०१

चतुर्थाध्याये प्रथमाह्निकम्

प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्

प्रवृत्तिर्यथोक्ता ॥ ४ । १ । १ ॥

अथ मनःपरीक्षानन्तरमुद्देशलक्षणक्रमानुरोधेन प्रवृत्तिः परीक्षितुं युक्ता, सा कस्मान्न परीक्ष्यत इति शङ्कानिराकरणाय सूत्रमित्याह—“मनसोऽनन्तर”मिति—

“प्रवृ…क्ता ॥” अस्य शेषः—“तथा परीक्षिता ।” यथा लक्षिता तथा परीक्षितेत्यर्थः । पृच्छति—“किं पुनरिति ।” प्रमेयमात्मादि मनोऽन्तं परीक्षितम्, न पुनः प्रवृत्तेः स्वरूपं1 वा कार्यं वा परीक्षितमिति भावः । उत्तरम्—“यावद्धर्माधर्माश्रयम्” इति । “एकद्रव्येति ।” एकस्मिन्नेवात्मनि वर्तत इत्यर्थः । “अवस्थिता” न तु बुद्ध्यादिवदाशुतरविनाशिनीत्यर्थः । “आत्मसमवायादिति ।” कार्यत्वे सतीति द्रष्टव्यं विशेषणम् । तेन न सामान्यविशेषाभ्यां व्यभिचारः । “प्रायणादिति ।” आदिशब्देन सुखादिक्षयोऽपवर्गश्च गृह्यते । “संसारापवर्गहेतुभूता”त्मसद्भावासद्भावाभ्यामिति शेषः । “एवमाद्युक्तमिति ।” आदिग्रहणेनात्मसमवेता प्रवृत्तिर्न तु पृथिव्याद्याश्रयेति दर्शितमिति2 ॥ १ ॥

तथा दोषाः ॥ ४ । १ । २ ॥

प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह—“तथा दोषाः ॥” उक्ता इति शेषः । प्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाणां सत्त्वं3 परीक्षितमित्यर्थः । कार्यरूपप्रवृत्तितुल्यतामाह—“बुद्धिसमानाश्रयत्वादिति ।” अभीष्टविषयचिन्तनादि प्रभवाः खल्वमी4 दोषा नार्थचिन्तनबुद्धिव्यधिकरणा5 भवितुमर्हन्ति । तथा सति चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्तेत । तस्माद् “बुद्धिसमानाश्रयत्वादात्मगुणाः ।” आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाः परीक्षिता इत्यर्थः6 । इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह—“संसारस्यानादित्वादिति ।” एतच्चोक्तं “वीतरागजन्मादर्शनात्” इत्यनेन, तथोद्देशपरीक्षापरेण द्वितीयसूत्रेण । यत्तेषां दोषाणां परीक्षितं तदाह—“सम्यग्ज्ञानाच्चेति ।” स्यादेतत्, गुणत्वेन ह्यात्मगुणा7 इति सिध्यति । तदेव तु कुत इत्यत आह—“कार्यत्वे सतीति । इन्द्रियान्तरं” मन इति । मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत उक्तं कार्यत्वे सतीति विशेषणम्8 । “अचाक्षुषप्रत्यक्षत्वादित्यत्रापि” कार्यत्वे सतीति विशेषणमनुषञ्जनीयम् ॥ २ ॥

॥ इति प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् ॥

दोषत्रैराश्यप्रकरणम्

तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥ ४ । १ । ३ ॥

तदेवं बहु परीक्षितं दोषाणाम् । यत्तु किञ्चिदेषामपरीक्षितमस्ति तत् परीक्षितुमुपक्रमते—“प्रवर्तनालक्षणा दोषा इत्युक्तम्, तथा च मानादय” इति । रागद्वेषमोहा एव दोषाः । न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् । प्रवर्तनालक्षणत्वं तु तेषामप्यस्ति । तस्मादतिव्यापकत्वात् लक्षणमेतदयुक्तम्9 । युक्तत्वे वा लक्षण“सूत्रे”मानादयोऽपि दोषवत् पठनीया इति पूर्वपक्षः । सिद्धान्तवाद्याह— “नोपसङ्ख्यायन्ते सङ्गृहीतत्वादिति ।” रागद्वेषमोहानां सामान्यत्रयाणां कामादयो विशेषाः । तथा चोपपन्नो बुद्धिव्यपदेशभेदः सङ्ग्रहश्चेति भावः ।

“तत्त्रै…भावात् ॥ अस्ववस्त्वादानेच्छा” अस्वामिदानपूर्विका स्पृहा । पुनर्भवप्रार्थना तृष्णा । हेतुभूता प्रवृत्त्यादिद्वारेण पुनर्भवप्रतिसन्धानस्येति । “प्रमाणविरुद्धेति” अन्यायेनेत्यर्थः । परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः । तत्प्रतिषेधाभिप्रायो ज्ञातिविशेषस्येर्ष्येत्युच्यते10 । “अमर्षलक्षणो द्वेष” इति । नन्वयं11 कृतापकारस्य या असहिष्णुता सोऽमर्ष इति द्वेषस्यैष विशेष इत्युक्तम्, कथं स एव द्वेषसामान्यमुच्यते इत्यत आह—“असहिष्णुता दुःखस्य दुःखसाधनानां चेति । मिथ्याप्रतिपत्तिलक्षणो मोह” इति । संशयोऽपि12 हि वा13 यथावस्थिते पदार्थे अयथाभावप्रतिपत्तिर्भवति । व्यवस्थितं हि वस्तु अव्यवस्थिततया गृह्णाति संशयः । एवं पण्डितमानिनो “मीमांसक”दुर्दरूढस्याभिमान इति ॥ ३ ॥

नैकप्रत्यनीकत्वात् ॥ ४ । १ । ४ ॥

“आर्यप्रज्ञेति भाष्यम् ।” आरात् तत्त्वाद् याता आर्या । आर्या चासौ प्रज्ञा चेति आर्यप्रज्ञा । सम्यग् बोधः सम्बोधः ॥ ४ ॥

व्यभिचारादहेतुः ॥ ४ । १ । ५ ॥

“एकयोनयो हि रूपादयो न चैषामेकत्वम् ।” यदि पुनस्तत्र रूपादीनां परस्परभेदसिद्धये कश्चित् कारणभेद आस्थीयते, स रागादिष्वपि समान इति भावः14 ॥ ५ ॥

तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः ॥ ४ । १ । ६ ॥

नासति निदोनोच्छेदे निदानिनामुच्छेद इति रागद्वेषयोर्निदानिनोरुच्छेदाय तन्निदानत्वं मोहस्य दर्शयति—“सति चार्थान्तरभाव” इति । “तेषां…त्तेः ॥ तेषां मोहः पापीयान् ।” कुतः ? “नामूढस्येतरोत्पत्तेः ।” अमूढस्येतरोत्पत्तिर्न भवति यत इत्यत्रार्थे नामूढस्येतरोत्पत्तेरित्युक्तम् । मोहाद् विषयस्य सुखसाधनत्वानुस्मृतिः दुःखसाधत्वानुस्मृतिश्च । सङ्कल्पाः रञ्जनीयाः कोपनीया इति कर्तरि कृत्यो भव्यगेयादिपाठात्15

वार्त्तिकम्—“मूढो मुह्यतीति ।” मूढ इति मोहवासनावान् । भवतु तन्निदानोच्छेदादुच्छेदो निदानिनः, निदानस्यैव तु कुत उच्छेद इत्यत आह— “तत्त्वज्ञानाच्चेति ।” प्रतिपक्षाभ्यासान्निदाननिवृत्तिरित्यर्थः16 ॥ ६ ॥

निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ॥ ४ । १ । ७ ॥

न दोषलक्षणावरोधान् मोहस्य ॥ ४ । १ । ८ ॥

दोषनिमित्तत्वादिति हेतोरप्रयोजकत्वमाह—“न दोषलक्षणावरोधादिति । न दो…स्य ॥ तथाभावः” तज्जातीयत्वम् । “अतथाभावः” अतज्जातीयत्वम् ॥ ८ ॥

निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ ४ । १ । ९ ॥

अनैकान्तिकत्वमाह—“निमित्तनैमित्तिकोपपत्तेश्चेति । निमि…धः” ॥ ९ ॥

॥ इति दोषत्रैराश्यप्रकरणम् ॥

प्रेत्यभावपरीक्षाप्रकरणम्

आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ ४ । १ । १० ॥

उत्पादोच्छेदौ प्रेत्यभावः । न चात्मनो नित्यस्य तौ स्तः । तस्मादस्मिन् दर्शने न युक्तः प्रेत्यभावः । “वैनाशिकानां” तु सत्त्वोत्पादनिरोधाभ्यां युक्तः प्रेत्यभावः । प्रेत्येति ल्यब् मुखं व्यादाय स्वपितीतिवद् द्रष्टव्यः । तथा च भूत्वा प्रायणमिति भवनप्रायणयोः समानकर्तृकत्वमप्युपपन्नमिति पूर्वपक्षः । पूर्वाभ्यस्त “सूत्रे” आत्मनित्यत्वव्यवस्थापनात् । सत्त्वोत्पादोच्छदे च कृतहानाकृताभ्यागमदोषेणाभ्युदयनिःश्रेयसार्थाप्रवृत्तेः1718 ऋष्युपदेशानर्थक्यप्रसङ्गाच्च19 । देहेन्द्रियबुद्धिवेदनासम्बन्धोत्पादविनाशौ नित्यस्यात्मनो जन्मप्रायणे । तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः ॥ १० ॥

व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ ४ । १ । ११ ॥

प्रेत्यभावविचारप्रस्तावेनेदमपरं विचारयति—येयं मृत्वोत्पत्तिर्नाम20 सा कथमिति चेत् ? अत्र हि प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति । तत्राभिमतं पक्षं तावत्21 “सूत्रकृद्” गृह्णाति “व्यक्तादिति । व्यक्ताद्…ण्यात् ॥” अग्रे विप्रतिपत्तीर्निवारयिष्यति । शरीरेन्द्रियविषयोपकरणाधारमित्येकवद्भावेन नपुंसकत्वम् । प्रत्यक्षगृहीतसम्बन्धप्रभवमनुमानं प्रत्यक्षेऽप्युपदिशति प्रत्यक्षमूलकत्वादिति । ननु भवतु शरीरं पृथिव्यादि व्यक्तं महत्त्वानेकद्रव्यवत्त्वरूपविशेषेभ्यः । तन्मूकारणं परमाणवः कथं व्यक्ता इत्यत आह—“तत्सामान्यादिति ।” रूपादिमत्सामग्रीपूर्वकं शरीरम्22 इत्यर्थः ॥ ११ ॥

न घटाद्घटानिष्पत्तेः ॥ ४ । १ । १२ ॥

व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ ४ । १ । १३ ॥

॥ इति प्रेत्यभावपरीक्षाप्रकरणम् ॥

शून्यतोपादानप्रकरणम्

अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ ४ । १ । १४ ॥

“अतः परं प्रावादुकानां” तीर्थिकानां23 “दर्शनान्युपन्यस्य24 कानिचिद् प्रतिषिध्यन्ते25 कानिचिदभ्यनुज्ञायन्त” इति । “तत्र तावद् एके” प्राहुः—“अभा… वात् ॥ अभावाद् भावोत्पत्तिः ।” कुतः ? नानुपमृद्य प्रादुर्भावो यतस्तस्मादित्यर्थः । विश्वं हि शून्यताया एव जायते । एवं किल श्रूयते—असदेवेदमग्र आसीदिति26 । अत एवाद्याप्यसत एव जन्म दृश्यते न सतः । तत् कस्य हेतोः ? अमावस्तत्र कारणमिति । उपलक्षणं चेदं नानुपमृद्य प्रादुर्भावादिति, असत उत्पादादित्यपि द्रष्टव्यम् । तस्मादसदुपादानं विश्वमिति सिद्धम् ॥ १४ ॥

व्याघातादप्रयोगः ॥ ४ । १ । १५ ॥

अत्र सिद्धान्ती गुढाभिसन्धिराह—“व्याघा…गः ॥ उपमृद्य प्रादुर्भवतीति व्याघात” इति ॥ १५ ॥

नातीतानागतयोः कारकशब्दप्रयोगात् ॥ ४ । १ । १६ ॥

तदभिसन्धिमविद्वान् पूर्वपक्षी दूषयति—“न, अ…गात् ॥” इति । उपमृद्य प्रादुर्भवतीति भाक्त एष प्रयोगो न मुख्य इत्यर्थः । “भिन्नस्य कुम्भस्य कपालानीति” तु यद्यपि न साक्षात् कारकशब्दस्तथापि षष्ठ्या सम्बन्धाभिधानात् तस्य च क्रियागर्भत्वात् क्रियायाश्च कारकनान्तरीयकत्वात् पारम्पर्येण कारकशब्दता द्रष्टव्या । “का पुनर्भक्तिः ?” यया योगादुपसङ्गृह्णाति बीजमङ्कुर इति भवति प्रयोग इत्यर्थः । पृच्छति—कः पुनरङ्कुरेण बीजोपमर्दार्थः27 ? उत्तरम्—“अनन्तरोत्पत्त्यर्थः ।” उपमर्द्योपमर्दकयोरप्यानन्तर्यम्, अनयोरपीति एतत्सामान्यमित्यर्थः । पुनरपि गूढाभिसन्धिरेव सिद्धान्ती उक्तमर्थं28 स्मारयति—“अत्रोक्तमिति ।” अभिप्रायमुद्धाटयति—“यदपीदमुच्यते” इति । नौपचारिकं प्रयोगं व्यसेधामः कारकशब्दानाम्, अपि29 तु यथा भविष्यन्नङ्कुरः सम्प्रति असन्न बीजमुपमृद्नाति, एवं बीजाभावोऽसन्नाङ्कुरं करोतीति ब्रूमः । तदिदमाह—“अपि त्वसतः कारणादुत्पत्तिर्न युक्तेति ।” ननूक्तम्— उपमृद्य प्रादुर्भावात् [४.१.१४] इत्यनेनानन्तर्यं बीजविनाशाङ्कुरोत्पादयोः सूचितं बीजविनाशानन्तर्याच्चाङ्कुरोत्पादस्य बीजविनाशकार्यत्वमित्यत आह—“यत्पुनरेतदानन्तर्यसामर्थ्यादिति ।” अनन्यप्रयुक्तमानन्तर्यं कार्यकारणभावसाधनम् । इदं तु व्यूहानन्तर्यप्रयुक्तमिति नाभावस्य कारणत्वं गमयितुमर्हतीत्यर्थः । यदि व्यूहान्तरकार्योऽङ्कुरः, अथ कस्माद् अविनष्टे पूर्वव्यूहे न भवतीत्यत आह—“न चाविनष्टे पूर्वव्यूहे” इति । ननु यदि बीजावयवव्यूहान्तरमङ्कुरोत्पादहेतुर्न बीजम्, कस्मादङ्कुरार्थिनः कृषीबला बीजमुपाददत इत्यत आह—“एवं चेति ।” बीजावयवोपादाने अवर्जनीयतया बीजमागच्छदशक्यप्रत्याख्यानमित्यर्थः ॥ १६ ॥

न विनष्टेभ्योऽनिष्पत्तेः ॥ ४ । १ । १७ ॥

तदेवमर्थं परिशोध्यात्रैवार्थे “सूत्रं” योजयति—“अस्य चार्थस्येति । न वि…त्तेः ॥ न विनष्टेभ्यो” बीजेभ्योऽङ्कुरस्य अनिष्पत्तेः । बीजविनाशश्चेदङ्कुरोत्पत्तिहेतुः, अथ विनष्टे बीजे तदवयवेषु परस्परविच्छिन्नेष्वसति तेषां व्यूहान्तरे न कस्मदङ्कुरो भवति, भवति तु सति तेषां व्यूहे ? तस्माद् विनष्टेभ्योऽङ्कुरानुत्पत्तेरसति व्यूहे न बीजविनाशः कारणमिति “सूत्रार्थः” ॥ १७ ॥

क्रमनिर्देशादप्रतिषेधः ॥ ४ । १ । १८ ॥

क्रमनिषेधाद् इत्यस्य हेतोरस्मत्पक्षेऽप्यप्रतिषेधः, तत्राप्यानन्तर्यस्य तुल्यत्वात् । तथापि विनिगमनायां को हेतुरित्यत आह—अभावश्चेदङ्कुरोत्पत्तिकारणं स्यात्, अनुपाख्येय इति शेषः । न हि अनन्वयविनष्टयोः शालियवबीजयोः कश्चिद् विशेषोऽस्ति येनैकस्माच्छाल्यङ्कुरो नान्यस्मादिति । नो खल्वभावानामस्त्याजानतो भेदः30 । अपि च कारणानां शक्तिभेदात् कार्याणि भिन्नशक्तीनि31 । यदा तु कारणानामेवाभेदस्तदा कुतस्तच्छक्तीनां भेदः ? तथा च कार्याणि भिन्नशक्तीनि न स्युरित्याह—“अनन्वितं च कार्यं सर्वाभिरिति ।” यदप्यसत उत्पादादभावस्योपादानत्वं तदपि कार्याणां भिन्नत्वेन भिन्नशक्तिकत्वेन च प्रत्युक्तम्, तत्प्रागभावानां स्वाभाविकभेदविरहात् । अपि च प्रागभावानामनादित्वेन कार्योत्पादस्याप्यनादित्वप्रसङ्गः । भावरूपकारणसहकारित्वं त्वभावस्य न निषिध्यते अस्मदभिमतस्योपाख्येयस्य । अत एव पाकजानां32 रूपादीनां पूर्वरूपादिध्वंसनिमित्तत्वमभ्युपेयते । श्रुतिस्तु पूर्वपक्षाभिप्राया । तथा च “सिद्धान्ते” श्रुत्यन्तरम्—सदेव33 सोम्येदमग्र आसीदिति कथमसतः सज्जायेतेति । शून्यताविवर्तश्च विश्वप्रपञ्च इति तु दर्शनमसत्ख्यात्यनिर्वचनीयख्यातिनिरासेनापाकृतम् । अपि च सर्वशून्यत्वे ख्यातुरभावात् ख्यातेरभावः । तस्मान्न शून्यतोपादनस्तद्विवर्तो वा विश्वप्रपञ्च इति सिद्धम् ॥ १८ ॥

