Udayana: Nyayakusumanjali, Stavaka 5

Intro

Udayana: Nyayakusumanjali, Stavaka 5

Udayana: Nyayakusumanjali, Stavaka 5

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:

पाठः

श्रीः ॥

श्रीमते श्रीनिवासपरब्रह्मणे नमः ॥

न्यायकुसुमाञ्जलौ पञ्चमस्तबकः ॥

नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् ।
तदेव तु न पश्याम इति चेत्- नह्येष स्थाणोरपराधः यदेनमन्धो न पश्यति ।
तथाहि- कार्याऽयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ।
वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥१ ॥
[कु।५।६०२] क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति- न बाधो ऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः ।
सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिरनिबन्धना ॥२ ॥
[कु।५।६०३] तथाहि- अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः? किमीश्वरं पक्षयित्वा कर्तृत्वाच्छरीरित्वम्; ततः (अथ) शरीरव्यावृत्तेरकर्तृत्वम्; अथ क्षित्यादिकमेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृकत्वम्; यद्वा शरीराजन्यत्वादकार्यत्वम्; तत एव वाकर्तृकत्वम्; परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति? तत्र प्रथमद्वितीययोराश्रयासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः ।
तृतीये तु व्याप्तौ सत्यां नेदमनिष्टम्; असत्यान्तु न प्रसङ्गः ।
चतुर्थे बाधानेकान्तौ (२२९) ।
पञ्चमेत्वसमर्थविशेषणत्वम् ।
षष्ठे ऽपिनागृह्यमाणविशेषया व्याप्त्या बाधः ।
न चागृह्यमाणाविशेषया (२३०) व्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् ।
अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः ।
कर्ताशरीरी, विपरीतो न कर्तेति चानयोस्तद्विरहः ।
[कु।५।६०४] ननु यद् बुद्धिमद्धेतुकं तच्छरीहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद् बुद्धिमद्धेतुकमपि न भवतीति विर्ययनियमोपि स्यात् ।
तथाच पक्षधर्मतापि लभ्यत इति चेन्न- गगनादेःसपक्षभागस्यापि सम्भवात्केवलव्यतिरेकित्वानुपपत्तेः ।
अन्वये तु विशेषणासामर्थ्यात् ।
हेतुव्यावृत्तिमात्रमेव हि तत्र कर्तृव्यावृत्तिव्याप्तम्; न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम् ।
व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्यो ऽतिप्रसङ्गात् ।
एतेन तद्व्यापकरहितत्वादिति सामान्योपसंहारस्यासिद्धत्वमुक्तं वेदितव्यम् ।
नहि यद्व्यावृत्तिर्यदभावे ऽन्वयव्यतिरेकाभ्यामुपसंहर्तुमशक्या, तत्तस्य व्यापकं नामेति ।
[कु।५।६०५] विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथोधर्मिपरिहारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति ।
[कु।५।६०६] स्यादेतत्- अस्ति तावत् कार्यस्यावान्तरविशेषः यतःशरीरिकर्तृकत्वमनुमीयते ।
तथाच तत्प्रयुक्तामेव व्याप्तमुपजीवेत्कार्यत्वसामान्यमिति स्यात्- न स्यात्- नहि विशेषोस्तीति सामान्यमप्रयोजकम् ।
तथासति सौरभकटुत्वनीलिमादिविशेषे (२३१) सति न धूमसामान्यमग्निङ्गमयेत् ।
किं नाम (२३२) साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्तमाने तद्विशेषःसाध्यविशेषव्याप्तिमाश्रयेत्; नतु विशेषे सति सामान्यमकिञ्चित्करम्, तस्यापि विशेषान्तरापेक्षया(२३३)किञ्चित्करत्वप्रसङ्गात् ।
[कु।५।६०७] सौरभादिविशेषं विहायापि धूमे वन्हिर्दृष्टः, न तु विशेषं विहाय कार्ये कर्तेतिचेन्न- कार्यविशेषः कारणविशेषे व्यवतिष्ठते; न तु कार्यकारणसामान्ययोः प्रतिबन्धमन्यथाकुर्यादिति ।
किं न दृष्टं कार्यं कारणमात्रे अङ्कुरो बीजे तद्विशेषो धान्ये तद्विशेषःशालौ तद्विशेषः कलमे इत्यादि बहुलं लोके? क्व वा दृष्टमणुद्रव्यारभ्यं द्रव्यम्, नित्यरूपाद्यारब्धं रूपादि? तथापि सामान्यव्याप्तेरविरोधात्सिद्ध्यत्येव ।
अवश्यञ्चैतदेवमङ्गीकर्तव्यम्; अन्यथा कार्यत्वस्याकस्मिकत्वप्रसङ्गात् ।
[कु।५।६०८] स्यादेतत्- अन्वयय्वतिरेकि तावदिदं कार्यत्वमिति परमार्थः ।
तत्राकाशादेर्विपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिः आहोस्वित्कारणमात्रव्यावृत्तेरिति सन्दिह्यते- तदसत्- कर्तुरपि कारणत्वात् ।
कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वात्; अन्यथा कारणत्वव्याघातात्, करणादिविशेषव्यतिरेकसन्देहप्रसङ्गाच्च; कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या
कार्यत्वव्यावृत्तिः उत करणव्यावृत्त्या; एवं किमुपादानव्यावृत्त्या किमसमवायिव्यावृत्त्या, किं निमित्तव्यावृत्त्येति? कार्यत्वात् करणमुपादानमसमवायि निमित्तं वा बुद्ध्यादिषु न सिद्ध्येत् ।
कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितम्; तदेव त्वसिद्धमिति चेत्- किं पटादौ कुविन्दादिरकारणमेव कर्ता? प्रस्तुते वोदासीन एव साधयितुमुपक्रान्तः? तस्मात् यत्किञ्चिदेतदपीति ।
[कु।५।६०९] ननु कर्ता कारणानामधिष्टाता साक्षाद्वा शरीतवत्, साध्यपरम्परया वा दण्डादिवत्? तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् ।
न द्वतीयः, द्वाराभावात् ।
न हि कस्यचित्साक्षादधिष्टेयस्याभावे परम्परयाधिष्टानं सम्भवति ।
तदयं प्रमाणार्थः- परमाण्वादयःन साक्षाच्चेतनाधिष्ठेयाः शरीरेतरत्वात्, यत्पुनः साक्षादधिष्ठेयम्, न तदेवं यथास्मच्छरीरमिति; नापि परम्परयाधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात् स्वचेष्टायामस्मच्छरीरवत्, व्यतिरेकेण वा दण्डादि उदाहरणम् ।
एवञ्च (एवम्) क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यतिपीडया सत्प्रतिपक्षत्वम् ।
अपिच पटादौ कुविन्दादेः किं कारकाधिष्ठानार्थमपेक्षा, तेषामचेतनानां स्वतो ऽप्रवृत्तेः? आहो कारकत्वेन? न पूर्वः, तेषां परमेश्वरेणैवाधिष्ठानात् ।
न ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन्न व्याप्नोतीति सम्भवति ।
न चाधिष्ठितानामधिष्ठात्रन्तरापेक्षा तदर्थमेव, तथासत्यनवस्थानादेवाविशेषात् ।
न द्वितीयः, अधिष्ठातृत्वस्यानङ्गत्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः ।
न च हेतुत्वेनैव तस्यापेक्षास्त्विति वाच्यम्- एवं तर्हि यत् कार्यं तत्सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति ।
तथाच तयै(तथै)व प्रयोगे सिद्धसाधनात् ।
किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् ।
न ह्यनित्यप्रयत्नो ऽपि बुद्ध्या शरीरवत् कारणत्वेनापेक्ष्यते, येन तन्निवृत्तावप्यकार्या र्(य) बुद्धिर्न निवर्तत इति ।
[कु।५।६१०] तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते ।
तथाहि- साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वम्, यत् प्रसज्यते? यदि साक्षात्प्रयत्नवदधिष्ठेयत्वम्, तदिष्यत एव ।
न च ततो ऽन्यत् प्रसञ्जकमपि ।
अथेन्द्रियाश्रयत्वम्?तन्न, तदवच्छिन्नज्ञानजननद्वारेणेन्द्रियाणामुपयोगात् ।
अनवच्छिन्ने प्रयत्ने नायं विधिः, नित्यत्वात् ।
अत एव नार्थाश्रयत्वम् (२३४) ।
नहि नित्यज्ञानं भोगरूपमभोगरूपं वा, यत्नमपेक्षते; तस्य कारणविशेषत्वात् ।
न च नित्यसर्वज्ञस्य भोगसम्भावनापि, विशेषादर्शनाभावे मिथ्याज्ञानानवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् ।
तस्मात्, साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्याविशिष्टम् ।
अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रयमप्यन्यथासिद्धम् ।
अभोगायतनत्वादनिन्द्रियाश्रयो ऽपि, भोक्तृकर्मानुपग्रहादभोगायतनमपि, स्पर्शवद्वेगवद्द्रव्यान्तर(२३५)नुद्यत्वात्त(२३६)दनपेक्षमपि स्यात्; अचेतनत्वाच्चेतनाधिष्ठतमपि स्यादिति को विरोधः? तथाचसाक्षात्प्रयत्नाधिष्ठितेतरजन्यत्वादिति साध्यसमः ।
इन्द्रियाश्रयेतरजन्यत्वात् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम् ।
कार्यज्ञानाद्यवपेक्षत्वाच्छरीरेतरजन्यमपि स्यात्; अचेतनहेतुकत्वाच्चेतनाधिष्ठितुक(२३७)मपीति को विरोधः? अप्रसिद्धविशेषणश्चपक्षः ।
नहि चेतनानधिष्ठतहेतुकत्वं क्वचित् प्रमाणसिद्धम् ।
न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात् ।
गगनादेरपि सपक्षाद्व्यावृत्तेः ।
[कु।५।६११] यत्पुनरुक्तं कुविन्दादेः पटादौ कथमपेक्षेति, तत्र कारकतयेति कःसन्देहः? किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतः, न स्वरूपवतः ।
तदेवचाधिष्ठातृत्वम् ।
यत्त्वधिष्ठिते किमधिष्ठानेनेति- तत्किं कुविन्द उद्वार्यते, ईश्वरो वा, अनवस्था वाऽपाद्यते? न प्रथमः, अन्वयव्यतिरेकसिद्धत्वात् ।
न द्वतीयः, परमाण्वदृष्टाधिष्ठातृत्वसिद्धौ ज्ञानादीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् ।
न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः ।
न तृतीयः, तस्मिन् प्रमाणाभावात् ।
तथाप्येकाधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत्- हेतुप्रश्नो ऽयम्, प्रयोजनप्रश्नो वा? नाद्यः, ईश्वराधिष्ठानस्य नित्यत्वात् ।
कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् ।
न द्वितीयः, कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् ।
एकाधिष्ठानेनैव कार्यं स्यादिति चेत्- स्यादेव ।
तथापि न सम्भेदे ऽन्यतरवैयर्थ्यम् ।
परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं
सामर्थ्योपलब्धौ सम्भूयकारित्वोपपत्तेः ।
अस्ति तत्र वैजात्यमिति चेत्- इहापि किञ्चिद्भविष्यतीति ।
न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगःसिद्ध्येदिति तदर्थमस्य कर्तृत्वमीश्वरो ऽनुमन्यते, तदर्थमात्रत्वादैश्वर्यस्येति ।
