०२

पञ्चमाध्याये द्वितीयाह्निकम्

प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेषलक्षणप्रकरणम्

प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ ५ । २ । १ ॥

“विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पाद” वैचित्र्यात् “निग्रहस्थानबहुत्वम् इति” सङ्क्षेपेणोक्तम् । “तदिदानीं विभजनीयम् ।” तत्र य एवमाहुः—सर्वोऽयं साधनदूषणप्रकारो बुद्ध्यारूढो न वास्तव इति, तान् प्रत्याह—“पराजयवस्तूनीति ।” पराजयो वसत्येष्विति पराजयस्थानानीत्यर्थः । काल्पनिकत्वे कल्पनायाः सर्वत्र सुलभत्वात् साधनदूषणव्यवस्था न स्यादिति भावः । निग्रहस्थानानि पर्यायान्तरेण स्पष्टयति—“अपराधेति ।” य आहुः असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यत1 इति

तान् प्रत्याह—“सामान्यतो द्वे निग्रहस्थाने ।” सामान्यविवक्षायां प्रतिज्ञाहान्यादयो द्वाविंशतिरपि न भिद्यन्ते । तत्तु असाधनाङ्गवचनमदोषोद्भावनमिति भवद्भिः सङ्गृहीतम्, “ऋषिणा” च विप्रतिपत्त्यप्रतिपत्तिभ्याम् इति न कश्चिद् विशेषः । अत्र विचारयति—“कर्तृकर्मकरणानामिति ।”

तत्रैके वर्णयन्ति—“पक्षस्येति ।” यथा पक्षोद्देशेन साधनं प्रवर्तमानं पक्षस्य, एवं तदुद्देशेन दूषणानि प्रवर्तमानानि पक्षस्यैवेति । “एवं चाहुर्दूषणानीति ।” न्यूनतादयो हि सर्वे पक्षोद्देशेन प्रवर्तमानाः पक्षस्यैवेत्यर्थः । दूषयति—“एतत्तु न सम्यगिति ।” पक्षोद्देशेन प्रवृत्तेः पक्षविषयतां नापजानीमः, साक्षात्तु तद्विषयतां निराकुर्मः, तस्य वस्तुसतस्तादवस्थ्यात् । एवं साधनमपि यत्रासमर्थं तत्र नियुज्यमानं न स्वतो दुष्यति, यत्र तु समर्थं तत् साधयत्येव । तस्मात् कर्तुरेव दोष इत्याह—“तस्मादसमर्थयोरिति ।” न केवलं स्वातन्त्र्यात् कर्तुर्निग्रहः, अपि तु तदाधारत्वाद् विप्रतिपत्त्यप्रतिपत्त्योरित्याह—“विप्रतिपत्त्यप्रतिपत्त्योश्चेति ।” ननु वाक्ये न्यूनतादयो दोषाः, न पुरुषाश्रया इत्यत आह—“विप्रतिपत्त्यप्रतिपत्ती चेति ।” न स्वरूपेण वाक्यं दुष्टं तस्य तादवस्थ्यादित्युक्तम्, किं तु पुरुषस्य विप्रतिपत्त्यप्रतिपत्तिभ्यां तथा प्रतिभाति । तेन वाक्यगतन्यूनतादिदर्शनात् पुरुषे विप्रतिपत्त्यप्रतिपत्ती प्रतीयेते । तेन तद्द्वारेण पुरुषो निगृह्यते, न तु वाक्यम् ।

एतावता च प्रतिज्ञादिदोष इत्युच्यते । न चायमपि नियमो यद् वाक्यद्वारेणैव पुरुषो निगृह्यते, अज्ञानादिषु तदभावादित्याह—“कानिचिन्निग्रहस्थानानीति ।”

शङ्कते—“द्वैविध्यानुपपत्तिरिति ।” सामान्यं वा विवक्ष्येत विशेषो वा ? सामान्यविवक्षायां निग्रहस्थानमित्येवास्तु, तस्य सर्वत्राविशेषात् कुतो द्वैविध्यम् ? विशेषविवक्षायां तु प्रतिज्ञाहान्यादीनि बहूनीत्ययुक्तं द्वैविध्याभिधानमुभयथापीत्यर्थः । निराकरोति—“न, सामान्यभेदविस्तरस्य विवक्षातः प्रवृत्तेरिति ।” सामान्यविवक्षायामपि निग्रहस्थानमिति नोक्तम्, उद्देशादविशेषप्रसङ्गात् । तस्माल्लक्षणं प्रणयतान्यथा तदसम्भवादवान्तरसामान्यद्वैविध्यविवक्षया सामान्यं लक्षितम् । भेदानां तु विस्तरविवक्षया प्रतिज्ञाहान्यादयो विप्रपञ्चिता इत्यर्थः । आन्तर्गणिकानां तु भेदानामानन्त्यमित्याह—“उदाहरणमात्रत्वाच्चेति ।” द्वाविंशतिसङ्ख्यावच्छिन्नो भेद उदाहरणमात्रम् । आन्तर्गणिकभेदस्य तद्भेदविवक्षायां त्वानन्त्यमित्यर्थः ।

“भाष्य”मनुभाष्याक्षिपति—“प्रायेण प्रतिज्ञेति ।” समाधत्ते—“न, क्रियावचनदोषद्वारेणेति ।” वचनदोषद्वारेणेत्येतावन्मात्रे वक्तव्ये क्रियादोषाभिधानं दृष्टान्तार्थम् । नन्वाश्रयार्थोऽप्ययुक्तः पुरुषाश्रयत्वादित्यत आहे—“न चाधाराधेयभाव” इति ।

अपरमपि “भाष्य”मनुभाष्याक्षिपति—“तत्त्ववादिनमतत्त्ववादिनं चेति ।” समाधत्ते—“न, परापदिष्टेति ।” सम्यक्साधने जात्युत्तरे दत्ते तस्य जातित्वमनुद्भावयंस्तत्त्ववाद्यपि निगृह्यत इत्यर्थः ॥ १ ॥

प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ ५ । २ । २ ॥

लक्षणं तु—“प्रति…हानिः ॥” तदेतत् “सूत्रं भाष्यकार”मतेन तावद् व्याचष्टे— “प्रति दृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्तेऽभ्यनुजानातीति ।” तदेतद् “भाष्य”व्याख्यानमुपन्यस्य “वार्त्तिककारो”दूषयति—“एतत् तु न बुध्यामहे कथमत्र प्रतिज्ञा हीयते” इति । अनित्यः शब्द ऐन्द्रियकत्वात्, घटवत् इति साधने प्रयुक्ते प्रतिवादिना चानैकान्तिकत्वे सामान्येनोद्भाविते तृतीयस्थानपतितो वाद्याह—अस्तु तर्हि सामान्यवद् घटोऽपि2 नित्य इति । तथा सत्यैन्द्रियकत्वमनैकान्तिकं न भवति नित्यमात्रगामित्वाद् घटादीनामपि नित्यताभ्युपगमाद् इत्याशयेन यद्यपि, तथापि साक्षा“दनैकान्तिकदोषोद्धार”मक्षरारूढ“मनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते, नित्यताप्रतिपत्तेश्चासिद्धता दृष्टान्तदोषो3 भवति ।” साध्यविकलतेत्यर्थः । सोऽयं दृष्टान्तदोषेण हेतुदोषेण वा विरुद्धत्वेन घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रियकत्वस्य हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वाद् निग्रहो वादिनो न प्रतिज्ञाहानिः । न खलु अनेन अस्तु शब्दो नित्यः इति प्रतिज्ञा परित्यक्ता, किं तु अस्तु घटोऽपि नित्यः इत्युक्तम् । यदि तु दृष्टान्तपरित्यागेन प्रतिज्ञातार्थस्यासिद्धेः प्रतिज्ञाहानिरुच्येत,4 ततः सर्व एव दोषः प्रतिज्ञाहानिः, सर्वस्मादेव दोषात् प्रतिज्ञाहानेरुपपत्तेः । तस्मात् कथञ्चिद् दृष्टान्तपरित्यागे प्रतिज्ञाहानिरुपचरितव्या । न चासौ प्रधानं प्रतिज्ञाहानिं विना भवितुमर्हतीत्याह—“दृष्टान्तं च जहदिति ।”

तदेवं “भाष्यकार”व्याख्यानं दूषयित्वा स्वमतेन व्याचिख्यासुःपृच्छति—“कथं तर्हीति । दृष्टश्चासावन्ते” निगमने “च व्यवस्थित इति दृष्टान्तः ।” दृष्टान्तप्रतिदृष्टान्तौ पक्षप्रतिपक्षावुच्येते । एतदुक्तं भवति—प्रतिपक्षदृष्टान्तस्य5 सामान्यस्य यो धर्मो नित्यत्वं तं स्वपक्षे शब्देऽभ्यनुजानातीति । उदाहरणमाह—“यथा अनित्यः शब्द ऐन्द्रियकत्वादिति द्वितीयपक्षवादिनि सामान्येन प्रत्यवस्थिते इदमाह” तृतीयपदके6 स्थितो वादी “यदि सामान्यमैन्द्रियकं नित्यं शब्दोऽप्येवं भवत्विति एषा प्रतिज्ञाहानिः ।” अत्र च “अनैकान्तिकत्वेन प्रत्यवस्थित” इत्युपलक्षणम् । येन केनचित् प्रकारेण स्वप्रतिज्ञातार्थानिर्वाहं पश्यन् प्रतिज्ञार्थं जहत् प्रतिज्ञाहानिमाप्नोतीति परमार्थः ।

यदप्युच्यते—स्वयमेव घटमनित्यमैन्द्रियकमुदाहृत्य घटेऽप्यैन्द्रियकत्वं7 पश्यन् कथमनुन्मत्तः सन् सामान्यस्य नित्यस्यैन्द्रियकत्वदर्शनमात्रात् शब्दे नित्यत्वमभ्युगपगच्छेत् ? किन्तु उभयत्र दर्शनात् संशयितः स्यादिति । तत्र सर्वं नित्यमिति “साङ्ख्यीय”राद्धान्तावलम्बनेनापि स्वपक्षनिर्वाहमपश्यतोऽनैकान्तिकत्वोद्धाराय प्रेक्षावतोऽपि प्रवृत्तिसम्भवात् । न चात्यन्तिकं प्रेक्षावत्त्वमिह ग्राह्यम्, तादृशस्य निग्रहाधिकरणत्वानुपपत्तेः । तस्माद् यथा जडं प्रति विचारो नास्ति, एवं प्रामाणिकमपि प्रति निग्रहावतारो नास्तीति मध्यमो जनो निग्राह्यः, तस्य च सम्भवन्त्येवंविधाः प्रमादा इति ।

शङ्कते—“प्रसङ्गविधानादिति चेत् ?” निराकरोति—“तच्च न, अत एव तत्प्राप्तेः ।” हेतुदोषमुद्दिधीर्षुः प्रसञ्जयन्नप्यभ्युपगच्छत्येव । न हि “साङ्ख्यीयं” राद्धान्तमनभ्युपगच्छन्ननैकान्तिकत्वमुद्धर्तुमर्हतीति भावः ।