॥ इति शून्यतोपादानप्रकरणम् ॥

ईश्वरोपादानताप्रकरणम्

ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ ४ । १ । १९ ॥

अथापर आह—“ईश्वरः…दर्शनात् ॥” मा भूदयं नामरूपप्रपञ्चः शून्यतोपादानः, अपि तु ब्रह्मोपादानो भविष्यति । ब्रह्मैव हि प्रपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्चनादिभेदेन34 । न चैवं नित्यत्वव्याघातः । परिणामेऽपि35 तत्त्वाविघातात्, तल्लक्षणत्वाच्च नित्यतायाः । यदाह—यस्मिंस्तत्त्वं36 न विहन्यते तदपि नित्यमित्येकं दर्शनम् । अपरं च ब्रह्मैवानिर्वचनीयानाद्यविद्योपधानभेदान्नामरूपप्रपञ्चभेदेन विवर्तते मुखमिवैकमनेकमणिकृपाणदर्पणादिभेदादनेकविधप्रतिबिम्बभेदेनेति । तदेतद् दर्शनद्वयमनेन सूचितम् । ईश्वरो ब्रह्म ईशनादियोगात् । चेतनाशक्तिः क्रियाशक्तिश्चेशना । सा चास्ति ब्रह्मणीति ब्रह्म ईश्वरः कारणं जगतः । श्रूयते हि तदैक्षत37 बहु स्यां प्रजायेयेत्यादि । सा खल्वियं श्रुतिश्चेतनस्य जगत्कारणतामाह । न चाभावो वा प्रधानं38 वा परमाणवो वा चेतयन्ते । ननु जीवा एव चेतनाः तत्कर्मनिबन्धनो नामरूपप्रपञ्चो भविष्यति, कृतमत्र भगवतेश्वरेणेत्यत उक्तं—“पुरुषकर्माफल्यदर्शनादिति ।” पुरुषश्चेत् चेतयेत् नैवं निष्फलं कर्मारभेत । तन्निष्फलत्वं39 त्वविद्वान् प्रवर्तमान कथं चेतनो नाम ? तस्मात् पुरुषकर्माफल्यदर्शनाद् ईश्वरः कारणमित्यर्थः ॥ १९ ॥

न पुरुषकर्माभावे फलानिष्पत्तेः ॥ ४ । १ । २० ॥

तदेतद्दर्शनद्वयमपाकरोति—“न पु…त्तेः ॥” इदमत्राकूतम् । न तावन्मृत्तिकेव नामरूपप्रपञ्चरूपेण ब्रह्म परिणमते । तद्धि सर्वात्मना वा परिणमते एकदेशेन वा ? तत्र सर्वात्मना परिणामे तत्त्वविघातादनित्यत्वम् । एकदेशपरिणामे तु सावयवत्वात् तदेवानित्यत्वम् । अथ तत्त्वेनानुगतस्य परिणामः,40 तच्च ब्रह्म । न तर्हि ब्रह्मणः परिणामः । न च निर्भागस्यैकस्य स्वसंवेदनप्रत्यक्षस्य विपरीतज्ञानगोचरत्वसम्भवः । सामान्यतो ग्रहे स्वरूपभेदाग्रहे41 च तदन्यरूपारोपेण विभ्रमो दृष्टः शुक्तिकादौ, न जातु शुक्तिस्वरूपं विद्वान् रजतमिति विपर्यस्यति । न च निरंशे स्वसंवेदनप्रत्यक्षे ब्रह्मणि तत्स्वरूपाग्रहः सामान्यग्रहो वा सम्भवति । तस्माद् ईश्वरो जगद्भेदेन विवर्तते इत्ययुक्तम् । निमित्तं तु स्यादीश्वरो जगतः । स चेदनपेक्ष एव जगत्कारणमित्युच्यते, तत्रेदमुपतिष्ठते—“न पुरुषकर्माभावे फलानिष्पत्तेरिति ।” अस्य व्यतिरेकमाह “वात्तिर्ककारः—ईश्वरश्चेत् कारणं भवेदिति ।” एकरूपं कार्यं स्यादित्याह— “ईश्वरस्येति । कर्मणि ईश्वरोऽनीश्वरः स्यात् ।” तथा च तत्कारणानि नेश्वरेण प्रयुज्यन्त इत्यनेकान्तो वक्ष्माणो हेतुरित्यर्थः ॥ २० ॥

तत्कारितत्वादहेतुः ॥ ४ । १ । २१ ॥

तदेवमीश्वरोपादानत्वं च ब्रह्मविवर्तत्वं42 च निरपेक्षेश्वरनिमित्तत्वं च निराकृत्य अभिमतं पक्षं गृह्णाति—“तत्का…तुः ॥” परमाणूपादानस्य जगतः पुरुषकर्मापेक्ष ईश्वरो निमित्तकारणम् । यच्च तेनापेक्षणीयं पुरुषकर्म तदपीश्वरनिमित्तकमेव । न च यदपेक्ष्यते तस्यानिमित्तत्वमित्युपरिष्टात् प्रवेदयिष्यते । तस्माद् ईश्वरकारितत्वात् पुरुषकारस्य तत्सहाय ईश्वरो निमित्तकारणं जगत इत्यस्य पक्षस्य निराकरणे “पुरुषकर्माभावे फलानिष्पत्तेरित्यहेतुः” निरपेक्षेश्वरनिमित्तकत्वनिराकरणे तु हेतुरेवेत्यर्थः ।

“भाष्यम्—गुणविशिष्टमात्मान्तरमिति ।” गुणानीश्वरस्य ज्ञानादीनुपपादयिष्यति “वार्त्तिककारः । आत्मकल्पाद्” इति । अत्रात्मप्रकारादात्मजातीयत्वादिति यावत् । संसरद्भ्य आत्मभ्यो विशेषमाह—“अधर्मेति ।” नन्वस्य कर्मानुष्ठानाभावात् कुतो धर्मः, तथा चाणिमादिकमैश्वर्यं कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग इत्यत आह—“सङ्कल्पानुविधायी चास्य धर्म” इति । प्रवर्तयतु, किमेतावता इत्यत आह—“एवं च स्वकृताभ्यागमस्यालोपेनेति ।” मा भूद् बाह्यानुष्ठानं सङ्कल्पलक्षणानुष्ठानजनितधर्मफलमस्यैश्वर्यं जगन्निर्माणलक्षणमिति43 नाकृताभ्यागमप्रसङ्ग इत्यर्थः ।

स्यादेतत् । प्रयोजनं विना न प्रेक्षावतां प्रवृत्तिः । न च प्राप्तसमस्तप्रापणीयस्यास्ति प्राप्तव्यं किञ्चिदीश्वरस्य । तस्मात् कृतमस्य जगन्निर्माणेनेत्यत आह—“आप्तकल्पश्चेति ।” मा भूदस्य भगवतः स्वार्थः, परानुग्रहार्थं तु जगन्निर्माणे प्रवर्त्स्यतीत्यर्थः । अत्रैव दृष्टान्तमाह—“यथा” पितापत्यानाम्44 । अयं पिता स्वापत्यानां यथा पितेत्यर्थः । दार्ष्टान्तिके योजयति—“तथा पितृभूत ईश्वर” इति ।

नन्वात्मान्तराण्यनित्यज्ञानयोगीनि दृष्टानि, तद्वैलक्षण्यादीश्वरो नात्मजातीयो भवितुमर्हतीत्यत आह—“न चात्मकल्पादिति ।” यद्यप्यात्मान्तराण्यनित्यबुद्ध्यादियोगीनि, अयं च नित्यज्ञानादियुक्तः, तथाप्यात्मजातीय एव, बुद्ध्यादिगुणयोगित्वात् । अन्यथा तोयादिपरमाणूनामतोयत्वादिप्रसङ्गो नित्यरूपादियोगात् । हिमकरकादिगतानां रूपादीनामनित्यत्वोपलब्धेरिति । यदि चायं बुद्ध्यादिगुणैर्नोपाख्यायेत प्रमाणाभावादनुपपन्न एव स्यादित्याह—“बुद्ध्यादिभिश्चेति ।”

स्यादेतत् । यदि कारुण्यादीश्वरो जगन्निर्माणे प्रवर्तते, हन्त भोः सुखिनमेव सृजेन्न तु दुःखिनम् । न च क्षेत्रज्ञगतधर्माधर्मसहकारितया निर्माणवैचित्र्यं वाच्यम् । धर्मस्य तदनधिष्ठितस्य स्वकार्याकरणेन कारुणिकेन तदधिष्ठानायोगात् । तस्मात् सुखिदुःख्यादिभेदेन जगद्वैचित्र्यदर्शनात् नानुकम्पाप्रयुक्त ईश्वरः करोतीत्यत आह—“स्वकृताभ्यागमलोपेन प्रवर्तमानस्येति ।” अयमभिसन्धिः । कारुणिकोऽप्ययमात्मान्तरातिशयितमहिमापि न वस्तूनां सामर्थ्यमन्यथा कर्तुं पारयति । तेनाधर्मेणोत्पत्तिमता नेश्वरप्रभावादपि नित्येन भवितुं युक्तम् । न च स्वफलविरोधिना फलमप्रदाय विनंष्टुमपि शक्यम् । अतः क्षेत्रज्ञानां नियतिमलङ्घयता ईश्वरेण नाधर्मः शक्योऽनधिष्ठातुम् । तस्मात् कारुणिकोऽप्ययं वस्तुस्वभावमनुविधीयमानो धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते । तदिदमुक्तम्—“स्वकृताभ्यागमलोपेनेति ।” पुरुषैर्यत् कर्म कृतं तत्फलाभ्यागमलोपेन प्रवर्तमानस्येत्यर्थः ।

“वार्त्तिके ईश्वरप्रक्रियेति ।” प्रक्रिया प्रकरणम् ईश्वरनिमित्तत्वविचार इत्यर्थः । “अथ विद्यमानः प्रतिबन्धान्न प्रवर्तयतीति ।” सुखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः । एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये धर्म इत्यर्थः ।

“न चायं हेतुस्तस्मान्निवर्तते” इति । अयमचेतनत्वलक्षणो हेतुः क्षीरान्न निवर्तत इत्यर्थः ।

परिस्पन्दः क्रिया । सा च मूर्त्यनुविधायिनी नामूर्ते सर्वगत ईश्वरे सम्भविनीति मन्वानः शङ्कते—“क्रियानावेशादकारणमिति चेत्” इति । अपरिस्पन्दा अपि ज्ञानचिकीर्षाप्रयत्ना आख्यातपदवाच्यतया भवन्ति क्रिया ईश्वर इत्यभिसन्धिना परिहरति—“न विकल्पानुपपत्तेरिति । यदा च युगपदनेकानि द्रव्याणि संहन्यन्ते, तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य” इति । असाधारणं कार्यम् एकैकस्य तन्तुद्वयसंयोगस्य द्वितन्तुकम्, तस्माद् व्यावृत्तेभ्यः संयोगेभ्यः सह साधारणस्यैव कार्यस्य पटलक्षणस्योत्पादादित्यर्थः । न केवलमुत्पन्नक्रियेषु क्रियोपरतौ द्रव्योत्पादः कदाचिदनुत्पन्नक्रियेष्वपि द्रव्येष्ववस्थितसंयोगेभ्यः पूर्वद्रव्योपरतौ द्रव्यान्तरोत्पाद इत्याह—“एकावयवविभागे त्विति ।” तुशब्देन पूर्वस्मादुत्पन्नोपरतक्रियाद् विशेषो दर्शितः । किमक्रियावतामेवारम्भः ? नेत्याह—“कानिचित् पुनरिति ।” अन्यतरकर्मजान्नोदनात् संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव द्रव्यमुत्पद्यते इति ।

“तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टमिति ।” चेतनोऽप्ययं परानुग्रहस्वभावोऽपि वस्तुस्वभावमनुरुध्यमानः कर्माशयानुरोधेन जगद्वैचित्र्यं विधत्ते । न चावश्यं सुकृते45 प्रवृत्तिमिवावश्यं दुष्कृते पुंसां प्रवृत्तिं विहन्तीत्यर्थः । अद्यत्वेऽपि च चेतनानां विचित्रस्वभावत्वं दृष्टं सदसन्मध्यमानां जनानाम् ।

“अथ नित्यमैश्वर्यं धर्मवैयर्थ्यं न तद् धर्माद् भवतीति ।” ततश्च ईश्वरस्यैश्वर्यं स्वकृतकर्मफलं वेदितव्यमित्ययुक्तं “भाष्य”मिति भावः । परिहरति—“नित्यमिति ब्रूमः ।” तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । अणिमादिकं त्वनित्यम्, तदभिप्रायं च “भाष्यकारस्य” धर्मफलत्वाभिधानम् । प्रत्यात्मवृत्ति धर्माधर्मसन्निचयाधिष्ठानं प्रत्यात्मवृत्तिसङ्कल्पानुविधायिन46 ईश्वरधर्मस्य प्रयोजनमिति । अभ्युपेत्येश्वरधर्ममेतदुक्तं “भाष्यकृता ।” परमार्थतस्तु नेश्वरस्य धर्मसद्भावे प्रमाणमस्ति, नित्याभ्यामेव ज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पादसिद्धेरित्याशयवान् आह—“न चेश्वरे धर्मोऽस्तीति ।”

“बुद्धिमत्त्वात् तर्हि आत्मान्तरमिति ।” आत्मान्तरं शरीर्यन्तरमभिप्रेतमिति । स च शरीरसम्बन्धो वर्तमानः केषाञ्चिद् यथा संसारिणाम्, केषाञ्चिदतीतो यथा मुक्तानां शुकप्रह्लादादीनाम् । तदनेनेश्वरेण बुद्धिमता अवश्यं भाव्यं शरीरिणेति देश्यार्थः । “नात्मान्तरं” न47 शरीरीत्यर्थः । कुतः ? “गुणभेदात् ।” नित्याश्चेदस्य बुद्ध्यादयः कृतं शरीरग्रहणेन तदुत्पादार्थेनेति भावः । “नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्ते इति ।” पक्षधर्मताबलात् तर्कसहायात् नित्यबुद्धिमत्त्वमस्य सिध्यतीत्यर्थः । “प्रत्यर्थनियमासम्भवाद्” इत्यादिना तर्कः प्रमाणसहायो दर्शितः ।

एवं तावद् गुणभेदेनाशरीरित्वमीश्वरस्य दर्शितम् न चैतस्य शरीरयोगो विकल्पमपि सहत इत्याह—“अथ बुद्धिमत्तयेति । अतीतानागतवर्तमानविषया प्रत्यक्षेति” साक्षात्कारवतीत्यर्थः । न पुनरक्षमाश्रिता नित्यत्वात् । उपलक्षणं चैतत् । “नानुमानि की” चेति नैन्द्रियकी नौपमानिकीत्यपि द्रष्टव्यम् । “अक्लिष्टेति ।” क्लेशोऽविद्या तदरूषितेत्यर्थः48

“मूर्तिमद्द्रव्यसम्बन्धित्वादिति” संयोगित्वादित्यर्थः । तथा च न रूपादिभिर्व्यभिचारः । एतावदत्राभिसंहितमाचार्यस्य,49 त्रयो50 हि खलु भावा जगति भवन्ति । प्रसिद्धचेतनकर्तृकाश्च यथा प्रासादाट्टालगोपुरतोरणादयः । प्रसिद्धतद्विपर्ययाश्च यथा परमाण्वाकाशादयः । सन्दिग्धचेतनकर्तृकाश्च यथा तनुतरुमहीमहीधरादयः । तत्र च प्रमेयत्वाद् वा वादिविप्रतिपत्तेर्वा साधकबाधकप्रमाणाभावे चेतनकर्तृत्वे संशयः । न च प्रत्यक्षानुपलब्धिमात्रमत्र बाधकं भवितुमर्हति । स्वभावविप्रकर्षिणां सतामपि प्रत्यक्षानुपलब्धेः परमाण्वादीनाम् । तथा च विवादाध्यासितास्तनुतरुगिरिसागरादय उपादानाभिज्ञकर्तृका उत्पत्तिमत्त्वात् अचेतनोपादानत्वाद् वा, यद् यदुत्पत्तिमदचेतनोपादानकं वा तत्सर्वमुपादानाद्यभिज्ञकर्तृपूर्वकं यथा प्रासादादि । तथा च विवादाध्यासितास्तनुतरुगिरिसागरादयः । तस्मात् तेऽपि तथेति । न चैषामुत्पत्तिमत्त्वमसिद्धम्, सावयवत्वेन वा, महत्त्वे सति क्रियावत्त्वेन वा वस्त्रादिवत् तत्सिद्धेः । न चैतावता “वैनाशिकानां” कर्मणा चेतनेन, “मीमांसकानां” वा क्षेत्रज्ञेन चेतनेन चेतनकर्तृकत्वसिद्धेः पृथिव्यादीनां सिद्धसाधनं चेतनत्वेऽपि हि तेषां पृथिव्याद्युपादानाद्यनभिज्ञत्वात् । तज्ज्ञत्वे वा स एवास्माकमीश्वरः । ईदृशमस्तु सिद्धसाधनं को हि क्लेशं विना न वाञ्छितसिद्धिमिच्छेत् ? न च साध्यहीनो दृष्टान्तः । पटादीनामप्युपादानाभिज्ञकुविन्दादिकर्तृकत्वात् । अत एव न विरुद्धता हेतोः । एवं हि सा भवेत् यद्युपादानाद्यनभिज्ञकर्तृकाः घटपटादयो भवेयुः । न चैतत्परेषामपि सम्मतम् ।

स्यादेतत् । अर्थाक्षिप्तस्य विशेषस्य शरीरादिमत्त्वादेः प्रमाणविरोधाद् विरुद्धता । यथा तृणादिविकारकारित्वाद् अग्निमद्धिमम् इत्यत्र वह्निमत्त्वाक्षिप्ततृणादिविकारोपयुक्तवह्निगतोद्भूतोष्णस्पर्शविरुद्धस्य शीतस्पर्शस्य प्रत्यक्षेणोपलम्भाद् बाधितो विरुद्धो हेतुः । तथा ह्यस्य क्षित्पाद्युपादानादिविषयं ज्ञानमात्ममनःसन्निकर्षशरीरादिकारणकं नासति तस्मिन् भवतीति तदनेनाक्षिप्तम् । तच्चात्र प्रमामबाधितमिति । तन्निवृत्तौ ज्ञानमप्यस्य निवर्तते उष्णत्वोद्भूतिविनिवृत्ताविव दाहको वह्निरवश्याय इति । न, अव्यापकनिवृत्तावव्याप्यनिवृत्तेरयोगात् । कारणं चेदव्यापकं कार्यस्य, हन्त हता तर्हि व्याप्यव्यापकसङ्कथा । भवेदेतद् यदि क्षित्याद्युपादानज्ञानमप्यस्य कार्यं स्यात्, नित्यं तु तदभ्युपेयते इति न शरीरनिवृत्तावपि निवर्तितुमर्हति, अव्यापकनिवृत्तेरव्याप्यस्यानिवृत्तेः । अन्यथा नाश्ववान् मैत्र इति गोमानपि न स्यात् । न च बुद्ध्यादीनामनित्यानां बहुलमुपलब्धेर्नित्या बुद्धिरसम्भविनीति साम्प्रतम् । न हि प्रत्यक्षाः पाथसीया हिमकरकादयस्तद्गता रूपादयोऽनित्या इति तदारम्भकैः पाथःपरमाणुभिः तद्गतैर्वा रूपादिभिरनित्यैर्भवितव्यम् । सदकारणतया तु नित्यतोभयत्रापि तुल्या । न च शरीरादिसहभावेन ज्ञानस्य तत्र तत्रोपलम्भात् शरीरादीनां ज्ञानं व्याप्यमिति युक्तम् । स्वाभाविसम्बन्धशालिता हि व्याप्यता । सा चोपाधिविरहे भवति । अस्ति च शरीरादिसहभावे ज्ञानस्योपाधिः कार्यत्वम् । कार्यं हि ज्ञानं स्वकारणं शरीरादि नातिवर्तते । नित्यं तु तदतिवर्तमानमपि साहित्योपलम्भं न विरुणद्धि । तस्माद् यथा अनित्यः शब्द उत्पत्तिमत्त्वात् घटवदिति प्रयुक्ते कश्चित् साध्यदृष्टान्तयोर्धर्मवैचित्र्यात् प्रत्यवतिष्ठते—यदि घटसाधर्म्याद् उत्पत्मित्त्वादनित्यः शब्दः, हन्त तस्मादेव रूपादिमतापि तेन भवितव्यम्, न चेदयं घटसाधर्म्येण रूपादिमान् एवमनित्योऽपि मा भूदिति । एवं च प्रत्यवतिष्ठमान उत्कर्षसमजातिवादी पराजीयते । एवमेवंवाद्यप्युत्कर्षसमजातिवादितया पराजेतव्यः साधर्म्यमात्रेणाप्रयोजकेन प्रत्यवस्थानात् । तस्य च सर्वानुमानेषु सुलभतया सर्वानुमानोच्छेदापादकत्वात् ।

