०२

तृतीयाध्याये द्वितीयाह्निकम्

बुद्ध्यनित्यताप्रकरणम्

कर्माकाशसाधर्म्यात् संशयः ॥ ३ । २ । १ ॥

“परीक्षितानीन्द्रियाण्यर्थाश्च, बुद्धेरिदानीं परीक्षाक्रमः ।” क्रमः स्थानम् । वृत्तवर्तिष्यमाणानुकीर्तनं हेतुहेतुमद्भावज्ञापनार्थम् । अर्थेन्द्रियपरीक्षा च बुद्धिपरीक्षायां1 यथोपयुज्यते तथा बुद्धिपरीक्षायामेव स्फुटीभविष्यति । “कर्मा…यः ॥” संशयमाक्षिपति—“अनुपपन्नरूप” इति । यद्युपलभ्यमानज्ञानविषयः संशयः, सोऽनुपपन्नः । “साङ्ख्या”नामपि तदनित्यत्वस्याभिमतत्वात्2 । अथ “साङ्ख्या”भिमतमहत्तत्त्वबुद्धिविषयः, तस्य सत्त्व एव विप्रतिपत्तिरिति कुतस्तद्गतधर्मविचारः ? सति धर्मिणि धर्माश्चिन्त्यन्ते न सन्दिग्धसत्त्व इति भावः ।

समाधत्ते—“दृष्टिप्रवादेति । साङ्ख्यानां” हि दर्शने प्रवादो महदन्तःकरणं बुद्धिरिति । तदुपालम्भार्थं दूषणार्थं प्रकरणमिति । अयमभिप्रायः, नेह नित्यानित्यविचारः प्रधानतः, अपि त्वनया द्वारा वृत्तेरतिरिक्ता “साङ्ख्या”भिमता बुद्धिर्निराक्रियते । सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण । यदि हि नित्या बुद्धिः स्यात्, ततो वृत्तिभ्य उदयव्ययवतीभ्योऽतिरिक्तं महत्तत्त्वमन्तःकरणं स्यात् । अथ तु नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वस्येशते, ततो वृत्तय एव बुद्धयो न तु तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् इति बुद्धेर्लक्षणम् । तथा चास्य लक्षणेन सङ्गतिः, इतरथा तु प्रधानतो नित्यानित्यत्वविचारो न लक्षणेन सङ्गच्छेत इति ॥ १ ॥

विषयप्रत्यभिज्ञानात् ॥ ३ । २ । २ ॥

साधनं च प्रचक्षते—“विष…नात् ॥” इति । वृत्तिमान् किल विषयं प्रत्यभिजानन्नात्मानमपि प्रत्यभिजानाति । न च चेतनो वृत्तिमान् तस्य कूटस्थनित्यत्वात् अन्यथा पूर्वापरावस्थाभेदवान् न कूटस्थनित्यः स्यात् । परिणामिनित्या तु बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः ॥ २ ॥

साध्यसमत्वादहेतुः ॥ ३ । २ । ३ ॥

सिद्धान्त्याह—“साध्य…तुः ॥” इति । वृत्तयो हि वृत्तिमतो भिन्नाः । तेन तासामनित्यत्वेऽपि न वृत्तिमान् कौटस्थ्यात् च्यवेत । तथा च प्रत्यभिज्ञातात्मैव प्रत्यभिज्ञानान्नित्यः सिध्यति, न त्वन्तःकरणं बुद्धिसञ्ज्ञकम् । न हि तत्प्रत्यभिज्ञाने प्रकाशत इत्यर्थः ।

“क्रियानाधारत्वाच्च करणस्येति ।” प्रधानक्रियानाधारः करणम् । प्रधानक्रियाचेयमुपलब्धिः । अतो3 यदाधारा सा प्रतीयते स कर्ता न करणम् । तथा च प्रतत्यभिज्ञानाद्युपलब्ध्या तदाधारः कर्ता आत्मा सिध्यति नित्यो नान्तःकरणमित्यर्थः4 । क्रियामात्राभिमानेन च शङ्कते—“स्वक्रियेति5 ।” प्रधानक्रियामालम्ब्य निराकरोति—“सत्यं भवतीति ।” ननु यदि भेदविवक्षया कर्त्रादिशब्दप्रवृत्तिरभेदविवक्षायां च कारकशब्दप्रवृत्तिः । कथं तर्हि कर्ता कारकं करणं कारकमित्यादिसामानाधिकरण्यं भेदाभेदविवक्षयोर्विरुद्धार्थत्वादित्यत आह—“कारकशब्देनापीति ।” नाभेदविवक्षा विशेषाणां किन्तु सामान्यविवक्षा, भिद्यत इति भेदः, न भेदोऽभेद इति सामान्यस्याभिधानात् । तथा च सामान्यविवक्षया प्रवृत्तः शब्दस्तद्भेदाभिधानाद् भेदवाचिना सामानाधिकरण्यं प्रतिपद्यमान इतरेतरव्यावृत्ते विशेषेऽपादानादौ प्रवर्तते, अन्यस्य कारकविशेषस्य कारकशब्देन सामानाधिकरण्यासम्भवात् । “पूर्ववदिति” द्वितीयाध्यायोक्तं6 कारकविशेषलक्षणं स्मारयति । चोदयति—“यद्यन्यकारकेति ।” कारकाणामुपादानेन खलु प्रवर्त्तितः कर्त्ता कारकाण्युपादत्ते । तस्मादितराप्रयोज्यत्वमस्यासिद्धमित्यर्थः । परिहरति—“न प्रयुज्यते फलस्य प्रयोजकत्वादिति ।” नाप्रयोज्यमात्रं7 कर्तारं ब्रूमः । अपि तु कारकाप्रयोज्यम् । न च फलं कारकमित्यर्थः ।

“उपेत्य प्रत्यभिज्ञानमन्तःकरणे तस्येति ।” प्रत्यक्षं चेत् प्रत्यभिज्ञानं नैकत्वे किं त्वनुमानम् । ततो यद् यत् प्रत्यभिज्ञायते तत् तदेकमिति न निदर्शनमस्ति । न हि तस्यैकत्वमन्यतो निश्चितमतः प्रत्यभिज्ञानात् । नाप्यनेकत्वं दृष्टम् । तथा चासाधारणतया हेत्वाभास इत्यर्थः । “प्रत्यभिज्ञानस्वरूपावधारणे च सति” विरुद्धः हेत्वाभासो बुद्ध्यनित्यत्वसाधनादिति । शेषं निगदेनैव व्याख्यातम् । चेतनाध्यवसायाभेदश्च बुद्धिलक्षणेऽस्माभिर्विचारितः8 ॥ ३ ॥

न युगपदग्रहणात् ॥ ३ । २ । ४ ॥

वृत्तिमतोऽवस्थानाद् वृत्त्यवस्थानप्रसङ्ग इति “सूत्रार्थः” ॥ ४ ॥

अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥ ३ । २ । ५ ॥

क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ३ । २ । ६ ॥

अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ ३ । २ । ७ ॥

न गत्यभावात् ॥ ३ । २ । ८ ॥

आक्षेप्तुर्वचनम्—“ममाप्येवं कस्मान्नेति ।” समाधातुर्वचनम्—“न, करणभेदे दृष्टत्वादिति ।” करणभेदे हि सत्येकस्य कर्तुर्युगपदनेकं कार्य दृष्टम् । “साङ्ख्यानां” चान्तःकरणं कर्तृ व्यापकं चेति सर्वेन्द्रियव्यापकेनान्तःकरणेनाधिष्ठितानीन्द्रियाणि युगपदेव कार्याणि कुर्युः । अस्माकं त्वन्तःकरणस्य करणत्वादेकेन्द्रियग्राह्येऽपि न युगपत् कार्योत्पाद इति विशेषः ।