तदनेन परमतं निराकृतप्रायमपि साक्षान्निराकर्तुमुपन्यस्यति—“हेतुदोषेण” अनैकान्तिकत्वलक्षणेन “चारितार्थत्वान्न प्रतिज्ञाहानिर्निग्रहस्थानमित्यन्ये ।” यदाह “कीर्त्तिः,” तस्मादैन्द्रियकत्वस्य नित्यानित्यपक्षप्रतिपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहार्हो, न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति । निराकरोति—“न, अनैकान्तिकत्वदोषपरिहारेण विप्रतिपत्तेस्तदुपपत्तेः ।” यदा हि “साङ्ख्य”पक्षावलम्बनेन शब्दनित्यत्वमभ्युपैति तदा प्रतिज्ञाहानिः, न विरुद्धो हेतुः, नाप्यनैकान्तिको विपक्षाभावात् । केवलं प्रतिज्ञार्थहानमेवास्य पराजयस्थानम् । “विप्रतिपत्तेः” स्वसाध्यविरुद्धप्रतिपत्तेरिति सर्वमवदातम् ॥ २ ॥

प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ ५ । २ । ३ ॥

एतद् व्याचष्टे, “प्रतिज्ञातोऽर्थो मीमांसकं” प्रति “वैशेषिकेण अनित्यः शब्द” इति । तस्य साधनम् “ऐन्द्रियकत्वाद् घटवद्” इति, एवमुक्तेऽस्य “प्रतिषेधो मीमांसकेन” क्रियते “प्रतिदृष्टान्तेन हेतुव्यभिचारः ।” तमाह—सामान्यमैन्द्रियकं नित्यमिति । तम्मिंश्च प्रतिषेधे “मीमांसकेन” कृते धर्मविकल्पात् तदर्थनिर्देश इति यावन्नोच्यते तावदर्धोक्त एव “धर्मविकल्पाद्” इत्यनूद्य व्याचष्टे—“दृष्टान्तप्रतिदृष्टान्तयो” र्घटसामान्ययोः साधर्म्यमैन्द्रियकत्वं तद्योगे धर्मभेदात् सामान्यमैन्द्रियकं सर्वगतम्, ऐन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात् तदर्थं प्रतिज्ञातार्थसिद्ध्यर्थं शब्दस्यासर्वगत्वं “मीमांसकं” प्रति प्रतिपादयितुं निर्देशः । तस्य हि शब्दस्यासर्वगतत्वमसिद्धम् । प्रश्नपूर्वकं निर्देशस्वरूपमाह—“कथम् ?” यथा घटोऽसर्वगतोऽनित्यः, एवं शब्दोऽप्यसर्वगतोऽनित्य इति । इदं हि प्रतिज्ञावाक्यम् अनित्यः शब्द इतिवत् असर्वगतः शब्द इति “मीमांसकं” विप्रतिपन्नं प्रति निर्देशात्, न तु कृतकत्वा दितिवदुदाहरणसाधर्म्याद्यस्य8 हेतुलक्षणमस्ति ।

साध्यनिर्देशः प्रतिज्ञा इति तु प्रतिज्ञालक्षणयोगात् प्रतिज्ञान्तरमेव । यद्यप्यस्य मनसि द्वयं विपरिवर्तते9 असर्वगतत्वं साधयित्वा मया असर्वगतत्वे सतीति ऐन्द्रियकत्वं हेतुर्विशेषणीय इति, तथाप्येतदनेन न कृतं किं त्वसर्वगतः शब्दो घटवदित्युक्त्वैव विरतः । परार्थे चानुमाने वचनगता गुणदोषा विचार्यन्ते, न तु वचनानपेक्षं वस्तु ।

तदिदमाह—“असर्वगतः” शब्द “इति द्वितीया प्रतिज्ञा” हेतुरहिता । अस्य प्रश्नपूर्वकं निग्रहस्थानत्वमाह—“तत् कथम्” इति । अनर्थकं निष्प्रयोजनमिष्टार्थसिद्धेरभावादिति ।

“वार्त्तिकं—तत्रानित्यः शब्द” इति प्रतिज्ञा प्रथमा । अस्यां सामान्येनैन्द्रियकेण हेतोरनैकान्तिकत्वात् प्रतिहतो वादी प्रतिवादिना असर्वगतोऽनित्यः शब्द इति प्रतिज्ञान्तरं पूर्वप्रतिज्ञासिद्ध्यर्थं करोतीत्यनुषज्यते । पृच्छति—“कथमिति ।” उत्तरम्— “साधनसामर्थ्यापरिज्ञानात् ।” अनित्यः शब्द ऐन्द्रियकत्वाद् घटवत् इत्येतावदुक्त्वा निराकाङ्क्षो वादी न त्वसर्वगतत्वे सतीति साधनं विशोषितवान् । न चाविशिष्टं साधनमत्रार्थेऽसमर्थम्, विशिष्टं तु समर्थं, तस्य सामर्थ्यमपरिज्ञायाविशिष्टे तदारोप्याविशिष्टं साधनं प्रयुक्तवान् । तदेवं निराकाङ्क्षो वादी सव्यभिचारहेतुप्रयोगादेव पराजीयते न तु प्रतिज्ञान्तरप्रयोगात्10 । यदि तु वादिन्यपर्यवसितवाद् एव मध्ये प्रतिवादिना हेतोरनैकान्तिकत्वे उद्भाविते तमेव हेतुमसर्वगतत्वे सतीति विशेष्टुं “मीमांसकं” प्रति शब्दस्यासर्वगतत्वं प्रतिजानीते, असर्वगतः शब्द इति प्रतिज्ञाय च न हेतुं ब्रवीति, तदानैकान्तिकत्वोद्धाराय प्रतिज्ञान्तरकरणात् नानैकान्तिकत्वेन पराजीयते, अपि तु प्रतिज्ञान्तरादेव । न हि प्रतिज्ञा प्रतिज्ञान्तरं साधयितुम् अर्हतीति । सोऽयं प्रतिज्ञामात्रस्यासाधकत्वाप्रतिपत्त्या असाधकस्यैव वा साधकत्वप्रतिपत्त्या विप्रतिपत्त्या अप्रतिपत्त्या वा11 पराजीयते । तदेतदाह—“न च प्रतिज्ञा प्रतिज्ञान्तरं साधयति ।” तेन प्रतिज्ञा यत्रार्थे समर्था तदपरिज्ञानात् पञ्चावयवसाध्ये च सामर्थ्यारोपणाद्12 “अपरिज्ञानाद्” इति हि श्लिष्टनिर्देशेन प्रसज्यप्रतिषेधपर्युदासौ विवक्षितौ । तेनाज्ञानाद् विपरीतज्ञानाच्च प्रतिज्ञान्तरं निग्रहस्थानमिति “वार्त्तिका”र्थः13

यत् पुनरिदमुच्यते “परैः” अत्यन्तासम्बद्धमेतद् यत् प्रतिज्ञा प्रतिज्ञासाधनायेति । यो हि प्राक् प्रतिज्ञामुक्त्वा हेतूदाहरणादिकं वक्तुं जानाति स कथञ्चिदनुक्रमं साधनस्य जानात्येव । जानन् कथमविकलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञासाधनायोपाददीत इति । तत्र ब्रूमः, नायं प्रतिज्ञया मया प्रतिज्ञा साधनीयेति बुद्ध्या प्रवृत्तः, किं त्वसर्वगतत्वं शब्दस्य “मीमांसकं” प्रति साधयित्वा तेनैन्द्रियकत्वं विशिष्यानैकान्तिकत्वमुद्धरणीयमिति मनोरथेन प्रवृत्तः प्रतिज्ञां कृतवान्—असर्वगतः शब्द इति । अथास्य प्रतिवाद्यवष्टम्भाद् वा परिषद्दर्शनाद् वा स्तम्भितत्वेन साधनाप्रतिभया तुष्णीं भवतः प्रेक्षावतोऽपि प्रतिज्ञान्तरं सम्भवति निग्रहस्थानम् । अयं च विकलान्तःकरणस्य निग्रहो भवद्भिरप्युक्त एव, तदभ्युपगम्याप्रतिभया तूष्णीम्भावादिति वदद्भिः । सोऽमीदृशोऽसत्प्रलापो भवद्भिः शास्त्रे निबन्धनीयो न त्वस्माभिरिति व्यक्तमियं राजकुलस्थितिरिति सर्वं चतुरस्त्रम् ॥ ३ ॥

