चतुर्थाध्याये द्वितीयाह्निकम्
तत्त्वज्ञानोत्पत्तिप्रकरणम्
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ ४ । २ । १ ॥
तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि । प्रयोजनादयोऽपि “यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः” इत्यतिदेशेन परीक्षिता इति षोडशापि प्रमाणादयः परीक्षिताः । तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् । तत्रापि प्रमेयतत्त्वज्ञानं साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम् । इदमिहेदानीं परीक्ष्यते, किं प्रत्येकमात्मादीनां प्रमेयाणां तत्त्वज्ञानं निःश्रेयसाधिगमोपाय उताहो कस्यचिदेषामेकदेशस्येति । तामिमां परीक्षामवतारयति “भाष्यकारः-किं नु खलु भो यावन्तो विषयाः” प्रमेयाणि “तावत्सु प्रत्येकमिति ।” प्रतिप्राणभृद्भेदं यावन्त आत्मानः, यावन्ति1 शरीराणि, यावन्ति चेन्द्रियाणीत्यर्थः । पार्श्वस्थः पूर्वपक्षिणं पृच्छति—“कश्चात्र विशेष” इति । पूर्वपक्षिण उत्तरम्—“न तावदेकैकत्रेति ।” समुदायैकदेशाभ्यामनुपपत्तेः प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इत्ययुक्तमिति पूर्वः पक्षः । सिद्धान्तमाह—“मिथ्याज्ञानं वै खलु मोह” इति । वैशब्दः पूर्वपक्षाक्षमायाम्, खलुशब्दो हेत्वर्थे । अयुक्तः पूर्वपक्षो यस्मान्मिथ्याज्ञानं मोह इति । न तत्त्वज्ञानमज्ञाननिवृत्तिमात्रेण निःश्रेयसोपयोगि, अपि तु संसारनिदानोच्छेदद्वारेण दृष्टेनैव । न च तत्त्वाज्ञानं संसारहेतुरपि तु मिथ्याज्ञानम् । तदुच्छिन्दद्विरोधितया तत्त्वज्ञानमपवर्गहेतुरिति । भवत्वेतत्, तथापि पूर्वपक्षस्य किमुत्तरमित्यत2 आह—“तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानमिति ।” स्वसम्बन्धिनो ह्यात्मादयो विपर्ययेण परिच्छिन्नाः संसारहेतव इति तद्विषयमेव मिथ्याज्ञानमपनेयम्, नात्माद्यन्तरविषयम्3 । तेन तत्र मिथ्याज्ञानं मा निवर्त्तिष्ट, निवर्ततां वा स्वात्मादिदृष्टान्तेन न तु तस्य संसारनिवृत्तिं प्रति कश्चिदुपयोगः । यस्य तूपयोगस्तत्र तत्त्वज्ञानं न दुष्करमिति । पृच्छति—“किं पुनस्तन्मिथ्याज्ञानम् ?” सन्ति खल्वत्र प्रवादिनां नाना विप्रतिपत्तयः । केचिदाहुः विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धप्रकाशानन्दघनाद्वैतब्रह्मसाक्षात्कारस्तत्त्वज्ञानमिति । अन्ये तु सत्त्वपुरुषान्यताख्यातिम् । धर्मपुद्गलनैरात्म्यज्ञानमित्यपरे । शरीरेन्द्रियाद्यनित्यव्यतिरिक्तनित्यात्मदर्शनमिति वृद्धाः । तदेवं विप्रतिपत्तेः प्रश्नः । उत्तरम्—“अनात्मन्यात्मग्रहोऽहमस्मीति मोहोऽहङ्कारः ।” न तावदद्वैतानन्दघनात्मज्ञानं तत्त्वज्ञानम् भेदस्य प्रत्यक्षसिद्धस्यासति बाधकेऽपह्नोतुमशक्यत्वात् । न च प्रकाशानन्दावात्मधर्मावात्मातिरिक्तावात्मस्वभावौ भवितुमर्हतः । सत्यं विज्ञानमानन्दं ब्रह्मेति च श्रुतिरान्दचैतन्यशक्त्यभिप्राया । भेद एव च तद्वत्तया कथञ्चित् सामानाधिकरण्यमुपपद्यते । अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सहप्रयोगानुपपत्तिः । न च प्रकृष्टः प्रकाशः4 सवितेत्यत्रापि प्रकर्षप्रकाशयोरभेदः,5 अप्रकाशस्यापि प्रकर्षसम्भवात्, अप्रकृष्टस्यापि खद्योतादेः प्रकाशसम्भवात् । तस्माद् यकिञ्चिदेतत् । सत्त्वपुरुषान्यताख्यातिस्तु सत्त्वस्यैव प्रकृतेरसम्भवात् अयुक्ता सत्कार्यवादमूलत्वात्प्रधानसद्भावस्य तन्निराकरणेनैव निराकरणम् । धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गेन नित्यात्मसद्भावकथनेन च निराकृते । तस्मात् सुष्ठूक्तमनात्मन्यात्मग्रहोऽहमस्मीति मोहोऽहङ्कार इति । अत एव सर्वस्यैवमात्माशीः कृमेरपि मा न भूवं भूयासमिति । सोऽयमीदृशोऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्त्वविदुषः । स खल्वहिनिर्ल्वयनीमिवाहिः ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र स्निह्यति, स्नेहविरहाच्च न तप्यते नाप्यनुशोचतीति । अतत्त्वज्ञानवतः संसारं दर्शयित्वा तत्त्वज्ञानवतः संसारनिवृत्तिमाह—“यस्तु दुःखमिति ।” तदेवमुक्तेन प्रकारेण मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यतस्तस्मान्मोक्षमाणैः6 प्रेत्यभावफल दुःखानि च परिज्ञेयानि व्यवस्थापयतीत्यादिपूर्वोपसंहारः । “आसेवमानस्याभ्यस्यतो भावयत” इति पर्यायकथनं भावनादार्ढ्योपदर्शनार्थम् ।
अर्थगतिं परिशोध्यात्रार्थे “सूत्रं” पठति—“दोषनिमित्तानां…निवृत्तिः ॥” शास्त्रार्थसङ्ग्रहोऽनूद्यते शास्त्रतात्पर्यसङ्ग्रहो द्वितीय“सूत्रे”णानूद्यत इत्यर्थः । “किं नु खलु भो” इति “भाष्यम् ।” तदनुपपन्नम्, यतो न विषयमात्रतत्त्वज्ञानमपवर्गहेतुः अपि तु प्रमेयतत्त्वज्ञानमित्यत आह “वार्त्तिककारः—तत्र विषयान्तराणामिति ।” यावन्तो विषया इति न विषयमात्राभिप्रायम्, अपि तु प्रमेयाभिप्रायमित्यर्थः । सुगममन्यद् “वार्त्तिकम्” ॥ १ ॥
दोषनिमित्तं रुपादयो विषयाः सङ्कल्पकृताः ॥ ४ । २ । २ ॥
शरीरादिष्वनात्मस्वात्मबुद्धिर्निवर्तनीयेत्युक्तम् । तत्र प्रथमं कस्मिन्नात्मबुद्धिर्निवर्तनीयेत्यपेक्षायामाह—“प्रसङ्ख्यानानुपूर्व्या तु खलु ।” प्रसङ्ख्यानं समाधिजं तत्त्वज्ञानम्, तच्च विषये सुकरमिति तत्रैव प्राथमिकस्य प्रथमं प्रयत्नो युक्तः ।
सूत्रम्—“दोषनिमित्तं…सङ्कल्पकृताः ॥” मिथ्याज्ञानं सङ्कल्पः, तेन विषयीकृता इत्यर्थः । कामाः काम्याः ॥ २ ॥
तन्निमित्तं त्ववयव्यभिमानः ॥ ४ । २ । ३ ॥
अन्ये खल्ववयविसञ्ज्ञां निवर्तयन्तोऽवयविनमेव प्रत्याचक्षते तान् प्रत्याचक्षाण आह—“अतः परं काचिदिति । सूत्रम्—तन्निमित्तं…मानः ॥” निमित्तसञ्ज्ञेति7 निमित्तं दन्तत्वादि, तद्विशिष्टा विषयाः सञ्ज्ञाः । प्रियायाः कामुको दन्तौष्ठनासिकादीनवयवाननुभावयन् तस्यां प्रसक्तो भवति । व्यञ्चनान्यवयविनोऽवयवास्तैः सहोपालम्भात् तेषामनुव्यञ्जनं तत्तत्सादृश्यं तेन तदारोपः । तथा च स्त्रैणानां व्याहारः,
द्रवत्कनकनिर्मलद्युतिरनङ्गलीलैकभू-
र्महेभकटविभ्रमस्तनभरालसाङ्गी यदि ।
प्रिया न परिरभ्यते तुलितसिद्धसञ्जीविनी
सहेमहि कुतोऽन्यथा विषमबाणबाणव्यथाम् ॥
मदनसरितमेतां गाहमानो जनोऽयं
जघनपुलिननाभीमण्डलावर्तरम्याम् ।
मुखनलिनसनाथामुल्लसद्भ्रूलतोर्मिं
चिरविरहहुताशायासमुज्झां चकार ॥
विवेकिनस्त्वशुभसञ्ज्ञां भावयन्त आहुः,
मज्ज्ञामस्थ्नामथ प्लीह्नां यकृतां शकृतामपि ।
पूर्णाः स्नायुशिराः स्यूताः स्त्रियश्चर्मप्रसेविकाः ॥
ऋषयोऽप्यूचुः
स्थानाद् बीजादुपष्टम्भान्निष्पन्दान्निधनादपि ।
कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुः ॥
अशुभसञ्ज्ञाभावनाप्रयोजनमाह—“तामस्य भावयत” इति । तत्किमिदानीमवयव्यनुव्यञ्जनसञ्ज्ञयोर्विषयो नास्ति, अशुभसञ्ज्ञाविषय एव परमस्तीत्यत आह— “सत्येव च द्विविधे विषय” इति । द्विविध एवासौ कामिनीलक्षणो विषयः तथापि रागादिप्रहाणार्थमवयवादिसञ्ज्ञागोचरत्वं परित्यज्याशुभसञ्ज्ञागोचरत्वमस्योपादीयते वैराग्योत्पादनायेत्यर्थः । अत्रैव दृष्टान्तमाह—“यथा विषसम्पृक्त” इति । न हि तत्र विषमधुनी परमार्थतो न स्तः । अपि तु वैराग्याय विषसञ्ज्ञा तत्रोपादीयत इत्यर्थः ॥ ३ ॥
॥ इति तत्त्वज्ञानोत्पत्तिप्रकरणम् ॥
प्रासङ्गिकमवयवावयविप्रकरणम्
विद्याविद्याद्वैविध्यात् संशयः । ४ । २ । ४ ॥
तदेवं स्वमतेन प्रसङ्ख्यानोपदेशमुक्त्वा पराभिमतप्रसङ्ख्यानं निराकर्तुमुपन्यस्यति—“अथेदानीमर्थं निराकरिष्यता विज्ञानवादिना अवयविनि निराकरणमुपपाद्यते ।” अर्थविषये8 खल्ववयव्यनुव्यञ्जनसञ्ज्ञे । तत्रार्थमात्रस्याभावात् कुतोऽवयव्यनुव्यञ्जनसञ्ज्ञे9 ? तन्निराकरणाय प्रथममवयवी निराक्रियते, पश्चात् परमाणुः । ततश्च ज्ञानमात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायः ।
तत्र संशयपूर्वकत्वादुपपादनस्य विचारस्य संशयं प्रथममाह—“विद्या… संशयः ॥” उपलब्धिर्विद्या अनुपलब्धिरविद्या । सच्चोपलभ्यते यथा तडागे तोयम्, असच्चोपलभ्यते यथा मरुमरीचिकायामुदकम् । सच्च नोपलभ्यते, यथा चिरनिखातं भूमौ निध्यादि । असच्च नोपलभ्यते, यथा भूतले दृश्यमाने तत्तुल्योपलभ्मनयोग्यतो घटादिः । तदेवं विद्याविद्याद्वैविध्यादवयविनि संशयः । यद्यवयव्युपलभ्यते तथापि संशयः, अथ नोपलभ्यते तथापि संशय इत्यर्थः ॥ ४ ॥