“गत्यभावाच्च प्रतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते” इति “भाष्य”स्य गत्यभावाच्च विभुनोऽन्तःकरणस्येति प्रतीकमनूद्य तस्यार्थमाह—“प्राप्त्यर्थस्य गमनस्याभावादिति । नायुगपत्प्रत्ययोत्पत्तौ प्रमाणमस्ति येन प्रमाणेन प्रतिषिद्धमपि प्रत्यययौगपद्यं9 प्रतिपद्येत ।” तस्माद् विभुन्यन्तःकरणेऽवश्यम्भावि प्रत्यययौगपद्यम् । न चैतद् दृष्टम् । तस्मादन्तःकरणमण्वित्यर्थः । ननु दीर्घां शष्कुलीं भक्षयतः पञ्चानामपि ज्ञानानां युगपदुत्पादो दृष्ट इति कोऽयं10 प्रसङ्गः ? अन्तःकरणस्य विभुत्वे युगपदुत्पादः प्रसज्येतेत्यत आह—“न च युगपत्प्रत्ययोत्पत्ताविति ।” अतिशीघ्रतया युगपदुत्पादाभिमानो न तु तत्र यौगपद्यं भाविकमित्यर्थः ।

“पुरुषो जानीते नान्तःकरणमिति” स्वमतसमाधानपरं “भाष्यं” व्याचष्टे—“यस्य पुनर्वृत्तिवृत्तिमतोरिति ।” यदपि “साङ्ख्या” आचख्युर्विषयान्तरव्यासक्तेऽन्तःकरणे चक्षुरादिसम्बन्धस्याप्यज्ञानादन्तकरणवृत्तिर्ज्ञानमिति तन्निराकरणपरं “भाष्यम्—एतेन विषयान्तरव्यासङ्ग” इति । तदनुभाष्य “वार्त्तिककारो” व्याचष्टे—“एतेनेति ।” तत्रैतेनेत्यस्योपजीव्यार्थमाह—“पुरुषो जानीते नान्तःकरणमिति हेतुना विषयान्तरव्यासङ्गः” अन्तःकरणस्य “प्रत्युक्तः ।” व्यासक्तो हि स भवति यो जानीते । न चान्तःकरणं जानीते किन्तु पुरुष इति तस्येदृशो व्यासङ्गो नान्तःकरणस्य, अन्यादृशस्त्वन्तःकरणस्य व्यासङ्गो न निषिध्यत इत्यर्थः ॥ ८ ॥

स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥ ३ । २ । ९ ॥

चोद्य“भाष्यम्—एकमन्तःकरणं नाना वृत्तय” इति । तद् व्याचष्टे—“एकमन्तःकरणं नानावृत्तय इति नैतदिति ।” सम्यगाचष्टे जानीते “सञ्चक्षाणकः साङ्ख्यः ।” सङ्ख्या हि समीचीना बुद्धिः, तया वर्तते इति “साङ्ख्यः ।” एतदुक्तं भवति—यद्यपि वृत्तयो नाना प्रतिभान्ति, तथापि भ्रान्तिरियमन्तःकरणादेकस्मादभिन्नानां नानात्वानुपपत्तेः । तस्मात् स्फटिकस्य यथैकस्यापि तापिच्छजपाकर्णिकारादिकुसुमोपधानभेदाद् भेद औपाधिकः, एवमन्तःकरणमणेरपि स्वच्छस्येन्द्रियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वम्, वृत्तिरिति च प्रत्यय इति ज्ञानमिति चाख्यायते इत्यर्थः ।

तदेतद् दूषयति—“स्फटि…नः ॥ नानेकान्तादिति ।” योऽपि वृत्तीनामौपाधिकं भेदमाह, तेनाप्युपाधयोऽर्था आजानतो भिन्ना वक्तव्याः । तथा च भेदस्य द्विधा दर्शनादनेकान्तो दृष्टान्तो नैकार्थस्य साधकः ।

“न हेत्वभावादिति भाष्यं” व्याचष्टे—“यथाश्रुति सूत्र” इति । न केवलं साधनाभावः, बाधकं चात्रास्तीत्याह—“विकल्पानुपपत्तेश्चेति ।” न परपक्षस्य प्रतिषेधमात्रेण स्वपक्षसिद्धिरस्तीत्याशयवान् पृच्छति—“अथ भवताम्” इति । उत्तरम्—“ज्ञानानां क्रमेणेति ।” स्यादेतत् । प्रत्ययनानात्वाभिमानो भविष्यति हेतुरेकत्वे वृत्तीनाम् । एकत्वं वृत्तीनां प्रत्ययनानात्वाभिमानविषयत्वात् स्फटिकवदिति । तस्मान्न हेत्वभाव इत्यत आह—“एकानेकविषयत्वाच्च प्रत्ययनानात्वाभिमानस्य एकानेकविषयाधिगतिः कथमिति ।” नानात्वाभिमानोऽपि दृष्टान्तवदसाधकोऽनैकान्तिकत्वात् । तदेवमन्तरा परकीयामाशङ्कां निराकृत्य पुनरपि वृत्तिभेदं साधयति—“यश्चायमभिन्न” इति । यद्यर्थोपधानभेदात् प्रत्ययेषु भेदो नाजानतः, तत एकस्मिन्नर्थे न प्रत्ययभेदः प्रथेतोपधानभेदाभावादित्यर्थः11 । कश्चिद् देशयति—“स्फटिक” इति । परिहरति—“न नैरन्तर्यदर्शनादिति ।” नीलीद्रव्यलेपस्यापि सान्तरत्वं नीलः स्फटिक इति साक्षात्कारानुमेयमिति भावः । इतोऽपि प्रत्ययभेद इत्यत आह—“यस्य च प्रत्ययाभेद” इति । प्रमाणस्य करणस्य भेदः प्रत्ययलक्षणकार्यभेदोन्नेयो नासति प्रत्ययभेदे भवितुमर्हति । शङ्कते—“विषयभेदादिति ।” एतदुक्तं भवति, प्रातिस्विको हि भेदो विषयाणां यदि प्रमाणभेदहेतुः हन्तैतस्यानन्त्यात् प्रमाणानामनन्तो भेदः स्यात्, न तु त्रित्वम् । तस्मादवान्तरसामान्यं विषयाणामास्थेयम् । न च तदपि स्वरूपमात्रनिष्ठं विषयाणां सम्भवति, एकस्मिन्नपि विषये प्रमाणानां सम्प्लवात् । तस्मात् प्रत्ययभेदोपहितसीमानो12 विषयास्त्रित्वे व्यवतिष्ठमानाः प्रमाणान्यपि त्रित्वे व्यवस्थापयन्ति । सामग्रीत्रयान्वयव्यतिरेकानुविधायिनश्च प्रत्ययास्त्रयो भवन्ति । तथा च त्रिविषयत्वात् प्रमाणानि त्रीणि । तदिदमुक्तम्—“विषयभेदादिति ।” निराकरोति—“तन्नेति । प्रमाणाभेदे” सामग्रीत्रयाभेदे तदनुविधायिनां प्रत्ययानामभेदात् । न हि प्रत्ययभेदमन्तरेण सामग्रीभेदः शक्यो विज्ञातुम् । तस्मात् प्रत्ययसामग्र्यभेदेऽपि विषयभेदानधिगतेर्न विषयभेदस्त्रित्वाधिगमोपायः13 प्रत्ययभेदमन्तरेणेति । शङ्कते—“विषयतादात्म्यादिति चेत् ?” प्रत्ययप्रत्येतव्ययोरभेदादुपपन्नः प्रत्येतव्यभेदप्रथा14 इत्यर्थः । निराकरोति—“तन्नेति ।” अपि च प्रत्ययाभेदे प्रकारवत्त्वाभावाद् “यथाध्यवस्यति” बुद्धिः तथा “चेतयते” पुरुष इति व्याघातः । कुतः—“अप्रकारवत्त्वात् ।” भिन्नो हि प्रकारवान् भवति नाभिन्न इत्यर्थः । अन्तःकरणस्य बुद्धेः प्रत्ययानामभेदे “बुद्धिस्थं15 प्रत्ययमुपलभत इति विरोध” इति ॥ ९ ॥

