Intro
Udayana: Nyayakusumanjali, Stavaka 1
Udayana: Nyayakusumanjali, Stavaka 1
Input by members of the Sansknet project
(www.sansknet.org)
This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
पाठः
न्यायकुसुमाञ्जलिः ॥
प्रथमस्तबकः ।
[कु।१।१०१] सत्पक्षप्रसरःसतां परिमलप्रोद्बोधबद्धोत्सवः ।
विम्लानो न विमर्दने ऽमृतरस(१)प्रस्यन्दमाध्वीकभूः ॥
ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमत् ।
चेतो मे रमयत्वविघ्नमनघो(घं)(२)(घ)न्यायप्रसूनाञ्जलिः ॥१ ॥
स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषीणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥२ ॥
[कु।१।१०२] इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः- शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाऽशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदायप्रद्योत(३)(वर्त)को ऽनुग्राहकश्चेति पातञ्जलाः, लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, (४)सर्वत्र इति सौगताः, निवारण इति दिगम्बराः, उपास्यत्वेन देशित (नोदित) इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः,(५) यावदुक्तोपपन्न इति नैयायिकाः, किं बहुना- कारवो ऽपि यं विश्वकर्मेति उपासते, तस्मिन्नेव जातिगोत्रप्रवरचरणकुलधर्मादिवदासंसारं प्रसिद्धानुभा(भ)वे भगवति भवे सन्देह एव कुतः? किं निरूपणीयम्?- [कु।१।१०३] तथापि- न्यायचर्चेयमीशस्य मननव्यपदेशभाक् ।
उपासनैव क्रियते श्रवणानन्तरागता ॥३ ॥
श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानीं मन्तव्यो भवतिः, “श्रोतव्यो मन्तव्य” इति श्रुतेः; “आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तम्” ॥
इति स्मृतेश्च ।
[कु।१।१०४] तदिह सङ्क्षेपतः पञ्चतयी विप्रतिपत्तिः- अलौकिकस्य परलोकसाधनस्याभावात् ; अन्यथापि परलोकसाधनानुष्ठानसम्भवात् ; तदभावाऽवेदकप्रमाणसद्भावात् ; सत्त्वे ऽपि तस्याप्रमाणत्वात् ; तत्साधकप्रमाणाभावाच्चेति ॥
[कु।१।१०५] तत्र न(६) प्रथमः कल्पः- यतः- (७)सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः ।
प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥४ ॥
[कु।१।१०६] न ह्ययं संसारः (८) अनेक(नैक)विध(विधो)दुखमयो निरपेक्षो भवितुमर्हति ।
तदा हि- स्यादेव, न स्यादेव वा- न तु कदाचित् स्यात् ॥
अकस्मादेव भवतीति चेन्न- हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च ।
स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥५ ॥
[कु।१।१०७] हेतुनिषेधे भवनस्यानपेक्षत्वेन (९) सर्वदा भवनम्, अविशेषात् ।
भवनप्रतिषेधे, प्रागिव पश्चादप्यभवनम्, अविशेषात् ।
उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः ।
पौर्वापर्य(१०) नियमश्च कार्यकारणभावः ।
न चैकं पूर्वमपरं च,तत्त्वस्य भेदाधिष्ठानत्वात् ।
अनुपाख्यस्य हेतुत्वे प्रागिति सत्वप्रसक्तौ पुनः सदातनत्वापत्तेः ।
[कु।१।१०८] स्यादेतत्- न अकस्मादिति कारणनिषेधमात्रं वा भवनप्रतिषेधो वा स्वात्महेतुकत्वं वा निरुपाख्यहेतुकत्वं वाभिधित्सितम् ।
अपि त्वनपेक्ष एव कश्चिन्नियतदेश(११)स्वभाववन्नियतकालस्वभाव इति ब्रूमः- (१२)न, निरवधित्वे अनियतावधिकत्वे वा कादाचित्कत्वव्याघातात् ।
न ह्युत्तरकालसिद्धित्वमात्रं कादाचित्कत्म्; किं तु प्रागसत्वे सति ।
सावधीत्वे तु स एव प्राच्यो हेतुरित्युच्यते ।
[कु।१।१०९] अस्तु प्रागभाव एवावधिरिति चेन्न, अन्येषामपि तत्काले सत्वात् अन्यथा तस्यैव निरूपणानुपपत्तेः ।
तथा च न तदेकावधित्वमविशेषात् ।
इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तदवधेः(१३) कार्यस्य सत्त्वप्रसङ्गात् ।
[कु।१।११०] सन्तु ये केचिदवधयः, न तु ते ऽपेक्ष्यन्त इति स्वभावार्थ इति चेत्-“नापेक्ष्यन्त” इति कोर्ऽथः? किं न नियताः, आहोस्विन्नियता अप्यनुपकारकाः? प्रथमे धूमो दहनवत् गर्दभमप्यवधीकुर्यात्, नियामकाभावात् ।
द्वितीये तु किमुपकारान्तरेण, नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् ।
[कु।१।१११] ठनित्यस्वभावनियमवदेतत् ।
न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचितम्" इति चेन्न, सर्वस्य भवतः स्वभावत्वानुपपत्तेः ।
न ह्येकमनेकस्वभावं (वो)(१४)नाम, व्याघातात् ।
नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति तुल्यः परिहारः- न तुल्यः- निरवधित्वे अनियतावधित्वे वा कादाचित्कत्वव्याघातात् नियतावधित्वे हेतुवादाभ्युपगमात् ।
[कु।१।११२] स्यादेतत्- उत्तरस्य पूर्वः, पूर्वस्योत्तरो मध्यमस्योभयमवधिरस्तु; दर्शनस्य दुरपह्नवत्वात् ।
त्वयाप्येतदभ्युपगन्तव्यम् ।
न हि भाववदभावे ऽप्युभयावधित्वमस्ति ।
तद्वद्भावेष्वप्यनुपलम्भमानैकैककोटिषु स्यात्- न स्यात्, अनादित्वात् ।
[कु।१।११३] प्रवाहो नादिमानेष न विजात्येकशक्तिमान् ।
तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥६ ॥
[कु।१।११४] प्रागभावो ह्युत्तरकालावधिरनादिः, एवं भावो ऽपि घटादिः स्यात् ।
अनुपलभ्यमानप्राक्कोटिकघटादिविषयं नेदमनिष्टमिति चेन्न- तावन्मात्रावधिस्वभावत्वे तदहर्वत् पूर्वेद्युरपि तमवधीकृत्य तदुत्तरस्य सत्वप्रसङ्गात्; अपेक्षणीयान्तराभवात् ।
एवं पूर्वपूर्वमपि ।
भावे, तदेव सदातनत्वात् ।
तदहरेवानेन भवितव्यमिति अस्य स्वभाव इति चेन्न-तस्याप्यह्नः पूर्वन्यायेन पूर्वमपि सत्वप्रसङ्गात् ।
तस्मात्तस्यापि तत्पूर्वकत्वम्, एवं तत्पूर्वस्यापीत्यनादित्वमेव ज्यायः ।
न त्वपूर्वानुत्पादेः कस्यचिदपूर्वस्य सम्भव इति ।
[कु।१।११५] तथापि व्यक्त्यपेक्षया नियमो ऽस्तु, न जात्यपेक्षयेति चेन्न, नियतजातीयस्वभावताव्याघातात् ।
