श्रीः ॥
न्यायकुसुमाञ्जलौ तृतीयस्तबकः ॥
नन्व् एतदपि कथम्,
तत्र बाधक(१५४)-सद्भावात् ।
तथा हि- यदि स्यात्, +++(ईश्वर)+++ उपलभ्येत ।
“अयोग्यत्वात्, सन्न् अपि नोपलभ्यत” इति चेत्-
एवं तर्हि शश-शृङ्गम् अप्य् अयोग्यत्वान् नोपलभ्यत इति स्यात् ।नैतद् एवम्,
शृङ्गस्य योग्यतयैव व्याप्तत्वाद्इति चेत्- (१५५)
चेतनस्यापि योग्योपाधिमत्तयैव व्याप्तत्वात्
तद्-बाधे सो ऽपि बाधित एवेति तुल्यम् ।
व्यापक-स्वार्थाद्य्-अनुपलम्भेनाप्य् अनुमीयते, नीस्तीति ।
को हि प्रयोजनम् अन्तरेण किञ्चित् कुर्याद् इति ।
[कु।३।३०२] उच्यते-
विश्वास-टिप्पनी
यद्य् अनुपलब्धस्यापीश्वरस्य सद्भावस् स्वीक्रियेत,
तर्हि अनुपलब्ध-शशृङ्ग-स्वीकारोपि स्याद् इति प्रतिबन्द्याम् उक्तायाम्
उदयनो न्यायकुसुमाञ्जल्याम् आह-
विश्वास-प्रस्तुतिः
+++(ग्रहण-)+++योग्यादृष्टिः कुतो ऽयोग्ये +++(ईश्वरे)+++, +++(उपलभ्ये शशशृङ्गे)+++ प्रतिबन्दिः (१५६) कुतस्तराम् ।
क्वायोग्यं बाध्यते शृङ्गं, क्वानुमानम् +++(ईश्वर-कर्तृत्वाभावरूपम्)+++ अनाश्रयम् +++(→ईश्वरास्वीकारे)+++ ॥
[कु।३।३०३]
मूलम्
योग्यादृष्टिः कुतो ऽयोग्ये प्रतिबन्दिः (१५६) कुतस्तराम् ।
क्वायोग्यं बाध्यते शृङ्गं, क्वानुमानम् अनाश्रयम् ॥
[कु।३।३०३]
स्वात्मैव तावत् योग्यानुपलब्ध्या प्रतिषिद्धुं न शक्यते; कुतस्त्वयोग्यः परात्मा(परमात्मा)? तथाहि- सुषुप्त्यवस्थायामात्मानमनुपलभमानः, नास्तीत्यवधारयेत् ।
कस्यापराधेनपुनः योग्यो ऽप्यात्मा तदानीं नोपलभ्यते? सामग्रीवैगुण्यात् ।
ज्ञानादिक्षणिकगुणोपधाने ह्यात्मा गृह्यत इति अस्य स्वभावः ।
ज्ञानमेव कुतो न जायत इति चिन्त्यते पश्चाद्वा कथमुत्पत्स्यत इति चेत्- मनसो ऽनिन्द्रियप्रत्यासन्नतयाजननात्; तत्प्रत्यासत्तौ च पश्चाज्जननात् ।
[कु।३।३०४] मनोवैभववादिनामिदमसम्मतम् ।
तथा हि ।
मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात्, (१५७)(सर्वदा) विशेषगुणशून्यद्रव्यत्वात् नित्यत्वे सत्यनारम्भकद्रव्यत्वात् ज्ञानासमवायिकारणसंयोगाधारत्वादित्यादे(१५८)रिति चेत्-[कु।३।३०५] न सर्वेषामापाततः स्वरूपासिद्धत्वात् ।
तथा हि- यदि रू(यदा हि रू)पाद्युपलब्धीनां क्रियात्वेन करणतया मनो ऽनुमितिः, न तदा द्रव्यत्वसिद्धिः; अद्रव्यस्यापि करणत्वात् ।
अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम्, तथापि व्यापकस्य निरुपाधेर्नेन्द्रियत्वमित्युपाधिर्वक्तव्यः ।
तत्र- यदि(तद्यदि) कर्णशष्कुलीवत् निपतशरीरावयवस्योपाधित्वम्, तदा तावन्मात्रे वृत्तिलाभः तद्दोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत ।
ततः शरीरमात्रमुपाधिरभिधेयः (रवसेयः) ।
तथा च तदवच्छेदेन वृत्तिलाभे, “शिरसि मे वेदना, पादे मे सुखऽमित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः; असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात् ।
शरीरतदवयवादिपरमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गः, (१५९)नियमानुपपत्तिश्चेति- ततो ऽन्यदेवैकं सूक्ष्ममुपाधित्वेनातीन्द्रियं कल्पनीयम् ।
तथा च तस्यैवेन्द्रियत्वे स्वाभाविके ऽधिककल्पनायां प्रमाणाभावात् धर्मिग्राहकप्रमाणबाधः ।
[कु।३।३०६] अथ ज्ञानक्रमेणेन्द्रियसहकारितया तदनुमानम्; ततः सुतरां प्रागुक्तदोषः ।
यदि च मनसो वैभवे ऽप्यदृष्टवशात् क्रम उपपाद्येत, तदा मनसो ऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति ।
[कु।३।३०७] अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव अन्यथा अन्त्यतन्तुसंयोगेभ्यो ऽपि कदाचित्, पटो न जायोत; जातो ऽपि वा कदाचिन्निर्गुणः स्यात्; बलवत्ता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत ।
यत्र तु दृष्टानुपहारेणादृष्टव्यापारः, तत्र तद्वैगुण्यात् कार्यानुदयः; यथा परमाणुकर्मणः ।
तदिहापि यदि विषयेन्द्रियात्मनां समवधानमेव ज्ञानहेतुः, तदा तत्सद्भावे सदैव कार्यं स्यात् ।
न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति ।
न च सदैव ज्ञानोदयः ।
ततो ऽतिरिक्तमपेक्षितव्यम् ।
तच्च यद्यपिसर्वाण्येवेन्द्रियाणि व्यप्नोति, तथापि करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते ।
अकल्पिते तु तस्मिन्नायं न्यायः; प्रतिपत्तुरकरणत्वात्; चक्षुरादीनामनेकत्वात् इति चेत्-[कु।३।३०८] नन्वेवमपि युगपद्ज्ञानानि मा भूवन् युगपद्ज्ञानं तु केन वार्यते ।
भवत्येव समूहालम्बनमेकं ज्ञानमिति चेन्न- एकेन्द्रियग्रह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसङ्गात् ।
(१६०)तेष्वपि भवत्येवेति चेन्न- व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् ।
[कु।३।३०९] बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेत्- मै(नै)वम् नह्येष बुभुत्साया महिमा, यत् अबुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानम् ।
अपि तु न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात् ।
यदि त्वबुभुत्सिते विषये सामग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् ।
तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य
बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपद्ज्ञानानुत्पत्तावुपयुज्यते; न तु स्वरूपतः ।
[कु।३।३१०] विभुनो ऽपि मनसो व्यापारक्रमात् क्रम इति चेन्न- तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात्, गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः; अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः ।
तदपि कल्पयिष्यत इति चेत्- तदेव तर्हि मनःस्थाने निवेश्यतां लाघवाय ।
तस्मादण्वेव मन इति ।
[कु।३।३११] तथा च तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपधानत्वादात्मनः सुषुप्त्यवस्थायामनुपलम्भः ।
एतदेव मनसः शीलमिति कुतो निश्चिर्(णी)तमिति चेत्- अन्वयव्यतिरेकाभ्याम् ।
न केवलं तस्य, किं तु सर्वेषामेवेन्द्रियाणाम् ।
न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपिद्रव्ये प्रवर्तते ।
(१६१)स्वप्नावस्थायां कथं ज्ञानमिति चेत्- तत्तत्संस्कारोद्बोधे विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः ।
उद्बोध एव कथमिति चेत्- मन्दतरतमादिन्यायेन बाह्यानामेव शब्दादीनामुपलम्भात् ।
अन्ततः शरीरस्यैवोष्मादेः प्रतिपत्तेः ।
यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्तते, तदा सुषुप्तिः ।
[कु।३।३१२] स्यादेतत्- परात्मा तु कथं परस्यायोग्यः ।
न हि साक्षात्कारिज्ञानविषयतामेवायं न प्राप्नोति; स्वयमप्यदर्शनप्रसङ्गात् ।
नापि ग्रहीतुरेवायमपराधः, तस्यापि हि ज्ञानसमवायिकारणतैव (१६२) तद्योगता ।
नापि करणस्य; साधारणत्वात् ।
न ह्यासंसारमेकमेव मन एकमेवात्मानं गृह्णातीत्यत्र नियामकमस्ति ।
स्वभाव इति चेत्- तर्हि (१६३) मुक्तौ निःस्वभावत्त्वप्रसङ्गः; तदेकार्थताया अपायादिति- न; भोजकादृष्टोपग्रहस्य नियामकत्वात् ।
यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृष्टानि, तानि तस्यैवेति नियमः ।
तदुक्तं प्राक्- “प्रत्यात्मनियमात् भुक्तेऽरिति ।
एतेन परबुद्ध्यादयो व्याख्याताः ।
[कु।३।३१३] तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति ।
तदितरा तु न बाधिकेति तवापि सम्मतम् ।
अतः किमधिकृत्य प्रतिबन्दिः ।
न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चिन्निषेधति ।
न च प्रकृते योग्यानुपलब्धिं कश्चिन्मन्यते ।
अथायमाशयः- अयोग्यशशशृङ्गादावनुपलब्धिर्न बाधिका स्यात्- इति ।
ततः किम् ।
तत्सिद्ध्येदिति चेत्- एवमस्तु, यदि प्रमाणमस्ति ।
पशुत्वादिकमिति चेत्- परसाधने प्रतिबन्दिस्तर्हि; न तद्बाधने ।
तत्रैव भविष्यतीति चेत्- तत् किं तत्र प्रतिबन्दिरेव दूषणम्, अथ कथञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयः ते च बाधिता एवेत्यपहृतविषयत्वम्? न प्रथमः अव्याप्तेः ।
न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः कर्तृमत्त्वसाधकत्वं प्याप्तम्, येन तस्मिन्नसति तत् प्रतिषिद्ध्येत ।
न द्वितीयः; मिथो ऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात् ।
तथापि पशुत्वादौ को दोष इति चेत्- न जीनीमस्तावत्; तद्विचारावसरे चिन्तयिष्यामः ।
[कु।३।३१४] स्यादेतत्- यत्प्रमाणगम्यं हि यत्, तदभाव एव तस्याभावमावेदयति ।
यथा रूपादिप्रति पत्तेरभावश्चक्षुरादेरभावम् ।
कायवाग्व्यापारैकप्रमाणकश्य परात्मा; तदभाव एव तस्याभावे प्रमाणमङ्कुरादिषु- तन्न- तदेकप्रमाणकत्वासिद्धेः ।