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ४ । २ । ५ ॥
अत्र सिद्धान्ती वक्ष्यमाणमप्यवयविनिराकरणहेतुं निराकरिष्यामीत्याशयवानाह—“तदसंशयः…त्वात् ॥” अवयविनः । “वार्त्तिककारस्तु” स्वयं संशयं निराकरोति, न विद्याविद्याद्वैविध्यं संशयस्य कारणमिति10 ॥ ५ ॥
वृत्त्यनुपपत्तेरपि न संशयः ॥ ४ । २ । ६ ॥
पूर्वपक्षवाद्याह—“वृत्त्यनुपपत्तेरपीति” ॥ ६ ॥
कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥ ४ । २ । ७ ॥
वृक्षस्तिष्ठति शाखादिषु शाखादयो वा वृक्ष इति लौकिकीं प्रतिपत्तिमनुरुध्यमानो विकल्पयति “वार्त्तिककारः—अवयवा अवयविनि” इति । “एकद्रव्यश्चावयवः प्राप्नोति ।” कुतः ? “एकावयविवृत्तित्वात् ।” भवतु को दोष इत्यत आह—“न चैकद्रव्यं द्रव्यमविनश्यदाधारमस्ति ।” कृतकस्य नित्यत्वप्रसङ्गादिति शेषः । “अवयव्येकदेशेनेति ।” अवयविनो य एकदेशस्तेनावयवोऽवयविनि11 वर्तत इत्यर्थः । न ह्यस्यावयविनोऽन्येऽवयवेभ्य12 एकदेशावयवाः सन्तीति ॥ ७ ॥
तेषु चावृत्तेरवयव्यभावः ॥ ४ । २ । ८ ॥
“एकेनावयवेनारभ्यत इति सततोत्पत्तिप्रसङ्गः ।” संयोगाय किल चरमभाविने अवयवव्यापारस्तन्निमित्तानि चापेक्ष्यन्ते । एकद्रव्यस्य तूत्पत्तिं प्रति न संयोगापेक्षेति यावदवयवमवयव्युत्पद्येतेत्यवयव्यनवरुद्धो न कदाचिदवयवो दृश्येतेत्यर्थः ॥ ८ ॥
पृथक् चावयवेभ्योऽवृत्तेः ॥ ४ । २ । ९ ॥
अवयवव्यतिरेकेण वर्तमानोऽवयव्युपलभ्येत, न चास्याधारान्तरमुपलभ्यते । दृश्यमानाश्चावयवा नाधिकरणमस्येति भवतैवंवादिना13 अभ्युपगतमित्यभिप्रायेणाह—“नित्यश्च स्यात्” ॥ ९ ॥
न चावयव्यवयवाः ॥ ४ । २ । १० ॥
यस्तु मन्येत अवयवानां धर्ममात्रमवयवी न त्ववयवेभ्योऽत्यन्तं भिन्नोऽभिन्नो वा, भिन्नत्वे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । अभेदेऽपि धर्मरूपवत् तदनुपपत्तेश्च । तस्मात् कथञ्चिद् भिन्नः कथञ्चिदभिन्नो धर्ममात्रमवयवानामवयवीति, तं प्रत्याह—“न चा…यवाः ॥” न तावद् भेदाभेदौ परस्पराभावात्मानावेकत्र समाविशत14 इत्युक्तम् । नाप्यात्यन्तिके अभेदे धर्मधर्मिभावः । तस्माद् यथा आत्यन्तिकभेदेऽपि केषाञ्चिदेव कार्यकारणभावः, तथा केषाञ्चिदेव धर्मधर्मिभाव इत्येषितव्यम् । तथा च दूषणमित्यर्थः । “अवयवी चैकदेशेनावयवेषु वर्तते इत्यवयवसमूहमात्रमवयवी प्राप्नोति इति ।” अस्यायमर्थः । अवयवे हि वर्तमानोऽवयवीत्युच्यते । अवयव्येकदेशाश्चेदवयवेषु वर्तन्ते, एकदेशा एव तर्ह्यवयविनः । ते च नानेत्यवयवसमूहमात्रमवयवी प्राप्नोति । एकस्मिंश्चावयवे एकदेशेन वर्तमानोऽवयवीति न तावदवयवी क्वचिदवयवे वर्तते इति तदेकदेशानां तत्र तत्रावयवे वृत्तेः तावन्मात्रेण चावयविनो ग्रहणमिति यत्रैवास्यैकदेशो वर्तते तत्रैव ग्रहीतव्यः । तथा चैकस्मिन् तन्तौ पटैकदेशो वर्तते इति तन्तावेकस्मिन् पटो दृश्येतेत्यर्थः ॥ १० ॥
एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ४ । २ । ११ ॥
सिद्धान्तवाद्याह—“एकस्मिन्…अप्रश्नः ॥ ११ ॥”
अववयवान्तरभावेऽप्यवृत्तेरहेतुः ॥ ४ । २ । १२ ॥
एकदेशेन चावयवी न स्वावयवेषु वर्तत इत्यत्र प्रतिज्ञार्थे अवयवान्तराभावादित्यहेतुः । कस्मात् ? यद्यप्यवयवान्तरमवयविनो भवति, तथाप्यवयवा न्तराण्येवावयविनोऽवयवान्तरेषु वर्तन्ते किमायतमवयविवृत्तेरिति । एकश्चानेकत्र वर्तत इति प्रतिजानानः किं कार्त्स्न्येन किमेकदेशेनेति नानुयोक्तव्यः । कस्मात् ? “उभयेन” कार्त्स्न्येन एकदेशेन वा नानात्वैकार्थसमवायिना एकस्यावयविनो “व्याघातात् ।” एतदुपजीव्याह—“यद्यवयवी नैकदेशेन वर्तते न कार्त्स्न्येन, अथ कथं वर्तत” इति ?
शङ्कते—“रूपाद्यन्तरानिर्देशादिति चेत् ?” सोपहासं दृष्टान्तमाह—“यथा अचित्रास्तन्तव पटं चित्रमारभन्त” इति । “नैयायिकैः” किलाचित्रैस्तन्तुभिश्चित्रः पट आरभ्यत इत्यभ्युपेयते । तच्चैतदयुक्तम् । न तावच्चित्रं रूपमेकं पटसमवेतं स्ववचनविरोधात् । नाना हि चित्रमुच्यते, तत् कथमेकमिति । तेन यदुक्तं नानैकमिति, तदुक्तं भवति चित्रमेकमिति । यदाहुः चित्रं तदेकमिति चेदिदं चित्रतरं महत्15 ।
इति ।
न च नीलपीतादयो बहवोऽव्याप्यवृत्तयश्चित्रपदास्पदमिति साम्प्रतम्, रूपादीनां व्याप्यवृत्तित्वात् । तेऽमी विवादाध्यासिता नीलपीतसितादयो व्यापनीया आश्रयवृत्तयो रूपजातीयत्वात् शुक्लपटगतरूपवदिति । उपपन्न उपहासो यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति । निराकरोति—“नोपलभ्यमानरूपाधारत्वात् । अवयविनो रूपं निर्दिश्यतामित्येवं ब्रुवाणेनेति ।” अवयवोऽस्यास्तीत्यवयवी, अवयवश्च कारणम्, तद्वांश्चावयवी कार्यमिति कार्यकारणभावाभ्युपगमः कृतो16 भवति, न च प्रसङ्गसाधनं नाम किञ्चिदस्ति प्रमाणम्, तर्कस्तु भवेत् । न चायं प्रमाणेनेतिकर्तव्यतां विना प्रमाणमर्थं साधयितुमर्हतीत्यभिप्रायः17 । यदपि त्वयोपहासाभिप्रायेण पटरूपं चित्रं दृष्टान्तीकृतं तत्राभिप्रायस्तावद् भवतु18 यादृशस्तादृशो वा, वचनात् तावदयं दृष्टान्तः प्रतिभाति । दृष्टान्तश्च वादिप्रतिवादिनोरविवादविषय इति तत्साधनं व्यर्थम् । तथापि “उपेत्य चित्रविवादं ब्रूमः” त्वां प्रति चित्रं रूपं पटसम्बन्धितया साधयामः त्वदभिप्रायप्राप्तोपहासनिराकरणायेत्यर्थः । पटस्य चित्रं रूपमित्यनुभव एवात्राबाधितः प्रमाणमिति भावः ।
“बौद्धः” स्वाभिप्रायमुद्घाटयति—“अनेकत्वप्रसङ्ग इति चेद्” इति । निराकरोति—“न, चित्रशब्दस्यैकानेकविषयत्वात् ।” यदि नानैव चित्रमुच्येत स्याद् विरोधः, किं त्वेकस्मिन्नपि चित्रपदं प्रयुज्यते । तस्मान्नैकत्वेनास्य विरोध इत्यर्थः । देशक आह—“न, एकस्मिन्नदृष्टत्वात् ।” एकस्मिंश्चित्रग्राहिणोऽनुभवस्यादृष्टत्वात् । पुरुषविवक्षाधीनप्रवृत्तयस्तु शब्दाः क्व नाम दुर्लभा इति भावः । परिहरति—“न, अभ्युपेतहानेरिति” न तावदनेकपदपर्यायश्चित्रशब्दोऽनेकं चित्रमित्यनेकपदेन सामानाधिकरण्यं प्रतिपत्तुमर्हति, पर्यायशब्दानां सहप्रयोगानुपपत्तेः । दृश्यते तु प्रयोगोऽनेकं चित्रमिति तस्माद् यथा शुक्लानि नाना तथा चित्राणि नानेत्यभ्युपेयम् । तथा चैकं शुक्लमनभ्युपगच्छतो यथा शुक्लनानात्वाभ्युपगमो हीयते, एवमेकैकं19 चित्रमनभ्युपगच्छतश्चित्रनानात्वाभ्युपगमो हीयत इत्यर्थः । शङ्कान्तरमाह—“अथानेकमचित्रमिति ।” निराकरोति—“एवमपीति ।” शङ्कते—“अथाचित्राणीति ।” निराकरोति—“एवं20 च न किञ्चिदिति ।” इष्यत एवास्माभिर्यथावयवसमवेतैः सितहरितलोहितादिभिरसमवायिकारणैरवयविनि चित्रं रूपमारभ्यत इति । देशयति—“पुटान्तर” इति । “पुटान्तरं पार्श्वान्तरम् ।” परिहरति—“भवतैवेदमुक्तमिति ।” एकोऽपि गुण आरभत इति मत्वाशङ्कते—“चित्रप्रत्ययस्तत्रेति ।” निराकरोति—“न प्रसक्त” इति । ननु यच्चित्राचित्राभ्यामारब्धमवयविनो रूपं तदपि पीतादिवन्निर्दिश्यताम्, न च शक्यं निर्देष्टुम् । तस्मान्नास्तीत्यत आह—“एतावदिति ।” अनिर्वाच्यमप्यनुभूयमानमशक्यापह्नवम् । यथा इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्21
इत्यर्थः । “न चावयवरूपादवयविनो ग्रहणं युक्तमिति ।” न द्रव्यान्तररूपेण द्रव्यान्तरे चाक्षुषत्वं दृष्टम् । न खलु पृथिव्यादिरूपेण वायुश्चाक्षुष इत्यर्थः । प्रकृतमुपसंहरति—“तस्मादिति ।” अविकल्पिता अविचारिता इत्यर्थः ॥ १२ ॥
केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ॥ ४ । २ । १३ ॥
सर्वाग्रहणमवयव्यसिद्धेरित्यत्र प्रत्यवस्थितः पूर्वपक्षी अथेदमाहेति— “केशसमूहे…तदुपलब्धिः22 ॥” इत्यादि“सूत्रभाष्यवार्त्तिकानि” पूर्वपक्षसिद्धान्तयोरतिरोहितार्थानि ॥ १३ ॥
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥ ४ । २ । १४ ॥
अवयवावयविप्रसङ्गश्चैवमा प्रलयात् ॥ ४ । २ । १५ ॥
