापि चेष्टा न प्रमाणम् ।
अतः कस्य चतुर्षु प्रवेशाप्रवेशौ चिन्तनीयौ? एतच्च सम्भावितप्रामाण्यम् ऐतिह्याद्यन्तर्भावयता चेष्टापभ्रंशलिपिध्वनिपदैकदेशान् साव्यवहारिकानप्यकीर्तयता सूत्रकृता सूचितमपि मन्दमतयो न गृह्णन्तीति तदनुकम्पया लक्षणं व्याचक्षाण एव किञ्चिदुद्भावयति ॥
वाक्यज्ञानं तदर्थज्ञानं वेति ।
आकाड्क्षायोग्यतासत्तिमत्पदकदम्बकं वाक्यम् ।
तस्य ज्ञानं ज्ञानमानं तदित्यर्थः ।
यथाश्रुतमुत्तरत्र ।
किं तु तत्रापि वाक्यमेव प्रधानम्, असाधारणत्वादिन्द्रियादिवत् ।
सन्निधितारतम्यविवेचने तु सर्वस्मिन्नयं न्यायः ।
हानादिबुद्धिः परामर्शलक्षणा, इतरस्या अनुमानफलत्वात् ।
तदनेन निराकाड्क्षायोग्यानासन्नानि पदानि निरस्याता चेष्टादयो ऽपि निरस्ता भवन्तीति विजातीयव्युदासः ।
स्वार्थद्वारकं चाकाड्क्षादिकमिति सङ्गतिग्रहपदप्रतिसन्धानतदर्थस्मरणयोग्यताद्यनुसन्धानप्रकरणादिकमुक्तं भवति ।
अनेनैवाभिप्रायेणोक्तम्—पदार्थस्मृत्यादयस्त्विति ।
तदनेन प्रत्यक्षादेः समानजातीयस्य व्युदासः ।
अनाप्तवचसां चाप्तग्रहणेन निराकरणमिति सामान्यलक्षणलाभः ॥
ननु नायमुपदेशशब्दस्यार्थो यथाश्रुति चाव्यापकता सिद्धार्थासङ्ग्रहादिवदित्यत आह—यद्यपीति ।
न केवलं भूतार्थासङ्ग्रहः साध्यार्थमपि न किञ्चित् सङ्गृह्णातीत्याह—यद्यपि चेति ।
ननु प्रवर्तकत्वेन विधेराज्ञाध्येषणयोः को विशेषः, येनानयोरूपदेशपदेनासङ्ग्रह इत्यतस्ताभ्यां विधेर्वैधर्म्यं प्रतिपाद्य तयोरपि ततो वैधर्म्यमुक्तम्—ते हीति ।
तत् किमाज्ञाध्येषणासङ्ग्रहे ऽपि प्रयत्नः कर्तव्यः? नेत्याह—तथापीति ॥
अयमाशयः ।
यद्यपि लक्षणया ते अपि सङ्ग्रहीतुं शक्येते परस्थाने प्रयोक्तृपदं प्रक्षिप्य, तथापि नास्त्यस्माकं तदसङ्ग्रहे ऽपि काचित् प्रयोजनक्षतिः, स्वर्गापवर्गोपायविषयस्य शब्दविशेषस्य लक्षणारम्भात् शास्त्रस्य तदधिकारेण प्रवृत्तेः ।
सामान्यलक्षणे त्वकृते विशेषलक्षणानवतार इत्यतः प्रथमं तथैव व्याख्यातम् ।
वक्ष्यति च
दिग्नागनिराकरणप्रस्तावे ।
परपदमपहाय प्रयोजनवानित्येव वाक्यार्थप्रतिपत्तिः फलमिति च लाक्षणिकपदप्रयोगस्य चायमेवोपयोगो यदुभयलक्षणलाभः ।
प्रयोजनमर्थगतमसाधारणं ग्राह्यं च ।
साधारणं तु शब्दस्य स्वार्थप्रतिपादकत्वम् ।
तच्च परस्यैव ।
ततः तदपेक्षया परेति विशेषणमनर्थकं स्यात् ॥
ननु यदि उपनिषदः प्रयोजनवत्यः, नूनं कञ्चिदर्थं प्रतिपादयन्त्यः क्वचित् परं प्रवर्तयेयुः प्रवृत्त्यड्कितत्वात् प्रयोजनसद्भावस्य ।
न चेत् परं प्रवर्तयेयुः कथं परप्रयोजनवत्त्यः प्रवृत्तिविरहाड्कितत्वात् प्रयोजनाभावस्येत्यत आह—यद्यपीति ।
न क्वचिदित्यादौ साक्षादिति शेषः ।
बुद्धर्षभादीनामनाप्तत्वे कारको हेतुर्मायामोहनिमित्तत्वम् ।
ज्ञापकस्तु प्रमाणाविरुद्धसर्वधर्मक्षणिकनैरात्म्यादिवचनम् ।
यथाश्रुतं भाष्यमव्यापकं मन्वान आह—सुदृढेनेति ।
सुदृढं परितो निरस्तविभ्रमाशङ्कम् प्रमाणं प्रमा ।
तथावधारिता विषयीकृता इति ।
नेयं नित्यानित्यव्याप्तिमभिसन्धाय ॥
ननु कारणमधितिष्ठत एवेश्वरस्यापि कर्तृत्वम् ।
तथा च स्थानकरणादीनामन्वयव्यतिरेकाभ्यां वर्णनिपत्ति प्रति सामर्थ्यावगमात्, तदधिष्ठानशून्यतया तस्य नागमकर्तृत्वं भवेत् ।
न च शरीरमन्तरेण तस्य
स्थानकरणादिसम्भवः, तेषां ताल्वादिविवृतादिरूपत्वादित्याशयवानाशङ्कते—तथापीति ।
भाष्यमुत्तरयति—अत आह उपदेष्टेति ॥
न वयमस्य भगवतः कार्यविशेषेणानुविहितभावाभावतयोपकरणं शरीरं निराकुर्मः, त्र्यणुकादिनिष्पत्तये द्व्यणुकादिवच्छरीरान्वयव्यतिरेकानुविधायिकार्यनिष्पत्तये तदुपग्रहस्यापीष्यमाणत्वात् ।
अपि त्वायतनतया कर्तृत्वनिर्वाहकतया व्यापकतया च तत् तस्य नेष्यते भोगाभावात्, कर्तृत्वस्य नित्यत्वात्, कार्यस्य कर्त्रा निरूपाधिसम्बन्धात्, शरीरस्यव्यभिचाराच्चेत्यभिप्रायवतो विवरणम्—स्थानकरणेति ।
तदेवं रूप आप्तः कुतः प्रमाणात् निश्चेतव्यः, परचित्तवृत्तीनामप्रत्यक्षत्वात्? कायवाग्व्यापारयोश्च बुद्धिपूर्वकम्, अन्यथापि सम्भवादित्याशड्क्य म्लेच्छा अपि हीत्यादिना भाष्यतात्पर्यं ब्रुवाणः तन्निश्चयोपायमपि लेशतो दर्शयति—हेतुदर्शनशून्या इति ॥
अयमाशयः ।
द्विविधो हि पुरुषो ऽसर्वज्ञः सर्वज्ञश्चेति ।
तत्र पूर्वस्य तावत् सत्त्वप्रसाधकादेव प्रमाणाद् रागद्वेषमोहविरहसिद्धावनाप्तत्वं निरस्तम् ।
उत्तरस्यापि ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेणैव निश्चीयन्त इति
तत्र सर्वेषामविवाद एव ।
ज्ञानं तु यथार्थमयथार्थं वा स्यात् ।
इच्छापि प्रतिपिपादयिषा विप्रलिप्सा वा स्यादिति सन्देहो ऽवशिष्यते ।
तत्राप्यभ्यासदशापन्ने ऽयमर्थो ऽस्येति सामान्यतो निश्चये भवत्येव तज्ज्ञानस्य यथार्थत्वनिश्चयः, यथाभ्यासदशापन्नमिदमरण्यममीषां म्लेच्छानामतः अस्मिन्नेते मार्गामार्गविभागज्ञा इति पान्थानामेवं निश्चयः ।
विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् ।
स च द्विरूपः, स्वोपकारः परोपकारो वा? तत्र तावत् पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेच्छादीनां न कश्चित् स्वोपकारः, स्वस्य गृहीतत्वात् शरीरमात्रस्य च करणीयान्तराभावात्, भावे वा अपरित्यागात् ।
नापि द्वितीयः, न ह्यनुन्मत्ता अनपकारिणमपकुर्वते ।
नापि परापकारमात्रं पुरुषार्थः तथा सति सर्वः सर्वमपकुर्यादित्येवं विप्रलिप्सापि निवार्यते ।
अनभ्यासदशापन्नविषये तु प्रवृत्तिसामर्थ्यात् प्रमाणान्तरसंवादाद् वा मोहविप्रलिप्सयोर्निवृत्तिरिति ॥
म्लेच्छा अप्याप्ता भवन्ति यतः प्रतीतिगोचराः, ततः कः सन्देहो महाधियाम् आर्याणां च तत्त्वावधारण इति अपिशब्दार्थः ।
एतेन यद् येन रूपेण न निश्चितम्, न तत् तेन व्यवह्रियते, यथा रथ्यापुरुषः सर्वज्ञत्वेन, न प्रतीयते चाभिमतः पुरुष आप्तत्वेनेति व्यापकानुपलब्धेरसिद्धत्वमुक्तम् ।
परेषाम् अव्यापकमाप्तलक्षणम्, यथाश्रुतस्यार्यम्लेच्छयोः अभावात् ।
विशेषणान्तरप्रक्षेपे त्वस्मल्लक्षणाभ्युपगम इत्यर्थः ।
विपर्यस्तस्यायं प्रश्नः, विपर्यासश्च प्रमाणाभासमूलः ।
अतस्तमाह—अस्तीति ।
भागासिद्धतामाशड्क्याह—अत्र यावतीति ।
ननु परप्रयोगमदूषयित्वा स्वातन्त्र्येण प्रयोगान्तरोपादानं प्रकरणसमाजातिः, सत्प्रतिपक्षतया चेत् स्वर्गादीनां प्रत्यक्षत्वं कुतः सेत्स्यतीत्यत आह—योगजे त्विति ॥
हेत्वभावे फलाभावात् प्रमाणे ऽसति न प्रमा,
चक्षुराद्युक्त विषयं परतन्त्रं बहिर्मनः ॥
इति ।
तस्मादापाततस्तावत् सत्प्रतिपक्षा एवैते हेतव इत्यत आह—अस्माकं तु सभ्यञ्च इति ॥
अयमाशयः, दृश्यते हि तावद् बहिरन्द्रियोपरमे ऽप्यसन्निहितदेशकालार्थसाक्षात्कारः स्वप्ने ।
न च वाच्यं स्मृतिरेवासौ पटीयसीति ।
न हि स्मरणानुभवविभागे अपि साक्षी प्रष्टव्यः ।
किं तर्हि? इदं स्मरामीदमनुभवामीति प्रतीत्या स्वसाक्षिको ऽयम् अर्थः ।
न चारोपितं तत्रानुभवत्वम्–अबाधानात्, स्मृतित्वानुल्लेखनात् अनुपलब्धस्य स्वशिरश्च्छेदादेरवभासनाच्च ।
स्मृतिविपर्यासो ऽसाविति चेत्? यदि स्मृतिविषये विपर्यास इत्यर्थः, तदानुमन्यामहे ।
अथ स्मृतावेवायमनुभवत्वविपर्यास इत्यर्थः, तदा प्रागेव निरस्तः ।
न च सम्भवत्यपि, न ह्यन्येनाकारेण व्यवसायविषयीभूतो ऽयमर्थो ऽन्येन ज्ञानावच्छेदकतयानुव्यवसीयते ।
तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटम्, न ह्ययं घट इति स्मृतेराकारः ।
तस्मादनुभव एवासौ स्वीकर्तव्यः ॥
अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वम्, संवादात् ।
तच्च काकतालीयमपि न निर्हेतुकम्, सर्वस्वप्नज्ञानानामपि तथात्वप्रसड्गात् ।
हेतुश्चात्र धर्म एव ।
स च कर्मजवद् योगजो ऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्योगक्षेमत्वात् ।
तस्माद् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारिप्रमात्वात् प्रत्यक्षफलम् ।
धर्माजनकभावनाप्रभवस्तु न प्रमेति विभाग इति ।
तत्सामग्रीरहितत्वादित्यसिद्धो हेतुरिति सूक्तम् ॥
अस्माकं तु सभ्यञ्च इति बहवश्चेति अन्वाचये चकारः ।
यद्यपि चास्माकं परमसर्वज्ञसिद्धाववान्तरसर्वज्ञे न सिध्यत्यपि न काचित् प्रकृतहानिः, तथापि तत्सद्भावे अपि प्रमाणसद्भावात् सो ऽपि नोपेक्षामर्हतीति ॥
इह दिग्नागेन भावसाधनत्वकर्मसाधनत्वाभ्यामुपदेशपदं विकल्प्य दूषितम् करणसाधनत्वपक्षस्त्वस्मदमितो ऽपि कुत उपेक्षित इत्यत आह—अन्यस्मादन्यस्येति ।
अर्थेन हि साक्षात् प्रतिबन्धः प्रत्यक्षस्यैव, परम्पराप्रतिबन्धो ऽनुमानस्य ।
तदस्य शाब्दस्य विज्ञानस्य साक्षादर्थप्रतिबन्धे प्रत्यक्षत्वप्रसङ्गः, परम्पराप्रतिबन्धे त्वनुमानत्वापत्तिः ।
अप्रतिबन्धे त्वप्रामाण्यमेव इत्यसम्भव एव करणव्युत्पत्तिपक्षस्येति मन्यत इत्यर्थः ।
अत्र भावव्युत्पत्तिपक्षे आप्तत्वनिश्चयः शब्दफलम्, तद्द्वारा वाक्यार्थनिश्चयो वा ।
नन्वाप्तत्वेन निश्चितानां किमपरमविसंवादित्वमवशिष्यते, यन्निश्चेयमित्यत आह—उपदेष्टदृष्ट्ट्टणामित्यर्थ इति ॥
अर्थस्य साक्षात्कारः प्रत्यक्षत्वमिति वर्णयोजना ।
तेनायमर्थः ।
आप्तोपदेशः तस्मिन्नेवाप्ते निश्चयं कुर्वन्
शब्दः प्रमाणम्, अथ वा आप्ते निश्चयं कृत्वा तत्सहायो वाक्यार्थनिश्चयं जनयन्नित्युभयं दूषयतीत्याह–इममिति ।
अनुमानात्करूणाभ्यासहेतुदर्शनशून्यत्वादेः कर्मसाधनत्वपक्षमुत्थापयति–द्वितीयमिति ।
अत्राप्युपदर्शितार्थप्राप्तिनिश्चयः, तद्द्वारा अर्थतथात्वनिश्चयो वा शब्दस्य फलम् ।
तत्र प्रथमं दर्शयति—यस्मादिति ।
द्वितीयं दर्शियति—एवं चेति ।
उपदिश्यमानोर्ऽथः प्राप्तः, प्राप्तत्वेन निश्चितो यस्मादिति वा ।
तथात्वेन निश्चित इति वा सूत्रयोजना, उभयमपि
दूषयतीत्याह—दूषयतीति ॥
नन्वर्थप्राप्त्या अर्थतथात्वं निश्चीयमानं लिङ्गभूतयैव निश्चीयते ।
तत् कथमाह प्रत्येक्षेणेत्यत आह—आप्त्या हीति ।
आप्तिनिश्चये ऽपि शब्दस्य व्यापारो नास्तीति दर्शयितुमर्थतथात्वनिश्चयो ऽपि प्रत्यक्षेणेत्युक्तम्, मूलभूतत्वात् तस्येत्यर्थः ॥
ननु शब्दोपलब्धस्यार्थस्य क्वचिदनुमानेमापि प्रतिपत्तिरस्तीत्यत उक्तम्–प्रायेणेति ।
अत्र चोभयोरपि पक्षयोराप्तोक्तत्वप्रवृत्तिसामर्थ्यहेतुप्रधानयोः शब्दस्य प्रामाण्यनिश्चयः फलमिति शड्कितुमुचितमपि न शड्कितम्, प्रामाण्यनिश्चयाविनाभूतत्वात् अर्थनिश्चयतत्तथात्वनिश्चययोः, तस्य तयोरेवान्तर्भूतत्वादिति मन्यमानेनेति ।
तमिममिति ।
नाप्तत्वसहायो नाप्तत्वनिश्चयसहाय इत्यर्थः ।
प्राप्त्या ।
प्राप्तिनिश्चयेनेत्यर्थः ॥
नन्वनभ्युपगतेभ्यः पक्षेभ्यो न कञ्चिदभ्युपगतस्य विशेषं पश्याम इत्यत आह—एतदुक्तं भवतीति ।
नाप्तत्वहेतुकं नाप्तत्वनिश्चयहेतुकम् ।
अविसंवादित्वम् अविसंवादित्वनिश्चयः ।
अनेन सूत्रेणागमार्थतया आगमफलतया प्रतिपाद्यते ।
नाप्यर्थतथात्वमर्थतथात्वनिश्चय इति नेयम् ।
उपलक्षणतया च विधाद्वयमुदाहृतम् ।
यथा तु पूर्वपक्षे व्याख्यातम्, तथात्रापि द्रष्टव्यम् ।
किं तर्हि फलमस्येत्यत आह–किं त्विति ।
अनेनोल्लेखेनानुव्यवसायेन य प्रतिपत्तिर्विषयीक्रियते सेत्यर्थः ॥
यद्येवं तर्हि क्काप्तोक्तत्वनिश्चय उपयुज्यत इत्यत आह—आप्तत्वं चेति ।
आप्तोक्तत्वं चेत्यर्थः ।
ननु प्रामाण्यमर्थाव्यभिचारः ।
स खलु कथमर्थमप्रत्याय्य प्रत्याययितुं शक्येत्? ततश्च पुनराप्तोक्तत्वेनार्थनिश्चय आयात इत्यत आह—न च यत इति ।
प्रमेयमिति स्वातन्त्र्येणेति शेषः ।
अवच्छेदकतया तु तस्यापि स्फुरणमिष्यत एव,
मनसैव ।
घटस्येत्यर्थः ॥
तदयं सङ्क्षेपः ।
भूतार्थोपदेशकत्वं हि प्रामाण्यम् ।
तदेव प्रमेयमनुपदर्शयतः शब्दस्य न स्यात् ।
तथानाप्तोक्तत्वेनापि हेतुना किं निश्चीयेत? तथा च कस्यावच्छेदकतया अर्थो ऽपि परिस्फुरेत्? तस्माद् यथा सत्तामात्रावस्थितैरदुष्टैरिन्द्रियैः प्रत्यक्षं जन्यते, जातादुष्टत्वैस्तु प्रमाणतया निश्चीयते, तथा सत्तामात्रावस्थितेनाप्तेन प्रमाणं शब्दो जन्यते ।
ज्ञाताप्तत्वेन तूपदेष्ट्रा तथात्वेन निश्चीयत इति प्रत्यक्षवत् स्वविषये व्यवस्थेति ज्ञानमात्रमनुमापयेत् ।
अव्युत्पन्नमिव व्युत्पन्नमपीति शेषः ॥
अयमाशयः ।
अस्ति तावद् वाक्यादर्थविशेषावसाय इत्यविवादम् ।
न चायं लैड्गिकः, वचनमात्रस्यानैकान्तिकत्वात्, आप्तोक्तत्वस्य प्रागेवासिद्धेः ।
न च वचनस्य लिङ्गत्वपक्षे साध्यमप्यस्ति ।
तथा हि, न तावत् तादात्म्यतत्प्राप्ती सम्भवतः ।
नापि तदुत्पत्तिः, आप्तवचसामप्यतीतानागतगोचराणां परम्परयाप्यर्थादनुत्पत्तेः ।
तस्मादर्थज्ञापकत्वमेव शब्दानामर्थवत्त्वम् ।
न च तदेवानुमेयम्, तस्य स्वातन्त्र्येण भवद्भिरनभ्युपगमात् ।
अभ्युपगमे वा विवादविच्छेदात् ।
न च लिङ्गस्य स्वात्मनो लैड्गिकज्ञानजनकत्वमेवानुमेयम्, तस्य लिड्गान्तरविषयत्वात् ।
तस्माद् वचनमात्रलिङ्गपक्षे यद् वचनं तद् बुद्धिपूर्वकमित्युदाहरणीयम् ।
बुद्धिस्तु किञ्चिदुल्लिखन्ती जायत इति स्वभावादेवोल्लेख्यमात्रप्रतिलम्भः, न तु तत्रापि भूताभूतविभागो, न तु तरां प्रकारविभागः ।
तस्मात् ज्ञानमात्रमनुमापयेदिति सूक्तम् ॥
किमतो यद्येवमित्यत आह—तथा चेति ।
व्यवहारानुभवाभ्यां व्यवस्थापितापि नानुरोधिता स्यात् ।
व्युत्पत्तिप्रयासवैयर्थ्यप्रसङ्गश्चेत्यर्थः ।
ननु ज्ञानविशेषादेवार्थविशेषः सेत्स्यतीत्यत आह—न चेति ।
ज्ञानेनार्थः साधयितव्यः ।
तस्य च न कश्चिद् विशेषोर्ऽथाहिताकारादिलक्षणः समस्ति ।
साकारत्वे ऽप्यतीतानागतादिगोचरस्य तस्यार्थादनुत्पत्तेः ।
तस्मादुल्लेख्यतयार्थ एव विशेषो वक्तव्यः ।
स चेत् ज्ञानसिद्धावन्तर्भूतः किमपरं तेन साधनीयम्? न चेदन्तर्भूतः पुनरप्यविशिष्टमेव ज्ञानमित्यर्थः ॥
स्यादेतत् ।
तज्ज्ञानसिद्ध्यर्न्भत एवार्थो ऽवच्छेदकतया सिध्यतु ।
यद्यपि वचनमात्रमर्थविशेषोल्लेखि
ज्ञानपूर्वकतां व्यभिचरति, तथापि यः पदकदम्बकविशेषो यत्पदार्थजातं स्मारयति, स तत्संसर्गज्ञानपूर्वक इत्यस्ति नियमः ।
एवं च समयग्रहस्याप्युपयोग इति चेत्—न, गौरश्वः पुरुष इत्यादिपदकम्बकेन व्यभिचारात् ।
विशेषणविशेष्यभावेनावस्थितौ न व्यभिचरतीति चेत्? सो ऽयं विशेषणविशेष्यभावो न तावत् स्वरूपतः, पदानां परस्परं स्वातन्त्र्यात् ।
नाप्यर्थतः, तस्यानवगमात् ।
अवगमे वा कस्ततो ऽपरः पदार्थानां संसर्गो, यो ज्ञानावच्छेदकतया अनुमातुमिष्टः? आकाङ्क्षादिमत्त्वे सतीति विशेषणान्न व्यभिचार इति चेत्? अथ केयमाकाङ्क्षा? न तावदविनाभावः स्वरूपतोर्ऽथतश्च, तस्या अभावे ऽपि
वाक्यार्थप्रतिपत्तेः ।
भावे ऽप्यप्रतीतेः, वाक्यार्थप्रतिपादनेन विनापर्यवसानमाकाङ्क्षेति चेत्? एवं तर्हि वाक्यार्थविशेषप्रतिपादकं यत् पदकदम्बकम्, तत् तत्स्मारितार्थसंसर्गज्ञानपूर्वकमिति प्रयोगार्थः ।
तथा च प्रागेव साध्यविशेषसिद्धये हेतुविशेषसिद्धिमिच्छता वाक्यादेव वाक्यार्थविशेषप्रत्यय एषितव्य इत्युपसंहरन्नाह—तस्मादिति ॥
स्यादेतत् ।
तथाप्यसम्बद्धस्य प्रकाशकत्वे ऽतिप्रसङ्ग इत्यत आह—न चेति ननु न हि सम्बन्ध इत्येव गमको ऽतिप्रसड्गात् अपि त्वविनाभाव एव ।
स च शब्दस्यार्थेन नास्तीत्यत आह—न चाविनेति ।
यत् त्वत्रोक्तम्, चक्षुरपि रूपकार्यत्वादेव रूपं प्रकाशयतीति, तदयुक्तम् ।
यदि हि तत्कृतत्वादेव तद् गमयेत्, रूपमिव रसादीनपि गमयेत् ।
अवनाभावज्ञानं वा अपेक्षेत ।
न ह्यविनाभावस्यैष महिमा यदयं सत्तामात्रेणैव गमयति ।
तथात्वे वा धूमादपि चक्षुष इव सत्तामात्रावस्थितादेवाग्निः प्रतीयेत ।
अपि च ज्ञानसमसमयो वार्थः प्रकाशते, अनन्तरसमयो वा ।
तस्माच्च न चक्षुषो जन्म, स्वकारणादेवायमस्य स्वभावभेदलाभो यदनात्मानमप्यकारणमपि कारणत्वाविशेषे ऽपि वा रूपमेवाज्ञातमेव सत्प्रकाशयतीति रूपोलब्धिलक्षणकार्यदर्शनबलेनैव तद्व्यवस्थाप्यते ।
तस्याशक्यापह्नवत्वादिति चेत्? तर्हि यस्य यत्र प्रतिबन्धो नास्ति, न तस्य तत्र प्रामाण्यम्, यथा दहने ऽप्रतिबद्धस्य रासभस्येति व्यापकानुपलब्धिस्त्वयैवानैकान्तिकी कृता ।
किमस्माभिरत्र वक्तव्यम्? किन्निबन्धनस्तर्हि प्रमाणव्यवहारः शब्दे, यन्निबन्धनश्चक्षुरादिषु ।
तत्रैव किं निबन्धन इति चेत्? इदं महापाण्डित्यं यत् सिद्धमातृकायामप्यद्यापि सन्देहः ।
भूतार्थानुभवजनननिबन्धनो हि प्रमाणव्यवहारः सर्वत्रेति बालो ऽप्याह ।
तब्दलेनैव शब्दस्यापि तदनुगुणः स
स्वभावभेदः स्वकारणादायातो व्यवस्थाप्यते ।
यतः तत्तत्सड्केतोपधानसूत्रमर्थं प्रतिपादयतीति, तथापि समयस्य पुरुषायत्तत्वात् किमयं सांव्यवहारिकसड्केतानेव शब्दान् प्रयुड्क्ते? किं वा स्वयमिदानीमर्थभेदेषु सड्केत्येति सन्देहो न निवर्तत इति चेत्—न, उभयथाप्यसम्भवात् ।
यद्यसौ प्रतिपादकः कथं स्वहृदयगुहानिक्षिप्तसमयानेव शब्दानुच्चारयेत्? जानात्येव ह्ययं नाविदितसमया एते प्रतिपादका इति ॥
अथ विप्रलम्भकः, तथापि समयान्तरकरणे क उपयोगः, प्रसिद्धसमयैरेव विप्रलम्भसम्भवात् ।
यत्रापि हि गुप्तसमयैर्व्यवहारः, तत्रापि न प्रतिपाद्यं प्रति समयो गोप्यः, अपि त्वविश्वस्तान् प्रतीति हृति निघायाह—तसमादिति ॥७ ॥
न द्विविधो दृष्टादृष्टार्थत्वात् ॥१।१।८ ॥
॥ परिशुद्धिः ॥
स्वच्छाः स्वभावशुचयो ऽतिशयेन गुर्व्यो
दुर्बन्धदुर्धरदुराग्रहदुर्विभाव्याः ।
टीकागिरो विशदपारदविप्रुषो वा
येषां वशे ननु वशे जगदेव तेषाम् ॥८ ॥
॥ प्रमाणनिबन्धः समाप्तः ॥
॥ इति प्रमाणलक्षणप्रकरणम् ॥
॥ प्रमेयप्रकरणम् ॥
॥ परिशुद्धिः ॥
ननु यदि प्रमेयमेव मुमुक्षुणा प्रतिपित्सितम्, तदुल्लड्घ्य किमिति प्रथमतः प्रमाणममिहितमित्यत आह—तच्चेति ।
तर्हि उक्तानि प्रमाणानीदानीं परीक्षयन्तां किं प्रमेयलक्षणेनेत्यत आह—लक्षणं चेति ।
तर्हि प्रमेयलक्षणमेवामिधीयताम् ।
किं
प्रत्यक्षादिलक्षणेनेत्यत आह—न चेति ।
ननु प्रमाणं तावत् प्रथमत एव वक्तव्यम् ।
तदितरस्य तदधीनत्वादिति प्रागेव सङ्गमितमेतत् ।
इदानीं तु पञ्चदशसु प्रथमं किमभिधीयतामिति जिज्ञासा ।
अभिधीयमानसङ्गतिपर्यालोचने च संशयादीनामनुपयोगादनभिधानमेव प्रसक्तम्, कुतः पूर्वापरभावस्पर्धेत्यत आह—अपरीक्षितं चेति ।
एतेन संशयादीनामुपयोगं दर्शयता वक्तव्यता दर्शिता ।
एतस्माद् विशेषात् प्रमाणप्रकरणात्
अपकर्षः संशयादिप्रकरणेभ्यश्च उत्कर्षः प्रमेयप्रकरणस्येति समुदायार्थः ।
आरभ्यतां तहि प्रमेयलक्षणम्, किमन्तर्गडुना विभागेनेत्यत आह—तदिहेति ।
प्रमेयनान्तरीकत्वं प्रमेयालम्ब्नफलत्वम् ।
किं तदर्थजातमिति भाष्यकारीयः प्रश्नः श्लिष्टः, कि लक्षणं कतिविधं चेति ।
अस्मिन्नर्थे विभागवत् सामान्यलक्षणमन्तरेणापि विशेषलक्षणानवतारात् ।
तत्र द्वितीये—सूत्रपाठे नोत्तरम् ।
प्रथमे तु शब्दव्याख्यानेनेति भाष्यगतिः ।
तदत्र द्वितीयप्रश्नार्थो विभागोद्देशसूत्रमवतारयितुमित्यनेन दर्शितः ।
प्रथमस्तु विशिष्टं प्रमेयमद्यापि न सिध्यतीति तदर्थं प्रश्न इत्यनेन ।
तत्र वार्त्तिककारेण तुशब्दसूचितं सामान्यलक्षणं गृहीत्वा विभागनिष्ठः प्रश्न इत्यनेन ।
तत्र वार्त्तिककारेण तुशब्दसूचितं सामान्यलक्षणं गृहीत्वा विभागनिष्ठः प्रश्नः कृत इत्याह—स च विशेष इति ॥