॥ बुद्ध्यनित्यताप्रकरणम् ॥

औपोद्धातिकं क्षणभङ्गप्रकरणम्

स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥ ३ । २ । १० ॥

तदेवं स्वमतेन “साङ्ख्य”पक्षं दूषयित्वा “बौद्धै”स्तु यत् “साङ्ख्यीये” राद्धान्ते दूषणमभिहितं16 तद् दूषयितुं “बौद्ध”मतमुपन्यस्यति—“स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमान इत्येतदमृष्यमाणः17 क्षणिकवाद्याहेति स्फटि…तुः ॥” यत् सत् तत्सर्वं क्षणिकं यथा शरीरं तथा च स्फटिक इति जरन्तो “बौद्धाः ।” शरीरस्य च कालपरिपाकवशेन स्थौल्यस्य ह्रासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणतिभेदोऽनुमीयते स चान्तरा विनाश एवेति । यस्यापि स्फटिकादेस्तादृशं स्थौल्यं वा ह्रासो वा न दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयेते इति ।

स्यादेतत् । यदैवोपचयापचयौ शरीरस्य दृश्येते तदैवोत्पादविनाशौ भविष्यतः, पूर्वं च तत्प्रबन्धकल्पनायां किं प्रमाणमित्यत आह—“यस्य खलु प्रतिक्षणमिति ।” अस्य प्रयोगः, “प्रतिक्षणं शरीरम् अन्यच्चान्यच्चेति ।” पटस्य हि कुङ्कुमादिद्रव्यसंयोगे सत्यन्तेऽरूणिमलक्षणो विशेषो दृश्यते । न चास्यारुणिमा प्रतिक्षणभावीत्यत उक्तम्—“बाह्यप्रत्ययाभेदे सतीति ।” अभिन्नो हि शरीरोपचयहेतुः प्रतिदिनमुपयुज्यमानोऽन्नपानप्रचयो यथा पाकजोत्पत्तावौष्ण्यापेक्षो वह्निसंयोगः, बाह्यः प्रत्ययः कारणम्, पटे तु रागोत्पत्तौ कुङ्कुमादिद्रव्यसंयोगः साम्प्रतिको विशिष्ट इत्यर्थः ॥ १० ॥

नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥ ३ । २ । ११ ॥

सिद्धान्त“सूत्रम्—निय…ज्ञा ॥” तदेतद् व्याचष्टे—“तदिदमुपचयापचयेति ।” न हि धूमदर्शनानुमितो वह्निः क्वचित् पर्वत18 इत्यदृश्यमानेऽपि धूमे पर्वतत्वमात्रेण पर्वतान्तरेऽपि वह्निमनुमिन्वते अनुमातार इत्यर्थः । शङ्कते—“यत्रोपलब्धिरिति ।” क्षणिकत्वं पूर्वापरभागविकलकालकलामात्रावस्थायित्वम् । न च तादृशं क्षणिकत्वं “नैयायिकानां” क्वचिदपि सम्मतमिति न सिद्धसाधनमित्यर्थः । निराकरोति—“सत्यमिति ।” कस्मात् पुनरस्मदभिमतैव क्षणिकता न सिध्यत्युपचयापचयप्रबन्धदर्शनादित्यत आह—“उपचयापचयप्रबन्धदर्शनं चान्यथाभवदिति ।” चो हेत्वर्थः । शङ्कते— “तुल्यमिति ।” निराकरोति—“नासाधनादिति ।” एकान्तनिश्चयं विना न साधनम्, दूषणं तु सन्देहापादनेनापीति सोऽयं साधनदूषणयोर्विशेष इत्यर्थः ॥ ११ ॥

नोत्पत्तिविनाशकारणोपलब्धेः ॥ ३ । २ । १२ ॥

उत्तर“सूत्र”मवतारयति—“अथावश्यं साधनं वक्तव्यमिति । नोत्प…ब्धेः ॥” उत्पत्तिविनाशकारणं ज्ञापकम् । अवयवोपचयापचयौ न क्षणिकपक्षे युज्येते निरन्वयोत्पादविनाशयोरुपचयापचयप्रत्ययाभावादिति । “उपचयापचयोत्पत्तिविनाशकारणोपलब्धेरिति ।” उपचयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयः ।

उत्पत्तिविनाशकारणोपलब्धेरित्यस्य व्याख्यानान्तरमाह—“अथ वा कारणमिति ।” समवायिकारणं हि कार्यात् पूर्वं च कार्यकाले चेति लोकसिद्धम् । तच्चैतत् क्षणिकत्वेऽनुपपन्नमित्यर्थः । “एककालानुभाविनी,” अनुभवः प्राप्तिः एककालप्राप्ते इत्यर्थः । भिन्नलोकमर्यादः शङ्कते—“आधाराधेयभावस्येति ।” निराकरोति—“नानेकान्तात् ।” भवतामपि राद्धान्ते रूपं सप्रतिघं कार्यमाधारवच्च19 । यदि तु रूपमप्यनाधारं मनुषे, ततस्ते स्वसिद्धान्तव्याकोप इत्याह—“स्पर्शस्तदाश्रय इति च व्याघात” इति । सर्वं तदेककालानुभावि सिद्धं भवतीति । शङ्कते—“सिद्धः” “कार्यकारणभावः क्षणिकेष्वपीति” कार्यस्यानाधारत्वप्रसङ्गे । न हि क्षणिकत्वे कार्यकारणभावो न सिध्यति । स तु सिद्धः क्षणिकत्वपक्षेऽपि कारणविनाशसमकालत्वेन कार्योत्पादस्य कार्यकारणयोः समानकालत्वादित्यर्थः । निराकरोति— “न हेत्वर्थापरिज्ञानादिति ।” एतावता प्रयासेन त्वया कार्यकारणभावः क्षणिकानां समर्थ्यते । न चायमक्षणिकत्वे हेतुः । अपि त्वाधाराधेयभावः, स चायमशक्यसाधनः । को नु खल्वयं कारणविनाशः कारणाभावो वा, विनाशकारणसान्निध्यं वा ? पूर्वस्मिन् कल्पे कार्यकारणयोः कुतः समानकालता ? उत्तरस्मिन्नप्युत्पन्नस्य पश्चाद् विनाशकारणसान्निध्येऽपि कुतः सतः क्षणिकता ? न चोत्पद्यमानताविनश्यत्तयोस्तुल्यकालत्वमनुभवविरोधात् । कार्यस्य च तदैवोत्पद्यमानत्वे कार्यकारणभावाभावः सव्यदक्षिणशृङ्गवदिति भावः । अपि च दृष्टान्तोऽपि साध्यविकल इत्याह— “तुलाधारस्येति ।” ये अवयवकर्मणी नामोन्नामौ न तयोः कार्यकारणभावः, यत् त्ववयविकर्म न तत्र यौगपद्यं नापि कार्यकारणभाव एकत्वादित्यर्थः । “गुरुत्वप्रयत्नसंयोगा उन्नतेरिति ।” विधारकः प्रयत्नस्तुलाधारस्य, तदपेक्षः संयोगः संयुक्त संयोगो गुरुत्वं च तत्संयुक्तावयवान्तरवर्तिकारणमुन्नतेस्तुलावयवस्य, अवनतेरपि द्रव्यं गुरुत्ववत्सुवर्णादि परिमीयमाणं तत्संयोगानुगृहीतो रज्जुतुलासंयोगः कारणम् ॥ १२ ॥