[कु।५।६१२] यत्वनित्यप्रयत्नेत्यादि- भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवर्तेत; न त्वेतदस्ति; (२३८) उदासीनस्य प्रयत्नाभावे ऽपि बुद्धिसद्भावात् ।
हेतुभूता बुद्धिर्निवत्तते इथि चेन्न- उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् ।
कारकविषया बुद्धिर्निवर्तते इति चेन्न- उदासीनस्यापि कारकबोद्धृत्वात् ।
न हि घटादिकमकुर्वन्तश्चक्रादिकं नेक्षामहे ।
हेतुभूता कारकबुद्धिर्निवर्तते इति चेन्न- (चक्रा(२३९)दिबुद्धेरपि संस्कारं प्रति हेतुत्वात् ।
कारकफलहेतुभूता कारकबुद्धिर्निवर्तत इति चेन्न-) अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेर्भावात् (२४०) ।
चिकीर्षाहेतुभूतो ऽनुभवो निवर्तत इति चेन्न- केनचिन्निमित्तेनाकुर्वतो ऽपि चिकीर्षातद्धेतुबुद्धिसम्भवातत् ।
अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्तते इति चेत्- न तर्हि बुद्धिमात्रम् ।
तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्तताम्, न तु बुद्धिमत्पूर्वकत्वमात्रम् ।
तत्र तस्याप्रयोजकत्वादिति बुद्धिमत्पूर्वकत्व(मिति)साध्यपक्षे परीहारः ।
सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कैव नास्ति; तस्यैव तत्रानुपाधित्वात् ।
[कु।५।६१३] एतेन- शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपाधिरिति- निरस्तम् ।
यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद्वा प्रयत्नेन बुद्धिं बुद्धिनिवृत्त्या प्रयत्ननिवृत्तिं (वा?) साधयेत्, स एवं कदाचिदुपालभ्यः ।
वयन्त्ववगतहेतुभावं कलितशक्तिसकल(२४१)कारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमास्कन्दनीयाः तत्र (२४२) तस्यानुपाधित्वात् ।
[कु।५।६१४] न च प्रयत्न आत्मलाभार्थमेव मतिमपेक्षते, विषयलाभार्थमप्यपेक्षणात् ।
ततः प्रयत्नाद्बुद्धिः तन्निवृत्तेश्च प्रयत्ननिवृत्तिः सिद्ध्येति विस्तृतमन्यत्र ।
कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्तते, न नित्यः ।
नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्तते, नानित्या ।
न हि तया तस्य विषयलाभसम्भवः ।
शरीरादेः प्राक् तदसम्भवे देहानुत्पत्तौ (२४३) सर्वदानुत्पत्तेः ।
शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति सङ्क्षेपः ।
[कु।५।६१५] तर्काभासतयान्येषां तर्काशुद्धिरदूषणम् ।
अनुकूलस्तु तर्को ऽत्र कार्यलोपो विभूषणम् ॥३ ॥
कारक(२४४)व्यापारविगम्।ए हि कार्यानुत्पत्तिप्रसङ्गः, चेतनाचेतनव्यापारयोर्हेतुफलभावावधारणात्, कारणान्तराभाव इव कर्त्रभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपिकारणत्वात् ।
[कु।५।६१६] यस्त्वाह- प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः ।
प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात् धूमाग्निवत्, कम्पमारुतवच्च ।
नहि धूमः कार्यो ऽनलस्येति उदर्यस्यापि, न हि शाखाकम्पो मातरिश्वन इति स्तिमितस्यापि स्यात् ।
किन्तु भौमस्पृश्ययोरेव ।
तथेहापि शरीरवत एव कारणत्वमवगन्तुमुचितम्, नान्यस्येति- तदसत्- प्रत्यक्षानुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चये; न तु दृश्यतैव तत्रोपेया; किन्नाम (२४५) दृश्याश्रितं सामान्यद्वयम् ।
तदालीढस्य हि तदुत्पत्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति, यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव; अस्माकञ्चातीन्द्रियसमवायादिसिद्धौ ।
नचेदेवम्, उदाहृतयोः (२४६) एव दहनपवनयोः; आलोकरूपवतोस्तदुत्पत्तिनिश्चये, कथनालोकनिरस्तरूपयोः सिद्धिः? यत् उदर्यस्तिमितसाधारणी सिद्धिःस्यादिति- तद्भवेदप्येवम्, यदि शरीरादिकं विना कार्यमिव, भौमं स्पर्शवद्वेगवन्तञ्च विना अग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम् ।
न त्वेवम् ।
न चैवं चेतनव्यभिचारो ऽपि शक्याभिधान इत्यलं बालप्रलापानां समाधानैः ।
[कु।५।६१७] तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ- यदि कर्तारमतिपत्य कार्यं स्यात्, स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति ।
एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते ।
एवञ्च सिद्धे प्रतिबन्धे न प्रतिबन्द्यादेः प्रतिबन्द्यादेः क्षुद्रोपद्रवस्यावकाशः ।
प्रतिबन्धसिद्धाविष्टापादनात्, तदसिद्धौ तत एव तत्सिद्धेः अप्रसङ्गादिति ।
ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वरपक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगरदाहः- तन्न- स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् ।
ओमिति ब्रुवतःसौगतस्य दत्तम् (२४७) उत्तरं प्राक् ।
[कु।५।६१८] “आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥
(मनु।१२।१०६) तमिममर्थमागमःसंवदति, विसंवदति तु परेषां विचारम्- “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः” ॥
अत्र्।अ प्रथमेन सर्वज्ञत्वम्, चक्षुषा दृष्टेरुपलक्षणात् ।
द्वितीयेन सर्ववक्तृत्वम्, मुखेन वागुपलक्षणात् ।
तृतीयेन सर्वसहकारित्वम्, बाहुना सहकारित्वो(मत्त्वो?)पलक्षणात् ।
चतुर्थेन व्यापकत्वम्, पदा व्याप्तेरुपलक्षणात् ।
पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वम्; तौ हि लोकयात्रावहनाद् बाहू ।
षष्ठेन परमाणुरूपप्रधानाधिष्ठेयत्वम्; ते हि गतिशीलत्वात्पतत्रव्यपदेशाः, पतन्तीति ।
सन्धमति सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः; तेन संयोजयति समुत्पादयन्नित्यर्थः ।
द्यावा इत्यूर्ध्वसप्तलोकोपलक्षणं भूमीत्यधस्तात्, एक इत्यनादितेति ।
स्मृतिरपि- “अहं सर्वस्य प्रभवो मत्तःसर्वं प्रवर्तते” (गीता।१०।८) इत्यादिः ।
एतेन ब्रह्मादिप्रतिपादका आगमा बोद्धव्याः ।
[कु।५।६१९] आयोजनात् खल्वपि- स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् ।
हेत्वभावे फलाभावो विशेषस्तु विशेषवान् ॥४ ॥
परमाण्वादयो (२४८) हि चेतनाऽयोजिताः प्रवर्तन्ते अचेतनत्वात् वास्यादिवत् ।
अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः; अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् ।
[कु।५।६२०] क्रियाविशेषविश्रान्तो ऽयमर्थः, न तु तन्मात्रगोचरः ।
चेष्टा हि चेतनाधिष्ठानमपेक्षत इति चेत्- अथ केयं चेष्टा नाम? यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्- तन्न- तस्यैव तत्रानुपाधित्वात् ।
अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्- तन्न- विषभक्षणोद्बन्धनाद्यव्यापनात् ।
इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्- कर्तारं प्रति, अन्यं वा? उभयथापि परमाण्वादिक्रियासाधारण्यादविशेषः ।
भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च ।
शरीरसमवायिक्रियात्वं तदिति चेन्न- मृतशरीरक्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः ।
जीवत इति चेन्न- नेत्रस्पन्दादेश्चेतनाधिष्ठानाभ्युपगमप्रसङ्गात् ।
स्पर्शवद्द्रव्यान्तराप्रयोगे सतीति चेन्न- ज्वलनपवनादौ तथाभावाभ्युपगमापत्तेः ।
शरीरस्य स्पर्शवद्द्रव्यान्तराप्रयुक्तस्येति चेन्न- चेष्टयैव शरीरस्यलक्ष्यमाणत्वात् ।
[कु।५।६२१] सामान्यविशेषश्चेष्टात्वम्, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेन्न- क्रियामात्रेणैव तदुन्नयनात् ।
भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्- तर्हि तद्विश्रान्तत्वमेव तस्य ।
नचैतावतैव क्रियामात्रं प्रयत्नचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार्यते ।
विशेषस्य विशेषं प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् ।
अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् ।
एतेनाशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम् ।
[कु।५।६२२] अत्राप्यागमसंवादः- “यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति” ॥
“अज्ञो जन्तुरनीशो ऽयमात्मनःसुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा” ॥
“मयाध्यक्षेण्।अ प्रकृतिः सूयते सचराचरम् ।
(गी।९-१०) तपाम्यहमहं वर्षं निगृण्हाम्युत्सृजामि च” ॥
(गी।९-१९) इत्यादि ।
अत्र जागरस्वापौ सहकारिलाभालाभौ ।
ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च हेतू दर्शितौ परमाण्वादिसाधारणौ ।
स्वर्गश्वभ्रे च इष्टानिष्टोपलक्षणे ।
एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते, मयेत्यादिना ।
न केवलं प्रेरणायामहमधिष्ठाता, अपितु प्रतिरोधे ऽपि ।
यो हि यत्र प्रभवति, स तस्य प्रेरणावत् धारणे ऽपि समर्थः, यथार्ऽवाचीरःशरीरप्राणप्रेरणधारणयोरिति दर्शितम्, तपामीत्यादिना ।
[कु।५।६२३] धृतेः खल्वपि ।
क्षित्यादि ब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपतनधर्मकत्वात् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च ।
एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्याताः ।
सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः, आत्मैवेदं सर्वमिति; यथैक एव मायावी, “अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र” इत्यादिः ।
अदृष्टादेव तदुपपत्तेरन्यथासिध्धमिदमिति चेत्- (न?) तद्भावेपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात् ।
कारणैकदेशस्य च कारणान्तरं प्रत्यनुपाधित्वात् ।
उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् ।
शरीरस्थितिरेवम्, न त्वन्यस्थितिरिति चेन्न- प्राणेन्द्रिययोः स्थितेरव्यापनात् ।
प्राङ्न्यायेनापास्तत्वाच्च ।
[कु।५।६२४] अत्राप्यागमः, “एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः” ।
(बृ।उ।५-८-८) इति ।
प्रशासनं दण्डभूतः प्रयत्नः ।
“उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः” ।
(गी।१५-१७) इति स्मृतिः ।