अन्यथा सुषुप्तो ऽपि न स्यात् ।
श्वाससन्तानो ऽपि तत्र प्रमाणमिति चेन्न- निरुद्धपवनो ऽपि न स्यात् ।
कायसंस्थानविशेषो ऽपि तत्र प्रमाणमिति चेन्न- विषमूर्च्छितो ऽपि न स्यात् ।
शरीरोष्मापि तत्र प्रमाणमिति चेन्न- जलावसिक्तविषमू(सिक्तमू)र्च्छितो ऽपि न स्यात् ।
तस्मात् यद्यत् कार्यमुपलभ्यते, तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति ।
न च कार्यमात्रस्य क्वचिद्व्यावृत्तिरिति ।
न च, त्वदभ्युपगतेनैव प्रमाणेन भवितव्यम्, नान्येनेति नियमो ऽस्ति ।
[कु।३।३१५] न च प्रमेयस्य प्रमाणेन व्याप्तिः ।
सा हि कार्त्स्न्येन वा स्यात्, एकदेशेन वा स्यात् ।
न प्रथमः; प्रत्यक्षाद्यन्यतमा(म) सद्भावे ऽपि तत्प्रमेयावस्थितेः ।
न द्वितीयः; पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः ।
अनियमेन असिद्धेः; न हि सर्वस्य सर्वदा सर्वथात्र प्रमाणं नास्तीति निश्चयः शक्य इति ।
[कु।३।३१६] कथं तर्हि चक्षुरादेरभावो निश्चयः? व्यापकानुलब्धेः ।
(१६४)चरमसामग्रीनिवेशिनो हि कार्यमेव व्यापकम्; तन्निवृत्तौ तथाभूतान्यापि निवृत्तिः ।
(१६५)योग्यतामात्रस्य कदाचित् कार्यम्, (१६६)तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः ।
अन्यथा तत्रापि (१६७)सन्देहः ।
[कु।३।३१७] प्रकृते ऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधो ऽस्तु-न, आश्रयासिद्धत्वात् ।
न हीश्वरस्तद्ज्ञानं वा क्वचित् सिद्धम् ।
आभासप्रतिपन्नमिति चेन्न- तस्याश्रयत्वानुपपत्तः; प्रतिषेध्यत्वानुपपत्तेश्च ।
व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता ।
अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥२ ॥
न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निषेध्यता चे(वे)ति ।
[कु।३।३१८] कथं तर्हि शशशृङ्गस्य निषेधः? न कथञ्चित् ।
स ह्यभावप्रत्यय एव ।
न चायमपारमार्थिकप्रतियोगिकः
परमार्थाभावो नाम, (१६८)तथापा(न चापा)रमार्थिकविषयं प्रमाणं नामेति ।
अपि च- दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता ।
न तस्यां नोपलम्भो ऽस्ति नास्ति सानुपलम्भने ॥३ ॥
केन्।अ च शशशङ्गं प्रतिषिद्ध्यते, सर्वथानुपलब्धस्य योग्यत्वासिद्धेः ।
तदितरसामग्रीसाकल्यं हि तत् ।
ननूक्तमाभासोपलब्धं हि तत् ।
अत एवाशक्यनिषेधमित्युक्तम् ।
अनुपलम्भकाले आभासोपलम्भसामग्र्याः अभावात्; तत्काले चानुपलम्भाभावादिति ।
कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः? शशे ऽधिकरणे विषाणाभावो ऽस्तीति ।
[कु।३।३१९] स्यादेतत्- यद्यपीश्वरो नावगतः; यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथापि, आत्मनः सिद्धाः, तेषां सार्वज्ञ्यं निषिद्ध्यते, क्षित्यादिकर्तृत्वं चेति ।
तथा हि- मदितरे न सर्वज्ञाः चेनत्वादहमिव ।
न च ते क्षित्यादिकर्तारः पुरुषत्वादहमिव ।
एवं वस्तुत्वादेरपि- इति ।
तदेतदपि प्रागेव परिहृतम् ।
तथा हि-[कु।३।३२०] इष्टसिद्धिः प्रसिद्धेशे हेत्वसिद्धिरगोचरे ।
नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥४ ॥
प्रमाण(णेन)प्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम् ।
ततो ऽन्येषा(१६९)मसिद्धौ हेतोराश्रयासिद्धत्वम् ।
आत्मत्वमात्रेण सो ऽपि सिद्ध इति चेत्- को ऽस्यार्थः? किमात्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्ममात्रं आत्मत्वमात्र(१७०)मेव वा पक्षः; सर्वत्र पूर्वदोषानतिवृत्तेः (त्तिः?) अथायमाशयः- आत्मत्वं न सर्वज्ञसर्वकर्तृव्यक्तिसमवेतं जातित्वात् गोत्ववत्- इति- तदसत्- निषेध्यासिद्धेर्निषेधस्याशक्यत्वात् ।
तथा चाप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव दोषः ।
त्वदुपगतागमलोकप्रसिद्धस्यैवेश्वरस्यासर्वज्ञत्वमकर्तृत्वं च साध्यत इति चेन्न- आगमादेः प्रमाणत्वे बाधनादनिषेधनम् ।
आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता (१७१) ॥५ ॥
निगदव्याख्यातमेतत् (१७२) ।
[कु।३।३२१] चार्वाकस्त्वाह- किं (१७३)योग्यताविशेषा(षणा)ग्रहेण ।
यन्नोपलभ्यते, तन्नास्ति ।
विपरीतमस्ति ।
न चेश्वरादयस्तथा, ततो न सन्तीत्येतदेव ज्यायः ।
एवमनुमानादिविलोप इति चेत्- नेदमनिष्टम् ।
तथा च लोकव्यवहारोच्छेद इति चेन्न- सम्भावनामात्रेण तत्सिद्धेः ।
संवादेन च प्रामाण्याभिमानात्- इति- अत्रोच्यते-[कु।३।३२२] दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् ।
अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् ॥६ ॥
सम्भावना हि सन्देह एव ।
तस्माच्च व्यवहारस्तस्मिन् सति स्यात् ।
स एव तु कुतः? दर्शनदशायां भावनिश्चयात्; अदर्शनदशायामभावावधारणात् ।
तथा च गृहाद्बहिर्ग(न्निर्ग)तश्चार्वाको वराको न निवर्तते; प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो (१७४)विक्रोशेत् ।
स्मरणानुभवान्नैवमिति चेन्न- प्रतियोगिस्मरण एवाभावपरिच्छेदात् ।
परावृत्तो ऽपि कथं पुनरासादयिष्यति? सत्त्वादिति चेत्- अनुपलम्भकाले ऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् ।
तदैवोत्पन्ना इति चेन्न- अनुपलम्भेन हेतूनां बाधात् ।
अबाधे वा स एव दोषः ।
[कु।३।३२३] अत एव प्रत्यक्षमपि न स्यात्; तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् ।
उपलभ्यन्त एव; गोलकादि(१७५)रूपत्वात्तेषामिति चेन्न- तदुपलब्धेः पूर्वं तेषामनुपलम्भात् ।
न च यौगपद्यनियमः; कार्यकारणभावादिति ।
[कु।३।३२४] एतेन- न परमाणवः सन्ति; अनुपलब्धेः ।
न ते नित्या निरवयवा वा, पार्थिवत्वात् घटादिवत् ।
न पाथसीयपरमाणुरूपादयो नित्याः रूपादित्वात् दृश्यमानरूपादिवत् ।
न रूपत्वपार्थिवत्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्गत्ववत् ।
नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः ।
अयोग्यानि च शशशृङ्गप्रतिबन्दिनिरसनीयानीति (१७६)एवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निसनीयम् ।
मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति ।
[कु।३।३२५] यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधो ऽपि नैष्टव्यः ।
तथा च कथं तथाभूतार्थसिद्धिरपि; अनुमानबीजप्रतिबन्धासिद्धेः ।
तदभावे शब्दादेरप्यभावः; प्रामाण्यासिद्धेः ।
सेयमुभयतः पाशा रज्जुः (१७७) ।
[कु।३।३२६] अत्र कश्चिदाह- मा भूदुपाधिविधूननम्, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात् ।
तस्याश्य सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात् ।
यत्र तु तद्भङ्गः, तत्र प्रमाणभङ्गो ऽप्यावश्यकः ।
न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे (१७८)हेतुरूपविप्लवैति ।
[कु।३।३२७] अप्रयोजको ऽपि तर्हि हेतुः स्यादिति चेत्- भूयोदर्शनाविप्लवे को ऽयमप्रयोजको नाम? न तावत् साध्यं प्रत्यकार्यमकारणं वा; सामान्यतो दृष्टानुमानस्वीकारात् ।
नापि सामग्र्यां कारणैकदेशः; पूर्ववदभ्युपगमात् ।
नापि व्यभिचारी; तदनुपलम्भात् ।
व्यभिचारोपलम्भे वा स एव दोषः ।
न च शङ्कितव्यभिचारः; निर्बीजशङ्कायाः सर्वत्र सुलभत्वात् ।
नापि व्याप्यान्तरसहवृत्तिः; एकत्रापि साध्ये ऽनेकसाधनोपगमात् ।
नाप्यल्पविषयः; धूमादेस्तथाभावे ऽपि
(थाभूतस्यापि) हेतुत्वात् ।
ननु धूमो (मो ऽपि) वह्निमात्रे ऽप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः ।
आर्द्रेन्धनवत्वं वह्निविशेषं प्रति तु प्रयोजकः; तन्निवृत्तौ तस्यैव निवृत्तेरिति- एतदप्ययुक्तम्- सामान्यप्रयोजकतायां विशेषसाधकत्वायोगात्; तदसिद्धौ तस्यासिद्धिनियमात्; सिद्धौ वा सामान्यविशेषभावानुपपत्तेः ।
नापि कॢप्तसामर्थ्ये ऽन्यस्मिन् कल्पनीयसामर्थ्याप्रयोजकः; नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति ।
[कु।३।३२८] तदेतदपेशलम्- कथं हि विशेषाभावात् कश्चिद्व्यभिचरति कश्चिच्च नेति श्कयमवगन्तुम् ।
ततो निर्णायकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा ।
एवं सति अतिप्रसक्तिरपि चार्वाकनन्दिनी (१७९)नोपालम्भाय ।
[कु।३।३२९] स्वभावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत्- केन चिह्नेन पुनरसौ निर्णेय इति निपुणेन भावनीयम्; भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् ।
यत्र भङ्गो न दृश्यते (१८०)तत् तथेति चेत्- आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यत इति को नियन्तेति ।
[कु।३।३३०] तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिवन्धनम् ।
तदवधारणं चाशक्यमिति ।
