Intro
Nyayavatara, with Nyayavataravivrti: plain text version
Siddhasena Mahamati: Nyayavatara,
with the Nyayavataravivrti commentary by Siddharsi-ganin
Based on the ed. by Piotr Balcerowicz: Jaina Epistemology in Historical and Comparative Perspective : Critical Edition and English Translation of Logical-Epistemological Treatises: Nyāyāvatāra, Nyāyāvatāra-vivṛti and Nyāyāvatāra-ṭippana with Introduction and Notes.
2 Volumes. Second revised edition, Motilal Banarsidass, New Delhi 2008.
Input by Piotr Balcerowicz
p.balcerowicz@uw.edu.pl
[GRETIL-Version vom 27.3.2015]
STRUCTURE OF REFERENCES (added):
NA_nn = Nyāyāvatāra_verse
NAV_nn.nn:nn = Nyāyāvatāra-Vivṛti_NA-verse.NAV-section:verse quoted in NAV
PLAIN TEXT VERSION
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
पाठः
- तर्कपञ्चाननश्रीसिद्धसेनमहामतिविरचितः *
सिद्धसेनमहामति-न्यायावतारः
श्रीदेवभद्रसूरिकृतटिप्पनसंवलितश्रीसिद्धर्षिगणिकृतटीकासहितः
अवियुतसामान्यविशेषदेशिनं वर्धमानम् आनम्य ।
न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥ नव्_०:० ॥
[नव्_०।०] अस्य चेदम् आदिवाक्यम्:
[नव्_०] प्रमाणव्युत्पादनार्थम् इदम् आरभ्यते।
[नव्_०।१] प्रमाणेत्यादि अनेन च तादात्म्यतदुत्पत्तिलक्षणसम्बन्धविकलतया ध्वनेर् बहिरर्थं प्रति प्रामाण्यायोगाद् अभिधेयादिसूचनद्वरोत्पन्नार्थसंशयमुखेनश्रोतारः श्रवणं प्रति प्रोत्साह्यन्त इति धर्मोत्तरो मन्यते। तद् अयुक्तम्। यदि हि शब्दस्यार्थप्रकाशनं प्रति सामर्थ्यं न समस्ति, तत् कथम् असाव् अभिधेयादिसूचने ऽपि पटिष्ठः स्यात्? न च तस्याप्रामाण्य एतच्छ्रवणाद् अर्थसंशयं कुर्वन्ति प्रेक्षावन्तः, तद्वत्ताहानेर् मिथ्याज्ञानाद् अपि प्रवृत्त्यविरामप्रसङ्गाच् च। अर्चटस् त्व् आह: “न श्रावकोत्साहकम् एतत्, प्रामाण्याभावात्, तेषां चाप्रमाणाद् अप्रवृत्तेर्, अन्यथा प्रेक्षावत्ताक्षतेः, किं तर्हि प्रकरणार्थकथनावसरोपस्थितपरोपन्यस्तहेत्वसिद्धतोद्भावनार्थम्। तथा हि: सम्भवत्य् एवंवादी – नारब्धव्यम् इदम् अभिधेयादिशून्यत्वात्, काकदन्तपरीक्षादिवद् इति; तद् अनेनास्य तद्वत्ताप्रकाशकेन वचसा तद्धेतूनाम् असिद्धतोद्भाव्यत” इति। तद् अयुक्ततरम्: यतो यदीदम् अप्रमाणम् इति नाभिधेयादीनि साक्षाल् लक्षयत् प्रवर्तयति, ततः परोपन्यस्तहेत्वसिद्धतां कथयतीति युक्तिरिक्तं पश्यामः, अप्रमाणस्याकिञ्चित्करत्वाद्, अन्यथा प्रमाणविचारणम् आनर्थक्यम् अश्नुवीत। तस्माद् इदं प्रमाणभूतं सदभिधेयादीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयतीति प्रकरणादाव् उपन्यस्तम्।
[नव्_०।२] सम्बन्धशून्यत्वाद् अस्य कथम् अर्थे प्रमाणतेति चेत्, प्रत्यक्षे ऽपि कथं तर्हि सेति वाच्यम्। ग्राह्यग्राहकभावसम्बन्धबलाद् इति चेद्, अत्रापि वाच्यवाचकभावाद् इति ब्रूमः। स एव कथम् इति चेद्, अध्यक्षे ऽपि वेद्यवेदकभावः कथम् इति वाच्यम्। तदुत्पत्तितदाकारताभ्याम् इति चेत्, केयं तदुत्पत्तिर् नाम? तज्जन्यतेति चेत्, प्रतिक्षणभङ्गुरत्वे साइव दुरुपपादेत्य् आचक्ष्महे। तथा हि: क्षणनश्वरो ऽर्थः स्वक्षणे पूर्वं पश्चाद् वा कार्यं कुर्याद् इति त्रयी गतिः। तत्र न तावद् आद्यः पक्षः कक्षीकरणीयः, समकालभाविनि व्यापाराभावात्, इतरथाइकक्षणवर्तिनां समस्तार्थक्षणानाम् इतरेतरं कार्यकारणभावः प्रसज्येत, तथा च तत्प्रयुक्तो ग्राह्यग्राहकभावश् चेत्य् असमञ्जसम् आपनीपद्येत। अथ स्वक्षणात् पूर्वम् – अचार्व् एतद् अपि, स्वयम् असतो भविष्यच्छङ्खचक्रवर्त्यादेर् इव पूर्वकालवर्तिनि कार्ये व्यापाराभावात्। अथ स्वक्षणाद् ऊर्ध्वं कार्यं विधत्त इति मन्येथाः, एतद् अप्य् असाधीयो, विनष्टस्य कार्यकरणाक्षमत्वाद्, अन्यथा मृतस्य शिखिनः केकायितं स्यात्। तदाकारतापि किम् अर्थाकारसङ्क्रान्त्या? अथ तत्सदृशतयोत्पत्तेर् ज्ञानस्येति? यद्य् आद्यः कल्पस् तद् अयुक्तम्, ज्ञाने स्वाकारार्पणाद् अर्थस्य निराकारतानुषङ्गात्, स्वदेहपृथुतरार्थादर्शनप्रसङ्गात्, शिरःस्फोटनप्लावनाद्यनर्थप्रसक्तेश् च। उत द्वितीयस्: तथा सति सादृश्यवशाद् अर्थव्यवस्थेत्य् आयातम्। न च सादृश्यं भवतां दर्शने तात्त्विकम् अस्ति, विविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणानां पारमार्थिकत्वाभ्युपगमात्। अनादिकालालीनवासनाप्रबोधसम्पादितसत्ताकनिर्विकल्पकविविक्तदर्शनोत्तरकालभाविविकल्पव्यवस्थापितसादृश्यवशाद् अर्थग्रहणनियमे सत्य् एकनीलस्वलक्षणे क्षणे सकलकालकलापव्यापिकाककुवलयादिगतनीलताया व्यवस्थितिर् अविशेषेणानुषजेत, तथा च प्रतिनियतो ग्राह्यग्राहकभावो न घटामटाट्येत। अङ्गुल्यग्रनिर्दिश्यमानपुरोवर्तिनीलस्वलक्षणदर्शनबलायातत्वान् नैल्यविकल्पस्य तद् एवाध्यवस्यति, न भूतं भावि काककुवलयादिगतं वेति चेत्, तर्हि विकल्पः स्वलक्षणनिष्ठः प्राप्तो, नियतदेशदशावच्छिन्नार्थक्रियासमर्थार्थग्रहणात्। तथा हि: तदध्यवसायः किं तद्विकल्पनं उत तद्ग्रहणम्? न तावत् तद्विकल्पनम्, विकल्पानां भवदभिप्रायेण स्वलक्षणान्तःप्रवेशाभावात्। तद् उक्तम्:
“तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः ।
शब्दाश् च बुद्धयश् चाइव वस्तुन्य् एषाम् असम्भवात्” ॥ नव्_०:१ ॥
इति।नव्_०।
[नव्_०।३] अथ ब्रूयाद्: यद्य् अपि विकल्पाः सामान्यं गोचरयन्ति तत्त्वतस्, तथापि प्रत्यक्षविकल्पयोर् यौगपद्येन प्रवृत्तेर् विमूढः प्रतिपत्ता विकल्पस्य स्वलक्षणनिष्ठतां व्यवस्यति, तथा चोक्तम्:
“मनसोर् युगपद्वृत्तेः सविकल्पाविकल्पयोः ।
विमूढो लघुवृत्तेर् वा तयोर् ऐक्यं व्यवस्यति” ॥ नव्_०:२ ॥
तत् किम् इदं शपथैः प्रत्येयम्, यद् उत मोहाद् विकल्पेन स्वलक्षणम् अध्यवस्यति, न पुनर् विशदनिर्भासेन साक्षात्करोति? एवं चाध्यक्षम् अपि सकलार्थव्यक्तीर् गोचरयति, विकल्पमोहात् तु सन्निहितविषयं लक्ष्यत इति परो ऽनुषञ्जयन् दुर्निवारः स्यात्। उत तद्ग्रहणम् अध्यवसायः, तदा स्वलक्षणनिष्ठता विकल्पस्य स्ववाचा भवद्भिः प्रतिपन्ना स्यात्। एवं च विकल्पयुगलके ऽप्य् अर्थक्रियासमर्थार्थपर्यवसितसत्ताकता विकल्पस्याढौकते। यदा च विकल्पः स्वलक्षणसौधमध्यम् अध्यास्त इत्य् अभिदध्यास्, तथा सति ध्वनेर् अपि तदन्तःप्रवेशो दुर्निवारः स्यात्, तत्सहचरत्वात्। यद् आह भवदाचार्यः: “स एव शब्दानां विषयो यो विकल्पानाम्” इति। न च विकल्पं व्यतिरिच्य सादृश्यव्यवस्थापकम् अन्यद् अस्ति, प्रत्यक्षस्य सकलजगद्विलक्षणस्वलक्षणग्रहणप्रवणत्वात्। तद् यदि तत्सदृशतयोत्पत्तिस् तदाकारता, तदा प्रतिपादितन्यायाद् विकल्पस्य सन्निहितार्थगोचरतोररीकर्तव्या, तथा च ध्वनिर् अपि तद्विषयः सिध्यतीति सिद्धं नः समीहितम्। अन्यथा तदाकारता न समस्ति, गत्यन्तराभावात्। तन् न तदुत्पत्तितदाकारते ग्राह्यग्राहकभावहेतू संस्तः।
[नव्_०।४] संस्तां वा, तथापि विकल्पतः पर्यनुयोज्यो भवान्: किम् एते ग्रहणकारणं पार्थक्येन उत सामस्त्येन? तद् यद्य् आद्यः पक्षः, कपालक्षणो घटान्त्यक्षणस्य ग्राहकः प्राप्नोति, तज्जन्यत्वात्, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः स्यात्, तदाकारत्वात्। अथ द्वितीयस्, तथा सति घटोत्तरक्षणः पूर्वक्षणस्य ग्राहकः प्रसजति, तदुत्पत्तेस् तदाकारत्वाच् च। जडत्वाद् अर्थस्य न ग्राहकत्वम्, अपि तु ज्ञानस्य तदुत्पत्तितदाकारतयोः सत्योर् इति चेद्, इदम् इदानीं विदितम् अस्माभिर्, एतद् अपि समानार्थग्राहिप्राचीनसंवेदनक्षणलक्षणमनस्कारोत्पाद्यज्ञाने ग्राहकलक्षणं व्यभिचरत्य्, उत्पादकप्राक्तनक्षणवर्तिमनस्काराग्राहकत्वात्। तदध्यवसायसाहित्येन तदुत्पत्तितदाकारतयोर् ग्रहणकारणत्वं सम्पूर्णम्, मनस्कारे तन् नास्तीति चेत्, किम् इदं भिन्नगोचरेण सह साहित्यम्? तथा ह्य्: “अध्यवसायो वासनाप्रबोधवशाद् उत्पन्नः सामान्यम् अनर्थरूपं विकल्पयति, प्रत्यक्षं बहिरर्थाल् लब्धात्मलाभं तदाकारं तम् एव साक्षात्करोतीति” भवतां दर्शनम्। तन् न विकल्पसाहित्यं प्रत्यक्षस्य कञ्चन विशेषं पुष्णाति। तद् इदम् ग्राह्यग्राहकभावकारणं प्रत्यक्षे ऽपि यद् भवद्भिर् अभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्य् अनपेक्षणीयम्। तद् – यथा कथञ्चित् प्रत्यक्षस्य प्रतिपादितग्राह्यग्राहकभावलक्षणवैकल्ये ऽपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वम्, तथा दृष्टत्वात्, अन्यथा निखिलव्यवहारोच्छेदप्रसङ्गाद् भवद्भिर् अपि प्रत्यपादि, तथा शब्दस्य वाचकत्वम् अर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम्; अत्रापि दृष्टहानेर् व्यवहारोच्छेदस्य समानत्वात्। अथेत्थम् आचक्षीथाः: यथा “नद्यास् तीरे गुडशकटं पर्यस्तम्, धावत धावतडिम्भका” इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भभाजो जायन्ते, ऽतः सकलवचनेष्व् अनाश्वास इति – एवं तर्हि चिकिचिकायमानमरुमरीचिकाचक्रचुम्बि यज् जलोल्लेखि विशददर्शनम् उदयपदवीं समासादयति तद् अलीकम् अवलोकितम् इति; सकलाध्यक्षेष्व् अनाश्वास इत्य् अभिदध्महे। पाश्चात्यविपरीतार्थोपस्थापकप्रमाणबाधितत्वाद् मरुमरीचिकासु जलज्ञानम् अप्रमाणम्, न शेषसत्यस्तम्भादिज्ञानानि, बाधारहितत्वाद् इति चेत्, तर्हि ध्वनाव् अप्य् अयं न्यायः किं काकैर् भक्षितः? न हि वयं सर्वशब्दानां प्रामाण्यं प्रतिपद्येमहि; किं तर्हि सुनिश्चिताप्तप्रणेतृकाणाम् एव। तन् न प्रामाण्यं प्रति प्रत्यक्षशब्दयोर् विशेषम् उपलभामहे। एष तु विशेषः स्यात्, प्रत्यक्षं चक्षुरादिसामग्रीविशेषजन्यत्वात् सन्निहितनियतार्थग्राहि स्पष्टप्रतिभासम्, शाब्दं तु तथाविधकारणविकलत्वान् नियतानियतार्थग्राह्य् अस्पष्टप्रतिभासम्। न चाइष विशेषः प्रामाण्यक्षतिकारी, इतरथानुमानस्याप्य् अप्रामाण्यम् आसज्येत, तस्याप्य् अविशदानियतार्थग्राहित्वात्। परमार्थतस् तु त्रिकालव्यापिनः सर्वार्थग्रहणस्वभावत्वे ऽप्य् आवरणतिरस्कृतस्य जीवद्रव्यस्य चक्षुरादिसामग्रीसापेक्षावरणक्षयोपशमवशात् सन्निहितस्पष्टार्थग्रहणपरिणामः प्रत्यक्षम् इत्य् उच्यते। शब्दसापेक्षक्षयोपशमान् नियतानियताविशदार्थग्रहणपरिणामस् तु शाब्दम् इति। तन् न तदुत्पत्तितदाकारते प्रत्यक्षे शाब्दे ऽन्यस्मिन् वा ज्ञाने वास्तव्यौ स्तः। तस्मात् पारमार्थिकाभिधेयप्रयोजनसम्बन्धप्रतिपादकम् एतद् आदिवाक्यम् इति स्थितम्।
[नव्_०।५] तत्राभिधेयं वाच्यम्, तच् चेह प्रमाणम्, तस्याइव प्रकरणेन प्रतिपाद्यत्वात्; तत् प्रमाणेत्य् अवयवेन लक्षयति। प्रयोजनं द्वेधा: श्रोतुः कर्तुश् च। पुनर् अपि द्विविधम्: अनन्तरं व्यवहितं च। तत्र श्रोतुर् अनन्तरप्रयोजनं प्रमाणविषया व्युत्पत्तिः, कर्तुर् व्युत्पद्यमानस्य प्राज्ञत्वाच् छिष्यस्य व्युत्पादनम्। तत्रात्मप्रयोजनं दर्शयन्न् आ[हा]रभ्यत इति अस्य मयेतिपदसव्यपेक्षत्वात्। शिष्यप्रयोजनं तु व्युत्पदित्य् अनेनोपसर्गधातुसमुदायेनाइव तदन्तरगतं लप्स्यत इत्य् अभिप्रायवान् कर्तात्मव्यापारं णिजन्तेन निर्दिशति: प्रमाणव्युत्पादनार्थम् इति। व्यवहितप्रयोजनं द्वेधा: व्यावहारिकं पारमार्थिकं च। व्यावहारिकं हेयोपादेयोपेक्षणीयेष्व् अर्थेषु हानोपादानोपेक्षालक्षणम्। पारमार्थिकं अभ्युदयनिःश्रेयसावाप्तिर् इति। एतत् तु साक्षाद् अनुक्तम् अप्य् अनन्तरप्रयोजनफलत्वात् तद्वचनेनाइवाक्षिप्तम् अवगन्तव्यम्। सम्बन्धस् तूपायोपेयलक्षणः; तत्रोपेयं प्रकरणार्थपरिज्ञानम्, प्रकरणम् उपायस्, ततस् तदभिलषता प्रकरणम् इदम् आरम्भणीयम् इत्य् अनुक्तो ऽपि वचनेन सम्बन्धो ऽर्थाद् गम्यत इति तात्पर्यार्थः।
[नव्_०।६] अधुनाक्षरार्थो विव्रियते: तत्र यद्य् अपि प्रमाणशब्दस्य सर्वकारकैर् भावेन च व्युत्पत्तेः सुकरत्वात् “कृत्यल्युटो बहुलम्” अन्यत्रापीतिवचनाद् यथाक्रमम् अमी कर्त्रर्थादिकारकभावव्युत्पत्त्या प्रमाणशब्दवाच्याः, तद् यथा आत्मार्थज्ञानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः तथापीह ज्ञानम् एवाधिक्रियते, तस्याइव परीक्षाक्षमत्वाद्; इतरेषां परीक्षायास् तत्पुरःसरत्वाद् वैयर्थाच् च। तथा हि: नार्थस् तावद् आत्मनः परीक्षया, तस्य भ्रान्ताभ्रान्तज्ञानेषु समानत्वात्। नाप्य् अर्थस्य, तस्योपेयत्वाद्, उपायभूतज्ञानपरीक्षणेनाइव गतत्वात्। नार्थक्रियायास्, तदवगतौ परीक्षावैयर्थ्यात्। नापि कारणकलापस्य, ज्ञानोत्पत्तेः प्राक् स्वरूपानवगतेः, पश्चात् तत्स्वरूपनिर्णयाद् एव तत्साद्गुण्यवैगुण्यावगतेर् नैरर्थक्यात्। नापि क्षयोपशमस्य, तस्य ज्ञानोत्पादोन्नीयमानरूपत्वात्। नापि प्रमितिमात्रस्य, तस्य प्रमाणसाध्यतया तच्चारुताद्वारेणाइव समीचीनतासिद्धेर् इति। तद् अयम् अभिप्रायो: यद्य् अप्य् अनन्तधर्माध्यासिते वस्तुनि सर्व एव शब्दार्था निरुपचरिता घटन्ते, तथापि येनार्थं परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते प्रमातारस् तद् एवेह ज्ञानम् आत्मना सह धर्मिरूपतया तादात्म्ये ऽपि धर्मरूपतया व्यतिरिक्तं प्रमीयते ऽनेनेति प्रमाणम् इत्य् उच्यते। तस्य व्युत्पादनं परपरिकल्पितलक्षणादिव्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपप्रकाशनम्। तदर्थम्: अर्थशब्दः प्रयोजनपर्यायः। इदम् इत्य् अर्थरूपतया स्वचेतसि विवर्तमानं प्रकरणशरीरं परामृशति; द्विविधं हि प्रकरणशरीरम्: शब्दो ऽर्थश् चेति, बहिः शब्दरूपतया प्रकाशयिष्यमाणत्वे ऽप्य् अन्तस् तत्त्वार्थाकारेण प्रत्यक्षत्वात्। आरभ्यत इति पदवाक्यश्लोकादिरचनया प्रक्रियत इति यावत्।
[नव्_०।७] इह च लक्षणसङ्ख्यागोचरफलेषु प्रमाणं प्रति विप्रतिपद्यन्ते परे। तथा हि: लक्षणे तावत् प्रमाणम् अविसंवादि ज्ञानम् इति सौगताः। अनधिगतार्थाधिगन्तृ प्रमाणम् इति मीमांसकाः। अर्थोपलब्धिहेतुः प्रमाणम् इति नैयायिकादयः। तथा सङ्ख्यायाम्: प्रत्यक्षानुमाने द्वे एव प्रमाणे इति सौगताः। प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः प्रमाणानीति मीमांसकाः। प्रत्यक्षानुमानशब्दोपमानानि प्रमाणानीति नैयायिकाः। प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिकाः। एतान्य् एव साङ्ख्याः। प्रत्यक्षम् एवाइकं प्रमाणम् इति चार्वाकाः। तथा गोचरे: परस्परविनिर्लुठितक्षणक्षयिपरमानुलक्षणानि स्वलक्षणानि प्रमाणगोचरस् तात्त्विक इति बौद्धाः। सामान्यविशेषात्मकं वस्त्व् इति मीमांसकाः। परस्परविभक्तौ सामान्यविशेषाव् इति नैयायिकवैशेषिकाः। त्रैगुण्यरूपं सामान्यम् इति साङ्ख्याः। भूतचटुष्टयं प्रमाणभूमीति चार्वाकाः। तथा फले ऽपि विप्रतिपद्यन्ते: अर्थाधिगतिः प्रमाणफलम् इति सौगताः। पूर्वं पूर्वं प्रमाणम् उत्तरम् उत्तरं तु फलम् इति मीमांसकादयः।
[नव्_१।०] तत्र तावल् लक्षणसङ्ख्याविप्रतिपत्ती निराचिकीर्षुर् आह:
प्रमाणं स्वपराभासि ज्ञानम्, बाधविवर्जितम् ।
प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥ न_१ ॥
[नव्_१।१] तत्रापि पूर्वार्धेन लक्षणविप्रतिपत्तिम् उत्तरार्धेन तु सङ्ख्याविप्रतिपत्तिं निराचष्टे। लक्षणं च पररूपेभ्यो व्यावर्तनक्षमो ऽसाधारणधर्मः। लक्ष्यते परिच्छिद्यते विजातीयेभ्यो व्यावृत्तं लक्ष्यं येन तल् लक्षणम् इत्य् उच्यते। तच् चेह द्वये प्रत्याय्याः, स्वदर्शनानुरक्तान्तःकरणास् तीर्थान्तरीया विप्रतिपन्नास्, तथा मुग्धबुद्धयो लौकिका अव्युत्पन्नाश् चेति। ततश् च यदादौ विप्रतिपन्नान् प्रति लक्षणं तदाइवं लक्ष्यलक्षणभावो द्रष्टव्यो: यद् इदं भवताम् अस्माकं च प्रमाणम् इति प्रसिद्धम्, तत् स्वपराभासि ज्ञानं बाधविवर्जितं मन्तव्यम्; प्रसिद्धं प्रमाणम् अनूद्याप्रसिद्धं स्वपराभासित्वादि विधीयते। यदा त्व् अव्युत्पन्नमतीन् प्रतीदं लक्षणम्, तदा प्रतिप्राणि स्वपरप्रकाशिनो ज्ञानस्य बाधरहितस्य कस्यचित् सिद्धत्वाद्, अन्यथा प्रतिनियतव्यवहारोच्छेदप्रसङ्गाद्, एवं ते बोध्यन्ते: यद् अदो भवतां क्वचिन् नियतार्थग्राहि स्वपरप्रकाशकं बाधरहितं ज्ञानं प्रसिद्धं तत् प्रमाणम् इति बुध्यन्ताम्। अत्रापि सिद्धस्यानुवादो ऽसिद्धस्य विधानं योज्यम्।
[नव्_१।२] अधुनाक्षरार्थस्: तत्र प्रमाणम् इति पूर्ववत्। स्व आत्मा स्वरूपम्, परो ऽर्थस्, ताव् आभासयितुं प्रकाशयितुं शीलम् यस्य तत्तथा। ज्ञायते निर्णीयते तत्त्वं येन तज् ज्ञानम्। बाध्यते ऽनेनेति बाधः; विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिर् इति यावत्। तेन विशेषेण वर्जितं रहितं यज् ज्ञानं तत् प्रमाणम् इति सण्टङ्कः।
[नव्_१।३] इह च व्यवच्छेद्यापेक्षया लक्षणे विशेषणप्रवृत्तेः स्वपराभासीत्य् अनेन ये स्वाभास्य् एव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेषाः, ये च पराभास्य् एव मीमांसकनैयायिकादयस् ते निरस्ताः। ते हि बहिरर्थाभावाज् ज्ञानं स्वांशपर्यवसितसत्ताकम् इत्य् आचक्षीरन्, तद् अयुक्तम्, ज्ञेयार्थाभावे ज्ञानाभावप्रसङ्गात्। अथार्थाभावे ऽपि स्वप्नदशायां वनदेवकुलादिनानाप्रतिभासं ज्ञानम् अवलोकितम् इति तथाभूतं सकलं ब्रूषे, तन् न, तस्यापि जाग्रदवस्थाभाविसद्भूतार्थदर्शनसम्पादितात्मसंस्कारमिद्धादिकारणकलापसन्निधानप्रबोधसव्यपेक्षत्वाद्; इतरथात्यन्ताननुभूतभूतपञ्चकातिरिक्तषष्ठभूतप्रतिभासः स्यात्। किं च, कथम् एकं ज्ञानं सितपीताद्यनेकाकारविवर्तम् इति प्रष्टव्यो भवान्। अनाद्यविद्यावासनाद् इति चेद्, अत्रापि विकल्पयुगलम् अमलम् अवतरति: ततो ज्ञानात् सा वासना व्यभैत्सीद् वा न वा? व्यत्यरैक्षीच् चेद्, एवं सति तद्ग्राहकप्रमाणम् अभिधानीयम्, ज्ञानव्यतिरिक्तायाः संवेदनाभावात्, तत्संवेदने चार्थस्यापि व्यतिरिक्तस्य संवेदनम् इति स दुष्प्रतिषेधः स्यात्। वेद्यवेदकाकारकलुषिताज् ज्ञानाद् एव व्यतिरिक्ता तत्कारणभूता ज्ञानरूपाइव सानुमीयत इति चेन्, न, तया सह सम्बन्धग्रहणाभावाद्, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गाच् च। किं च, यथा व्यतिरिक्तवासनावशाद् एकम् अपि ज्ञानं नानाकारम्, तथा जडम् अपि तद्वशाद् एव बोधरूपं प्रकाशत इति विपरीतापत्तेर् अर्थ एव सिद्धिम् आस्कन्देन्, न ज्ञानम्। अथाव्यतिरिक्ता, हन्त ज्ञानम् एव तन्, न वासना तदव्यतिरिक्तत्वात् तत्स्वरूपवद् इत्य् आस्तां तावत्। पराभास्य् अपि स्वप्रकाशाभावाद् अभिदधीरंस्, तद् अप्य् असम्बद्धम्, स्वप्रकाशाभावे परप्रकाशायोगात्। न हि प्रदीपः स्वरूपम् अनुद्द्योतयन् घटाद्युद्द्योतने व्याप्रियते। स्वयं चाप्रतीतम् अपि यद्य् अर्थं ग्राहयति ज्ञानम्, देवदत्तस्योत्पन्नं यज्ञदत्तं ग्राहयेद्, विशेषाभावात्। अन्यच् च, परप्रकाशनमात्रे दूरासन्नादिभेदः प्रथमानानाम् अर्थानां किमपेक्षश् चकास्ति? शरीरापेक्ष इति चेन्, न, तस्यापि प्रकाश्यताविशेषात्, तस्माद् अन्तर्मुखाकारस्य बहिरर्थग्रहणे सत्य् अयं घटाम् आटीकते नान्यथा। अथार्थापत्त्यादिना प्रमाणान्तरेण तद् अन्तर्निविष्टं गृह्यते, ततस् तदपेक्षया योक्ष्यते दूरासन्नादिभेद इति चेन्, न, तत्रापि विकल्पयुगलकानतिवृत्तेः; तथा हि: तत् प्रमाणान्तरं स्वप्रकाशम् अन्यप्रकाशं वा? स्वप्रकाशं चेत्, प्रथमस्य किं क्षूणम्?! अन्यप्रकाशं चेत्, तत्रापीयम् एव वार्तेत्य् अनवस्था। तस्मात् स्वरूपम् अवभासयद् एव ज्ञानम् अर्थग्रहणाय व्याप्रियत इति स्थितम्।
[नव्_१।४] ज्ञानम् इत्य् अनेन तु यन् नैयायिकादिभिः पर्यकल्पि सन्निकर्षः प्रमाणम् इति तस्य प्रामाण्यं निरस्यति। यतः स्नानपानावगाहनाद्यर्थक्रियानिर्वर्तनक्षमम् अर्थं निश्चित्याव्यवधानेन प्रवर्तन्ते प्रमातारस् तद् एव ज्ञानं प्रमाणम्, न सन्निकर्षो जडतयास्ति, अव्यवहितनिर्णयाभावाद् इत्य् आकूतम्। अर्थोपलब्धिहेतुत्वात् तस्य प्रामाण्यम् इति चेद्, विशीर्णेदानीं प्रमाणेयत्ता, देहादेर् अपि तत्कारणतया प्रामाण्यापत्तेर् इत्य् आस्तां तावत्।
[नव्_१।५] बाधविवर्जितम् इत्य् अमुना तु यत् तिमिरादितिरस्कृतनयनदीधितिप्रसरादीनां नभस्तलावलम्बिनिशीथिनीनाथद्वयादिप्रतिभासम्, यच् च कुतर्कभ्रान्तचेतसां निजनिजदर्शनाकर्णनप्रभवं क्षणक्षयिसामान्यविशेषाइकान्तेश्वरादिकृतभुवनप्रतिभासं ज्ञानं तत्प्रत्यनीकार्थप्रत्यायकप्रमाणान्तरोपनिपातप्लावितत्वात् प्रतिक्षिपति। विशेषार्थविशब्दोपादानात् तु यः खलु बहुलकामलावलेपलुप्तलोचनबलानां धवले जलजे पीतिमानम् आदधानो बोधः समुल्लसति, स यद्य् अपि सकलकालं तद्दोषाव्युपरमे प्रमातुर् निजदर्शनेन न बाध्यते, तथापि तज्जलजधवलताग्राहिना जनान्तरदर्शनेन बाधितत्वान् न प्रमाणम् इत्य् उक्तं भवति।
[नव्_१।६] समस्तलक्षणेन तु यत् परे प्रत्यपीपदन्न् “अनधिगतार्थाधिगन्तृ प्रमाणम्”, “अविसंवादकं प्रमाणम्”, “अर्थोपलब्धिहेतुः प्रमाणम्” इत्यादि तन् निरास्थत्। तथा ह्य्: अनधिगतार्थाधिगन्तृत्वं किम् अभिधीयते? ज्ञानान्तरेणानधिगतम् अर्थं यद् अधिगच्छति तत् प्रमाणम् इति चेत्, तर्हि तज् ज्ञानान्तरं परकीयं स्वकीयं वा? तद् यदि परकीयम्, तद् अयुक्तम्, सर्वज्ञज्ञानस्य सकलार्थगोचरतया सर्वप्राकृतलोकज्ञानानाम् अधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गात्, तदर्थग्राहिजनान्तरदर्शनसम्भवाच् च। अथ स्वकीयम्, तत्रापि सो ऽधिगम्यो ऽर्थः किं द्रव्यम् उत पर्यायो यद् वा, द्रव्यविशिष्टः पर्यायः पर्यायविशिष्टं वा द्रव्यम् इति, तथा किं सामान्यम् उत विशेष, आहोस्वित् सामान्यविशिष्टो विशेषः, विशेषविशिष्टं वा सामान्यम् इत्य् अष्टौ पक्षाः। तत्र यद्य् आद्यम् उररीकुरुषे, तद् अयुक्तम्, द्रव्यस्य नित्यत्वाइकत्वाभ्याम् अनधिगतांशाभावात्। अथ द्वितीयम्, तद् अप्य् अचारु, पर्यायस्य प्राचीनसंवेदनोदयसमयध्वस्तस्य संवेदनान्तरप्रभवकालं यावत् प्रतीक्षणासम्भवेन विशेषणानर्थक्यात्। उत तृतीयम्, तद् अप्य् असाधीयो, विकल्पद्वयानतिक्रमात्। स हि द्रव्यविशिष्टः पर्यायः समकालभाविना ज्ञानेनानधिगतो ऽधिगम्यते, यद् वा कालान्तरभाविनेति। न तावत् समकालभाविना, तत्सम्भवाभावेन विशेषणवैफल्यात्। न हि सम्भवो ऽस्त्य् एकस्य प्रमातुर् एककालं द्रव्यक्रोडीकृताइकपर्यायविषयसंवेदनद्वयवृत्तेः, तथानुभवाभवात्, परस्परम् अधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गाच् च। नापि कालान्तरभाविना, गृह्यमाणपर्यायस्य कालान्तरानास्कन्दनात्, पूर्वोत्तरक्षणत्रुटितवर्तमानक्षणमात्रसम्बद्धत्वात् तस्य। एतेन पर्यायविशिष्टद्रव्यपक्षो ऽपि प्रतिव्यूढः, समानयोगक्षेमत्वात्। अथ सामान्यम्, तद् अप्य् असम्बद्धम्, तदेकतया प्रथमज्ञानेन साकल्यग्रहणाद् उत्तरेषां सामान्यज्ञानानाम् अधिगतार्थगोचरतयाप्रामाण्यप्रसङ्गात्। अथ विशेषः, स नित्यो ऽनित्यो वेति वक्तव्यम्। नित्यश् चेद्, एवं सत्य् आद्यसंवेदनेनाइव तस्य सामस्त्यग्रहणाद् उत्तरेषां तद्विषयाणाम् अधिगतगोचरत्वेनाप्रामाण्यप्रसक्तिः। अनित्यश् चेत्, पर्यायदूषणेन प्रतिक्षिप्तिः। अथ सामान्यविशिष्टो विशेषः, कास्य विशिष्टता: किं तादात्म्यम् उत तत्सन्निधिमात्रम्? तादात्म्यं चेत्, प्रथमज्ञानेन सामान्यवत् तस्यापि ग्रहःआत्, अन्यथा तादात्म्यक्षतेस्, तद्विषयान्यज्ञानानाम् अप्रामाण्यं प्रसज्येत। तत्सान्निध्यपक्षे तु द्वयोर् अपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चाल्लग्नं धावति। विशेषविशिष्टसामान्यपक्षे पुनर् एतद् एव विपरीतं योज्यम्। तन् नानधिगतार्थाधिगन्तृत्वं ज्ञानस्य कथञ्चिद् विचारभारगौरवं सहत इत्य् अलक्षणम् इति स्थितम्। अविसंवादकत्वम् अधुना विचार्यते: तत् किं प्रदर्शितार्थप्राप्त्याहोस्विद् प्राप्तियोग्यार्थोपदर्शकत्वेन उताविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति? यदि प्रथमः कल्पस्, तद् अयुक्तम्, जलबुद्बुदादिमुमूर्षुपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः, प्राप्तिकाले तस्य ध्वस्तत्वात्। अथ द्वितीयस्, तद् अप्य् अचारु, प्राप्त्ययोग्यदेशस्थितग्रहनक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तेर्, अनुचितदेशावस्थानेनाइव प्राप्त्यनर्हत्वात् तेषाम्। अथ तृतीयः पक्षस्, तत्राप्य् अविचलितविषयतां कथम् अवैषि? ज्ञानान्तरेण तद्विषयनिराकरणाभावाद् इति चेद्, एतद् एवास्माभिर् उदितम्; किं भवतः परुषम् आभाति? न हि स्वपरप्रकाशि ज्ञानं बाधारहितं विमुच्यान्यस्य विषयानिराकरणं ज्ञानान्तरेण प्रेक्षामहे। तत् तद् एव न्यायात् प्रमाणं भवद्भिर् अभ्युपगतम् इति। “अर्थोपलब्धिहेतुः प्रमाणम्” इत्य् एतद् अपि न परीक्षां क्षमते, शरीरादेर् अपि तत्कारणतया प्रामाण्यप्रसङ्गात्। अव्यवहितम् अर्थोपलम्भकारणं प्रमाणम्, न देहादिकम् इति चेद्, एवं तर्हि ज्ञानम् एव स्वपराविर्भावकं निर्बाधकं च प्रमाणम्, न सन्निकर्षादि, तद्सद्भावे ऽप्य् अर्थपरिच्छेदाभावात्। तस्माद् एतद् एव चारु प्रमाणलक्षणम् इति।
[नव्_१।७] अधुना तत्सङ्ख्याम् आह: प्रत्यक्षं चेत्यादि; तत्र सिद्धान्तप्रसिद्धपारमार्थिकप्रत्यक्षापेक्षयाक्षशब्दो जीवपर्यायतया प्रसिद्धः। इह तु व्यावहारिकप्रत्यक्षप्रस्तावाद् अक्षध्वनिर् इन्द्रियवचनो गृह्यते। ततश् चाक्षं प्रतिगतं प्रत्यक्षम्। यद् इन्द्रियम् आश्रित्योज्जिहीते ऽर्थसाक्षात्कारि ज्ञानं तत् प्रत्यक्षम् इत्य् अर्थः। एतच् च प्रत्यक्षशब्दव्युत्पत्तिनिमित्तम्, न तु प्रवृत्तिनिमित्तम्। स ह्य् एवं व्युत्पादितः साक्षाद् ग्राह्यग्राहकं ज्ञानविशेषं लक्षयति, तत्राइव रूढत्वात्, यथा गमनक्रियायां व्युत्पादितो ऽपि गोशब्दः ककुदादिमन्तं पिण्डविशेषं गच्छन्तम् अगच्छन्तं वा गोचरयति, तत्राइव तस्य प्रसिद्धत्वात्, न गमनक्रियायुक्तम् अपि पुरुषादिकम्, विपर्ययाद् इति। ततश् च सर्वज्ञानानां यत् स्वरूपसंवेदनं तद् अपि प्रत्यक्षम् इत्य् उक्तं भवति, तत्रापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसद्भावाद् इति। अक्षेभ्यः परतो वर्तत इति परोक्षम्। अक्षव्यापारनिरपेक्षं मनोव्यापारेणासाक्षादर्थपरिच्छेदकं यज् ज्ञानं तत् परोक्षम् इतिभावः।
[नव्_१।८] चशब्दौ प्रत्यक्षपरोक्षयोस् तुल्यकक्षतां लक्षयतः। तेन यत् परे प्राहुः: “प्रत्यक्षं सकलप्रमाणज्येष्ठम्” इत्यादि तद् अपास्तम् भवति, द्वयोर् अपि प्रामाण्यं प्रत्य् अविशेषात्, विशदाविशदप्रतिभासविशेषस्य सतो ऽपि ज्येष्ठतां प्रत्य् अनङ्गत्वात्। प्रत्यक्षस्य पुरःसरत्वात् परोक्षस्य कनिष्ठतेति चेन्, नायम् एकान्तः, सर्वत्रान्यथानुपपन्नतावधारितोच्छ्वासनिःश्वासादिजीवलिङ्गसद्भावासद्भावाभ्यां जीवसाक्षात्कारिप्रत्यक्षक्षूणे ऽपि जीवन्मृतप्रतीतिदर्शनाद्, अन्यथा लोकव्यवहाराभावप्रसङ्गात्। क्वचित् प्रत्यक्षपरिगृहीतसम्बन्धबलात् परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्वकल्पने “पश्य मृगो धावतीत्य्"आदिशब्दबलात् कृकाटिकामोटनद्वारेण मृगविषयम्, तथा स्मरणात् सङ्केतग्रहणाद् वापूर्वापूर्वार्थदर्शनकुतूहलादिना वनदेवकुलादिगोचरं परोक्षपूर्वं प्रत्यक्षं दृष्टम् इति परोक्षस्य ज्येष्ठतासज्येत।