नन्वयमेव च सूत्रार्थ इति विभाग एवास्य सूत्रास्यार्थ इति गम्यते ।
तथा च न विवक्षितविशेषलाभः सूत्रात्, एवं च प्रमेयमात्रविभागो ऽनर्थको ऽसत्यश्चेत्यत आह—येषामिति ।
प्रकृतोपयोगिप्रमेयविशेषलक्षणक्रोडीकृतानामेव विभागो ऽस्य सूत्रस्यार्थ इति वार्त्तिकार्थ इत्यर्थः ।
येषामित्यादिना यथासङ्ख्यं लक्षणद्वयम् ।
नश्च तत्त्वपदेन सम्बन्धः ।
साक्षादिति च पूरणीयम् ।
अपवर्गो मिथ्याज्ञाननिवृत्तिः, तदादित्वात् ।
संसारो रागद्वेषौ, तदेकदेशत्वादिति ।
परमाणूनामित्युपलक्षणम्, तेनाशरीरानिन्द्रिया तदर्थरूपाणां द्व्यणुकादीनां तद्गुणकर्मणामपीति ॥
ननु यदा दिगादयो ऽभिहिता एवार्थत इति समाधानम्, तदा तदभिधाने क उपयोग इत्यपि समर्थनीयमित्यत आह—कौशलमात्रमिति ॥९ ॥
॥ परिशुद्धिः ॥
ननु प्रत्यक्षमप्यात्मनि प्रमाणमेव, अहमिति विकल्पस्य परैरपीष्टत्वात् ।
न चायमवस्तुकः सन्दिग्धवस्तुको वा, अशाब्दत्वादप्रतिक्षेपाच्च ।
न चायं लैड्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात् ।
नापि स्मृतिरियम्, अननुभूते स्मरणायोगात् ।
अनादिवासनावशादनादिरयमवस्तुको विकल्प इत्यपि न युक्तम्, नीलादिविकल्पेष्वप्येवं वक्तुं सुकरत्वात् ।
कादाचित्कत्वेन तत्र वस्तुकल्पनमिहापि समानम् ।
अर्थक्रियास्थितेः सूत्रप्रामाण्यसिद्धेर्वस्तुस्थितिरित्यपि न युक्तम्, अर्थक्रियास्थितिनिश्चयस्यापि वासनामादायोपप्लावयितुं शक्यत्वात् ।
अत एव प्रमाणान्तरप्रवृत्तेरित्यपि गतम् ।
तस्माद् वासनावादमात्रं विहाय आगन्तुकमपि किञ्चित् कारणं वाच्यम् ।
तच्चाप्तानाप्तशब्दौ वा लिङ्गतदाभासे वा प्रत्यक्षतदाभासे वा? तत्र यथा प्रथममध्यमप्रकाराभावात् नीलविकल्पश्यरमं कल्पमालम्बते, तथाहमित्ति विकल्पो ऽपि ।
तत्रायम्,
प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः ।
तदाभासे तु मूले ऽस्य पारम्पर्यात् सवस्तुता ॥
इति ।
न च बाह्यप्रत्यक्षनिवृत्तावेव निर्मूलत्वम्, बुद्धिविकल्पस्यापि निर्मूलत्वप्रसड्गात् ।
तत्र स्वसंवेदनं मूलम्, इहापि मानसमिति न कश्चिद् विशेषः ।
तत्कथमात्मनि प्रत्यक्षप्रतिषेधकं भाष्यमित्यत आह—अहमिति ।
यद्यपि सवस्तुको ऽयं तथापि शरीरप्रत्ययसामानाधिकरण्यात् तद्वस्तुक एवायमित्यपि स्यात् ।
अतो न तदतिरिक्ते वस्तुनि प्रमाणयितुं शक्यते तावद् यावद् देहादिभ्यो भिन्न आत्मा प्रमाणान्तरेण न साध्यत इत्यर्थः ।
तदिदमुक्तम्—द्रागिति ।
घटादिज्ञानवदिति व्यतिरेकिदृष्टान्तः ।
यथा हि घटादिज्ञानं शरीरादिप्रत्ययवैयधिकरण्यात्
तदतिरिक्ते वस्तुनि द्रागेवप्रमाणयितु शक्यते, तथा नेदमित्यर्थः ॥
ननु यदि नाम न द्रागेव, विचारक्रमेण तु प्रमाणयिष्यते ।
तथा हि,
निरूपाधिशरीरबुद्धितत्समुदायालम्बनत्वेन अहं प्रत्ययस्यातिप्रसड्गात् स्वसम्बन्धिनि शरीरादावयमहम्प्रत्यय इति वाच्यम् ।
तत्रात्मव्यतिरेकेण कः स्वार्थ इति चिन्तनीयम् ।
अनन्यत्वं स्वत्वं सर्वभावानाम् ।
तथा च यदा तेनैव तदनुभूयते तदा प्रत्येतुः प्रत्येतव्यादनन्यत्वादहमिति स्यात् ।
अत एव घटादयो न कदाचिदप्यनन्यानुभवितृका इति न कदाचिदप्यहमास्पदमिति चेत्? एवं तर्हि त्वन्मते ऽप्ययमहमिति प्रत्ययः शरीरादावारोपरूप एव, ततः प्रत्येतुरन्यत्वात् ।
बुद्धौ मुख्य इति चेत्—न, तस्याः क्रियात्वेनानुभूयमानाया भिन्नस्य तत्कर्तुरहं छिनद्मीतिवदहं जानामीत्यनुभवात् नीलादिप्रत्येतव्याकारवत् प्रतिपत्त्राकारो ऽपि प्रतीतेरेवायमात्मा तथा भासत इति चेत्? तर्हि प्रत्येतव्याकारसमानयोगक्षेमत्वेन प्रतिपत्राकारस्यापि सिद्धं नः समीहितम् ।
अस्तु स्वोपादानमात्रमिति चेत्—न, तत्प्रतिभासने तद्गतार्थाकारस्यापि प्रतिभासप्रसड्गात् ।
आकारमन्तरेणाकारिणो ऽनवभासनात् ।
प्रवृत्तिविज्ञानसन्तानादन्य एवायं बुद्धिसन्तानः प्रतिपत्ता, यमालयविज्ञानमाचक्षत इति चेत्? एवं तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः सिद्धो ऽधिकः प्रतिपत्ता ।
स किं सन्तन्यमानज्ञानरूपः, तद्विपरीतरूपो वेति चिन्ता परिशिष्यते ।
तस्याश्च रङ्गभूमिः क्षणभङ्गभङ्ग इत्यत आह—परेति ।
दृढतरं विशेषनिष्ठम् ।
स्मृत्या सह पूर्वापरप्रत्यययोरेकविषयत्वमूकज्ञानगोचरत्वम् ।
पूर्वानुभूतितत्कार्यस्मृतितत्कार्यानुभूतीनामेकेनानुव्यवसायेन
एतेन प्रतिसन्धानं प्रत्यभिज्ञानं वा स्यात्, कार्यकारणविशेषयोरेकसन्ताननियमो वा? आद्ये तत्त्वतः प्रत्यभिज्ञानमसिद्धम्, अभिमानतो विरुद्धम्, अविशिष्टमनैकान्तिकम् ।
द्वितीये ऽपि विरोध एवेति निरस्तम् ।
तदाह—तदनेनेति ।
तदत्र प्रतिसन्धाने कार्यकारणभावः परेणोपन्यस्तः किमुपाधितया विपक्षव्यावृत्तिसन्देहमुद्भावयितुम्? अथ स्वदर्शने प्रतिसन्धानव्यवस्थां प्रतिपादयितुम्? प्रतिसन्धानस्य तु क्षणभङ्गसाधनमेव बाधनमित्याशयः ।
तत्र प्रत्यभिज्ञानं प्रतिसन्धानमिति गृहीत्वोपाधिलक्षणमपनिनीषान् कार्यकारणभावप्रतिसन्धानयोः परस्परेण व्याप्ति खण्डयति—न हि यत्रेति ।
पुनः बौद्धः ।
न हि कार्यकारणभावमात्रं प्रतिसन्धाननिबन्धनमाचक्ष्महे ।
किं तर्हि? सादृश्यविशिष्टमिति शङ्कते—वस्तुत इति ।
तदिदमुक्तम्, सभागेषु इति ।
एतद्व्यतिरेकव्यभिचारेण दूषयति—तन्नेति ।
विशिष्टो ऽपि कार्यकारणभावो न प्रतिसन्धानं प्रति प्रयोजको यतस्तन्निवृत्तावपि नेदं निवर्तत इत्यर्थः ।
न च सादृश्यमात्रमेवास्तु तन्निबन्धनमिति साम्प्रतम्, भेदग्रहे तस्यापि व्यभिचारात् ।
तदग्रहपक्षस्तु वाच्य इति तमुपेक्ष्यास्मदभिप्रेतं प्रतिसन्धानमादाय शङ्कते—पूर्वापरेति ।
यत्र कर्तरि प्रतिसन्धानं तत्रावश्यं प्रतिसन्धयानां बुद्धीनां कार्यकारणभावः ।
यत्र चैष एवभूतः, तत्रावश्यं कर्तृप्रतिसन्धानमिति न व्यभिचरतीत्यर्थः ।
दूषयति—हन्तेति ।
नैरात्म्यसाक्षात्कारसात्मीभाव इति सर्वज्ञोपलक्षणपरम् ॥
तदयमर्थः, सर्वज्ञस्तावदुभयवाद्यविवादविषयः ।
स किमात्मनः पूर्वापरप्रत्ययानेककर्तृकतया प्रतिसन्धत्ते न वा? आद्ये तत्प्रतिसन्धानादेव प्रतिसन्धातुरेकत्वं सिद्धम् ।
ज्ञानानां भेदस्य धियामस्थैर्यस्य सर्वैरेव प्रतीतेः ।
प्रतिसन्धातुः क्षणिकतायाः सर्वज्ञेनाप्यप्रतीतेः ।
अथ न प्रतिसन्धत्ते, न तर्हि कार्यकारणभावनिबन्धनं कर्तर्यपि प्रतिसन्धानम् ।
न ह्यस्ति सम्भवो यदन्वये ऽपि यस्यानन्वयस्तत् तावन्मात्रनिबन्धनमिति ।
सैव च इत्यादि सोत्प्रासम् ।
व्यर्थ इति ।
स्वनिबन्धनानुवृत्तौ सत्त्वदृष्टेर्दुरपह्नवत्वात् ।
अवश्यं च तस्य प्रतिसन्धानेन भवितव्यम् ।
कथमन्यथोपदिशेत्? अवश्यं चोपदेष्टा स्वीकर्तव्यः ।
यदि पारलौकिकेर्ऽथे विप्रलम्भका एव वक्तार इति निश्चयः, सम्भावनयापि प्रेक्षावन्तो न प्रवर्तेरन् ।
तस्मादुभयथापि प्रतिसन्धातुरेकत्वं सिद्धम् ॥
अत्र शङ्कते—अथासदपीति ।
ततश्च न काषकारणभावो न तस्य निबन्धनम् अव्यभिचारात् ।
नाप्यनुपदेशप्रसङ्गः, तन्निबन्धनस्य प्रतिसन्धानस्य भावात् ।
नापि दोषावकाशः, स्वरसवाहिनस्तस्य तद्धेतुत्वात् ।
अस्य त्वाहार्यत्वादित्यर्थः ।
शङ्कते—न चेति ।
सो ऽयं कार्यकारणाभावे सत्येव द्रष्टव्यः ।
उपदेशस्तु पूर्वप्रतिसन्धानबलोपनीतकरूणाभ्यासप्रकर्षादेव विरोधप्रतिसन्धानबलेन सुप्तस्येव प्रबोध इति शड्कार्थः ।
उत्तरम्—प्रवृत्तीति ।
न च स्फटिकवद् विषयोपरागपरिहारेण बुद्धिषु भेदग्रह इति युक्तम्, स्फटिकवदुपाधिपरिहारेण बुद्धीनां प्रत्येतुमशक्यत्वात् ।
तथाभावे बुद्धिमात्रेण भेदाग्रहे पार्थिवतया वृक्षात् काष्ठं काष्ठादड्गारः, ततो भस्मादिभेदेन न गृह्येत ।
गृह्यते च ।
तस्मान्निमित्तव्यावृत्तौ प्रतिसन्धानं न स्यात्, भवद् वा निमित्तान्तरमाक्षिपतीत्यर्थः ।
न चोपदेशः प्रतिसन्धानमन्तरेण समर्थितः स्यात् ।
स हि विवक्षायोनिः ।
सा च सड्केतितशब्दस्मरणादियोनिः ।
तदेव च प्रतिसन्धानम् ॥
नन्वालयविज्ञानभेदाग्रहात् प्रतिसन्धानं भविष्यतीत्यत आह—आलयेति ।
स ह्यालयसन्तानो ऽहमास्पदं प्रवृत्तिविज्ञानादन्य एव स्यात्, तदन्तःपातिकादाचित्कानेकाहम्प्रत्ययरुपो वा? न तावदाद्यः, न ह्यहमहमिकया परस्परस्वतन्त्रसन्तानद्वयमनुभूयते ।
सत्यपि वा परस्परमनुपादानानुपादेयभावान्न परस्परप्रत्याकलितार्थानुसन्धानबन्धः ।
तथात्वे वा चैत्रमैत्रादिष्वपि प्रसङ्गः ।
उभयोर्वा उभयोपादानत्वे एकमप्यनेकाश्रितमिति किमपराद्धमवयविसंयोगादिभिः? न
चालयविज्ञानोपात्तं प्रवृत्तिविज्ञानं न किञ्चिदुपादत्त इत्यपि युक्तम् ।
तथा सति निमित्ततामपि न यायात्, उपादानत्वव्याप्तत्वान्निमित्ततायाः ।
एवं च यदि ज्ञानान्तरमुपाददीत, तदा अपूर्वानन्तसन्तानप्रवृत्तिप्रसङ्गः ।
तस्मान्नालयसन्तान आनुभविको न चौपपत्तिक इत्यर्थः ।
द्वितीये त्वाह—अहमिति ॥
अयमाशयः ।
अस्य हि भेदाग्रहः स्वरूपतो वा स्यात्, विषयतो वा? स्वरूपतो ऽपि पूर्वाहमिति प्रत्ययमात्राद् वा, प्रवृत्तिविज्ञानेभ्यो ऽपि वा? न तावदाद्यः, अहमित्यज्ञासिषम्, अहमिति जानामि, अहमिति ज्ञास्यामीत्यतीतत्वादिप्रतीतेर्भेदनिश्चयमन्तरेणानुपपत्तेः ।
कथञ्चिद् भेदाग्रहे ऽपि तदर्थस्यैव प्रतिसन्धानमुचितम्, न प्रवृत्तिविज्ञानानाम् ।
न च तेभ्यो ऽपि भेदाग्रह इति चोक्तमेव ।
नापि विषयतः ।
स हि स्वाकारो वा स्यात्,
वस्त्वन्तरमेव वा, अलीकं वा? नाद्यः, प्राग्दूषणेनैव गतत्वात् ।
न ह्यनेन स्वाकारः स्वात्मनो भेदेनारोपितः, अपि तु स्वात्मविषय एव दर्शितः ।
तस्य च भेदो निश्चित इति ।
नापि द्वितीयः, स्वयमनभ्युपगमात् ।
नापि तृतीयः, अहमिति विकल्पस्य सवस्तुकतायाः प्रागेव प्रसाधनात् ।
अवस्तुकत्वे ऽपि न तत्र प्रकृतोपयोगिभेदाग्रहसम्भवः ।
स हि विद्यमान एव भेदो न गृह्यते, अविद्यमान एव वा, आरोपितो वा, आरोपितासत्त्वो वा? न तावदाद्यः, अलीकस्य अज्ञायमानभेदसम्पत्तावनलीकत्वप्रसड्गात् ।
नापि द्वितीयः, पारमार्थिकस्य भेदाभावस्य पारमार्थिकाभेदपर्यवसायित्वात् ।
न च परमार्थत एव नानाविकल्पोल्लिखितमलीकमेकात्मकम् अनात्मकत्वात् ।
तथात्वे वा क्व भेदाग्रहस्योपयोगः, एकत्वादेवैकत्वेनानुसन्धानात्? नापि तृतीयः, विरोधपराहतत्वात् ।
यदि हि तत्र भेदारोपः, कथं तदग्रहः? तदग्रहे वा कथं भेदारोपः? न च भेदारोपे ऽभेदारोपस्याप्यवकाशः ।
नापि चतुर्थः, आत्माश्रयप्रसङ्गात्, पारमार्थिकभेदप्रसड्गाच्च ।
घटपटयोर्यो भेदः पारमार्थिकः, शशविषाणनरविषाणयोर्वा यो भेदः काल्पनिकः, स इह न गृह्यते इत्यभेदानुसन्धानमिति चेत्—न, अन्यविषयभेदाग्रहे अन्यत्राभेदारोपे ऽतिप्रसड्गात् ।
चतुष्कोटिविनिर्मुक्तव्यपदेश्यभेदाग्रहे त्वभेदारोपे त्रैलोक्यैकतारोपप्रसङ्गः ॥
तत्र भेदग्रहो ऽप्यस्तीति चेत्? तर्हि यथाभूतो भेदः तत्र गृह्यते, तदग्रहे एवाभेदारोप इत्येव साधु ।
न चैतदलीकविषयत्वपक्षे सम्भवतीति स्थिरवस्तुगोचरत्वम् एव सत्त्वबुद्धेर्ज्यायः ।
क्षणभङ्गस्तु निषेत्स्यत इति भावः ।
तदिदमुक्तरूपं प्रतिसन्धानं निमित्तवत्तया व्याप्तं निर्निमित्तत्वे नियमानुपपत्तेः ।
तच्चानेककर्तृत्वे नास्तीति व्यापकानुपलब्ध्या विपक्षान्निवर्तमानं निमित्तवत्येककर्तृकत्वे विश्राम्यतीति प्रतिबन्धसिद्धिः इत्यनेनाभिप्रायेणोपसंहरति—तस्मादिति ॥
तदेतत्सर्वं बुद्धीनामुपादानोपादेयभावमभ्युपेत्योक्तम् ।
वस्तुतस्तु तत्रैवायं विवादः ।
तथा हि व्यवहितकाला अपि प्रत्यया यद्येककर्तृकाः, क्व बुद्धीनामुपादानोपादेयभावः? स चेत्, क्व तेषामेककर्तृकता? सा ह्येकोपादानतैव ।
न चैकजातीयत्वे सति तदुत्पत्तिः एवोपादानोपादेयभावः ।
शिष्यो पाध्यायबुद्ध्योरपि तथाभावप्रसङ्गत् ।
भेदाग्रहे सतीत्यपि न युक्तम्, समस्तोपाधिस्वीकारपरिहारेण शिष्याचार्यबुद्ध्योरपि भेदाग्रहात् ।
सोपाधिभेदग्रहस्य प्रकृते ऽपि भावात् ।
शरीरभेदाग्रहस्य जन्मान्तरेणव्यभिवचारात् ।
अनुपलब्धपितृकेण बालेन चाति प्रसड्गात् ।
घटकपालक्षणयोरतथाभावप्रसड्गाच्च् ।
एकाधारतानियम इत्यपि न युक्तम्, तस्य वास्तवस्य क्षणिकपक्षे विषयसमयानां क्षणानामभावात् काल्पनिकस्य त्वतिप्रसञ्जकत्वात् ।
अस्ति हि सर्वेषामभिमानो यत्रैव घटे
गन्धः तत्रैव रूपरसस्पर्शा इति, यत्रैव शरीरं तत्रैव ज्ञानमिति ।
एतेन चाभ्रान्तसमतैकावसायः प्रकृतिविक्रिये ।
ततो
हेतुफलस्योपादानोपादेयलक्षणमिति निरस्तम् ।
काष्ठस्य तु प्रकृतेर्विकृतिरड्गार इति कुतो निश्चितं भवता? यावता वह्नेरेवासौ विकारः किं न स्यात्, वह्निसम्बन्धे काष्ठादेव तदुत्पत्तेरिति चेत्—न, काष्ठसम्बन्धे वह्नेरेव तदुत्पत्तिरित्येवं किं न स्यात्? पार्थिवं पार्थिवोपादानकमेवेति निश्चयादिति चेत्? कुत एतत्? सभागेषु क्षणेषु तथा दर्शनादिति चेत्? तदपि कुतः? अभ्रान्तसमतैकावसायादिति चेत्—न, नीलपरमाणुषु परस्परप्रत्यासन्नेषु निरन्तरं
ज्ञायमानेषु परस्परोपादानत्वप्रसङ्गात् ।
अस्ति हि तेषां तदुत्पत्तौ सत्यां ममता आभिमानिकैकत्वावसायश्च ।
पारमार्थिकस्तु न क्वचिदपि ।
अस्तु पिण्डितानां रूपरसपरमाणूनां सर्वेषा सर्वोपादानत्वमित्यपि न युक्तम्, अनेकवृत्तेः एकस्य स्वयमनभ्युपगमात्, सप्रसिधानां समानदेशत्वाभावाच्च ।
एतेन भ्रान्तसम्मतैकावसाय इति पाठान्तरमपास्तम्, लौकिकानां भ्रान्तसम्मतेस्तत्रापि तुल्यत्वात् ।
परीक्षकाणां तु प्रकृते ऽप्यसत्त्वात् ।
तस्मात् कार्यकारणभावमात्रमवशिष्यते ।
स च नोपाधिरतिप्रसङ्गात् ।
किञ्चिदेव स्वकारणसामग्रीवशादुत्पद्यते ज्ञानं यत् कांश्चिदेव कारणसान्तानिकान् प्रत्ययान् प्रत्यवेक्षते नान्यत् ।
नापरानित्येतदप्यसाधीयः, नियामकमन्तरेण शिष्यस्याप्युपाध्यायचित्तप्रत्यवेक्षकज्ञानोत्पादप्रसड्गात् ।
तत्र तेषामनभिसंस्कारकत्वात् नैवमिति चेत्? कारणत्वज्ञानत्वाविशेषे ऽप्येतदेव कुतः? विचित्रा हि कारणानां शक्तिः ।
तत्
किमतिनिर्बन्धेन? यत्र यथा कार्यं दृश्यते तत्र तथा कल्प्यत इति चेत्? तत् किमिदानीं किम्भूतस्य कुत्र सामर्थ्यमित्यनुयोगो ऽनुत्तर एव ।
एवं तर्हि सर्वत्र ज्ञापकजनकेष्वनाश्वसात् निरीहं जगत् जायेत ।
क्षणभङ्गसाधनबाधितत्वात् प्रतिसन्धानहेतोरेवं कल्प्यत इति चेत्? अथानेनैतत् किं न बाधयते? तस्य निर्देषत्वादिति चेत्? अस्य तर्हि दोषान्तरं वचनीयम् ।
अगृह्यमाणविशेषत्वादस्तूभयोः सत्प्रतिपक्षत्वमिति चेत्? नन्विदमपि ते व्यसनं निवर्तयिष्यामो मा त्वरिष्टा
इत्युपसंहारशेषः ॥
यदि हि सर्वज्ञस्य चेतसो ऽस्मदादिचित्तमालम्बनप्रत्ययत्वेनोदाह्नियते वैसदृश्याद् दण्डघटवन्न प्रतिसन्धत्त इत्यपि परिहरेदत उक्तम्—योगिचित्तमपीति ।
तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादिति विपर्ययो हेतुविपर्यासस्यापि सम्भवात् ।
तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादिति विपर्ययो हेतुविपर्यासस्यापि सम्भवात् ।
सहार्थे वा तृतीता ।
इहानुभवो वा कालान्तरभाविनीं स्मृतिं जनयति, जज्जनितो वा संस्कारः? सो ऽप्यतीन्द्रियो ऽध्यक्षसिद्धो वा? अतीन्द्रियो ऽपि तत्कालस्थायी, सन्तन्यमानो वा? अध्यक्षासिद्धो ऽपि तदुत्तरबुद्धिधारारूपो वा, तदन्यो वा, तद्विशेषो वा? विशेषो ऽप्यनुभवप्रसवत्वमात्रं वा, अनुभवितृसन्तानवैजात्यं चेति? तत्र प्रथमं दूषयति—न ह्यजातेति ।
अध्यक्षसिद्धस्तु तदुत्तरबुद्धिधारारूपात्, अन्यस्तावदनुपलब्धिबाधितः, तैरनभ्युपगतश्च ।
अनुभवप्रभवतामात्रलक्षणस्तु विशेषो ऽविशेष एव ।
न हि कर्मकरकरोपनीतम् एव बीजं क्षितिमासाद्यड्कुरं कुरुते ।
न तु तथाभूतमपि प्रमादपतितम्, तथा नीलाद्यनुभवसन्तानः पीताद्यनुभवेन वोपनीयताम्,
नीलाद्यनुभवेनैव वेति न कश्चित् स्वरूपकृतो विशेषः ।
एवं चाननुभूते ऽपि स्मरणप्रसड्गो न चानुभूते ऽपीति वैजात्यं तु विशेषो भवेत् ।
यथा क्षीरावसेकादम्लत्वं परिहृत्य माधुर्यमादायानुवर्तमानामलकी कालान्तरे अपि फले माधुर्यमुन्मीलयति, लाक्षारसावसेकाद् धवलतां परिहृत्य रक्ततामुपादायानुवर्तमानं कार्पासबीजं कुसुमेषु रक्तताम्, न चैवं प्रकृते सम्भवति ।
जवाकुसुमाद्युपधानात् तद्रूपतां परिहृत्य धवलिमानमुपादायैव सन्तन्यमानस्य स्फटिकस्येव ज्ञानस्यापि विषयोपरागं परिहृत्य चिद्रूपतामात्रमुपादायानुवृत्तेः ।
सर्वाकारत्वमेव सर्वविज्ञानानां किं तु कश्चिदाकार ः
स्फुटः, अन्ये त्वपटव इति तु स्वदर्शनश्रद्धा, यतो विरुद्धधर्माध्यासादपि न भीः ।
निराकारपक्षे ऽपि यावानर्थो बुद्धेर्विषयस्तत्र स्फुटैव सा ।
यत्र त्वस्फुटा नासौ तस्या विषयः ।
तथात्वे वा विषयेतरव्यवस्था न स्यात् ।
तस्मादतीन्द्रियः संस्कारः परिशिष्यते ।
स चेत् कालान्तरस्थायी, नूनं तदुपादानमपि तथैव स्थायि ।
न ह्युपादाननिवृत्तावपि उपादेयमवतिष्ठत इत्याशयवानाह—इति पूर्वोत्पन्न इति ।
सन्तन्यमान एवातीन्द्रियः संस्कारो भविष्यतीत्याशयवानाशङ्कते—पुनः पर इत्यादि ।
पृथक्संस्कारसन्तानो हि न तावत् पराभ्युपेतो नाप्युपपन्नः, आलयस्य प्रागेव प्रतिषेधात् ।
ततो ऽप्यधिकत्वे तत्रैव स्मृत्यादिफलप्रसड्गात् ।
तस्मात् प्रवृत्तिसन्ताने फलानवकाशात् अन्यत्र संस्कारे ऽन्यत्र फले ऽतिप्रसड्गात् ।
तस्माद् प्रवृत्तिसन्ताने फलानवकाशात् अन्यत्र संस्कारे ऽन्यत्र फले ऽतिप्रसड्गात् ।
तस्माद् प्रवृत्तिसन्ताने फलानवकाशात् अन्यत्र संस्कारे ऽन्यत्र
फले ऽतिप्रसड्गात् ।
तस्माद् यत्रानुभवस्तत्र संस्कारः, यत्र च स तत्र स्मृत्यादिफलमिति परमुपपद्यते ॥
एवं च क्षणभङ्गसाधनं प्रतिरोधकमवशिष्यते ।
तत्राह—उपपादयिष्यते हीति ।
एतेन यो यः संस्कारः क्वचित् सन्तान आहितः, स तत्रैव फलदानयोग्यो नान्यत्रेत्यादि निरस्तम्, अतिरिक्तस्य संस्कारस्याश्रयासिद्धत्वात्, विशेषलक्षणस्य च स्वरूपासिद्धत्वात्, अविशिष्टोत्तरकार्यप्रवाहलक्षणस्य च विरुद्धत्वादिति ।
अनित्यत्वस्य हेतोर्विशेषव्यावर्तकत्वोत्कीर्तनं गुणत्वसिद्ध्युपयोगात् ।
अत एव नेतरेतराश्रयत्वशङ्का,
अनित्यत्वेन पारतन्त्र्यं साधयित्वा तेन गुणत्वप्रसाधानात् ।
गुणत्वं तु यदर्थं साधितम्, तत् तत्साधकेनैव साधितमिति वैयर्थ्यमवशिष्यते ।
तदुपसंहरति—तस्मादिति ।
ननु यदि वैयर्थ्यमस्य हृदि निहितमेव वार्त्तिककृता, तत् किमथममुमेव हेतुमुपन्यस्तवानित्यत आह, तदपि पूर्वमूक्तम्, न तु प्रसाधितम् ।
न चासिद्धं साधनं नामेति कृत्वा इति गर्भशोषः ॥
अयमर्थः ।
यथा अनित्यत्वं द्रव्यपारतन्त्र्याविनाभूतम्, तथा गुणत्वमपि ।
यथा च तदिच्छदिषु, तथा गुणत्वमपीति ।
न तावदनयोः साधनत्वं प्रति कश्चिद् विशेषः ।
केवलमनुमानकालाभावो विवक्षितः ।
सो ऽपि नास्ति, एकहेतुसिद्धे ऽपि हेत्वन्तरजिज्ञासुं प्रति भावात् ।
अननुसंहितानित्यत्वमपि तल्लक्षणयोगन गुणत्वव्यवहारिणं प्रति च ।
दृश्यते हीच्छादीनां सामान्यवतामचलनात्मकानां गुणान्तरायोगः ।
अत्र विप्रतिपत्तौ त्वनित्यत्वादेरूपन्यासः ।
तदयमपेरर्थः ।
अनित्यत्वेन पारतन्त्र्यमपि साधयति, तत्साधकं गुणत्वमपीति ।
उत्तरप्रबन्धोपयोगमाह—न चैतदिति ।
द्रव्यपारतन्त्र्येण विशेषितेनेति शेषः ।
तदेतद् विशेषणं कुतः सिद्धमित्यत आह—यद्यपीति ॥
अयमाशयः ।
प्रत्यक्षग्रहणयोग्यास्तावदस्यावयवाः प्रत्यक्षानुपलम्भेनैव निरस्ताः ।
