Udayana: Nyayakusumanjali, Stavaka 2

Intro

Udayana: Nyayakusumanjali, Stavaka 2

Udayana: Nyayakusumanjali, Stavaka 2

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:

पाठः

श्रीः

न्यायकुसुमाञ्जलौ द्वितीयस्तबकः ॥
[कु।२।२०१]

तदेवं सामान्यतः
(७०)सिद्धे अलौकिके हतौ- तत्साधनेनावश्यं
भवितव्यम् ।
न च तच्छक्यमस्मदादिभिर्द्रष्टुम् ।
न चादृष्टेन व्यवहारः- ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते ।
[कु।२।२०२] (७१)ननु नित्यनिर्देषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात् ।
किं परमेश्वरकल्पनयेति चेत्- (७२)अत्रोच्यते- प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् ।
(७३)तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः ॥१ ॥
[कु।२।२०३] तथा हि॥।प्रमाज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत् ।
यदि च तावन्मात्राधीना भवेत्, अप्रमापि प्रमैव भवेत् ।
अस्ति हि तत्र ज्ञानहेतुः ।
अन्यथा ज्ञानमपि सा न स्यात् ।
[कु।२।२०४] ज्ञानत्वे ऽप्यतिरिक्तदोषानुप्रवेशादप्रमेति चेत्- एवं तर्हि दोषाभावमधिकमासाद्य प्रमापि जायेत; नियमेन तदपेक्षणात् ।
अस्तु दोषाभावो ऽधिकः, भावस्तु नेष्यत इति चेत्- भवेदप्येवम्, यदि नियमेन दोषैर्भावरूपैरेव भवितव्यम् ।
न त्वेवम्; विशेषादर्शनादेरभावस्यापि दोषत्वात् ।
कथमन्यथा ततः संशयविपर्ययौ? ततस्तदभावो भाव एवेति कथं स नेष्यते? [कु।२।२०५] स्यादेतत्- शब्दे तावत् विप्रलिप्सादयो भावा एव दोषाः ।
ततस्तदभावे स्वत एव शाब्दी प्रमेति चेत्- न- अनुमानादौ लिङ्गविपर्यासादीनां (७४)भावानामपि दोषत्वे तदभावमात्रेण प्रमानुत्पत्तेः ।
“अन्यत्र यथातथास्तु ।
शब्दे तु विप्रलिप्साद्यभावे वक्तृगुणापेक्षा नास्तीऽति चेन्न- गुणाभावे तदप्रमाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि (७५)तुल्यत्वात् ।
अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ स्त इति चेन्न- प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् ।
[कु।२।२०६] पौरुषेयविषये इयमस्तु व्यवस्था ।
अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न- गुणनिवृत्त्याप्रामाण्यस्यापि सम्भवात् ।
तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत्- दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम्? “लोकवचसीऽति चेत्- तुल्यम् ।
तदप्रामाण्ये दोषा एव कारणम्; गुमनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत्- प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् ।
गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेत्- दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु ।
निःस्वभावत्वमेवमपौरुषेयस्य वेदस्य स्यादिति चेत्- आत्मानमुपालभस्व ।
तस्मात् यथा- द्वेषरागाभावाविनाभावे ऽपि रागद्वेषयो (७६)रनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्; न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभगो युज्यते; विशेषाभावात्- तथा प्रकृते ऽपि ।
[कु।२।२०७] तथापि वेदानामपौरुषेयत्वे सिद्धे अपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति ।
ततः सिद्धे प्रामाण्ये गुणाभावे ऽपि तदिति दोषाभाव एव हेतुः; अकारणं गुणा इति चेन्न- अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् ।
“स्वत एव प्रामाण्यनिश्चयः ।
किं तु शङ्कामात्रमनेनापनीयते; दोषनिबन्धनत्वात्तस्य तदभावे ऽभावात् ।
अतो नेदमनुमानवत् (अनुमानम्) सत्प्रतिसाधनीकर्तुमुचितमिति चेत्-न-गुणनिवृत्तिनिबन्धनायाःशङ्कायाःसुलभत्वात् ।
तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेत्- दोषनिवृत्तेरपि केवलायाः प्रामाण्यम्प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति ।
[कु।२।२०८] एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् ।
यदि तु स्वतो ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात् ज्ञानत्वसंशयवत्; निश्चिते तदनवकाशात् ।
नहि साधकबाधकप्रमा(साधकप्रमा)णाभावमवधूय समानधर्मादि दर्शनादेवासौ; तथा सति तदनुच्छेदप्रसङ्गात् ।
[कु।२।२०९] अथ प्रमाणवदप्रमाणे ऽपि तत्प्रत्ययदर्शनात् विशेषादर्शनात् भवति शङ्केत्यभिप्रायः- तत् किं प्रमाणज्ञानोपलम्भे ऽपि न तत्प्रामाण्यमुपलब्धम्, प्रमाणज्ञानमेव वा नोपलब्धम्? आद्ये कथं स्वतः प्रामाण्यग्रहः; प्रत्ययप्रतीतावपि तदप्रतीतेः ।
द्वितीये कथं तत्र शङ्का; धर्मिण एवानुपलब्धेरिति ।
[कु।२।२१०] यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते- तदपि नास्ति; अन्यथैवोपपत्तेः ।
झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना
तमाक्षिपेत् ।
प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यम् ।
इच्छा च प्रवृत्तेः कारणम् ।
तत्कारणमपीष्टाभ्युपायताज्ञानम् ।
तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम् ।
सो ऽपीन्द्रियसन्निकर्षादिजन्मा ।
न तु प्रामाण्यग्रहस्य क्वचिदप्युपयोगः ।
उपयोगे वा स्वत एवेति कुत एतत्? ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात्तद्ग्रहणप्राचुर्याद्वा स्वतस्त्वं तु तस्य क्वोपयुज्यते ।
न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिस्तस्य प्रत्यक्षा स्यात् ।
[कु।२।२११] स्यादेतत्- प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते ।
स च स्वतो यदि न स्यात्, न स्यादेव; परतःपक्षस्यानवस्थादुःस्थत्वादिति- चेत्- न- तदग्रहे ऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः ।
न चानवस्थावपि; प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् ।
अन्यथा स्वतःपक्षे ऽपि सा स्यात् ।
[कु।२।२१२] लिङ्गं निश्चितमेव निश्चायकम् ।
ततस्तन्निश्चयार्थमवश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत्- तत्किमनुपपद्यमानोर्ऽथः अनिश्चित एव स्वोपपादकमाक्षिपति; येनानवस्था न स्यात् ।
प्रत्यक्षेण तस्य निश्चयात्तस्य च सत्तयैव निश्चायकत्वान्नैवमिति चेत्- ममापि प्रत्यक्षेण लिङ्गनिश्चयात् तस्य च सत्तयैव निश्चायकत्वान्नैवमिति तुल्यम् ।
[कु।२।२१३] लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्च(लिङ्गनिर्ण)यःस्यादिति चेत्- अनुपपद्यमानार्थज्ञानप्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम् ।
न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्; अपि तु स्वसत्तयेत्युक्तमिति चेत्- तुल्यम् ।
[कु।२।२१४] तथापि यदि तत् लिङ्गाभासः स्यात्, तदा का वार्तेति चेत्- अनुपपद्यमानो ऽप्यर्थो यद्याभासः स्यात्, तदा का वार्तेति तुल्यम् ।
सो ऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः ।
स च क्वचिद्वाधकेनापोद्यत इति चेत्- लिङ्गे ऽप्येवमिति तुल्यम् ।
तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्फलः प्रयास इति चेत्- एतदपि तादृगेव ।
अनुपपद्यमानोर्ऽथ एवासौ तथाविधः कश्चित् यः स्वप्ने ऽपि नाभासः स्यात् ।
ततो नाऽशङ्केति चेत्- लिङ्गे ऽप्येवमिति समः समाधिः ।
[कु।२।२१५] कः पुनरसावर्थः, यः स्वप्ने ऽपि नाभासः स्यात्? यदनुपलम्भे विभ्रमावकाशः, (७७)यादृगुपलम्भे च तद्बाधव्यवस्था ।
अन्यथा हि तथाभूतस्यापि व्यभिचारे सापि न स्यात् ।
मा भूदिति चेन्न- भवितव्यं हि तत्त्वातत्वविभागेन (तत्त्वातत्त्वव्यवस्था) अन्यथा व्याघातात् ।
कथं हि नियामकनिःशेषविशेषोपलम्भे ऽपि विपरीतारोपः? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम्? तदभावे त्वबाधस्य कथं भ्रान्तत्वमिति ।
[कु।२।२१६] स्यादेतत्- परतःप्रामाण्ये ऽपि नित्यत्वाद्वेदानामनपेक्षत्वम्; महाजनपरिग्रहाच्च प्रामाण्यमिति को विरोधः? न; उभयस्याप्यसिद्धेः ।
[कु।२।२१७] न हि वर्णा एव तावान्नित्यः ।
तथा हि- “इदानीं श्रुतपूर्वो गकारो नास्ति” (स्तीति) “निवृत्तः कोलाहल” इति प्रत्यक्षेणैव शब्दध्वंसः प्रतीयते ।
न हि शब्द एवान्यत्र गतः; अमूर्तत्वात् ।
नाप्यावृतः; तत एव सम्बन्धविच्छेदानुपपत्तेः ।
नाप्यनवहितः श्रोता; अवधाने ऽप्यनुपलब्धेः ।
नापीन्द्रियं दुष्टम्; शब्दान्तरोपलब्धेः ।
नापिसहकार्यन्तराभावः; अन्वयव्यतिरेकवतः(कतः) तस्यासिद्धेः ।
(७८) नाप्यतीन्द्रियम्; तत्कल्पनायां प्रमाणाभावात् ।
अन्यथा घटादावपि तत्कल्पनाप्रसङ्गात् ।
न च शब्द(स्य) नित्यत्वसिद्धौ तत्कल्पनेति युक्तम्; निराकरिष्यमाणत्वात् ।
[कु।२।२१८] यत्त्वेकदेशिनो नैवमिच्छन्ति तान् प्रत्युच्यते- विवादाध्यासितः शब्दप्रध्वम्स इन्द्रियग्राह्यः ऐन्द्रियिकाभावत्वात् घटाभाववत् ।
नैतदेवम्; इन्द्रियासन्निकृष्टत्वादतीन्द्रियाधारत्वाद्वेति चेन्न- इदं ह्युपाध्युद्भावनं वा स्यात्, व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा ।
न प्रथमः; स्वरूपयोग्यतां प्रति (ग्यतायां)सहकारियोग्यताया अनुपाधित्वात् ।
तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः ।
नाप्यैन्द्रियिकाधारत्वप्रयुक्तमभावस्य प्रत्यक्षत्वम्; धर्माद्यभावस्यापि तथात्वप्रसङ्गात् ।
अत एव नोभयप्रयुक्तम् ।
[कु।२।२१९] नापि द्वितीयः; प्रथमस्यासिद्धेः ।
अस्ति हि श्रोत्रशब्दाभावयोः स्वाभाविको विशेषणविशेष्यभावः ।
विशेष्यस्यातीन्द्रियत्वात्कथमैन्द्रियिकविशिष्टज्ञानविषयत्वम्? तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेत्- न; तथा विशेष्यव्यवस्थापनायाः फलत्वात् ।
न तु तदेव विशेषणत्वम्; आत्माश्रयप्रसङ्गात्- विशेषणभावेन समवायाभावयोर्ग्रहणम्, तथा ग्रहणमेव च विशेषणत्वमिति ।
तस्मात् सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः ।
सैव च विशिष्टप्रत्ययजननयोग्यता विशेषणतेत्युच्यते ।
सा चात्र दुर्निवारा ।
प्रतियोग्यधिकरणेन स्वभावत एवाभावस्य
मिलितत्वात् ।
[कु।२।२२०] तथापि तया तथैव प्रतीतिः कर्तव्येति चेन्न- गृह्यमाणविशेष्यत्वाव(ष्याव)च्छिन्नत्वाद्व्याप्तेः ।
अन्यथा संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनात् गन्धादावपि तथात्वप्रसङ्गात् ।
[कु।२।२२१] तथापि नेन्द्रियविशेषणतया कस्यचित् ग्रहणं दृष्टम्; अपि त्विन्द्रियसम्बद्धविशेषणतया; सा चातो निवर्तत इति चेन्न- अस्य प्रतिबन्धस्येन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात् ।
अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनाच्छब्दस्याग्रहणप्रसङ्गात् ।
[कु।२।२२२] नाप्यभावत्वे सति अतीन्द्रियाधारत्वात्सत्प्रतिपक्षत्वम्; योग्यताविरहप्रयुक्तत्वाद्व्याप्तेः ।
न चातीन्द्रियाधारत्वमेव तस्य योग्यताविरहः; तद्विपर्ययस्यैव योग्यतात्वापत्तेः ।
न चैवमेव; धर्मादिप्रध्वंसग्रहणप्रसङ्गात् ।
दृश्याधारत्वं दृश्यप्रतियोगिताचेति द्वयमप्यस्य योग्यतेति चेन्न- उभयनिरूपणीयत्वनियमानभ्युपगमात् ।
प्रतियोगिमात्रनिरूपणीयो ह्यभावः ।
[कु।२।२२३] अन्यथा “इह भूतले घटो नास्तीऽत्येषापि प्रतीतिः प्रत्यक्षा न स्यात् ।
संयोगो ह्यत्र निषिध्यते ।
तदभावश्च भूतलवद् घटे ऽपि वर्तते ।
तत्र यदि प्रत्यक्षतया भूतलस्योपयोगः, घटस्यापि तथैव स्यात् ।
अविशेषात् ।
अथ घटस्यान्यथोपयोगः; भूतलस्याप्यन्यथैव स्यात्, अविशेषात् ।
कथमन्यथेति चेत्- प्रतियोगिनिरूपणार्थमभावसन्निकर्षार्थं च ।
तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुपलभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य ।
सन्निकर्षस्तु भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति ।
येनास्ति, तेनापि यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत् ।
न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते; इतरेतराश्रयप्रसङ्गात् ।
[कु।२।२२४] तस्मात् सन्निकर्षे सति योग्यत्वात् भूतलमप्युपलभ्यते; न तु तस्योपलभ्यमानत्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः ।
प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः तस्य संयोगवत् आधारानिरूप्यत्वात् ।
नापि सन्निकर्षार्थम्; तदभावस्य साक्षादिन्द्रियसन्निकर्षादिति ।
[कु।२।२२५] न चेदेवम्; कुत एषा प्रतीतिः, इदानीं श्रुतपूर्वः शब्दो नास्तीति? “अनुमानाऽदिति चेन्न शब्दस्यैव पक्षीकरणे (८०)हेतोरनाश्रयत्वात् ।
अनित्यत्वमात्रसाधने ऽभावस्य नियतकालत्वासिद्धेः ।
आकाशस्य पक्षत्वे तद्वत्तयानुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात् ।
शब्दसद्भावकाले ऽपि तस्य सत्त्वात् ।
एवं कालपक्षे ऽपि दोषात् ।
[कु।२।२२६] अहमिदानीं निःशब्दश्रोत्रवान् शब्दोपलब्धिरहितत्वात् बधिरवदिति चेत्-न-दृष्टान्तस्य साध्यविकलत्वात्, व्याहतत्वाच्च; बधिरश्च श्रोत्रवांश्चेति व्याहतम् ।
तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति ।
अनुपभोग्यस्योत्पादवैयर्थ्यं प्रमाणमिति चेत्-न-आद्यादिशब्दवदुपपत्तेः ।
तेषां शब्दान्तरारम्भं प्रत्युपयोगः; अन्त्यस्य न तथेति चेत्-न-अन्त्यत्वासिद्धेः ।
सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात्; सुषुप्त्यवस्थायां श्वासप्रश्वासप्रयोजनवच्च तदुपपत्तेः ।
आरम्भे सति प्रयोजनमवश्यमिति व्याप्तेः ।
न त्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः; तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्तेत; बधिरस्य तेनानुपयोगात् ।
विवादकाले बधिरकर्णः शब्दवान् योग्यदेश(८१)स्थानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति ।
[कु।२।२२७] निःशब्दाः पणववीणावेणवः (८२)तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भे ऽप्युपलभ्यमानत्वात् ।
यत् यदेकज्ञानसंसर्ग(८३)योग्यं(य) तस्यानुपलम्भे ऽप्युपलभ्यते तत् तदभाववत्, यथाघटं भूतलमिति चेत्-न-एकज्ञानसंसर्गयोग्यत्वाभावात्; शब्दस्य श्रौतत्वात्, वीणादीनां चाक्षुषत्वात् ।