प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥ ५ । २ । ४ ॥

अत्र “प्रतिज्ञाहेत्वोरिति” प्रतियोगिद्वयमात्रोपलक्षणपरम् । तेन दृष्टान्तादयोऽपि प्रतियोगिन उन्नेयाः । एतदुक्तं भवति—येषां वाक्यगतानां पदार्थानां मिथो व्याघातः प्रतीयते, प्रमाणान्तरं च विरोधकं, स विरोधो नाम निग्रहस्थानम् । लक्ष्यस्थितस्य प्रतिज्ञाग्रहणस्याप्युपलक्षणार्थत्वात् । न चैवं भाण्डलेख्यन्यायः । एकदेशेनाव्यापकेन समुदायसङ्ग्रहे स हि भवति, न तु व्यापकेन सङ्ग्रहे । व्यापकं चानवयवेन इदं प्रतियोगिमिथुनयोर्विरोधः । अतो यथाश्रुति तावत् “सूत्रं” व्याचष्टे “वार्त्तिककारः— यत्र प्रतिज्ञा हेतुना विरुध्यते” इति । द्वयोर्विरोधे यस्य प्रमाणान्तरेणानुग्रहः, तेनेतरद् बाध्यते इति तेन विरुध्यत इत्युच्यते । तद् यत्र प्रतिज्ञया हेतुर्विरुध्यते, तदुदाहरति—“यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति ।” अत्र हि भेदेनाग्रहणादित्यनेन ग्रहणप्रतिषेधेन ग्राह्याभाव उपलक्ष्यते । तेनैष हेत्वर्थो भवति गुणव्यतिरिक्तं द्रव्यमव्यतिरेकादिति । सोऽयं प्रतिज्ञाहेतुपदयोर्व्याप्तिस्मरणानपेक्ष एव परस्परव्याघातोऽस्तिनास्तिपदयोरिव । न चैवंविधः शब्दे नित्यत्वकृतकत्वयोर्येन कृतकत्ववद्विरुद्धोऽयं हेत्वाभासः स्यात् । तत्र हि कृतकत्वस्य अनित्यत्वेन व्याप्तिमनुस्मृत्य विरोधः प्रतीयते,14 न त्वयं तथा, अस्ति नास्ति इतिवत् स्वभावविरोधात् । यद्यप्ययमसिद्धोऽपि हेत्वाभासस्तथाप्यस्यासिद्धिर्बाधकं प्रमाणान्तरमनुसृत्य प्रतिपत्तव्या, प्रतिज्ञाविरोधस्तु उच्चारणमात्रादेव प्रथमतरमवगम्यत15 इति । तेनैव दूषिते हेतौ नासिद्धिः पश्चात्तनी दूषणत्वाय कल्पते, भस्मीकृते दहनवत् । प्रतिज्ञाहेत्वोर्विरोधमात्रेणैव निग्रहे सिद्धे सुहृद्भावमात्रेण प्रतिज्ञाया बलवत्तास्मरणम्, प्रतिज्ञायाश्चात्र बलवत्त्वं प्रमाणान्तरानुग्रहात् । तथा हि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानाद् रूपादिव्यतिरिक्तं द्रव्यं सिध्यतीति तदनुगृहीता प्रतिज्ञैव हेत्वर्थं बाधत इति । “एतेनैवेति” लक्षणेन । “श्रमणा गर्भिणीति ।” श्रमणा ब्रह्यचारिणी नान्तर्वत्नी भवितुमर्हति । जितेन्द्रियस्योपस्थसंयमो हि ब्रह्मचर्यम् । न चासाधनाङ्गस्य प्रतिज्ञाया वचनादेव निगृहीत इति कृतं तद्विरोधोद्भावनेन । निष्पादितक्रिये कर्मण्यविशेषाभिधायिनो दूषणस्य दूषणन्यायातिपातादिति साम्प्रतम्, प्रतिज्ञाया साधनाङ्गत्वस्य प्रथम एवाध्याये दर्शितत्वात् । “हेतुविरोधोऽपि ।” यत्र हेतुना प्रमाणान्तरानुगृहीतेन प्रतिज्ञा बाध्यते, यथा सर्वं पृथगिति प्रतिज्ञा, न किञ्चिदेकमित्यर्थः । हेतुः—समूहे भावशब्दप्रयोगादिति, एकसमुच्चये घटादिशब्दप्रयोगादित्यर्थः । नास्त्येकम्, एकसमुच्चयश्चेति वचने मिथो विरुध्येते, विनैव व्याप्त्यनुस्मरणमिति । न च सर्वनास्तित्ववादिनो नैकसमुच्चयोऽप्यस्तीति वक्तव्यम्, असति हेतौ साध्यसिद्धेरयोगात् । न च कल्पितस्य हेतोः साधनाङ्गतेति तत्र तत्र निवेदितम् । अत्र चैकसमुच्चयस्य प्रमाणानुग्रहान्नैकं किञ्चिदिति प्रतिज्ञा हेतुना बाध्यते । “एतेन” लक्षणेन “प्रतिज्ञाया दृष्टान्तविरोधोऽपि वक्तव्यः” यथा अनित्यः शब्दः प्रमेयत्वात् । यत्प्रमेयं तन्नित्यं यथा आकाशमिति साधर्म्यदृष्टान्तः । यद्यप्यत्र वस्तुतो हेतुरनैकान्तिकः, तथापि दृष्टान्तस्य प्रतिज्ञाविरोधेनैव निगृह्यते, विरोधस्य वाक्ये प्रथममवगतेः । अनित्यं घटाद्युन्नीयानैकान्तिकत्वप्रतिपत्तेस्तु जघन्यत्वादिति । “हेतोश्च दृष्टान्तादिभिर्विरोध” एतेन वक्तव्य इत्यनुषज्यते । यथा, अनित्यः शब्द ऐन्द्रियकत्वात् अनैन्द्रियकद्व्यणुकवदिति । अत्राप्यैन्द्रियकत्वानैन्द्रियकत्वयोः शब्दतो विरोधः प्रतीयते, साधनवैकल्पं तु वस्तुस्वभावालोचनयेति विशेषः । एवमुपनयेन विरोधोऽनैन्द्रियकश्च शब्द इति । अत्रापि वस्तुस्वभावालोचनया अनैन्द्रियकत्वस्यासिद्धिः प्रतीयते, शब्दतस्तु विरोध इति । प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्वक्तव्यः । यद्यपि बाधितविषयं हेत्वाभासान्तर्गतं तथापि इहाप्यस्तीति विरोधहेत्वाभासयोरत्र निग्रहस्थानयोः समावेशोऽस्तु, न च क्वचिद् विषये समावेशाद् आनर्थक्यम्, विषयान्तरे समावेशाभावादर्थवत्त्वात् । दर्शितं चानन्तरमेव भिन्नविषयत्वमिति । तदेवं साधनवादिनो विरोधं निग्रहस्थानमभिधायोत्तरवादिनोऽपि विरोधो निग्रहस्थानमनेनैव सङ्गृहीतमित्याह—“परपक्षसिद्धेन गोत्वादिनेति ।” यदा हि “बौद्धेन प्राभाकरं” प्रति साध्यते अनित्यः शब्दः श्रावणत्वादिति, यद्यनित्यत्वं न भवेदश्रावणत्वं16 स्यादिति, तदा “प्राभाकरो”ऽनैकान्तिकत्वमुद्भावयति श्रावणं शब्दत्वं नित्यं चेति, तदस्यानैकान्तिकत्वोद्भावनं स्वकीयं शब्दत्वनिराकरणविरुद्धमिति । परपक्षसिद्धं गोत्वाद्यपीदृश एव विषये विरुद्धं द्रष्टव्यम् । स्वसिद्धान्त विरुद्धं च साधनं विरुद्धमित्याह—“स्वपक्षानपेक्षं च ।” ननु यद्यनैकान्तिकोद्भावनमपि विरुद्धं कस्तर्ह्यनैकान्तिकत्वापादनस्य विषय इत्यत आह—“उभयपक्षसम्प्रतिपन्नस्त्विति ।” देशयति—“दृष्टान्ताभासा” इति । अवयवान्तरं हि प्रतिज्ञाहेत्वादिभ्य उदाहरणम्, तेन हेत्वाभासोक्त्या तस्य सङ्ग्रहः । पारम्पर्येण तूदाहरणाभासस्य हेतुदूषकत्वेन सर्वमेव हेतुदूषकमविशेषादिति भावः । परिहरति—“हेत्वाभासपूर्वकत्वादिति ।” हेत्वाभासा इत्यत्र हेतुशब्दः स्वार्थमपरित्यज्य दृष्टान्तमुपलक्षयति । उपलक्षणे हेतुरुक्तः । हेत्वाभासपूर्वकत्वाद् हेत्वाभासप्रधानत्वात् दृष्टान्ताभासेनापि हेतुरेव दूष्यते यतः । न चैतावता प्रतिज्ञादिदोषोपलक्षणप्रसङ्गः । न हि यत्र यत्र निमित्तमस्ति तत्सर्वमुपलक्षणीयम्, किं तु यदुपलक्ष्यते तत्रावश्यं निमित्तं वक्तव्यम् । न च “सूत्रकारस्य” सर्वत्र लाघवादरो दृढ इत्युक्तम् । तस्मात् सर्वं रमणीयम् ॥ ४ ॥

पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥ ५ । २ । ५ ॥

ऐन्द्रियकत्वस्य हेतोरनैकान्तिकत्वोद्भावनेन शब्दानित्यत्वपक्षे प्रतिक्षिप्ते वादी प्रतिवादिनं प्रति ब्रूयादनैकान्तिकत्वमुद्दिधीर्षुः—कः पुनराहानित्यः शब्द इति । यद्यहमनित्यः शब्द इति प्रतिज्ञामपह्नोतुं शक्नोमि तदा न सामान्येन नित्येन मे हेतुरनैकान्तिको भवतीति बुद्ध्यपहतोऽपह्नुते, सोऽयमेवंवादी न शक्योऽनैकान्तिकत्वेन जेतुम्, अपह्नवस्यापह्नवत्वावेदनेऽनैकान्तिकत्वोद्धारात् । तस्मादनैकान्तिकस्यानैकान्तिकत्वस्थापनायापह्नवस्यापह्नवत्वमुद्भावनीयम् । तत्र किमपह्नवत्वमुद्भाव्यानैकान्तिकत्वं व्यवस्थाप्य निगृह्यताम्, उतापह्नवादेवेति संशये अपह्नवत्वोद्भावनादेव पूर्वापरपराहतेर्निगृह्यते, नानैकान्तिकत्वेन, तत्पूर्वकत्वादनैकान्तिकत्वस्थापनस्य ।

तस्माद् यदुक्तं “कीर्त्तिना,” किमिदानीं हेत्वाभासादुत्तरप्रतिज्ञासन्न्यासापेक्षया तस्य प्रतिवादिनो हेत्वाभास एवाद्यं निग्रहस्थानमिति, तदपास्तम्, प्रतिज्ञासन्न्यासस्यैव पूर्वभावित्वात् । यदपि तेनोक्तम्, पक्षप्रतिषेधे तूष्णीम्भवतस्तूष्णीम्भावो नाम निग्रहस्थानं प्रलपतश्च प्रलपितं नामेत्याद्यपि वाच्यं स्यादिति, तदप्यसाम्प्रतम् । न हि तूष्णीम्भावेन प्रलपितादिभिर्वा शक्यमनैकान्तिकत्वमुद्धर्तुम्, यथा प्रतिज्ञार्थापह्नवेन । न चैते हेत्वाभासोद्भावनस्य पुरस्तात्तनाः । तस्मादेतदप्यनिरूपिताभिधानाद् यत्किञ्चिदिति ॥ ५ ॥

अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥ ५ । २ । ६ ॥

व्याख्यातुं निदर्शनमाह—“निदर्शनम्, एकप्रकृतीदं व्यक्तं” भूतभौतिकेन्द्रियम्, “एकप्रकृतीनां विकाराणां परिमाणात् ।” तद् यथा एकमृत्पूर्वा घटशरावोदञ्चनादयः परिमिता दृष्टाः, यावान् प्रकृतेर्व्यूहः संस्थानं तावान् विकार इति । न चैवमुदाहरणं17 साधनविकलमित्याह—“दृष्टं चेति ।” उपनयमाह—“अस्ति चेदमिति ।” निगमनमाह— “तदेकप्रकृतीनामिति । अस्य” परिमितत्वस्य “हेतोर्व्यभिचारेण प्रत्यवस्थानं” प्रतिवादिनः । “नानाप्रकृतीनां” घटरुचकादीनाम् “एकप्रकृतीनां च” घटशरावादीनां “दृष्टं परिमाणमिति ।” एवं प्रत्यवस्थिते प्रतिवादिनि वादी पश्चात्परिमितत्वं हेतुं विशिनष्टि—“एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनादिति ।” प्रकृतिः स्वभावः, एकस्वभावसमन्वये सति इत्यर्थः । एकप्रकृतिसमन्वयं स्फुटयति—“सुखदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिमितं गृह्यते ।” तथा हि मैत्रदारेषु नर्मदायां मैत्रस्य सुखबुद्धिर्भवति, तत्सपत्नीनां च दुःखबुद्धिः । चैत्रस्य तामविन्दतो रणरणकवतो मोहो विषादः । नर्मदया च भावान्तराणि व्याख्यातानि । तदेवं यत्रैकस्वभावसमन्वये सति परिमाणं तत्रैकप्रकृतित्वमेव । तद् यथा एकमृत्पिण्डस्वभावेषु घटशरावोदञ्चनादिषु । घटरुचकादयस्तु नैकस्वभावाः, मार्दसौवर्णादीनां स्वभावानां भेदात् । निदर्श्यात्र “सूत्रं” योजयति—“तदिदमविशेषोक्ते हेतौ प्रतिषिद्ध” इति । अस्य निग्रहस्थानत्वमाह—“सति च हेत्वन्तरभाव” इति । अपि च यदि हेत्वन्तरवचने विश्वमेकप्रकृति साध्यते तदा निदर्शनं नास्ति, सर्वस्य पक्षे निक्षेपात् । अथ निदर्शनसिद्ध्यर्थं किञ्चित्पक्षाद् व्यतिरिच्यते, ततस्तेनैवानैकान्तिकत्वम् । अन्वितानामपि परिमितानां भिन्नप्रकृतिकत्वादित्याह—“हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शन” इति । हेतुः साधनम्, अर्थः साध्यः, तौ हेत्वर्थौ । निदर्शयति व्याप्यव्यापकभावेनेति निदर्शनः । हेत्वर्थयोर्निदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः । स यद्युपादीयते, ततो नेदं व्यक्तमेकप्रकृति भवति, दृष्टान्तस्य प्रकृत्यन्तरोपादानात् ।