अतीन्द्रियेष्वनुमानं प्रमाणम्, तच्च द्विविधं समव्याप्तिकमसमव्याप्तिकं चेति ।
तत्र यद्यपि द्वितीयस्य निवृत्तौ न साध्यनिवृत्तिः, तथापि प्रथमस्य निवृत्ताववश्यं निवर्तेत ।
तथा हि, क्वचिदुपलभ्यमानस्पर्शवत्तया दुव्यस्यारम्भकत्वं कल्प्येत ।
आरम्भके सति च तत् कार्यद्रव्यं सावयवं व्यवस्थाप्येत, वायुवत् ।
न चेह क्वचिदुपलभ्यमानस्पर्शवत्तास्तीति नारम्भसम्भवः, तदभावे न सावयवत्वमाकाशवत् ।
तदिदमुक्तम्—तदवयवकल्पनायां प्रमाणाभावेनेति ।
न तावदण्विति ।
व्यापकमित्यर्थः, विशेषनिषधस्य शेषाभ्यनुज्ञाविषयत्वात् ।
कुत इत्य आह—तत्र तत्रेति ।
तथा सत्येव हीच्छादीनां सार्वत्रिकत्वमुपपद्यते यत इत्यर्थः ।
तदुपपादयति–क्वचिदिति ।
अन्यतरत् शरीरादि ।
क्वचित् स्वभावतः कार्यद्रव्योत्पत्तेरारभ्य तत्करणसंयोगादेः ।
अथ गतेरेव किं न तं तमाप्नोतीत्यत आह—गतिकल्पनायां प्रमाणाभावात् ।
गतिकल्पनाप्रमाणं हि मूर्तिः ।
तया अपरिदृश्यमानापि गतिः कल्प्यते मनसि परमाणुषु च ।
तदभावश्चात्मनि ।
तथा हि, न परमाण्वाश्रया इच्छादयः, अनित्यत्वे सत्यस्मदादिप्रत्यक्षत्वात्, शब्दवत् ।
निरवयवद्रव्याश्रितत्वं च साधयता सावयाश्रितत्वं प्रागेव निरस्तम् ।
अतो ऽमूर्तत्वान्न गतिसम्भवो मूर्तेर्गत्या समव्याप्तिकत्वादिति पूर्ववन्नेयम् ॥
ननु नैतदेकमपि वार्त्तिकस्थमित्यत आह—तदेतदादिग्रहणेति ।
ननु तथापि किमनया कष्टसृष्ट्या, यावता गुणत्वमन्यथाप्यमीषां साधयितुं शक्यम्? तथा हि इच्छादयो गुणा अनित्यत्वे सत्येकेन्द्रियग्राह्यजातिमत्त्वात्, रूपादिवदित्यादिना इत्यत आह—तदनयेति ॥१० ॥
॥ परिशुद्धिः ॥
यस्य कृते ऽपवर्गो मृग्यते स तावल्लक्षितः ।
अथेदानी पुरुषस्यापेक्षिततमत्वात् अपवर्गो लक्षयितुमुचितः ।
तत् किमन्तराले शरीरादिलक्षणमित्यत आह—आत्मानमित्यादि ।
अपवर्गस्याभावरूपत्वात् प्रतियोग्यधीननिरूपणतया दुःखादपकर्षः ।
तस्यापि हेत्वधीनोत्पत्तिकतया तद्धेतुरूपेभ्य इन्द्रियादिभ्यो ऽपकर्षः ।
तेषामपि शरीरमाश्रित्य तथाभावात् शरीरादपकर्ष इति सङ्गतिसङ्क्षेपः ।
साक्षात् शरीरमाश्रित्येति ।
इन्द्रियाणां मनसः अंशतोर्ऽथादेः परम्परया तु शरीराश्रितत्वम् ।
बुद्धेर्देषाणामर्थाद्यंशस्य च ।
अस्मिन्नेवार्थे भाष्यम् इत्याह—तदवतारायेति ॥
अत्र हि चेष्टायाः शरीराव्यभिचारपक्षे अर्थेन्द्रियसमुच्चयो ऽनुपपन्नः, सम्भवे व्यभिचारे च विशेषणस्यार्थवत्त्वात् ।
समुच्चयपक्षे व्यभिचारदर्शिनः कथं चेष्टाश्रय इति प्रश्नो ऽनुपपन्नः, प्रत्येकव्यभिचारे सत्येव हि समुच्चयसम्भवात् ।
अतो विकल्पं गृहीत्वा भाष्यमुत्थापयति—अत्रेति ।
यद्यपि चेष्टा कायव्यापारस्तथापि तस्यैव लक्ष्यत्वादितरेतराश्रयभिया व्यापारमात्रं वक्तव्यमित्याह—चेष्टा व्यापार इति ।
प्रयुक्तस्य इति सतात्पर्यं पदम् ।
अतो व्याचष्टे—प्रयुक्तस्योत्पादितप्रयत्नस्येति ।
तेन कारणद्वारा चेष्टानिरूक्तिः ।
प्रयत्नवदात्मसंयोगासमवायिकारणान्त्यावयविक्रिया चेष्टा ।
फलद्वारा तु हिताहितप्राप्तिपरिहारफलेति ।
तदिदमुभयं विवक्षतोक्तम्—अपि तु विशिष्टो व्यापार इति ।
तेन फलद्वारनिरूक्तौ व्यभिचारोदाहरणम् ।
दारूयन्त्रादिकारणद्वारनिरूक्तौ तु प्राणाख्यो वायुः ।
मनःकरचरणादयस्तु अन्त्यावयविपदेनैव निरस्ताः ।
तत्रोभयव्यभिचारमुद्भावयन् दारूयन्त्रादीत्यहा ।
द्वयमपि परिहरति—मूर्तान्तरेति ।
अत्र च स्पर्शवद्द्रव्यपरिमाणं मूर्तिरिति परलक्षणाभिप्रायेण मूर्तिशब्दः प्रयुक्तः ।
तेन च स्पर्शवद्द्रव्यान्तराप्रयोगे सतीत्यर्थः ।
प्रयोगश्च क्रियौपयिको गुणः ।
स च दारूयन्त्रादौ नोदनादिः ।
प्राणे तु प्रयत्नः ।
तेन यद्यपि शरीरस्य प्रयोजकं मनो ऽस्त्येव, तथापि न तत् स्पर्शवत् ।
यद्यपि च शरीरेणापि तत्र प्रयत्यते, तथापि न तत् ततो ऽन्यत् ।
तदिदम् अन्यरग्रहणफलम् ।
अतो नासिद्धं विशेषणमिति ।
एतच्च यथाश्रुतं भाष्यवार्त्तिकानुरोधेन विशेषणम् ।
आगामिवार्त्तिकपर्यालोचनायां तु चेष्टाशब्द एवायमेवम्भूतेर्ऽथविशेषे वर्तत इति न न्यूनं सूत्रमाशङ्कनीयम् ।
पाषाणेत्यादि ।
न च तस्यापि प्राणित्वेनोच्छ्वासनिःश्वासानुमानात् नयनोदराद्यवयवसङ्कोचविकाशलक्षणा चेष्टास्तीति वाच्यम्, उच्छ्वासनिःश्वासावकाशाभावात् अन्त्यावयविनो निष्क्रियत्वाच्च ।
अपि च मृतशरीराव्याप्तिपरिहाराय योग्यतैव शरणम् ।
न चोदाहरणमादरणीयमिति ॥
ननु यद्यपीन्द्रियाणि शरीरे न समवयन्ति, तथापि संयुज्यन्ते ।
तावतैव आश्रयार्थ उपपन्न इत्यतो वार्त्तिककारस्य भावमाविष्करोति—संयोगितया त्विति ।
यद्यपि गोलकस्याभिधाते ऽपि चक्षुरूपहन्यते तदनुग्रहे चानुगृह्यते, तथापि विशेषानुपादानात् सर्वेन्द्रियाभिप्रायमेतद् द्रष्टव्यम् ।
न हि गोलकमात्रस्योपधाते ऽनुग्रहे वा त्वगादीन्युपहन्यन्ते अनुगृह्यन्ते वा ।
यथा जरायौवनादिना शरीरोपघातानुग्रहाभ्यां सर्वाणि विकलायन्ते पटूनि वा सम्पद्यन्त इति ।
तदेतद् भाष्यवार्त्तिककाराभ्यामेवानुगृह्यन्ते उपहन्यन्त इति बहुवचनप्रयोगेण स्पष्टं दर्शितमित्युपेक्षितवान् ।
न स्वरूपेण शरीरम् आश्रयन्त इति ।
अव्याप्त्यतिव्याप्ती विहायेति शेषः ।
ननु सुखाद्युपलब्धिहेतुत्वमर्थानां कार्योपहितं रूपम्, न तु तदेव कार्यमित्यत आह—प्रयोजनं तदधिकारेण तत्र प्रवृत्तेरिति ।
तदयं लक्षणार्थः ।
यदवच्छिन्ने आत्मनि अर्था भोगं जनयन्ति तच्छरीरम् ।
तेन नात्मना व्यभिचारः ।
न
ह्यात्मात्मनैवावच्छिद्यते ।
नापि मनसा, तस्य शरीरानवच्छेदेन प्रवृत्तेरभावात् ।
नापीन्द्रियैः, तदवच्छेदेन तत्र भोगोत्पत्तौ बहिरपि भोगप्रसङ्गदिति ।
तदेतत् तस्य भोगधिष्ठानमिति वदता भाष्यकृता एव प्राक् दर्शितं स्फुटमिति
नेह वितन्यते ।
चोदयतीति ।
अर्थगतिं समर्थ्य शब्दगताविति शेषः ।
चेष्टादयः सामान्यशब्दा इति वार्त्तिके बहुवचनं दृष्टान्तब्रह्मणादिशब्दान्तर्भावेन ।
आश्रयशब्दावृत्तिभेदविवक्षया वेत्यतो मन्दाशङ्कत्वादुपेक्षितम् ।
अशेषब्राह्मणभोजनस्याशक्यत्वादित्यनुपपत्तिवर्णनं सम्पातायातमस्य पक्षस्याग्रे वर्णनीयत्वात् ।
अत एव तदुपेक्ष्य प्रकृतोपयुक्तं विवृणोति—विशेषेणेति ।
बुभुक्षितत्वादिना सन्निधीयमानमित्यनेन सम्बन्धः ।
अत्रानयोः प्रकरणादीत्यादिपदसङ्गृहीतयोर्मध्य इत्यर्थः ।
प्रमाणासम्भवो ऽनुपपत्तिर्बाध इत्यर्थः ।
यस्यापि प्रमाणेन शरीरत्वं बाधितं भवति, तत्रापि व्यापारश्रयत्वं गतमिति ॥
अथ समवायाभिप्रायेणेति ।
अत्र हीन्द्रियाश्रय इति षष्ठीतत्पुरुषो बहुव्रीहिर्वा ।
तत्र समवायाभिप्रायेणोभयं दूषयति—तथापीति ।
उपलक्षणं चैतत् ।
शरीरस्येन्द्रियेष्वित्यपि द्रष्टव्यम् ।
प्रथमपक्षे मूर्तानां समानदेशताप्रसड्गात्, एकस्य द्रव्यस्य अनारम्भकत्वात्, पृथिव्या अबादिद्रव्यानारम्भकत्वाच्च ।
द्वितीयपक्षे तु विजातीयानाम् अनारम्भकत्वात् ।
श्रोत्रमनसोर्द्रव्यानारम्भकत्वादित्यर्थः ।
इन्द्रियविशेषं गृह्णाति—घ्राणस्येति ।
श्लिष्टं वाक्यम् ।
अत्रायमनुयोगः ।
शरीरावयवान्तरेण घ्राणस्य समवायो वा संयोगो वा? प्रथमे ऽपि द्वयी गतिः, घ्राणस्य वा शरीरावयवे समवायः, तस्य वा घ्राण इति ।
तदेतदनुयोगद्वयमभिप्रेत्याह—न तस्येति ।
शरीरावयवसमवायिकारणत्वेन शरीरे ऽसमवायात् ।
न हि कारणं कार्यकार्ये समवैतीत्यर्थः इति षष्ठतत्पुरुषपक्षे ।
बहुव्रीहिपक्षे ऽपि शरीरस्यासमवायात् ।
न हि कारणकारणे कार्यं समवैतीत्यर्थः ।
घ्राणस्य शरीरावयवे समवाय इति तु न सम्भवत्येव, मूर्तयोरेकाश्रयत्वानुपपत्तेरित्यत्र टीका स्फुटा ।
संयोगपक्षं गृह्णाति—अथ तदाधारमिति ।
तत्र संयुक्तमित्यर्थः ।
अत्रापि द्वयीगतिः, आरम्भकतया अनारम्भकतया वा ।
तत्र प्रथमं दूषयति—तथापीति ।
आरभ्यमाणं हि द्रव्यमैन्द्रियकैरेवावयवैरारभ्यते यथा घटः ।
अतीन्द्रियैरेव वा यथा द्व्यणुकादिकम् ।
न तु मिश्रैरिति व्याप्तिः, तामुपोब्दलयितुमप्रत्यक्षत्वप्रसङ्ग उक्तः ।
अनारम्भे तु संयोगिद्रव्यमात्र स्यात् केशादिवत् ।
तथा च न तत्र शरीरसमवायसम्भव इति किमनेन शड्कितेनापीत्युपेक्षितवान् ।
एतेन शरीरसमवेतमेतदिति निरस्तम्, अतीन्द्रियद्रव्यस्यैन्द्रियकेणानारम्भात्, एकद्रव्यस्य च द्रव्यस्याभावात् ।
अल्पपरिमाणस्य महतानारम्भात् ।
शरीरव्यापकत्वे च तस्य सर्वत्र गन्धोपलब्धिप्रसड्गात् ।
अपि चेति ।
यद्यर्थशब्दो रूपादिमात्रवचनः, तदैवं दूषणम् ।
यदा त्विन्द्रियविषयवचनः, तदा वायवीयशरीराव्याप्तिः ।
योगिनस्तदपि तथेति यदि तदेन्द्रियपरमाणुभिरेव व्यभिचारः, तेषामपि तथाभावादिति ।
तदेतत्सर्वं शब्दगतिमुपेक्ष्य चर्चितम् ।
परमार्थतस्तु यदि द्वन्द्वानन्तरं बहुव्रीहिः क लिङ्गसङ्गतिरर्थसङ्गतिश्च? अथ प्रथमत एव बहुव्रीहिः क्कैकपद्यमिति? ॥११ ॥
॥ परिशुद्धिः ॥
इन्द्रियस्येति ।
केनचिदुपाधिना शरीरादीनामेव फलत्वमिति स्वभाविकरूपप्रतीत्यधीनत्वाच्चौपाधिकरूपप्रतीतेः तेभ्यः फलस्यापकर्षः ।
शरीरादीनामेव धर्मः प्रेत्यभावो धर्मिनिरूपणाधीनत्वाच्च धर्मस्य तेभ्यः प्रेत्यभावस्यापकर्षः ।
अर्थादीनां दोषान्तानां शरीरमाश्रित्य दुःखहेतुत्वाविशेषे ऽपि परम्परया शरीराश्रियत्वादिन्द्रियाणां तु साक्षात् तथाभावादेभ्यस्तेषामपकर्षः ।
मनसस्त्वेवंरूपत्वे सत्यपि बाह्येन्द्रियवैधर्म्यज्ञापनार्थत्वात् बुद्धिक्रमानुमेयत्वाच्च बुद्धेः सकाशादपकर्षः ।
तदिदमुक्तम्—उपनायकत्वेनेति ।
साक्षाच्छरीरमाश्रित्य प्रतिनियतविषयाद्युपनयद्वारा दुःखहेतुत्वेनेत्यर्थः ।
शरीरसंयुक्तं सदिति शेषः ।
अतो नोभयावधारणे भागासिद्धमसिद्धं वेति दोषः ।
सर्पमणिप्रदीपादीनां तु संस्कारपदेनैव निरासः ।
एतावांस्तु विशेषो यदञ्जनादीनामिन्द्रियसंस्कारकत्वम् ।
प्रदीपादीनां तु विषयसंस्कारकत्वमिति ॥
ननु भाष्यकृद् आह—भोगसाधनानीति, तत्कथमेतत् तेन सूचितमित्यत आह—साक्षादिति ।
यद्यपि भुज्येत
इति भोगौ सुखदुःखे इति साक्षादेव भोगसाधनत्वं सर्वेषां सम्भवति, तथापि भोगो बुद्धिरिति तत्र तत्र भाष्यदर्शनात् तदनुसारेण व्याचष्टे—पारम्पर्येण चेति ॥
यथा च सामान्यलक्षणमन्तरेण न विशेषलक्षणावसरः, तथा विभागमन्तरेणापीति सो ऽपि वक्तव्यः स्यात् ।
तदेतदेवंलक्षणकमिन्द्रियं बाह्यमाभ्यन्तरं चेतीन्द्रिप्रकरणात् मनो ऽन्यत्र नयता सूत्रकृता एव सूचितम् ।
बाह्यमपि पञ्चधेति ।
गन्धरसरूपस्पर्शशब्दा इति प्रतिनियतार्थविभागं कुर्वता सूत्रकृता एव दर्शितम् ।
यदि ह्यपरमपि बाह्यम् इन्द्रियं स्यात्, कथं पञ्चैव प्रतिनियता विषया इति तदेव व्यवच्छेद्यं दर्शयन्नेव मनाक् स्मारयति,
रसनादि प्रतिनियतविषयम्, मन आदि सर्वविषयमिति च ।
आदिग्रहणेन आत्मशरीरे ।
न त्वात्मादिप्रमेयोद्देशसूत्रे सामान्येनेन्द्रियमात्रमुद्दिष्टम् ।
इह तु घ्राणेत्याद्युच्यते ।
तत् कथं ततो न विशेष इत्यत आह—प्रमाणाद्युद्येशेनेति ।
उद्देशविशेषेण ।
अथ विभागसूत्रत्वे ऽपि लक्षणसूत्रं किं न स्यात्? न ह्यनयोः कश्चिद् विरोध इत्यत आह—लक्षणं हीति ।
ज्ञातं चोद्दिश्यते विधिविषयतया अनूद्यत इत्यर्थः ।
अज्ञातं च विधीयते ज्ञाप्यत इत्यर्थः ॥
परार्थानुमाने विरोधमुक्त्वा स्वार्थानुमाने ऽप्याह—नापि लक्ष्यलक्षणत्वे इति ।
लक्ष्यस्य पक्षरूपतया साध्यत्वात्, लक्षणस्य च लिङ्गरूपतया सिद्धत्वादित्यर्थः ।
तथापि कथमेभ्य एव पदेभ्यो विवक्षितोभयलाभ इत्यत आह—अत्र चेति ।
क्वचित् क्वचित् सामान्यविशेष इति ।
जातिरूपे साधर्म्यरूपे चेत्यर्थः ।
तेन श्रोत्रपदमप्यवयवार्थं निमित्तीकृत्य नभसो विशिष्टादृष्टोपगृहीतकर्णशष्कुल्यवच्छिन्नत्वे वर्तत इति ।
तर्हि योग एवास्त्वित्यत आह—अवयवार्थयोगे ऽपीति ।
तथाप्युभयाभिधायकत्वाविशेषे कथं लक्ष्य–लक्षणपदव्यवस्थेत्यत आह—तथा चेति ।
ननु केवलेनावयवार्थेन लक्षणे अतिव्याप्तिः, घ्राणत्वादिसहितेन तु इतरेतराश्रयत्वमित्यत आह—न चेति ।
सामान्यलक्षणयुक्तस्येति ।
यावता व्यभिचारो निवर्तते तावदुपलक्षणपरम्, न तु समुच्चितं पदं निरूच्यते त्वक्पदं त्वनवयवं वृद्धिक्षयवद्द्रव्यसहजावरणमात्रे वर्तत इत्यभिप्रायवता भाष्यकृता लक्षणं तद्बीजं च दर्शितम् ।
तथापि न प्रकृतसिद्धिः ।
न ह्येवमपि लक्ष्य-लक्षणव्यवस्था सिध्यतीत्यत आह—निर्वचनग्रहणेनेति ।
क्रियात्वादिति कार्यत्वाद् इत्यर्थः ।
संयोगाधारत्वादिति ग्राह्यस्य मृगमदादिगन्धस्य तत्रासमवायात् मृगमदादीनां स्वावयवसमवायेन समवेतसमवायाभावात् ।
स्वातन्त्र्येण ग्रहे विशेषणत्वाभावत् अप्राप्तस्य चाग्रहणात् ।
इतरसन्निकर्षत्रयस्य संयोगगर्भत्वात् संयोगः सिद्ध एवेत्युपक्रमः ।
अथ को नियमार्थः? किं यज्जातीयं यदिन्द्रियं तत्तज्जातीयस्यैव गुणविशेषं गृह्णाति? अथ यज्जातीयं यदिन्द्रियं तज्जातीयस्य तेनैव गुणविशेषो गृह्यते इत्यत आह—न चैवमिति ।
यद्यपि प्रथममप्यवधारणं घ्राणश्रवसोः सम्भवति, तथापि रसनादिषु व्यभिचारात् तदुपेक्ष्योत्तरं ग्रहीतव्यमित्यर्थः ।
तथापि भूतेभ्य इति सूत्रपदस्य किं तात्पर्यम् इत्यत आह—अनेन खल्विति ।
यद्यपि विशेषसिद्धिरेव शेषं निषेधति, तथापि विपर्यये बाधकं वक्तव्यमित्यत आह—निराकरणहेतुमाहेति ।
न त्वेकप्रकृतिकत्वमाह साङ्ख्यो न त्वेकस्वाभाव्यमिन्द्रियाणामित्यत आह—श्लिष्टं पदमिति ।
एकः पाक्यः ।
सर्वसाधारण इति शेषः ।
एवमुत्तरत्रापि ।
स्तोकभृयस्वनिःशेषत्वेन इति, प्रारब्धपाकापेक्षया ।
तथा च लक्ष्यहानिरिति—न ह्यस्ति सम्भवो निर्हेतुको व्यवहार इति भावः ॥१२ ॥
॥ परिशुद्धिः ॥
इन्द्रियप्रकृतित्वं बाह्येन्द्रियप्रकृतित्वमिति ॥१३ ॥
॥ परिशुद्धिः ॥
प्रवृत्तेर्देषापकर्षे मनस प्रवृत्त्यपकर्षे वक्ष्यते ।
बुद्धेर्मनो ऽपकर्षे चोक्तम् ।
विषयनिरूपणीयत्वाच्चर्थेभ्यो बुद्धेदपकर्षः ।
ततोर्ऽथलक्षणमेव क्रमप्राप्तमित्याह—क्रमप्राप्तमिति ।
सूत्रे विभागभागस्यापि विद्यमानत्वात् ।
श्लिष्टं तु शब्दार्थमाह—येषामिति ।
येषाम् उक्तलक्षणयोगस्त हमे विभज्यन्त इत्यर्थः ।
येषां मिथ्याज्ञानविषयीकृतानां निमित्तानुव्यञ्जनसञ्ज्ञाविषयीकृतानां संसारहेतुत्वं त हमे लक्ष्यन्त इत्यर्थः ॥
तत्र चाद्ये पदे विभागपरे ।
ततस्तदर्था इति लक्षणपदं चेत्, लक्ष्यपदं नास्ति ।
लक्ष्यपदं चेत्, लक्षणं नास्ति इत्यत
आह—अत्र चेति ।
अर्थानिमित्तानुव्यञ्जनसञ्ज्ञाविषयतया संसारहेतव इत्यर्थः ।
के ते? य इन्द्रियाणामर्था विषया इत्यर्थः ।
आगामिनो वार्त्तिकस्य भाष्येण विरोधं परिजिहीर्षुराह—न षष्ठीति ।
घ्राणादयः शब्दा इति शेषः ।
व्यधिकरणबहुव्रीहौ न केवलं लक्षणाभावः प्रयोजनाभावश्चेत्याह—न चेति ।
तदर्था इति लक्षणमव्यापकं स्यादिति ।
यदि वाय्वादयः परमार्थतोर्ऽथा इति शेषः ।
आदिग्रहणेन वाय्वादिसङ्ग्रहे लक्षणविभागयोर्व्याघात इत्यर्थः ॥
एतेषां चेत्यादि ।
तद्यथा, दन्तौष्ठमित्यनुरागः ।
अस्थिमांसमिति वैराग्यम् ।
श्यामेति हर्षः ।
पाकजमिदं मांसपार्थिवरूपमिति माध्यस्थम् ।
मुखामोद इति प्रमोदः ।
औपाधिको ऽयमस्य, सहजस्तु पूतिरिति वैमुख्यम् ।
अहो
मधुरमिदम् एतन्मुखावर्जितं ताम्बुलमिति प्रवृत्तिः ।
उच्छिष्टमिदमिति निवृत्तिः ।
प्रेयसीस्पर्श इत्युत्सवः ।
पार्थिवद्रव्यमात्रस्पर्श इति न किञ्चित् ।
बहुकेशीत्यनुरागः ।
मज्जधातुमला हमे बहवः श्मशाने तराविव शरीरे संयुक्ता इत्युद्वेगः ।
पीनस्तनीत्यानन्दः ।
स्फिड्निर्विशेषौ पललपिण्डावित्यलम्प्रत्ययः ।
मृतशरीरादचेतनात् पृथगियमिति हर्षः ।
चेतनादात्मनः पृथगियं सहजशवभूताचेतनादपृथग्भावस्तु भ्रान्त इत्यरतिः ।
दिव्यमाल्याभरणवसनवतीति प्रीतिः ।
पार्थिवं पार्थिवेन संयुक्तमिति विरतिः ।
हसतीति हर्षः ।
अस्थिमांसविभाग इति विषादः ।
मम प्रिया परापरा वेति हर्षविषादौ ।
शरीरापेक्षया परापरभावो न मदपेक्षयेति न किञ्चित् ।
नृत्यमिति रतिः ।
सत्प्रत्ययासत्प्रत्ययकर्मसन्तानो मायाशरीर इवेति विरतिः ।
गम्यजातीयेति स्त्रीति चोत्साहः ।
त्वड्मांसशोणितस्नाय्वस्थिमज्जशुक्रमूत्रपुरीषसमुदायो ऽयं चण्डालीसाधारण इत्यलम्बुद्धिः ।
वक्रभ्रूः ऋजुरोमराजी गभीरनाभिरून्नतपयोधरा पृथुनितम्बा कृशमध्येति स्नेहः ।
अन्नपानपरिणतिरियं भेदोमांसाद्यपचयापचयसंस्थानभेदवती
अचिरस्थायिनीति निर्वेद इति निमत्तसञ्ज्ञया सह अशुभसञ्ज्ञेति ।
अनुव्यञ्जनसञ्ज्ञयापि सह द्रष्टव्येति ॥
अस्ति तावदिह दर्शनस्पर्शनाभ्यामेकार्थानुसन्धानम् ।
तदिदमेकैकविषयं वा, समुदायविषयं वा,
तदतिरिक्तवस्तुविषयं वा, वस्त्वनुरोधाकारविषयं वा, अतीकविषयं वेति?
न तावदाद्यः, न हि भवति यदेव रूपं स एव स्पर्श इति ।
न च रूपं द्वीन्द्रियग्राह्यम्, अन्धस्यापि नीलपीतादिप्रयत्ययप्रसड्गात् ।
न चैकमेव वस्तु कारणभेदादन्यथा प्रथत इति युक्तम्, अनात्मकत्वप्रसड्गात्, भेदाभेदव्यवस्थानुपपत्तेश्च ॥
नापि द्वितीयः, स ह्येकदेशतया वा, एककालतया वा, एककार्यतया वा, एककारणतया वेति ।
न तावदुपादानलक्षणैकदेशसम्भवः, तयोः प्रतिनियतोपादानात् ।
सम्भवे वा तदेव द्रव्यमिति पर्यवसितं विवादेन ।
नाप्यधिकरणीभूतभूतलाद्याधारतया तत्सम्भवः ।
तथा हि चक्षुषोपलभ्यमाने भूतले रूपविशेषे घटो ऽपि चक्षुषैवोपलभ्यमानो रूपविशेषस्तदाधार इति शक्यते निश्चेतुम्, तयोरधरोत्तरभावेन एकज्ञानसंसर्गित्वात् ।
तदधिकरणाः स्पर्शादयो ऽपीति तु कस्य प्रमाणस्य विषयः? न हि स्पर्शादयश्चाक्षुषे चेतसि चकासति, त्वचो ऽयं व्यापार इत्यपि न युक्तम्, तयापि भूतले घटस्पर्शयोरेवाधाराधेयभावप्रतीतेः ।
न च समुदाययोरेवाधाराधेयभावानुभवः, परस्पराश्रयप्रसड्गात् एकाधारतया समुदायानुसन्धानम्, तदनुसन्धाने चैकाधारतानुभव इति ।
अनवस्थाप्रसड्गाच्च, भूलतस्यापि हि समुदायत्वं किङ्कृतमित्यनुयोगानिवृत्तेः ।
अत एव नैककालतयापि, तयोरेककालतायां प्रमाणाभावात् ।
भावे वा रासभकरभयोरप्येककालतया समुदायत्वप्रसड्गात् ।
भेदाग्रहस्त्वत्रासम्भावित एव ।
अत एव नैककार्यतयापि उपदेयलक्षणस्यैकस्य कार्यस्याभावात् ।
अत एवैकोदकारणक्रियेत्याद्यपि न युक्तम्, रूपाद्यतिरिक्तस्योदकस्यानभ्युपगमात् ।
एकैकस्यानेकाहार्यत्वे प्रमाणाभावात्, समुदायस्य चासिद्धेः ।
अत एव नैककारणतयापि, निमित्तमन्तरेण समुदायव्यवहारे ऽतिप्रसड्गात् ॥
तृतीये तु न विवादः ॥
नापि चतुर्थः ।
स हि विज्ञाननयमाश्रित्य वा स्यात्, द्विचन्द्रादिवद् विसंवादाद् वा, स्थैर्यवद्बाधकाद् वेति? आद्ये रूपादिषु कः पक्षपातः? प्राप्तेरर्थक्रियास्थितेश्च न द्वितीयो ऽपि ।
ते द्वे अपि रूपादीनामेवेति चेत्? न तेषां किं तु तस्यैवेत्येव किं न स्यात्? बाधकादिति चेत्? स यदि क्रमयौगपद्यविरोधः, क्षणिकं तावदस्तु ।
रक्तारक्तादिविरोधश्चेत्? परमाणुरूपं तावदस्तु ।
सम्बन्धाभाव इति चेत्? असम्बद्धं तावदस्तु ।
कथं तद्वत् प्रतीयेतेति चेत्? तैः सह तथोत्पादादिति परिहारो ऽस्तु, भवतामेव यथा शरीरं चेतनावदिति ।
रूपादिभिरेव समस्तार्थक्रियासिद्धेः किं तदतिरिक्तवस्तुकल्पनयेति चेत्—न, तावन्मात्रेणैव समस्तार्थक्रियासिद्धेः किं रूपादिकल्पनयेत्यस्यापि वाचाटवचसो ऽवकाशप्रसड्गात् ।
प्रतीयमानत्वादिति चेत्?