[नव्_१।९] द्विधेति। “सर्वं वाक्यं सावधारणं प्रवर्तत” इति न्यायाद्, अन्यथा नियतार्थाप्रदर्शकत्वेन तदुच्चारणवैयर्थ्यप्रसङ्गाद्, विपरीताकारनिराकरणचातुर्यायोगेन निराकाङ्क्षप्रवृत्त्यसिद्धेर् द्विधाइवेत्य् अवधारणेन परपरिकल्पितविपरीतसङ्ख्यान्तरं तिरस्कुरुते, तस्य युक्तिबाधितत्वात्।
[नव्_१।१०] तथा हि: प्रत्यक्षम् एवाइकं प्रमाणम् इत्य् असत्, परोक्षाभावे तस्याइव प्रामाण्यायोगात्। स हि काश्चित् प्रत्यक्षव्यक्तीर् अर्थक्रियासमर्थार्थप्रापकत्वेनाव्यभिचारिणीर् उपलभ्यान्यास् तद्विपरीततया व्यभिचारिणीश् च, ततः कालान्तरे पुनर् अपि तादृशेतराणां प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समाचक्षीत। न च पूर्वापरपरामर्शशून्यं पुरोवर्त्यर्थग्रहणपर्यवसितसत्ताकं प्रत्यक्षं पूर्वापरकालभाविनीनां प्रत्यक्षव्यक्तीनां सादृश्यं प्रामाण्यनिबन्धनम् उपलक्षयितुं क्षमते। न चायं स्वप्रतीतिगोचराणाम् अपि प्रत्यक्षव्यक्तीनां प्रामाण्यं परं प्रतिपादयितुम् ईशः। तस्माद् अवश्यन्तया यथादृष्टप्रत्यक्षव्यक्तिसाधर्म्यद्वारेणाधुनातनप्रत्यक्षव्यक्तीनां प्रामाण्यप्रत्यायकं परपरिपादकं च परोक्षान्तर्गतम् अनुमानरूपं प्रमाणान्तरम् उररीकर्तव्यम्। परावबोधार्थं च प्रत्यक्षम् एवाइकं प्रमाणं नान्यद् अस्तीत्य् उल्लपन्न् उन्मत्तताम् आत्मनो लक्षयति, प्रत्यक्षेण परचेतोवृत्तिसाक्षात्करणाभावाद् व्यापारव्याहारचेष्टाविशेषदर्शनाद् बोधविशेषावगतौ परोक्षस्य प्रामाण्यं बलाद् आपततीति न्यायात्। स्वर्गादृष्टदेवतादिप्रतिषेधं न प्रत्यक्षेण कर्तुम् अर्हति, तस्य सन्निहितमात्रविषयत्वात्। न चायं तद्प्रतिषेधेन खरखरकचार्वाकताम् आप्नोति, प्रमाणान्तरं च तत्प्रतिषेधार्थं नेच्छतीति विषमम् एतत् कथं कुर्याद् इति सविस्मयं नश् चेतः। किं च, प्रत्यक्षम् अपि कथं प्रमाणतां स्वीकरोतीति वक्तव्यम्, गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणात्। तथा हि: तत् समग्रसामग्रीकपदार्थबलेनोन्मज्जति, ततभावे विस्फारितेक्षणयुगलस्यापि प्रमातुर् नोदीयत इति यदि ब्रूषे, परोक्षे ऽपि तर्हि समानम् एवाइतत्, तद् अपि बहिरर्थसामर्थ्याद् एवोल्लसति, तत्सम्बद्धलिङ्गशब्दद्वारेण तस्योत्पत्तेर्, अन्यथा परोक्षाभासताप्रसङ्गात्, तस्य चालीकत्वे पारमार्थिकपरोक्षप्रामाण्यक्षतेर् अयोगाद्, अन्यथा प्रत्यक्षम् अपि गगनतलावलम्बिशशधरयुगलावलोकनचतुरम् अलीकम् अवलोकितम् इति सकलविशददर्शनानि सत्यताभिमतान्य् अप्य् अलीकताम् अश्नुवीरन्। तन् न प्रमाणभूतं परोक्षं कदाचन गृह्यमाणपदार्थसत्तां विहायोत्पत्तुम् उत्सहत इति प्रत्यक्षवत् प्रमाणकोटिम् आरोहति बलाद् इति स्थितम्।
[नव्_१।११] तथा यद् अपि परैर् उक्तद्वयातिरिक्तं प्रमाणसङ्ख्यान्तरं प्रत्यज्ञायि, तत्रापि यत् पर्यालोच्यमानम् उपमानार्थापत्तिवत् प्रमाणताम् आत्मसात्करोति, तद् अनयोर् एव प्रत्यक्षपरोक्षयोर् अन्तर्भावनीयम्। यत् पुनर् विचार्यमाणं मीमांसकपरिकल्पिताभाववत् प्रामाण्यम् एव नास्कन्दति, न तेन बहिर्भूतेनान्तर्भूतेन वा किञ्चिन् नः प्रयोजनम् अवस्तुत्वाद् इत्य् अपकर्णनीयम्।
[नव्_१।१२] अथ कथम् उपमानस्य प्रामाण्यम् इति ब्रूषे, तद् उच्यते: प्रथमं हि विशददर्शनाधिगतगोपिण्डविशेषस्य “यथा गौस् तथा गवय” इति वाक्याकर्णनाहितात्मसंस्कारस्य पुंसो ऽटव्यां पर्यटतो गवयपिण्डविशेषविषयविविक्तदर्शनपुरःसरं यत् पूर्वापरगोगवयपिण्डगोचरदर्शनव्यापारसम्पादितजन्मकम् अयं तेन सदृशो ऽनयोर् वा सादृश्यम् इति सादृश्यविशिष्टं पिण्डं पिण्डविशिष्टं सादृश्यं वा गोचरयत् संवेदनम् उदीयते तद् उपमानम् इति। यथाहुस् तद्वादिनः:
“तस्माद् यद् दृश्यते तत् स्यात् सादृश्येन विशेषितं ।
प्रमेयम् उपमानस्य सादृश्यं वा तदन्वितम्” ॥ नव्_१।१२:१ ॥
इति।
[नव्_१।१३] ततश् च पूर्वापरदर्शनयोः पुरोवर्तिगोगवयपिण्डग्रहणपर्यवसितसत्ताकत्वात् पूर्वापरपरामर्शशून्यत्वाद् विशदनिर्भासितया शब्दोल्लेखरहितत्वात् तदधिकम् अव्यभिचरितं व्यवहारकारि सादृश्यम् अवस्यद् उपमानं स्वपरप्रकाशितया निर्बाधकत्वाच् च प्रमाणम्। पूर्वापरपिण्डातिरिक्तम् अपरं सादृश्यं नोपलभ्यत इति चेत्, को ऽयम् उपलम्भो येन नोपलभ्यते सादृश्यं यदि प्रत्यक्षं तत्? यदि प्रत्यक्षे सादृश्यम् उपमानगोचरत्वान् न प्रतिभाति, को ऽस्यापराधः? न हि ज्ञानान्तरे तद्गोचरो न प्रतिभातीति निर्गोचरं तद् इति वक्तुं शक्यम्, इतरथोपमाने ऽपि प्रत्यक्षनिर्ग्राह्या व्यक्तिर् न भातीति निर्गोचरम् अध्यक्षम् अनुषज्येत। तद् यथा स्वविषये ऽध्यक्षं प्रमाणं तथोपमानम् अपि। न हि द्वयोः प्रथमानयोर् एकं प्रति विशेषाभावे पक्षपातः कर्तुं युक्तः। एतेन प्रत्यभिज्ञाज्ञानस्मृत्यूहादीनाम् अविसंवादकानां परोक्षविशेषाणां प्रामाण्यं व्याख्यातम् अवगन्तव्यम्, समानन्यायानुपातित्वात्। तथा हि: प्रथमम् अर्थदर्शनम् आत्मनि संस्कारम् आधत्ते, तादृशदर्शनाद् असौ संस्कारः प्रबुध्यते, प्रबुद्धः पूर्वार्थविषयं स एवायं तज्जातीयो वेत्य् उल्लेखेन प्रत्यभिज्ञाज्ञानम् उत्थापयति, तस्योर्ध्वतिरश्चीनभेदसामान्यद्वयावस्थापकत्वाद्, असञ्जातपूर्वार्थगोचरदर्शनस्य तदुदयाभावात्। तथा स एव संस्कारस् तादृशार्थदर्शनेनाभोगादिना वा प्रबुद्धो ऽनुभूतविषयासम्प्रमोषलक्षणं स्मरणम् उपजनयत्य्, अदृष्टार्थस्य पुंसः स्मरणानुपपत्तेर् इति। ऊहो ऽपि प्रत्यक्षानुमानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसम्बन्धग्रहणप्रवणः प्रमाणान्तरम् इति कथयिष्यते।
[नव्_१।१४] अर्थापत्तिस् तु प्रत्यक्षादिगोचरीकृतस्फोटादिपदार्थान्यथानुपपत्त्या दहनशक्त्यादिकं पावकादेर् अर्थान्तरं पूर्वदर्शनगोचरात् समधिकम् अव्यभिचरितं परिकल्पयन्तीति प्रमाणतां स्वीकरोत्य् एव, तल्लक्षणयोगात्। एवम् अन्यद् अपि प्रत्यक्षगोचराधिक्यसम्पादकं निराकाङ्क्षतया व्यवहारकारि यद् यत् संवेदनं तत् तत् प्रमाणम् इति समर्थनीयम्, स्वपरप्रकाशिनिर्बाधत्वात्, पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभावितत्सङ्ख्यासंवेदनवत्। सर्वेषां चाइतेषां परोक्षे ऽन्तर्भावो, ऽन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थसंवेदनचतुरत्वाद् इति। किञ्चिद्विशेषात् तु प्रमाणान्तरपरिकल्पने प्रमाणेयत्ता विशीर्येतानन्त्यप्राप्तेर्,आवरणक्षयोपशमविचित्रतया ज्ञानप्रवृत्तेर् विचित्रत्वाद् इति। ननु चाइवं सति यत् परोक्षस्य द्वैविध्यं वक्ष्यमाणम् अनुमानशाब्दभेदेन तद् अपि कथम् उपपत्स्यते, तत्रापि ह्य् आप्तप्रणीतवचनप्रभवज्ञानस्यार्थान्यथानुपपन्नत्वेनानुमानान्तर्भावो न दुरुपपादः? ततश् चानुमानम् एवाइकम् अवशिष्यते, तद् एव परोक्षशब्देन, यद्य् उच्यते युक्तम् आस्ते, विदुषाम् अभिधानं प्रत्य् अनादरात्; सत्यम् एतद्, एवं तु मन्यते: यद्य् अपि कयाचित् प्रक्रिययानुमाने शाब्दम् अन्तर्भावयितुं शक्यम्, तथापि तत् प्रति विप्रतिपद्यन्ते परे; ऽतस् तस्याहत्य प्रामाण्यं समर्थनीयम्। न चापृथग्भूतस्य तद्विविक्तं वक्तुं शक्यम् इति, अतः पार्थक्येनोपन्यासः। अनेन चाइतद् उपलक्षयत्य् अन्येषाम् अपि परोक्षविशेषाणाम् अनुमानान्तर्भावसम्भवे ऽपि यं यं प्रति परेषां विप्रतिपत्तिस् तं तं परोक्षान् निष्कृष्य विविक्तयुक्त्युपन्यासेन तस्य तस्य प्रामाण्यम् आवेदनीयम्। तथा च शास्त्रान्तरे यद् ऊहादीनां लक्षणम् अकार्य् आचार्यैस् तद् युक्तम् एवेत्य् उक्तम् भवति।
[नव्_१।१५] कथं तर्हि मीमांसकपरिकल्पितो ऽभावो न प्रमाणम्? निर्गोचरत्वाद् इति ब्रूमः। तथा हि: प्रत्यक्षम् एवान्वयव्यतिरेकद्वारेन “भूतलम् एवेदम्, घटादिर् नास्तीति” वस्तुपरिच्छेदप्रावीण्यम् आबिभ्राणं तदधिकग्राह्यार्थाभावात् प्रमाणान्तरं परिकल्प्यमानं निरस्यतीति किं नश् चिन्तया, तस्य सदसद्रूपवस्तुग्राहिणः प्रतिप्राणिप्रसिद्धत्वात्। अथ कदाचिद् अभिदध्याद्: अध्यक्षं भावांशम् एवाकलयतीन्द्रियद्वारेणोत्पत्तेस्, तस्य च भावाम्श एव व्यापारान्; नास्तिताज्ञानं तु वस्तुग्रहणोत्तरकालं प्रतियोगिस्मरणसद्भावे मानसम् अक्षव्यापारनिरपेक्षम् उन्मज्जति। तद् उक्तम्:
“न तावद् इन्द्रियेणाइषा नास्तीत्य् उत्पाद्यते मतिः ।
भावांशेनाइव संयोगो योग्यत्वाद् इन्द्रियस्य हि” ॥ नव्_१।१५:१ ॥
“गृःईत्वावस्तुसद्भावं स्मृत्वा च प्रतियोगिनं ।
मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया” ॥ नव्_१।१५:२ ॥
[नव्_१।१६] अत्रोच्यते भावांशाद् अभावांशस् तर्ह्य् अभिन्नो भिन्नो वा? अभिन्नश् चेत्, कथम् अग्रहणम्, भावांशाद् अव्यतिरिक्तत्वाद् एव, तत्स्वरूपवत्। भिन्नश् चेद्, घटाद्यभावविनिर्लुठितं भूतलम् आद्यदर्शनेन गृह्यत इति घटादयो गृह्यन्त इति प्राप्तम्, तदभावाग्रहणस्य तद्भावग्रहणनान्तरीयकत्वात्। तथा चाभावो ऽपि पश्चात् प्रवर्तमानस् तान् उत्सारयितुम् अपटिष्ठः स्याद्, अन्यथा प्रत्यक्षम् असङ्कीर्णस्य सङ्कीर्णताग्रहणाद् भ्रान्तम् आपनीपद्येत। किं च, प्रमाणाभावाद् अर्थाभावो ऽभावप्रमाणेन साध्यत इति भवतो ऽभिप्रायः:
“प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता” ॥ नव्_१।१६:१ ॥
[नव्_१।१७] इतिवचनात्, तद् अयुक्तम्, यतः प्रमाणाभावः कथं ग्राह्यः? तद्ग्राहकप्रमाणान्तराभावाद् इति चेत्, तस्याप्य् अभावग्रहणे तद्ग्राहकप्रमाणान्तराभावो ग्राह्य इत्य् अनवस्था। अथ अर्थाभावात् प्रमाणस्य प्रमाणाभावाच् चार्थस्याभावः प्रतिपद्येत इति मन्येथास्, तद् एतद् इतरेतराश्रयं दुर्घटम् आपद्येत: न यावद् अर्थाभावो ऽगृहीतस् तावत् प्रमाणाभावः सिध्यत्य्, अर्थाभावश् च प्रमाणाभावात् सेत्स्यतीत्य् आवर्तनात्। अथेन्द्रियवत् स्वयम् अविज्ञातो ऽपि प्रमाणाभावो ऽर्थाभावं ज्ञापयिष्यतीत्य् अभिदधीथास्, तद् अयुक्तम्, तस्य तुच्छतया सकलशक्तिविरहलक्षणत्वाद्, इन्द्रियस्य तु तद्विपर्यस्ततया ज्ञानोत्पादनदक्षत्वात्। तस्मात् प्रत्यक्षम् एवम् भूतलादिप्रतिनियतवस्तुग्राहितां बिभर्ति, यदि तद्विपरीतघटादिप्रतियोगिवस्त्वन्तरवैविक्त्यं तस्याकलयति नान्यथा, विजातीयव्यवच्छेदाभावे तस्याइव प्रतिनियतत्वासिद्धेः, सकलसङ्कीर्णतया ग्रहणप्रसङ्गात्। अतो ऽधिकग्राह्याभावान् निर्विषयतयाभावाख्यं प्रमाणं यत् परैः पर्यकल्पि तद् अप्रमाणम् इति स्थितम्।
[नव्_१।१८] द्विधेत्य् अस्मिन् सत्य् अपि प्रत्यक्षं च परोक्षं चेति नियतद्वैविध्यप्रदर्शनेन सौगतपरिकल्पितं ‘प्रत्यक्षम् अनुमानं चेतिऽ; द्वैविध्यम् अपक्षिपति, तदाकूतेन तस्यायोगात्। प्रत्यक्षातिरिक्तं हि तादात्म्यतदुत्पत्तिलक्षणसम्बन्धोपलक्षितकार्यस्वभावानुपलब्धिरूपलिङ्गत्रयसम्पादितजन्मकम् अनुमानम् एव प्रमाणम्, न शाब्दोहादिकम्, सम्बन्धविकलत्वाद् इति तदाकूतम्। अयुक्तं चाइतत्, प्रत्यक्षानुमानातिरिक्तप्रमाणान्तराभावग्रहणोपायाभावात्। न तावत् प्रत्यक्षात् प्रमाणान्तराभावावगतिस्, तस्य स्वलक्षणविषयत्वेनाभावग्राहिताविरोधात्। नापि स्वभावकार्यानुमानाभ्याम्, तयोर् वस्तुसाधकत्वात्। नाप्य् अनुपलब्धेस्, तस्या अप्य् अत्यन्ताभावसाधनविरोधात्। सा हि चतुर्विधा वर्ण्यते मूलभेदापेक्षया, तद् यथा – विरुद्धोपलब्धिर् विरुद्धकार्योपलब्धिः कारणानुपलब्धिः स्वभावानुपलब्धिश् चेति। न तावद् विरुद्धोपलब्धेः प्रमाणान्तरस्यात्यन्ताभावो, दृश्यात्मनो विरुद्धस्य विधानेनेतराभावसाधनात्, सन्निहितदेश एव प्रतियोग्यभावसिद्धेः। एतेन विरुद्धकार्योपलब्धिर् अपि व्याख्याता, तस्या अपि प्रतिषेध्यविरोधिसन्निधापनद्वारेणाभावसाधकत्वात्। कारणानुपलब्धिर् अपि तद्देशाशङ्कितकार्यस्याइवाभावं साधयति न सर्वत्र, स्वयम् असिद्धत्वात्। स्वभावानुपलब्धिर् अप्य् एकज्ञानसंसर्गिपदार्थोपलम्भरूपा तद्देश एव प्रतिद्वन्द्व्यभावं गमयति। अतः प्रमाणान्तरस्यापि क्वचिन् निषेधः स्यान्, न सर्वत्र। तन् न प्रमाणान्तरबाधकं समस्ति।
[नव्_१।१९] प्रत्यक्षानुमानयोश् च प्रामाण्यं कुत इति चिन्त्यम्। न तावत् प्रत्यक्षात्, तस्य निर्विकल्पकतया सतो ऽप्य् असत्कल्पत्वात्। तत्पृष्ठभावी विकल्पस् तु न स्वलक्षणाम्भोधिमध्यम् अवगाहते; तत् कथं तत्राप्रविष्टस् तत्स्वरूपं निश्चिनुयात्। अप्रमाणभूताच् च तस्मात् प्रामाण्यनिर्णय इति निबिडजडिमाविष्करणं भवताम्। अनुमानात् प्रामाण्यनिर्णय इति चेन्, न, तस्यापि स्वलक्षणाद् बहिः प्लवनात्। अप्रामाण्यव्यवच्छेदस् तेन साध्यत इति चेन्, न, व्यवच्छेदस्य व्यवच्छिन्नाव्यतिरेकाद्, इतरथान्धकारनर्तनकल्पम् अनुमानम् आसज्येत, निर्विषयत्वात्। किं च, तत्प्रामाण्यनिर्णायकम् अनुमानं प्रमाणम् अप्रमाणं वा? न तावद् अप्रमाणम्, ततः प्रामाण्यासिद्धेः। नापि प्रमाणम्, तत्प्रामाण्यसाधकाभावात्। न हि प्रत्यक्षात् तत्सिद्धिर्, विकल्पशून्यतयाकिञ्चित्करत्वाद् इत्य् उक्तम्। अनुमानात् तु तत्साधने विकल्पयुगलं तदवस्थम् एवावतिष्ठेत, तत्प्रामाण्यसाधने ऽप्य् अनुमानकल्पनेत्य् अनवस्था। किं च, गृहीतसम्बन्धस्यानुमानं प्रवर्तेत, सम्बन्धस् त्रिकालगोचरो ग्राह्यो, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पूर्वापरक्षणत्रुटितरूपवार्तमानिकक्षणग्रहणपर्यवसितसत्ताकत्वात्, तदुत्तरकालभाविनो विकल्पस्यापि व्यावहारिकाभिप्रायेण तन्निष्ठताभ्युपगमात्। अनुमानाद् ग्रहीष्यतीति चेन् ननु तद् अपि सम्बन्धपूर्वकं प्रवर्तेत, तद्ग्रहणे ऽपीयं वार्तेत्य् अनवस्था। तस्माद् अनुमानम् अभिलषता गत्यन्तराभावात् तत्सम्बन्धग्रहणप्रवणस् त्रिकालगोचरो ऽव्यभिचारी वितर्को ऽभ्युपगन्तव्यः। तथा च प्रस्तुततद्द्वैविध्यस्य विघटितत्वाद्, अन्यद् अपि यद् एवंविधम् अविसंवादि ज्ञानं तत् प्रमाणम् अस्त्व् इत्य् अलं शुष्काभिमानेनेति। यदि पुनः साध्यार्थान्यथानुपपन्नहेतुसम्पादितम् अनुमानम् इष्येत, तदा प्रत्यक्षम् अनुमानं चेत्य् अपि द्वैविध्यं घटाम् अटेद् एव; प्रत्यक्षव्यतिरिक्तज्ञानस्य सामस्त्येनानुमाने ऽन्तर्भावसम्भवात्, अन्यथानुपपन्नार्थान्तरम् अन्तरेण परोक्षार्थविषयप्रतीतेर् अभावाद् इति।
[नव्_१।२०] साम्प्रतम् अन्यथा सूत्रावयवेनाइव प्रकृतनियमकारणम् आह: मेयविनिश्चयाद् इति द्विधैवेति च काकाक्षिगोलकन्यायेनात्रापि सम्बन्धनीयम्। ततश् चायम् अर्थो: द्वाभ्याम् एव प्रकाराभ्यां मेयस्य ग्राह्यार्थस्य विनिश्चयात् स्वरूपनिर्णयाद्; द्वे एव यथोक्ते प्रमाणे न न्यूनम् अधिकं चेति। अयम् अत्राभिप्रायः: स्वसंवेदनं प्रति निखिलज्ञानानाम् एकरूपतया साक्षात्करणचतुरत्वान् नास्त्य् एव भेदः; बहिरर्थं पुनर् अपेक्ष्य कश्चिच् चक्षुरादिसामग्रीबललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसञ्चरिष्णुं स्थगितक्षणविवर्तम् अलक्षितपरमाणुपारिमाण्डल्यं सन्निहितं विशदनिर्भासं सामान्यम् आकारं साक्षात्कुर्वाणः प्रकाशः प्रथते, तत्र प्रत्यक्षव्यवहारः प्रवर्तते। यः पुनर् लिङ्गशब्दादिद्वारेण नियतानियतसामान्याकारावलोकी परिस्फुटतारहितः खल्व् आत्मनो ऽर्थग्रहणपरिणामः समुल्लसति स परोक्षतां स्वीकरोति। न चाइतौ प्रकारौ विहाय प्रकारान्तरेण ज्ञानप्रवृत्तिं पश्यामो, न चापश्यन्तः प्रमाणान्तरपरिकल्पनं क्षमामहे, न च द्वयोः प्रथमानयोर् एकं निह्नुवानम् अपेक्षामहे, विशेषाभावात्। तस्माद् एतद् एव द्वैविध्यम् उररीकर्तव्यम् इति स्थितम्।
[नव्_२।०] साम्प्रतं यद् अस्माभिः प्राग् विवृण्वद्भिर् व्युदपादि, यद् उत विप्रतिपन्नाव्युत्पन्नव्यामोहापोहसहम् इहेदं प्रमाणलक्षणम् इति तत्सूत्रमात्रदर्शनाद् एव विमलबुद्धयो ऽवगच्छेयुः। मन्दमतयस् तु तावता न भोत्स्यन्त इति – तद्धितविधित्सया व्यक्तं प्रमाणलक्षणाभिधानफलं प्रतिपिपादयिषुर् अपि सपूर्वपक्षं निराकाङ्क्षं लक्षयेयुस् त इति तावत् पूर्वपक्षम् उत्थापयन्न् आह:
प्रसिद्धानि प्रमाणानि व्यवहारश् च तत्कृतः ।
प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ न_२ ॥
[नव्_२।१] इह वचनम् उच्चारयता विमृश्यभाषिणा प्रत्यवमृश्यम्, किम् इदं मामकं वचनं श्रोतृसंस्काराधायकम् उत नेति। इतरथा पर्यालोचितकारितास्य हीयते। श्रोतृसंस्काराधायकं चेद् उच्चारयत्य्, अन्यथा विपर्यय इति। एतत् तु प्रमाणलक्षणवाक्यं सकलजनानादिप्ररूढार्थप्रत्यायकत्वाद् अश्रोतृसंस्काराधायकम्, यत आह: प्रसिद्धानि प्ररुढानि, नाधुना साध्यानीत्य् अर्थः। प्रमाणानि प्रत्यक्षादीनि, परोक्षगतभेदापेक्षया बहुवचनं व्यक्तिभेदे सामान्यम् अपि कथञ्चिद् भिद्यत इतिदर्शनार्थम्। तथा हि: तद् अविवक्षितव्यक्तिकम् एकरूपतां बिभर्ति प्रमाणम् इति; व्यक्त्यवच्छेदेन पुनर् अवच्छिद्यमानं नानातामादत्ते प्रत्यक्षानुमानशाब्दानि प्रमाणानीति, व्यक्तिव्यतिरिक्ताव्यतिरिक्तरूपत्वात् तस्य। तथा हि: शब्दाच् चक्षुरादेर् वा दूराद् वृक्ष इति प्रत्यये धवखदिरपलाशादिविशेषानपेक्षया साधारणं वृक्षत्वम् एव चकास्ति, तस्मात् तत् तेभ्यो भिन्नम्, तद्व्यतिरेकिणाकारेण ज्ञाने प्रतिभासनाद्, घटादिवत्। परिस्फुटधवखदिरपलाशादिविशेषावलोकनवेलायां तु न तद्, अतिरेकिणा रूपेण प्रकाशत इत्य् अभिन्नम्, तदव्यतिरिक्तस्य संवेदनात्, तत्स्वरूपवत्। विशेषाभिन्नम् एव रूपं तात्त्विकं सामान्यस्य, तस्याइव दाहपाकाद्यर्थक्रियाक्षमत्वाद्, भिन्नं पुनः कल्पनाबुद्धिविठपितत्वाद् अवस्तुरूपम् इति चेन्, न, द्वयोः प्रकाशमानयोर् एकस्य निह्नोतुम् अशक्यत्वात्। अन्यथा भिन्नम् एव रूपं स्वाभाविकम् इतरत् तु कल्पनाबुद्धिदर्शितम् इत्य् अपि वदतां न वदनभङ्गः स्यात्। अर्थक्रियाकारिताविशेषस् तु भिन्ने ऽपि रूपे न दुरुपपादस्, तस्यापि ज्ञानसाधारणव्यवहारकरणदक्षत्वात्। न चार्थक्रिया वस्तुलक्षणम् इति निवेदयिष्यामस्, तस्मात् सर्वत्र भिन्नाभिन्नौ सामान्यविशेषाव् इति दर्शनार्थो बहुवचननिर्देशः। आसतां तावत् प्रमाणानि।
[नव्_२।२] व्यवहारश् च तत्कृतः प्रसिद्ध इति सम्बन्धः। चशब्दो ऽपिशब्दार्थः। तेनायम् अर्थो: यदर्थं प्रमाणपरीक्षणम् असाव् अपि जलपानशीतत्राणादिर् व्यवहारो ऽनादिप्ररूढः, तन् निरर्थकं प्रमाणलक्षणाभिधानम् इत्य् अभिप्रायवान् अपि परः परुषतापरिजिहीर्षयात्मनो ऽन्यथा प्राह: प्रमाणलक्षणस्योक्तौ पररूपव्यावर्तनक्षमासाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयते ऽस्माभिर् न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात् तावकाभिसन्धेर् इति काक्वा प्रश्नयत्य् उल्लुण्ठयति चेति। किं च, प्रमाणलक्षणम् अनिश्चितं वाभिधीयते, निश्चितं वा स्वरूपेणेति पक्षद्वयम्। न तावद् अनिश्चितम्, अनिश्चितस्य लक्षणत्वायोगाद्, उन्मत्तकविरुतवत्। अथ निश्चितम्, तत् किम् अप्रमाणात् प्रमाणाद् वा। न तावद् अप्रमाणाद्, अप्रमाणस्य निश्चायकत्वायोगात्। यदि पुनर् अप्रमाणम् अपि निश्चायकम् इति सङ्गीर्येत, तदा प्रमाणपर्येषणं विशीर्येत, नैरर्थक्यापत्तेर्, अप्रमाणाद् अपि निश्चायाभ्युपगमात्। अथ प्रमाणात्, तत् किम् अलक्षणं लक्षणोपेतं वा। अलक्षणं चेन् निश्चायकं प्रमाणम्, तर्हि सर्वप्रमाणानां लक्षणाभिधानम् अनर्थकम्, तद्व्यतिरेकेणाप्य् अर्थनिश्चयसिद्धेर्, भवदभिप्रेतलक्षणनिश्चायकप्रमाणवत्। अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलम् अनुवारितप्रसरम् अनुधावति: तल्लक्षणं निश्चितम् अनिश्चितं वा। न तावद् अनिश्चितं लक्षणं लक्ष्यं लक्षयति। निश्चयो ऽपि प्रमाणाद् अप्रमाणाद् वा। अप्रमाणान् निश्चयासिद्धेः प्रमाणाद् इति वक्तव्यम्। तद् अप्य् अलक्षणं सलक्षणं वा। अलक्षणत्वे पूर्वस्यार्थग्रहणे किं क्षूणम्। सलक्षणत्वे तल्लक्षणं निर्णीतम् अनिर्णीतं वेति तद् एवावर्तते। तन् न प्रमाणलक्षणाभिधानोपायो ऽस्ति, तस्मात् प्रसिद्धानि प्रमाणानीत्य् अङ्गीकर्तव्यम् इति।
[नव्_३।०] अधुनाचार्यो गृहीतस् तावकीनो ऽभिप्रायो ऽस्माभिर् इति परं प्रत्याययंस् तन्मतम् अनुद्राव्य तद् एवानुमन्यमानस् तथापि लक्षणोक्तेः साफल्यमावेदयन्न् आह:
प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् ।
तद्व्यामोहनिवृत्तिः स्याद् व्यामूढमनसाम् इह ॥ न_३ ॥
[नव्_३।१] एतद् अभ्यधायि भवता, यथा प्रसिद्धानि प्रमाणानि, ततस् तेषां लक्षणोक्ताव् असाधारणधर्मकथनविषये प्रयोजनं फलम्, किम् इति शेषस्, तद् एतद् अयुक्तम्। यतो यद्य् अपि प्रतिप्राणिप्रसिद्धानि प्रमाणान्य्, अन्यथा तत्कृतनिखिलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च दृष्टहान्याद्यापत्तेः, तथापि केचिद् विततमोहावष्टब्धान्तःकरणास् तत्स्वरूपम् अनुभवन्तो ऽपि न लक्षयन्ति, ततस् तान् अवलोकयताम् अस्माकं तद्विषयकृपापरीतचेतसां यथावस्थितप्रमाणलक्षणाविर्भावनद्वारेण व्यामोहम् एतेषाम् अपसारयाम इति प्रमाणलक्षणाभिधानं प्रति प्रवर्तते चेतः। तद् इदं प्रयोजनम्: तद्व्यामोहनिवृत्तिः स्याद् इति; तस्मिन् प्रमाणलक्षणे व्यामोहो विपरीताभ्युपगमवतां विपर्यासलक्षणस् तीर्थ्यानां प्रमाणाप्रमाणविवेकविकलानाम्, अनध्यवसायात्मकस् तु मुग्धबुद्धीनां लौकिकानाम्, तस्य निवृत्तिर् अविपरीतलक्षणावगमाद् अपगम इत्य् अर्थः, सा स्याद् भवेत्। केषाम् इत्य् आह: व्यामूढं विपरीतग्रहग्रस्तं विचित्ततां गतं मनो ऽन्तःकरणं येषां ते तथा तेषाम्; इहेति लोके – तद् अयं तात्पर्यार्थः। यद्य् अनादि प्रसिद्धं प्रमाणलक्षणं प्रति न केचिद् अपि व्यामुह्येयुस् तदा यद् भवद्भिः प्राग् उदग्राहि: ‘निरर्थकं प्रमाणलक्षणाभिधानम्ऽ; इति तद् युक्तम् एव स्यात्। न चाइतद् एवम्; तत्र व्यामूढानां दर्शनात्। एतेन यद् अदायि दूषणं ‘प्रमाणलक्षणम् अनिश्चितं निश्चितं वाभिधीयतऽ; इत्यादि तद् अपि सिद्धसाध्यतामध्यप्रतिबद्धत्वान् न बाधाविधाय्य् अस्माकम् इति मन्तव्यम्। व्यामूढमनसो ऽपि प्रति प्रमाणलक्षणप्रकाशने तल् लगतीति चेन्, न, स्वसंवेदनसिद्धस्य वचनेन प्रकाशनात्, तस्य व्यामोहापोह एव व्यापारात्। यथा विविक्तभूतलावलोकने ऽप्य् अध्यक्षात् यो घटादिवैविक्त्यं न प्रतिपद्यते, कुदर्शनव्यामोहात्, तं प्रत्युच्येत: ‘नास्त्य् अत्र घट, उपलम्भकारणसमग्रतायाम् अप्य् अनुपलम्भाद्ऽ, वैविक्त्यं हि तत्राध्यक्षसिद्धम्, वचनाद् व्यामोहो निवर्त्येत; तथेहापि विद्वद्भिर् द्रष्टव्यम्। निर्णीतं तल्लक्षणम् अध्यक्षेण, तस्य व्यवसायरूपत्वाद्, वचनं पुनर् विपरीतारोपनिराकरणे व्याप्रियत इति स्थितम्। तद् एवं प्रमाणलक्षणं सामान्येन प्रतिपाद्य तद्गतं कुचोद्यं पर्यहार्य् आचार्येण।
[नव्_४।०] अधुना तद्विषयाम् एव सङ्ख्याविप्रतिपत्तिं निराचिकीर्षता ये प्रत्यक्षपरोक्षलक्षणे प्रमाणव्यक्ती प्राक् प्रक्रान्ते, तयोर् अपि लक्षणं प्रति विप्रतिपद्यन्ते ऽपरे। अतस् तल्लक्षणम् अपि वक्तव्यम् इति तावत् प्रत्यक्षलक्षणम् अभिधातुकाम आह:
अपरोक्षतयार्थस्य ग्राहकं ज्ञानम् ईदृशम् ।
प्रत्यक्षम्, इतरज् ज्ञेयं परोक्षं ग्रहणेक्षया ॥ न_४ ॥
[नव्_४।१] तत्र प्रत्यक्षम् इति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानम् इति लक्षणनिर्देशः। परोक्षो ऽक्षगोचरातीतस्, ततो ऽन्यो ऽपरोक्षस्, तद्भावस् तत्ता तया, साक्षात्कृततयेति यावत्। अर्यत इत्य् अर्थो ऽवगम्यत इति हृदयम्; अर्थ्यत इति वार्थो दाहपाकाद्यर्थक्रियार्थिभिर् अभिलष्यत इति यावत्। तस्य ग्राहकं व्यवसायात्मकतया साक्षात् परिच्छेदकं यज् ज्ञानम्, तद् ईदृशम् इतीदृग् एव प्रत्यक्षम् इति सण्टङ्कः। तत्र ज्ञानग्रहणेन यत् साङ्ख्याः प्राहुः: ‘श्रोत्रादिवृत्तिः प्रत्यक्षम्ऽ; इति तत् तिरस्करोति, श्रोत्रादीनां प्रकृतिविकारतया तद्वृत्तेर् व्यापारलक्षणाया जडतया प्रत्यक्षत्वायोगाद्; अर्थपरिच्छित्तिहेतुतया प्रत्यक्षत्वे आलोकादिजडकारणकलापव्यापारस्यापि प्रत्यक्षतापद्येत, विशेषाभावाद् इति।
[नव्_४।२] अर्थस्य ग्राहकम् इत्य् अस्य ग्रहणेक्षयेति वक्ष्यमाणपदसापेक्षत्वाद्, अमुना बहिर् अपि ये ऽर्थकलाकलनविकलं सकलम् अपि ज्ञानं प्रलपन्ति तान् निरस्यति; स्वांशग्रहणे ह्य् अन्तःसंवेदनं व्याप्रियते यथा – तथा बहिर् अपीतरथार्थवज् ज्ञानसन्तानान्तराण्य् अपि विशीर्येरन्, स्वप्नदृष्टान्तेन तदनुमानस्योपप्लवमात्रतापत्तेः, स्वविज्ञानस्याइव तथा तथा विजृम्भणात्। तथा च प्रमाणप्रमेयप्रतिपाद्यप्रतिपादककार्यकारणभावादयः प्रलीयेरन्न्, आत्मव्यतिरेकेणात्मीयपूर्वोत्तरक्षणयोर् अपि ज्ञानस्य प्रवृत्तिनिरोधापत्तेः। अद्वयविज्ञानतत्त्वसाधनेनानुकूलम् आचरसीति चेत्, स्याद् एतत्, यदि भवतः प्रमाणपरिदृष्टसकलव्यवहारोच्छेदेन कुदर्शनवासनाहितादृष्टाद्वयतत्त्वपरिकल्पनात् प्रतिकूलं न स्यात्। तन् नार्थविरहेण बहिःप्रमाणभूतज्ञानोल्लासो ऽस्ति, निर्हेतुकत्वप्रसङ्गाद् इति।
[नव्_४।३] ग्राहकम् इति च निर्णायकं द्रष्टव्यम्, निर्णयाभावे ऽर्थग्रहणायोगात्। तेन यत् ताथागतैः प्रत्यपादि: ‘प्रत्यक्षं कल्पनापोढम् अभ्रान्तम्ऽ; इति तद् अपास्तं भवति, तस्य युक्तिरिक्तत्वात्। तथा हि: ते निर्विकल्पकत्वे ऽध्यक्षस्यायुक्तीः खेटयन्ति – किलेदम् अर्थसामर्थ्येनोदीयते, सन्निहितार्थक्रियासमर्थार्थग्राहकत्वात्। न चार्थे ध्वनयः सन्ति, तद्धेतुविलक्षणकारणान्तरजन्यत्वात्, ततश् चासाव् उपनिपत्य स्वगोचरं संवेदनम् उत्थापयन् स्वाकारम् अनुकारयति। तन् न तद्ग्राहिणि विज्ञाने शब्दसंश्लेषो युक्तः। किं च, यद्य् उत्पादकार्थोपयोगे ऽपि तं तावन् न गृह्णीयात्, संवेदनम् अपि तु स्मरणसम्पादितं तदभिधायकध्वनिसंयोजनं प्रतीक्षमाणं तावद् आसीत, तर्हि दत्तो जलाञ्जलिर् अर्थग्रहणस्य। तथा हि: तम् अर्थम् अपश्यंस् तस्मिन् गृहीतसङ्केतं तदभिधायकध्वनिं नानुस्मरत्य्, उपायाभावाद्, अननुस्मरंश् च पुरोवर्तिन्य् अर्थे न योजयति, स्मृत्युपस्थापनव्यतिरेकेण तद्योजनाशक्तेर्, अयोजयंश् च भवदभिप्रायेण न पश्यतीति धान्ध्याद् आन्ध्यमापद्येत। यदि चेन्द्रियजम् अपि ज्ञानं विकल्पकलुषितम् इष्येत, तदा तद् अपि मनोराज्यादिविकल्पवद् विकल्पान्तराविर्भावे सति निवर्तेत; न चाइतद् अस्ति, सन्निहितगोपिण्डगोचरस्य चक्षुर्जसंवेदनस्याश्वादिविषयविकल्पोदये ऽप्य् अनिवर्तनात्, संहृतसकलविकल्पस्यापि च परिस्फुटसन्निहितार्थविषयदर्शनसिद्धेः। तन् नाक्षजं ज्ञानं शब्दसम्पर्कम् अनुभवतीति।
