पञ्चमाध्याये प्रथमाह्निकम्
सत्प्रतिपक्षदेशनाभासप्रकरणम्
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥ ५ । १ । १ ॥
अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिता परीक्षिताश्च । तत् किम् अपरमवशिष्यते यदर्थं पञ्चमोऽध्याय आरभ्यत इत्यत आह—“साधर्म्यवैधर्म्याम्यां प्रत्यस्थानस्य विकल्पाज्जातिबहुत्वमिति भाष्यम् ।” तस्यार्थमाह “वार्त्तिककारः जातेः सङ्क्षेपेणोक्ताया” इत्यादि । यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्यलक्षणानन्तरं प्रथमेऽध्याये युक्ता लक्षयितुम्, तथाप्येषां बहुतरत्वात् प्रमेयपरीक्षायां विलम्बो मा भूत्, अपेक्षिता चासौ शिष्यैः, संशयादिपरीक्षां तु विना प्रमेयपरीक्षा न शक्यते, तस्मान् मुनिः शिष्यानुरोधेन परीक्षां तावद् वर्तयाम्बभूव । तदनन्तरमवशिष्टं जातिनिग्रहस्थानविशेषलक्षणं वर्तयति । जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता । तदङ्गं च जातिनिग्रहस्थाने इत्यवान्तरसङ्गतिरप्यस्तीति सर्वमवदातम् ।
“साध…समाः ॥” विशेषोपयोगि सामान्यलक्षणमाह—“तत्र जातिर्नामेति” प्रतिषेधबुद्ध्या प्रयुक्त इति शेषः । आह्निकारम्भमाक्षिपति—“जातेः प्रयोगप्रतिषेधादिति ।” परिवर्जनं तु सामान्यमात्रज्ञानादपि भवन्न विशेषज्ञानमपेक्षत इति भावः । समाधत्ते—“न आरम्भप्रयोजनस्योक्तत्वात्” इति । एतदेव स्मारयति—“स्वयं च सुकरः प्रयोग” इति, प्राश्निकैः कतमा जातिरित्युक्ते स्वयं सुकरः प्रयोग इति । अथवा सद्विद्याविद्विषा अधिक्षिप्ते तत्त्वे अह्नाय च तन्निरासहेतावस्फुरति साक्षिणां पुरत एकान्तपराजयाद् वरं सन्देहोऽप्यस्तु कथञ्चित् परपराजयो वेति बुद्ध्या जल्पवितण्डयोः1 पांशुभिरिवावकिरन् जातिं प्रयुङ्क्ते । तेन हि लोके तत्त्वमवस्थापितं भवति । अन्यथासन्मार्गप्रवृत्तो2 लोकः स्यात् । न च खटचपेटादिभिर्विद्याविद्वेषिणो3 निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् । तस्मान्न खटचपेटादय उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह—“साधुसाधननिराकरणार्थं चेति ।” अतत्त्वविषयत्वेन परमार्थतोऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात् साध्वित्युक्तम् । “लाभपूजाख्यातिकामश्चेति” अन्वाचये चकारः । प्रसिद्धं तावत् तत्त्वपरिपालनं प्रयोजनम् । तस्मिन् सत्येवैतदप्यन्वाचीयत इत्यर्थः ।
मतान्तरं निराकर्तुमुपन्यस्यति—“असाधुसाधनेति ।” तत्त्वविषयमपि साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयास्यासाधुत्वोपपादनं न परिस्फुरति । असाध्वेतदिति तु स्मरन्नेवासौ जातिं प्रयुङ्क्ते । तदिदमुक्तम्—“अनभिज्ञतया साधनदोषस्येति ।” अथवा जानन्नपि जातिं प्रयुङ्क्ते—“तस्य” साधनस्य “दोषप्रदर्शनार्थं प्रसङ्गव्याजेन” मदीयं तावद् दूषणाभासमेव । एवं त्वदीयमपि साधनाभासम् । यदि तु तत् सम्यक् साधनं ततो मदीयमपि सम्यग् दूषणं स्यादिति प्रसङ्गः । तद्व्याजेन साधनं दूषयतीत्यर्थः । तदेतत् परमतं दूषयति—“एतत्त्विति ।” जात्यभिधाने हि पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद् बुद्ध्वेत्ययुक्तम्4 । “अथ न बुध्यते तत् किमिति जातिं प्रयुञ्जीतेति ।” यो हि सभादर्शनमात्रात् पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति भावः । “एतेन” बुद्ध्वा चाबुद्ध्वा वेति विकल्पासम्भवेन “अनैकान्तिके” साधने प्रयुक्ते “पञ्चानां” साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां “प्रयोगः प्रत्युक्तः । पूर्वापरभाव” इति । पूर्वस्य युक्तस्य साधनस्य पूर्वं युक्तमुत्तरम् । अपरस्यायुक्तस्य साधनस्यापरमयुक्तमुत्तरमिति ।
ननु साधर्म्यसमादीत्युच्यते, न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति स्थापनया, तथा सत्यजातित्वप्रसङ्गादित्यत आह—“समीकरणार्थः प्रयोग” इति । आभिमानिकं साम्यं न वास्तवमित्यर्थः । साधर्म्यमेव समं यस्मिन् प्रयोग इति शेषः । तदिदमुक्तं “समार्थः” सादर्म्यसमार्थः “समीकरणार्थः प्रयोगो द्रष्टव्य” इति । एवं साधर्म्यमेव5 सममित्यत्र विग्रहे स्वरूपेण साम्यमुक्त्वा विशेषहेत्वभावेन साम्यमाह—“विशेषहेत्वभावो वेति ।” ये त्वाहुः सर्वेष्वेवापदेशेषु सर्वासामेव जातीनां प्रयोग इति, तान् प्रत्याह—“न सर्वापदेशव्याप्तिः” सर्वजातिप्रयोगस्य । अपदेशो हेतुवचनम् । ये पुनः साधर्म्यसम इत्यादौ समशब्दस्तस्य साधनवादिजातिवादिनोस्तुल्यार्थत्वाद् यादृशो जातिवादी6 तादृशः वाद्यपि7 साधर्म्येण द्वौ समाविति मन्यन्ते, तान् प्रत्याह—“न च वादिप्रतिवादिनोस्तुल्यता समार्थः ।” प्रतिवादी जातिवादी विवक्षितः ॥ १ ॥
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ ५ । १ । २ ॥
“प्रतिषेधाविति सूत्र”पूरणेन पुंलिङ्गं समर्थयते, अन्यथा जातेः प्रकृतत्वात् सामानाधिकरण्येन साधर्म्यवैधर्म्यसमे इति स्यात् । “तद्धर्मविपर्ययोपपत्तेः” कृते साध्यविपर्ययोपपत्त्यर्थमित्यर्थः । “भाष्यम्—निदर्शनं, क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगादिति ।” अस्ति खल्वात्मनः क्रियाहेतुर्गुणः प्रयत्नो वा, अदृष्टं वा, लोष्टस्यापि क्रियाहेतुर्गुणः स्पर्शवद्वेगवद्द्रव्यान्तरसंयोग इति । “एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा” विभुत्वात् आकाशवदिति । अत्र च साधनाभासमुत्तरं च न जातिः । विभुत्त्वस्याक्रियावत्त्वेन स्वभावतः प्रतिबन्धात् । तेनैतदुपेक्ष्य “वार्त्तिककार” उदाहरणान्तरमाह—“यथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् ।” इदं हि सम्यक् साधनम्, उत्तरं त्वस्याभासमिति । साधर्म्योक्ते साधर्म्यसमः, वैधर्म्योक्ते वैधर्म्यसमः । एवं साधर्म्योक्ते हेतौ वैधर्म्यसमः । एवं वैधर्म्योक्ते हेतौ साधर्म्यसम इति ॥ २ ॥
गोत्वाद् गोसिद्धिवत्तत्सिद्धिः ॥ ५ । १ । ३ ॥