ननु यः सर्वैः प्रमाणैः सर्वदास्मदादिभिर्यद्वत्तया नोपलभ्यते, नासौ तद्वान्; यथा बकः श्यमिकया ।
नोपलभ्यते च वह्नौ धूम उपाधिमत्तया- इति श्क्यमिति चेन्न- अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् ।
(१८१)सर्वादृष्टेश्च सन्देहात्; स्वादृष्टेर्व्यभिचारातः; सर्वदेत्यसिद्धेः ।
[कु।३।३३१] तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये ।
तत्र तादात्म्यं विपक्षे बाधकात् भवति ।
तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् ।
(१८२)न ह्येवं सति शङ्कापिशाची अवकाशमासादयति; आशङ्क्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति- (१८३) नैवमपि; उभयगामिनो ऽव्यभिचारनिबन्धनस्यैकस्याविवेचनात्; प्रत्येकं चाव्यापकत्वात् ।
कुतश्च कार्यात्मानौ कारणमात्मानं च न व्यभिचारत इति ।
[कु।३।३३२] अत्रोच्यते- शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥७ ॥
[कु।३।३३३] कालान्तरे कदाचिद्व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्क्येत ।
तदाकलनं च नानुमानमवधीर्य कस्यचित् ।
मूहूर्तयामाहोरात्रपक्षमासर्त्वयनसंवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् ।
अनाकलने वा कमाश्रित्य व्यभिचारः शङ्क्येत (रशङ्केति) ।
तथा च सुतरामनुमानस्वीकारः ।
एवं च देशान्तरे ऽपि वक्तव्यम् ।
[कु।३।३३४] स्वीकृतमनुमानम् ।
सुहृद्भावेन पृच्छामः- कथमाशङ्का निवर्तनीयेति चेत्- न- यावदाशङ्कं तर्कप्रवृत्तेः ।
[कु।३।३३५] तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वानिष्टमुपनयता इच्छाविच्छिद्यते ।
विच्छन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गगमनाकुलो ऽधितिष्ठति; अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् ।
[कु।३।३३६] ननु तर्को ऽप्यविनाभावमपेक्ष्य प्रवर्तते ।
ततो ऽनवस्थया भवितव्यम्- न- शङ्काया व्याघातावधित्वात् ।
तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा ।
न हि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते ।
तथा सति शङ्कैव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत् ।
[कु।३।३३७] अथाव्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमि(धः किम्प्रमाणक इ)त्युच्यतामिति चेत्- न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धो ऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् ।
केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्क्यते ।
ततः शङ्कैव फलतः स्वरूपतश्च निवर्तनीया ।
तत्र फलमस्याः विपक्षस्यापि जिज्ञासा तर्कादाहन्य निवर्तते; ततो ऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् ।
[कु।३।३३८] न चैतदनागमम्, न्यायाङ्गतया तर्कं व्युत्पादयतः सूत्रकारस्याभिमतत्वात् ।
अन्यथा तद् व्युत्पादनवैयर्थ्यात् ।
[कु।३।३३९] तदयं सङ्क्षेपः- यत्रानुकूलतर्को नास्ति सो ऽप्रयोजकः ।
स च द्विविधः शङ्कितोपाधिर्निश्चतोपाधिश्च; यत्रेदमुच्यते- “यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते ।
विपक्षस्य कुतस्तावत् हेतोर्गमनिकाबलम् ॥
ऽ[कु।३।३४०] तत्रोपाधिस्तु- साधनाव्यापकत्वे सति साध्यव्यापकः ।
तद्धर्मभूता हि व्याप्तिर्जपाकुसुमरक्ततेव स्फटिके, साधनाभिमते चकास्तीत्युपाधिरसावुच्यत इति ।
तदिदमाहुः- “अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
तैर्दृष्टैरपि नैवेष्टा व्यपकांशावधारणा ॥
" (मी।श्लो।वा।१४।१-५।) इति ।
[कु।३।३४१] तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्यं वा कारणं वा ततो ऽन्यद्वा, समवायि वा संयोगि वान्यथा वा भावो वाभावो वा, सविशेषणं वा निर्विशेषणं वा लिङ्गमिति निःशङ्कमवधारणीयम्; अन्यथा तदाभास इति रहस्यम् ।
[कु।३।३४२] तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम् ।
यदि हि का(यदि कार्)यात्मानौ कारणमात्मानं
चातिपतेताम्, तदा तयोस्तत्त्वं व्याहन्येत ।
अत एव सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते (१८४)सौगता अपि ।
तस्माद्विपक्षबाधकमेव प्रतिबन्धलक्षणम् ।
[कु।३।३४३] तथा हि- शाकाद्याहारपरिणतिविरहिणि मित्रातनये, न किञ्चिदनिष्टमिति नासौ तस्य व्यापिका; व्यापिका तु श्यामिकायाः, कारणत्वावधारणात् ।
कारणं च तत् तस्य; तदतिपत्य भवति चेति व्याहतम् ।
एवमन्यत्राप्यूहनीयमिति ।
[कु।३।३४४] क्व पुनरप्रयोजको ऽन्तर्भवति? न क्वचिदित्येके ।
यथा हि सिद्धसाधनम्- न बाधितविषयम्, विषयापहाराभावात्; नापि निर्णये सति पक्षत्वातिपातादपक्षधर्मः, कालातीतविलोपप्रसङ्गात्; न चानैकान्तिकादिः, व्यभिचाराद्यभावात्- तथायमपि ।
सूत्रं तूपलक्षणपरमिति- तदसत्- विभागस्य न्यूनाधिकसङ्ख्याव्यवच्छेदफलत्वात् ।
[कु।३।३४५] क्व तर्हि द्वयोरन्तर्निवेशः? असिद्धे एव ।
तथा हि- व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः ।
तदभावो ऽसिद्धि ।
इयं च व्याप्तिपक्षधर्मता(१८५)स्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथासङ्ख्यमन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते ।
मध्यमाप्याश्रयस्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी ।
तत्र, चरमासिद्धसाधनमिति व्यपदिश्यते; व्याप्तिस्थितौ पक्षत्वस्याहत्य विघटनात् ।
न त्वेवं बाधे; व्याप्तेरेव प्रथमं विघटनादिति विशेषः ।
[कु।३।३४६] यत्त्वप्रयोजकः सन्दिग्धानैकान्तिक इत्यनैकान्तिके ऽन्तर्भाव्यते- तदसत्- व्याप्त्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयो ऽन्यथा वा ।
प्रथमे असिद्धिरेव दूषणम्; उपजीव्यत्वात्; नानैकान्तिकम्; उपजीवकत्वात् ।
(१८६)अन्यथाशङ्कात्वदूषणमेव; निर्णीते तदनवकाशादिति ॥
तृतीयस्तबके ईश्वरस्योपमानाबाध्यत्वनिरूपणम् ॥
[कु।३।३४७] उपमानं तु बाधकमनाशङ्कनीयमेव, विषयानतिरेकादिति केचित् तथाहि- न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम्; परस्परविरोधे हि न प्रकारान्तरस्थितिः ।
नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥८ ॥
न हि भावाभावाभ्यामन्यः प्रकारःसम्भावनीयः, परस्परविधिनिषेधरूपत्वात् ।
न भाव इति हि निषेधमात्रेणैवाभावविधिः ।
ततस्तं विहाय कथं स्ववचनेनैव पुनःसहृदयो निषेधेत्, नाभाव इति ।
एवं नाभाव इति हि निषेध एव भावविधिः ।
ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेत् न भाव इति ।
अत एवम्भूतानामेकताप्यशक्यप्रतिपत्तिः, प्रतिषेधविध्योरेकत्रा(त्वा)सम्भवात् ।
तस्माद्भावाभावावेव तत्त्वम् ।
[कु।३।३४८] भावत्त्वे ऽपि गुणवन्निर्गुणं वेति द्वयमेव (वेत्येतदपि) पूर्ववत् ।
पूर्वं द्रव्यमेव ।
उत्तरञ्चाश्रितमनाश्रितं वेति द्वयमेव पूर्ववत् ।
तत्रोत्तरं समवाय एव, अनवस्थाभयात् ।
आश्रितं तु सामान्यवन्निःसामान्यञ्चेति पूर्ववद्द्वयमेव ।
तत्र प्रथममपि स्पन्दो ऽस्पन्द इति द्वयमेव ।
एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते ।
निःसामान्यं निर्गुणमाश्रितं तु एकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव ।
एतदपि यथासङ्ख्यं विशेषःसामान्यञ्चेत्यभिधीयते ।
तत् (१८७) एतत्सादृश्यमेतास्वेकां विधामासादयत् नातिरिच्यते ।
अनासादयन्नपदार्थीभूय स्थातुमुत्सहते ।
एतेन (१८८) शक्तिसङ्ख्यादयो व्याख्याताः ।
ततो ऽभावेन सह सप्तैव पदार्था इति नियमः ।
अतो नोपमानविषयोर्ऽथान्तरमिति ।
[कु।३।३४९] स्यादेतत्- भवतु सामान्यमेव सादृश्यम्, तदेव तस्य विषयःस्यात् ।
तत्स(गोस)दृशो ऽयमिति हि प्रत्ययो नेन्द्रियजन्यः, तदापातमात्रेणानुत्पत्तेरिति चेत्- न- पूर्वपिण्डानुसन्धानरूपसहकारिवैधुर्येणानुत्पत्तेः (ण प्रागजननात् सो ऽयमिति प्रत्यभिज्ञानवदिति ।
[कु।३।३५०] नन्वेतत्सदृशःस इति नेन्द्रियजन्यम्, तेन तस्यासम्बन्धात् ।
नचेदं स्मरणम्, तत्पिण्डानुभवे ऽपि विशिष्टस्याननुभवात् ।
नचैतदपि, अयं स इति विपरीतप्रत्यभिज्ञानवदुपपादनीयम्; तत्तेदन्तोपस्थापनक्रमविपर्यये ऽपि विशेष्यस्येन्द्रियेण सन्निकर्षाविरोधात्; तस्य सन्निहितवर्तमानगोचरत्वात् ।
प्रकृते तु तदभावात् ।
तस्मात् तत्पिण्डस्मरणसहायमेतत्पिण्डवर्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति ।
[कु।३।३५१] एतदपि नास्ति- साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते ।
अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् ॥९ ॥
यद्।आ हि एतद्विसदृशो ऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् ।
न हि तत् प्रत्यक्षम्, असन्निकृष्टविषयत्वात् ।
न स्मरणम्, विशिष्टस्याननुभवात् ।