[नव्_४।४] अत्र प्रतिविधीयते – यत् तावद् उक्तम्: अशब्दकार्थसामर्थ्योद्भवत्वाद् ध्वनिरहितम् अध्यक्षम् इति, तद् अयुक्तम्, न हि शब्दासम्पृक्तार्थजम् इत्य् एतावताइवाभिलापविनाकृतम् इति वक्तुं शक्यम्, अन्यथा जडार्थजनितम् इति जडम् अपि तत् स्यात्। अथ बोधरूपमनस्कारसाहित्यान् न जडम् इति ब्रूषे, तथा सत्य् अभिलापसंसृष्टमनस्कारसन्नियोगात् साभिलापम् अपि स्यात्। किं च, विविक्ताः परमाणवः स्वाकारार्पणद्वारेण स्वगोचरं ज्ञानम् उत्पादयन्तः कथम् असन्तम् आत्मनि स्वावयवव्यापिनं कालान्तरसञ्चरिष्णुम् आकारं तत्र प्रथयन्ति। विभ्रमाद् इति चेन्, न, नेदानीम् अर्थे यद् अस्ति तद् एव प्रतिभाति, तत्रासतो ऽपि स्थूराकारस्य प्रतिभासनात्। तथा शब्दो ऽपि। यद्य् अविद्यमानो ऽर्थे तद्ग्राहिणि ज्ञाने प्रतिभासेत किं क्षूयेत? यच् चोक्तम्: ‘स्मरणजनितशब्दसंयोजनं प्रतीक्षमानम् अर्थोपयोगे ऽपि यद्य् आसीतेत्य्ऽआदि यावद् ‘आन्ध्यम् आपद्येतऽ, तत् तावकपक्षे ऽपि समानम्। तथा हि: स्वलक्षणविषयेन्द्रियजनिर्विकल्पकज्ञानसद्भावे ऽपि न तावद् इदन्तयानिदन्तया वार्थव्यवस्थितिर्, यावद् विधिप्रतिषेधद्वारेण विकल्पयुगलकं पाश्चात्यं नोदयते, यत्राइवांशे विकल्पं जनयति, तत्राइवास्य प्रमाणतेतिवचनान्, निर्विकल्पकस्य सतो ऽपि व्यवहारं प्रत्य् असत्कल्पत्वात्। स च विकल्पः सङ्केतकालभावितम् अभिलापसामान्यम् अनुस्मरत एवोत्पत्तुम् अर्हति, अभिलापसामान्यस्मरणबीजं च कुतः प्रबुध्येत? तादृशदर्शनाद् इति चेन्, ननु तद् अपि दर्शनं निर्विकल्पकत्वाद् अर्थं नातिशेते, तत् कथं सामान्यविषयविकल्पबीजं प्रबोधयेत्? अर्थः पुनः सामान्यव्यवसायात्मिकां बुद्धिं न जनयेद् इति भवतां कदाग्रहः। तद् अर्थवत् तद्विषयं दर्शनं व्यवसायशून्यत्वान् नाभिलापसामान्यगोचरस्मरणबीजं प्रबोधयति; तद् अप्रबुद्धं न स्मरणं जनयत्य्; अजातं स्मरणं न शब्दं योजयत्य्; अयोजितः शब्दो नार्थं निश्चाययत्य्; अनिश्चितो ऽर्थो न व्यवहारम् अवतरत्य्; अनवतीर्णो नादृष्टाद् विशिष्यते; अविशिष्टः प्रमातुर् आन्ध्यं लक्षयतीति। तस्माद् यथा कथञ्चिन्निर्णयाभावात् स्वयम् अप्रतीतम् अपि निर्विकल्पकदर्शनं वासनाप्रबोधद्वारेण विकल्पम् उत्थाप्यात्मव्यापारम् अभिलापयति कतिचिदंशविषयम्, तथार्थो ऽपि यदि चक्षुरादिसामग्र्यन्तःपातित्वेनाप्रतीत एव स्वयम्, तथास्वभावत्वात्, सङ्केतकालभाविताभिलापसामान्यविषयात्मसंस्कारप्रबोधद्वारेणात्मविषयम् अभिलापसंसृष्टं संवेदनम् उल्लासयेन् नात्यन्तम् अयुक्तं पश्यामः। न चायं सविकल्पको बोधो मनोराज्यादिविकल्पकल्पश्, चक्षुरादिसामग्रीसम्पाद्यत्वाद्, इतरस्य तु मनोमात्रप्रभवत्वात्। अतः कथं तद्विकल्पान्तराविर्भावे निवर्तेत? मानसविकल्पस्याइव विकल्पान्तरेण निवर्तनाद्, अस्य तु कारणसामर्थ्येन बलात् प्रवृत्तेः। एतेन संहृतसकलविकल्पावस्थायां नाइष प्रादुःष्याद् इत्य् एतद् अपि प्रतिक्षिप्तम्, अस्य प्रमातुर् इच्छया संहर्तुम् अशक्यत्वान्, मानसविकल्पसंहरण एव तत्सामर्थ्योपपत्तेर् इति। एतच् च शब्दसम्पृक्तप्रत्यक्षपक्षाद् अप्य् एकान्तनिर्विकल्पकप्रत्यक्षपक्षस्य पापीयस्तां दर्शयद्भिर् अस्माभिर् उदग्राहि।
[नव्_४।५] परमार्थतः पुनः प्रत्यक्षे साक्षाच् छब्दोल्लेखो नेष्यते, विशदव्यवसायेनार्थसाक्षात्करणचतुरत्वात् तस्य। केवलं तद् अपि सन्निहितं परिस्फुटं स्वावयवव्यापिनं कालान्तरसञ्चरिष्णुं स्थगितक्षणविवर्तम् अलक्षितपरमाणुपारिमाण्डल्यं पदार्थान्तरैः सह समानासमानाकारं स्वपरमाणूनां सामान्याकारं स्तम्भाधिकं पदार्थं गोचरयतीति सविकल्पकम् इत्य् उच्यते, परपरिकल्पितक्षणक्षयिविविक्तपरमाणुलक्षणस्वलक्षणग्रहणप्रवणनिर्विकल्पकप्रत्यक्षप्रतिषेधार्थं कथञ्चिदभिलापसंसर्गयोग्यगोचरतादर्शनार्थं वा। एवं च प्रत्यक्षगोचरीकृते ऽर्थे सञ्ज्ञासञ्ज्ञिसम्बन्धग्रहणादयस् तद्विषयाः शाब्दव्यवहाराः सर्व एव निरुपचरिता घटन्त इत्य् उक्तं भवति। यदि पुनः शब्दसंसर्गयोग्यप्रतिभासम् अध्यक्षं न स्यात्, ततः को दोष इति चेद्, विकल्पानुत्थानेन सकलव्यवहारोच्छेदप्रसङ्गः। तथा हि: निर्व्यवसायं दर्शनम् अत्यन्तपाटवोपेतम् अपि स्मृतिबीजाधानं तदुत्तरकालभावि वा तादृशार्थदर्शनं तत्प्रबोधनम् अभ्यासवासनापाटवे ऽपि न विधातुम् अलम्, यतः सामान्यविकल्पोत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्वादिषु सकलकालं निर्विकल्पकाध्यक्षदृष्टतयाभ्युपगतेष्व् अपि तददर्शनात्। तस्माद् यत्र कुत्रचिद् अर्थांशे पाश्चात्यव्यवहारप्रवृत्तिस् तत्र प्राचीनं संवेदनं निर्णायकम् अभ्युपगन्तव्यम्, अन्यथा क्षणिकत्वाद्यंशवत् सर्वांशेषु व्यवहारः प्रलीयेत। तन् न कदाचन कल्पनापोढत्वं प्रत्यक्षस्य प्रमातुर् अपि प्रतीतिगोचरचारिताम् अनुभवति। अप्रतीतं चास्तीति श्रद्धातुं दुःशकम्, अतिप्रसङ्गाद् इत्य् अलक्षणम्।
[नव्_४।६] अभ्रान्तत्वम् अपि न जाघटीति, भवदभिप्रायेण स्थिरस्थूरार्थग्राहिणः संवेदनस्य विपर्यस्तरूपत्वात्, तद्विपरीतस्य तु स्वप्नकाले ऽप्य् अप्रकाशमानत्वात्। तद् यदि यथावस्थितार्थग्राहित्वम् अभ्रान्तत्वम्, तन् न सम्भवत्य् एव, विविक्तक्षणक्षयिपरमाणूनां कदाचिद् अप्य् अप्रतिभासात्, तेषां च पारमार्थिकत्वात्। अथ व्यावहारिकाभिप्रायेण यद् इदं घटादिकं स्वलक्षणम् अर्थक्रियाक्षमम्, तत्र यन् न भ्राम्यति तद् अभ्रान्तम् इत्य् अभिप्रेतम्, तर्हि कल्पनापोढपदम् उत्सारणीयम्, इदानीम् अनेन सहावस्थानाभावाद्, व्यवहारावतारिणो घटादिस्वलक्षणस्य निर्णयेनाइव ग्रहणाद्, अन्यथा व्यवहाराप्रवृत्तेर्, दृष्टस्याप्य् अदृष्टानतिशयनात्। तस्माद् व्यवसायात्मकम् अध्यक्षम् इत्य् एतद् एव चार्व् इति स्थितम्।
[नव्_४।७] अपरोक्षतयेत्य् अनेन तु परोक्षलक्षणसङ्कीर्णताम् अध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहणरूपत्वाद् इति। ईदृशम् इत्य् अमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपप्रदर्शनात् परपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति। एवं च यद् आहुर्: “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” तथा “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्” इत्यादि तद् अयुक्तम् इत्य् उक्तं भवत्य्, अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वाद्, अत्यन्तासतां शशविषाणादीनाम् अप्य् उत्पत्तिप्रसङ्गात्। तस्माद् इदम् आत्मरूपतया विद्यमानम् एव विशेषकृद्धेतुकलापसन्निधानात् साक्षाद् अर्थग्रहणपरिणामरूपतया विवर्तेत; तथा चोत्पन्नजन्मादिविशेषणं न सम्भवेत्। अथाइवंविधार्थसूचकम् एवाइतद् इत्य् आचक्षीथास्, तथा सत्य् अविगानम् एवेत्य् आस्तां तावत्।
[नव्_४।८] अधुना परोक्षलक्षणं दर्शयति: इतरद् इत्यादि। अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षम् इत्य् उक्तम्, तस्माद् इतरद् असाक्षाद् अर्थग्राहकं ज्ञानं परोक्षम् इति ज्ञेयम् अवगन्तव्यम्। एतद् अपि स्वसंवेदनापेक्षया प्रत्यक्षम् एव, बहिरर्थापेक्षया तु परोक्षव्यपदेशम् अश्नुत इति दर्शयन्न् आह: ग्रहणेक्षयेति; इह ग्रहणं प्रक्रमाद् बहिः प्रवर्तनम् उच्यते, ऽन्यथा विशेषणवैयर्थ्यात्; तस्येक्षापेक्षा तया; बहिःप्रवृत्तिपर्यालोचनयेति यावत्। तद् अयम् अर्थो: यद्य् अपि स्वयं प्रत्यक्षम्, तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणे ऽसाक्षात्कारितया व्याप्रियत इति परोक्षम् इत्य् उच्यते। एतच् च बुभुत्सितार्थान्यथानुपपन्नार्थान्तरप्रतीतिवशाद् उदयधर्मकं इति। सामान्यलक्षणसद्भावाद् एकाकारम् अपि विप्रतिपत्तिनिराकरणार्थं द्विधा भिद्यते, तद् यथा: अनुमानं शाब्दं चेति। यतो ऽद्यापि शब्दस्यार्थान्यथानुपपन्नत्वम् एव परे न प्रतिपद्यन्ते, न चापृथक्कृतस्य तद्विविक्तं वक्तुं शक्यम्, अतो भेदेनोपन्यासः।
[नव्_५।०] तत्र तावद् अनुमानलक्षणम् अभिधित्सुर् आह:
साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकं स्मृतम् ।
अनुमानम्, तद् अभ्रान्तं प्रमाणत्वात् समक्षवत् ॥ न_५ ॥
[नव्_५।१] इहाप्य् अनुमानम् इति लक्ष्यनिर्देशः, तस्य प्रसिद्धतया अनूद्यत्वात्। साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकम् इति लक्षणनिर्देशः, तस्याप्रसिद्धतया विधेयत्वाद् इति। अत्राप्य् अनुमानशब्दस्य कर्त्रादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम्। ततश् चेहापि लिङ्गग्रहणसाध्याविनाभावित्वलक्षणलिङ्गसम्बन्धस्मरणकालात् [अनु] पश्चान् मीयते परिच्छिद्यते ऽर्थो ऽनुमेयः पावकादिर् येन ज्ञानेन तद् अनुमानम् इति। तत् किम्भूतम् इत्य् आह: साध्यनिश्चायकम् इति – साधनम् अर्हति, साधयितुं वा शक्य इति साध्यो ऽनुमेय इत्य् अर्थः; तस्य निश्चायकं तत्स्वरूपनिर्णायकम् इति यावत्। तत् कुत इत्य् आह: लिङ्गाल् – लिङ्ग्यते गम्यते ऽर्थो ऽनेनेति लिङ्गं हेतुस् तस्मात्। किम्भूताद् इत्य् आह: साध्याविनाभुन इति – विना भवतीति विनाभु, ततो ऽन्यद् अविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन् न भवतीत्य् अर्थः, तस्मात् साध्यनिश्चायकं ज्ञानं तद् अनुमानम्। स्मृतम् अभिप्रेतं नीतिविद्भिर् इति सम्बन्धः। तत्र लिङ्गात् साध्यनिश्चायकम् इत्य् अनेनानुमानस्य प्रत्यक्षशाब्दलक्षणसङ्कीर्णतां वारयति। साध्याविनाभुन इत्य् अनेन परप्रणीतलिङ्गलक्षणव्युदासम् आचष्टे।
[नव्_५।२] ततश् च यत् परे प्रोचुः – पक्षधर्मत्वान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीण्य् एव लिङ्गानि: अनुपलब्धिः स्वभावः कार्यं चेति; तद् उक्तम्:
“अनुमेये ऽथ तत्तुल्ये सद्भावो, नास्तितासति ।
निश्चितानुपलम्भात्मकार्याख्या हेतवस् त्रय” ॥ इति;
[नव्_२] तथान्ये: “ऽस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्” इति, तथा: “पूर्ववच् छेषवत् सामान्यतोदृष्टम्” इत्यादि – तद् बालप्रलपितप्रायम् इत्य् अवगन्तव्यम्, सर्वत्र साध्याविनाभावित्वस्याइव गमकत्वात्, तद्रहितस्य तु त्रैलक्षण्यलक्षितस्याप्य् अगमकत्वाद्, इतरथा तत्पुत्रत्वादीनाम् अपि गमकत्वप्रसङ्गान्, नियमवत्। त्रैलक्षण्यं लक्षणम्, न यत्किञ्चित्, तेनायम् अप्रसङ्ग इति चेन्, न, नियमेन साध्याविनाभावित्वस्याइवोद्दीपनात्; तच् चेद् अस्ति किं त्रैलक्षण्यापेक्षया, तस्याइव गमकत्वात्। तथा हि: जलचन्द्रान् नभश्चन्द्रम्, कृत्तिकोदयाच् छकटोदयम्, पुष्पिताइकचूतात् पुष्पिताशेषचूतान्, चन्द्रोदयात् कुमुदाकरप्रबोधम्, वृक्षाच् छायाम् इत्यादि पक्षधर्मत्वविरहे ऽप्य् अनुमिमीमहे। कालादिकस् तत्र धर्मी समस्त्य् एव, तत्र पक्षधर्मता लिङ्गस्य गृह्यत इति चेन्, नातिप्रसङ्गाद्, एवं हि शब्दस्यानित्यत्वे साध्ये काककार्ष्ण्यादेर् अपि गमकत्वप्रसक्तेस्, तत्रापि लोकादेर् धर्मिणः कल्पयितुं शक्यत्वात्। तथान्वयविकलो ऽप्य् अनित्यः शब्दः, श्रावणत्वाद् इत्य् अयं सम्यग्घेतुतया समर्थयितुं शक्य इति, नान्वयो ऽपि हेतोर् लक्षणम्। तथा हि: तावकाकूतेनाइव सकलं सत्त्वम् अनित्यतया क्रोडीकृतम् इति भावधर्मः श्रावणत्वं कथम् अनित्यतां विहाय विपक्षे वर्तितुम् उत्सहेत, तद्विकलस्य निःस्वभावतापत्तेर्, अनित्यताविनिर्मुक्तस्य सत्त्वस्यासम्भवावत्। एतेन सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वान्, निरात्मकत्वे तद्वैकल्यप्रसङ्गाद्, घटादिवद् इत्य् अयम् अपि गमको व्याख्यातः, साध्यार्थान्यथानुपपन्नत्वस्यात्रापि सद्भावात्, पक्षधर्मत्वान्वययोस् त्व् अलक्षणतया प्रतिपादनात्।
[नव्_५।३] तथा कार्यस्वभावानुपलब्धिरूपलिङ्गत्रयनियमो ऽपि किल तादात्म्यतदुत्पत्तिलक्षणसम्बन्धास्तित्वम् एतेष्व् एवेति यः क्रियते, सो ऽप्य् अयुक्तः, प्रकृतसम्बन्धद्वयविकलस्यापि रूपादे रसादिगमकत्वदर्शनात्। मा भूत् तस्य तादात्म्यतदुत्पत्तिभ्यां गमकत्वम्, समवायाद् भविष्यति, तथापि नान्यथानुपपन्नत्वम् एव हेतोर् लक्षणम् इति यदि वैशेषिको मन्येत, सो ऽन्यथा निर्लोठनीयः। स हि विकल्पतः पर्यनुयोज्यः: समवायिभ्यः समवायो ऽभिन्नो भिन्नो वा। यद्य् अभिन्नः, समवायिन एव तर्हि, न समवायः, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्। भिन्नश् चेत्, स कथं तेषु वर्तेत: सामस्त्येनाहोस्विद् एकदेशेन? तद् यदि सामस्त्येन, तद् अयुक्तम्, समवायबहुत्वप्रसङ्गात्, प्रतिसमवायि तस्य परिसमाप्ततावाप्तेः। अथाइकदेशेन, तद् अप्य् अचारु, सांशताप्रसङ्गेन निरवयवत्वक्षतेः, स्वांशवर्तने ऽपि सामस्त्याइकदेशचोद्यावताराच् च। तत्रापि सामस्त्यपक्षे बहुत्वं तदवस्थम् एव। एकदेशपक्षे त्व् अंशान्तरप्रसङ्गेनानवस्था। तन् न समवायबलात् गमकतां प्रत्य् आशाविधेया, तस्याइव तत्र दुःस्थितत्वात्। एतेन संयोगिनो ऽपि गमकता प्रत्युक्ता, समानदूषणत्वात्। विरोधिनो ऽपि विरुद्धाभावगमकत्वम् अन्यथानुपपन्नत्वम् एव सूचयति, तदभावे गमकत्वायोगात्।
[नव्_५।४] एवं परपरिकल्पितम् अन्यद् अपि लिङ्गलक्षणं यद् गमकताङ्गं तद् अन्यथानुपपन्नत्वं न व्यभिचरति, साध्यं विनाप्य् उपपद्यमानस्य गमकतावैकल्याद् इति; अत्राइव व्यापके लिङ्गलक्षणे ऽन्तर्भावनीयम्, विपरीतं तु निरसनीयम् इति स्थितम्।
[नव्_५।५] तद् एवम् अनुमानलक्षणं प्रतिपाद्याधुना यच् छौद्धोदनिशिष्यकैर् न्यगादि, यद् उत – भ्रान्तम् अनुमानम्, सामान्यप्रतिभासित्वात्, तस्य च बहिःस्वलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्याम् अपाक्रियमाणतयायोगात्, तद्रूपतया च तेन तस्याध्यवसायाद्, अतस्मिंस् तद्ग्रहणस्य च भ्रान्तिलक्षणत्वात्। प्रामाण्यं पुनः प्रणालिकया बहिः स्वलक्षणबलायातत्वाद् अनुमानस्य। तथा हि: नार्थं विना तादात्म्यतदुत्पत्तिरूपसम्बन्धप्रतिबद्धलिङ्गसद्भावो, न तद् विना तद्विषयं ज्ञानम्, न तज्ज्ञानम् अन्तरेण प्रागवधारितसम्बन्धस्मरणम्, तदस्मरणे नानुमानम् इत्य्, अर्थाव्यभिचारित्वाद् भ्रान्तम् अपि प्रमाणम् इति सङ्गीर्यते; तद् उक्तम्: “अतस्मिंस् तद्ग्रहो भ्रान्तिर् अपि सम्बन्धतः प्रमेति” – तद् अपाकर्तुम् आह: तद् अभ्रान्तम् इत्यादि। तद् अनुमानम्, भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, ततो ऽन्यद् अभ्रान्तम्, अविपरीतार्थग्राहीति यावत्। इयं च प्रतिज्ञा। प्रमीयते यथावस्थितो ऽर्थः परिच्छिद्यते ऽनेनेति प्रमाणम्, तद्भावस् तत्त्वं तस्मात्। अयं तु हेतुः। सङ्गतम् अक्षाणाम् इति समक्षम्, तद् इव समक्षवद् इति दृष्टान्तः। तद् इदम् अनुमानस्य भ्रान्ततानिराकारकं सम्पूर्णावयवम्, उपनयनिगमनयोर् अवयवत्रयप्रतिपादनेनाइवाक्षिप्तत्वात्। प्रमाणं सूचितम्, प्रयोगस् त्व् एवं द्रष्टव्यो: ऽभ्रान्तम् अनुमानम्, प्रमाणत्वाद्, इह यद् यत् प्रमाणं तत् तद् अभ्रान्तं यथा समक्षम्, तथा च प्रमाणं भवद्भिर् अभ्युपगम्यते ऽनुमानम्, तस्मात् प्रमाणत्वाद् अभ्रान्तम् इति प्रतिपद्यन्ताम् इति। तत्रार्थवादी तावत् समक्षलक्षणे दृष्टान्ते साध्यविकलताम् आविर्भावयितुं न पारयति, स्वयम् एव समक्षस्याभ्रान्ततया ऽभ्युपगमात्। शून्यवादिनः पुनः समस्तापलापित्वात् प्रमाणप्रमेयव्यवहारं प्रत्य् अयोग्यताइवेति न तम् अधिकृत्य स्वसाधनदोषाः परिहर्तव्याः, स्ववचनबाधितप्रतिज्ञत्वेन तद्वादोत्थानाभावात्। तथा हि: सर्वाभावप्रतिपादकं वचो ऽस्ति, नास्ति वा? यद्य् अस्ति तर्हि प्रतिज्ञाहानिः। अथ नास्ति, सकलभावसिद्धिः, प्रतिषेधकाभावात्।
[नव्_६।०] ज्ञानवादी पुनर् वेद्यवेदकाकारविकलं सकलविकल्पगोचरातीतं निर्विकल्पकं विविक्तपारमार्थिकस्वसंवेदनवेद्यं संवेदनम् आगूर्यानादिकालालीनवासनाबलप्रभावितं ग्राह्यग्राहकाकारकलुषितं बहिष्प्रथमानं निखिलम् अपि ज्ञानं विपर्यस्ततया प्रतिजानानः समक्षलक्षणस्य प्रकृतदृष्टान्तस्य साध्यशून्यताम् अभिदध्याद्, अतस् तन्मतविकुट्टनार्थम् आह:
न प्रत्यक्षम् अपि भ्रान्तं प्रमाणत्वविनिश्चयात् ।
भ्रान्तं प्रमाणम् इत्य् एतद् विरुद्धं वचनं यतः ॥ न_६ ॥
[नव्_६।१] यद् भवतश् चेतसि विवर्तते, यद् उत न केवलम् अनुमानं भ्रान्तम्, किं तर्हि यद् भवद्भिर् दृष्टान्ततयोपात्तं प्रत्यक्षं तद् अपि भ्रान्तम् एव, “सर्वम् आलम्बने भ्रान्तम्” इत्य् वचनात्, तद् एतन् न। कुत इत्य् आह: प्रमाणत्वविनिश्चयाद् इति, प्रमाणभावनिर्णयाद् इत्य् अर्थः।
[नव्_६।२] ननु च प्रमाणताम् अभ्रान्ततान्यथानुपपन्नां यदि परः प्रतिपद्यते, ततस् ताम् अभ्युपगच्छन् कथं भ्रान्तताविप्रतिपत्तिं विदध्याद् इति पार्श्वस्थितवचनावकाशम् आशङ्क्य, भ्रान्तताप्रमाणतयोर् विरोधसाधनेन ततः प्रमाणतां व्यावर्त्यानन्यशरणतया प्रतिज्ञाताभ्रान्तताक्रान्तां तां दर्शयन्न् आह: भ्रान्तम् इत्यादि। भ्रान्तं विपर्यस्तम् अथ च प्रमाणं ग्राह्यपरिच्छेदहेतुर् इत्य् एतद् वचनम् एवंविद्धार्थप्रत्यायको ध्वनिर् विरुद्धम्, पूर्वापरव्याहतार्थगर्भत्वात्।
[नव्_६।३] ननु च नाइवास्य विरुद्धता, तथा ह्य्: अविदितपरमार्थव्यावहारिकाभिप्रायेण लोकसंवृतिं घटयन्तो वयं दृढतरवासनाप्रबोधसम्पादितसत्ताकयोः प्रत्यक्षानुमानयोः प्रमाणताम् आचक्ष्महे, तदभिप्रायेण दर्शितार्थप्रापकत्वेन तयोर् अविसंवादकत्वात्। शिथिलवासनाउन्मुख्यनिर्मितजन्मकयोः पुनर् अप्रमाणताम्, तदाकूतेनाइव दर्शिते ऽर्थे विप्रलम्भनाद् इति, भ्रान्ततां पुनस् तत्त्वचिन्तकाभिप्रायेण सकलस्य बहिर् उपप्लवमानस्य ग्राह्यग्राहकाकारकालुष्यदूषितस्य प्रतिभासस्य पारमार्थिकाद्वयसंवेदनविपर्यस्तरूपत्वाद् अभिदध्महे, बहिः प्रतिभासस्य तद्ग्राह्यार्थविचाराक्षमतयोपप्लुतरूपत्वात्। तथा ह्य्: अर्थो ऽवयविरूपो ऽवयवरूपो वा स्याद्, गत्यन्तराभावात्। न तावद् अवयविरूपो विचारं क्षमते, ऽवयवविरहे ऽवयवित्वायोगात्, तेषु च तद्वृत्तिविकल्पानुपपत्तेः। तथा हि: तेष्व् असाव् एकदेशेन वर्तते सामस्त्येन वा। न तावद् एकदेशेन, तस्य स्वयं निरवयवत्वात्। अवयववृत्तिनिमित्तम् अंशान्तरकल्पने तद्वृत्ताव् अप्य् अंशान्तरकल्पनप्रसङ्गस्, तथा चानवस्था। नापि सामस्त्येन, प्रत्यवयवं परिसमाप्तरूपतयावयविबहुत्वप्रसङ्गात्। भेदपक्षे दोषो ऽयम्, अभेदपक्षे नास्तीति चेन्, न: तत्राप्य् अवयवमात्रम् अवयविमात्रं वा स्याद्, इतरेतराव्यतिरिक्तत्वाद्, इतरेतरस्वरूपवत्। किं च, समस्तावयवव्यापिनो ऽवयविनो ऽभ्युपगमे पटादेर् एकदेशरागकम्पदर्शनादिषु सकलरागकम्पदर्शनादीनि दुर्निवाराणि स्युर्, एकस्य रागारागादिविरुद्धधर्माध्यासायोगाद् इति। नाप्य् अवयवरूपो ऽर्थो विचारगोचरचारी करचरणशिरोग्रीवादीनाम् अवयवानां स्वावयवापेक्षयावयविरूपतया तद्दूषणेनाइवापास्तत्वात्। परमाणूनां निरंशतयावयवत्वम् उपपद्यत इति चेन्, न, तेषाम् अपि दिक्षट्कसम्बन्धेन षटंशतापत्तेर्, अन्यथावस्थानाभावात्। ततश् चार्थविरहात् तदुन्मुखो ग्राह्याकारो ऽलीकस्, तदलीकतायां ग्राहकाकारो ऽपि नावस्थानम् आबध्नाति, ग्राह्याभावे ग्राहकायोगात्। तदपेक्षयाइव तत्स्वरूपस्थितिः, ग्राह्यग्राहकाकारविलये च बोधाकारो ऽवशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात्, तस्मात् स एव पारमार्थिक इति।
[नव्_६।४] अत्र प्रतिविधीयते – यद् अवादि संवेदनम् अद्वयं पारमार्थिकम्, ग्राह्यग्राहकाकारप्रवृत्तं पुनर् अतात्त्विकम् इति, तद् अयुक्तम्, प्रमाणाभावात्। तथा हि: बहिर् अन्तश् चानेकाकारतया हर्षविषादादिभिः स्थिरस्थूरताद्यनेकधर्मपरिकरितार्थग्रहणपरिणामैश् च विवर्तमानं संवेदनम् उपलभ्यते, न पुनर् वेद्यवेदकाकारविविक्तं यादृग् भवद्भिर् उपवर्ण्यते ज्ञानं तादृशं कस्यचित् कदाचन प्रतीतिगोचरचारिताम् अनुभवत्य्, अद्वयप्रतिभासस्य स्वप्नदशायाम् अप्य् अननुभूतेः। न च तत्त्वचिन्तका अपि प्रमाणम् अन्तरेण स्वाकूतं प्रतिष्ठापयन्तः प्रेक्षावताम् अवधेयवचना भवन्त्य्, अन्यथाइकम् अचेतनम् अव्ययम् अपि ब्रह्मानेकं चेतनं क्षणभङ्गुरताक्रान्तम् अविद्यातः प्रथत इति ब्रुवाणो ऽनिराकार्यः स्यात्। यद् अपि बहिरर्थनिराकरणधिया अवयव्यवयवद्वारेण दूषणम् अदायि, तद् अपि बहिर् अन्तः प्रथमानसकलासुमत्प्रतीतप्रतिभासमुद्गरनिर्दलितशरीरतया भक्तमध्यनिष्ठ्यूतदर्शिनः पुरतो विप्रतारणप्रवणकुट्टिनीशपथप्रायम् इति न विद्वज्जनमनांसि रञ्जयति, प्रत्यक्षप्रतिभासापह्नवे तन्मूलकत्वात् कुयुक्तिविकल्पानाम् उत्थानाभावात्। किं च, संवेदनस्यापि सितासिताद्यनेकाकारेष्व् एकस्य वर्तने भेदाभेदसामस्त्याइकदेशादिचोद्यं समानम् एवेति न दूषणम्। अनेकाकारविवर्तस्यालीकत्वान् न तेन सह संवेदनस्य पारमार्थिकस्य भेदाभेदादिचिन्तेति चेन्, नन्व् एवम् इतरेतराश्रयं दुरुत्तरम् आढौकते। तथा हि: तदलीकत्वसिद्धाव् अद्वयसंवेदनसिद्धिस्, तत्सिद्धौ च तदलीकत्वम् इति न्यायात्। अन्यच् चाद्वयम् अप्य् एकक्षणवर्ति संवेदनं यथा पूर्वोत्तरक्षणाभ्यां सम्बन्धम् अनुभवति, तथा निरंशा अपि यदि परमाणवो दिगंशैः परमाण्वन्तरैर् वा संश्लेषमागच्छेयुः किम् अयुक्तं स्यात्। न चावयव्यवयवयोर् एकान्तव्यतिरेकाव्यतिरेकपक्षे यद् दूषणं तद् अस्मत्पक्षबाधाकरम्, परस्पराविनिर्लुठितरूपयोर् विवक्षया सन्दर्शनीयभेदयोस् तयोर् अभ्युपगमाद्, बहिर् अन्तश् च तथाइव प्रकाशमानतया तयोर् निह्नोतुम् अशक्यत्वात्। एतेन रागारागकम्पाकम्पादिविरोधोद्भावनम् अपि प्रतिव्यूढम्, प्रमाणप्रसिद्धे ऽर्थे विरोधाभावात्, प्रमाणबाधितस्याइव विरुद्धत्वात्, कुयुक्तिविकल्पानां च प्रत्यक्षापह्नवे निर्मूलतया बाधकत्वायोगात्, तदुद्दलितत्वेनोत्थानाभावाद्, भिन्नप्रवृत्तिनिमित्तत्वाच् च सर्वधर्मानां तद्विपर्ययसम्पाद्यो विरोधो दूरापास्त एव। किं च, स्वयम् एव संवेदनं परमार्थसंव्यवहारापेक्षया प्रत्यक्षाप्रत्यक्षसविकल्पकाविकल्पकभ्रान्ताभ्रान्तादिरूपम् अभ्युपयतो बहिरर्थे विरुद्धधर्माध्यासप्रतिषेधबुद्धिः केवलं जाड्यं सूचयति। तन् न प्रमाणं कथञ्चिद् भ्रान्तं समस्ति, स्वरूपप्रच्यवप्रसङ्गाद् इति स्थितम्।
[नव्_६।५] ननु च तद्दर्शितार्थालीकतया ज्ञानस्य भ्रान्तता, न स्वरूपेण, न च तदुदयसमये कस्यचिद् इदम् अलीकार्थम् इदं त्व् अनलीकार्थम् इति विवेकेनावधारणं समस्ति, भ्रान्ताभ्रान्ताभिमतयोस् तदेकरूपतया प्रकाशनात्। यदा च विशददर्शनपथचारिणो ऽपि शशधरयुगलादयो ऽलीकताम् आविशन्तो दृश्यन्ते, तदा सकलसत्यार्थताभिमतप्रतिभासेष्व् अप्य् अलीकार्थताशङ्कानिवृत्तेर् अनाश्वास एव। न च तदर्थप्राप्त्यादिकम् आरेकानिराकरणकारणं कल्पनीयम्, स्वप्नावस्थायां तत्सद्भावे ऽप्य् अलीकार्थतासिद्धेः। बाधकप्रत्ययोपनिपातात् तस्यासत्यार्थतेति चेन्, न, तस्य स्वगोचरपर्यवसितत्वेन बाधकत्वायोगात्। अन्यथा नीलम् आददाना देवदत्तबुद्धिः प्राक्प्रवृत्तपीतबुद्धेर् बाधिकापद्येत। सर्वप्रतिभासस्य बाधकाभावसिद्धेश् च समानता। तस्माद् भ्रान्ताभ्रान्तज्ञानभ्रान्तिर् इयं भवताम्, विवेकाभावेन सर्वस्यालीकार्थत्वाद् इति।
[नव्_७।०] अत्राह:
सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटं ।
प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिध्यति ॥ न_७ ॥
[नव्_७।१] एवं मन्यते: यो ऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि तत्साधकस्याभ्रान्तताभ्युपगन्तव्या, तद्भ्रान्तत्वे तत्प्रतिपादितार्थालीकत्वेन सकलज्ञानाभ्रान्तताप्रसङ्गाद्, अन्यथा तद्भ्रान्ततायोगात्। एवं च तज्जातीयम् अन्यद् अप्य् अभ्रान्तं स्यात्, ततश् च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेर् यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत् प्रमाणम् इति सम्बन्धः। तच् च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिद्ध्यति निष्पद्यते, अन्यथा प्रमेयाभावे प्रमाणाभावात्। तस्मात् प्रमाणम् उररीकुर्वाणेनार्थो ऽप्य् अभ्युपगन्तव्य इत्य् अभिप्राय इति।
[नव्_८।०] तद् एवं स्वार्थानुमानलक्षणं प्रतिपाद्य तद्वतां भ्रान्तताविप्रतिपत्तिं च निराकृत्याधुनाप्रतिपादितपरार्थानुमानलक्षण एवाल्पवक्तव्यत्वात् तावच् छाब्दलक्षणम् आह:
दृष्टेष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः ।
तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥ न_८ ॥
[नव्_८।१] अत्रापि शाब्दम् इति लक्ष्यम्, अनूद्यत्वात्। दृष्टेष्टाव्याहताद् इत्यादि लक्षणम्, विधेयत्वात्। दृष्टेन प्रमाणावलोकितेनेष्टः प्रतिपादयिषितो ऽव्याहतो ऽनिराकृतः सामर्थ्याद् अर्थो यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितम् इति यावत्, तस्मात्। परमो ऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्, तम् अभिधातुं शीलं यस्य तत् परमार्थाभिधायि, विशिष्टार्थदर्शकम् इत्य् अर्थः। ततस् तत्त्वग्राहितयोत्पन्नं प्रकृतवाक्यप्रतिपाद्यार्थादानशीलतया लब्धात्मसत्ताकं यन् मानं तच् शाब्दम् इति प्रकीर्तितम् उपवर्णितं पूर्वाचार्यैर् इति सम्बन्धः। तत्र दृष्टेष्टाव्याहताद् इत्य् अनेन कुतीर्थिकवचसां लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति, प्रमाणबाधितत्वात्। वाक्याद् इत्य् अमुना तु वाक्यस्याइव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच् छाब्दाभावम् आह। परमार्थाभिधायिन इत्य् अनेन ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे। तत्त्वग्राहितयोत्पन्नम् इत्य् अमुना त्व् एवम्भूताद् अपि वाक्याच् छ्रोतृदोषाद् विपरीताद्यर्थग्रहणचतुरतया प्रादुर्भूतस्य शाब्दत्वं वारयति। मानम् इत्य् अनेनान्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्याप्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात्, तस्य वचनरूपत्वात्। त्र्यवयवहेतुसूचकत्वेनोपचारतस् तस्य प्रामाण्यम्, न तत्त्वत इति चेन्, नाप्रमाणस्य सूचकत्वायोगात्। ननु च हेतुप्रतिपादने यदि तत् प्रमाणम्, ततो हेतुसमर्थकप्रमाणान्तरप्रतीक्षणं विशीर्येत, तेनाइव निर्णीतस्वरूपत्वात् तस्य, प्रमाणप्रसिद्धे पुनः प्रमाणान्तरवैयर्थ्यात्। नाइतद् अस्ति, भवत्परिकल्पिताध्यक्षस्याप्य् अप्रामाण्यप्रसङ्गात्: तद्दर्शिते ऽर्थे विकल्पप्रतीक्षणात् तस्याइव प्रामाण्यम् आसज्येत। तद्गृहीतम् एवार्थम् असाव् अभिलापयतीति चेच् छब्दप्रतिपादितं हेतुं प्रमाणान्तरं समर्थयत इति समानो न्यायः।
[नव्_९।०] शाब्दं च द्विधा भवति: लौकिकं शास्त्रजं चेति। तत्रेदम् द्वयोर् अपि साधारणं लक्षणं प्रतिपादितम्। समर्थनं पुनर् अविप्रतारकवचनप्रभवस्येहादिवाक्यप्रस्ताव एव लौकिकस्य विहितम्, शास्त्रजस्य तु विधातव्यम् इति यादृशः शास्त्रात् तज्जातं प्रमाणताम् अनुभवति तद् दर्शयति:
आप्तोपज्ञम् अनुल्लङ्घ्यम् अदृष्टेष्टविरोधकम् ।
तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् ॥ न_९ ॥
[नव्_९।१] शास्ति शिक्षयति जीवाजीवादितत्त्वं ग्राहयति, शिष्यते ऽनेनेति वा शास्त्रम्। तत् किम्भूतम् इति तद्विशेषणान्य् आह। आप्तः प्रक्षीणाशेषरागादिदोषगणस्, तेनोपज्ञम् आदाव् उपलब्धम्। अनेनापौरुषेयापोहम् आह, तस्य प्रमाणबाधितत्वात्, पुरुषव्यापाराभावे वचनानुपलब्धेर्, उपलम्भे ऽपि तदर्थानवगमात्, तदर्थनिश्चयार्थं पुरुषाश्रयणे गजस्नानन्यायप्रसङ्गात्, तस्य रागादिकलुषितत्वेन वितथार्थकथनप्रवृत्तेः। तदनुष्ठानाद् अपि स्वकार्यसिद्धौ प्रणयनार्थम् अपि पुरुषः किं नेष्यते, विशेषाभावात्। तन् न क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादाव् अदृष्टे ऽर्थे प्रवृत्तिर् युक्ता; तत् तद् एव शास्त्रम्, निरुपचरितशब्दार्थोपपत्तेर् इत्य् आस्तां तावत्।
[नव्_९।२] अत एवोल्लङ्घ्यते प्राबल्येन गम्यते ऽभिभूयते अन्यैर् इत्य् उल्लङ्घ्यम्, ततो ऽन्यद् अनुल्लङ्घ्यम्, सर्ववचनातिशायीति यावत्। अत एव दृष्टेन प्रमाणनिर्णीतेनेष्टस्य तद्वाच्यस्य विरोधो यस्मिंस् तत्तथा तद् एव, यदि वा दृष्टः प्रमाणेन, इष्टो वचनान्तरेण, तयोर् विरोधकम्, तद्विरुद्धार्थाभिधानात्, ततो ऽन्यद् अदृष्टेष्टविरोधकम्, अबाधार्थाभिधायीत्य् अर्थः।
[नव्_९।३] तदियता शास्त्रस्य स्वार्थसम्पद् उक्ता। अधुना तत्त्वोपदेशादीनां परार्थत्वात् परार्थसम्पदम् आह: तत्त्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितत्वात्, तेषां उपदेशः स्वरूपप्रकाशनं तद्रक्षणादिविधानं वा। तं करोति तत्त्वोपदेशकृत्। अत एव सार्वं सर्वस्मै हितम्, प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात्। एतेन परार्थसम्पादकत्वम् उक्तम्।