“वार्त्तिकम्—साधनान्तरोपादाने पूर्वस्येति ।” दत्तोत्तरावसर एव वादिनि यदि प्रतिवादी हेत्वर्थं व्यभिचारयति, वादी च तृतीयपदके स्थितस्तं हेतुं विशेषयति, तदा किं साधनान्तरोपादानात् निगृह्यताम्, उतानैकान्तिकसाधनाभिधानात्18 ? न तावदनैकान्तिकसाधनाभिधानादस्य निग्रहो हेतुविशेषणेन तस्य समाहितत्वादिति । तस्माद्धेत्वन्तरवचनादेव निगृह्यते । “पूर्वस्य” वस्तुतोऽसमर्थस्यासामर्थ्यख्यापनात्, “सामर्थ्ये वा” हेत्वन्तरानर्थक्यादिति19 सूक्तम् ॥ ६ ॥

॥ इति प्रतिज्ञाहेत्वन्यतराश्रितनिग्रस्थानपञ्चकविशेषलक्षणप्रकरणम् ॥

प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्यनिग्रहस्थानचतुष्कप्रकरणम्

प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ॥ ५ । २ । ७ ॥

व्याचष्टे—“यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे” सति वादे जल्पे वितण्डयामित्यर्थः । “हेतुतः साध्यसिद्धौ प्रकृतायां” वादी साधनं “ब्रूयाद् नित्यः शब्दोऽस्पर्शत्वादिति” हेतुः इति । अत्रान्तरे सुखादिभिर्व्यभिचारेण स्वहेतोरसामर्थ्यं पश्यन् तत्प्रच्छादनाय प्रसक्तानुप्रसक्त्या तं तमर्थमुपन्यस्यन्नर्थान्तरेण निगृह्यते । “अभिधेयस्य क्रियान्तरयोगात्” क्रियाविशेषस्य योगात् “विशिष्यमाणरूपो” भिद्यमानरूपः “शब्दो नामेति ।” यथा वृक्षस्तिष्ठति, वृक्षं च्छिनत्ति, वृक्षेण चन्द्रमसं पश्यति, वृक्षायोदकमासिञ्चतीत्यादि । तदेवमभिधेयस्य क्रियाविशेषैर्योगाद् विशिष्यमाणरूपो भिद्यमानरूपः शब्दो नामेति । आख्यातस्वरूपमाह—“क्रियाकार कसमुदाय” इति । विषयेण विषयिणमुपलक्षयति । पचति पच्यत इत्यादयः शब्दाः क्रियां कारकं कर्तारं कर्म वा भिवदन्ति । तदेतल्लक्षणमसिद्धमतिव्यापकं च । न हि कर्ता कर्म वा आख्यातेनाभिधीयते, क्रियाक्षेपेणैव तयोः प्रतिलम्भात्, अनन्यलभ्यस्य च शब्दार्थत्वात् । कर्तृकर्मणोश्च कारकान्तरेभ्यो भावनायामभ्यर्हितत्वेन20 तत्सङ्ख्याभिधाननियमादसिद्धं कारकाभिधानम् । अतिव्यापकं च, पाचकः पाक्य इत्यादेर्नाम्नोऽपि क्रियाकारकसमुदायाभिधायित्वात् । तदस्मिन् लक्षणेऽपरितुष्यन् लक्षणान्तरद्वयेनाख्यातपदान्युपसङ्गृह्णाति—“कारकसङ्ख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम् ।” पचति पच्यत इत्यादौ कर्तुः कर्मणो वा सङ्ख्यया कालेन वर्तमानादिना विशिष्टा क्रिया प्रतीयते । कालश्च क्वचिदस्तीत्येतावतोक्तो न तु विवक्षितोऽत्र लक्षणे, पचेत यजेतेत्येवमादौ तद्योगाप्रतीतेः । अनेन च लक्षणेन स्थीयते सुप्यते इत्यादीनामाख्यातानामसङ्ग्रहः, कारकतत्सङ्ख्ययोरप्रतीतेः । अतस्तत्सङ्ग्रहाय द्वितीयं लक्षणमाह—“धात्वर्थमात्रं च कालाभिधानविशिष्टम् ।” अभिधीयते इत्यभिधानम् । “प्रयोगेष्विति” क्रियान्तरप्रयोगेषु । नाम्नो वा आख्यातस्य वा तदर्थाद् “अभिद्यमानरूपा निपाताः ।” यथा समुच्चयविकल्पादिनामपदैः समुच्चयादयः समुच्चेतव्यान्नामार्थादाख्यातार्थाद् वा भेदेनोच्यन्ते, तत्र षष्ठीप्रयोगात्, एषां समुच्चयो वा विकल्पो वेति । नैवं चवादयः स्वार्थान् नामार्थादाख्यातार्थाद् वा भेदेनाभिदधति । रूप्यन्ते प्रतिपाद्यन्ते रूपाणि । अर्थात् नामार्थादाख्यातार्थाद् वा अभिद्यमानं रूपं प्रतिपद्यमानं येषां निपातानां ते तथोक्ताः । “उपसृज्यमानाः” समीपे प्राक् प्रयुज्यमानाः । “क्रियावद्योतका उपसर्गाः ।” अवद्योतनं चोपलक्षणम् । अधिकार्था विपरीतार्थाश्चोपसर्गा दृश्यन्ते21 । यथाभ्यागच्छति प्रतिष्ठत इत्यादिषु । तदस्य निग्रहस्थानत्वं “वार्त्तिककार” उपपादयति—“अभ्युपगतेति ।” यथा च साधनवादिनोऽर्थान्तरं निग्रहस्थानम् एवमुत्तरवादिनोऽपि द्रष्टव्यम् ॥ ७ ॥

वर्णक्रमनिर्देशवन्निरर्थकम् ॥ ५ । २ । ८ ॥

“वर्णक्रमनिर्देशवद्” इति वतिः । अत्र यदा द्राविडः स्वभाषया तद्भाषानभिज्ञमार्यं प्रति शब्दनित्यत्वं प्रतिपादयति, तदा तन्निरर्थकं निग्रहस्थानम् । स खल्वार्यभाषां जानन्नसामर्थ्यप्रच्छादनाय तद्भाषानभिज्ञतया वा स्वभाषया साधनं प्रयुक्तवान् । सोऽयं पूर्वस्मिन् कल्पे विप्रतिपत्त्या निगृह्यते, उत्तरस्मिंस्त्वप्रतिपत्त्या । वस्तुतः साधनसामर्थ्येऽपि मूकवदार्यप्रतिपादकशब्दाप्रतिपत्तेस्तत्प्रतिपादनारम्भवैयर्थ्यात् । अत्रैव च दृष्टान्तमात्रतया वतिना वर्णक्रमो निदर्शितः, न पुनरेतदुदाहरणं निग्रहस्थानस्य, येन कपोलवादित्रादावपि प्रसङ्गः । यथा हि द्राविडस्यार्थभेदविवक्षोत्थापितं वचनं, नैवं वर्णक्रमनिर्देशः कपोलवादित्रं वा । अप्रतिपादकत्वसामान्याद् वर्णक्रम निर्देशवदिति दृष्टान्तः । अत+एवाह “भाष्यकारः, एवम्प्रकारमिति ।” न पुनरिदमेवेत्यर्थः ।

“वार्त्तिकम्—उदाहरणं भाष्य” इति । एवं प्रकारोदाहरणमित्यर्थः । “साधनानुपादानादिति ।” परप्रतिपादकं पञ्चावयवं वाक्यं साधनम् । तत्तु न वादिनोपात्तम्22 तस्य स्वसमयेन प्रतिपादकत्वेऽप्यार्यान् प्रत्यप्रतिपादकत्वादित्यर्थः ॥ ८ ॥

परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ ५ । २ । ९ ॥

यद् वाक्यं परिषदा प्रतिवादिना च न विज्ञायते समानसङ्केतेन वादिना त्रिरप्यभिहितम् । यावद्भिर्वारैः परिषत्प्रतिवादिनोरर्थप्रत्ययो भवति, स च प्रायेण त्रिभिरिति त्रिरभिहितमित्युक्तम् । ननु समानसङ्केतेन वादिना त्रिरभिहितमविज्ञातार्थं चेति न सम्भवति । सम्भवे वा परिषत्प्रतिवादिनौ जडौ । न च जडानवबोधे प्रतिपादकस्य कश्चिदपराधः न हि बधिरो गीतं न शृणोतीति गायनो23 निगृह्यते इत्यत आह— “श्लिष्टशब्दम् ।” असति प्रकरणादौ नियामके, यथा श्वेतो धावतीति । “अप्रतीतप्रयोगं” जर्भरी तुर्फरी तु इति । “अतिद्रुतोच्चारितमित्येवमादिना कारणेन, तदविज्ञातार्थम् ।” अस्य निग्रहस्थानत्वमाह—“असामर्थ्येति । वार्त्तिकं भाष्य”व्याख्यया गतार्थम् ॥ ९ ॥

पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ ५ । २ । १० ॥

यत्रानेकस्य पदस्याश्लिष्टस्य प्रतीतयोगस्याद्रुतोच्चारितस्य वाक्यस्य वानेकस्य पौर्वापर्येणार्थयोगः सम्बन्धो नास्तीति तस्मादसम्बद्धार्थता गृह्यते, तदपार्थकं निष्प्रयोजनं निग्रहस्थानम् । कस्मात् ? समुदायार्थस्य वाक्यार्थस्य महावाक्यार्थस्य वापायात् । वाक्यमहावाक्यार्थप्रत्यायनप्रयोजनो हि पदानां वाक्यानां वा प्रयोगः, असति तस्मिन्नपादर्थकमित्यर्थः । वाक्यस्य पौर्वापर्यासम्बन्धे उदाहरणमाह—“यथा दश दाडिमानि षडपूपा” इति । पदानां पौर्वापर्यासम्बन्धे उदाहरणमाह—“कुण्डमजाजिनम्” इति । “रौरुकं” रुरुसम्बन्धि । “पाय्यं” पाययितव्यम्24 । “अप्रतिशीनो” वृद्धः ।