क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः ॥ ३ । २ । १३ ॥

लिङ्गतो ग्रहणान्नानुपलब्धिः ॥ ३ । २ । १४ ॥

चोदयति—“न नास्ति शीतोष्णस्पर्शभेदस्येति ।” परिहरति—“स तु निमित्तान्तरादिति ।” पुनश्चोदयति—“अप्तेजोऽवयवानुप्रवेशो न युक्त” इति । “स्वगता महाभूतविशेषाः” तदवयवाः पृथिव्यादयः । ते हि परस्परतो विशिष्यन्त इति विशेषाः । परिहरति—“न युक्तमिति ।” यदि प्रतिक्षणमन्यत्वमात्रैण विशेषस्ततः काष्ठक्षणानामपि भूम्यश्मलोहवद्विशेषोपलम्भः स्यात् । यथा हि काष्ठाक्षणादकस्माल्लोहादिक्षणा भिद्यन्ते एवं काष्ठक्षणान्तराण्यपि । तस्मात् पार्थिवत्वेऽपि स्वमतौ विशेषाविशेषावास्थेयौ20 यतो भूम्यश्मादिभ्यो व्यावर्तन्ते, न व्यावर्तन्ते च काष्ठक्षणान्तरेभ्यः काष्ठक्षणाः । तस्मादेव विशेषादक्षणिकत्वेऽपि काष्ठभूम्यश्मलोहानामुपपन्न उत्तरोत्तरो विशेष इति वृथा क्षणिकत्वकल्पनेति ।

“असाधनं भूतस्वभावः” क्षणिकत्वसिद्धावित्यर्थः । दूषणान्तरमाह—“विरुद्धश्चायं हेतुः” उत्तरोत्तरविशेषदर्शनादिति । भवतां21 किल भूतानामन्योन्यव्यावर्तकं लक्षणं खरस्नेहोष्णेरणात्मकानि भूतानीति । खरा पृथिवी स्नेह उदकम् उष्णं तेजः ईरणं समीरणो गतिमानिति यावत् । तथोत्पादे तु काष्ठ भूम्यश्मलोहानामङ्गीक्रियमाणे एकमेव खरोष्णं22 खरोष्णेरणात्मकं स्यादिति सङ्कीर्णत्वाद् भूतलक्षणव्याघात इति । “कठिन”मिति खरां पृथिवीमुपलक्षयति । अस्मत्पक्षे तु न व्याघात इत्याह—“यस्य पुनरिति ।” न केवलं पृथिव्यादिलक्षणेन विरुध्यते, अपि तु शीतोष्णस्पर्शभेदेन नानात्वस्य साधनेन पूर्वोक्तेनापीत्याह—“विरुद्धश्चायमिति ।” पृच्छति—“कथम् ?” उत्तरम्—“एकस्य विशेषाभ्युपगमात् ।” येनैव विशेषेण पूर्वं23 नानात्वमभ्युपगतं शीतोष्णादिना भेदेन तेनैव सम्प्रत्येकत्वमपीत्यर्थः24 । “सिद्धान्तमभ्युपेत्येति” पूर्वेण हेतुना योऽभ्युपगतोऽर्थः, तद्विरोधितया विरुद्ध इत्यर्थः । शङ्कते—“अथ मन्यसे न विशेषमात्रमिति ।” मा भूद् रूपं सप्रतिधमुपादानमिति रूपस्यैकस्य नानात्वमिति भावः । निराकरोति—“नाभिप्रायेति ।” यस्त्ववयवानुप्रवेशे देशयेदुष्णजले वह्निस्पर्शवद् रूपग्रहोऽपि स्यादयोगोलक इवेति तं प्रति “एकदेशि”मतेन परिहारमाह—“जलेऽग्निरूपग्रहणप्रसङ्ग स्त्विति,” तद् दूषयति—“तन्नेति ।” युक्तं यन्मध्यन्दिने सवितृप्रकाशेनोल्वणेन मन्द उल्काप्रकाशोऽभिभूयते सजातीयत्वे सत्युल्वणत्वात् । तोयरूपं तु नोल्वणं न च सजातीयमभास्वरत्वात्, तेजसस्तु भास्वरत्वात्; तस्मान्नाभिभव इत्यर्थः । परमार्थपरिहारमाह—“अपि तु तेजसश्चातुर्विध्यात् ।” किञ्चिदुद्भूतरूपस्पर्शं तेजो भवति । यथासवितृप्रकाशः शरदि दिवा । किञ्चिदनूद्भूतरूपस्पर्शं यथा चाक्षुषं तेजः । किञ्चिदुद्भूतरूपमनुद्भूतस्पर्शं च यथा प्रदीपप्रभायां तेजः । किञ्चिदनुद्भूतरूपमुद्भूतस्पर्शं यथा तोयगतं तेजः । यथा वा निशीथे निदाधसमये तेजः, यतो मेदस्विनः स्विद्यन्तीति ।

प्रतिज्ञार्थं यथासम्भवं विकल्प्य दूषयति—“या चेयं प्रतिज्ञेति । अथ वर्तमानं स्फटिकमभ्युपगम्य यदतीतं स्फटिकान्तरं” तत् पक्षीकृत्य वर्तमानात् “तदन्यदिति साध्यते ।” निराकरोति—“एवं सतीति ।” यदि लिङ्गं स्वसत्ताज्ञानाभ्यां गमकं तदा सत्यपि ज्ञानेऽतीतधर्मस्य सत्ता नास्तीति न गमक इति भावः । यदि पुनः स्वज्ञानमात्रेण गमकं लिङ्गमुच्येत तदा दूषणान्तरमाह—“वर्तमानाच्चेति ।”