नोपमानम् असादृश्यविषयत्वात् ।
ननु- एतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यम्, तच्चाभावगम्यमेवेष्यते ।
न च प्रकृते ऽपि तथास्तु, सादृश्यस्य भावरूपत्वादिति चेत्- न- इतो व्यावृत्तधर्मविशिष्टताया अपि
वैधर्म्यरूपत्वात्; तस्य च भावरूपत्वात् ।
स्यादेतत्- तद्धर्मा इह न सन्तीत्यवगते, अर्थादापद्यते- इहाविद्यमानास्तत्र सन्तीति ।
न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्मासौ न भवति इति चेत्- एवं तर्हि प्रकृतमप्यर्थापत्तिरेव ।
न हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते ।
[कु।३।३५२] एतेन दृष्टा(१८९)सन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम् ।
तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति ।
तस्मान्नोपमानमधिकमिति ।
[कु।३।३५३] एवं प्राप्ते ऽभिधीयते- सम्बन्धस्य परिच्छेदः (१९०)(दं?) सञ्ज्ञायाःसञ्ज्ञिना सह ।
प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥१० ॥
यथ्।आ गौस्तथा गवयः इति श्रुतातिदेशवाक्यस्य, गोसदृशं पिण्डमनुभवतः, स्मरतश्च वाक्यार्थं अयमसौ गवयशब्दवाच्य इति भवति मतिः ।
सेयं न तावत् वाक्यमात्रफलम्, अनुपलब्धपिण्डस्यापि प्रसङ्गात् ।
नापि प्रत्यक्षफलम्, अश्रुतवाक्यस्यापि प्रसङ्गात् ।
नापि समाहारफलम्, वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् ।
वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बद्धेनापीन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः ।
फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि प्रत्यक्षत्वप्रसङ्गः ।
तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव? अन्तर्भावे वा कियती सीमा?- तत्तदसाधारणेन्द्रियादिसाहित्यम् ।
अस्ति तर्हि सादृश्यादिज्ञानकालेविष्फारितस्य चक्षुषो व्यापारः- न- उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरे ऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः ।
[कु।३।३५४] ननु च वाक्यादेवानेन समयः परिच्छिन्नः, गोसदृशस्य गवयशब्दःसञ्ज्ञेति ।
केवलमिदानीं प्रत्यभिजानाति अयमसाविति ।
प्रयोगाद्वऽनुमितः, यो यत्रासति वृत्त्यन्तरे वृद्धैः प्रयुज्यते, स तस्य वाचकः, यथा गोशब्द एव गोः, प्रयुज्यते चायं गोसदृशे इति किमुपमानेनेति- न- सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्गृहः पूर्वं शब्देनानुमयापि वा ॥११ ॥
न हि गवयशब्दस्य सादृश्यं प्रवृत्तिनिमित्तम्, अप्रतीतगूनामव्यवहारप्रसङ्गात् ।
नचोभयमपि निमित्तम्, स्वयम्प्रतीतसमयसङ्क्रान्तये ऽतिदेशवाक्यप्रयोगानुपपत्तेः ।
गवयत्त्वे ह्ययं व्युत्पन्नो वृद्धव्यवहारात्, न सादृश्ये ।
कथमेतन्निर्धारणीयमिति चेत्- वस्तुगतिस्तावदियम्, तदापाततःसन्देहे ऽपि न फलसिद्धिः, गन्धवत्त्वमिव पृथिवीत्वस्य, गोसादृश्यं गवयशब्दप्रवृत्तिनिमित्तस्योपलक्षणम्, इदमेव वा निमित्तमित्यनिर्धारणात् ।
[कु।३।३५५] स्यादेतत्- पूर्वं निमित्तानुपलब्धेर्न फलसिद्धिः, इदानीन्तु तस्मिन्नुपलब्धे तदेव वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्यवदातस्य कालान्तरे ।
न च वाच्यम्, वाक्येन (१९१) स्वार्थस्य प्रागेव बोधितत्वात् प्रागेवपर्यवसितमिति- गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्ये सन्देहात् ।
इदानीन्तु गवयत्वे ऽवगते तर्कपुरस्कारात्सादृश्यस्योपलक्षणतायां व्यवस्थितायाम्, गङ्गायां घोष इतिवदन्वयप्रतिपत्तिरिति चेत्- न- श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥१२ ॥
गोसदृश्।ओ गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेषसन्देहे ऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपनीतानपेक्षणात्, तक्तारक्तसन्देहे ऽपि घटो भवतीति वाक्यवत् ।
अन्यथा वाक्यभेददोषात् ।
न च गङ्गायां घोष इतिवत् पदार्था एवान्वयायोग्याः, येन प्रमाणान्तरोपनीतेनान्वयःस्यात् ।
अथ (१९२)प्रतीतवाक्यार्थबलायातो ऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थःस्यात् ।
तस्माद्यथा गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चिते ऽपि, विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्यान्निश्चितेपि सामान्ये, विशेषवाचकत्वे ऽस्य मानान्तरमनुसरणीयमिति ।
[कु।३।३५६] अस्त्वनुमानम् ।
तथाहि- गवयशब्दो गवयस्य वाचकः असति वृत्त्यन्तरे ऽभियुक्तैस्तत्र प्रयुज्यमानत्वत्,गवि गोशब्दवदिति चेत्- न- असिद्धेः ।
न ह्यसति वृत्त्यन्तरे तद्विषयतया प्रयोगःसङ्गतिमविज्ञाय ज्ञातुं शक्यते ।
सामानाधिकरण्यादिति चेन्न- पिण्डमात्रे सिद्धसाधनात्, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्तत्वादित्युक्तम् ।
[कु।३।३५७] ननु व्याप्तिपरमिदं वाक्यं स्यात्, यो गोसदृशः स गवयपदार्थ इति ।
तथाच वाक्यादवगतप्रतिबन्धो ऽनुमिनुयात्- अयमसौ गवयो गोसदृशत्वादितिदेशवाक्यावगतपिण्डवदिति- न- विपर्ययात् ।
न हि गोसदृशं बुद्धावारोप्यानेन पृष्टः, स किं शब्दवाच्य इति ।
किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति ।
तथाच यद्योगप्राथम्याभ्यां तस्यैव व्याप्यत्वम् ।
ततः किं तेन, प्रकृतानुपयोगात् ।
[कु।३।३५८]
अथ (१९३)किंलक्षणको ऽसाविति प्रश्नार्थः ।
तदा व्यतिरेकिपरं (१९४)स्यात्, लक्षणस्य तथाभवात् ।
तथाच गोसदृशो गवय इत्यस्यार्थः- यो गवय इति न व्यवह्रियते नासौ गोसदृश इति ।
एवञ्च प्रयोक्तव्यम्- अयमसौ गवय इति व्यवहर्तव्यः गोसदृशत्वात्, यस्तु न तथा, गोसदृशः यथा हस्ती ।
न च हस्त्यादीनां विपक्षत्वे प्रमाणमस्ति, सर्वाप्रयोगस्य दुरवधार(ण)त्वात्; कतिपयाव्यवहारस्य चानैकान्तिकत्वात् ।
[कु।३।३५९] ननु लिङ्गमात्रे प्रश्नो भविष्यति, कीदृक् किं लिङ्गमिति- न- न ह्यनेन लिङ्गमविज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद्वाच्यत्वं वावगतम्, येन तदर्थं प्रश्नःस्यात् ।
प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नः, येन निमित्तेन गवयशब्दः प्रवर्तते तस्य किं लिङ्गमिति चेन्न- न हि तदवश्यमनुमेयमेवेत्यनेन निश्चितम्, यत इदं स्यात् ।
ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न- अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत्; पर्यायान्तरं वा ।
यथा- गवयमहं कथं जानीयामिति प्रश्ने, वनं गतो द्रक्ष्यसीति; यथा वा- कः पिक इत्यत्र, कोकिल इति ।
तस्मान्निमित्तभेदप्रश्न एवायम्, गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः ।
तस्य च निमित्तविशेषस्य साक्षादुपदर्शयितुमश्क्यत्वात् पृष्टस्तदुलक्षणं किञ्चिदाचष्टे ।
तच्चोपमानसामग्रीसमुत्थापनमेव ।
तस्य च प्रमाणस्य सतस्तर्कःसहायतामापद्यते- “सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च कॢप्तकल्प्यविरोध” इति तदेव निमित्तमवगच्छतीति ।
[कु।३।३६०] लक्षणन्त्वस्य अनवगतसङ्गतिसञ्ज्ञासमभिव्याहृतवाक्यार्थस्य सञ्ज्ञिन्यनुसन्धानमुपमानम् ।
वाक्यार्थश्च क्वचित् साधर्म्यं क्वचिद्वैधर्म्यम् ।
अतो नाव्यापकम् ।
तस्मान्नियतविषयत्वादेव न तेन बाधः, न त्वनतिरेकादिति स्थितिः ।
कु।३।[३६१टशब्दो ऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः ।
तथा हि- यद्यपि एते पदार्था मिथः संसर्गवन्तः वाक्यत्वादिति व्यधिकरणम्; पदार्थत्वादिति चानैकान्तिकम्; पदैःस्मारितत्वादित्यपि तथा ।
यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः ।
न ह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति ।
ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येण अनुमानान्तर्भाववादिभिर्नेष्यते ।
न च लिङ्गतया ज्ञापकत्वं यत् लिङ्गस्य (१९५) विषयस्तदेव तस्य, परस्पराश्रयप्रसङ्गात् ।
तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति ।
तथापि- आकाङ्क्षादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् ।
न च विशेषासिद्धिर्देषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् ।
यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात् गामभ्याजेति पदवत् ।
न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तत्सिद्धेः ।
तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति ।
[कु।३।३६२] अत्रोच्यते- अनेकान्तः परिच्छेदे सम्भवे च न निश्चयः ।
आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिरबन्धना ॥१३ ॥
एत्।ए पदार्थामिथःसर्ङ्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः सम्भावितसंसर्गा इति वा ।