अपि चायं वृत्तिविकल्प आश्रयव्याघातादयुक्त इत्याह—“अवय…… यात्” ॥ १५ ॥ अत्र त्रयः कल्पाः23 सम्भवन्ति । योऽयमवयवेषु अवयविवृत्तिविकल्पानुपपत्त्या अवयविनोऽभावप्रसङ्ग आपाद्यते, स आ प्रलयाद् वा निवर्तेत आ परमाणोर्वा, न वा क्वचिदपि निवर्तत इति । तत्र प्रथमद्वितीयविकल्पावाश्रित्येदं “सूत्रम् ।” यथैव वृत्तिविकल्पः स्थूले घटादावेवं तदवयवेषु तदवयवेष्विति तत्तदभावात् प्रलये व्यवतिष्ठेत । न च तदा प्रलयः सर्वोपाख्याविरहितो दर्शनविषयः सम्भवतीति दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते । उपलक्षणं चैतद् “आ प्रलयादिति ।” आ परमाणोरित्यपि द्रष्टव्यम् । परमाणूनामप्यतीन्द्रियत्वेन दर्शनविषयत्वाभावादनाश्रयता विकल्पस्य तदवस्थैव । तदिदमुक्तं— “निरवयवाद् वा परमाणुतो निवर्तेत” इति ॥ १५ ॥
न प्रलयोऽणुसद्भावात् ॥ ४ । २ । १६ ॥
“अथापीति” अपि चेत्यर्थः । अपि च प्रलयमभ्युपेत्येदमुक्तम् आ प्रलयादिति । परमार्थतस्तु—“न24 प्रलयोऽणुसद्भावात् ॥” निरवयवत्वे प्रमाणमाह—“निरवयवत्वं तु परमाणोरिति” ॥ १६ ॥
परं वा त्रुटेः ॥ ४ । २ । १७ ॥
अथानन्त एवायमवयवावयविविभागः कस्मान्न भवतीत्यत आह—“परं वा त्रुटेः ॥” त्रुटिस्त्रसरेणुरित्यनर्थान्तरम् । जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
यदि त्रुटेः परं द्वित्रिपदकेऽवयवविभागो नावतिष्ठेत ततोऽवयवविभागस्यानवस्थानाद् द्रव्याणामसङ्ख्येयत्वात् त्रुटित्वनिवृत्तिः, त्रुटिरपि हि सुमेरुणा तुल्यपरिमाणः स्यात् । न खल्वनन्तावयवत्वे कश्चिद् विशेष इत्यर्थः ।
“वार्त्तिकम्—यावद्25 वा प्रलयोऽनिवृत्तिर्वेति ।” प्रलयपरमाणुपक्षे विकल्पनिवृत्तिर्नास्ति26 दर्शनविषयस्तु नास्तीत्यनाश्रयो विकल्पः । अनन्तावयवत्वे तु सर्वस्य विकल्पाघ्रातत्वे दर्शनविषयाभाव इत्यनाश्रयो विकल्प इत्यर्थः ।
सङ्ख्योदाहरणम्—“इयन्तश्च परमाणवः संहतास्त्रुटिभावमापद्यन्त” इति । सावयवत्वे च परमाणुशब्दस्यार्थो वक्तव्यः किमुक्तं भवति परमाणुरिति ? परमत्वविशिष्टो ह्यणुः परमाणुः यतः क्षोदीयो नापरमस्तीति यावत् । तस्मादपि चेत् क्षोदीयोऽन्यदस्ति, नैष परमत्वविशिष्टोऽणुरित्यर्थः । अथ भिन्नपरिमाणाः परमाणोरवयवास्ततो न्यूनपरिमाणा इति यावत् । ततो न परमाणुः प्रतिषिध्यते परमाण्ववयवा एव परमाणवः । ते चानवयवत्वादकार्याः । त्वया च परमाण्वारब्धं कार्यं परमाणुरिति कृत्वा आरोप्य वृत्तिविकल्पेन प्रतिषिध्यत इति ॥ १७ ॥
॥ अवयवावयविप्रकरणम् ॥
निरवयवत्वप्रकरणम्
आकाशव्यतिभेदात् तदनुपपत्तिः ॥ ४ । २ । १८ ॥
अथेदानीमानुलम्भिकः तस्य व्याख्यानं सर्वं नास्तीति मन्वान आह— “आकाश…पपत्तिः ॥ आकाशव्यतिभेदात् तस्य परमाणोर्निरवयवस्यानुपपत्तिः ।” सावयवत्वे तु वृत्तिविकल्पात् तदभाव इति शून्यतैव तत्त्वं भावानाम् । अनाश्रयोऽपि विकल्पो यथालोकप्रतीति कल्पनामात्रनिर्मितस्तात्त्विकीं शून्यतां गमयिष्यति, मिथ्याज्ञानानामपि तत्त्वावगमहेतुत्वदर्शनात् । यथा दूराद् वनस्पतौ हस्तिप्रत्ययप्रवाहो वनस्पतितत्त्वप्रतिपत्तेर्हेतुः । यथा रेखागवयो वा विकल्पितो गवयत्वप्रतिपत्तेरित्यादि बहूत्प्रेक्षितव्यमिति भावः । तदेतद् “वार्त्तिककारो” दूषयति—“आकाशव्यतिभेदादनित्यः परमाणुरित्यभिदधानो व्यतिभेदार्थं प्रष्टव्य” इति ॥ १८ ॥
आकाशासर्वगतत्वं वा ॥ ४ । २ । १९ ॥
अन्तर्बहिरिति कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥ ४ । २ । २० ॥
“अन्तर्बहिरिति27 कार्यस्य कारणान्तरवचनमिति ।” कारणान्तरं कारण विशेषः । तस्य वचनमित्यर्थः । उपेत्य परमाणोरवयवान्न तद्विभागस्याकाशं कारणमिति । आकाशव्यतिभेदादित्याकाशहेतुकं व्यतिभेदं विभागमाह । न चाकाशं विभज्यमानयोर्द्रव्यान्तरयोर्विभागस्य कारणम्, अपि तु कर्मेत्यर्थः । “सर्वतोऽव्यवहितस्य यस्य मध्ये अवयवा न सन्तीति तत्सुषिरमिति ।” सर्वतोऽव्यवहितस्य निरन्तरस्यावयविनः स्वावयवद्वारेण । एतदुक्तं भवति, यस्यावयवाः परितो निरन्तरमवस्थिता मध्ये च न सन्ति तत् सुषिरमिति । “यन्मूर्तिमत् तेन सर्वेण सम्बध्यते ।” मूर्तिमता सर्वेण सम्बद्धत्वं सर्वगतत्वं वदतो “वार्त्तिककारस्या”जसम्बन्धस्याभ्युपगमः28 प्रौढिवादतयैव लक्ष्यते ॥ २० ॥
शब्दसंयोगविभवाच्च सर्वगतम् ॥ ४ । २ । २१ ॥
अव्युहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥ ४ । २ । २२ ॥
स्यादेतत् । आकाशं चेत् सर्वगतं ततो मूर्ताणां द्रव्याणां तेन प्रतिबन्धाद् गतिविधारणं व्यूहान्तरापादनं29 च जलौघस्येव वेगवता30 नावादिना भवेत् । न चास्ति, तस्मान्न सर्वगतमित्यत आह—“अव्यूहाविष्टम्भ…धर्माः ॥” यत एवाव्यूहाविष्टम्भावत एवाप्रत्यूहं विभुत्वमस्येत्यर्थः ॥ २२ ॥
मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥ ४ । २ । २३ ॥
पुनः “शून्यतावादी” प्रत्यवतिष्ठते—“मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥” चस्त्वर्थः सिद्धान्तं निवर्तयति । यद्यपि मूर्तिमतामिति सम्बन्धित्वमात्रेणोपात्तं “सूत्रे,” तथापि हेतुपदतया “वार्त्तिककार” उपादत्ते—“सावयवा परमणवो मूर्त्तिमत्त्वाद्” घटादिवदिति । प्रयोगान्तरमाह—“संस्थानवत्त्वादिति” ॥ २३ ॥
संयोगोपपत्तेश्च ॥ ४ । २ । २४ ॥
“सूत्रा”न्तरमनुवृत्तिसहितं पठति—“संयोगोपपत्तेश्च” ॥ २४ ॥
अनवस्था कारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ ४ । २ । २५ ॥
पौनरुक्त्यं देशयति—“नन्विदमिति ।” परिहरति—“न चरितार्थमिति । मूर्त्तिर्नामाव्यापिनो द्रव्यस्य षङ्विधं परिमाणमिति ।” परमह्रस्वत्वपरमाणुत्वे परमसूक्ष्म एव द्रव्ये व्यवस्थिते31 । व्यापि तु गृहीत्वा परममहत्त्वपरमदीर्घत्वाभ्यामष्टविधं परिमाणं भवति । परममहत्त्वपरमदीर्घत्वे च सर्वगतद्रव्यवर्तिनी32 इति न मूर्तिः । असर्वगतद्रव्यपरिमाणं मूर्तिरिति परमर्षिवचनात्33 । संस्थानं नाम प्रचयाख्यः संयोगो घटादिवृत्तिर्घटत्वादिजातिव्यक्तिहेतुरिति । संयोगः संयोगमात्रं न त्वप्राप्तिपूर्विका प्राप्तिरिति । तस्मादपौनरुक्त्यम् । तदेत“च्छून्यवादि”मतमपाकरोति—“यत्तावन्मूर्त्तिमत्त्वादिति । शून्यतावादी” प्रलयान्तत्वाभिमानेनाह—“अथ तावदिति ।” सिद्धान्त्याह—“अन्तो निरवयव” इति । प्रलयान्तत्वमधस्तान्निराकृतमिति भावः । नन्वधस्तान्निराकरणान्मा भूत् प्रलयान्तो विनाशः । विभागान्तश्च भविष्यति, किं परमाण्वन्तताग्रहेणेत्याशङ्कते—“अथान्तो विभागः ।” निराकरोति—“स न युक्त” इति । नासति गुणिनि गुणोऽस्तीत्यर्थः । एतावन्तश्च कल्पाः सम्भविनः तत्र प्रथमे कल्पे अनैकान्तिकव्याघातौ द्वितीये विभागस्यानाधारताप्रसङ्गः । तृतीये तु त्रुटेरमेयत्वप्रसङ्ग इत्याह—“एतावच्चैतत्” कल्पजातं “स्यादिति ।” परमाण्वन्ततां विभागस्य ब्रुवन्निरवयवं च मूर्तिमन्तं च परमाणुं प्रतिपद्यसे इति । अनन्तत्वे तु त्रुटेरमेयत्वप्रसङ्गो व्याघातः । प्रलयान्तत्वे च विभागस्यानाधारत्वप्रसङ्गो व्याघातः । सावयवशब्दस्यार्थः समानजातीयारब्धं34 । न केवलं तदारब्धमपि तु तदाश्रितम् । तन्त्वाद्यारब्धं पटादिद्रव्यं तन्त्वाद्याश्रितं च । नन्वेवमपि कुतः सावयवत्वमित्यत आह—“अवयवः” तदाधारः “तस्य” समानजातीयारब्धस्य कार्यद्रव्यस्याधारः । तस्मात्35 सावयवत्वं कार्यत्वविशेष इति । तस्मात् सावयवः36 परमाणुरिति ब्रुवता कार्यविशेषः परमाणुरित्युक्तं भवति । कार्यविशेषः परमाणुश्चेति व्याहतम्, आनन्त्येन तु त्रुटेरमेयत्वप्रसङ्गात् । सा खल्वनवयवस्य कल्पितस्य परमसूक्ष्यमतया परमाण्वाख्या । तेन परमाणुरिति किमुक्तं भवति ? अनवयवोऽकार्यश्चेति । सावयव इति च किमुक्तं भवति ? सावयवः कार्यश्चेति । तस्मात् प्रतिज्ञापदयोर्व्याघात इत्यर्थः । अथ मा भूत् त्रुटेरमेयत्वमित्येकपरमाणुपूर्वकत्वं परमाणोः प्रतिपद्यसे । शेषमतिरोहितार्थम् ।
“यदि द्वे द्वे द्रव्ये अधिकृत्याभिधीयत” इति । मध्यस्य हि परमाणोरुपर्यधःपार्श्ववर्तिभिः परमाणुभिर्ये संयोगास्तत्र मध्यस्य पूर्वेण परमाणुना यः संयोगो नासौ मध्यपश्चिमपरमान्वाश्रितः । एवं मध्यपश्चिमपरमाणुसंयोगो नैव मध्यमपूर्वपरमाण्वाश्रयः । एवमन्यत्रापि द्रष्टव्यम् । षडपि संयोगा भिन्नदेशा एवेति समानदेशत्वमसिद्धम् । अथ परमाणूनां सम्बन्धिनं परमाणुं मध्यमधिकृत्योच्यते तदेकाश्रिता हि संयोगाः षडपि भवन्तीति तत्राह—“न किञ्चिद् बाध्यत” इति ।