अभिमानमात्रादिति चेन्न, तथापि शब्दप्रध्वंसस्यातद्देशत्वात्, अत्यन्ताभावस्य च कालनियमात् ।
[कु।२।२२८] स्यादेतत्- शब्दवदाकाशोपाधयो हि भेर्यादयः ।
तेन तेषु विधीयमानः शब्दः आकाश एव विहितो भवति; प्रतिषिद्ध्यमानश्च तत्रैव प्रतिषिद्धो भवति, शरीरे सुखादिवत् इति चेत् न- तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षासिद्धत्वात् ।
न चैवमिहापि; तदुपहितस्य नभसो ऽप्रत्यक्षत्वात् ।
उपाधयस्तावत् प्रत्यक्षा इति चेन्न- तैरभावानिरूपणात् ।
निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात् ।
न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य ।
न च ते ऽपि प्रत्यक्षसिद्धाः (८४) सर्वत्र; शब्दकारणव्यवधाने ऽप्युपलब्धस्य
शब्दस्य नास्तिताप्रतीतेः ।
आनुमानिकैस्तैस्तथा व्यवहार इति चेन्न- हेतोस्तद्वत्तयानुपलभ्यमानत्वस्यानैकान्तिकत्वात्; अभावप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च ।
उपलभ्यमानविशेष्यत्वपक्षे चासिद्धेः; इन्द्रियव्यवधानात्, शब्दलिङ्गस्य चानुपलम्भात् ।
[कु।२।२२९] अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम्? न कथञ्चिदिति चेत्- आश्रयनाशात्कार्यनाश इति कुत एतत्? अनुमानतस्तथोपलम्भादिति चेत्- न- तुल्यन्यायेनोक्तोत्तरत्वात् ।
तन्तुषु नष्टेष्वपि यदि पटो, न नश्येत्, तद्वदेवोपलभ्येतेति चेत्- एतस्य तर्कस्यानुग्राह्यमभिधीयताम् ।
[कु।२।२३०] यदत्रोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेत्-न-तन्त्ववयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् ।
पटप्रध्वंसवत्त्वे साध्ये बाधितत्वात् तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् ।
[कु।२।२३१] ये पटध्वंसवन्तस्तन्तवः, तदभाववन्त एते अंशवः इति साध्यमिति चेन्न- तन्तुनाशोत्तरकाले पटनाशात्तद्वत्तानुपपत्तेः ।
योग्यतामात्रसाधने च पटप्रध्वंसासिद्धेः; तस्य नाशानाशयोः समानत्वात् ।
[कु।२।२३२] अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामप्यभावः प्रतीतो भवति; गुणक्रियावत्पटाधारास्तन्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत्- तथापि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयत इति वक्तव्यम् ।
अश्वाधिकरण एवेति चेत्- भ्रान्तिस्तर्हीयम्; तस्यातद्देशत्वात् ।
आश्रयावच्छेदकतया तेषामप्यदूरविप्रकर्षेण तद्देशत्वम् एवम्भूतेनापि देशेन तन्निरूपणम्; योग्यताया अव्यभिचारादिति चेत्- न तर्हि प्रतियोगिसमवायिदेशेनैव प्रध्वंसनिरूपणमिति नियमः; प्रकारान्तरेणापि निरूपणात् ।
[कु।२।२३३] तस्मात् यस्य यावती ग्रहणसामग्री, तं विहाय तस्यां सत्यां तदभावो यत्र क्वचिन्निरूप्यो देशे काले वा ।
इयांस्तु विशेषः- सा सती चेत्, प्रत्यक्षेण ।
असत्येव ज्ञाता चेत्, (८५)अनुमानादिनेति स्थितिः ।
[कु।२।२३४] एतेन “सद्भ्यामभावो निरूप्यते” इत्यादिशास्त्र(८६)विरोधः परिहृतो वेदितव्यः; उभयनिरूपणीयप्रतियोगिविषयत्वात् अनुमानविषयत्वाच्च ।
अन्यथा आश्रयासिद्धिप्रसङ्गात् ।
तत्रापि न ग्रङणे नियमः, ज्ञानमात्रं तु विवक्षितम्; तावन्मात्रस्यैव तदुपयोगात् ।
क्वचित् ग्रहणस्य सामग्रीसम्पातायातत्वात् ।
[कु।२।२३५] यदिचाधिकरणग्रहे शास्त्रस्य निर्भरः स्यात्, “वह्नेर्दाह्यं विनाश्यानुविनाशवत्तद्विनाशः” इति नोदाहरेत्; असिद्धत्वात् ।
न हि वह्निविनाशस्तदवयवपरम्परास्वक्ष(८७)निरूप्यः तासामनिरूपणात् ।
नाप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः; हेतोरेव निरूपयितुमशक्यत्वात्; आश्रयानुपलब्धेः ।
नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम; तस्यानैकान्तिकत्वात् ।
तेजसा विशेषितत्वादयमदोष इति चेन्न- व्याप्त्यसिद्धेः ।
न हीन्धनविनाशात् तेजोद्रव्यमवश्यं विनश्यतीति क्वचित्सिद्धम्; (८८)प्रत्यक्षवृत्तेरनभ्युपगमात् ।
[कु।२।२३६] तस्मात् यत्त्यागेनान्यत्र गमनं न सम्भाव्यते, तेन निमित्तादिनापि देशेन प्रध्वंसो निरूप्यते इत्यकामेनापि स्वीकरणीयम्; गत्यन्तराभावात् ।
अत एव तमसः प्रत्यक्षत्वे ऽप्यभावत्वमामनन्त्याचार्याः ।
एतेन शब्दप्रागभावो व्याख्यातः ।
[कु।२।२३७] एवं (८९)व्यवस्थिते अनुमानमप्युच्यते- शब्दो ऽनित्यः (९०)उत्पत्तिधर्मकत्वात् घटवत् ।
न चेदं प्रत्यभिज्ञानबाधितम्; तस्य ज्वालादिप्रत्यभिज्ञानेनाविशेषात् ।
[कु।२।२३८] नैवम्; अबाधितस्य तस्य स्वतः प्रमाणत्वादिति चेत्- तुल्यम् ।
“ज्वालायां तन्नास्ति; विरुद्धधर्माध्यासेन (९१)बाधितत्वात् ।
अन्यथा भेदव्यवहारविलोपप्रसङ्गः ।
निमित्ताभावात् ।
आकस्मिकत्वे वातिप्रसङ्ग” इति चेत्- तुल्यम्,(९२)शब्दे ऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भावात् ।
[कु।२।२३९] तदिह न स्वाभाविकमिति चेन्न- स्वाभाविकत्वावधारणन्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात् ।
न ह्यपां शैत्यद्रवत्वे स्वाभाविके, तेजसो वा औष्ण्यभास्वरत्वे इत्यत्रान्यत्प्रमाणमस्ति प्रत्यक्षाद्विना ।
“तत्तथैव युज्यते; अन्यस्योपाधेरनुपलम्भात्, नियमेन तद्गतत्वेन चोपलम्भाऽदिति चेत्- तुल्यमेतत् ।
[कु।२।२४०] तथाप्यतीन्द्रियान्यधर्मत्वशङ्का स्यादिति चेत्- एतदपि तादृगेव ।
तत् किं यद्गतत्वेन यदुपलभ्यते, तस्यैव स धर्मः? नन्वेवं पीतः शङ्खः, रक्तः स्फटिकः, नीलः पट इत्यपि तथा स्यात्; अविशेषात् ।
न; पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मत्वे स्थिते, जपाकुसुमाद्यन्वयव्यतिरेकानुविधानाच्च बाधेन भ्रान्तत्वावधारणात् ।
न चेह तार- तारतरत्वादेरन्यधर्मत्वस्थितिः; नापि शुकशारिकादिगकाराणां तद्विरुद्धधर्मत्वम्; नाप्यन्यस्य तद्धर्मिणो ऽन्वयव्यतिरेकावनुविधत्ते ।
तथापि शङ्कास्यादिति चेत्- एवमियं सर्वत्र ।
तथा च न क्वचित् (९३)कस्यचित् किञ्चित्कुतश्चित्
सिद्ध्येत् ।
नचैतच्छङ्कितुमपि शक्यते; अप्रतीते संस्काराभावात्; संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् ।
[कु।२।२४१] न च ध्वनिधर्मा एव गृह्यन्ते; स्पर्शाद्यनन्तर्भावेण भावेषु त्वगादीनामव्यापारात् न च श्रवणेनैव तद्ग्रहणम्; अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चक्षुर्वत् ।
तार-तारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत् ।
वायुर्वा न श्रवणग्राह्यधर्मा मूर्तत्वात् पृथिवीवत् ।
यदि च नैवम्; कादीनामपि वायवीयत्वप्रसङ्गः ।
ततः किम्? अवयविगुणत्वे ऽनित्यत्वम्; परमाणुगुणत्वे ऽग्रहणम् ।
द्वयमप्येतदनिष्टं भवतः ।
अवश्यं च श्रवसा ग्राह्यजातीयगुणवता भवितव्यम्, बहिरिन्द्रियत्वात् घ्राणादिवत् ।
[कु।२।२४२] सन्तु ध्वनयो ऽपि नाभासाः ।
तथा च तद्धर्मग्रहणं श्रवसोपपत्स्यत इति चेन्न- तारस्तारतरो वायं गकार इत्यत्र ध्वनीनामस्फुरणात् ।
न च व्यक्त्या विना सामान्यस्फुरणं कारणाभावात् ।
व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री ।
कुत एतत् ।