कथं पुनरियं जातिः ? अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मात् न भवतीत्यत आह—“अनयोः” साधर्म्यवैधर्म्यसमयोः उत्तरम्—“गोत्वाद्…सिद्धिः ॥” भवेदेतदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात्, ततो विशेषग्रहणाभावात् प्रकरणसमत्वं भवेत् । न त्वेवं भवति, स्वाभाविकसम्बन्धभाजो गमकत्वात् । स्वभावसम्बद्धं च कृतकत्वमनित्यत्वेन, न त्वमूर्तस्य नित्यत्वेन स्वाभाविकः सम्बन्धः, बुद्धिकर्मादौ व्यभिचारात् । तस्माद् गृह्यमाणविशेषत्वान्न प्रकरणसमः । यथा “गोत्वाद् गौः सिध्यति” स्वाभाविकप्रतिबन्धात्, “न तु सास्नादिसम्बन्धादिति भाष्यम् ।” सास्नादीत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन व्यभिचारिणः शृङ्गादयो गृह्यन्ते ।
“वार्त्तिकम्—एकस्यानन्वयादेकस्याव्यावृत्तेः ।” एकस्य सत्त्वस्य गवाऽनन्वयाद् अश्वादौ चाव्यभिचारादनन्वयः । एकस्य चैकशफत्वादेर्वैधर्म्यस्य गोष्वेवाव्यावृत्तेर्महिष्यादावपि व्यावृत्तेरित्यर्थः ॥ ३ ॥
॥ इति सत्प्रतिपक्षदेशनाभासप्रकरणम् ॥
साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिजातिषट्कप्रकरणम्
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ ५ । १ । ४ ॥
उभयसाध्यत्वाच्च साध्यसमः । पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पात् इत्यनेन पञ्चैव लक्षणानि सूचितानि । तानि च जातिसमाख्याभिर्मिथो विशिष्यन्ते । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयुक्ते यदैवं प्रतिवादी प्रसङ्गेन प्रत्यवतिष्ठते—यदि घटसाधर्म्यात् कृतकत्वादनित्य शब्दः, हन्तास्मादेव घटसाधर्म्यात्8 कृतकत्वाद् रूपादिमतापि शब्देन भवितव्यम् । न चेद् रूपादिमान्, मा भूत्तथा अनित्योऽपि । न चास्ति विशेषहेतुः । कृतकत्वादनित्येन भवितव्यम् । न पुना रूपादिमतेति । सोऽयं साध्यदृष्टान्तयोर्धर्मविकल्पाद् वैचित्र्याद् यत्रोत्कर्षं प्रसञ्जयति स उत्कर्षसमः प्रतिषेधः ।
एवं तदेव साध्यदृष्टान्तयोर्धर्मवैचित्र्यमपकर्षेण विशिष्यमाणमपकर्षसमस्य लक्षणम् ।
साध्यदृष्टान्तयोर्धर्मवैचित्र्यात् स्वरूपेण साध्यासाधनत्वप्रसङ्गजनने वर्ण्यावर्ण्यसमौ ।
साध्यदृष्टान्तधर्मविकल्पहेतुकवर्ण्यत्वनिबन्धनं तु हेत्वाद्यवयवयोगित्वप्रसञ्जनं साध्यसमः । अत+एवोभयसाध्यत्वादिति साध्यत्वं हेतुमाह साध्यसमस्य “सूत्रकारः । भाष्यकारो”ऽपि हेत्वाद्यवयवसामर्थयोगीति ब्रुवाणस्तत्प्रसञ्जनं साध्यसमं मन्यते । तदेतद् “वार्त्तिककृद्” आह—“घटो वानित्य इत्यत्र को हेतुरिति ?” न च यदि समाख्याभेदेन विशिष्यमाणं लक्षणपदं भिन्नार्थं तर्हि समाख्यापदान्येव लक्षणानि सन्तु, कृतं लक्षणपदेनेति वाच्यम्, लक्षणपदसहितानामेव तेषां लक्ष्यभेदप्रतिपादकत्वादिति ॥ ४ ॥
किञ्चित्साधम्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥ ५ । १ । ५ ॥
आसां षण्णां जातीनां प्रत्याख्यानम्—“किञ्चि…षेधः ॥ यस्य” धर्मिणः साध्यधर्मेण स्वाभाविकसम्बन्धयुक्तः9 “साधको धर्म उपपद्यते” उपपन्नो भवति “स” धर्मस्तस्य साध्यधर्मस्य “साधनं तत्र”10 साध्यधर्मिण्यु“पसंह्नियते । तथाच शब्देनेति ।” उपनयपदेनेत्यर्थः । “यत् पुनरेतद्विभागजाविभागजविकल्पवन्नित्यानित्यविकल्प इति,” तत्राह—“यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् ।” अयमर्थः विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः, शब्दस्तु विभागज इति व्यवस्थितो विकल्पः, एवं तस्मिन्11 उत्पत्तिमत्त्वे सत्यपि विभागजवच्छब्दो नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् । अत्र तावदुत्पत्तिधर्मकत्वं यथा सत्यनित्यत्वे घटादौ दृष्टम्, आकाशादिषु चासत्यनित्यत्वे न दृष्टम्, तेनानित्यत्वेन स्वभावप्रतिबद्धमवधारितम्, नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन वा स्वाभाविकः सम्बन्धो गृहीतो येनोत्पत्तिमत्किञ्चिद्विभागजं किञ्चिदविभागजं न भवेत् । तस्माद् विकल्पसमं जात्युत्तरं वदता ह्यतिनिर्बन्धेन विभागजत्वेन शब्दस्य नित्यत्वं वक्तव्यम् । तत्रेदमुपतिष्ठते—“यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि” अनित्यत्वं प्रति नैवं “विभागजत्वं” शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकि, किं तर्ह्यसाधारणमित्यर्थः12 । असाधारण्यमाह—“न हि किञ्चित्” शब्दादन्यद् “विभागाज्जायमानं नित्यमनित्यं वा दृष्टम् ।” ननु विभागजो विभागोऽनित्यो दृष्ट इत्यत आह— “यथोक्तविशेषणमिति” कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः कारणाकारणविभागपूर्वक इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारण्यमित्यर्थः ॥ ५ ॥
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ५ । १ । ६ ॥
षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं प्रत्याख्यानमाह—“साध्य…पत्तेः ।” इति, तद् व्याचष्टे—“दृष्टान्तः साध्य इति ब्रुवतेति ।” चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति—“यत् त्वत्रोक्तं जातीनां पौनरुक्त्यमिति ।” लक्षणभेदाभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न13 षड्जातयः । तस्माद् विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव इत्यर्थः । दूषयति—“न पौनरुक्त्यम् ।” तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह षडिति । न केवलं लक्ष्यभेदात्, “प्रयोगभेददर्शनाच्च ।” शङ्कते—यदि तत्तल्लक्ष्यभेदाज् जातिभेदः, तत “आनन्त्यमिति चेत् ?” निराकरोति—“न, अनवधारणादिति ।” न लक्ष्याणामवधारणमस्त्येषामानन्त्यात्14 । लक्षणोपग्रहेण चतुर्विंशातिर्जातय इत्यर्थः । लक्ष्याणां लक्षणाभेदेऽपि भेदे निदर्शनमाह—“तथा हि प्रकरणसमैकेति ।” सुगममितरत् ॥ ६ ॥
॥ इति जातिषट्कप्रकरणम् ॥
प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रमजातिद्वयप्रकरणम्
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५ । १ । ७ ॥
प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् । शेषं तु लक्षणम् । असत् साध्यते, न तु सत् । प्राप्तं च सत्, असतः प्राप्त्यसम्भवात् तस्मान्न साध्यम् । अपि च यत्र यस्य प्राप्तिः, तेन सम्भिन्नस्यैक्यमेव15 । यथा गङ्गा सागरं प्राप्ता सागरेणाभिन्ना, तद्वदेव अभिन्ने चेत् साध्यसाधने, नास्ति साध्यसाधनभावः, तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् । अप्राप्तिसमस्तु स्फुट एवेति । ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैकत्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह—“अनयोर्भेदोपदेशो विवक्षात” इति । साधनप्रतिषेधस्यैकत्वेऽपि प्राप्य वा अप्राप्य वेति विकल्पभेदाद् भेदविवक्षेत्यर्थः । अभेदविवक्षायां त्वेकमेवोत्तरम्, यथा वृक्षाणां बहुत्वं विवक्षित्वा बहु वचनप्रयोगो वृक्षा इति । तद्बहुत्वस्य सङ्ख्याया एकत्वं विवक्षित्वैकवचनम् एकं वनमिति ।