[कु।३।३६३] न प्रथमः, अनाप्तोक्तपदकदम्बस्मारितैरनेकान्तात् ।
आप्तोक्त्या विशेषणीयमिति चेन्न- वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः ।
न ह्यविप्रलम्भकत्वमात्रमिहाप्तशब्देन विवक्षितम्, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात् ।
अपितु तदनुभवप्रामाण्यमपि ।
न चैतच्छक्यम् (१९६)असर्वज्ञे सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात् ।
यत्र (१९७)क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः ।
ततो ऽस्मिन्नर्थे ऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम् ।
नचैतत् संसर्गविशेषमप्रतीत्य शक्यम्; बुद्धेरर्थम्भेदमन्तरेण निरूपयितुमशक्यत्वात् ।
पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित्; अनाप्तसाधारण्यात् ।
एतेषां संसर्गे ऽयमभ्रान्त इति शक्यमिति चेन्न- एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः ।
अननुभूतचरे स्मरणायोगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति ।
[कु।३।३६४ट नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात् ।
योग्यतामात्रस्य प्रागेव सिद्धेः ।
अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुःस्यात् ।
तथाचाग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः; तथाविधानां सर्वथा संसर्गायोग्यत्वादिति ।
[कु।३।३६५] एवं द्वितीये ऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति ।
तत्र केयमाकाङ्क्षा नाम? न तावद्विशेषणविशेष्यभावः, तस्य संसर्गर्(गविशेष)स्वभावतया साध्यत्वात् ।
नापि तद्योग्यता, योग्यतयैव गतार्थत्वात् ।
नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावे ऽपि वाक्यार्थप्रत्ययात् ।
तत्रापि विशेषाक्षिप्तसामान्ययोरविनाभावो ऽस्तीति
(वोप्याकाङ्क्षेति) चेन्न- अहो विमलं जलं नद्याः, कच्छे महिषश्चरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् ।
नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां (सया)रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात् ।
“गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा ।
पट इत्युक्ते किंरूपः, कुत्र किं करोतीत्यादिरूपजिज्ञासा ।
तत्र, भवतीत्युक्ते, किं करोतीत्येषैव पदस्मारितविषया, न तु किं रूप इत्यादिरपि ।
यदा तु रक्त इत्युच्यते, तदा किंरूप इत्येषापि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्नऽमिति चेत्- एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान्, किमस्यां जातायामन्वयप्रत्ययः अथ ज्ञातायामिति ।
तत्र प्रथमे नानया व्यभिचारव्यावर्तनाय (वारणाय)हेतुर्विशेषणीयः, मनःसंयोगादिवत्सत्तामात्रेणोपयोगात् ।
आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितो ऽपि न गमकः; अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यादौ व्यभिवचारात् ।
[कु।३।३६६टद्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत्तत्सद्भावे ऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते ।
नत्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् ।
निवृत्ताकाङ्क्षस्य च तदभावात् ।
कथमेष निश्चयः, साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्- तावन्मात्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनानुपपत्तेः ।
अन्यत्र तथा दर्शनाच्च ।
यथा (दा) हि दूराद्दृष्टसामान्यो जिज्ञासते को ऽयमिति, प्रत्यासीदंश्च, स्थाणुरयमिति प्रत्येति, तदास्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावे ऽपिस्थाणुरयमित्यर्थ(न्वय)प्रत्ययो भवति- तथेहाप्यविशेषात् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावगतिरिति ।
न च विशेषोपस्थानात्प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्क्षा(ङ्क्ष)त्वात् ।
[कु।३।३६७] न चैवम्भूतो ऽप्ययमैकान्तिको हेतुः ।
यदा ह्ययमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्तेन अयमेति पुत्र इत्यश्रुत्वैव; राज्ञः पुरुषो ऽपसार्यतामिति शृणोति, तदास्त्याकाङ्क्षादिमत्त्वे सति पदकदम्बकत्वम्? न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति ।
[कु।३।३६८टस्यादेतत्- यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणासंस्पर्शात् ।
कुतस्त्यस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः? अलिङ्ग एव लिङ्गत्वाध्यारोपात् ।
एतावानेवायं समभिव्याहार इति तत्र श्रोतुरभिमानः- न- तत्सन्देहे ऽपि श्रुतानुरूपसंसर्गावगमात् ।
भवति हि तत्र प्रत्ययः, न जाने किमपरमनेनोक्तम्, एतावदेव श्रुतम्, यद्राज्ञः पुरुषो ऽपसार्यतामिति ।
भ्रान्तिरसाविति चेत्- न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् ।
न लिङ्गाभासजा, लिङ्गाभिमानाभावे ऽपि जायमानत्वात् ।
एतावत्प(दृक्प)दकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् ।
यद्येवम्, तदेवादुष्टं सदभ्रान्तिं जनयत् केन वारणीयम् ।
व्याप्तिप्रतिसन्धानं विनापि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात् चक्षुरादिवत् ।
[कु।३।३६९] नास्त्येव तत्र संसर्गप्रत्ययः; असंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्- तर्हि यावत्समभिव्याहारेणापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् ।
असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत्- एवं तर्हिसंसर्गो न सिद्ध्येत् ।
आप्तवाक्येषु सेत्स्यतीति चेन्न- सर्वविषयाऽप्तत्वस्यासिद्धेः, यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात्, प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्ध्यभ्युपगमादित्युक्तम् ।
[कु।३।३७०] न च सर्वत्र जिज्ञासा निबन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात् ।
आकाङ्क्षापदार्थस्तर्हि कः? जिज्ञासां प्रति योग्यता ।
सा च स्मा(१९८)रिततदाक्षिप्तयोर(प्ता)विनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः ।
न चैषो ऽपि ज्ञानमपेक्षते, (१९९)प्रतियोगिनिरूपणाधीननिरूपणत्वात्तदभावस्य, तस्य च विषयनिरूप्यत्वादिति ।
[कु।३।३७१] प्राभाकरस्तु लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाध्य वेदस्यापौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत; लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धेरन्विताभिधानबलायातेपि प्रतिपादकत्वे ऽनुवादकतामात्रं वाक्यस्येति निर्णीतन्तः ।
तदतिस्थवीयः- निर्णीतशक्तेर्वाक्यस्याद्धि प्रागेवार्थस्य निर्णये ।
व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता ॥१४ ॥
यावती हि वेदे सामग्री, तावत्येव लोके ऽपि भवन्ती कथमिव नार्थं गमयेत् ।
नह्यपेक्षणीयान्तरमस्ति ।
लिङ्गे तु परिपूर्णे ऽप्यवगते व्याप्तिस्मृतिरपेक्षणीयास्तीति, विलम्बेन किं निर्णेयम्; अन्वय(अर्थ)स्य प्रागेव प्रतीतेः ।
[कु।३।३७२टलोके वक्तुराप्तत्वनिश्चयो ऽपेक्षणीय इति चेन्न-
तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तेरवधारणात् ।
अन्यथा वेदे ऽप्यर्थप्रत्ययो न स्यात्, तदभावात् ।
न च लोके अन्यान्येव पदानि; येन शक्तिवैचित्र्यं स्यात् ।
अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्यापि सामग्री सन्देहेन शिथिलायते इति चेन्न- चक्षुरादौ व्यभिचारदर्शनेन (रसत्वेन) शङ्कायामपि सत्यां ज्ञानसामग्रीतस्तदुत्पत्तिदर्शनात् ।
ज्ञायमानस्यायं विधिः, यत् सन्देहे सति न निश्चायकम्,(२००) यथा लिङ्गम्; चक्षुरादि तु सत्तयेति चेन्न- वाक्यस्य निश्चतत्वात्; आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् ।
लोके ऽपि चाप्तत्वानिश्चये ऽपि वाक्यार्थप्रतीतेः ।
भवति हि वेदानुकारेण पठ्यमानेषु अपौरुषेयत्वाभिमानिनो गौड(२०१)मीमांसकस्यार्थनिश्चयः ।
न चासौ (चायम्) भ्रान्तिः, पौरुषेयत्वनिश्चयदशायामपि तथानिश्चया(थात्वा)दिति ।
[कु।३।३७३] स्यादेतत्- नाप्तोक्तत्वमर्थप्रतीतेरङ्गमिति ब्रूमः; किन्त्वनाप्तोक्तत्वशङ्कानिरासः (सम्) ।
स च क्वचिदपौरुषेयत्वनिश्चयात्, क्वचिदाप्तोक्तत्वावधारणादिति चेत्- तत् किमपौरुषेयत्वस्याप्रतीतौ, सन्देहे वा वेदवाक्याद्विदितपदार्थसङ्गतेरर्थप्रत्यय एव न भवेत्, भवन्नपि वा न श्रद्धेयः? प्रथमे सत्यादय एव प्रमाणम् ।
नचासंसर्गाग्रहे तदानीं संसर्गव्यवहारः, बाधकस्यात्यन्तमभावात् ।
तथापि तत्कल्पनायामन्वयोच्छेदप्रसङ्गात् ।