स्यादेतत् । उत्पत्तिमत्त्वमुपादानाद्यभिज्ञकर्तृपूर्वकत्वमात्रव्याप्तं घटादिषु दृष्टं तावन्मात्रमेव पृथिव्यादीनां गमयेत् । नित्यसर्वविषयज्ञानवत्कर्तृत्वं तु कुतस्त्यम् ? न हि तद्घटादौ दृष्टान्तधर्मिणि दृष्टम् । अथ रूपाद्युपलब्धेः क्रियात्वेन चक्षुरादिसाधनत्वानुमानमपि51 कथम् ? न हि च्छिदादयः क्रिया इन्द्रियादिसाधना दृष्टाः,52 तासां कुठारादिसाधनत्वात् । अथ दृष्टान्तधर्मिण्यदृष्टमपीन्द्रियसाधनत्वं पक्षधर्मताबलात् सिध्यति । रूपाद्युपलब्धिगतं हि क्रियात्वं तदेव करणं गमयेद् यत् तदुपलब्धिनिर्वर्तनसमर्थम्, न च कुठारादयस्तन्निर्वृत्तिसमर्था इति पक्षधर्मताबलात् कुठारादिविलक्षणमदृष्टचरमपि चक्षुराद्युपस्थापयतीति तदत्रापि53 समानम् । न ह्यपरिमेयानियतदिग्देशैन्द्रियकातीन्द्रियकत्रसस्थावरादिलक्षणकार्योत्पादयौगपद्यमसति सर्वविषयविज्ञाने तन्नित्यत्वे वा सेद्धुमर्हति । नो खल्वीदृशं पारमेश्वरं विज्ञानं कार्यशरीरेन्द्रियादिकार्यं54 सम्भवति, शरीराद्युत्पत्तेः प्रागस्याचैतन्येन तत्प्राक्कालकार्यजातोत्पादाय55 ईश्वरान्तरकल्पनाप्रसङ्गात् । एवं ततः प्राक् ततः प्रागित्यनेकालौकिककल्पनायाः56 वरमेकमेवालौकिकं57 बुद्धिनित्यत्वं कल्पितम् । एतेनैव शरीरेन्द्रियनित्यत्वकल्पनापि प्रत्युक्ता ।

एतेन यदेके ब्रुवते— सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिध्येत् सन्निवेशादेरेककारणता कुतः ॥

इति तददपि पराकृतम्58 । तेषां प्रसिध्येत् सर्वज्ञनिराक्रियामनोरथो यदि पिशितचक्षुषः परमाणून् क्षेत्रज्ञान् तत्समवेतान् वा कर्माशयान् द्रष्टुमीशते, न चैतदस्ति । तस्मादतीन्द्रियार्थदर्शिनोऽस्मदादिविलक्षणा बहवः कल्पनीयाः । तद् वरमस्त्वेक एव तादृशः कल्पनालाघवायेति ।

न च कादाचित्कपरिपाकादृष्टवत् क्षेत्रज्ञपरमाणुसंयोगादेव तनुभुवनादिकार्योत्पादोपपत्तेः कृतं चेतनकर्तृकत्वेनेति वाच्यम् । उत्पत्तिमत्त्वस्योपादानाद्यभिज्ञकर्तृपूर्वकत्वेनोपाधिविरहिणः स्वाभाविकप्रतिबन्धसिद्धेः । न चाविज्ञातानामिन्द्रियमनसां विज्ञानोत्पादसाधनानामनधिष्ठानस्य वत्सवृद्धिनिमित्तस्याप्यचेतनस्य क्षीरस्य स्वातन्त्र्येण प्रवृत्तेश्च वने विटपादीनां च विना प्रयत्नमुत्पादस्य च दर्शनाद् व्यभिचार इति साम्प्रतम्, सर्वेषामेव तेषां विवादास्पदीभूतत्वेन पक्षनिक्षेपात् । न च शशशृङ्गस्यास्तितावदनुपलब्धिविरोधादपक्षधर्मता धर्मिणो दर्शनानर्हतया भगवतस्तद्विरोधानुपपत्तेः अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् । शृङ्गस्य तु शशशिरोवर्तिनो वत्सादिगतस्येव दर्शनार्हस्यानुपलब्धिनिराकृतस्य साधनानर्हत्वात् ।

स्यादेतत् । नोत्पत्तिमन्मात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन किन्तु तद्विशेषः, यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते, तस्य च दृष्टेः सोपजायते । यद् बुद्धिमद्भावाभावानुविधायिभावाभावं59 दृष्टं घटादि च तथा, न तूत्पत्तिमन्मात्रं तनुभुवनाद्यपि, तस्य तद्भावाभावानुविधानादर्शनात्60 । तदेतेन विशेषणोपाधिना प्रयुक्तां बुद्धिमद्धेतुकत्वव्याप्तिमुपजीवदुत्पत्तिमत्त्वसामान्यं न तेन स्वभावप्रतिबद्धमिति न तद्गमयितुमर्हति । अन्यथा धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीवतः पाण्डुतादेः कुमुदकपोतकादिगतादपि धूमकेतनानुमानप्रसङ्गादिति61

अत्रोच्यते । इदमत्र निपुणं भवन्तो निरूपयन्तु किं बुद्धिमदन्वयव्यतिरेकानुविधानं विशेष उताहो तद्दर्शनम् । यदि पूर्वः कल्पः, स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव । न हि कारणं कार्याननुविहितभावाभावमन्यो वक्तुमर्हत्यह्रीकात् । अथ तद्दर्शनं न तर्ह्यक्रियादर्शिनः कृतबुद्धिसम्भवः । य एव हि पटोऽनेन बुद्धिमद्धेत्वन्वयव्यतिरेकानुविधायी दृष्टः, स एव तत्कार्यो न तु विपणिवर्ती । तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविधानमपि तज्जातीयं तथेति चेत् ? हन्त उत्पत्तिमद् घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीत्यन्यदपि तज्जातीयं तनुभुवनादि तथा भवद् दण्डेन न पराणुद्यते । घटजातीयमुत्पत्तिमद् बुद्धिमत्पूर्वमिति चेत् ? ननु प्रासादादि न तद्धेतुकं भवेत् अघटजातीयकत्वात् । अथ यज्जातीयं बुद्धिमदन्वयव्यतिरेकानुविधायि दृष्टम् तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि बुद्धिमद्धेतुकम् । तत् किमिदानीं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात् । न खलु तज्जातीयत्वे कश्चिद् विशेष इति । यत्तु मृद्विकारत्वेन वल्मीकस्य घटादिवत् कुलालकार्यत्वं न भवति तत्कुम्भकारस्य दृश्यस्य प्रत्यक्षानुपलम्भविरोधात् । अदृश्यचेतनपूर्वकत्वं62 तु तस्योपेयत एव ।

स्यादेतत् । नोत्पत्तिमात्रमुपादानाभिज्ञकर्तृकत्वेन व्याप्तम्, अपि तु यदस्मदादिशक्यज्ञानोपादानादि । न च तथा तनुभुवनाद्युत्पत्तिमदपि, तस्माद् व्याप्तिविरहान्न तत्पूर्वकमिति । तदयुक्तम्, उत्पत्तिमत्त्वतदुपादानाद्यभिज्ञकर्तृकत्वयोः प्रथममन्वयव्यतिरेकाभ्यां व्याप्तौ सिद्धायां तदुपादानादिशक्यज्ञानत्वादिकल्पनायाः कार्यज्ञानविषये व्यवस्थापनात् । व्याप्तिबलेन ज्ञानसामान्यसिद्धौ63 पक्षधर्मताबलेन तन्नित्यत्वसिद्धिरित्युक्तम् । तेनोपाधेरनुस्रियमाणस्यानुपलब्धेः स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं बुद्धिमद्धेतुकत्वेन । न च स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं स्वसम्बन्धिनमतीत्यापि64 वर्त्स्यतीति शक्यं शङ्कितुम् । तथा सति स्वभावहानिप्रसङ्गः ।

स्यादेतत् । न सर्वज्ञपूर्वकाः क्षित्यादयः प्रमेयत्वसत्त्वादिभ्यः घटादिवदित्यनुमानानि सन्ति प्रतिपक्षसाधनानीति सत्प्रतिपक्षतया प्रकृतमनुमानाभासम् । अत्रोच्यते । किमनेन सर्वज्ञपूर्वककत्वं निषिध्यते उत ज्ञातृमात्रपूर्वकत्वं सर्वज्ञग्रहणं तूपलक्षणार्थम् । यदि पूर्वः कल्पः,65 तत एकदेशदर्शिपूर्वकत्वं साधितं स्यात् । तथा चापसिद्धान्तः । न च शक्यमपि । न ह्यस्मदादिनार्वाग्दृशा शक्याः पृथिव्यादयः कर्तुम् । ज्ञातृमात्रपूर्वकत्वे तु निषेध्ये घटादिभिर्व्यभिचारः । यच्चेश्वरो नाधिष्ठाता परमाण्वादीनामशरीरित्वाद् मुक्तात्मवत्, ऐश्वरं वा ज्ञानं न सर्वविषयम् अनित्यं च, ज्ञानत्वाद् अस्मदादिज्ञानवत् इत्यनुमानं तत्पक्षधर्मतासिद्ध्यर्थमीश्वरसिद्धिं तद्बुद्धिमत्त्वं चापेक्षमाणं तत्प्रसाधकप्रमाणविरुद्धमात्मानमेव तावन्नासादयितुमर्हति, प्रागेव तद्विरोद्धुम् । न ह्यागमानुमाने जगत्कर्तृत्वनित्यसर्वविषयबुद्धिमत्त्वमन्तरेण66 केवलमीश्वरं साधयतः । तथा च ताभ्यां विरुद्धं भवदनुमानं नोत्पत्तुमर्हतीति सिद्धम् । बुद्धिवदिच्छाप्रयत्नावप्यस्य नित्यौ सकर्तृकत्वसाधनान्तर्गतौ मन्तव्यौ,67 ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात् कर्तृत्वस्य । तेषां च परस्पराविनाभावादन्यतमसिद्धावितरयोः सिद्धेः । तदेवमुत्पत्तिमत्त्वादेव पक्षधर्मतासहायादेवम्भूतेश्वरसिद्धिरित्युक्तम् ।

भवतु वा तस्मादुपादानाद्यभिज्ञकर्तृकत्वमात्रसिद्धिः । परिशेषानुमानात् तु व्यतिरेकसिद्धेर्विशेषसिद्धिः68 । तथा हि तनुभुवनाद्युपादानाद्यभिज्ञः69 कर्ता नानित्यासर्वविषयबुद्धिमान्, तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टः, यथास्मदादिः । तदुपादानाद्यभिज्ञश्चायम् । तस्मात् तथेति । नो खलु परमाणुभेदान् प्रति क्षेत्रज्ञसमवायिनश्च कर्माशयभेदानपरिमेयान् अन्यः शक्तो ज्ञातुमृते तादृशादीश्वरादिति विपञ्चितमधस्तात् । परपुरुषसमवेतावपि धर्माधर्मावधिष्ठातुं शक्नोति सम्बन्धात् । न हि साक्षात् संयोगसमवायावेव सम्बन्धौ संयुक्तसंयोगिसमवायस्यापि तद्भावात् । संयुक्ताः खल्वीश्वरेण परमाण्वादयः । तैश्च क्षेत्रज्ञाः । तत्समवेतौ धर्माधर्माविति । संयुक्तसमवायो वा क्षेत्रज्ञेनेश्वरस्य संयोगात् अजसंयोस्याप्युपपादितत्वात् । धर्माधर्मौ परमाणून् वा स्वधर्मोपग्रहमन्तरेणापि चेश्वरः स्वकार्यारम्भाभिमुखान् करिष्यति विषविद्याविदिव विषशकलं क्रियारम्भाभिमुखम् । एतेन चेतनोपादानत्वमपि व्याख्यातम् । “वार्त्तिककृता” तूपलक्षण तया चेतनत्वं हेतुरुक्तः । उत्पत्तिमत्त्वादयोऽपि हेतव ऊहनीयाः ।

इमं च न्यायमाम्नाय उपोद्वलयति— एतस्य70 वाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । द्यावाभूमी71 जनयन् देव एकः । तदैक्षत72 बहुस्यां प्रजायेय । इत्यादिः स्मृतिश्च भवति— अज्ञो73 जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥

अकारणत्वेन चेश्वरज्ञानस्य नित्यतां दर्शयति श्रुतिः— अपाणिपादो74 जवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्यं पुरुषं महान्तम् ॥

इत्यादिका । एतयैवाशरीरित्वमपि दर्शितं भवति । परिशिष्टं तु “वार्त्तिककृता” स्वयमेव विपञ्चितमित्युपरम्यते ॥ २१ ॥

॥ इतीश्वरोपादानताप्रकरणम् ॥

आकस्मिकत्वप्रकरणम्

अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥ ४ । १ । २२ ॥

कण्टकादीनां संस्थानविशेषवतां निमित्तादर्शनेनानिमित्ततां मन्वानस्तेनैव दृष्टान्तेन शरीरादीनामपि संस्थानभेदवतामनिमित्ततां मन्वानः पूर्वपक्षयति—“अनिमित्ततः …दर्शनात् ॥” इति । अदृश्यमाननिमित्तानां शरीरकण्टकादीनां पक्षनिक्षेपात् पक्षेण व्यभिचारानुद्भावनात् उद्भावने वा सर्वानुमानोच्छेदप्रसङ्गात् सर्वत्र तस्य सुलभत्वात् उभयसिद्धेन निमित्तवत्पटादिदृष्टान्तेन संस्थानभेदवत्त्वात्75 कण्टकशरीरादीनामपि निमित्तवत्त्वानुमानमिति76 सिद्धान्तः ॥ २२ ॥

अनिमित्तनिमित्तत्वान्नानिमित्ततः ॥ ४ । १ । २३ ॥

सिद्धान्त्येकदेशिमतमुपन्यस्य77 दूषयति—“अनिमित्त…निमित्ततः ॥ अपरे त्विति” ॥ २३ ॥

निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥ ४ । १ । २४ ॥

स्वयं “वार्त्तिककारः” कण्टकादीनामनिमित्ततां विकल्प्य दूषयति— “कण्टकादीनां चानिमित्तं जन्मेति । प्रतिपाद्यप्रतिपादकन्यायस्येति ।” प्रतिपाद्यः पुरुषः कर्म प्रतिपादकश्च पुरुषः कर्ता, कर्तृकर्मणी च कारके । कारकं च क्रियाया निमित्तमिति प्रतिपाद्यप्रतिपादकविषयो न्यायः । स चायमनिमित्तं शरीरादीनां जन्मेति प्रतिजानानेनानेनाभ्युपेयते । अन्यथा ते मूकतैव स्यादिति । तदिदमुक्तम्, “सर्वं चानिमित्तं प्रतिपादयसि चेति व्याहतम् ।” न केवलं प्रतिपाद्यप्रतिपादकन्यायाभ्युपगमात्, इतोऽपीत्याह—“वाक्योपादानाच्चेति ।” प्रतिपादननिमित्तं वाक्यमुपादत्से अभिधत्से चानिमित्तं सर्वमिति व्याघात इत्यर्थः । “तथा प्यन्यतरधर्मासिद्ध” इति । अन्यतरेण साध्यधर्मेणानिमित्तत्वाख्येनासिद्धोऽनिमित्तत्वस्यैवासिद्धेः । ननु प्रतिवादिनो वाङ्मात्रेण न सिद्धमसिद्धं भवत्यतिप्रसङ्गादित्यत आह—“संस्थानविशेवत्त्वस्य भावात् ।” पटादिदृष्टान्तेन कण्टकादीनां सनिमित्तकत्वस्य प्रामाणिकत्वे न वाङ्मात्रासिद्धेरसिद्धिरिति78 । कस्मात् पुनः पूर्वः पक्षः स्वयं “सूत्रकारेण” न निराकृत इत्यत आह “भाष्यकारः, स खल्वयं वादोऽकर्मनिमित्त” इति ॥ २४ ॥

॥ आकस्मिकत्वप्रकरणम् ॥

सर्वानित्यताप्रकरणम्

सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ॥ ४ । १ । २५ ॥

अन्ये तु मन्यन्ते—“सर्वम्…त्वात् ॥” हेतोर्गमकत्वं दर्शयितुं पृच्छति— “किमनित्यमिति ।” उत्तरम् “यस्य कदाचिद्भावः ।” हेत्वर्थं विवृणोति—“उत्पत्तीति ।” यद् “उत्पत्तिधर्मकमनुत्पन्नं नास्ति” तद् उत्पन्नं चास्ति, “विनाशधर्मकं च विनष्टं नास्ति” अविनष्टं चास्ति । तस्मात् पूर्वापरयोः कालयोरभावान्मध्ये च भावात् सिद्धं कदाचिद्भावलक्षणमनित्यत्वमुत्पत्तिविनाशधर्मकत्वादित्यर्थः । साध्यधर्मिरूपं पृच्छति—“किं पुनरिति ।” उत्तरम्—“भौतिकं चेति ।” अत्र तावत् स्वयं “वार्त्तिककार” उत्तरमाह—“सर्वमनित्यमिति । सूत्रस्य दृष्टान्तार्थत्वादिति ।” अर्थशब्दो निमित्तवचनः, दृष्टान्तनिमित्तत्वात् “सूत्रस्य” प्रतिज्ञाहेतूपन्यासपरस्य । न दृष्टान्तं विना हेतूः प्रतिज्ञार्थस्य गमको यत इत्यर्थः । एतदेव विभजते—“सर्वमनित्यमिति ।” निराकरणान्तरमाह—“उत्पत्तिविनाशधर्मकत्वादिति” चायमिति ॥ २५ ॥

नानित्यतानित्यत्वात् ॥ ४ । १ । २६ ॥

“सिद्धान्त्येकदेशी”मतमुपन्यस्य दूषयति—“नानि…त्वात्” ॥ इति ॥ २६ ॥

तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥ ४ । १ । २७ ॥

नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥ ४ । १ । २८ ॥

परमसिद्धान्तं “सूत्रो”क्तमाह—“अयं खल्विति ।” अथोच्यते न वयं सर्वमनित्यं साधयामः, अपि तु यस्य यस्यानित्यता नामास्ति धर्मः तत्सर्वमनित्यमिति । ततश्चाकाशादीनां नित्यत्वेऽपि नास्मत्पक्षक्षतिरिति । तदेतत् सिद्धसाधनेन दूषयति—“अनित्यताभावाच्च सर्वमनित्यं न दोष” इति । यस्य सन् धर्मी स्वं तद्योगादनित्यः स्यात् स एव कदाचिन्नास्तीत्यत आह—“अनित्यत्वं नाम धर्मः, सोऽसति धर्मिणि न भवतीति ।” स्यादेतत् । उत्पत्तिविनाशधर्मकत्वावगतावनित्यताधर्मयोगात् तावद् घटादि भवत्यनित्यम्79 । तेनैव दृष्टान्तेन सत्त्वादाकाशादयोऽपि भविष्यन्त्यनित्या इति देशयति—“अथ पुनरिति ।” परिहरति—“तस्याप्युत्तरपदसिद्ध्या”80 तत्पदार्थस्य नित्यत्वस्य सिद्धेरिति ॥ २८ ॥