(१५) यदि हि यतः कुतश्चिद्भवन्नेव तज्जातीयस्वभावःस्यात्, सर्वस्य सर्वजातीयत्वमेकजातीयत्वं वा स्यात् ।
एवं (यदि) तज्जातीयेन यतः कुतश्चिद्भवितव्यमिति अस्य स्वभावः, तदऽपि सर्वस्मात्सर्वजातीयमेकजातीयं वा स्यात् ।
[कु।१।११६] कथं तर्हि तृणारणिमणिभ्यो भवन्नाशुशुक्षणिरेकजातीयः? (१६) एकशक्तिमत्वादिति चेन्न; यदि हि विजातीयेष्वप्येकजातीय(१७)कार्यकरणशक्तिः समवेयात्, न कार्यात्कारणविशेषः क्वाप्यनुमीयेत; कारणव्यावृत्या च न तज्जातीयस्यैव कार्यस्य व्यावृत्तिरवसीयेत ।
तदभावे ऽपि तज्जातीयशक्तिमतो ऽन्यस्मादपि तदुत्पत्तिसम्भवात् ।
यावद्दर्शनं व्यवस्था भविष्यतीति चेन्न, निमित्तस्यादर्शनात्, दृष्टस्य चानिमित्तत्वात् ।
एतेन (१८) सूक्ष्मजातीया(सूक्ष्मादेकजातीयत्वा)दिति निरस्तम्, अवह्नेरपि तत्सौक्ष्म्यात् धूमोत्पत्त्यापत्तेः ।
[कु।१।११७] कार्यजातिभेदाभेदयोः समवायिभेदाभेदावेव तन्त्रम्, न निमित्तासमवायिनी इति चेन्न; तयोरकारणत्वप्रसङ्गात् ।
न हि सति भावमात्रं तत्; किं तु सत्येव भावः ।
न च जातिनियमे समवायिकारणमात्रं निबन्धनम्, अपि तु सामग्री ।
अन्यथा द्रव्यगुणकर्मणामेकोपादानकत्वे विजातीयत्वं (१९)न स्यात् ।
न च कार्यद्रव्यस्यैषा रीतिरिति युक्तम्; आरब्धदुग्धैरेवावयवैर्दध्यारम्भदर्शनात् ।
[कु।१।११८] एतेनापोहवादे नियमो निरस्तः;“कार्यकारणभावद्वे”(२०)त्यादिविप्लवप्रसङ्गात् ।
तस्मान्नियतजातीयतास्वभाव(२१)भङ्गेन व्यक्त्यपेक्षयैव नियम इति- [कु।१।११९] (२२)न; फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् ।
दृश्यते च पावकत्वाविशेषे ऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते; न तथा ज्वालाजालजटिलो ऽपि दारुदहनः , न तराञ्चकारीषः ।
यस्तु तं नाकलयेत्, स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपन्नम् ।
[कु।१।१२०] एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात्, यस्य दहनापेक्षेति, न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः ।
एतेन व्यतिरेको व्याख्यातः ।
तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभावस्याप्यसिद्धेर्(२३)गतमनुमानेनेति चेत्-(२४)न ।
प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः ।
अस्माकं तु यत्सामान्याक्रान्तयोर्ययोरन्वयव्यतिरेकवत्ता, तयोस्तथैव हेतुहेतुमद्भावनिश्चयः ।
तथा चावान्तरविशेषसद्भावे ऽपि न नो विरोधः ।
[कु।१।१२१] किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम्; तृणादीनां विशेष एव नियतत्वादिति चेत्-(२५) न ।
तेजोमात्रोत्पत्तौ पवनो निमित्तम्; अवयवसंयोगो ऽसमवायी; तेजो ऽवयवाःसमवायिनः ।
इयमेव सामग्री गुरुत्ववद्द्रव्यसहिता पिण्डितस्य ।
इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्, तत्रापि जलं प्राप्य दिव्यम्, पार्थिवं प्राप्य भौमम्, उभयं प्राप्योदर्यमारभत इति स्वयमूहनीयम् ।
[कु।१।१२२] तथाप्येकमेकजातीयमेव वा किञ्चित्कारणमस्तु कृतं विचित्रेण ।
दृश्यते ह्यविलक्षणमपि विलक्षणानेककार्यकारि ।
यथा- प्रदीप एक एव तिमिरापहारी वर्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न- वैचित्र्यात् कार्यस्य ।
एकस्य न क्रमः क्वापि वैचित्र्यं च समस्य न ।
शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥७ ॥
[कु।१।१२३] न तावदेकस्मादनपेक्षादनेकम्, अक्रमात् क्रमवत्कार्यानुपपत्तेः ।
क्रमवत्तावत्कार्य(क)कारणस्वभावत्वात्तस्य, तत् तथा; यौगपद्यवदिति चेत्- (२६)अयमपि च क्षणभङ्गे परिहारो न तु सहकारिवादे ।
पूर्वपूर्वानपेक्षायां क्रमस्यैव व्याहतेः ।
क्रमनियमे त्वनपेक्षानुपपत्तेः ।
[कु।१।१२४] नाप्यनेकमविचित्रम् ।
(२७)यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्यापि हेतुः, नासावदहनो दहनो वा स्यात्; उभयात्मको
वा स्यात् ।
न चैवम् ।
शक्तिभेदादयमदोष इति चेन्न- धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः ।
असङ्कीर्णोभयजननस्वभावत्वादयमदोष इति चेन्न- ।
न हि स्वाधीनमस्यादहनत्वम्; अपि तु तज्जनकस्वभावाधीनम् ।
तथा च तदायत्तत्वाद्दहनस्यापि तत्त्वं केन वारणीयम् ।
न हि तस्मिन् जनयितव्ये नासौ तत्स्वभावः ।
तस्माद्विचित्रत्वात् कार्यस्य कारणेनापि विचित्रेण भवितव्यम् ।
न च तत् स्वभावतस्तथा ।
ततः सहकारिवैचित्र्यानुप्रवेशः ।
न तु(च)(२८)क्षणो ऽपि तदनपेक्षस्तथा भवितुमर्हतीति ।
[कु।१।१२५] अस्तु दृष्टमेव सहकारिचक्रम्; किमपूर्वकल्पनयेति चेन्न- विश्ववृत्तितः ।
विफला विश्ववृत्तिर्नो न दुःखैकफलापि वा ।
दृष्टलाभफला नापि विप्रलम्भो ऽपि नेदृशः ॥८ ॥
यद्।इ हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनम्, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत ।
न हि निष्फले दुःखैकफले वा कश्चिदेको ऽपि प्रेक्षापूर्वकारी घटेत; प्रागेव जगत् ।
[कु।१।१२६] लाभपूजाख्यात्यर्थमिति चेत्- लाभादय एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः ।
यतो वानेन लब्धव्यं योवैनं पूजयिष्यति, स किमर्थम्? ख्यात्यर्थमनुरागार्थं च ।
जनो दातरि मानयितरि च रज्यते ।
“जनानुरागप्रभवा हि सम्पदः” ।
इति चेन्न- नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् ।
त्रैविद्यतपस्विनो धूर्तवकाः एवेति चेन्न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात् ।
[कु।१।१२७] सुखार्थं तथा करोतीति चेन्न- नास्तिकैरपि तथा करणप्रसङ्गात्, सम्भोगवत् ।
लोकव्यवहारसिद्धत्वादफलमपि क्रियते, वेदव्यवहारसिद्धत्वात्सन्ध्योपासनवदिति चेत्- गुरुमतमेतत्, न गुरोर्मतम् ।
ततो नेदमनवसर एव वक्तुमुचितम् ।
[कु।१।१२८] वृद्धैर्विप्रलब्धत्वाद्बालानामिति चेन्न- वृद्धानामपि प्रवृत्तेः ।