द्वितीये त्वश्रद्धा प्रत्यक्षवत् निमित्तान्तरान्निवर्त्स्यतीति वेदे यदि, लोके ऽपि तथा स्यादविशेषात् ।
[कु।३।३७४] अन्यथा वेदस्याप्यनुवाकताप्रसङ्गः (ङ्गात्) ।
तदुच्यते ।
(थाहि) ।
व्यस्तपुन्दूषणाशङ्कैः स्मारितत्वात् पदैरमी ।
अन्विता इति निर्णीते वेदस्यापि न तत् कुतः ॥ १५॥
।
। ।
यदा ह्यपौरुषेयत्वनिश्चयात् प्राक् वेदो न किञ्चिदभिधत्ते इति पक्षः,तदा आप्तोक्तत्वनिश्चयोत्तरकालं (२०२)लोकवत्, वेदे ऽप्यपौरुषेयत्वनिश्चयात् पश्चादनुमानावतारः ।
इयांस्तु विशेषः- यदत्र पदार्थानेव पक्षीकृत्य निरस्तपुन्दोषाशङ्कैराकाङ्क्षादिमद्भिः पदैः स्मारितत्वादाप्तोक्तपदकदम्बकस्मारितपदार्थवत् संसर्ग एवाहत्य साध्यः,बुद्धिव्यवहितस्त्वितरत्रेति ।
फलतो न कश्चिद्विवशेष इति ।
तथा चान्विताभिधाने ऽपि जघन्यत्वाद्वेदस्यानुवादकत्वप्रसङ्गः ।
न चैवं सति तत्र प्रमाणमस्ति ।
विशिष्टप्रतिपत्यन्यथानुपपत्या हि शब्दस्य तत्र शक्तिः परिकल्पनीया ।
सा चानुमानेनैवोपपन्नेति वृथा प्रयासः ।
तस्माल्लोके शब्दस्यानुवादकतेति विपरीतकल्पनेयमायुष्मताम् ।
[कु।३।३७५] किं चेदमन्विताभिधानं नाम? न तावदन्वितप्रतिपादनमात्रम्, अविवादात् ।
नापि स्वार्थाभिधायास्तत्र तात्पर्यम्, अविवादादेव ।
नापि सङ्गतिबलेन तत्प्रतिपादनम्, वाक्यार्थस्यापूर्वत्वात् ।
नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्षयात् ।
नापि सैव सङ्गतिरुभयप्रतिपादिका, प्रतीतिक्रमानुपपत्तेः ।
यौगपद्याभ्युपगमे तु योग्यत्वादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवत् वाक्यार्थप्रत्ययप्रसङ्गात् ।
नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्यार्थे तु पदार्थप्रतिपादनावान्तरव्यापारेति युक्तम्- तस्याः स्वयमकरणत्वात् ।
सङ्गतानि पदानिहि करणम्, न तु सङ्गतिः ।
तथापि तत्प्रतिपादनानुगुणसङ्गतिशालीनि पदानीति चेत्- न तावद्वाक्यार्थप्रतिपादनानुगुणता सङ्गरेस्तदाश्रयत्वेन; सामान्यमात्रगोचरत्वात्, तद्वन्मात्रगोचरत्वाद्वा ।
नापि तदनुगुणव्यापारवत्वेन, अकरणत्वादित्युक्तम् ।
तदनुगुणकरणव्यापारोत्थापकत्वात्तदनुगुणत्वे न नो विवादः ।
अन्वित एव शक्तिरिति चेत्- उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुपपत्तेश्चेति ।
[कु।३।३७६] स्मृतक्रियान्विते कारके स्मृतकारकान्वितायाञ्च क्रियायां सङ्गतिः ।
अतो नोक्तदोषावकाशः ।
नापि पर्यायतापत्तिः, प्राधान्येन नियमात् ।
नापि पौनरुक्त्यम्, विशेषान्वये तात्पर्यात् ।
नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावनपेक्षणात् ।
नापिवाक्यभेदापत्तिः, परस्परपदार्थस्मृतिसन्निधौ तदितरानपेक्षणात्- इति चेत्- न अन्विते सङ्गतिग्रह इति कोर्ऽथः? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थान्वितम्, न किञ्चित् प्रकृतोपयोगि ।
न हि यत्र चक्षुषः सामर्थ्यमवगतं तद्वस्तुगत्या स्पर्शवदिति, तद्वत्तापि तस्य विषयः ।
अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः- तदसत्, प्रमाणाभावात् ।
[कु।३।३७७] अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेन्न ।
अनन्विताभिधानेनाप्युपपत्तेः ।
आकाङ्क्षानुपपत्तिरस्तु ।
न हि सामान्यतो ऽन्वितानवगमे ऽन्वयविशेषे जिज्ञासा स्यात्- न- दृष्टे फलविशेषे रसविशेषजिज्ञासावदाक्षेपतो ऽप्युपपत्तेः ।
[कु।३।३७८] शब्दमहिमानमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् ।
न चैवम् ।
ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत्- कुतस्तर्हि कविकाव्यानि विलसन्ति ।
न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम ।
न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्दस्तदाभासा वा सम्भवन्ति, अन्यत्र चन्तावशेन पदार्थस्मरणेभ्यः ।
असंसर्गाग्रहो ऽसाविति
चेत्; मम तावत् संसर्गग्रह एवासौ ।
तवापि सैव पदावली क्वचिदन्वये पर्यवस्यति, क्वचिदनन्वयाग्रहे इति कुतो विशेषात्? [कु।३।३७९] आप्तानाप्तवक्तृकतयेति चेत्; किं तथाविधेन वक्त्रा तत्र कश्चिद्विशेष आहितः? आहो वक्तैवाच्छेदकतया विशेषः? प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरवम् ।
द्वितीये तु वक्तुरिव पदानामप्यवच्छेदकतयैव विशेषकत्वमस्तु ।
एवं तर्हि पदानामप्यन्वयप्रतीतावस्त्युपयोगः ।
कःसन्देहः ।
परं पदार्थाभिधानेन; न त्वन्यथा ।
यथा तवैव, आप्तस्य संसर्गपरतया पदसमभिव्याहारमात्रेण; न त्वन्यथा ।
अन्यथा गुरुमतविदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः- प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि ।
आप्तानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥
इति ॥
[कु।३।३८०] तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतो ऽतिप्रसङ्गः? [कु।३।३८१] न चैवं सति पदार्था एव करणम्, तेषामनागतादिरूपतया कारकत्वानुपपत्तौ तद्विशेषस्य करणत्वस्यायोगात् ।
तत्संसर्गे प्रमाणान्तरासङ्कीर्णोदाहरणाभावाच्च ।
पदानां तु पूर्वभावनियमेन पदार्थस्मरणावान्तरव्यापारवत्तया तदुपपत्तेः; व्यापारस्याव्यवधायकत्वादिति कृतं प्रसक्तानुप्रसक्त्या ।
[कु।३।३८२] अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्तरि ।
तथाहि- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥
(ग्।ई।) इत्यादि पठन्ति ।
अस्यायमर्थः- न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति ।
आभिमानिकं तु तत् ।
न च सर्वज्ञस्याभिमानः ।
न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति- उच्यते- न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता ।
अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥१६ ॥
यदि हि सर्वज्ञकर्त्रभावाऽवेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम् ।
अथाप्तो ऽस्य वक्ता, कथं न तदर्थदर्शी ।
अतीन्द्रियार्थदर्शीति चेत्- कथमसर्वज्ञः, कथं वा न कर्ता, आगमस्यैव प्रणयनात् ।
न च नित्यागमसम्भवः, विच्छेदादित्यावेदितम् ।
[कु।३।३८३] अपिच- न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् ।
निरञ्जनावबोधार्थो न च सन्नपि तत्परः ॥१७ ॥
नह्यसत्त्वपक्ष एवागमो नियतः, ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपादनात् ।
तथाचाग्रे दर्शयिष्यामः ।
तथाच सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम् ।
सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेत्- आपाततस्तावदेवमेतत् ।
यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भविष्यतीति ।
न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः ।
[कु।३।३८४] अस्त्वर्थापत्तिस्तर्हि बाधिका ।
तथाहि- यद्यभविष्यत्, नोपादेक्ष्यत् ।
न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति ।
अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्यं वाऽवेदयति- न- अन्यथैवोपपत्तेः ।
हेत्वभावे फलाभावात् प्रमाणे ऽसति न प्रमा ।
तदभावात् प्रवृत्तिर्नो कर्मवादे ऽप्ययं विधिः ॥१८ ॥
बुद्धिपूर्वां हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना ।
न च प्रकृते बुद्धिरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् ।
भूतावेशन्यायेन प्रवर्तयेदिति चेत्- प्रवर्तयेदेव, यदि तथा फलसिद्धिः स्यात् ।
न त्वेवम् ।
कुत एतदवसितम्? उपदेशान्यथानुपपत्त्यैव ।
यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिः, तस्यापि तुल्यमेतत् ।
यद्यस्ति प्रवृत्तिनिमित्तमदृष्टम्, किमुपदेशेन, तत एव प्रवृत्तिसिद्धेः ।
न चेत्, तथापि किमुपदेशेन, तदभावे तस्मिन् सत्यप्यप्रवृत्तेः ।
नित्यः स्वतन्त्र उपदेशो न पर्यनुयोज्य इति चेत्- यूयं पर्यनुयोज्याः, ये तम(मन)वधानतो धारयन्ति विचारयन्ति चेति ।
[कु।३।३८५] न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात् प्रकारान्तराभावाच्च ।
तथाहि- अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ।
न मानयोर्विरोधो ऽस्ति प्रसिद्धे वाप्यसौ समः ॥१९ ॥
जीवंश्चैत्रो गृहे नास्तीति अनुपपद्यमानमसति बहिःसद्भावे, तमाप(मावे)दयतीत्युदहरन्ति ।
तत्र चिन्त्यते- किमनुपपन्नं जीवतो गृहाभावस्येति ।
न ह्यनियमयस्यानियामकं विना किञ्चिदनुपपन्नम्, अतिप्रसङ्गात् ।
ननु स्वरूपमेव ।
तत् न तावद्बहिः सत्त्वेन कर्तव्यम्, तदकार्यत्वात् तस्य ।
स्थितिरेवास्य तेन विना न स्यादित्यस्य स्वभाव इति चेत्- एवं तर्हि तन्नियतस्वभाव एवासौ; व्याप्तेरेव व्यतिरेकमुखनिरूप्यायास्तथाव्यपदेशात् ।