तुल्यम् ॥
एतेनैवालीकविषयता निरस्ता ।
अभेदसाधनानि प्रमाणानि बाधकमिति तु चिन्त्यत इत्याशयवान् पर्यनुयोगार्थमाह—स्वसंवेदनेनेति ।
अत्र पर आह अनाकलितसमय इति शेषः ।
अनुरञ्जनादिकया त्विति ।
अतद्रूपस्य स्वरूपसङ्क्रान्तिः अनुरञ्जनम् ।
यथा नीलद्रव्यसम्पर्काद् धवलो ऽपि नीलो महारजनसम्पर्काद्रक्त इति ।
अत्र नीलादयो द्रव्यव्यपदेशं विहाय रूपव्यपदेशमेव लभन्ते, नीलरूपः पटो रक्तरूपः पट इति ।
आदिशब्देन गन्धादीनां वासनादिकाः वासनादिकाः क्रियाः सङ्गृहीताः ।
शब्दगतिदूषणमेतदिति विभावयन्निराकरणं
विवृणोति—तथार्थस्येति ।
अर्थगतिरपि त्रिधा ।
उत्पादमात्रं वा, त्रैलोक्यविलक्षणोत्पादो वा, सभागसन्तानभेदोत्पादो वेति ।
तत्र द्वयं दूषयतीत्याह—दूषणान्तरमिति ।
तृतीयमुत्थापयतीत्याह—शङ्कत इति ।
दृष्टिसृष्टिविषये हि कस्मिश्चिद् घट इति व्यवहारः ।
स चेदनया वचोभड्ग्यातिरिक्तः समर्थितः, सिद्धं नः समीहितमित्याह—अन्यत्व इति ।
अनन्यत्वे व्यर्थाभिधानमिति ।
तथा सति हि रूपपरमाणवः स्पर्शपरमाणवश्चेत्येव ।
ते च कथमप्युत्पद्यन्ताम्, न कदाचिदपि द्वीन्द्रियग्राह्याः ।
समुदायश्च दुरूपपादः ।
तथा च दृष्टिसृष्टिविषयो नैकः समर्थितः स्यात् ।
अतो निष्प्रयोजनमुत्तराभिधानमित्यर्थः ।
शङ्कत इत्यादि ।
यद्यपि क्षणिकपरमाणुरूपे द्रव्ये न कश्चिद् विचारविरोधः, तथापि स्थिरावयव्यभिप्रायेण शड्का ।
सो ऽपि ह्यस्माकं प्रसाध्य इति ।
अत एवाह—एकानेकविचारासहत्वादिति ।
असन्त इति उपलक्षणम् ।
बाह्याननुरोधिज्ञानाकाररूपा इत्यपि द्रष्टव्यम् ।
बीजमिति ॥
अत्र प्रयोगः, ये घटादिप्रत्यया न सत्याः, त एवम्भूतसम्यक्प्रत्ययपूर्वका मिथ्याप्रत्ययत्वात्, तैमिरिककेशप्रत्ययवदिति ।
अत्र चोपाधिमुद्भावयति—यस्त्विति ।
यद्यपि हि आदिमाननादिरिति विभागो ऽनुपपन्न एव ।
तथा हि केयमनादिता? किमेवंरूपमिथ्याज्ञानप्रवाहाविच्छेदः, किं वा पूर्वमप्येवम्भूतस्य विभ्रमस्य कदापि
भावः? न तावदाद्यो ऽसम्भवात् ।
द्वितीये तु तैमिरिककेशज्ञानमप्यनाद्येव ।
अनादौ संसारे विप्लुतस्य केशज्ञानस्याभूतचरत्वानुपपत्तेः ।
तथा चानादिता नोपाधिः ।
तस्यां सत्यामपि केशज्ञानस्य सत्यज्ञाननिमित्तापेक्षणात् ।
न च विपर्यये बाधकाभावाद् विभ्रमश्च स्यात् ।
सत्यप्रत्ययाननुकारी चेति शङ्कया भवितव्यमिति वाच्यम् ।
अनन्यथासिद्धान्वयव्यतिरेकानुविधानसिद्धकारणभावपरिहारे मिथ्याप्रत्ययानामाकस्मिकत्वप्रसड्गात् ।
सत्यप्रत्ययाननुकारे घटादिप्रत्ययानामप्रवर्तकत्वप्रसड्गाच्च ।
तथा हि मिथ्याप्रत्यया अप्याभिमानिक पाक्षिकं वा प्रामाण्यमुपादायैव प्रवर्तयेयः ।
विभ्रमत्वनिश्चये त्वप्रवृत्तेः ।
न च प्रमाणाननुकारे प्रामाण्याभिमानसंशयः ।
न च प्रमाणभेदाग्रहमात्रेण तत्त्वाभिमानसम्भवः, विसदृशार्थगोचरत्वे तस्याभावात् ।
सदृशार्थगोचरत्वे तु सत्यप्रत्ययानुकारो ऽकामेनापि स्वीकर्तव्य इति ।
तथापि घटादिप्रत्ययानां सत्यत्वे किं निबन्धना बौद्धस्येर्ष्येति जिज्ञासुं प्रतिबुबोधयिषुराहेत्याह—तं प्रतीति ।
अवयविन इति द्रव्यमात्रोपलक्षणपरम् ।
यद्यस्मादिति वार्त्तिकम् यत्तदोर्व्यत्यासेन सुगममेवेत्युपेक्षितवान् ।
व्यक्त्यभिप्रायेणानैकान्तिकत्वे दहनायोगोलकमुदाहरणम् ।
वार्त्तिकोक्तं तु व्याघातस्फोरणाय ।
जात्यभिप्रायेण बुद्धितद्विषयावुदाहार्यौ ।
अस्ति हि विषयाग्रहे बुद्धिजातीयाग्रहो न चाभेदोबाह्यस्थितौ सत्यां गुणगुणिवादारम्भात् ।
द्विविधाणुः शब्दात्मको ऽशब्दात्मकश्च ।
तत्रानन्तरो ऽष्टद्रव्यक इति ।
कवडीकाराहारपर्यन्ताः कामधातवः ।
ध्यानाहारा रूपधातवः ।
आनन्दाहारा अरूपधातव इति विभागः ।
सा हीति ।
यतस्त्वयैवोक्तम्,
पररूपं स्वरूपेण धिया संव्रियते यया ।
एकार्थप्रतिभासिन्या तामाहुः संवृतिं किल ॥
इत्यर्थः ।
उद्भावनप्रकारसङ्कलनार्थं पूर्वोक्तैकदेशं स्मारयित्वा परमतमवतारयति—तदेवमिति ।
तदत्रानैकान्तिकत्वेन हेत्वाभासो निग्रहस्थानम् ।
तदभ्युपेतप्रामाण्यागमव्याघातेनापसिद्धान्तः ।
तच्छब्दपर्यालोचनया निष्प्रयोजनत्वेनापार्थकम्, प्रतिज्ञापदयोर्व्याघातेन विरोध इति ।
आनुशासनिकं वचनभेदमादाय विरोध उद्भावितः ।
ततो न पारिभाषिकेण व्यभिचारशड्कासमानार्थानां प्रकृतीनामिति प्रकृते ऽभ्युपगमवादः ।
उत्पन्नतद्धितायाः प्रकृतेरधिकार्थत्वात्, स्पार्थिकस्य प्रत्ययस्य निराकरिष्यमाणत्वात् ।
नन्वाप इत्यपि तोयगतामेव बहुत्वसङ्ख्यामाचष्टाम्, को दोष इत्यत आह—इत्येकस्यामपीति ।
यद्युपनिबन्धेन यदि तोयपरमाणावप्याप इति शिष्टप्रयोगस्तदैवं नेयम् ।
वस्तुतस्तु यथैकवचनात्तोयमनुशासनबलादसाधुस्तथैकसङ्ख्यावच्छिन्ने पाथस्यपीति न कश्चिद् विरोधः ।
दारा इत्यत्र त्वेषैव युक्तिरित्यर्थः ।
क्रन्दत इत्यनादरे षष्ठी ।
भवत इति पूरणीयम् ।
षण्णगरीत्यादिषु तु सुगममेव, समाहारे समासानुशासनात् ।
स च समाह्रियमाणार्थातिरिक्त एवाभ्युपगम्यते ऽस्माभिः ॥
यदि यथालोकव्यवहारमाद्रियसे, किमिति सविकल्पकं प्रत्यक्षं परिहरसि? कुतश्च न शब्दादीनि प्रमाणानि
पृथगेवाभ्युपगच्छसीत्याह—अन्यथेति ।
वार्त्तिकोक्तोदाहरणानुरोधेनाह्नीकं प्रत्याह—न च नीलस्येति ।
वस्तुतस्तु पीतशड्खविभ्रमे अयम् अपि न पीतस्यैव शड्खस्योत्पादमिच्छति, पुरुषान्तरेणापि तथोपलम्भप्रसड्गात् ।
ततो
धवलिम्नि प्रतीते ऽपि तदाश्रयं शड्खद्रव्यमभिप्रेत्येत्येव ।
तोयविरह इत्यादि ।
न चैतद् वैधर्म्यमात्रम्, उपष्टम्भकस्याविनिर्भागेनैवावस्थाननियमात् ।
यथा हेम्नि पार्थिवो भागः ।
तैले पयसि सर्पिषि च पाथसीयः ।
न च संयोगिमात्रं यूषे जलम् ।
तदसंयोगे यूषत्वनिवृत्तेरिति तैर्व्यपदेशः ।
तैर्विशेषणैस्तस्य व्यवच्छेद्यस्य व्यवच्छेदः ।
स चात्रानुभविको विवक्षितः ।
स ह्येवं प्रवर्तते, चन्दनो ऽयं सुरभिः, तिक्तः, शुक्लः, शीतः इति ।
तादात्म्यभ्रमनिरासार्थं तु शब्दो व्यपदेशकतयोपात्तः, चन्दनस्य शुक्लं रूपमित्यादि ।
एतच्चागम्भीरमिति मत्वा यथाश्रुतमेवोपादाय तात्पर्यमहा—अस्ति हीति ।
न केवलं हेतुस्वरूपालोचनेन प्रतिज्ञालोचनेनापि चन्दनस्योपालम्भाभ्युपगमो ऽवसीयते परस्य ।
न ह्यनुपलब्धस्यैव रूपाद्यभेदं साधयति ।
तथा सत्यप्रसिद्धविशेष्यः पक्षः स्यात् ।
स्वातन्त्र्येण वा सत्त्वे साध्ये आश्रयासिद्धो हेतुरिति तृतीये व्युत्पादनीयमिति इहोपेक्षितवानिति ।
एकान्ततो व्यपदेशं व्यावर्तयितुमिति प्रयोगान्तरसूचनाय ।
तथा हि, अयं चक्षुर्गोचरः चन्दनो रसादिभ्यो भिद्यते, तदनुपलम्भे ऽप्येतस्योपलभ्यमानत्वात् ।
यद्यस्मिन्ननुपलभ्यमाने ऽप्युपलभ्यते तत् ततो भिद्यते, यथा रूपादिभ्यः शब्दः ।
तथा चायं चन्दनः ।
तस्मात् तथेति ।
स्पमात्रात्तु व्यवच्छेदः सन्दिग्धः तत्र व्यपदेशो हेतुरिति ॥
प्रयोगान्तरमाहेति ।
वैलक्षण्यस्य हेतोर्व्यक्त्यपेक्षयानैकान्तिकत्वात्, जात्यपेक्षया असिद्धत्वात्, विषयवैलक्षण्यस्य च साध्यत्वात् ।
तदाहिताकारलक्षणस्यानभ्युपगमादित्याशयवानिति शेषः ।
अत्र च हेतुतया व्याप्ति प्रधानीकृत्य षष्ठ्यन्तो हेतुरूक्तः ।
पञ्चम्यन्तश्च साध्यः ।
पर्वतो ऽयमग्निमान् ।
कस्मात्? धूमवत्त्वात् ।
किं कारणम्? धूमवतो ऽग्निमत्त्वादितिवत् ।
ग्रन्थगौरवभिया तु यथाश्रुतं व्याचष्टे—घटप्रत्ययस्येति ।
विषयो घट एव ।
निमित्तं घटत्वम् ।
तद्धि निमित्तीकृत्य घटप्रत्ययो घटे वर्तते ।
घटप्रत्ययस्त्वनुभवः स्मरणं च ।
तदियं प्रयोगपरिशुद्धिः ।
घटादिष्वेकादिप्रत्यया उक्तनिमित्तव्यतिरिक्तप्रवृत्तिनिमित्ताधीनजन्मानः, उक्तनिमित्तम् अन्तरेणापि जायमानत्वात् ।
तेष्वेव घटादिषु नीलादिषु नीलादिप्रत्ययवदिति ।
अत्र यदि घटमनतरेणापि जायमानत्वादित्येतावन्मात्रं क्रियेत तदैकघटपरित्यागे घटान्तरे जायमानघटप्रत्ययेन व्यभिचारः, तथाभूतस्यापि निमित्तान्तरानपेक्षत्वात् ।
तन्निमित्तम् अन्तरेणेत्येतावन्मात्रे तु घटनिर्विकल्पकेन व्यभिचारः, तस्य तन्निमित्तनिरपेक्षस्यापि निमित्तान्तरानपेक्षणात् ।
तत्प्रत्ययमन्तरेणेत्येतावन्मात्रे ऽपि तेनैव व्यभिचारः ।
प्रथमद्वितीयपदोपादाने ऽपि तत्स्मरणानुव्यवसायविभ्रमैर्व्यभिचारः ।
तत्प्रत्ययविषयनिमित्तव्यतिरेकेणापि तेषां जन्म ।
न च प्रवृत्तिनिमित्तान्तरापेक्षा ।
द्वितीयतृतीययोरपि निर्विकल्पकेन व्यभिचारः ।
प्रथमतृतीययोरपि घटान्तरप्रत्ययेन व्यभिचार इति समस्तोपादानम् ।
अतो यन्न्यूनं तत्पूरयति—भाज इत्यत्रापीति ।
तदेतद्घटादि प्रत्ययवैलक्षण्यमेकादिप्रत्ययानामिति ।
स्थाणुर्द्रव्यमित्येवं साधु ।
न च जातिसङ्करः, तत्र खदिरजातेरभासात् ।
तद्गुणयोगात् तु तद्व्यवहारो माणवके सिंहव्यवहारवत् तदवयवारब्धत्वात् तदीयताव्यवहारः क्षीरस्य दधीविवत् ।
सर्पेणान्त्यावयविना एकेनानारम्भात् तदवयवानां कार्यावष्टब्धत्वात् सर्पकुण्डलकं संस्थानमेव स्फुटम् ।
प्रतिमाया इति ।
शरीरलक्षणाभावात् न तत्र मुख्यः शरीरशब्दः, तदेकार्थसमवेसंस्थाने औपचारिक इह प्रयुज्यते, तत्सादृश्यात् ।
राहोः शिर इत्यत्र तु संस्थाने शिरः शब्दोपचारमात्रम् ।
सुवर्णास्याड्गुरीयकमित्यत्र जातिसङ्कप्रसड्गात् संस्थानमेवाड्गुरीयकम्, रजतादेरप्यड्गुरीयकदर्शनादिति स्फुटम् ।
शिलापुत्रकस्येत्यत्रोक्तयुक्ति स्मारयन्नाह—एवमिति ।
व्यतिरेकोपदेशविवेको यदि स्यात् तदा बुद्धिशरीराभ्यामेवानैकान्तिकं स्यादत आह—अतादात्म्येति ॥१४ ॥
॥ परिशुद्धिः ॥
अर्थकथनपूर्वकं सङ्गतिवार्त्तिकमवतारयति—आत्मादीनामिति ।
कारणत्वे ऽपि मनसो ऽपकर्षे तूक्तम् ।
सर्वजनीनेनापि समयेन गोशब्दवद् यद्यर्थान्तरे ऽप्येते प्रवर्तेरन् तदा को विरोध इत्यत आह—तत्र सर्वजनीनः शक्नोतीति ।
स्वाभिधेयद्वारेणेति शेषः ।
तेनायमर्थः ।
एतेषां शब्दानां व्यवह्रियमाणानां यदेकं प्रवृत्तिनिमित्तं
तद्योगाद् इतरेभ्यो बुद्धिर्भिद्यत इति ।
तदिदमुक्तं सूत्रकृता—इत्यनर्थान्तरमिति ।
तेनैतन्निरस्तम् ।
गृहीतसमयैरेभिर्बृद्धिः समानासमानजातोयेभ्यो व्यावर्तनीया ।
तथाभूतायां च तस्यामेतेषां समयो ग्राह्य इत्यन्योन्याश्रयत्वम् ।
व्यवहारे तु साध्ये
आत्माश्रयत्वमिति ।
तर्हि बुद्धिर्ज्ञानमित्येवास्तु किमनेकशब्दोच्चारणेनेत्याशड्क्य परमतमपाकर्तृम् इत्याह—भाष्यकार एवेति स्फुटमिति—उपपत्तिसार्थ्यादिति भाष्यावययवं व्याचष्टे—पर्यायेति ।
तत्रोपपत्तिपदार्थः पर्यायशब्दाभिधानमित्यनेने व्याख्यातः ।
शेषेण सामर्थ्यपदार्थः ।
तेनायमर्थः, पर्यायशब्दाभिधानलक्षणाया उपपत्तेः सामर्थ्यम् अनेकार्थत्वप्रतिषेधाक्षेपकत्वम् ।
तस्मादिति ।
तदेतन्निराकारणं सूचितम् ।
यदुपपत्तिसाध्यं तां पृच्छति वार्त्तिककारः—का पुनरूपपत्तिरत्रेति ।
निर्विकल्पकव्यापाराणीन्द्रियाणि ।
सविकल्पकव्यापारं मनः ।
अधिकाराभिमानव्यापारो ऽहङ्कारः ।
कृत्यध्यवसायव्यापारा बुद्धिः ।
निर्व्यापार एव कल्पितबुद्धिव्यापारः पुरुष इति ।
तेनायमर्थः, अकारणम् अकार्यश्च पुरुषः ।
आदिकारणं प्रकृतिः ।
आदिकार्यं बुद्धिः ।
ततो ऽहङ्कारादिसर्ग इति ।
पुरुषः कूटस्थचैतन्यरूपः ।
इतरदचेतनमिति साख्याः ।
तत्र बुद्धिरंशत्रयवती, पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः ।
भवति हि मयेदं कर्तव्यमिति ।
मयेति हि चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः ।
इदमिति विषयोपरागः इन्द्रियप्रणालिकया परिणातिभेदो दर्पणस्येव मलसम्बन्धः पारमार्थिकः ।
तदुभयायत्तो व्यापारावेशो ऽपीति ।
तत्रैवंरूपव्यापारलक्षणा बुद्धिः ।
विषयोपरालक्षणं ज्ञानम् ।
तेन सह यः पुरुषोपरागस्यातात्त्विकस्य सम्बन्धो दर्पणप्रतिबिम्बितस्य मुखस्येव तद्गतमलिनिम्ना सोपलब्धिरिति तेषां रहस्यम् ।
तदुत्थापयति—बुद्धिः किलेति ।
सा च न तावद् बुद्धेः, तस्या अचैतन्यादिति ।
यद्यप्यचेतन एव भ्राम्यतीति साङ्ख्याभ्युपगमो यथाहुः,
योगश्चित्तवृत्तिनिरोधः ।
इति, तास्तु
प्रमाणसंशयविपर्ययस्वप्नस्मृतयः ।
इति, तथापि व्याप्त्या प्रत्यवस्थानम् ।
यत्र हि चेतनाचेतनयोरसंसर्गाग्रहे संसर्गभ्रमः, तादात्म्यभ्रमो वा, तत्र चेतनस्यैव, यथा दर्पणचैत्रयोः शरीरशरीरिणोर्वा ।
न हि तत्र दर्पणस्य शरीरस्य वा भ्रम इति ।
अपि च बुद्धिरात्मानं चेतयमाना भ्राम्येत्, पुरुषेण वा चेत्यमाना ।
नोभयमपि प्रागुक्तयुक्तेरेव ।
न च स्वतः परतो वा अप्रकाशमानैव बुद्धिर्भ्राम्यतीति युक्तम् ।
न ह्यदृश्यमान एव दर्पणः तिमिरे मैत्रसन्निधानमात्रेण तत्प्रतिबिम्बमुद्ग्राहयति ।
तस्मादुभयथापि बुद्धेः सहजं चैतन्यमापन्नमित्युपसंहारव्याजेनाह—तस्मात् कृपणेति ॥१५ ॥
॥ परिशुद्धिः ॥
वैधर्म्यादिन्द्रियप्रकरणादपसारितस्य बुद्धिक्रमोन्नेयतया प्रवृत्तिहेतुतया च तयोः मध्येर्ऽथादवसरो मनस इत्याह—क्रमप्रप्तमिति ॥
यस्मादित्यादिवार्त्तिकं वाक्यभेदेन सूत्रकारोक्तस्वोक्तहेतुपपादकभाष्यव्याख्यानमित्याह—अनिन्द्रियेति ।
यद्यपि निमित्तान्तरमित्यनेनैवाकाशो ऽपि व्यवच्छिद्यते, अव्यापीत्यनेनैव वा, सहकारीत्यनेनैवात्मादि, उपादानातिरिक्तस्यैव सहकारित्वप्रसिद्धेः, तथापि यथाविवक्षं गोबलीवर्दन्यायेन व्यवस्था ।
इन्द्रियं प्रधानीकृत्य वा आत्मनि सहकारिवाद इति ।
ननु मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात्, विशेषगुणशून्यद्रव्यत्वात्, नित्यत्वे सत्यनारम्भकद्रव्यत्वात्, ज्ञानसमवायिकारणसंयोगाधारत्वात् इत्यादेः ।
तत्कथमुच्यते—अव्यापीति ।
नैतदेवम्, सवेषामेषामापाततः स्वरूपासिद्धत्वात् ।
तथा हि यदा सुखाद्युपलब्धीनां क्रियात्वेन करणतया मनो ऽनुमितम्, तदा न द्रव्यत्वसिद्धिः, अद्रव्यस्यापि करणत्वात् ।
अथासामेव साक्षात्कारितया इन्द्रियतया तदनुमातव्यम्, तथापि शरीरवयवस्योपाधित्वम्, तदा तावन्मात्रे वृत्तिलाभः ।
तद्दोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत ।
ततः शरीरमात्रमुपाधिरभिधेयः ।
तथा च तदवच्छेदेन वृत्तिलाभे शिरसि मे वेदना, पादे मे सुखमित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः ।
असमवायिकारणानुरोधेन विभुकार्याणां देशनियमात् ।
शरीरतदवयवावयवपरमाणुपर्यन्तोपाधिकल्पनायां च कल्पनागौरवप्रसङ्गः, नियमानुपपत्तिश्चेति ।
ततो ऽन्यवैकं सूक्ष्ममतीन्द्रियम् उपाधित्वेन कल्पनीयम् ।
तथापि तस्यैवेन्द्रियत्वे स्वाभाविके अधिककल्पनायां प्रमाणाभावात् धर्मिग्राहकप्रमाणबाधः ।
अथ ज्ञानक्रमेणेन्द्रियसहकारितया तदनुमानं तदा सुतरामेव प्रागुक्तदोषः ।
यदि तु मनसो वैभवे ऽपि अदृष्टवशात् क्रम उपपद्यते, तदा मनसो ऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति ।
अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव, अन्यथा अन्त्यतन्तुसंयोगेभ्यो ऽपि कदाचित्पटो न जायेत ।
जातो ऽपि वा कदाचिन्निर्गुणः
स्यात् ।
बलवता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत् ।
यत्र तु दृष्टानुसंहारेण अदृष्टस्य व्यापारः तत्र तद्वेगुण्यात् कार्यानुदयो यथा परमाणुकर्मणाः ।
तदिहापि यदि विषयेन्द्रियात्मसमवधानम् एव ज्ञानहेतुः, तत्सद्भावे सदैव कार्यं स्यात् ।
न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति ।
न च सदैव ज्ञानोदयः ।
ततो ऽतिरिक्तमपेक्षणीयमस्ति ।
तच्च यद्यपि सर्वाण्येवेन्द्रियाणि व्याप्नोति, तथापि करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते ।
अकल्पिते तु तस्मिन् नायं न्यायः, प्रतिपत्तुरकरणत्वात् चक्षुरादीनामनेकत्वात् ।
तस्मादन्तःकरणमस्तीति चेत्? नन्वेवमपि युगपज्ज्ञानानि मा भुवन् ।
युगपज्ज्ञानं तु केन वार्यते? भवत्येव समूहालम्बनमेकं ज्ञानमिति चेत्—न, एकेन्द्रियग्राह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसड्गात् ।
तेष्वपि भवत्येवेति चेत्—न, व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् ।
बुभुत्साविशेषेण व्यासड्गे क्रियाक्रम इति चेत्—नैवम्, न ह्येष बुभुत्साया महिमा, यदबुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानमपि तु तत्र संस्कारविशेषाधायकः प्रत्ययः स्यात् ।
यदि त्वबुभुत्सिते सामग्रीमेव सा निरून्ध्यात् ।
तथा च घटायोन्मीलितं चक्षुः पटं न दर्शयेत् ।
तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपत् ज्ञानानुत्पत्तावुपयुज्यते, न तु स्वरूपत इति युक्तमुत्पश्यामः ।
तस्मात् सुष्ठूक्तम्—अव्यापीति ।
गन्धादिक्रियान्यत्वे सतीति वार्त्तिकं यथाश्रुतं द्रव्यकर्मादिज्ञानेनानैकान्तिकमतो व्याचष्टे—चक्षुरादिभ्य इति ।
ननु स्मृत्यादिषु संस्कारादयः ।
सन्ति ।
ततो नैते करणान्तरकल्पनायां प्रभवन्तीत्यत आह—अत्र चेति ।
इन्द्रियजन्मानः शरीरसंयुक्तद्रव्यरूपकरणजन्मान इत्यर्थः ।
नन्विन्द्रियत्वेनैव मनो ऽपि जनकं स्मृत्यादीनां तथात्वे साक्षात्कारित्वप्रसड्गादिति ।
अथेत्यादिवार्त्तिके प्रतिभासमानव्यधिकरणतामुपादाय चोद्यम् ।
एकदेशिसमाधानं च ।
व्याप्तिर्व्यधिकरणयोरशक्यग्रहेति वस्तुगतिमुपादाय समाधानं स्फुटमित्याह—सौत्रमिति ॥१६ ॥
॥ परिशुद्धिः ॥
प्रेत्यभावादुत्कर्षे सति प्रवृत्तेर्मनो ऽपकर्षे हेतुमाह—मनसो ऽपीति ॥
प्रवृत्तेः विकल्पसमुच्चयाम्यामव्यापकतया नेदं सामान्यलक्षणम् ।
न च तदन्तरेण विशेषलक्षणावकाश इत्याशड्क्य सूत्रवाक्यं भिनत्ति—आरम्भः प्रवृत्तिः ।
जन्महेतुः स्थिरात्मविशेषगुणजनकः प्रयत्न आरम्भः ।
न चैवं दयाद्यव्याप्तिः ।
तत्रापि तदर्थं प्रयत्नस्य विद्यमानत्वात् ।
यदि त्वयतमानस्यैवेच्छामात्रं ज्ञानमात्रं द्वेषमात्रं वा प्रवृत्तिः
स्यात्, प्रवर्तमानं प्रति प्रयोजकत्वममीषां निवर्तेत ।
ततश्चोत्तरसूत्रव्याघात इति ।
अत्र यद्यपि वागित्यादियथाश्रुतविशेषलक्षणावसरे दयाद्यसङ्ग्रह इति वुद्धिपदं मनो ऽभिप्रायेण व्याख्यातं भाष्यकृता, तथापि विशिष्टदेवताद्यनुचिन्तनाद्यसङ्ग्रह इत्यत आह—स च द्विविधेति ।
ज्ञातुं ज्ञापयितुं वा प्रयत्नः उभयथापि ज्ञानहेतुः, तेन वाग्गोचरो ऽपि प्रयत्नः सङ्गृहीतः ।
कर्तुं कारयितुं वा प्रयत्नः उभयथापि क्रियाहेतुः ।
तेन स्तेयहिंसादौ अज्ञानादिगोचरो ऽपि प्रयत्नः सङ्गृहीतः ।
एतेन यत् सिद्धं तदाह—तत्रेति ।
तदर्थं प्रयत्नो ज्ञानं जनयन् ज्ञापकहेतुविषयो भवतीति ज्ञापकैकदेशेन वाचोपलक्षयता स्वसमवेतज्ञानमात्रहेतुरित्यपि भ्रमो निरस्तः ।
कायनिमित्तेति कायो निमित्तं विषयतया यस्याः सा तथोक्ता ।
दानस्तेयाद्यर्थ यः खलु प्रयत्नः स कायविषयो भवति ।
एवं मनोनिमित्तं दयाद्रोहाद्यर्थं यः खलु प्रयत्नः, स मनोविषयो भवतीति नेयम् ।
अन्यथा नास्त्येवासौ पुरुषव्यापारो यत्र कायमनसी न निमित्तमिति ॥१७ ॥
प्रवर्त्तनालक्षणा दोषाः ॥१८ ॥
॥ परिशुद्धिः ॥
प्रेत्यभावादुत्कर्षे सति दोषाणां प्रवृत्त्यपकर्षे हेतुमाह—प्रयोज्येति ।
पुरुषं प्रवर्तयतः उत्करूपप्रयत्नयोगिनं कुरुत इत्यर्थः ।
आनन्तर्यादनयोरभिधानम् मोहो ऽपि प्रवर्तयतीति द्रष्टव्यम् ।
मोहैकार्थसमवायो मोहसंस्कारैकार्थसमववायः ।
मोहान्तरेण वा ।
एतदेवाह—तावद्धि अयमिति ।
तस्यार्थ इति ।
भाष्यस्य इति भाव इति चोदकस्य ।
अत्र च समवायो यद्यपि न व्यापारः तथापि मोहादेः प्रवर्तकस्य स्वाश्रयसमवेतरागद्वेषमोहजननावान्तरव्यापारस्य प्रवर्तकत्वमित्यदूरविप्रकर्षेण सम्बन्धसम्बन्धिनोरेतद् द्रष्टव्यम् ।
तेन फलगोचरौ मोहरागौ मोहद्वैषौ वा तत्साधनविषयौ मोहरागौ मोहद्वेषौ वा जनयन्तौ
पुरुषं प्रवर्तयतः ।
ततः फलविषया रागद्वेषमोहाः प्रवर्तकाः, साधनविषयास्तु तदेकार्थसमवायिनः प्रवर्तना इति वस्तुगतिः ।
व्यापारो ऽपि च कार्यानुगुण इति कृत्वा रागादयः प्रवर्तयन्ति प्रवृत्तिहेतुत्वाद् दोषा इत्युच्यतन्ते ॥१८ ॥
पुनरूत्पत्तिः प्रेत्यभावः ॥१९ ॥
॥ परिशुद्धिः ॥
शरीरादीनां दोषपर्यन्तानां परित्यागपूर्वकः प्राप्तिलक्षणो धर्मः प्रेत्यभाव इति तदनन्तरमेवास्यावसर इत्याह—उद्देशक्रमेति ॥
ननु पूर्वशरीरादिपरित्यागादिति सूत्रे नास्त्येव ।
न चोत्पत्तिमात्रं प्रेत्यभावः, एकस्मिन्नपि जन्मनि तथाव्यवहारप्रसड्गात् ।
न च पुनःशब्दस्यायमर्थः, तस्याभ्यासमात्रार्थत्वात् ।
अत उक्तं वार्त्तिककृता पुनरिति ।
तद् व्याचष्टे—पुनरित्यभ्यासमाहेति ।
अभ्यासं वदन्नेव नान्तरीयकतया पूर्वशरीरदिपरित्यागं प्रतिपादयतीत्यर्थः ।
तथापि किं वक्रोक्तेः प्रयोजनमित्यत आह—तथा चेति ।
ननु द्वितीयसूत्रे दुःखादीनां कार्यकारणभाव संसार इत्युक्तम्, इह तु पुनरूत्पत्तिरिति, तत् कुतो न विरोध इत्याशयवतो वार्त्तिककृत आक्षेपः, कः पुनरिति ।
दुःखान्दीनां कार्यकारणभावे सति पूर्वदेहादिपरित्यागादन्यदेहादिप्राप्तिलक्षणः प्रेत्यभावः ।
ततस्तेषां तथाभूतप्रवाहविच्छेदे प्रेत्यभावापरनामा संसारो विच्छिद्येत इति तुल्यप्रवृत्तिनिमित्तत्वात् स एव तत्र संसार उक्तैत्ययो न विरोध इत्याशयवतः परिहारो दुःखादीनामिति ।