“वार्त्तिककारः” शङ्कते—“निरर्थकापार्थकयोरिति ।” परप्रत्यायनप्रयोजनं हि वर्णोच्चारणम्25 । तत्र निरर्थकेनेवापार्थकेनापि न परः प्रतिपाद्यत इति उभयोरभेदः । न च वर्णमात्रमेकत्रानर्थकमन्यत्र26 तु पदानीत्येतावता भेदेनोपादानं युक्तम् । एकत्र वाक्योपादानमन्यत्र पदोपादानमित्यपार्थकयोरप्यवान्तरभेदवत्त्वे भेदोपादानप्रसङ्गादिति शङ्कार्थः । निराकरोति—“भिद्यते” इति । पृच्छति—“कथम् ?” उत्तरम्—“तत्र” हि निरर्थके “वर्णमात्रम्” अभिधेयशून्यम्, “इह तु” अपार्थके “पदानि” पद्यते गम्यतेऽभिधेयमेभिरिति पदानि वाक्यानि चामिधेयवन्ति “असम्बद्धानीति ।” निरभिधेयनिष्प्रयोजनयोर्निरर्थकापार्थकयोर्महान् विशेषः । न त्वीदृशो वाक्यपदयोर्निष्प्रयोजनयोर्विशेषो येनानयोरवान्तरभेदमाद्रियामहे । परप्रत्यायनप्रयोजनाभावमात्रविवक्षया त्वविशेषे सर्वनिग्रहस्थानाविशेषः, सर्वत्र परप्रत्यायनाभावात्, भावे वा निग्रहस्थानानुपपत्तेरिति ॥ १० ॥

॥ प्रकृतोपयोगिवाक्यार्थप्रतिपत्तिफलशून्यनिग्रहस्थानचतुष्कप्रकरणम् ॥

स्वसिद्धान्तानुरूपप्रयोगाभासनिग्रहस्थानत्रिकप्रकरणम्

अवयवविपर्यासवचनमप्राप्तकालम् ॥ ५ । २ । ११ ॥

व्याचष्टे—“प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः” लक्षणानतिक्रमेण क्रमः । उक्तमेतदस्माभिः प्रथम एवाध्याये—यदपेक्षिताभिधायिनो वचनात् परे प्रतिपद्यन्ते, नान्यस्य । तत्र प्रथमं साध्यनिर्देशोऽपेक्षितः परैर्न तु साधननिर्देशः । तद् यद्ययं प्रथमं साधनमेव प्रयुञ्जीत कथमपेक्षितं ब्रूयात् ? अनपेक्षिताभिधायी च कथं प्रतिपादको नाम ? तदेवं सर्वाण्येव हेत्वादिवचनानि अपि क्रमवन्ति, नाक्रमाणि प्रतिपादयितुमर्हन्ति, विपरीतक्रमेभ्योऽप्यनुक्रमानुसरणादेवार्थप्रतिपत्तेः । सोऽयं प्रतिज्ञादीनामर्थ एव वाक्यार्थः । स चैतादृशो य एषामनुक्रममन्तरेण न शक्यो ज्ञातुमिति । अवयवविपर्यासे त्वाकाङ्क्षाया एवाभावात् तत्पूर्वकत्वाच्च पदार्थसम्बन्धस्य असम्बन्धात् निग्रहस्थानमिति “भाष्यार्थः ।”

“वार्त्तिकम्—नैवमपि सिद्धेरित्येके ।” यथाहुरत्रापि न कश्चित् क्रमनियम इष्टार्थसिद्धेरुभयत्राविशेषादिति । यद्युच्येत, अर्थशब्दवदयमस्माकं समयो यदनेन क्रमविशेषेणार्थः प्रत्येतव्यो नान्येनेति, अतस्तथैव प्रतीयते न क्रमान्तरेणेत्यत आह—“समयानभ्युपगमाच्च ।” पदेष्वेव समयपूर्वकः प्रत्ययो न वाक्येषु, अभिनवकविरचितात् समयानपेक्षादेव27 वाक्याद् अर्थप्रतीतेः ।

स्यादेतत् । वाक्येष्वपि क्रमनियमो दृष्टः, यथा पाचयां बभूवेति न पुनर्बभूव पाचयामिति । अत आह—“प्रयोगाच्चेति ।” तत्र लौकिकः प्रयोगो नियतः, इह त्ववयवव्यत्ययस्यापि दृष्टः प्रयोग इत्यर्थः । तदेतद् दूषयति—“यत् तावन्नैवमपि सिद्धेरिति,” तत्रोत्तरम्—“प्रयोगापेतशब्दवदेतत् स्यात् ।” एतदेव विवृणोति—“यथा गौरित्यस्य पदस्यार्थे गावीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रतिपादयतीति ।” यद्यपि शब्दानामर्थप्रत्यायनं न स्वाभाविकं तथापि परमेश्वरसङ्केतपूर्वकमद्ययावदनुवर्तते । अत+एव च साधवोऽर्थभेदे शब्दभेदा येषां पारमेश्वरसङ्केतः, तदसङ्केतात्तु प्रवर्तमाना अप्यर्थेष्वसाधवः शब्दा अपभ्रंशा भवन्ति । तदपेक्षाश्च साधुभिर्भाषितव्यमित्यादयो विधयो धर्मेषु, निन्दार्थवादाश्च— मन्त्रो हीनः स्वरतो वर्णतः इत्यादयः । वेदानां च प्रामाण्यं प्रतिपादितं द्वितीयेऽध्याये । न चायमर्थो ये ये साधवः शब्दास्ते सर्वे धर्महेतव इति, किं तु धर्मानुष्ठाने तदनुरूपे भाषणे प्राप्ते साधुभिरेवेति नियम्यते । तदेवं व्यवस्थिते अविशेषेण गोगाव्यादिशब्दा आर्येण प्रयुज्यमाना दृश्यन्ते, तत्रैते किमविशेषेणैव साधव उत कश्चिदेकः साधुः, तत्पूर्विका चेतरेभ्यः प्रतिपत्तिः28 । तत्रैकशब्दस्य साधुत्वकल्पनायामितरस्मात् तन्मूलतयार्थप्रतिपत्त्युपपत्तेः न सर्वत्र साधुत्वकल्पना युक्ता । यथाह स्मात्र भगवान् “जैमिनिः”— अन्यायश्चानेकशब्दत्वम्29 इति । तत्रापि कतमस्यासाधुत्वमित्येकस्यैतेष्विति जिज्ञासायाम्— तत्र तत्त्वमभियोगविशेषात् स्यात्30 इति । योऽभियुक्ततमैः “इन्द्रपाणिनि”प्रभृतिभिः साधुत्वेनाविगानतः स्मर्यते स साधुः, असाधव इतर इति निश्चीयते । तेन यद्यपि लौकिका गाव्यादिशब्देभ्य एव गवाद्यर्थमधिगच्छाम इति दृष्टार्थमात्रव्यवहारिणः प्रतियन्ति, तथापि परीक्षकाणां विचारयतामेष विचारक्रमो यद् वृद्धतमेन गोशब्दे प्रयोक्तव्ये प्रमादाद् गावीशब्दः प्रयुक्तः, ततश्च वृद्धतरेण गोशब्दमुन्नीय गोत्वं प्रतीयते । यथाहुः अम्बाम्बेति यदा बालः शिक्षमाणः प्रभाषते ।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते31

पार्श्वस्थस्त्वतोऽनेन मूलशब्दमुन्नीयार्थः प्रतीयते इत्यगृहीत्वैव गावीशब्दादेवायममुमर्थं प्रतीतवान् इति तमेव गोत्वस्य वाचकत्वमवगम्यान्येषां वृद्धो बभूव । ततः प्रभृत्यननुसृतमूलशब्दानामयं वाचकत्वभ्रमोऽपभ्रंशेऽनुवर्तते, तेन वृद्धतरस्योभयवेदिनो मूलशब्दानुसारिणी पदार्थप्रतिपत्तिः, इदानीन्तनानां त्वपभ्रंशादेव । अत+एवान्वाख्यानमपि प्रयोजनवत् । असत्यस्मिन् वाचकादपभ्रंशविभागे ज्ञानाभावात् साधुभिर्भाषितव्यमिति नियमविधेः न म्लेच्छितवै नापभाषितवै इति निषेधस्य च विषयसंशयेन दुरधिगमत्वेन धर्मानुष्ठानस्याशक्यत्वप्रसङ्गात् । यत्रार्थे यस्य शब्दस्य भगवतेश्वरेण सङ्केतः कृतः स तत्र साधुरसाधुरन्यत्र । यथा य एवाश्वशब्दो दरिद्रेऽसाधुः, स एव साधुर्वाजिनि प्रयुज्यमानः । यथा नकुलदन्ताग्रस्पृष्टा या काचिदोषधिरसौ सर्पविषं हन्ति, एवमीश्वरेण कृतसङ्केतः शब्दः साधुर्धर्म उपयुज्यते नान्य इति । यववराहादिशब्दानां चार्यम्लेच्छयोरर्थविवादे वैदिकाद् वाक्यशेषादार्यसम्मतोऽर्थो ग्रहीतव्यो न म्लेच्छसम्मतः, तत्र वैदिकवाक्यशेषविरोधात् । येषां तु शब्दानामार्येषु न दृष्टचरः प्रयोगः, केवलैम्लेच्छैरेवार्थभेदे प्रयुज्यन्ते, यथा पिकनेमतामरसादयः, वेदे च प्रयुक्तास्तेषां म्लेच्छव्यवहारादेवार्थोऽवधारणीयः, तत्र तेषामभियोगादिति, आर्यव्यवहारापरिपन्थित्वाच्च । तदेवं व्यवस्थिते “न्यायमीमांसा”परिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः । तस्मात् सुष्ठूक्तं—“प्रयोगापेतशब्दवदिति । न च शब्दान्वाख्यानं व्यर्थमिति चेति ।” प्रतिज्ञादीनां क्रमनियमकारणं प्रश्नपूर्वकं दर्शयति—“एतत् कथम् ? पूर्वं तावदिति ।” द्वितीयं देश्यमनुभाष्य परिहरति—“यत् पुनरेतत् समयानभ्युपगमादिति । सोऽयमर्थस्यानुपूर्वीं” प्रतीतिबलप्रवृत्ताम् “अन्वाचक्षाणो नाभ्याख्येय” इति नोपालभ्यः । “शास्त्रे वाक्यान्यर्थसङ्ग्रहार्थमुपादीयन्ते” इति । न हि शास्त्रे कृ तृ रा स दिवा दर भूत दिवा32 इत्यर्थसङ्ग्रहो यथा कथञ्चित् क्रियत इति कथायामपि तथा क्रियतामिति युक्तम्, वादादिषु पक्षप्रतिपक्षवद् वक्त्रोरपि परीक्ष्यमाणत्वात्, परीक्षतस्य च शास्त्रितत्वादिति ॥ ११ ॥

हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ ५ । २ । १२ ॥

प्रतिज्ञादीनां पञ्चावयवानां मिलितानां साधनत्वमुपपादितम् । न्यूनत्वे तु साधनत्वं नास्ति । तदभावे न साध्यसिद्धिः । न हि सामग्रीनिष्पाद्यं कार्यं सामग्र्येकदेशाद् भवतीत्यर्थः । परेषां मतमुपन्यस्यति—“एके त्विति ।” एके तु प्रतिज्ञान्यूनं नाम निग्रहस्थानं नास्तीति ब्रुवते । दूषयति—“एतत्तु न युक्तमिति ।” किं प्रतिज्ञान्यूनं निग्रहस्थानान्तरं न भवति, अथ निग्रहस्थानमेव न भवतीति ? एतदेव आह—“किमयं निगृह्यते अथ नेति ।” प्रथमकल्पे दोषमाह—“यदीति ।” द्वितीये पक्षे दोषमाह—“अथ न निग्रह” इति । प्रतिज्ञायाः साधनाङ्गत्वमुक्तमित्यर्थः । “यच्च ब्रवीषि दिग्नाग, सिद्धान्तपरिग्रह एवेति ।” एतत्तु दूषयति—“एतदपि” इति । सिद्धसाध्यार्थयोः सिद्धान्तप्रतिज्ञयोर्महान् भेद इत्यर्थः ॥ १२ ॥

हेतूदाहरणाधिकमधिकम् ॥ ५ । २ । १३ ॥

“तदेतन्नियमाभ्युगम” इति “भाष्यम् ।” यत्र कथमेतत् साध्यं सिध्यत्विति जिज्ञासा, तत्रैकेनैव साधनेन साध्यसिद्धेः साधनान्तराभिधानमनर्थकम् । निष्पादितक्रिये कर्मणि अविशेषाभिधायिनः साधनस्य साधनन्यायातिपातात् । यत्र तु प्रतिवादिनः परिषदो वा जिज्ञासा भवति, कति साधनानि सम्भवन्त्यस्मिन् साध्य इति, तत्र यावन्ति साधनानि सम्भवन्ति तानि सर्वाण्येव वाच्यानि, अन्यतमानभिधानेन33 निग्रहप्रसङ्गादिति ।

नाधिकं निग्रहस्थानमिति य आहुः तन्मतमुपन्यस्यति—“तच्च न, दार्ढ्यात्” इति । दूषयति—“न, दार्ढ्यार्थेति ।” यदि निश्चयो दार्ढ्यं तदेकस्मादेव प्रमाणाद् भवति, अनिश्चायकस्याप्रमाणत्वात् । अथ स्फुटत्वम्, तदपि चेन्निश्चयः स दत्तोत्तरः । अथ सामान्यविशेषतद्वतां ग्रहणम्, न तदनुमानसहस्रैरपि, तेषां सामान्यवद्द्रव्यमात्रविषयत्वात् । शङ्कते—“अथ ब्रवीषि, द्वे अपि” ते “ज्ञापके” इति । नास्माकमनधिगतार्थगन्तृ प्रमाणम्, येनैकेनाधिगते प्रमाणान्तरमप्रमाणं स्यात्, अपि तु गन्तृमात्रं प्रमाणम् । तच्च द्वितीयस्याप्यविशिष्टमिति शङ्कार्थः । निराकरोति—“सत्यं द्वे अपि ज्ञापके” इति । पुरुषोऽत्रापराध्यति यो ज्ञातमर्थमजिज्ञासितं ज्ञापयति, न तु प्रमाणम् । तद्धि सामर्थ्येन मेये प्रवर्तते एव । यदि जिज्ञासायां सत्यां प्रवर्तते प्रतिपादयति ज्ञेयम्, नास्य कश्चिदपराध इति । न हि धान्येष्वलूनेषु दात्रमव्रश्चनं भवति । तस्मादनपेक्षितकरणादनवस्थानप्रसङ्गाच्च पुरुषस्य निग्रह इति स्थितम् ॥ १३ ॥

॥ इति स्वसिद्धान्तानुरूपप्रयोगाभासनिग्रहस्थानत्रिकप्रकरणम् ॥

पुनरुक्तनिग्रहस्थानप्रकरणम्

शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥ ५ । २ । १४ ॥

अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥ ५ । २ । १५ ॥

तदनेन सूत्रद्वयेन पुनरुक्तमेकम्मेव निग्रहस्थानं कथञ्चिदवान्तरभेदविवक्षया त्रिविधमुक्तं प्रपञ्चार्थम् । तदेव पुनरुक्तं क्वचित् शब्दाभ्यासात्, क्वचित् पर्यायान्तरात्, क्वचिदर्थादिति । आक्षिपति—“नाबाधनादिति ।” समाधत्ते—“सत्यमिति ।” जल्पवितण्डयोर्वक्तुर्नैपुण्यं चिन्त्यते । पुनरुक्तप्रयोगे त्वनिपुणः स्यात् । अनपेक्षिताभिधानात् साधनस्य विषयः साध्योऽर्थो न सिद्धः । तस्यापरिज्ञानान्निगृह्यते । वैयर्थ्यं चानर्थक्यं विरुद्धप्रयोजनत्वं वाभिमतम् । तथा हि पुनरुक्तप्रयोगे तत्प्रयोजनानुसरणसमाकुलचित्तः प्रथमाभिधानादापाततः प्रतीतमप्यर्थमप्रतीतमिव मन्यमानो न निश्चेतुमर्हति । ततश्च प्रतिपादनाय प्रवृत्तो विप्रतिपादयेदिति34 विरुद्धप्रयोजनवत्त्ववैयर्थ्यं35 स्यादित्युपपन्नं पुनरुक्तं निग्रहस्थानमिति ॥ १५ ॥

॥ पुनरुक्तनिग्रहस्थानप्रकरणम् ॥

उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्

विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ॥ ५ । २ । १६ ॥

व्याचष्टे—“विज्ञातस्य वाक्यार्थस्येति ।” निग्रहस्थानत्वेऽस्योपपत्तिमाह— “अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयादिति ।”

“वार्त्तिकम्—नेदं निग्रहस्थानमिति केचित् । उत्तरेण” उत्तरगुणदोषनिरूपणेन प्रतिवादिनो मूढत्वामूढत्व्“आवस्थानात् ।” एतद्विभजते—“उत्तरेण गुणदोषवतेति ।” तस्मात् किं पुनरुच्चारितेनोच्चारणेनास्ति प्रयोजनमिति शेषः । अस्ति हि कश्चिदिति क्वचित् पाठः । तत्रास्ति हि इति निपातद्वयं वाक्यावतारे द्रष्टव्यम् । पुंसां विचित्रस्वभावत्वात् कश्चिदुत्तरे समर्थो न प्रत्युच्चारणे । नासौ सदुत्तरमभिदधानः तावताननुभाषणमात्रेण निग्रहमर्हति । ननु यद्यननुभाषणं न निग्रहस्थानं तदानुभाषितुमुपक्रम्य सर्वमननुभाषमाणो न निगृह्येतेत्यत आह—“यस्त्वारभ्य न निर्वाहयेत्” सदुत्तरं तु ब्रूयात्, “तस्य स्यात् खलीकारमात्रम्” असामर्थ्यकृतम्, न तु तत्त्ववादित्वविहतिरित्यर्थः । तमेतं “भदन्ता”क्षेपं समाधत्ते—“नोत्तरविषयापरिज्ञानादिति ।” दूष्यविषयं हि दूषणम्, असति दूष्याभिधाने न शक्यं वक्तुम् । न खलु प्रतिज्ञाहेतूदाहरणोपनयनिगमनदोषास्तत्स्वरूपमनभिधाय शक्या दोषत्वेनावस्थापयितुमित्यप्रत्युच्चारयन् न दोषमभिधातुमर्हतीति । तदिदमुक्तम्—“तदिदं व्याहतमुच्यते नोच्चारयति उत्तरं च ब्रवीतीति ।”

स्यादेतत् । न प्रतिवादिना तावत् सर्वं दूषणीयम्, अन्यतमावयवदूषणेनैव साधनस्य दूषितत्वेन दोषान्तराभिधानस्य वैयर्थ्यात् । न खलु मृतो मृत्युना रक्षितो मारयितुं शक्यः, एवं दूषितमपि दूषयितुम् । तस्मात् सत्यपि दूष्यबाहुल्येऽन्यतमं दूषणीयम् । तथा च सर्वानुभाषणे सर्वस्यादूष्यत्वाद् यद् दूषणीयं तत् पुनरनूद्यमिति सर्वानुवादे द्विरनुवादोऽदूष्यानुवादश्चेति दूषकनिग्रहस्थानद्वयम् । तस्मादनुभाषणमेव निग्रहस्थानमिति विपरीतमापतितमित्यत आह—“अप्रतिज्ञानाच्चेति ।” एतद्विभजते—“न चेदं प्रतिज्ञायते”—पूर्वमेकग्रन्थेन सर्वमुच्चारयितव्यम्, पश्चादुत्तरं यद् दूष्यं तदनुवादेनाभिधेयम्, येन दूष्यानुदो द्विरनुवादश्च दोषौ स्याताम्, अपि तु यथाकथञ्चिदुत्तरं वक्तव्यम् । उत्तरवादपरस्योत्तरमाश्रयाभावे न युक्तमिति तदाश्रययात्रमनुवदितव्यम्, तदन्तरेणाशक्याभिधानत्वादुत्तरस्येति । तस्माद् युक्तं तन्मात्रस्याप्रत्युच्चारणं निग्रहस्थानम्, न तु सर्वस्याप्रत्युच्चारणमित्यर्थः36

नन्वप्रतिभाया निग्रहस्थानत्वविधानेनाननुभाषणस्यापि विदितम्, तस्य तद्विशेषत्वात् । न खलु नानुभाषत इत्येतावतैव निगृह्यते, अपि त्वननुभाषमाणो दूष्यं न बुध्यते । अबुध्यमानश्च तत्रोत्तरं न प्रतिपद्यत इत्यप्रतिभया निगृह्यते । तदेवमननुभाषणमप्रतिभाविशेष इति अप्रतिभायां विहितं निग्रहस्थानत्वं तद्विशेषेऽपि विहितं भवति । यथा गवि सास्नादिमत्त्वं विहितं शाबलेयेऽपि विहितं भवति, न पुनस्तत्र सास्नादिमत्त्वविधानाय पृथक् प्रयत्नान्तरमारभन्ते । अत्र ब्रूमः, न पुनरुत्तराप्रतिपत्तिसामान्यस्य विशेषोऽननुभाषणम्, पुंसा सामर्थ्यवैचित्र्यात् । कश्चिद् दूष्यं च दूषणं च विदन्नपि नानुभाषितुं पारयति बहुवचनकुण्ठत्वात् । तस्मात् असत्यामप्यप्रतिभायाम् अननुभाषणसम्भवात् नाप्रतिभाया विशेषोऽननुभाषणं नाम । कश्चित् तु दूषणविषयं वेद, अनुभाषते च, उत्तरप्रतिपत्तिविकलस्तु स्यात् । सोऽयमप्रतिभया निगृह्यते, नाननुभाषणेन, तत्र तस्य सामर्थ्यात् । कश्चित् पुनर्दूष्यमेव न जानाति । सोऽज्ञानेन निगृह्यते । न चाज्ञानेऽननुभाषणमवश्यम्भावि, धारणावतोऽर्थानिरूपणेऽपि वाद्युदीरिताक्षरस्वरूपमात्रपाठसम्भवेनानुभाषणोपपत्तेः । अप्रतिभा त्ववश्यं भवेत् । न ह्यस्ति सम्भवो दूष्यं न वेद, अस्य दूषणं तु वेदेति । तथापि स्वरूपतस्तावद् भेदः । न हि यदेव दूषणविषयमज्ञानमप्रतिभा, तदेव दूष्यविषयमज्ञानम् । तस्मात् सत्यप्यननु भाषणाप्रतिभाज्ञानानामुत्तरानभिधानफलत्वे तुल्ये, अवान्तरभेदविवक्षया भेदेनोपन्यासः ।