अत्रोत्तमत्वमसंसारित्वं सर्वज्ञत्वादि च ।
परमत्वं सर्वोपास्यता ।
लोकत्रयमिति
सर्वोपलक्षणम् ।
आवेशो ज्ञानचिकीर्षाप्रयत्नवतःसंयोगः ।
भरणं धारणम् ।
अव्ययत्वमागन्तुकविशेषगुणशून्यत्वम् ।
ऐश्वर्यं सङ्कल्पाप्रतिघात इति ।
एतेन कूर्मादिविषया अप्यागमा व्याख्याताः ।
[कु।५।६२५] संहरणात् खल्वपि ।
ब्रह्माण्डादि द्व्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विनाश्यत्वात् पाट्यमानपटवत् ।
अत्राप्यागमः- “एष सर्वाणि भूतानि स्वाभिव्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत्” ॥
“सर्वभूतान्।इ कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्” ॥
(गी। ९-७) इत्यादिः ।
एतेन रौद्रमंशं प्रतिपादयन्तोप्यागमा व्याख्याताः ।
[कु।५।६२६] पदात् खल्वपि- कार्यत्वान्निरूपाधित्वमेवं धृतिविनाशयोः ।
विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत् ॥५ ॥
पदशब्देनात्र्।अ पद्यते गम्यते व्यवहाराङ्गमर्थो ऽनेनेति वृद्धव्यवहार एवोच्यते ।
अतो ऽपीश्वरसिद्धिः ।
तथाहि - यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनाम्, वाग्व्यवहारश्च व्यक्तवाचाम्, लिपितत्क्रमव्यवहारश्च बालानाम्, स सर्वःस्वतन्त्रपुरुषविश्रान्तः व्यवहारत्वात् निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति ।
[कु।५।६२७] आदिमान् व्यवहार एवम्, अयन्त्वनीदिरन्यथापि भविष्यतीतिचेन्न- तदसिद्धेः ।
आदिमत्तामेव साधयितुमयमारम्भः ।
न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः, तथापि तस्याविरोधात् ।
न हि- चैत्रादिव्यवहारो ऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोप्यादिमानिति ।
अस्त्वर्वाग्दर्शी कश्चिदेवात्र मूलमिति चेन्न- तेनाशक्यत्वात् ।
कल्पादावादर्शाभासस्याप्यसिद्धेः ।
साधितौ च सर्गप्रलयौ ।
ननु व्यवहारयितृवृद्धःशरीरी समधिगतः,नचेश्वरस्तथा ।
तत्कथमेवं स्यात्- न- शरीरान्वयव्यतिरेकानुविधायिनि कार्ये तस्यापितद्वत्त्वात् ।
गृण्हाति हि ईश्वरोपि कार्यवशाच्छरीरमन्तरान्तरा; दर्शयति च विभूतिमिति ।
अत्राप्यागमः- पिताहमस्य जगतो माता धाता पितामहः ॥
(गी।९-१७) तथा- यदि ह्ययं न वर्तेयं (य?) जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
इति ।
(गी।३-२३,२४) एतेन,“नमः कुलालेभ्यः कर्मारेभ्य” इत्यादि यजूंषि बोद्धव्यानि ।
[कु।५।६२८] प्रत्ययो ऽपि (यादपि?) ।
प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते ।
तथाच प्रयोगः-(२४९) आगमसम्प्रदायो ऽयं कारणगुणपूर्वकः प्रमाणत्वात् प्रत्यक्षादिवत् ।
नहि प्रामाण्यप्रत्ययं विना क्वचित् समाश्वासः ।
नचासिद्धस्य प्रामाण्यस्य प्रतीतिः ।
न च स्वतः प्रमाण्यमित्यावेदितम् ।
न च नेदं प्रमाणम्, महाजनपरिग्रहादित्युक्तम् ।
न चासर्वज्ञो धर्माधर्मयोःस्वातन्त्र्येण प्रभवति ।
नचासर्वज्ञस्य गुणवत्तेति निःशङ्कमेतत् ।
[कु।५।६२९] श्रुतेः खल्वपि ।
तथाहि- सर्वज्ञप्रणीता (२५०) वेदाः वेदत्वात् ।
यत् पुनर्न सर्वज्ञप्रणीतम्, नासौ वेदो यथेतरवाक्यम् ।
ननु किमिदं वेदत्वं नाम? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् ।
अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः,मन्वादि वाक्ये गतत्वेन विरोधाच्चेतिचेन्न- अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् ।
न ह्यरमदादीनां प्रत्यक्षादि मूलम् ।
नापि भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् ।
नापि परम्परैव मूलम्, महाप्रलये विच्छेदादित्युक्तम् ।
[कु।५।६३०] अन्वयतो वा ।
वेदवाक्यानि पौरुषेयाणि वाक्यत्वादस्मदादिवाक्यवत् ।
अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न- असिद्धेः ।
“अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः” ।
“प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते” ।
“वेदान्तकृद्वेदविदेव चाहम्” इति स्मृतेः ।
“तस्माद्यज्ञात् सर्वहुतः ऋचःसामानि जज्ञिरे” इत्यादिश्रुतिपाठक(२५१)स्मृतेश्च ।
अर्थवादमात्रमिदमितिचेन्न- कर्तस्मरणस्य सर्वत्राविध्यर्थत्वात् ।
तथाचास्मरणे कालिदासादेरस्मरणात् ।
एवञ्च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः; अनैकान्तिकत्वं वा हेतोः ।
[कु।५।६३१] प्रमाणान्तरागोचरार्थत्वासत्सत्प्रतिपक्षत्वमिति चेन्न- प्रणेतारं प्रत्यसिद्धेः; अन्यं प्रत्यनैकान्तिकत्वात् ।
आकस्मिकस्मितबीजसुखानुस्मृतेः कारण(२५२)विशेषस्यान्यं प्रति प्रमाणान्तरागोचरस्यापि तेनैव वक्त्रा प्रतिपाद्यमानत्वात् ।
[कु।५।६३२] वक्तैव प्रकृते न सम्भवति, हेत्वभावे फलाभावात् ।
चक्षुरादीनां तत्रासामर्थ्यात् अस्मदादीन्द्रियवत् ।
मनसो बहिरस्वातन्त्र्यात्- न- चेतनस्य ज्ञानस्येन्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् ।
नित्यनिराकरणे चासामर्थ्यात् ।
परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न- द्रष्टारं प्रत्यसिद्धेः; अन्यं प्रति सिद्धसाधनात् ।
[कु।५।६३३] तथापि वाक्यत्वं न प्रमाणम्; अप्रयोजकत्वात्;
प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वम्, न तु वाक्यत्वप्रयुक्तम्- न- सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात् ।
प्रमाणवाक्यस्य सत इति चेन्न- प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवोशात्; स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम्; अर्थप्रतीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम् ।
मन्वादिवाक्यस्यापौरुषेयत्वप्रसङ्गाच्च; तदर्थस्य शब्देतरप्रमाणागोचरत्वात् ।
प्रयुज्यमानवाक्येतरगोचरार्थत्वमात्रमिति चेन्न- तस्य वेदे ऽपि सत्वात्; एकस्याप्यर्थस्य शाखाभेदेन बहुभिर्वाक्यैः प्रतिपादनात् ।
अस्त्वेवम्, न तु तेषा मिथोमूलमूलिभाव इति चेन्न- उक्तोत्तरत्वात् ।
[कु।५।६३४] सङ्ख्याविशेषात्खल्वपि ।
द्व्यणुकत्र्यणुके तावत् परमाणवती द्रव्यत्वात् ।
तच्च परिमाणं कार्यं कार्यगुणत्वात् ।
न च तस्य परमाणुपरिमाणं द्व्यणुकपरिमाणं वा कारणम्; नित्यपरिमाणत्वात्; अणुपरिमाणत्वाच्च ।
अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात्, द्व्यणुकस्य महत्त्वप्रसङ्गाच्च; त्र्यणुकवदण्वारभ्यत्वाविशेषात्, तत्र कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः ।
अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम्; महतो महदनारम्भप्रसङ्गात्; अणुत्वमहत्त्वयोर्विरुद्धतया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् ।
बहुभिरपिपरमाणुभिर्द्वाभ्यामपि द्व्यणुकाभ्यामारम्भप्रसङ्गाच्च ।
एवं सति को दोष इति चेत्- परमाणुकार्यस्य महत्त्वप्रसङ्गः; कारणबहुत्वस्य तद्धेतुत्वात् ।
अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् ।
अणुन एव तारतम्याभ्युपगमस्तु सङ्ख्यामवधीर्य न स्यात् ।
अस्तु महदारम्भ एव त्रिभिरिति चेन्न- महतः कार्यस्य कार्यद्रव्यारम्भत्वनियमात् ।
तथापि वा तारतम्ये सङ्ख्यैव प्रयोजिकेति ।
न च प्रचयो ऽपेक्षणीयः, अवयवसंयोगस्याभावात् ।
तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः ।
[कु।५।६३५] अतो ऽनेकसङ्ख्या परिशिष्यते ।
सा अपेक्षाबुद्धिजन्या अनेकसङ्ख्यात्वात् ।
न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति ।
तद् यस्यासौ स सर्वज्ञः ।
अन्यथा अपेक्षाबुद्धेरभावात् सङ्ख्यानुत्पत्तौ तद्गतपरिमाणानुत्पादे ऽपरिमितस्य द्रव्यस्यानारम्भकत्वात्त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः ।
अस्मादादीनामेवाऽनुमानिक्यपेक्षाबुद्धिरस्त्विति चेन्न- इतरेतराश्रयप्रसङ्गात् ।
जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानम्, तस्मिन् सति द्व्यणुकादिक्रमेण स्थूलोत्पत्तिः ।
अस्त्वदृष्टादेव परिमाणम्, कृतमपेक्षाबुद्ध्येति चेन्न- अस्तु तत एव सर्वम्, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति ।
[कु।५।६३६] अथवा कार्येत्यादिकमन्यथा व्यख्यायते ।
उद्देश (२५३) एव तात्पर्यं व्याख्या विश्वदृशःसती ।
ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः ॥६ ॥
आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती ।
भूतार्थस्य तु यद्यपि नाहत्य प्रवर्तकत्वं निवर्तकत्वं वा, तथापि तात्पर्यतस्तत्रैव प्रामाण्यम् ।
तथाहि- विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते ।
प्रशस्ते हि सर्वः प्रवर्तते, निन्दिताच्च निवर्तते इति स्थितिः ।
[कु।५।६३७] तत्र पदशक्तिस्तावदभिधा; तद्बलायातः पदार्थः ।
आकाङ्क्षादिमत्त्वे सति चान्वयशक्तिः पदानां पदार्थानां वा वाक्यम्; तद्बलायातो वाक्यार्थः ।
तात्पर्यार्थस्तु चिन्त्यते ।
तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य, तदिदं तत्परम् ।
तस्य भावस्तत्त्वम् ।
तद् यद्विषयम्, स तात्पर्यार्थ इति स्यात् ।
[कु।५।६३८] तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणो ऽसाध्यत्वात् ।
फलस्य च तत्प्रतिपत्तितो ऽन्यस्याभावात् ।
प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं परमुच्यते इति चेन्न- गङ्गायां घोष इत्यत्र तीरस्याप्रवृत्तिनिवृत्तिरूपस्यासाध्यस्यापि परत्वात् ।
तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति चेन्न- स्वरूपाख्यानमात्रेणापि पर्यवसानात् ।
[कु।५।६३९] न द्वितीयः,पदवाक्ययोः पदार्थतत्संसर्गौ विहाय प्रतिपाद्यान्तराभावात् ।
पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते इत्यपि न सामप्रतम्- न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्यं शब्दस्य; अति प्रसङ्गात् ।
तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात्; अविनाभावस्य तादवस्थ्यात् ।
