Intro
Udayana: Nyayakusumanjali, Stavaka 4
Udayana: Nyayakusumanjali, Stavaka 4
Input by members of the Sansknet project
(www.sansknet.org)
This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
पाठः
श्रीः ॥
श्रीमते श्रीनिवासपरब्रह्मणे नमः ॥
न्यायकुसुमाञ्जलौ चतुर्थस्तबकः ।
ननु सदपीश्वरज्ञानं न प्रमाणम्, तल्लक्षणायोगात्; अनधिगतार्थगन्तुस्तथाभावात् ।
अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् ।
न च नित्यस्य सर्वविषस्यचानधिगतार्थता, व्याघातात्- अत्रोच्यते- अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् ।
यथार्थानुभवोमानमनपेक्षतयेष्यते ॥१ ॥
[कु।४।५०२] नह्यधिगतेर्ऽथे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात् ।
न चोत्पद्यमानापि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् ।
नापि पूर्वाविशिष्टतामात्रेणाप्रामाण्यम्; उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् ।
तदनपेक्षत्वेन तु तस्य प्रमाण्ये तदुत्तरस्यापि तथैव स्यात्, अविशेषात् ।
छिन्ने कुठारादीनामिव, परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पादानुत्पादाभ्यां विशेषात् ।
[कु।४।५०३] तत् फलं प्रमैव न भवति गृहीतमात्रगोचरत्वात् स्मृतिवदिति चेन्न- यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् ।
अनधिगतार्थत्व(२१३)निषेधे सिद्धसाधनात्, साध्यसमत्वाच्च ।
व्यवहारनिषेधे तन्निमित्तविरहोपाधिकत्वात्, बाधितत्वाच्च ।
नचानधिगतार्थत्वमेव तन्निमित्तम्, विपर्ययेपि प्रमाव्यवहारप्रसङ्गात् ।
नापि यथार्थत्वविशिष्टमेतदेव; धारावहनबुद्ध्यव्याप्तेः ।
[कु।४।५०४] न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थर्(थगन्तृ)त्वमुपपादनीयम्; क्षणोपाधीनामनाकलनात् ।
नचाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टताप्रकाशत इति कल्पनीयम्; स्वरूपेण तज्जनने ऽनागतादिविशिष्टतानुभवविरोधात्; तज्ज्ञानेन तु तज्जनने सूर्यगत्यादीनामज्ञाने तद्विशिष्टतानुत्पादात् ।
नचैतस्यां प्रमाणमस्ति ।
नन्वनुपकार्यानुपकारकयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः? व्यवच्छित्तिप्रत्यायनेन; व्यवच्छित्तौ स्वभावेन ।
अन्यथा तत्रा(वा)व्यनवस्थानादिति ।
[कु।४।५०५] ज्ञाततैवोपाधिरिति चेन्न- निराकरिष्यमाणत्वात् ।
तत्सद्भावेपि वा स्मृतेरपि तथैव प्रामाण्यप्रसङ्गात् ।
जनकागोचरत्वेप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणजनितज्ञाततावभासनात् ।
[कु।४।५०६] अस्तु वा प्रत्यक्षे यथातथा ।
गृहीतविस्मृतार्थश्रुतौ का वार्ता? अप्रमैवासाविति चेत्- गतमिदानीं वेदप्रामाण्यप्रत्याशया ।
नह्यनादौ संसारे,“स्वर्गकामो यजेतेऽति वाक्यार्थः केनचिन्नावगतः; सन्देहे ऽपि प्रामाण्यसन्देहात् ।
न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति ।
न चैकजन्मावच्छेदपरिभाषयेदं लक्षणम्, तत्राप्यनुभूतविस्मृतवेदार्थं प्रत्यप्रामाण्यप्रसङ्गात् ।
[कु।४।५०७] कथं तर्हि स्मृतेर्व्यवच्छेदः? अननुभवत्वेनैव ।
यथार्थोह्यनुभवः प्रमेति प्रामाणिकाः पश्य(ठ)न्ति; “तत्वज्ञाना(२१४)ऽदिति सूत्रणात्; “अव्यभिचारि ज्ञानऽमिति च ।
ननु स्मृतिः प्रमैव किं न स्यात् यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेन्न, सिद्धे व्यवहारे निमित्तानुसरणात् ।
न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम्; अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् ।