[नव्_९।४] अधुना परेषाम् एवानर्थविघातित्वम् आह: कुत्सिताः पन्थाः कापथास् तीर्थान्तराणि, तेषां घट्टनं विचालकं निराकारकम्, सर्वजनापकारिकुमतविध्वंसकम् इत्य् अर्थः। ईदृशाद् एव शास्त्राज् जातं शाब्दं प्रमाणम्, नान्येभ्यो, विप्रलम्भकत्वात् तेषाम् इति।
[नव्_१०।०] अधुना परार्थानुमानलक्षणं वक्तव्यम्, तच् च प्रत्यक्षे ऽपि पश्यन्न् एकयोगक्षेमत्वात् सामान्येनाह:
स्वनिश्चयवद् अन्येषां निश्चयोत्पादनं बुधैः ।
परार्थं मानम् आख्यातं वाक्यं तदुपचारतः ॥ न_१० ॥
[नव्_१०।१] अत्र परार्थं मानम् इति लक्ष्यम्, स्वनिश्चयवद् इत्यादि लक्षणम्। स्व आत्मा तस्य निश्चयः प्रमेयाधिगमस्, तद्वद् अन्येशां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदकज्ञानप्रादुर्भावनम्: यथात्मनो ऽर्थनिर्णयस् तथा परेषां निर्णयजननम् इत्य् अर्थः। बुधैर् विद्वद्भिः, परस्मै अर्थः प्रयोजनं येन तत् परार्थम्, मीयते ऽनेनेति मानम्, आख्यातं कथितम्।
[नव्_१०।२] ननु च यदि निश्चयोत्पादनं परार्थमानम्, तथा ज्ञानम् अपि परप्रत्यायनाय व्याप्रियमानं परार्थं प्राप्नोतीत्य् आह: वाक्यं परार्थम्, न ज्ञानम्, तस्याइवानन्तर्येण व्यापारात्, परप्रयोजनमात्रत्वाच् च, इतरस्य तु व्यवहितत्वात्, स्वपरोपकारित्वाच् च। कथं वचनम् अज्ञानरूपं प्रमाणम् इत्य् आह: तदुपचारतस्, तस्य ज्ञानस्योपचारो ऽतद्रूपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम्, ततः। इदम् उक्तं भवति: प्रतिपाद्यगतम् उत्पत्स्यमानं यज् ज्ञानं तद् अव्यवहितकारणत्वाद् वचनम् अप्य् उपचारेण प्रमाणम् इत्य् उच्यते। तत्रानुमानस्य पारार्थ्यं परैर् अभ्युपगतम् एव, प्रत्यक्षस्य न प्रतिपद्यन्ते, किलेदं शब्दप्रवेशशून्यस्वलक्षणग्राहीति नाइतद्गोचरः परेभ्यः प्रतिपादयितुं पार्यते। न च शब्दात् परस्य स्वलक्षणग्रहणदक्षं प्रत्यक्षम् उन्मङ्क्ष्यति, शब्दस्य विकल्पोत्पादितत्वेन परस्यापि विकल्पोत्पादकत्वात्। तद् उक्तम्:
“विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्य् अपि” ॥
[नव्_११।०] निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्दजन्यम् इत्य् अतो ऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां साधयितुम् आह:
प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् ।
परस्य तदुपायत्वात् परार्थत्वं द्वयोर् अपि ॥ न_११ ॥
[नव्_११।१] प्रत्यक्षेणाप्य् अनुमानेनेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायकत्वात् परार्थत्वं प्रतिपाद्यप्रयोजनत्वं द्वयोर् अपि प्रत्यक्षानुमानयोस्, तुल्यकारणत्वान्, नानुमानस्याइवाइकस्येत्य् अभिप्रायः। इह चाश्रूयमाणत्वात् तदर्थगमनाच् चापीवशब्दौ लुप्तनिर्दिष्टौ द्रष्टव्यौ। प्रत्यक्षप्रतीतार्थप्रत्यायनं च प्रतिजानानस्यायम् अभिप्रायो: यत् परो मन्यते – नाइतद्गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति – तद् अयुक्तम्, निर्विकल्पकाध्यक्षापोहेन व्यवसायरूपस्य प्रत्यक्षस्य प्राग् एव साधितत्वात्, तद्गोचरस्य कथञ्चिद् विकल्पगम्यत्वेन शब्दप्रतिपाद्यत्वात्। तद् यथानुमानप्रतीतो ऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थम् अनुमानम्, तथा प्रत्यक्षप्रतीतो ऽपि परार्थं प्रत्यक्षम्, परप्रत्यायनस्य तुल्यत्वाद्, वचनव्यापारस्याइव भेदात्। तथा ह्य्: अनुमानप्रतीतं प्रत्याययन्न् एवं वचनयत्य् – अग्निर् अत्र धूमाद्, यत्र यत्र धूमस् तत्र तत्राग्निर्, यथा महानसादौ; वैधर्म्येण वाग्न्यभावे न क्वचिद् धूमो, यथा जलाशयादौ, तथा च धूमो ऽयम्, तस्माद् धूमाद् अग्निर् अत्रेति, अव्युत्पन्नविस्मृतसम्बन्धयोस् तथाइव प्रतिपादयितुं शक्यत्वात्। स्मर्यमाणे सम्बन्धे पुनर् एवम्: अग्निर् अत्र धूमोपपत्तेर्; वैधर्म्येण: अग्निर् अत्र, अन्यथा धूमानुपपत्तेः। प्रत्यक्षप्रतीतं पुनर् दर्शयन्न् एतावद् वक्ति: ‘पश्य राज गच्छतिऽ। ततश् च वचनाद् द्विविधाद् अपि समग्रसामग्रीकस्य प्रतिपाद्यस्यानुमेयप्रत्यक्षार्थविषया यतः प्रतीतिर् उल्लसत्य्, अतो द्वयोर् अपि परार्थतेत्य् आह: परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीतिं प्रति प्रतिपादकस्थप्रत्यक्षानुमाननिर्णीतार्थप्रकाशनकारणत्वाद् इत्य् अर्थः। एतेन पूर्वकारिकोक्तोपचारकारणं च लक्षयति।
[नव्_११।२] यच् चोक्तम्: ‘न शब्दात् परस्य प्रत्यक्षोत्पत्तिस्, तस्य विकल्पजनकत्वात्, प्रत्यक्षस्य स्वलक्षणविषयत्वेन निर्विकल्पकत्वात्ऽ; – तद् अयुक्तम्, सामान्यविशेषात्मकार्थविषयस्य निर्णयरूपस्य तस्य कथञ्चिद् एकविषयतया शब्दोत्पाद्यत्वाविरोधाद्, एवंविधस्य च प्राग् एव समर्थनात्। चक्षुरादिसामग्रीतस् तद् उत्पद्यते, न शब्दाद् इति चेद्, अनुमानम् अपि प्रत्यक्षादिनिश्चिताद् धेतोर् अविस्मृतसम्बन्धस्य प्रमातुर् उल्लसति, न शब्दाद्, अतस् तस्यापि परार्थता विशीर्येत। समर्थहेतुकथनात् तत्र वचनस्य परार्थतेति चेद्, अत्रापि दर्शनयोग्यार्थप्रतिपादनाद् इति ब्रूमः। तन् न प्रत्यक्षपरोक्षयोः पारार्थ्यं प्रति विशेषोपलब्धिर् इति मुच्यतां पक्षपातः।
[नव्_१२।०] तद् एवं द्वयोर् अपि परार्थतां प्रतिपाद्य तत्स्वरूपम् आह:
प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद् वचः ।
प्रत्यक्षं प्रतिभासस्य निमित्तत्वात् तद् उच्यते ॥ न_१२ ॥
[नव्_१२।१] यद् वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत् प्रत्यक्षम् उच्यत इति सम्बन्धः। तच् च प्रत्यक्षरूपम् एवोच्यमानं प्रत्यक्षम्, विप्रतिपन्नं प्रति पुनर् अनुमानद्वारेणोच्यमानम् अनुमानम् एवेति चशब्देनानेकार्थत्वाद् दर्शयति। वचनं कुतः प्रत्यक्षम् इत्य् आह: प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद् उपचारेणोच्यत इत्य् अर्थः।
[नव्_१३।०] अनुमानम् आह:
साध्याविनाभुवो हेतोर् वचो यत् प्रतिपादकम् ।
परार्थम् अनुमानं तत् पक्षादिवचनात्मकम् ॥ न_१३ ॥
[नव्_१३।१] हिनोति गमयत्य् अर्थम् इति हेतुस्, तस्य साध्याविनाभुवः प्राङ् निरूपितस्य यद् वचः प्रतिपादकं सन्दर्शकं तद् अनुमानप्रकाशहेतुत्वात् परार्थम् अनुमानम्। तत् कीदृशम्? इत्य् आह: पक्षो वक्ष्यमाणलक्षणः स आदिर् येषां हेतुदृष्टान्तोपनयनिगमनादीनां तानि तथा, तेषां वचनानि प्रतिपादका ध्वनयः; तान्य् एवात्मा स्वरूपं यस्य तत् पक्षादिवचनात्मकम्।
[नव्_१३।२] ननु च हेतुप्रतिपादकं वचः परार्थम् अनुमानम् इत्य् अभिधाय तत् पक्षादिवचनात्मकम् इति वदतः पूर्वापरव्याहता वाचो युक्तिः। नाइतद् अस्त्य्; एवं मन्यते नाइकः प्रकारः परार्थानुमानस्य, किं तर्हि यथा परस्य सुखेन प्रमेयप्रतीतिर् भवति तथा यत्नतः प्रत्यायनीयः। तत्र दशावयवं साधनं प्रतिपादनोपायः। तद् यथा – पक्षादयः पञ्च, तच्छुद्धयश् च। तत्र यदा प्रतिपाद्यः प्रक्रमाद् एव निर्णीतपक्षो ऽविस्मृतदृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणो व्युत्पन्नमतित्वाच् छेषावयवाभ्यूहनसमर्थश् च भवति, यद् वात्यन्ताभ्यासेन परिकर्मितमतित्वात् तावताइव प्रस्तुतप्रमेयम् अवबुध्यते, तदा हेतुप्रतिपादनम् एव क्रियते, शेषाभिधानस्य श्रोतृसंस्काराकारितया नैरर्थक्याद् इत्यादौ हेतुप्रतिपादनं सूत्रकृता परार्थम् अनुमानम् उक्तम्। यदा तु प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयस्, तदाकाण्ड एव हेतूपन्यासो ऽदृष्टमुद्गरपातायमानः स्याद् इति पक्षो ऽपि निर्दिश्यते। तथास्मर्यमाणे प्रतिबन्धग्राहिणि प्रमाणे दृष्टान्तो ऽपि वर्ण्येतान्यथा हेतोः सामर्थ्यानवगतेः। स्मृते ऽपि प्रमाणे दार्ष्टान्तिके योजयितुम् अजानानस्योपनयो दर्श्यते। तथापि साकाङ्क्षस्य निगमनम् उच्यते, ऽन्यथा निराकुलप्रस्तुतार्थासिद्धेः। तथा यत्र पक्षादौ स्वरूपविप्रतिपत्तिस् तत्र तच्छुद्धिः प्रमाणेन कर्तव्येतरथा तेषां स्वसाध्यासाधनात्। सर्वेषां चामीषां साधनावयवत्वम्, प्रतिपाद्यप्रतीत्युपायत्वात्।
[नव्_१३।३] ननु च स्वनिश्चयवत् परनिश्चयोत्पादनं परार्थम् अनुमानम् उक्तम्, न च स्वार्थानुमानकाले क्रमो ऽयम् अनुभूयते, सम्बन्धवेदिनो हेतुदर्शनमात्रात् साध्यप्रतीतिसिद्धेर्, न हि प्रतिपत्ता पक्षं कृत्वा ततो हेतुं निभालयति, नापि दृष्टान्तादिकं विरचयति, तथा प्रतीतेर् अभावात्। किं चान्वयव्यतिरेकाभ्यां हेतोर् एव सामर्थ्यम् उन्नीयते, न पक्षादीनाम्, तद्व्यतिरेकेणापि साध्यसिद्धेः, तथापि तेषां साधनांशत्वकल्पने ऽनवस्थाप्रसङ्गात्। यदि च तत्सामर्थ्यं स्यात्, तदा पक्षोपन्यासमात्राद् एव साध्यावगतेर् हेतुर् आनर्थक्यम् अश्नुवीत, उत्तरावयवाश् च, एवं हि तत्सामर्थ्यं सिद्ध्येन् नान्यथा। तस्माद् य एव परनिरपेक्षं साध्यं बोधयति स एव हेतुः साधनम्, न पक्षादय इति।
[नव्_१३।४] अत्रोच्यते – ‘स्वनिश्चयवत् परनिश्चयोत्पादनं परार्थम् अनुमानम् उक्तम्ऽ; इत्यादि यद् उक्तं तद् युक्तम् उक्तम्, केवलं तदर्थं न जानीषे, निश्चयापेक्षयाइव ‘वत्ऽइना तुल्यताभिधानान्; न पुनः सर्वसामान्यम् अभिप्रेतम्, अन्यथा ध्वनिम् अनुच्चारयन् स्वार्थानुमाने साध्यम् अवबुध्यत इति, तदनुच्चारणेन परनिश्चयोत्पादनं प्रसज्येत। न चाइतद् अस्ति, शब्दानुच्चारणे परप्रतिपादनासम्भवात्, तदर्थं शब्दाङ्गीकरणे येन येन विना परप्रतिपादनासम्भवस् तत् तद् उररीकर्तव्यम्, समानन्यायात्। न च पक्षादिविरहे प्रतिपाद्यविशेषः प्रतिपादयितुं शक्यो, हेतुगोचरादितत्साध्यार्थप्रतीतिविकलतया तस्य साकाङ्क्षत्वात्। तथा च बुभुत्सितार्थबोधाभावाद् अप्रत्यायित एव तिष्ठेद्; अतस् तद्बोधनार्थं पक्षादयो दर्शनीया इति ते ऽपि साधनांशाः स्युः। यच् चोक्तम्: अन्वयव्यतिरेकानुकरणाभावान् न साधनम्, हेतुमात्राद् अपि साध्यसिद्धेस्, तद् अयुक्तम्, अविप्रतारकतानिश्चितपुरुषवचनमात्राद् अप्य् अग्निर् अत्रेत्यादिरूपात् क्वचित् प्रमेयो ऽर्थः सिध्यतीति हेतोर् अप्य् असाधनताप्रसङ्गात्। तद्विरहेणापि साध्यसिद्धेः। युक्तं चाइतद्, अविप्रतारकवचनस्य प्राग् एव प्रामाण्यप्रसाधनात्। यच् चोक्तम्: यद्य् अमीषां सामर्थ्यं स्यात्, तदा पक्षमात्राद् एव साध्यप्रतीतेर् हेतोर् वैयर्थ्यं स्याद् इति, तद् अयुक्ततरम्, भवत्पक्षे ऽपि समानत्वात्, तत्रापि समर्थहेतूपन्यासाद् एव साध्यावगतेर्, अन्यथा समर्थतायोगात्। पश्चात् तस्याइव प्रमाणेन समर्थनं सर्वत्र गृहीतव्याप्तिकस्य च पुनः पक्षधर्मिण्य् उपसंहरणम् अनर्थकतां प्राप्नुवत् केन निवार्येत? तदभावे हेतोः सामर्थ्यं नावगम्यते, तेन सार्थकम् इति चेत्, पक्षादीन् अपि विरहय्य प्रतिपाद्यविशेषः प्रतिपादयितुं न पार्यत इति तेषाम् अपि सार्थकता न दुरुपपादेति मुच्यताम् आग्रहः। तस्माद् धेतुवत् पक्षादयो ऽपि साधनम्, हेतोर् अपि क्वचित् प्रतिपाद्ये तदपेक्षतया निरपेक्षतासिद्धेर् इति। तद् इदं सकलम् आकलय्योक्तं तत् पक्षादिवचनात्मकं इति।
[नव्_१४।०] तद् एवम् अर्थतः पक्षादीन् प्रस्तुत्य तावत् पक्षलक्षणम् आह:
साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः ।
तत्प्रयोगो ऽत्र कर्तव्यो हेतोर् गोचरदीपकः ॥ न_१४ ॥
[नव्_१४।१] पच्यत इति पक्षो, व्यक्तीक्रियत इतिभावः। किम्भूत इत्य् आह: साध्यस्यानुमेयस्याभ्युपगमो ऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्य् अर्थः। किम् अभ्युपगममात्रम्? नेत्य् आह: प्रत्यक्षाद्यनिराकृत इति। प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दाद् अनुमानस्ववचनलोका गृह्यन्ते, तैर् अनिराकृतो ऽबाधितः पक्ष इति सम्बन्धः। तद् यथा – ‘सर्वम् अनेकान्तात्मकम्ऽ, ‘अस्ति सर्वज्ञऽ; इत्यादि वा। अयं च केवलम् एष्टव्यो, न पुनः परार्थानुमानकाले वचनेनाभिधातव्य इति यो मन्येत तं प्रत्याह: तस्य पक्षस्य प्रयोगो ऽभिधानम् अत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः। कुत इत्य् आह: हेतोः प्राङ्निरूपितस्य गोचरदीपक इति, ‘निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनम्ऽ; इतिवचनाद्, भावप्रधानत्वाच् च निर्देशस्य, विषयसन्दर्शकत्वाद् इत्य् अर्थः। अयम् अत्राभिप्रायो: न हि सर्वत्र प्रतिवादिनः प्रक्रमाद् एव निर्णीतपक्षस्य कूर्चशोभापुरःसरं हेतुर् उपन्यस्यते, ऽपि तु क्वचित् कथञ्चित्।
[नव्_१५।०] ततो यदाद्यापि प्रतिपाद्यः पक्षार्थं न जानीते, तदाकाण्ड एव हेताव् उच्यमाने विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्याद् इत्य् आह:
अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः ।
प्रत्याय्यस्य भवेद् धेतुर् विरुद्धारेकितो यथा ॥ न_१५ ॥
[नव्_१५।१] अन्यथेत्य् उक्तविपरीताश्रयणे पक्षप्रयोगाकरण इत्य् अर्थः। वादिनो हेतूपन्यासकर्तुर् अभिप्रेतो ऽभिमतः स चासौ हेतुगोचरश् च वाद्यभिप्रेतहेतुगोचरस्; तत्र मुह्यति दोलायते तच् छीलश् च यस्, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुर् विरुद्धारेकितो भवेद् विरोधशङ्काकलङ्कितः स्याद् इत्य् अर्थः। ततश् च सम्यग्घेताव् अपि ‘विपक्ष एवायं वर्ततऽ; इति व्यामोहाद् विरुद्धदूषणम् अभिदधीत, पक्षोपन्यासात् तु निर्णीतहेतुगोचरस्य नाइष दोषः स्याद् इत्य् अभिप्रायः। अमुम् एवार्थं स्पष्टदृष्टान्तेनाह यथेति। तदुपन्यासार्थः।
धानुष्कगुणसम्प्रेक्षिजनस्य परिविध्यतः ।
धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥ न_१६ ॥
[नव्_१६।१] यथा लक्ष्यनिर्देशं विना धानुष्कस्येषुं प्रक्षिपतो यौ गुणदोषौ तौ तद्दर्शिजनस्य विपर्यस्ताव् अपि प्रतिभातः – गुणो ऽपि दोषतया, दोषो ऽपि वा गुणतया – तथा पक्षनिर्देशं विना हेतुम् उपन्यस्यतो वादिनो यौ स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षणौ गुणदोषौ तौ प्राश्निकप्रतिवाद्यादीनां विपरीताव् अपि प्रतिभात इति भावार्थः। अक्षरार्थस् तु धनुषा चरति धानुष्कस् तस्य गुणो लक्ष्यवेधप्रावीण्यलक्षणस् तत्र प्रेक्षकाणां कुतूहलम् इति तस्याइवोपादानम्, अन्यथा दोषो ऽपि द्रष्टव्यः। तत्सम्प्रेक्षिजनस्य तत्सम्प्रेक्षणशीललोकस्य परिविध्यतो यथा – कथञ्चिद् बाणं मुञ्चत इत्य् अर्थः; धनुष्कस्य विना लक्ष्यनिर्देशेन चापधरस्य वेध्यनिष्टङ्कनम् ऋते यौ गुणेतरौ गुणदोषौ तौ यथा विरुद्धारेकितौ भवतस्, तथा वादिनो ऽपीत्य् अर्थः। तस्माद् अविज्ञाततदर्थे प्रतिवादिनि वादिधानुष्केण पक्षलक्ष्यं निर्दिश्याइव हेतुशरः प्रोक्तव्य इति स्थितम्।
[नव्_१७।०] साम्प्रतं हेतोर् लक्षणावसरस्, तच् च स्वार्थानुमानवन् निर्विशेषं द्रष्टव्यम्; प्रयोगस् तु तत्र न दर्शितः, स्वार्थानुमानस्य बोधरूपत्वाद्; इह तु दर्शनीयः, परार्थानुमानस्य वचनरूपत्वाद्; अतस् तं दर्शयति:
हेतोस् तथोपपत्त्या वा स्यात् प्रयोगो ऽन्यथापि वा ।
द्विविधो ऽन्यतरेणापि साध्यसिद्धिर् भवेद् इति ॥ न_१७ ॥
[नव्_१७।१] स्वार्थानुमानप्रस्तावे हि परप्रणीतलक्षणान्तरव्यपोहेन साध्यव्यतिरेकात् सामस्त्येन हेतोर् व्यावृत्तिर् एवाइकं लक्षणम् इति निर्णीतम्। परार्थानुमाने ऽपि तद् एव प्रकाशनीयम्, वचनरचना तु क्वचित् कथञ्चित् प्रवर्तत इत्य् अभिप्रायवांस् तद्द्वैविध्यम् आह: हेतोर् द्विविधः प्रयोगः स्याद् इति सम्बन्धः। कथम् इत्य् आह: तथाइव साध्यसद्भाव एवोपपत्तिर् विद्यमानता, तया तथोपपत्त्या, यथाग्निर् अत्र, धूमस्य तथाइवोपपत्तेर् इति। अन्यथापि वेत्य् अनेनावयवे समुदायोपचाराद् अन्यथानुपपत्तिं लक्षयति। अन्यथा साध्यव्यतिरेके ऽनुपपत्तिर् अविद्यमानताइव तया वान्यथानुपपत्त्या हेतोः प्रयोगः स्याद्, यथाग्निर् अत्र, धूमस्यान्यथानुपपत्तेर् इति। ‘एते च द्वे अप्य् एकस्मिन् साध्ये प्रयोक्तव्येऽ; इति यो मन्येत,तच्छिष्यणार्थं आहान्यतरेणापि तथोपपत्तिप्रयोगेणान्यथानुपपत्तिप्रयोगेण वा साध्यस्य प्रतिपिपादयिषितार्थस्य सिद्धिर् निष्पत्तिः प्रतिपाद्यप्रतीताव् आरोहणं भवेद्, इति यस्मात्, तस्मान् न द्वे अपि प्रयोक्तव्ये, प्रयोगद्वये ऽपि यस्माद् वचनरचना भिद्यते, नार्थः; प्रयोगस्य च साध्यसाधनं फलम्; तच् चेद् एकेनाइव सिध्यति, द्वितीयप्रयोगः केवलं वक्तुर् अकौशलमाचक्षीत, नैरर्थक्याद् इत्य् अभिप्रायः।
[नव्_१८।०] अधुना दृष्टान्तलक्षणावसरः। स च द्वेधा: साधर्म्येण वैधर्म्येण च। तत्र साधर्म्यदृष्टान्तम् अधिकृत्याह:
साध्यसाधनयोर् व्याप्तिर् यत्र निश्चीयतेतराम् ।
साधर्म्येण स दृष्टान्तः सम्बन्धस्मरणान् मतः ॥ न_१८ ॥
[नव्_१८।१] दृष्टयोर् अवलोकितयोः सामर्थ्यात् साध्यसाधनयोर् अन्तः परिनिष्ठितिः अन्वयाद् व्यतिरेकाद् वा साध्यसाधनभावव्यवस्थितिनिबन्धनास्मिन्न् इति दृष्टान्तः; समानो धर्मो ऽस्येति सधर्मा तद्भावः साधर्म्यं तेन साधर्म्येण। स किंविधो भवतीत्य् आह: साध्यं जिज्ञासितार्थात्मकम्, साधनं तद्गमको हेतुः, तयोः साध्यसाधनयोर् व्याप्तिर्, इदम् अनेन विना न भवतीत्येवंरूपा, यत्र क्वचिन् निश्चीयतेतरां अतिशयेन निर्णीयते स साधर्म्यदृष्टान्तः। यथाग्निर् अत्र, धूमस्य तथाइवोपपत्तेर्, महानसादिवद् इति। अयं चाविस्मृतप्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्य् आह: सम्बन्धस्मरणाद् इति, ल्यब्लोपे पञ्चमी, प्राग्गृहीतविस्मृतसम्बन्धस्मरणम् अधिकृत्य मतो ऽभिप्रेतो ऽयं नीतिविदाम्, नान्यदा। यदा हि प्रतिपाद्यो ऽद्यापि सम्बन्धं साध्याविनाभावित्वलक्षणं नावबुध्यते, तदा प्रमाणेन सम्बन्धं ग्राहणीयो, न दृष्टान्तमात्रेण, न हि सहदर्शनाद् एव क्वचित् सर्वत्रेदम् अमुना विना न भवतीति सिध्यत्य्, अतिप्रसङ्गात्। गृहीते च प्रतिबन्धे स्मर्यमाणे केवलं हेतुर् दर्शनीयः, तावताइव बुभुत्सितार्थसिद्धेर् दृष्टान्तो न वाच्यो, वैयर्थ्यात्। यदा तु गृहीतो ऽपि विस्मृतः कथञ्चित् सम्बन्धस्, तदा तत्स्मरणार्थं दृष्टान्तः कथ्यते।
[नव्_१८।२] ननु च कथं त्रिकालसमस्तदेशव्यापिसम्बन्धावगतिः? न तावन् निर्णयात्मकम् अपि प्रत्यक्षं देशकालान्तरसञ्चरिष्णुनोः साध्यसाधनयोः सम्बन्धं निरीक्षितुं क्षमते, सन्निहिते ऽर्थे विशदाध्यवसायेन प्रवृत्तेः। नापि शब्दात् तन्निर्णयस्, तस्य परोपदेशरूपतया स्वार्थानुमानाभावप्रसङ्गात्, तत्र परोपदेशाभावात्, तदभावे सम्बन्धासिद्देस्, तदसिद्धाव् अनुमानानुत्थानाद् इति। अनुमानात् सम्बन्धग्रहणे निरवधिर् अनवस्थानुषज्येत, सम्बन्धग्राहिणो ऽप्य् अनुमानस्य पुनः सम्बन्धान्तरग्रहणसव्यपेक्षत्वाद् इति। अत्रोच्यते – प्रत्यक्षानुमाने द्वे एव प्रमाणे इति येषां मिथ्याभिनिवेशस्, तेषां एष दोषो नास्माकम्, अन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भोत्तरकालभाविनो ऽव्यभिचरितत्रिकालव्यापिगोचरस्य मतिनिबन्धनस्योहसञ्ज्ञितस्य प्रमाणान्तरस्य सम्बन्धग्राहितयेष्टत्वात्, तदनिष्टौ दृष्टव्यवहारविलोपप्रसङ्गात्, तद्विलोपे च विचारानर्थक्यप्राप्तेर् इति। अत्र प्रकरणे पुनर् अनुमानात् पार्थक्येनोहो न दर्शितः, सङ्क्षिप्तरुचिसत्त्वानुग्रहप्रवृत्तत्वाद् अस्य, शाब्दं तु पृथक् समर्थितम्, तस्यात्राइव परार्थानुमानोपयोगित्वाद् इत्य् आस्तां तावत्।
[नव्_१९।०] इदानीं वैधर्म्यदृष्टान्तम् उपदर्शयन्न् आह:
साध्ये निवर्तमाने तु साधनस्याप्य् असम्भवः ।
ख्याप्यते यत्र दृष्टान्ते वैधर्म्येणेति स स्मृतः ॥ न_१९ ॥
[नव्_१९।१] विसदृशो धर्मो ऽस्येति विधर्मा, तद्भावो वैधर्म्यम्, तेन वैधर्म्येण दृष्टान्तः। कीदृश इत्य् आह: साध्ये गम्ये निवर्तमाने ऽसम्भवति तुशब्दो ऽवधारणार्थो भिन्नक्रमः, स च साधनस्यापि गमकस्याप्य् असम्भव एवेत्य् अत्र द्रष्टव्यः, ख्याप्यते प्रतिपाद्यते यत्र क्वचिद् दृष्टान्ते स वैधर्म्येण भवतीतिशब्देन सम्बन्धस्मरणाद् इति।
[नव्_२०।०] इदम् अत्रापि सम्बध्नाति: अस्यापि स्मर्यमाणे सम्बन्धे प्रयोगायोगाद् इति किम् अर्थं विस्मृतसम्बन्ध एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते, नान्यदेति परवचनावकाशम् आशङ्क्याह:
अन्तर्व्याप्त्याइव साध्यस्य सिद्धेर् बहिरुदाहृतिः ।
व्यर्था स्यात् तदसद्भावे ऽप्य् एवं न्यायविदो विदुः ॥ न_२० ॥
[नव्_२०।१] अन्यदाहि स्मर्यमाणे वा सम्बन्धे प्रयुज्येतागृहीते वा। यद्य् आद्यः पक्षः, सो ऽयुक्तः। यदा सर्वत्र साध्याविनाभाविनं हेतुं स्मरति प्रतिपाद्यस्, तदा पक्षे ऽपि तम् अवबुध्य कथं साध्यं न प्रतिपद्येत? ततश् चान्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वम् अन्तर्व्याप्तिस्, तयाइव साध्यस्य गम्यस्य सिद्धेः प्रतीतेर् बहिर् विवक्षितधर्मिणो ऽन्यत्र दृष्टान्तधर्मिण्य् उदाहृतिर् व्याप्तिदर्शनरूपा व्यर्था निष्प्रयोजना, तत्प्रत्याय्यार्थाभावाद् इति। द्वितीयपक्षस्यापि निर्दोषतां निरस्यन्न् आह: तदसद्भावे ऽप्य् एवं सम्बन्धाग्रहणाद् अन्तर्व्याप्त्यभावे ऽप्य् एवम् इति व्यर्थाइव बहिरुदाहृतिः। न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति, व्यभिचारदर्शनात्। तस्माद् अगृहीतसम्बन्धे प्रतिपाद्ये प्रमाणेन प्रतिबन्धः साध्यः। तत्सिद्धौ तत एव साध्यसिद्धेर् अकिञ्चित्करी दृष्टान्तोदाहृतिर् इति न्यायविदो न्यायविद्वांसो विदुर् अवबुध्यन्त इति। इह च प्रकरणे शेषावयवानाम् उपनयनिगमनशुद्धिपञ्चकलक्षणानां सङ्क्षिप्तरुचिसत्त्वानुग्रहपरत्वाद् अस्य, यद्य् अपि साक्षाल् लक्षणं नोक्तम्, तथाप्य् अत एव प्रतिपादितावयवत्रयाद् बुद्धिमद्भिर् उन्नेयम्; यतो ऽवयवापेक्षया जघन्यमध्यमोत्कृष्टास् तिस्रः कथा भवन्ति। तत्र हेतुप्रतिपादनमात्रं जघन्या। द्व्याद्यवयवनिवेदनं मध्यमा। सम्पूर्णदशावयवकथनम् उत्कृष्टा। तत्रेह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्टे अर्थतः सूचयति, तद्सद्भावस्य प्रमाणसिद्धत्वाद् इति।
[नव्_२१।०] एवं पक्षादिलक्षणं प्रतिपाद्येदानीं हेयज्ञाने सत्य् उपादेयं विविक्ततरं वेद्यत इति तद्व्युदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः। तत्र तावत् पक्षलक्षणव्युदस्तान् पक्षाभासान् आह:
प्रतिपाद्यस्य यः सिद्धः पक्षाभासो ऽक्षलिङ्गतः ।
लोकस्ववचनाभ्यां च बाधितो ऽनेकधा मतः ॥ न_२१ ॥
[नव्_२१।१] पक्षस्थानोपन्यस्तत्वात् तत्कार्याकरणत्वाच् च पक्षवद् आभासत इति पक्षाभासः। असाव् अनेकधानेकप्रकारो मत इति सम्बन्धः। कथम् इत्य् आह: प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीताव् आरूढ एव स पक्षाभासः, साध्यस्याइव पक्षत्वात्, सिद्धस्य साधनानर्हत्वाद्, अतिप्रसक्तेः। तथाक्षलिङ्गतो ऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस् तिरस्कृतो यः स पक्षाभासः। तत्र प्रतिपाद्यसिद्धो यथा: पौद्गलिको घटः, सौगतं वा प्रति: सर्वं क्षणिकम् इत्यादि। प्रत्यक्षबाधितो यथा: निरंशानि स्वलक्षणानि, परस्परविविक्तौ वा सामान्यविशेषाव् इति। अनुमानबाधितो यथा: नास्ति सर्वज्ञ इति। लोकबाधितो यथा: गम्या माता इति। स्ववचनबाधितो यथा: न सन्ति सर्वे भावा इति।
[नव्_२२।०] साम्प्रतं हेतुलक्षणं स्मारयंस् तदपास्तान् हेत्वाभासान् आह:
अन्यथानुपपन्नत्वं हेतोर् लक्षणम् ईरितम् ।
तदप्रतीतिसन्देहविपर्यासैस् तदाभता ॥ न_२२ ॥
[नव्_२२।१] हेतोर् लक्षणम् असाधारणधर्मरूपं यद् ईरितं गमितम् अनेकार्थत्वाद् वा प्रतिपादितं स्वार्थानुमानप्रस्तावे यद् उतान्यथानुपपन्नत्वम् इति तस्याप्रतीतिर् अनध्यवसायः, सन्देहो दोलायमानता, विपर्यासो वैपरीत्यनिर्णयो; ऽप्रतीतिश् च सन्देहश् च विपर्यासश् चेति द्वन्द्वः; पश्चात् तदा सह तत्पुरुषस्: तैस् तदप्रतीतिसन्देहविपर्यासैस्; तदाभताआभानम् आभा तस्येव सम्यग्घेतोर् इवाभास्येति तदाभस्, तद्भावस् तत्ता, हेत्वाभासता भवतीत्य् अर्थः।
[नव्_२३।०] अधुना येन लक्षणेन यन्नामा हेत्वाभासो भवति तद् दर्शयति:
असिद्धस् त्व् अप्रतीतो यो यो ऽन्यथाइवोपपद्यते ।
विरुद्धो यो ऽन्यथाप्य् अत्र युक्तो ऽनैकान्तिकः स तु ॥ न_२३ ॥
[नव्_२३।१] यः कश्चिद् अप्रतीतः प्रतीत्या अगोचरीकृतो ऽनिश्चितः सो ऽसिद्धनामा हेत्वाभासः। तुशब्दस् त्रयस्यापि भेदोद्द्योतकः। यस् त्व् अन्यथाइव साध्यं विनाइव विपक्ष एवेति यावद्, उपपद्यते सम्भवति स विरुद्धाभिधानः। यः पुनर् अन्यथापि साध्यविपर्ययेणापि युक्तो घटमानको, ऽपिशब्दात् साध्येनापि, सो ऽत्र व्यतिकरे ऽनैकान्तिकसञ्ज्ञो ज्ञातव्य इति। तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपादबुद्धादिशिष्यकैर् उपन्यस्यमानाः सर्व एव हेतवः, तद् यथाइकान्तेनानित्यः शब्दो नित्यो वा, सत्त्वाद्, उत्पत्तिमत्त्वात्, कृतकत्वात्, प्रत्यभिज्ञायमानत्वाद् इत्यादयो विवक्षयासिद्धविरुद्धानैकान्तिकतां स्वीकुर्वन्तीत्य् अवगन्तव्यम्।
[नव्_२३।२] तथा ह्य्: अनित्याइकान्ते तावद् असिद्धाः सर्व एव हेतवश्, चाक्षुषत्ववत् तेषां ध्वनाव् अविद्यमानत्वाद्, असदादिव्यवच्छेदेनालीकसंवृतिविकल्पितत्वात्, पारमार्थिकत्वे त्व् एकस्यानेकरूपापत्त्यानेकान्तवादापत्तेः, कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभावत्वात्, तथापि तेषां साधनत्वे साध्यम् अपि निःस्वभावम् इति खरविषाणं शशविषाणस्य साधनम् आपद्यत इति शोभनः साध्यसधनव्यवहारः। सर्व एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन न बहिःसदसत्त्वम् अपेक्षते, तेनायम् अदोष इति चेद्, एवं तर्हि चाक्षुषत्वम् अपि शब्दे बुद्ध्याध्यारोप्य हेतुतयोच्यमानं नासिद्धतयोद्भावनीयम्, विशेषाभावात्। अचाक्षुषत्वव्यवच्छेदेन चाक्षुषत्वं बुद्ध्याध्यारोपयितुम्पार्यते, न यथा कथञ्चिन्, न चासौ शब्दे ऽस्त्य्, अचक्षुर्ग्राह्यत्वात् तस्य, तेनायम् अदोष इति चेत्, को ऽयम् अचाक्षुषत्वव्यवच्छेदो नाम: व्यवच्छेदमात्रं नीरूपम्, व्यवच्छिन्नं वा स्वलक्षणम्, व्यवच्छेदिका वा बुद्धिः स्वांशमग्नापि बहिर्वस्तुग्रहणरूपतया प्लवमाना? नापरो वस्तुधर्मो यत्र भेदाभेदविकल्पद्वारेणा दूषणं दित्सुर् भवान् इति चेत्, तर्हि स शब्दे नास्तीति काइषा भाषा? एवं हि नभःपुण्डरीकं तत्र नास्तीति सत्त्वादिकम् अपि कल्पयितुं न शक्यम् इति प्रसज्येत। किं च, ते साधनधर्मा धर्मिणि भवन्तो ऽपि न भवद्दर्शने प्रतीतिम् आरोहन्ति, प्रत्यक्षस्य विकल्पविकलतया धर्मनिर्णयशून्यत्वात्, तदुत्तरकालभाविन्या वासनाप्रबोधजन्याया विकल्पबुद्धेः स्वांशग्रहणपर्यवसितशरीरत्वेन बहिःस्वलक्षणे प्रवेशाभावात्, ततश् चाप्रतीतत्वात् सर्वस्यासिद्धत्वम्।
[नव्_२३।३] नित्याइकान्ते ऽपि धर्मिणो ऽत्यन्तव्यतिरिक्तानाम् अपारमार्थिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतत्वाद् असिद्धता द्रष्टव्या, धर्मिणो ऽविनिर्लुठितरूपाणां पारमार्थिकानां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन निह्नोतुम् अशक्यत्वाद् इति।
[नव्_२३।४] तथा विरुद्धतापि पक्षद्वये ऽपि सर्वसाधनधर्माणाम् उन्नेयानेकान्तप्रतिबद्धस्वभावत्वेन तत्साधनप्रवणत्वात्। एतच् चोत्तरत्र वक्ष्यामः।
[नव्_२३।५] एवं पक्षद्वये ऽपि निर्दिश्यमानाः सर्व एव हेतवो ऽनैकान्तिकताम् आत्मसात्कुर्वन्ति, परस्परविरुद्धाव्यभिचारित्वात्, समानयुक्त्युपन्यासेन विपक्षे ऽपि दर्शयितुं शक्यत्वात्।