मुख्ये बाधके सति तत्तथा स्यादिति चेत्- न- तस्मिन्नसत्यपि भावात् ।
तद् यथा- “गच्छ गच्छसि चेत् कान्त पन्थानःसन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्” इति मुख्यार्थाबाधने ऽपि वारणे तात्पर्यम् ।
न च परं व्यापकमेव, अव्यापके ऽपि तात्पर्यदर्शनात् ।
तद् यथा, मञ्चाः क्रोशन्तीति पुरुषे तात्पर्यम् ।
न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः ।
[कु।५।६४०] नापि तृतीयः ।
तद्धि प्रतिपाद्यापेक्षितम्, प्रतिपादकापेक्षितं वा स्यात् ।
नाद्यः; शब्दप्रामाण्यस्यातदधीनत्वात् ।
तथात्वे वातिप्रसङ्गात् ।
यस्य यदपेक्षितम्,
तं प्रति तस्य परत्वप्रसङ्गात् ।
तदर्थसाध्यत्वेनापेक्षानियम इति चेन्न- कार्यज्ञाप्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् ।
धूमस्य हि प्रदेशश्यामलतामशकनिवृत्त्याद्यनेकं कार्यम्; आर्देन्धनदहनाद्यनेकं ज्ञाप्यम् ।
तथाचेह प्रदेशे धूमोद्गम इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्; चेतनापेक्षायानियन्तुमशक्यत्वात् ।
नापि प्रतिपादकोपेक्षितम्, वेदे तदभावात् ।
[कु।५।६४१] चतुर्थस्तु स्यात् ।
यदुद्देशेन यःशब्दः प्रवृत्तः स तत्परः ।
तथैव लोकव्युत्पत्तेः ।
तथाहि- प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते ।
तदुपादानपरम् ।
निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते तत् हानपरम् ।
एवमन्यत्रापि स्वयमूहनीयम् ।
तस्माल्लोकानुसारेण वेदे ऽप्येवं स्वीकारणीयम्; अन्यथा अर्थवादानां सर्वथैवानर्थक्यप्रसङ्गात् ।
स चोद्देशो व्यवसायो ऽधिकारो ऽभिप्रायो भाव आशय इत्यनर्थान्तरमिति तदाधारप्रणेतृपुरुषधौरेयसिद्धिः ।
तथा च प्रयोगः- वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशंसावाक्यत्वात् परिणतिसुरसमाम्रफलमित्यादिलोकवाक्यवदिति ।
एवं निन्दावाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिविरसं पनसफलमित्यादिवाक्यवत् ।
अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् ।
[कु।५।६४२] अपिच नो चेदेवम्, श्रुतार्थापत्तिरपि हीयेत ।
सिद्धो ह्यर्थः प्रमाणविषयः, न तु तेनैव कर्तव्यः ।
न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुङ्क्त इति वाक्यशेषो ऽस्ति; अनुपलम्भबाधितत्वात्; उत्पत्त्यभिव्यक्तिसामग्रीताल्वादि व्यापारविरहात्; अयोग्यस्याशङ्कितुमप्यशक्यत्वात् ।
तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात् ।
स चेद्वेदे नास्ति, नास्ति श्रुतार्थापत्तिरिति तद्व्युत्पादनानर्थक्यप्रसङ्गः ।
तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति ।
[कु।५।६४३] अयोजनात् खल्वपि ।
नहि वेदादव्यख्यातात् कश्चिदर्थमधिगच्छति ।
न चैकदेशदर्शिनो व्याख्यानमादरणीयम्; “पौर्वापर्यापरामृष्टः शब्दो ऽन्यां कुरुते मतिम्” इति न्यायेनानाश्वासात् ।
त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणो ऽन्यथार्थप्रत्ययः स्यात्, किमुतातीन्द्रियादन्तरान्तरावाक्यसम्भेददुरधिगमात् ।
ततःसकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयः, अन्यथान्धपरम्पराप्रसङ्गात् ।
स च श्रुताधीतावधृतस्मृतसाङ्गोपाङ्गवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति ।
कोह्यप्रत्यक्षीकृतविश्वतदनुष्ठानः, एतावानेवायमाम्नाय इति निश्चिनुयात् ।
कश्चार्वाग्दृक् निःशेषाः श्रतीर्ग्रन्थतोर्ऽथतोवाधीयीत, अध्यापयेद्वा ।
अत्रापि प्रयोगः- वेदाः कदाचित् सर्ववेदार्थविद्व्याख्याताः, अनुष्ठातृ(२५४)मतिचलने ऽपि निश्चलार्थानुष्ठानत्वात् ।
यदेवं तत्सर्वं तदर्थविद्व्याख्यातम्, यथा मन्वादिसंहितेति ।
अन्यथात्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदनादेशिकत्वात् (२५५) ।
अनुष्ठातार एवादेष्टार इति चेन्न- तेषामनियतबोधत्वात् ।
वेदवद्वेदार्थानुष्ठानमप्यनादीति चेन्न- तद्धि स्वतन्त्रं वा वेदार्थबोधतन्त्रं वा ।
आद्ये निर्मूलत्वप्रसङ्गः ।
द्वितीये त्वनियमापत्तिः ।
नह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणम्, न त्विदानीन्तनानामिति नियामकमस्ति ।
[कु।५।६४४] पदात् खल्वुपि ।
श्रूयते हि प्रणवेश्वरेशानादिपदम् ।
तच्च सार्थकम् ।
अविगानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपदवदिति सानास्यतः सिद्धेः, को ऽस्यार्थः इति व्युत्पत्सोर्विमर्शे सति निर्णयः, स्वर्गादिपदवत्, “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्त्यव्यय ईश्वरः” इत्यर्थवादात्, यववराहादिवद्वाक्यशेषाद्वा ।
तद् यथा ईश्वरप्रणिधानमुपक्रम्य श्रूयते- सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य” इति ।
एवम्भूतोर्ऽथः प्रमाणबाधित इति चेन्न- प्रागेव प्रतिषेधात् ।
तथापि न तत्र प्रमाणमस्तीति चेत्- स्वर्गे अस्तीति का श्रद्धा? नह्युक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम् ।
याज्ञिकप्रवृत्त्यन्यथानुपपत्या तथैव तदित्यवधार्यते इति चेन्न- इतरेतराश्रयप्रसङ्गात् ।
अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति ।
पूर्ववृद्धप्रवृत्त्या तदवधारणे ऽयमदोष इति चेन्न- अन्धपरम्पराप्रसङ्गात् ।
विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवं विधमपि सुखं स्यादिति नास्ति विरोधः; तन्निषेधे प्रमाणाभावादिति चेत्- तुल्यमितरत्रापि ।
अत्रापि प्रयोगः- यःशब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्युज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः ।
प्रयुज्यते चायं जगत्कर्तरीति ।
अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुपपत्तिरिति ।
एतेन रुद्रोपेन्द्रमहेन्द्रादिदेवताविशेषवाचका
व्याख्याताः ।
अपिच अस्मत्पदं लोकवद्वेदे ऽपि प्रयुज्यते ।
तस्य च लोके नाचेतनेष्वन्यतमदर्थः, तत्र सर्वथैवाप्रयोगात् ।
नाप्यात्ममात्रमर्थः; परात्मन्यपि प्रयोगप्रसङ्गात् ।
अपितु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह; तथैवान्वयव्यतिरेकाभ्यामवसायात् ।
ततो लोकव्युत्पत्तिमनतिक्रम्य वेदे ऽप्यनेन स्वप्रयोक्तैव वक्तव्यः ।
अन्यथाप्रयोगप्रसङ्गात् ।
न च यो यदोच्चारयति वैदिकमहं शब्दम्, स एव तदा तस्यार्थ इति युक्तम् ।
तथासति मामुपासीतेत्यादौ स एवोपास्यःस्यात् ।
अहं सर्वस्यप्रभवो मत्तः सर्वं प्रवर्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधिगच्छेत् ।
तथाचोपासनां प्रत्युन्मत्तकेलिःस्यात् ।
लोकव्यवहारश्चोच्छिद्येत ।
तस्मन्नानुवक्तास्य वाच्यः, अपि तु वक्तैवेति स्थिते प्रयुज्यते वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्लोकवदिति ।
एवमन्ये ऽपि यः कः स इत्यादि शब्दा द्रष्टव्याः, तेषां बुद्ध्युपक्रमप्रश्नपरामर्शाद्युपहितमर्यादत्वात्; तस्य च वक्तृधर्मत्वात् ।
बुद्ध्यपक्रमो हि प्रकृतत्वम्, जिज्ञासाऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति ।
एवञ्च संशयादिवाचक अप्युन्नेयाः ।
न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् ।
शिष्यप्रतिबोधनायाहार्यत्वेनाविरोधात् ।
को धर्मः कथं लक्षणक इत्यादिभाष्यवदिति ।
एतेन धिगहो बत हन्तेत्यादयो निपाता व्याख्याताः ।
[कु।५।६४५] प्रत्ययादपि ।
लिङ्गादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रति पादयन्ति ।
तथाहि- प्रवृत्तिः कृतिरेवात्र, सा चेच्छतो, यतश्च सा ।
तज्ज्ञानम्, विषयस्तस्य विधिस्तज्ज्ञापको ऽथवा ॥७ ॥
[कु।५।६४६] प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम्, आत्मा ज्ञातव्य इत्याद्यव्यापनात् ।
नापीच्छामात्रम् तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् ।
ततः प्रयत्नः परिशिष्यते ।
आत्मज्ञानभूतदयादावपि तस्याः (स्य?) भावात् ।
तदुक्तम्, “प्रवृत्तिरारमभः” इति ।
[कु।५।६४७] सेयं प्रवृत्तिर्यतःसत्तामात्रावस्थिताद्, नासौ विधिः; तत्र शास्त्रवैयर्थ्यात् ।
अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् ।
न च प्रवृत्तिहेतुजननार्थं तदुपयोगः; प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् ज्ञानमनुत्पाद्यतदुत्पादनस्याशक्यत्वात् तस्य च निरालम्बनस्यानुत्पत्तेः; अप्रवर्तकत्वाच्च, नियामकाभावात् ।
तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते, सोर्थविशेषस्तज्ज्ञापको वार्ऽथविशेषो विधिः प्रेरणा प्रवर्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति स्थिते विचार्यते- स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा नियोक्तृधर्मो वेति ।
न प्रथमः-[कु।५।६४८] इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः ।
असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् ॥८ ॥
स हि न स्पन्द एव; आत्मानमनुपश्येदित्याद्यव्याप्तेः; ग्रामं गच्छतीत्यादावतिव्याप्तेश्च ।
नापि तत्कारणं प्रयत्नः; तस्य सर्वाख्यातसाधारणत्वात् ।
[कु।५।६४९] ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः; करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्तस्याभावात् ।
सङ्ख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् ।
ततो लिङ्गादिवाच्च एव प्रयत्न इति- न- कुर्यादित्यत्रापि तुल्यत्वात् ।
प्रयत्नमात्रस्य प्रकृत्यर्थत्वे ऽपि तस्य परा(२५६)ङ्गतापन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत्- न- तथापि तुल्यत्वात् ।
न चैकस्य तद्वाचकत्वे ऽन्यस्य तद्विपर्यय आपद्येत ।
एको द्वौ बहव एषिषतीत्यादौ व्यभिचारात् ।
तत्र द्वितीयस्ङ्ख्येच्छादिकल्पने करोति प्रयतते इत्यादावपि तथा स्यात् ।
प्रत्येकमन्यत्रसामर्थ्यावधृतौ सम्भेदे तथा कल्पनायास्तुल्यत्वात् ।
रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत्- तन्तवः पटं कुर्वन्तीत्यत्र या ।
लोकोपचारो ऽयमपर्यनुयोज्य इति चेत्तुल्यम् ।
लिङः कार्यत्वे वृद्धव्यवहाराद्व्युत्पत्तौ सर्वं समञ्जसम् ।
आख्यातमात्रस्य तु न तथेति चेत्- न- विवरणादेरपि व्युत्पत्तेः ।
अस्ति च तदिह ।
किं करोति? पचति, पाकं करोतीत्यर्थ इत्यादिदर्शनात् ।
[कु।५।६५०] तथापि फलानुकूलतापन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानकल्पनायां कल्पनागौरवं स्यात् ।
अतो विवरणमपि तावन्मात्रपरमिति चेत् ।
भवेदप्येवम्, यदि पाकेनेति विवृणुयात् ।
न त्वेतदस्ति ।
धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् ।
ततस्तं प्रत्येव किञ्चिदनुकूलतापन्नं प्रत्ययेनाभिधानीयमिति युक्तम् ।
[कु।५।६५१] तथापि तेन प्रयत्नेनैव भवितव्यम्, न त्वन्येनेति कुत इति चेत्- नियमेन तथा विवरणात् ।
बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात् ।
अन्यथातिप्रसङ्गात् ।
स्यादेतत्- यस्य कस्यचित्- फलं प्रत्यनुकूलतापत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव ।
सो ऽपि ह्यनेनैवोपाधिना प्रत्ययेन वक्तव्यः, न तु यत्नत्वमात्रेण; प्रयत्नपदेनाविशेषप्रसङ्गात् ।
तद्वरं तावन्मात्रमेवास्तु लाघवाय ।
अन्यथा त्वनुकूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ; अचेतनेषु सर्वत्र गौणार्थास्तिङो ऽसति
बाधके कल्पनीया इति चेत्- अत्रोच्यते-[कु।५।६५२] कृताकृतविभागेन कर्तृरूपव्यवस्थया ।
यत्न एव कृतिः पूर्वा (२५७) परस्मिन् सैव भवना ॥९ ॥
यत्नपूर्वकत्व।ं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् ।
हेतुसत्त्वप्रतिसन्धाने ऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्कुरादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते ।
अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषात् “घटादयः कृताः, न कृतास्त्वङ्कुरादय” इति कुतो व्यवहारनियमः ।
तेन च सर्वमाख्यातपदं विव्रियते इति सर्वत्र स एवार्थ इति निर्णयः ।
तथाच समुदिते प्रवृत्तं पदं तदेकदेशे ऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् ।
अन्यथापि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु ।
न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता; अन्यायश्चानेकार्थत्वमिति स्थितेः ।
अत एवानुभवो ऽपि, यावदुक्तं भवति पाकानुकूलवर्तमानप्रयत्नवान्, तावदुक्तं भवति पचतीति ।
एवं तथाभूतातिवृत्तप्रयत्नो ऽपाक्षीदिति ।
एवं तथाभूतभाविप्रयत्नः पक्ष्यतीति ।
न तु पचतीति पाकानुकूलयत्किञ्चिद्वानिति ।
अन्यथातिथावपि परश्रमशयाने पचतीति प्रत्ययप्रसङ्गात् ।
[कु।५।६५३] अपिच कर्तृव्यापार एव कृञर्थः ।
चेतनश्च कर्ता; अन्यथा तद्व्यवस्थानुपपत्तेः ।
न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतो ऽप्यकर्तृत्वप्रसङ्गात् ।
नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वम्, योग्यताया एवानिरूपणात् ।
फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात् ।
नापि विवक्षातो नियमः, अविवक्षादशायामनियमप्रसङ्गात् ।
स्वव्यापारे नेदमनिष्टमिति चेत्- एवं तर्हि, “स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके” इति न्यायेन करणादिविलोपप्रसङ्गः ।
न स्वव्यापारापेक्षया करणादिव्यवहारः; किन्तु प्रधानक्रियापेक्षया ।
अस्ति हि काञ्चित् क्रियामुद्दिश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः, नत्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत्- तर्हि तदपेक्षयैव कर्तृकर्मादिव्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् ।
स्वातन्त्र्यादिति चेत्- ननु तदेव किमन्यत् प्रयत्नादिसमवायादिति विविच्याभिधीयतामिति ।
तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः ।
[कु।५।६५४] तथापि फलानुगुणतैवास्तु प्रत्ययस्य प्रवृत्तिनिमित्तम्; प्रयत्नस्त्वाक्षेपतो लप्स्यते इति चेन्न- भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः ।
तया विवरणध्रौव्यादाक्षेपानुपपत्तितः ॥१० ॥
केन हि तदाक्षिप्येत ।
नतावदनुकूलत्वमात्रेण; तस्य प्रयत्नत्वेनाव्यापनात् ।
न हि यत्नत्वैकार्थसमवाय्येवानुकूलत्वम् ।
अत एव न सङ्ख्यया; तस्याः सङ्ख्येयमात्रपर्यवसायित्वात् ।
कर्त्रेति चेत्- न- द्रव्यमात्रस्याकर्तृत्वात् ।
व्यापारवतश्चाभिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् ।
नापि धात्वर्थेन तदाक्षेपः; विद्यते इत्यादौ तदसम्भवात् ।
न ह्यत्रि धात्वर्थो भावनापेक्षी; सत्तया नित्यत्वात् ।
तत्र न भविष्यतीति चेत्- न- पूर्वापरीभूतभावनानुभवस्याविशेषात् ।
भावनोपरागेण ह्यतथाभूतो ऽप्यर्थस्तथा भासते इति ।
न च पदान्तरलब्धया भावनयानुकूलतायाः प्रत्ययार्थस्यान्वयः; तदसम्भवात् ।
न खलु प्रकृत्यैव साभिधीयते ।
धातूनां क्रियाफलमात्राभिधायित्वात् ।
अन्यथा पाक इत्यादावपि भावनानुभवप्रसङ्गात् ।
नापि चैत्र इत्यादिना पदान्तरेण; प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात् ।
ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात्तेनाभिधानमाक्षेपो वा ।
कथमन्यथा ओदनमित्युक्ते किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षेति चेत्- न- पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात् ।
सा चाक्षेपाभिधानयोरन्यतरमन्तरेण न स्यात् ।
तस्यां दशायां न चेदाक्षेपः, नूनमभिधानमेवेति ।
[कु।५।६५५] स्यादेतत्- अभिधीयतां तर्हि कर्तापि ।
तदनभिधाने हि सङ्ख्येयमात्रमाक्षिप्य सङ्ख्या कथं कर्तारमन्वियात्, न तु कर्मादिकमपि ।
शाकसूपौ पचति शाकसूपौदनान् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्तारमविरुद्धमनुगच्छतीति चेत्- चैत्र ओदनं पचतीत्यत्रका गतिः ।
एकत्र निर्णीतः शास्त्रार्थो ऽपरत्रापि तथा, यववराहादिवदिति चेन्न- पच्यते इत्यादावपि तथाभावप्रसङ्गात् ।
चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्यविरुद्धं कर्म समनुक्रामतीति चेत् ।
चैत्रमैत्राभ्यां पाकसूपौ पच्येते इत्यत्र का गतिः ।
अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेन्न- पचतीत्यादावपि तथाभावप्रसङ्गात् ।
तत्र पूर्वक एव निर्णयः, पच्यते इत्यत्रत्वपर इति चेन्न- विशेषाभावात् ।
आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेन्न- पच्यते पचते पक्ष्यते इत्यादौ विप्लवप्रसङ्गादिति ।
[कु।५।६५६] दृश्यते च समानप्रत्ययाभिहितेनान्वयःसङ्ख्यायाः ।
तद् यथा, भूयते सुप्यते इत्यादौ ।

हि तत्र कर्त्रा कर्मणा वान्येनैव वा केनचिदन्वयः, किन्तु भावेनैव ।
अनन्वये तदभिधायिनो ऽनर्थकत्वप्रसङ्गात् ।
आक्षिप्तेनचान्वये तत्रापि कर्त्रेवान्वयापत्तेः ।
को हिसुप्यते स्वपितीत्यनयोः कर्त्राक्षेपं प्रति विशेषः ।
स्यादेतत्- (अ।१-३-१३) भावकर्मणोरित्याद्यनुशासनबलात्तावत् भावकर्मणी प्रत्ययवाच्ये ।
ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते ।
यस्तु प्रत्ययो न तत्रोत्पन्नः, तदभिहिता सङ्ख्या, “मुख्यं वा पूर्वचोदनाल्लोकवत्ऽ(मी।१२,२,२३) इति न्यायेन कर्तारमेवाश्रयते इति नियमः- न- विपर्य्ययप्रसङ्गात् ।
“शेषात् कर्तरि परस्मैपदम्” (अ।१-३-७८), “कर्तरि शप्” (अ।३-१-६८) इत्यनुशासनबलाद्भावकर्तारौ प्रत्ययवाच्यौ, ततस्तदभिहिता सङ्ख्यापि ताभ्यामन्वीयते; यस्तु प्रत्ययो न तत्रोत्पन्नस्तदभिहिता सङ्ख्या तेनैव न्यायेन कर्मैव समाश्रयेदिति नियमोपपत्तेः तस्मान्मतिकर्दममपहाय यथानुशासनमेव गृह्यते इति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते- [कु।५।६५७] आक्षेपलभ्ये सङ्ख्येये नाभिधानस्य कल्पना ।
सङ्ख्येयमात्रलाभे ऽपि साकाङ्क्षेण व्यवस्थितिः ॥११ ॥
सङ्ख्याप्।इ तावदियं भावनानुगामिनी; यं यं भावनान्वेति, तं तं सङ्ख्यापीति स्थितेः; एकप्रत्ययवाच्यत्वनियमात् ।
भावनाच शुद्धं प्रातिपदिकार्थमात्रमाकाङ्क्षति ।
न हि व्यापारवन्तं व्यापार आश्रयते, आत्माश्रयात् (२५८) ।
समवायं प्रति तदनुपयोगात् ।
विजातीयव्यापारवतो ऽकर्तृत्वाच्च ।
न च द्वितीयाद्याः प्रातिपदिकविभक्तयः ।
ततः प्रथमानिर्दिष्टेनैव भावनान्वीयते इति तस्यान्वययोग्यतानियमात् सङ्ख्यापि तदनुगामिनी तेनैवान्वीयते इति नाति प्रसङ्गः नञर्थवत् ।
यथा हि चैत्रो न ब्राह्मणो न (२५९) गौरो न स्पन्दते न कुण्डलीत्यादौ विशेषणविशेष्यसमभिव्याहारविशेषे ऽपि नञा तदनभिधानाविशेषे ऽपि नञर्थस्य विशेषणांशैरेवान्वयः न विशेष्यांशेन ।
ननु बाधात्तत्र तथा ।
न हि विशेष्येण तदन्वये विशेषणोपादानमर्थवद्भवेत्, तन्निषेधेनैव विशेषणनिषेधोपलब्धेः ।
उभनिषेधे चावृत्तौ वाक्यभेदात्; अनावृत्तौ निराकाङ्क्षत्वादिति चेत्- तुल्यत्वात् ।
समानप्रत्ययोपात्तभावनाक्षिप्तान्वयोपपत्तौ बाधकं विना सन्निहितत्यागेन व्यवहितपरिग्रहस्य गुरुत्वात् ।
भावनायाश्च सामान्याक्षेपे ऽपि साकाङ्क्षपरित्यागे निराकाङ्क्षान्वयानुपपत्तेः ।
नह्यन्यतराकाङ्क्षा अन्वयहेतुः अपितूभयाकाङ्क्षा ।
प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रियासम्बन्धमपेक्षते, भावनापि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्वयहेतुः ।
कटं कटेनेत्यादि तु कारकतयैव फलसमन्वितं न व्यापारान्तरमपेक्षते इति निराकाङ्क्षमिति ।
अत एवास्यते सुप्यते इत्यादौ नाक्षिप्तेनान्वयः ।
नहि चैत्रेणेति तृतीयान्तशब्दस्य भावनायामाकाङ्क्षास्ति ।
भाव्याकाङ्क्षास्तीति चेत्- न- फलेन शयनादिधात्वर्थेनान्वयात् ।
फलसम्बन्धिनश्चात्र कर्त्रनतिरेकात् ।
न हि शयनादयो धात्वर्थाः कर्त्रतिरेकिसम्बद्धाः ।
