परिचयः
लक्षणम्
- तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्॥
- इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद् द्वि-विधं - निर्विकल्पकं सविकल्पकं चेति।
- एवं सन्निकर्ष-षट्क-जन्यं ज्ञानं प्रत्यक्षम्, तत्-करणम् इन्द्रियम्। तस्माद् इन्द्रियं प्रत्यक्ष-प्रमाणमिति सिद्धम्॥
प्रत्यक्षज्ञान-प्रकाराः
- सविकल्पकम्
- सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति॥२॥
- ब्राह्मणोऽयम् इत्यभिज्ञाने ब्राह्मणत्वस्य प्रकारस्य ग्रहणम् अन्तर्भूतम्।
- निर्विकल्पकम्
- तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित्।
- श्यामत्व-प्रतीतौ पाचकत्व-प्रतीतौ वा न पुनः श्यामत्वत्व-प्रतीतिप्रश्नः। नास्ति प्रकारान्तरग्रहणम् अत्र।
इन्द्रियार्थसन्निकर्षे १५शतमानस्य मतम्
- प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति॥
संयोगः
-
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः॥ (चक्षुषः प्रकाशो निर्गच्छतीति मन्यन्ते स्म ते!)
-
द्रव्यग्राहके इन्द्रिये द्वे एव चक्षुरिन्द्रियं त्वगिन्द्रियं चेति । तत्रैव संयोगः।
-
ततः
- घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुःसंयुक्तघटे रूपस्य समवायः॥
- रूपत्व-सामान्य-प्रत्यक्षे संयुक्त-समवेत-समवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात्॥
कर्णस्य समवायः
- श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः - कर्णविवरवत्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुण-गुणिनोश्च समवायात्॥ कर्णे वर्तमानः आकाशः इन्द्रियम् इति मन्यन्ते स्म। तत्र समवायतो ग्रहणम्।
- ततः - शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः - श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्॥
विशेषण-विशेष्यभावः सन्निकर्षः
- अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्॥