अन्वयव्यतिरेकाभ्यां तथावगमात्; ऐन्द्रिकेष्वेव घटादिषु सामान्यग्रहणात्; अतीन्द्रियेषु च मनःप्रभृतिष्वग्रहणात् ।
स्वरूपयोग्यतैव तत्र निमित्तम्; अकारणं व्यक्तियोग्यतेति चेत्- एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादिष्वपि ग्रहणप्रसङ्गः; अयोग्यत्वे घटादिष्वपि तदनुपलम्भापत्तिरिति दुरुत्तरं व्यसनम् ।
तस्माद्व्यक्तिग्रहणयोग्यतान्तर्गतैव जातिग्रहणयोग्यतेति तदनुपलम्भे जातेरनुपलम्भ एव ।
[कु।२।२४३] तथा च न तारत्वादीनामारोपसम्भव इति स्वाभाविकत्वस्थितौ विरुद्धधर्माध्यासेन भेदस्य पारमार्थिकत्वात्प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः ।
[कु।२।२४४] नापि सत्प्रतिपक्षत्वम्; मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात् ।
एकस्यान्यतमाङ्गवैकल्यचिन्तायामस्य वैकल्ये तस्यैव (९४)वाच्यत्वात् ।
अवैकल्ये, त्वादीयेनैव विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् ।
तथापि नित्यः शब्दः (९५)अद्रव्यद्रव्यत्वादत्यित्रापि साधनदशायां किञ्चिद्वाच्यऽमिति चेत्- असिद्धिः ।
[कु।२।२४५] द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्यमाणत्वाद्घटवदिति सिद्ध्यतीति चेन्न- एतस्याप्यसिद्धेः ।
न हि श्रोत्रगुणत्वे द्रव्यत्वे वासिद्धे साक्षात्सम्बन्धे शब्दस्य प्रमाणमस्ति ।
“परिशेषो ऽस्ति ।
तथा हि- सदाद्यभेदेन सामान्यादित्रयव्यावृत्तौ मूर्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधात् द्रव्यगुणत्वपरिशेषे संयोगसमवाययोरन्यतरः सम्बन्धः” इति चेन्न- बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधाल्लिङ्गग्राहकप्रमाणबाधापत्तेः ।
बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे कर्मत्वादीनामप्यप्रतिषेधप्रसक्तौ परशेषासिद्धेः ।
तस्मादेकदेशपरिशेषो न प्रमाणम् ।
सन्देहसङ्कोचमात्रहेतुत्वात् ।
अथ द्रव्यत्वे किं बाधकम्? उच्यते- शब्दो न द्रव्यं बहिरिन्द्रियव्यवस्थाहेतुत्वाद्रूपादिवत् ।
इति परिशेषाद्गुणत्वेन (९६)समवायि(य)सिद्धौ लिङ्गग्राहकप्रमाणबाधितत्वान्नाव्यवहितसम्बन्धग्राह्यत्वेन द्रव्यत्वसिद्धः ।
नि चासिद्धेन सत्प्रतिपक्षत्वम्; असिद्धस्य हीनबलत्वात् ।
[कु।२।२४६] ननु शब्दस्तावद(९७)श्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन ।
न च श्रोत्रगुणः; तेन गृह्यमाणत्वात् ।
यद् येनेन्द्रियेण गृह्यते, नासौ तस्य गुणः; यथा गृह्यमाणो गन्धादिः ।
श्रोत्रं वा न स्ववगुणग्राहकम् इन्द्रियत्वात् घ्राणवत् इति न गुणत्वसिद्धिरितिचेत्- ततः किम्? न चैतदपि; घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्याप्रयोजकत्वात् ।
(९८)अयोग्यत्वं हि तत्रोपाधिः ।
[कु।२।२४७] अन्यथा- सुखादिर्नात्मगुणः तेन गृह्यमाणत्वात् रूपादिवत् ।
न वा तेन गृह्यते तत्समवेतत्वाददृष्टवत् ।
आत्मा वा न तद्ग्राहकः तदाश्रयत्वात् गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्क्येत ।
तस्मात् स्वगुणः परगुणे वायोग्यो न गृह्यते; गृह्यते तु योग्यो योग्योन ।
तत् किमत्रानुपपन्नम् ।
[कु।२।२४८] अवश्यं च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् इन्द्रियत्वात् ।
अन्यथा तन्निर्माणवैयर्थ्यात् ।
(९९)तदन्यस्येन्द्रियान्तरेणैव ग्रहणात् ।
न च द्रव्यविशेषग्रहणे तदुपयोगः; (१००)विशेषगुणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्; न द्रव्यस्वरूपयोग्यतामात्रेण ।
अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत; आत्मा वा मनो ग्राह्य इति सुषुप्त्यवस्थायामप्युपलभ्येत; अनुद्भूतरूपे ऽपि वा चक्षुः प्रवर्तते ।
तस्मात् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते; नातो ऽन्यथेति स्थितिः ।
अत एव नाकाशादयश्चाक्षुषाः ।
[कु।२।२४९] अस्तु तर्हि शब्दो नित्यः नित्याकाशैक(१०१)गुणत्वात् तद्गतपरममहत्(१०२)परिमाणवदिति प्रत्यनुमानमिति चेन्न- अकार्यत्वस्योपाधेर्विद्यमानत्वात् ।
अन्यथा-
आत्मविशेषगुणा नित्याः तदेकगुणत्वात्तद्गतपरममहत्त्ववदित्यपि स्यात् ।
“अस्य प्रत्यक्षबाधितत्वादहेतुत्वमिति चेन्न- निरुपाधेर्बाधानवकाशात् ।
स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात् ।
तस्माद्बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद्विशेषः ।
[कु।२।२५०] एतेन श्रावणत्वाच्छब्दत्ववदित्यपि परास्तम्; अत्रापि तस्यैवोपाधित्वात् ।
अन्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन्; घ्राणाद्येकैकेन्द्रियग्राह्यत्वात् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात् ।
[कु।२।२५१] विरोधव्यभिचारावसम्भावितावेवात्रेत्यसिद्धिरेव (१०३)शिष्यते ।
सापि नास्ति ।
तथा हि- शब्दस्तावत् “पूर्वोक्त(१०४)न्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्षनिकर्षवानुपलभ्यते ।
इयं च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा ।
अकारणका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽकाशादयः; निकृष्टा एव वा , यथा परमाण्वादयः ।
न तु किञ्चदतिशयानाः कुतश्चिदपकृष्यन्ते ।
तदियं नित्येभ्यो व्यावर्तमाना कारणवत्सु (ताम्) च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते- शब्दो जायते, प्रकर्षनिकर्षाभ्यामुपतत्वात् माधुर्यादिवत् ।
अन्यथा नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात् (भवतीति नित्ये ऽपि स्यात्); नियमहेतोरभावात् ।
शब्दादन्यत्रेयं गतिरिति चेन्न- साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमानसुलभत्वात् ।
न चेह (१०५) व्यञ्जकतारतम्याद्व्यञ्जनीयतारतम्यम्; अस्वाभाविकत्वप्रसङ्गात् ।
व्यवस्थितं च स्वाभाविकत्वम् ।
न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधानमस्ति ।
न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति ।
[कु।२।२५२] ठस्यादेतत् ।
तथाप्युत्पत्तेर्नित्यत्वेन को विरोधः? येन प्रतिबन्धसिद्धिः स्यात् ।
असिद्धे च तस्मिन्, भवतां व्यापकत्वासिद्धः, अस्माकमप्रयोजकः सौगतानां सन्दिग्धविपक्षवृत्ति(व्यावृत्ति)रयमुपक्रान्तो हेतुः” इति चेत्- न ।
इदं ह्युत्पत्तिमत्त्वं विनाशकारणसन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्तमानं विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति ।
“विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्यमिति कुतो निर्णीतऽमिति चेत्- न तदसन्निधानं हि न तावदाकाशादेरिव स्वभावविरोधात्; उत्पत्तिविनाश(शक)योः संसर्गदर्शनात् ।
अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद्धिमवद्विन्ध्ययोरिव स्यात् ।
देशयोरपि विप्रकर्षो विरोधाद्वा हेत्वभावाद्वा ।
पूर्वोक्तादेव न प्रथमः ।
द्वितीयस्तु पटकुङ्कुमयोरिव स्यात्, यदि कुङ्कुमसमागमादर्वागिव प्रध्वंसकसंसर्गादर्वागेव पटो विनश्येत् ।
यथा हिविनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात्, कस्तयोः संसर्ग वारयेत् ।
तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः ।
स (१०६)चातो निवर्तमानः स्वव्याप्यमुपादाय निवर्तत इति प्रतिबन्धसिद्धिः ।
[कु।२।२५३] ठस्यादेतत् ।
यद्येवमास्थिरःशब्दः, कथमर्थेन सङ्गतिरस्योपवभ्यते” इति चेत्- यथैवार्थस्यास्थिरस्य (१०७)तेन ।
“जातिरेव पदार्थः, न व्यक्तिरिति चेन्न- शब्दात्तदलाभप्रसङ्गात् ।
आक्षेपत इति चेत्- कः खल्वयमाक्षेपो नाम? तावदनुमानम्; अनन्ताभिःसह सङ्गतिवदविनाभावस्यापि ग्रहीतुमशक्यत्वात् ।
शक्यत्वे वा, सङ्गतेरपि तथैव सुग्रहत्वात् व्यक्तिमात्ररूपेणाविनाभाव” इति चेन्न- व्यक्तित्वस्य सामान्यस्याभावात् ।
भावे वा, तदाक्षेपे ऽपि विशेषानाक्षेपात् ।
वाच्यत्वमपि वा तथैवास्तु? किमाक्षेपेण; सङ्गतेरविरोधादिति ।
[कु।२।२५४] अर्थापत्तिराक्षेप इति चेन्न- व्यक्त्या[क्तिम्] विना किमनुपपन्नम्? “जातिऽरिति चेन्न- तन्नाशानुत्पाददशायामपि सत्त्वात् ।
“तथापि न व्यक्तिमात्रं विनेऽति चेन्न- मात्रार्थाभावात् ।
“व्यक्तिज्ञानमन्तरेण जातिज्ञानमनुपपन्नऽमिति चेन्न- तदभावे ऽप्युत्पादात् ।
“व्यक्तिविषयतां (त्वं)विना जातिविषयता तस्यानुप(तानुप)पन्नेऽति चेन्न- एवं तर्ह्येकज्ञानगोचरतायां किमनुपपन्नं (१०८)किं प्रतिपादयेदिति ।
“जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयत” इति चेन्न- (१०९)परस्पराश्रयप्रसङ्गात् ।
[कु।२।२५५] स्यादेतत्- प्रतिबन्धं विनापि पक्षधर्मताबलात् यथा लिङ्गं विशेषे पर्यवस्यति, तथा सङ्गतिं विनापि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति ।
स एवाऽक्षेप इत्युच्यते इति चेत्- न तावत् प्रतीतिः क्रमेण; अपेक्षणीयाभावेन विरम्यव्यापारायोगात् ।
जातिप्रत्यायनमपेक्षत इति चेत्- कृतं तर्हि शब्दशक्तिक(क्तिभेदक)ल्पनया; तावतैव तत्सिद्धेः ।
ओमिति चेन्न- व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात्; प्रमाणान्तरापातप्रसङ्गाच्च ।
स्मरणं तदित्ययमदोष इति चेन्न- अननुभूतानन्वयप्रसङ्गात् ।
अस्त्वेकैव प्रतीतिरितिचेत्- कृतं तर्हि शक्तिभेद(द्वय)कल्पनया ।
[कु।२।२५६] एवं च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रयासङ्गतिस्तद्वति पर्यवस्येदिति ।
न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते ।
न च तद्विशिष्टत्वमपि तेषां नित्यम् ।
तस्मात्तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च सम्बध्यन्ते, नातो ऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति ।
[कु।२।२५७] यदा च वर्णा एव न नित्याः, तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमूहरूपाणां पदानाम्? कुतस्तरां च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य? कुतस्तमां (मां च?)तत्समूहस्य वेदस्य? [कु।२।२५८] परतन्त्रपुरुष (११०)परम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत्- एतदपि नास्ति; सर्गप्रलयसम्भवात् ।
अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयतया युगपद्वृत्तिनिरोधानुपपत्तेः, वर्णादिव्यवस्थानुपपत्तेः, समयानुपलब्धौ(नुपपत्तौ)शाब्दव्यवहारविलोपप्रसङ्गात्, घटा(टपटा)दिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत्- [कु।२।२५९] उच्यते- वर्षादिवद् भवोपाधिः वृत्तिरोधः सुषुप्तिवत् ।
उद्भिद्वृश्चिकवद्वर्णाः मायावत्समयादयः ॥२ ॥
तत्पूर्वकत्वमात्रे सिद्धसाधनात्(नम्), अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्; वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः ।
राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत्; तदभाव एव व्यावृत्तेः ।
तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धन(धिप्रयुक्त)त्वात्तस्य, तदभाव एव व्यावृत्तौ को दोषः ।
न च तदनुत्पन्नमनश्वरं वा; अवयवित्वात् ।
[कु।२।२६०] वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः ।
न हि-“अनियतविपाकसमयानि कर्माणीऽति तदानीं कृत्स्नान्येव भोगा(१११)विमुखानि ।
न ह्यचेतयतः कश्चिदभोगो नाम; विरोधात् ।
कस्तर्हि तदानीं शरीरस्योपयोगः? तं प्रति न कश्चित् ।
तर्हि किमर्थमनुवर्तते? उत्तरभोगार्थम्; चक्षुरादिवत् ।
प्राणिति किमर्थम्? श्वासप्रश्वाससन्तानेनाऽयुषो ऽवस्थाभेदार्थम्; तेन भो(भेदे भो)गविशेषसिद्धेः ।
[कु।२।२६१] एकस्यैव तत् कथञ्चिदुपपद्यते, न तु विश्वस्येति चेत्- अनन्ततया अनियतविपाकसमयतया उपमर्द्येपमर्दकस्वभावतया च कर्मणाम्, विश्वस्य, एकस्य वा को विशेषः, येन तन्न भवेत् ।
भवति च सर्वस्यैव (११२)सुस्वापः ।
क्रमेण, न तु युगपदिति चेन्न- कारणक्रमायत्तत्वात्कार्यक्रमस्य ।
न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम्; अनियतत्वादेव सर्वग्रासवत् ।
ग्रहाणां ह्यन्यदा समागमानियमे ऽपि, तथा कदाचित् स्यात्, यथा कलाद्यनियमे ऽपि सर्वमण्डलोपरागः स्यात्- त्रिदोषसन्निपातवद्वा ।
यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमे ऽपि एकदा सन्निपातः स्यात्, तदा देहसंहारः, तथा कालानलपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाःस्युरिति को विरोधः? ।
तथापि विदेहाः कर्मिण इति दुर्घटमिति चेत्- किमत्र दुर्घटम्; भोगविरोधवत् शरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः ।
[कु।२।२६२] वृश्चिकतण्डुलीय(११३)कादिवत् वर्णादिव्यवस्थाप्युपपद्यते ।
यथा हि वृश्चिकपूर्वकत्वे ऽपि वृश्चिकस्य, गोमयादाद्यः; तण्डुलीयकपूर्वकत्वे ऽपि तण्डुलीयकस्य, तण्डुलकणादाद्यः; वन्हिपूर्वकत्वे ऽपि वन्हेः, अरणेराद्यः; एवं क्षीरदधिघृततैलकदली(११४)काण्डादयः तथा मानुषपशुगोब्राह्मणपूर्वकत्वे ऽपि तेषाम्, प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव ।
स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम् ।
गतं तर्हि गोपूर्वको ऽयं गोत्वादित्यादिना ।
न गतम्; योनिजेष्वेव व्यवस्थापनात् ।
मानसास्त्वन्यथापीति ।
गोमयवृश्चिकादिवदिदानीमपि किं[अपि तथा किम्] न स्यादिति चेन्न- कालविशेषनियतत्वात्कार्यविशेषाणाम् ।
न हि वर्षासु गोमयाच्छालूक इति हेमन्ते ऽपि स्या(पि किं न स्या)त् ।
[कु।२।२६३] समयो ऽप्येकेनैव, मायाविनेव, व्युत्पाद्यव्युत्पादकभावावस्थितनानाकार्याधिष्ठानात् व्यवहारत एव सुकरः ।
यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकम्, “इदमानयेऽति प्रयुङ्क्ते ।
स च दारुपुत्रकस्तथा करोति ।
तदा चेतनव्यवहारादिव (११५)तद्धर्शी बालो व्युत्पाद्यते तथा- इहापि स्यात् ।
क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम् ।
[कु।२।२६४] सर्गादावेव किं प्रमाणमिति चेत् विश्वसन्तानो ऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् ।
वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्यादि ।
[कु।२।२६५]