उदाहरणेन साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो देशयति—“जातिलक्षणाभावादिति ।” परिहरति—“न, सूत्रार्थापरिज्ञानात्” इति । सूत्रे नोदाहरणसाधर्म्यं विवक्षितम्, अपि तु येन केनचित् साधर्म्यं विवक्षितम् । अत्र च येन केनचिद् विद्यमानेनासाध्येन साध्यस्य साधर्म्यम्, अप्राप्तेन वा हेतुना साधर्म्यमिति न सामान्यलक्षणायोग इति ॥ ७ ॥
घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ५ । १ । ८ ॥
तस्य प्रत्याख्यानम्—“घटादि…अप्रतिषेधः ॥” घटादिनिष्पत्तिदर्शनादित्यादि “सूत्रम् ।” तद् व्याचष्टे—“मृत्प्राप्तानां दण्डादीनां” न गङ्गासागरवद् “अविशेषः । मृदवयवाः पूर्वव्यूहपरित्यागेनेति ।” साध्यं कर्म । तच्च मृदवयवाः । ते च सिद्धा एवेत्यव्यभिचारः । घटस्तु फलं न साध्य इति भावः । “कोऽप्राप्त्यर्थ” इति । अप्राप्तस्य साधकत्वेऽतिप्रसङ्ग इति भावः । उत्तरम्—“परस्परोपश्लेषमन्तरेण साधकत्वमिति । अन्यथा तूद्देशेनासौ प्राप्त एव ।” यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्यवायो भवति, नान्यस्येति “नियमः ।” अत्रापि संयुक्तसंयोगादिः सम्बन्ध उपेयः । तस्यापि च हेतुत्वं क्रियां प्रति दृष्टम् । यथा पङ्काख्यायां पृथिव्यामिति । सुगममन्यत् ॥ ८ ॥
॥ इति प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ॥
प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम्
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥ ५ । १ । ९ ॥
दृष्टान्तस्य कारणं प्रमाणं तस्यानपदेशात् प्रसङ्गसमः । साध्यसमो हि दृष्टान्ते साध्यवद्धेत्वाद्यवयवं प्रसञ्जयति—पञ्चावयवप्रयोगसाध्यतां दृष्टान्तगतस्यानित्यत्वस्य प्रसञ्जयतीत्यर्थः । प्रसङ्गसमस्तु दृष्टान्तगतस्यानित्यत्यस्य प्रमाणमात्रसाध्यतामित्यपौनरुक्तम् । “भाष्यम्—साधनस्यापि ।” दृष्टान्तगतस्य अनित्यत्वस्य साधनं प्रमाणं वाच्यमिति । “वार्त्तिकम्—घट एव तावदनित्य इत्यत्र को हेतुरिति ।” अत्र किं प्रमाणम् इत्यर्थः । “भाष्यं—प्रतिद्रष्टान्त उपादीयते ।” क्रियाहेतुगुणयुक्तमाकाशम् अक्रियं दृष्टम् । तस्मादनेन प्रतिदृष्टान्तेन कस्मात् क्रियाहेतुगुणयोगो निष्क्रियत्वमेव न साधयत्यात्मन इति शेषः । यदि पुनरियमनैकान्तिकदेशना स्यात्, क्रियाहेतुगुणयुक्तस्याप्यक्रियत्वं दृष्टम्, यथाकाशस्येति, तत्र तत्,16 सदुत्तरं स्यात् । न त्वेवमेतदिति जातिः ।
शङ्कते—“वाय्वाकाशसंयोगस्येति ।” निराकरोति—“न, तत्समानधर्मोपपत्तेः ।” तत्समानधर्मणो धर्मिणः क्रियावत्वोपपत्तेः । यदि तथाभूत एव आकाशेऽपि कस्मान्न करोतीत्यत आह—“यस्त्वसाविति ।” यस्तु मन्यते कार्योत्पादैक्यव्यङ्ग्यमेव कारणं न दृष्टकार्यकारणसाधर्म्यव्यङ्ग्यमपीति, तस्य दूषणान्याह—“यदि चेति” ॥ ९ ॥
प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ ५ । १ । १० ॥
“यदि प्रज्ञापनार्थम् ?” उत्तरम्—“नाप्रज्ञातो दृष्टान्तः ।” तत्र लौकिकपरीक्षकाणां बुद्धिसाम्यादिति शेषः ॥ १० ॥
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ ५ । १ । ११ ॥
“स च कथमहेतुर्न स्यादिति ।” कथं हेतुः स्यादिति । “अभ्युपगमादिति ।” मदीयस्य च दृष्टान्तस्याभ्युपगमात् न त्वदीयो दृष्टान्त इत्यर्थः । अथैवं प्रयुङ्क्ते यथा मदीयो न दृष्टान्तस्तथा त्वदीय इति, तथापि व्याघातान्न दृष्टान्तः । मदीयस्यादृष्टान्तत्वे साध्ये प्रतिदृष्टान्तेन हि तेन मदीयस्यादृष्टान्तता साधनीया । स चेन्न दृष्टान्तः, मदीयस्यादृष्टान्तता साध्येति व्याहतमित्यर्थः ॥ ११ ॥
॥ इति प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम् ॥
अनुत्पत्तिसमप्रकरणम्
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ ५ । १ । १२ ॥
उदाहरणपुरःसरं “भाष्यकारो” व्याचष्टे—“अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्त” इति । “तदभावात्” कारणाभावात् अनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तम्, नित्यत्वानित्यत्वाभ्यां राश्यन्तराभावादिति ॥ १२ ॥
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ ५ । १ । १३ ॥
अस्य प्रत्याख्यानम्—“तथा…षेधः ॥” नित्यत्वेन हि शब्दस्य धर्मिणोऽनुपपत्त्या17 प्रत्यवस्थेयम्, न चानुत्पन्नः शब्द इति च नित्य इति चानुत्पत्तिधर्मेति च सम्भवति । उत्पन्नस्तूत्पत्तिधर्मा च शब्दश्चानित्यश्चेति नानुत्पत्त्या शक्यं प्रत्यवस्थातुमित्यर्थः । “कारणोपपत्तेरिति ।” प्रयत्नानन्तरीयकत्वस्य ज्ञापकस्योपपत्तेर्न कारणस्य प्रयत्नानन्तरीयकत्वस्य प्रतिषेध इत्यर्थः । यदुक्तं कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तमिति, तत्राह “वार्त्तिककारः—ज्ञापकश्चायं हेतुर्न कारक” इति । कारको हि हेतुर्निवर्तमानः स्वकार्यं निवर्तयति न तु ज्ञापकः, तदभावेऽपि भूमौ चिरनिखातानां निध्यादीनामनिवृत्तेरित्यर्थः ।
“ततश्च विशेषणमनर्थकं प्रागुत्पत्तेरिति ।” प्रागसतो हि सत्तासम्बन्ध उत्पत्तिः, प्रागपि चेदसावभ्युपगतः प्रागुत्पत्तेरिति विशेषणमनर्थकम् । उत्पत्तेरभावे सदैवानुत्पत्तिधर्मकत्वादित्यर्थः ।
“अपरे तु प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयं” जातिरिति मत्वास्या उत्तरमाहुः । यदैवमुच्येत प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति तदा अर्थादप्रयत्नानन्तरीयकत्वे नित्यत्वमुक्तं भवतीत्यर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमैवेयं जातिरित्यभिमानः । एवं कृते त एवास्यां जातावुत्तरं ब्रुवते—“नायं नियम” इति । तदेतत् परेषां मतं दूषयति—“एतत्त्विति ।” शङ्कते—“जातिलक्षणाभावान्नेयं जातिरिति चेत् ?” साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः । न चानुत्पत्तिसमायाः साधर्म्यं वैधर्म्यं वास्ति केनचिदित्यर्थः । निराकरोति—“नानुत्पन्नैरहेतुभिरिति18 ।” यथा अनुत्पन्नास्तन्तवो न पटस्य कारणं तथा शब्दोत्पत्तेः प्रागनुत्पन्नं प्रयत्नानन्तरीयकत्वं नानित्यत्वस्य कारणमिति साधर्म्येण प्रत्यवस्थानमस्ति19 सामान्यलक्षणमित्यर्थः । एतावता चार्थापत्तिसमात अनुत्पत्तिसमाया20 भेदो दर्शितः । इहानुत्पन्नैरहेतुभिः साम्येन कार्यप्रतिषेधात्, अर्थापत्तिसमायां वाक्यार्थविपरीतार्थान्तरारोपेण21 प्रतिषेधादिति ॥ १३ ॥