तदेतत्स्मरणमात्रेण, व्याचष्टै, तदेतद्वार्त्तिकजातमिति ।
सेयमुक्तरूपा पुनरूत्पत्तिर्यद्यचेतनस्य मनसः संसारः किमिति निवर्तनीयः? अथात्मनस्तदाशक्यनिवृत्तिः, मुक्तस्यापि संसारिदेहादिपरित्यागात् तदीयापरदेहादिप्राप्तिसम्भवादित्याशयवता वार्त्तिककृता शड्कितम्—सो ऽयमिति ।
नेयं भोगेनविशेषिता पुनरूत्पत्तिः संसार इत्याशयवता परिहृतम्—यदीति ।
तत्रास्फुटं पदं स्फुटयति—क्रियामिति ॥१९ ॥
प्रवृत्तिदोषजनितोर्ऽथः फलम् ॥२० ॥
॥ परिशुद्धिः ॥
शड्कामपनयन्नेव सङ्गति करोति—यद्यपीति ।
सामान्येन ज्ञाता हि विशिष्टतया ज्ञातुं शक्यन्ते ।
ततः सामान्यरूपेण लक्षितानां विशिष्टलक्षणावसरः ।
उभयोश्चाकारयोर्निर्वेदोपयोगादुभयोपादानमित्यर्थः ॥
अत्र च सूत्रे पदद्वयमतिरिक्तम् ।
तत्र प्रथमोपयोगमाह—अत्र चेति ।
यद्यपि स्वरूपतो ऽपि प्रवृत्तेः कार्यभूतौ धर्माधर्मौ प्रति दोषाणामतिशयेनोपयोगो, वक्ष्यति च, दोषतुषावनद्धा हि कर्मतण्डुला इत्यादि, तथापि प्रवृत्तिफले दोषाणामुपयोगो दर्शनीयः सूत्रे प्रकृतत्वात् ।
न च धर्माधर्मयोः फलव्यवहारः ।
ततो व्यापारद्वारमुपादायोपयोगमाह—अपि त्विति ।
तदेव द्वारं स्फोरयति—दोषसलिलेति ।
अतो धर्माधर्मश्रुत्या न लक्षणाभ्रमः कर्तव्यः ।
स्वरूपतस्तु प्रवृत्ति प्रति दोषाणां सहकारित्वं सूत्रकार एव चतुर्थे वक्ष्यतीति ।
तत् किं निर्देषस्य सुखदुःखे न स्त इत्युपात्तकर्मप्रचयस्य तादवस्थ्यमदत्तफलस्यैव वा विनाश इत्यत आह—न चास्तीति ।
न ब्रूमो निर्देषस्य उपभोग एव नास्ति ।
अपि तु यादृशः संसारहेतुस्तादृशो नास्ति ।
दोषान्तरजनको हि तादृश इत्यर्थः ।
अर्थपदस्योपयोमाह—सूत्र इति ॥२० ॥
॥ परिशुद्धिः ॥
मुख्यं दुःखमधिकृत्य सङ्गतिरुक्ता ।
गौणाभिप्रायेणाह—नानुक्त इति ॥
ननु लक्षणशब्दो यदि स्वरूपवचनः स्यात्, गौणदुःखाव्याप्तिः स्यात् आवृत्तौ वाक्यभेदः ।
तत एकवाक्यत्वं रोचयन्नयमाह—अत्र चेति ।
एवं चासिद्धिः ।
तां परिहरति—सैव हीति ।
मुख्या स्वरूपतो, गौणी विधेयदुःखोपाधिनिबन्धना ।
न चैवमितरेतराश्रयप्रसङ्गः ।
दुःखतया तद्विषयत्वं तथात्वे च दुःखत्वमिति लोकसुप्रसिद्धेन बाधनाबुद्धिविषयत्वेन हेयतायाः प्रसाधनात् ।
यो हि दुःखं तद्धेतुं वा शरीरादि तदनुषक्तं वा सुखं जानानो ऽपि सुखतृष्णापरिप्लुतमतिर्न हातुमिच्छति, तं प्रत्युच्यते शरीरादिदुःखान्तं दुःखं हेयमित्यर्थः, बाधनालक्षणत्वात्, यत्तु न हेयं न तदेवम्, यथात्मस्वरूपापवर्गाविति ।
वशी जिताविद्यः ।
यद्यपि रागाभावो वैराग्यं तथापि सुषुप्त्यादौ तस्य भावे मोक्षानुपयुक्ततया आत्यन्तिको विवक्षितः ।
स च
कारणयोग्यतानिवृत्त्या सिध्यति ।
ततः सैव दर्शिता ।
उपनतेष्वपि विषयेष्वौदासीन्यं किं तदुपेक्षाबुद्धिः प्रबलतत्त्वसाक्षात्कारसमुन्मूलितनिरवशेषमविद्यासंस्कारे हेयोपादेयपक्षव्यवच्छेदवती बुद्धिरित्यर्थः ।
शरीरादिषु उक्तः उक्तरूप एव ग्राह्य इत्यर्थः ।
नन्वभावफलत्वं धर्मस्य दुःखाभावसुखवादिनो नानिष्टम् ।
नापीदमदृष्टमित्यत
आह—यद्यपीति ।
यथा च कालोत्कर्षः सुखस्यागमिकः, तथा स्वरूपोत्कर्षो ऽप्यानुभविक आगमिकश्चेति द्रष्टव्यम् ।
न चान्धकारवत् प्रतियोग्युत्कर्षादुत्कर्षोपपत्तिरिति वाच्यम् ।
धर्मफलं हि दुःखाभावो भवन् प्रध्वंसो वक्तव्यः, प्रागभावादेरसाध्यत्वात् ।
तस्य च कालेनानवच्छेद एव ।
न च तज्जातीयावधिसद्भावनियमो ऽन्धकारवदेव ।
न हि ब्रह्मलोकोपभोगानन्तरमेवावश्यं दुःखेन भवितव्यमित्यस्ति नियामकम् ।
यथा च विशिष्टशालिसूपादिना कुल्माषपिण्डिकया चोदरपूरणे कृते दुःखनिवृत्तिस्तुल्या, तथेन्द्रब्राह्मपदयोरपीति न कश्चित् स्वरूपतो विशेषः स्यात्, अपि च स्वर्गार्थी यागादिकं कृत्वा कदाचिल्लब्धवृत्तेरधर्मान्नरकदुःखमनुभूय स्वर्गमनुभवति ।
कदाचित् तु मनुष्यदेहपातानन्तरमेव इत्यनियमः ।
सो ऽयं न स्यात्, दुःखप्रध्वंसफलत्वाद् धर्मस्य ।
न चानुत्पन्नस्य प्रध्वंसः तस्माद् धर्मं चरित्वा अवश्यमकामयमानो ऽपि प्रथमतस्तावन्नरकादिदुःखमनुभवेत् ।
ततस्तदभावमिति कृतं धर्मेण,
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।
इति न्यायात् ॥२१ ॥
॥ परिशुद्धिः ॥
शरीरादिषु प्रतियोगिषु लक्षितेषु तन्निवृत्तिरूपस्यापवर्गस्य लक्षणावसर इत्याह—क्रमेति ॥
यद्यपि मनो न जायते, तथापि कर्मोपग्रहमन्तरेण तस्याकिञ्चित्करत्वात् स एव तस्य जन्मेति जायमानाः सर्व इत्युक्तम् ।
अत्र च प्रतियोगिनां शरीरादीनामाध्यात्मिकत्वात् तत्प्रध्वंसो ऽप्याध्यात्मिक एव ।
तद्विशिष्टस्य जीवन्मुक्त्युत्तरकाले दुःखस्यात्यनताभावो मोक्ष इति नाकाशादिगतेन दुःखस्यात्यन्ताभावेन व्यभिचारः ।
परिणामो हि पूर्वधर्मिनिवृत्तौ धर्म्यन्तरोत्पादो वा स्यात्, वैनाशिकानामिव ।
पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पादो वा स्यात् साङ्ख्यानामिव ।
तदेतत् तक्षद्वयं विकल्पयति—सर्वात्मना वेति ।
पूर्वस्मिन्निति ।
आस्तां तावत्कौटस्थ्यं परिणामिनित्यतापि न स्यादित्यर्थः ।
एकदेशेति ।
यदि धर्मधर्मिणोरेकान्तेनाभेदो यदि वा भेदाभेदः, उभयथापि न कूटस्थानित्यता ।
एकान्तभेदेन तु कथम्
ब्रह्मैवेदं सर्वमिति
श्रुतिवचनमाद्रियत इत्यर्थः ।
सावयवत्वादिति सांशत्वात् ।
स्वात्मीभूतोपजनापायधर्मवत्त्वादिति यावत् ।
घटादिवदिति ।
यथा घटादयो ब्रह्मधर्मा अनित्याः, तथा तदभिन्नस्वभावं ब्रह्माप्यनित्यं स्यादित्यर्थः ।
न च वाच्यं परिणामिनित्यमेव ब्रह्मासतु ।
अनेकान्तवादस्य निराकृतत्वात् ।
सत्कार्यवादस्य निराकरिष्यमाणत्वात् ।
न चैकान्तभिन्न एवायं ब्रह्मधर्मप्रपञ्चो ऽस्तु इति वाच्यम्, व्यक्ताद् व्यक्तस्य निष्पत्तिः प्रत्यक्षप्रमाण्यादित्युपादानादिचिन्तायाः करिष्यमाणत्वात्, परमाणूनां नित्यताव्यवस्थापनाच्च ।
तत्कार्यतामात्रत्वे तु सिद्धसाधनादिति ।
नित्यमित्यादि भाष्यं न यथाश्रुतं परमतोत्थापनमित्यत आह—अस्यार्थ इति ।
इत्यर्थ इति ।
परेषामभिमत इति ।
आत्मा नित्यसुखवान् कारणान्तराणि परित्यज्याश्रीयते तत्तज्जातीयनित्यगुणवत्, यथा वर्णात्केन शदेनाश्रीयमाणमाकाशं नित्यशब्दवदिति मीमांसानये ।
सत्कार्यनये तु, आत्मा नित्यसुखवान् ।
तेनाश्रीयमाणत्वात् ।
यद्येनाश्रीयते तत्तेन नित्येन तद्वत्, यथा पटेन तन्तव इत्युत्थाप्य दूषयतीत्याह—अत्र चेति ।
अनैकान्तिकतां द्रढयितुमतिप्रसड्गो ऽवतारितः ।
ननु सुखतत्संवेदनेन ब्रह्मयणो भिन्नो ब्रह्म चानुदितानस्तमितरूपं शुद्धबुद्धस्वभावं स्वत एव सिद्धम् ।
कस्तत्र प्रमाणप्रश्नावकाशः? सर्वेषामेव प्रमाणानामनुभव एव सीमा ।
कुतश्चाभिव्यक्त्यादिचिन्ता? मुक्तसंसारावस्थयोरविशेषश्च प्रसञ्जितो ऽपि नानिष्ट इत्यत आह—अयमभिसन्धिरिति ।
विषयसुखसंवेदने एवात्मा तदतिरिक्तो वा? आद्यं दूषयति—सुखमिति ।
उक्तोपपत्ति स्मारयित्वा अपरामाह—न हीति ।
ननु सुखसंवेदनयोरूदयव्ययौ न तात्त्विकौ ।
न च कल्पितो विरूद्धधर्माध्यासो भेदहेतुः स्फटिकस्यापि जवातापिच्छादिसन्निधानापादितारूणिमनीलिमादिना भेदप्रसड्गादित्याशड्क्य परिहरति—न चात्मैवेति ।
न ह्यस्ति सम्भवः स्फटिकः स्वरूपेण पूर्वापरकालैकतया स्फुरन्नेव नीलीदिव्यावृत्तात्मा नीलाद्यात्मनारोप्यत इति भावः ॥
स्यादेतत्, स्वसंवेदनमात्मस्वभावमप्यनाद्यविद्यावशादनात्मतया स्फुरत् तत्तद्विषयोपरागेण भिन्नमिव स्फुरत्यात्मन्येकतया प्रतिसन्धीयमाने ऽपि यथा गगनसवितुरेकत्वेनानुभूयमानस्यापि प्रतिबिम्बमम्बुनि तरड्गभेदादित्यत
आह—न चैतदसतीति ।
अयमर्थः, न तावत् स एव तस्मिन्नेव तदानीमेव भ्रान्तो ऽभ्रान्तश्चेति सम्भवति ।
तस्मादविद्याया दुर्घटत्वं नामालड्कार एवेति पादप्रसारिकया प्रत्यवस्थेयम् ।
सेयं भेदज्ञाने बाधकमालम्ब्य स्यात् ।
तच्च नास्तीति वक्ष्यामः ।
प्रतिबिम्बे तु सुव्यक्त एव भ्रम इति ।
द्वितीयं दूषयति—न चागन्तुकेति ।
नन्वात्मनि नित्यं चैतन्यमिति क एवमाह? कि त्वात्मैव नित्यचैतन्यस्वभाव इत्यत आह—न चात्मैवेति ।
न च सुखेनाहमस्वाप्समित्यस्त्येव स्मरणमिति वाच्यम् ।
घटमहं जानामीति तदज्ञासिषमितिवत् सुखेनाहं स्वपिमीति तदज्ञासिषमित्येवमपि स्मरणप्रसड्गात्, तर्हि किमिदं सुखमहमस्वाप्समिति दुःखाभावानुमानमात्रं सुप्तो ऽहं न किञ्चिदज्ञासिषमिति ज्ञानाभावानुमानवत् ।
अथ केन लिड्गेन स्मरणार्हासमरणेन ।
को धर्मी? आत्मा अनुभूयमानः स्मर्यमाणो वा प्रत्यभिज्ञायमानः ।
तथापि सुषुप्तावस्था या
नानुभूता अत एव न स्मृता, कथमिव तच्छब्देन परामृश्यत इति चेत्—न, पूर्वापरावस्थयोरेकत्वप्रत्यभिज्ञानेन मध्यावस्थाया अपि सामान्येनोपनयनात् ।
यथा प्रागुपलब्धः पश्चादुपलभ्यमानो घटो मध्यावस्थायां नायं ज्ञात इति ज्ञानाभावविशिष्टो ऽनुमीयत इति न किञ्चिदनुपपन्नम्, स्तामात्मनो ज्ञानसुखे भिन्ने न तु मिथस्तथा च सुखात्मकं ज्ञानमात्मनि ज्ञानान्तरेण यदि नानुभूयत ।
एवमेतत्, स्वयमपि न प्रकाशत इति त्वसिद्धमित्यत आह—सुखं चेति ।
तदेवमात्मनि सुखं नित्यं भिन्नं भिन्ननैव ज्ञानेन प्रकाश्यमानमास्थेयम् तत्र भाष्यवार्तिके इत्याह—तदेवमिति ।
ननु वैषयिकसुखज्ञाने कर्तव्ये सुखातिरिक्तं किमात्ममनःसंयोगो ऽपेक्षते, येन तत्रापि विषयमात्रापेक्षायां मनसैव रूपाद्युपलब्धिप्रसड्गो न स्यात्, अथ बहिर्मनःसापेक्षं नन्वन्तरिति परिहारः, स इहापीति ।
अतो वार्त्तिकं स्फोरयति—संसारावस्थायामिति ॥
आपादितप्रयासवैयर्थ्यपरिहारं परस्य वार्त्तिककृतो हृदिस्थं स्फुटीकरोति सिद्धान्तवार्त्तिकं सङ्गमयितुम्—ननु त्वन्मत इति ।
यथा हि शास्त्रेण प्रवर्तमानः प्रवर्तयित्वयः, तथा स एव शक्यसाधने ।
न च नित्यं शक्यम् ।
तद्धि न निर्वर्त्यं नित्यत्वात् ।
नापि विकार्यमपरिणामित्वात् ।
नापि प्राप्यम् ।
न हि तस्य सम्बन्धलक्षणा प्राप्तिरप्रतिसङ्क्रमत्वात् नापि तादात्म्यलक्षणा, तस्याः प्रागेव सिद्ध्यसिद्ध्योरूभयथापि अशक्यत्वात् ।
नापि ज्ञानलक्षणा, नित्यानित्यविकल्पेन तस्या अप्यपासितत्वात् ।
नापि विषयत्वलक्षणा, अनतिरेकात् ।
तथात्वे चोत्पन्नतया विनाशे पुनरसम्बन्धात् ।
षट्पदार्थातिरेकस्यासिद्धेः ।
भावत्वे ऽवश्यं तदन्तर्भावात् ।
अभावत्वे प्रतियोग्यनुपपत्तेः ।
नापि संस्कार्यं तत्, अनाधेयत्वातिशयत्वादिति ॥
तस्मात् नित्यं सुखमशक्यत्वात् न प्रयोजनम् ।
प्रयोजनं तु दुःखाभावः, तस्य निर्वर्त्यत्वादिति वस्तुगतिः ।
अत्राहुः—ननु ससाधनं दुःखमपि न पारमार्थिकमस्ति ।
ततः कस्याभावः शक्यः ।
यथाविद्योपदर्शनं तु प्रवृत्तिः सुखे ऽपि समानेति, तत्राह—धर्माधर्माविति ।
तदिदं पूर्वोक्तं हृदि निधायोक्तम्—शक्यौ भोगेन क्षेतुमिति ।
न केवलमियं नित्यसुखदृष्टिर्मोक्षानुपयोगिनी, प्रत्युत विरोधिनीत्याह—अन्यथा त्विति ।
तस्मान्मनागप्यस्या अवकाशो न दातव्यः परैः, अपित्वविद्यानिवृत्तिमात्रे प्रयतितव्यं शक्यत्वात्, अविरूद्धत्वाच्चेत्यर्थः ।
तस्मादुपपन्नानवद्यवादिनः परमेश्वरस्योपदेशो नाशक्यप्रयोजनो न विपरीतप्रयोजनो न विपरीतप्रयोजनो वा भवितुमर्हतीति भाक्तत्वमेवानन्दश्रुतीनां न्याय्यमित्याह—तस्मादिति ।
नित्यं सुखं भवत्यस्ति ।
यद्यपि किञ्चिन्नारभते नोपादत्ते तथापि निमित्ततया किञ्चित्कुर्वन् सन् भविष्यतीति चेत्? नैवम्, टीकार्थानवबोधात् ।
निमित्तता हि उपादानतयाव्याप्ता ।
अन्यथा रूपादेरप्यनुपादानस्यापि किञ्चित्प्रतिनिमित्ततामुपगम्य निवृत्तौ सर्वसन्ताननिवृत्तिप्रसड्गात् ।
एवमस्त्विति चेत्? अत्र टीकयोत्तरम्, तदेवमस्मदभिप्रेतापवर्गलक्षणे सम्प्रतिपन्नावपि लाभहान्योरधिकवादिनौ निरस्तौ, सङ्ख्यादयस्तु नैवमिति नोत्थापिताः ।
ते हि प्रकारे परं विवदन्ते ।
स च तत्र तत्र चिन्तनीयः ॥२२ ॥
॥ इति प्रमयलक्षणप्रकरणम् ॥
॥ न्यायपूर्वाड्गलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
सर्वेषां प्रमाणाधीनत्वात् प्रमेयस्य तु बुभुत्सिततमत्वात् ताभ्यां संशयादीनामपकर्षः ।
साङ्गेपाङ्गे च न्याये व्युत्पाद्ये पूर्वाङ्गतया प्रकरणान्तरेभ्यः संशयादिप्रकारणस्योत्कर्षः ।
तत्रापि सन्दिग्धे प्रयोजनादिचिन्ता ।
न च प्रयोजनमनुसन्धाय संशय इति संशयस्य प्राथम्यमेवंलक्षणक्रमे ऽपि न्यायः ।
उद्देश्यलक्षणयोरेकवाक्यत्वादित्यभिसन्धिना भाष्यम् इत्याह—संशयेति ।
अत एव द्वितीय पाठं व्याचष्टे—क्वचिदिति ॥
ननु संशयसामान्यलक्षणं चेदिदम्, विमर्शः संशय इत्येतावदेवास्तु ।
विशेषलक्षणानि चेत्?नाकृते सामान्यलक्षणे तेषामवसरः ।
विमर्शसंशयपदयोश्चान्यतरत् अनर्थकमित्यत आह—अत्र चेति ।
लक्षणं लक्षणवाक्यम् ।
विमर्श इत्यनेन च विषयतः स्वरूपतश्च सामान्यलक्षणद्वयं सूचितम् ।
तत्र प्रथममाह—एकस्मिन्निति ।
विरोधिचतुरर्थावमर्श इति तु परिसङ्ख्यानमनर्थकम् ।
स्थाणुर्वा पुरुषो वेत्यत्र द्रव्यादेः अनन्तस्यावमर्शात् ।
प्राधान्येन चेत्? द्वयस्यैव ।
न ह्ययं निषेधः प्रधान इति ।
द्वितीयमाह—किंस्विदिति ।
किमित्युपक्रमे ।
स्विदिति पक्षान्तरे ।
तेन किमिदमवम् उतस्विदेवमित्यर्थः ।
अनुवर्तनीयमावर्तनीयमर्थानुरोधात् ।
संशयपदसन्निधश्च विमर्शपदं विवक्षितमर्थमाहेति तत्सहितमेवोक्तवानिति परस्परनिषेधवदुभयविधिप्रधान एकः ।
परस्परविधिमदुभयनिषेधप्रधानो ऽपरः ।
परस्परविरहरूपविधिनिषेधप्रधानो ऽन्य इति यथासङ्ख्यं विशिष्टः संशयो लक्ष्य इत्याह—अत्र विशिष्ट इति ।
लक्ष्यपदं लक्ष्यपदार्थ इति ।
गुणगतं संशयो लक्ष्य इत्याह—अत्र विशिष्ट इति ।
लक्ष्यपदं लक्ष्यपदार्थ इति ।
गुणगतं सादृश्यमवान्तरसामान्यविशेष एव ।
यतस्तुल्यारोहपरिणाहाविमाविति प्रत्ययो भवति, तमेव व्यक्तिकारणमुखेन दर्शयति—सङ्ख्यापरिमाणेति ।
महत्त्वदीर्घत्वसामान्यधर्मयोग इति ।
महत्त्वदीर्घत्वसामान्यमात्रधर्मयोग इत्यर्थः ।
इह वार्तिककारेण समानधर्मोपपत्तेरित्यादौ सत्तामात्रेण संशयाहेतुतया उपलब्धेरश्रुत्या च पूर्वपक्षयित्वा समाधानत्रयमभिहितं तद्विवेचयति—यद्यपीति ।
प्रथमे ऽनुपपत्तिशब्दः सत्तावाचकः तत्परश्च ।
उपलब्धिस्तु विशेषापेक्ष इत्यनेनाक्षिप्यते ।
द्वितीये तूपपत्तिशब्दो ऽयमनेकार्थो ऽपीहोपलब्धिवाचक उपात्तः ।
तृतीये तु सत्तावचन एव लक्षणयोपलब्धिपर इति ।
तत्र विशेषापेक्ष इति पदं तदा सामान्यज्ञानमाक्षिपेत्, यदि विशेषज्ञानं निषेधेत् ।
न त्वेतदस्तीत्यत आह—विशेषेति ।
वाक्यसामर्थ्यादन्वययोग्यतासामर्थ्यात् ।
यद्यपि विशेषापेक्षशब्दः साक्षाद् विशेषोपलब्धि न निषेधति, तथापि लक्षणया तत्परः ।
सा च मुख्ये बाधकात्, विवक्षिते सम्बन्धात् अवाचकोपादाने प्रयोजनात्त् प्रवर्तते ।
तत्र मुख्ये बाधकमाह—न चेति ।
प्रयोजनानुयोगपरिहाराय लौकिकलक्षणात्वं सूचयन् दृष्टान्तपूर्वकं सम्बन्धमाह—यथेति ।
यथा हि गड्गातीरयोः संयोगमन्तर्भाव्याविनाभावस्तथा अगृह्यमाणस्मरणबुभुत्सयोरेकविषयतया संशयमन्तराकृत्वा पौर्वापर्यनियमेनाविनाभाव एव सम्बन्ध इत्यर्थः,सौकर्यविशेषात् ।
तत्प्रयोजनमप्यभिधातुं शक्यते ।
विशेषमपेक्षत इति हि विशेषापेक्षः संशय उक्तः ।
तथा च विशेषे जिज्ञासाजनक इत्युक्ते फलमस्य दर्शितं भवति ।
तदिदमुक्तम्—तस्याः संशये सति भावादिति ।
एतेन फलद्वारकमपि सामान्यलक्षणमनुगन्तव्यम् ।
द्वितीये तु विनिगमनायां प्रमाणाभावश्चोद्यम् ।
तदुत्थाप्य वार्त्तिकेणोत्तरयति—स्यादेतदिति ।
तृतीये प्रयोजनाभाश्चोद्यम्, तद् वार्त्तिकमुखेनैव परिहरति—न चेयमलौकिकी लक्षणेत्यादि येन प्रयोजनमनुरुध्येतेति शेषः ।
ननु कृतकत्वं परिच्छेदस्य हेतुः, न व्यवच्छेदस्येत्यत आह—अपि त्वनित्यत्वस्येति ।
ननु तथापि विवक्षिततज्जातीयवृत्तित्वे सत्यन्यवृत्तिरेव धर्मः समानशब्दवाच्य इति कुतो नियम इत्यत आह—समानो हीति ।
अत्रोत्तरपरस्य यावन्नावतारस्तावत् परिहारः ।
तस्मिस्त्ववतीर्णे प्रसक्तिरेव नास्ति ।
यदि हि समानो धर्मो व्यवच्छेदहेतुरिति कुतः साधकबाधकप्रमाणाभावः, तस्यैव तदभावरूपत्वात् ।
स चेत् कथमसौ व्यवच्छेदहेतुः? न चोपलब्ध्यादिपदं तदितरस्य साधकबाधकत्वं प्रतिक्षिपति ॥
ननु तस्येति विशेषलक्षणमस्तीति, तस्मात् तस्मिन्नसत्यपि न वक्तव्यस्यावकाश इति दर्शयितुमियं युक्तिरुक्तेति ।
पौनरुक्त्यं परिहरन्नाह—विमर्शपुर्वकमिति ।
पूर्वं हि करणाकरणयोर्गुणदोषौ न चिन्तितौ, इदानीं तौ चिन्त्येते इत्यपौनरुक्त्यम् ।
अत एव प्रागाह—योजयतीति ।
इदानीमाह—अवधारयतीति ।
यथा सप्तमे रस इति ।
तथा हि सप्तमो रसः संशयज्ञाने धर्मितया विषयः स्याद्, धर्मतया वा? न कदाचिल्लोक एवं सन्दिग्धे यदयं सप्तमो रसः स्थाणुर्वा पुरुषो वेति, द्रव्यं वा गुणो वेति ।
नाप्येवं सन्दिग्धे अयमुपलभ्यमानः पदार्थः सप्तमो वा रसो दशमं वा द्रव्यमिति? सप्तमो रसः किमस्ति नास्ति वेति सन्देहो भवत्येवेति चेत् न, अननुभूते स्मरणाभावात् ।
अस्मृतस्य च संशयाविषयत्वात् ।
नौदोलेति ।
सदृशदर्शने ऽप्यस्मरणं तु पट्वभ्यासादरप्रत्ययाभावात् ।
यथा हि तथाविधप्रत्ययजन्यः संस्कारः, तथा तदुद्बोध्यो ऽपीति ।
द्वे द्वित्वेनेति ।
समुदितयोरानन्तर्य विवक्षितमित्यर्थः ॥
अनेकधर्मपदं लक्षणया असाधारणं धर्ममाह—तत्रैकदेशिव्याख्यादूषणव्याजने मुख्ये बाधकमाह
वार्त्तिककृत् इत्यत आह—अनेकेति न सर्वत्र द्रव्यादौ संयोगजत्वमतो विशेषयति—कार्यद्रव्य इत्यादि ।
अतो मुख्ये
बाधकं दृष्टवा जघन्यां वृत्तिम् आलम्ब्य भाष्यकृता सूत्रं व्याख्यातमिति दर्शयन्निव वार्त्तिकम् अवतारयति—भाष्यकृद्व्याख्ययेति ।
पुनः पृच्छति ।
यदि लाक्षणिकमिदं पदं कः सम्बन्ध इत्याशयवानिति शेषः ।
अवध्यवधिमद्भावः सम्बन्धः इति सङ्कलय्य वार्त्तिकार्थमाह—एतदुक्तं भवतीति धर्मपदसामानाधिकरण्येन विशेषशब्दस्य भावसाधनत्वं निवर्तयतीत्याह—एतदुक्तं भवतीति धर्मपदसामानाधिकरण्येन विशेषशब्दस्य भावसाधनत्वं निवर्तयतीत्याह—अध्याहृतेति ।
यद्येवमलग्नकं तर्हि भाष्यं तस्यानेकस्येत्यत आह—सम्बन्धसामान्येति ।
बीजान्तरं सम्बन्धान्तरम् ।
पूर्वं हि विभागजत्वादिना स्वाश्रय एव शब्दस्तद्विपरीतेभ्यो व्यावर्तत इत्युक्तम् ।
इदानीं तु स्वाश्रयाच्छब्दान्तर एवेति न निवर्त्यत इत्यभिसन्धिः ।
अतो निवर्त्यनिवर्तकभावः सम्बन्धो भवतीति बीजान्तरमिति ।
तस्यानेकस्य धर्मो निवर्तकतया यः स एवानेक इत्युच्यते इति व्याख्यातमित्यर्थः ॥
नन्वेवं सति किं लक्षणया यावता मुख्य एवानेकशब्दो ऽस्तु ।
तथा हि पूर्वम् अनेकस्य धर्मो ऽनेकधर्मः साक्षात् समवायादिवृत्त्या चेत् समानपदेनैव गतार्थ इति मत्वा दूषितः ।
निवर्तकतया त्वनेकस्य सम्भवत्येवेत्यत आह—न त्वत्रेति ।
कुतः? दर्शयिष्यतीति ।
यदि सम्बन्धिवचन एवानेकशब्दः स्यान्न धर्मशब्देन समानाधिकरणः स्यात् ।
तथा च बहुव्रीहेरलाभे धर्मी न लभ्येतेत्यर्थः ॥
एवं भाष्यानुगतं वार्त्तिकमुपसंहृत्य स्वतन्त्रं वार्त्तिकमुत्थाप्य लक्षणानुरोधेन तावद् व्याचष्टे—प्रकारेति ।
एकमेकजातीयम् ।
अनेक नैकजातीयम्, भिन्नजातीयम् इत्यर्थः ।
तेन विशेषणविशेष्ययोर्विशिष्टबुद्धिहेतुत्वेनाभेदमुपचर्य विशैष्यवचनो ऽयम् अनेकशब्दो विशेषणे धर्मे प्रयुक्तः इत्याशयवानाह—भेदाभेदप्रत्ययहेतुरित्यर्थ इति ।
अत एवोपसंहारे वक्ष्यति—तत्प्रत्ययहेतुरुपचारेणानेक इति ।
तदितरेभ्य इति ।
द्रव्यगुणकर्मभ्यो न तु शब्देतरेभ्य एव, तद्व्यतिरेकस्य संशयं प्रत्यनुपयोगात् ।
इममेवार्थ वार्त्तिकेन संवदति—तदिदमाहेति ।
यद्यप्यसाधारणे धर्मे विवक्षिते एकप्रत्ययहेतुरिति मन्दप्रयोजनम्, तथा प्यसाधारणात् संशयो भवन् तज्जातीयतायामेव पर्यवस्यति ।
न तु तद्व्यक्तितायाम् तज्जातोया अपि हि विधर्माणो दृश्यन्ते ।
न तु त एवेत्येतत् सूचयितुमनेकव्यक्तिनिष्ठता दर्शिता ।
अत एकवचनं समर्थयति—जात्येति ॥
इदानीमुदाहरणानुरोधेन व्याचष्टे—सदादिरिति ।
अत्रेति व्याख्याने, अनुरूपम् उदाहरणमाहेत्यर्थः ।
उदाहरणपरतां स्फुटयितुमसाधारणावसरे साधारणमपि सदादि किमित्युपन्यस्तमिति शङ्कां निवारयति—द्रव्यत्वादिकोटीति ।
सत् सत्तावत् ।
अनित्यं प्रध्वंसयोति ।
द्रव्यवत् समवायिकारणतया द्रव्यमस्यास्ति ।
कार्यं प्रागभाववत् ।
कारणं निमित्तेतरतयापि सामान्याविशेषवत् अवान्तरसामान्यवदिति ।
यत्तदवोचाम, परस्परविधिमदुभयनिषेधप्रधानः संशयो लक्ष्यो द्वितीयलक्षण इति, तत् सिद्धान्तप्रसङ्गेन निषेधमुपक्रम्य विधिपर्यवसानेन दर्शयति—द्रव्यकर्मभ्यां व्यावर्तमानः किं गुण इत्यादि ॥
ननु चोद्यमेवैतदनुपपन्नम् ।
न हि विभागजे विभागे प्रमाणमस्ति ।
यौगपद्येनैव विभागसहस्रस्यापि समानदेशस्य जायमानत्वादित्यत आह—अयममिसन्धिरिति ।
यद्यपि वंशदलयोर्विभागानन्तरं संयोगनाशः, ततो द्रव्यनाशः, ततो द्रव्यनाशविशिष्टं कालं स्वतन्त्रं वा अवयवमपेक्ष्य दलयोर्वर्तमानो विभाग आकाशादिदेशाद् विभागं करोतीति वैशेषिकाः, तथाप्यप्रकृतत्वात् संयोगनाशद्रव्यनाशक्रमो नोपन्यस्तः ।