अवयवानामावापोद्वापा(११६)दुत्पत्तिविनाशौ च स्याताम्, सन्तानाविच्छेदश्चेति को विरोध इति चेन्न- एवं हि (११७)प(घ)टादिसन्तानाविच्छेदो ऽपि स्यात् ।
विपर्ययस्तु दृश्यते ।
कन्थादि (११८) (कर्त्रादि) भोगविशेषसम्पादनप्रयुक्तो ऽसाविति चेन्न- द्व्यणुकेषु तदभावात् ।
तथा च तत्रा(तद)वयवानामपगमाभावे ऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः ।
तस्मात् यत्कार्यं यन्निबन्धनस्थितिः, तदपगमे तन्निवृत्तिः ।
यत् यद्धेतुकम्, तदुपगमे तस्योत्पत्तिः ।
न च कार्यस्य स्थितिनिबन्धनं नित्यमेव; नित्यस्थितिप्रसङ्गात् ।
न च नित्य एव हेतुः;अकादाचित्कत्वप्रसङ्गात् ।
तत् अतिनिस्तरङ्गमेतत् ।
ईदृश्यां च वस्तुस्थितौ भोगो ऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः ।
[कु।२।२६६] तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः (११९)क्व वर्तन्ताम्, कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार्थवद्वेति ।
[कु।२।२६७] (१२०)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः ।
ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥३ ॥
पूर्वं हि मानस्यः प्रजाः समभवन्; ततो ऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः ।
पूर्वं चरुप्रभृतिषु संस्काराः (१२१) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य ।
पूर्वं सहस्रशाखो वेदो ऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग एकः;त् इदानीं तु क्वचिदेका शाखेति ।
(१२२)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततो ऽमृतवृत्तयः; (१२३)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(१२४)वृत्तियो भूयांसः ।
पूर्वं दुःखन ब्राह्मणैरतिथयो ऽलभ्यन्त; ततः क्षत्रियातिथयो ऽपि संवृत्ताः; ततो (१२५)वैश्याऽवेशिनो ऽपि; सम्प्रति शूद्रान्नभोजिनो ऽपि ।
(१२६)पूर्वममृतभुजः; ततो विघसभुजः; ततो ऽन्नभुजः; सम्प्रत्यघभुज एव ।
पूर्वं चतुष्पाद्धर्म (१२७)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात् ।
सो ऽपि पादो (१२८)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते ।
[कु।२।२६८] ठैदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते” इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् ।
स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् ।
मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् ।
आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात् ।
[कु।२।२६९] आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् ।
उत्पत्तितो ऽभिव्यक्तितो ऽभिप्रायतो वानवच्छिन्नवर्णमात्रस्य निर्थकत्वात् ।
[कु।२।२७०] यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः ।
न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च ।
[कु।२।२७१] अथ शिष्टाचारत्वात्प्रमाणमूलो ऽयमिति चेत्- ततःसिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवे ऽप्यनुमानसम्भवात् ।
नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडतमतमाद्रियसे ।
अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु ।
अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव ।
[कु।२।२७२] आचारस्वरूपेण शब्दमूलत्वमनुमीयते ।
तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् ।
तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम् ।
तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः ।
[कु।२।२७३] (१२९)ठतथाप्यागममूलत्वमेव तस्य; व्याप्तेः” इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् ।
आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारो ऽपि (१३०) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाप्यागमं भविष्यति ।
आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु;
किं नश्छिन्नमिति चेत्- प्रथमं ताव"न्नित्यानुमेयो वेदऽइति; द्वितीयं च “देशनैव धर्मे प्रमाणऽमिति ।
[कु।२।२७४] (१३१)अथायमाशयः- वैदिका अप्याचाराः राजसूयाश्वमेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते ।
न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत् ।
न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् ।
एवम्, पुनः स कश्चित् कालो भविता, यत्रैते ऽनुष्ठास्यन्ते ।
तथान्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः ।
ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथापि कथमिति सर्वविप्लवः ।
तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः ।
[कु।२।२७५] अधुनाप्यस्ति सान्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् ।
न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्येतृसमानकर्तृकत्वात् ।
अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् ।
न तृतीयः; आध्यात्मिक(१३२)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् ।
तस्मा(१३३)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः ।
[कु।२।२७६] (१३४)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत्- न- एवं हि (१३५)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्त इति, न वेदाःप्रमाणं स्युः ।
तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः ।
(१३६) एतमेव च कालक्रमभाविशाखोच्छेद(१३७)भाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम् ।
अतो नोक्तदोषो ऽपि ।
[कु।२।२७७] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात् ।
अपि तु प्रमादमदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण ।
(१३८)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात् ।
(१३९)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते ।
स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- “यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
" गी। (४।७।८) इति ।
[कु।२।२७८] कः पुनरयं महाजनपरिग्रहः? (१४०)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः ।
स ह्यत्र न स्यात् ऋते निमित्तम् ।
[कु।२।२७९] न ह्यत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात् ।
नाप्यन्यत्र सिद्धप्रामाण्ये ऽभ्युपाये ऽनधिकारेणास्मिन्ननन्यगतिकतयानुप्रवेशः; परैः पूज्यानामप्यत्रा(१४१)प्रवेशात् ।
नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात् ।
नापि कुतर्काभ्यासाहतिव्यामोहः; आकुमारं प्रवृत्तेः ।
नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः; पित्रादिक्रमेण प्रवर्तनात् ।
नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डे (काण्ड एव) सुतरां व्यग्रत्वात् ।
नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात् ।
नापि कुहकवञ्चना; प्रकृते तदसम्भवात् ।
[कु।२।२८०] सम्भवति (१४२)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे ।