“त्रिरभिहितस्येति ।” त्रिरभिधानमेवमप्यप्रतिपद्यमानस्यातिजडतया न वादेऽधिकार इत्यभिसन्धिमत इति ॥ १६ ॥

अविज्ञातं चाज्ञानम् ॥ ५ । २ । १७ ॥

तद् व्याचष्टे—“विज्ञातार्थस्य परिषदेति ।” निग्रहस्थानसामान्यलक्षणमत्र योजयति “वार्त्तिककारः—अप्रतिपत्तितो निग्रहस्थानमिति” ॥ १७ ॥

उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ ५ । २ । १८ ॥

तद्व्याचष्टे—“परपक्षेति । वार्त्तिकं—श्लोकपाठादिभिरवज्ञान्दर्शयन्निति ।” अर्थान्तरे हि निग्रहस्थाने प्रसक्तानुप्रसक्तं तत्सिद्ध्यर्थताव्याजेनावतारयता न प्रकृतावज्ञानं क्रियते, इह त्ववज्ञानम् एतावता भेदेनोपन्यास इति । इयं चाप्रतिभासम्यक्साधनोपन्यासे द्रष्टव्या । साधनाभासोपन्यासे तु पर्यनुयोज्योपेक्षणम् ॥ १८ ॥

कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥ ५ । २ । १९ ॥

साधनस्य दूषणस्य चोपन्यासमभ्युपगम्य तदवस्थः प्रतीयमान एव प्रतिवादिनो वादिनो वा दार्ढ्यं सभ्यानां वा कठोरत्वमवगम्याकस्मात् कार्यं व्यासज्याभ्युपगतां कथां व्यच्छिनत्ति, तत्र विक्षेपो नाम निग्रहस्थानं भवति । तदनेनाभ्युपगम्याप्रतिभया तूष्णीम्भावोऽपि सङ्गृहीतो वेदितव्यः । कार्यव्यासङ्गस्याभ्युपेतकथाविच्छेदमात्रोपलक्षणपरत्वात् ।

न चेदमर्थान्तरम्, तत्र प्रकृतमेव साधयामीति व्याजेन प्रसक्तानुप्रसक्तावतारेण कथाविच्छेदाभावात् । इह तु कथाविच्छेदात् । न चास्य हेत्वाभासेष्वन्तर्भावः । न हि विक्षेपस्यान्यतमलिङ्गधर्मानुविधानम्, नापि प्रकृतसाध्यसिद्धये प्रयोगो येन हेत्वाभासः स्यात् । न च वादिनो विक्षेपो हेत्वाभासः, उपन्यासानन्तरं कथामभ्युपेत्यैव हेतुमनभिधायापसरणात् । यदि चायं सम्यञ्चं हेतुमभिधाय तत्समर्थनासमर्थोऽपसरेत्, किमेतावता न निगृह्येत, हेत्वाभासोपन्यासेन वा निगृह्येत, किं तु व्यासङ्गादेव । अनर्थकापार्थकाभ्यां तु भेदोऽस्य स्फुटतर एव । न ह्यत्रासमानसङ्केतः प्रतिपादको येनानर्थकः स्यात् । नापीहार्थप्रतिपादकानि पदानि वाक्यानि वा पौर्वापर्येणासम्बन्धानि येनापार्थकः स्यात् । न चात्रावज्ञानं येनाप्रतिभा भवेत् । तस्माद्विक्षेपः पृथङ् निग्रहस्थानमिति सिद्धम् ॥ १९ ॥

॥ इति उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् ॥

दोषनिरूप्यमतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्

स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥ ५ । २ । २० ॥

व्याचष्टे—“यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्य,” कथं ज्ञायते अभ्युपगम्यत इत्यत आह—“अनुद्धृत्येति ।” अनभ्युपगमेऽसाबुद्धरेदिति भावः ।

“वार्त्तिकम्—किं तु” परस्वेनानतिसृष्टेनादत्तेनेत्यर्थः । “प्रसङ्गविधानान्न निग्रहस्थानमित्यन्य” इति । यदि पुरुषत्वाच्चौरोऽहं ततो भवानपि चौरः स्यात् । न च भवत एवमिष्टम् । तस्मात् त्वयैवानैकान्तिकत्वात् नायं हेतुरिति प्रसङ्गविपर्ययः । तस्मान्नात्मनश्चौरत्वमनेनाभ्युपगतमिति न मतानुज्ञा निग्रहस्थानमित्यर्थः37 । निराकरोति—“एतत् तु न ।” कस्मात् ? “अत एव ।” कुतः ? “यत एवासौ उत्तरे वक्तव्ये प्रसङ्गं करोति” अत+एव निगृह्यते । यदि हि वादी प्रतिवादिनं ब्रूयात्—सत्यमहं चौर एवेति, तदा किमनैकान्तिकं38 शक्नुयात् कर्तुम् ? तस्मात् पुरुषत्वं न चौर्ये हेतुः,39 अपि तु परस्वेनादत्तेन सम्बन्ध40 इत्युत्तरे कर्तव्ये यदुत्तराभासमाह, तेन ज्ञापयति, नूनमयं सम्यगुत्तरं न जानाति इत्युत्तरापरिज्ञानान्निगृह्यते । तच्चोत्तरापरिज्ञानं मतानुज्ञाद्वारेणोद्भाव्यमानं मतानुज्ञेत्युच्यते ॥ २० ॥

निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ ५ । २ । २१ ॥

व्याचष्टे—“पर्यनुयोज्यो नामेति । निग्रहस्योपपत्तिः” प्रमाणतः सिद्धिस्तया इत्यर्थः । एतत्तु न तावद् वादिनोद्भावनीयम्, न ह्यसौ स्वसाधनावद्यमनुन्मत्त उद्भावयति । नापि प्रतिवादिना, न ह्यनुन्मत्त आत्मनात्मानं निगृह्णाति । अपि तु पर्यनुयोज्यं जानानः कस्मादुपेक्षते ? तस्मात् सभापतिना वादिप्रतिवादिभ्यां वा पर्यनुयुक्तया वा परिषदा तन्निग्रहस्थानमुद्भावनीयम् । अत्र च तत्त्वनिर्णयावसाने वादे द्वयोरपि निग्रहात् परिषदेव विजयते । जल्पवितण्डयोस्तु तत्त्वानपेक्षपुरुषसामर्थ्यपरीक्षणप्रवृत्तयोः प्रतिवादी निगृह्यते, साधनाभासवादिनापि वादिना स्फुरता प्रतिवादी स्तम्भितो यतः । सम्यक्साधनोपन्यासे विहिते वादिनः प्रतिवादिन उत्तराप्रतिपत्तिरप्रतिभा । साधनाभासोपन्यासे च उत्तराप्रतिपत्तिः पर्यनुयोज्योपेक्षणमिति विशेषः ॥

“वार्त्तिकम्—नान्यवचनादित्येके ।” यत्र प्रतिवादी तूष्णीं भवति तत्र तूष्णीम्भावेनैव वादिन उत्तरानर्हतां दर्शयन्नस्य साधनाभासवादितां सूचयति । यत्रास्य दोषोद्भावनं सम्यग्दोषमनुक्त्वा करोति, तत्राप्यसौ दुष्टमुत्तरं ददत् तत्साधनदोषमेव सूचयति । उपदिशन्ति हि वृद्धाः, दुष्टे हि साधने दुष्टमुत्तरं देयमिति । तस्मादवचनेऽन्यवचने वा न पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानमुभयथाप्यनुपेक्षणादित्यर्थः । दूषयति—“तच्च नेति ।” साधनस्य हि सम्यञ्चं दोषं जानानः तमेव ब्रूयात् । सोऽयं प्राप्तावसरोऽब्रुवन् विब्रुवन् वा नूनं न सम्यञ्चं दोषं विजानाति । विनिश्चितप्रमाणभावस्य हि पुरुषस्येङ्गितादिभिरभिप्रायः सूच्यते, न त्वनिश्चितप्रमाणभावस्य41 । यथाहुः श्रुतिस्मृत्यतिरेकेण42 युक्तजल्पाकभाषितम् ।
तद्यथाश्रुति दुष्टं चेद् दुष्टमेवावधार्यताम् ॥

इति । तस्मात् सुष्ठूक्तं—“जानानो ह्यसौ43 किमर्थमन्यद् ब्रवीतीति” ॥ २१ ॥

अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥ २२ ॥

न चायमप्रतिभातो न भिद्यते । सा ह्युत्तराप्रतिपत्तिः, इयं त्वनुत्तरस्यैवोत्तरत्वेन विपरीतप्रतिपत्तिरिति महान् विशेषः । अनेन च सर्वा एव जातयो44 निग्रहस्थानत्वेन सङ्गृहीता भवन्ति । न च हेत्वाभासानामितो न भेदः, ते हि वादिनो निग्रहस्थानम्, अयं तु प्रतिवादिन इति महान् विशेषः । अत+एव भवतामपि गाथा, असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते45

अप्रतिभाया एव प्रसज्यप्रतिषेधात्मिकाया अस्या निरनुयोज्यानुयोगस्य भेदं दर्शयति “भाष्यकारः—निग्रहस्थानलक्षणस्य मिथ्याध्यवसायात्” समारोपादित्यर्थः । सुगमं “वार्त्तिकम्” ॥ २२ ॥

॥ इति दोषनिरूप्यमतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम् ॥

कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्

सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥ ५ । २ । २३ ॥

“सिद्धान्तमभ्युपेत्य” इत्यस्य व्याख्यानम्—“कस्यचिदर्थस्य तथाभावं प्रतिज्ञायेति । प्रतिज्ञातार्थविपर्ययादिति”—अभ्युपगतार्थविपर्ययात्, सिद्धान्तविपर्ययादिति यावत् । तदेतद् अनियमात् इत्यस्य व्याख्यानम् ।