न च स्मृतिहेतौ प्रमाणाभियुक्तानां (प्रामाणव्यवहाराभियुक्तानाम्) महर्षीणां प्रमाणव्यवहारो ऽस्ति; पृथगनुपदेशात् ।
उक्तेष्वनन्तर्भावादनुपदेश इति चेन्न- प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः ।
लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति ।
[कु।४।५०८] एवं व्यवस्थिते तर्क्यते ऽपि यत्- इयमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्य(न)वस्थाप्य न यथार्थतया व्यवहर्तुं शक्यत (२१५) इति व्यवहारे ऽपि पूर्वानुभव एव प्रमितिः, अनपेक्षत्वात्; न तु स्मृतिः, नित्यं तदपेक्षणात् ।
असमीचीने ह्यनुभवे स्मृतिरपि तथैव ।
नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात् ।
न- विषयभेदात् ।
आगमस्तर्हि न प्रमाणम्, तद्विषयमानान्तरानुविधानात् ।
न- प्रमातृभेदात् ।
धारावाहिकबुद्धयस्तर्हि न प्रमाणम् आद्यप्रमाणानुविधानात् ।
न, कारणविशुद्धिमात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणाभावात् ।
कारणबलायातं काकतालीयं पौर्वापर्यमिति ।
[कु।४।५०९] यदि हि (यदि तर्हि) स्मृतिर्न प्रमितिः, पूर्वानुभवे किं प्रमाणम्? स्मृत्यन्यथानुपपत्तिरिति चेन्न- तया कारणमात्रसिद्धेः ।
न तु तेनानुभवेनैव भवितव्यमिति नियामकमस्ति ।
अननुभूतेपि तर्हि स्मरणं स्यादिति चेत्- किं न स्यात् ।
नह्यत्र प्रमाणमस्ति ।
पूर्वानौभवाकारो(भवो)ल्लेखःस्मृतेर्दृश्यते; सो ऽन्यथा न स्यादिति चेत्- तत् किं बौद्धवत् विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्त्वयापीष्यते?
तथाभूतं ज्ञानमेव वा तत्सिद्धिः? आद्ये तद्वदेवानैकान्तिकत्वम् ।
न हि यदाकारं ज्ञानम्, तत्पूर्वकत्वं तस्येति नियमः; अनागतज्ञाने विभ्रमे च व्यभिचारात् ।
द्वितीये च (तु) स्मृतिप्रामाण्यमवर्जनीयम् ।
मा भूत् पूर्वानुभवसिद्धिः; किं नश्छिन्नमिति चेत्- न तर्हि स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति ।
न, तदप्रामाण्ये ऽपि पूर्वापरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः ।
यो ऽहमन्वभवममुमर्थम्, सो ऽहं स्मरामीति मानसप्रत्यक्षमस्तीति ।
[कु।४।५१०] न च गृहीतग्राहित्वमीश्वरज्ञानस्य; तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य ।
न च तदेव ज्ञानं कालभेदेनाप्रमाणम्; अनपेक्षत्वस्यापरावृत्तेः ।
तथापि वाप्रामाण्ये अतिप्रसङ्गादिति ।
[कु।४।५११] स्यादेतत्- अनुपकारकं (२१६) विषयस्य तदीयमेतदीयं वा न भवितुमर्हति, अविशेषात् ।
न च तस्येत्यनियतं तत्र प्रमाणम्, अतिप्रसङ्गात् ।
न च तदभिज्ञान(भिज्ञ)मन्तरेण तदुपकारस्योत्पत्तिः, तथानभ्युपगमात् ।
अभ्युपगमे वा, कार्यत्वस्यानैकान्तिकत्वात् ।
अत्रोच्यते-[कु।४।५१२] स्वभावनियमाभावादुपकारो ऽपि दुर्घटः ।
सुघटत्वे ऽपि सत्यर्थे ऽसति का गतिरन्यथा ॥२ ॥
विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः ।
स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः ।
अवश्यञ्चैतदनुम(भ्युपग)न्तव्यम्, अतीतादिविषयत्वा(या)नुरोधात् ।
न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम्; असत्वात् ।
न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम्; तेन तस्यैव विषयत्वप्राप्तेः ।
तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसो ऽपि ज्ञायते, तादात्म्यात्? घटाकारेण ज्ञायत एवासौ (रसः) इति चेत्- अथ रसाकारेण किं न ज्ञायते? तेन रूपेण ज्ञाततानाधारत्वादिति चेत्- न तर्हि वर्तमानसामान्यज्ञाने ऽप्यतीतानागतादिज्ञानम्; तेनाकारेण प्राकट्यानाधारत्वादिति ।
[कु।४।५१३] ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् (२) ।
न;- (अनैकान्त्या) अनेकान्तादसिद्धेर्वा न च लिङ्गमिह क्रिया ।
तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवो ऽधिके (३) ॥३ ॥
धात्वर्थमात्राभिप्रायेण्।अ प्रयोगे संयोगादिभिरनेकान्तात् ।
न हि शरसंयोगेन गगने किञ्चित् क्रियते; अन्त्यशब्दाभिव्यक्त्या (२१७) वा (शब्दे?) ।
स्पन्दाभिप्रायेण, असिद्धेः ।
व्यापाराभिप्रायेण, शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात् ।
न हि तैः प्रमेये किञ्चित् क्रियते; अपि तु प्रमातर्येव ।
फलाभिप्रायेणापि तथा ।
अन्ततस्तेनैवानेकान्तात्, अनवस्थानाच्च ।
आशुविनाशिधर्माभिप्रायेण, द्वित्वादिभिरनियमात् ।
आशुकारकाभिप्रायेण, कर्मण्यसिद्धेः ।
कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् ।
कर्तर्याशुकारकत्वस्य कर्मोपकारकत्वेनाव्याप्तेः; शब्दादिव्यापारैरेवानेकान्तात् ।
[कु।४।५१४] (३)स्यादेतत्- अनुभवसिद्धमेव प्राकट्यम् ।
तथा हि ज्ञातो ऽयमर्थ इति सामान्यतः, साक्षात्कृतो ऽयमर्थ इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् ।
तदसत् ।
यथा हि- " अर्थेनैव विशेषो हि निराकारतयाधियाम्” ।
तथा- क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥४ ॥
किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि ।
तथैव गृहाण, घटज्ञानं पटज्ञानमितिवत् ज्ञातो घटो ज्ञास्यते ज्ञायते इति ।
कथमसम्बद्धयोर्धर्मधर्मिभाव इति चेत्- ध्वस्तो घट इति यथा ।
एतदपि कथमिति चेत्- नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितो ऽसि ।
तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र सम्बन्धान्तरेणेति चेत्- प्रकृते ऽप्येवमेव ।
[कु।४।५१५] (४) एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् ।
विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः ।
स्वाभाविकफलनिरूपकत्वञ्च तुल्यम् ।
[कु।४।५१६] (५) ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रतीतञ्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् ।
तदप्यसत्-परस्पराश्रयप्रसङ्गात् ।
ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत् ।
[कु।४।५१७] कुतश्च ज्ञानमतीन्द्रियम्? (१) इन्द्रियेणानुपलभ्यमानत्वादिति चेत् ।
न ।
अनुमानोपन्यासे (नपक्षे) साध्याविशिष्टत्वात् ।
अ(२१८)नुपलब्धिमात्रोपन्यासे तु योग्यताविशेषितासौ कथमैन्द्रियिकोपलम्भाभावं गमयेत् ।
तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति ।
[कु।४।५१८] (२) तथाविधज्ञाततानाश्रयत्वादिति चेन्न- आश्रयासिद्धेः ।
व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेन्न- ज्ञानहेतुनैव तदुपपत्तेः ।
तस्यात्ममनःसंयोगादिरूपस्य सत्त्वे ऽपि सुषुप्तिदशायामर्थव्यवहाराभावान्नैवमिति चेन्न- तावन्मात्रस्य व्यवहाराहेतुत्वात् ।
अन्यथा ज्ञानस्वीकारे ऽपि तुल्यत्वात् ।
स्मरणान्यथानुपपत्येति चेन्न- तस्याप्यसिद्धेः ।
अस्ति तावद्व्यवहारनिमित्तं
किञ्चिदिति चेत्- किमतः? ।
न ह्येतावता ज्ञानं तदिति सिद्ध्यति, तस्यैवासिद्धेः ।
तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत्- अस्त्विच्छा प्रत्यक्षसिद्धा; न तु ज्ञानम् ।