(१४३)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः- “उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते” इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (१४४)परिगृण्हन्तीति सम्भाव्यते ।
अतो न ते महाजनपरिगृगीता इति विभागः ।
[कु।२।२८१] स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते ।
ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते ।
वासनापरिपाकादिति सौगतमतमनुधावति ।
कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् ।
असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा
तुल्यरूपत्वात् ।
न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- [कु।२।२८२] शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः ।
कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते ।
ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः ।
तदवच्छिन्ने काले पुनः सर्गः ।
यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशो ऽण्डानीति श्रूयते ।
[कु।२।२८३] (१४५)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात् ।
ज्ञापकश्चायमर्थः न कारकः ।
ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? [कु।२।२८४] स्यादेतत्- (१४६)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः ।
त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमेश्वरेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तो ऽन्य)स्मिन्ननाश्वासात् ।
तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमे ऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समाश्वसिमः ।
प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि ।
(१४७)हितसाधनमित्यत्र तदभावात् ।
आगमो ऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् ।
एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (१४८)स्वप्नाख्यानवदन्यथापि सम्भवात् ।
न चानुपलब्धे भावनापि ।
चोरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते ।
[कु।२।२८५] न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् ।
न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा ।
न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (१४९)तदभावाच्च ।
न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात् ।
न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः ।
[कु।२।२८६] केचित्तथा भविष्यन्तीति सम्भावनामात्रे ऽप्यनाश्वासात् ।
विनिगमनायां प्रमाणाभावात् ।
प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात् ।
(१५०)तथापि चाधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धाने ऽनुष्ठानरूपस्याश्वासस्याभावात् ।
न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् ।
ईश्वरवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात् ।
अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् ।
[कु।२।२८७] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात् ।
वर्षान्तरसञ्चरणमेव हि दुष्करम् ।
कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्? ।
“अणिमादिसम्पत्तेरेवमपि स्याऽदिति चेन्न- (१५१)अत्रापि प्रमाणाभावात् ।
सम्भावनामात्रेण समाश्वासानुपपत्तेः ।
(१५२)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (१५३)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात् ।
विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् ।
अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति ।
[कु।२।२६७] (१२०)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः ।
ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥३ ॥
पूर्वं हि मानस्यः प्रजाः समभवन्; ततो ऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः ।
पूर्वं चरुप्रभृतिषु संस्काराः (१२१) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य ।
पूर्वं सहस्रशाखो वेदो ऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग एकः;तिदानीं तु क्वचिदेका शाखेति ।
(१२२)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततो ऽमृतवृत्तयः; (१२३)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(१२४)वृत्तियो भूयांसः ।
पूर्वं दुःखन ब्राह्मणैरतिथयो ऽलभ्यन्त;
ततः क्षत्रियातिथयो ऽपि संवृत्ताः; ततो (१२५)वैश्याऽवेशिनो ऽपि; सम्प्रति शूद्रान्नभोजिनो ऽपि ।
(१२६)पूर्वममृतभुजः; ततो विघसभुजः; ततो ऽन्नभुजः; सम्प्रत्यघभुज एव ।
पूर्वं चतुष्पाद्धर्म (१२७)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात् ।
सो ऽपि पादो (१२८)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते ।
[कु।२।२६८] ठैदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते” इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् ।
स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् ।
मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् ।
आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात् ।
[कु।२।२६९] आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् ।
उत्पत्तितो ऽभिव्यक्तितो ऽभिप्रायतो वानवच्छिन्नवर्णमात्रस्य निर्थकत्वात् ।
[कु।२।२७०] यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः ।
न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च ।
[कु।२।२७१] अथ शिष्टाचारत्वात्प्रमाणमूलो ऽयमिति चेत्- ततःसिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवे ऽप्यनुमानसम्भवात् ।
नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडतमतमाद्रियसे ।
अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु ।
अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव ।
[कु।२।२७२] आचारस्वरूपेण शब्दमूलत्वमनुमीयते ।
तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् ।
तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम् ।
तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः ।
[कु।२।२७३] (१२९)ठतथाप्यागममूलत्वमेव तस्य; व्याप्तेः” इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् ।
आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारो ऽपि (१३०) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाप्यागमं भविष्यति ।
आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं ताव"न्नित्यानुमेयो वेदऽइति; द्वितीयं च “देशनैव धर्मे प्रमाणऽमिति ।
[कु।२।२७४] (१३१)अथायमाशयः- वैदिका अप्याचाराः राजसूयाश्वमेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते ।