॥ अनुत्पत्तिसमप्रकरणम् ॥
संशयसमप्रकरणम्
सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥ ५ । १ । १४ ॥
दृष्टान्तः प्रयत्नानन्तरीयकत्वस्य हेतोर्घट इति । यथा हि विशेषधर्मदर्शनं निश्चयस्य कारणमस्तीति निश्चयोत्पत्तिः, एवं सामान्यधर्मदर्शनमात्रमस्ति22 संशयस्य कारणमिति संशयेनापि भवितव्यमित्यर्थः । “सूत्रा”र्थप्रयोजनमाक्षेपसमाधानाभ्यां स्फुटीकरोति—“संशयसमा साधर्म्यसमाया” इति ॥ १४ ॥
साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशये अत्यन्तसंशयो23 नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥ १ । १ । १५ ॥
अस्य प्रत्याख्यान“सूत्रम्—साध…षेधः ॥” न सामान्यदर्शनमात्रं संशयस्य कारणमपि तु विशेषादर्शनसहितम्, विशेषदर्शने तु तद्रहितं कारणमिति24 “सूत्रार्थः । उभयथा वेति ।” साधर्म्यविशेषदर्शनाभ्यामित्यर्थः । “नित्त्यत्वानभ्युपगमाच्च सामान्यस्येति ।” नित्यं संशयकारणत्वानभ्युपगमात् साधर्म्यस्येत्यर्थः ॥ १५ ॥
॥ इति संशयसमप्रकरणम् ॥
प्रकरणसमप्रकरणम्
उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ॥ ५ । १ । १६ ॥
उपलक्षणं चैतत् उभयसाधर्म्यादिति, उभयवैधर्म्यादित्यपि द्रष्टव्यम् । एतद् व्याचष्टे “भाष्यकारः—उभयेन नित्येन चानित्येन चेति ।” द्वितीयश्च नित्यसाधर्म्यात् प्रतिपक्षं प्रवर्तयति—“नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति ।” अथ द्वितीयसाधनप्रवृत्तौ प्रथमस्य साधनस्य किं भवतीत्यत आह—“एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमतिवर्तते ।” मातिवर्तिष्ट प्रकरणं को दोष इत्यत आह—“प्रकरणानतिवृत्तेर्निर्णयानिर्वर्तनम्25 ।” निर्णयानिष्पत्तिरित्यर्थः । एवमनित्यसाधनवादिनं प्रत्युत्तरं दर्शयित्वा नित्यसाधनवादिनं प्रत्याह—“समानं चैतन्नित्यसाधर्म्येणोच्यमान” इति । तदेवं साधर्म्येण प्रकरणसमद्वयमुक्तम् । तथा वैधर्म्येण प्रकरणसमद्वयं नित्यानित्यसाधनवादिनावेव प्रत्याह—“समानं चैतदिति । उभयवैधर्म्यादिति” नित्याकाशवैधर्म्यात् कृतकत्वादनित्यघटवैधर्म्याच्चास्पर्शवत्त्वादिति । तदेवं प्रकरणसमचतुष्टयम् ।
अत्र चोद्य“वार्त्तिकम्—26संशयसाधर्म्यसमाभ्यामिति27 ।” परिहरति“नोभयपक्षसाधर्म्यात् तद्भेदोपपत्तिरिति ।” प्रकरणसमे हि पक्षनिश्चयेन28 मया वादिपक्षसाधनं दूषणीयमिति बुद्ध्या प्रवर्तते । साधर्म्यसंशयसमयोस्तु वादिसाधनेन साम्यमात्रापादनेन तद्दूषणम्, न तु प्रतिपक्षविनिश्चयेनेति विशेषः । इह तु साम्यमात्रापादनं न साधनेन, किं तु दूषणैरित्येतावता साम्यार्थः प्रयोगः सम इति बोद्धप्यम् ॥ १६ ॥
प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥ ५ । १ । १७ ॥
अस्य प्रत्याख्यानम्—“प्रति…पत्तेः ॥” द्वयोः साधनयोस्तदानीमगृह्यमाणविशेषयोः कोऽयमभिमानः प्रतिवादिनो यन्मया स्वपक्षसाधनेनैव वादिनः साधनं दूषयितव्यमिति29 । समानबलयोश्चेदयमात्मीयात् साधनात् स्वपक्षसिद्धिमिच्छति, ततोऽनिच्छन्नपि वादिनोऽपि साधनबलात् साध्यसिद्धिमभ्युपगमयितव्यः । अन्यथा स्वसाधनात् साध्यसिद्धिमुपजीव्य प्रतिपक्षसाधनं दूषयति, न तु तस्मात् प्रतिपक्षसिद्धिमभ्युपगच्छतीति व्यक्तमियं राजकुलस्थितिरिति । एवं व्यवस्थिते “सूत्रभाष्ये” योजयितव्ये, प्रतिपक्षात् प्रतिपक्षसाधनात् प्रकरणस्य प्रक्रियमाणस्य साध्यस्येति यावत्, सिद्धेः, समानात् स्वसाधनात् प्रतिषेधस्य प्रतिवादिसाधनस्य स्वसाध्यसिद्धिद्वारेण परकीयसाधनप्रतिषेधस्यानुपपत्तिः । कस्मात् प्रतिषेधानुपपत्तिरित्यत उक्तं—“प्रतिपक्षोपपत्तेः ।” फलतः परकीयसाधनस्य समानात् स्वसाधनात् प्रक्रियासिद्धिं स्वसाध्यसिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिरुक्ता भवति प्रतिवादिना ।
नन्वेवं प्रकरणसमाह्वयो हेत्वामासो नोद्भावनीयः प्रतिवादिना, जात्युत्तरप्रसङ्गादित्यत आह—“तत्त्वानवधारणाच्च प्रक्रियासिद्धिः ।” स्वसाध्यनिर्णयेन परसाध्यविघटनबुद्ध्या30 प्रतिवादिना साधनं प्रयुज्यमानं प्रकरणसमं जात्युत्तरं भवति । सत्प्रतिपक्षतया वादिनः साधनमनिश्चायकं करोमीति तु बुद्ध्या प्रतिपक्षसाधनं प्रयुञ्जानो न जातिवादी सदुत्तरवादित्वात्31 । सत्प्रतिपक्षतया वादिनो न साधनमितिवादित्वात्32 । सत्प्रतिपक्षताया हेतुदोषस्यानैकान्तिकादिवदुपपादितत्वात् । तत्त्वानवधारणादित्यनेन प्रकरणसमोदाहरणं दर्शितम् ।
“वार्त्तिकम्—विरुद्धाव्यभिचार्येष उक्तेत्तर” इति । तुल्यबलयोरेकतरस्मात् स्वसाध्यसिद्धिमभ्युपगच्छतोर्द्वयोरपि फलतोऽव्यभिचारः सिध्यति । न च विरुद्धाव्यभिचारी सम्भवति । अव्यभिचारो ह्यविनाभावः । स च पञ्चरूपसम्पत्तिः, चतूरूपसम्पत्तिर्वा । न च विरुद्धाव्यभिचारिणि सास्तीत्यर्थः ॥ १७ ॥
॥ इति प्रकरणसमप्रकरणम् ॥
अहेतुसमप्रकरणम्
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः33 ॥ ५ । १ । १८ ॥
“सूत्रभाष्यवार्त्तिकानि” प्रमाणसामान्यपरीक्षाव्याख्यानेन व्याख्यातानि ॥ १८ ॥
न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ ५ । १ । १९ ॥
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ ५ । १ । २० ॥
॥ इति अहेतुसमप्रकरणम् ॥
अर्थापत्तिसमप्रकरणम्
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ ५ । १ । २१ ॥
उदाहरणपुरःसरं “सूत्रं” योजयति—“अनित्यः शब्द” इति । अनित्यसाधर्म्यादनित्यं शब्दं ब्रुवाणो भवाननक्षरं नित्यसाधर्म्यान्नित्यत्वं शब्दस्य ब्रूत इत्यर्थः । न साधर्म्यसमादौ वाद्यभिप्रायवर्णनमित्येतावता भेदः ॥ २१ ॥
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वाद् अनैकान्तिकत्वाच्चार्थापत्तेः ॥ ५ । १ । २२ ॥