सैव कथं नियताधिकरणे (ण) उत्पद्यतामिति चेन्न- ज्ञानाभ्युपगमे ऽपि तुल्यत्वात् ।
स्वहेतोः कुतश्चिदिति चेत्- तत एवेच्छास्तु, किं ज्ञानकल्पनयेति ।
स्यादेतत्- प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते; न तु सुषुप्त्यवस्थायामप्रकाशमाने ऽप्यर्थे इत्यनुभवसिद्धम् ।
तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयम्, यस्मिन् सति सुस्वापलक्षणमौदसीन्यमर्थविषयमात्मनो निवर्तते इति चेत्- हन्तैवं सुस्वापनिवृत्तिमनुभवनिद्धां प्रतिजानानेन ज्ञानमेवापरोक्ष्यमिष्यन्ते ।
अचेतयन्नेव हि सुषुप्त इत्युच्यते; अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति ।
तथा च कालात्ययापदिष्टो हेतुः ।
[कु।४।५१९] एतेन (३) क्षणिकत्वादिति निस्तम् ।
अपिच किमिदं क्षणिकत्वं नाम? यद्याशुतरविनाशित्वम्, तदानैकान्तिकम् ।
अथैकक्षणावस्थायित्वम्, तदसिद्धं प्रमाणाभावात् ।
ननु स्थायि विज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीये ऽपि क्षणे किं तादृशमेव गृण्हाति, अन्यादृशं वा, न वा कमपीति ।
न प्रथमः, तस्य क्षणस्यातीतत्वात्; प्रत्यक्षज्ञानस्य च वर्तमानाभवत्वात् ।
न चातीतमेव वर्तमानतयोल्लिखति(२१९), भ्रान्तत्वप्रसङ्गात् ।
न द्वितीयः, विरम्यव्यापारायोगात् ।
प्रथमतो ऽपि तथाभ्युपगमे ऽनागतावेक्षणप्रसङ्गात् ।
न तृतीयः, ज्ञानत्वहानेरिति महाव्रतीयाः ।
तदसत् ।
ज्ञानं गृण्हातीत्यस्यैवार्ऽथस्यानभ्युपगमात् ।
अपि तु तदेव ग्रहणमित्यभ्युपगमः ।
तथा च ज्ञानं प्रथमे यमर्थमालम्ब्य जातम्, द्वितीये ऽपि क्षणे तदालम्बनमेव तन्नवेति प्रश्नार्थः ।
तत्र तदालम्बनमेव तदिति परमार्थः ।
नचैवं भ्रान्तत्वम्, विपरीतानवगाहनात् ।
तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः? तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत्- किमस्मिन्ननुपपन्नम्? न हि ज्ञानमर्थश्चेत्येकं तत्त्वमेकायुष्कं वेति ।
[कु।४।५२०] सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम्? इत्थं यथोच्यते-न स्वप्रकाशम्, वस्तुत्वादितरवस्तुवत् ।
न च ज्ञानान्तरग्राह्यम्, ज्ञानयौगपद्यनिषेधेन समानकालस्य तस्याभावात् ।
ग्राहककाले ग्राह्यस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः ।
ग्राह्यकाले च ग्राहकस्यानागतत्वात्- इति चेत्- नन्वेवं ज्ञाततापि न प्रत्यक्षा स्यात्, क्षणिकत्वात् ।
कथम्? इत्थम्- न स्वप्रकाशा ।
वस्तुत्वात्, न जनकग्राह्या, अनागतत्वात् ।
विरम्यव्यापारायोगाच्च ।
न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् (२२१) ।
न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वात्- इति ।
क्षणिकत्वमेव तस्याः कुत इति चेत्- त्वदुक्तयुक्तेरेव ।
तथाहि- यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयन्ते अन्यं वा, न वा कमपीति ।
तत्र न प्रथमः, तस्य तदानीमसत्त्वात् ।
न द्वितीयः, अप्रतिसङ्क्रमात् ।
एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञातताफलत्वेन भ्रान्तत्वप्रसङ्गात्, रजतावगाहिनि पुरोवर्तिवृत्ति(२२२)ज्ञातताफल इव ।
न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात् ।
न तृतीयः, निःस्वभावताप्रसङ्गात् ।
न ह्यसौ तदानीं तदीयान्यदीया वेति ।
[कु।४।५२१] अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्तते इति चेत्- एवं तर्हि वर्तमानार्थता प्रकाशस्य (२२३) न स्यात् ।