न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते ।
ते ऽपि वृद्धतरैरित्येवमनादिरिति चेत्- न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् ।
इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः परान् अनुष्ठापयतीति चेत्- किमसौ सर्वलोकोत्तर एव; यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चन(२९)कुतूहली यावज्जीवमात्मानमवसादयति ।
कथं चैनमेकं प्रेक्षा (३०)पूर्वकारिणो ऽप्यनुविदध्युः? केन वा चिन्हेनायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः? न ह्येतावतो दुःखराशेः प्रतारणसुखं गरीयः ।
(३१)यतः पाखण्डाभिमतेष्वप्येवं दृश्यत इति चेन्न- हेतुदर्शनादर्शनाभ्यां विशेषात् ।
अनादौ चैवम्भूते ऽनुष्ठाने प्रतायमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्; (३२)नत्वनुष्ठानागोचरेण कर्मणा ।
अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् ।
[कु।१।१२९] अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेन्न- क्षणिकत्वात् ।
अपेक्षितस्य कालान्तरभावित्वात् ।
चिरध्वस्तं फलायालं न कर्मातिशयं विना ।
(३३)सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि ॥९ ॥
तस्मादस्त्यतिशयः कश्चित् ।
ईदृशान्येवैतानि स्वहेतुबलाऽयातानि, येन नियतभोगसाधनानीति चेत्- तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा? न तावत् ऐन्द्रियकस्यातीन्द्रियं रूपम्, व्याघातात् ।
द्वितीये त्वपूर्वसिद्धिः ।
[कु।१।१३०] सिद्ध्यतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः ।
अवश्यं त्वयाप्येतदङ्गीकरणीयम् ।
कथमन्यथा मन्त्रादिभिः प्रितिबन्धः ।
तथा हि- करतलानलसंयोगात् यादृशादेवदाहो दृष्टः, तादृशादेव मन्त्रादिप्रतिबन्धे सति दाहो न जायते; असति तु जायते ।
तत्र न दृष्टवैगुण्यमुपलभामहे ।
नापि दृष्टसाद्गुण्ये ऽदृष्टवैगुण्यं सम्भावनीयम्; तस्यैतावन्मात्रार्थत्वात् ।
अन्यथा, कर्मण्यपि विभागः कदाचिन्न जायेत ।
न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम्; अभावस्याकारणत्वात् ।
तुच्छो ह्यसौ ।
प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्योत्पत्तेः ।
प्राक्प्रध्वंसादिविकल्पेन चानियतहेतुकत्वापातात् ।
अकिञ्चित्करस्य प्रतिबन्धकत्वायोगात्; किञ्चित्करत्वे चातीन्द्रियशक्तेः स्वीकारात् ।
मन्त्रादिप्रयोगे चेतरेतराभावस्य सत्त्वे ऽपि कार्यानुदयात् ।
अतो ऽतीन्द्रीयं किञ्चिद्दाहानुगुणमनुग्राहकमग्नेरुन्नीयते, यस्यापकुर्वतां प्रतिबन्धकत्वमुपपद्यते; यस्मिन्नविकले कार्यं जायते (३४)यस्यैकजातीयत्वादनियतहेतुकत्वं निरस्यत इति ।
[कु।१।१३१] अत्रोच्यते- भावो यथातथाभावः कारणं कार्यवन्मतः ।
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ॥१० ॥
न्।अ ह्यभावस्याकारणत्वे प्रमाणमस्ति ।
न हि विधिरूपेणासौ तुच्छ इति स्वरूपेणापि तथा; निषेधरूपाभावे विधेरपि(रेव) तुच्छत्वप्रसङ्गात् ।
कारणत्वस्य भावत्वेन व्याप्तत्वात्तन्निवृत्तौ तदपि निवर्तत इति
चेन्न- परिवर्तप्रसङ्गात् ।
अन्वयव्यतिरेकानुविधानस्य च कारणत्वनिश्चयहेतोर्भाववदभावे ऽपि तुल्यत्वात् ।
अभावस्यावर्जनीयतयासन्निधिः न तु हेतुत्वेनेति चेत्- तुल्यम् ।
प्रतियोगिनमुत्सारयतस्तस्यान्यप्रयुक्तःसन्निधिरिति चेत्- तुल्यम् ।
भावस्याभावोत्सारणं स्वरूपमेवेति चेत्- अभावस्यापि भावोत्सारणं स्वरूपान्नातिरिच्यते ।
तस्मात् यथा “भावस्यैव भावो जनक” इति नियमो ऽनुपपन्नः, तथा “भाव एव जनक” इत्यपि ।
को ह्यनयोर्विशेषः ।
[कु।१।१३२] प्रतिबन्धकोत्तम्भकप्रयोगकाले तु व्यभिचारस्तदा स्यात्; यदि यादृशे सति कार्यानुदयः, तादृश एव सति उत्पादः स्यात् ।
न त्वेवम्; तदापि प्रतिपक्षस्याभावात् ।
असत्प्रतिपक्षो हि (३५)प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्षः ।
स च तादृशो नास्त्येव ।
यस्त्वस्ति, नासौ प्रतिपक्षः ।
तथापि विशेष्ये सत्येव विशेषणमात्राभावस्तत्र; स चोत्तम्भकमन्त्र एवेत्यन्यैव सामग्रीति चेत्- न, विशिष्टस्याप्यभावात् ।
न हि दण्डिनि सति अदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैव केवलस्येति युक्तम् ।
यथा हि केवलदण्डसद्भावे, उभयसद्भावे, द्वयाभावे वा केवलपुरुषाभावः सर्वत्राविशिष्टः, तथा केवलोत्तम्भकसद्भावे, प्रतिबन्धकोत्तम्भकसद्भावे, द्वयाभावे वा केवप्रतिबन्धकाभावो ऽविशिष्ट इत्यवधार्यताम् ।
अथैवम्भूतसामग्रीत्रयमेव किं नेष्यते? कार्यस्य तद्व्यभिचारात्; जातिभेदकल्पनायां च प्रमाणाभावात्; यथोक्तेनैवोपपत्तेः ।
भावे वा काममसावस्तु; का नो हानिः ।
[कु।१।१३३] प्राक्प्रध्वंसविकल्पो ऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्यं न जायते, तस्मिन्नसत्येव जायत इति, अत्र संसर्गाभावस्यैव प्रयोजकत्वात् ।
यस्तु संसर्गाभावतादात्म्यनिषेधयोर्विशेषमनाकलयन्नितरेतराभावेन प्रत्यवतिष्ठते, स प्रतिबोधनीयः ।
तथाप्यभावेषु जातेरभावात् कथं त्रयाणामुपग्रहः स्यात्; अनुपगृहीतानां च कथं कारणत्वावधारणमिति चेत्- मा भूज्जातिः ।
न हि तदुपगृगीतानामेव व्यवहाराङ्गत्वम् ।
सर्वत्रोपाधिमद्व्यवहारविलोपप्रसङ्गात् ।
[कु।१।१३४] एते(अने)न प्रतिबन्धके सत्यपि तज्जातीयान्यस्याभावसम्भवात् कार्योत्पादप्रसङ्गः, अनुत्पादे वा ततो ऽप्यधिकं किञ्चिदपेक्षणीयमस्तीति निरस्तम् ।
यथा हि “तज्जातीये सति कार्यं जायते, अर्थात् असति न जायते” इति स्थिते तद्भावे ऽपि तज्जातीयान्तराभावान्न भवितव्यं कार्येणेति (३६)न तथैतदपि; अनुकूलवत् प्रतिकूले ऽपि सति तज्जातीयान्तराभावानामकिञ्चित्करत्वादिति ।
[कु।१।१३५] यत्तु “अकिञ्चित्करस्येऽति- तदप्यसत् ।
सामग्रीवैकल्यं प्रतिबन्ध्यपदार्थो मुख्यः ।
स चात्र मन्त्रादिरेव ।