॥ सर्वानित्यताप्रकरणम् ॥

सर्वनित्यत्वनिराकरणप्रकरणम्

सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥ ४ । १ । २९ ॥

अयमपर एकान्तः—“सर्वं…त्वात् ॥ सर्वं नित्यम् ।” कस्मात् ? “पञ्चभूतनित्यत्वात् ।” पञ्चभूतात्मकं खल्वेतद् गोघटादिकार्यमुपलभ्यते । व्यपदिशान्ति हि मृद्घटो मृच्छरीरमिति । भूतानि च नित्यानि, तेषामुच्छेदस्य “नैयायिकै”रनभ्युपगमात् । तेन भूतात्मनां गोघटादीनां नित्यतेति पूर्वः पक्षः ॥ २९ ॥

नोत्पत्तिविनाशकारणोपलब्धेः ॥ ४ । १ । ३० ॥

भूतेभ्यो भौतिकानि भिन्नानि । न हि परमसूक्ष्माः परमाणवो गोघटादयः, परमाणुवत्तेषामप्यतीन्द्रियत्वेन सर्वाग्रहणप्रसङ्गादित्युक्तं “द्वितीयेऽध्याये ।” तस्माद् ग्रहणाग्रहणलक्षणविरुद्धधर्मयोगाद्8182 अन्ये भौतिका भूतेभ्यः । तथा च तेषामुत्पत्तिविनाशकारणोपलब्धेर्न नित्यत्वं भूतनित्यत्वेऽपीति सिद्धान्तमाह—“नोत्पत्ति… लब्धेः” इति ॥ ३० ॥

तल्लक्षणावरोधादप्रतिषेधः ॥ ४ । १ । ३१ ॥

भूतसारूप्येण तादात्म्यं मन्यमानः पुनरपि पूर्वपक्षवाद्याह—“तल्लक्षणा… षेधः ॥ तल्लक्षणावरोधाद्” गोघटादीनां भूतनित्यत्वेन नित्यत्वस्याप्रतिषेधः ॥ ३१ ॥

नोत्पत्तितत्कारणोपलब्धेः ॥ ४ । १ । ३२ ॥

भूतसारूप्यं गोघटादीनां भूतकार्यत्वेऽप्युपपद्यमानं न भूतात्मकत्वमवगमयतीत्याशयवानाह—“नोत्पत्ति…लब्धेः ॥” इति । अपि च यद्युत्पत्तिविनाशौ न भावानां वस्तुसन्तौ कथं प्रेक्षावतामभिमतोत्पत्तिकारणे अनभिमतविनाशकारणे च तदर्थिनां प्रवृत्तिरित्याह—“उत्पत्तिविनाशकारणेति ।” अपि चाव्यापको हेतुरित्याह— “शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः ।” अव्यापकश्च अनेकान्त उक्तः । पक्षो हि सर्वं नित्यमिति । तस्मिन्नस्य सत्त्वासत्त्वाभ्यामनेकान्तः, अनेकः सत्त्वासत्त्वलक्षणः अन्तोऽस्येत्यनेकान्त इति । तदेतद् “वार्त्तिककारो” वक्ष्यत्यर्थदृष्ट्या “पक्षस्यान्तद्वयेऽवस्थानादिति ।” हेतोरन्तद्वये सत्त्वासत्त्वरूपे पक्षस्यावस्थानादिति योजना ।

असति बाधके मिथ्यात्वकल्पनायामतिप्रसङ्ग इत्यमुमर्थं शङ्कानिराकरणाभ्यामाह—“सप्नविषयेत्या”त्यादिना । “भाष्यो”क्तमर्थमुक्त्वा स्वयं “वार्त्तिककार” आह—“सर्वस्य83 चेति । यावद्83 येन प्रतिपाद्यत” इति । प्रतिपादनेन क्रियत इत्यर्थः । शेषमतिरोहितार्थम् ॥ ३२ ॥

न व्यवस्थानुपपत्तेः ॥ ४ । १ । ३३ ॥

तदेवं “साङ्ख्यानां” मतमपास्य “स्वायम्भुवानां” मतमपाकर्तुमुपन्यस्यति—“अपरे तु सर्वं नित्य”मित्यन्यथा वर्णयन्ति । त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलक्षणावस्थारूपः । तद् यथा सुवर्णं धर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः, धर्मस्य तु लक्षणपरिणामोऽनागतादिः । यदा खल्वयं हेमकारो वर्धमानकं भङ्क्ता रुचकादिमारचयति, तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते । रुचकं त्वनागततालक्षणं हित्वा वर्तमानतामापद्यते । वर्तमानतापन्न एव तु रुचको नवपुराणभावमापद्यमानोऽवस्थापरिणामवान् भवति । नवपुराणावस्थाश्च वर्तमानलक्षणाश्रया लक्षणपरिणामाः । सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च । तथा च ते धर्म्यभेदात्84 तन्नित्यत्वेन नित्याः । भेदाच्चोत्पत्तिविनाशविषयत्वमित्युभयमुपपन्नम् ।

ननु यद्युपजनापायधर्मकत्वं धर्माणां हन्तोत्पत्तेः प्राक तेषामसत्त्वाद् विनाशाच्चोर्ध्वमसत्त्वात् कथं सर्वनित्यत्वसिद्धिरित्यत आह “भाष्यकारः— यच्चोपजायते तत् प्रागप्युपजनादस्ति” धर्मिरूपेणेति शेषः । “तन्निवृत्तमप्यस्तीति ।” अत्रापि धर्मिरूपेणेति शेषः ॥

निराकरोति—“न व्यव…पत्तेः ॥” उपजनापाययोः स्वरूपतः कालतो विशेषतः85 सम्बन्धितोऽनागतत्वादितश्च व्यवस्थानुपपत्तेरित्यर्थः । एतदुक्तं भवति न तावद् भेदाभेदौ परस्परपरीहारव्यवस्थितधर्माणावेकत्र समाविशतः । तस्मादुपजनापायव्यवस्थायै भेदं धर्मलक्षणावस्थानां धर्मिण इच्छता तेषामनित्यत्वमभ्युपेतव्यम् ।

“साङ्ख्य”वत् सत्कार्याभ्युपगमेन तु नित्यत्वव्यवस्थापने “वार्त्तिककार” आह—“यच्च निवर्तते तन्निवृत्तमप्यस्तीति ब्रुवाण” इति सुगमम् ॥ ३३ ॥

॥ इति सर्वनित्यत्वनिराकरणप्रकरणम् ॥

सर्वपृथक्त्वनिराकरणप्रकरणम्

सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥ ४ । १ । ३४ ॥

“अयम्” अन्य एकान्तो “बौद्धा”नाम् “सर्वं…पृथक्त्वात् ॥ सर्वं पृथक्,” कस्मात् ? “भावलक्षणपृथक्त्वात् ।” न रूपाद्यतिरिक्तं द्रव्यं नाम किञ्चिदस्ति, नाप्यवयवातिरिक्तः कश्चिदवयवीति “सौत्रान्तिका वैभाषिकाश्च” प्रतिपेदिरे । “वार्त्तिकम्—अस्य86 प्रयोग” इति । “कुम्भशब्दोऽनेकविषय” इति । पारमार्थिकानेकविषयः, काल्पनिकं तु कुम्भस्यैकत्वं न वार्यते । तथा चैकपदमित्येकपदेन न व्यभिचारः, तस्यापि पारमार्थिकानेकविषयत्वादित्यर्थः ॥ ३४ ॥

नानेकलक्षणैरेकभावनिष्पत्तेः ॥ ४ । १ । ३५ ॥

तान् निराकरोति—“नानेक…निष्पत्तेः ॥” अनेक विधैर्लक्षणैः सम्बद्धस्यैकस्य भावस्य घटादेरवयविनो निष्पत्तेरिति । स्यादेतत् । घटादिशब्देभ्यो रूपादीनां च बुध्नादीनां च बहूनामवगमात् कथमेकार्थतेत्यत आह—“आधारधेयभावेनेति ।” यदि नानार्थतापि भवति घटादिशब्दानां तथापि प्रत्येकमेकत्वं तदर्थानामशक्यापह्नवमिति न पूर्वपक्षिणोऽभिमतसिद्धिरिति87 ॥ ३५ ॥

लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ४ । १ । ३६ ॥

“अथापीति” अपि चेत्यर्थ । “लक्षण…प्रतिषेधः ॥ अणुसमूहे चागृह्यमाण” इति । परमसूक्ष्मत्वेनातीन्द्रियत्वादित्यर्थः । “अथाप्येतदनुक्तमिति ।” अपि च भावलक्षणपृथक्त्वादिति हेतुमुक्त्वा “बौद्धेन” पश्चादेतदुक्तम् । किं तदुक्तमित्यत आह—“नास्त्येको भावो यस्मात् समुदाय” इति । एतदनूक्तं दूषयति—“एकानुपपत्तेर्नास्त्येव समूहः ।” अनूक्तं विवृणोति—“नास्त्येको भावो यस्मात् समूहे भावशब्दप्रयोगः ।” अस्य दूषणं विवृणोति—“एकस्यानुपपत्तेरिति ।” एतत् प्रपञ्चयति—“एकसमुच्चयो हीति ।” नास्त्येको भाव इति यस्य भावस्यैकत्वप्रतिषेधः प्रतिज्ञायते, समूहे भावशब्दप्रयोग इति ब्रुवता स एवाभ्यनुज्ञायते । ननु समूहोऽभ्यनुज्ञायते न त्वेको भाव इत्यत आह—“एकसमुच्चयो हि समूह” इति । तदनेन प्रतिज्ञया हेतोर्व्याघात उक्तः । सम्प्रति प्रतिज्ञाया हेतुना व्याघात इत्याह—“समूहे भावशब्दप्रयोगादिति चेति ।”

उपेत्य तूच्यते अनेकार्थत्वमप्यत्रासम्भवीति “समूहभेदस्य88 चानवस्थानादिति ।” यदि समूहमात्रमेव89 न त्वेकं किञ्चिदस्ति । तथा सति घटलक्षणे समूहे भेद्यमाने नाल्पतरतमादिभेदः प्रतीयेत, घटादिकपालशर्कराचूर्णपरमाणूनां समूहत्वेनानन्तावयवत्वादयं महान् अयमल्पोऽल्पतरोऽल्पतम90 इति विभागो न स्यात् । तस्मादनेन तारतम्यं समर्थयमानेन क्वचित् समूहनिवृत्तिर्वाच्या । न चासावसमूहमेकमन्तरेण इत्येकोऽभ्युपेयत इत्यर्थः । उक्तमर्थमविद्वान् शङ्कते—“अथ मन्यस” इति । “रूपादीनां समुदाय91 इति चत्वारि वा द्रव्याणीति” चावान्तरदर्शनभेदविवक्षया द्रष्टव्यम् । उक्तार्थप्रदर्शनेनोत्तरम्—“एतस्मिन्92 वै दर्शने” इति । “अथानन्तं समुदायं प्रतिपद्यस” इति । निराकृतस्यापि पुनराशङ्का आगमविरोधमापादयितुम् । “एकानुपपत्तौ नानेकोपपत्तिरिति ।” यत्तदनेकमुक्तमेतत्93 त्याज्यमिति । शेषं भाष्यव्याख्यायां व्याख्यातम् ॥ ३६ ॥

॥ इति सर्वपृथक्त्वनिराकरणप्रकरणम् ॥

सर्वशून्यत्वनिराकरणप्रकरणम्

सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥ ४ । १ । ३७ ॥

सम्प्रति “शून्यतावादिनम्” उत्थापयति—“अयमपर एकान्तः । सर्वम्……… सिद्धेः ॥ सर्वमभाव” इति प्रतिज्ञा । अत्र हेतुः “भावेष्वितरेतराभावसिद्धेरिति ।” सर्वमिदं प्रमाणप्रमेयप्रमातृप्रमितिरूपमभावस्तुच्छं भावेष्वितरेतराभावसिद्धेरिति । “वार्त्तिककारो” व्याचष्टे—“असत्प्रत्ययप्रतिषेधाम्यां भावशब्दसामानाधिकरण्यात् ।” प्रमाणादयः खल्वमी परस्परानात्मकतया असदिति प्रत्ययस्य नञश्च गोचरा इत्यनुभूयन्ते । अतस्तद्वाचिनां शब्दानां तत्सामानाधिकरण्यम् । ततः प्रमाणादयोऽसन्तः अनुत्पन्नप्रध्वप्तपटवत् । अपि चामी भावा नित्या अनित्य वा ? नित्यत्वे सर्वसामर्थ्यरहितस्यासत्त्वम् । न हि नित्यं क्वचित् कार्य उपयुज्यते क्रमाक्रमानुपपत्तेरित्युक्तम् । अनित्यत्वे तु विनाशस्वभावाश्चेद् द्वितीयादिष्विव क्षणेषु प्रथमक्षणेऽपि न स्युः । सत्त्वे वा नामी विनाशस्वभावाः । अतत्स्वभावत्वे वा क्षणान्तरेऽपि न नश्येयुः । नो खलु नीलं स्वकारणादुपजातं जातु कारणसहस्रैरपि शक्यं पीतं कर्तुमिति विनाशस्वभावकत्वमकामेनाप्यनित्यानामेषितव्यम् । तस्माद् भावानां शून्यतैव पारमार्थिकी, कल्पनया त्ववस्तुसत्या सन्त इवावभासन्त इति युक्तमुत्पश्यामः । “तथा च सर्वे भावा” इति । सर्वे भावशब्दा इत्यर्थः । प्रयोगश्च सर्वे भावशब्दा असद्विषया असत्प्रत्ययप्रतिषेधशब्दाभ्यां सामानाधिकरण्यात् । अनुत्पन्नप्रध्वस्तघटवाचकशब्दवदिति ॥ ३७ ॥

न स्वभावसिद्धेर्भावानाम् ॥ ४ । १ । ३८ ॥

अत्र तावदुत्सूत्रं “भाष्यो”क्तं दूषणं “वार्त्तिककार” आह—“प्रतिज्ञापदयोः प्रतिज्ञाहेत्वोश्च व्याघात” इति । “अभिन्नविभक्तिकत्वमिति ।” अभिन्नार्थकविभक्तिकत्वं न त्वभिन्नविभक्तिकत्वमेव विभिन्नविभक्तिकानामपि सामानाधिकरण्यात् । यथा चैत्रः पठतीति, यथा वा न त्वां तृणाय मन्य इति । “नासति तत्प्रत्ययेन भवितुमिति ।” न ह्यत्यन्तासन्निरुपाख्यं सर्वमिति वा भाव इति वा अभिधानस्यापि94 गोचरः । उपपादितं हि “द्वितीयसूत्रे” एव यथा असद्वा अनिर्वचनीयं वा न ख्यातिगोचरोऽपि तु सदेव सदन्तरात्मना । तथा च कुतोऽत्यन्तासतः कल्पनागोचरत्वमपीति । “शेषं भाष्ये” इति । प्रतिज्ञाहेत्वोर्व्याघातो “भाष्ये” प्रपञ्चित इति ।

उत्सूत्रमुक्त्वा “भाष्यकारः” सौत्रं दूषणं वक्तुमाह—“सूत्रेण चाभिसम्बन्धो” दूषणस्य । “न स्वभावसिद्धेर्भावानाम् ॥” सर्वमभाव इति नास्ति । कस्मात् ? स्वभावसिद्धेर्भावानां स्वभावो धर्मो द्रव्यादीनां सदादिः । अथवा स्वभावः स्वरूपं भावानां येनामी भावाः स्वभावाद्95 व्यावर्तन्ते तस्य सिद्धेः, अथवा96 असन्निति प्रत्ययस्य गव्यश्वात्मनेति विशेषणात् । अगौरित्यस्य च गां परिहृत्याश्वादिभिः सम्बन्धात् गोभावसिद्धिः97 एवमश्वादिष्वपीति । स्वभावसिद्धेर्भावानां नाभाव इत्यर्थः । “न स्वभावसिद्धेरिति सूत्र”मनूद्य “वार्त्तिककारः” स्वरूपमात्रेण व्याख्याय प्रश्नपूर्वकं तात्पर्यमस्य दर्शयति—“पूर्वसूत्रस्यति । कश्च स्वो भाव” इत्यादिना “सिद्धो भाव” इत्यन्तेन “सूत्रस्य” व्याख्यानत्रयं “भाष्यकारीयं वार्त्तिककारो” दर्शयति । “सामान्यो धर्मः समानो” नित्यत्वादिरित्यर्थः । प्रश्नपूर्वकमसत्प्रत्ययप्रतिषेधसामानाधिकरण्यं भावस्योपपादयति—“कथं तर्हीति ।” असच्छब्दः खल्वभावविशेषणं सदेवाभिधत्ते, एवमसत्प्रत्ययोऽप्यभावविशेषणं सदेवावलम्बते । यथा शुक्लशब्दः शुक्लगुणविशिष्टे पटे वर्तते, तथा चासत्प्रत्ययाभिधानयोरुपपन्नं भाववाचिना पदेन सामानाधिकरण्यमित्यर्थः । भावश्च कश्चिन्नित्यः कश्चिदनित्यः । तत्र नित्यस्यार्थक्रियाकारित्वमुपपादितं क्षणभङ्गभङ्गे । अनित्योऽपि न विनाशस्वभावो भावः, किं तु स्वकारणादयं सत्स्वभावो भावो जातः, कारणान्तरात् तु विनश्यति । यत् तूक्तम्, नीलं न शक्यं पीतं कर्तुमिति, तत्र ब्रूमः, शक्य एव नीलः पटः पीतः कर्तुम् । आमः श्यामो घटो वह्निसंयोगाद् रक्तः । अथ नीलत्वं न पीतत्वं शक्यं कर्तुम्, ननु भावोऽपि किमभावः कर्तुं शक्यः ? यथैककुम्भाधिकरणे श्यामरक्तत्वे पर्यायेण भवतः, एवं कपालाधिकरणौ कुम्भभावाभावाविति न दोषः ॥ ३८ ॥

न स्वभावसिद्धिरापेक्षिकत्वात् ॥ ४ । १ । ३९ ॥

“स्वभावसिद्धेरिति” यदुक्तं तदाक्षिपति “शून्यवादी—न स्व……त्वात् ॥” सर्व एव हि भावा भिन्नस्वभावाः, भिन्नत्वं चैषामन्यापेक्षम् । तथा हि नीलं भिन्नं पीतापेक्षया98 न तु स्वभावतः । एवं ह्रस्वदीर्घत्वपरापरत्वपितापुत्रत्वादयः परस्परापेक्षा द्रष्टव्याः । यच्च परापेक्षं तन्न स्वाभाविकं यथा जपाकुसुमापेक्षः स्फटिकस्यारुणिमेत्याक्षेपः99 ॥ ३९ ॥