अस्य प्रत्यादेश“सूत्रम्—अनुक्त…पत्तेः ॥” तद् व्याचष्टे—“अनुपपाद्य सामर्थ्यमिति ।” तदेव खल्वनुक्तं वचनाल्लभ्यते यत्कल्पनमन्तरेण वचनार्थो न घटते, यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते गम्यते रात्रौ भुङ्क्त इति । यथा वा यागेन स्वर्गं भावयेदित्युक्ते गम्यतेऽन्तरा अपूर्वं कृत्वेति । वाक्यार्थोपपादने तस्य तस्य सामर्थ्यात् । न त्वव्यभिचारिणः साधर्म्यात् साध्ये साध्यमानेऽर्थादुक्तं भवति व्यभिचारिणापि साधर्म्येण साध्यं साधयितव्यमिति, तस्य वाक्यार्थोपपादनेऽसामर्थ्यात्, तदन्तरेण वाक्यार्थस्योपपत्तेः । यदि पुनरनुपलब्धसामर्थ्यमप्यनुक्तमात्रं गम्येत, ततस्त्वया प्रतिवादिना नित्यत्वापादने शब्दस्योच्यमानेऽनुच्यमानमनित्यत्वं प्रत्येतव्यम् । तथा च भवदभिमतस्य नित्यत्वस्य व्याहतिः34 । तदिदमाह—“अनित्यपक्षस्य” अनुक्तस्य “सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति ।” विपर्ययेणापि प्रत्यवस्थानसम्भवात् । अनैकान्तिकत्वमाह—“उभयपक्षसमा चेयमिति ।” व्यभिचाराच्चानैकान्तिकत्वमाह—“न चेयं विपर्ययमात्रादिति ।” न हि भोजननिषेधादेवाभोजनविपरीतं सर्वत्र कल्पते । “घनत्वं हि ग्राव्णः पतनानुगुण”गुरुत्वातिशयसूचनार्थं35 न त्वितरेषां पतनं वारयति । “वार्त्तिकं” सुबोधम् ॥ २२ ॥
॥ इति अर्थापत्तिसमप्रकरणम् ॥
अविशेषसमप्रकरणम्
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः ॥ ५ । १ । २३ ॥
यदि घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् घटेनाविशेषोऽनित्यत्वाख्यः शब्दस्य, अथ सत्त्वात् साधर्म्यात् सर्वेषां सर्वाविशेषप्रसङ्गः36 । न त्वेवम् । तथा प्रयत्नानन्तरीयकत्वादपि साधर्म्यान्न शब्दघटयोरनित्यत्वमविशेष इति प्रतिषेधः अविशेषसमः । अविशेष इत्यस्य विवरणम्—“उभयोरनित्यत्व” इति । देश्यं “वार्त्तिकं साधर्म्यसमातो न भिद्यत” इति । परिहार“वार्त्तिकं—नैकसमस्तेति” ॥ २३ ॥
क्वचित्तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः ॥ ५ । १ । २४ ॥
अस्य प्रत्यादेश“सूत्रम्—क्वचि…भावः ॥” क्वचित् साधर्म्ये प्रयत्नानन्तरीयकत्वादौ सति शब्दादेर्घटादिना सह तद्धर्मस्य घटधर्मस्यानित्यत्वस्योपपत्तेः, क्वचिच्च साधर्म्ये शब्दस्य भावमात्रेण सह सत्त्वादौ भावमात्रधर्मस्यानुपपत्तेः प्रतिषेधाभाव इति योजना । एतदुक्तं भवति, अविनाभावसम्पन्नं साधर्म्यं गमकं न तु साधर्म्यमात्रमिति । “सद्भावोपपत्तिनिमित्तमिति” सद्भावव्यापकमित्यर्थः । अत्रान्तरे “वैनाशिकः” सत्ताव्यापकमनित्यत्वं मन्यमानो देशयति—“अथ मतमनित्यत्वमेव धर्मान्तरमिति ।” निराकरोति—“एवं खलु वै कल्प्यमाने” इति । पूर्वपक्षोत्तरपक्षनिर्वाहस्तृतीये प्रपञ्चितः । अपि च, सन्तः केचन प्रमाणावधृत—नित्यत्वाः, यथाकाशकालदिगात्मपरमाणवः;37 केचित् प्रमाणविनिश्चितानित्यभावाः, यथा घटादयः, तस्मात् सत्त्वमनैकान्तिकत्वादसाधकमित्याह—“सतश्च नित्यानित्यभावादिति ।” अपि च यत्प्रतिषेधाय प्रसङ्गापादनं38 तदेव प्रतिषेध्यं साधयति, न तु निषेधतीत्याह—“सर्वभावानां सद्भावोपपत्तेरिति ।”
“वार्त्तिकं—क्वचित् साधर्म्यमुपलभ्यत” इति । व्याप्यतयेति शेषः । अथ शब्दवर्जमुच्यत इति तत्राह—“व्यर्थं वा सर्वभावग्रहणम् । उक्तश्च विशेषोऽन्वयव्यतिरेकसम्पन्नो हेतुरिति” प्रयत्नानन्तरीयकत्वम्, “न तु उत्तरः,” सद्भावोपपत्तेरित्यन्वतिरेकसम्पन्न इति ॥ २४ ॥
॥ अविशेषसमप्रकरणम् ॥
उपपत्तिसमप्रकरणम्
उभयकारणोपपत्तेरुपपत्तिसमः ॥ ५ । १ । २५ ॥
यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते, तदस्ति शब्दस्य इत्यनित्यः शब्द इति । प्रकरणसमायां जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वेऽपि प्रतिवादी स्वसाधनात् स्वपक्षसिद्ध्या वादिसाधनदूषणे प्रवर्तते । उपपत्तिसमायां तु स्वसाधनेनैवेति विशेषः ॥ २५ ॥
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ ५ । १ । २६ ॥
अस्य प्रत्यादेश“सूत्रम्—उप…षेधः ॥” वाद्यभिमतस्य साधनस्योपपत्तौ यत्कारणं तस्य प्रतिवादिना अभ्यनुज्ञानादिति भावः । प्रकरणसमप्रत्याख्यानवदस्यापि प्रत्याख्यानं द्रष्टव्यम् । सुगमे “भाष्यवार्त्तिके” ॥ २६ ॥
॥ इत्युपपत्तिसमप्रकरणम् ॥
उपलब्धिसमप्रकरणम्
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ ५ । १ । २७ ॥
“अनित्यत्वकारणस्येति ।” ज्ञापकस्येत्यर्थः । ननु यद्वृत्तयोगप्राथम्ययोः साधनधर्मो विषयो न तु साध्यधर्मः । स हि तद्वृत्तयोगस्य विषयः । एवं हि प्रयुज्यते, यो यः प्रयत्नानन्तरीयकः स सर्वोऽनित्यः । अनेन हि प्रयत्नानन्तरीयकत्वमनित्यत्वादन्यतो39 व्यावर्तितम्, अनित्यत्वं त्वनियमितम्40 । स यद्यप्रयत्नानन्तरीयके शब्दे वा अन्यत्र वा भवेत्, कः प्रयत्नानन्तरीयकत्वस्यानित्यत्वनियमविरोधः ? एवं हि स भवेद् यदि नित्योऽपि प्रयत्नानन्तरीयको दृश्येत, न त्वेवमस्ति । तस्मादुपलब्धिसमस्योत्थानमेव नास्ति, बीजाभावादित्यत आह “वार्त्तिककारः—सर्वसाध्यारोपेणाव्यापकत्वं41 साधनस्येत्युपलब्धिसमार्थः42 ।” यद्यपि वर्णात्मकः शब्दोऽनित्यत्वेन साध्यतया विवक्षितः प्रकरणात्, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदिति, तथापि शब्दमात्रमनेन पक्षीकृतमित्यारोप्य भागासिद्धत्वापादनं43 साधनस्येत्युपलब्धिसम्मार्थः । समारोपमेवोदाहरणान्तरेण दर्शयति—“सर्वमनित्यमिति ।” शब्दोऽनित्य इति प्रतिज्ञायामपि सर्वमनित्यमित्यारोप्येति योजना । “भाष्यकारो”दाहरणापरितोषश्चोदाहरणान्तरप्रदर्शनबीजम् । यस्त्वनित्यः शब्द इति प्रतिज्ञायां सर्वानित्यत्वारोपो निर्बीज इति न तुष्यति, तं प्रत्याह—“श्रूयमाणेति ।” यद्यप्यनित्यः शब्द इति श्रूयते, तथापि सामर्थ्यादाद्य इति विवक्षितम् । “शब्दान्तरोत्पादकत्वं” सजातीयोत्पादकत्वमिति । एवं च नायोगव्यवच्छेदेनायं शब्दानित्यत्वे हेतुरव्यापकत्वात्,44 नाप्यन्ययोगव्यवच्छेदेन, हेत्वन्तरस्यापि विद्यमानत्वादिति जातिवादिनोऽभिसन्धिरिति ॥ २७ ॥
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ ५ । १ । २८ ॥
अस्य प्रत्याख्यान“सूत्रम्—कारणा…षेधः ॥” तद् व्याचष्टे, “प्रयत्नानन्तरीयकत्वादिति ब्रुवतेति । कारणतः” प्रयत्नाच्छब्दस्योत्पत्तिरियभभिधीयते45 वर्णानामनित्यत्वं साधयितुम्, न तु कार्यस्य कारणनियमः, प्रयत्नादेव सर्वः शब्दो जायते न तु वायुसंयोगाद् वृक्षशाखाभङ्गादिति नियम उच्यते, येनाव्यापकत्वं हेतोः स्यादिति । “सूत्रा”र्थस्तु “कारणान्तरादपि” ज्ञापकान्तरादपि “तद्धर्मोपपत्तेः” साध्यधर्मोपपत्तेरप्रतिषेध इति ।