स्यादेतत् । संयोगसमानदेशत्वेन परमाणवोऽपि संयुक्ताः समानदेशा इति पिण्डस्याणुमात्रत्वप्रसङ्ग इति परोक्तमनुवदति—“यत् पुनरेतदिति ।” तद् दूषयति— “तन्नेति ।” यत्र यत् समवेतं स तस्य देशो यथा रूपादीनां द्रव्यम् । न च परमाणवः क्वचित् समवयन्ति किं तु तत्संयोगाः । तेन देशवतां संयोगानामस्तु समानदेशता, न तु परमाणूनामदेशत्वादित्यर्थः । देशयति—“ननु च कार्यकारणे” इति । यथेह कुण्डे बदरमिति यथा बदरं कुण्डदेशमेवं तदवयवास्तदवयवाः । न च समवाय एव देशदेशिभावनिबन्धनमपि तु संयोगोऽपि । न हीह कुण्डे बदरमिह पटे शुक्लत्वमिति चाधार्याधारप्रत्ययो विशिष्यते । तस्माद् बहूनां द्रव्याणां समानदेशत्वदर्शनात् नासिद्धो दृष्टान्त इत्यर्थः । तद् दूषयति—“एतदनभ्युपगमेन प्रत्युक्तम् ।” द्रव्याणामेकत्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन । समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी, यथा गन्धरसरूपस्पर्शाः समानदेशा न स्थौल्यमारभन्ते । तत् कस्य हेतोः ? एषाममूर्तानां समानदेशसमवायात् । मूर्तास्तु स्पर्शवन्तः समवायेनासमानदेशाः परस्परसंयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते ? तस्मात् संयोगेन समानदेशता न निषिध्यते, समवायेन तु प्रतिषिध्यते । सा हि स्थौल्यविरोधिनीति सिद्धम् । अभ्युपेत्यैवमुक्तं संयोगाः समान देशा इति । परमार्थतस्तु कुण्डबदरसंयोगस्य कुण्डवदरे आश्रयः । तदवयवकुण्डसंयोगस्य37 तु कुण्डबदरावयवा इति सिद्धं संयोगानामपि भिन्नदेशत्वमित्याह—“न च संयोगा अपीति ।” उपसंहरति—“षण्णां समानदेशत्वादिति वाक्यमिति ।” यत् पुनरुक्तम्, दिग्देशभेदो यस्यास्ति तस्यैकत्वं न युज्यते इति । परमाणोः किल भवदभिमतस्यैकस्य दिग्भागाः षट्, न चैकस्य दिग्भागेऽभेदोऽस्तीति षडेव परमाणवः । एतद् दूषयति—“क एवमाह, दिग्देशभेदोऽस्तीति ?” स्वरूपेणैका दिक् सर्वगता च । नास्या भेदोऽस्तीत्यर्थः । यद्येकैव दिक् क्व तर्हि परमाणावस्मादयं परमाणुः पूर्वोऽयं पश्चिम इत्यादयो बुद्धिव्यपदेशभेदा इत्यत आह—“दिग्देशभेदाश्च दिशः संयोगाः ।” एकत्वेऽपि38 दिश आदित्योदयदेशप्रत्यासन्नदेशसंयुक्तो यः स इतरस्माद् विप्रकृष्टदेशसंयुक्तात्39 परमाणोः पूर्वः । एवमादित्यास्तमयदेशप्रत्यासन्नदेशसंयुक्तो यः स इतरस्माद् विप्रकृष्टदेशसंयुक्तात्39 परमाणोः पश्चिमः । तौ च पूर्वपश्चिमौ परमाणू अपेक्ष्य यः सूर्योदयास्तमयदेशविप्रकृष्टदेशसंयुक्तः40 स मध्यवर्ती । एवमेतयोः पूर्वपश्चिमयो41 र्यौ तिर्यग्देशसम्बन्धिनौ मध्यस्य चार्जवेन व्यवस्थितौ पार्श्ववर्त्तिनौ तौ दक्षिणोत्तरौ परमाणू । एवं मध्यन्दिनवर्तिसूर्यसन्निकर्षविप्रकर्षावपेक्ष्य उपर्यधोभावो द्रष्टव्यः । संयुक्तसंयोगाल्पत्वभूयस्त्वे च सन्निकर्षविप्रकर्षौ42 । पूर्वसङ्ख्यावच्छिन्नत्वं चाल्पत्वं परसङ्ख्यावच्छिन्नत्वं च भूयस्त्वम् । तस्मादेकस्यापि अनवयवस्यापि43 परमाणोः परमाण्वन्तरसंयोगा अव्याप्यवृत्तय एव भागाः । एवं दिशोऽप्येकस्या अपि संयोगा एव भागाः । सोऽयं परमाणोः षट्केन युगपद्योगो मूर्तत्वमात्रप्रयुक्तो न सावयवत्वप्रयुक्त इति न सावयवत्वं गमयितुमर्हतीति ।
तेन यदुच्यते प्रसङ्गसाधनं “परैः,” यन्निरवयवं तन्न षट्केन संयुक्तं यथा विज्ञानं तथा च परमाणुरिति व्यापकविरुद्धोपलब्धिरिति, तन्निरस्तम्, मूर्तत्वप्रयुक्तत्वेन षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः । छायातपयोगोऽपि परमाणोरेकस्य संयोगस्याव्याप्यवृत्तित्वेनोपपन्नः ।
नन्वनवस्था नोपपद्यते इत्युक्तं तत् कुत इत्यत आह “भाष्यकारः—अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानामानन्त्त्यात् ।”
क्रियावत्त्वादीन् हेतून् सर्वथा विकल्प्य “वार्त्तिककारो” दूषयति—“ये तु क्रियावत्त्वादीति44 । एतेन घटादिदृष्टान्त” इति45 । एतेन असिद्धत्वेन । न हि घटादिकमवयविनमनभ्युपगच्छतो घटादिरस्तीत्यर्थः । “मतुपश्चार्थान्तरे दृष्टत्वाद् विरुद्ध” इति । क्रियां परमाणोरर्थान्तरमनिच्छतो मतुप्प्रयोगो विरुद्ध इत्यर्थः ॥ २५ ॥
॥ इति निरवयवत्वप्रकरणम् ॥
बाह्यार्थभङ्गनिराकरणप्रकरणम्
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥ ४ । २ । २६ ॥
“विज्ञानवाद्या”ह—“यदिदं भवान् बुद्धीरिति ।” यदि पटस्तन्तुभ्यो भिन्नो भवेत् तन्त्वतिरेकेण गौरिवाश्वातिरेकेणोपलभ्येत । न चोपलभ्यते । तस्मात् पट इति मिथ्याबुद्धिरियम् । एवं तन्तुरित्यपि मिथ्याबुद्धिरंशुभ्यो भेदेनानुपलम्भात् । एवमंशुरित्यपि । तदनेन क्रमेण परमाणुष्वपि बुद्ध्या विविच्यमानेषु याथात्म्यानुपलब्धेर्न बाह्यं वस्तु स्थूलं वा क्षोदीयो वास्तीति सर्वा एव बुद्धयः स्वाकारमबाह्यं बाह्यतया आलम्बमाना मिथ्याभूता इति ।
“बुद्ध्या…तदनुपलब्धिः ॥” ननु पटादयः सावयवा भवन्ति, एवं परमाणूनां त्वनवयवत्वाद् बुद्ध्या विवेचनाद्46 भावानां याथात्म्योपलब्धिरित्यत आह— “परमाणवोऽपि भागशो विभज्यमानास्तावद् यावत् प्रलय” इति ॥ २६ ॥
व्याहतत्वादहेतुः ॥ ४ । २ । २७ ॥
भवन्तु परमाणवोऽनवयवाः संयोगेभ्यस्त्वस्य षङ्भ्यो बुद्ध्या विविच्यमानस्य याथात्म्यमुपलभ्यत इति । तदेतद् दूषयति—“व्याहतत्वादहेतुः ॥” यस्य विविच्यमानस्य याथात्म्यानुपलब्धिः, तत् कुतश्चिद् विवेचनीयम् । अवध्यभावे तदनुपपत्तेः । तथा च तेनावधिना क्वचिदवस्थातव्यम् । अनवस्थायां त्रुटेरमेयत्वप्रसङ्गादित्युक्तम् । तस्मात् परमाणुषु वा तत्संयोगेषु वा तेनावस्थातव्यम् । तथा च यतो विविच्यते भावः स एवास्यावधिर्याथात्म्येनोपलभ्यत इति बुद्ध्या विवेचनस्य47 सर्वभावानुपपत्त्या व्याघात इति सिद्धम् । दूषणान्तरमाह—“सर्वभावानुपपत्तिरिति चेति ।” प्रमाणस्यापि भावान्तर्गतत्वेन48 तदनुपपत्तौ सर्वभावानुपपत्तेरनुपपत्तिरित्यर्थः49 ॥ २७ ॥
तदाश्रयत्वादपृथग्ग्रहणम् ॥ ४ । २ । २८ ॥
“तदा…पृथग्ग्रहणम् ॥” अपृथग्ग्रहणादिति ब्रुवाणः प्रष्टव्यो जायते किं विलक्षणबुद्धिबोध्यत्वाभाव50 उत देशभेदाभावः उत तन्तुव्यतिरेकेण देशान्तरेऽनुपलम्भ इति । न तावदाद्यः कल्पः, तन्तवो हि भिन्नाभबुद्धिबोध्याः पटस्त्वभिन्नाभबुद्धिबोध्य इति । नापि द्वितीयः, तन्तूनामंशुदेशत्वात् पटस्य च तन्तुदेशत्वात् । तस्मात् तन्तुभ्योऽन्यत्रादर्शनमपृथग्ग्रहणम् । तच्च भेदेऽपि तदाश्रितत्वेनोपपद्यमानं नाभेदं गमयितुमर्हतीत्यर्थः ।
“भाष्यं—बुद्ध्या विवेचनात्तु भावानां पृथग्ग्रहणमतीन्द्रियेष्वणुषु ।” यत्र खल्ववयवावयविनावैन्द्रियकौ तत्र पृथग्ग्रहणमविवेचकानामस्फुटतरमतीन्द्रियेभ्यस्त्वणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयविनां पृथग्ग्रहणमित्यतिस्फुटमित्यर्थः ॥ २८ ॥
प्रमाणतश्चार्थप्रतिपत्तेः ॥ ४ । २ । २९ ॥
सम्प्रत्यैन्द्रियकेऽप्यवयवेऽवयविनो विविच्यमानस्य याथात्म्येन पृथग्ग्रहणमाह—“प्रमाणतश्चार्थप्रतिपत्तेः ॥” इति । यदस्ति पटादिकमवयविद्रव्यम्; यथा च स्वावयवसमवेतत्वेन गुणाधारतया च, यन्नास्ति शशविषाणादि, यथा च कार्यकारणभावेन, तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति । सुगमं “भाष्यम्” ॥ २९ ॥
प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥ ४ । २ । ३० ॥
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥ ४ । २ । ३१ ॥
यदुक्तं प्रमाणोपपत्त्यनुपपत्तिभ्यां न सर्वभावानुपपत्तिरिति तत्र प्रत्यवतिष्ठते “विज्ञानवादी—स्वप्नविषयामिमान…मानः ॥” न खलु वास्तवः प्रमाणप्रमेयभावः, किं त्वनादिवासनानिबन्धनकल्पनाधीनः । यथा हि परमार्थतो51 न स्वप्ने सन्ति विषयाः, अथ च प्रतिभान्ति कल्पनामात्रेण । तथा च52 सांवृतेनैवापरमार्थसता प्रमाणप्रमेयभावेन बाह्यार्थशून्यता साध्यते53 परमार्थसती प्रत्ययानाम् । दृष्टा च मिथ्याप्रत्ययानामपि54 तत्त्वप्रतिपत्तिहेतुतेत्यावेदितं पुरस्तादित्यर्थः । तदेतद् व्याचष्टे “वार्त्तिककारः—यथा स्वप्ने न विषयाः सन्तीति” ॥ ३१ ॥
मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥ ४ । २ । ३२ ॥
ननु स्वप्नप्रत्ययानामस्त्व्येवन्धर्मकत्वम्, ये पुनरमी जाग्रत्प्रत्ययाः स्तम्भ इति वा कुड्यमिति55 वा, किमायातं तेषामत्यन्तवैलक्षण्यादित्य आह—“मायागन्धर्वेति । माया…वा ॥” जाग्रत्प्रत्यया अप्येवंविधा सहस्रशो दृश्यन्ते । न चैते स्तम्भकुड्यादिप्रत्ययास्ततो विलक्षणा इत्यर्थः ॥ ३२ ॥
हेत्वभावादसिद्धिः ॥ ४ । २ । ३३ ॥
तदेतद् दूषयति—“हेत्वभावादसिद्धिः” ॥ ३३ ॥
स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ॥ ४ । २ । ३४ ॥
तद्व्याचष्टे “भाष्यकारः—स्वप्नान्ते विषयाभिमानवदिति ।” अन्तशब्दोऽवयववचनोऽप्याश्रितत्वमात्रेणावस्थायां प्रयुक्तः । तेन स्वप्नावस्थायां जागरितावस्थायामित्यर्थः । एतदुक्तं भवति, स्वप्नविज्ञानस्य मिथ्यात्वमिच्छता56 बाधकमन्तरेण तदनुपपत्तेर्जाग्रत्प्रत्ययोऽस्य बाधको वक्तव्यः । न चासावसमीचीनस्तद् बाधितुमुत्सहत इति समीचीनत्वं जाग्रत्प्रत्ययस्याभ्युपगन्तव्यम् । तथा च जागरितान्ते विषयोपलब्धिवदित्यनुपपन्नम् ।
“वार्त्तिकम्—ख्यातिरिति चेत् ।” प्रत्ययत्वमेव स्वप्नोदाहरणसहितं प्रमाणप्रमेयाभिमानमिथ्यात्वे हेतुरित्यर्थः । “विपर्यये च सामर्थ्याभावादिति ।” पूर्वं प्रतिबुद्धेनेति विशेषणं विवक्षित्वोक्तम् । अधुना त्वनुपलब्धेरिति विवक्षित्वोच्यत इत्यपौनरुक्त्यम् । अत्र “विज्ञानवादी” स्वपक्षे प्रमाणमाह—“न चित्तव्यतिरेकिणो विषयाः ग्राह्यत्वाद् वेदनावदिति ।”
इदमत्राकूतम्, विज्ञानस्य हि बाह्यार्थो ग्राह्यो भवन् निराकारस्य सत्तामात्रेण वा भवेत् कारणत्वेन वा, एकसामग्र्यधीनत्वेन वा विज्ञानाहितफलाधारतया वा ? न तावत् सत्तामात्रेणान्यस्यान्यो विषयः, सत्तामात्रस्य विषयान्तरेष्वपि भावेन सर्वेऽर्थाः सर्वस्य ज्ञानस्य विषया57 इति सर्वसर्वज्ञतापत्तिः । न च सत्तामात्रमपि विषयव्यवस्थापकम्,58 असतोऽपि विषयत्वात् । अत+एव न कारणत्वेन विषयभावः । अपि च चक्षुरादयोऽपि विज्ञानस्य कारणमिति विषया रूपविज्ञानस्य प्रसज्येरन् । वर्तमानावमासि च विज्ञानं न भवेत्, क्षणिकत्वेनोत्पादकस्यार्थक्षणस्योत्पाद्यविज्ञानसमयेऽतिपातात्59 । एकसामग्र्यधीनत्वेन तु विषयत्वे वर्तमानावभासितोपपद्यते । सा तु नोपपद्यते असतोरप्यतीतानागतयोर्ग्रहणेनाव्यापकत्वादतिव्यापकत्वाच्च विज्ञानकालस्य60 इन्द्रियादिक्षणस्यैकसामग्र्यधीनस्यालम्बनत्वप्रसङ्गात् । विज्ञानाहित फलाधार आलम्बनमिति चेत्, किं पुनर्विज्ञानेनार्थे जन्यते ? प्राकट्यम् । न चैतदर्थधर्मोऽपि शुक्लादिवत् सर्वपुरुषसाधारणं ज्ञानाहितस्यार्थधर्मस्यापि ज्ञानवन्तं प्रत्यसाधारणत्वदर्शनात् । यथा यस्यापेक्षाबुद्धिजनितं द्वित्वमर्थधर्मः, सोऽपेक्षाबुद्धिमन्तमेव पुरुषं प्रत्यसाधारण इति । तन्न, अव्यापकत्वात् । सन्ति खल्वतीतानागतविषयाणि सहस्रशो विज्ञानानि शब्दानुमानजानि सर्वज्ञज्ञानानि61 च, न चैतान्यर्थे फलमाधातुमुत्सहन्ते, अर्थस्य तदानीमभावात्62 । न खल्वस्तिसम्भवः अप्रत्युत्पन्नो63 धर्मी धर्मश्चास्याविनश्यन् प्रत्युत्पन्नरूप इति । स्वकारणादात्मानात्मप्रकाशनशक्तियुक्तमुत्पद्यते ज्ञानं तादृशं येन कश्चिदेवास्य विषयो न सर्व इति चेत् ? हन्त भोः शक्तेः शक्यनिष्ठत्वात् किमस्य शक्यमिति वक्तव्यम् । अर्थ इति चेत् ? न । न तावदयमस्य निर्वर्त्यः, अर्थस्यैव ज्ञाननिर्वर्तकत्वात् । न चार्थाधारं फलमाधत्त इत्युक्तम् । न चासति शक्ये शक्तिसम्भवः । तस्मान्निराकारं विज्ञानं बाह्यं गोचरयतीति मनोरथमात्रम् ।
अस्तु तर्हि साकारमेव बाह्यगोचरम् । तथा हि नीलाद्याकारं विज्ञानं नीलाद्यर्थगोचरम्, नीलमस्य स्वरूपं64 यतः । अत्रैवं वक्तव्यम्, किं सर्वात्मना सारूप्याद् विषय आहो कथञ्चित् सारूप्यात् ? न तावदर्थस्य जडात्मनो ज्ञानेन प्रकाशात्मना65 सर्वथा सारूप्यम्, सारूप्ये वा ज्ञानमपि जडं भवेदिति ज्ञानत्वहानिः एकदेशेन च सारूप्ये तत् क्व नाम नास्तीति सर्वं ज्ञानं सर्वं वेदयेत् । अपि च नीलज्ञानात् समनन्तरप्रत्ययादुत्पन्नं ज्ञानं न तथा नीलार्थसरूपं यथा नीलज्ञानसरूपमिति समनन्तरप्रत्यय एवास्योत्पत्तिसारूप्याभ्यां66 विषयः स्यात्, न चैतदस्ति । तस्मान्न सारूप्यसमुत्पत्ती अपि विषयलक्षणम् । स्तामस्य सारूप्यसमुत्पत्ती मनस्कारेन्द्रियादिभिस्तथापि यमध्यवस्यति सोऽस्य विषयः । अर्थं चाध्यवस्यतीति अर्थ एवास्य विषयो न मनस्कारादीति चेत् ?
अथ कोऽयमध्यवसायः ? न तावद् ग्रहणम् । न खलु द्वावाकारौ गृह्येते, नीलमित्यनुभवो न तु नीले इति । स्वाकारस्य बाह्ये समारोपोऽध्यवसाय इति चेत् ? स किं गृह्यमाणे बाह्ये उतागृह्यमाणे ? न तावद् गृह्यमाणे । न हि नीलद्वयं प्रकाशत इत्युक्तम् । न चारोपविषयमगृह्णन्नारोप्यमारोपयितुमर्हतीति । न ह्यननुभवन् पुरोवर्ति शुक्लभास्वरं रजतमारोपयति । अपि चागृह्यमाणे बाह्ये प्रवृत्तिनियमो न भवेत् । तदितरेषामप्यगृह्यमाणत्वेनाविशेषात् तेष्वपि प्रवृत्तिप्रसङ्गात् । न च साकारज्ञाननये बाह्यसद्भावे प्रमाणमस्ति अगृह्यमाणत्वात् । ननु नीलाद्याकारस्य कादाचित्कत्वमेव प्रमाणम् । तथा हि67 यद् यस्मिन् सत्यपि कादाचित्कवत् तत् तदितरापेक्षम् । यथा सत्यपि स्वोपादाने68 विच्छिन्नगमनवचनप्रतिभासाः69 प्रत्ययाः सन्तानान्तरापेक्षाः, तथा च सत्यप्यालयसन्ताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः । वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदाचिदुत्पाद इति चेत् ? नन्वेकसन्ततिपतितानामालयविज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना । तस्याश्च स्वकार्यजननं प्रत्याभिमुख्यं परिपाकः । तस्य च प्रत्ययः स्वसन्तानवर्ती पूर्वक्षणो हेतुः सन्तानान्तरापेक्षानभ्युपगमात् । तथा च सर्वेऽपि आलयविज्ञानसन्तानपतिताः परिपाकहेतवः, न वा कश्चिदपि, अविशेषात् । क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात् कार्यकादाचित्कत्वमिति चेत् ? नन्वेकस्यैव नीलविज्ञानजननसामर्थ्यं शक्तिप्रबोधजननसामर्थ्यं चेति । क्षणान्तरस्य तन्न स्यात् । सत्त्वे वा कथं क्षणभेदात् सामर्थ्यभेद इत्यालयसन्तानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः । स्वसन्तानमात्राधीनत्वे तु निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वम् । तस्योपलब्ध्या तु कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वेन व्यवतिष्ठत इति प्रतिबन्धसिद्धिः । न च सन्तानान्तरनिमित्तानि प्रवृत्तिविज्ञानानि सत्तान्तराणामपि70 नित्यसन्निधानाद् विज्ञानानामदेशात्मकत्वेन दूरत्वानुपपत्तेर्व्यतिरिक्तस्यानभ्युपगमात् । नापि कालतो विप्रकर्षसम्भवः अपूर्वसत्त्वप्रादुर्भावानभ्युपगमात् । तदिदमनुमानं “सौत्रान्तिकानां बाह्याभ्युपगम” इति । तदयुक्तम्, स्वसन्तानमात्रनिमित्तत्वेऽपि नीलादिविज्ञानानां कादाचित्कत्वोपपत्तौ सन्दिग्धव्यतिरेकित्वेन हेतोरनैकान्तिकत्वात् । ननूक्तं न क्षणभेदः कार्यभेदहेतुरिति, कल्पितस्य सन्तानस्य सर्वसामर्थ्यविरहिणो भेदः कार्यभेदहेतुरिति न तु परमार्थसतः क्षणस्य भेदः कार्यभेदहेतुरिति71 कोऽन्यो “भदन्ताद्” वक्तुमर्हति ? ननु यदि क्षणभेदः शक्तिभेदहेतुस्ततो भिन्नानां क्षणानां नैका शक्तिः स्यात् । तथा चैकेन केनचिन्नीलज्ञाने जनिते पुनस्तन्नीलझानं क्षणान्तरान्न स्यात् । यदि भिन्नानां नैकं सामर्थ्यम्, अथ बाह्यार्थवादिनोऽपि कथं भिन्नानां नीलोत्पलसन्तानानामेकनीलोत्पलाकारज्ञानधारा सामर्थ्यम्72 । यद्युच्यते, अन्यदेव तन्नीलोत्पलविज्ञानं यन्नीलोत्पलसन्तानान्तरात् । वयमपि ब्रूमहे, अन्यदेव तन्नीलविज्ञानं यत्क्षणान्तरादिति । तस्मात् स्वकारणभेदात् कश्चिदेव तादृशः स्वलक्षणभेदो जायते, यः कञ्चिदेव कार्यभेदं जनयति न कार्यान्तरमिति । तस्मात् साकारस्यापि ज्ञानस्यार्थो न गोचरो न चागोचरः शक्योऽनुमातुमिति । न च प्रत्यक्षवदनुमानमप्यर्थगोचरम् । तस्मात् साधूक्तं “वार्त्तिककृता, न चित्तव्यतिरेकिणो विषयाः ग्राह्यत्वाद् वेदनावदिति ।” नीलादयो हि विषया उभयवादिसिद्धास्तेषां चित्ताद् भेदाभेदयोर्विप्रतिपत्तिः । तत्रैषां ग्राह्यत्वादित्ययं चित्तव्यतिरेकः परैरभ्युपगतः प्रतिषिध्यते । यावांश्च प्रतिषेधः स सर्वोऽनुपलब्धेरिति ग्राह्यत्वादित्ययं हेतुर्विरुद्धव्याप्तोपलब्धिः । प्रतिषेध्यश्चित्तव्यतिरेकः, तद्विरुद्धस्तदव्यतिरेकः । तेन व्याप्तं ग्राह्यत्वम् । तस्योपलब्धिरेव तन्निषेध्यस्यानुपलब्धिरिति ।