व्याहतत्वादयुक्तम् ॥ ४ । १ । ४० ॥

समाधत्ते—“व्याह………क्तम् ॥” एतद् व्याचष्टे—“यदीति ।” ननु यद्यनेन क्रमेणोभयाभावो भवति, भवतु सिद्धमेव नः समीहितमित्यत आह—“अपेक्षायामनपेक्षायां चेति ।” परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं वा स च भावानामौत्पत्तिकः केवलं तस्यातिशयानतिशयौ परस्परग्रहणाधीनौ । तथा हीक्षुयष्टेर्वेणुयष्टितो ह्नस्वत्वं पूर्वसङ्ख्यायोगिहस्तपरिमितत्वमनतिशयः वेणुयष्टेस्तु दीर्घत्वातिशयः परसङ्ख्यायोगिहस्तपरिमितत्वम् । तच्चेदं प्रतियोगिनिरूपणाधीननिरूपणम् । न तु प्रतियोग्यधीनोत्पत्तीति न वस्तुधर्मोऽयं परापरापेक्षो भिन्नत्वं च भेदः । स च वस्तु विशेषणं नोत्पत्तौ वस्त्वन्तरमपेक्षते, किं तु स्वनिरूपणे । एवं पितृत्वमपि पितरि व्यवस्थिता जननशक्तिरेव, सा जन्यनिरूपणाधीननिरूपणा, न तु तदधीनोत्पत्तिः । विपञ्चितं चैतदस्माभिः “ब्रह्यतत्त्वसमीक्षायाम्100 ।” परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया परापेक्षोत्पादा101 अपि लोकयात्रामुद्वहन्तो न शक्याः प्रत्याख्यातुम् । न चैतावता तदधिकरणं भावो न निरपेक्ष इति सर्वमवदातम् ।

स्यादेतत् । अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति, कृतमेषां वस्तुस्वभावेनेत्यत आह—“स्वभावसिद्धौ चासत्यामिति । अपेक्षासामर्थ्यम्” अपेक्षाप्रयोजनयोगः । स्वयं “वार्त्तिककारो” दूषणान्तराण्याह—“सर्वथा चायं व्याहत” इति । निगदव्याख्यातम् ॥ ४० ॥

॥ इति सर्वशून्यतावादप्रकरणम् ॥

सङ्ख्यैकान्तवादनिराकरणप्रकरणम्

सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥ ४ । १ । ४१ ॥

उत्तर“सूत्रा”वतारपरं “भाष्यम् अथेमे सङ्ख्यैकान्तवादाः ।” सङ्ख्या एकान्तो येषु वादेषु ते तथोक्ताः । अथ शून्यतावादानन्तरं ते परीक्ष्यन्त इत्यर्थः । तत्र प्रथमं ब्रह्याद्वैतवादमुत्थापयति—“सर्वमेकम् ।” कुतः ? “सदविशेषात् ।” इदमस्याकूतम् । न तावदयं नामरूपप्रपञ्चः प्रकाशाद् भिन्नः सन् प्रकाशितुमर्हति जडस्य स्वयम्प्रकाशासम्भवात् । न च प्रकाशयोगात् प्रकाशत इति युक्तम् । न खल्वान्तरेण प्रकाशेनास्य कश्चिद् योगः सम्भवति । विषयविषयिभावः सम्बन्ध इति चेत्— न, तत्राकिञ्चित्करस्य विषयित्वासम्भवात् । न चार्थे ज्ञानं फलं जनयतीति साम्प्रतम्, अतीतानागतयोरर्थयोस्तदसम्भवात् । न च न तयोर्विषयभावः । तस्माज् ज्ञानाद् भिन्नस्य नामरूपप्रपञ्चस्य न प्रकाशसम्भव इति ज्ञानस्यैवार्यं विवर्त इति युक्तमुत्पश्यामः । न च प्रकाशात्मनो घटपटादयः । एवोदयव्ययधर्माणः परस्परव्यावृत्ताः सन्तीति साम्प्रतम्, तद्व्यावृत्तिग्रहे प्रमाणाभावात् । सा102 हि यद् यतो व्यावर्तते तदुभयग्रहे गृह्यते । न च विज्ञानानि विलक्षणानि स्वरूपमात्रावसितानि103 परस्परवार्त्तानभिज्ञानि ज्ञानान्तरमपि ग्रहीतुमुत्सहन्ते प्रागेव स्वस्माद् व्यवर्तयितुम् । न च निषेध्यनिषेधाधिकरणग्रहणकारणो व्यावृत्तिग्रहः स्वकारणेन समसमयोत्पादो भवितुमर्हति, तादृशोः सव्येतरविषाणवत् कार्यकारणभावाभावात् । न चैकं विज्ञानं क्षणिकं निषेध्यनिषेधाधिकरणे गृहीत्वा पश्चान्निषेधं गृह्णातीति युक्तम् । क्षणिकस्याक्रमस्य क्रमवद्व्यापारायोगात् । न चैकं विज्ञानं निषेध्यनिषेधाधिकरणे गृह्णाति । अथ ज्ञानान्तरं निषेधतीति युक्तं चैत्रगृहीतेऽपि तस्मिन् मैत्रस्य निषेधज्ञानप्रसङ्गात् । न च ज्ञानस्वरूपग्रह एवान्यनिषेधग्रह104 इति साम्प्रतम् । एवं हि स भवेद् यदि स्वरूपतदन्यव्यावृत्त्योरेकत्वं स्यात् । तत्र व्यावृत्तिस्वभावो वा भावो भावस्वभावा वा व्यावृत्तिः ? तत्र पूर्वस्मिन् कल्पे व्यावृत्तेस्तुच्छत्वात् तत्स्वभावा भावास्तुच्छाः स्युः । ततश्च वचोभङ्ग्यन्तरेण शून्यवादप्रसङ्गः । उत्तरस्मिंस्तु कल्पे विधिरूपो भाव105 एव व्यावृत्तिरिति विधिरूपतया च ते न व्यावर्तन्त इति न व्यावृत्ता भावाः परस्परं परमार्थतः । तदिदमुक्तं—“सदविशेषादिति ।”

अनाद्यनिर्वचनीयाविद्यानिबन्धनं तु भावानां भेदं न व्यसेधामः । न च ज्ञातुरपि ज्ञानाद्106 भेदग्राहकमस्ति प्रमाणम्, उक्तादेव क्रमात्107 । तस्मान्न ज्ञेयानां परस्परतश्च ज्ञानाच्च भेदः । नापि ज्ञातुर्ज्ञानादस्ति भेदः, नापि ज्ञानानामन्योन्यस्य । तस्मात् प्रकाश एव स्वयम्प्रकाशः कूटस्थनित्य आनन्दघनोऽनाद्यविद्योपदर्शितविविधविचित्रनामरूपप्रपञ्चो ब्रह्येत्यद्वैतसिद्धिः । अत्र च श्रुतयो भवन्ति— एकमेवाद्वितीयं ब्रह्म । नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इत्यादिकाः ।

तदेवमैकान्किकमेकत्वमुपन्यस्य द्वित्यमैकान्तिकमाह—“सर्वं द्वेधा ।” कुतः ? “नित्यानित्यभेदात् ।” न च नित्यानित्याभ्यामन्यो राशिरस्ति यमास्थाय108 पदार्थास्त्रित्वादिके व्यवतिष्ठेरन्निति ।

मतान्तरमाह—“सर्वं त्रेधा ।” तदेव दर्शयति—“ज्ञाता ज्ञेयं ज्ञानमिति ।” ज्ञप्तिरपि ज्ञायमानत्वाज् ज्ञेयतां नातिपतति109 इति भावः ।

मतान्तरमाह—“सर्वं चतुर्धा ।” तद् दर्शयति—“प्रमाता प्रमाणं प्रमेयं प्रमितिरिति ।” यदि प्रमितिर्नाम तत्त्वं प्रमाणादिभ्यो भिन्नं नास्थीयते110 प्रमायाः प्रधानक्रियाया अभावात् कथं प्रमात्रादयः ? कथं च प्रधानक्रियामन्तरेणैषामेकवाक्यता स्यात्, कारकवैचित्र्यं वा ? प्रमायाश्च फलत्वावस्थाया उपरि प्रमेयव्यपदेशं न वारयामः । न चैतावता तत्त्वान्तरं न भवति ।

“एवं यथासम्भवमन्येऽपीति” प्रकृतिपुरुषाविति वा, पञ्चस्कन्धा इति वा, पशुपाशतदुच्छेदेश्वरा इति वेत्यादयः ।

तत्र परीक्षां सङ्ख्यैकान्ततानिराकरणरूपान्तां दर्शयति सूत्रेण—“सङ्ख्यै…पत्तिभ्याम् ॥” अनवयवेन सर्वम् चेदेकं द्वेधा वा त्रेधा वा चतुर्धा वेति प्रतिज्ञार्थः, ततस्तदतिरिक्तं साधनं वाच्यम् । न हि साध्यमेव साधनं भवति । तथा च साधनस्य तदतिरेकान्न सङ्ख्यैकान्तसिद्धिः । न च किञ्चिदपि स्वसंवेदनमस्ति ज्ञानप्रदीपादीनामपि परसंवेद्यत्वात् । यथा च ज्ञानातिरिक्ता111 अप्यर्था विषयास्तथा विज्ञानवादनिराकरणावसरे112 वक्ष्यते । न च विज्ञानादर्थस्य भेदोऽशक्यग्रहः । तथा हीदं नीलमुपलभ इत्यनहङ्कारास्पदमसातादिरूपं च नीलं प्रत्यात्मम् अनुभवगोचरः । एवं नीलादीनामपि परस्परम् । अन्यथा पटमानयेति देशितो नयने निमील्य शयीत, शयीथा इति113 वा चोदितस्तोयमाहरेत् । कस्यचित् कुतश्चित् कथञ्चिद् विवेकाभावात् । न चानिर्वचनीयानाद्यविद्यानिबन्धनोऽर्यं सर्वो भेदव्यवहार इति साम्प्रतम् । अनिर्वचनीयख्यातेः पूर्वमेवापाकृतत्वात्114 । तस्मात् सर्वजनसंवेदनसिद्धोऽयं भेदप्रत्ययो न कारणमुखनिरीक्षणेन युक्तो निराकर्तुम् । अपि तु स्पष्टदृष्टात् कार्याद् भेदप्रत्ययलक्षणात् कार्यात् तादृशं तत्कारणं कल्पनीयम्, यादृशेन कारणेन प्रपञ्चप्रत्ययोऽप्रत्यूहमुत्पत्तुमर्हति115 । तच्च प्रत्यक्षमेव । तथा हि तन्नीलं परिच्छिन्दत्पीतादिभ्योऽस्य भेदं परिच्छिनत्ति संयुक्तविशेषणतालक्षणादिन्द्रियार्थसन्निकर्षात् । नीलं हि नीलमित्यनुभवन् अयं116 प्रमाता पीतादिकं च पीतादिकमित्यनुभवन् वा स्मरन् वा शक्नोति निषेध्यनिषेधाधिकरणतया समाकलयितुं रूपमात्रेणागृहीतपरस्परभेदमपि । न हि तन्न भेदेन प्रथत इत्यभेदेन प्रथेत । येनानयोर्नीलपीतयोर्गृहीतस्वरूपयोरवध्यवधिमद्भावो न स्यात् । तथा च तौ गृहीत्वा प्रत्यक्षेण शक्योऽनयोर्भेदो117 ग्रहीतुमित्यसाम्प्रतमेतत् । अन्योन्यसंश्रयाद् भेदो न प्रमान्तरसाधनः ।
नास्मिन्निदं118 नायमयमिति भेदं119 विना न धीः ॥

इत्येतेन प्रमातुरपि प्रमाया भेदो व्याख्यातः । प्रमातारस्त्वनेकविधसुखदुःखोपभोगव्यवस्थानाद् बधिरान्धकाणादिकोविदजाल्मसंसारिमुक्तविभागोपपत्तेश्च भेदवन्तोऽनुमीयन्ते एकस्मिन्नपर्यायेण विरुद्धधर्मसंसर्गासम्भवात् । कल्पनया कथञ्चित् सम्भाव्यमानोऽप्ययं “गोमयपायसीयन्याय”मावहति । तदेवं प्रत्यक्षादिविरोधादनुत्पन्नार्थाः श्रुतयः

एकमेवाद्वितीयम्

इत्याद्याः प्रथमां वृत्तिमतिलङ्घ्य जघन्यामालम्बन्ते

यजमानः प्रस्तरः

आदित्यो वै यूपः

इत्यादिवत् । यदाह भगवान् “जैमिनिः गुणवादस्त्विति । तत्सिद्धिरिति चेति ।” तस्मात् नाद्वैतमिति ॥ ४१ ॥

न कारणावयवभावात् ॥ ४ । १ । ४२ ॥

साध्यात्साधनस्य भेदेन च सङ्ख्यान्तरैकान्ता अप्यपाकृतार्था120 इत्युक्तम् । अत्र पूर्वपक्षवाद्याह—“न का…भावात् ॥” तद् व्याचष्टे—“कारणस्य साध्यावयवभावात् ।” एकस्य वा द्वयादीनां वा कश्चिदेकदेशः साधनम् । तथा च न सङ्ख्यान्तरं न च साधनभाव इत्यर्थः ॥ ४२ ॥

निरवयवत्वादहेतुः ॥ ४ । १ । ४३ ॥

निराकरोति—“निरवयवत्वादहेतुः ॥” अवयवभावादिति यदि साध्यस्य कश्चिदवयवो भवेत्, न सङ्ख्यैकान्तः स्यादिति सर्वमेकमित्येतस्मिन् प्रतिज्ञार्थे न किञ्चिदपवृज्यते व्यावर्तते यतस्तत्साधनं न121 स्यादित्यर्थः । अथ कस्मात्122 न साध्यमेव हेतुरित्यत आह—“आत्मनि चेति ।” चो हेतौ । अपि चैते सङ्ख्यैकान्ताः प्रत्यक्षादिप्रमाणविरोधान्मिथ्यावादा इत्याह—“ते खल्विमे सङ्ख्यैकान्ता” इति । खलुशब्दः समुच्चये वक्रकोटरशिरःपाण्यादिविशेषकारितो योऽर्थभेदः स्थाणुपुरुषादिः तत्प्रत्याख्यानेनेत्यर्थः । अथ विशेषकारितार्थभेदाभ्यनुज्ञानेन वर्तन्ते तथाप्येकान्तत्वं जहति एकत्वादिसङ्ख्याया अनैकान्तिकत्वमित्यर्थः । “अथ सामान्यकारित” इति सङ्ख्यामात्रमङ्गीक्रियते न पुनरस्या ऐकान्तिकत्वमित्यर्थः । तदस्माकमभिमतमेवेत्याह—“तथापि न किञ्चिद् बाध्यत” इति । ये त्वाहुः सत्तासामान्यमेव तत्त्वं भेदास्तु काल्पनिका इति, तान् प्रत्याह—“न च भेदमन्तरेणेति ।” यथाहुः

निर्विशेषं न सामान्यं भवेच्छशविषाणवत् इति ।

स्यादेतत् । प्रेत्यभावपरीक्षायां क एषामवसरो यदेते एकान्तवादाः परीक्ष्यन्त इत्य आह—“त इति ।” अद्वैतादिष्वेकान्तेषु प्रेत्यभावो न तात्त्विको भवेदपि तु काल्पनिकः । न केवलं प्रेत्यभावोऽपि तु षोडशापि पदार्थाः । तस्मादेतेषां यत्तत्त्वज्ञानं तस्य प्रविवेकार्थं ज्ञेयप्रविवेकेन ज्ञानप्रविवेक इति तदर्थमेते परीक्षिता इति ॥ ४३ ॥

॥ सङ्ख्यैकान्तवादनिराकरणप्रकरणम् ॥

फलपरीक्षाप्रकरणम्

सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥ ४ । १ । ४४ ॥

तदनेन प्रबन्धेन प्रेत्यभावः परीक्षितः । अथोद्देशक्रमानुरोधात् फलमिदानीं परीक्ष्यते । तत्राग्निहोत्रादीनां फलमनन्तरभावि वा कालान्तरे वेति संशयः । एतदुक्तं भवति । कर्मानन्तरं दुःखं च लोकपक्त्यादि123 चोपलभ्यते । प्रशंसन्ति हि लौकिका धार्मिकोऽयं साधुतम इति, तत् किमेतावदेवास्य फलमस्तु अथामुष्मिकं स्वर्गादीति ? किं प्राप्तं स्वर्गादिफलत्वे कर्मणः स्वरूपेणाकारणत्वात् चिरनिवृत्ते तस्मिंस्तदुत्पत्तेः अपूर्वकल्पनायां च प्रधानाङ्गापूर्वाणि भूयांसि कल्पनीयानि । न च तान्यप्युत्पन्नमात्राणि जनयन्ति फलमिति तत्सहकार्यन्तराणि कल्पनीयानीत्यदृष्टकल्पनागौरवात् तदनन्तरदृष्टफलाबाधनाच्च नामुष्मिकं फलं स्वर्गादि, अपि त्वनन्तरदृश्यमानमेव । तत्रापि दुःखफलत्वे उपदेशत्वव्याघाताल्लोकपक्तिलाभख्यात्यादिकमेव124 फलम्, तच्च सुखहेतुतया कथञ्चित् स्वर्गादिपदेनोच्यते । दृष्टो हि सुखहेतौ स्वर्गपदप्रयोगो लोके । यथा चन्दनं स्वर्गः सूक्ष्माणि वासांसि स्वर्ग इति प्राप्तम् । एवं प्राप्ते ब्रूमः स्वर्गपदस्य तावदर्थवादतः, यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत्सुखं125 स्वःपदास्पदम् ॥

इति सुखं प्रति वाचकत्वमवधारितम् । न च तद्वाचकत्वेनैव चन्दनादौ तत्प्रयोगोपपत्तावनेकार्थत्वकल्पना युक्ता । यदाहुरन्यायश्चानेकार्थत्वमिति । तस्मान्मुख्योऽयं स्वर्गशब्द उक्तभेदे सुखे । तथा च स्वर्गकाम इत्यत्र मुख्यार्थसम्भवे नोपचरितार्थता युक्ता । न चानेकादृष्टकल्पनाभयात् मुख्यार्थपरित्यागो न्याय्यः, प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तेः । यथाहुः

श्रुतसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यम्, न तु श्रुतशैथिल्यमादरणीयमिति । तथा

प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि ।

न चानन्तरदृश्यमानं लोकपक्त्यादि होमाद्यनुष्ठानफलम्, अपि तु तदुपलम्भफलम् । अदाम्भिकानां प्रच्छन्नमनुतिष्ठतामपि लोकपक्त्यादेरभावात् । तस्मात् सुष्ठूक्तं—“न सद्यः कालान्तरोपभोग्यत्वात्” इति ॥ ४४ ॥

न सद्यः कालान्तरोपभोग्यत्वात् ॥ ४ । १ । ४५ ॥

“वार्त्तिकं—सद्यस्तापादिफलेति ।” अतद्गुणसंविज्ञानोऽयं बहुव्रीहिस्तापादीति । तेन लोकपक्त्यादिकमवरुध्यते126 । स्वर्गः फलं श्रूयत इत्ययुक्तम् । स्वर्गकाम इति स्वर्गस्य पुरुषविशेषणत्वेन श्रवणादसाध्यत्वात् । अत आह—“देशितया च क्रिययेति ।” आप्तोपदेशः खल्वयमुपदेश्यस्य कर्मणोऽभिमतोपायतामाह । तत्र कर्मणोऽभिमतापेक्षायां पुरुषविशेषणस्याप्यपेक्षितत्वात् साध्यत्वमिति सिद्धम् । एवं हि लोकपक्त्यादिरग्निहोत्राद्यनुष्ठानसाध्यो भवेद् यदि तत्कामस्य स्वर्गकामस्येवाग्निहोत्राद्यनुष्ठानं देश्येत । न चैतदस्तीत्यत आह—“न च तापादिकाम” इति । लोकपक्त्यादिकाम इत्यर्थः । शेषमतिरोहितार्थम् ॥ ४५ ॥

कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ॥ ४ । १ । ४६ ॥

प्राङ्निष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥ ४ । १ । ४७ ॥

“भाष्यम्—तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यत” इति । नैष पुरुषसंस्कारः स्नानादिजन्य इव बोद्धव्यः, अपि तु पुरुषधर्मतामात्रेण संस्कार इत्युच्यते । परमार्थतस्त्वयं धर्मः पुरुषाश्रयोऽपि कर्मणा फले जनयितव्ये तस्यावान्तरव्यापार इति127 ॥ ४७ ॥

नासन्न सन्न सदसत् सदसतोर्वैधर्म्यात् ॥ ४ । १ । ४८ ॥

इदमिदानीं चिन्त्यते किमेतत् फलमुत्पत्तेः प्राकृ असद् वा सद् वा सदसद वा अनुभयं वेति । अत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति । तदिदं फलं निष्पत्तेः प्राक् । “नास…र्म्यात् ॥ नासन्न सन्न सदसत्” नाप्यनुमयं सदसत् कस्मान्न भवतीत्यत आह—“सदसतोर्वैधर्म्यात्” परस्परविरुद्धधर्मत्वात् । धर्मः स्वभावः स्वभावविरोधादित्यर्थः । अथानुभयं कस्मान्न भवतीति । अत आह—“नाप्युभयविपरीतमिति” ॥ ४८ ॥

उत्पादव्ययदर्शनात् ॥ ४ । १ । ४९ ॥

सिद्धान्त्याह—“प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा128 ।” ननु नासदुत्पद्यते न सन् निरुध्यत129 इत्याचक्षते “साङ्ख्याः ।” तत्कथमेतदित्य आह—“उत्पादव्ययदर्शनात् ॥” यथा नित्यस्वरूपायाश्चितिशक्तेर्नोत्पादो न च व्यय एवं फलस्यापि नित्यस्य तौ न स्यातामित्यर्थः । “न हि सत्पक्ष” इति सत्कार्यपक्ष इत्यर्थः । “न किञ्चिज्जायत” इति । न प्रतिज्ञादिवाक्यात्130 किञ्चित् तत्त्वज्ञानं सम्भवति131 । किञ्चिच्च सन्देहादि न विनश्यति इति अज्ञानतिरोभावः संशयविपर्ययतिरोभावः । कारणस्य हि प्रधानस्य स्वलक्षणं महान् । लक्ष्यते हि महता प्रधानमिति । एवं तस्याप्यहङ्कारः तस्य पुष्टिः स्थूलतेत्यर्थः । “पश्चाद् भवतीति” केवलकारणावस्थायाः पश्चादिति ॥ ४९ ॥

बुद्धिसिद्धं तु तदसत् ॥ ४ । १ । ५० ॥

यच्चोक्तम् “उपादाननियमादिति” तदयं यदि पुरुषस्योपादाननियमः “पटार्थी”132 तन्तूनेवोपादत्ते न वीरणम् । कटार्थी133 च वीरणमिति, ततः134 तदुपादानानां तत्र तत्र कार्ये सामर्थ्यपरिज्ञानात् । तच्च सामर्थ्यमानुमानिकम् । तदिदमुच्यते—“बुद्धिसिद्धं तु तदसत् ॥” इति । तदसद्भावि कार्यमनेनैव कारणेन जन्यते, नान्येनेत्यनुमानाद् बुद्धिसिद्धमेवेत्यर्थः । अथासत्कार्यपक्षे तन्तव एव पटस्योपादानं न वीरणादीत्ययं135 नियमो न स्यात् इति ब्रूषे तदयुक्तम् । असत्त्वाविशेषेऽपि स्वकारणादुत्पन्नं किञ्चिदेव किञ्चित्कार्यं जनयितुं समर्थं नान्यदित्ययं स्वभावविशेषादुपपत्स्यते136 इति । अपि च सत्कार्यपक्षे प्रधानोपादानत्वाद् विश्वस्य तस्य चाभेदात् कारणात्मकत्वाच्च कार्यजातस्य सर्वं सर्वात्मकमितीदमिह नेदमिदमिदानीं नेदमिदमेवं नेदमिति नियमो न स्यात्,137 कस्यचित् कदाचित् कुतश्चिद् विवेकहेतोरभावात् । तस्मादस्ति रासभेऽपि विषाणमित्यत्र138 तस्यासत्त्वं ब्रुवाणः स्वसिद्धान्तं बाधत इत्याह— “असत्त्वाच्च खरविषाणं नोत्पद्यत इति” ब्रुवाणः इति । सत्त्वे चासत्त्वे च समाने यस्य कारणमस्ति139 तदुत्पद्यते इति समानत्वं140 गुडजिह्विका । परमार्थतस्त्वसत्त्वे कारणसामर्थ्यनियमादुत्पत्तिनियमः कल्पते, सर्वात्मना सर्वस्य सत्त्वे तु न नियमहेतुरस्तीति उक्तप्रायम् । देशयति—“अथासत्कार्ये किं प्रमाण् ?” न ह्यनुमानमस्मिन्नर्थे प्रमाणं भवितुमर्हति, आश्रयासिद्धेः । नापि प्रत्यक्षम्, तेनाप्यसतः स्वातन्त्र्येणानिरूपणादिति भावः । विदिताभिप्राय उत्तरमाह—“न141 सत्त्वे न चासत्त्वेऽनुमानमस्ति ।” यथास्माकमाश्रयासिद्धिदोषादसत्त्वे कार्यस्य नानुमानम्, एवं भवतामपि142 कार्यस्य सत्त्वे नानुमानमाश्रयासिद्धेरेव143 । कुतस्तर्ह्यनुमानमित्यत आह—“धर्मिण्यविप्रतिपत्तेः” अनुमानमस्तीति योजना । तथा सत्याश्रयोऽस्य सिध्यतीत्यर्थः । पुनः पृच्छति—“क्वेति ।” यदि धर्मिण्यविप्रतिपत्तिः, क्व तर्हि विवादः ? उत्तर—“यदुभयेति ।” धर्म्यधिकरणान् सत्कार्यवादिनामेव अवान्तरविवादान्144 विभजते—“तान् प्रतीति । तन्तुमात्रं पट” इति । तन्तुभ्योऽभिन्न इत्यर्थः । “कार्यात्मनेति” कार्यं कारणाद्भिन्नाभिन्नमित्यर्थः ।

असत्कार्यपक्षस्तु स्वाभिमतः स्फुटत्वादवान्तरप्रतिबन्द्यभावाच्च145 नोपन्यस्तः । “उपपादित” इति “द्वितीयेऽध्याये । प्रागुपलब्धिकालादिति146 ।” कारणव्यापारात् प्रागित्यर्थः । संस्थानविशेषशून्यतामात्रविवक्षया तुर्यादिदृष्टान्तो न तु प्रागभावोऽत्र विवक्षितः । “शक्तिविशेषावस्थिता” इति । कारणव्यापारात् प्रागिति शेषः । अत्र सिद्धसाधनं वयमपि ब्रूमहे । स्वव्यापारात् पटोत्पत्तिनिमित्तात् प्राक् तन्तवः शक्तिविशेषावस्थिता147 एवेति परेषां सत्कार्यसाधनमुपनयस्यति—“विद्यमानाभिव्यक्त्यर्थास्तन्तवस्तदर्थिना नियमेनोपादानात् खनित्रादिवत् ।” यथा हि खनित्रं विद्यमानमेवोदकं मृदपनयनेन व्यनक्तीति । तदेतद् दूषयति “विद्यमानस्या भिव्यक्तिरसतीति” व्यक्तिवत् कार्येऽपि प्रसङ्गः । यथा व्यक्तेरसत्या एवोत्पादस्तथा कार्यस्याप्यसत एवोत्पाद इत्यर्थः । खनित्रादिवदिति च दृष्टान्तः साध्यविकल इत्याह—“यदपीति । साऽप्राप्तिः कुतो भवतीति वक्तव्यमिति ।” प्राप्तिः खलु संयोगः । स च गुणः । गुणश्च द्रव्यविनाशाद् विनश्येद् विरोधिगुणान्तरोपादानाद्148 वा । तत्र तावदावरणद्रव्यम् आव्रियमाणं वोदकं न विनष्टम्, येन तयोः संयोगो विनश्येत् । ततस्तद्विरोधिगुणान्तरोत्पादो वक्तव्यः । स एव च संयोगविरोधी गुणो विभाग इत्युच्यत इत्यर्थः । प्राप्तेरभावोऽप्राप्तिरिति पक्षं दूषयित्वा पर्युदासपक्षमाशङ्क्य दूषयति—“अथ प्राप्तेरिति ।” पुनः शङ्कते—“अथ भिन्नदेशोत्पत्तिमिति ।” न वयं संयोगं विभागम् वा गुणमुपेमः, किं तु भिन्नदेशोत्पन्न एव द्रव्ये विभागो निरन्तरोत्पन्न एव संयोग इत्यर्थः । निराकरोति—“भिन्नदेश इम” इति । विशेषणोपादानान्न भिन्नदेशोत्पत्तिर्विभागः । कस्मात् ? उत्पन्ने उत्पन्नमिति भिन्नदेशतया भिन्नमिति विशेषणं हि स्वानुरक्तं प्रत्ययं विशेष्ये जनयति, न त्वन्यानुरक्तम् । न खलु नीलं विशेषणमुत्पले रक्तप्रत्ययं जनयत्यभ्रान्तस्येत्यर्थः । अपि च क्षणभङ्गं भावानां व्यासेदद्भिरस्माभिर्भिन्नदेशोत्पत्तेः प्रतिषेधान्न भिन्नदेशोत्पत्तिर्विभागः ।

शङ्कते—“क्षणिकत्वाद् विभागस्येति ।” उत्पद्य हीन्द्रियसन्निकर्षाद् विभागेन स्वविषयं ज्ञानं जनयितव्यम् । न चैतावन्तं कालमसावस्ति, क्षणिकत्वेनोत्पन्नापवर्गित्वादित्यर्थः । निराकरोति—“न सामान्याभिव्यक्तीति ।” एतद् विभजते— “पूर्वं तावदुत्पन्नो विभागः सामान्यं व्यनक्तीति ।” स्वकारणसमवायः सत्तासमवायो वोत्पत्तिः । तद्विशिष्ट उत्पन्न इत्युच्यते । येषां सामान्यग्रहपुरःसरं विशेषज्ञानं, तन्मते न सामान्यं व्यनक्ति, तदुत्तरकालं च स्वप्रत्ययं जनयतीत्युक्तम् । एतदुक्तं भवति, न वयं “बौद्धा” इव पूर्वापरभागविकलकालकलामात्रावस्थितिलक्षणां149 क्षणिकतां विभागादीनामाचक्ष्महे, किं त्वाशुतरविनाशलक्षणाम् । सा च द्वित्रादिक्षणस्थायिनी150 चिरस्थायिभ्यो घटादिभ्यो व्यावृत्ता151 शक्या वक्तुमिति ॥ ५० ॥

आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः ॥ ४ । १ । ५१ ॥

देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमान आह—“आश्रय… अहेतुः ॥” मूलसेकफलोत्पादयोरेकवृक्षाश्रयत्वम् । कर्मणस्तु होमादेराश्रयः शरीरम् । न चामुष्मिकस्य स्वर्गादेस्तच्छरीरमाश्रयः, तस्मिन्नष्टेऽस्य भावात् । तस्मादाश्रयव्यतिरेकात् स्वर्गादेर्वृक्षफलोत्पत्तिवदित्ययं दृष्टान्तः152 स्वर्गफलत्वे होमस्याहेतुरित्यर्थः ॥ ५१ ॥

प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥ ४ । १ । ५२ ॥

अस्त्यात्मा सर्वोपभोगसमर्थः153 शरीरादिव्यतिरिक्तः कर्तेत्युपपादितमित्याशयवान् आह—“प्रीते…षेधः” ॥ ५२ ॥

न पुत्रस्त्रीपशुपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥ ४ । १ । ५३ ॥

अस्तु स्वर्गाद्यात्माश्रयम्, तथाप्यव्यापको हेतुः पुत्रादिफलेभ्यो निवृत्तेरिति देशयति—“न पुत्र…निर्देशात्” ॥ ५३ ॥

तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ४ । १ । ५४ ॥

परिहरति—“तत्सम्बन्धात्…पचारः ॥” स्वर्गोऽपि तावत् स्वर्गतया न काम्यते, किं तु भोग्यतया । एवं सति कैव कथा पुत्रादिषु । तेऽपि भोग्यतयैव काम्यन्ते । न च154 तत्स्वरूपम् भोग्यमिति तत्साध्यं सुखं भोग्यम् । तस्मात् पुत्रादिसम्बन्धात् तदुत्पत्तेः सुखोत्पत्तेः तेषु फलेषु यथा फलशब्दप्रयोगस्तथा तेषु पुत्रादिष्वित्यर्थः । “सूत्रा”र्थकथनेनैव “भाष्यवार्त्तिके” व्याख्याते ॥ ५४ ॥

॥ इति फलपरीक्षाप्रकरणम् ॥

दुःखपरीक्षाप्रकरणम्

विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ४ । १ । ५५ ॥

फलानन्तरं दुःखं परीक्षणीयम्155 । तत्रयं परीक्षा । भवतु दुःखं बाधनालक्षणमनुभूयमानम् । यत् पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयम्, तत्कथं दुःखम्, अनुभवविरोधात् । शरीरेन्द्रियविषयबुद्धयश्च यदि दुःखहेतुतया दुःखं, कस्मात् सुखहेतुतया सुखमेव न भवन्ति ? सेयमतिभीरुता सकललोकयात्राविरोधिनी । यथाहुः न हि मृगाः सन्तीति शालयो नोप्यन्ते । न च भिक्षवः सन्तीति स्थाल्यो नाधिश्रीयन्त इति । तस्मान् मांसार्थीव कण्टकानुद्धृत्य मांसमश्नन्नानर्थं कण्टकजन्यमाप्नोतीति, एवं प्रेक्षावान् दुःखमुद्धृत्येन्द्रियादिसाधनं सुखं भोक्ष्यते । सन्ति च त्रिविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेकाभ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिह्विकया संशयान इव पृच्छति—“तत् किमिदमिति ?” सिद्धान्तिन उत्तरम्—“अन्य इत्याह सूत्रकार” इति । तेनैवाभिप्रायेण पूर्वपक्षी पृच्छति—“कथम् ?” उत्तरं—“न वै सर्वलोकसाक्षिकमिति ।” अयं तु दुःखभावनोपदेशः किमर्थमित्यत आह “भाष्यकारः—दुःखहानार्थः ।” किं भूतस्य दुःखभावनमित्यत156 आह—जन्ममरणप्रबन्धस्य अनुभवः प्राप्तिः । तन्निमित्ताद् दुःखोपदेशपरिशीलनेन निर्विण्णस्यालम्प्रत्ययवतः, अत एव दुःखं जिहासत इति योजनीयम् । स्वाभिप्रायेण पूर्वपक्षी पृच्छति—“कया युक्त्या ?” उत्तरम्—“सर्वे खलु सत्त्वनिकाया” इति । उपपत्तिः157 सुखदुःखहेतुभूता विषयसम्पत्तिः तस्याः स्थानानि भुवनानि । आ सत्यलोकादा चावीचेरिति । एतदुक्तं भवति, यदि दुःखवर्जनेन शक्येत सुखमादातुम्, ततस्तादृशं सुखमनुकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ? न तु तादृशमस्ति सुखं क्वचिदपि, सर्वस्य तस्य दुःखाविनाभाविनः केवलस्योपादानाशक्यत्वात् । न हि मधुविषसम्पृक्तमन्नं विषमपनीय शक्यं मधुमात्रयुतमुपादातुमिति । तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःख सञ्ज्ञाभावनमुपदिश्यते ऋषिणा158 । अत्र हेतुरुपादीयते—“विविध…त्पत्तिः159 ॥” जन्मन उत्पत्तिर्जन्मोत्पत्तिः । सा दुःखमेव भावयितव्या विविधबाधनायोगादिति ॥ ५५ ॥

न सुखस्याप्यन्तरालनिष्पत्तेः ॥ ४ । १ । ५६ ॥

कस्मात् पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह—“न सुखस्याप्यन्तरालनिष्पत्तेः ॥” न खल्वयं दुःखोद्देशो दुःखस्य कथनम्, सुखस्य प्रत्याख्यानम् ॥ ५६ ॥

बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥ ४ । १ । ५७ ॥

इतश्च दुःखसञ्ज्ञाभावनम् न तु सुखस्य प्रतिषेधो दुःखोद्देशेनेत्याह—“बाधना… अप्रतिषेधः ॥” यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम्, तच्चोक्ताद् बहुप्रकाराद् दोषाद् बाधनाहेतुरिति दुःखभावनोपदेशनमिति । कामं काम्यं कामयमानस्य यदा कामः समृध्यति सम्पन्नो भवति, अथानन्तरमेनं पुरुषमपरः काम इच्छा क्षिप्रं प्रबाधते स्वर्गादिप्राप्तावपि स्वाराज्यादि कामयते । एवं तत्प्राप्तौ प्राजापत्यादीति । अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधत इत्यर्थः । समन्ताद् उदनेमि यथा भवति तथा भूमिं लभत इति योजना ॥ ५७ ॥

दुःखविकल्पे सुखाभिमानाच्च ॥ ४ । १ । ५८ ॥

नन्वयं यद्यप्यन्तराले सुखान्यनुभवति, तथापि तत्तद्दुःखसम्भेदमाकलयन् अनुपदिष्टोऽपि स्वयमेव निर्वेत्स्यते160 कृतमस्य दुःखभावनोपदेशेनेत्यत आह— “दुःखवि…भिमानाच्च ॥” शास्त्रशिष्टानां विवेकिनां खलु विविधबाधनानुषङ्गाद् अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयः । अक्षिपत्रकल्पा हि ते । तद् यथेषीकतूलसम्पर्कादप्यक्षिपत्रं161 दूयते, न तु गात्रावयवान्तराणि, तथा मृदुचित्ततया विवेकिनो दूयन्ते । अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशावलोचनाङ्गनालक्तकरसार्द्रपादपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना घनपुलककञ्चुकाञ्चिततनवः सान्द्रानन्दाश्रुप्लवननयना निवृण्वन्तीति तान् प्रत्ययमुपदेशोऽर्थवानित्यर्थः । “जायस्व म्रियस्य चेति सन्धावतीति ।” पुनः पुनर्जायते पुनः पुनर्म्रियते, जनित्वा म्रियते, मृत्वा जायते । तदिदं सन्धावनव्यापारप्रचय इत्यर्थः ।