न त्वसौ प्रतिबन्धकः ।
ततः किं तस्याकिञ्चित्करत्वेन? तत्प्रयोक्तारस्तु प्रतिबन्धारः, ते च किञ्चित्करा एवेति किमसमञ्जसम् ।
ये तु व्युत्पादयन्ति; “कार्यानुत्पाद एव प्रतिबन्ध” इति- तैः (३७)“प्रतिबन्धमकुर्वन्त एव प्रतिबन्धकाः” इत्युक्तं भवति ।
तथा हि- कार्यस्यानुत्पादः प्रागभावो वा स्यात्, तस्य कालान्तरप्राप्तिर्वा ।
न पूर्वः, तस्यानुत्पाद्यत्वात् ।
न द्वितीयः, कालस्य स्वरूपतो ऽभेदात् ।
तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् ।
प्रागभावावच्छेदककालोपाधिस्तदपेक्ष इति चेन्न- मन्त्रात्पूर्वमपि तस्य भावात् ।
तस्मात् सामग्रीतत्कार्ययोः पौर्वापर्यनियमात्तदभावयोरपि पूर्वापरभाव उपचर्यते; वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः ।
[कु।१।१३६] न चेदेवं शक्तिस्वीकारे ऽपि कः प्रतीकारः ? तथा हि प्रतिबन्धकेन शक्तिर्वा विनाश्यते, तद्धर्मो वा, धर्मान्तरो वा जन्यते, न जन्यते वा किमपीति पक्षाः ।
तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः विपरीतधर्मान्तरजनने, तदभावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः, प्रागभावादिविकल्पावकाशश्च ।
तद्विनाशे तद्धर्मविनाशे वा पुनरुत्तम्भकेन तज्जनने ऽनियतहेतुकत्वम्; पूर्वं स्वरूपोत्पादकात् इदानीमुत्तम्भकादुत्पत्तेः ।
न च समानशक्तिकतया तुल्यजातीयत्वान्नैवमिति साम्प्रतम्; विजातीयेषु समानशक्तिनिषेधात् ।
न च प्रतिबन्धकशक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम्; तदनुत्पादप्रसङ्गात् ।
कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वमिति ।
[कु।१।१३७] स्यादेतत्- मा भूत्सहजशक्तिः; आधेयशक्तिस्तु स्यात् ।
दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः ।
कथमन्यथा कालान्तरे तादृशानामेव कार्यविशेषोपयोगः ।
न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति साम्प्रतम्- तेषु चिरध्वस्तेष्वपि कार्योत्पादात् ।
नापि प्रध्वंससहायास्ते तथा; एवं हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु; कृतमपूर्वकल्पनया ।
तेषामनन्तत्वादनन्तफलप्रवाहः प्रसज्यत इति चेत्- अपूर्वेपि कल्पिते तावानेव
फलप्रवाह इति कुतः ? अपूर्वस्वाभाव्यादिति चेत्- तुल्यमिहापि ।
तावतापि तत्प्रध्वंसो न विनश्यतीति विशेषः ।
[कि।१।१३८] स्यादेतत्-“उपलक्षणं प्रोक्षणादयः; न तु विशेषणम् ।
तथा चाविद्यमानैरपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते, यथा गुरुणा टीका; कुरुणा क्षेत्रम्- इति चेत्- तदसत् ।
न हि स्वरूपव्यापारयोरभावे ऽप्युपलक्षणस्य कारणत्वं कश्चिदिच्छति; अतिप्रसङ्गात् ।
व्यवहारमात्रं तु तज्ज्ञानसाध्यम्, न तु तत्साध्यम् ।
तज्ज्ञानमपि स्वकारणाधीनम् ।
न तु तेन निरन्वयध्वस्तेन जन्यते ।
(अस्तु तावत्) अस्तु वा तत्राप्यतिशयकल्पना; किन्नश्छिन्नम् ? यद्वा यागादेरप्युपलक्षणत्वमस्तु ।
तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति कृतमपूर्वेण ।
[कु।१।१३९] न च देवदत्तस्य स्वगुणाकृष्टाः शरीरादयो भोगाय, तद्भोगसाधनत्वात् स्रगादिवदित्य(नुमाना)न्वयिवलादपूर्वसिद्धेर्नाविशेष इति साम्प्रतम्; इच्छाप्रयत्नज्ञानैर्यथायोगं सिद्धसाधनात् ।
न च तद्रहितानामपि भोग इति युक्तिमत्, येन ततो ऽप्यधिकं सिद्ध्येत् ।
नापिस्वगुणोत्पादिता इति साध्यार्थः, मनसानैकान्तिकत्वात् ।
नापि कार्यत्वे सतीति विशेषणायो हेतुः; तथाप्युपलक्षणैरेव सिद्धसाधनात् ।
असतां तेषां कथमुत्पादकत्वमिति चेत्- तदेतदभिमन्त्रणादिष्वपि तुल्यम् ।
[कु।१।१४०] तस्माद्भावभूतमतिशयं जनयन्त एव प्रोक्षणादयः कालान्तरभाविने फलाय कल्पन्ते ।
प्रमाणतस्तदर्थमुपादीयमानत्वात् यागकृषिचिकित्सावदिति ।
अन्यथा कृष्यादयो दुर्घटाः प्रसज्येरन्; बीजादीनामापरमाण्वन्तभङ्गात् तेषु चावान्तरजातेरभावान्नियतजातीयकार्यारम्भानुपपत्तेः ।
अत्रोच्यते-[कु।१।१४१] संस्कारः पुम्स एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ।
स्वगुणाः परमाणूनां विशेषाः पाकजदयः ॥११ ॥
यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुषमभिसंस्कुर्वते, न वन्हिम्, नापि देवताः; तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः पुरुषमेव संस्कुरुते, न तम् ।
तथा च कारीरीजनितसंस्काराधारपुरुषसंयोगाज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया, तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशेषाः ।
यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात्फलाभावस्तथा परत्रापि; आगमिकत्वस्योभयत्रापि तुल्यत्वात् ।
[कु।१।१४२] न तर्हि बर्हिष इव व्रीह्यादेः पुनरुपयोगान्तरं स्यात् ।
उपयोगे वा तज्जातीयान्तरमप्युपादीयेत; अविशेषात् ।
न ।
विचित्रा ह्यभिसंस्काराः ।
केचिद्व्याप्रियमाणोद्देश्यसहकारिण एव कार्ये उपयुज्यन्ते ।
किमत्र क्रियताम्? विधेर्दुर्लङ्घत्वात् ।
यथाचाभिचारसंस्कारो यं देहमुद्दिश्य प्रयुक्तस्तदपेक्ष एव तत्सम्बद्धस्यैव दुःखमुपजनयति नान्यस्य; न वा तदनपेक्षः ।
एवमभिमन्त्रणादिसंस्कारा अपि भवन्तो न मनागपि नोपयुज्यन्ते ।
कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेति चेत्- प्रोक्षणादिफलसम्बन्धादेव ।
[कु।१।१४३] ननु यदुद्देशेन यत्क्रियते तत्तत्र किञ्चित्करम्, यथा पुत्रेष्टिपितृयज्ञौ ।
तथा चाभिमन्त्रणादयो व्रीह्याद्युद्देशेन प्रवृत्ताः इत्यनुमानमिति चेत्- तन्न- हविस्त्यागादिभिरनैकान्तिकत्वात् ।
न हि ते कालान्तरभाविफलानुगुणं किञ्चित् हुताशनादौ जनयन्ति ।
किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापाराः प्रमेयोद्दशेन प्रवृत्ताः प्रमातर्येव किञ्चिज्जनयन्ति, न प्रमेये इति ।