अत्र तावदेतद् वक्तव्यम्, ग्राह्यत्वस्याभेदेन व्याप्तौ सिद्धायां73 भेदं निवर्तयेत् । न त्वभेदेनास्य व्याप्तिः । तथा हि, यदेतन्नीलं स्थूलं विच्छिन्नमनुभूयते74 तस्यास्य विच्छेदः स्थौल्यं च न ज्ञानस्यात्मा । नानादिग्देशव्यापिता हि स्थौल्यम् । न चैकमदिग्देशात्मकमनवयवं विज्ञानं नानादिग्देशव्यापि सम्भवति । यथाह,
तस्मान्नार्थेन विज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भवः ॥ इति ॥
एवमर्थविच्छेदोऽपि न ज्ञानात्मकः । तस्य तथात्वे परमार्थतोऽर्थाद् विच्छिन्नं ज्ञानं स्यात् । तस्मादयमपि न ज्ञानमित्यसन्नभ्युपगन्तव्यः । न च सदसतोरेकत्वमित्यनात्मापि विज्ञाने प्रकाशते इत्यनिच्छताप्यभ्युपेयम् । तथा च सदपि प्रकाशिष्यते । नन्वनात्मन्यर्थेऽकिञ्चित्करं विज्ञानं कथमर्थप्रकाशकम् ? अथाकिञ्चित्करं ज्ञानं स्थौल्ये कथमस्य प्रकाशकम् ? स्वभावादिति चेत्, अत्राप्यसौ न दण्डवारितः । यद्धि यस्य स्वभावतः, तत्र तस्य75 नान्यापेक्षा, यथा लिङ्गस्य स्वसाध्यसम्बन्धे । स्वभावतश्चार्थस्य विज्ञानमिति न तदीयत्वे अन्यदपेक्षते । असम्बन्धात् कथं विज्ञानमर्थस्येति चेत्, अथ सम्बन्ध एव सम्बन्धिनोः कथम् ? सम्बन्धान्तरकल्पने चानवस्था । तस्माद् यथा सम्बन्ध एव सम्बन्धान्तरमन्तरेण सम्बन्धिनोः, एवं ज्ञानमपि सम्बन्धान्तरमन्तरेणार्थस्येति समानम् । न चातिप्रसङ्गः । स्वकारणादुत्पन्नस्य कस्यचिद् विज्ञानस्य कश्चिदेव विषयो नान्यः । न च भावस्वभावा नियोगं पर्यनुयोगं वार्हन्ति, एवं भवत मा एवं भूतेति वा कस्मान्न एवमिति वा ? अकिञ्चित्करस्य रूपविज्ञानस्य कथं रूपविषयतेति चेत् ? किं रूपविज्ञानं प्रमाणं विवक्षित्वेदमुच्यते, आहो फलं विवक्षित्वा ? यदि प्रमाणं ततो न तदकिञ्चित्करं रूपे, तत्र हानोपादानोपेक्षाप्रसवहेतुत्वात् । अथ फलं, तदयुक्तम् । क्व नाम फलं किञ्चित्करम् ? न हि गतिजन्या नगरप्राप्तिश्चैत्रस्य चैत्रनगरसंयोगसमवायाय किञ्चित् करोति । एवमर्थविषयत्वाय स्वाभाविकाय न ज्ञानेन किञ्चिदपरं जनयितव्यम् । अर्थप्रतिबद्धत्वं ज्ञानस्यार्थविषयत्वम् । न हि ज्ञानमनुव्यवसायज्ञानेन निरूप्यमाणमर्थनिरूपणेन विना शक्यं निरूपयितुमित्युक्तम् । कर्मण्यसमवेतं कथं कर्मण इति चेत् ? अथ फलसमवायः कर्मण्यसमवेतः कथं कर्मणः ? तत्पारतन्त्र्यादिति चेत् ? किमिदं तत्पारतन्त्र्यम्76 ? तन्निरूपनाधीननिरूपणत्वमिति चेत् ? तदिहापि समानमन्यत्राभिनिवेशात् । तस्मादभेदेन ग्राह्यत्वस्याव्याप्तत्वाद् ग्राह्यत्वं विरुद्धव्याप्तं न भेदं निवर्तयितुमर्हतीति दूषणे स्थवीयसि सत्येव दूषणान्तरमाह “वार्त्तिककारः—वेदना सुखदुःखे चित्तं विज्ञानमिति ।” अभ्युपेत्याह, “अथाभिन्नं विज्ञानं वेदनात” इति । यथाङ्गुल्यग्रं न तेनैवाङ्गुल्यग्रेण स्पृश्यते, एवं ज्ञानं न तेनैव ज्ञानेन ग्रहीतुं शक्यम् । ननु न गृहीतिर्ग्राह्या, न ह्यस्याः कर्मभावो विद्यते । क्रियाफलशालि हि कर्म77 । न चास्यामस्ति फलान्तरम् । अपि तु स्वयमाविर्भूतस्वभावा गृहीतिरपराधीनप्रकाशा ग्राह्येत्युच्यते । यदि चैषा स्वयं न प्रकाशेत, तन्नार्था अपि प्रकाशेरन्, तत्प्रकाशाधीनप्रकाशा हि ते । तथा हि यद् यत्प्रकाशाधीनप्रकाशम्, तत् तस्मिन् प्रकाशमाने प्रकाशते, यथा दण्डप्रकाशाधीनप्रकाशो दण्डिप्रकाशः, ज्ञानप्रकाशाधीनप्रकाशाश्च विषयप्रकाशा इति78 स्वभावहेतुः । न च ज्ञानादन्यत् स्वसंवेदनं न दृष्टमित्येतावता स्वसंवेदनविज्ञानं न भवति । न हि दर्शनादर्शनाभ्यां हेतुर्गमकः, अपि तु स्वसाध्याविनाभावात् । स च विपर्यये बाधकप्रमाणप्रवृत्त्या सिध्यतीति कृतं दृष्टान्तेनेत्यत आह—“न हि कर्म च क्रिया चैकं भवतीति ।”
इदमत्राकूतम् । किं पुनरिदमर्थानां संवित्प्रकाशाधीनप्रकाशत्वं नाम ? न हि संवित्प्रकाशेनार्थे प्रकाशान्तरं जन्यते । अपि च लिङ्गप्रकाशाधीनप्रकाशो हि लिङ्गिप्रकाशः । न च79 लिङ्गे प्रकाशमाने प्रकाशते, किं तु लिङ्गप्रकाशे विनष्टे । यद्युच्येत न ज्ञानादतिरिक्तोऽस्त्यर्थप्रकाशो ज्ञानप्रकाशश्च किं तु ज्ञानमेव स्वसंवेदनमर्थस्य चात्मनश्चेति80 । एवं तर्हि किमायातम् ? न ह्यात्मैवात्मायत्तः । न च ज्ञानमेवात्मनः परस्य च प्रकाश इति सिद्धम् । अन्यो हि ज्ञानप्रकाशो मानस ऐन्द्रियकश्चार्थप्रकाशः । न च प्रमाणज्ञानप्रकाशाधीनोऽर्थप्रकाशः किं तु प्रमाणज्ञानसत्ताधीनः, फलाधीनं तु न किञ्ञ्चिदित्यावेदितम् । तत्सिद्धमेतत्, विवादाध्यासितं विज्ञानं स्वप्रकाशाद् भिन्नं प्रकाशमानत्वात्, सत्त्वान्तरप्रकाशस्य सत्त्वान्तरविज्ञानवत्81 । तदनेनाभिसन्धिनोक्तम्—“न हि कर्म च क्रिया चैकं भवतीति ।” एतेन सहोपलम्भनियमादभेदो नीलतद्धियोः इति परास्तं वेदितव्यम् । अर्थज्ञानयोरेकोपलम्भयोरेकोपलम्भतैव नास्ति कुतः पुनरस्य नियम इति । अथ यथाश्रुतः सहोपलम्भो हेतुरित्युच्यते ततो विरुद्धः, अभेदे सहार्थासम्भवात् । कृतप्रपञ्चश्चायमर्थोऽस्माभि“र्न्यायकणिकायाम् ।” इह तु विस्तरभयान्न प्रपञ्चित इत्युपरम्यते ।
“सोऽपि दृष्टं विज्ञानभेदमनुयोक्तव्य” इति । न स्वसन्तानमात्रनिबन्धनो विज्ञानभेदो भवितुमर्हति नीलपीतादिरूपः । नापि सन्तानान्तराधिपत्यसन्निधानासन्निधाननिबन्धनः, विज्ञानानामदेशात्मकानां स्वरूपेण देशविप्रकर्षायोगात् । नापि कालविप्रकर्षोऽपूर्वसत्त्वप्रादुर्भावाभावादिति भावः । शङ्कते—“स्वप्नवद् विज्ञानभेदमिति ।” बाह्याभावेऽप्याध्यात्मिको विज्ञानभेदहेतुरस्तीति भावः । निराकरोति—“सोऽपीति ।” स्वप्नज्ञानमपि पारम्पर्येण बाह्यनिबन्धनमित्यर्थः । अबाह्यनिमित्तकत्वं स्वप्नप्रत्ययस्याभ्युपेत्याह—“अथ स्वप्नपक्षेऽपि” इति । वर्गः पक्षः । न चैकं विज्ञानं चिन्तनीयमपरं चिन्तकमिति वक्तव्यम्, व्यतिरिक्तालम्बनत्वानभ्युपगमादिति भावः । अभ्युपेत्य चाबाह्यनिमित्तत्वं स्वप्नप्रत्ययानामेतदुक्तम् । बाह्यनिमित्तमेव तु यदुक्तं तदेव पारमार्थिकमित्याह—“ये चैते स्वप्नप्रत्यया” इति । “ममापीति ।” अपिशब्दः सम्भावनायाम् । मम पक्षे सम्भाव्यत एतत् यत् सर्व+एव प्रत्यया मिथ्या भवन्तीत्यर्थः । सुगममितरत् । मिद्धो82 निद्रा विषयमन्तरेण विज्ञानस्य स्पष्टतास्पष्टता च वक्तव्येति83 । सामान्यविशेषतद्वतां ग्रहणं स्पष्टता84 । सामान्यमात्रस्य ग्रहणमस्पष्टता85 । तच्चैतदुभयमसति विषये दुष्करं तदाकारोत्पत्तेरेवाशक्यत्वादित्यर्थः । शङ्कते—“असत्यर्थे विज्ञानभेदो दृष्ट इति चेत् ?” स्वप्नमायागन्धर्वनगरमृगतृष्णादिविज्ञानेष्वनुवर्तमानेषु विषयेन्द्रियमनोदोषनिमित्तत्वमस्तु । ये पुनरमी प्रेतानां सर्वेषामनुवृत्तिमन्तः पूयपूर्णनदीप्रत्यया न ते बाह्यविषया दोषवशाद्भवितुमर्हन्ति, दोषनिबन्धनत्वे बहूनामनुवृत्तेरभावात् अदुष्टेन्द्रियार्थसन्निकर्षजत्वे वा जलरुधिराकार विरोधात् । तस्मादनादिवासनावैचित्र्यलब्धजन्मतयार्थनिरपेक्षा एव विचित्राकारा बुद्धय उदयन्ते व्ययन्ते चेति साम्प्रतमिति शङ्कार्थः । “न तत्र नद्यस्तीति” स्वमतदार्ढ्येनोक्तं “बौद्धेन ।” निराकरोति—“न व्याघातादिति ।”
अयममिसन्धिः । जलरुधिरयो रसवीर्यविपाकादिभेदात् तोयरसवीर्यपरिपाकादिदर्शनात् नद्यास्तोयपूर्णत्वे निश्चिते पूयपूर्णत्वनिश्चयः प्रेतानां मिथ्येति निश्चये तदनुवृत्तेर्दोषानुवृत्तिः कल्पनीया, दोषश्च प्रेतशरीरनिर्वर्तकं कर्मैव । यथोक्तं