“तद्विरोध्याश्रयविनाशानुविधानेन विनश्यन्तीति ।” विरोधीति गुणाभिप्रायम् । गुणो हि विरोधिना गुणान्तरेण विनाश्यते आश्रयविनाशेन चेति सर्वसाधारणम् । आश्रयग्रहणं चोपलक्षणार्थम् । तेनासमवायिनिमित्तकारणविनाशेनापि यथा सम्भवमुन्नेतव्यमिति । शङ्कते—“विनश्यदवस्थेति ।” मा भूत् प्रदीपो दृष्टान्तः, विनश्यदवस्थे तु द्रव्ये कर्मोत्पन्नमुत्पत्त्यनन्तरमेवापवृज्यते अत ईदृशं कर्म दृष्टान्तो भविष्यतीत्यर्थः । निराकरोति—“नकर्मण” इति । कर्मापलापनिबन्धनो ह्ययं क्षणिकवादस्तदभ्युपगमे न भवितुमर्हति । स्थिराद् द्रव्यादागन्तुककर्मसहितादेव कार्योत्पादोपपत्तेरिति । निराकरणान्तरमाह—“अनभ्युपगमाच्चेति” तादृशस्यापि कर्मणः क्षणिकत्वस्यास्माभिः । तथा हि द्रव्यस्य विनश्यत्ता कर्मोत्पाद इत्येकः कालः । अथ द्रव्यस्य विनाशः, न च कारणोत्पादसमये कार्योत्पाद इति द्रव्यविनाशानन्तरं कर्मनाश इति सिद्धं क्षणद्वयावस्थानं कर्मण इति । शङ्कते—“विनाशहेत्वभावादिति चेत् ?” अयमभिसन्धिः—स्वकारणादयं भावो विनश्वरस्वभावो वा जायतेऽविनश्वरस्वभावो वा ? विनश्वरश्चेद्, विनाशं प्रति न हेतुमपेक्षेत । न हि नीलं स्वकारणादुत्पन्नं नीलत्वे हेतुमपेक्षते तस्यैव ताद्रूप्यात् । अविनश्वरश्चेत्, तथापि नास्य हेतुशतैरपि शक्यो विनाशः कर्तुम् । न हि नीलमुत्पन्नं पीतं शिल्पिशतेनापि शक्यं कर्तुम् । अपि चायं विनाशो भावस्य कारणैराधीयमानो भावाद् भिन्नोऽभिन्नो वा जन्येत25 । अभिन्नत्वे भाव एवासाविति विनष्टोऽपि भावः प्राग्वदुपलब्ध्यर्थक्रिये कुर्यात् । न च भावाभावयोः कारणभेदे सति सम्भवत्यभेदः । तन्तुसंयोगभेदेभ्यो हि पटो जायते तन्तुविमोक्षाद्26 वा तन्तुविनाशाद् वा पटाभाव इति कारणभेदः । भावाभिन्नत्वे तु जायतामभावो भावस्य किमायातम् ? न हि क्रमेलकोत्पादने पीलवो निवर्तन्ते । अभावेन भावस्तिरोधीयते इति चेत् ? न, तिरोधानस्यापि भावादभेदे पूर्ववदुपलब्ध्यादिप्रसङ्गः । भेदेऽपि तिरोधानस्यान्यस्योत्पादे अन्यस्य न किञ्चिदुत्पन्नं विनष्टं वेति भावतादवस्थ्यादुपलब्ध्यादिप्रसङ्गः । अपि च यद् येषां ध्रुवभावि न तत्र तेषां हेत्वन्तरापेक्षा यथा कृपाणस्यायोमयत्वे । ध्रुवभावी च कृतकानां भावानां नाश इति विरुद्धव्याप्तोपलब्धिः । ध्रुवभाविता हि प्रतिषिध्यमानहेत्वन्तरापेक्षत्वविरुद्धतन्निरपेक्षत्वव्याप्तोपलब्धा, सेह प्रतीयमाना निरपेक्षत्वमुपस्थापयन्ती हेत्वन्तरापेक्षितां प्रतिक्षिपति । ये हि हेत्वन्तरापेक्षा न ते ध्रुवभाविनो यथा वाससि रागादयः कुसुम्भादिसंयोगसापेक्षा नावश्यम्भाविन इति । तस्मादभावस्य सर्वोपाख्याविरहितस्य विकल्पितस्य क्रियानुपपन्नेति । अभावं करोतिक्रियाया अभावेन सम्बन्धानुपपत्तेर्नञ्सम्बन्धो भावं न करोतीति । यथाह— न तस्य किञ्चिद् भवति न भवत्येव केवलम्

इति । तस्माद् विनाशकारणाभावादुत्पन्नमात्र एव भावो27 विनश्यतीति सिद्धः क्षणभङ्ग इति ।

तदेतन्निराकरोति—“नविकल्पानुपपत्तेः ।” अयमभिसन्धिः । यत् तावद् विकल्पितं स्वहेतुभ्यो भावा विनश्वरा, अविनश्वरा वा जायन्त इति तत्र ब्रूमः किं पुनरिदं विनश्वरत्वं भावानामभिमतमायुष्मतः, किं विनाशस्वभावत्वम् आहो विनाशार्हत्वं नित्येभ्यो व्यावृत्तं रूपम् ? न तावत् पूर्वः कल्पः परस्परपरिहारवतोर्भावतन्नाशयोस्तादात्म्यानुपपत्तेः । तादात्म्ये च विनाशवद् भावोऽपि द्वितीयादिषु क्षणेषु वर्तेतेति साधु क्षणिकत्वं समर्थितमत्रभवता भावानां नित्यत्वमुपपादयता । भावसमये वा विनाशोऽपि भावात्मास्तीत्यत्यन्ताभावो भावस्य भवेदिति सुव्यवदातं28 तत्त्वं भावानाम् । न च भाव एकक्षणस्थितिधर्मा नाशो द्वितीयादिक्षणेष्विति साम्प्रतम्, प्रथमद्वितीयक्षणावच्छेदलक्षणविरुद्धधर्मसंसर्गेण भेदात् । द्वितीयं तु कल्पमनुमन्यामहे । नन्वेवं विनाशार्हाश्चेद् भावाः स्वकारणादुत्पन्नाः, हन्तोदयानन्तरमेवापवृज्येरन् ? नापवृज्यन्ते । विनाशार्हा अपि पटादयस्तन्तुविनाशाद् वा तन्तुविमोक्षाद्29 वा स्वकारणाधीनजन्मनो विनङ्क्ष्यन्ति । न हि तण्डुलाः पचेलिमा इति विनैव दहनसलिलसंयोगप्रचयभेदं विक्लिद्यन्ति । काष्ठानि वा भिदेलिमानीति कुठाराभिघातमन्तरेण दलन्ति । यो मन्यते त एव तण्डुलाः पचेलिमा ये समर्थदहनोदकपिठरसहभुवः, तदनन्तरं हि पुलाकाः प्रादुर्भवन्ति, यदनन्तरं तु न प्रादुर्भवन्ति न ते पचेलिमा इति । तस्योत्तरम् अक्षणिकार्थक्रियामुपपादयन्तो वक्ष्यामः ।