न च फलतत्सम्बन्धिव्यतिरेकेणान्यो भाव्यो नाम,यमपेक्षेत ।
[कु।५।६५८] स्यादेतत्- किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितानभिहितव्यवस्थाभावादिति चेत्- न चेत्रमिति प्रथमान्तस्यासाधुत्वात् ।
द्वितीयान्तस्य तु कर्मवचनत्वेन तत्सम्बन्धाद्(२६०)भाव्यानपेक्षिणी भावना भावकमात्रमपेक्षेत ।
न च कटस्य चैत्रं प्रतिभावकत्वम्, विर्ययात् ।
अनाप्तेन तु विवक्षायां प्रयुज्यत एव ।
प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि- न- नित्यसन्दिग्धत्वेन वाक्यार्थासमर्पकत्वात् ।
ततस्तदुपपत्तये विशेषस्यव्यञ्जनीयत्वात् ।
व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत्- न- अप्रयोगात् ।
नह्यनाप्तेनाप्येवं प्रायाणि प्रयुज्यन्ते ।
लक्षणाविरोधेन कुत एतदेवेति चेत्- लोकस्यापर्यनुयोज्यत्वात् ।
न हि गार्गिकयेति पदं साध्विति श्लाघाभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते ।
तस्य तदुपाधिनैव विहितत्वादिति चेत्- एतदेव कुतः? लोके तथैव प्रयोगदर्शनादिति चेत्- तुल्यम् ।
करोतीत्यादि कर्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभव्याहारेणैवेति किमत्र क्रियताम् ।
[कु।५।६५९] इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेन ह्येतावान् परामर्शःसर्वेषां हृदि पदमादधातीत्यभिधानानभिधानविभाग एव व्युत्पादनदशायां पेशल इति ।
[कु।५।६६०] स्यादेतत्- भवतु सर्वाख्यातसाधारणी भावना; कालविशेषसम्बन्धिनी सा लडाद्यर्थः, कालत्रयापरामृष्टा लिङार्थ इति चेत्- न यत्नपदेन समानार्थत्वप्रसङ्गात् ।
विषयोपरागानुपरागाभ्यां विशेष इति चेन्न- यागयत्न इत्यनेन पर्यायतापत्तेः ।
कर्तृसङ्ख्याभिधानानभिधानाभ्यां विशेष इति चेन्न- यागयत्नवानित्यनेन साम्यापत्तेः ।
इष्ट एवायमर्थ इति चेन्न- इतो वत्सरशतेनाप्यप्रवृत्तेः ।
फलसमभिव्याहाराभावान्न प्रवर्त्तते इति चेन्न- स्वर्गकामो यागयत्नवानित्यतो ऽप्यप्रवृत्तेः ।
तत् कस्य हेतोः? न हि यत्नो यत्नस्य
हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणम्; अपि त्विच्छा ।
[कु।५।६६१] न च सापि प्रतीता यत्नजननी- येन सैव विध्यर्थ इत्यनुगम्यताम्- अपितु सत्तया ।
न च लिङः श्रुतिकाले सा सती ।
न च लिङेव तां जनयति; अर्थविशेषमप्रत्याययन्त्यास्तस्याः ( २६१) तज्जनकत्वे व्युत्पत्तिग्रहणवैयर्थ्यात् ।
अनुपलब्धलिङाञ्चेच्छानुत्पत्तिप्रसङ्गादिति ।
एतेन- वृद्धव्यवहाराद्व्युत्पत्तिर्भवन्ती बालस्यात्मनि प्रवृत्तिहेतुर्यो ऽवगतस्तमेवाश्रयेत्, स्वयञ्च कुर्यामिति सङ्कल्पादेवायं प्रवृत्तः, ततःस एव लिङार्थ इति निरस्तम् ।
कुर्यामिति प्रयत्नो वा स्यादिच्छा वा? नाद्यः,स्वात्मनि वृत्तिविरोधात् ।
न द्वितीयः; सा हि सत्तयैव प्रयत्नोत्पादिनी ।
न च लिङः श्रुतिकाले सा सतीत्युक्तम् ।
फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः; अन्यविषयत्वात् ।
तदर्थञ्च शास्त्रवैयर्थ्यात् ।
तस्याः कारणान्तरत एव सिद्धेस्तत्प्रतीत्यर्थमपि शास्त्रानपेक्षणात् ।
तस्याः मनोवेद्यत्वात् ।
अप्राप्ते (२६२) च शास्त्रमर्थवत्; प्राप्ते च शास्त्रानवकाशात् ॥
तदभिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात् ।
तदा हि यजेतेत्यस्यैव यागकर्ता स्वर्गकाम इत्यर्थःस्यात् ।
[कु।५।६६२] यदिच फलविषयैव साधनविषयं प्रयत्नं जनयेत्, अन्यत्रापि प्रसुवीत नियामकाभावात् ।
हेतुफलभाव एव नियामक इति चेन्न- अज्ञातस्य तस्य नियामकत्वे लिङं विनापि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् ।
ज्ञातस्य तु तत्साधनत्वस्य नियामकत्वे तदिच्छैव तत्र प्रवर्तयतुः यो यत्कामयते स तत्साधनमपि कामयत एवेति नियमात् ।
न च सा तदानीं सती ।
न च तज्ज्ञानमेव प्रयत्नजनकम्, तच्च लिङा क्रियते इति युक्तम्; स्वर्गकामो यागचिकीर्षावानित्यतो ऽपि प्रवृत्तिप्रसङ्गात् ।
लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्तेत ।
स्वसम्बन्धितया तदवगमस्तथा न तु सामान्यत इति चेन्न- प्रथमपुरुषेण तदनभिधाने तस्याविध्यर्थत्वप्रसङ्गात् ।
ओदनकामस्त्वं पाकचिकीर्षावानित्यतो ऽपि प्रवृत्त्यापत्तेश्च (त्तेः) अपिच सङ्कल्पज्ञानाद्यदि प्रयत्नो जायेत, तथापि सङ्कल्पस्य कुतो जन्म किमर्थञ्च? सङ्कल्पज्ञानादेव, प्रयत्नार्थञ्चेति चेत्- नन्विच्छाविशेषः सङ्कल्पः, स तावत्सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम्? तत्साधनत्वादेवेति चेत्- तर्हि तत्साधनत्वाज्ञानात्, न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति ।
अन्यथेष्टसाधनताज्ञानमप्यनर्थकमापद्येत ।
तस्मात्, सङ्कल्पः प्रवर्तक इत्यभ्युपेयते, किन्तु सत्तामात्रेण, न तु ज्ञात इति नासौ विधिः ।
ज्ञानञ्च विषयोपहारेणैव व्यवहारयतीति तद्विषय एवावशिष्यते ।
इति कर्तृधर्मव्युदासः ।
[कु।५।६६३] अस्तु तर्हि कर्मधर्मः नेत्युच्यते ।
अतिप्रसङ्गान्न फलं नापूर्वं तत्वहानितः ।
तदलाभान्न कार्यञ्च न क्रियाप्यप्रवृत्तितः ॥१२॥

। कर्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा? न प्रथमः, फलेच्छायाः प्रवृत्तिं प्रत्यहेतुत्वात्; अतिप्रसङ्गादित्युक्तत्वात् ।
न द्वितीयः, अव्युत्पत्तेः ।
लिङो हि प्रवृत्तिनिमित्तमपूर्वत्वं वा स्यात्, कार्यत्वं वा स्यात् उभयं वा ।
न प्रथमः ।
शब्दप्रवृत्तिनिमित्तस्यापूर्वत्वस्य प्रमाणान्तरादवगतावपूर्वत्वव्याघातात् ।
अनवगतावव्युत्पत्तेः ।
सम्बन्धनो ऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात् ।
तत एवावगतावितरेतराश्रयदोषात् ।
न च गन्धवत्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् (२६३) अदूरविप्रकर्षेण कार्यत्वेनोपनीतेनापूर्वत्वेन निमित्तेनापूर्वे प्रवर्तते लिङिति युक्तम् ।
तत्रोभयोरपि प्रतीयमानत्वेन सन्देहे कल्पनागौरवपुरस्कारेण पृथिवीत्व एव सङ्गतिविश्रान्तेरुपपत्तेः ।
न त्वत्रापूर्वत्वप्रतीतिः ।
[कु।५।६६४] स्यादेतत्- कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता ।
तदुपलक्षितश्च यागो वा यत्नो वान्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधनसमर्थः ।
न चाकाम्यफले कामी नियोक्तुं शक्यते ।
ततो ऽन्यदेवालौकिकं किञ्चिदनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्निमिति चेत्- न- (२६४) उपलक्षणं हि स्मरणमनुमानं वा ।
उभयमप्यनवगतसम्बन्धेनाशक्यम् ।
न हि संस्कारवन्मनोवददृष्टवद्वा कार्यत्वमपूर्वत्वमुपलक्षयति,ज्ञानापेक्षणात् ।
ततो हस्तीव हस्तिपकम्, धूम इव धूमध्वजम्, तत्सम्बन्धज्ञानादुपलक्षयेत्, नत्वन्यथा ।
तथाच न्यायसम्पादनाप्यरण्येरुदितम् ।
न हि युक्तिसहस्रैरपि अविदिते सङ्गतिग्रहो ऽविदितसङ्गतिर्वा शब्दः प्रवर्तते इति ।
एतेन भेदाग्रहात् क्रियाकार्ये व्युत्पत्तिरिति निरस्तम्, न ह्यज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात् ।
किञ्चापूर्वत्वे प्रवृत्तिनिमित्ते कल्प्यमाने लौकिकी लिङनर्थिका प्रसज्येत ।
तत्रोपलक्षणीयाभावात् ।
तत्र (२६५) कार्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृते ऽपि तथैवास्तु कॢप्तत्वात सम्भवाच्चेति ।
[कु।५।६६५] अस्तु तर्हि तदेव प्रवृत्तिनिमित्तम्, तर्कसम्पादनयात्वपूर्वव्यक्तिलाभ इति चेन्न- नित्यनिषेधापूर्वयोरलाभप्रसङ्गात् ।
नचास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रार्थेनान्यत्र
तथैव व्यवहार इति सम्भवति, कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णीतत्वात्, नत्वपूर्वत्वस्य ।
न्यायसम्पादनायाश्च तत्रासम्भवात् ।
फलानुगुण्येन हि व्यक्तिविशेषो लभ्यते ।
न च तत्तत्र श्रूयते ।
न चाश्रुतमपि कल्पयितुं शक्यते ।
बीजाभावात् ।
तद्धि विध्यन्यथानुपपत्या कल्प्येत, कार्य्यत्वप्रत्ययान्यथानुपपत्या वा लोकवत् ।
न प्रथमः; भवतां दर्शने तस्योपेयरूपत्वात् ।
यतः श्रुतस्वर्गफलत्वे ऽपि साध्यविवृद्धिरुच्यते ।
न द्वितीयः; शब्दबलेन तत्प्रत्यये तदनपेक्षणात् ।
लोके हि तत्प्रत्यय इष्टाभ्युपायताधीनः, न तु वेदे इत्यभ्युपगमात् ।
अन्यथेष्टाभ्युपायतैव प्रथमं वेदादवगन्तव्या; प्रमाणान्तराभावात्; ततः कार्य्यतेत्यानुमानिको विधिःस्यात्, न शाब्दः ।
आनुमानिकं फलमस्तु, यत्कर्तव्यं तदिष्टाभ्युपाय इति व्याप्तेरित्यपि न युक्तम्; सुखेन व्यभिचारात् ।
अन्यत्वे सतीति चेन्न- दुःखाभावेन व्यभिचारात् ।
फलं विहायेति चेत्- तदेव किमुक्तं स्यात् ।
इष्टं स्वभावत इति चेत्- तर्हि ततो ऽन्यदनिष्टं स्यात्, तच्च कर्तव्यमिति व्याघातः ।
तत्साधनमिति चेत्- तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम् ।
“स्वभावतो नेदमिष्टं कर्तव्यञ्च, ततो नूनमिष्टसाधनमिति साधनार्थ इति चेन्न- स्वभावतो नेदमिष्टमित्यसिद्धेः ।
अनन्योद्देशप्रवृत्तकृतिव्याप्तत्वात् ।
अन्यथा तदसिद्धेः (२६६) ।
ततो व्याघातादन्यतरापाय इति ।
[कु।५।६६६] अस्तु नित्यनिषेधापूर्वयोरलाभः, किं नश्छिन्नमिति चेत्- किं नश्छिन्नम्, यदा कामाधिकारे ऽपि तदलाभः ।
नहि लिङा कार्यं स्वर्गसाधनमुक्तम् ।
नापि स्वर्गकामपदसमभिव्याहारान्यथानुपपत्या तल्लब्धम्, ब्राह्मणत्वादिवदधिकार्यवच्छेदमात्रेणैवोपपत्तेः ।
नचेदमनुमानम्- यस्य यदिच्छातो यत्कर्तव्यम्, तत्तस्येष्टसाधनमिति ।
अन्येच्छया स्वाभाविककर्तव्यत्वासिद्धेः ।
तदिच्छयैव तत्कर्तव्यतायाःसुखेनानैकान्तिकत्वात् ।
औपाधिककर्तव्यतायाश्चेष्टसाधनत्वमप्रतीत्यप्रत्येतुमशक्यत्वात् ।
किमनया विशेषचिन्तया ।
प्रतीयते तावच्छब्दादन्यदिच्छतो ऽन्यत्कार्यमिति ।
एतावतैवानुमानमिति चेत्-
नन्वन्वितमभिधानीयम्, योग्यञ्चान्वीयते ।
अन्यदिच्छतश्चान्यत् कर्तव्यमन्वयायोग्यम्, तत्कथमभिधीयताम् ।
तत एव तत्साधनत्वसिद्धिरिति चेत्-