तुल्पकर्मविपाकोत्पन्नाः प्रेता इति ।
“कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यत” इति ।
फलं पुत्रपश्वन्नादि । तद् यदि ज्ञानं तदा यत्रज्ञानसन्ताने कर्मवासना तत्रैव पुत्राद्याकारं ज्ञानं फलमिति सामानाधिकरण्यमुपपद्यते । पुत्रपश्वन्नादौ त्वर्थरूपे फले वैयधिकरण्यं स्यात् । तथा चातिप्रसङ्ग इति भावः । निराकरोति—“तन्नानभ्युपगमादिति ।” न पुत्रादि स्वरूपेण फलमपि तु तन्निमित्ता प्रीतिः । तस्या एव चेतनेन काम्यमानत्वात् तल्लक्षणत्वाच्च फलस्येति भावः । मुक्तकेनार्थं साधयित्वा प्रयोगानाह—“मदीयाच्चित्तादिति ।” यदि चित्तमात्रं पक्षीक्रियेत तदा दृष्टान्तो न स्यादित्यत उक्तं “मदीयाच्चित्तादिति ।” मदीयाहङ्कारानास्पदत्वे सतीति विशेषणान्न स्वचित्तेन व्यभिचारः । आरोपनिराकरणार्थत्वाच्च हेतूनां नासमर्थविशेष्यतेति ॥ ३४ ॥
मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥ ४ । २ । ३५ ॥
अपि च मिथ्योपलब्धीनां बाह्यानालम्बनत्वमास्थाय तत्त्वबुद्धीनां बाह्यानालम्बनत्वं साधनीयम् । तासां च बाह्यानालम्बनत्वं बाधकाधीनम् । बाधकं चार्थे समारोपितरजताद्यभिमानं निवर्तयति, न तु पुरोऽवस्थितमर्थसामान्यं शुक्लभास्वरम् । तस्मान्न बाधकानुरोधादपि मिथ्याज्ञानं बाह्यानालम्बनमिति स्वप्नवदिति दृष्टान्तः साध्यविकल इत्याह—“एवं च सतीति ।” मिथ्याज्ञानस्य प्रधानाश्रयत्वे “मिथ्योपलब्धेर्विनाशः” तत्त्वज्ञानाद् बाधकात् । “स्वप्नविषयाभिमानप्रणाशवत्” प्रतिषेधो,86 न त्वर्थस्य सामान्यस्यापीति शेषः । “शेषं भाष्ये ।” भाष्यं च सुबोधम् ॥ ३५ ॥
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ ४ । २ । ३६ ॥
यस्तु “माध्यमिको” मिथ्याबुद्धिदृष्टान्तेन बाह्यापह्नवं कृत्वा तेनैव दृष्टान्तेन विज्ञानापह्नवं87 कृत्वा विचारासहत्वं तत्त्वं भावानां व्यवस्थापयां बभूव, तं प्रत्याह—“बुद्धे…म्भात् ॥” अर्थे हि निषिद्धे भवेदप्येतत् । तद्व्यवस्थापने तु तद्वदेवाप्रत्यूहं बुद्धिसद्भावोऽपि सिध्यति । न चैवंवादिनः प्रमाणमस्ति, असता च प्रमाणेन विचारासहत्वं भावानां व्यवस्थापयन् श्लाघनीयप्रज्ञो देवानाम्प्रिय इति । न च कल्पनामात्रनिर्मित उपायस्तत्त्वज्ञानाय पर्याप्तः । न च वनस्पत्यादितत्त्वज्ञानस्य मिथ्याहस्तिज्ञानं निबन्धनम्, अपि तु प्रणिहितमनस इन्द्रियार्थसन्निकर्षविशेषः । न चासौ मिथ्याज्ञानसमये आसीत् । न हि मोहाभ्यासः समीचीनाय ज्ञानाय कल्पते । स हि मोहमेव द्रढयतीति सर्वमवदातम् । सोऽयं “माध्यमिकोऽ”नुभूयमानां मिथ्याबुद्धिं नापह्नोतुमर्हति । तथा च मिथ्याबुद्धिं प्रतिपद्यमानेन तस्या निमित्तं वक्तव्यमित्युक्तम् ॥ ३६ ॥
तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥ ४ । २ । ३७ ॥
“तत्त्व…पत्तिः ॥” मिथ्याबुद्ध्या स्वनिमित्तं लक्ष्यते । तेन मिथ्याबुद्धिनिमित्तस्य द्वैविध्यमित्यर्थः । यत्र स्थाणौ पुरुषज्ञानं भवति तत्र तत्त्वं स्थाणुरिति, प्रधानं पुरुष इति, यः88 प्रत्ययः पूर्वं पुरुषेऽभूदित्यर्थः । एवं तावद्89 रूपवद् द्रव्यविषयबुद्धीः बाह्यालम्बनाः प्रतिपाद्य गन्धादिबुद्धीरपि प्रतिपादयति “भाष्यकारः” गन्धादौ च प्रमेय इति । प्रकृतमुपसंहरति—“तस्मादयुक्तमेतदिति” ॥ ३७ ॥
॥ बाह्यार्थभङ्गनिराकरणप्रकरणम् ॥
तत्त्वज्ञानविवृद्धिप्रकरणम्
समाधिविशेषाभ्यासात् ॥ ४ । २ । ३८ ॥
“दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम्, अथ तत्त्वज्ञानं कथमुत्पद्यत” इति । न तावदागमत उपपत्तितो वा तत्त्वज्ञानमहङ्कारनिवृत्तिं कर्तुमुत्सहते दोषनिमित्तेषूत्पन्नतथाभूतज्ञानानामपि90 पूर्ववदहङ्कारदोषानुवृत्तेः । साक्षात्कारस्तूपायाभावादयुक्त इति ।
अस्योत्तरं सूत्रम्—“समा…सात् ॥” समाधिपदं व्याचष्टे “भाष्यकारः, स तु प्रत्याहृतस्येन्द्रियेभ्यो मनस” इति । अनेन विक्षेपं निवर्तयति । इन्द्रियेभ्यः प्रतीपमाहृतस्य मनसः क्वचित् हृत्पुण्डरीकादिप्रदेशे91 आत्मनो निजौकसि “विधारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगो” यः92 स खलु प्रलयावस्थायामप्यस्तीत्यत93 उक्तं—“तत्त्वबुभूत्साविशिष्ट” इति । तदभ्यासश्च तद्विषयविधारकप्रयत्नोत्पादपौनःपुन्यम् । तद्वशादादरनैरन्तर्यदीर्घकालताविशिष्टात् तत्त्वबुद्धिरुत्पद्यते ॥ ३८ ॥
नार्थविशेषप्राबल्यात् ॥ ४ । २ । ३९ ॥
एतदाक्षेप“सूत्र”मवतारयति—“यदुक्तं सति हि तस्मिन्निति” ॥ ३९ ॥
क्षुदादिभिः प्रवर्तनाच्च ॥ ४ । २ । ४० ॥
इन्द्रियविषयैरपहृतमनसो न धारणा । तथा च तदभ्यासाभावान्न तत्त्वासाक्षात्कार इति “सूत्रा”र्थः ॥ ४० ॥
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ ४ । २ । ४१ ॥
समाधान“सूत्र”मवतारयति—“अस्त्ये तत्समाधिव्युत्थाननिमित्तमिति । सूत्रम्—पूर्व…त्पत्तिः ॥” पूर्वकृतः समाधिः । तस्य फलं संस्कारः । तस्यानुबन्धः स्थेमा । तस्मादिति “सूत्रा”र्थः । तद् व्याचष्टे “भाष्यकारः—पूर्वकृत” इति । प्रविविच्यते विशिष्यतेऽनेनेति प्रविवेकः । धर्मश्चासौ प्रविवेकश्चेति धर्मप्रविवेकः प्रकृष्टः संस्कारः, स ह्यात्मधर्म इति । कस्मात् पुनरदृश्यमानः संस्कारः कल्प्यत इत्यत आह—“निष्फले हीति ।” प्रयत्नविशेषा हि विशरारवो बहवोऽपि परस्परमसहभवन्तो94 न तत्त्वसाक्षात्काराय पर्याप्ता इति तज्जनिताः संस्काराः कल्प्यन्ते । तेषां स्थेम्ना सम्भवति सम्भूयकारितेत्यर्थः ॥ ४१ ॥
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ ४ । २ । ४२ ॥
“प्रचयकाष्ठा” प्रचयावधिः, यतः परमपरः प्रचयो नास्ति । तत्सहकारिशालितया “प्रकृष्टायां समाधिभावनायां” समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः ॥ ४२ ॥
अपवर्गेऽप्येवं प्रसङ्गः ॥ ४ । २ । ४३ ॥
पूर्वपक्षवाद्याह—“यद्यर्थविशेषप्राबल्यादिति । अप…प्रसङ्गः ॥” स खल्वयमीदृशो बाह्यार्थप्रकर्षस्य95 महिमा यतः इन्द्रियाद्यनपेक्षादेवात्मनो बुद्धिर्जनिष्यत इत्यभिमानः पूर्वपक्षिणः ॥ ४३ ॥
न निष्पन्नावश्यम्भावित्वात् ॥ ४ । २ । ४४ ॥
सिद्धान्तसूत्रम्—“न, निष्पन्नावश्यम्भावित्वात् ॥” तद् व्याख्यातम् । न खलु तण्डुला अत्यन्तं फलीकृता अपि पिठरोदकदहनसंयोगप्रचयमन्तरेण पुलाकीभवन्तीति भावः ॥ ४४ ॥
तदभावश्चापवर्गे ॥ ४ । २ । ४५ ॥
तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥ ४ । २ । ४६ ॥
किं समाधिविशेष एव तत्त्वज्ञानसाधनम् ? मैवम्, किं तु “तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥ समानमाश्रमिणां धर्मसाधनम् ।” अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रह इति यमः । नियमो यस्याश्रमिणो योऽसाधारणो धर्मोपायः । योग इति विषयेण योगशास्त्रं “पातञ्जलादि”96 लक्षयति । “योगाचारः” एकाकिता आहारविशेषः एकत्रानवस्थानमित्यादिः यतिधर्मोक्तः97 एतेऽपि तत्त्वज्ञानोत्पादक्रमेणापवर्गसाधनमित्यर्थः98 ॥ ४६ ॥
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥ ४ । २ । ४७ ॥
ननु यद्येते तत्त्वज्ञानविधानक्रमेणोपायाः,99 कृतं तर्ह्यान्वीक्षिक्येत्यत आह—“ज्ञान …संवादः ॥” तद् व्याचष्टे—“तदर्थमिति प्रकृतम् ।” आत्मविद्या आन्वीक्षिकी । “अभ्यासः” सततक्रिया प्रयत्न इत्यर्थः100 । प्रयोजनमाह—“प्रज्ञापरिपाकार्थम् । परिपाकस्तु संशयच्छेदनम् ।” किं देहाद्यतिरिक्त आत्मा उत नेति संशयः । तस्य च्छेदनं लौकिकस्य त्वज्ञानमात्मनि तदवबोधः101 । “अध्यवसितं” प्रमाणेन, तस्य “अभ्यनुज्ञानं” तर्केण ॥ ४७ ॥
तंशिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् ॥ ४ । २ । ४८ ॥
“सब्रह्यचारी” सहाध्यायी । गुरुशिष्यसहाध्यायिभ्योऽन्यः शास्त्रेणानुशिष्टः “शिष्टः । श्रेयोऽर्थिनश्च” श्रेयसि मोक्षलक्षणे श्राद्धाः । तेषामपवर्गे श्रद्धादर्शनादस्ति तदुपायाभ्यासः प्राग्भवीय इत्यनुमीत्यते । तेन तेषामपि प्राग्भवीयसंस्कारवशात् प्रतिभोपासनीयेति । “अभ्युपेयात्” अभिमुखमुपेत्य जानीयात् गुर्वादिभिः सहेत्यर्थः । “नीतार्थम्” गतार्थम् ॥ ४८ ॥