तस्माद् विनश्वराणामुत्पत्तेः स्वकारणान्न विनाशकारणापेक्षा भावानामिति युक्तम् । केवलं भावादन्यस्य नाशस्य कारणाभावं30 ब्रुवाणः पर्यनुयोज्यो भवान् किमकारणत्वात् नाशस्य नास्तित्वं रोचयते, किं वा नित्यताम् ? तत्रोक्तं साक्षाद्दूषणं “वार्त्तिककृता—भवतां शाक्यानाम्पक्षे अकारणन्द्विधा,” नित्यं व्योम शशविषाणादि चात्यन्ततुच्छम् । अस्माकं तु नित्यमेव । भवदभिमतस्य तस्य तुच्छस्याभावस्यानङ्गीकारादस्मदभिमतस्य तु भवद्भिरनङ्गीकृतत्वेन नास्तीत्यध्यारोप्य राशिरेक उक्तः । उत्पन्नस्य विनाश इति सर्वजनीनं तद्विपरीतं भवत्पक्षे प्राप्नोति । नन्वस्तु भावाभावयोः सहावस्थानं को दोष इत्यत आह—“ततश्च भावानामिति ।” शङ्कते—“अथाविनाशित्वादिति ।” प्रयोजनक्षतिरियं यदकारणत्वे विनाशस्यैष दोष इति न तु दोषभयेन स्फुटतरप्रमाणबाधितं कारणवत्त्वं विनाशस्य शक्यमङ्गी कर्तुमिति भावः । गूढाभिसन्धिः सिद्धान्ती पृच्छति—“विनाशो न विनश्यतीति कुत एतत् ?” चोदक आह—“विनष्टानामिति ।” सिद्धान्ती “बौद्ध”मतमालम्ब्याह—“न हि विनाशाभावो भाव” इति । यस्य पटाभाव एव तुच्छस्तस्य तदभावे का कथा तस्य तुच्छादपि तुच्छतरत्वादिति भावः । स्वमतमास्थायाह—“अपि च विनाशः कारणवांश्चेति ।” शेषं सुबोधम् । यदप्यकारणवत्त्वे31 कारणमुक्तं भावाद् भिन्नश्चेदभावो जन्येत भावतादवस्थ्यमिति, तत्रोच्यते—नाभावस्योत्पादे भावस्यापरा निवृत्तिः किं त्वभावोत्पाद एव तन्निवृत्तिरिति । कथमन्यस्योत्पादेऽन्यस्य निवृत्तिः ? अत्र स्वभावभेदैरुत्तरं वाच्यं ये परस्परपरिहारावस्थितयः ते स्वहेतुभ्यो जायन्ते । न हि स्वतोऽन्यस्याङ्कुरस्य वह्निर्न कारणमित्यन्यत्वाविशेषाद् भस्मनोऽपि न कारणमिति । स्वभावभेदेन तु कार्यकारणभावनियमसमर्थनं परस्परपरिहारस्थितिनियमेऽपि तुल्यम् । यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्योपकारं कञ्चिदकुर्वन्तोऽपि बीजादयोऽङ्कुरमारभन्ते तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात् । एवं तदभावहेतवोऽपि भावरूपे अकिञ्चित्करा अपि तदभावमादधति32 । न चेद् भावरूपे किञ्चित्कृतं तदभावहेतुभिः । अथ भावः प्रागिव स्वाभावसमये कस्मान्न स्वरूपे33 उपलम्भार्थक्रिये करोति । अथोत्पादात् प्रागिवोत्पन्नोऽप्यङ्कुरः34 कस्मादुपलम्भार्थक्रिये करोति ? उत्पत्तेः प्रागङ्कुरो नासीत् तेन नाकार्षीदुत्पन्नस्त्वस्ति, तस्मात् करोतीति चेत् ? हन्त भावोऽपि यदासीत् तदाकार्षीत्, इदानीं तु विनष्ट इति नास्ति, तेन न करोति । यथा च भावोत्पाद एव तत्प्रागभावस्य नास्तिता एवमभावोत्पत्तिरेव भावस्य नास्तिता । उपजनापायधर्मतया भावाद् अभेदो विनाशस्य ततो न सदसद्रूपतया द्वैराश्यं विश्वस्येति चेत् ? कोऽयमुपजनः ? यदि स्वकारणसमवायः सत्तासमवायो वा, सोऽभावे नास्ति । अथ स्वरूपप्रतिलम्भः, तथापि तावन्मात्रस्य साम्येऽपि अवान्तरभेदेन द्वैराश्योपपत्तेः । तस्मात् यथा सत्त्वस्य35 साम्येऽपि द्रव्यगुणकर्माणि तेन तेन तत्त्वेनान्योऽन्यस्य भिद्यन्ते, एवं प्रमेयत्वाभिधेयत्वकार्यत्वकारणवत्त्वेनाविशेषेऽपि सद्भिः सहासतां सत्तातद्विरहरूपभेदाद् भेद इति सिद्धम् । यापि ध्रुवभाविता विनाशस्य तत्र ब्रूमः ध्रुवभावित्वेन विनाशस्य हेत्वन्तरानपेक्षत्वं ब्रुवाणो नाहेतुकत्वं वक्तुमर्हति हेत्वन्तरनिराकरणेन हेतुना निराकरणात्36 । विशेषनिषेधस्य शेषाभ्यनुज्ञानहेतुत्वात्37 । अपि च ध्रुवभावित्वमसिद्धमनैकान्तिकं वा । इदं भवान् पृष्टो व्याचष्टां किं घटसन्तानात् सभागात् कपालसन्ततिर्ध्रुवभाविनी न वा ? न चेत् ? न विनाशोऽपि घटस्य ध्रुवभावी । न खलु विसभागक्षणोत्पादनमन्तरेण घटविनाशमीक्षामहे मांसचक्षुषः । तथा चासिद्धा ध्रुवभाविता विनाशस्य । अथ ध्रुवभाविनी, तस्यामेव तर्हि विसभागसन्ततौ ध्रुवभाविन्यामपि मुद्गरादिहेत्वपेक्षेत्यनैकान्तिकं ध्रुवभावित्वं नानपेक्षत्वेन व्याप्तमिति न हेत्वन्तरापेक्षित्वं निषेद्धुमर्हतीति । तदेतद् “यश्चाकारणे विनाशे दोषः स चापरिहार्य” इत्यनेन “वार्त्तिकेन” सूचितम् ।

“एवं तावदन्यत्वे साध्ये दोष उक्त” इति । यद्यपि क्षणिकत्वमपि पूर्वमुक्तं दूषितं च तथापि क्षणिकत्वाभिधानं तत्रान्यत्वपरमन्यत्वमेव38 तु तत्र प्रधानम् । इदानीं तु क्षणिकत्वमेव प्रधानतया साध्यमित्येतावता प्रकरणभेद इति । “विशेषणं सिद्धान्तविरोधीति ।” यद्यनाशुविनाशिनोऽपि39 केचन भावा भवेयुः ततो विशेषणमाशुविनाशिन इति कल्पेत, तथा च सिद्धान्तविरोध इत्यर्थः । “मत्वर्थीय” इति । “क्षणिक” इति । अत इनिठनौ इति मत्वर्थीयष्ठन् । “अनन्तरेण विनाशेन विशिष्यमाण” इति उपलक्ष्यमाणः । “सर्वान्त्यं कालमिति ।” पूर्वापरभागविकलकालकलैकाज्योतिर्विद्यासिद्धा सर्वान्तः काल इति सञ्ज्ञामात्रं न तु वास्तवम् । वास्तवी तु क्षणिकताभिमतेति ।