चोदयति—“यद्येवं कस्माद् दुःखं जन्मेति नोच्यत” इति । यदि दुःखभावनोपदेशो जन्मनि, एवं सत्येवकारः किमर्थ इत्यर्थः । परिहरति—“जन्मविनिग्रहार्थीय” इति । जन्मविनिग्रहो जन्मनिवृत्तिः स एवार्थः । तत्र प्रवर्तत इति जन्मविनिग्रहार्थीयः । यथा च मत्वर्थीय इति । एतदुक्तं भवति जन्म दुःखमेवेति भावयितव्यम् । नात्र मनागपि सुखबुद्धिः कर्तव्या । अनेकानर्थपरम्परापातेनापवर्गप्रत्यूहप्रसङ्गादिति162 ॥ ५८ ॥

॥ दुःखपरीक्षाप्रकरणम् ॥

अपवर्गपरीक्षाप्रकारणम्

ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ४ । १ । ५९ ॥

“दुःखोद्देशानन्तरमपवर्गः” उद्दिष्टो लक्षितश्चेति शेषः । स प्रत्याख्यायते— “ऋणः………वर्गाभावः ॥” तद् व्याचष्टे “भाष्यकारः । ऋणानुबन्धादिति ।” अस्ति हि ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः ॥

तत्र ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव इत्यर्थः । “क्लेशानुबन्धान्नास्त्यपवर्गः ।” नानुच्छिन्ननिदानः संसारः शक्य उच्छेत्तुमित्यर्थः । प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या ॥ ५९ ॥

प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥ ४ । १ । ६० ॥

एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते—“अत्राभिधीयते यत् तावद् ऋणानुबन्धादिति ।” जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह—“प्रधानशब्दानुपपत्तेरिति । प्रधा…पपत्तेः ॥” तद् व्याचष्टे—“ऋणैरिति । नायं प्रधानशब्द” इति । ऋणवानिव परतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा । तदभावे तु स्वतन्त्र इति प्रशंसा । एवं जायमान इति गुण शब्दो न मुख्य इति । कस्मात् पुनर्न मुख्य इत्यत आह—“मातृतो जातमात्रस्य”163 बालकस्या“नधिकारात् ।” कस्मादनधिकार इत्यत आह—“अर्थिनः शक्तस्य चाधिकारात् ।” कस्मादर्थिन इत्यत आह—“कर्मविधौ” अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादौ “कामसम्प्रयोगश्रुतेः ।” न च बालकः सुखदुःखाप्तिपरिहारकामोऽपि विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति । “शक्तस्य च प्रवृत्तीति ।” न ह्यशकनीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति । न च बालकः शक्तोऽविद्वत्त्वादिना । अत+एव तिर्यग्देवर्षिपङ्गुशूद्रत्र्यार्षेयाणामनधिकारः सामर्थ्याभावात् । न केवलं वैदिकोऽयमीदृशो व्यवहारोऽपि तु लौकिकोऽपीत्याह—“न भिद्यते च लौकिकात् ।” तद् व्याचष्टे—“लौकिकस्तावदिति । उपपन्नानवद्यवादीति ।” उपपन्नं प्रमाणेन अनवद्यं पुनरुक्तदोषेण अनपेक्षितमुपदेष्टव्यस्य यन्न भवति तदित्यर्थः । न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह—“गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदतीति ।” गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन् कर्मणि तत् तथोक्तम् । पत्न्यवेक्षितमाज्यं भवति पत्न्य उद्गायन्ति क्षौमे वसानावग्नी आदधीयाताम् इत्येवमादि ।

तदनेन गार्हस्थ्यात् पूर्वावस्था तावदृणानुबद्ध न भवतीत्युक्तम् । सम्प्रत्युत्तरावस्थापि न ऋणानुबद्धेत्याह—यदा चार्थिनोऽधिकारस्तदा “अर्थित्वस्याविपरिणामे जरामर्यवादोपपत्तिः ।” तेन यदुक्तमृणापाकरणेन वयःपर्यवसानान्नास्ति मोक्षे164 निवेशस्यावसर इति अपाकृतं भवतीति । अविपरिणामपदार्थव्याख्यानं “न निवर्तत” इति । तुरीयस्येत्यस्य व्याख्यानं “चतुर्थस्येति ।” प्रायेण पञ्चसप्ततौ वत्सरेष्वतिवाहितेषु विषयतृष्णा तनूभवति । अत्यन्तसंयोगे तु जरया ह वा एष इत्यनर्थकम् । मृत्युना वेत्यनेनैव सिद्धेरिति शेषः । यद्युच्यते अशक्ततोपलक्षणपरमेतत् जरया ह वा मृत्युना वेति । तेन कस्यानर्थक्यमित्यत आह—“अशक्तो हि विमुच्यत इत्येतदपि नोपपद्यते” इति ।

“वार्त्तिकम्—यावज्जीवसंयोगे हि जरया ह वेत्यनर्थकमिति ।” मृत्युना ह वेत्यनेनैव गतार्थत्वादित्यनुक्त्वा “भाष्यो”क्ता द्वितीया युक्तिरुक्ता “वार्त्तिककृता यस्मात् स्वयमशक्तस्य” इत्यनेन ।

“यज्ञसाधनत्वादिति ।” यज्ञकर्तृत्वादित्यर्थ । एतदेव स्फुटयति—“यस्माद्यजमानो यज्ञाङ्गं भवति ।” यथाह भगवान् “जैमिनिः” पुरुषकर्मार्थत्वात्165 इति ।

स्यादेतत् । यद्यपि गृहस्थस्य यज्ञादिविधानान्तराणि सन्ति तथापि जायमानस्त्रिभिरृणैरिति वाक्यं बालस्यापि यज्ञादि विधास्यतीत्येतां शङ्कां विमर्शपूर्वमपाकरोति—“अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येतेति ।” न तावत् जायमानो ह वै इति वाक्ये विधिविभक्तिरस्ति । तेन सिद्धान्तानुवादः स्वरसतः प्रतीयते । यदि तु तस्यार्थस्य सिद्धिर्वाक्यान्तराद् वा प्रमाणान्तराद् वा कथमपि न कल्पेत, ततो वचनानि त्वपूर्वत्वात् इति न्यायाद् विधित्वमस्य कल्प्येत । सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि विधिविभक्तिमन्तीति को जातमात्रस्य166 स्वेच्छामात्रेण विध्यर्थतां167 कल्पयेत् ? तस्माद् विहितानुवचनमेव न्याय्यमिति जायमानशब्दो जघन्यवृत्तिरिति युक्तमुत्पश्यामः ।

स्यादेतत् । जायमानशब्दोऽनुपचरितार्थः स्वभावतो मातुरुदराद् विभागमाह । स कथञ्चिदनुवादत्वानुरोधेन जघन्यवृत्तिः कल्पनीयः । तद् वरं मुख्यार्थानुरोधेन विधानमेव कल्प्यताम् । एवं सति श्रुतिरनुरोधिता भवति । अस्ति च बालकस्यापि फलोत्पादनयोग्यता, तदात्मनः फलं प्रति समवायिकारणत्वात् । तेन यद्यपि जातमात्रस्य फलसाधनानुष्ठानयोग्यता नास्ति, तथापि फलोत्पादं प्रति योग्यतास्ति । फलेन च प्रयोजनं न तत्साधनेनेत्यत आह—“फलस्य साधनानि हि प्रयत्नविषयो न फलमिति ।” अयमभिसन्धिः,168 विधिर्हि स्वव्यापारे कर्तृतया पुरुषं नियुङ्क्ते, प्रयत्नश्चास्य व्यापारः स च निर्विषयो169 न शक्यो निवर्तयितुमिति स्वविषयमपेक्षते । न चास्य साक्षात्फलं विषयो भवितुमर्हति, उद्देश्यतामात्रेण तु भवेत् । न चैतावता प्रयत्नोऽस्य निर्वृणोति यावदयं साक्षादभिनिर्वर्तनीयं न प्राप्नोति । तदुपायश्चास्य साक्षादभिनिर्वर्तनीय इति फलोद्देशप्रवृत्तस्य पुरुषप्रयत्नस्य170 तदुपायो विषयः । न च बालकस्य तदुपायमविदुषस्तत्र सामर्थ्यमस्ति । असमर्थश्चाकर्ता कथमात्मानं171 प्रयत्नेन व्याप्नुयात् ? तदव्याप्नुवंश्च कथमधिकारीति जायमानशब्दो जघन्यवृत्तिरेव न्याय्य इति सिद्धम् । “विहितं च याजमानमिति”172 ऋणवाक्यात् प्राक्, विधीयते च ऋणवाक्यादूर्ध्वमित्यर्थः ।

यदुक्तं तत्र हि प्रव्रज्या विधीयते इति तदमृष्यमाण आह— “प्रत्यक्षविधानाभावादिति चेत् ?” शङ्कां निराकरोति—“न, प्रतिषेधस्य प्रत्यक्षविधानाभावात् ।” शङ्कां विभजते—“प्रत्यक्षत” इति । परमाप्तो भगवानीश्वरोऽनुकम्पया भूतोपदेशाय प्रवृत्तो यद् गार्हस्थ्यमेवाश्रममुपदिशति ततोऽवगच्छामो न सन्त्याश्रमान्तराणि भूतेभ्यो हितानीत्यर्थः । अत एवाहुः ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्येति173 निराकरणं विभजते—“न प्रतिषेधस्येति ।” स्मृतीतिहासपुराणानि तावदविवादं विदधति चातुराश्रम्यमुपलभ्यन्ते, यदि तु प्रत्यक्षया श्रुत्या चातुराश्रम्यं174 निषेध्येत, ततस्तद्विरोधेनौदुम्बरीसर्ववेष्टनवत् तत्राप्रमाणानि स्युः । न च तत्प्रतिषेधः श्रुतेः साक्षादवगम्यते । तस्मात् स्मृत्यादिविहितं चातुराश्रम्यमप्रतिषिद्धं श्रुत्या न शक्यं परित्यक्तुमित्यर्थः ।

न चाविधानेन तत्प्रतिषेधानुमानमित्याह—“अधिकाराच्चेति ।” गार्हस्थ्योपदेशस्याधिकारात्तस्यैव विधानं नाश्रमान्तरस्य, न त्वाश्रमान्तराभावात् । न हि व्याकरणं शब्दं व्युत्पादयत् प्रमाणाद्यभावमाक्षिपति ।

अपि च मा भूत् प्रत्यक्षविधानम्, श्रुतौ ससाधनापवर्गाभिधानानि च चातुराश्रम्याभिधानानि च प्रत्यक्षाण्युपलभ्यन्ते वचनानि । तान्यपूर्वत्वाद् विधानानि अपवर्गस्य ससाधनस्य चातुराश्रम्यस्य च भविष्यन्तीत्याह—“ऋग्ब्राह्यणं चापवर्गाभिधाय्यभिधीयत” इति । “मृत्युमिति” प्रेत्यभावमित्यर्थः । “परं कर्मभ्य” इति कर्मपरित्यागमपवर्गसाधनं सूचयति । “अमृतत्वमिति” चापवर्गो दर्शितः । सूचितं कर्मत्यागमपवर्गसाधनं श्रुत्यन्तरेण विशदयति—“न कर्मणा न प्रजयेति । परेण नाकमिति ।” नाकमित्यविद्यामुपलक्षयति । अविद्यातः परमित्यर्थः । “निहितं गुहायाम्” इति लौकिकप्रमाणागोचरत्वं दर्शयति । “तमसः परस्ताद्” इति । अविद्या तमः तस्य परस्तात् । “आदित्यवर्णमिति” नित्यप्रकाशमित्यर्थः । तदनेनेश्वरप्रणिधानस्यापवर्गोपायत्वमुक्तम् ।

ऋच उदाहृत्य ब्राह्मणमुदाहरति—“अथ ब्राह्मणानीति ।” यज्ञ इत्यादिना गृहस्थाश्रमो दर्शितः, तप एवेति वानप्रस्थाश्रमः, ब्रह्मचारीति ब्रह्मचर्याश्रमः । एषामभ्युदयलक्षणं फलमाह—“सर्व एवैत” इति । चतुर्थमाश्रममाह—“ब्रह्मसंस्थ” इति । “तथा क्रतुरिति ।” क्रतुः सङ्कल्पः । कामयमानो य आसीत् स एव अथाकामयमानो भवति । अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ । सोऽकामयं स्तस्य व्याख्यानं— “निष्काम” इति । “आत्मकाम” इति कैवल्योपेतात्मकामः । तत्प्राप्त्याप्तकामो भवति । “न तस्य प्राणा” इति । शाश्वतो भवतीत्यर्थः । प्रकृतमुपसंरति—“तत्र यदुक्तमिति ।” अपरामपि चातुराश्रम्याभिधायिनीं श्रुतिमुदाहरति—“ये चत्वार” इति ॥ ६० ॥

समारोपणादात्मन्यप्रतिषेधः ॥ ४ । १ । ६१ ॥

इतश्च फलार्थिन एष जरामर्यवाद इत्याह—“फलार्थिनश्चेति ।” पृष्ट्वा “सूत्रं” पठति—कथम् ? “समारोप…प्रतिषेधः ॥” आत्मन्यग्नीनां समारोणाद् ऋणानुबन्धेनापवर्गस्याप्रतिषेधः । तदनेन छलेन प्रत्यक्षविधानं प्रव्रज्याया अपि दर्शितम् । एषणाभ्यो व्युत्थितस्य विपर्यस्तबुद्धेः अलमाभिरेषणाभिरनर्थहेतुभिरिति कृतबुद्धेः । अत एव निवृत्ते फलार्थित्वे समारोपणमात्मन्यग्नीनां विधीयत इति ।

“एवं च ब्राह्मणानीति ।” यदैषणाभ्यो व्युत्थितस्य प्रव्रज्याविधानं तदा तदभिधायीनि ब्राह्मणान्युपपन्नानीत्यर्थः ॥ ६१ ॥

पात्रचयान्तानुपपत्तेश्च फलाभावः ॥ ४ । १ । ६२ ॥

प्रमृते खलु यजमाने यज्ञपात्राणि यजमानस्य शरीरे यथावयवं निधायान्त्येष्टिः क्रियते । तत्र जरामर्ये कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्येत । मरणपर्यन्तानि कर्माणीति प्रसज्येतेत्यर्थः । नन्विष्यत एव पात्रचयान्तत्वं कर्मणामित्यत आह—“तत्रैषणाव्युत्थानमिति ।” तस्मान्नाविशेषेण कर्तुः प्रयोजकं फलं भवतीति । “फलाभाव” इत्यस्य “सूत्रा”वयवस्याविशेषेण फलस्य कर्तृप्रयोजनकत्वाभाव इत्यर्थः । तदनेनैषणाव्युत्थानश्रुतिविरोधो दर्शितः ।

तदेवं चातुराश्रम्ये श्रुतिरुक्ता । सम्प्रति स्मृत्यादयोऽपि चातुराश्रम्यस्योपदेशकाः सन्तीत्याह—“चातुराश्रम्यविधानाच्चेति ।” शङ्कते—“तदप्रमाणमिति चेत् ।” जगन्निर्मातुः परमकारुणिकस्य सर्वज्ञस्यात्रभवतः परमेश्वरस्यागमो भवतु प्रमाणमाप्तोक्तत्वात् । “मनुव्यासा”दीनां त्वाप्तत्वाविनिश्चयात् कथं तत्प्रणीतानां प्रामाण्यविनिश्चय इत्यर्थः । उत्तरं—“न, प्रमाणे”नेति स्यादेतत् । भवतु वेदेनाभ्यनुज्ञानादितिहासपुराणप्रामाण्यम्, धर्मशास्त्राणां तु “मन्वा”दिप्रणीतानां कुतः प्रामाण्यनिश्चय इत्यत आह—“अप्रामाण्ये चेति ।” सर्वजनपरिग्रहात् तेषामपि प्रामाण्य—मित्यर्थः । “बुद्धा”दिस्मृतयस्तु वेदनिन्दितैर्म्लेच्छादिभिः परिगृहीता न त्वार्यैरिति न ताः प्रमाणं भवितुमर्हन्तीत्यर्थः । “द्रष्टवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः ।” य एव वेदस्य द्रष्टारोऽनुष्ठातारश्च तदर्थस्य, त एवेतिहासादीनां प्रवक्तारः “प्राचेतसकृष्णद्वैपायनमनु”प्रभृतयः । अपि च वैदिकानि कर्माणि स्मार्तीमितिकर्तव्यतामपेक्षन्ते, स्मार्तानि च वैदिकानि मन्त्रादीनि । सर्वमेतदप्रामाण्ये धर्मशास्त्राणां नोपपद्यते । यद्यपि च “कृष्णद्वैपायना”दयोऽपि175 धर्मज्ञानवैराग्यैश्वर्यसम्पन्नतया अनुभूयाप्युपदिशन्तीति सम्भवति, तथापि वेदमूलकत्वमेवेतिहासपुराणादीनामिति युक्तम् । तथा हि वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥

इत्यादिभिः स्ववचनप्रपञ्चैः आत्मा बोद्धा176 वेद एवार्पितस्तैरिति । अथायम् इतिहासादिगोचरोऽर्थ कस्मात्, प्रत्यक्षप्रतीतेन वेदेन नोच्यत इति तदनभिधानादवगच्छामो नूनमयमनभिमतोऽर्थो वेदानां कर्तुरिति निराकृतोऽप्ययं पुनर्निराक्रियते दार्ढ्यार्थं विषयव्यवस्थानाच्चेत्यनेन ॥ ६२ ॥

सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ ४ । १ । ६३ ॥

यदप्युक्तं क्लेशानुबन्धस्याविच्छदोदिति तद् दूषयति—“सुषुप्तस्य…अपवर्गः ॥” तद् व्याचष्टे—“सुषुप्तस्य खल्विति ।” लोकसिद्धतया सुषुप्तावस्थोदाहृता । महाप्रलयावस्थायामपि क्लेशमुक्ता एवात्मानः, केवलमसौ न लोकसिद्धेति नोदाहृता । एतावांस्तु मुक्तावस्थाया विशेषः यदस्यां क्लेशवासनापि नास्ति । सुषुप्तावस्थायां प्रलयावस्थायां च क्लेशविच्छेदेऽपि तद्वासनास्तीति ॥ ६३ ॥

न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ४ । १ । ६४ ॥

यदपि प्रवृत्त्यनुबन्धादिति तत्राह—“न प्रवृत्तिः…हीनक्लेशस्य177 ॥” तद् व्याचष्टे—“प्रक्षीणेषु रागद्वेषमोहेषु सती” अपि प्रवृत्तिर्न प्रतिसन्धानाय178 । उपपादितमेतदस्माभिर्यथा क्लेशतुषावनद्धाः179 कर्मतण्डुला जन्माङ्कुराय कल्पन्ते, न केवला इत्यर्थः । शङ्कते—“कर्मवैफल्यप्रसङ्ग” इति । वैफल्ये शास्त्रस्य कर्मणां फलसाधनताप्रतिपादकस्याप्रामाण्यप्रसङ्ग इति भावः । निराकरोति—“न कर्मविपाकेति ।” विपाकः फलं तस्य प्रतिसंवेदनं भोगः ॥ ६४ ॥

न क्लेशसन्ततेः स्वाभाविकत्वात् ॥ ४ । १ । ६५ ॥

पूर्वपक्षवाद्याह—“न क्लेश…त्वात्” ॥ ६५ ॥

प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् ॥ ४ । १ । ६६ ॥

सिद्धान्त्येकदेशी ब्रूते—“प्रागु…त्वम् ॥” दध्यादेरुत्पत्तेः प्राक् क्षीरादिषु योऽभावस्तस्यानित्यत्ववदिति योजना ॥ ६६ ॥