[कु।३।३८६] कथं वा (च) बहिःसत्त्वमस्योपपादकम्? न हि अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव ।
स्वभावो ऽस्य, यदनेन
बहिःसत्त्वेन गेहासत्वं क्रोडीकृत्य स्थातव्यमिति चेत्- सेयं व्याप्तिरेवान्वयमुखनिरूप्या तथा व्यपदिश्यते इति ।
[कु।३।३८७] न वयमविनाभावमर्थापत्तावपजानीमहे, किन्तु तज्ज्ञानम् ।
न चासौ सत्ता मात्रेण तदनुमानत्वमापादयतीति चेत्- न- अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात् ।
अन्यथात्वतिप्रसङ्गात् ।
अर्थापत्त्याभासानवकाशाच्च ।
यदा ह्यन्यथैवो(थाप्यु)पपन्नमन्यथानुपपन्नमिति मन्यते, तदास्य विपर्ययः, न त्वन्यथेति ।
[कु।३।३८८] तथापि कथमत्र व्याप्तिर्गृह्येतेति चेत्- यदाहमिह तदा नान्यत्र, यदान्यत्र तदा नेहेति सर्वप्रत्यक्षासिद्धमेतत्; का तत्रापि कथन्ता? सर्वदेशाप्रत्यक्षत्वे तत्राभावो दुरवधारण इत्यपि नास्ति, तेषामेव संसर्गस्यात्मनि प्रतिषेधात् ।
अयोग्यानां प्रतिषेधे का वार्तेति चेत्- तदवयवानां तत्संसर्गप्रतिषेधादेवानुमानात्; अन्येषां न काचित् ।
न ह्यकारणीभूतेन परमाणुना नेदं संसृष्टमिति निश्चेतुं शक्यमिति ।
[कु।३।३८९] न चा(नाप्य)विनाभावनिश्चयेनापि गमयन्नपक्षधर्मोर्ऽथापत्तिरिति युक्तम्- पक्षधर्मताया अनिमित्तत्वप्रसङ्गात्; अविशेषात् ।
व्यधिकरणेनाविनाभावनिश्चयायोगाच्च; यत् (२०३) यत्र यदेति प्रकारानुपपत्तेः ।
[कु।३।३९०] प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति ।
विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यात्, न तूभयोः प्रमाण्यम् ।
प्रामाण्ये वा न विरोधः, स्थूलमिदमेकमितिवत् सहसम्भवात्; चैत्रो ऽयमयं तु मैत्र इतिवद्वा विषयभेदात् ।
प्रकृते क्वाप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताप्यस्तीति चेत्- यद्येवम्, क्वचिदस्ति क्वचिन्नास्तीतिवन्न विरोधः ।
अत्रापि विरोध एवेति चेत्- एकं तर्हि भज्येत ।
[कु।३।३९१] न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत्- किमनुपपद्यमानम्? विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थापयतीति चेत्- अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् ।
व्यवस्थापनमविरोधापादनम् ।
एकविषयतयैव चानयोर्विरोधः ।
स कथं तयैव शमयितव्यः न हि यो यद्विषमूर्च्छितः, स तेनैवोत्थाप्यते इति चेत्- एकविषयतया अनयोर्विरोध इत्येतदेव कुतः ।
विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत्- नन्वियं व्याप्तिरेव ।
तथाच घट्टकुट्यां (२०४) प्रभातमिति ।
[कु।३।३९२] धूमोपि वानुपपद्यमानतयैव वह्निं गमयेत् ।
न हि तेन विना असावुपपद्यते ।
विरोधो ऽपि- धूमाद्वह्निना भवितव्यम्,अनुपलब्धेश्च न भवितव्यमिति ।
तथाचानु पलब्धेरर्वाग्भागव्यवस्थापनम्, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतो ऽनुमानम् ।
वह्निमानयमित्यमनुमानं व्याप्तेः; अन्यथा अनुमानाभावे विरोधासिद्धेः ।
अर्वाग्भागानुपलब्धिविरोधेन परभागे ऽस्य वह्निरित्यस्यार्थापत्तिरेवेति चेत्- न- व्याप्ति ग्राहकेण प्रमाणेन विरोधस्योक्तत्वात् ।
नाप्युत्तरा अर्थापत्तिः ।
अन्यथा पाण्डरत्वस्यापालालत्वविरोधेन पालालत्वस्थितिरप्यर्थापत्तिरेव स्यात् ।
तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत्- यद्येवम्, अर्वाग्भागानुपलभ्यमानवन्हित्वेन (मत्वेन) विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमेवं भविष्यतीति तुल्यम् ।
[कु।३।३९३] केवलव्यतिरेक्यानुमानं पराभिमतमर्थापत्तिः; अन्वयाभावादिति चेत्- एवमेतावता विशेषेणानुमानेर्ऽथापत्तिव्यवहारं न वारयामः ।
तत्रानुमानव्यवहारः कुत इति चेत्- अविनाभूतलिङ्गसमुत्पन्न(मुत्थ)त्वात् ।
साध्यधर्मेण विना ह्यभवनमन्वयिन इव व्यतिरेकिणो ऽप्यविशिष्टम्, तन्निश्चयश्चान्वयव्यतिरेकाभ्यामन्यतरेण वेति ।
तस्मादर्थापत्तिरित्यनुमानस्य पर्यायो ऽयम्, तद्विशेषवचनं वा पूर्ववदादिवदिति युक्तम् ।
[कु।३।३९४] अनुपलब्धिस्तु न बाधिकेति चिन्तितम् ।
न च प्रत्यक्षादेरतिरिच्यते ।
तदुच्यते- प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात् ।
अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥२० ॥
[कु।३।३९५] या हि साक्षात्कारिणी प्रतीतिः, सा इन्द्रियकरणिका, यथा रूपादिप्रतीतिः; तथेह भूतले घटो नास्तीत्यपि ।
साक्षात्कारित्वमस्या असिद्धमिति चेन्न- एकजातीयत्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः ।
न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञातम् अज्ञातञ्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गात्, ज्ञानस्याकारणत्वप्रसङ्गाच्च ।
न हि तदतिपत्यापि भवतस्तत्कारणत्वम्,व्याघातात् ।
तस्मात् ज्ञातानुपलब्धिजन्यस्य साक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्याम् ।
ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति? तद्यथा- निपुणतरमनुसृतो मया मन्दिरे चैत्रः; न चोपलब्ध इति श्रुत्या श्रोतानुमिनोति, नूनं नासीदेवेति ।
एतेन प्राङ्नास्तितापि व्याख्याता ।
ननु तथाप्यवान्तरजातिभेदो ऽस्तु; अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्- कारणविरोधात् कार्यविरोधेन भवितव्यमित्युक्तमेव ।
[कु।३।३९६]
अनन्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभावित्वाच्च ।
अधिकरणग्रहणे तदुपक्षीणमिति चेन्न- अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात् ।
अस्ति हि तस्याधिकरणग्रहणम् ।
अस्ति च प्रतियोगिस्मरणम् ।
अस्ति च श्यामेरक्तत्वस्य योग्यस्याभावो ऽनुपलब्धिश्च ।
अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनो ऽपि समानमेतदिति चेन्न- प्रतियोगिग्राहकेन्द्रियग्राह्यो ऽभाव इत्यभ्युपगमात् ।
ममापि प्रतियोगिग्राहकेन्द्रियगृहीते ऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेन्न- वायौ त्वगिन्द्रियोपनीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् ।
तथापि तत्तत्र सन्निकृष्टमिति चेत्- हन्तैवमनन्यत्रचरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन ।
[कु।३।३९७] स्यादेतत्- तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न- तस्य तं प्रत्यकारणत्वात् ।
कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्द्रव्याभावं न प्रतीयात् ।
प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याश्यामत्वम् ।
आर्जवावस्थानमप्यधिकरणस्योपयुज्यते इति चेत्- तर्हि नयनसन्निकर्षो ऽप्युपयोक्ष्यते ।
तदेकसहकारिप्रभासन्निकर्षापेक्षणात्; वातायन(२०५)विवरविसारिकरपरामृष्टे ऽप्यधिकरणे तदुपलम्भप्रसङ्गाच्च ।
[कु।३।३९८] तथापि योग्यतापादनोपक्षीणञ्चक्षुः ।
तदितर(२०६)सामग्रीसाकल्ये ह्यनुपलभ्यमानस्याभावो निश्चीयते ।
तच्च चक्षुष्यधिरकरणसन्निकृष्टे सति स्यादिति चेत्- ननु परिपूर्णानि कारणान्येव साकल्यम् ।
तथाच किं कुत्रोपक्षीणम् ।
अथान्योन्यमेलनं (२०७)मिथः प्रत्यासत्त्यादिशब्दवाच्यं तदुपक्षयविषयः, न तर्हि क्वचिच्चक्षुः कारणं स्यादिति ।
न हि रूपाद्युपलब्धिमप्यसन्निकृष्टमेतदुपजनयति ।
[कु।३।३९९] अथाधिकरणसमवेतकिञ्चिदुपलम्भो ऽपि तद्विषयाभावग्रहे ऽनुपलब्धेरपेक्षणीयः ।
ततस्तत्रेदं चरितार्थम् ।
वाय्वादिषु तु रूपाद्यभावप्रतीतिरानुमानिकी ।
तथा(२०८)नुपलब्ध्या ह्यनुमीयते, अयं नीरूपो वायुरिति- न- असिद्धेः ।
न ह्युपलम्भाभावो भवतामभावोपलम्भः ।
उपलम्भस्यातीन्द्रियत्वाभ्युपगमात् ।
प्राकट्याभावेनानुमेय इति चेन्न- वायौ रूपवत्ताप्राकट्याभावस्याप्यसिद्धेः ।
रूपाभावेन समानत्वात् ।
व्यवहाराभावेनानुमेय इति चेन्न- कायवाग्व्यापाराभावे ऽप्युपेक्षाज्ञानभावाभ्युपगमात्; मूकस्वप्नोपपत्तेश्च ।
न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते, अनैकान्तिकत्वादसिद्धेश्च ।
तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा, तद्विषयज्ञानजनको, वा तदाश्रयधर्मजनको वा ।
तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनिश्चय एव ।
आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् ।
[कु।३।४००] न चाज्ञातस्योपलम्भाद्यभावस्य लिङ्गता ।
न च प्राकट्याभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति युक्तम्- लिङ्गाभावस्य तथात्वे ऽतिप्रसङ्गात् ।
अविनाभावबलेन तु नियमे तत्प्रतिसन्धानापत्तेः ।
न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादावपि तथाभावप्रसङ्गादिति ।