[कु।१।१४४] कृषिचिकित्से अप्येवमेव स्यातामिति चेन्न- दृष्टेनैव पाकजरूपादि (३८)परिणतिभेदेनोपपत्तावदृष्टकल्पनायां प्रमाणाभावात् ।
(३९)तथा च लाक्षारसावसेकादयो (४०)व्याख्याताः ।
अत एव बीजविशेषस्य आपरमाण्वन्तभङ्गे ऽपि, परमाणूनामवान्तरजात्यभावे ऽपि, प्राचीनपाकजविशेषैरेव (४१)विशिष्टाः परमाणवस्तं तं कार्यविशेषमारभन्ते ।
यथा हि कलमबीजं यवादेः, नरबीजं वानरादेः, गोक्षीरं महिषादेः जात्या व्यावर्तते; तथा तत्परमाणवो ऽपि मूलभूताः पाकजैरेव व्यावर्तन्ते ।
न ह्यस्ति सम्भवो गोक्षीरं सुरभिमधुरं शीतम्; तत्परमाणवश्च विपरीताः ।
(४२)तस्मात्तथाभूतपाकजा एव परमाणवः; यथाभूतैरेवाद्यातिशयो ऽन्त्यातिशयो (वा)(४३)ऽङ्कुरादिर्वेति किमत्र शक्तिकल्पनया ।
[कु।१।१४५] कल्पादावप्येवमेव ।
इदानीं बीजादिसन्नविष्टानामस्मदादिभिरुपसम्पादनम् ।
तदानीं तु विभक्तानामदृष्टादेव (४४)केवलान्मिथः संसर्ग इति विशेषः ।
न च वाच्यमिदानीमपि तथैव किं न स्यात्; यतः कृष्यादिकर्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गादव्यवस्थाभयाच्चादृष्टानि (४५)(कर्माणि) दृष्टकर्मव्यवस्थयैव भोगसाधनानीत्युन्नीयते ।
[कु।१।१४६] तस्मात्पाकजविशेषैः संस्थानविशेषैश्च विशिष्टाः परमाणवः कार्यविशेषमारभन्ते ।
ते च तेजो ऽनिलतोयसंसर्गविशेषैः; ते च क्रियया; सा च नोदनाभिघातगुरुत्ववेगद्रवत्वादृष्टवदात्मसंयोगेभ्यो यथायथमिति न किञ्चिदनुपपन्नम् ।
निमित्तभेदाश्च
पाके भवन्ति ।
तद्यथा- हारीतमांसं हरिद्राजलावसिक्तं (४६)हरिद्राग्निप्लुष्टम् उपयोगात् सद्यो व्यापादयति ।
“दशरात्रोषितं कांस्ये घृतं चापि विषायते” ।
ताम्रापात्रे पर्युषितं क्षीरमपि तिक्तायत इत्यादि ।
[कु।१।१४७] यत्र तर्हि तोये तेजसि वायौ वा न पाकजो विशेषः, तत्र कथमुद्भवानुद्भवद्रवत्वकठिनत्वादयो विशेषाः? कथं वा (च) पार्थिवे प्रतिमादौ प्रतिष्ठादिना संस्कृते ऽपि विशेषाभावात् पूजनादिना धर्मो व्यतिक्रमे त्वधर्मः अप्रतिष्ठिते तु न किञ्चित् ।
न च तत्र यजमानधर्मेणान्यस्य साहायकमाचरणीयम्; अन्यधर्मस्यान्यं प्रत्यनुपयोगात् उपयोगे वा साधारण्यप्रसङ्गात् ।
अत्रोच्यते- निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ।
देवता(४७)सन्निधानेन प्रत्यभिज्ञानतो ऽपि वा ॥१२ ॥
[कु।१।१४८] उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते ।
तेषां विशेषादुद्भूता(४८)नुद्भूतभेदाः प्रादुर्भवन्ति ।
तथा स्वभावद्रवा अप्यापो निमित्तभेदप्रतिबद्धद्रवत्वाः कठिनं करकाद्यारभन्ते इत्यादि स्वयमूहनीयम् ।
प्रतिमादयस्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्राराधनीयतामासादयन्ति; दष्टमूर्च्छितं राजशरीरमिव विषापनयनविधिनाऽपादितचैतन्यम् ।
सन्निधानं च तत्र तेषामहङ्कारममकारौ, चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् ।
अन्येषां तु पूर्वपूर्वपूजितप्रत्यभिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् ।
एतेनाभिमन्त्रितपयःपल्लवादयो व्याख्याताः ।
[कु।१।१४९] घटादिषु का वार्ता ? कुशलैवेति चेन्न- न हि सामग्रीदृष्टं विघटयति; नाप्यदृष्टम्; ज्ञापकत्वात् ।
नाप्यदृष्टमुत्पादयति; धर्मजनने सर्वदा विजयप्रसङ्गात्; विपर्यये सर्वदा भङ्गप्रसङ्गात्- अत्रोच्यते-[कु।१।१५०] जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् ।
परीक्ष्य समवेतस्य परीक्षाविधयो मताः ॥१३ ॥
यद्यपि “धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते; ताश्च कर्मविभवानुरूपं लिङ्गमभिव्यञ्जयन्तीऽत्यस्माकं सिद्धान्तः- तथापि परविप्रतिपत्तेरन्यथोच्यते ।
तेनापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं (४९)तद्विभावकं कार्यमुन्मीलयति ।
कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव ।
तच्च सहकारि “सो ऽहमनेन विधिना तुलामधिरूढः, यो ऽहं पापकारी निष्पापो वेऽति प्रत्यभिज्ञानम् ।
यदाहुः- “तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः” ।
अथ वा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते, निमित्ततो विधानाद्विजयफलश्रुतेश्च ।
अविशुद्धिं चापेक्ष्याधर्मः ।
पराजयलक्षणानपेक्षितफलोपदर्शनेन फलतो (५०)निषेधात् ।
[कु।१।१५१] अथ शक्तिनिषेधे किं प्रमाणम्? न किञ्चित् ।
तत्किमस्त्येव? बाढम् ।
न हि नो दर्शने शक्तिपदार्थ एव नास्ति ।
को ऽसौ तर्हि? कारणत्वम् ।
किं तत्? पूर्वकालनियतजातीयत्वम्, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति ।
ततो ऽधिकनिषेधे का वार्ता? न काचित् ।
तत् किं विधिरेव? सो ऽपि (५१)नास्ति; प्रमाणाभावात् ।
सन्देहस्तर्हि कथमेवं भविष्यति; अनुपलब्धचरत्वात् ।
(५२)विवादस्तर्हि, कुत्र? अनुग्राहकत्वसाम्यात्सहकारिष्वपि शक्तिपदप्रयोगात् सहकारिभेदे ।
तत्रापि- दहनादेरनुग्राहको ऽधिको ऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति यदि, तदा न विवदामहे ।
अस्मदभिप्रेतस्य चाभावादेरनुग्राहकत्वमङ्गीकृत्य निःसाधना मीमासङ्का अपि न विप्रतिपत्तुमर्हन्ति ।
ततः- अभावादिरनुग्राहक इत्येके, नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितं चैतस्यानुग्राहकत्वम् ।
किमपरमवशिष्यते, यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण ।
[कु।१।१५२] तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत्- उच्यते ।
भोक्तृणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्नियामकाभावात्प्रतिनियतभगासिद्धेः ।
न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः;नियामकाभावात् (विशेषाभावात्) ।
तथा च साधारणविग्रहवत्त्वप्रसङ्गः ।
न च भूतधर्म एव (५३)कञ्चिच्चेतनं प्रत्यसाधारणः; विपर्ययदर्शनात् ।