[नव्_२३।६] तथा हि: अनित्यवादी नित्यवादिनं प्रति प्रमाणयति। सर्वं क्षणिकम्, सत्त्वाद्, अक्षणिके क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाद्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात्, ततो ऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेद् इति क्षणिकत्वसिद्धिः। न हि नित्यो ऽर्थो ऽर्थक्रियायां क्रमेण प्रवर्तितुम् उत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां प्रवृत्तेर्, अन्यथा पूर्वार्थक्रियाकरणाविरामप्रसङ्गात्; तत्स्वभावप्रच्यवे च नित्यतापयात्य्, अतादवस्थ्यस्यानित्यलक्षणत्वात्। नित्यो ऽपि क्रमवर्तिनं सहकारिकारणम् अर्थम् उदीक्षमाणस् तावद् असीत्, पश्चात् तम् आसाद्य क्रमेण कार्यं कुर्याद् इति चेन्, न, सहकारिकारणस्य नित्ये ऽकिञ्चित्करत्वाद्, अकिञ्चित्करस्यापि प्रतीक्षणे ऽनवस्थाप्रसङ्गात्। नापि यौगपद्येन नित्यो ऽर्थो ऽर्थक्रियां कुरुते, ऽध्यक्षविरोधात्। न ह्य् एककालं सकलाः क्रियाः प्रारभमाणः कश्चिद् उपलभते; करोतु वा, तथाप्य् आद्यक्षण एव सकलक्रियापरिसमाप्तेर् द्वितीयादिक्षणेष्व् अकुर्वाणस्यानित्यता बलाद् आढौकते, करणाकरणयोर् एकस्मिन् विरुद्धत्वाद् इति।
[नव्_२३।७] नित्यवादी पुनर् एवं प्रमाणयति: सर्वं नित्यं सत्त्वात्। क्षणिके सदसत्कालयोर् अर्थक्रियाविरोधात्, तल्लक्षणं सत्त्वं नावस्थां बध्नातीति, ततो निवर्तमानम् अनन्यशरणतया नित्यत्वं साधयति। तथा हि: क्षणिको ऽर्थः सद् वा कार्यं कुर्यात्, असद् वा, गत्यन्तराभावात्। न तावद् आद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्यातिप्रसङ्गाच् च। नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्तिविकलत्वात्। अन्यथा शशविषाणादयो ऽपि कार्यकरणायोत्सहेरन्, विशेषाभावाद् इति।
[नव्_२३।८] तद् एवम् एकान्तद्वये ऽपि ये ये हेतवस् ते ते युक्तेः समानतया विरुद्धं न व्यभिचरन्त्य्; अविचारितरमणीयतया मुग्धजनध्यान्ध्यं चोत्पादयन्तीति विरुधाव्यभिचारिणो ऽनैकान्तिकाः, सर्ववस्तुधर्माणां वस्तुतो ऽनेकान्तप्रतिबद्धत्वाद् इति। तस्माद् अमी सर्व एव हेतवः सन्तो ऽनेकान्तम् अन्तरेण नोपपद्यन्त इति तम् एव प्रतिपादयितुम् ईशते; विमूढबुद्धिभिः पुनः विपक्षसाधनार्थम् उपन्यस्यमाना विवक्षयासिद्धविरुद्धानैकान्तिकताम् आबिभ्रतीति स्थितम्।
[नव्_२४।०] तद् एवं हेत्वाभासान् प्रतिपाद्य दृष्तान्तलक्षणव्युदस्तान् दृष्टान्ताभासान् आह:
साधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः ।
अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥ न_२४ ॥
[नव्_२४।१] साधनं साध्याक्रान्तम् उपदर्शयितुम् अभिप्रेतं यस्मिंस् तत् साधर्म्यम्, तेन। अत्र व्यतिकरे; दूष्यन्त इति दोषाः। दृष्टान्ता एव दोषा दृष्टान्तदोषाः दृष्टान्ताभासा इत्य् अर्थः। न्यायविदीरिता विद्वद्भिर् गदिताः; साध्यं गम्यम्; आदिशब्दात् साधनोभयपरिग्रहस्; तद्विकलास् तच्छून्याः। आदिशब्दात् सन्दिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते। किम्भूता एते इत्य् आह: अपगतं लक्षणं येभ्यस् ते तथा, ते च ते हेतवः, तेभ्य उत्था उत्थानं येषां ते ऽपलक्षणहेतूत्थाः; इदं च प्रायिकं विशेषणम्, सम्यग्घेताव् अपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेर्, यथा: नित्यानित्यः शब्दः, श्रावणत्वाद्, घटवद् इत्यादि।
[नव्_२४।२] तत्र साध्यविकलो यथा: भ्रान्तम् अनुमानम्, प्रमाणत्वात्, प्रत्यक्षवत्; प्रत्यक्षस्य भ्रान्तताविकलत्वात्; तद्भ्रान्तत्वे सकलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च प्रमाणप्रमेयाभावान् न किञ्चित् केनचित् साध्यत इति भ्रान्तवादिनो मूकतापनिपद्येत। साधनविकलो यथा: जाग्रत्संवेदनं भ्रान्तम्, प्रमाणत्वात्, स्वप्नसंवेदनवत्; स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् तत्प्रत्यनीकजाग्रत्प्रत्ययोपनिपातबाधितत्वाद् इति। उभयविकलो यथा: नास्ति सर्वज्ञः, प्रत्यक्षाद्यनुपलब्धत्वात्, घटवद्; घटस्य सत्त्वात् प्रत्यक्षादिभिर् उपलब्धत्वाच् च। सन्दिग्धसाध्यधर्मो यथा: वीतरागो ऽयम्, मरणधर्मत्वाद्, रथ्यापुरुषवद्; रथ्यापुरुषे वीतरागत्वस्य सन्दिग्धत्वाद्, विशिष्टचेतोधर्माणां विशिष्टव्याहारादिलिङ्गगम्यत्वाद् रथ्यापुरुषे तन्निर्णयस्याप्य् अभावाद् इति। सन्दिग्धसाधनधर्मो यथा: मरणधर्मायं पुरुषो, रागादिमत्त्वाद्, रथ्यापुरुषवद्; रथ्यापुरुषे रागादिमत्त्वस्य
सन्दिग्धत्वाद्, वीतरागस्यापि तथा सम्भवाद् इति। सन्दिग्धोभयधर्मो यथासर्वज्ञो ऽयम्, रागादिमत्त्वाद्, रथ्यापुरुषवद्; रथ्यापुरुषे प्रदर्शितन्यायेनोभयस्यापि सन्दिग्धत्वाद् इति।
[नव्_२४।३] ननु च परैर् अन्यद् अपि दृष्टान्ताभासत्रयम् उक्तम्, तद् यथानन्वयो ऽप्रदर्शितान्वयो विपरीतान्वयश् चेति। तत्रानन्वयो यथा: रागादिमान् विवक्षितः पुरुषो, वक्तृत्वाद्, इष्टपुरुषवद् इति। यद्य् अपि किलेष्टपुरुषे रागादिमत्त्वं वक्तृत्वं च साध्यसाधनधर्मौ दृष्टौ, तथापि यो यो वक्ता स स रागादिमान् इति व्याप्त्यसिद्धेर् अनन्वयो ऽयं दृष्टान्तः। तथाप्रदर्शितान्वयो यथानित्यः शब्दः, कृतकत्वाद्, घटवद् इति। अत्र यद्य् अपि वास्तवो ऽन्वयो ऽस्ति, तथापि वादिना वचनेन न प्रकाशित इत्य् अप्रदर्शितान्वयो दृष्टान्तः। विपरितान्वयो यथानित्यः शब्दः, कृतकत्वाद् इति हेतुम् अभिधाय यद् अनित्यं तद् कृतकं घटवद् इति, विपरीतव्याप्तिदर्शनाद् विपरीतान्वयः, साधर्म्यप्रयोगे हि साधनं साध्याक्रान्तम् उपदर्शनीयम्, इह तु विपर्यासदर्शनाद् विपरीतता। तद् एतद् भवद्भिः कस्मान् नोक्तम् इति।
[नव्_२४।४] अत्रोच्यते – परेषां न सुपर्यालोचितम् एतद् दृष्टान्ताभासत्रयाभिधानम् इति ज्ञापनार्थम्। तथा हि: न तावद् अनन्वयो दृष्टान्ताभासो भवितुम् अर्हति। यदि हि दृष्टान्तबलेन व्याप्तिः साध्यसाधनयोः प्रतिपाद्येत, ततः स्याद् अनवयो दृष्टान्ताभासः, स्वकार्याकरणाद्, यदा तु पूर्वप्रवृत्तसम्बन्धग्राहिप्रमाणगोचरस्मरणसम्पादनार्थं दृष्टान्तोदाहृतिर् इति स्थितम्, तदानन्वयत्वलक्षणो न दृष्टान्तस्य दोषः, किं तर्हि हेतोर् एव, प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात्, प्रतिबन्धाभावे चान्वयासिद्धेः। न च हेतुदोषो ऽपि दृष्टान्ते वाच्यो, ऽतिप्रसङ्गाद् इति। तथाप्रदर्शितान्वयविपरीतान्वयाव् अपि न दृष्टान्ताभासतां स्वीकुरुतो, ऽन्वयाप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च वक्तृदोषत्वात्, तद्दोषद्वरेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीर्येत, वक्तृदोषाणामानन्त्यात्। वक्तृदोषत्वे ऽपि परार्थानुमाने तत्कौशलम् अपेक्षत इति। एवं चोपन्यासे न बुभुत्सितार्थसाधकाव् अतो दृष्टान्ताभासाव् एताव् इति चेद्, एवं तर्हि करणापाटवादयो ऽपि दृष्टान्ताभासा वाच्याः। तथा हि: करणपाटवव्यतिरेकेणापि न परप्रत्यायनं समस्ति, विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमाभावाद् इत्य् आस्तां तावत्।
[नव्_२५।०] तद् एवं साधर्म्येण दृष्टान्ताभासान् प्रतिपाद्य वैधर्म्येणाह:
वैधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः ।
साध्यसाधनयुग्मानाम् अनिवृत्तेश् च संशयात् ॥ न_२५ ॥
[नव्_२५।१] साध्याभावः साधनाभावव्याप्तौ दर्शयितुम् अभिप्रेतो यस्मिंस् तद् वैधर्म्यम्, तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थम्। साध्यसाधनयुग्मानां गम्यगमकोभयानाम् अनिवृत्तेर् अनिवर्तनाच्, चशब्दस्य व्यवहितप्रयोगत्वात् संशयाच् च निवृत्तिसन्देहाच् चेत्य् अर्थः। तद् अनेन षड् दृष्टान्ताभासाः सूचितास्, तद् यथा – साध्याव्यतिरेकी, साधनाव्यतिरेकी, साध्यसाधनाव्यतिरेकी, तथा सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धसाध्यसाधनव्यतिरेकश् चेति।
[नव्_२५।२] तत्र साध्याव्यतिरेकी यथा: भ्रान्तम् अनुमानम्, प्रमाणत्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: यत् पुनर् भ्रान्तं न भवति न तत् प्रमाणम्, तद् यथा स्वप्नज्ञानम् इति; स्वप्नज्ञानाद् भ्रान्ततानिवृत्तेः साध्याव्यतिरेकित्वम् इति। साधनाव्यतिरेकी यथा: निर्विकल्पकं प्रत्यक्षम्, प्रमाणत्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: यत् पुनः सविकल्पकं न तत् प्रमाणम्, तद् यथानुमानम्; अनुमानात् प्रमाणतानिवृत्तेः साधनाव्यतिरेकित्वम् इति। उभयाव्यतिरेकी यथा: नित्यानित्यः शब्दः, सत्त्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: यः पुनर् न नित्यानित्यः स न सन्, तद् यथा – घटो; घटाद् उभयस्याप्य् अव्यावृत्तेर् उभयाव्यतिरेकित्वम् इति। तथा सन्दिग्धसाध्यव्यतिरेको यथासर्वज्ञा अनाप्ता वा कपिलादयो,आर्यसत्यचतुष्टयाप्रतिपादकत्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: यः पुनः सर्वज्ञ आप्तो वा ऽसाव् आर्यसत्यचतुष्टयं प्रत्यपीपदत्, तद् यथा – शौद्धोदनिर् इति। अयं च साध्याव्यतिरेकी वार्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणबाधितत्वेन तद्भाषकस्यासर्वज्ञतानाप्ततोपपत्तेः। केवलं तन्निराकारकप्रमाणसामर्थ्यपर्यालोचनविकलानां सन्दिग्धसाध्यव्यतिरेकतया प्रतिभातीति तथोपन्यस्तः। तथा हि: यद्य् अप्य् आर्यसत्यचतुष्टयं शौद्धोदनिः प्रतिपादितवांस्, तथापि सर्वज्ञताप्तते तस्य न सिद्ध्यतः, ताभ्यां सहार्यसत्यचतुष्टयप्रतिपादनस्यान्यथानुपपत्त्यसिद्धेर्, असर्वज्ञानाप्तेनापि परप्रतारणाभिप्रायप्रवृत्तनिपुणबुद्धिशठपुरुषेण तथाविधप्रतिपादनस्य कर्तुं शक्यत्वात्। तस्माच् छौद्धोदनेः सकाशाद् असर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः सन्दिग्धेति सन्दिग्धसाध्यव्यतिरेकित्वम् इति। सन्दिग्धसाधनव्यतिरेको यथा: ऽनादेयवाक्यः कश्चिद् विवक्षितः पुरुषो रागादिमत्त्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: यः पुनर् आदेयवाक्यो, न स रागादिमांस्, तद् यथा – सुगत इति। यद्य् अपि तद्दर्शनानुरक्तान्तःकरणाणां सुगतस्यादेयवचनता सिद्धिसौधमध्यारूढा, तथापि रागादिमत्त्वाभावस् तत्प्रतिपादकप्रमाणवैधुर्यात् सन्देहगोचरचारिताम् अनुभवत्य्, अतः सुगताद् रागादिमत्ताव्यावृत्तिसंशयात् सन्दिग्धसाधनव्यतिरेकित्वम् इति। सन्दिग्धसाध्यसाधनव्यतिरेको यथा: न वीतरागाः कपिलादयः, करुणास्पदेष्व् अप्य् अकरुणापरीतचित्ततयादत्तनिजकमांसशकलत्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: ये पुनर् वीतरागास् ते करुणास्पदेषु करुणापरीतचित्ततया दत्तनिजमांसशकलास्, तद् यथा – बोधिसत्त्वा इति। अत्र साध्यसाधनधर्मयोर् बोधिसत्त्वेभ्यो व्यावृत्तिः सन्दिग्धा; तत्प्रतिपादकप्रमाणवैकल्यान् न ज्ञायते किं ते रागादिमन्त उत वीतरागाः; तथानुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा। अतः सन्दिग्धसाध्यसाधनव्यतिरेकित्वम् इति।
[नव्_२५।३] परैर् अपरे ऽपि दृष्टान्ताभासास् त्रयो ऽविमृश्यभाषितया दर्शिताः। तद् यथा – अव्यतिरेको, ऽप्रदर्शितव्यतिरेको, विपरीतव्यतिरेकश् चेति। ते ऽस्माभिर् अयुक्तत्वान् न दर्शयितव्याः। तथा ह्य्: अव्यतिरेकस् तैर् दर्शितो, यथावीतरागः कश्चिद् विवक्षितः पुरुषो, वक्तृत्वाद् इति। अत्र वैधर्म्यडृष्टान्तो: यः पुनर् वीतरागो, न स वक्ता, यथोपलखण्ड इति। यद्य् अपि किलोपलखण्डाद् उभयं व्यावृत्तम्, तथापि व्याप्त्या व्यतिरेकासिद्धेर् अव्यतिरेकित्वम् इति। अयुक्तश् चायं वक्तुम्, अव्यतिरेकिताया हेतुदोषत्वात्। यदि हि दृष्टान्तबलेनाइव व्यतिरेकः प्रतिपाद्येत, तदा तथाविधसामर्थ्यविकलस्य तदाभासता युज्येत, न चाइतद् अस्ति, प्राक्प्रवृत्तसम्बन्धग्रहणप्रवणप्रमाणगोचरस्मरणसम्पादनार्थं दृष्टान्तोपादानात्। न ह्य् एकत्र यो यदभावे न दृष्टः, स तदभावे न भवतीति प्रतिबन्धग्राहिप्रमाणव्यतिरेकेण सिध्यत्य्, अतिप्रसङ्गात्। तस्माद् असिद्धप्रतिबन्धस्य हेतोर् एवायं दोषो, न दृष्टान्तस्येति। तथाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकाव् अपि वक्तुम् अयुक्तौ, तयोर् वक्तृदोषत्वात्। तथा ह्य्: अप्रदर्शितव्यतिरेकस् तैर् उक्तो, यथानित्यः शब्दः, कृतकत्वाद्, आकाशवद् इति। अत्र विद्यमानो ऽपि व्यतिरेको वादिना वचनेन नोद्भावित इति दुष्टता। विपरीतव्यतिरेकः पुनर् अभिहितो, यथानित्यः शब्दः, कृतकत्वाद् इति। अत्र वैधर्म्यदृष्टान्तो: यद् अकृतकं तन् नित्यं भवति, यथाकाशम् इति। अत्र विपर्यस्तव्यतिरेकप्रदर्शनाद् विपरीतव्यतिरेकित्वम्। वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयो, न चाइएवम् अत्र, साधनाभावस्य साध्याभावव्याप्ततयाभिधानाद् इति।
[नव्_२५।४] व्यतिरेकाप्रदर्शनं विपरीतव्यतिरेकप्रदर्शनं च न वस्तुनो दोषः, किं तर्हि वचनकुशलताविकलस्याभिधायकस्य। किं च, येषां भवताम् अदो दर्शनम्: यद् उत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्थानुमानावसरे ऽपि हेतुप्रतिपादनम् एव कर्तव्यं “विदुषां वाच्यो हेतुर् एव हि केवल” इतिवचनात् तेषां ‘कृतकत्वाद्ऽ; इतीयता हेतूपन्यासेनाइव सिसाधयिषितसाध्यसिद्धेः समस्तदृष्टान्ताभासवर्णनम् अपि पूर्वापरव्याहतवचनरचनाचातुर्यम् आविर्भावयति।आसातां तावद् एतौ, दृष्टान्तस्य साधनावयवत्वेनानभ्युपगमात्। अथेत्थम् आचक्षीथा: अन्वयव्यतिरेकापरिज्ञाने प्रतिपाद्यस्य न दृष्टान्तम् अन्तरेणाइतौ दर्शयितुं शक्याव्, अतो ऽन्वयव्यतिरेकदर्शनार्थं दृष्टान्तो ऽभिधातव्यस्, ततश् च तत्कार्याकारिणां तदाभासतेति चेद्, गले गृहीतस्यायम् उल्लापस्, तथाप्य् अप्रदर्शितव्यतिरेकविपरीतव्यतिरेकौ दृष्टान्ताभासौ न वास्तवौ, किं तर्हि वक्तृदोषसमुत्थाव्; अतो नाभिधातुं युक्तौ, तथाविधस्य विद्यमानवस्तुप्रकाशनसामर्थ्यरहितस्य निबिडजडिमावष्टब्धस्य पुंसो वादानधिकारित्वान्, मातृकापाठशालायोग्यतया विदुषां वादयितुम् अयुक्तत्वाद् इति।
[नव्_२६।०] तद् एवं परार्थानुमानं व्याचक्षाणेन यद् उक्तं – यद् उत “तत् पक्षादिवचनात्मकम्” इति – तत् पक्षहेतुदृष्टान्तानां साभासानां प्रतिपादनात् प्रायः पर्यन्तितम्; केवलं तत् परोक्तदूषणोद्धाराद् एव समीचीनताम् आबिभर्तीत्य् अमुना प्रस्तावेन दूषणं साभासम् अभिधातुकाम आह:
वाद्युक्ते साधने प्रोक्तदोषाणाम् उद्भावनम् ।
दूषणं निरवद्ये तु दूषणाभासनामकम् ॥ न_२६ ॥
[नव्_२६।१] वदनशीलो वादी प्रत्यायकस्, तेनोक्त उपन्यस्ते; कस्मिन्? साधने; साध्यते प्रतिपाद्यप्रतीताव् आरोप्यते ऽनुमेयं येन तत् साधनम्। तच् चानेकरूपं प्राक् प्रत्यपादि, तद् यथा – क्वचिद् धेतुर् एवाइकः, क्वचित् पक्षहेतू, क्वचित् पक्षहेतुदृष्टान्ताः, क्वचित् त एव सोपनयाः, क्वचित् सनिगमनाः, क्वचिद् एकाइकतच्छुद्धिवृद्ध्येति, प्रतिपाद्यस्य क्वचित् कथञ्चित् प्रत्याययितुं शक्यत्वात्, तत्प्रत्यायनोपायस्य च साधनत्वाद् इति। तत्रेह सम्यक्साधनस्य दूषयितुम् अशक्यत्वात्, साधनाभास एव तत्सामर्थ्योपपत्तेः, साधनाभासम् एव दूषनोपनिपातात् प्राग् अवस्थायाम् अनिर्ज्ञातं सामान्येन साधनध्वनिनोक्तम्, तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षासिद्धादिहेतुसाध्यादिविकलदृष्टान्ताद्युपन्यासलक्षणानाम् उद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दूष्यते स्वाभिप्रेतसाध्यप्रत्यायनवैकल्यलक्षणां विकृतिं नीयते साधनम् अनेनेति दूषणम् इति ज्ञेयम्।
[नव्_२६।२] अधुना तदाभासम् आह: निर्गतं सम्यक्प्रयुक्तत्वाद् अवद्यं पापं पक्षादिदोषलक्षणं दौष्ट्यम् अस्माद् इति निरवद्यम्, तस्मिन् साधने वादिनोक्त इति वर्तते। तथापि मत्सरितया प्रमृद्योदरं यद् अविद्यमानानां दोषाणाम् उद्भावनं तद् दूषणस्थानोपन्यस्तत्वात् तत्कार्याकरणात् सम्यक्साधने दोषोद्भावनस्य प्रलापायमानत्वाद् दूषणवदाभासत इति दूषणाभासम् इति; तद् एव नाम सञ्ज्ञा यस्य तत्तथा। समर्थसाधनोपन्यासत्वात् साधिते साध्ये सताम् अप्य् अपशब्दालङ्कारादिदोषाणां यद् उद्भावनं तद् अपि दूषणाभासनामकम् इति। तुशब्देन विशेषणार्थेन दर्शयति वस्तुसिद्ध्यर्थं वादप्रवृत्तेस्, तस्य सिद्धत्वाद्, अपशब्दादीनाम् अप्रस्तुततया तद्द्वरेण दोषप्रकाशनस्यासम्बद्धप्रलापरूपत्वाद्, इतरथा तावन्मात्रेणाइव परापाकरणसिद्धेः समर्थसाधनान्वेषणप्रयत्नो विशीर्येत, प्रयोजनाभावाद् इति।
[नव्_२७।०] तद् एवं व्यावहारिकप्रमाणस्य प्रत्यक्षपरोक्षस्वार्थपरार्हादिभेदभिन्नस्य लक्षणं प्रतिपाद्याधुना यैः पारमार्थिकं समस्तावरणविच्छेदलभ्यम् अशेषार्थगोचरं केवलज्ञानं नाभ्युपगम्यते, तन्मतोद्दलनार्थं तल्लक्षणम् अभिधित्सुर् आह:
सकलावरणमुक्तात्म केवलं यत् प्रकाशते ।
प्रत्यक्षं सकलार्थात्मसततप्रतिभासनम् ॥ न_२७ ॥
[नव्_२७।१] सकलं समस्तम्, आवृणोत्याव्रियते वानेनेत्य् आवरणम्, तत्स्वरूपप्रच्छादनं कर्मेत्य् अर्थः, सकलं च तद् अवारणं च सकलावरणम्, तेन मुक्तो रहित, आत्मा स्वरूपं यस्य तत्तथा। अत एव केवलम् असहायम्, आवरणक्षयोपशमविचित्रतयाइव बोधस्य नानाकारतया प्रवृत्तेः, सामस्त्येन पुनर् आवरणनिर्दलने विबन्धककारणवैकल्याद् एकाकारतयाइव तस्य विवर्तनात्। अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते निरुपाधिकं द्योतत इत्य् अर्थः, तत् परमार्थतः प्रत्यक्षम्। तद् इदं सकलावरणमुक्तात्मेतिहेतुद्वारेण तथा केवलं यत् प्रकाशत इतिस्वरूपतो निरूप्याधुना कार्यद्वारेण निरूपयन्न् आह: सकलार्थात्मनां समस्तवस्तुस्वरूपाणां सततप्रतिभासनम् अनवरतप्रकाशनं सकलार्थात्मसततप्रतिभासनम् इति, प्रतिभास्यते ऽनेनेति प्रतिभासनम्, आत्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानम् इति यावत्। अस्य च पारमार्थिकत्वम्, निरुपचरितशब्दार्थोपपत्तेः। तथा ह्य्: अक्षशब्दो जीवपर्यायस्, ततश् चाक्षं प्रति वर्तत इति प्रत्यक्षम्, यत्रात्मनः साक्षाद् व्यापारः। व्यावहारिकं पुनर् इन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षम् एव: धूमाद् अग्निज्ञानवत्, तिरोधानाविशेषात्।
[नव्_२७।२] ननु च प्रसिद्धं लक्ष्यम् अनूद्याप्रसिद्धं लक्षणं विधीयते – सर्वत्रायं न्यायः। अप्रसिद्धे पुनर् लक्ष्ये लक्षणम् अभिधीयमानम् अम्बरारविन्दिनीकुसुमलक्षणवन् निर्गोचरतां यायात्। तद् इदं स्वरूपतो ऽप्रसाध्य लक्षणम् अभिदधानस्य को ऽभिप्राय इत्य्; अत्रोच्यते – ये ये मिथ्यावलेपाध्मातान्तःकरणाः प्रमाणप्रसिद्धम् अप्य् अदः प्रति विप्रतिपद्यन्ते, तेषां ध्यान्धीकृतबुद्धित्वाद् अवधारणीयताम् अनेन दर्शयति। किम् अस्य प्रतिपादकं प्रमाणम् इति चेद्, एते ब्रूमः:
[नव्_२७।३] समस्ति समस्तवस्तुविस्तारगोचरं विशददर्शनम्, तद्गोचरानुमानप्रवृत्तेः; इह यद्यद्गोचरम् अनुमानं प्रवर्तते, तस्य तस्य ग्राहकं किञ्चित् प्रत्यक्षम् उदयपदवीं समासादयति, यथा चित्रभानोः; प्रवर्तते च सकलार्थविषयम् अनुमानम्; अतस् तदवलोकिना विशददर्शनेनापि भाव्यम् इति। सर्वार्थविषयं किम् अनुमानं प्रवर्तत इति चेद्, इदम् अपि ब्रूम: इह यद् यद् अस्ति तत् तत् सर्वं स्थित्युदयापवर्गसंसर्गम् अनुभवति, वस्तुत्वात्; यद् यद् वस्तु तत् तत् स्थेमजन्मप्रलयैः क्रोडीकृतम्; तद् यथाङ्गुलिर् अङ्गुलित्ववक्रत्वर्जुत्वापेक्षयेति; वस्तु च यद् अस्त्य्, अतः प्रस्तुतत्रयाक्रान्तं तद् अवगन्तव्यम्। इदम् एव निखिलार्थगोचरम् अनेकान्तानुमानं ज्ञानक्रियाभ्यासातिशयान् निखिलावरणविच्छेदे विबन्धककारणाभावाद् विशददर्शनीभवति। न चानुमानप्रवृत्ताव् अप्य् अनर्थित्वादिना प्रमातुर् अप्रवृत्ताव् अनुमेयगोचरप्रत्यक्षासम्भवेन व्यभिचारश् चोदनीयः, सम्भवस्य साध्यतयाभिप्रेतत्वात्। न च सम्भवमात्रे ऽस्ति व्यभिचारः, सर्वानुमेयानां सम्भवत्प्रत्यक्षतया व्याप्तत्वाद् इति।
[नव्_२७।४] अथवान्यथानुमानयामः: सम्भवत्समस्तशुद्धिक आत्मा, विद्यमानशुद्ध्युपायत्वाद्; इह यो यो विद्यमानशुद्ध्युपायः स स सम्भवत्समस्तशुद्धिको; यथा विद्यमानक्षारमृत्पुटपाकादिशुद्ध्युपायो रत्नविशेषस्, तथा च विद्यमानज्ञानाद्यभ्यासशुद्ध्युपाय आत्मातः सम्भवत्समस्तशुद्धिक इति। सामस्त्यशुद्धश् चात्मा ज्ञानज्ञानिनोः कथञ्चिद् अभेदात् केवलम् अभिधीयत इति। ज्ञानाद्यभ्यासः कथं विशुद्धिकारणम् इति चेद्, आवरणमलप्रतिपक्षरूपत्वाद् इति ब्रूमः। प्रतिपक्षरूपता कथम् अवधारितेइति चेत्, तवाइव दर्शनात्। तथा हि: दृश्यते ज्ञानाद्यभ्यासतः प्रतिक्षणम् आवरणविलयो, विशिष्टविशिष्टतरतत्कार्यबोधाद्यनुभवात्, तदतिशये पुनः सामस्त्योच्छेदः स्याद् इत्य् अभिदध्महे। एतेन यत् परे प्रोचुर् – यथा: प्रत्यक्षादिप्रमाणपञ्चकगोचरातिक्रान्तत्वात् सर्वार्थसंवेदनम् अभावाख्यषष्ठप्रमाणगोचरतां प्रतिपद्यते – तद् अयुक्तम्, तत्सम्भवस्यानुमानेन प्रतिपादनात्, प्रमाणपञ्चकप्रवर्तनाभावासिद्धेः। किं च, प्रमाणपञ्चकं तद्गोचरं न प्रवर्तत इति कथं भवतो निर्णयः? किं नियतदेशकालव्याप्त्या यद् वा समस्तदेशकालास्कन्दनेनेति? यद्य् आद्यः पक्षस्, ततो यथा घटादेः क्वचित् प्रमाणपञ्चकं तद्गोचरं निर्वर्तमानम् अभावं साधयत्य्, एवं समस्तवस्तुसंवेदनगोचरम् अपि तन् निवर्तमानं नियतदेशदशावच्छिन्नम् अभावं साधयेन्, न सर्वत्र; ततश् च घटादिवत् तद् दुर्निवारं स्यात्। अथ द्वितीयः पक्षो, ऽसाव् असम्भव्य् एव; समस्तदेशकालवर्तिपुरुषपरिषत्संवेदनसाक्षात्कारिणो ह्य् एवं वक्तुं युक्तम्, यद् उत न क्वचित् समस्तार्थसंवेदनं अस्तीति – न भवतस्, तथाविधपुरुषसम्भवानभ्युपगमात्। इतरथा य एव कश्चिन् निश्चित्याइवम् अभिदध्यात्, स एव समस्तवस्तुविस्तारव्यापिज्ञानालोक इति समस्तार्थगोचरसंवेदनसिद्धिर् इत्य् आस्तां तावत्।
[नव्_२८।०] तद् एवं प्रमाणविषये लक्षणसङ्ख्याविप्रतिपत्ती निराकृत्याधुना क्रमप्राप्तां गोचरविप्रतिपत्तिं बहुवक्तव्यत्वाद् अनिराकृत्य तावत् फलविप्रतिपत्तिं निराचिकीर्षुर् आह:
प्रमाणस्य फलं साक्षाद् अज्ञानविनिवर्तनम् ।
केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ न_२८ ॥
[नव्_२८।१] द्विविधं हि प्रमाणस्य फलम्: साक्षाद् असाक्षाच् चानन्तरं व्यवहितं चेत्य् अर्थः। तत्र साक्षाद् अज्ञानम् अनध्यवसायः प्रमेयापरिच्छित्तिस् तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम्, अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तेस्, तस्य च सर्वानर्थमूलतया प्रमात्रपकारित्वात्। तन्निवर्तनस्य प्रयोजनता युक्ताइव। एतच् चानन्तरप्रयोजनं सर्वज्ञानानाम् एकरूपत्वात् सामान्येनोक्तम्। व्यवहितप्रयोजनं पुनर् विभागेनाह: केवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमाह्लादानुभव, उपेक्षा साक्षात् समस्तार्थानुभवे ऽपि हानोपादानेच्छाभावान् मध्यस्थवृत्तिता, ते सुखोपेक्षे फलम् इत्य् अर्थः। शेषस्य तद्व्यतिरिक्तप्राकृतलोकप्रमाणस्यादानं ग्रहणं हानं परित्यागस्, तयोर् आदानहानयोर् धीर् बुद्धिर् आदानहानधीः, सा फलम् इति यावत्। ततश् चादेयानां सम्यग्दर्शनादिस्रक्चन्दनादीनां यादित्सा, तथा हेयानां मिथ्यादर्शनादिविषकण्टकादीनां या जिहासा सा प्रमाणसाध्याप्रमाणात् तदसिद्धेः, प्रेक्षापूर्वकारिणां ततः प्रवृत्त्ययोगाद् इत्य् उक्तं भवति।
[नव्_२९।०] अधुना गोचरविप्रतिपत्तिं निराचष्टे:
अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् ।
एकदेशविशिष्टो ऽर्थो नयस्य विषयो मतः ॥ न_२९ ॥
[नव्_२९।१] अनेके बहवो ऽन्ता अंशा धर्मा वात्मानः स्वरूपाणि यस्य तद् अनेकान्तात्मकम्। किं तत्? वस्तु बहिर् अन्तश् च, गोचरो विषयः, सर्वसंविदां समस्तसंवित्तीनाम्। अनेनानेकान्तम् अन्तरेण संवेदनप्रसरव्यवच्छेदं दर्शयति, भ्रान्तसंवेदनानाम् अप्य् अनेकान्तोद्द्योतनपटिष्ठतया प्रवृत्तेः, केवलं केषुचिद् अंशेषु विसंवादकत्वाद् अप्रमाणानि तानि सङ्गीर्यन्ते। तद् अयम् अभिप्रायो: यदा संवेदनसामान्यम् अप्य् अनेकान्तविरहेण न प्रवर्तितुम् उत्सहते, तदा तद्विशेषभूतं प्रमाणम् एकान्ते प्रवर्तिष्यत इति दूरापास्तावकाशाइवाइषा वार्ता, तथाप्य् अनादिमिथ्याभिनिवेशवासितान्तःकरणाः कुदर्शनविप्रलब्धबुद्धयो बहवो ऽत्र विप्रतिपद्यन्त इति सर्वप्रमाणानाम् अनेकान्तगोचरत्वसाधकं प्रमाणम् अभिधीयते: इह यत् प्रमाणं तत् परस्पराविनिर्लुठितानेकधर्मपरिकरितवस्तुनो ग्राहकम्, तस्याइव तत्र प्रतिभासमानत्वाद्; इह यद् यत्र प्रतिभाति, तद् एव तद्गोचरतयाभ्युपगन्तव्यम्; तद् – यथा निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलतया जपाकुसुमं तथाइव तद्गोचरतयाभ्युपगम्यते; परस्पराविभक्तानेकस्वभावाक्रान्तमूर्तिकं च बहिर् अन्तश् च वस्तु सर्वप्रमाणेषु प्रथत इत्य्; अतस् तद् एव तेषां गोचरः।
[नव्_२९।२] न चेतरेतरविशकलितधर्मिधर्मभाववादिभिः कणभक्षाक्षपादशिष्यकैस् तावद् अस्य हेतोर् असिद्धतादिदोषः प्रतिपादयितुं शक्यस्, तदभ्युपगमम् अन्तरेण स्वाभिप्रेतवस्तुनो ऽवस्थानाभावात्। तथा ह्य्: एकस्मिन् धर्मिणि बहवो धर्मास् ततो भिन्नतनवः कथं वर्तेरन्? भेदाविशेषेण सर्वत्र तद्वृत्तिप्रसङ्गात्। तत्राइव तेषां समवायान् नान्यत्र वर्तन्त इति चेन्, ननु सो ऽपि समवायो यद्य् उपकार्योपकारकभावव्यतिरेकेणापि भवति, ततः सर्वत्राविशेषेण प्रसज्येत, तदभावाविशेषात्। अस्त्य् एवोपकार्योपकारकभाव इति चेद्, हन्त हतो ऽस्य्, अनेकोपकारकस्यानेकस्वभावताप्राप्तेस्, तद्विरहे ऽनेकोपकारकत्वाभावात्। न हि येन स्वभावेनाइकस्योपकरोति तेनाइव द्वितीयस्य, तस्य तत्राइवोपयुक्तत्वाद्, द्वितीयोपकारकस्वभावस्य तदुपमर्दनद्वारेणोत्पत्तेर्, इतरथाइकम् एवोपकुर्वंस् तिष्ठेत्, तदेकस्वभावात्। भिन्नाभिः शक्तिभिर् उपकरोति, न भिन्नैः स्वभावैस्, तेन नानेकान्त इति चेत्, तास् तर्हि तत्र कथं वर्तन्त इति वाच्यम्। समवायाद् इत्युत्तरे ऽसाव् अप्य् उपकार्योपकारकभावम् अन्तरेण कथं न सर्वत्रेति प्राचीनं चोद्यं पश्चाल्लग्नम् अनुधावति। उपकार्योपकारकभावाभ्युपगमे पुनर् अप्य् अनेकस्वभावताप्रदर्शितयुक्तेः पुनः शक्त्युपकारकभिन्नशक्तिपरिकल्पने तद् एवावर्तते, तन् न भिन्नधर्मपरिकल्पने ऽप्य् अनेकान्तान् मोक्ष इति वरम् आदाव् एव मत्सरितां विहायानेकधर्माध्यासितं वस्त्व् अभ्युपगतम्। किं भेदकल्पनयास्थान एवात्मना परिक्लेशितेनेति। किं चानेकान्ताभ्युपगमे सत्य् एष गुणः: परस्परविभक्तेषु संयोगिसंयोगसमवायिसमवायगुणगुण्यवयवावयविव्यक्तिसामान्यादिषु संयोगसमवायगुण्यवयविसामान्यादीनां संयोगिसमवायिगुणावयवविशेषादिषु वर्तनचिन्तायां यद् दूषणजालम् उपनिपतति, तद् अपि परिहृतं भवत्य्, एकान्तभेद एव तदुपपत्तेर्, अनेकान्ते तदुत्थानाभावात्। तथा हि: भिन्नाः खलु संयोगादयः संयोग्यादिभ्यो विकल्पयितुं पार्यन्ते – यद् उत कथम् एत एतेषु वर्तन्त इति? किम् एकदेशेन यद् वा सामस्त्येन? यद्य् एकदेशेन, तद् अयुक्तम्, तेषां निरवयवत्वाभ्युपगमात्। सावयवत्वे ऽपि तेभ्यो ऽवयवेभ्यो यद्य् अभिन्नास्, ततो ऽनेकान्तापत्तिर्, एकस्यानेकावयवत्वप्राप्तेः। अथ भिन्नास् तेष्व् अपि ते कथं वर्तन्त इत्य् वाच्यम्: एकदेशेन सामस्त्येन वा। एकदेशपक्षे तद् एवावर्तत इत्य् अनवस्था। अथ सामस्त्येन, तद् अप्य् असाधीयः, प्रत्येकं परिसमाप्ततया संयोगादिबहुत्वप्रसङ्गात्। तदभिन्नाः पुनः संयोगादयो न विकल्पभाजो भवन्ति। अभेदपक्षे ऽपि संयोगादिमात्रं संयोग्यादिमात्रं वा स्याद् इति चेन्, न, तस्याप्य् एकान्तेनानभ्युपगमात्, किं तर्ह्य् अन्योन्याविश्लिष्टस्वरूपा विवक्षया सन्दर्शनीयभेदाः सर्व एवाइते ऽभ्युपगम्यन्ते, तथाविधानां कुयुक्तिविकल्पोत्थापितदूषणसमूहनिराकरणक्षमत्वाद्, अबाधितप्रतिभासेषु सर्वत्र तेषां तथाइव प्रतिभासनाद्, अन्यथा प्रतिभासमानानाम् अन्यथा परिकल्पने दृष्टहान्यदृष्टपरिकल्पनाद्वारेणासमञ्जसप्राप्तेस्; तथा च ब्रह्माद्वैतशून्यवादादयः सिद्धिम् अश्नुवीरन्, विशेषाभावाद् इति।