प्रकृतस्य हि कर्मणो विभागद्वयजनकत्वं क्रमेण वा स्याद्, यौगपद्येन वा ।
न तावदाद्यः, कर्मणो विभागारम्भे ऽनपेक्षया अविलम्बकारित्वनिश्चयात् ।
अपेक्षायां वा, आद्यमपि विभागम् अनन्तरमेव न कुर्यात् ।
उत्तरसंयोगे कर्तव्ये पूर्वसंयोगप्रध्वंसापेक्षेति विलम्बः ।
आगन्तुकभावमभिसन्धाय तु नैरपेक्ष्यमुक्तम् ।
न द्वितीयः, यदा आकाशादिदेशाद् विभागं करोति कर्म त तदावयवान्तरादिति स्थितिरिति वैशेषिकाः ।
तदेतद् यथाश्रुतमुभयमप्यनुपपन्नम् ।
आद्ये विभागे हि कर्तव्ये कर्मणो निरपेक्षत्वात् स एव कालः ।
द्वितीये तु कर्तव्ये प्रथमानन्तरकाल एव नैरपेक्ष्यम् ।
अतो न कालातिपात इत्येवमप्युपपत्तेः ।
यदेत्यादिस्थितिस्तु विकसत्कमलकुड्मलेष्वेव भग्नेप्यतो ऽस्यार्थमाह—अवयवक्रिया हीति ।
कार्यैकार्येति—प्रत्यासत्तिसूचनम् ॥
ननु भवत्वेवं तावदुक्तव्याप्तेरनवधारणम्, तथापि या क्रिया द्रव्यानारम्भकसंयोगप्रतिद्वन्द्विनं विभागमारभते, नासौ द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनमपि ।
तथात्वे वा यतः कुतश्चित् कर्मणो युगपदुभयविभागोपपत्तौ चलत्येवावयवे सर्वद्रव्यनाशप्रसङ्गः, न चैवम् ।
तस्माद् यदनारम्भकसंयोगप्रतिद्वन्द्विजनकं तन्नारम्भकसंयोगप्रतिद्वन्द्विजनकं कर्मेति
सिद्धे विपर्ययो ऽपि सिद्ध इति तत्राह—क्रियावैलक्षरण्यात्विति ।
अयमर्थः ।
विभागस्य तावद्वैलक्षरण्यमवश्यमभ्युपेतव्यम्, अन्यथा नियमानुपपत्तेः ।
तदनुरोधात् कर्मणो ऽपि जातिकृतं सहकारिकृतं वा वैलक्षण्यमवश्यं स्वीकर्तव्यम् ।
तदेतस्य वैलक्षण्यम् आरम्भकानारम्भकसंयोगप्रतिद्वन्द्विविभागद्वयजनकतया एकत्र, अन्यत्र त्वनारम्भकसंयोगप्रतिद्वन्द्विविभागमात्रजनकतया पर्यवस्यति, आहोस्विदारम्भकसंयोगप्रतिद्वन्द्विविभागमात्रजनकतयैकत्र, अन्यत्र त्वनारम्भकसंयोगमात्रप्रतिद्वन्द्विविभागजनकतयेति न नियन्तुं शक्यते ।
अनारम्भकसंयोगप्रतिद्वन्द्विनमपि विभागं
करिष्यति, को विरोधः? यथानारम्भकोत्तरसंयोगजनकत्वे सत्येव कुतश्चित् विशेषादारम्भकोत्तरसंयोगजनकत्वमपि कर्मणः, अन्यथा तत्राप्यनयैव दिशा कारणमात्रसंयोगपूर्वकाः कारणाकारणसंयोगाः कल्पनीयाः स्युः ।
यथा च तत्र क्रमे प्रमाणं नास्ति तथेहापीति ।
यदेकान्तविभागमेकमवयवद्वयमात्रवर्तिनम्, अन्या तु विभागद्वयमवयवद्वयवर्तिनमवयवानवयववर्तिनं चेति ।
यथा चैतद्वैलक्ष्ण्यं तथा वरमेवमसतु यदेकानारम्भकसंयोगप्रतिद्वन्द्विनमन्या तु आरम्भकानारम्भकप्रतिद्वन्द्विनं जनयतीत्यर्थः ॥
तस्मात् कारणमात्रविभागपूर्वके कारणाकारणविभागे प्रमाणं नास्तीति नाभ्युपगम्यत इत्येतावन्मात्रव्यक्तीकरणफलो ऽयमनम्युपगम इत्याह—तस्मादिति ।
कारणाकारणविभागपूर्वकस्तु कार्याकार्यविभागः प्रामाणिक इत्यभ्युपगम्यत इत्याह—यस्त्विति ।
कार्यैकार्थसमवायस्तरुमधिकृत्य क्वचित् पाठः ।
कार्यकारणैकार्थसमवायः ।
सो ऽङ्गुलीमधिकृत्येति ।
स इति ।
असाधारणीभूतनिमित्तजातीयासमवायिकारणजन्य इति प्रतिज्ञार्थः आद्यशब्दत्वादिति हेत्वर्थः ।
यद्यपि विभागापेक्षविभागासमवायिकारणम् असाधारणं शब्दे तदेव वक्तुमुचितम्, तथापि कारणमात्रविभागजविभागमभ्युपेत्योक्तं वार्त्तिककृतेति तथैवाह—तदेवमिति, एतदपि व्यभिचार्य समर्थयति—तदपीति ।
यद्यप्येवमपि विभागजत्वादिति हेतुरदोष एव, न हि विभागाद् द्रव्यस्य जन्म सम्भवति,
कमणो वा ।
स हि द्रव्यानारम्भकसमवेतो ऽकारणमेव, आरम्भकसमवेतस्तु संयोगनाशद्वारा विनाशक एव, कर्मणो ऽपि कारणं विभागो भवन्न तावदाद्यस्य तस्मिन्नसति विभागस्यैवानुपपत्तेः ।
तदुत्तरस्यापि पूर्वकर्मनिवृत्तौ जन्म ।
यदा तु तन्निवृत्तिरुत्तरसंयोगात्, तदा विभागस्यापीति कथमुत्तरकर्मजन्म विभागात्? तस्मादसन्दिग्धव्याप्तिकं विभागजत्वं शब्दस्य गुणत्वे प्रमाणमेव ।
न च तदवान्तरविशेषमादायासाधारण्यं दोषः ।
तथा सति धूमो ऽप्यगमकः स्यात् ।
तथापि भाष्योक्तोदाहरणव्युत्पादनमात्रमिदमिति मन्तव्यम् ॥
ननु तुल्यजातीयेष्वित्यादिविवक्षितविपरीतापादिकेयं युक्तिरित्यत आह—यद्यपीति ।
पूर्वैव युक्तिरियं भाष्यकारगौरवादुक्तेत्यर्थः ।
पूर्वस्मारणेन प्रकारान्तरत्वं स्फुटयन् वार्त्तिकमवतारयति—पूर्वमिति ।
समानो हि धर्मः पक्षे वर्तमानः सपक्षविपक्षधर्माभ्यामेकजातीयः, तद्रूपप्रतिषेधश्चायमनेक इति ।
तथा च पक्षे वर्तमानस्य सपक्षविपक्षधर्माभ्यां विजातीयत्वमुक्तं भवति ।
यश्च पक्षगः सपक्षविपक्षधर्माभ्यां विजातीयो धर्मः, सो ऽसाधारण एवेति भवत्यभिधेयाविनाभूतत्वात् लक्षणाविषयः ।
तदिदमुक्तम्—लक्षणयैवेति ।
वार्त्तिकं योजयति—समानेति ।
समानशब्देन प्रतियोगितया बुद्धावसमाने ऽप्युस्थापिते संशयकारणत्वे च तस्य प्रमाणसिद्धे तस्मिन् वक्तव्ये यदनेकपदमुपादत्ते सूत्रकारस्तेन जानीमो नूनमयमेवार्थो ऽनया वचोभङ्ग्या अनेन दर्शित इति योजनार्थः ।
एतेन सर्वेषूक्तप्रकारेषु सूत्रकारस्य सम्प्रतिपत्तिर्दर्शिता भवति ॥
पृत्छतीत्यादिना लक्षणप्रकाराणां प्रयोजनं दर्शितमित्यनुगन्तव्यम् ।
प्रत्यभिज्ञानं तावद्व्यक्तिविषयकं नास्त्येव गकारादाविति द्वितीये व्युत्पादनीयम् ।
यदाप्यस्ति तदाप्यस्य विषयः किं व्यक्तिरुतजातिरिति विषयतः सन्दिह्यते ।
यदापि व्यक्तिरेवास्य विषयः, तदापि प्रमाणमप्रमाणं वेति सन्देह इत्यभिप्रायवान् सम्मुग्धमाह
सादृश्येनापि सम्भवति, स्वयं सन्दिग्धं सदिति ।
यद्यपि गवादिव्यक्तय इव गोत्वाद्युपधाना इति जातिमात्रपदार्थवादी न स्वीकरोत्येव, तथापि स्वसिद्धान्तदार्ढ्येन परो ऽप्येवमङ्गीकारयितव्यः ।
अन्यथाभिधेयस्याविनाभावप्रतीतिरेव कथं व्यक्तिभिः? तदभावे च कथं लक्षणापीति? कथं नेत्यादि ।
न च वाच्यं शब्दस्य तथाभावसन्देहे ऽपि घटादौ निश्चितत्वेन व्याप्तिग्रहो यदि स्यात् को दोष इति ।
सर्वोपसंहारेण हि व्याप्तिनिश्चये यत्कृतकं तदवश्यमनित्यमिति कृतकत्वं शब्दे निश्चयमेव कुर्यात् ।
सत्प्रतिपक्षतया शब्दे साध्यसिद्धिं न करोति ।
अप्रतिहततया तु बुद्ध्यादौ करोतीति चेत्—न, प्रतिपक्षसाधने व्याप्तिसद्दूषयति सत्यपि साध्यसिद्धेरविरोधात् ।
विरोधे ऽदुष्टादपि न साध्यसिद्धिरिति सर्वानुमानोच्छदप्रसङ्गः ।
इमं चार्थमनन्तरमेव वक्ष्यते ।
व्याप्तिदोषे तु सर्वोपसंहाराभावात् कथं तद्बलेन बुद्ध्यादौ साध्यसिद्धिरिति सन्दिग्धतत्त्वं शब्दं विहाय व्याप्तिरिति चेत्? एवं तर्हि शब्दादन्यत्वे सति कृतकत्वादिति वाच्यम् ।
तथा च यदि दैवात् शब्दो ऽप्यनित्य एव वस्तुतः, तदा असमर्थविशेषणत्वापत्तिरिति सन्दिग्धासमर्थविशेषणत्वमिति ।
तस्मात् सूष्ठूक्तं सन्दिग्धे नित्यानित्यभावे शब्दे कृतकत्वं गतमिति नानित्यत्वेन स्वभावतः प्रतिबद्धमिति ॥
प्रत्ययभेदभेदित्वं कारणतीव्रत्वादितारतम्येन तीव्रतीव्रतरादित्वं प्रत्येकं सत्प्रतिपक्षत्वम् इत्येकैकस्यान्वयतो व्यतिरेकतो वोभयकोट्यनुपनायकतया न संशयहेतुत्वम् ।
नापि निश्चयहेतुत्वमसत्प्रतिपक्षत्वरूपवैकल्यादित्यर्थः ।
मिलितयोस्त्वसाधारणत्वमिति ।
तथा च तेनैव रूपेण संशयकारणत्वं नान्यथेत्यर्थः ।
अनुनासिकत्वादयो हि सामान्यविशेषाः प्रत्यक्षा भवन्तः प्रत्यक्षव्यक्तिवृत्तय एव भवितुमर्हन्ति ।
न चान्येन्द्रियेण व्यक्तिरन्येन जातिरुपलब्धिगोचरः ।
तथा चानुनासिकत्वादिसामान्याश्रयभूताया एव व्यक्तेः श्रावणत्वे ऽप्यनित्यत्वमुभयवादिसिद्धम् ।
केवलं स व्यक्तिराकाशाश्रया वा, अन्याश्रया वेति विप्रतिपत्तिः ।
सेयमास्तां तावत् ॥
ननु तथापि नैयायिकानां मते शब्दाश्रया एवानुनासिकत्वादयो धर्मा, न च पक्षेणैत्र व्यभिचारः ।
न, अवर्णात्मकेनापि तद्धर्मशालिनानैकान्तिकतोपपत्तेः ।
तस्यापि पक्षत्वमिति चेत्—न, तद्दर्शने ऽनैकान्तिको ऽयमिति विरोधमुखेनाप्युद्भावनात्, वस्तुतः शब्दधर्मत्वे च कालात्ययापदेशदोषात् ।
अप्रयोजकाश्च रूपादयो नित्याश्चक्षुराद्येकैकेन्द्रियग्राह्यत्वात् रूपत्वादिवदित्यनेन समानयोगपेक्षमत्वादिति ॥
विप्रतिपत्तेरित्यादि ।
अस्य च लक्षीभूतस्य संशयस्य परस्परविरहरूपविधिनिषेधप्राधान्यात् ।
अस्त्यात्मा नास्त्यात्मेत्युदाहरणं तु भाष्यकृतैव दर्शितं स्फुटमिति न प्रपञ्चितं वार्तिकटीकाकाराभ्याम् ।
उदाहरणमात्रं चैतत् ।
न न्विदमेव आदरणीयम् ।
आत्मनो ऽनुपलब्धचरत्वे स्मृत्यनारूढस्य संशयानास्पदत्वात् ।
उपलब्धचरत्वे वा सर्वथापह्नवायोगात् ।
एतच्च तृतीये प्रपञ्चनीयमितीहोपेक्षितम्, शब्दो नित्य इत्येके ।
नेत्यपरे इत्यादि तूदाहारणीयम् ॥
कारणभेदेनेति ।
लक्षणभेदरूपेण त्रिविधम्, विधिप्रधानं निषेधप्रधानं निषेधविधिप्रधानमिति ।
न चानभ्यासदशापन्न इति ।
अनभ्यासदशापन्नोपलब्धौ हि प्रमाणोत्तरभावानिश्चये बुद्धित्वसामान्योपलब्धेः सत्यत्वासत्यत्वसन्देह इति यद्यभिमतम्, प्रथमपदेनैव गतमेतत् ।
ततस्तद्द्वारकेर्ऽथे सन्देह इह विवक्षित इति यदि, सो ऽपि स्वरूपतो देशकालतः प्रकारतो वति? आद्यस्तावद्विरोधादेवासङ्गतः ।
न हीदमिदं न वेति सम्भवति ।
निद्राद्युपप्लवाभावनिश्चयेन तदेककारणकोटिव्युदासात् द्वितीयो ऽपि निरस्तः ।
उपप्लवसन्देहे त्वाध्यात्मिक एव संशयः ।
तृतीये त्वाह—न नागो वा नगो वेति ।
एवमयोग्येति ।
एतावांस्तु विशेषो यत् स्थाणुर्वा पुरुषो वेत्यत्रोपलब्ध्यनुपलब्धी अनुत्पादादेवाव्यवस्थिते ।
प्रकृते तूदाहरणे जातमेव जलज्ञानमप्रामाण्यशङ्कया न व्यवस्थितमिति ॥
एवमयोग्येति ।
यदि विशेषस्मृतिसहिताया अयोग्यानुपलब्धेः धर्मिणमनन्तर्भाव्य संशयः स्यात् स तावन्नात्यन्तानुपलब्धकोट्युल्लेखी, तत्र स्मृतेरभावात् ।
नाप्युपलब्धकोट्युल्लेखी ।
न हि भवति परमाणुरस्ति नवेति अस्त्येव यतः ।
इहेति चेत्? तर्हि देशकालादिविशेषं धर्मिणमुपादायोपपद्यते ।
तथा च स उपलब्धः सन्नन्वयतो व्यतिरेकतो विप्रतिपत्तितो वा विशेषौ स्मारयेत्, न स्वरूपत इति पूर्वानुप्रवेश इत्यर्थः ॥
तदिदमुक्तम्—न संशयो विना समानधर्मादिदर्शनमिति ।
सामग्रीभेदेन भेदे त्रैविध्यं विषयकृतमिति ।
अपि
त्वनेकविधः, प्रत्येकं कारणानां विषयव्यवस्थां प्रत्यहेतुत्वादित्यर्थः ॥२३ ॥
॥ परिशुद्धिः ॥
पूर्वाङ्गत्वाविशेषे ऽपि संशये सति प्रयोजनानुसन्धानात् ततः प्रयोजनस्यापकर्ष इत्युक्तमृ ।
प्रयोजनमनुसंवाय
च तत्साधनीभूतन्यायमनुसन्धित्सतो दृष्टान्तानुसरणमिति दृष्टान्तादस्योत्कर्ष उद्देशे ।
सैव सङ्गतिरिहापीति आह—उद्देशेति ॥
अर्थशब्दस्य लक्षणे ऽकिञ्चित्करत्वादाधिक्यं मन्वानस्तात्पर्यमाह—अत्रेति ।
अर्थपदं भाष्यकारेण अनूद्यापि न विवृतमित्यत आह—ससाधनाविति ।
नन्वेवं सत्युत्तरभाष्यविरोधः, तदाप्तिहानोपायमनुतिष्ठतीत्यत्र तच्छब्देनार्थस्य परामर्शात् ।
सुखदुःखाप्तिहानोपायमिति च प्रकृतसङ्गतेरित्यत आह—न चेति ।
अत्र च टीकायां यद्यपि तथापीति तदचतुष्टयमध्याहरन्ति ।
लोक्यत इत्यादि ।
तथा च प्रामाणिकत्वादेव प्रयोजनं न वक्तव्यमिति वाक्यार्थः ।
नन्वेवं सति प्रमाणमपि न व्युत्पाद्यम् ।
तच्च त्वया व्युत्पादितमित्यत आह—न च प्रमाणमीदृशमिति ।
यथा चेति ।
तथा च प्रमाणोपपन्नं न वाच्यमिति वदतः स्वचरिताविरोध इत्यर्थः ॥
कथमसय प्रयुक्तौ साधनत्वं सतो ऽसतो वा? असतो ऽपि स्वज्ञानद्वारा व्यापारान्तरेण वा? क्व च प्रयोजयति, स्वात्मन्येव वा स्वसाधने वा? कथं च व्यापकं स्वरूपेण, कर्मविद्याद्वारा वेति परीक्षासाध्यमित्यर्थः ।
न ब्रूमः प्रयोजनं न्यायस्य अङ्गमुपकारकम्, किं तु प्रयोजनवान् न्यायस्तद्गताचिन्ताङ्गीकरोतीति ।
यावद् वाक्यं न समाप्यते तावदेव ।
ननु चिन्तापि नाङ्गम् ।
न हि न्यायान्निर्णयश्चानिर्णयश्च ।
न च निर्णयादन्यत् प्रयोजनं न्यायस्य ।
तस्मात् किमनेन चिन्तितेनेति शङ्कामपनेतुमाह—मुख्यमित्यादि ।
गौणं प्रयोजनं मुख्यस्यैव प्रयोजनस्य कृते उपादीयते ।
मुख्यमपि यद्यन्योपकारार्थमुपादीयेत,
मुख्यतामेव जह्यात् ।
एतदेव हि मुख्यस्य मुख्यत्वम्, यदनन्यार्थतया पुरुषापेक्षितत्वम् ।
न च निर्णय एवमित्यर्थः ।
वाक्यशेषमाह—प्रयोजनवांस्त्विति ।
मुख्यप्रयोजनवानेव न्यायो गौणप्रयोजननिर्णयकारणतयोपादेयो यतः, अतस्तद्गतां मुख्यप्रयोजनगतां चिन्तामभिसन्धानमङ्गीकरोति अङ्गतया अपेक्षते ।
एतदुक्तं भवति, यद्यपि न प्रयोजनं न्यायस्याङ्गं साध्यत्वात्, तथापि तदभिसन्धानमङ्गम् तदन्तरेण न्यायस्याप्रवृत्तेः ।
निष्फलस्यापि च स्वयं फलवन्यायप्रवर्तकतया तत्सन्निधेः ।
यथा स्वर्गस्य यागानङ्गस्यापि अभिसन्धानं स्वयमफलमपि यागप्रवृत्तिं प्रति कारणतया सन्निधीयमानमङ्गमिति ।
एतदेवोपसंहारव्याजेनाह—तस्मादिति ।
अन्ये तु, किं तु मुख्यमित्यवच्छिद्य व्याचक्षते, प्रधानमुद्देश्यमिति यावदिति ।
तदाप्येवमेवोत्तरत्र नेयमिति ।
अक्षरार्थस्तु वार्त्तिकस्य य खलु निष्प्रयोजना चिन्ता प्रयोजनाभिसन्धानशून्यः संशयो नासौ न्यायस्य प्रवर्तक इति स्फुटत्वान्नोक्तः ॥१४ ॥
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाभ्यं स दृष्टान्तः ॥१५ ॥
॥ परिशुद्धिः ॥
संशये प्रयोजने च सति क्व पुनरेतत् साध्यसम्बद्धं साधनमुपलभेय, यदुपादायैतत्साधयेयमिति जिज्ञासाक्रमानुरोधेन प्रयोजनानन्तरं दृष्टान्तस्योद्देशः ।
सैव चात्रापि सङ्गतिरित्याह—क्रमेति ॥
न च सामान्यलक्षणमन्तरेण विशेषलक्षणावतार इति तत्सूचकं सूत्रं तथैव व्याचष्टे—साध्यसाधर्म्यादिति ।
अत्रान्वयव्यतिरेकवति प्रकारद्वये ऽपि साध्यसाधनयोरविनाभावसिद्धिरेव फलं प्रतीयते ।
तथा चाविनाभावविषयतया अर्य्यते यः, सोर्ऽथो दृष्टान्त इति सामान्यलक्षणलाभः ।
विशेषे तु टीका स्फुटैव ।
नन्वेवंरूपोर्ऽथ इति कुत एतदित्यत आह—उदाहरणेति ।
क्षीरनीरवदविवेचितानि सांव्यवहारिकाणि प्रमाणानि निसर्गः ।
तद्भावो नैसर्गिकः ।
खलितैलवद् विवेचितानि दुर्निरूपार्थगोचराणि प्रमाणानि विनयः ।
स एव वैनयिकः ।
तमाह—शास्त्रेति ।
सारूप्यव्युत्पत्त्यर्थ इति वार्त्तिके सारूप्यग्रहणमविनाभावमात्रोपलक्षणपरमित्यभिसन्धायाह—दृष्टान्तस्य प्रयोजनमाहेति ।
न खल्विति ।
अपि तु वस्तुस्थित एव ज्ञाप्यत इति शेषः ।
तदेतच्छलेन सामान्यलक्षणमाविष्कृतम् ॥२५ ॥
॥ इति न्यायपूर्वाङ्गलक्षणप्रकरणम् ॥
॥ न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं न्यायपूर्वाङ्गप्रकरणं समर्थ्य परिकलितसामर्थ्यं साधनं यत्रोपनेयं स सिद्धान्तापरनामा न्यायस्याश्रयो ऽवसरप्राप्तत्वादुच्यत इति ।
अथ सिद्धान्त इति भाष्यं स्फुटार्थम् ।
सूत्रमपठित्वा व्याख्यानं तु कुत इत्यत आह—अत्रेति ।
भाष्यकारस्य रीतिरियम्, स्वप्रतिभया स्वतन्त्रसूत्रविवरणं भाष्यमिति लक्षणादिति भावः ।
संस्थितिरित्थम्भावव्यवस्थेति भाष्यं दृष्ट्वा इदमिति सामान्याभ्युपगमे सिद्धान्तभ्रमः स्यात्, अतो व्याचष्टे, भाष्ये चेति ॥
अर्थाभ्युपगमो ऽभ्युपगतो वार्थः सिद्धान्तः, विशेषणविशेष्यभावं प्रति कामचारादिति च प्रथम सूत्र एवोक्तम्, अतो न ग्रन्थचतुष्टयस्यापि मिथो विरोधः ॥२६ ॥
॥ परिशुद्धिः ॥
ननु यदि तन्त्रं प्रमाणमभिमतम्, कथं व्यतिरेकमाह—यो ऽथो न शास्त्रित इत्यत आह—अशास्त्रितो ऽप्रामाणिक इति ।
नन्वेवं बौद्धसिद्धान्ता न सिद्धान्ताः स्युरप्रामाणिकत्वात्, तथा य व्यतिक्रमे ऽपि तेषां नापसिद्धान्तो भवेदित्यत आह–आभिमानिकं चेति ।
एतच्चाग्रतो वार्त्तिककार एव तत्प्रत्ययादभ्युपगम इति वदन् स्फुटीकरिष्यतीति ॥२७ ॥
॥ परिशुद्धिः ॥
ननु सदृशतन्त्रासिद्धो ऽष्यर्थः क्वचिदभ्युपगम्यमानः सिद्धान्तो यथा प्राभाकरे नियोगो वाक्यार्थः, न्याये उपमानं प्रमाणमित्यत आह—समानशब्द एकपर्यायः ।
यथा तरुवृक्षशब्दौ समानार्थाविति ।
तथाप्यनेकसम्बन्धापेक्षया एकमपि
समानशब्दवाच्यं भवतीत्यत आह—नैयायिकानां हीति ।
व्यतिरेकप्रधानं
चैतत् ।
एकत्र कुत्रचित् सिद्धो न सर्वत्रसिद्ध इत्यर्थः ।
एतावत्येव लक्षणे सिद्धे परतन्त्रासिद्धपदमिमर्थं स्फुटयितुम् ।
अन्यथा सर्वतन्त्रसिद्धो ऽपि समानतन्त्रसिद्ध एवेति भ्रमः स्यादिति ॥२९ ॥
यत्सिद्धावन्यप्रकरणसिद्धिः सो ऽधिकरणसिद्धान्तः ॥३० ॥
॥ परिशुद्धिः ॥
एवं वाचनिकसिद्धान्तद्वयं लक्षयित्वा तल्लिङ्गत्वादभिप्रायस्याभिप्रायिकसिद्धान्तद्वयोपक्रमे न्यायप्रधानत्वादस्य शास्त्रस्य न्यायानुषड्गिणं तावदाह—यत्सिद्धावित्यादि सूत्रम् ॥३० ॥
एतच्च भूषणप्रभृतयो द्विधा व्याचक्षते ।
यस्यार्थस्य सर्वज्ञत्वादेर्विशेषस्य सिद्धौ क्षित्यादेः सकर्तृकत्वस्य प्रतिक्रियमाणस्य सिद्धिः स सर्वज्ञत्वादिर्विशेषो ऽधिकरणसिद्धान्तः ।
अथ वा यस्य सकर्तृकत्वादेः सिद्धावन्तर्भूता अन्ये ऽभिप्रायप्रकान्ताः सर्वज्ञत्वादयो ऽपि विशेषाः सिध्यन्ति सो ऽधिकरणसिद्धान्त इति ।
तदत्र पक्षद्वये ऽपि फलतो न कश्चिद् विशेष इति मन्वानः श्लिष्टं भाष्यं व्याचष्टे, साध्यस्य वा हेतार्वेति ।
प्रथमपक्षे साध्यविशेषस्य हेतुविशेषस्य वेत्यर्थः ।
द्वितीये तु सुगमम् ।
यत्सिद्धावित्यत्र निमित्तविषयभावप्रतिभासनाद् व्याख्यातृविप्रतिपत्तेश्च सप्तम्यर्थे सन्देहः, तमपाकरोति—विषयसप्तमीति ।
उपपत्तिमाह—द्वयोरिति ।
इदानीमेकं व्याख्यानमुपादाय स्फुटभाष्यानुसारेण तावदाह—तेनेति ।
ननु च पक्षो वा हेतुर्वा कण्ठत एव नियततन्त्राभ्युपगमात् प्रतितन्त्रसिद्धान्तान्न भिद्यत इत्यत आह—अनेन रूपेणेति ।
यद्यपि स्वरूपतो ऽस्य वाचनिक एवाभ्युपगमः, तथाप्यनेने रूपेणभिप्रायिक एवेत्यतस्ततो भिद्यत इत्यर्थः ।
उदाहरति—पक्षस्तावदिति ।
ननु प्रतीतमेव कर्तृमत्त्वं क्षित्यादेरपर्यवस्यत् सर्वज्ञत्वादिविशेषमाक्षिपति ।
ततो न व्याख्यातविषयसप्तम्युदाहणमिदमित्यत आह—अत्रेति ।
नन्वेतदन्तर्भावमन्तरेण किमुपलब्धिमत्पूर्वकत्वमेव प्रत्येतुं न शक्यत इत्यत आह—नान्यथेति ।
न हि यथा तार्णपार्णत्वादिसन्देहे ऽपि वह्निनिश्चयसम्भवः, तथा परमाण्वाद्यदृष्टान्ताभिज्ञानाभिज्ञत्वसन्देहे तत्प्रयोक्तृत्वविनिश्चयसम्भवः, ज्ञानचिकीर्षैकविषयप्रयत्नवत्त्वमेव हि प्रयोक्तृत्वं कर्तृत्वमिति वोच्यते ।
तच्च ज्ञानं द्व्यणुकाद्यदृष्टपर्यन्तपक्षीकरणे यदि सर्वविषयं न सिध्येत्, न सिध्येदेवेति ।
तस्माद् यथा गङ्गायां घोष इत्यत्र तीरलक्षणामन्तरेण गङ्गापदार्थो न घोषपदार्थमन्वेति यथा सकर्तृकपदार्थो ऽपि
तत्कारणपरमाण्वाद्यभिज्ञमनुपस्थाप्य न क्षित्यादिपदार्थमन्वेतीति प्रतीत्यपर्यवसानमेवेत्यर्थः ।
न चैवं केवलव्यतिरेकिविध्वंसः, अभिप्रायाव्याप्तस्य तद्विषयत्वादित्युक्तम्, वक्ष्यते चेति ।
तदेवं प्रथमं व्याख्यानं भाष्यानुसारेण समर्थ्य द्वितीये वार्त्तिकं स्फुटमित्याह—तदेतदिति ।
सर्वावरोधार्य साध्यानुषङ्गिहेत्वनुषङ्ग्यवरोधार्थम् ।
एतदेव स्फुटयति—हेतुरीदृश इति ॥३० ॥
॥ परिशुद्धिः ॥
वार्त्तिककारीयाभ्युपगमसिद्धान्तोदाहरणे सामान्यलक्षणं योजयति—प्रमाणाधिकरणो यत इति ।
ननु भाष्यमत एव सूत्रं स्फुटार्थमित्यत आह—सूत्रं चैवमिति ।
इन्द्रियत्वेनासूत्रितस्यापि मनस इन्द्रियत्वं परीक्षितं सूत्रकमृता ॥
ज्ञातुर्ज्ञानसाधनोपपत्तेः सञ्ज्ञाभेदामात्रम् ॥
इति ॥
अत्र हि यथा रूपादिज्ञानविशेषसाधनानि चक्षुरादीन्युपपद्यन्ते, तथा सुखादिज्ञानसाधनं मनो ऽप्युपपद्यते ।
मनःपरिहारे वा सर्वेन्द्रियविलोपः प्रसज्यत इत्यभिहिते पुनः सूत्रकारेण रूपादिज्ञानं चक्षुरादिसाधनमसतु निःसाधनमेव तु सुखादिज्ञानमित्याशङ्क्य सूत्रितम्—
नियमश्च निरनुमानः
इति ।
तदिदमसूत्रितस्य विशेषस्य परीक्षणमभ्युपगमादेवोपपद्यते ।
यदि ह्यनभिमत एवायमर्थो ऽस्य, कथं परीक्ष्यं व्यवस्थापयेदित्यर्थः ।
इदं च स्वाभिमतोन्नयनप्रकाराविष्करणं सूत्रकृतः शिष्यहिततयेत्यतो लक्षणार्थमाह—सो ऽयमिति उक्तार्थानुषङ्गिणः अर्थस्याभ्युपगमो ऽभ्युपगमसिद्धान्त इत्यर्थः ।
ननु भाष्यकाराभिमतस्याभ्युपगमसिद्धान्तस्य तल्लक्षणयोगे किमयुक्तत्वेन?अयोगे च तदेवोच्यताम् ।
तथापि किमयुक्तत्वेनेत्यत आह—प्रमाणतन्त्रेति ।
तमिमं विभागलक्षणप्रपञ्चं सर्व एवायं पक्ष इति पूर्वपक्षवार्त्तिकविवरणव्याजेन सङ्कलय्याह—सर्वतन्त्रेत्यादि ॥३१ ॥
॥ इति न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥
॥ न्यायलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं च यत्र न्यायलक्षणं करणमुपनेयम्, तत्प्रकरणं समर्थ्य, उपनेयन्यायप्रकरणम् आरभ्यत इति स्फुटार्थं भाष्यम्—अथावयवा इति ।
अतः सिद्धवत् सूत्रं प्रत्याहरति—प्रति—वाः ॥३२ ॥
एकावाक्यता विशिष्टैकार्थधरूपकार्यसम्बन्धः ।
विशिष्टश्चार्थो ऽत्र प्रकृतत्वात् समस्तरूपोपपन्नं लिङ्गम् ।
संशयः कथासु विप्रतिपत्तिज एव ।
स चानुविधयस्थेयगतो, यथायोगं विचार्यवस्तुगोचरस्तज्ज्ञानगोचरश्चेति विचारमात्रे तु सार्वहेतुकः, स्वपरनिष्ठश्च ।