द्वित्वादिवदिति चेन्न- तस्यापि शरीरादितुल्यतया पक्षत्वात् ।
नियतचेतनगुणोपग्रहेणैव तस्यापि नियमः, न तु तज्जन्यतामात्रेण; स्वयमविशेषात् ।
[कु।१।१५३] तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत- कार्यकारणभावभङ्गप्रसङ्गः; शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः ।
तद्यथा- इच्छोपग्रहेण प्रयत्नः, ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि ।
प्रकृते ऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेन्न; शरीरादेः प्राक् तेषामसत्त्वात् ।
तथा च निरतिशयाश्चेतनाः साधारणानि
भूतानीति न भुक्तिनियम उपपद्यते ।
[कु।१।१५४] एतेन साङ्ख्यमतमपास्तम् ।
एवं हि तत् ।
अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः ।
आदिकारणं प्रकृतिरचेतना परिणामिनी ।
ततो महदादिसर्गः ।
न हि चितिरेव विषयबन्धनस्वभावा; अनिर्मोक्षप्रसङ्गात् ।
नापि प्रकृतिरेव तदीयस्वभावा; तथापि नित्यत्वेनानिर्मोक्षप्रसङ्गात् ।
नापि घटादिरेवाहत्य तदीयः; दृष्टादृष्टत्वानुपपत्तेः ।
नापीन्द्रियमात्रप्रणाडिकया; व्यासङ्गायोगात् ।
नापीन्द्रियमनोद्वारा; स्वप्नदशायां वराहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वेनात्मो(५४)पधानायोगात् ।
नाप्यहङ्कारपर्यन्तव्यापारेण; सुषुप्त्यवस्थायां तद्व्यापारविरामे ऽपि श्वासप्रयत्नसन्तानावस्थानात् ।
तद् यदेतास्ववस्थासु सव्यापारमेकमनुवर्तते, यदाश्रया चानुभववासना, तदन्तःकरणमुपारूढोर्ऽथः पुरुषस्योपधानी भवति ।
भेदाग्राहाच्च निष्क्रिये ऽपि तस्मिन् पुरुषे कर्तृत्वाभिमानः, तस्मिन्नचेतने ऽपि चेतनाभमानः तत्रैव कर्मावसाना ।
पुरुषस्तु पुष्करपलाशवत् (५५)सर्वथा निर्लेपः ।
[कु।१।१५५] आलोचनं व्यापार इन्द्रियाणाम्; विकल्पस्तु मनसः; अभिमानो ऽहङ्कारस्य; कृत्यध्यवसायो बुद्धेः ।
सा हि बुद्धिरंशत्रयवती; पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः ।
भवति हि मयेदं कर्तव्यमिति ।
तत्र मयेति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः ।
इदमिति विषयोपराग इन्द्रियप्रणाडिकया परिणतिभेदो दर्पणस्येव निश्वासाभिहतस्य मलिनिमा पारमार्थिकः ।
एतदुभयायत्तो व्यापारवेशो ऽपि ।
तत्रैवंरूपव्यापारलक्षणाया बुद्धेर्विषयोपरागलक्षणं ज्ञानम् ।
तेन सह यः पुरुषोपरागस्यातात्विकस्य सम्बन्धो दर्पणप्रतिबिम्बितस्य मुखस्येव मलिनिम्ना, सोपलब्धिरिति ।
तदेवमष्टावपि धर्मादयो भावा बुद्धेरेव; तत्सामानाधिकरण्येनाध्यवसीयमानत्वात् ।
न च बुद्धिरेव स्वभावतश्चेतनेति युक्तम्- परिणामित्वात्; पुरुषस्य तु कूटस्थानित्यत्वादिति ।
[कु।१।१५६] तदेतदपि प्रागेव निरस्तम् ।
तथा हि- कर्तृधर्मा नियन्तारः चेतिता च स एव नः ।
अन्यथानपवर्गः स्यादसंसारो ऽथवा ध्रुवः ॥१४ ॥
कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम् ।
चेतनो ऽपि कर्तैव; कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात् ।
न चायं (नायम्) भ्रमः; बाधकाभावात् ।
परणामित्वाद्घटवदिति बाधकमिति चेन्न- कर्तृत्वे ऽपि समानत्वात् ।
तथा च कृतिरपि (५६)(स्वा)भाविकी महतो न स्यात् ।
दृष्टत्वादयमदोष इति चेत् तुल्यम् ।
(५७)अचेतनाकार्यत्वं बाधकम्, कार्यकारणयोस्तादात्म्यादिति चेन्न- असिद्धेः ।
न हि कर्तुः कार्यत्वे प्रमाणमस्ति ।
प्रत्युत “वीतरागजन्मादर्शनाऽ(न्या-३।१।२५।)दिति न्यायादनादितैव सिद्ध्यति ।
यद्यच्च कार्ये रूपं दृश्यते तस्य तस्य कारणात्मकत्वे रागादयो ऽपि प्रकृतौ स्वीकर्तव्याः स्युः ।
तथा च सैव बुद्धिः, न प्रकृतिः; भावाष्टकसम्पन्नत्वात् ।
स्थूलतामपहाय सूक्ष्म(रूप)तया ते तत्र सन्तीति चेत् चैतन्यमपि तथा भविष्यति ।
तथाप्यसिद्धो हेतुः ।
तथा सति घटादीनामपि चैतन्यप्रसङ्गः, तादात्म्यादिति चेत्- रागादिमत्त्वप्रसङ्गो ऽपि दुर्वारः ।
सौक्ष्म्यं च समानमिति ।
तस्मात् यज्जातीयात् कारणाद्यज्जातीयं कार्यं दृश्यते, तथा भूतात्तथाभूतमात्रमनुमातव्यम्; न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यम्, व्यभिचारादिति किमनेनाप्रस्तुतेन ।
[कु।१।१५७] यदि च बुद्धिर्नित्या; अनिर्मोक्षप्रसङ्गः ।
पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् ।
अथ विलीयते, ततो नानादेर्विलय इत्यादिमत्त्वे, तदनुत्पत्तिदशायां को नियन्ता? प्रकृतेः साधारण्यात् ।
तथा चासंसारः ।
पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्ये ऽप्यसाधारणीति चेत्- बुद्धिनिवृत्तावपि तद्धर्मवासनानुवृत्तिरित्यपदर्शनम् ।
सौक्ष्म्यान्न दोष इति चेत्- मुक्तावपि पुनःप्रवृत्तिप्रसङ्गः ।
निरधकारत्वान्नैवमिति चेत्- तर्हि साधिकारा (५८)प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्थान्तरकल्पनया ।
सैव हि तत्तद्व्यापार(५९)योगात्तेन तेन शब्देन व्यपदिश्यते शारीरवायुवदिति आगमो ऽपि सङ्गच्छते इत्यतो ऽपि हेतुरसिद्धः ।
अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः ।
वासनायोगश्चाधिकारः ।
ततः संसारः ।
[कु।१।१५८] धर्मधर्मिणोरत्यन्तभेदे च कौटस्थ्याविरोधः ।
भेदश्च विरुद्धधर्माध्यासलक्षणो घटपटादिवत् प्रत्यक्षसिद्धः ।
न च सामानाधिकरण्यादभेदो ऽपि ।
तद्धि समानशब्दवाच्यत्वम्, एकज्ञानगोचरत्वम्, एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वम्, सम्बन्धमात्रं वा भेदे एव भेदे ऽपि चचोपपद्यमानम्, नाभेदं स्पृशतीति सर्वमवदातम् ।
[कु।१।१५९] स्यादेतत् ।
नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात् ।
स एव कुतः? भूतानामेव
चेतनत्वात् ।
कायाकारपरिणतानि (भू) तानि तथा; अन्वयव्यतिरेकाभ्यां तथोपलब्धेः ।
कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवर्तिष्येते, यतो भोगप्रतिसन्धाननियम इति चेत्- उच्यते ।
नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् ।
वासनासङ्क्रमो नास्ति न च गत्यन्तरं स्थिरे ॥१५ ॥
न्।अ हि भूतानां समुदायपर्यवसितं चैतन्यम्; प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात् ।
नापि प्रत्येकपर्यवसितम्; करचरणाद्यवयवापाये तदनुभूतस्य स्मरणायोगात् ।
नापि मृगमदवासनेव वस्त्रादिषु, संसर्गादन्यवासनान्यत्र सङ्क्रामति; मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् ।
न चोपादानोपादेयभावनियमो गतिः; स्थिरपक्षे परमाणूनां तदभावात् ।
खण्डावयविनं प्रति च विच्छिन्नानामनुपादानत्वात् ।
पूर्वसिद्धस्य चावयविनो विनाशात् ।
[कु।१।१६०] अस्तु तर्हि क्षणभङ्गः ।
न चातिशयो (६०) व्यतिरिच्यते; किं तु सादृश्यतिरस्कृतत्वात् द्रागेव न विकल्प्यते ।
कार्यदर्शनादध्यवसीयते अन्त्यातिशयवत् ।
तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धाननियमादयो ऽप्युपपद्यन्ते ।
क्षणिकत्वसिद्धावेवमेतत् ।
तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् ।
अपि च-[कु।१।१६१] न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा भवेत् ।
विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥१६ ॥
न्।अ हि, “करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रऽमित्यभ्युपगमे क्षणिकत्वसिद्धिः; तथैकव्यक्तावप्यविरोधात् ।
तद्वा तादृग्वेति न कश्चिद्विशेष इति न्यायात् ।
ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेय(गन्तव्य)म् ।
[कु।१।१६२] एवं च, “कारणवत् कार्ये ऽपि किञ्चिद्वैजात्यं स्यात् यस्य कारणापेक्षा, न तु दृष्टजातीयस्य” इति शङ्कया न तदुत्पत्तिसिद्धिः ।
दृष्टजातीयमाकस्मिकं स्यादिति चेन्न- तत्रापि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरेधात् ।
“न कार्यस्य विशेषस्तत्प्रयुक्ततयोपलभ्यते; नापि कार्यसामान्यस्यान्यप्रयोजकं दृश्यते” इति चेत्- तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः, कारणसामान्यस्य वान्यत्प्रयोज्यान्तरं दृश्यते; यतो विवक्षितसिद्धिः स्यात् ।
शङ्का तूभयत्रापि सुलभेति ।
कार्यजन्माजन्मभ्यामुन्नीयत इति चेन्न- सहकारिलाभालाभाभ्यामेवोपपत्तेः ।
उन्नीयतां वा; कार्येषु शङ्किष्यते; निषेधकाभावात् ।
न हि धूमस्य विशेषं दहनप्रयोज्यं प्रतिषेद्धुं स्वभावानुपलब्धिः प्रभवति ।
कार्यैकनिश्चेयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः ।
कार्यस्य चातीन्द्रियस्यापि सम्भवात्; अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति ।
[कु।१।१६३] एवं विधिरूपयोर्व्यावृत्तिरूपयोर्वा जात्योर्विरोधे सति न समावेशः ।
समाविष्टयोश्च परापरभावनियमः; अन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणाभावात् ।
व्यावर्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः ।
परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपितथा भावप्रसङ्गात् ।
सामग्रीविरोधान्नैवमिति चेत्- (६१)कुत एतत्? परस्परपरिहारेण सर्वदा व्यवस्थितेरिति चेत्- नेदमप्यध्यक्षम् ।
एकदेशसमावेशेन तु सामग्रीसमावेशो ऽप्युन्नीयते (६२)यावत् ।
(६३)तत्कार्ययोः परस्परपरिहृतिस्वभावत्वादिति चेत्तर्हि कम्पशिंशपयोः परस्परपरिहारवत्योर्न समावेशः स्यात् ।
दृश्यते तावदिदमिति चेत्- गोत्वाश्वत्वयोरपि न दृक्ष्यत इति का प्रत्याशा? तथा च गतमनुपलब्धिलिङ्गेनापि, क्वचिदपि विरोधासिद्धेः ।
[कु।१।१६४] ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः ।
ननु- अस्ति तत् ।
तथा हि- वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री ।
सा वृक्षमतिपत्य भवन्ती स्वकारणमेवातिपतेत् ।
एवं शाखादिमन्मात्रानुबन्धी वृक्षव्यवहारः; तद्विशेषानुबन्धी च शिंशपाव्यवहारः ।
स कथं तमतिपत्यात्मानमासादयेदिति- चेत्- एवं तर्हि शिंशपासामग्र्यन्तर्भूता चलनसामग्री ।
ततस्तामतिपत्य चलनादिरूपता भवन्ती स्वकारणमेवातिपतेत् ।
तथा शाखादिमद्विशेषानुबन्धी शिंशपाव्यवहारः, तद्विशेषानुबन्धी च चलनव्यवहारः ।
स कथं तमतिपत्यात्मानमासादयेदिति तुल्यम् ।
[कु।१।१६५] नोदनाद्यागन्तुकनिबन्धनं चलनत्वम्, न तु तद्विशेषमात्राधीनमिति चेत्- यदि नोदनादयः स्वभावभूताः; ततस्तद्विशेषा एव ।
अथास्वभावभूताः; ततः सहकारिण एव ।
ततः (तथा च) तानासाद्य निर्विशेषैव शिंशपाचलनस्वभा(वत्वमा)(वान् आ)वमारभत इति ।
तथा च कुतः क्षणिकत्वसिद्धिः? [कु।१।१६६] स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भवन्तीति चेत्- एवं तर्हि वृक्षसामग्र्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपापि जायत इति न कश्चिद्विशेषः ।
[कु।१।१६७]
एवमेतत् ।
किन्तु शिंशपाजनकास्तरुसामग्रीमुपादायैव चलनजनकास्तु न तामेव; किं तु मूर्तमात्रम्; तथा दर्शनादिति चेन्मैवम्; कम्पजनकाः शिंशपाजनकविशेषा अपि सन्तस्तानतिपतन्ति; न तु वृक्षजनकविशेषाः शिंशपाजनकास्तानिति नियामकाभावात् ।
[कु।१।१६८] शिंशपाजनकास्तद्विशेषा एव ।
कम्पकारिणस्तु न तथा; किन्त्वागन्तवः[न्तुक] सहकारिण इति चेत्- एवं तर्हि तानासाद्य सदृशरूपा अपि केचित् कम्पकारिणः, अनासादितसहकारिणस्तु न तथा ।
तथा च तद्वा तादृग्वेति न कश्चिद्विशेष (६४) इति स्यात् ।
[कु।१।१६९] तस्माद्विरुद्धयोरसमावेश एव ।
समाविष्टयोश्च परापरभाव एव ।
अनेवम्भूतानां द्रव्यगुणकर्मादिभावेनोपाधित्वमात्रम् ।
तेषां तु विरुद्धानां न समावेशो व्यक्तिभेदात् ।
जातीनां च भिन्नाश्रयत्वात् ।
तथा च कुतः क्षणिकत्म्? वैजात्याभ्युपगमे च कुतो ऽनुमानवार्ता ।
[कु।१।१७०] मा भूदनुमानमिति चेन्न- तेन हि विना (६५)न तत् सिद्ध्येत् ।