न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत् ।
न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् ।
एवम्, पुनः स कश्चित् कालो भविता, यत्रैते ऽनुष्ठास्यन्ते ।
तथान्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः ।
ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथापि कथमिति सर्वविप्लवः ।
तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः ।
[कु।२।२७५] अधुनाप्यस्ति सान्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् ।
न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्येतृसमानकर्तृकत्वात् ।
अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् ।
न तृतीयः; आध्यात्मिक(१३२)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् ।
तस्मा(१३३)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः ।
[कु।२।२७६] (१३४)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत्- न- एवं हि (१३५)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्त इति, न वेदाःप्रमाणं स्युः ।
तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः ।
(१३६) एतमेव च कालक्रमभाविशाखोच्छेद(१३७)भाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः
प्रतिविहितम् ।
अतो नोक्तदोषो ऽपि ।
[कु।२।२७७] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात् ।
अपि तु प्रमादमदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण ।
(१३८)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात् ।
(१३९)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते ।
स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- “यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
" (गी।४।७।८) इति ।
[कु।२।२७८] कः पुनरयं महाजनपरिग्रहः? (१४०)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः ।
स ह्यत्र न स्यात् ऋते निमित्तम् ।
[कु।२।२७९] न ह्यत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात् ।
नाप्यन्यत्र सिद्धप्रामाण्ये ऽभ्युपाये ऽनधिकारेणास्मिन्ननन्यगतिकतयानुप्रवेशः; परैः पूज्यानामप्यत्रा(१४१)प्रवेशात् ।
नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात् ।
नापि कुतर्काभ्यासाहतिव्यामोहः; आकुमारं प्रवृत्तेः ।
नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः; पित्रादिक्रमेण प्रवर्तनात् ।
नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डे (काण्ड एव) सुतरां व्यग्रत्वात् ।
नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात् ।
नापि कुहकवञ्चना; प्रकृते तदसम्भवात् ।
[कु।२।२८०] सम्भवति (१४२)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे ।
(१४३)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः- “उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते” इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (१४४)परिगृण्हन्तीति सम्भाव्यते ।
अतो न ते महाजनपरिगृगीता इति विभागः ।
[कु।२।२८१] स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते ।
ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते ।
वासनापरिपाकादिति सौगतमतमनुधावति ।
कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् ।
असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात् ।
न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- [कु।२।२८२] शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः ।
कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते ।
ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः ।
तदवच्छिन्ने काले पुनः सर्गः ।
यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशो ऽण्डानीति श्रूयते ।
[कु।२।२८३] (१४५)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात् ।
ज्ञापकश्चायमर्थः न कारकः ।
ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? [कु।२।२८४टस्यादेतत्- (१४६)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः ।
त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमेश्वरेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तो ऽन्य)स्मिन्ननाश्वासात् ।
तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमे ऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समाश्वसिमः ।
प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि ।
(१४७)हितसाधनमित्यत्र तदभावात् ।
आगमो ऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् ।
एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (१४८)स्वप्नाख्यानवदन्यथापि सम्भवात् ।
न चानुपलब्धे भावनापि ।
चोरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते ।
[कु।२।२८५] न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् ।
न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा ।
न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः;
देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (१४९)तदभावाच्च ।
न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात् ।
न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः ।
[कु।२।२८६] केचित्तथा भविष्यन्तीति सम्भावनामात्रे ऽप्यनाश्वासात् ।
विनिगमनायां प्रमाणाभावात् ।
प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात् ।
(१५०)तथापि चाधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धाने ऽनुष्ठानरूपस्याश्वासस्याभावात् ।
न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् ।
ईश्वरवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात् ।
अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् ।
[कु।२।२८७] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात् ।
वर्षान्तरसञ्चरणमेव हि दुष्करम् ।
कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्? ।
“अणिमादिसम्पत्तेरेवमपि स्याऽदिति चेन्न- (१५१)अत्रापि प्रमाणाभावात् ।
सम्भावनामात्रेण समाश्वासानुपपत्तेः ।
(१५२)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (१५३)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात् ।
विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् ।
अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति ।
[कु।२।२८८] कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् ।
हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत्क्रीडति ॥
तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवम् ।
विश्वासैकभुवं शिवं प्रति नमन्
भूयासमन्त्येष्वपि ॥४ ॥
॥ इति न्यायकुसुमाञ्जलौ द्वितीयस्तबकः ॥