[कु।३।४०१] ज्ञानप्रत्यक्षत्वेन त्वद्दिशा भविष्यतीति चेन्न- शब्दध्वंसादिनोक्तोत्तरत्वात् ।
[कु।३।४०२] अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिरनुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद्व्यवस्थाप्येत, व्याप्तिबलाद्वा (२०८) ।
न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते ।
नापि व्याप्तेः, तथा सति वयौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात् ।
अनाक्षेपे वा,न तत्कारणको भवेत्, न वा भवेत् ।
ततो न भवत्येव, लिङ्गात्तदुत्पत्ति(२०९)रिति चेत्- ननु लिङ्गमपि सैव; न तत्त्वान्तरम् ।
यथा योनिसम्बन्धो ऽलिङ्गदशायामिन्द्रियसन्निकर्षमपेक्षते, लिङ्गदशायां तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति चेन्न- कार्यजातिभेदात्तदुपपत्तेः; प्रकृते च तदनभ्युपगमात् ।
पारोक्ष्यापारोक्ष्ये विहायान्यथाप्यसौ भविष्यतीति चेन्न- अनुपलम्भात् ।
सम्भाव्यते तावदिति चेत्- सम्भाव्यताम्, न त्वेतावतापि तमाश्रित्य करणनियमनिश्चयः ।
[कु।३।४०३] अज्ञातकरणत्वाच्च ।
यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजम्, यथा रूपप्रत्यक्षम् ।
तथाचेह भूतले घटो नास्तीति ज्ञानमिति ।
यथा वा स्मरणमज्ञायमानकरणजं साक्षान्मनोजन्म ।
कुतस्तर्हि न साक्षात्कार्यनुभवरूपम्? संस्कारातिरिक्तसन्निकर्षाभावादिति वक्ष्यामः ।
[कु।३।४०४] तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वे ऽपि न साक्षादिन्द्रियजं भविष्यतीति चेन्न- उत्सर्गस्य बाधकाभावेन सङ्कोचानुपपत्तेः ।
अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गः, अविशेषात् ।
तथापि विपक्षे किं बाधकमिति चेत्- नन्विदमेव तावत् ।
अन्यदप्युच्यमानमाकर्णय ।
तद्यथा- अकारणककार्यप्रसङ्गः, रूपाद्युपलब्धीनामपि
वानिन्द्रियकरणत्वप्रसङ्गः ।
न ह्यनुमित्यादिभिरुपलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपित्वनुपलभ्यमानकरणिकाभी रूपाद्युपलब्धिभिरेव ।
यद्यपि साक्षात्कारितापि तत्रैव पर्यवस्यति, तथापि प्रथमतो ऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने ।
न ह्युपलभ्यमाने करणान्तरे साक्षात्कारिणीष्वपि तासु चक्षुरादि अनुपलभ्यमानं कश्चिदकल्पयिष्यत् ।
अत एवासाक्षात्कारित्वे ऽपि स्मृतेर्मन एव करणमुपागमन् धीराः ।
संस्कारस्त्वर्थविशेषप्रत्त्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात् ।
[कु।३।४०५] भावावेशाच्च चेतसः ।
सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणाविष्टमेव चेत उपयुज्यते, नातो ऽन्यथेति व्याप्तिः, तथैव शक्तेरवधारणात् ।
न ह्यनुपलब्धिमात्रसहायं तत् अभावे ऽप्यनुभवमाधातुमुत्सहते, शब्दलिङ्गादेरपेक्षादर्शनात् ।
न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धम्,तदेव तस्यैव तदनपेक्षं जनकमिति न्यायसहम् ।
आर्देन्धनसम्बन्धमन्तरेणापि दहनाद्धूमसम्भावनापत्तेः ।
तथाच गतं कार्यकारणभावपरिग्रहव्यसनेन ।
[कु।३।४०६] अपि च - प्रतियोगिनि सामर्थ्यात् व्यापाराव्यवधानतः ।
अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥२१ ॥
यद्धि प्रमाणं यद्भावावगाहि, तत् तदभावगाहि, यथा लिङ्गं शब्दो वा; घटाद्यवगाहि चेन्द्रियमिति ।
अन्यथा हि शब्दादिकमपि नाभावमावेदयेत्, भाव एव सामर्थ्यावधारणात् ।
न चैवमेव न्याय्यम् ।
देवदत्तो गेहे नास्तीति शब्दात्, मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यानुमानादप्यवगतेः ।
[कु।३।४०७] ग्राहयतु वाऽश्रयमिन्द्रियम्, तथापि न तेनेदं व्यवधीयते, व्यापारत्वात् ।
अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्चलिः स्यात् ।
नन्वेवं सति धूमोपलम्भो ऽप्यस्य व्यापारःस्यात् ।
तथा च गतमनुमानेनापीति चेन्न- यया क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात् ।
न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वन्हिज्ञानकारणत्वं न निर्वहति संयोगवदिति ।
[कु।३।४०८] अस्ति च भावाभावविपर्ययः ।
सो ऽयं यस्य दोषमनुविधत्ते, तदेवात्र करणमिति न्याय्यम् ।
न चानुपलब्धिः स्वभावतो दुष्टा; नाप्यधिकरणग्रहणं प्रतियोगिस्मरणं वा स्वभावतो दुष्टम्; अनुपत्पत्तिदशायामनुत्पत्तेः,उत्पत्तिदशायाञ्च स्वार्थप्रकाशनस्वभावताया अपरावृत्तेः ।
असंसृष्टयोरधिकरमप्रतियोगिनोः संसृष्टतया प्रतिमानं दुष्टम्; संसृष्टयोश्चासंसृष्टतयेति चेत्- नन्वयमेव विपर्ययः ।
तथाचाऽत्माश्रयो दोषः ।
तस्माद्दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञानसामर्थ्यमपि ।
तथाच प्रयोगः- इन्द्रियमभावप्रमाकरणं तद्विपर्ययकरणत्वात्, यत् यद्विपर्ययकरणं तत् तत्प्रमाकरणम्, यथा रूपप्रमाकरणं चक्षुरिति ।
[कु।३।४०९] विकल्पनात्खल्वपि ।
अघटं भूतलमिति हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्तव्या; प्रमाणान्तरं वा सप्तममास्थेयम् ।
यथा हि विशेष्यमात्रोपक्षीणमिन्द्रियमकरणमत्र, तथा विशेषणमात्रोपक्षीणानुपलब्धिरपि न करणं स्यात् ।
स्वस्वविषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेन्न- विषयभेदे फलवैजात्ये च तदनुपपत्तेः ।
न हि मृत्सु तन्तुषु च व्याप्रियमाणयोः कुलालकुविन्दयोः समाहारःस्यात् ।
नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते ।
तत्र कर्बुरकार्याभावान्न तथा; प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात्तथेति चेन्न- विरुद्धजातिसमावेशाभावात् ।
भावे वा करम्बित (कर्बुर) एव कार्ये द्वयोरपि शक्तिरभ्युपगन्तव्या; दर्शनबलात् ।
न हि नियतविषयेण सामर्थ्येन कर्बुरकार्यसिद्धिः; अन्यत्रापि तथा प्रसङ्गात् ।
ननूभयोरप्युभयत्र सामर्थ्ये कोर्ऽथो मिथःसन्निधानेनेति चेन्न- तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति ।
एतेन सुरभि चन्दनमित्यादयो व्याख्याताः ।
तथाचाभावविषये ऽपीन्द्रियसामर्थ्यस्य दुरपह्नवत्वादलमसद्ग्रहेणेति ।
[कु।३।४१०] स्यादेतत्- नागृहीते विशेषणे विशष्टबुद्धिरुदेति, तत्कार्यत्वात् ।
न च विशिष्टसामर्थ्ये केवलविशेषणे ऽपि सामर्थ्यम्, केवलसौरभे ऽपि चक्षुषो वृत्तिप्रसङ्गात् ।
अतो ऽभावविशेषणग्रहणाय मानान्तरसम्भवः ।
अपि च कथमनालोचितोर्ऽथ इन्द्रियेण विकल्प्येत? न च मानान्तरस्याप्येषा रीतिः,अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् ।
अप्राप्तेश्च ।
न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति ।
न च विशेषणत्वम्, सम्बन्धान्तरपूर्वकत्वात्तस्य ।
अवश्याभ्युपगन्तव्यत्वाच्चानुपलब्धेः ।
न हि तदुपलब्धौ तस्याभावोपलम्भ इति चेत्-[कु।३।४११] उच्यते-(२१०)अवच्छेदग्रहध्रौव्यादध्रौव्ये
सिद्धसाधनात् ।
प्राप्त्यन्तरे ऽनवस्थानात्र चेदन्यो ऽपि दुर्घटः ॥२२ ॥
[कु।३।४१२] स ह्यर्थविशेषणीभविष्यन् केवलो ऽपि विस्फुरेत्, यस्यावच्छेदकज्ञानं न व्यञ्जकम् ।
स च (वा) विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञाप्यते ।
यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः ।
[कु।३।४१३] स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपादावभ्युपगता ।
इह त्वनवस्थादुस्थतया न तदभ्युपगमः; न तु स्वभावप्रत्यासत्तिरेतावतैव विफलायते ।
[कु।३।४१४] न चेदेवम्, प्रमाणान्तरे ऽपि सर्वमेतद्दुर्घटं स्यात् ।
तथाहि- सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् ।
न ह्यनुमानादिकमप्यनालोचनपूर्वकम् ।
ततो ऽनालोचितो ऽभावः कथमनुपलब्ध्यापि विकल्प्येत ।
न च तया तदालोचनमेव जन्यते,प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात् ।
शक्यत्वे वा किमपराद्धमिन्द्रियेण ।
तथा सम्बन्धान्तरगर्भत्वनियमेन विशेषणत्वस्य, मानान्तरे ऽपि कः प्रतीकारः; तदभावस्य तदानीमपिसमानत्वात् ।
परस्य तादात्म्यमस्तीति चेत्- ननु यद्यसावस्ति, अस्त्येव; न चेत्, नैव ।
न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्तन्ते इति ।
[कु।३।४१५] अवश्याभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेत्, न तु मानान्तरत्वम् ।
अन्यथा भावोपलम्भे ऽप्यभावानुपलब्धिरेव प्रमाणं स्यात्; नेन्द्रियम् ।
अभावोपलम्भे भावानुपलम्भवत्भावोपलम्भे अभावानुपलम्भस्यापि वज्रलेपायमानत्वादिति ।
[कु।३।४१६] (२१२)प्रत्यक्षादिभिरेभिरेवम् अधरो दूरे विरोधोदयः ।
प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते ॥
तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवम् ।
देवानामपि देवमुद्भवदतिश्रद्धाः
प्रपद्यामहे ॥ २३ ॥
इति न्यायकुसुमाञ्चलौ
तृतीयः स्तबकः ॥३ ॥