पक्षवचनं दूषयित्वा हेतुं दूषयति—“येऽपि हेतव” इति । अत्र आदिग्रहणेन सत्त्वकृतकत्वादयः सङ्गृहीता वेदितव्याः । तत्र यत् सत् तत् क्षणिकं यथा घटः । संश्च विवादध्यासितः शब्दादिरिति स्वभावहेतुः सत्तामात्रानुबन्धित्वात् क्षणिकत्वस्य । कथं पुनः सत्तामात्रानुबन्धसिद्धिः क्षणिकतायाः ? उच्यते, सत्त्वं नामार्थक्रियाकारित्वं भावानां नान्यत् । न ह्यस्ति सम्भवः संश्च भावो न चार्थक्रियाकारीति । तथा हि स सार्वज्ञस्य विज्ञानस्यालम्बनप्रत्ययो भवेन्न वा ? न चेत् नास्ति, सर्वज्ञो वा न सर्वज्ञः तस्यैवाज्ञानात् । आलम्बनप्रत्ययश्चेत् कथं नार्थक्रियाकारीति ? न च सत्तासामान्यं नामास्ति किञ्चित्, नापि तत्समवायो यतः सन्नित्युच्यते । तत्सद्भावे वा न भवतां सामान्यविशेषसमवायाः सन्तो भवेयुः, तेषां सामान्याधारत्वानभ्युपगमात् । प्रमाणग्राह्यतापि प्रमाणविषयता प्रमाणं प्रत्यालम्बनप्रत्ययत्वमेव । तच्चार्थक्रियाकारित्वान्नान्यदिति सिद्धमर्थक्रियाकारित्वमेव सत्त्वमिति । तच्च क्रमाक्रमाभ्यां व्याप्तं तृतीयप्रकारविरहात् । तथा हि भावानां तासु तास्वर्थक्रियासु क्रमाक्रमौ परस्परपरिहारवन्तौ चकास्तः । तथा च क्रमाक्रमात्मकं प्रकारान्तरमपि यदीदृशाभ्यामेवानुभूतावसिताभ्यां क्रमाक्रमाभ्यां करम्बितमङ्गीक्रियेत ततो दृश्यमानयोरपि क्रमाक्रमयोः परस्परसङ्करप्रसङ्गः । करम्बितावेव हि क्रमाक्रमाविमावपीति दृश्यमानः क्रमोऽक्रमात्मकः, अक्रमश्च क्रमात्मकः प्रतिभासेत । न च तथा प्रतिभासते । एतेन प्रत्यक्षमेव परस्परपरिहारवन्तौ क्रमाक्रमौ परिच्छिन्दत् सर्वत्रैवानयोः सङ्करं प्रतिक्षिपति । यदि हि क्वचिदप्यनयोस्तादात्म्यं भवेदिहापि तावेव क्रमाक्रमाविति सङ्कीर्णौ गृह्येयाताम् । तस्मात् अनयोरिह सङ्करानुपलम्भ एव देशान्तरे कालान्तरे च सङ्करं निषेधति । तादात्म्यनिषेधे च दृश्यत्वविशेषणानपेक्षत्वादनुपलब्धेः40 दृश्यमानस्तम्भतादात्म्येन स्वयमदृश्यानां पिशाचादीनां दृश्यानां च प्लवङ्गादीनामविशेषेण प्रतिषेधात् । यथाह— विशेषणं चावाच्यम् इति । अनेवम्भूतक्रमयौगपद्यव्यतिकरवती41 प्रकारान्तरे क्रमयौगपद्ये एव न भवतः । न हि शब्दाभेदेन वस्तुनोऽप्यभेदः । मा भूद् गोशब्दसामानाधिकरण्येन वागादीनामपि विषाणित्वप्रसङ्गः ।

स्यादेतत् । मा भूतां क्रमयौगपद्ये अस्त्वन्य एव क्रमाक्रमाभिधानः क्रमयौग— पद्याभ्यामन्यः प्रकारो यमास्थाय भावाः स्थिरा अप्यर्थक्रियायामुपयोक्ष्यन्ते, न त्वेषां प्रकारान्तरवदर्थक्रियापि42 पिशाचायमानैव । तथा चेत् किं नश्छिन्नम् ? दृश्यमानास्त्वनुभूतावसिताः परस्परव्यावृत्तक्रमयौगपद्ययोरन्यतरप्रकारसमालिङ्गितशरीरा43 अर्थक्रिया न प्रकारान्तराद् भवितुमीशते । न च प्रकारान्तरमपीति । तथा हि यत्र यत्प्रकारप्रतिषेधेन यदितरप्रकारव्यवस्थाननियमस्तत्र न प्रकारान्तरसम्भवः । यथा नीलप्रकारनिषेधेनानीलप्रकारव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोः44 अन्यतरप्रकारनिषेधेनान्यतरप्रकारव्यवस्थानियमो निषिध्यमानप्रकारविषयीकृते सर्वत्र कार्यकारणे इति विरुद्धोपलब्धिः । निषिध्यमानप्रकारान्तरसम्भवविरुद्धो हि द्वयोरन्यतरनिषेधेनान्यतरव्यवस्थाननियम इति प्रकारान्तरासम्भवाद् भावानामर्थक्रिया क्रमाक्रमाभ्यं व्याप्ता । तौ च स्थिरान्निवर्तमानावर्थक्रियामपि व्यावर्तयतः, वृक्षतेव निवर्तमाना शिंशपात्वम् आराद्दृश्यमानादेकशिलामयाद् भूभृत्कटकादिति प्रतिबन्धसिद्धिः । तथा हि न तावदक्षणिकः क्रमेणार्थक्रियां कर्तुमर्हति । स्वेनैव हि रूपेण भावा अर्थक्रियासूपयुज्यमाना दृश्यन्ते । यतो यद्वस्तु यत्कार्यान्वयव्यतिरेकानुविहितभावाभावं तद्वस्तु तत्कार्यप्रसव समर्थम् । रूपं च तस्य कार्येणानुकृतान्वयव्यतिरेकमिति रूपमेव समर्थम् । तच्च द्वितीयादिषु क्षणेष्विव प्रथमेऽपि क्षणे सदिति द्वितीयादिक्षणजन्यं कार्यकलापं प्रथम एव क्षणे निष्पादयेत् समर्थस्य क्षेपायोगादिति नाक्षणिकस्य क्रमवद्व्यापारता युज्यते45

स्यादेतत् । समर्थोऽपि क्रमवत्सहकारियोगात् क्रमेण करोतीति ? तदयुक्तं विकल्पासहत्वात् । किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा ? आदधाना अपि भावाद् भिन्नमभिन्नं वा ? तत्र भिन्नोपकाराधाने भावे सत्यनुत्पत्तेरुपकारे च सत्युत्पादात् । एवं कार्यस्योपकार एव जनको न जनको भावः । न चोपकारसहकारी भाव एव कार्यस्य जनको नोपकारमात्रमिति वाच्यम्, उपकारस्योपकारान्तरजनने अनवस्थापातात् । अजनने तु सहकारिभावाभावात् । अभिन्नोपकाराधाने च भाव एव जन्येत ।46 स च प्रागप्यासीदिति सहकारिवैयर्थ्यम् । अनुपकारकत्वे वा सहकारिणो न भावेनापेक्षेरन्नित्युत्पन्नमात्र एव भावः कार्यमुत्पादयेत्, समर्थस्य क्षेपायोगात् । क्षेपे वा न पश्चादपि कुर्यादविशेषात् । यदि मन्येत अनुपकारका अपि भवन्ति सहकारिणो यतस्तैः सह भावः कार्यं करोति । न च भावेन नापेक्ष्यन्ते, तैर्विना कार्यस्यानुत्पत्तेरिति । ननु स्वरूपेण चेत् कार्यजनको भावः, कस्मान्नैतानन्तरेण47 जनयति, तेभ्यः प्रागपि स्वरूपसद्भावात् । सहकारिरूपेण वा जनकत्वे सहकारिण एव जनका न जनको भावः । न चोभयभावाभावानुविधानादर्थक्रियाभावाभावयोरेकैकस्माच्च48 व्यभिचारादुभयाधीनतेति साम्प्रतम्, भावे सत्यनुत्पादात् कार्यस्य भावस्य व्यभिचारात्49 चरमभाविनिमित्तसहकारिसमवधाने सति भावादेव सहकारिसमवधानस्यैव चरमभाविनोऽव्यभिचारेण कारणत्वावधारणात् ।

एतेनैतन्निरस्तं भवति यदाहु“रेके”