एवं तर्हीष्टसाधनतैकार्थसमवायिकर्तव्यत्वाभिधानादनुमानानवकाशः ।
नचान्विताभिधाने ।
आपि(?) तत्साधनत्वसिद्धिः; अधिकार्यवच्छेदमात्रेणाप्यन्वययोग्यतोपपत्तेः ।
[कु।५।६६७] न च कार्यत्वमपूर्वे सम्भवति ।
तद्धि कृतिव्याप्यता चेत्- व्रीह्यादिष्वेव; सिद्धत्वात् ।
कृतिफलत्वं चेत्- यागस्यैव; ततस्तस्यैवाहत्योत्पत्तेः ।
कृत्युद्देश्यता चेत्- स्वर्गस्यैव; निसर्गसुन्दरत्वात् ।
न त्वपूर्वस्य; तद्विपरीतत्वात् ।
स्तनपानादिवदौपाधिकीति चेत्- सापि यागस्यैव ।
स्वर्गस्य साध्यत्वस्थितौ यागस्यैव साधनत्वेनान्वयात् ।
कालव्यवधानान्नैतन्निर्वहतीति चेत्- यथा निर्वहति, श्रुतानुरोधेन तथा कल्प्यताम् (२६७) ।
“व्यापारद्वारा कथञ्चित् स्यात् ।
न तु भिन्नकालयोर्व्यापारव्यापारिभावः ।
कारणत्वञ्च व्यापारेण युज्यते ।
अव्यवधानेन पूर्वकालनियम्श्च तत्त्वम् ।
अन्यथातिप्रसङ्गाऽदिति चेत्- न- पूर्वभावनियममात्रस्य कारणत्वात् ।
कार्यानुगुणावान्तरकार्यस्यैव व्यापारत्वात् ।
कृषिचिकित्सादौ बहुलं तथा व्यवहारात् ।
लाक्षणिको ऽसाविति चेन्न- मुख्यार्थत्वे विरोधाभावात् ।
अस्तु तर्हि पुत्रेण हते ब्रह्मणि चिरध्वस्तस्य पितुस्तमवान्तरव्यापारीकृत्य कर्तृत्वम् ।
तथाच लोकयात्राविप्लव इति चेत्- न- सत्यपि सुते कदाचित्तदकरणात् तस्मिन्नसत्यपि कदाचित्कारणादनिर्वाहकतया तस्य व्यापारत्वायोगात् ।
यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः स एव तं प्रति तस्य व्यापारो नापरः ।
यथानुभवस्य स्मरणं प्रति संस्कारः ।
तस्य ह्यन्वयव्यतिरेकानुविधाने सिद्धे तदन्यथानुपपत्या संस्कारः कल्प्यते, न त्वन्यथा- तथेहापि ।
न चेदेवम्, तवापि ब्रह्मभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात् ।
स्याच्च स्वनिवेशनशयानस्य तत्पितुरिति ।
एतेनोभयं नेति निरस्तम् ॥
[कु।५।६६८] अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः ।
सर्वोहि कर्तव्यमेतदिति प्रत्येति ।
ततः कुर्यामिति सङ्कल्प्य प्रवर्तते इति चेत्- न- कर्तव्यं मयेति कृत्यध्यवसायार्थो वा स्यात्, कर्तव्यं मयेत्युचितार्थो वा स्यात? तत्र प्रथमःसङ्कल्पान्न भिद्यते ।
व्यवहितकार्यसङ्कल्पो हि कर्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति ।
स च न लिङार्थः; सत्तामात्रेण प्रवर्तनादित्युक्तम् ।
तदेतत् कर्तव्यतायां जातायां प्रवर्तते इति वस्तुस्थितौ भ्रान्तैर्ज्ञातायामिति गृहीतम् ।
औचित्यन्तु क्रियाधर्मः प्रागभाववत्त्वम्, तस्मिन् सति शक्यत्वं वा, तस्मिन् सति
कर्तारं प्रत्युपकारकत्वं वा? प्रथमे कुतश्चिदपि न निवर्तेत ।
द्वितीये दुःखे ऽपि तथाविधे प्रवर्तेत ।
तृतीये तु वक्ष्यते ।
[कु।५।६६९] अस्तु तर्हि करणधर्मः- न- करणं हि शब्दः, तद्धर्मो ऽभिधा वा स्यात्; तदर्थो भावनादिः (२६८) वा, तद्धर्म इष्टसाधनता वा ।
न प्रथमः- असत्त्वादप्रवृत्तेश्च नाभिधापि गरीयसी ।
बाधकस्य समानत्वात् परिशेषो ऽपि दुर्लभः ॥१३ ॥
सङ्गतिप्रतिसन्धानाधिकाया।ं तस्यां प्रमाणाभावात् ।
अन्यसमवेतस्यापूर्ववदन्यव्यापारत्वेनाप्युपपत्तेः ।
विषयतयापि (विषयतायामपि) च स्वव्यापारं प्रतिलिङ्गवद्धेतुभावाविरोधात ।
अधिकत्त्वे ऽपि ततो ऽप्रवृत्तेः ।
बालानां तदभावे ऽपि तद्भावात् ।
शब्दान्तरेण तच्छ्राविणामप्यप्रवृत्तेः ।
न च विलक्षणैव सा लिङो विषयः ।
तद्वैलक्ष्यण्यं प्रतीतिं (प्रतिपत्तिम्) प्रति चेत्, अर्थविशेषो ऽपि स्यात् ।
प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः? तत्सन्निधानादिति चेन्नः अनियमात् ।
अन्यस्य सर्वस्य निषेधादिति चेन्न- प्रवृत्तिहेतुत्त्वनिषेधस्य तुल्यत्वात् ।
तत्सन्निधिनिषेषस्य चाशक्यत्वात् ।
शब्दैकवेद्यत्वे चाव्युत्पत्तेः ।
“प्रवृत्त्यन्यथानुपपत्तिसिद्धे व्युत्पत्तिऽरित्यपि वार्तम्- नहि प्रवृत्तिहेतुः कश्चिदस्तीति प्रवर्तते ।
[कु।५।६७०] इष्टसाधनता तु स्यात् ।
सर्वो हि मया क्रियमाणमेतन्मम समीहितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानुभवसिद्धम् ।
तदयं व्युत्पित्सुर्यज्ज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान्, तज्ज्ञानमेव लिङ्श्राविणः प्रवृत्तिकारणमनुमिनोति ।
ततश्च कर्तव्यतैकार्थसमवायिनी इष्टसाधनतालिङार्थ इत्यवधारयति ।
न च वाच्यम् एवञ्चेत् वरं कर्तव्यतैवास्तु, अवश्याभ्युपगमनीयत्वात्; कृतमिष्टसाधनतयेति- यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्तते, असाध्येषु व्यभिचारात्- तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्तते इत्यनुभवः ।
तत्र विषयो धातुना, भावनाऽख्यातमात्रेण,शेषन्तु तद्विशेषेण लिङा इत्येवमिष्टाभ्युपायतायामधिगतायामन्वयबलात् (२६९) तद्विषयस्येष्टसाधनत्वावगतिरिति कर्तव्यतैकार्थसमवायिनीष्टाभ्युपायतात लिङाः प्रवृत्तिनिमित्तमित्युक्तम् ।
[कु।५।६७१] करणस्येष्टसाधनताभिधाने ज्योतिष्टोमेनेति तृतीयया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव ।
तत्सङ्ख्याभिधानं हि तदभिधानमाख्यातेन ।
न च तत् प्रकृते ।
न च यागेष्टसाधनताभिधानं लिङा; किन्त्वन्वयबलात्तलाभ इत्युक्तम् ।
[कु।५।६७२] यत्तु सिद्धा(द्धो)पदेशादपि प्रतीयते इष्टसाधनता; न चातः सङ्कल्पात्मा प्रवृत्तिरस्तीति देश्यम्- तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनतावहमे ऽपि न (२७०) प्रवृत्तिरिति कः प्रतीयात् ।
सर्वपक्षसमानञ्चैतत् समानपरीहारञ्चेति किं तेन ।
[कु।५।६७३] अत्राभिधीयते- अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः; तथापि नासौ लिङार्थः सन्देहात् ।
सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादावनुमानादिव बालेन; किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते,चेष्टाविशेषानुमितादिवाभिप्रयविशेषात् समयाभिज्ञेनेति सन्दिह्यते ।
एवञ्च सति सा नाभिधीयते इत्येव निर्णयः- हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः ।
अन्यत्र कॢप्तसामर्थ्यान्निषेधानुपपत्तितः ॥१४ ॥
[कु।५।६७४] तथाहि- अग्निकामो दारुणी मथ्नीयादिति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति, यतस्तन्मन्थनादग्निररस्य सिध्यतीति ।
(तरतिमृत्युं?) तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते इत्यादाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः यत्, “अश्वमेधेन यजेत मृत्युब्रह्महत्यातरणकाम” इत्यादिविधिम्; निन्दया च निषेधम्; तद्यथा- “अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः” इत्यतः नात्मानं हन्यादिति ।
कुर्य्याः कुर्य्यामित्यत्र विधिविहितैव लिङ् नेष्टाभ्युपायतामाह; किन्तु वक्तृसङ्कल्पम् ।
नहीष्टाभ्युपायो ममायमिति कुर्यामितिपदार्थः, किन्तुतत्प्रतिपत्तेरनन्तरं यो ऽस्य सङ्कल्पः कुर्यामिति, स एव ।
सर्वत्र चान्यत्र वक्तुरेवेच्छाभिधीयते लिङेत्यवधृतम् ।
तथाह्याज्ञाध्येषणानुज्ञासम्प्रश्नप्रार्थनाशंसा लिङिनान्यच्चकास्ति ।
यां वक्तुरिच्छामननुविदधानस्तत्क्षोभाद्बिभेति, सा आज्ञा ।
या तु श्रोतुः पूजासम्मानव्यञ्जिका, सा अध्येषणा ।
वारणाभावव्यञ्जिका अनुज्ञा ।
अभिधानप्रयोजना सम्प्रश्नः ।
लोभेच्छा प्रार्थना ।
शुभाशंसनमाशीरिति ।
[कु।५।६७५] न च विधिविकल्पेषु निषेध उपपद्यते ।
तथाहि- यदाभिधा विधिः, तदा, न हन्यात्- हननभावना नाभिधीयत इति वाक्यार्थो व्याघातान्निरस्तः ।
यदा कालत्रयापरामृष्टा भावना, तदा नेति सम्बन्धे ऽत्यन्ताभावो मिथ्या ।
यदा कार्यम्, तदा, न हन्यात्- न हननं कार्यमित्यनुभवविरुद्धम्; क्रियत एव यतः ।
न हननेन कार्यम्-
हननकारणकं कार्यं नास्तीत्यर्थ इत्यपि नास्ति ।
दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य तत्र सद्भावात् ।
[कु।५।६७६] हननकारणकमदृष्टं (मपूर्वम्) नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्तयेदेवेति साधु शास्त्रार्थः ।
अहननेनापूर्वं भावयेदिति त्वशक्यं कारणस्यानादित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तदविषयत्वात् ।
अहननसङ्कल्पेनेति यावज्जीवमविच्छिन्नितत्सङ्कल्पःस्यात् ।
सकृत्कृत्वैववा निवृत्तिः; पश्चाद्धन्यादेवाविरोधात् ।
सम्पादितो ह्यनेन नियोगार्थः ।
“यावद्यावद्धननसङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वाऽदित्यपि वार्तम्- तदश्रुतेः ।
प्रसक्तं हि प्रतिषिध्यते,नाप्रसक्तमिति चेत्- न वै किञ्चिदिह प्रतिषिध्यते; तदभावः प्रतिपाद्यते इति निषेधार्थः; अहननसङ्कल्पकरणकमपूर्वं (२७१) वाक्यार्थः ।
किञ्च न हन्यादिति अहननेनापूर्वस्य कर्तव्यताप्रत्ययो जातो वेदात्; जातश्च हननक्रियायां रागात् ।
निष्फलाच्च कार्यादपेक्षितफलङ्गरीय इति न्यायेन हन्यादेवेत्यहो वेदव्याख्याकौशलमास्तिक्याभिमानिनो मीमांसकदुर्दुरूटस्य (२७२) ।
[कु।५।६७७] इष्टसाधनतापक्षे ऽपि, न हन्यात्- न हननभावना इष्टाभ्युपाय इति वाक्यार्थः ।
तथाचानिष्टसाधन्त्वं कुतो लभ्यते ।
न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टम्, उपेक्षणीयस्यापि भावात् ।
“यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथासविषमन्नं न भुञ्जीथा इति ।
तेन वेदे ऽप्यनुमास्यते” इत्यपि न साधीयः- प्रतिषेधार्थस्यैव चिन्त्यमानत्वात् ।
न हि कर्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वाभावः प्रतिपादयितुं शक्यते; लौकिकानां लौकिकप्रमाणसिद्धत्वात् ।
तथापि प्रतिपाद्यते तावदिति चेन्न- पाषण्डागमनिषेधेनानेकान्तात् ।
नासौ प्रमाणमिति चेन्न- अर्थविपर्ययप्रतिपादनाविशेषे ऽस्यापि तथाभावात् ।
तात्पर्य्यतः प्रामाण्यमिति चेन्न- विधिनिषेधयोरनन्यपरत्वात्; न विधौ परः शब्दार्थ इति वचनात् ।