प्रयोजनं कथासु प्रतीतिजयौ ।
अन्यत्र प्रकृतोपयोगिनो ऽज्ञातस्य ज्ञानं ज्ञापनं च ।
जिज्ञासा कथासु अनुविधेयस्थेयानाम् ।
अन्यत्र स्वगता शक्यप्राप्तिः सर्वत्र पदपदार्थवाक्यप्रमाणतदाभासपाटवम् ।
संशयव्युदासं तु सम्यगित्यभिधायैकपक्षपरिग्रहं केचित् मन्यन्ते ।
स चादौ विप्रतिपत्त्या पश्चात् प्रतिज्ञया गतार्थ इति मत्वा तर्काभिप्रायेण व्याचष्टे—यदि शब्दो नित्यः स्यादिति ।
व्युदस्यते हि तेन संशयः फलतः स्वरूपतश्च ।
तदाह—प्रमाणाभ्यनुज्ञानद्वारेणेति ।
संशयो हि द्वे कोटी परिस्पृश्य वर्तमानां जिज्ञासामपि तथाभूतामेव जनयति ।
न्यायस्तु श्रोत्रियवद्विरुद्धधर्मसङ्करमनिच्छन् कुलबधूमिव एककोटिनियतामेव जिज्ञासामनुरुध्यते ।
तदेवं तावन्तरा वर्तमानस्तर्क एकस्यां कोटौ प्रमाणबाधितं कञ्चिदर्थमाहरन् तद्गतामिच्छां विच्छिद्य द्वितीयकोटौ नियमयति ।
सेयं ज्ञेयेच्छा नियतैककोटिका प्रमाणाभ्यनुज्ञेत्युच्यते ।
एनां च जनयता तर्केण संशयफलं प्रबलेच्छा तदैव व्युदस्यते ।
तद्द्वारेण प्रमाणं प्रवर्तयता संशयस्वरूपमपीति ।
तदेतन्न्यायप्रवृत्तेरुत्पत्यङ्गपञ्चकमुत्पत्तिमात्रेण, न तु ज्ञाप्तिमपेक्षते ।
अतो नैतस्य ज्ञापकचिन्ता क्रियते ।
उत्पत्तिचिन्तैवोपयोगित्वात् तत्र तत्र कृता, करिष्यते च ।
प्रतिज्ञाद्यर्थास्तु ज्ञाता एव न्यायमुपकुर्वन्तस्तत्फलसिद्धावुपयुज्यन्ते ।
अस्तेषां ज्ञापकचिन्ता क्रियत इति ॥३२ ॥
॥ परिशुद्धि ॥
परिगृह्यते ऽनेनेति स्वीक्रियत इत्यर्थः ।
तेन साध्यतया स्वीक्रियमानस्यार्थस्य वचनं प्रतिज्ञेति सूत्रार्थः ॥
अपोह्य भेदः सिद्धान्तो जिज्ञासा साधनार्हता ।
कर्मधर्मश्च लोकश्च प्रस्तावश्च नियामकाः ॥
इति अतिप्रसङ्गासमाधिवार्तिकस्य प्रपञ्चसङ्क्षेपः ।
न हि व्यङ्ग्यमित्यादि ।
यथा च नेयं भ्रान्तिः तथा द्वितीये निवेदयिष्यते ।
तदालोकेति, चन्द्रशब्दो ऽयं शशिवाचकः प्रयोज्यवृद्धं प्रति असति वृत्त्यन्तरे तत्प्रत्ययजनकत्वात् ।
तत्प्रत्ययजनकश्चायं स्वप्रत्ययेन तद्गोचरव्यवहारहेतुत्वादिति ।
हेतुदोषो ऽसिद्धत्वादिरेवेति ।
असिद्धत्वाद्यर्थत्वमित्यर्थः ।
एवमुत्तरत्र यस्तु नैवंविधो न वाच्यो न लक्ष्य इत्यर्थः ।
ननु तथापि वाच्यवल्लक्षयो ऽपि
पक्ष एवेति दर्शयितुमिष्टग्रहणं भविष्यतीत्यत आह—न च क्वचिदपीति ।
भवेदेवं यदि विधाद्वयं स्यात्, न त्वेतदस्तीत्यर्थः ।
एतच्चान्विताभिधाननिराकरणेन द्रष्टव्यम् ।
न त्वशक्यत्वासदाचारत्वे अवधीर्य शास्त्रानपेक्षमभ्युपगच्छन्तो दृश्यन्ते ।
न च सामान्यलक्षणायोगः ॥
तन्त्राधिकरणाभ्युपगमसंस्थितिः
इत्यस्य कथाधिकरणाभ्युपगमसंस्थितिरित्येवमप्यविरोधात् ।
तस्माद् यथाभाष्यमेव ज्याय इत्यत आह—यस्तावदिति ।
एतेन वार्त्तिककारीयो ऽभ्युपगमसिद्धान्तस्तावदुचित इति दर्शयता छलतः पञ्चमसिद्धान्तापत्तिर्दशिता ।
न ह्ययमेतेष्वन्तर्भवतीति सतीर्थ्यानाम् ।
परान् प्रति तु दोषमाह—यस्त्विति ।
यदि हि प्रमाणीकृतशास्त्रविरुद्धो ऽप्यर्थो ऽभ्युपगम्यमानः सिद्धान्ततामुपयायात्, न वादिनो कदाचिदप्यपसिद्धान्तेन निग्रहो भवेत् ।
यत्र यत्र प्रमादिके ऽप्यर्थे शास्त्रविरोधश्चोद्येत तत्र तत्राभ्युपगमसिद्धान्तो ऽयं ममेत्येवमपि निस्तारात् परावृत्त्य च तेनैव निरनुयोज्यानुयोगेन निग्रहे कथासमाप्तौ तद्व्युत्पादनप्रयासस्याप्यभावात् ।
न चैवमस्त्विति वाच्यम् ।
शास्त्रप्रामाण्याभ्युपगमतद्विरुद्धार्थाभ्युपगमयोर्विरोधस्य दुर्वारत्वात् ।
शास्त्रप्रामाण्याभ्युपगमे तदसमानार्थस्य स्ववचनस्य
प्रामाण्याभ्युपगमविरोधात् ।
तदनुगुणस्य प्रामाण्याभ्युपगमे तद्व्याहताभिधायिनः पुनरपसिद्धान्तापातात् ।
तस्मात् न हि शास्त्राश्रया वादा भवन्तीति स्वप्नविलापः इत्यर्थः ॥३३ ॥
॥ परिशुद्धिः ॥
इह प्रतिज्ञार्थः सर्वथैव कथासु नोपयुज्यते, अर्थोपलब्ध्या युक्तो ऽप्यन्यथैव लब्धः? आद्ये विप्रतिपत्तिमपि न विभावयेत् ।
अविभावयंश्च तां कथमिव प्रतिवदेत्? अप्रतिवदतश्च वचनं कथं कथाशरीरतामियात्? तथा च कथकः कथं निगृह्येत, निगृह्नीयाद् वेति न सम्प्रतीतिर्नच विजयो गर्दभीक्षीरमथनवदनर्थकः प्रयासः ।
नापि द्वितीयः, स हि विवादाद् वा अवयवान्तराद् वा? विवादादपि व्यवहिताद् वा, अवयवान्तरैकवाक्यतापन्नाद् वा? अवयवान्तरादपि साक्षाद् वा, आक्षेपतो वेति? न तावदाद्यः, आसत्तेः अभावादेकवाक्यत्वानापत्तेः ।
आपत्तौ वा आन्तरालिकासाधनाङ्गवचनेन निगृह्येत ।
अनिग्रहे वा परः पर्यनुयोज्योपेक्षणमासादयेत् ।
द्वितीये त्वविवाद एव ।
वयमपि हि पराभ्युपेतपक्षविपरीतां कोटिमुपनीय तत्सिद्धये ऽवयवान्तरमभिदध्यादिति ब्रूमः ।
न ह्येवम्भूतकोट्युपदर्शनव्यतिरेकेण प्रतिज्ञायाः शृङ्गमस्ति ।
नापि तृतीयः, न हि हेत्वादिभिः चतुर्भिः प्रतिज्ञार्थो ऽभिधीयत इति वक्ष्यामः ।
नापि चतुर्थः, स ह्यपेक्षाकाले वा, अन्यदा वेति ।
तत्र प्रथममुररीकत्याह—तथाहीति ।
यद् बुभुत्सन्ते यदेति शेषः ।
प्रतिपन्नविवादविषया हि तन्निर्णयहेलुं
साधनमनुबुभुत्सामहे ।
न तु तन्निर्णयहेतुभूतसाधनावबोधवनतो विवादविषयं निर्णयस्य निर्णेयरूपमन्तरेण निरूपयितुमशक्यत्वात् ।
तदनिरूपणे तत्साधनस्यापि तथात्वेनाशक्यनिरूपणत्वात् ।
अनिरूपितस्य चैषितुमशक्यत्वात् ।
तथा च तस्यैव प्रथमाभिधाने प्राप्ते ऽन्यस्याभिधानानवकाशात् आक्षेपस्यापि कुतो ऽवकाश इति? नन्वपेक्षितानभिधाने ऽप्यपेक्षितं कुर्वाणः कथमववधेयवचनो नामेत्यत आह—यथा चेति ।
यत्रापेक्षितमन्यथापि शक्यसम्पादनम्, तत्रापि तदनभिधाने विपरीतबुद्धिः किमङ्गः यत्र वचनेनैवापेक्षितसिद्धिरित्यर्थः अन्यदेति पक्षमुपस्थापयति ।
यत् कृतकमित्यादि ।
दूषयन्ति—न परस्पराश्रयप्रसङ्गादिति ।
यो हि येन यत् साधयितुम् उद्यतः स तत्सामग्रीमप्रतिकूलयन्नेव तथा कर्तुमर्हति ।
यथाकालमपेक्षितामिधानं च वाक्यसामग्री, तदनादरे तूदाहरणीयोदाहरणक्रमनियममपि नाद्रियेत, प्रतिपाद्यापेक्षानियमानुरोधेन तत्र तथेति चेत्? तदिहापि समानम् ।
तथा च तत्कालातिक्रमेणाक्षेपो ऽपि नोपयोगी, शिरोमुण्डनान्तरं नक्षत्रपरीक्षावत् ।
उपयोगो वा परस्पराश्रयप्रसङ्गः अयक्षाराधनसाध्यधनेन यक्षाराधनवदित्यर्थः ।
कथ तर्हि,
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् ।
इत्यादौ प्रतिज्ञामनभिधायैव उदाहरणाद्युपादानमित्यत आह—न चेति ।
तथापि हेत्वभिधानेन किं तत्स्वरूपस्योपनयेनैव साक्षादभिधानादित्यत आह—अनित्यः शब्द इति त्वपेक्षित उक्त इति ।
तत्राप्याकाङ्क्षैव विजयते ।
न ह्यनित्यः शब्द इत्युक्ते कृतकत्वानित्यत्वव्याप्तौ वा कृतकत्वस्य वा शब्दधर्मिसम्बन्धे श्रोतुराकाङ्क्षा किं नाम कुत एतत्प्रतिपत्तव्यमिति स्यात् ।
इयं चापेक्षासाधनत्वाभिव्यञ्जकविभक्त्यन्तेभ्यः कृतकत्वादित्यादिपदेभ्य एव निवर्तत इत्यर्थः ।
अत एव गमकत्वादेतस्य मार्गस्य सर्वशास्त्रकारा एवमेवोपाददते ।
सौगतो ऽपि हि
मानु तु द्विविधं मेयद्वैविध्यात् ॥
असन्तो ऽक्षणिकाः तस्यां क्रमाक्रमविरोधतः ॥
इति प्रत्यक्षरं प्रतिज्ञाहेतू उपादाय व्यवहरति ।
कथायां तु परवञ्चनार्थं तावुपेक्षते ।
शास्त्रं तद्विति चेत् ।
अथ शास्त्रे किमनर्थकमभिधीयते? तत्रास्ति वा प्रतिज्ञादेः किञ्चित् प्रयोजनमिति? आद्ये, साधु परव्युत्पादकत्वमस्य निरर्थकं प्रलपतः ।
द्वितीये तु शब्दोच्चारणस्य नार्थगतेरप्यधिकं प्रयोजनं नाम, प्रथमोपक्रमे विवरणशङ्काया अप्यभावादिति ॥
ननु सामान्यलक्षणमन्तरेण न विशेषलक्षणावसर इत्यत आह—श्रुत्यर्थाभ्यामिति ।
साध्यते निश्चीयते ऽनेनेति ।
नत्वेवं सति लिङ्गमुक्तं स्यात् ।
तथा च कथं वाक्यावयव इत्यत आह—यद्यपीति ।
नन्वलमुपलक्षणेन यावता वचनमेव साधनमस्तु, साध्यते प्रतिपाद्यते तेनापि हि स्वार्थ इत्यत आह—यदि त्विति ।
एवं हि साध्यसाधनं साध्यप्रतिपादकं वचनमित्यर्थः ।
तथा च प्रतिज्ञैव हेतुः स्यात् ।
अथ साध्यपदं विहाय साधनं प्रतिपादकं वचनमित्यर्थः, तत्राह—अथेति ।
तदेतदर्थान्तराविवक्षायां दूषणमुक्तम् ।
यदि त्वेवं क्रियेय लिङ्गप्रतिपादनद्वारेण साध्यसाधनं निश्चायकं वचनमिति ।
तदा अश्रुताध्याहारः ।
उदाहरणसाधर्म्यादितिसहितस्य त्वव्याप्तिरलाभो वा सामान्यलक्षणस्येति द्रष्टव्यम् ।
एवं च व्याख्याने
वचनपदमसूत्रस्थमेव टीकाकृता स्वयमुपनीयविरोधातिव्याप्ती कुतः शङ्किते इति शङ्का निवर्तते ।
ननु तथाप्युपनये प्रसङ्ग इत्यत आह—उपनयादपीति ।
साध्यसाधनवचनमित्यत्र हि साधनत्वविशिष्टार्थवचनम् इत्यर्थो गम्यते ।
न चोपनयः ।
कोष्ठगत्या तथाभूतार्थगोचरो ऽपि तथाभूतमभिधत्ते, साधनत्वाभिव्यञ्जकविभक्तिविशेषशून्यत्वात् ।
अत एव कुत इत्याकाङ्क्षा ।
तथाचायं कृतक इत्यस्मान्न निवर्तते, अपि तु कृतकत्वादित्यस्मादेव ।
तर्हि किम्भूतमुपनयात् प्रतीयत इत्यत आह—किं त्विति ।
स्वनिष्ठं साधनत्वादिधर्मरहितम् ।
कुतः? प्रातिपदिकार्थप्रधानतया ।
तत्परतया तावन्मात्राभिधायकविभक्तिमतः प्रयुक्तत्वादिति शेषः ।
एतदुक्तं भवति, न हि हेतुवदुपनयो ऽपि कुत इत्याकाङ्क्षाया प्रवर्तते, अपि तूदाहरणेन व्याप्तौ प्रदर्शितायाम् ।
भवतु तावदेतत्, तथापि प्रकृतो विवादविषयः किं व्याप्तधर्मविशिष्टो न वेत्यपेक्षायां सा च तथा चायं कृतक इत्यनेनैव परं निवर्त्यते, न तु कृतकत्वादित्यनेन ।
तस्मान्न हेतूपनययोरर्थतो रूपतः प्रयोजनतो वा सङ्कर इत्यर्थः ॥
ननु च वचनलक्षणायां यद्यपि ज्ञानेर्ऽथे वा न प्रसङ्गः, तथापि साध्यसाधनमिति कृतकत्वमत्र हेतुरित्यादौ वचन एव प्रसङ्गः ।
एतस्यापि तथाभूतार्थप्रतिपादकत्वादित्यत आह—न्यायवाक्येति ।
अनेनाकाङ्क्षौपयिकता
दर्शिता ।
न च कुत इत्याकाङ्क्षायां साध्यसाधनमिति वा कृतकत्वं हेतुरिति वा वचनमौपयिकम् ।
अतो नैवम्भूतेषु प्रसङ्ग इत्यर्थः ।
तेन विशेषपरत्वेन हेतुरिति लक्ष्यनिर्देशो नानुपपन्न इति शेषः ।
विशिष्टविधानस्येति ।
न क्वचित् प्रदेशो साधर्म्यं हेतुलक्षणत्वेन विहितम्, येनेह सविशेषणतया विशेषणमात्रोपसङ्क्रान्तो विधिः स्यात् ।
नाप्यत्र विशेषणशून्यस्यैव साधर्म्यस्योपादानम् येन तावन्मात्रगोचरो विधिर्भवेत्, परस्परस्वतन्त्रोभयर्थत्वे वाक्यभेदाच्च ।
तस्मात् अनन्यगतिकतया लोहितोष्णीषवद् विशिष्टविधिरेवायम् ।
तथा च अलोहितोष्णीषवदनुदाहरणसाधर्म्यस्यार्थसिद्धः प्रतिषेध इत्यर्थः ।
पक्षान्तरमाहेति ।
अभ्युपगमस्याप्यविशिष्टसाधर्म्यमात्रविधोने ऽपि न दोष इति भावः ॥
ननु यद्यविशिष्टविधानेनैव प्रकृतसिद्धिः, किमुदाहरणग्रहणेन? न चेत् किमविशिष्टविधानेनेत्यत आह—साधर्म्यादित्यत इति ।
परिसङ्ख्या अतिप्रसक्तिनिवर्तनमपाकरिष्यति ।
तदुदाहरणप्रदर्शनेन परिसङ्ख्यायकं हेत्वाभासलक्षणम् ।
परिसङ्ख्या परिवर्जनबुद्धिः ।
विशेषतो ज्ञातानां तेषा स्ववाक्ये परिवर्जनादिमुखेन भवत्वित्येतदर्थमर्थलब्धमपि कण्ठोक्त्याभिधीयते ।
तल्लक्षणमित्यर्थः ।
न विधायकं न सर्वथैवालब्धविधायकमित्यर्थः ।
सुगमो दिग्नागभङ्गः ।
हेतावुदाहर्तव्ये प्रतिज्ञोक्तिः किमर्थमित्यत आह—अत्रेति ।
उदाहृते हेतौ लक्षणं योजयितुं हेत्वर्थे च विवेचयितव्ये प्रसङ्गात् प्रतिज्ञार्थं विवेचयितुमिति भावः ।
तथापि प्रध्वंसस्य नानात्वात् जात्यादेरुपसङ्ग्राहकस्य वा भावात् कथं व्याप्त्यादिसिद्धिः? उपलक्ष्याभेदमात्रेण च तत्सिद्धौ कुण्डलवता देवदत्तेन साध्यो व्यवहारो दण्डवतापि साध्येतेत्यत आह—विरोधीति ।
यथा ह्यभावमात्रस्य भावप्रतियोगितयैवौपाधिकसामान्यसम्बन्धादेकव्यवहारहेतुत्वं तथा तद्विशेषस्यापि पूर्वापरेतरेराश्रयान्तरभावप्रतियोगितया तत्तद्व्यवहाराविरोध इत्यर्थः ।
न चैवं लब्धोत्पत्तिनीति ।
सर्वत्र हि धात्वर्थोपरक्ता भावना आख्यातार्थः ।
भावना च कारकव्यापारः ।
उत्पद्यते घट इत्यत्र तु घटो न कारकमसत्त्वात् ।
ततश्च अकारकस्यैव कारकैरत्यन्तसन्निधेस्तथोपचारो वा कारकाणामेव कार्यशब्दोपचारो वा ।
उभयथापि व्यापारावेशसमय एवाख्यातप्रयोगो न तु धात्वर्थमात्रावेशसमये ।
न हि पक्वे धात्वर्थमात्रमुपादाय पच्यत इति प्रयुज्यते लोकैः ।
तत् कस्य हेतोः? व्यापारावेशाभावात् ।
तथेहापीति ॥३४ ॥
॥ परिशुद्धिः ॥
ननु न सपक्षताभावो ऽत्र सूत्रे श्रूयते, नाप्यार्थो ऽवधारणस्य च व्याप्त्या ।
पक्षे सत्त्वेनोपपत्तेरैकान्तिकं सपक्षे सत्त्वं मा प्रसाङ्क्षीत् ।
पाक्षिकं तु प्रसक्तमेव ।
तथा च केवलव्यतिरेकिलाभे ऽपि नान्वयव्यतिरेकी निराकृतः ।
एवं सपक्षाभावे ऽपि पक्षव्यापकस्य विपक्षैकदेशवृत्तेस्तदवस्थैव प्रसक्तिरित्याह—तथापीति ।
उदाहरणेनैवेत्यवधारणस्य पक्षव्याप्तिपरस्य सपक्षाभावप्रदर्शनौदासीन्यमाविष्कर्तुमनित्यो मूर्तत्वादित्युदाहृतम् ।
वस्तुतस्तु, नेदं निरात्मकं जीवच्छीरीरं मांसादिमयत्वात् इत्यसङ्कीर्णमुदाहरणं द्रष्टव्यम् ।
एतद्द्वयमपि निराकर्त वैधर्म्यमेव चोदाहरणेनेति पूर्वावधारणेन पक्षव्याप्तौ लब्धायां वैधर्म्यमेवेत्यनेन साधर्म्यरूपता निराकृतावयमर्थः स्यात् ।
पक्षस्य व्यापको धर्मस्तदितरवैधर्म्यरूप एवेति तथा चेभयोरपि कः प्रसङ्गः? केवलमसाधारणः प्रसज्यते ।
स च विपक्षोदाहरणेनेति विशेषयता सपक्षाभावप्रदर्शनेन निरस्तः ।
यदि हि सति सपक्षे अन्वयो विवक्षितः तदा तथा वैधर्म्यादित्यनारभ्यमेव, पूर्वलक्षणेनैव गतार्थत्वात् ।
व्यतिरेकश्चेद् विवक्षितो विपक्षेणेति व्यर्थम् ।
तस्माद् वैधर्म्यावधितया उपात्तं विपक्षपदं सपक्षाभावप्रतिपत्तिफलमेवेत्यर्थः ॥
ननु तथापि वैधर्म्यादित्यत्र तथाशब्दार्थ उदाहरणेनेति ।
उदाहरणं च सपक्षो ऽपि भवतीति कथं विशेषलाभ इत्याशङ्क्य व्याचष्टे—विपक्षेति ।
व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भाव इति तत्र तत्रोक्तमित्यर्थः ।
नन्ववधारितकार्यस्वभावोर्ऽथः केवलव्यतिरेकिसाध्यो ऽन्यथातिप्रसङ्गादिति वक्ष्यति, तथाभूतश्चात्र प्राणाद्यपेक्षया प्रयत्नः ।
तस्मिश्च साध्ये सिद्वासाधनं व्यतिरेक्यसम्भवश्च स्वशरीरे प्राणस्य प्रयत्नपूर्वकत्वावधारणेन स्वपक्षान्वयस्यापि सम्भवादित्यत आह—प्राणादिनेति ।
तथाप्यस्मदायत्ते शब्दप्रयोगे किश्चित्यवाचकं प्रयोक्ष्यामह इत्यत आह—प्राणादिकारणेच्छादिकारणरहितमिति ।
परशरीरे पक्षप्रविष्टे हेतुसिद्ध्यर्थं विपक्षीभूते च घटादौ साध्यरहिते हेतुव्यतिरेकसिद्ध्यर्थं तथोक्तमित्यर्थः ।
नन्विच्छादिसमवायिकारणविरहनिषेधेन तद्वत्वं सिध्येत् ।
तथा च पुनरपि नात्मसिद्धिः ।
न च केवलव्यतिरेकी तावन्मात्रस्यान्वयेनैव सिद्धेरित्यत आह—यश्चेति ।
अन्वयिना हि तत्कारणमात्रं सिद्धम्, अनेन तु तदेव पृथिव्यादिविलक्षणं सिध्यतीति न निरवकाशो व्यतिरेकी ।
न च नात्मसिद्धिः तथाभूतस्य तस्यैवात्मशब्दवाच्यत्वादित्यर्थः ।
गृहीताविनाभावो हीत्यादीना व्याप्त्यसिद्धिर्दर्शिता ।
पक्षधर्मतासिद्धिरप्यनयैव दिशोहनीया ।
जिज्ञासितधर्मविशिष्टस्य पक्षत्वात्, सन्दिग्धस्य च जिज्ञास्यत्वात् विशेषस्मरणे च संशयात्, अनुपलब्धचरे च तदभावादिति ॥
द्विधा हि प्रकृतव्यतिरेकिगतिः, कार्यं कार्यवत्ता च ।
तत्र कार्यमनुमानलक्षणे दर्शितम् ।
तद् यथा, इच्छादयो द्रव्याष्टकातिरिक्तद्रव्याश्रिताः, तदनाश्रितत्वे सति कार्यत्वादिति ।
इह तु कार्यवत्ता दर्शिता नेदं निरात्मकं जीवच्छरीरं नेच्छादिसमवायिकारणीभूतद्रव्यविशेषरहितमित्यर्थः ।
इच्छादिमत्त्वात् इच्छदिरूपकार्यवत्त्वादित्यर्थः ।
तदेतदुभयमत्रैवान्तर्भाव्य व्युत्पादयन् प्रथमतस्तावत् कार्यं प्रधानीकृत्याह—अयमर्थैति ।
इच्छादिकार्याः सन्तस्तान् गमयन्ति ।
ते ऽप्यनित्यतया कार्या इति शेषः ।
किं चात इत्याह—अक्षणिकत्व इति ।
हेतोर्विशेषणासिद्धिं निराकरोति—शरीरेन्द्रियेति ।
न शरीरेन्द्रियमनःस्वन्यतमस्मिन्नेते समवयन्ति, मानसैकप्रत्यक्षत्वादिति निषेधे सतीत्यर्थः ।
निश्चोद्यश्चैष केवलव्यातिरेकी ।
एवं प्रथममुपपाद्य तदीयाप्रसिद्धविशषणत्वसंशयानुपपत्ती साधारणन्यायेन निराकुर्वन्नेव द्वितीयमुपपादयति—तदस्येति ।
एतच्च तत्रैव स्फुटीकृतम् ।
ननु यदि नाम सामान्यत इच्छादिसमवायिकारणमात्रव्यावृत्तिर्घटादौ प्रतिपन्ना किमायातं नैरात्म्यस्येत्यत आह—निरात्मकशब्देनापीति ॥
एवमर्थगति परिशोध्य वार्त्तिकं योजयित्वा द्वतीयं प्रधानीकृत्याह—एतदुक्तं भवतीति ।
शङ्कते—न
चेतिर् ।
इश्वरानुमान इव पक्षधर्मतावलेनैव विवक्षितो विशेषः सेत्स्यतीत्यर्थः ।
नन्वन्वयिना विशेषं साधयता केवलव्यतिरेकिणः किं खण्डितम्, येनायं तस्मिन् सम्भवत्येवोदास्ते, खण्डने वा, अथ तेनैव विपर्ययस्यापि वक्तुं सुकरत्वादित्यत आह—ऋजुमार्गेणेति ।
व्याप्तिर्हि सिद्धिमार्गः ।
तस्यापरिवर्त एव ऋजुत्वम्, परिवर्तस्तं वक्रतेत्यर्थः परिहरति—कारणमात्रस्येति ।
उक्तमत्र यथास्मिन्नर्थे पक्षधर्मता न प्रभवति ।
आभिप्रायिकोह्यर्थस्तद्गोचरः ।
स चाभिप्रायेण व्याप्यते, यत्सिद्धिमन्यरेण शब्दार्थः प्रत्येतुं न शक्यते ।
न च द्रव्याष्टकातिरिक्तमप्रतीत्य तेषां समवायिकारणमेव प्रत्येतुं न शक्यते ।
न हीच्छादीन् प्रति पृथिव्याः समवायिकारणत्वे तेषां तद्वत्ता अभिधीयमाना विरुध्यते ।
यथा द्व्यणुकादिकारणज्ञाने तेषां परिदृष्टसामर्थ्यकारकप्रयोक्तृलक्षणकर्तृपूर्वकत्वं शब्दोपात्तमित्यर्थः ॥
पुनः शङ्कते—परिशेषादिति ।
आश्रितत्वं तावदेतेषामन्वयिन एव सिद्धम् ।
द्रव्याष्टकाश्रितत्वनिषेधो ऽप्यन्वयिन एव सिध्यति ।
तत्किमपरमवशिष्यते यत्केवलव्यतिरेकिणा सेत्स्यतीत्यर्थः ।
उत्तरम्—स एवेति ।
अयमर्थः ।
पूर्वस्माद् आश्रितत्वं सिद्धं तदन्यस्मादपि द्रव्याष्टकानाश्रितत्वम् ।
तदतिरिक्तार्थाश्रितत्वसिद्धिस्तु नैकस्मादपि ।
तदभावे चानयोरपि वरोध एव ।
तस्मादर्थाद् अष्टातिरिक्ताश्रितत्वसिद्धिः स चार्थस्तावन्नान्वयः ।
न हि द्रव्याष्टकानाश्रितत्वे सति यदाश्रितम्, तदतिरिक्तद्रव्याश्रितमित्यस्त्यन्वयः ।
वक्रोक्तिकश्चान्वयी, केवलव्यतिरेकिप्रपञ्च ए विवक्षाभेदात् ।
तस्मात् व्यतिरेक एवार्थः, तद्वान् परिशेषो व्यतिरेकीति सुष्ठूक्तम् ॥
इदानीं विशेषणसिद्धये प्रमाणं सूचयति—यदि हीति ।
विपर्ययेण प्रयोगः ।
शरीरेन्द्रियाणि नेच्छादिसमवायिकारणानि भूतत्वाद् घटादिवदिति ।
ननु यत्र द्रव्याष्टकातिरिक्तद्रव्याश्रिता इति प्रतिज्ञा, तत्र युक्तमेतत् ।
यत्र तु नेदं निरात्मकमिति तत्र निरात्मकशब्देनापि अयमेवार्थ उच्यत इति वदता इच्छादिसमवायिकारणविरहनिषेध एव प्रतिज्ञार्थः स्वीकृतः ।
तथा च कथमष्टद्रव्यातिरिक्तेच्छादिसमवायिकारणवत्ता शरीरस्य इत्याशङ्कामुपसंहरन्नेव परिहरति—तस्मादिति ।
अत्रापि पृथिव्यादिविलक्षणेच्छादिसमवायिकारणवत् जीवच्छरीरमिति प्रतिज्ञार्थः ।
तत्समवेतेच्छादिकार्यवत्त्वादिति हेत्वर्थः ।
ननु
तथापि—बौद्धं प्रति सिद्धसाधनं भवत्येव, सो ऽपि पृथिव्याद्यतिरिक्तमेवेच्छादीनाम् उपादानमिच्छतीत्यत आह—न चैषामिति ।
स्थैर्ये सतीति शेषः ॥
ननु तथापि घटादिभ्यो निरात्मकेभ्य इच्छादिव्यतिरेकः किं तथाभूतद्रव्यव्यावृत्तिकृतः? किं वा भूतानामेव परिणतिभेदव्यावृत्तिकृत इति सन्दिग्धोपाधिकत्वादगमक एवेत्यत आह—यथा चेति ।
व्यतिरेकमुखेणापीति ।
यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति, तदा विरुद्ध एवायमित्यर्थः ।
न स्वाभाविकमिति ।
न वयमस्योपेयमन्वयं व्यासेधामो ऽपि तूपायमित्यर्थः ।
तथापि नास्यान्वयिनो भेद उपेयभूतेनाप्यन्वयेनान्वयित्वादित्यत आह—एतावतैवेति ।
ननु वस्तुतः साध्यधर्मवानेव धर्मी सपक्षः ।
स च तथाज्ञातो व्यवह्रियते परम् ।
ततश्च तदन्वितो ऽपि हेतुरन्वयव्यतिरेक्येव ।
अज्ञैस्तु तथा न व्यवह्रियत इत्यन्यदेतदिति शङ्कते—न च पक्ष एवेति ।
व्यवहारेतुरन्वयश्चिन्त्यते, न तु व्यवहार्य इत्याशयवान् परिहरति—जिज्ञासितेति ॥
ननु यद्यस्य सपक्षव्यतिरेकाप्रतिषेधः, कथं नासाधारण्यम्? तत्प्रतिषेधश्चेत् कथं नान्वयः? अथ तत्प्रतिषेधे ऽपि तावन्मात्रमवे नान्वयः, एवं तर्हि सपक्षवत् पक्षे ऽपि नैरात्म्यप्रतिषेधे ऽपि नात्मसद्भाव इति पराक्षेपं परिहृत्य तद्ग्रन्थं पठति शरीरादिष्विति ।
विपक्षे हि सति सत एव कस्यचिद् व्यतिरेकः प्रतीत इति प्रमाणेन प्रतीत इति प्रतिपादितम् ।
तस्य च प्रमाणप्रतीतस्य व्यतिरेकस्य पक्षे ऽपि सत्येव निषेधः प्रमाणेन क्रियत इति युक्ता निषेधलक्षणा विधिसिद्धिः ।
सपक्षस्तु न केनचित् प्रमाणेन प्रतीत इति न तत्रान्वयव्यतिरेकतन्निषेधाः परमार्थतः केनचित्प्रमाणेन शक्यते प्रत्येतुम् ।
तत्कथं विधिनिषेधयोरन्यतरप्रसक्तिरित्यर्थः ॥
सपक्षाव्यतिरेकी चेत् सपक्षव्यतिरेकनिषेधावनित्यर्थः ।
अन्वयी सपक्षान्वयी ।
अथैवमपि नान्वयी, अपि तु व्यतिरेक्येव ।