एतदेव “वार्त्तिककारो” व्याचष्टे, “अनित्यः शब्द इति ब्रुवता ।” प्रयत्नानन्तरीयकत्वेन हेतुनेति शेषः । “साध्यान्तराणां” शाखाभङ्गजादीनां शब्दानां न कारणान्तरमनित्यत्वज्ञापकं प्रतिषिध्यते46 । यद्यपक्षीकृतानामपि कारणान्तराद् अनित्यत्वं भवति, कामं भवत्वित्यर्थः । नापि शब्दस्य साध्यस्यानित्यत्वेन कारणान्तरं प्रत्ययभेदभेदित्वादिप्रतिषिध्यते ।
“एकदेशि”मतमाह—“अपरे तु परिहारं ब्रुवते, यदेव प्रयत्नानन्तरीयकमिति ।” तदेतद् दूषयति—“एतत्तु नाविवादादिति ।” अयमभिसन्धिः, प्रयत्नानन्तरीयकत्वं हि कोष्ठ्यस्य वायोः क्रियायाः । सा हि प्रयत्नवदात्मसंयोगाज्जायते । वायोः पुनरुरःस्थानादिषु संयोगविभागादयो न प्रयत्नानन्तरीयकाः प्रागेव तु शब्दः । यदा चाद्यस्य शब्दस्येयं गतिः, तदा कैव कथा प्रयत्नानन्तरीयकत्वेऽन्त्यस्य श्रवणविवरसमवायिनः श्रूयमाणस्य शब्दस्य । तस्माद् यः प्रयत्नानन्तरीयकत्वं शब्दस्य विना प्रमाणेन प्रतिपद्यते, न तं प्रति किञ्चित् साध्यते प्रमाणेन । प्रमाणानधीनस्य प्रतिभासमात्रेण प्रमेयसिद्धेः सर्वत्र सुलभत्वादिति । तदनेनापरितोषबीजमुक्तम् । अभ्युपेत्य शब्दस्य प्रयत्नानन्तरीयकत्वमाह—“यदा तु प्रयत्नानन्तरीयकत्वमिति ।” चोदयति—“जातीति ।” परिहरति—“नेति” ॥ २८ ॥
॥ उपलब्धिसमप्रकरणम् ॥
अनुपलब्धिसमप्रकरणम्
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ॥ ५ । १ । २९ ॥
अनुपलब्धिसमस्य प्रतिषेधस्य लक्षणं दर्शयितुं तत्प्रतिषेध्यं तावदाह “भाष्यकारः—न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिरिति ।” कस्मात् ? उदकादिवद् आवरणादिरस्यानुपलम्भकारणं भवतीत्यत आह—“गृह्येत चैतदस्याग्रहणकारणमिति ।” प्रतिषेधमुक्त्वा प्रतिषेध्यस्य जातेर्लक्षण“सूत्र”माह—“तदनु…… समः ॥” व्याचष्टे—“तेषामावाणादीनामनुपलब्धिर्नोपपद्यते ।” उपलभ्यमानत्वे उपलब्धिरूपतया अनुपलब्धित्वानुपपत्तेः । तथा चानुपलब्धेरनुपलम्भादनुपलब्धिर्नास्तीति आवरणाद्युपलब्धिसिद्धिरिति । आवरण इवावरणानुपलब्धावप्यनुपलब्धिसमेत्यर्थ47 ॥ २९ ॥
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ५ । १ । ३० ॥
अस्य प्रत्यादेश“सूत्रम्—अनुप…हेतुः ॥” आवरणाद्यनुपलब्धिरावरणादीनामभावं गमयति, न त्वात्मनोऽप्यभावमावरणाद्युपलब्धिभावरूपम् । न ह्यसावनुपलब्धिरप्यात्मनः, येनात्माभावं गमयेत् । उपलब्धिरप्युपलभ्यविषया, नात्मविषया । किं पुनरनुपलब्धिः ? तस्मादनुपलब्धिरुपलभ्याभावे हेतुः, नात्माभावस्य48 । तथा सति सैव न स्यादिति न स्यादुपलभ्याभावोऽपीत्यावरणं च तदुपलब्धिश्च स्यातामिति । तदिदमाह “भाष्यकारः—अनुपलम्भादित्ययमहेतुरिति, कस्मात् ? अनुपलम्भात्मकत्वादनुपलब्धेः ।”
एतद् व्याचष्टे—“उपलम्भाभावमात्रत्वादिति ।” मात्रग्रहणेन जातिवाद्यभिमतामात्माभावरूपतां व्यवच्छिनत्ति । नन्वियमनुपलब्धिर्भवतूपलम्भस्याभावो मा च भूदुपलभ्यस्य,49 किमायातमावरणाद्यभावस्येत्यत आह—“यदस्ति तदुपलब्धेर्विषयः, उपलब्ध्या तदस्तीति प्रज्ञायते ।” न पुनरनुपलब्धेरनुपलम्भात्मतया तत् प्रज्ञेयमिति50 भावः । अनुपलब्धेः प्रज्ञेयमाह—“यन्नास्ति सोऽनुपलब्धेरिति ।” ननु प्रज्ञायतां किमेतावताऽपीत्यत आह—“सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ” इति । त्वया हि जातिवादिना आवरणाद्यनुपलब्धेरनुपलम्भेनावरणोपलम्भमावरणं च प्रसञ्जयता अनुपलम्भस्य स्वविषयालोपेन प्रत्यवस्थेयम् । एवं चेद् वरमस्त्वस्यावरणतदुपलम्भौ विषयौ । एवमनेन भावाभावबुद्धिव्यपदशव्यवहाराः सकललोकयात्रावाहिनोऽनुकुलिता भवन्ति । तदिदमुक्तम्—“सोऽयमावरणाद्यनुपलब्धेरनुपलम्भः” आवरणोपलम्भस्य निषेधविषयं प्रमाणम् । “उपलब्ध्यभावेऽनुपलब्धौ स्वविषये प्रवर्तमानो न स्वविषयम्” अनुपलब्धिं “प्रतिषेधति” अपि तूपलब्धिमेव । जातिवादिनस्तु निषेधात्51 । तथा च सर्वलोकव्यवहारः समुच्छिद्येतेति भावः । “अप्रतिषिद्धा चावरणाद्यनुपलब्धिः” आवरणादीनामभावं प्रति “हेतुत्वाय कल्पते ।” ननु च नानुपलम्भमात्रमभावग्रहहेतुः, मा भूच्चन्द्रमसः परभागे हरिणसदसद्भावसंशय इत्यत आह—“आवरणादीनि त्विति ।” उपलभ्यं वोपलब्धिर्वा नानुपलम्भमात्रान्नास्तीति सिध्यति । अपि तु दर्शनयोग्यं सदिति नातिप्रसङ्ग इत्यर्थः । ननूपलब्धेः स्वविषयस्य प्रतिपादिकाया अभावात् आवरणादयो मा नामोलभ्यन्ताम्, अभावस्तु तेषां52 कुतस्त्य इत्यत आह—“अनुपलम्भात्” प्रतिषेधकात् प्रमाणादनुपलब्धेर्यो “विषयः” उपलभ्याभावः, स “गम्यते, न सन्त्यावरणादीनि शब्दस्याग्रहणकारणानि” इति । तत् किमिदानीं साक्षादेवोपलम्भनिषेधकं प्रमाणमुपलभ्याभावं गमयति ? नेत्याह—“अनुपलम्भात् तु” उपलब्धिनिषेधकात् प्रमाणात् “अनुपलब्धि”रावरणस्य सिध्यति । कस्मादित्यत आह—“विषयः स तस्य” उपलब्धिनिषेधकस्य प्रमाणस्यानुपलब्धिः । ततश्चावरणाद्यभावसिद्धिरिति द्रष्टव्यम् ॥ ३० ॥
ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ ५ । १ । ३१ ॥
न केवलं निषेधविषयप्रमाणगम्यता अनुपलब्धेरुपपत्तिगम्या, अपि तु सर्वजनप्रत्यात्मवेदनीयेत्याह “सूत्रकारः—ज्ञान…त्मम् ॥” व्याचष्टे—“अहेतुरिति वर्तते । शरीरे शरीर” इति । प्रागुच्चारणात् शब्दस्यानुपलब्धेरसत्त्वे साध्यमानेऽनैकान्तिकत्वं स्यात् । यदि तु पश्चाद् विशिष्येत, आवरणाद्यसम्भवे सतीति, ततो हेत्वन्तरं नाम निग्रहस्थानं स्यादित्याशङ्क्य “वार्त्तिककार” आह—“आवरणाद्यसम्भवे सत्त्वाभ्युपगमे च सत्यनुपलब्धेरिति प्रयोगः ।” सत्त्वाभ्युपगमे चेत्यस्योपादानप्रयोजनमाह—“आवरणाद्यसम्भवे सत्त्वाभ्युपगमे53 विपर्ययस्याव्यभिचारात् नार्थापत्तिसमः ।” अयमर्थः । यद्यावरणाद्यसम्भवे सत्यनुपलब्धेरित्युच्यमाने54 कश्चिदर्थापत्तिसमया जात्या प्रत्यवतिष्ठते, आवरणाद्यसम्भवे सत्यनुपलब्धेरित्युच्यमाने अर्थादापतितमावरणादिसम्भवे सत्युपलब्धेरिति । यदा तु सत्त्वाद्यभ्युपगम इति विषयविपर्ययः सूच्यते, तदा आवरणाद्यसम्भवे सत्यनुपलब्धेरसत्त्वमित्यस्य55 विपर्यय एव प्रयोक्तव्यः सत्त्वोपगमे त्वावरणाद्यसम्भवे सत्युपलभ्येतेति । अस्य विपर्ययस्याव्यभिचारान्नार्थापत्तिसम इत्यर्थः ॥ ३१ ॥