अणुश्यामतानित्यत्ववद्वा ॥ ४ । १ । ६७ ॥

अपरस्त्“वेकदेशी” भावमेव दृष्टान्तयतीत्याह—“अणुश्यामतानित्यत्ववद् वा ॥” यदेतच्छ्यामं रूपं तदन्नस्य180 इत्यागमः । पार्थिवानां परमाणूनां श्यामतामनादिमाह, अन्नपदेन मृदोऽभिधानादिति भावः । अत्र प्रथम“मेकदेशिनं” दूषयति—“सतः खल्विति ।” द्वितीय“मेकदेशिनं” दूषयति—“अनादिरणुश्यामतेति हेत्वभावादयुक्तम् ।” अणुश्यामता कार्या पृथिवीरूपत्वात् लोहितादिवदिति प्रत्युतानित्यताहेतुरस्ति । पुरुषप्रयत्नजन्यलोहितादिरूपवैलक्षण्येन त्वस्याप्रयत्न—पूर्वकत्वमात्रेणानादित्वाभिधानमिति नागमविरोधः ॥ ६७ ॥

न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ४ । १ । ६८ ॥

तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह—“अयं तु समाधिरिति । न सङ्कल्प…रागादीनाम् ॥” चकारमनुक्तसमुच्चयार्थं व्याचष्टे—“कर्मनिमित्तत्वादितरेतरनिमित्त त्वाच्च ।” समुच्चयोऽनुक्तस्येति शेषः । तत्र सङ्कल्पनिमित्तत्वादिति विभजते—“मिथ्यासङ्कल्पेभ्य” इति । यद्यप्यनुभूतविषयप्रार्थना सङ्कल्पः, तथापि तस्य पूर्वो भागोऽनुभवोऽत्र ग्राह्यः, प्रार्थनाया रागत्वात् । तेन मिथ्यानुभवः सङ्कल्प इत्यर्थः ।

नन्वेकस्मान्मिथ्याज्ञानात् कुतः कार्यवैचित्र्यमित्यत आह—“रञ्जनीयकोपनीयमोहनीयेभ्य” इति । भव्यगेयादिषु181 पाठात् कर्तरि कृत्यः । मोहनीयः सङ्कल्पो मिथ्याज्ञानसंस्कारः । कर्मनिमित्तत्वं रागादीनां विभजते—“कर्म चेति ।” निकायेन जातिरुपलक्ष्यते । इतरेतरनिमित्तत्वं रागादीनामाह—“इतरेतरेति ।” स्यादेतत्, भवन्त्वनित्याः क्लेशाः । तथापि यदेषां निर्वर्तकं मिथ्याज्ञानं तस्य निवृत्तिहेतोरभावात् स एव क्लेशानुबन्धादपवर्गाभाव इत्यत आह—“सर्वमिथ्यासङ्कल्पानां चेति ।” अपि च “अनादिः क्लेशसन्ततिरित्ययुक्तम् । कुतः ? सर्व इमे आध्यात्मिका भावा” इति । आत्मानमधिकृत्य प्रवर्तमानाः शरीरेन्द्रियादयो भवन्त्याध्यात्मिका इति । अथ182 यद्यनादीनामपि निवृत्तिः, हन्त अनुत्पत्तिधर्मकाणामपि निवृत्तिप्रसङ्ग इत्यत आह—“न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिदिति ।” रागादिनामुत्पत्तिधर्मकाणामेव व्ययधर्मकत्वाभ्युपगमादित्यर्थः । ननु मा भूवन् मिथ्याज्ञाननिमित्ता रागादयो मिथ्याज्ञाननिवृत्तौ, ये पुनरमी कर्मनिमित्तास्तेषां कुतो निवृत्तिः ? न च कर्मनिवृत्तौ रागादिनिवृत्तिः रागादिमतः कर्मनिवृत्तेरभावात् । तस्मान्न मोक्ष इत्यत आह—“कर्म च निकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्याज्ञानरूपसङ्कल्पविघातान्न रागाद्युत्पत्तिनिमित्तं भवति ।” सर्वत्र रागादीनां मिथ्याज्ञानमेव निमित्तम् । कर्माणि तु निकायनियमेन रागादीन् प्रवर्तयन्तीति183 कर्मनिमित्तत्वमुक्तमिति भावः । ननु यथा रागादयः सत्यपि कर्मणि मिथ्यज्ञाननिवृत्त्या निवर्तन्ते, एवं सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह—“सुखदुःखसंवित्तिफलं तु भवतीति ।”

“सङ्कल्पाद्यपेक्षं184 कर्म रागादिकारणमिति ।” यज्जातीयस्य जन्मनो यत्कर्म कारणं तत् तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां कारणं भवति । चोदयति—“सुखादीनामपीति ।” यथा मिथ्याज्ञानसहायं कर्म रागादिहेतुः, एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्त्वज्ञानवतः सदपि कर्म फलकारणं न स्यादित्यर्थः । परिहरति—“न निरपेक्षत्वादिति ।” कर्माशयप्रचयं185 क्षेतुममूढोऽप्यसक्तोऽप्यद्विष्टोऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्ते इति रागाद्यनपेक्षं कर्म स्वफलं जनयति । तेनासौ फलोपभोगो न बन्धहेतुः । मूढादीनां बन्धहेतुः फलोपभोगः । स च तादृशो रागादिसहायैः कर्मभिः क्रियते, न रागादिनिरपेक्षैरित्यवदातम् ॥ ६८ ॥

॥ इत्यपवर्गपरीक्षाप्रकरणम् ॥

॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां चतुर्थाध्याये प्रथमाह्निकम् ॥


  1. “रूपं” [ज्] ↩︎

  2. “दर्शयति” [च्] ↩︎

  3. “बहुत्वं” [ज्] ↩︎

  4. “चिन्तन प्र…खल्विमे” [च्] ↩︎

  5. “नानु” [ज्] ↩︎

  6. “तत्प्र…यैव परीक्षिता इ°” [ज्] ↩︎

  7. “गुणत्वे सत्या°” [ज्] ↩︎

  8. “विशेषणं”ओम् [ज्] ↩︎

  9. “°न्न लक्षणमेतद् युक्तम्” [च्] ↩︎

  10. “ज्ञानिपिशाचस्ये°” [च्] ↩︎

  11. “अयम्” [ज्] ↩︎

  12. “अपि” ओम् [च्] ↩︎

  13. “वा” [ज्] ↩︎

  14. “४-५ सूत्रयोः मुद्रितग्रन्थस्थित टीकापाठविपर्यासः [च्] संस्करणे विशोधितः,” [ज्] मातृकापाठस्तदनुकूलः । ↩︎

  15. पा। सू। ३। ४। ६८ ↩︎

  16. “निदानोच्छेद इ°” [च्] ↩︎

  17. “कृतनाशा°” [च्] ↩︎

  18. “सार्थमप्रवृत्तिः” [च्] ↩︎

  19. “°प्रसङ्गश्च” [च्] ↩︎

  20. “प्रेत्योत्पत्ति°” [च्] ↩︎

  21. “तावत्पक्षं गृह्णाति” [च्] ↩︎

  22. “गवादीति शरीरम्” [ज्] ↩︎

  23. “च इत्यधिकम” [च्] ↩︎

  24. “°न्यस्तानि” [च्] ↩︎

  25. “तत्रेत्यधिकम्” [च्] ↩︎

  26. द्रः छान्दोग्योपनिषत् ६.२.१ ↩︎

  27. “का पुनर्भक्तिः…प्रयोग इत्यर्थ इत्यस्य पृच्छति-कः पुनः…मर्दार्थ इत्यतः प्रागुपन्यास औचित्यात् सत्यपि आदर्शविरोधे ।” [च्] पुस्तकेऽपि तथा । ↩︎

  28. “उक्तं” [च्] ↩︎

  29. “किं तु” [च्] ↩︎

  30. “को नु…भेद इति” [च्] ↩︎

  31. “शक्तियुक्तानि” [च्] ↩︎

  32. “पाकजादीनां” [च्] ↩︎

  33. छान्दोग्योपनिषत् ६.२.२ ↩︎

  34. “°दिभावेन” [च्] ↩︎

  35. “°मोऽपि” [ज्] ↩︎

  36. महाभाष्यम् १.१.१ ↩︎

  37. छान्दोग्योपनिषत् ६.२.३ ↩︎

  38. “प्रकृतिर्वा” [ज्] ↩︎

  39. “निष्फलं विद्वान्” [च्] ↩︎

  40. “अपरिणामः” [ज्] ↩︎

  41. “रूपविशेषाग्रहे” [च्] ↩︎

  42. “ब्रह्म…त्वं च”ओम् [ज्] ↩︎

  43. “°निर्माणफलमिति” [च्] ↩︎

  44. “पितुरप°” [ज्] ↩︎

  45. “सुकृते…वश्यं” [ज्] ↩︎

  46. “धृत्यात्मवृत्ति° [च्] ,” [ज्] ओमित्स् एइथेर् ↩︎

  47. “शरीर्यन्तरमित्यर्थः” [च्] ↩︎

  48. “तददूषि°” [च्] गुण्डितरूषिते—अमरकोशः । ↩︎

  49. “एतावदभिप्रेत°” [च्] ↩︎

  50. “ये खलु” [च्] ↩︎

  51. “चक्षुराद्यनु°” [च्] ↩︎

  52. “दृष्टाः” [ज्] ↩︎

  53. “तदितरत्रापि” [च्] ↩︎

  54. “°शरीरादि°” [च्] ↩︎

  55. “कार्यान्तरोत्पा°” [च्] ↩︎

  56. “कल्पनया [च्] कल्पनायां” [ज्] ↩︎

  57. “एकमेवालौकिकं” [ज्] ↩︎

  58. “परिहृतम्” [च्] ↩︎

  59. “बुद्धिमद्भावाभावं” [च्] ↩︎

  60. “सद्भावासद्भावानु°” [च्] ↩︎

  61. “°केतुना°” [च्] ↩︎

  62. “चेतनहेतुत्वं” [ज्] ↩︎

  63. “ज्ञानमात्र°” [ज्] ↩︎

  64. “अतिपत्यापि” [ज्] ↩︎

  65. “पक्षः” [च्] ↩︎

  66. “°त्त्वव्यतिरेकेण” [च्] ↩︎

  67. “वेदितव्यौ” [च्] ↩︎

  68. “व्यतिरेकिद्वितीयनाम्नो विशेष°” [ज्] ↩︎

  69. “तनुभुवनाद्यभिज्ञः” [च्] ↩︎

  70. बृह° उप° ३।८।९ ↩︎

  71. ऋ। वे। १०। ८१। ३ ↩︎

  72. छान्दो° उप° ६।२।३ ↩︎

  73. महाभारते ३।३०।२८ ↩︎

  74. श्वेता° उप° ३।१९ ↩︎

  75. “संस्थानवत्त्वात्” [ज्] ↩︎

  76. “निमित्तवत्त्वमिति” [च्] ↩︎

  77. “उद्भाव्य” [च्] ↩︎

  78. “वाङ्मात्रादसिद्धेरिति” [च्] ↩︎

  79. “°गतावनित्यतायोगाद् घटादि भवत्व°” [च्] ↩︎

  80. “°सिद्धिवत्” [ज्] ↩︎

  81. “°णाग्रहणवि°” [च्] ↩︎

  82. “°धर्माध्यासयो°” [च्] ↩︎

  83. “सर्वस्य च इति या वाक्येन प्रति°” [ज्] यावदद्येन प्रतिपाद्यत इति च प्रतीकद्वयं वार्त्तिके नोपलभ्यते । ↩︎ ↩︎

  84. “°भेदान्नित्याः” [च्] ↩︎

  85. “विशेष्यतः” [ज्] ↩︎

  86. “अत्र पाठक्रमविपर्ययः [ज्] पुस्तकेऽपि । स” [च्] पुस्तकानुसारं विशोधितः । ↩︎

  87. आधाराधेयभावेनेति प्रतीकस्य ३५ सूत्रवार्तिके दर्शनात् स्यादेतदित्यादि अभिमतसिद्धिरित्यन्ताटीकाखण्डोऽपि तत्सूत्रटीकायां सन्निविष्टः । ↩︎

  88. “समूहे भेद°” [च्] ↩︎

  89. “°मेवं” [च्] ↩︎

  90. “°ऽल्पोऽल्पतर इति” [च्] ↩︎

  91. “समूह” [ज्] ↩︎

  92. “उक्तार्थदर्श°” [च्] ↩︎

  93. “एतदनेकमभिमतं त्याज्यम्” [ज्] ↩︎

  94. “अभिमानस्या°” [ज्] ↩︎

  95. “स्वाभावाद्” [ज्] ↩︎

  96. “तस्य सिद्धेः अथवा” [ज्] ↩︎

  97. “°सिद्धेः” [च्] ↩︎

  98. “°पेक्षं” [ज्] ↩︎

  99. “°पेक्षं…रक्तत्वमित्याक्षेपार्थः” [च्] ↩︎

  100. “ब्रह्यतत्त्वसमीक्षायाम्”ओम् [ज्] ↩︎

  101. “°क्षोत्पत्तिका” [च्] ↩︎

  102. “सः” [च्] ↩︎

  103. “°वस्थितानि°” [च्] ↩︎

  104. “एवास्य” [च्] ↩︎

  105. “रूपाभावः” [ज्] ↩︎

  106. “ज्ञानेन्द्रियं ग्रा°” [च्] ↩︎

  107. “विशेषात्” [च्] ↩︎

  108. “°माश्रित्य” [च्] ↩︎

  109. “ज्ञेयान्नातिरिच्यते” [च्] ↩︎

  110. “नाश्रीयते” [च्] ↩︎

  111. “°क्तोऽप्यर्थो विषयः” [च्] ↩︎

  112. “निरासाव°” [च्] ↩︎

  113. “इति देशिते तोयम्” [च्] ↩︎

  114. “°वनिराकृ°” [च्] ↩︎

  115. “°त्यूहमुत्पद्येत” [च्] ↩︎

  116. “अयं प्रमाता” [ज्] ↩︎

  117. “शक्तस्तयोर्भेदं” [ज्] ↩︎

  118. “नास्मि°” [ज्] ↩︎

  119. “भेदाद्” [ज्] ↩︎

  120. “अप्यपहृतार्था” [च्] ↩︎

  121. “न”ओम् [ज्] ↩︎

  122. “कस्मात् साध्यमेव न हेतुः” [ज्] ↩︎

  123. “°पङ्क्त्यादि°” [च्] ↩︎

  124. “पङ्क्ति°” [च्] ↩︎

  125. “सुखं स्वर्गप°” [ज्] ↩︎

  126. “°दिकमुच्यते” [च्] ↩︎

  127. ४७ तमसूत्रीयष्टीकाभागः ४४तमसूत्रीयटीकायां न सद्यः कालान्तरोपभोग्यत्वादित्यतः परम्, वार्त्तिकं सद्यस्तापादिफलेत्यतः पूर्वं मातृकासु प्रक्षिप्तम् । तत्तु न सम्यक् । अनवसिते ४४तमसूत्रटीकाभागे ४७तमसूत्रटीकासन्निवेशस्यानौचित्यात् । ↩︎

  128. “न्यायभाष्य” [ज्] उसेस्“निष्पत्ति”ड़ोर्“उत्पत्ति”हेरे। बुत् थेटीका [ज्] उसेस्“उत्पत्ति°” ↩︎

  129. “विनश्यति” [ज्] ↩︎

  130. “आदि”ओम् [च्] ↩︎

  131. “जायते” [ज्] ↩︎

  132. “पदार्थान् [च्] , पटार्थी [च्] ” [व्] ↩︎

  133. “वीरणकटार्थो” [च्] ↩︎

  134. “तत्र उपा°” [ज्] ↩︎

  135. “वीरणानीत्य°” [ज्] ↩︎

  136. “°दुपपद्यत°” [च्] ↩︎

  137. “°मितीदं नेदमिदानीं नेद°” [च्] ↩︎

  138. “मिति । तत्र” [च्] ↩︎

  139. “कारणत्वम°” [च्] ↩︎

  140. “समानत्वं” [ज्] ↩︎

  141. “नासत्त्वे न सत्त्वे°” [च्] ↩︎

  142. “भावेऽपि” [च्] ↩︎

  143. “°द्धत्वादेव” [ज्] ↩︎

  144. “अवान्तरवि°” [ज्] ↩︎

  145. “°प्रतिपत्त्य°” [ज्] ↩︎

  146. “°कारणादिति” [च्] ↩︎

  147. “°वच्छिन्ना” [च्] ↩︎

  148. “°न्तराद् वा” [च्] ↩︎

  149. “पूर्वापरकालमात्रा°” [च्] ↩︎

  150. “°स्थायिनां” [च्] ↩︎

  151. “व्यावृत्तात्मा” [च्] ↩︎

  152. “अदृष्टान्तः” [ज्] ↩︎

  153. “स्वर्गोप°” [च्] ↩︎

  154. “न तु स्वरूपं” [च्] ↩︎

  155. “दुःखपरीक्षणम्” [च्] ↩︎

  156. “दुःखहानमि°” [च्] ↩︎

  157. “उत्पत्तिः” [च्] ↩︎

  158. “ऋषिणा” [ज्] ↩︎

  159. “°ते ऋषिणा” [च्] ↩︎

  160. “निवर्त्स्यति°” [च्] ↩︎

  161. “°पात्रं” [ज्] ↩︎

  162. “परम्परायामप°” [च्] ↩︎

  163. “जातमात्रस्यैवानधि°” [च्] ↩︎

  164. “मोक्षावसरस्तदपाकृतं भवति” [च्] ↩︎

  165. जै। सू। ३.१.६ ↩︎

  166. “जात्वस्य” [च्] ↩︎

  167. “विधित्वं” [च्] ↩︎

  168. “अभिप्रायः” [ज्] ↩︎

  169. “सम्भवति विषये ” ड़ोर् “स च निर्विषयो” [च्] ↩︎

  170. “°त्नस्य निर्वृणोति यावदुपायो” [च्] ↩︎

  171. “कथमेनं” [ज्] ↩︎

  172. “जायमान°” [च्] ↩︎

  173. गौतमधर्मसूत्रे १। ४। ३५ ↩︎

  174. “प्रतिषिध्यन्ते” ड़ोर् “चातु…ध्येत ” इन् [च्] ↩︎

  175. “मन्वादयोऽपि” [च्] ↩︎

  176. “बद्ध्वा” [ज्] ↩︎

  177. “°स्यदेहिनः” [च्] ↩︎

  178. “स्वप्रति°” [च्] ↩︎

  179. “दोषतुषा°” [च्] ↩︎

  180. द्रः छान्दोग्योप° ६। ४ ↩︎

  181. च्ड़् पाणिनिसू° ३। ४। ६८ ↩︎

  182. “ननु” [ज्] ↩︎

  183. “°र्तन्त इति” [ज्] ↩︎

  184. वार्त्तिकमित्यादिकर्मार्थत्वादिति सन्दर्भोऽर्थसङ्गत्यनुसारं ५९४-५ पत्रयोः सन्निवेशितः । ↩︎

  185. “°शयप्रपञ्चमुच्छेत्तु°” [च्] ↩︎