न हि क्षणिकत्वे प्रत्यक्षमस्ति; तथा निश्चयाभावात् ।
गृहीतनिश्चित एवार्थे तस्य प्रामाण्यात् ।
अन्यथातिप्रसङ्गात् ।
[कु।१।१७१] ननु वर्तमानः क्षणो ऽध्यक्षगोचरः ।
न चासौ (६६) पूर्वापरक्षणात्मा ।
ततो वर्तमानत्वनिश्चय एव भेदनिश्चय इति चेत्- किमत्र तदभि[पि] मतमायुष्मतः? यदि धर्म्येव नीलादिः, न किञ्चिदनुपपन्नम्; तस्य स्थैर्यास्थैर्यसाधारण्यात् ।
अथ धर्मः “तद्भेदनिश्चये ऽपि धर्मिणः किमायातम्? तस्य ततो ऽन्यत्वात् ।
वर्तमानावर्तमानत्वमेकस्य विरुद्धमिति चेत्- यदि सदसत्त्वं तत्” तन्न; अनभ्युपगमात् ।
ताद्रूप्येणैव प्रत्यभिज्ञानात् ।
सदसत्सम्बन्धश्चेत्- किमसङ्गतम्? ज्ञानवत्तदुपपत्तेः ।
क्रमेणानेकसम्भन्ध एकस्यानुपपन्न इति चेत्- अस्तितावदतो निरूपणीयम् क्षणप्रत्ययस्तु भ्रान्तो ऽपि नास्तीति विशेषः ।
[कु।१।१७२टस्यादेतत् ।
मा भूदध्यक्ष(६७)मनुमानं वा क्षणिकत्वे; तथापि सन्देहो ऽस्तु ।
एतावतापि सिद्धं समीहितं चार्वाकस्येति चेत्- उच्यते ।
स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः ।
एकतानिश्चयो येन क्षणे, तेन स्थिरे मतः ॥१७ ॥
न्।अ हि स्थिरे तद्दर्शने वा स्वरसवाही सन्देहः; प्रत्यभिज्ञानस्य दुरपह्नवत्वात् ।
नापि तत्प्रामाण्ये; स हि न तावत्सार्वत्रिकः; व्याघातात् ।
तथा हि- प्रामाण्यासिद्धौ सन्देहो ऽपि न सिद्ध्येत्; तत्सिद्धौ वा तदपि सिद्ध्येत् ।
(६८)निश्चयस्य तदधीनत्वात् कोटिद्वयस्य चादृष्टस्यानुपस्थाने कः सन्देहार्थः? तद्दर्शने च कथं सर्वथा तदसिद्धिः ।
एतेनाप्रामाणिकस्तद्व्यवहार इति निरस्तम्; सर्वथा प्रामाण्यासिद्धौ तस्याप्यसिद्धेः? [कु।१।१७३] प्रकृते प्रामाण्यसन्देहः, लूनपुनर्जातकेशादौ व्यभिचारदर्शनादिति चेत्- न एकत्वनिश्चयस्य त्वयापीष्टत्वात् ।
अनिष्टौ वा न किञ्चित्सिद्ध्येत् ।
सिद्ध्यतु, यत्र विरुद्धधर्मविरह इति चेत्- तेनैव स्थिरत्वमपि निश्चीयते ।
स इह सन्दिह्यत इति चेत्- तुल्यमेतत् ।
क्वचिन्निश्चयो ऽपि कथञ्चिदिति चेत्- समः समाधिः ।
[कु।१।१७४] नन्वेतत् कारणत्वं यदि स्वभावो भावस्य, नीलादिवत्, तदा सर्वसाधारणं स्यात् ।
न हि नीलं (६९) कञ्चित्प्रत्यनीलम् ।
अथौपाधिकम्; तदोपाधेरपि स्वाभाविकत्वे तथात्वप्रसङ्गः ।
औपाधिकत्वे त्वनवस्था ।
अथासाधारणत्वमप्यस्य स्वभाव एव; तत उत्पत्तेरारभ्य कुर्यात्; स्थिरस्यैकस्वभावत्वादिति चेत्- उच्यते-[कु।१।१७५] हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तुसत् ।
तद्युक्तं तत्र तत् शक्तमिति साधारणं न किम् ॥१८ ॥
सर्वसाधारणनीलादिवैधर्म्येण्।अ काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम्, अन्यथा तद्वैधर्म्यैण हेतुफलभावस्यापारमार्थिकत्वानुपपत्तेः ।
न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् ।
तस्मादस्य पारमार्थिकत्वे ऽपरमपि तथा, नवोभयमपीति ।
[कु।१।१७६] ठकथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात् ।
तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषात्” इत्यपि न युक्तम्; तत्तत्सहकारिसाचिव्ये तत्तत्कार्यं करोतीति स्वभावव्यवस्थापनात् (स्वभावव्यवहारस्थापनात्) ।
इदं च साधारणमेव, सर्वैरपि तथोपलम्भात् ।
न हि नीलादेरप्यन्यत् साधारण्यमिति ।
[कु।१।१७७] स्यादेतत् ।
अस्तु स्थिरम्; तथापि नित्यविभोर्न कारणत्वमुपपद्यते ।
तथा हि- अन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण; अतिप्रसङ्गात् ।
न च नित्यविभूनां व्यतिरेकसम्भवः ।
न च सोपाधिरसावस्त्येवेति साम्प्रतम्; तथाभूतस्योपाधिसम्बन्धे ऽप्यनधिकारात् ।
जनितो हि तेन स तस्य स्यात्, नित्यो वा ।
न प्रथमः, पूर्ववत् ।
नापि द्वितीयः, पूर्ववदेव ।
तथापि चोपाधिरेव व्यतिरेकः; न तस्य; अविशेषात् ।
तद्वत इति चेत्- (न तस्य ।
अविशेषात्तद्वत इति चेत्-) न; स चोपाधिश्चेत्यतो ऽन्यस्य
तद्वत्पदार्थस्याभावात् ।
भावे वा स एव कारणं स्यात् ।
अत्रोच्यते-[कु।१।१७८] पूर्वभावो हि हेतुत्वं मीयते येन केनचित् ।
व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि ॥१९ ॥
भवेदेव।म्, यद्यन्वयव्यतिरेकावेव कारणत्वम्; किं तु कार्यान्नियतः पूर्वभावः ।
स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात्प्रमाणात् ।
अन्यथा कार्यात् कारणानुमानं क्वापि न स्यात्; तेन तस्यानुविधानानुपलम्भात् उपलम्भे वा कार्यलिङ्गानवकाशात् ।
प्रत्यक्षत एव तत्सिद्धेः ।
तज्जातीयानुविधानदर्शनात्सिद्धिरन्यत्रापि न वार्यते ।
[कु।१।१७९] तथापि कोष्ठगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्ध्येत्; अन्यत्र तथा दर्शनादिति चेन्न- बाधेन सङ्कोचात्; विपक्षे बाधकाभावेन चाव्याप्तेः ।
दर्शनमात्रेण चोत्कर्षसमत्वात् ।
अस्य चेश्वरे विस्तरो वक्ष्यते ।
सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्रविशेषे कारणत्वप्रसङ्गो बाधकमिति चेन्न- अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशेषे ऽनतिप्रसङ्गात् ।
तथा हि- कार्यं समवायिकारणवद् दृष्टमित्यदृष्टाश्रयमपि तज्जातीयकारणकम्- आश्रयाभावे किं प्रत्यासन्नम् असमवायिकारणं स्यात् ।
तदभावे निमित्तमपि किमुपकुर्यात् ।
तथा चानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् एवमपि निमित्तस्य सामर्थ्यादेव नियतदेशोत्पादे स एव देशो ऽवश्यापेक्षणीयः स्यात् ।
तथा च सामान्यतो देशसिद्धौ इतरपृथिव्यादिबाधे तदतिरिक्तसिद्धिं को वारयेत् ।
एवमसमवायिनिमित्ते चोहनीये ।
[कु।१।१८०] इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितः मूलत्वात्प्रकृतिः प्रबोधभयतो ऽविद्येति यस्योदिता ।
देवो ऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम ॥२० ॥
इति श्रीन्यायकुसुमाञ्जलौ प्रथमः स्तबकः ॥