॥ इति अनुपलब्धिसमप्रकरणम् ॥
अनित्यसमप्रकरणम्
साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥ ५ । १ । ३२ ॥
अस्ति घटनानित्येन सर्वभावानां सत्त्वं साधर्म्यमिति ॥ ३२ ॥
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥ ५ । १ । ३३ ॥
अस्य प्रत्याख्यान“सूत्रम्—साध…र्म्यात्” ॥ ३३ ॥
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथा भावान्नाविशेषः ॥ ५ । १ । ३४ ॥
तदिदं जातिवादिनां साम्यमापाद्य परमार्थप्रतिषेधमाह—“दृष्टान्ते…… अविशेषः ॥” साधर्म्यमात्रं चाश्रित्य साध्याविनाभावरहितमिति । देश्य“वार्त्तिकम्— अविशेषसमात” इति । परिहरति—“भिद्यत” इति । “यच्चाविशेषसम उत्तरमिति ।” सर्वानित्यत्वं हि प्रसञ्जयता न शब्दानित्यत्वं निषिद्धं भवतीति तत्रोक्तमित्यर्थः । अत्र शङ्कते—“नासाधनादिति चेदिति ।” परिहरति—“न, विशेषहेतूपपत्तेरिति ।” सुगममन्यत् ॥ ३४ ॥
॥ इत्यनित्यसमप्रकरणम् ॥
नित्यसमप्रकरणम्
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥ ५ । १ । ३५ ॥
धर्मस्य सर्वदा भावाद् धर्मिणोऽपि सर्वदा भावः । न ह्यस्ति सम्भवः सामान्यसमवायातिरिक्तधर्मो नित्यो56 धर्मी चानित्य इति ॥ ३५ ॥
प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेःप्रतिषेधाभावः ॥ ५ । १ । ३६ ॥
अस्य प्रत्यादेश“सूत्रम्—प्रति…भावः ॥” नित्यमनित्यभावादिति हेतोरभ्युपगमेऽनभ्युपगमे च दोष इत्यर्थः । “उत्पन्नस्य च निरोधादभावः शब्दस्यानित्यत्वम् ।” तत्र च परिप्रश्नानुपपत्तिः । यदि हि निरोधकादभावोऽनित्यता तथापि प्रश्नानुपपत्तिः । अथाप्यस्मन्मते समवायः, तथापि तदनुपपत्तिः । अनित्यत्वं हि शब्दस्यापरान्तावच्छिन्नसत्तासमवायः । न चासौ शब्दाधेयस्तस्य स्वतन्त्रत्वादेवेत्यर्थः ।
“वार्त्तिकम्—पृथग्धर्मत्वेनानित्यत्वस्यानभ्युपगमादिति ।” अनात्यन्तिकसत्तासमवायो ह्यनित्यता । न चासौ समवायात् पृथग्धर्मो न च समवायोऽपि धर्मोऽनाश्रितत्वात्, पारतन्त्र्येण तु निरूपणात् कथञ्चिद् धर्मीत्युच्यते इति । “अपि चानात्यन्तिकसत्तायोगोऽनित्यतेत्युक्ते न युक्तः प्रश्न” इति । न हि घटमानयेति प्रेषितः परिवृत्य पृच्छति—किं घट आनेतव्य उत पट इति । तादृशमेतदित्यर्थः । अपि चानित्यता नित्यानित्या वेति विकल्पो नावतरति, विरोधादित्यत आह—“आत्यन्तिकानात्यन्तिकभावयोगश्चैकस्येति ।” शङ्कते—“प्रतिषेध्येति ।” एवमभ्युपगच्छतोऽयं दोष इत्येतत्परमेतत्, न तु स्वपक्षोपवर्णनपरमेतदिति शङ्कार्थः । निराकरोति—“न, विकल्पानुपपत्तेरिति । विरोधस्य चोक्तोत्तरत्वादिति ।” परिप्रश्नानुपपत्तेरित्युत्तरं विरोधस्योक्तमित्यर्थः ॥ ३६ ॥
॥ इति नित्यसमप्रकरणम् ॥
कार्यसमप्रकरणम्
प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ ५ । १ । ३७ ॥
उदाहरणपूर्वकमस्यार्थं व्याचष्टे—“प्रयत्नानन्तरीयकत्वादनित्यः शब्द” इति । कार्यत्वानित्यत्वे च परस्परासङ्कीर्णे प्रथम एवाध्याये दर्शिते । उदाहृत्य जातिमवतारयति—“एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यत” इति । प्रयत्नानन्तरीयकत्वम्—प्रयत्नानन्तरोत्पादो वा स्यात्, प्रयत्नानन्तरोपलम्भो वा ? न तावत् पूर्वः कल्पोऽसिद्धत्वात् । तस्मात् प्रयत्नानन्तरोपलम्भ आस्थेयः । तत्र कार्यसमं प्रतिषेधमाह—“प्रयत्नानन्तरम्” उपलभ्यमानानां प्रयत्नानन्तरम् “आत्मलाभश्च” दृष्टो यथा “घटादीनाम्, व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां” मूलकीलकादीनाम् । “तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्य, आहोस्विद् अभिव्यक्तिरिति विशेषो नास्ति ।” तदेवं “कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ।”
येन तु कार्यसमा जातिरन्यथैवोक्ता, तद् यथा—अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य, अन्यच्च विवक्षाप्रयत्नवायुप्रेरणाभिघातकार्यत्वं शब्दस्य । तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद् भेदान्न साधनं कृतकत्वमनित्यत्वस्येति । सेयं कार्यान्यत्वेन प्रत्यवस्थानात् कार्यसमेति । तदाह, कार्यत्वान्यत्वलेशेन यत् साध्यासिद्धिदर्शनम्57 ।
तत् कार्यसमम्58 इति “भदन्ते”नोक्तम् । “कीर्ति”रप्याह,
साध्येनानुगमात् कार्यसामान्येनापि साधने ।
सम्बन्धिभेदाद् भेदोक्तिर्दोषः कार्यसमो मतः59 ॥
इति ।
तदनेन यदीश्वरसाधननिराकरणायोक्तम्—तनुगिरिसागरादीनामन्यत् कार्यत्वम्, अन्यच्च प्रासादाट्टालगोपुरादीनाम् इति, तदपि जात्युत्तरभेवेति उक्तं भवति । न च प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां नास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साम्प्रतम्, अभूत्वा भावलक्षणस्य कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् । तस्मादेतदप्ययुक्तम्—
वस्तुभेदे प्रवृत्तेऽपि शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने60 ॥
न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते । साध्यदृष्टान्तयोर्धर्मविकल्पेन प्रवर्तमानत्वात् । तस्मात् “सूत्रकारो”क्त एव कार्यसमोऽसङ्कीर्ण इति युक्तमुतपश्यामः ॥ ३७ ॥
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ ५ । १ । ३८ ॥
अस्य प्रत्यादेश“सूत्रम्—कार्या…पत्तेः ॥ कार्य”स्योत्पत्तिलक्षणस्यान्यत्वेऽभिव्यक्तिलक्षणात् कार्यात् “प्रयत्न”स्याभिव्यक्तिं प्रति “अहेतुत्वम् ।” कस्मादभिव्यक्तिं प्रति हेतुत्वं न भवतीत्यत आह—“अनुपलब्धिकारण”स्यावरणादेः “उपपत्तेः” अभिव्यक्तिहेतुत्वं स्यात्, तदेव61 तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् । “सति कार्यान्यत्व” इति “भाष्यं सूत्र”वद् योजनीयम् । “यत्र प्रयत्नानन्तरमित्यत्र” यत्रतत्रयोर्व्यत्यासः, तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति । कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह—“व्यवधानापोहाच्च” इति “चो” हेत्वर्थे । “प्रयत्नानन्तरभाविन” इति विषयेण विषयिणमुपलक्षयति । प्रयत्नानन्तरभाविन62 इत्यर्थः अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह— “न तु शब्दस्यानुपलब्धीति ।”