अथ सपक्षव्यतिरेकनिषेधस्यापि व्यतिरेकनिषेधमात्रपर्यवसायितयान्वयापर्यवसानादिति मन्यसे, तदा पक्षे ऽपि नैरात्म्यनिषेधे ऽपि तावन्मात्रपर्यवसायितया न सात्मकत्वपर्यवसानमिति वार्त्तिकार्थः ।
तदेतन्निराकृतम्
अवस्तुनि पारमार्थिकविधिनिषेधानभ्युपगमात् ।
तथापि स्ववचनविरोधप्रतिहतमेतदित्यत आह—एतच्चास्माभिरिति ।
न तस्य व्यतिरेकव्यभिचारो ऽपि तस्य व्यतिरेकधर्मतया तदभावे ऽनुपपत्तेरित्यर्थः ।
परिहरतीत्यादि ।
व्यभिचारवदव्यभिचारो ऽपि तद्धर्म एव सो ऽपि कथं तदभावे भवेदित्यर्थः ।
ततो व्यावृत्त्यभावेनेति व्यावृत्तिनिरूपणाभावेनेत्यर्थः ।
आगामिवार्त्तिक भ्रमनिरासार्थं स्फुटमपि व्याचष्टे—अत्र चेति ।
भ्रमं निवारयति—न पुनरिति ।
नन्वेतावत्येव सूत्रार्थे को दोषः स्यादित्यत आह—तथा सतीति ।
शेषमनुमानलक्षण इति सपक्षे सिद्ध इत्यादि वृत्तिपदान्तरदूषणशेषम् ॥
सौत्रान्तिकेति वैभासिकमतव्युदासार्थम् ।
तन्मते नित्यस्याप्याकाशादेरकार्यस्यापि सम्भवात् ।
यदाहुः
आकाशं द्वौ निरोधौ च त्रयमेतदसंस्कृतम्
इति ।
सदृशक्षण सभागसन्तानलक्षणनिरोधभेदेन निरोधौ द्वौ विनाशौ ययोरप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाविति परिभाषा ॥
अत्र दिग्नागेन
सपक्षे सन्नित्यादिना
हेतुतदाभासान्, तदुदाहरणार्थं
नित्यानित्येत्यादिना
साध्यवर्गं
प्रमेयेत्यादिना
साधनवर्गं
सपक्षः खं घटो बुद्धिर्वियद्गगनमम्बरम् ॥
तडिद्व्योम्नी तडित्कुम्भौ परमाणुर्वियत् तथा ॥
इति सपक्षवर्गं
कुम्भो वियत् तडिद्व्योम्नी घटः कुम्भस्तडिद्धटौ ।
कुम्भो वयद् घटो बुद्धिर्विपक्षो ऽस्य यथाक्रमम् ॥
इति विपक्षवर्गं प्रपञ्च्य
तत्रेत्यादिना
हेतुर्निर्धारितः ।
तत्र प्रपञ्चं विहाय यावन्मात्रेण हेतुर्निर्धार्यते तावदुपन्यस्यति—अत्रेति ॥३५ ॥
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥३६ ॥
॥ परिशुद्धिः ॥
प्रयोगे किं सौत्र एव क्रमो ग्राह्यः, क्रमान्तरं वेति सन्देहमुदाहरणस्य प्रयोजनं दर्शयन् निवारयति—हेताविति ।
यतो नाव्याप्तो नाप्रतीतव्याप्तिको हेतुभावे व्यवतिष्ठते साध्यसिद्धावेकाग्रीभवति, अतो व्याप्तेर्बुभूत्सितत्वात् सैव प्रतिपादयितुं युज्यत इति शेषः ।
तथाप्युदाहरणस्य को ऽवसर इत्यत आह—न चेति ॥
प्रतीतसामर्थ्यं हि साधनं साध्ये उपनयन्ति ।
न तूपनीय पश्चात् सामर्थ्यं जिज्ञासन्त इति सर्वलोकसिद्धमिति सङ्गतिसङ्क्षेपः ।
तथापि सामान्यलक्षणविभागौ विना नावसरो विशेषलक्षणस्येत्यत आह—सूत्रमितीति ।
ननूदाहरणोपलक्षणमप्रकृतमपि कस्मादुपादीयते? कस्माच्च विभ्यता लक्षणं प्रकृतमपहीयत
इत्यत आह—दृष्टान्त इति ।
प्रकृतलक्षणसिद्ध्यर्थमेवोपलक्षणाभिधानमिति नोभयदोष इत्यर्थः ।
अनेनेत्यादिना व्यवच्छेद्यसमानासमानजातीयप्रदर्शनं सूचितसामान्यलक्षणाभिप्रायम् ।
तच्च दृष्टान्तवचनम् उदाहरणमिति द्रष्टव्यम् ।
विशेषलक्षणपक्षे तूदाहरणविशेषो लक्ष्यः ।
उदाहरणं सपक्षोदाहरणमित्यर्थः ।
शेषं लक्षणम् ।
तेन हि समानजातीयाद् विपक्षोदाहरणाद् विजातीयाच्च प्रतिज्ञादेरिदं व्यवच्छिद्यत इति बोद्धव्यम् ।
विशेषलक्षणं च श्रौतम् ।
तद्व्याख्यानभाष्यमनूद्य व्याचष्टे—साध्येनेति ।
तेन तादृशेन दृष्टान्तेन साधनधर्मप्रयुक्तसाध्यधर्मवता उपलक्षितं विषयतया तद्विषयं वचनमुदाहरणं सपक्षोदाहरणमित्यर्थः ॥
यस्मादित्यादिवार्त्तिकं यद्यपि के ऽपि नानुमन्यन्ते, तथापि वाक्यशेषभूतेनाप्यनेन भवितव्यमिति मन्यमानः तदन्तर्भाव्यैव शङ्कामुत्थापयति—यस्मादिति ।
इयं चाशङ्का तैरागामिवावार्त्तिकं दृष्ट्वा साध्येनैवेत्यवधारणाक्षेपिकेति बुद्धम् ।
तच्च मन्दप्रयोजनम्, हेतुलक्षणरीतिमतिदिशतैव तत्प्रयोजनस्य दर्शितप्रायत्वात् ।
मा भूच्चावधारणसमर्थने ऽपि तद्धर्मभाविग्रहणानर्थक्यशङ्काशेषस्थितिरिति मत्वा व्याचष्टे—अवधारणेति ।
तथापि शङ्कानुरूपं नोत्तरमित्यत आह—शिष्योपाध्यायेति ।
अयमर्थः ।
साध्येनैव
साधर्म्यमिति विशेष्यसङ्गत एवकारो ऽन्ययोगं व्यवच्छिनत्ति, न तु साधर्म्यस्याप्रयोजकत्वमपि ।
न च पक्षसपक्षाभ्यामन्येन मैत्रतनयत्वादेर्योगः सन्दिग्धो ऽपि ।
न च पक्षो ऽपि विपक्ष इति तत्र तत्र दर्शितमेव ।
साधर्म्यमेवेत्ययमपि विशेषणसङ्गत एवकारो ऽयोगं व्यवच्छिन्द्यात्, न तु तस्याप्रयोजकत्वमपि ।
न ह्यप्रयोजकस्यायोगव्यवच्छेदो विरुध्यते ।
प्रयोजकतायां तु दर्शितायां तथाभूतस्यायोगव्यवच्छेद प्रकृतसिद्धिः ।
एवं च सति प्रथममवधारणं मन्दप्रयोजनमपि परशुच्छेद्यतां को वा नखच्छेद्ये सहिष्यत इति न्यायेन दर्शितम् ।
अप्रयोजके तूदाहर्तव्ये अनैकान्तिकोदाहरणं द्वयोरप्युभयकोटिस्पर्शाविशेषादिति ।
नन्वेवं सति हेतुलक्षणं न्यूनमप्रयोजकाव्युदसनादित्यत आह—हेतुलक्षणे त्विति ।
उभयविकलप्रदर्शनेनाश्रयविकलमपि प्रदर्शितप्रायम् ।
यथा, यत् क्रमयौगपद्यरहितं तदसत् ।
यथा वाजिविषाणमिति ।
एवमर्थद्वारकमुदाहरणाभासचतुष्टयं दर्शयित्वा शब्दद्वारकं द्वयं दर्शयितुं पीठमारचयति—पञ्चमीति ॥३६ ॥
तद्विपर्ययाद्वा विपरीतम् ॥३७ ॥
॥ परिशुद्धिः ॥
सव्याख्यानं परिवर्तितपदम् ।
उदाहरणं विपक्षोदाहरणम् ।
यद्यप्यतद्धर्मभावित्वात् साध्यवैधर्म्यवान् दृष्टान्त उदाहरणमिति व्यत्ययो युज्यते, तथाप्यार्जवानुरोधाद् यथाश्रुति व्याचष्टे—सात्मकतयेति ।
अत एव पदानि विभज्य सङ्कलितमर्थमाह—एतदुक्तं भवतीति ।
अत्रापि साध्यसाधनोभयाव्यावृत्ता आश्रयविकलश्चेति ।
अर्थद्वारकमाभासचतुष्टयं व्युदस्तम्, यथा नित्यः शब्दः श्रावणत्वात् ।
यत् पुनर्न नित्यं तदश्रावणं दृष्टम्, यथाकाशम्, यथा ध्वनिः, यथा शब्दत्वम्, यथा शशविषाणमिति ।
शब्दद्वारकं च द्वयमनुपदर्शितव्यावृत्तिकम्, विपर्ययोपदर्शितव्यावृत्तिकं चेति ।
यथा नेदं निरात्मकं जीवच्छरीरमिच्छादिमत्त्वात्, घटवदिति ।
यत् पुनरिच्छादिमन्न भवति, तन्निरात्मकं था घट इति चेति ।
सूत्रस्थश्चेति ।
समुच्चये स्वरूपसमुच्चये ।
न केवलं साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्, अपि तु तद्विपर्ययाद् विपरीतं चेत्यर्थः ।
न पुनर्विषयसमुच्चये ।
एकस्मिन् विषये निरपेक्षत्वसापेक्ष्ट्वाभ्यां वृत्तिर्विकल्पसमुच्चयौ ।
न चैवमत्र ।
कुतः व्यतिरेकिविषयत्वाद्
वैधर्म्योदाहरणस्येति ।
मात्रेति पूरणीयम् ।
उपलक्षणं चैतत्, अन्वयिविषयत्वात् साधर्म्योदाहरणमात्रस्येत्यपि द्रष्टव्यम् ।
तथाप्यन्वयव्यतिरेकिविषयतया समुच्चयविकल्पौ भविष्यतः, यथा भाष्यकृदुदाहरणमित्याशङ्कानिराकरणवार्त्तिकं योजयितुमाह—अत्रेति ।
सर्वत्र हि अन्वयपूर्विकैव व्यतिरेकप्रतिपत्तिः, प्रतियोगिनिरूपणमन्तरेणाभावस्यानिरूपणात् ॥
इयांस्तु विशेषः केवलव्यतिरेकिणि सामान्यतो ऽन्वयव्यतिरेकिणि तु विशेषतो ऽपि ।
यथा च केवलव्यतिरेकी सत्यपि सामान्यान्वये न तेनोपसंहर्तुं शक्यः, तथोक्तम् ।
अन्वयव्यतिरेकिणा तु व्यतिरेकोपसंहारेण यावानर्थः साध्यः, तावानन्वयोपसंहारेणैव सिद्धः इत्यधिकं तावत् तदभिधानम् ।
पुनरुक्तं च ।
नियमवतोरन्वयव्यतिरेकयोरेकतरसिद्धावन्यतरसिद्धेरर्थापन्नत्वात् ।
यद्येवम्, केवलव्यतिरेकिण्यपि तर्हि व्यतिरेकसिद्धावन्वयसिद्धिः अप्यर्थात् ।
तथा च न केवलव्यतिरेकीति ।
सत्यम्, सिध्यत्यन्वयो न तु सपक्षे, किं तु पक्ष एवेति विशेषः ।
स चोपेयो नोपाय इत्युक्तम् ।
नन्वन्वयव्यतिरेकिणो ऽपि पक्षादेव व्यतिरेकप्रत्ययो मा भूदित्येतदर्थं विपक्षे नियमो दर्शयितुमुचितः ।
न, तत्र हेतूपसंहारेणैव शङ्काया निवर्तितत्वात् ।
नन्वेवं सति केवलान्वयिन्यपि अर्थाद् व्यतिरेकसिद्धिप्रसङ्गः ।
तथा च न केवलान्वयीति चेत्—न, अविशेषविधित्वात् ।
यत्र हि सपक्षतदितरौ स्तः, तत्र विशेषविधौ शेषनिषेधो गम्यते, यथा नित्यानित्यप्रतीतौ ।
अनित्य एव कृतकत्वमित्युक्ते अर्थाद् गम्यते न नित्य इति ।
न चाभिधेयानभिधेयकोटिद्वयसम्भवो, यतो ऽभिधेय एव प्रमेयत्वमित्युक्ते गम्यतां नानभिधेय इति ।
अत एवान्वयव्यतिरेकिणि व्याप्यव्यापकयोरन्ययोगायोगव्यवच्छेदेन व्याप्तिनिरूपणम् ।
केवलान्वयिनि तु व्याप्तिक्रियामुपादायात्यन्तायोगव्यवच्छेदेनेति नैवकारार्थचोद्यावकाशः ॥
नन्वधिकपुनरुक्तभिया मा भूत् समुच्चयो, विकल्पस्तु भवेदित्यत आह—ऋजुमार्गेणेति ।
न हि केवलव्यतिरेकिणीवान्वयव्यतिरेकिण्यप्यन्वयाद् व्यतिरेका विशेषः ।
किं नाम? स एवार्थः ।
तथा चान्वयं प्रतीत्य तन्निषेधो व्यतिरेकः प्रत्येतव्यः ।
उपलभ्य च तन्निषेधं स एवान्वयः? सो ऽयं प्राक् यदि पक्ष एव प्रतिपन्नः किमधिकं व्यतिरेकेण साधितम्? सपक्षे चेत् ।
स एव पक्षे किं नोपसंहृतः? न ह्ययमसाधको, नापि प्रथमं बुद्धावुपनिपतितो, नापि न ऋजुरिति, सपक्षाद्धि कृकाटिकाभङ्गेन विपक्षगमनम्, विपक्षाच्च तथैव पक्षागमनमिति वक्रो मार्गः ।
पूर्वस्तु सपक्षादभिमुखमेव पक्षसङ्क्रान्तिरितृजुः ।
न च वक्ररुचेर्नेदमनिष्टमिति वाच्यम्, असांव्यवहारिकत्वप्रसङ्गात् ।
न हि घटमानयेति वक्तव्ये ऽनघटं न मानैषीरिति वक्तारो भवन्ति ।
यथा स्वयमन्वयमप्रतीत्य व्यतिरेकाप्रतिपत्तिः, तथा तमप्रतिपाद्य तदभावप्रतिपादनमशक्यमित्यवश्यमन्वयोक्तौ तदेवाधिकं पुनरुक्तं च ।
अनुक्तौ तु न व्यतिरेकस्याभिधीयमानस्यापि प्रतिपत्तिरित्यपार्थकमिति ।
एवमुदाहरणयोर्विशेषव्यवस्थां दर्शयता वाशब्दस्य व्यवस्थितविभाषावचनत्वे ऽपि सङ्गतिरित्यपि दर्शितम् ॥३७ ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥३८ ॥
॥ परिशुद्धिः ॥
सङ्गतिं करोति—उदाहरणानन्तरमिति ।
आनन्तर्यमेवकुत इत्यत आह—परामर्शेति ।
एतदेव कुत इत्यत आह—उदाहरणेति ।
विषयभूतयोर्व्याप्तिपक्षधर्मतयोर्नियतपौर्वापर्यप्रतिपत्तित्वेन विषयविषयिणोरप्युदाहरणोपनययोः पौर्वापर्यनियम इत्यर्थः ।
ननु नावश्यं ज्ञानक्रमनियमं तद्वचनक्रमनियमो ऽनुरुध्यते, विपर्ययेणाप्यभिधानदर्शनादित्यत आह—स्वप्रतिपत्ताविति ।
व्याप्तिपक्षधर्मताज्ञाने हि अनुमित्युपयोगिनी ।
ते च यथा स्वस्योत्पद्येते तथा परस्याप्युत्पादनीये, स्वप्रतिपत्त्यनुसारेण परावबोधनात् ।
स्वयं च व्याप्तिज्ञानादिन्द्रियादिसहायात् पक्षधर्मतावगमो न तु विपर्ययः ।
ततः परस्याप्युदाहरणवचनेन व्याप्तिज्ञानुमुत्पाद्य तत्सहचरितेनोपनयवचनेन पक्षधर्मताप्रत्यय उत्पादनीयः, केवलस्य व्याप्तिस्मरणस्य
व्याप्तिस्मरणस्य तदनुत्पादकत्वात् ।
इन्द्रियादिस्थानीयस्य चापरस्य अभावात् ।
तस्मादर्थसिद्धः पौर्वापर्यनियम उदाहरणोपनययोरित्यर्थ इति अन्ततः फक्विका योज्येति ॥
तथात्वातथात्वयोरिति ।
तथात्वेनोपसंहारस्यातथात्वेनोपसंहारस्येत्यर्थः ।
हेतोः उपसंहारः साध्यधर्मिणीति शेषः ।
अत्रापीति ।
यथाश्रुत्यर्थाभ्यामुदाहरणसूत्रम् उभयमुपलक्षयति, तथेदमपि सूत्रम् इत्यर्थः ।
तत्रार्थं तावदाह—उदाहरणेति ।
साध्यस्य हेतुमत्तयेति प्रकृतम् ।
श्रौतं विशेषलक्षणद्वयमाह—तथेति ।
उदाहरणातिदेशेनैव वाशब्दो ऽपि सौत्रो व्याख्यातः ।
व्युत्पन्नाव्युत्पन्नतयेति ।
यद्यपि पाञ्चरूप्योपपन्नलिङ्गानुसन्धानं व्युत्पन्नस्यापि प्रतिपत्तिसाधनं नियतमेव, तथापि प्रतिसन्धानं प्रत्यनियमः, संस्कारतारतम्येनोद्बोधकस्यानियमात्, तेन तस्य दुरुन्नेयत्वात् कृतृरासदिवादिवद् अव्युत्पन्नं प्रत्यनङ्गत्वाच्च ।
यावता यादृशा वोपायेन स्वयमर्थः प्रतीतः, तावत्तादृगुपायप्रतिपादनेन पर प्रतिपाद्यः ।
तस्य स्वात्मन्येवोपायतया प्रमाणसिद्धत्वादित्यर्थः ।
एतदेव न च यथेत्यादिना दर्शितम् ॥
ननु वचनेन स्वबोधसङ्क्रान्तिः प्रतिपादनम्, सचार्थः प्रतिपाद्यः स्वशब्देन यः शब्दान्तरेणाक्षिप्तो ऽपि न ।
उपनयार्थस्तु हेतुनैवाक्षिप्त इति चोद्यार्थमाह—यद्यपीत्यादि ।
एतावदत्र स्यादुपनयार्थं व्युत्पन्नः स्वयं वा ऊहेत, हेतुवचनाद् वा प्रतिपद्येत, तदाक्षेपतो वा निश्चिनुयात्? आद्यो व्युत्पन्नेत्यादिना दूषितः ।
द्वितीयं दूषयति—यत्पर इति ।
तृतीयं दूषयति—सामर्थ्यादिति ।
अथैवं मन्वीथा यद्यपि कृतकत्वादिति साधनपरं वचनम्
तथापि द्विधा हि तत्परता शब्दानाम्, उपपन्नतया उपपादनीयतया च ।
तत्र प्रथम उपपन्नतया स्वार्थमवबोधयन् तन्नान्तरीयकमर्थमाक्षिपति, यथा जितं नकुलेनेति सिद्धावस्थायां सर्पपराजयम् ।
द्वितीयस्तु उपपादनीयतया स्वार्थं प्रतिपादयन्नपि कथं तन्नान्तरीयकमप्यर्थमाक्षिपेत्, यथा स एव नकुलविजयः साधनीयावस्थायाम् ।
तथात्वे वा प्रतिज्ञैव सर्वमाक्षिपेदिति गतं हेतुनापि ।
तस्मात् साधनत्वेनोद्दिष्टे ऽपि कृतकत्वे ताद्रूप्यस्यासिद्धत्वात् न तेन व्याप्तेराक्षेप इति नानर्थकम् उदाहरणम् ।
नन्वेतत् समानमुपनये ऽपीत्याशयवानाह—तद्विधस्यापीति ।
एतेन निगमनं व्याख्यातम् ॥ ३८ ॥
॥ परिशुद्धिः ॥
ननु यथा हेत्वनुरोधेन तदुपसंहार उपनये द्विविधः, तथा साध्यानुरोधेन तदुपसंहारो ऽपि द्विविध एव प्राप्तः ।
अवश्यं च साध्येन द्विविधेनैव भाव्यम्, साधनानुरोधात् ।
न ह्यन्विताद् व्यतिरेकः साक्षात् सिध्यति, व्यतिरिक्ताद् वान्वयः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् ।
तस्मात् प्रतिज्ञानिगमनयोरपि द्वैविध्यं प्राप्तमिति कुतो नाभिहितं इति सूत्रकृता प्रतिज्ञालक्षणे शङ्कितुमुचितमपि ग्रन्थलघिम्ने सुखप्रतिपत्तये वा ।
इह शङ्काभाष्यम्—द्विविधस्येति ।
तद् व्याचष्टे—साधर्म्यवैघर्म्येति ।
हेत्वादीनामवयवानां येषां यत्सम्बन्धि निगमनं तस्य समानमेकं लक्षणम् ॥
न हि विधिनिषेधयोः प्रतिज्ञातयोर्निषेधविध्युपसंहारे प्रतिज्ञायाः पुनर्वचनमिति लक्षणं लगति, येनातिप्रसङ्गभिया सूत्रकृत् तन्नियमयेदित्यर्थः ।
एतेन प्रतिज्ञापि व्याख्याता ।
न ह्यन्वयिव्यतिरेकिणोर्हेत्वोः व्यतिरिक्तन्वितप्रतिज्ञाने साध्यनिर्देश इतिलक्षणं लगति, तयोस्तदसाध्यत्वात् ।
तस्माद् विवक्षितो ऽप्ययमर्थो न सूत्रितो न्यायलभ्यत्वात् ।
अत एव तत्र वार्त्तिकम्—अनित्यः शब्दो, नेदं निरात्मकमिति ।
तत् किं कृतकत्वादित्यादिक एव हेतूपदेशः कर्तव्यः? नेत्याह—तस्मादिति ।
न च वाच्यं तथैव किं न स्यात्, अनुपसंहारत्वप्रसङ्गात् ।
तथा च पूर्वोक्तरूपानुसन्धानविपरीतप्रसङ्गनिवारणयोरलाभे निगमनानर्थक्यात् ।
सर्वनाम्नो महिमा च यत् पूर्वोक्तानुसन्धानम् ।
उपसंहारस्यैष च गुणो यद् विपरीतकल्पनाविलोपनं नाम ।
न चानयोरन्यतराप्रतीतावपि साध्यसिद्धिः ।
एवं च सत्यवश्यकर्तव्यतया तस्मादिति कृते कृतकत्वादिति मन्दप्रयोजनम्, विवरणमात्रतया तु भाष्यकारेणोक्तम्, ये तु निपुणम्मन्याः सर्वनाम्ना हेतुवत् प्रतिज्ञाभिधानमपि मन्यन्ते, तेषां तथाशब्दः स्वरूपवचनो वा स्यात्, प्रकारवचनो वा? आद्ये तस्मात् स इत्यर्थः स्यात् ।
तथा च निगमनाभासो ऽयं लक्षणायोगादर्थायोगाच्च ।
द्वितीये तु तादृश इत्यर्थः स्यात् ।
तथापि न तेनैव तादृशत्वम्, अन्यसादृश्यपरामर्शे तु न निगमनलक्षणयोगः ।
अथ यथोक्तः तथेत्यर्थः, तथापि कथं तथेति नित्यसापेक्षत्वादनुपसंहारत्वम्? गम्यमानत्वात् अवचने प्रतिज्ञायाः पुनर्वचनमिति लक्षणायोगः ।
प्रतिपादनमात्रपरमेतदिति चेत्? निगमनार्थक्यम् ।
ओमिति चेत्? तत्र वक्ष्याम इत्याशयवानाह—अनित्यः शब्द इति प्रतिज्ञायाः पुनर्वचनमिति ।
आरम्भोपसंहारतयैव चानयो रूपाविशेषे साध्यसिद्धनिर्देशता ।
पटारम्भोपसंहारयोरिव पटारम्भकास्तन्तव एव एत इति ।
वचनमिति ।
अत एव न पौनरुत्क्यविरोधावित्याह—
यद्यपीति ।
तदिदमुक्तम्, यस्यैव साध्यत्वमासीदित्यादि ।
न ब्रूमः सिद्धस्य निर्देशो निगमनमपि तु सिद्धतया निर्देश इति ।
तथैव ततः पाञ्चरूप्यप्रतीतेः न ह्युपपादनीयतया निर्देशः साधनस्य रूपान्तरसम्पदमाक्षेप्तुमप्यलमित्युक्तम् ।
तदेतदबुद्धा यस्तु
मन्यते इत्यादि तं प्रत्यभ्युपेत्येति ॥३९ ॥
॥ इति न्यायलक्षणप्रकरणम् ॥
॥ न्यायोत्तराङ्गलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं न्यायस्वरूपप्रकरणं समर्थ्य तदुत्तराङ्गप्रकरणस्यावकाशः तत्रापीतिकर्तव्यतायत्नत्वात् फलस्येति तर्को ऽवसरप्राप्त इति सङ्गतिभाष्यमवतार्य पूरणेन तदर्थमाह—उद्देशेति ॥
अभ्यनुज्ञातव्यो नियतजिज्ञासाविषयीकर्तव्यः ।
विपर्ययाशङ्केति ।
तत्फलं जिज्ञासा ग्राह्या ।
उभयकोटिसमसंशयप्रभवसमजिज्ञासामपनीय नियतविषयां जनयता तर्केण प्रमाणविषयो ऽभ्यनुज्ञातो भवति ।
तेनायं सूत्रार्थः, प्रमाणाभ्यनुज्ञाव्यापारेण फलसिद्धौ व्याप्रियमाण ऊहस्तर्क इति ।
स चापादितसन्देहे सन्देहापन्ने च प्रवर्तत इति ज्ञापनार्थमविज्ञाततत्त्व इत्युक्तम् ।
कारणेपपत्तिः प्रमाणाभ्यनुज्ञा ।
तस्याश्च तर्कव्यापारभूतायाः स्वरूपमुक्तमिति नातिप्रसङ्गः ।
एवंव्यापारश्चोहः प्रसङ्ग इत्येवेति तथैव टीकाकृता उक्तम् ।
स चाहार्यहेतोरुत्पद्यत इति ज्ञापनार्थं कारणोपपत्तित इति पदं तदर्थतयापि क्वचिद् व्याख्यातम् ।
तदस्य विषयो ऽविज्ञाततत्त्वः ।
कारणमाहार्यलिङ्गोत्थाप्यो व्यापारः प्रमाणाभ्यनुज्ञा ।
फलं प्रमाणपरतन्त्रस्य सतः फलवत्सन्निधावफलं तदङ्गमिति न्यायेन तत्त्वनिर्णयः ।
स्वरूपमनिष्टप्रसङ्गः ।
स चात्माश्रयेतरेतराश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदेन पञ्चविधः ।
एते हि एकत्र भवन्तो ऽन्यतरम् अभ्यनुजानन्ति ।
एतत्सर्वं प्रतिपिपादयिषोर्वाक्यलाघवे ऽनादरः सूत्रकृतः ।
अत एव विवरणकाराणां सङ्कुलानीव वचांसीति तदत्र निपुणेन प्रतिपत्त्रा भवितव्यम् ।
तथा हि व्यापारव्यापारिणोरनिष्टापत्त्येत्यादिना भेदं व्युत्पाद्याभेदं विवक्षन्नाह—तया प्रमाणस्योपपत्येति ।
तर्ककारणे कारणोपपत्तिपदं सञ्चार्य तत्कार्यभूततर्कादभेदं विवक्षन्नाह—न चोपपत्तिरेवेति ।
प्रपञ्चितं चैतत् प्रथम सूत्र एव टीकाकृता इति कृतं प्रपञ्चेनेति ॥४० ॥
॥ परिशुद्धिः ॥
एवं साधनसम्पत्तौ दर्शितायां सो ऽयं परिकरबन्धः किमवधिकः किम्परश्चेति जिज्ञासायां निर्णयो ऽवसरप्राप्तः ।
तत्रार्थावधारणं निर्णय इति वक्तव्ये तर्कैकविषयताप्रतिपादनं भाष्यकृतः क्वोपयुज्यत इत्यत आह—नैतदिति ।
अव्याप्तिभियैवमुक्तम् इत्यर्थः ॥
मुख्यातिक्रमे बीजमाह—अत्रेति ।
यद्यपि वादगतौ लक्षणीयाविति प्रकृतानुपयोगि, तथापि यदिह साधनोपालम्भशब्दौ विवृणेति, वादे च पक्षप्रतिपक्षशब्दौ विवरिष्यति, तेन जानीमोर्ऽथसन्निधेः शब्दार्थसन्निधेः सुप्रतिपदमिति मत्त्वा भाष्यकारस्य तद्गतलक्षणैवाभिमतेति हृदि निधाय तदनुरोधेनोक्तम्—वादसूत्रगताविति ।
लक्षणानिबन्धनं नियतं बन्धनं नियामकमित्यर्थः ।
ननु नायं कथानिर्णयो लक्ष्यते, तत्कुतो वादिप्रतिवाद्युपक्रभेण चोद्यमित्यत आह–अत्रेति ।
वादेति कथोपलक्षणम् ।
अथ कथानिर्णयलक्षणमेवेदं किं न स्यात्? येन चोद्यपरिहारावपि सङ्गतौ स्यातामित्यत आह—न तावदिति ।
शङ्कायाः शङ्कितत्वात् न तथेत्यर्थः ।
कृतं तर्हि परिहारेणेत्यत आह—अभ्युपेत्य त्विति ।
अयमर्थः, यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः, पृच्छोपक्रममात्रेण द्वितीयोपयोगात्, सम्भवे ऽपि तयोर्विषयमात्राख्यानपर्यवसानात्, स्थेयस्यव परीक्षकत्वम्, तथापि पूर्वपक्षोत्तरपक्षं प्रत्याकलितनिष्कर्षभेदेन चतुष्पादव्यवहारप्रदर्शनात् फलतो न कश्चिद् विशेषः, एकवक्तृकत्वे ऽपि तावत एव व्यापारकलापस्य विचारे ऽपि विद्यमानत्वात् ।
तस्माद् यद्यप्यनिपुणश्चोदकस्तथापि चोद्यं सावकाशमेवेति यथाश्रुतमेव अभ्युपेत्य परिहरतीति ।
ननु कथं शास्त्रे संशयानपेक्षो निर्णयो मीमांसाया वैयर्थ्यप्रसङ्गादित्यत आह—नहीति ।
शास्त्रमेव हि तत्र विचार्यते ।
तत्र च संशयो न प्रतिषिध्यते, तन्निर्णयस्य परीक्षासाध्यत्वात् ।
तदर्थनिर्णये तु शास्त्रेण कर्तव्ये कुतः संशयः? शास्त्रार्थस्य सर्वथानुपलब्धचरतया संशयानास्पदत्वादित्यर्थः ।
अथ कथानिर्णये संशयः किं न स्यात्? कथमन्यथा चतुर्थे भाष्यकृद् एव वादस्य संशयव्युदासं फलं वक्ष्यतीत्यत आह—निश्चितयोरेवेति ।
वादात् पूर्वं सन्दिग्धावपि प्रवृत्तिकाले निश्चितावेवाभिमानात्, नान्यथा तयोः पक्षप्रतिपक्षपरिग्रहसम्भव इति भावः ।
ननु भाष्यकारेण चोद्योपसंहारे यो ऽवतिष्ठते तेन निर्णय इति वदता ताभ्यामिति तृतीया दर्शिता ।
सा च पक्षाच्च प्रतिपक्षाच्चेति वदता वार्त्तिककृता अवधीरिता कया शङ्कयेत्यत
आह—नन्विति ।
तत् किं वादसमानयोगक्षेमतया शास्त्रे ऽपि पक्षप्रतिपक्षाभ्यामेव निर्णयः? न चैतत् सम्भवतीत्यत आह शास्त्रे तु निर्णय एवेति ।
न विमर्शो नापि पक्षप्रतिपक्षावित्यर्थः ।
तदेवाह—न त्विति ।
यत् तदुक्तं वार्त्तिके स्फुटीभविष्यतीति, तदाह—अर्थग्रहण इति ।
ननु चतुःपञ्चादिकक्षापि क्वचित् कथा भवति, तत् कथं कक्षात्रये नियम इत्यत आह—प्रथमं साधनमिति ।
कक्षासहस्रमप्यत्रैवान्तर्भवतीति ।
अनन्तर्भावे त्वर्थान्तरत्वप्रसङ्गः ।
न हि साधनदूषणतदुद्धारबहिर्भावः प्रकृतोपयोगीत्यर्थः ॥४१ ॥
॥ इत्यौदयन तात्पर्यपरिशुद्धौ प्रथमाध्याये प्रथमाह्निकम् ॥
॥ इति न्यायोत्तराङ्गप्रकरणम् ॥