[नव्_२९।३] एतेनास्य हेतोः कापिला अप्य् असिद्धतादिदोषम् अभिधित्सवो मौक्यम् आनीताः। तथा ह्य्: अन्तर् एकं संवेदनम् अपरापरहर्षविषादाद्यनन्तधर्मविवर्ताक्रान्तरूपं बहिश् च घटादिकम् अर्थं नवपुराणादिवर्तुलपार्थिवत्वाद्यनेकस्वभावावष्टब्धशरीरं साक्षाल् लक्षयन्तः कथं तद्विपरीतकथने प्रवर्तेरन्? प्रकृतिपुरुषात्मकं द्रव्यम् एवाइकं तात्त्विकम्, पर्यायभ्रान्तिजनकः पुनर् विवर्तो ऽपारमार्थिक इति चेन्, न, द्वयोर् अपि सर्वप्रमाणेषु प्रकाशमानयोर् अबाधितयोः सर्वव्यवहारनिबन्धनयोः पक्षपातम् अन्तरेणाइकस्य निह्नोतुम् अशक्यत्वात्। तथा सति विवर्त एव तात्त्विको, द्रव्यं पुनर् अलीकम् इति पर्यायपक्षपाती प्रसञ्जयन् दुर्निषेधः स्याद् इति। अथेत्थम् अभिदधीथा: द्रव्यं सर्वत्राव्यभिचरितरूपत्वात् सत्यम्, पर्यायाः पुनर् व्यभिचारिण इत्य् असत्याः, तद् अयुक्तम्। यदि नाम द्रव्यम् अभेदरूपत्वात् सर्वत्रानुवर्तते, पर्यायास् तु भेदरूपत्वाद् व्यवच्छिद्यन्ते, तथापि तत् सत्यम्, इतरे ऽलीका इति वक्तुं न पार्यते, न हि नीलं पीतरूपतां न बिभर्तीत्येतावता तद् असत्यम्, अतिप्रसङ्गात्, सर्वस्य पररूपपरिहारावस्थायितयालीकत्वप्राप्तेः। अथ द्रव्यम् एव पर्यायास्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवन्, न सन्ति वा द्रव्यव्यतिरेकिणः पर्याया, निःस्वभावत्वात्, खपुष्पवद् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यम्, तदव्यतिरिक्तत्वात् तत्स्वरूपवन्, नास्ति वा पर्यायव्यतिरिक्तं द्रव्यम्, निष्पर्यायत्वाद्, आकाशकुसुमवद् इतीतरो ऽपि प्रमाणयन् केन वार्येत। तन् न पक्षद्वये ऽपि काचिद् विशेषोपलब्धिर् इति। यथाइवानन्तसहक्रमवर्तिपर्यायाध्यासितं वस्तु सर्वप्रमाणेषु प्रकाशते तथाइवाभ्युपगन्तव्यम्, तथा चान्यस्याभावात् तद् एव तद्गोचर इति स्थितम्।
[नव्_२९।४] तथा सुगतमतानुसारिणाम् अपि मध्ये सौत्रान्तिकस् तावद् अस्य हेतोर् असिद्धताम् आविर्भावयितुं नोत्सहते, तदभ्युपगतिव्यतिरेकेण निजदर्शनव्यवस्थानुपपत्तेः। तथा हि: बहिस् तावद् एकं कारणम् अपरापरसामग्र्यन्तःपातितयानेककार्यकार्यावेद्यते, यथा रूपं स्वोत्तरक्षणं स्वावगाहिज्ञानादिकं च युगपज् जनयति। यदि चाइकक्षणवर्तिनः सामग्रीभेदेन भेदम् अनुभवत एव भिन्नदेशनानाकार्यकारिता, तथा सति नित्यपक्षोदितं दूषणं स्वमस्तकोपनिपाति स्यात्, तस्यापि तथाइव भिन्नकालकार्यनिर्वर्तने ऽपि भेदाभावप्रसङ्गात्। तथा प्रतिभासभेदेन क्षणक्षयिरूपादिस्वलक्षणविलक्षणत्वाभ्युपगमश् चाइवं निर्निबन्धनः स्यात्, कौटस्थ्यम् आबिभ्रतो ऽपि द्रव्यस्यापरापरकारणकलापान्तर्गततया नवपुराणादिपर्यायरूपरसगन्धस्पर्शावभासलक्षणकार्यसम्पादनाविरोधप्रसक्तेः। किं चायम् एकं स्वावयवव्यापिनं कालान्तरसञ्चरिष्णुम् आकारं साक्षाल् लक्षयन् क्षणक्षयिपरमाणुलक्षणानि स्वलक्षणान्य् आचक्षीत नान्यथा, यथाकूतं तदवभासस्य स्वप्नान्तरे ऽप्य् अनुपलक्षणाल्; लक्षितस्य चालक्षितव्यतिरेकनिराकरणतस् तादात्म्यं कथयन् स्वगिरानेकान्तावभासं समर्थयते। तथा ह्य्: अलक्षितपरमाणुपारिमाण्डल्यप्रतिक्षणविवर्तम् अपि स्वलक्षणं स्थिरस्थूराद्यात्मना दर्शयति स्वरूपम्, अन्यथा सुषुप्तं जगद् आसज्येत, तदप्रकाशने प्रमाणान्तरस्याप्य् अत्यन्तविलक्षणस्वलक्षणावेदकस्याप्रवृत्तिप्रसङ्गात्। तथान्तःसंवेदनम् अर्थस्वरूपापेक्षया बहिर्मुखान्तर्मुखसविकल्पाविकल्पभ्रान्ताभ्रान्तादिप्रतिभासम् एकम् अभ्युपयतः कथम् अनेकान्तावभासो ऽसिद्धः स्यात्? तथा नानादेशस्थितार्थसार्थसमर्पिताकारोपरक्तम् एकम् आकारभेदे ऽप्य् अन्यथा युगपत्प्रकाशमानसितासिताद्यर्थव्यवस्थित्यनुपपत्तेः संवेदनम् अनुमन्यमानः कथं भिन्नसमयभाविहर्षविषादाद्यनेकविवर्तवशात् तद्भेदम् आत्यन्तिकम् अभिदधीत, अभिन्नयोगक्षेमत्वाद्। युगपद्भाविनां संविदन्तर्निविष्टाकाराणाम् एकत्वं न हर्षादीनाम्, तद्विपर्ययाद् इति चेन्, न, तत्सामर्थ्यव्यवस्थाप्यार्थाभेदप्रसङ्गात्, तदेकतया सितपीतादिषु ज्ञानस्य बोधरूपेणाइवाविशिष्टत्वात्। तद् एवं बहिर् अन्तश् चाइकानेकरूपत्वे प्रमाणतः स्थितेः स्वलक्षणस्यान्यथा स्वाभ्युपेतदर्शनव्यवस्थायोगान् नार्थवाद्य् अनेकान्तप्रकाशं प्रतिक्षेप्तुम् अर्हति।
[नव्_२९।५] तथोररीकृतयोगाचारमतम् अपि बलाद् अनेकान्तप्रकाशरज्जुर् आवेष्टयत्य्, एकस्यापि ज्ञानस्यानेकवेद्यवेदकाकारतया प्रथनोपगतेः। एकयोगक्षेमत्वात् तदैक्यम् इति चेन्, न, युगपदुदयप्रलयवतां सहवेदिनां सकलसन्तानानाम् एकत्वप्रसङ्गात्। संवृतिदर्शितत्वाद् अनेकत्वस्य, न तेन स्वसंवेदनसाक्षात्कृतपारमार्थिकाइकत्वक्षतिर् इति चेन्, न, ब्रह्मवादिमताप्रतिषेधप्रसक्तेर्, यतो ऽनाद्यविद्याबलाद् एकम् अक्रमं सचेतनं स्वसंवेदनसाक्षात्कृतम् अपि ब्रह्मानेकं क्रमवच् चेतनाचेतनं परोक्षापरोक्षं लक्ष्यते, भवत्परिकल्पितग्राह्यग्राहकाकारविविक्तसंवेदनवद् इति तेनापि न दुरुपपादम्। अस्तु वायम् अनेकान्तावभासो भ्रान्तस्, तथापि संवेदनस्याद्वयता न लक्ष्यते, तल्लक्षणे सकलासुमताम् अधुनाइव मुक्ततावाप्तेः। लक्ष्यते च तत् कथञ्चिद्, इतरथा सुषुप्तदशावत् सर्वव्यवहारोच्छेदप्रसङ्गाद् इत्य् एकस्यापि संवेदनस्य लक्षितालक्षितत्वेनानेकान्तप्रतिभासो दुःशको ऽपह्नोतुम् इति ज्ञानवाद्य् अप्य् अस्य हेतोर् असिद्धताविर्भावनं प्रति तूष्णीम् आसीत।
[नव्_२९।६] शून्यवादिनः समस्ताभावाद् असिद्धो ऽनेकान्तप्रकाश इति चेन्, न, तस्यापि प्रमाणप्रमेयाभावे न सर्वाभावावेदनं समस्त्य्, अन्यथाप्रमाणकं सर्वं सर्वत्र विद्यत इति परस्यापि वदतो न वदनभङ्गः स्यात्, तदभ्युपगमे ऽभ्युपगमक्षतिः। तयोश् च दर्शितवद् अनेकान्तप्रकाश इति नासिद्धो हेतुः। मरुमरीचिकानिचयचुम्बिनि संवेदने जलोल्लेखे ऽपि तद्गोचरत्वाभ्युपगमाभावाद् अनैकान्तिको ऽयम् इति मा शङ्किष्ठास्, तस्य भ्रान्तत्वाद्, अभ्रान्तप्रकाशो हि तदभ्युपगतिहेतुः। अथायम् अपीतरेतरविनिर्लुठितपरमाणुक्षणक्षयिबोधेन बाध्यमानत्वाद् भ्रान्त इत्य् आचक्षीथास्, तद् अयुक्तम्, यतस् तद्बोधः किम् उपलब्धिमात्रम् यद् वा निर्णयः? यद्य् आद्यः कल्पस् तदानुमानं विशीर्येत, निर्गोचरत्वात्, प्राथमकल्पिकेनाइव निर्विकल्पकविविक्तदर्शनेन विरोधभीरुतया सर्वथा वस्तुग्रहणाभ्युपगमात्, प्रमाणकलिते च मानान्तरवैयर्थ्याद्, अनवस्थाप्राप्तेः। अथ द्वितीयस्, तथा सति सर्वं निर्विकल्पकम् अप्रमाणताम् अश्नुवीत। न च निर्णयो ऽनेकान्तप्रकाशं बाधते, ऽपि तु समर्थयते, बहिर् अन्तश् च तथाइव तद्विजृम्भणात्। अथ सर्वथा वस्तुग्रहणे ऽपि निर्विकल्पकं यत्रांशे पाश्चात्यं व्यवहारकारिव्यवसायम् उपजनयति, तत्राइव प्रमाणताम् आस्कन्दति नान्यत्रेति मन्येथास्, तथा सति यदनन्तरम् अर्थक्रियासमर्थार्थप्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वीकुर्यान्, न निर्विकल्पकम्, तज्जनकत्वे ऽपि सन्निकर्षादिवद् इत्य् आसज्येत। निर्विकल्पकम् अनधिगतार्थाधिगन्तृत्वात् प्रमाणम्, न व्यवसितिस्, तद्विकल्पत्वाद् इति चेन्, नानुमितेर् अपि तद्वद् अप्रामाण्यप्रसङ्गात्। न च विपरीताकारनिराकरणचतुरतयानुमितिर् विशेषवती, निर्णीतेर् अपि तदपनोददक्षत्वाद्, असमारोपविषये ऽप्रवृत्तेः। त्रिरूपलिङ्गजतया विशेषो ऽनुमितेर् मानतासाधक इति चेत्, साक्षाद् अनुभवाद् उत्पादस् तर्हि निर्णीतेर् महापराध इति भवतो बालताम् ईक्षामहे। किं च, यथा निर्विकल्पकम् अलक्षितं सकलव्यावृत्तस्वलक्षणग्रहणप्रवणम् अपि कतिचिदंशविषयं विकल्पम् उत्थापयति, तथार्थ एवेन्द्रियालोकादिसन्निकृष्टतया कतिचिन्निजांशविषयं साक्षाद्विशदविकल्पं जनयेद् इति किम् अजागलस्तनकल्पनिर्विकल्पककल्पनया? तावन्तो ऽंशा बहिरर्थे विरुध्यन्त इति चेत्, पाटवापाटवादयो दर्शने ऽप्य् एकस्मिन् न विरुध्यन्त इति किं राज्ञाम् आज्ञा? तस्मान् न क्षणक्षयिपरमाणुलक्षणस्वलक्षणलक्षकं क्वचित् कदाचिद् दर्शनं लक्षयन्ति भवन्तो ऽपि, केवलं स्वदर्शनानुरक्तान्तःकरणतया न तदसत्तां प्रतिपद्यन्ते। स्वांशव्यापिनं कालान्तरानुयायिनम् एकं बहिर् अन्तश् चार्थं बोधं च प्रकाशयन् प्रथमानो निर्णयः, न पुनर् निर्मूलकैः कुयुक्तिविकल्पैर् बाध्यत इति न भ्रान्तः। किं चास्य भ्रान्ततां कथयन् सर्वप्रमाणप्रमेयव्यवस्थाम् उन्मूल्यति। तथा हि: यत् सत्त्वबोधरूपत्वसुखत्वादिषु प्रमाणं तद् एव क्षणक्षयित्वस्वर्गप्रापणशक्तियुक्तत्वादिष्व् अप्रमाणम्; तथा यद् वस्तु नीलचतुरस्रोर्ध्वतादिरूपतया प्रमेयं तद् एव मध्यभागक्षणविवर्तादिनाप्रमेयम्; तथा यद् बहिरर्थापेक्षया सविकल्पकं स्वप्नादिदर्शनं वा भ्रान्तं तद् एव स्वरूपापेक्षयाभ्रान्तम्; तथा यन् निशीथिनीनाथद्वयादिकं द्वित्वे ऽलीकं तद् अपि धवलतानियतदेशचारितादाव् अनलीकम् इति निर्णयः। यदि तु विरोधाद् बिभ्यद्भिर् भवद्भिर् अयम् अपह्नूयते, किम् अपरम् ऐकान्तिकं प्रमाणं प्रमेयं चोररीकृत्य स्वाकूतं प्रतिष्ठापयेयुर् इति सकौतुकं नश् चेतः।
[नव्_२९।७] अथ ज्ञानवाद्य् अद्वैतप्रकाशम् अलक्षितम् अभ्युपेत्य तेन बाहुविध्यं दधानो बोधो बाध्यमानत्वाद् भ्रान्त इत्य् अभिदध्यात्, तद् अयुक्तम्, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गाद्, अलक्षितनिर्विकल्पदर्शनस्य च प्राग् एव प्रतिक्षिप्तत्वात्। अथ युक्तिर् बोधस्य वैविध्यं बाधेत, तथा हि: भ्रान्ताभ्रान्तसंवेदनविवेकस्य कर्तुम् अशक्यत्वात्, संविन्मात्रस्य तु सर्वत्राव्यभिचारित्वाद्, अद्वयं संवेदनं विविक्तयुक्त्या प्रकाशमानम् अनादिकालालीनवासनासमुपजनितसंवृतिदर्शितसत्ताकं सितासितादिविविधप्रतिभासं निराकुरुते। अत्र प्रतिविदध्महे: किम् अयम् अनेकाकारो बोधो ऽद्वयसंवेदनाद् व्यत्यरैक्षीद् वा न वा। किं चातो, यदि व्यभैत्सीत्, कथम् अदृष्टतत्कार्यत्वे व्यतिरिक्तो ऽयं तद् अद्वयं संवेदनम् अनुमापयेत्? अव्यतिरेकपक्षे पुनर् अनेकः सन्न् एकसंवेदनतादात्म्येन प्रथमानः कथम् अद्वैतं नोद्दलयेत्? अथ संवृतिदर्शितत्वाद् अलीकतयास्य सितासिताद्याकारबहिर्मुखकालुष्यस्य बोधेन तात्त्विकेन सह भेदाभेदविकल्पानुपपत्तिर् इति ब्रूषे, तथा सति परो बोधस्यापारमार्थिकत्वं अविद्यादर्शितत्वाद्, अर्थसत्तायाः पुनस् तत्त्वरूपता, सर्वत्राव्यभिचाराद् इति ब्रुवाणो दुर्निवारः स्यात्। जडस्य प्रकाशायोगात् संवित्तिः सत्या, नार्थ इति चेद्, एकस्यानेकतावभासाभावाद् अनेकान्तः सत्यो, नाद्वैतम् इति प्रतिजानीमहे। संवृत्याद्वयस्यापि नानाप्रतिभासो ऽविरुद्ध इति चेद्, अनाद्यविद्याबलाज् जडस्यापि चेतनतया प्रकाशो न विरुद्ध इति परस्यापि शठोत्तरं नातिदुर्लभं भवेत्। किं च, नानाकारकलुषितचैतन्यसामान्यस्यान्यथानुपपत्तिसामर्थ्यतस् तस्य सिद्धत्वाद् अद्वयं संवेदनम् असिद्धं साधयेद् अयम्, अन्यथा निर्निबन्धनतया साधनस्याप्रवृत्तेस्, तथा च स्थिरस्थूराद्युपलक्षितार्थांशवशाद् विशकलितपरमाणुक्षणक्षयिपर्यायतादात्म्यं साधयन् तम् अनेकान्तवादिनं न प्रतिक्षेप्तुम् अर्हति, युक्तेर् उभयत्रापि तुल्यत्वात्। किं च, यो ऽयं सितपीताद्यनेकाकारनिर्णयो ऽसाव् अपि स्वसंवेदनापेक्षयाद्वयरूप इति भवदभिप्रायो; यथा चानवस्थाभीरुतया सर्वं ज्ञानं स्वप्रकाशम् अभ्युपेतम्, तथा सर्वो निश्चयः स्वनिश्चायको ऽभ्युपगन्तव्यो, ऽन्यथा तत्राप्य् अनवस्थादोषो ऽनुषज्येत, निश्चयाश् च सर्वथा स्वरूपं निश्चिनुयुर्, नाइकदेशेन, यतो “निश्चयैर् यन् न निश्चीयते रूपं तत् तेषां विषयः कथम्” इति स्वयम् एव स्ववधाय प्रलपितम्। तथा चाद्वयस्य क्षणक्षयिणः स्वरूपस्य तैर् ग्रहणे विपरीतारोपाभावाद् आदित एव अनुत्थानं संसारस्येति युक्तिरिक्त एवामुक्तताभिमानः स्यात्, न चाइवम्, भवभावस्य प्रतिप्राणिप्रसिद्धत्वात्। तन् नायम् इतरेतराविनिर्लुठितद्रव्यपर्यायप्रकाशो भ्रान्तस्, तद्विपरीतार्थोपस्थापकप्रमाणान्तराभावाद् इति स्थितम्।
[नव्_२९।८] यदा तु शून्यवादी ‘निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्, स्वप्नप्रत्ययवद्ऽ; इति पराभिप्रायप्रवृत्तानुमानबलाद् भ्रान्तताम् अस्य कथयेत्, तदा तं प्रति ‘सालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वाज्, जाग्रद्दशाप्रत्ययवद्ऽ; इति विपरीतानुमानम् उपढौकनीयम्। स यदि दृष्टान्तस्य साध्यविकलताम् उद्भावयेत्, तदा तद्दृष्टान्ते ऽपि सा दर्शनीया। यदि पुनर् असौ स्वप्नप्रत्ययस्य निरालम्बनत्वं भवद्भिर् अभिप्रेतम् इति विलपन्न् आसितुं न दद्यात्, तदा स विकल्पतः पर्यनुयोज्यो: ऽस्मदभ्युपगमः प्रमाणं भवतो ऽप्रमाणं वा? प्रमाणं चेद्, यथा तद्बलाद् दृष्टान्तसमर्थनं तथा जाग्रत्प्रत्ययगोचरार्थसमर्थनम् अपि किं न कुरुषे, को ऽयम् अर्धजरतीयन्यायः? अथाप्रमाणम्, एवं सति स्वप्नप्रत्ययनिरालम्बनतासाधकं प्रमाणान्तरं मृगणीयम्, किम् अनेन कुशकाशावलम्बनेन। तत्रापि प्रमाणान्तरे विकल्पयुगलम् अमलम् अवतरति: तत् किं निरालम्बनं सालम्बनं वा? निरालम्बनं चेन्, नान्यप्रत्ययस्य निरालम्बनतां गदितुं पटिष्ठम्, निर्गोचरत्वात्। अथ सालम्बनम्, हन्त हतो ऽसि, निरालम्बनाः सर्वे प्रत्यया इति प्रतिज्ञातक्षतेर्, अनेनाइव व्यभिचाराद् इति शठः प्रतिशठाचरणेन निर्लोठनीयः। तन् नास्यानैकान्तिकत्वम्।
[नव्_२९।९] विरुद्धताशङ्का पुनर् दूरापास्तप्रसराइव, प्रमाणप्रकाशिते ऽर्थे सर्ववादिनां तथाभ्युपगमाविगानाद् इति। अनेन संशयविरोधानवस्थावैयधिकरण्यासम्भवादिदूषणानि निर्मूलकमिथ्याविकल्पोत्थापितानि प्रतिभासमुद्गरनिपातनिर्दलितमस्तकत्वान् न जीवितुम् उत्सहन्त इति। तस्माद् असिद्धतादिदोषविनाकृतो ऽयं तथाप्रतिभासलक्षणो हेतुर् अनेकान्तगोचरतां प्रमाणस्य परान् अभ्युपगमयतीत्य् अलम् विस्तरेण। तस्मात् ‘तस्याइव तत्र प्रतिभासनात्ऽ; सर्वसंविदाम् अनेकान्तात्मकं वस्तु गोचर इति स्थितम्।
[नव्_२९।१०] अयं च यथावस्थितप्रमाणव्यापारपर्यालोचकप्रमात्रभिप्रायेण प्रमाणगोचरो दर्शितः। नयस् तर्हि किम्भूतम् तं मन्यत इति वचनावकाशे सत्य् आह: एकेत्यादि। अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेताइकधर्मविशिष्टं नयति प्रापयति संवेदनम् आरोहयतीति नयः, प्रमाणप्रवृत्तेर् उत्तरकालभावी परामर्श इत्य् अर्थस्; तस्य विषयो गोचरो मतो ऽभिप्रेत एकदेशेनानित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो विभिन्नो ऽर्थः प्रमेयरूपम्, प्रमाणम् एवंविधम् एवार्थं गृह्णातीति स्वाकुतेन तेन व्यवस्थापनाद् इति।
[नव्_२९।११] अथवा प्रमाणविषयां लक्षणसङ्ख्यागोचरफलरूपां चतुर्विधां विप्रतिपत्तिं निराकृत्यात्राइव नयगोचरं निरूपयन्न् आह: एकेत्यादि। ननु चादिवाक्येन प्रमाणव्युत्पादनमात्रं प्रतिज्ञानम्, तत् किं अयम् अप्रस्तुतो ऽत्र नयगोचरः प्रतिपाद्यत इति। सत्यम्, एवं मन्यते: न नयः प्रमाणाद् अत्यन्तं दूरयायी, किं तर्हि तदंशभूत एव, नयसमुदायसम्पाद्यत्वात् प्रमाणस्यातस् तद्व्युत्पादनप्रतिज्ञाने ऽसाव् अपि ‘तन्मध्यपतितस् तद्ग्रहणेन गृह्यतऽ; इतिन्यायाद् गृहीत एव, तन् नायम् अप्रस्तुत इति।
[नव्_२९।१२] अत्रापि पदार्थः स एव, केवलं वाक्यार्थभेदः। तथा हीहाइवं घटना: नयस्य विषय एकदेशविशिष्टो ऽर्थो मतो नीतिविदाम् इति। ननु च यदि नयस्य प्रमाणान्तःपातित्वे ऽपि पृथग् गोचरः प्रतिपाद्यते, ततः प्रमाणवद् एतद्विषया लक्षणादिविप्रतिपत्तिर् अपि निराकर्तव्या। सत्यम्, किं तु न परेषां नयव्यवहारः प्रसिद्धो, ऽतो धर्मिणो ऽभावात् तद्गोचरा विप्रतिपत्तिर् नास्त्य् एव। न च ते तेन तत्त्वं प्रतिपादनीयास्, तत्त्वप्रतिपादने प्रमाणस्याइव व्यापारान्, नयस्य पुनर् एकदेशनिष्ठत्वेन तत्प्रतिपादनसामर्थ्यविकलत्वाद्, अत एवाचार्यस्य न तल्लक्षणादिस्वरूपकथने ऽपि महानादरः। गोचरं पुनर् हेयपक्षे काक्वा प्रक्षिपन् साक्षात् प्रतिपादयति: मा भूत् स्वदर्शनान्तःपातिनां मन्दबुद्धीनां प्रमाणप्रतिपन्ने ऽप्य् अनेकान्तात्मके वस्तुन्य् एकदेशसमर्थनाभिनिवेशलक्षणः कदाग्रह इति। अथवा स्वदर्शनान्तःपातिनः प्रत्य् अनेनाइव गोचरकथनेनोपलक्षणत्वाल् लक्षणादीन्य् अपि लक्षयति। तत्र प्रमाणप्रतिपन्नार्थाइकदेशपरामर्शो नय इति लक्षणम्, सर्वनयविशेषानुयायित्वात् पररूपव्यावर्तनक्षमत्वाच् चास्य। सङ्ख्यया पुनर् अनन्ता इति, अनन्तधर्मत्वाद् वस्तुनस्, तदेकधर्मपर्यवसिताभिप्रायाणां च नयत्वात्, तथापि चिरन्तनाचार्यैः सर्वसङ्ग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः। तद् यथा – ‘नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढाइवम्भूता नयाऽ; इति। अतो ऽस्माभिर् अपि त एव वर्ण्यन्ते।
[नव्_२९।१३] कथम् एते सर्वाभिप्रायसङ्ग्राहका इति चेद्, उच्यते: ऽभिप्रायस् तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तेत, गत्यन्तराभावाद्; अर्थश् च सामान्यरूपो विशेषरूपो वा, शब्दो ऽपि रूढितो व्युत्पत्तितश् च, व्युत्पत्तिर् अपि सामान्यनिमित्तप्रयुक्ता तत्कालभाविनिमित्तप्रयुक्ता वा स्यात्। तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास् ते सर्वे ऽप्य् आद्ये नयचतुष्टये ऽन्तर्भवन्ति। तत्रापि ये परस्परविशकलितौ सामान्यविशेषाव् इच्छन्ति तत्समुदायरूपो नैगमः। ये पुनः केवलं सामान्यं वाञ्छन्ति तत्समूहसम्पाद्यः सङ्ग्रहः। ये पुनर् अनपेक्षितशास्त्रीयसामान्यविशेषं लोकव्यवहारम् अवतरन्तं घटादिकं पदार्थम् अभिप्रयन्ति तन्निचयजन्यो व्यवहारः। ये तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते तत्सङ्घातघटित ऋजुसूत्र इति। तथा ये रूढितः शब्दानां प्रवृत्तिं वाञ्छन्ति तन्निवहसाध्यः शब्द इति। ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्तिं वाञ्छन्ति नान्यथा तद्वारजन्यः समभिरूढ इति। ये तु वर्तमानकालभाविव्युत्पत्तिनिमित्तम् अधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते तत्सङ्घघटितः खल्व् एवम्भूत इति। तद् एवं न कश्चिद् विकल्पो ऽस्ति वस्तुगोचरो यो ऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसङ्ग्राहका एते इति स्थितम्।
[नव्_२९।१४] साम्प्रतम् एषाम् एव प्रत्येकं मतम् उपवर्णयामः। तत्र गमनं गमः परिच्छेद इत्य् अर्थः। निश्चितो गमो निगमो विविक्तवस्तुग्रहणम्, स एव, प्रज्ञादेर् आकृतिगणतया स्वार्थिकाण्प्रत्ययविधानान् नैगमः। यदि वा निगम्यन्ते नियतं परिच्छिद्यन्त इति निगमा अर्थास् तेषु भवो यो ऽभिप्रायो नियतपरिच्छेदरूपः स नैगम इति। अयं हि सत्तालक्षणं महासामान्यम् अवान्तरसामान्यानि च द्रव्यत्वगुणत्वकर्मत्वादीनि तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणान् अवान्तरविशेषांश् चापेक्षया पररूपव्यावर्तनक्षमान् सामान्याद् अत्यन्तविनिर्लुठितस्वरूपान् अभिप्रैति। तथा हि: किल संविन्निष्ठाः पदार्थव्यवस्थितयो, न च सामान्यग्राहिणि विज्ञाने विशेषावभासो ऽस्त्य्, ऽनुवर्तमानाइकाकारपरामर्शेन तद्ग्रहणाद्, अन्यथा सामान्यग्राहकत्वायोगात्। नापि विशेषग्रहणदक्षे संवेदने सामान्यं चकास्ति, विशिष्टदेशदशावच्छिन्नपदार्थग्राहितया तत्प्रवृत्तेर्, अन्यथा विशेषसंवेदनत्वायोगात्। न चाइतौ परस्परविभिन्नाव् अपि प्रतिभासमानौ सामान्यविशेषौ कथञ्चिन् मिश्रयितुम् युक्ताव्, अतिप्रसङ्गाद्, विभिन्नप्रतिभासिनाम् अपि निखिलार्थात्मनाम् ऐक्यप्राप्तेः। एवं च प्रमाणयति: परस्परविश्लिष्टौ सामान्यविशेषौ, पार्थक्येनोपलब्धेर्, इह यद् यत् पार्थक्येनोपलभ्यते तत् तत् परस्परविश्लिष्टं द्रव्यम्, तद् यथा – देवदत्तयज्ञदत्ताव् इति, पार्थक्येन चोपलभ्येते सामान्यविशेषाव्, अतः परस्परविभिन्नाव् इति। न सामान्यात् पृथग् विशेषोपलम्भ इति चेत्, कथं तर्हि तस्योपलम्भ इति वाच्यम्। सामान्यव्याप्तस्येति चेन्, न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात्; ततश् च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता; न चाइतद् अस्ति, विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात्। तस्माद् विशेषम् अभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तो ऽभ्युपगन्तव्यः। तथा सामान्यम् अपि विविक्ताकारतया स्वग्राहिणि ज्ञाने यदि न प्रकाशेत, तदा तद्गोचराभिमतसंवेदनेन विशेषस्याप्य् आकलनात् सामान्याभिधानव्यवहारयोः प्रवृत्तेर् उच्छेदस् तथाइव वक्तव्यो, विविक्तसामान्यग्राहिबोधमूलकत्वात् तयोस्, तदनिष्टौ तयोर् अप्य् अभावापत्तेः। न च सामान्यं विशेषं वा तिरस्कृत्य केवलस्य विशेषस्य सामान्यस्य वाभ्युपगमः कर्तुं युक्तो, द्वयोर् अपि स्वग्राहिज्ञाने प्रतिभासमानतया विशेषाभावात्। तस्माद् एतौ द्वाव् अपीतरेतरविशकलिताव् अङ्गीकरणार्हाव् इति नैगमः।
[नव्_२९।१५] अधुना सङ्ग्रहाभिप्रायो वर्ण्यते। तत्र सङ्गृह्णात्य् अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया जगद् आदत्त इति सङ्ग्रहः। अयं हि मन्यते: भावलक्षणसामान्याद् व्यतिरिच्यमानमूर्तयो वा विशेषाः परिकल्प्येरन्न्, अव्यतिरिच्यमानमूर्तयो वा, गत्यन्तराभावात्। तत्र यद्य् आद्यः पक्षस्, तदा निःस्वभावतां ते स्वीकुर्युर्, भावव्यतिरेकित्वाद्, गगनकुसुमादिवत्। अथ द्वितीयः कल्पस्, तर्हि भावमात्रम् आपद्यन्ते। तथा हि: भावमात्रं विशेषास्, तदव्यतिरिक्तत्वाद्, इह यद् यतो ऽव्यतिरिक्तं तत् तद् एव भवति, तद् यथा – भावस्याइव स्वरूपम्, अव्यतिरेकिणश् च विशेषा, अतस् तद्रूपा एव। ननु च यदि भावमात्रम् एव तत्त्वं तदा तस्य सर्वत्राविशेषाद् य एते प्रतिप्राणिप्रसिद्धाः स्तम्भेभकुम्भाम्भोरूहादिविशिष्टवस्तुसाध्या व्यवहारास् ते सर्वे ऽपि प्रलयम् आपद्येरन्न्, अतो विशेषा अपि विविक्तव्यवहारहेतवो ऽभ्युपगन्तव्याः। नाइतद् अस्ति, व्यवहारस्यानाद्यविद्याबलप्रवर्तितत्वात्, तेन पारामर्थिकप्रमाणप्रतिष्ठिततत्त्वप्रतिबन्धाभावात्। किं च, विशेषाग्रहो विशेषेण त्याज्यो, विशेषव्यवस्थापकप्रमाणाभावात्। तथा हि: भेदरूपा विशेषाः, न च किञ्चित् प्रमाणं भेदम् अवगाहते, प्रत्यक्षं हि तावद् भावसम्पादितसत्ताकं तम् एव साक्षत्कर्तुं युक्तम्, नाभावम्, तस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावाद्, अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गात्, तथा च विशेषाभावात् सर्वो द्रष्टासर्वदर्शीस्यात्। अनिष्टम् चाइतद् भवताम्, तस्माद् भावग्राहकम् एव तद् एष्टव्यम्। स च भावः सर्वत्राविशिष्ट इति तथाइव तेन ग्राह्यस्, तदुत्तरकालभावी पुनर् विकल्पो घटो ऽयं पटादिर् न भवतीत्य् एवमाकारो व्यवहारं रचयन्न् अविद्यामूलत्वान् न प्रमाणम्, तन् न प्रत्यक्षाद् विशेषावगतिः। नाप्य् अनुमानादेः, प्रत्यक्षमूलकत्वाच् छेषप्रमाणवर्गस्य, तस्मात् सामान्यम् एव परमार्थो, न विशेषा इति सङ्ग्रहः।
[नव्_२९।१६] साम्प्रतं व्यवहारमतम् उच्यते। तत्र व्यवहरणं व्यवह्रियते वानेन लौकिकैर् अभिप्रायेणेति व्यवहारः। अयं तु मन्यते: यथा लोकग्राहम् एव वस्त्व् अस्तु, किम् अनयादृष्टाव्यवह्रियमानवस्तुपरिकल्पनकष्टपिष्टिकया? यद् एव च लोकव्यवहारपथम् अवतरति तस्यानुग्राहकं प्रमाणम् उपलभ्यते, नेतरस्य, न हि सामान्यम् अनादिनिधनम् एकं सङ्ग्राहाभिमतं प्रमाणभूमिस्, तथानुभवाभावात्, सर्वस्य सर्वदर्शित्वप्रसङ्गाच् च। नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचरस्, तथा प्रवृत्तेर् अभावात्। तस्माद् इदम् एव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूरताम् आबिभ्राणम् उदकाहरणाद्यर्थक्रियानिर्वर्तनक्षमं घटादिकं वस्तुरूपं पारमार्थिकम् अस्तु, पूर्वोत्तरकालभावितत्पर्यायपर्यालोचना पुनर् अज्यायसी, तत्र प्रमाणप्रसराभावात्, प्रमाणम् अन्तरेण च विचारस्य कर्तुम् अशक्यत्वात्। अवस्तुत्वाच् च तेषाम्, किं तद्गोचरपर्यालोचनेन? तथा हि: पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कञ्चन लोकव्यवहारम् उपरचयन्ति, तन् न ते वस्तुरूपा, लोकव्यवहारोपयोगिनां एव वस्तुत्वाद् इति व्यवहारः।
[नव्_२९।१७] साम्प्रतं ऋजुसूत्राभिप्रायः कथ्यते। तत्र र्जु प्रगुणम् अकुटिलम् अतीतानगतवक्रपरित्यागाद् वर्तमानक्षणविवर्तिवस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयतीत्य् ऋजुसूत्रः। तथा ह्य्: अस्याभिप्रायो – ऽतीतस्य विनष्टत्वाद् अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्यो ऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वान् नार्थक्रियानिर्वर्तनक्षमत्वम्, अर्थक्रियाक्षमं च वस्तु; तदभावान् न तयोर् वस्तुत्वम् इति। वर्तमानक्षणालिङ्गितं च पुनर् वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तद् एव पारमार्थिकम्। तद् अपि च निरंशम् अभ्युपगन्तव्यम्, अंशव्याप्तेर् युक्तिरिक्तत्वाद्, एकस्यानेकस्वभावताम् अन्तरेणानेकस्वावयवव्यापनायोगात्। अनेकस्वभावताइवास्त्व् इति चेन्, न, विरोधव्याघ्राघ्रातत्वात्। तथा हि: यद्य् एकः स्वभावः कथम् अनेकः? अनेकश् चेत् कथम् एकः? एकानेकयोः परस्परपरिहारेणावस्थानात्; तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथञ्चिन् निचयरूपताम् आपन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणम्, न स्थूरतां धारयत् पारमार्थिकं इति। किं च, प्रमाणतो ऽर्थव्यवस्था, न च प्रमाणं देशकालव्याप्तिग्रहणे किञ्चन प्रवर्तते, सर्वप्रमाणानां वर्तमानप्रकाशरूपत्वात्। तथा हि: प्रत्यक्षं तावद् रूपालोकमनस्कारचक्षुर्लक्षणकारणचतुष्टयाल् लब्धसत्ताकं वर्तमानक्षण एव प्रकाशते, अतीतवर्त्स्यत्क्षणयोर् असन्निहितत्वात्, ततश् च तत् तत्कालसम्बद्धम् एव वस्तुनो रूपं साक्षात्कर्तुं क्षमते न पूर्वम् अपरं वासन्निधानाद् एव। यदि पुनर् विनष्टम् अपि पूर्वक्षणवर्तिरूपमाकलयेत्, तदा विनष्टत्वाविशेषान् निरवधिः क्षणपरम्परा तत्र प्रतीयेत, तथा च सति सङ्कलिकयानादिजन्मपरम्पराग्राहि प्रत्यक्षम् अनुषज्येत। एवम् अनागतक्षणग्रहणे ऽपि योज्यम्; अनिष्टं चाइतत्, तस्मात् तद् वार्तमानिकक्षणग्रहणदक्षम् एवेत्य् अभ्युपगन्तव्यम्। ननु च यदि क्षणभङ्गुरताम् अर्थात्मनाम् अध्यक्षम् अवलोकयति, तदा नीलतेव प्रतिभासमाना सा विप्रतिपत्तिगोचरं न यायाद् इति तद्विषयो लौकिकानां व्यवहारः प्रवर्तेत, न चाइतद् अस्ति, स्थिरताद्वारेण व्यवहारप्रवृत्तेर् इति। अत्र प्रतिविधीयते – साक्षात्कुर्वाणा अपि क्षणविनश्वरतां सदृशापरापरोत्पत्तिविप्रलब्धबुद्धयो मन्दा नाध्यवस्यन्त्य्, अनादिकालप्ररूढवासनाप्रबोधसमुपजनितमिथ्याविकल्पसामर्थ्याच् च विपर्यस्तस्थिरताव्यवहारं प्रवर्तयन्ति, तन् नायम् अध्यक्षस्यापराधो, ऽपि तु प्रमात्ःणाम् एव। तथा घनाकारो ऽपि प्रत्यक्षपृष्ठभाविमिथ्याविकल्पसन्दर्शित एव, विविक्तदर्शने तत्प्रतिभासायोगात्, करचरणशिरोग्रीवादयो ह्य् अवयवाः परस्परविभक्ता एव तत्र प्रतिभान्ति, न व्याप्याकारो, न च ते ऽपि स्वांशव्यापिनः प्रतिभान्ति, तदवयवानाम् अपीतरेतरविशकलितरूपाणां प्रतिभासात् तावद् यावत् परमाणव एव प्रथन्ते, व्यापिरूपस्य विचाराक्षमत्वाद् इत्य् उक्तप्रायम्। नाप्य् अनुमानात् स्थिरस्थूरवस्तुसिद्धिः, प्रत्यक्षपरिगृहीतं हि सम्बन्धम् आसाद्यानुमानं प्रवर्तेत, यदा च तत् क्षणभङ्गुरविविक्तांशग्रहणचातुर्यम् आबिभ्रद् दर्शितं तदानुमानम् अपि तत्प्रतिबन्धमूलकं तद्गोचरम् एव पारम्पर्येण प्रतिष्ठापयति, स्वप्रतिभासिनो रूपस्यालीकतया तत्प्रतिष्ठापनद्वारेणाइव तस्य प्रामाण्यात्। ननु च स्मरणप्रत्यभिज्ञानादीनि स्थिरस्थूरवस्तुव्यतिरेकेण नोपपद्यन्ते, पूर्वम् अदृष्टे तदभावात्, पुरुषाद्यवयविनां स्मरणात् प्रत्यभिज्ञानाच् च। नाइतद् अस्ति, तेषाम् अलीकवासनाप्रबोधोत्थापितत्वेन प्रामाण्यायोगात्। किं च, तान्य् अपि स्वयं वर्तमानक्षण एव प्रकाशन्ते, विप्लववशात् तु स्वरूपम् एव वासनासम्पादितातीतार्थरूपतया व्यवस्यन्ति, घनाकारं च तस्यासन्तम् अध्यारोपयन्ति; तन् न तेभ्यो ऽपि व्यापिवस्तुसिद्धिः। तस्माद् व्यापिनि रूपे प्रमाणानवतारात् परस्परविश्लिष्टाः परमाणव एव परमार्थत इति र्जुसूत्रः।