अन्यथा ज्ञानस्यापि तथानुवृत्तेः को दोषः? नहि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम ।
अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात् ।
[कु।४।५२२] अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति ।
[कु।४।५२३] ननु (४) ज्ञानमैन्द्रियकं चेत्, विषयसञ्चारो न स्यात्,सञ्जातसम्बन्धत्वात् ।
न च जिज्ञासानियमान्नियमः, तस्याः संशयपूर्वकत्वात्, तस्य च धर्मिज्ञानपूर्वकत्वात्, धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाप्यनवस्थानादिति- तन्न- ज्ञाततापक्षे ऽपि तुल्यत्वात् ।
तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापातात्; जिज्ञासानियमस्य च तद्वदनुपपत्तेः ।
नचेन्द्रियसम्बन्धविच्छेदाद्विराम इति युक्तम्- आत्मप्राकट्याव्यापनात् ।
स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न तु सर्वेति चेत्- तुल्यम् ।
प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्- तुल्यमेतत् ।
[कु।४।५२४] ननु (५) ज्ञानं न सविकल्पकग्राह्यम्, तस्य निर्विकल्पकपूर्वकत्वाद्; निर्विकल्पकगृगीतस्य तावत्कालानवस्थानात्; तस्य तेनैव विनाशात् ।
नापि केवलनिर्विकल्पकवेद्यम्, तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् ।
न च समवायाभाववन्निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं
ज्ञानस्येति साम्प्रतम्- तयोर्विशेषणांशस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः; प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीतविशेषणायाश्च बुद्धेर्विशेष्यानुपसङ्क्रमात्कथमेवं स्यात्? न; उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् ।
ततस्तत्पुरःसरं प्रथमत एव तज्जातीयस्य ज्ञानान्तरस्य विकल्पनात् ।
इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः ।
व्यक्त्यन्तरसमवेतमपि हि सामान्यं गृहीतं तदेवेत्युपयुज्यते (२२४) ।
अन्यथानुमानादिविकल्पानामनुत्पादप्रसङ्गः; तद्गतस्य विशेषणस्याग्रहणादन्यगतस्य चानुपयोगात्किं लिङ्गग्रहणसहकारि स्यादिति ।
एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति ।
[कु।४।५२५] स्यादेतत्- (६) विषयनिरूप्यं हि ज्ञानमिष्यते ।
न चातीन्द्रियस्य परमाण्वादेर्मनसा वेदनमस्ति ।
न चागृहीतस्य विशेषणत्वम् ।
न च नित्यपरोक्षस्यापरोक्षविशिष्टबुद्धिविषयत्वम्, व्याघातादिति- न, बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्वज्ञानोपनीतस्यैव मनसा वेदनात् ।
अन्यथातीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् ।
इयांस्तु विशेषः- तस्मिन् सति तद्बलादेव; असति तु तज्जनितवासनाबलात् ।
न चैवं सति स्मरणमेतत्; अगृहीतज्ञानगोचरत्वात् ।
न च विषयांशे तत्तथा स्यादिति युक्तम्- अवच्छेदकतया प्रागवस्थावदवभासनात् ।
न च प्रत्यभिज्ञानमपि ग्रहणस्मरणाकारम्; विरोधात् ।
अथ ग्रहणस्मरणयोः कियती सामग्री? अधिकोर्ऽथसन्निकर्षो ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य ।
अथ ग्रहणत्वे ऽपि कुत एतदपरोक्षाकारम्? कारणान्तरनिरपेक्षेण संस्काराधिक(२२५)सन्निकर्षवतेन्द्रियेण जनितत्वात् ।
अथ कःसन्निकर्षः? ज्ञानेन संयुक्तसमवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति ।
मनसो निरपेक्षस्य बहिर्व्यापारे ऽन्धबधिराद्यभावप्रसङ्ग इति चेत्- ज्ञानावच्छेदकं प्रति नायं दोषः ।
न च ज्ञानापेक्षया बहिरित्यस्ति ।