देश्य“वार्त्तिकं—संशयसमात” इति । परिहरति—“उभयसाधर्म्यादिति ।” विशेषानुपलब्धौ63 सत्यामुभयसाधर्म्यात् संशयसमः । इह तु विशेषोपलब्धिमविवक्षित्वेति विशेषः । तदिदमुक्तम्—“अयं तु न तथेति ।” देशयति—“साधर्म्यसमात” इति । निराकरोति—“न, हेत्वध्यारोपणादिति ।” प्रयत्नानन्तरीयकत्वादित्ययं हेतुः प्रयत्नानन्तरमुपलब्धिरित्यध्यारोप्य प्रतिषिध्यते । साधर्म्यसमे तु नारोपणमित्यर्थः ॥ ३८ ॥
॥ इति कार्यसमप्रकरणम् ॥
षट्पक्षीरूपकथाभासप्रकरणम्
प्रतिषेधेऽपि समानो दोषः ॥ ५ । १ । ३९ ॥
तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य वक्तव्यम् । एवं सति तत्त्वनिर्णये कथा पर्यवसानं भवति । यदि पुनर्वाद्यपि जातिवादिनं प्रति साधनाभासेन प्रत्यवतिष्ठेत, ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना कथा भवेदिति शिष्यहितः “सूत्रकारः” समाधानाभासवादिनं प्रति षट्पक्षीमवतारयति—“प्रति…दोषः ॥”
तदेतत्“सूत्रा”वतारपरं “भाष्यम्—हेतोश्चेदनैकान्तिकत्वमुपपाद्यते” प्रतिवादिना, “अनैकान्तिकत्वादसाधकः स्यादिति यदि चानैकान्तिकत्वादसाधकं” वादिनो वचनम्, “प्रतिषेधेऽपि समानो दोषः ।” योऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो जातिवादिनः, सोऽप्यनैकान्तिकः । एवं ह्यनैकान्तिकः स्याद् यदि सर्वमेव प्रतिषेधेत्, यतस्तु किञ्चित् प्रतिषेधति किञ्चिच्च न, तस्मादयमप्यनैकत्वादसाधक64 इत्यर्थः ।
व्याख्यान्तरमाह—“अथवा शब्दस्येति ।” नित्यपक्षोऽभिव्यक्तिर्नोत्पादः, एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधेऽपि समानो दोष इत्यर्थः ॥ ३९ ॥
सर्वत्रैवम् ॥ ५ । १ । ४० ॥
न केवलमस्यां जातावयं समाधानाभासो वादिनः, अपि तु सर्वत्रैव जाताविति शिष्यान् शिक्षयति “सूत्रकारः—सर्वत्रैवम्” ॥ ४० ॥
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥ ५ । १ । ४१ ॥
अस्मिन् समाधाने प्रयुक्ते वादिना पुनर्जातिवादी प्रत्यवतिष्ठते—“प्रति…… दोषः ॥” प्रतिषेधो जातिवादिनस्तस्य विप्रतिषेधो मूलसाधनवादिनः । तस्मिंस्तुल्यो दोष इति जातिवादिनः प्रत्यवस्थानमित्यर्थः ॥ ४१ ॥
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥ ५ । १ । ४२ ॥
अथ पञ्चमं पक्षं साधनवादिनश्चतुर्थपक्षवादिनं प्रति मतानुज्ञापादनमाह—“प्रतिषेधं…मतानुज्ञा” ॥ ४२ ॥
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥ ५ । १ । ४३ ॥
सेयं मतानुज्ञा तृतीये पक्षे पञ्चमपक्षवादिनोऽपि साधनवादिन इति जातिवादी षष्ठे पक्षे स्थित आह—“स्वप…दोषः ॥” स्वपक्षेण लक्ष्यते तदुत्थानत्वाज्जातिः, स्वपक्षलक्षणा अनैकान्तिकत्वोद्भावनलक्षणा । तामपेक्ष्य65 अनुद्धृत्य प्रतिषेधेऽपि जातिलक्षणे समानोऽनैकान्तिकत्वदोष इत्युपपद्यमानं स्वपक्षेऽपि दोषं परपक्षे जातिवादिपक्षे साधनावाद्युपसंहरति । तत्र चानैकान्तिकं66 हेतुं ब्रूते । तदेवं स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्युपगमाद् वादिनोऽपि समानो दोष इति जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य । तदेवं विस्तीर्णं67 सङ्कलय्याह—“तत्र खलु स्थापनाहेतुवादिन” इति । सेयं षट्पक्षी समानदोषापादनेनानिर्णायकत्वात् पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता । तस्मात् समाधानाभासेन जातिवादिनं प्रति साधनवादिना न प्रत्यवस्थेयम्, किं तु सम्यक् साधनेन । तथा चेयमुपहता षट्पक्षी नावतरति । तत्त्वनिर्णयपर्यवसाना च कथा भवति । यदि त्वस्य कथञ्चित् सम्यक्साधनवादिनोऽपि प्रतिभाक्षयात् समाधानं न स्फुरति, ततोऽत्यन्तपराजयाद् वरं संशयोऽपीति न्यायेन समाधानाभासेनापि प्रत्यवस्थेयमेवेत्याशयवानाह—“तेषां साध्वसाधुतायामिति । भाष्य”व्याख्यया “वार्त्तिक”मपि व्याख्यातम् । “एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति” प्रयुज्यमानतया, निराकरणीयतया त्वासामप्युपकार इति ॥ ४३ ॥
॥ षट्पक्षीरूपकथाभासप्रकरणम् ॥
॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां पञ्चमाध्याये प्रथमाह्निकम् ॥
-
“जल्पवितण्डयोः” [ज्] ↩︎
-
“इतरथा°” [ज्] ↩︎
-
“नखचपेटा°” [च्] ↩︎
-
“°त्युक्तम्” [च्] ↩︎
-
“वैधर्म्य°” [च्] ↩︎
-
“वादी” [च्] ↩︎
-
“प्रतिवाद्यपि” [च्] ↩︎
-
“°साधर्म्याद्रूपा°” [च्] ↩︎
-
“°सम्बन्धः साधको धर्म” [च्] ↩︎
-
“तत्र” [ज्] ↩︎
-
“एवं सति” [च्] ↩︎
-
“°रेकीति । तद्ध्यसा°” [च्] ↩︎
-
“न”ओम् [ज्] ↩︎
-
“°मस्त्वेषामानन्त्यम्” [ज्] ↩︎
-
“येन यस्य…तेन तस्यैक्य°” [च्] ↩︎
-
“तदेतत्” [च्] ↩︎
-
“धर्मेनानु°” [च्] ↩︎
-
“°भिः सारूप्यादिति” [च्] ↩︎
-
“°नमित्यस्ति” [च्] ↩︎
-
“चार्थोत्पत्तिसमातः अनुत्पत्तिसमायाः” [ज्] ↩︎
-
“°विपरीतारोपेण” [च्] ↩︎
-
“साधर्म्यद°” [च्] ↩︎
-
“°न्तसंशयप्रसङ्गो नि” [च्] ↩︎
-
“तद्रहितं न का°” [च्] ↩︎
-
“°नतिवर्तनम्” [च्] ↩︎
-
“पूर्वपक्षवार्त्तिकं” [च्] ↩︎
-
“संशयसमासाध°” [च्] ↩︎
-
“स्वपक्ष°” [च्] ↩︎
-
“दूषणीयमिति” [च्] ↩︎
-
“परसाधन°” [ज्] ↩︎
-
“सदुत्तरं भवति” [ज्] ↩︎
-
“सत्प्रति… वादित्वात्” ओन्ल्य् इन् [ज्] ↩︎
-
“त्रैकाल्यानुपपत्तेर्हेतो°” [ज्] ↩︎
-
“व्यावृत्तिः” [च्] ↩︎
-
“°नानुकूलगु°” [च्] ↩︎
-
“सर्वथावि°” [ज्] ↩︎
-
“°काशदिगात्म° [च्] °परमाण्वादयः” [ज्] ↩︎
-
“प्रसङ्गसाधनं” [च्] ↩︎
-
“अनित्याद°” [च्] ↩︎
-
“अनियतम्” [च्] ↩︎
-
“°ध्याध्यारोपेण” [ज्] ↩︎
-
“साधनस्येति”ओम् [ज्] ↩︎
-
“°त्वारोपणं” [च्] ↩︎
-
°देन शब्दानित्यत्वं ↩︎
-
“°त्तिनियमोऽभि°” [च्] ↩︎
-
“शाखाभङ्गजशब्दानां कारणमनित्यत्वज्ञापकं न” [च्] ↩︎
-
“°नुपलब्धिरप्य°” [च्] ↩︎
-
“°भावहेतुः न हेतुरात्मा°” [च्] ↩︎
-
“मा भूत् स्वस्य” [ज्] ↩︎
-
“प्रतिज्ञेयम्” [च्] ↩︎
-
“निषेध्येत” [च्] ↩︎
-
“तस्य” [ज्] ↩︎
-
“सत्त्वोपलब्धे” [ज्] ↩︎
-
“°त्युच्येत अतः” [ज्] ↩︎
-
“तदनुप°” [ज्] ↩︎
-
“धर्मा नित्याः” [च्] ↩︎
-
°द्धि चोदनममिति ज्ञानश्रीनिबन्धेषु पाठः । ↩︎
-
एतत्तु त्रिधा वक्त्रभिसन्धितः इति तदनुसारी श्लोकशेषः । ↩︎
-
प्र। वा १। १६ ↩︎
-
प्र। वा। १। १४ ↩︎
-
“एवं” [च्] ↩︎
-
“भासिनः” [ज्] ↩︎
-
“विशेषो°” [ज्] ↩︎
-
“°न्तिकः, अतोऽसा°” [च्] ↩︎
-
“°मभ्युपेत्य” [च्] ↩︎
-
“°कत्वे” [ज्] ↩︎
-
“विस्तीर्य” [च्] ↩︎