[नव्_२९।१८] तद् इदम् अर्थस्वरूपनिरूपणनिपुणानां नयानां मतम् उपवर्णितम्; अधुना शब्दविचारचतुराणाम् उपवर्ण्यते। तत्र त्रयाणाम् अपि शब्दादीनाम् इदं साधारणमाकूतम्, यद् उत शब्द एव परमार्थो नार्थस्, तस्य तदव्यतिरिक्तत्वात्। पार्थक्येन वस्तुत्वसिद्धेः कथम् अव्यतिरेक इति चेत्, प्रमाणाद् इति ब्रूमः। तथा हि: न व्यतिरिक्तो ऽर्थः शब्दात्, तत्प्रतीतौ तस्य प्रतीयमानत्वाद्, इह यत्प्रतीतौ यत् प्रतीयते तत् ततो ऽव्यतिरिक्तं भवति, तद् यथा – शब्दे प्रतीयमाने तस्याइव स्वरूपम्, प्रतीयते च शब्दे प्रतीयमाने ऽर्थो, ऽतो ऽसौ ततो ऽव्यतिरिक्त इति। अगृहीतसङ्केतस्य घटशब्दश्रवणे ऽपि घटप्रतीतेर् अभावाद् व्यतिरिक्त इति चेद्, एवं तर्हि विषस्य मारणात्मकत्वं तदज्ञस्य न प्रतिभातीति तत् ततो व्यतिरिक्तम् आपद्येत, न चाइतद् अस्ति, तद्व्यतिरेकाविशेषेण गुडखण्डवद् विषस्याप्य् अमारकत्वापत्तेः, सम्बन्धस्य च व्यतिरिक्तेन सह प्राग् एवापास्तत्वात्; तन् नाबुद्धप्रमातृदोषेण वस्तुनो ऽन्यथात्वम्, अन्यथान्धो रूपं नेक्षत इति तदभावो ऽपि प्रतिपत्तव्य इति। ये निरभिधाना वर्तन्ते ऽर्थास् तेषां शब्दात् पार्थक्येन वस्तुत्वसिद्धिर् इति चेन्, न, निरभिधानार्थाभावात्, केवलं केचिद् विशेषशब्दैः सङ्कीर्त्यन्ते, केचित् सामान्यध्वनिभिर् इत्य् एतावान् विशेषः स्यात्। यदि वा सकलार्थवाचका विशेषधवनयो न सन्तीति नास्त्य् अत्र प्रमाणम्। ततश् च सर्वे ऽर्था विद्यमानस्ववाचका, ऽर्थत्वाद्, घटार्थवद् इति प्रमाणात् सर्वेषां स्ववाचकत्वेन पूर्वोक्तयुक्तेः शब्दाद् अपार्थक्यसिद्धिः। तस्मान् न परमार्थतो ऽर्थः शब्दातिरिक्तो ऽस्त्य्, उपचारतः पुनर् लौकिकैर् अपर्यालोचितपरमार्थैर् व्यवह्रियते। असाव् अप्य् औपचारिकः शब्दात्मको वार्थः प्रतिक्षणभङ्गुरः स्वीकर्तव्यो, वर्णानां क्षणध्वंसिताप्रतीतेर्, ऋजुसूत्रप्रतिपादितयुक्तिकलापाच् च।
[नव्_२९।१९] साम्प्रतम् एतेषाम् एव प्रत्येकम् अभिप्रायः कथ्यते। तत्र शब्दो: रूढितो यावन्तो ध्वनयः कस्मिंश्चिद् अर्थे प्रवर्तन्ते; यथेन्द्रशक्रपुरन्दरादयः, तेषां सर्वेषाम् अप्य् एकम् अर्थम् अभिप्रैति किल प्रतीतिवशाद्, यथा शब्दाव्यतिरेको ऽर्थस्य प्रतिपाद्यते तथाइव तस्याइकत्वं वानेकत्वं वा प्रतिपादनीयम्; न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते, तेभ्यः सर्वदाइवाइकाकारपरामर्शोत्पत्तेर्, अस्खलद्वृत्तितया तथाइव व्यवहारदर्शनात्। तस्माद् एक एव पर्यायशब्दानाम् अर्थ इति शब्दः, शब्द्यत आहूयते ऽनेनाभिप्रायेणार्थ इति निरुक्ताद् एकार्थप्रतिपादनाभिप्रायेणाइव पर्यायध्वनीनां प्रयोगाद् इति।
[नव्_२९।२०] साम्प्रतं समभिरूढमतम् उपवर्ण्यते। तत्र सम् एकीभावेनाभिरोहति व्युत्पत्तिनिमित्तम् आस्कन्दति शब्दप्रवृत्तौ यो ऽभिप्रायः स समभिरूढः। अयं हि पर्यायशब्दानां प्रतिविभक्तम् एवार्थम् अभिमन्यते, तद् यथेन्दनाद् इन्द्रः, परमाइश्वर्यम् इन्द्रशब्दवाच्यं परमार्थतस्, तद्वत्य् अर्थे पुनर् उपचारतः प्रवर्तते, न वा कश्चित् तद्वान्, सर्वशब्दानां परस्परविभक्तार्थप्रतिपादकतयाश्रयाश्रयिभावेन प्रवृत्त्यसिद्धेः। एवं शकनाच् छक्रः, पूर्दारणात् पुरन्दर इत्यादि भिन्नार्थत्वं सर्वशब्दानां दर्शयति; प्रमाणयति च: पर्यायशब्दा विभिन्नार्थाः, प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वाद्, इह ये ये प्रतिविभक्तव्युत्पत्तिनिमित्तकास् ते ते भिन्नार्थाः, यथेन्द्रघटपुरुषशब्दा विभिन्नार्था, विभिन्नव्युत्पत्तिनिमित्तकाश् च पर्यायशब्दा अप्य्, अतो ऽभिन्नार्था इति। यत् पुनर् अविचारितप्रतीतिबलाद् एकार्थाभिधायकत्वं प्रतिपाद्यते तद् अयुक्तम्, अतिप्रसङ्गात्। तथा हि: यदि युक्तिरिक्ता प्रतीतिर् एव शरणीक्रियते तदा मन्दमन्दप्रकाशे दवीयसि देशे सन्निविष्टशरीरा विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारताम् आबिभ्राणाः प्रतीयन्त इत्य् एकतयाइवाभ्युपगन्तव्याः। न चाइतद् अस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनीकप्रत्ययोपनिपातबाधितत्वेन पूर्वप्रतीतेर् विविक्तानाम् एव तेषाम् अभ्युपगमात्, तन् नाइकार्थवाचिनो ध्वनयः सन्ति, रूढिः पुनर् अविचारिततदर्थानाम् इति समभिरूढः।
[नव्_२९।२१] साम्प्रतम् एवम्भूताभिप्रायः प्रतिपाद्यते। तत्राइवंशब्दः प्रकारवचनस्, ततश् चाइवं यथा व्युत्पादितस् तं प्रकारं भूतः प्राप्तो यः शब्दः स एवम्भूतः; तत्समर्थनप्रधानो ऽभिप्रायो ऽप्य् एवम्भूतस्, तद्विषयत्वात्, विषयशब्देन च विषयिणो ऽभिधानात्। अयं हि यस्मिन्न् अर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तम् अर्थो यदाइव विवर्तते तदाइव तं शब्दं प्रवर्तमानम् अभिप्रैति, न सामान्येन। यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् एव घटो ऽभिधीयते, न शेषो, घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवद् इति। अतीतां भाविनीं वा चेष्टाम् अधिकृत्य सामान्येनाइवोच्यत इति चेन्, न, तयोर् विनष्टानुत्पन्नतया शशविषाणकल्पत्वात्; तथापि तद्द्वारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यो, विशेषाभावात्। किं च, यद्य् अतीतवर्त्स्यच्चेष्टापेक्षया घटशब्दो ऽचेष्टावत्य् अपि प्रयुज्येत, कपालमृत्पिण्डादाव् अपि तत्प्रवर्तनं दुर्निवारं स्यात्, विशेषाभावात्, तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तम् अविकलम् अस्ति तस्मिन्न् एव सो ऽर्थस् तच्छब्देन वाच्य इत्य् एवम्भूतः।
[नव्_२९।२२] तद् एवम् अनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम्, तद्द्वारायातः पुनर् एकधर्मनिष्ठार्थसमर्थनप्रवणः परामर्शः शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः, स च धर्माणाम् आनन्त्याद् अनन्तभेदस्, तथापि सर्वसङ्ग्राहकाभिप्रायपरिकल्पनमुखेनाइवं सप्तभेदो दर्शितः। अयम् एव च स्वाभिप्रेतधर्मावधारणात्मकतयाशेषधर्मतिरस्कारद्वारेण प्रवर्तमाणः परामर्शो दुर्नयसञ्ज्ञाम् अश्नुते; तद्बलप्रभावितसत्ताका हि खल्व् एते परप्रवादाः। तथा हि: नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिकौ। सङ्ग्रहाभिप्रायप्रवृत्ताः सर्वे ऽप्य् अद्वैतवादाः साङ्ख्यदर्शनं च। व्यवहारनयानुपाति प्रायश् चार्वाकदर्शनम्। ऋजुसूत्राकूतप्रवृत्तबुद्धयस् ताथागताः। शब्दादिनयमतावलम्बिनो वैयाकरणादय इति। अथेत्थम् अभिदधीथा, यथा: कथम् एते ऽवधारणद्वारेण स्वकम् अर्थं समर्थयन्तस् तद्विपरीतं निराकुर्वाणा दुर्नयतां प्रतिपद्यन्त इत्य्, अत्रोच्यते – एवं प्रवृत्तौ निर्गोचरत्वान्, निर्गोचरस्य नयत्वायोगात्। तथा हि: नयति केनचिद् अंशेन विशिष्टम् अर्थं प्रापयति यो ऽभिप्रायः स नयः, स्वाभिप्रेतधर्माच् छेषधर्मप्रतिक्षेपद्वारेण तु प्रवृत्तो न किञ्चिन् नयत्य्, एकधर्मालिङ्गितस्य वस्तुनो ऽसम्भवाद्, बहिर् अन्तश् चानेकधर्मपरिकरितस्वभावस्य तस्य प्रतिभासात्, तदपह्नवकारिणां कदभिप्रायाणां प्रतिभासबाधितत्वेनालीकत्वात्।
[नव्_२९।२३] तथा हि: यः तावन् नैगमनयः परस्परविश्लिष्टौ सामान्यविशेषौ प्रत्यपीपदत्, तद् अयुक्तम्। तयोस् तथा कदाचन प्रतिभासाभावात्। यच् चोक्तम्: अनुवर्तमानाइकाकारपरामर्शग्राह्यं सामान्यं यत्र न तत्र विशेषप्रतिभासो, यत्र च विशिष्टदेशदशावच्छिन्नबोधनिर्ग्राह्यो विशेषो न तत्र सामान्यावगतिस्, तद्वचनमात्रम् एव, धवखदिरपलाशादिसमस्तविशेषापसारणे वृक्षत्वादिसामान्यप्रतिभासाभावात्। दूराद् विशेषाग्रहणे ऽपि केवलं तच् चकास्तीति चेन्, न, तत्राप्य् अभ्यन्तरीभूतविशेषप्रतिभासात्, तद्विरहे शशविषाणरूपत्वात्। एवं विशेषा अपि न सामान्याद् अत्यन्तव्यतिरेकिणः प्रतिभान्ति, तन्निमग्नानाम् एव तेषां ग्रहणाद्, इतरथा सत्तातो ऽतिरिच्यमाना भावा निःस्वभावताम् आत्मसात्कुर्वन्ति। तथा वृक्षत्वादिसामान्येभ्यो ऽपि भेदिनो वृक्षादयो न स्युस्, तदभेदनिबन्धनत्वात् तत्स्वरूपस्थितेः। तस्मात् तद् एव संवेदनम् उपसर्जनीकृतवैषम्यं प्रधानीकृताइकाकारं सामान्यं गृह्णातीत्य् उच्यते, न्यक्कृतसमत्वम् उत्कलितनानात्वं पुनर् विशेषग्रहीति, समत्वनानात्वयोः कथञ्चिद् भेदाभेदिनोः परस्परं सर्वार्थेषु भावात्, तदभावे तथाविधप्रतिभासानुपपत्तेः। एतेन यद् अवादि “न चाइतौ विभिन्नाव् अपि प्रतिभासमानौ सामान्यविशेषौ कथञ्चिन् मिश्रयितुं युक्ताव्” इत्यादि, तद् अपास्तम् अवगन्तव्यम्, विभिन्नयोः प्रतिभासाभावात्। व्यवहारो ऽपि सर्वः प्रधानोपसर्जनद्वारेण कथञ्चिद् इतरेतराविनिर्लुठितसामान्यविशेषसाध्य एव; न हि सामान्यं दोहवाहादिक्रियायाम् उपयुज्यते, विशेषाणाम् एव तत्रोपयोगान्, नापि विशेषा एव तत्कारिणः, गोत्वशून्यानां तेषां वृक्षाद्यविशिष्टतया तत्करणसामर्थ्याभावात्। किं चात्यन्तव्यतिरेके सामान्यविशेषयोर् वृक्षं छिन्धीति चोदितः किम् इति तद्विशेषे पलाशादौछेदं विधत्ते? तत्र तस्य समवायाद् इति चेन्, न, समवायग्राहकप्रमाणाभावाद्, भावे ऽपि विश्लिष्टयोर् अभेदबुद्ध्युत्पादनाक्षमत्वात्, तस्यापि व्यतिरिक्ततया पदार्थान्तराविशेषान् नित्यत्वाइकत्वसर्वगतत्वादिभिश् च सर्वत्र तत्करणप्रसङ्गाच् च। यत् पुनर् अवादीर्, यद् उत: यदि सामान्यं विशेषनिष्ठम्, विशेषो वा सामान्यव्याप्तः समुपलभ्येत, ततो विविक्तयोस् तयोः क्वचिद् अनुपलम्भाद् यो ऽयं विविक्तेषु सामान्येषु विशेषेषु चाभिधानार्थक्रियालक्षणो व्यवहारः स समस्तः प्रलयं यायाल्, लोलीभावेन तद्विवेकस्य कर्तुम् अशक्यत्वात्, तद् अप्य् असमीचीनम्, यतो यद्य् अपि परस्पराविविक्तयोः सामान्यविशेषयोः सर्वत्रोपलम्भस्, तथापि यत्राइव प्रमातुर् अर्थित्वं तद् एव सामान्यम्, विशेषान् वा प्रधानीकृत्य तद्गोचरं ध्वनिम् अर्थक्रियां वा प्रवर्तयतीतरस्याप्य् उपसर्जनभावेन तत्र व्यापारात्, तद्विकलस्येतरस्यापि शशविशाणायमानतया क्वचिद् अनुपयोगात्। किं चात्यन्तव्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्तिविकल्पोपलम्भनूतनविशेषसम्बन्धादिद्वारेण दूषणमुद्गरकदम्बकं मूर्धनि पतद् दुर्विषहं स्यात्। तथा हि: तत् तेषु कथं वर्तेत – सामस्त्येनाइकदेशेन वा? सामस्त्यपक्षे प्रतिविशेषं परिसमाप्ततया सामान्यबहुत्वप्रसङ्गो, ऽनिष्टं चाइतद्, एकत्वाभुपगमक्षतेः। एकदेशेन वर्तने पुनर् यावन्तो विशेषास् तावन्तस् तदंशाः प्रसजन्ति, न चाइतद् अस्ति, सामान्यस्य निरवयवत्वात्; सावयवत्वे ऽपि पुनस् ते ऽभिन्ना भिन्ना वा। यद्य् अभिन्ना विशेषास्, तर्ह्य् अभेदिनः किं नेष्यन्ते, विशेषाभावात्। भेदपक्षे पुनस् तेष्व् अपि तत् कथं वर्तेत – सामस्त्येनाइकदेशेन वेति? तद् एव चोद्यम् अलब्धपरिनिष्ठम् अवतरति, तन् नात्यन्तभेदिनो वृत्तिः सम्भवति। किं च, यद्य् एकं सामान्यं भेदवत् समस्तविशेषेषु वर्तेत, तदाइकविशेषोपलम्भकाले तद् उपलम्भ्यते न वा? यद्य् आद्यः पक्षस्, तस्याइकतया सर्वत्रोपलम्भात्, व्याप्यग्रहणाभावे व्यापकग्रहणासिद्धेर्, निखिलतद्व्याप्यविशेषग्रहणम् आसज्येत, न चाइतद् अस्ति, पुरोवर्तिविशेषस्याइव साक्षात्करणाच्, छेषविशेषाणाम् असन्निधानात्; सन्निहितविशेषनिष्ठम् एव तद् उपलभ्यते। तस्याइव तद्व्यञ्जकत्वाद्, इतरेषां तदभावाद् इति चेन् नाइकस्वभावस्य खण्डशो व्यञ्जनायोगात् सन्निहितविशेषव्यञ्जितम् एव तत् सर्वत्र स्वभावान्तराभावात् सर्वविशेषगतं च तद्रूपम्, अतस् तद्दर्शनं केन वार्येत। अथ द्वितीयः कल्पस्, तथा सति यथाइकविशेषोपलम्भसमये नोपलभ्यते, तथा शेषविशेषोपलम्भकाले ऽपि नोपलभ्येत, विशेषाभावात्। अतस् तदभाव एवोक्तः स्यात्, केवलस्योपलम्भाभावात्। उपलम्भे ऽपि स्वस्वभावस्थितेर् विशेषरूपतापत्तिः। तथा चिरन्तनविशेषव्यवस्थितसत्ताकं तन् नूतनविशेषोत्पादे सति कथं तेन सह सम्बन्धम् अनुभवेत्? न तावद् विशेषान्तरेभ्यस् तद् उत्पित्सुविशेषदेशं गन्तुम् अर्हति, निष्क्रियत्वात्।
नापि तत्राइवाभवद्, विशेषोत्पादात् प्राक् तद्देशे तदुपलम्भाभावात्। नापि विशेषेणाइव सहोत्पद्यते, नित्यत्वान्, नित्यस्य चोत्पत्तिविरोधात्। अथाइतद्दोषपरिजिहीर्षया तत् सक्रियाकम् अभिधीयेत, तथापि पूर्वव्यक्तित्यागेन वा नूतनविशेषदेशम् आक्रामेत्, तदभावेन वा? न तावद् अद्यः पक्षश्, चिरन्तनव्यक्तीनां सामान्यविकलतया तत्सम्बन्धसाध्यबुद्धिध्वनिविरहप्रसङ्गात्। न चाइतद् अस्त्य्, अपरापरविशेषोत्पादे ऽपि प्राचीनव्यक्तिषु तद्दर्शनात्। अथ द्वितीयः कल्पस्, तद् अप्य् असम्बद्धम्, निरवयवस्य पूर्वव्यक्तित्यागवैकल्ये सत्य् उत्पित्सुव्यक्तिं प्रतिगमनाभावात्। सावयवपक्षस्य पुनः प्राग् एवापास्तत्वान्, नाइतदभ्युपगमद्वारेण परिहारः श्रेयान्। अन्यच् च: व्यतिरिक्तसामान्यसम्बन्धाद् यदि भावाः समाना, न स्वरूपेण, तदा सत्त्वसम्बन्धात् प्राग् भावाः सन्तो ऽसन्तो वा। सन्तश् चेद् अपार्थकः सत्तासम्बन्धो, ऽन्यथानवस्था प्रसज्येत, पुनःसत्तान्तरसम्बन्धानिवारणात्। असन्तश् चेद् अत्यन्तासताम् अपि गगनारविन्दादीनां सत्तासम्बन्धाद् भावरूपतापद्येत। एवं द्रव्यत्वगुणत्वकर्मत्वगोत्वादिसामान्येष्व् अपि समस्तम् एतद् वाच्यम्, एकयोगक्षेमत्वात्, तन् न परस्परम् अत्यन्तव्यतिरेकिणौ सामान्यविशेषौ कथञ्चन घटाम् आटीकेते। अत एव तत्समर्थनप्रवणस् तत्तादात्म्यप्रतिक्षेपको ऽभिप्रायो निरालम्बनत्वान् नैगमदुर्नयव्यपदेशम् आस्कन्दति, तादात्म्योपेक्षयाइव सामान्यविशेषव्यतिरेकसमर्थकस्य नैगमनयत्वाद्, व्यतिरेकिणोर् अपि तयोर् वस्तुनि कथञ्चिद् भावाद्, इतरथा विवक्षयापि तथा दर्शयितुम् अशक्यत्वात्, प्रधानोपसर्जनभावस्य द्वयनिष्ठत्वात्, अत्यन्ततादात्म्ये तत्कारिण्या विवक्षाया अपि निर्गोचरताप्रसङ्गात्। तस्मात् कथञ्चिद् भेदाभेदिनाव् एवाइतौ, तदन्यतरसमर्थकः पुनर् निरालम्बनत्वाद् दुर्नयतां स्वीकरोतीति स्थितम्।
[नव्_२९।२४] तथा सङ्ग्रहो ऽप्य् अशेषविशेषप्रतिक्षेपमुखेन सामान्यम् एकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणाइव तस्य नयत्वात्, विशेषविकलस्य सामान्यस्यासम्भवात्। तथा हि: यत् तावद् उक्तं – यद् उत “विशेषाः सामान्याद् व्यतिरेकिणो ऽव्यतिरेकिणो वा। व्यतिरेकपक्षे निःस्वभावत्वम्, निःसत्ताकत्वात्। अव्यतिरेकपक्षे भावमात्रम्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवद्” इति – तद् अयुक्तम्, विशेषवादिनो ऽप्य् एवंविधविकल्पसम्भवात्। तथा हि: विशेषेभ्यः सामान्यं व्यतिरिक्तम् अव्यतिरिक्तं वा। व्यतिरिक्तं चेन्, न तर्हि सामान्यम्, स्वस्वरूपव्यवस्थिततया विशेषरूपत्वात्। अव्यतिरिक्तं चेत्, तथापि न सामान्यम्, विशेषाव्यतिरिक्तत्वाद् एव तत्स्वरूपवत्। यद् अप्य् अवाद्य् – “अनाद्यविद्याबलप्रवृत्तो विशेषव्यवहारस्, तात्त्विकं सामान्यम्” – तद् अपि वचनमात्रम् एव, युक्तिरिक्तत्वात्, सामान्यम् एवानाद्यविद्यादर्शितम्, विशेषाः पुनः पारमार्थिका इति विशेषवादिनो ऽपि वदतो वक्त्रभङ्गाभावात्। यत् पुनर् विशेषग्राहकप्रमाणाभावं प्रतिपादयताभ्यधायि, यद् उत “प्रत्यक्षं भावसम्पादितसत्ताकं तम् एव साक्षात्करोति नाभावम्, तस्यानुत्पादकत्वाद्” इत्यादि, तद् अयुक्ततरम्, यतः केनेदं भवतो ऽत्यन्तसुहृदा निवेदितम्: “भाव एव केवलः प्रत्यक्षम् उत्थापयति, न पुनर् अभावो ऽपि” [इति]? अभावव्यापाराभावप्रतिपादकयुक्तिकलापेनेति चेद् मुग्धविप्रतारितो ऽसि, तद्व्यापाराभावासिद्धेः, सदसद्रूपवस्तुनः समस्तक्रियासु व्यापाराद्, भावतादात्म्येन व्यवस्थितस्याभावस्य व्यापारे विरोधाभावात्। कथं भावाभावयोस् तादात्म्यम्, विरोधाद्? इति चेन्, न, प्रमाणप्रसिद्धे विरोधाभावात्। तथा हि: घटादिकः पदार्थात्मा स्वरूपेण सन्, न पटादिरूपेणापीति भावाभावात्मकः। यदि पुनः कथञ्चिन् नाभावात्मकः स्यात्, तदा पटादिरूपेणापि भावात् सर्वात्मकः प्राप्नोति। युक्तम् एतद्, अत एव भेदप्रपञ्चविलयसिद्धिर् इति चेत्, स्याद् एवाइतद्, यदि पटाद्यभावाइकान्ताच् छून्यवादिनो ऽपि मनोरथपूरणं न स्यात्; तथा हि: पटादिविविक्तो घटो ऽनुभूयते, न च पटाद्यभावो भावेन सह तादात्म्यम् अनुभवति, तस्माद् अभावात्मक एवायम्, एवं पटादयो ऽपीतरेतरापेक्षयेति शून्यत्वापत्तिः। तस्मात् स्वरूपम् आबिभ्राणं पररूपेभ्यो व्यावृत्तम् एव वस्तु सर्वक्रियासु व्याप्रियत इति भावाभावात्मकस्याइव व्यापारः, स्वरूपधारणस्य भावत्वात्, पररूपव्यावर्तनस्याभावत्वाद् इति। एवं स्वगोचरप्रत्यक्षोत्पादने ऽपि व्याप्रियते, ततश् च तद्रूपम् एव तत् साक्षात्कुर्याद् इति स्वरूपनियते पररूपेभ्यो व्यावृत्त एव वस्तुनि प्रत्यक्षं प्रवर्तते, तज्जन्यत्वान्, न भावमात्रे, तस्य केवलस्य स्वरूपाव्यवस्थितेर् उत्पादकत्वायोगात्। न च जनकत्वाद् अर्थो ग्राह्यो जन्यत्वाद् वा ज्ञानं ग्राहकम्, अतिप्रसङ्गाद् इत्य् उक्तम्, किं तर्ह्य् आवरणविच्छेदादेर् लब्धसत्ताकं ग्रहणपरिणामाज् ज्ञानं गृह्णात्य्, अर्थस् तु सन्निधानादेर् गृह्यते, स चानुवर्तमानव्यावर्तमानरूप एव प्रतीयत इति तथाभूतो ऽभ्युपगन्तव्यो, न केवलसामान्यरूप इति। सदसदंशयोः कथम् एकत्रावस्थानम् इति चेत्, तादात्म्येनेति ब्रूमः। ननु तादात्म्ये भावमात्रम् अभावमात्रं वापद्येतेतरेतराव्यवतिरिक्तत्वाद्, इतरेतरस्वरूपवत्, तन् नोभयरूपवस्तुसिद्धिः। नाइतद् अस्ति, तादात्म्यस्य सम्बन्धत्वात्, सम्बन्धस्य च द्वयनिष्ठत्वात्, तदभावे कस्य केन सम्बन्धो, निर्गोचरत्वात्? तस्माद् एतौ सदसदंशौ धर्मिरूपतयाभेदिनौ, वस्तुनः सदसद्रूपस्याइकत्वाद्, धर्मरूपतया पुनर् विवक्षितौ भेदम् अनुभवतः, स्वरूपेण भावात्, पररूपेण त्व् अभावाद् इति। तद् एवं प्रत्यक्षे विविक्तवस्तुग्राहिणि सकलप्रमाणप्रष्ठे प्रसाधिते शेषप्रमाणान्य् अपि तदनुसारितया विविक्तम् एव स्वगोचरं स्थापयन्तीति। तदपलापी केवलसामान्यप्रतिष्ठापकः कदभिप्रायः सङ्ग्रहदुर्नयव्यपदेशं स्वीकुरुते, विशेषापेक्षयाइव सामान्यस्थापकस्य सङ्ग्रहनयत्वाद् इति।
[नव्_२९।२५] तथा व्यवहारो ऽपि प्रमाणप्रसिद्धं वस्तुस्वरूपं निह्नुवानो युक्तिरिक्तम् अविचारितरमणीयं लोकव्यवहारमार्गानुसारि समर्थयमानो दुर्नयताम् आत्मनि निधत्ते, लोकव्यवहारप्रसाधकस्यापीतरानिष्टौ व्यवस्थानाभावात्। तथा हि: यद् इदं कियत्कालभावि स्थूरताम् आबिभ्राणं लोकव्यवहारकारि घटादिकं भवतस् तात्त्विकम् अभिप्रेतं तन् नाकस्मिकम्, किं तर्हि नित्यपरमाणुघटितम्, इतरथा निष्कारणत्वेन सर्वदा भावाभावप्रसङ्गात्। न ते परमाणवस् तथा प्रतिभान्तीति चेन्, नात एव तेषाम् अनुमानतः सिद्धिः। यदि पुनर् यद् एव साक्षान् न विशददर्शने चकास्ति तत् सकलम् अपलप्येत, हन्त बह्व् इदानीम् अपलपनीयम्, घटादिवस्तुनो ऽप्य् अर्वाग्भागवर्तित्वङ्मात्रप्रतिभासान् मध्यपरभागादीनाम् अपलापप्रसङ्गात्, तथा च लोकव्यवहारकारितापि विशीर्येत, तावता तदसिद्धेः। अथात्रानुमानबलेन व्यवहारक्षमसम्पूर्णवस्तुनः साधनम्, एवं तर्हि भूतभाविपर्यायपरमाणुसाधनम् अपि क्रियताम्, विशेषाभावात्। तथा हि: यथा बाह्यत्वङ्मात्रप्रतिभासे ऽपि सर्ववस्तूनां तावता व्यवहाराभावान् मध्यभागादिसाधनेन सम्पूर्णानि तत्समर्थानि तानि साध्यन्ते, तथाइव कियत्कालभाविघनाकारदर्शने ऽप्य् अनाद्यनन्तपरमाणुतादाद्म्यव्यवस्थितशरीराणि तानि साध्यन्ताम्, तदभावे ऽपि तेषाम् अनुपपत्तेः। तथा हि: व्यवहारावतारिणो दर्शनयोग्यस्याद्यपर्यायस्य तावद् अतीतपर्यायानभ्युपगमे निर्हेतुकत्वम्, तत्र चोक्तो दोषः। तदुत्पादकानन्तरपर्यायेष्टौ पुनस् तज्जनकपर्यायो ऽप्य् अभ्युपगन्तव्य इत्य् अनादिपर्यायपरम्परा सिद्धिम् अध्यासीत। तथा व्यवहारावतारिवस्तुपर्यन्तपर्यायस्य पर्यायान्तरानुत्पादकत्वे बलाद् अवस्तुत्वम् आढौकते, भवन्नीतेर् एवार्थक्रियाकरणवैकल्यात्। तदुत्पादकत्वे पुनर् असाव् अप्य् अपरपर्यायोत्पादक इत्य् अनन्तपर्यायमालोपपद्यते। तथा घनाकारो ऽपि विशददर्शनेन साक्षात्क्रियमाणो निष्प्रदेशपर्यन्तावयवव्यतिरेकेण नोपपद्यते, करचरणाद्यवयवानां खण्डशो भिद्यमानतयावयविरूपत्वात्, तदवयवानाम् अप्य् अवयवान्तरघटितत्वात्। परमाणव एव पर्यन्तावयवाः परमार्थतो घनाकारहेतवस्; तदभावे पुनर् आकस्मिको ऽसौ सर्वत्रोपलभ्येत, न वा क्वचिद्, विशेषाभावात्। एतेन यद् अवादि: लोकव्यवहारावतारिणः प्रमाणम् अनुग्राहकम् अस्ति वस्तुनो नेतरस्येत्यादि, तद् अपि प्रतिक्षिप्तम् अवगन्तव्यम्, दृश्यमानार्थान्यथानुपपत्त्याइव तत्साधनात्। यत् पुनर् उक्तम्: “किं तेषाम् अतीतानागतपर्यायपरमाण्वादीनां पर्यालोचनेन लोकव्यवहारानुपयोगितयावस्तुत्वाद्” इत्यादि, तद् अयुक्तम्, उपेक्षया वार्तमानिकवस्तुनो ऽनुपयोगित्वेनावस्तुत्वप्राप्तेः, सर्वस्य सर्वलोकानुपयोगित्वात्। कस्यचिद् उपयोगितया वस्तुत्वे तेषाम् अपि सा समस्त्य् एव, सर्वज्ञज्ञानादिगोचरत्वाद् इत्य् आस्तां तावत्। तद् एवं प्रमाणप्रसिद्धार्थापलापित्वाद् व्यवहारो दुर्नयः, तदुपेक्षया व्यवहारानुपातिवस्तुसमर्थकस्य व्यवहारनयत्वाद् इति।
[नव्_२९।२६] अथ ऋजुसूत्रो ऽपि दृष्टापलापेनादृष्टम् एव क्षणक्षयिपरमाणुलक्षणं वस्तुस्वरूपं परमार्थतया मन्यमानो दुर्नयताम् आस्कन्दति, दृश्यमानस्थिरस्थूरार्थापह्नवे निर्मूलतया स्वाभिप्रेतवस्तुसमर्थकपरामर्शस्योत्थानाभावात्। तथा हि: स्वावयवव्यापिनं कालान्तरसञ्चरिष्णुम् आकारं साक्षाल् लक्षयन् पश्चात् कुयुक्तिविकल्पेन विवेचयेद्, यद् उताइष स्थिरस्थूरो दृश्यमानः खल्व् आकारो न घटाम् इयर्ति। विचाराक्षमत्वाद् इत्यादिना न च दृष्टम् अदृष्टसन्दर्शकैः कुयुक्तिविकल्पैर् बाधितुं शक्यम्, सर्वत्रानाश्वासप्रसङ्गात्। अथाभिदधीथा: “मन्दमन्दप्रकाशे प्रदेशे रज्जौ विषधरभ्रान्तिः प्राक्तनी यथोदीचीनेन तन्निर्णयकारिणा विकल्पेन बाध्यते, तथेदम् अपि स्थिरस्थूरदर्शनं क्षणक्षयिपरमाणुप्रसाधकपरामर्शेन, किम् अत्रायुक्तम्?” नाइतद् अस्ति, रज्जुप्रतिभासस्याइव प्राक्प्रवृत्तविषधरभ्रान्त्यपनोददक्षत्वात्, तदभावे च विकल्पशतैर् अपि निवर्तयितुम् अशक्यत्वात्। अत्राप्य् अतीतवर्त्स्यतोर् विनष्टानुत्पन्नतयासन्निहितत्वात्, स्थूरावयवानां च स्वावयवेषु भेदाभेदद्वारेण पर्यालोच्यमानानाम् अवस्थानाभावात् क्षणक्षयिपरमाणव एव प्रतिभान्ति, ततश् च प्रतिभास एव स्थिरस्थूरदर्शनस्य बाधक इति चेद्, एवं तर्हि प्रतिभासस्योपदेशगम्यतानुपपत्तेस्, तथाइव व्यवहारः प्रवर्तेत। पाश्चात्यमिथ्याविकल्पविप्लवान् न प्रवर्तत इति चेन्, नान्यत्राप्य् अस्योत्तरस्य विप्लवहेतुत्वात्। तथा हि: धवले जलजादौ प्रतिभाते ऽपि नीलो ऽयम् अध्यक्षेणावलोकितः; पाश्चात्यमिथ्याविकल्पविप्लवात् तु धवलः प्रतिभातीति भवन्न्यायेन शठः प्रतिजानानः केन वार्येत। तन् न दृष्टापलापः कर्तुं शक्य इति स्थिरस्थूरवस्तुसिद्धिस्, तस्याइव दर्शनाद्, इतरस्य तद्दर्शनद्वारेण साध्यमानस्यानुमेयत्वात्, तदनिष्टौ तस्याप्य् असिद्धेः। एतेन स्थिरस्थूरवस्तुनो ऽर्थक्रियाविरहप्रतिपादनम् अपि प्रतिव्यूढम्, तथाविधस्याइव सर्वक्रियासु व्यापारदर्शनात् क्षणक्षयिणो ऽर्थक्रियानिषेधाच् च, यथोक्तं प्राक्: “क्षणभङ्गुरो ह्य् अर्थात्मा स्वक्षने पूर्वं पश्चाद् वा कार्यं कुर्याद् इत्यादि। किं च, सत्त्वपुरुषत्वचैतन्यादिभिर् बालकुमारयुवस्थविरत्वहर्षविषादादिभिश् चानुवर्तमानव्यावर्तमानरूपस्य सर्वस्य वस्तुनः प्रतीतेर् द्रव्यपर्यायात्मकत्वम्, अभेदस्य द्रव्यत्वाद्, भेदस्य पर्यायरूपत्वाद् इति। ततश् च भूतभाविक्षणयोर् असन्निधानद्वारेण वार्तमानिकक्षणस्याइवार्थक्रियाकारित्वप्रतिपादनं नास्माद्बाधाकरम्, पर्यायाणां क्रमभावितया वर्तमानपर्यायालिङ्गितस्याइव द्रव्यस्यार्थक्रियाकरणचतुरत्वात्। [न] केवलं तत् त्रिकालव्यापि, द्रष्टापि द्रव्यरूपतया तथाभूत एव। ततश् च क्षणिकपर्यायतिरोधानद्वारेण तद्रूपसङ्कलनात् स्थिरम् एवेदं समस्तक्रियासु व्याप्रियत इति प्रतीतिवीथिम् अवतरति, स्थैर्यस्यापि तात्त्विकत्वात्, क्षणिकपर्यायाणां विद्यमानानाम् अप्य् अग्रहणात्, प्राकृतलोकज्ञानस्यावरणक्षयोपशमापेक्षितया कतिचिदंशविषयत्वात्। यदि पुनर् द्रव्यबुद्धिः पर्यायपरम्परादर्शनबलायातत्वाद् अतात्त्विकी कल्प्येत, तदा पूर्वपर्यायस्योत्तरपर्यायोत्पादने सान्वयत्वं निरन्वयत्वं वा वक्तव्यम्, गत्यन्तराभावात्। सान्वयत्वे द्रव्यं पर्यायान्तरेणाभिहितं स्यान्; निरन्वयत्वे पुनर् निर्हेतुतयोत्तरपर्यायानुत्पादप्रसङ्गः। तन् नोभयरूपवस्तुव्यतिरेकेणार्थक्रियासिद्धिः। न चार्थक्रिया वस्तुलक्षणम्, शब्दविद्युत्प्रदीपादिचरमक्षणानां क्षनान्तरानारम्भकत्वेनावस्तुत्वप्राप्तेस्, तदवस्तुत्वे पुनर् उपान्त्यक्षणस्यापि वस्तुनि व्यापाराभावाद्; एवं यावत् सर्वक्षणानां सङ्कलिकया वस्तुत्वम्। अथ क्षणान्तरानारम्भे ऽपि स्वगोचरज्ञानजनकत्वम् अर्थक्रिया परिकल्प्येत, तथा सत्य् अतीतभाविपर्यायपरम्परापि योगिज्ञानगोचरतां यातीति वस्तुत्वं स्वीकुर्यात्। तन् नार्थक्रिया वस्तुलक्षणम्, अपि तूत्पादव्ययध्रौव्ययुक्तता, प्रमाणप्रतिष्ठितत्वात्। उत्पादव्ययौ ध्रौव्येन सह विरुद्धाव् इति चेत्, कुतो ऽयं विरोधः: प्रमाणाद् अप्रमाणाद् वा? न तावद् आद्यः पक्षः, सर्वप्रमाणानां बहिर् अन्तश् च तथाविधावस्तुद्योतनपटिष्ठतया प्रसाधितत्वात्। नापि द्वितीयो, ऽप्रमाणस्याकिञ्चित्करत्वात्। एतेन स्थूरतादूषणम् अपि प्रतिक्षिप्तम्, प्रतिभासहतत्वात्, तदपह्नवेन विरोधोद्भावनस्य निर्मूलतया प्रलापमात्रत्वात्। यत् पुनर् वर्तमानप्रकाशरूपतया तत्सम्बद्धवस्तुग्राहित्वं सर्वप्रमाणानाम् उदग्राहि, तद् अयुक्तम्, तेषाम् एकान्तेन वार्तमानिकत्वासिद्धेः, कथञ्चिद् आत्माव्यतिरेकित्वात्, तस्य च कालत्रयव्यापकत्वात्, तद्रूपतया तेषाम् अप्य् अवस्थानात्। ततश् चात्मनो ऽर्थग्रहणपरिणामरूपत्वात्, सर्वप्रमाणानां परिणामिन्य् एव वस्तुनि व्यापारो, न क्षणिके। न चातीतानागतक्षणवर्तिवस्तुग्रहणे ऽप्य् अनाद्यनन्तजन्मपरम्पराग्रहणप्रसङ्ग, आवरणविच्छेदसापेक्षत्वात्, तस्याइव परमार्थतः संवेदनाविर्भावान्तरकारणत्वाद्, ग्राह्यादेर् बहिरङ्गत्वात्। सामस्त्येन पुनर् आवरणविलये सति समस्तवस्तुविस्तारानाद्यनन्तक्षणपरम्पराग्रहणप्रसङ्गो न नो बाधाकारीष्टत्वात्। तद् एकदेशक्षयोपशमे पुनस् तदनुसारिणी बोधप्रवृत्तिर् इति कियत्कालभाविनि स्थूरे वस्तुनि प्राकृतलोकज्ञानानि