तथापि निषेधे तथा भविष्यतीति चेन्न- अविनाभावतदुद्देशप्रवृत्त्योरभावात् ।
नाप्यसुराविद्यादिवदस्य नञो विरोधिवचनत्वम् ।
क्रियासङ्गतत्वात्; असमस्तत्वाच्च ।
तस्मात्-[कु।५।६७८] विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः ।
अभिधेयो ऽनुमेया तु कर्तरिष्टाभ्युपायता ॥१५ ॥
तत्र्।अ स्वयङ्कर्तृकक्रियेच्छाभिधानं कुर्यामिति ।
सम्बोध्यकर्तृकक्रियेच्छाभिधानं कुर्या इति ।
शेषकर्तृकक्रियेच्छाभिधानं कुर्वीतेति ।
तथाचाग्निकामो दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्ययमर्थःसम्पद्यते, अग्निकामस्य दारुमथने प्रवृत्तिर्ममेष्टेति ।
ततः श्रोतानुमिनोति, नूनं कारुमथनयत्नो ऽग्नेरुपाय इति ।
यद्विषयो हि प्रयत्नो यस्याप्तेनेष्यते, स तस्यापेक्षितहेतु; तथा तेनावगतश्च; यथा (२७३) ममै (यै?) व पुत्रादेर्भोजनविषयः इति व्याप्तेः ।
विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टेत्यर्थः ।
ततो ऽपि श्रोतानुमिनोति, नूनं विषभक्षणभावना अनिष्टसाधनम्; यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोप्याप्तेन नेष्यते, स ततो ऽधिकतरानर्थहेतुः, तथा तेनावगतश्च; यथा ममै(यै?)व पुत्रादेः क्रीडा- कर्दमविषभक्षणादिविषय इति व्याप्तेः ।
[कु।५।६७९] लौकिक एव वाक्ये ऽयं प्रकारः कदाचिद्बुद्धिमधिरोहति, न तु वेदिकेषु, तेषु पुरुषस्य निरस्तत्वादिति चेन्न- निरासहेतोरभावात् ।
तदस्तित्वे ऽपि प्रमाणं नास्तीति चेत्- मा भूदन्यत्; विधिरेव तावत् गर्भ इव पुंयोगे प्रमाणं श्रुति कुमार्याः; किमत्र क्रियताम्? लिङो वा लौकिकार्थातिक्रमे, " य एव लौकिकास्त एव वैदिकास्त एव चैषामर्था” इति विप्लवेत ।
तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति भव सुस्थः ।
स्यादेतत् ।
तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु ।
कृतं स्वतन्त्रेण वक्त्रा परमेश्वरेणेति चेत्- न- तेषामनुवक्तृतयाभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायाभावात् ।
भावे वा न राजशासनानुवादिनो ऽभिप्राय आज्ञा,किं नाम राज्ञ एवेति लौकिको ऽनुभवः ।
[कु।५।६८०] श्रुतेः खल्वपि- कृत्स्न एव हि वेदो ऽयं परमेश्वरगोचरः ।
स्वार्थद्वारैवतात्पर्य्यं तस्य स्वर्गादिवद्विधौ ॥१६ ॥
न्।अ सन्त्येव हि वेदभागाः; यत्र परमेश्वरो न गीयते ।
तथाहि- स्रष्टृत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रवञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति ।
सिद्धार्थतया न ते प्रमाणमिति चेन्न- तद्धेतु(तोः)कारणदोषशङ्कानिरासस्य भाव्यभूतार्थसाधारणत्वात् ।
[कु।५।६८१] अन्यत्रामीषां तात्पर्यमिति चेत्- स्वार्थप्रतिपादनद्वारा,शब्दमात्रतया (२७४) वा? प्रथमे स्वार्थे ऽपि प्रमाण्यमेषितव्यम्,
तस्यार्थस्यानन्यप्रमाणकत्वात् ।
अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या ।
तत्प्रतिपादकत्वे ऽपि न तत्र तात्पर्यमिति चेत्- स्वार्थापरित्यागे (गेन?) ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः? अन्यथा स्वर्गनरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत ।
तत्राबाधनात्तथेति चेत्- तुल्यम् ।
न तादृशो ऽ(गर्)थः क्वचित् दृष्ट इति चेत्- स्वर्गादयो ऽपि तथा ।
तन्मिथ्यात्वेतदर्थिनामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्- इहापि तदुपासनाविधानानर्थक्यप्रसङ्गः ।
तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपासीतेति तुल्यमिति ।
[कु।५।६८२] वाक्यादपि ।
संसर्गभेद(विशेष)प्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् ।
तथाच यत्पदकदम्बकं यत्संसर्गभेदप्रतिपादकम्, तत् तदनपेक्षसंसर्गज्ञानपूर्वकं यथा लौकिकम्; तथा च वैदिकमिति प्रयोगः ।
विपक्षे च बाधकमुक्तम् ।
[कु।५।६८३] सङ्ख्याविशेषादपि- स्यामभूवं भविष्यामीत्यादिसङ्ख्या च वक्तृगा ।
समाख्यापि न शाखानामाद्यप्रवचनादृते ॥१७ ॥
कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते ।
तथाहि- उत्तमपुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् ।
अस्ति च तत्प्रयोगः प्रायशो वेदे ।
ततस्तदभिहितया तयापि स एवानुगन्तव्यः ।
अन्यथानन्वयप्रसङ्गात् ।
अथवा समाख्याविशेषः सङ्ख्याविशेष उच्यते ।
काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्यन्ते ।
ते च न प्रवचनमात्रनिबन्धनाः, प्रवक्तॄणामनन्तत्वात् ।
नापि प्रकृष्टवचननिमित्ताः; उपाध्यायेभ्यो ऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात् ।
तत्पाठानुकरणे च प्रकर्षाभावात् ।
कति चानादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति ।
नाप्याद्यस्य वक्तुः समाख्येति युक्तम्; भवद्भिस्तदनभ्युपगमात् ।
अभ्युपगमे वा स एवास्माकं वेदकार इति,वृथा विप्रतिपत्तिः ।
[कु।५।६८४] स्यादेतत् ।
ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः ।
तदध्येया तदनुष्ठेयार्था च शाखा तत्समाख्यया व्पपदिश्यते इति किमनुपपन्नम्- न- क्षत्रियादेरपि तत्रैवाधिकारात् ।
न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति ।
न च क्षत्रियादेरन्यो वेद इत्यस्ति ।
न च कठाः काठकमेवाधीयते, तदर्थमेवानुतिष्ठन्तीति नियमः; शाखासञ्चारस्यापि प्रायशो दर्शनात् ।
प्रागेवं (वायम्) नियम आसीत्; इदानीमयं विप्लवते इति चेत्- विप्लव एव तर्हि सर्वदा, कठाद्यवान्तरजातिविप्लवादित्यगतिरेवेयम् ।
तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्याविशेषसम्बन्ध इत्येव साध्यिति ॥
श्रीः ॥
[कु।५।६८५] स एवं भगवान् श्रुतो ऽनुमितश्च कैश्चित् साक्षादपि दृश्चते प्रमेयत्वादेर्घ(त्वात् घ)टवत् ।
ननु तत्सामग्रीरहितः कथं द्रष्टव्यः? सा हि बहिरिन्द्रियगर्भमनोगर्भा वा तत्र न सम्भवति; चक्षुरादेर्नियतविषयत्वात्; मनसो बहिरस्वातन्त्र्यात् ।
तदुक्तम्, “हेत्वभावे फलाभावाऽदित्यादि- न- कार्यैकव्यङ्ग्यायाःसामग्र्या निषेद्धुमशक्यत्वात् ।
[कु।५।६८६] अपिच दृश्यते तावद्बहिरिन्द्रियोपरमे ऽपि असन्निहितदेशकालार्थसाक्षात्कारः ।
न च स्मृतिरेवासौ पटीयसी, “स्मरामि” “स्मृतम्” वेति स्वप्नानुसन्धानाभावात्; “पश्यामि,” “दृष्ट” मित्यनुव्यवसायात् ।
नचारोपितं तत्रानुभवत्वम्, अबाधनात् ।
अननुभूतस्यापि स्वशिरच्छेदनादेरवभासनाच्च ।
स्मृतिविपर्यासो ऽसाविति चेत्- यदि स्मृतिविषये विपर्यास इत्यर्थः, तदानुमन्यामहे ।
अथ स्मृतावेवानुभवत्वविपर्यासः इति; तदा प्रागेव निरस्तः ।
न च सम्भवत्यपि ।
न ह्यन्येनाकारेणाध्यवसितो ऽन्येन ज्ञानावच्छेदकतयाध्यवसीयते ।
तथाच स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति ।
न ह्ययं घट इति स्मृतेराकारः ।
तस्मादनुभव एवासौ स्वीकर्तव्यः ।
[कु।५।६८७] अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वम्, संवादात् ।
तच्च काकतालीयमपि न निर्निमित्तम्; सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात् ।
हेतुश्चात्र धर्म एव ।
स च कर्मजवत् योगजो ऽपि योगविधेरवसेयः; कर्मयोगविध्योस्तुल्ययोगक्षेमत्वात् ।
तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलम्; धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति ।
अतस्तत्सामग्रीविरहो ऽसिद्धः ।
[कु।५।६८८] तथापि विपक्षे किं बाधकमिति चेत्- “द्वे ब्रह्मणी वेदितव्ये” इत्यादि योगविधिवैयर्थ्यप्रसङ्गः, अशक्यानुष्ठानोपायोपदेशकत्वात् ।
न चासाक्षात्कारिज्ञानविधानमेतत्; अर्थज्ञानावधिनाध्ययनविधिनैव तस्य गतार्थत्वादिति ।
एतेन परमाण्वादयो व्याख्याता इति ।
[कु।५।६८९] तदेनमेवम्भूतमधिकृत्य श्रूयते- “न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते” इति, “एकमेवाद्वितीयऽमिति, “पश्यत्यचक्षुः स शृणोत्यकर्ण” इति, “द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव चेऽति, “यज्ञेन यज्ञमयजन्त
देवा” इति, (यज्ञो (२७५) वै देवा इति) “यज्ञो वै विष्णुऽरत्यादि ।
स्मर्यते च- (गी।) “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज” इति, “मदर्थं कर्म कौन्तेय मुक्तसङ्गःसमाचर” इति, “यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धन” इति, “यज्ञायाचरतः कर्म समग्रं प्रविलीयते” इत्यादि ।
अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् ।
तमिमं ज्योतिष्टोमादिभिरिष्टैः, प्रासादादिना पूर्तेन,शीतातपसहनादिना तपसा, अहिंसादिभिर्यमैः, शौचसन्तोषादिभिर्नियमैः, आसन(२७६)प्राणायामादिना योगेन महर्षयो ऽपि विविदिषन्ति ।
तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् ।
यत्तेदं गीयते- “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः” ।
“भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति” इति ।
[कु।५।६९०] इत्येवं श्रुतिनीतिसम्प्लवजलैर्भूयोभिराक्षालिते ।
येषां नास्पदमादधासि हृदये ते शौलसाराशयाः (२७७) ॥
किन्त्।उ प्रस्तुतविप्रतीपविधयो ऽप्युच्चैर्भवच्चिन्तकाः ।
काले कारुणिक! त्वयैव कृपया ते भावनीया (२७८) नराः ॥१८ ॥
अस्माकं तु निसर्गसुन्दर! चिराच्चेतो निमग्नं त्वयी त्यद्धाऽनन्दनिधे! तथापि तरलं नाद्यापि सन्तृप्यते (२७९) ॥
तन्नाथ! त्वरितं विधेहि करुणां येन त्वदेकाग्रताम् ।
याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातनाः ॥१९ ॥
इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्रीर्यद्वासयेदपि च दक्षिणवामकौ (गौ) द्वौ ।
नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतो ऽस्त्वनेन पदपीठसमर्पितेनर् (पणेन?२८०) ॥२० ॥
इति न्यायाचार्यपदाङ्कितश्रीमदुदयनविरचितं न्यायकुसुमाञ्जलिप्रकरणं सम्पूर्णम् ॥ ॥
ॐ तत्सत् ।
ब्रह्मार्पणं भवतु ।
शुभमस्तु ।
श्रीरस्तु ॥
इ ।