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४ । २ । ४९ ॥
तदनेन गुर्वादिभिर्वादं कृत्वा तत्त्वनिश्चय उक्तः । “यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्य” गुर्वादेः । तस्मान्न वादोऽप्युचित इति, तत्रेदं “सूत्र”मुपतिष्ठते—“प्रति…र्थित्वे ॥”
व्याचष्टे—“तमभ्युपेयादिति वर्तते । परतो” गुर्वादेः “प्रज्ञामुपादित्समानः तत्त्वबुभुत्साप्रकाशनेन” आत्मनः शरीरादिभ्यो भेदमहं बुभुत्स इत्यभिदधानः “स्वपक्षमनवस्थापयन् स्वदर्शनं” गुर्वादिकृताद् विचारात् पूर्वपक्षोच्छेदसिद्धान्तव्यवस्थापनलक्षणात्102 “परिशोधयेत् । अन्योऽन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि ।” अयुक्तपरित्यागेन युक्तपरिग्रहणेन च परिशोधयेदिति सम्बध्यते ॥ ४८ ॥
॥ इति तत्त्वज्ञानविवृद्धिप्रकरणम् ॥
तत्त्वज्ञानपरिपालनप्रकरणम्
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥ ४ । २ । ५० ॥
ननु यत्र वादस्यैव दशेदृशी, तत्र तत्त्वनिर्णये दत्तजलाञ्जली तर्हि जल्पवितण्डे इत्यत आह—“स्वपक्षरागेण चैके न्यायमतिवर्तन्ते । तत्र तत्त्वा…वरणवत् ॥” इति “सूत्रम् ॥” तद् व्याचष्टे—“अनुत्पन्नतत्त्वज्ञानानामिति” ॥ ५० ॥
ताभ्यां विगृह्य कथनम् ॥ ४ । २ । ५१ ॥
न केवलं तदर्थं घटमानानां जल्पवितण्डे अपि तु “विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य । ताभ्य…नम् ॥” इति सूत्रम् । यश्च103 कुदर्शनाभ्यासाहितमिथ्याज्ञानावलेपदुर्विदग्धतया सद्विद्यावैराग्याद् वा लाभपूजाख्यात्यर्थितया वा104 कुहेतुभिरीश्वराणां जनाधाराणां पुरतो वेदब्राह्मणपरलोकादिदूषणप्रवृत्तस्तं प्रति वादी समीचीनदूषणमप्रतिभयापश्यन् जल्पवितण्डे अवतार्य विजिगीषया तं विगृह्य जल्पवितण्डाभ्यां तत्त्वकथनं करोति विद्यापरिपालनाय । मा भूदीश्वराणां मतिविभ्रमेण तच्चरितमनुवर्तिनीनां प्रजानां धर्मविप्लव इति । इदमपि प्रयोजनं जल्पवितण्डयोः, न तु लाभख्यात्यादि दृष्टम् । न हि परहितप्रवृत्तः परमकारुणिको मुनिर्दृष्टार्थं परवञ्चनोपायमुपदिशतीति105 ।
“शङ्कावार्त्तिकम्—व्यापकत्वादन्तःकरणस्येति106 ।” अस्य वक्षमाणोऽभिसन्धिः । निराकरोति—“नोक्तोत्तरत्वात् । साङ्ख्यं” दूषयद्भिरित्यर्थः । शङ्किता स्वाभिसन्धिमुद्धाटयति—“स्वाङ्गगतीक्षणेति ।” यावद्धस्तावच्छिन्ने आत्मप्रदेशे प्रयत्नो न जायते, न तावत् तत्र कर्म । न च तत्रात्ममनःसन्निकर्षं107 विना प्रयत्नः । न च मनस इन्द्रियसंयोगं विनेक्षणम् । न चाणुना मनसा इन्द्रियेण हस्तेन चापर्यायेण सम्बन्धः । तस्माद् व्यापकं मन इति शङ्कार्थः । निराकरोति—“न शरीरात्ममनःसंयोगयौगपद्यात् प्रयत्नदर्शनयोर्युगपदुत्पत्तेः ।” तत्रात्मशरीरसम्बन्धात् स्वाङ्गगतिरिति । पाणिचालनेच्छापेक्षेणात्ममनःसंयोगेन पाणिं चालयामीत्येवमाकारः प्रयत्नो जन्यते108 । तत्प्रयत्नवदात्ममनःसंयोगात् पाणौ क्रिया जायते । यद्यप्यात्मनः सर्वाङ्गे संयोगो न विशिष्यते तथापीच्छाविशेषादुत्पन्नः प्रयत्नविशेषः पाणावेव कर्म करोति, नान्यत्र । प्रयत्नान्तरवदात्ममनःसंयोगाच्चक्षुषः प्रेरणम् । यद्यपि चानयोः प्रयत्नयोर्न युगपदुत्पादः, तथापि तदत्यन्तसौक्ष्मात् क्षणभेदो109 न लक्ष्यते । नन्वेकस्मिन्नात्मप्रदेशे वर्तमानः संयोगो वा प्रयत्नो वा कथं प्रदेशान्तरेऽसंयोगिन्यप्रयत्नवति कार्यमारभते इत्यत आह—“न चात्मनः प्रदेशाः सन्तीति ।” परिशिष्टं तु “वार्त्तिकं भाष्य”व्याख्यया व्याख्यातम् ॥ ५१ ॥
॥ इति तत्त्वज्ञानपरिपालनप्रकरणम् ॥
॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां चतुर्थाध्याये द्वितीयाह्निकम् ॥
॥ चतुर्थोऽध्यायः समाप्तः ॥
निवारितानेकनिबन्धमेघ-
पङ्क्तिः स्फुरन्निर्मलदिग्विशेषा ।
टीकेयमुद्द्योतकरप्रसङ्गम्
आतन्वती भाति शरद्द्वितीया ॥
परिहृतदूषणकण्टकमपहतकुनिबन्धपङ्कसम्पर्कम् ।
उद्द्योतकरगवीनां मार्गं द्योतयति टीकेयम् ॥
टीकामिमां वादमृणालदण्डां
जल्पोर्मिमालां सरसीमवाप्य ।
अद्यायमुद्द्योतकरः समर्थो
विकासितुं सूरिमनोऽम्बुजानि110 ॥
-
“यावन्ति चेन्द्रियाणि चेत्यर्थः” [च्] ↩︎
-
“किमायातमि°” [च्] ↩︎
-
“°षयं ज्ञानम्” [च्] ↩︎
-
“प्रकृष्टप्रकाशः” [च्] ↩︎
-
“तेत्यत्र प्रकृष्टप्रकाश°” [च्] ↩︎
-
“°माणः” [ज्] ↩︎
-
“निमित्तसञ्ज्ञेति” [ज्] ↩︎
-
“अर्थविशेषे” [च्] ↩︎
-
“अवयवानु°” [ज्] ↩︎
-
वृत्यनुपपत्तेरपि न संशयः इति सूत्रान्तरमिति केचन । ↩︎
-
“एकदेशाः [च्] एकदेशः” [ज्] ↩︎
-
“अवयवेषु” [च्] ↩︎
-
“भवतैव वादिना” [च्] ↩︎
-
“समवेतः” [च्] ↩︎
-
प्रमाणवार्त्तिकम् २। २०० ↩︎
-
“कुतो” [च्] ↩︎
-
“°तीत्यर्थः” [च्] ↩︎
-
“तावत् तव” [च्] ↩︎
-
“मेवैकं” [च्] ↩︎
-
“परिहरति” [च्] ↩︎
-
काव्यादर्शे १। १०२ ↩︎
-
“उपलब्धेः” [च्] ↩︎
-
“पक्षाः” [च्] ↩︎
-
“वस्तुतस्तु” [च्] ↩︎
-
४। २। १५ सूत्रीयमिति शेषः ↩︎
-
“अस्ति ”ड़ोर्“नास्ति” [ज्] ↩︎
-
“°ति वचनं” [च्] ↩︎
-
“अजसंयोस्य” [च्] ↩︎
-
“गतेरावरणम्” [च्] ↩︎
-
“वेगवता” [ज्] ↩︎
-
“व्यवतिष्ठेते” [च्] ↩︎
-
“सर्वगतव्यापिनी” [च्] ↩︎
-
“पारमर्ष°” [च्] ↩︎
-
“जातीयावयवं” [च्] ↩︎
-
“यस्मा…कार्यविशेषः” [च्] ↩︎
-
“सावयवाः परमाणव इत्यति°” [च्] ↩︎
-
“°कुण्डबदर सं°” [च्] ↩︎
-
“इत ऊर्ध्वं” [च्] “पुस्तके पङ्क्तिविपर्यासो जातः” [ज्] “पुस्तकानुसारेण” [व्] “पुस्तकदृष्ट्या च पाठशोधनं कृतम्” [व्] पुस्तकेऽपि ग्रन्थपातः परत्र शोधितः । ↩︎
-
“संयोगः” [च्] ↩︎
-
“पूर्वपश्चिमयोः” [ज्] ↩︎
-
“अपेक्ष्य…विप्रकर्षौ ”ओमित्तेद् इन् [व्] । ↩︎
-
“अनवयवस्यापि” [ज्] ↩︎
-
°दिभिः न्। वर्। ↩︎
-
“एतेन…इति” [ज्] ↩︎
-
“विवेचनाभावात् न याथात्म्यानुपलब्धिः” [ज्] ↩︎
-
“विक्चियमानस्य” [च्] ↩︎
-
“भावात् तदन्तर्गतत्वेन” [च्] ↩︎
-
“सर्वभावानुपपत्तिरित्यर्थः” [च्] ↩︎
-
“विलक्षणव्यवहाराभावः” [च्] ↩︎
-
“परमार्थतो” [ज्] ↩︎
-
“तस्मात्” [ज्] ↩︎
-
“सिध्यति” [च्] ↩︎
-
“मिथ्याज्ञानानामपि” [ज्] ↩︎
-
“कुम्भ इति” [च्] ↩︎
-
“स्वप्नज्ञानस्यायाथार्थ्यमि°” [च्] ↩︎
-
“सर्वविषयाः” [च्] ↩︎
-
“विषयव्यापकम्” [ज्] ↩︎
-
“विनिपातात्” [च्] ↩︎
-
“विज्ञानकालस्य” [ज्] ↩︎
-
“सर्वज्ञज्ञानानि” [ज्] ↩︎
-
“असम्भवात्” [च्] ↩︎
-
“असन्ननुत्पन्नरूपो” [च्] ↩︎
-
“सरूपवत्” [ज्] ↩︎
-
“अजडेन” [ज्] ↩︎
-
“प्रत्ययतत्सारूप्याभ्यां” [च्] ↩︎
-
“तथापि” [च्] ↩︎
-
“सोपाने” [च्] ↩︎
-
“°गमनरचनप्र°” [च्] ↩︎
-
“सन्तत्यधिकतराणामपि” [च्] ↩︎
-
“क्षणस्य कार्यभेदहेतुत्वमि°” [च्] ↩︎
-
“ज्ञानाधानसा°” [ज्] ↩︎
-
“सत्यां” [च्] ↩︎
-
“°मुपलभ्यते” [च्] ↩︎
-
“स्वभावः तस्य” [च्] ↩︎
-
“तत्°”ओम् [च्] ↩︎
-
“°शालितया कर्म भवति” [च्] ↩︎
-
“प्रकाशश्च विषय इति” [च्] ↩︎
-
“न च” [च्] ↩︎
-
“स्वात्म°” [च्] ↩︎
-
“°प्रकाशवत्” [च्] ↩︎
-
“मिथ्या” [च्] ↩︎
-
“विज्ञानस्फुटता चावक्तव्येति” [च्] ↩︎
-
“स्फुटता” [च्] ↩︎
-
“अस्फुटता” [च्] ↩︎
-
“प्रतिबोधः” [ज्] ↩︎
-
“नाभावं” [च्] ↩︎
-
“यः पूर्वं पुरुषो°” [च्] ↩︎
-
“तावद् रूपबुद्धीः प्रतिपाद्य” [च्] ↩︎
-
“°तथाभूत°” [ज्] ↩︎
-
“°आदि°” [ज्] ↩︎
-
“°गोऽयम् ।” [च्] ↩︎
-
“सुप्तावस्थायाम°” [च्] ↩︎
-
°मसम्भवन्तो अलङ्कार ↩︎
-
“बाह्यार्थस्य” [च्] ↩︎
-
“पातञ्जलं” [च्] ↩︎
-
“°त्यादि यतिधर्मोक्तम्” [च्] ↩︎
-
“ज्ञानक्रमोत्पाद°” [च्] ↩︎
-
“तत्त्वज्ञानोत्पादक्रमेणापवर्गोपायः” [च्] ↩︎
-
“तत्क्रिया तत्र प्रयत्न इत्यर्थः” [ज्] ↩︎
-
“लोकस्य तत्त्वज्ञानमात्मनि तदवरोधः ।” [च्] ↩︎
-
इतः परं स्वदर्शनमिति टीकायामभ्यस्तम् । तत्तु नापेक्षितमिति त्यक्तम् । ↩︎
-
“यस्तु स्वदर्शनविलसितमिथ्या°” [च्] ↩︎
-
“वा” [ज्] ↩︎
-
“परपांशुलोपाय°” [च्] ↩︎
-
५। २। ३७ सम्बद्धमिदमिति ज्ञेयम् । ↩︎
-
“सन्निकर्षम् इत्यस्मात् न शरीरात्ममनः इत्यन्तम् पतितम्” [ज्] ↩︎
-
“जायते, तत्र” [च्] ↩︎
-
“कालभेदः” [च्] ↩︎
-
श्लोकत्रयमिदं जयसलमीरपुस्तके समुपलब्धम् । ↩︎