मङ्गलम्
विश्वास-प्रस्तुतिः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
Eng A
Having placed in my heart the Lord of the World, and having saluted my preceptor,
मूलम्
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
विश्वास-प्रस्तुतिः
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥
Eng A
For the pleasant comprehension of the uninstructed, I compose the Compendium of Logical Results.
मूलम्
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥
दीपिका
विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम्।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम्॥
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक_इष्टदेवतानमस्कारात्मकं मङ्गलं शिष्टशिक्षायै ग्रन्थतो निबन्ध्नंश्चिकीर्षितं प्रतिजानीते, निधायेति । ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति। मङ्गले कृतेऽपि कादम्बर्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न, कादम्बर्यादौ विघ्नबाहुल्यात्समाप्त्यभावः। किरणावल्यादौ ग्रन्थाद्बहिरेव मङ्गलं कृतमतो न व्यभिचारः। ननु मङ्गलस्य (ग्रन्थादौ) कर्तव्यत्वे किं प्रमाणमिति चेत् न। शिष्टाचारानुमितश्रुतिरेव प्रमाणत्वात्। तथा हि मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत्। भोजनादौ व्यभिचारवारणाय अलौकिकेति। रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति। शिष्टपदं स्पष्टार्थम्। न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात्। तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः, द्रव्यादिपदार्थास्तेषां सङ्ग्रहः सङ्क्षेपेण स्वरूपकथनं क्रियत इत्यर्थः। कस्मै प्रयोजनायेत्यत आह, सुखबोधायेति। सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः। ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वोऽयं ग्रन्थः क्रियत इत्यत आह, बालानामिति। तेषामतिविस्तृतत्वाद्बालानां बोधो न जायत इत्यर्थः। ग्रहणधारणपटुर्बालः न तु स्तनन्धयः। किम् कृत्वा क्रियत इत्यत आह, निधायेति। विश्वेशं जगन्नियन्तारं हृदि निधाय नितरां स्थापयित्वा सदा तद्ध्यानपरो भूत्वेत्यर्थः। गुरूणां विद्यागुरूणां, वन्दनं नमस्कारं, विधाय कृत्वेत्यर्थः॥