नापि तद्विषयापेक्षया निरपेक्षत्वम्, तस्यैव ज्ञानस्यापेक्षणात् ।
[कु।४।५२६] अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम्? प्रत्यक्षमेव ।
यदसूत्रयत्- “ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्” (न्याय।५-१-३१) इति ।
[कु।४।५२७] ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् ।
नापि प्रमाणम्, अकारकत्वात् ।
अत एव च न तदश्रयः प्रमातेति- उच्यते- मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता ।
तदयोगव्यवच्छेदः प्रमाण्यं गौतमे मते ॥५ ॥
समीचीन्।ओ ह्यनुभवः प्रमेति व्यवस्तथितम् ।
तथाच अनित्यत्वेन विशेषणमनर्थकम्, नित्यानुभवसिद्धौ तद्व्यवच्छेदभ्यानिष्टत्वात्; असिद्धौ च व्यवच्छेद्याभावात् ।
न चेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् ।
न तत् प्रमाकरणमिति त्विष्यत एव,प्रमया सम्बन्धाभावात् ।
तदाश्रयस्य तु प्रमातृत्वमेतदेव यत् तत्समवायः ।
कारकत्वे सतीति तु विशेषणं पूर्ववन्निरर्थकमनुसन्धेयम् ।
यद्येवम्, “आप्तप्रामाण्याद्” (न्याय।२-२-३७) इति सूत्रविरोधः ।
तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेत्- न- निमित्तसमावेशेन व्यवहारसमावेशाविरोधात् ।
प्रमासमवायो हि प्रमातृव्यवहारनिमित्तम्; प्रमया त्वयायोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तम् ।
तदुभयञ्चेश्वरे ।
अत्रापि कार्ययेति विशेषणं पूर्ववदनर्थकमूहनीयम् ।
[कु।४।५२८] स्यादेतत्- प्रमीयते ऽनेनेति प्रमाणम्, प्रमिणोतीति प्रमाता इति कारकशब्दत्वमनयोः ।
तथाच कथमकारकमर्थ इति चेत्- न- एतस्य व्युत्पत्तिमात्रनिमित्तत्वात् ।
प्रवृत्तिनिमित्तं तु यथोपदर्शितमेव; व्यवस्थापनात् ।
अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्; सर्वत्र स्वातन्त्र्याभावात् ।
करणव्यवहारस्त्वन्यत्र यद्यप्यन्यनिमित्तको ऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति ।
एवन्तर्हि पञ्चमप्रमाणाभ्युपगमे ऽपसिद्धान्तः ।
न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्गशब्दकरणत्वात्- न- साक्षात्कारिप्रमावत्तया प्रत्यक्षान्तर्भावात्; इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य च लौकिकमात्रविषयत्वात् ।
[कु।४।५२९] स्यादेतत्- तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात् ।
यदा खल्वेतदस्मदादिविभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थो ऽप्यालम्बनमभ्युपेयम् ।
तथाच तदपि विपर्ययः, विपरीतार्थालम्बनत्वात् ।
तदनवगाहने वा अस्मदादेर्विभ्रमान् अविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्वमिति न- विभ्रमस्याप्रामाण्ये ऽपि तद्विषयस्य तत्त्वमुल्लिखतो ऽभ्रान्तत्वात् ।
अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः; प्रमाणाभावात् ।
तथाप्यारोपितार्थवच्छिन्नज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत्- न- यद् यत्र नास्ति तत्र तस्यावगतिरिति भ्रान्त्यर्थत्वात् ।
एतदालम्बनस्त चैवमुल्लखतः सर्वत्र यथार्थत्वात् ।
नहि न तद्रजतम्, नापि तत्रासत्, नापि तन्नावगतमिति ।
[कु।४।५३०] साक्षात्(२२६)कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ ।
भूतार्थानुभवे निविष्टनिखिलप्रस्ता(२२७)रिवस्तुक्रमः ॥
लेशादृष्टिनिमित्त(२२८)दुष्टिविगमप्रभ्रष्टशङ्कातुषः ।
शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥६॥
इति न्यायकुसुमाञ्जलौ चतुर्थस्तबकः ॥४ ॥