प्रवर्तन्ते, न सम्पूर्णे। न च तान्य् अलीकानि, तद्ग्राह्यांशस्यापि वस्तुनि भावात्, तावताइव व्यवहारसिद्धेर् इति। यच् चोक्तम्: क्षणिकतां गृह्णन्तो ऽपि सदृशापरापरोत्पत्तिविप्रलब्धत्वान् मन्दा नाध्यवस्यन्ति, मिथ्याविकल्पवशात् स्थिरताव्यवहारं च प्रवर्तयन्ति, तद् अयुक्तम्, भवदाकूटेन सादृश्याभावात्, तदभावे तदुत्पाद्याभिमतभ्रान्तेर् निर्बीजतयोत्पत्तेर् असम्भवात्। तथा स्थिरतारोपो ऽपि क्वचिद् गृहीतस्थिरत्वस्याइव युक्तो नान्यथा, यथा दृष्टविषधरस्य मन्दप्रकाशे रज्जुदर्शने विषधरारोपः। न च भवतां कदाचन स्थिरता प्रतीतिगोचरचारिताम् अनुभवति, तत् कथं प्रतिक्षणम् उदयापवर्गसंसर्गिणि सकले वस्तुनि प्रत्यक्षेणावलोकिते ऽपि तदारोप इति। तस्मात् तिरोहितक्षणविवर्तम् अलक्षितपरमाणुवैविक्त्यं वस्तु सर्वसांव्यवहारिकप्रमाणैर् गोचरीक्रियत इति तत्तिरस्कारद्वारेणादृष्टक्षणक्षयिपरमाणुप्रतिष्ठापको ऽभिप्राय ऋजुसूत्रदुर्नयसञ्ज्ञाम् अश्नुते, तदुपेक्षयाइव तद्दर्शकस्य नयत्वाद् इति।
[नव्_२९।२७] तथा शब्दादयो ऽपि सर्वथा शब्दाव्यतिरेकम् अर्थस्य समर्थयन्तो दुर्नयास्, तत्समर्थनार्थम् उपन्यस्तस्य तत्प्रतीतौ प्रतीयमानत्वलक्षणस्य हेतोर् अनैकान्तिकत्वात्। तथा हि: नायम् एकान्तो यत्प्रतीतौ यत् प्रतीयते तत् ततो ऽव्यतिरिक्तम् एव, व्यतिरिक्तस्यापि पावकादेर् अन्यथानुपपन्नत्वलक्षणसम्बन्धबलाद् धूमादिप्रतीतौ प्रतीयमानत्वात्। एवं शब्दो ऽपि व्यतिरिक्तम् अप्य् अर्थं वाचकत्वात् प्रत्याययिष्यत्य्, अव्यतिरेकस्य प्रत्यक्षादिबाधितत्वाच्, छब्दाद् विवेकेनाइवानुभूयमानत्वात्। अस्मिंश् च हेताव् अनैकान्तिके स्थिते सर्वार्थानां सस्ववाचकत्वसाधनद्वारेण शब्दाव्यतिरेकसाधनम् अपि दूरापास्तम् एव। न चात्रापि प्रतिबन्धग्राहि प्रमाणं – यो यो ऽर्थस् तेन तेन सस्ववाचकेन भवितव्यं – घटादिदृष्टान्तमात्रात् तदसिद्धेः, क्षणिकालक्ष्यद्रव्यविवर्तानां सङ्केतग्रहणोपायाभावेनाभिलपितुम् अशक्यतयानभिलाप्यत्वसिद्धेश् च। क्षणभङ्गुरताप्रतिज्ञानं पुनर् अमीषां अप्य् ऋजुसूत्रवन् निरसितव्यम्। तथा प्रत्येकमतापेक्षयापि स्वाभिप्रेतं प्रतिष्ठापयन्तस् तद्विपरीतं शब्दार्थं तिरस्कुर्वाणा दुर्नयताम् आत्मसात्कुर्वन्ति। एतावद् धि प्रमाणप्रतिष्ठितम्, यद् उत विधिमुखेन शब्दो ऽर्थस्य वाचक इति; न पुनर् अयं नियमो यथायम् अस्याइव वाचको नान्यस्य, देशकालपुरुषसङ्केतादिविचित्रतया सर्वशब्दानाम् अपरापरार्थप्रतिपादकत्वेनोपलब्धेर् अनन्तधर्मतयापरापरयोग्यताद्वरेणापरापरार्थाभिधायकत्वोपपत्तेर्, अर्थानाम् अप्य् अनन्तधर्मत्वाद् एवापरापरशब्दवाच्यत्वाविरोधात्, तथाइवाविगानेन व्यवहारदर्शनात्, तदनिष्टौ तल्लोपप्रसङ्गात्। तस्मात् सर्वध्वनयो योग्यतया सर्वार्थवाचका, देशक्षयोपशमाद्यपेक्षया तु क्वचित् कथञ्चित् प्रतीतिं जनयन्ति। ततश् च क्वचिद् अनपेक्षितव्युत्पत्तिनिमित्ता रूढितः प्रवर्तन्ते, क्वचित् सामान्यव्युत्पत्तिसापेक्षाः, क्वचित् तत्कालवर्तिव्युत्पत्तिनिमित्तापेक्षयेति न तत्र प्रामाणिकेन नियतार्थाग्रहो विधेयः। अतो ऽमी शब्दादयो यदेतरेतराभिमतशब्दार्थोपेक्षया स्वाभिमतं शब्दार्थं दर्शयन्ति, तदा नयास्, तस्यापि तत्र भावात्। परस्परबाधया प्रवर्तमानाः पुनर् दुर्नयरूपतां भजन्ति, निरालम्बनत्वाद् इति।
[नव्_२९।२८] ननु च यद्य् एकाइकधर्मसमर्थनपरायणाःशेषधर्मतिरस्कारकारिणो ऽभिप्राया दुर्नयतां प्रतिपद्यन्ते, तदा वचनम् अप्य् एकधर्मकथनद्वारेण प्रवर्तमानं सावधारणत्वाच् च शेषधर्मप्रतिक्षेपकार्य् अलीकमापद्यते। ततश् चानन्तधर्माध्यासितवस्तुसन्दर्शकम् एव वचनं यथावस्थितार्थप्रतिपादकत्वात् सत्यम्; न चाइवं वचनप्रवृत्तिर्, घटो ऽयं शुक्लो मूर्त इत्याद्य् एकाइकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोगदर्शनात्, सर्वधर्माणां यौगपद्येन वक्तुम् अशक्यत्वात्, तदभिधायकानाम् अप्यानन्त्यात्। न चाइकाइकधर्मसन्दर्शकत्वे ऽप्य् अमूनि वचनान्य् अलीकानि वक्तुं पार्यन्ते, समस्तशाब्दव्यवहारोच्छेदप्रसङ्गात्, तदलीकत्वे ततः प्रवृत्त्यसिद्धेर् इति। अत्रोच्यत – इह तावद् द्वये वस्तुप्रतिपादका, लौकिकास् तत्त्वचिन्तकाश् च। तत्र प्रत्यक्षादिप्रसिद्धम् अर्थम् अर्थित्ववशाल् लौकिकास् तावन् मध्यस्थभावेन व्यवहारकाले व्यपदिश्यन्ति, यद् उत नीलम् उत्पलं सुगन्धि कोमलम् इति, न तु तद्धर्मिगतधर्मान्तरग्रहणनिराकरणयोराद्रियन्ते, ऽनर्थित्वात्, तावताइव विवक्षितव्यवहारपरिसमाप्तेः। न च तद्वचनानाम् अलीकता, शेषधर्मान्तरप्रतिक्षेपाभावात्, तत्प्रतिक्षेपकारिणाम् एवालीकत्वात्। “सर्वं वचनं सावधारणम्” इतिन्यायात् तेषाम् अपि शेषधर्मतिरस्कारकारित्वसिद्धेर् भवन्नीत्यालीकतापद्यत इति चेन्, न, अवधारणस्य तदसम्भवमात्रव्यवच्छेदे व्यापाराद्; यथानेकपुरुषसम्पूर्णे सदसि द्वारादौ स्थितस्य किम् अत्र देवदत्तः समस्ति नास्तीति वा दोलायमानबुद्धेः केनचिद् अभिधीयते – यथा देवदत्तो ऽस्तीति। अत्र यद्य् अप्य् उपन्यस्तपदद्वयस्य सावधारणता गम्यते, ऽन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गात्, तथाप्य् अवधारणं तदसम्भवमात्रं व्यवच्छिनत्ति, न शेषपुरुषान्तराणि; नापि पररूपेण नास्तित्वम्, तद्व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्यप्रयोगात्, प्रयोक्त्रभिप्रायादिसापेक्षतयाइव ध्वनेः स्वार्थप्रतिपादनसामर्थ्यात्। न च वाच्यवाचकभावलक्षणसम्बन्धानर्थक्यम्, तदभावे प्रयोक्त्रभिप्रायमात्रेण रूपस्याइव नियोक्तुम् अशक्यत्वात्। न च समस्तधर्मयुक्तम् एव वस्तु प्रतिपादयद् वचनं सत्यम् इत्य् अभिदध्महे, येनाइकाइकधर्मालिङ्गितवस्तुसन्दर्शकानाम् अलीकता स्यात्, किं तर्हि सम्भवदर्थप्रतिपादकं सत्यम् इति, सम्भवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापन्ना धर्मास्; तस्मात् तत्प्रतिपादकं सत्यम् एव। यदा तु दुर्नयमताभिनिविष्टबुद्धिभिस् तीर्थान्तरीयैस् तद्धर्मिगतधर्मान्तरनिराकरणाभिप्रायेणाइव सावधारणं तत् प्रयुज्यते, यथानित्यम् एव वस्तु नित्यम् एव वेत्यादि, तदा निरालम्बनत्वाद् अलीकतां प्राप्नुवत् केन वार्येत? तत्त्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धम् अनेकान्तात्मकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुस्, तद् यथा – विकलादेशेन सकलादेशेन वा। तत्र विकालादेशो नयाधीनः, सकलादेशः प्रमाणायत्तः। तथा हि: यदा मध्यस्थभावेनार्थित्ववशात् किञ्चिद् धर्मं प्रतिपिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते, तदा तत्त्वचिन्तका अपि लौकिकवत् सम्मुग्धाकारतयाचक्षते, यद् उत “जीवो ऽस्ति कर्ता प्रमाता भोक्तेत्यादि”। अतः सम्पूर्णवस्तुप्रतिपादनाभावाद् विकलादेशो ऽभिधीयते, नयमतेन सम्भवद्धर्माणां दर्शनमात्रम् इत्य् अर्थः। यदा तु प्रमाणव्यापारम् अविकलं परामृश्य प्रतिपादयितुम् अभिप्रयन्ति, तदाङ्गीकृतगुणप्रधानभावाशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावधारणया च वाचा दर्शयन्ति ‘स्याद् अस्त्य् एव जीवऽ; इत्यादिकया। अतो ऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधनीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनः सन्दर्शकत्वात् सकलादेश इत्य् उच्यते, प्रमाणप्रतिपन्नसम्पूर्णार्थकथनम् इति यावत्। तद् उक्तम्:
सा ज्ञेयविशेषगतिर् नयप्रमाणात्मिका भवेत् तत्र ।
सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः ॥
[नव्_२९।२९] तद् इदम् उक्तं भवति: नयप्रमाणाभिज्ञः स्याद्वादी सकलविकलादेशाव् अधिकृत्य वस्तुस्वरूपप्रतिपिपादयिषया यद् यद् ब्रूते तत् तत् सत्यम्, सम्भवदर्थगोचरत्वात्। दुर्नयमतावलम्बिनः पुनर् एकान्तवादिनो यद् यद् आचक्षते तत् तद् अलीकम्, असम्भवदर्थविषयत्वाद् इति।
[नव्_३०।०] साम्प्रतम् अमुम् एवार्थं द्रढयन् सिद्धान्ते ऽप्य् एकाइकनयमतप्रवृत्तानि सूत्राणि न सम्पूर्णार्थाभिधायकानीत्य्, अपि तु तत्समुदायाभिप्रायप्रवृत्तम् अविकलवस्तुनिवेदकम् इति दर्शयन्न् आह:
नयानाम् एकनिष्ठानां प्रवृत्तेः श्रुतवर्त्मनि ।
सम्पूर्णार्थविनिश्चायि स्याद्वादश्रुतम् उच्यते ॥ न_३० ॥
[नव्_३०।१] इह त्रिविधं श्रुतम्, तद् यथा – मिथ्याश्रुतं नयश्रुतं स्याद्वादश्रुतं च। तत्र श्रूयत इति श्रुतम् आगमः। मिथ्यालीकं श्रुतं मिथ्याश्रुतम्, तच् च दुर्नयाभिप्रायप्रवृत्तं तीर्थिकसम्बन्धि, निर्गोचरत्वात्। तथा नयैर् हेतुभूतैः श्रुतं नयश्रुतम्, एतच् चार्हदागमान्तर्गतम् एवाइकनयाभिप्रायप्रतिबद्धम्, यथा “पडुप्पण्णे नेरïë विणस्सï” इत्याद्य्, ऋजुसूत्रनयाभिप्रायेण क्षणिकत्वस्यापि तत्र सम्भवात्। तथा निर्दिश्यमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादो ऽभिप्रेतधर्मवचनं स्याद्वादः, तदात्मकं श्रुतं स्याद्वादश्रुतम्। तत् किम्भूतम् उच्यत इत्य् आह: सम्पूर्णो ऽविकलः स चासाव् अर्थश् च तद्विनिश्चायि तन्निर्णयहेतुत्वाद् एवम् अभिधीयते; परमार्थतः पुनः समस्तवस्तुस्वरूपप्रतिपादीत्य् अर्थः, शब्दात्मकत्वान्, निश्चयस्य बोधरूपत्वाद् इति। नयश्रुतं तर्हि सम्पूर्णार्थविनिश्चायि कस्मान् न भवतीत्य् आह: नयानां नैगमादीनाम् एकनिष्ट्ःआनाम् एकधर्मग्रहणपर्यवसितानां श्रुतवर्त्मन्य् आगममार्गे प्रवृत्तेः प्रवर्तनान् न तद् एकाइकाभिप्रायप्रतिबद्धं सम्पूर्णार्थविनिश्चायि, तत्समुदायस्याइव सम्पूर्णार्थविनिश्चायकत्वाद् इत्याकूटम्।
[नव्_३१।०] तद् एवं नयप्रमाणस्वरूपं प्रतिपाद्याधुनाशेषनयप्रमाणव्यापकं तेषां तत्र तादात्म्येनावस्थानात् प्रमातारम् अभिधातुकाम आह:
प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् ।
स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥ न_३१ ॥
[नव्_३१।१] तत्र त्रिकालजीवनाज् जीवः, प्राणधारक आत्मेत्य् अर्थः, स प्रमिणोतीति प्रमाता प्रमेयपरिच्छेदकः। किम्भूतः सन्न् इत्य् आह: स्वान्याव् आत्मपरौ निर्भासितुम् उद्द्योतयितुं शीलम् अस्येति स्वान्यनिर्भासी, स्वस्वरूपार्थयोः प्रकाशक इति यावत्। तथा करोतीति कर्ता, भुङ्क्त इति भोक्ता, विवर्तनम् अपरापरपर्यायेषु गमनं विवृत्तिः परिणामः, सा विद्यते यस्येति विवृत्तिमान्। स्व आत्मा संवेद्यते ऽनेनेति स्वसंवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदनसंसिद्धः। क्षितिः पृथिव्य् आदिर् येषां तानि क्षित्यादीन्य्, आदिशब्दाद् अम्बुतेजोवाय्वाकाशानि गृह्यन्ते; न विद्यत आत्मा स्वरूपम् अस्येत्य् अनात्मकः, किं स्वस्वरूपापेक्षया? न, क्षित्यादीनाम् अनात्मकः क्षित्याद्यनात्मकः, क्षित्यादिस्वरूपो न भवतीत्य् अर्थः।
[नव्_३१।२] तत्र जीवः प्रमातेत्यनेन ये पारमार्थिकं प्रमातारं नाभ्युपगच्छन्त्य्, अपि तु विज्ञानक्षणपरम्परानुभवबलप्रबोधितानादिप्ररूढवासनासम्पादितसत्ताकं मिथ्याविकल्पपरिकल्पितम् अपारमार्थिकं तं मन्यन्ते प्रतिक्षणविलयवादिनः तान् निराचष्टे, क्षणविलयस्य प्राग् एव प्रतिषिद्धत्वाद्, बहिर् अन्तश् च परिणामिवस्तुनः प्रसाधनात्।
[नव्_३१।३] ननु च घटादयस् तावद् विनाशम् आविशन्तो दृश्यन्ते, तेषां च विनाशो लकुटादिकारणकलापेनाविनश्वरस्वभावानां वा क्रियेत, विनश्वरस्वभावानां वा। यद्य् आद्यः कल्पस् तद् अयुक्तम्, स्वभावस्य प्रच्यावयितुम् अशक्यत्वात्, तस्य नियतरूपत्वाद्, अन्यथा स्वभावत्वायोगात्। अथाइवम्भूत एव तस्य स्वभावः स्वकारणबलायातो यद् उत विनाशकारणम् आसाद्य विनङ्क्ष्यतीति ब्रूषे, तथापि तद्विनाशकारणसन्निधानं किं यादृच्छिकम् उत तत्स्वभावसम्पाद्यम् एव। यदाद्यः कल्पस्, तदा सन्निहितस्यापि तत्प्रत्यनीकप्रत्ययोपनिपातेन निवर्तनात्, तत्सन्निधापकहेतूनां अपि स्वसन्निधापककारणकलापसापेक्षत्वात्, सन्निहितानाम् अपि प्रतिद्वन्द्विना निवर्तनाद्, यादृच्छिकत्वाच् च नावश्यम्भावि तत्सन्निधानम्; ततश् चासन्निहितस्वविनाशकारणकदम्बकः कश्चिद् घटादिर् न विनश्येद् अप्य्, अनिष्टं चाइतत्, सर्वकृतकानां विनाशाविगानात्। अथ द्वितीयः पक्षस्, तथा सति पश्चाद् अपि तद्बलाद् विनाशहेतवः सन्निधास्यन्तीति प्रथमक्षण एव सन्निदधतु, तथापि क्षणिकताइवार्थस्य। स्वहेतोर् एव नियतकालात् परतो ऽयं स्वविनाशहेतुं सन्निधापयिष्यतीत्य् एवंरूपो जात इति चेन्, नाइवम् अपि क्षणभङ्गुरतायाता। तथा हि: स्वहेतुना किलासौ वर्षात् परतः स्वविनाशहेतुसन्निधापनक्षमस्वभावो व्यधायि; स च तस्योत्पादक्षणाद् द्वितीयक्षणे स्वभावो ऽस्ति वा न वा? अस्ति चेत्, तथा सति पुनर् वर्षं तेन स्थातव्यम्, एवं यावद् वर्षोपान्त्यक्षणे ऽपि यदि तत्स्वभाव एवासौ तदापरम् अपि वर्षान्तरं स्थितिर् आपद्येत, तदा चानन्तकल्पस्थायीभावः स्याद्, अप्रच्युतवर्षस्थायिस्वभावत्वाद् इति। अथ द्वितीयक्षणे नास्ति स स्वभाव इति ब्रूषे, हन्त क्षणिकत्वम् एवाढौकते, ऽतादवस्थ्यस्य तल्लक्षणत्वात्। किं च, विनाशहेतुर् भावस्य विनाशं व्यतिरिक्तम् अव्यतिरिक्तं वा कुर्यात्? व्यतिरिक्तकरणे न किञ्चित् कृतं स्यात्, ततश् च भावस् तादवस्थ्यम् अनुभवेत्। तत्सम्बन्धः क्रियत इति चेन्, न सम्बन्धस्य तादात्म्यतदुत्पत्तिव्यतिरिक्तस्य प्रतिषेधात्। न चानयोर् अन्यतरः सम्बन्धो ऽत्र समस्ति, व्यतिरेकिणा सार्द्धं तादात्म्यायोगाद्, अन्यहेतुकस्य पश्चाद् उत्पन्नस्य तदुत्पत्तिवैकल्यात्। तन् न व्यतिरिक्तो विनाशः कर्तुं युक्तः। अव्यतिरिक्तकरणे पुनस् तम् एव भावं विनाशहेतुः करोतीति प्राप्तम्, अव्यतिरेकस्य तद्रूपतालक्षणत्वात्। न चासौ कर्तव्यः, स्वहेतोर् एव निष्पन्नत्वात्, तत्करणे च तस्यावस्थानम् एव स्यान्, न प्रलयः। तन् नाविनश्वरस्वभावानां पश्चात् कथञ्चिद् अपि विनाशः कर्तुं शक्यो, विनश्वरस्वभावानां पुनः स्वहेतुबलायातत्वात् प्राग् अपि प्रतिक्षणभावी, न कारणान्तरापेक्षः, स्वभावस्य नियतरूपत्वात्; तस्मात् प्राणित्य् अद्यापि प्रतिक्षणविलय इति।
[नव्_३१।४] अत्रोच्यते – सत्यम् एतत्, किं तु यथा विनाशकारणायोगात् प्रतिक्षणभावी विनाशो भवद्भिः प्रतिपद्यते, तथाइव स्थित्युत्पत्ती प्रतिक्षणभाविन्यौ किं न प्रतिपद्येते, तद्धेतूनाम् अपि विचार्यमाणानाम् अयोगात्। तथा हि: स्थितिहेतुना तावत् स्वयम् अस्थिरस्वभावा भावाः स्थाप्येरन् स्थिरस्वभावा वा? न तावत् प्रथमः पक्षः क्षोदं क्षमते, स्वभावस्यान्यथा कर्तुम् अशक्यत्वात्, तस्य प्रतिनियतरूपत्वाच्, चेतनाचेतनस्वभाववद्, अन्यथा स्वभावताहानेः। द्वितीयपक्षे पुनः स्वयं स्थिरस्वभावानां किं स्थितिहेतुना? स्थितिर् नेष्यत एव, तेनानभ्युपगतोपालम्भ एवायम् इति चेद्, हन्त हतो ऽस्य्, एवं हि भावाः क्षणमात्रम् अपि न तिष्ठेयुः। क्षणभाविनीष्यत एवेति चेत्, सा तर्ह्य् अस्थितिस्वभावानां हेतुशतैर् अपि कर्तुं न पार्यत इति ब्रूमः, तत्स्वभावत्वे पुनर् हेतुव्यापारनैरर्थक्यात्। अहेतुका सती सकलकालं भवतीति दत्तो जलाञ्जलिः प्रतिक्षणविलयस्य। तथोत्पादहेतुर् अपि तत्स्वभावस्योत्पत्तिं विदध्याद् अतत्स्वभावस्य वा? न तावद् आद्यः पक्षः कक्षीकर्तुं युक्तः, स्वयम् उत्पादकस्योत्पादने व्याप्रियमाणो हि हेतुः पिष्टं पिनष्टि, शङ्खं धवलयति, तदभावे ऽपि स्वयोग्यतयोत्पत्तेः। नापि द्वितीयः कल्पो ऽङ्गीकरणार्हः, स्वयम् अनुत्पत्तिधर्मकस्योत्पादयितुम् अशक्यत्वाद्, अन्यथा शशविषाणादयो ऽप्य् उत्पाद्यकोटिम् अध्यासीरन्, विशेषाभावात्; ततश् च न कश्चिद् अत्यन्ताभावः स्यात्। तद् यथा निर्हेतुकत्वान् नाशः प्रतिक्षणभावी, तथाइव दर्शितयुक्तेः स्थित्युत्पत्ती अपीति त्रयाक्रान्तं सकलं वस्तु जातम् अभ्युपगन्तव्यम्; तथा सति जीवो ऽपि जीवत्वचैतन्यद्रव्यत्वादिभिः स्थेमानं आबिभ्राण एव हर्षविषादादिभिर् अपरापरार्थग्रहणपरिणामैश् चोत्पादव्ययधर्मकः पारमार्थिकः प्रमातेति बलात् सिद्धिम् अध्यास्ते।
[नव्_३१।५] ननु च यद्य् उत्पादव्ययस्थितीनां निर्हेतुकत्वात् सकलकालभाविता भवद्भिः साध्यते, तदान्वयव्यतिरेकाभ्यां प्रत्यक्षादिप्रमाणप्रसिद्धः खल्व् अयं तत्कारणकलापव्यापारः कथं नेयः? न चायम् अपह्नोतुं शक्यः! तथा हि: कुलालादिकारणव्रातव्यापारे घटादयः समुपलभ्यन्ते, तदभावे च नोपलम्भ्यन्त इति तज्जन्या इत्य् उच्यन्ते। स्थितिर् अपि विनाशकारणसन्निधानात् प्राक् तद्बलाद् एव, तथा नाशो ऽपि मुद्गरादिसन्निधानासन्निधानाभ्यां सदसत्ताम् अनुभवंस् तत्कृतः प्रतीयते, नाहेतुकः। तत् कथम् एतद् इति?
[नव्_३१।६] अत्रोच्यते – न वयं सर्वथा हेतूनां व्यापारं वारयामः, किं तर्हि स्वयम् उत्पादव्ययस्थित्यात्मना विवर्तमानस्य द्रव्यस्य हेतवस् तद्विशेषकरणे व्यापारम् अनुभवन्ति, तेनाइव सार्द्धं तेषाम् अन्वयव्यतिरेकानुकरणदर्शनाद्, दृष्टस्य चापह्नवे ऽस्माकम् अप्रवृत्तत्वात्, प्रतीतियुक्तिलक्षणद्वयपक्षपातित्वात्; केवलं प्रतीतिविकलां युक्तिं युक्तिविनाकृतां वा प्रतीतिं नाङ्गीकुर्महे, ऽसम्भवदर्थगोचरतया निरालम्बनत्वात् तस्या इत्य् आस्तां तावत्।
[नव्_३१।७] स्वान्यनिर्भासीत्यनेन प्रागुक्तस्वपराभासिप्रमाणविशेषणवन् मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश् च ज्ञानमात्रवादिनः प्रतिक्षिपति, ज्ञानज्ञानिनोः कथञ्चिद् अभेदेन तदुक्तन्यायाविशेषाद् इति।
[नव्_३१।८] कर्ता भोक्तेइति विशेषणद्वयेन साङ्ख्यमतं विकुट्टयति, कर्ता सन् भोक्तापीति काक्वोपन्यासाद्, अकर्तुर् भोगानुपपत्तेर्, भुजिक्रियानिर्वर्तनसमर्थस्याइव भोक्तृत्वात्। जपाकुसुमादिसन्निधानवशात् स्फटिके रक्ततादिव्यपदेशवद् अकर्तुर् अपि प्रकृत्युपधानवशात् सुखदुःखादिभोगव्यपदेशो युक्तस्; तथा हि: प्रकृतिविकारदर्पणाकारबुद्धिसङ्क्रान्तानां सुखदुःखाद्यात्मकानाम् अर्थानां पुरुषः सन्निधानमात्रेण भोजको व्यपदिश्यते, “बुद्ध्यध्यवसितम् अर्थं पुरुषश् चेतयत” इतिवचनाद् इति चेन्, न, कथञ्चित् सक्रियाकताव्यतिरेकेण प्रकृत्युपधाने ऽप्य् अन्यथात्वानुपपत्तेर्, अप्रच्युतप्राचीनरूपस्य व्यपदेशानर्हत्वात्, तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासितया सक्रियत्वम् आपततीतिन्यायात्; स्फटिकदृष्टान्ते ऽपि जपाकुसुमादिसन्निधानाद् अन्धोपलादौ रक्ततानाविर्भवन्ती तत्र पुनर् आविर्भवन्ती तस्य तथाविधं परिणामं लक्षयत्य्, अन्यथान्धोपलवत् तत्रापि न प्रादुःष्यात्। तन् नाक्रियस्य भोक्तृतोपपद्यत इति।
[नव्_३१।९] विवृत्तिमान् इत्यमुना त्व् एकान्तनित्यम् अपरिणामिनं नैयायिकवैशेषिकादिप्रकल्पितं प्रमातारं निरस्यति, सर्वथाविचलितरूपस्यार्थग्रहणपरिणामानुपपत्तेः। व्यतिरिक्तज्ञानसमवायाद् एकान्तनित्यो ऽपि प्रमिणोतीति चेन्, न, समवायस्य प्राग् एव प्रतिक्षिप्तत्वात्, सम्बन्धान्तरस्य च व्यतिरेकिणा साकम् अनुपपत्तेर्, अन्यत्रान्यथानुपपन्नत्वात्। न च व्यतिरेकिणि ज्ञाने तत् समस्ति, तद्ग्राहकप्रमाणाभावाद्, अव्यतिरेकानुभवस्य च तद्बाधकत्वात्। किं च, यदि समवायबलाद् आत्मनि ज्ञानं समवैति, तदात्मनां समवायस्य च विभुत्वाद् एकरूपत्वाच् च सर्वात्मसु किं न समवैति, विशेषाभावात्? तथा च देवदत्तज्टानेन यज्टदत्तादयो ऽप्य् अर्थतत्त्वं बुद्ध्येरन्। अन्यच् च विज्टानोदयसमये ऽपि यादृशः प्रागवस्थायां तादृश एव सन्तिष्ठमानः प्राग् अप्रमाता पश्चात् प्रमातेति ब्रुवाणः खलून्मत्तताम् आत्मन्य् आविर्भावयति, नापरम् इत्य् आस्तां तावत्।
[नव्_३१।१०] पश्चार्द्धेन पुनर् भूतव्यतिरेकिणं स्वसंवेदनप्रत्यक्षनिर्ग्राह्यं जीवं दर्शयंश् चार्वाकदर्शनं तिरस्कुरुते, जडात्मकभूताव्यतिरेके हि तद्विलक्षणबोधरूपहर्षविषादादिविवर्तानुभवाभावप्रसङ्गात्। ननु च कायाकारपरिणतानि भूतान्य् एवात्मव्यतिरेकिणीं चेतनाम् उत्कालयन्ति; सा च तथाविधपरिणामपरिणतेषु तेषु सन्तिष्ठते, तदभावे पुनस् तेष्व् एव निलीयत इति; तद्व्यतिरेकानुभवे ऽपि न परलोकयायिजीवसिद्धिर्, इयताइव दृष्टव्यवहारोपपत्तेः। नाइतद् अस्ति, द्वयं हि तावद् एतत् संयोगम् अनुभवद् उपलबभ्यते – पट्चभूतात्मकं शरीरं चेतना च। तत्रापि शरीरं बहिर्मुखाकारेण बोधेनार्थरूपतया जडम् अनुभूयते, चेतना पुनर् अन्तर्मुखाकारेण स्वसंवेदनप्रत्यक्षेण साक्षात्क्रियते; ऽत एवाव्यतिरेकपक्षः प्रतिभासनिराकृतत्वान् नाशङ्कितः। व्यतिरेकिणोः पुनः प्रकाशमानयोर् यदि भूतान्य् एव चेतनाम् उत्कालयन्तीति भवद्भिः परिकल्प्यते, तदा चेतनाइव भवान्तराद् उत्पत्तिस्थानमायाता पट्चभूतभ्रान्तिजनकं शरीरं निर्वर्तयेत्, पुनर् भवान्तरं यातुकामा मुट्चेत्, तत् तयाधिष्ठितं गमनादिचेष्टां कुर्यात्, तद्वियुक्तं पुनः काष्ठवत् तिष्ठेद् इति जीवसम्पाद्यम् एव शरीरम्, न पुनर् असौ तत्सम्पाद्य इत्य्, एतत् परिकल्पनं युक्ततरं पश्यामः, जीवस्य चेतनावतः सकर्मकतयापरापरभवभ्रमणापरापरशरीरनिर्वर्तनयोर् उपपद्यमानत्वात्। भवान्तराद् आगच्छन् उत्पत्तिस्थानं जीवो ऽध्यक्षेण नोपलभ्यत इति चेद्, भूतान्य् अपि तर्हि कायाकारधारणद्वारेण चेतनाम् उत्कालयन्तीति प्रत्यक्षेण नोपलक्ष्यन्त इति समानो न्याहः। अथ कायाकारपरिणतेष्व् एव भूतेषु चेतनोपलभ्यते, नान्यदेत्यन्यथानुपपत्तिवशात् तज्जन्येति परिकल्प्यत, एवं तर्हि मृतावस्थायां कायाकारम् आबिभ्राणेष्व् अपि नोपलब्धा, कायाकारपरिणामो वा कादाचित्कतया हेत्वन्तरापेक्षीत्यन्यथानुपपत्तिवशाद् एव तन्निर्वर्तनक्षमा चेतना भवान्तरागतजीवसम्बन्धिनीति प्रतिपद्यामहे। किं च, जीवस् तावत् कर्मचैतन्यसम्बन्धाच् छरीरनिर्वर्तनार्थं प्रवरत इति युक्तम् एवाइतद्, भूतानि पुनः किम्भूतानि चेतनाकरणे प्रवर्तेरन्: सचेतनानि निश्चेतनानि वा? यद्य् आद्यः कल्पस्, ततो विकल्पयुगलम् अवतरति: तच् चैतन्यं तेभ्यो भिन्नम् अभिन्नम् वा? यदि भिन्नम्, तदा पुरुषशरीरवत् तत्रापि भूतैः सह वर्तमानम् अपि भूतविलक्षणम् आत्मकारणम् अनुमापयतीति तदवस्थाइव जीवसिद्धिः। अथाभिन्नम्, तथा सति समस्तभूतानाम् ऐक्यं प्रसजत्य्, एकचैतन्याव्यतिरिक्तत्वात्, तत्स्वरूपवत्। निजनिजचैतन्याव्यतिरेकीणि भूतानि तेनायम् अदोष इति चेन्, न, तत्सम्पाद्यपुरुषशरीरे ऽपि तज्जन्यपञ्चचैतन्यप्रसङ्गात्। पञ्चापि सम्भूय बृहत्पुरुषचैतन्यं बहवस् तिला इव तैलघटं जनयन्तीति चेत्, तत् तर्हि पुरुषचैतन्यं किं तेषाम् एव संयोगो यद् वा तदुत्पाद्यम्, अन्यद् एव? यद्य् आध्यः कल्पस्, तद् अयुक्तम्, चैतन्यानां परस्परं मिश्रणाभावेन संयोगविरोधाद्, इतरथा बहुपुरुषचैतन्यानि सम्भूय बृहत्तमचैतन्यान्तरम् आरभेरन्। अथ द्वितीयः पक्षस्, तत्रापि तेषां किम् अन्वयो ऽस्ति नास्ति वा? यद्य् अस्ति, तद् अयुक्तम्, प्राग्वत् तज्जन्यचैतन्यपञ्चरूपतापत्तेः। अथ नास्ति, तद् अप्य् अचारु, निरन्वयोत्पादस्य प्रमाणबाधितत्वात्। तन् न सचेतनानि भूतानि चेतनाकरणे व्यापारभाञ्जि भवितुम् अर्हन्ति। नापि निश्चेतनानि, तेषाम् अत्यन्तविलक्षणतया चैतन्योत्पादविरोधाद्, इतरथा सिकतादयस् तैलादिकरणे व्याप्रियेरन्। किं च, तत्समुदायमात्रसाध्यं वा चैतन्यं स्याद् विशिष्टतत्परिणामसाध्यं वा। न तावद् आद्या कॢप्तिर्, इलाजलानलानिलनभस्तलमीलने ऽपि चेतनानुपलब्धेः। द्वितीयविकॢप्तौ पुनः किं तद् वैशिष्ट्यम् इति वाच्यम्। कायाकारपरिणाम इति चेत्, स तर्हि सर्वदा कस्मान् न भवति? कुतश्चिद् धेत्वन्तरापेक्षणाद् इति चेत्, तत् तर्हि हेत्वन्तरं भवान्तरायातजीवचैतन्यम् इत्य् अनुमिमीमहे, तस्याइव कायाकारपरिणामसाध्यचैतन्यानुरूपोपादानकारणत्वात्, तद्विरहे कायाकारपरिणामसद्भावे ऽपि मृतावस्थायां तदभावाद् गमनादिचेष्टानुपलब्धेः; तन् न कायाकारपरिणामजन्यं चैतन्यम्, अपि तु स एव तज्जन्य इति युक्तं पश्यामः। न प्रत्यक्षाद् अन्यत् प्रमाणम् अस्ति, न च तेन परलोकगमनागमनादिकं चैतन्यस्योपलक्ष्यते, तेन दृष्टान्य् एव भूतानि तत्कारणतया कल्पनीयानीति चेन्, न, केवलप्रत्यक्षप्रतिक्षेपेण प्रमाणान्तराणां प्राग् एव प्रसाधितत्वात्, तथा च भूयांस्य् अनुमानानि परलोकानुयायिजीवसाधकानि प्रवर्तेरन्। तद् यथा – तदहर्जातबालकस्याद्यस्तनाभिलाषः पूर्वाभिलाषपूर्वको, ऽभिलाषत्वाद्, द्वितीयदिवसादिस्तनाभिलाषवत्।
तद् इदम् अनुमानम् आद्यस्तनाभिलाषस्याभिलाषान्तरपूर्वकत्वम् अनुमापयद् अर्थापत्त्या परलोकयायिजीवमाक्षिपति, तज्जन्मन्य् अभिलाषान्तराभावात्। एवम् अन्यद् अप्य् उदाहार्यम् इत्य् आस्तां तावत्।
[नव्_३१।११] तद् अयं स्वपरप्रकाशकः कर्ता भोक्ता नित्यानित्यात्मको भूतविलक्षणः साक्षात्कृतकतिचिन्निजपर्यायानुमितानाद्यनन्तकालभाविनिजानन्तपर्यायविवर्तः प्रमाणप्रतिष्ठितः पारमार्थिको जीवः सकलनयप्रमाणव्यापकः प्रमातेति स्थितम्।
[नव्_३२।०] साम्प्रतं पर्यन्तश्लोकेन प्रकरणार्थम् उपसंहरन्न् आह:
प्रमाणादिव्यवस्थेयम् अनादिनिधनात्मिका ।
सर्वसंव्यवहर्त्ःणां प्रसिद्धापि प्रकीर्तिता ॥ न_३२ ॥
[नव्_३२।१] प्रमाणानि प्रत्यक्षादीन्य्; आदिशब्दान् नयपरिग्रहस्, तेषां व्यवस्था प्रतिनियतलक्षणादिरूपा मर्यादा, सेयम् अनन्तरोक्तस्थित्या प्रकीर्तितेति संसर्गः। किम्भूतेत्य् आह: आदिः प्रभवो, निधनं पर्यन्तो, न विद्येते आदिनिधने यस्यासौ तथाविध आत्मा स्वरूपं यस्याः सानादिनिधनात्मिका; सर्वसंव्यवर्त्ःणां लौकिकतीर्थिकादिभेदभिन्नसमस्तव्यवहारवतां प्रसिद्धापि रूढापि, तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च विचारानुत्थाने न कस्यचित् तत्त्वस्य प्रतिष्ठितिः। प्रकीर्तिता संशब्दिताव्युत्पन्नविप्रतिपन्नव्यामोहापोहायेति गम्यते; प्रमाणप्रसिद्धे ऽप्य् अर्थे प्रबलावरणकुदर्शनवासनादितः केषाञ्चिद् अनध्यवसायविपर्यासरूपव्यामोहसद्भावात्, तदपनोदार्थं च सति सामर्थ्ये करुणावतां प्रवृत्तेर् इति।
स्याद्वादकेसरिसुभीषणनादभीतेर् उत्त्रस्तलोलनयनान् प्रपलायमानान् ।
हेतुर् नयाश्रितकुतीर्थिमृगान् अनन्यत्राणान् विहाय जिनम् एति तम् आश्रयध्वं ॥ नव्_३२।१:१ ॥
भक्तिर् मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान् न मतिः स्वकीया ।
मोहाद् अतो यद् इह किञ्चिद् अभूद् असाधु तत् साधवः कृतकृपा मयि शोधयन्तु ॥ नव्_३२।१:२ ॥
न्यायावतारविवृतिं विविधां विधित्सोः सिद्धः शुभो य इह पुण्यचयस् ततो मे ।
नित्यं परार्थकरणोद्यतम् आ भवान्ताद् भूयाज् जिनेन्द्रमतलम्पटम् एव चेतः ॥ नव्_३२।१:३ ॥
इति न्यायावतारविवृतिः समाप्ता ॥
कृतिर् इयम् आचार्यसिद्धव्याख्यानिकस्य तर्कप्रकरणवृत्तेर् इति।