अत्र “साङ्ख्यीयं” सिद्धान्तमाह—“यथा न सदिति ।” तस्य पर्यायान्तरेण कथनम्—“न सतः” इति । “नासदात्मानम्” इत्यस्य पर्यायान्तरेण विवरणम्— “नासदुत्पद्यते” इति । सोऽयं सिद्धान्तः “साङ्ख्यानाम् ।” तमभ्युपेत्य तद्विपर्ययात् कथाप्रसङ्गमाह—“स्वपक्षं व्यवस्थापयति ।” पक्षावस्थानं दर्शयति, एका प्रकृतिर्व्यक्तस्योपलभ्यमानस्यार्थजातस्य युक्ता इति प्रतिज्ञा । “विकारणाम्” इति व्यक्तस्यैवानु वादः । “अन्वयदर्शनात्” इति हेतुः । “मृदन्वितानाम्” इति साधर्म्योदाहरणम् । “तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो गृह्यते इत्युपनयः ।” निगमनमाह—“तस्मात् समन्वयदर्शनात्” विश्वस्य व्यक्तस्य, कैरित्यपेक्षायाम् उत्तरम्—“सुखादिभिरिति ।” एकप्रकृतिः सर्वो विकार इति सेयं कथा । सिद्धान्तमभ्युपेत्यैवमुक्तवान् “साङ्ख्यो नैयायिकेन अनुयुज्यते” दूषणाय पृच्छ्यते—“अथ प्रकृतिर्विकार इति कथं लक्षितव्यमिति ।” स एवं “नैयायिकेन” पृष्टः “साङ्ख्य” उत्तरमाह—“यस्यावस्थितस्य” मृदादे“र्धर्मान्तरनिवृत्तौ” शरावविनाशे यद् “धर्मान्तरं” मणिकादि “प्रवर्तते” असदेव जायते सा प्रकृतिर्मृत्सुवर्णादिः । यत् तद् धर्मान्तरं निवर्तते प्रवर्तते वा, स विकार इति । अस्मिन्नुदाहरणेऽपसिद्धान्तं योजयति—“सोऽयं प्रतिज्ञातार्थस्य” सिद्धान्तस्य वादी “विपर्यासादनियमात् कथां प्रसञ्जयति । प्रतिज्ञातं खल्वनेन” सिद्धान्तिना46 नासदाविर्भवति उत्पद्यते । “न सत्तिरोभवतीति न” विनश्यतीति । तथापि कस्मादनेन सिद्धान्तो बाध्यते, अथ सिद्धान्तेनैव कस्मान्न बाध्यत इत्यत आह—“सदसतोश्चेति ।” इदं हि लौकिकं प्रमाणसिद्धम्, सिद्धान्तस्त्वभ्युपगममात्रसिद्धो न प्रामाणिकः । तस्मादनेन सिद्धान्तो बलवता बाध्यते । “तदेतन्मृद्धर्माणामपि न स्यादिति ।” न केवलं प्रेक्षावतां कर्तॄणाम्, अपि तु मृद्धर्माणामप्युत्पादविनाशौ47 प्रवृत्त्युपरमौ दृश्यमानौ न स्यातामित्यर्थः । “एवं प्रत्यवस्थितः साङ्ख्यो नैयायिकेन” पृष्टो “यद्यसत आत्मलाभं सतश्चात्महानमभ्युपैति, ततोऽस्यापसिद्धान्तो भवति । अथ नाभ्युपैति, पक्षोऽस्य न सिद्ध्यतीति ।” विकारा हि अनेन पक्षीकृता एकप्रकृतिकत्वेन, तत्र विकारलक्षणाभावेन विकाराणामनिरूपणात् तदभावे न प्रतिज्ञार्थो न च हेत्वर्थः, आश्रयासिद्धत्वात् ।

नन्वेवं प्रतिज्ञातार्थविरोधित्वात् सतो निरोधस्य असतश्चोत्पादस्य48 हेत्वाभास एव निग्रहस्थानं भवेत्, प्रतिज्ञाविरोधो वेत्याशङ्क्य “वार्त्तिककार” आह—“प्रतिज्ञातार्थ व्यरिरेकेणेति ।” न ह्यत्रैकप्रकृतयो विकारा एकप्रकृतिकत्वादिति49 हेतुः साध्यविरुद्धेन व्याप्त उद्भावितो येन विरुद्धो भवेत् । नाप्येकप्रकृतिकत्वं विकाराणां शब्दतो विरुद्धं समन्वयेन हेतुना, येन प्रतिज्ञाविरोधो भवेत् । वैभवमात्रेण च प्रतिज्ञाहेत्वोर्विरोध50 इत्यत्रोक्तं “वार्त्तिककृता स्वसिद्धान्तस्य गोत्वादेर्नित्यत्वविरोधाद् विरोध”51 इति । अपि च तत्र बलवता सिद्धान्तेनानैकान्तिकदेशना बाध्यते । इह तु सिद्धान्त एव बाध्यते दुर्बल इत्युदाहरणपौनरुक्त्यमपि नास्ति । तस्माद् यत्र प्रतिज्ञार्थेन विरोधः तत्र विरुद्धो हेत्वाभासः प्रतिज्ञाविरोधो वा । इह तु प्रतिज्ञार्थव्यतिरेकेणाभ्युपगमान्तरेण विरोध इति पुरुषस्य पूर्वापरविरुद्धार्थाभिधायिनोऽसामर्थ्यान्निग्रहस्थानं जल्पवितण्डयोरिति सिद्धम् ॥ २३ ॥

हेत्वाभासाश्च यथोक्ताः ॥ ५ । २ । २४ ॥

व्याचष्टे—“हेत्वाभासाश्चेति ।” यद्यनुक्तमपि किञ्चिदवशिष्यते निग्रहस्थानं तत् चकारेण समुच्चेयम् । “यथोक्ता” इति सूत्रावयवनिराकरणीयां शङ्कामाह—“किं पुनर्लक्षणान्तरयोगात् हेत्वाभासा निग्रहस्थानतामापद्यन्ते, यथा प्रमाणानि प्रमेयत्वम्,” तेषामेव प्रत्यक्षादीनामुपलब्धिसाधनत्वेन लक्ष्यमाणानां प्रमाणानां प्रमाणत्वम्, प्रमाव्याप्यतया तु प्रेमयत्वमिति, लक्षणान्तरेण प्रमाणानि प्रमेयत्वं प्रतिपद्यन्ते इति शङ्कायाः सम्भवात् । अत आह भगवान् “सूत्रकारः—यथोक्ता” इति ।

सकलशास्त्रार्थमुपसंहरति—“त इमे प्रमाणादय उद्दिष्टा लक्षिता परीक्षिताश्चेति ।” इतिः शास्त्रपरिसमाप्तौ ।

“वार्त्तिककारः” सङ्गृह्णाति—“जातीनां सप्रपञ्चानामिति । निग्रहस्थानलक्षणमिति” समासेन जातीनामपि प्रतिवादिनिग्रहस्थानेऽस्ति निवेश इति सूचयति । “शास्त्रस्य चोपसंहार” इति, “त इमे प्रमाणादय उद्दिष्टाः” इत्यनेन कृत इत्यर्थः ॥ २४ ॥

॥ इति कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम् ॥

यदलम्भि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।
उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥

संसारजलधिसेतौ वृषकेतौ सकलदुःखशमहेतौ ।
तस्य फलमखिलमर्पितमेतेन प्रीयतामीशः ॥

तत्त्वज्ञानप्रसवसुरभिर्गूढबह्वर्थजाता
सेयं मोक्षामृतमयफला सूक्तिमञ्जुप्रबाला ।
प्रत्यक्षाप्तागममयमहान्यायमूला मनोज्ञा
टीकावीरुद् भवतु कृतिनां नन्दिनी षट्पदानाम् ॥

क्रूराः कृतोऽञ्जलिरयं बलिरेष दत्तः
कायो मया प्रहरतात्र यथाभिलाषम् ।
अभ्यर्थये वितथवाङ्मयपांशुवर्षै-
र्मा माविलीकुरुत कीर्त्तिनदीः परेषाम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां पञ्चमाध्याये द्वितीयाह्निकम् ॥

॥ पञ्चमोऽध्यायः समाप्तः ॥


  1. वादन्यायः पृ। २ ↩︎

  2. “घटादिर्नि°” [च्] ↩︎

  3. “दृष्टान्ते दोषः” [च्] ↩︎

  4. “°निरित्युच्यते” [च्] ↩︎

  5. “प्रतिदृष्टान्तस्य प्रतिपक्षस्य” [च्] ↩︎

  6. “°पक्षे” [च्] ↩︎

  7. “घट ? शब्द मनि…हृत्य घटस्यैन्द्रि°” [च्] ↩︎

  8. “साधर्म्यादस्य” [च्] ↩︎

  9. “मनसि वर्तते” [च्] ↩︎

  10. “प्रतिज्ञान्तरे प्रयो°” [ज्] ↩︎

  11. “विप्रतिपत्त्या अप्रतिपत्त्या वा” [ज्] ↩︎

  12. “प्रतिज्ञायाः इति टिप्पनी” [ज्] ↩︎

  13. “इति श्लिष्टनिर्देशः…निग्रहस्थानमिति” [च्] ↩︎

  14. “नित्यत्वेन व्याप्तिस्मरणापेक्ष एव विरोधः प्रतीयते” [च्] ↩︎

  15. “प्रथमत एव” [च्] ↩︎

  16. “भवेत् श्रावणत्वं न” [च्] ↩︎

  17. “चैतदुदा°” [च्] ↩︎

  18. “साधनोपादानात्” [च्] ↩︎

  19. “°नर्थक्यमिति” [च्] ↩︎

  20. “°र्हिततमत्वेन” [च्] ↩︎

  21. “गृह्यन्ते” [च्] ↩︎

  22. “तत्तेन नोपात्तम्” [च्] ↩︎

  23. “गायनस्य कश्चिदपराधः” [च्] ↩︎

  24. “याज्यं याजयितव्यम्” [ज्] ↩︎

  25. “वचनो°” [च्] ↩︎

  26. “वर्णक्रममात्रमेकत्रान्यत्र च” [च्] ↩︎

  27. “°रचिततत्समया°” [च्] ↩︎

  28. “प्रतीतिः” [च्] ↩︎

  29. मीमांसादर्शन १.३.२६ ↩︎

  30. तत्रैव १.३.२७ ↩︎

  31. “वाक्यपदीये १.१५३,…नुमीयते” [ज्] ↩︎

  32. “सन्दर्भस्यास्य पाठोऽर्थश्च न्यायालङ्कारभूमिकायां [प्प्। XXवि-XXइX] सविस्तरं विमृष्टौ; कृत्स्नासदिवा°” [च्] ↩︎

  33. “अन्यतराभिधाने” [च्] ↩︎

  34. “प्रवृत्तो न प्रतिपादयितेति” [च्] ↩︎

  35. “°प्रयोजनत्वं वै°” [ज्] ↩︎

  36. “°च्चारणमननुभाषणं न सर्व°…रणमननुभाषणमित्यर्थः ।” [च्] ↩︎

  37. “°मिति मतानुज्ञा नासौ नि°” [च्] ↩︎

  38. “°न्तिकत्वं” [च्] ↩︎

  39. “चोरत्वहेतुः” [च्] ↩︎

  40. “तु अदत्तादानम्” [ज्] ↩︎

  41. “तु विनिश्चियमानप्र°” [ज्] ↩︎

  42. “°रिक्तं च यत्तु जल्पाक° °दुष्टत्वे° [च्] °धार्यते ॥” [ज्] ↩︎

  43. “ह्ययं” [च्] ↩︎

  44. “अनेनैव सर्वा जातयः” [च्] ↩︎

  45. वादन्याये पृः २ ↩︎

  46. “प्रतिज्ञातः सिद्धान्तः खल्व°” [च्] ↩︎

  47. “सद्धर्माणा°” [च्] ↩︎

  48. “इतः परम् “विरुद्धो हेत्वाभास इति” इत्यधिकम्” [ज्] ↩︎

  49. “अन्वितप्रकृतिकत्वा°” [ज्] ↩︎

  50. न्या। सू। ५.२.४ ↩︎

  51. “विरुद्धः” [च्] ↩︎