स्वहेतोर्विलम्बकारी भावो जात इति नोत्पन्नमात्रः करोतीति ।

सा हि विलम्बकारिता अस्य स्वभावः सहकारिसमवधानसमयेऽप्यस्ति न वा ? अस्ति चेत् तदापि न कुर्यात् । नास्ति चेत् कथं स्वभावविनाशे भावो न नष्टः ? अथास्य विलम्बकारिता न स्वभावः, कथमुत्पन्नमात्रो न कार्यं कुर्यादिति । तस्मान्न क्रमेणार्थक्रिया भावानां नापि यौगपद्येन । तस्माद् यावत् कार्यं तेनाक्षणिकेन प्रथमे क्षणे सम्पादितं तावत् सर्वं द्वितीयादिष्वपि क्षणेषु सम्पादयेत्, तावत् कार्यसम्पादनस्वरूपस्य द्वितीयादिष्वपि क्षणेषु भावात् । न च सम्पादितं शक्य सम्पादनमिति यद् द्वितीयादिषु क्षणेषु सम्पादयति तत् प्रथमक्षणे सम्पादितादन्यदिति क्रम50 एवावर्तते । तथा चोक्तो दोषः । युगपत् कृतकृत्यस्य वा द्वितीयादिषु क्षणेषु कर्तव्याभावान्नार्थक्रियासामर्थ्यमस्तीत्यसत्त्वेन क्षणिकत्वापत्तिः । तस्मादक्षणिके सत्त्वे व्यापकयोः क्रमाक्रमयोरनुपलम्भाद् व्यापकानुपलब्ध्या निवर्तमानं सत्त्वमक्षणिकात् क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । नीलमेव चानुभूतावसितं समारोपिताक्षणिकभावमक्षणिकं तादृशनीलस्वरूपोपलम्भ एव तत्राक्षणिके क्रमयौगपद्यानुपलम्भः, यथा भूतलस्वरूपोपलम्भ एव समारोपितदृश्यत्वस्य घटस्यानुपलम्भः । भूतलं च तथोत्पन्नं घटाभावः । न त्वभावो नाम कश्चिद् विग्रहवानस्ति यः प्रतिपत्तिगोचरः स्यात्, अपि तु व्यवहर्तव्यः परम् ।

स्यादेतत् । क्षणिको भावोऽर्थक्रियाजनकस्वभावो न वा ? न चेत्, असन्नेव । तज्जननस्वभावश्चेत्, किमस्य सहकारिभिः ? उत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् । ननूत्पन्नो बीजक्षणः समर्थो जनयेदेवाङ्कुरम् । कुतः पुनः समर्थस्योत्पत्तिः ? पूर्वस्माद् बीजक्षणात् । तर्हि तत्सन्तानवर्तिनां सर्वेषां बीजत्वाविशेषादङ्कुरजननसामर्थ्यमिति कुसुमानन्तरलब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् ? नैवम्, पूर्वपूर्वक्षितिबीजपवनादिक्षणसमवधानोत्पन्नातिशयवदुत्तरोत्तरक्षणपरम्परालब्धजन्मा अन्त्योबीजक्षणः समर्थः समर्थक्षित्यादिलक्षणसहभूरनपेक्ष एवाङ्कुरं जनयति । न चास्य क्षित्यादिसहभुवस्तदनपेक्षस्यापि तैर्विना कार्यकरणं तदेकसाग्यधीनस्य तदभावेऽभावात् । न वा सहकारिता क्षित्यादीनां तैरेव सहाङ्कुरजननात्, तेषामपि कार्यात् पूर्वभावस्य नियमतोऽविशेषात् तन्मात्रत्वादेव च कारणतायाः । न च निरपेक्षाणामपि प्रत्येकं कार्यान्तरारम्भणं तन्मात्रस्य तेभ्य उपलब्धेस्तत्रैव सामर्थ्यनियमात् । न च कृतकरणतयेतरेषामक्रिया सहक्रियायां कृतमित्यसम्भवात् । न च स्वकारणबललब्धसन्निधयो भावाः प्रेक्षावन्तः शक्यमिदमस्मास्वेकेनापि कर्तुं कृतं नः सर्वेषां सन्निधानेनेत्यालोच्य निवर्तितुमीशते । न च स्वकारणभेदमात्रं कार्यभेदहेतुः, अपि तु सामग्रीभेदः । तस्मिन् सति कार्यभेदोपलब्धेः अभिन्ना चेह51 सामग्रीति न कार्यभेदप्रसङ्गः । परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीनामिति । न च क्षणिकस्यार्थक्रियाविरोधादसाधारणता हेतोः । न च साध्यधर्मिणि दृश्यमाने शब्दादौ व्याप्तिसाधनादेव साध्यसिद्धेरसाधनाङ्गं हेतुवचनम् । न खलु सर्वोपसंहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति । शक्यं हि शङ्कितुं परेणादृश्यमानानां सत्त्वमक्षणिकाद् न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं क्षणिकत्वसाधन इति । तस्माद् यद् दृश्यमदृश्यं वा तत् सर्वं क्षणिकमिति दर्शनीया व्याप्तिः ।

नन्वेवमपि शब्दादेर्विवादास्पदीभूतस्य व्याप्तिदर्शनबलादेव सिद्धा क्षणिकतेति तदवस्थमेवासाधनाङ्गत्वं हेतुवचनस्य ? मैवम्, असत्यपि शशविषाणादौ यत्सद् दृश्यमदृश्यं वा तत् सर्वं क्षणिकमिति, यथा सर्वोपसंहारवती व्याप्तिः । न च शशविषाणादयोऽपि भवन्ति क्षणिकाः, एवं सत्यपि विवादास्पदीभूते शब्दादौ व्याप्तिसिद्धावपि न सिध्यति क्षणिकतेत्यवश्यं दर्शयितव्यमेतेषां52 क्षणिकत्वसाधनाय सत्त्वमिति नासाधनाङ्गता हेतुवचनस्येति ।

अत्रोच्यते । न सत्त्वं क्षणभङ्गसिद्धावङ्गमसाधारणत्वात् सन्दिग्धव्यतिरेकित्वाद् वा । यथा53 हि क्रमाक्रमाभ्यां व्याप्तं सत्त्वं तदनुपलम्भेनाक्षणिकाद् व्यातर्वत एवं तदेव सापेक्षनिरपेक्षत्वाभ्यां54 व्याप्तं तदनुपलम्भेन क्षणिकादपि व्यावर्तते । तस्माद् गन्धवत्त्ववदसाधारणं सदसाधनाङ्गम् । तथा हि अन्त्यक्षणप्राप्तानि क्षितिपवनपाथस्तेजोबीजानि समर्थानि प्राग्भावनियतानि नियतचरमोत्पादानामवनिजलानलानिलाङ्कुराणां कारणं भवद्भिरभ्युपेयन्ते । तान्यमूनि परस्परानपेक्षाणि वा जनयेयुः, सापेक्षाणि वा ? ननु निरपेक्षाण्येवान्त्यक्षणप्राप्तानि क्षित्यादीन्युत्तरस्मिन् पुञ्जे जनयितव्य इत्युक्तम् । तत् किमनभ्युपगतविकल्पेन सापेक्षाणि निरपेक्षाणि चेति । तत् किमिदानीं समर्थबीजक्षणजनकोऽपि बीजक्षणोऽनपेक्ष एव । ओमिति चेत् ? नन्वेवं सर्व एव पूर्वबीजक्षणा निरपेक्षाः स्वकार्योपजनन इति कृतं सहकारिभिः । ननूक्तं नैते प्रेक्षावन्तः, किं तु स्वप्रत्ययाधीननियतसन्निधयो न क्षणमपि व्यवधेरीशत इति । तत् किमयं कृषीबलोऽपि न प्रेक्षावान् ? प्रेक्षावान्, यतः प्रयत्नेन कुसूलादवतार्य बीजमावपति भूमौ परिकर्मितायां55 क्षित्यादिसहभुव एव बीजक्षणस्यातिशयोत्पादनपरम्पराया अङ्कुरप्रसवसामर्थ्यात् । कुसूलस्थात् तु सहस्रेणापि वर्षैरङ्कुरानुत्पादात् तत्रावपतीति चेत् ? अथ किमयं न स्वसन्तानमात्रप्रभवः समर्थो बीजक्षणः ? तथा चेत् कथं सन्तानान्तरं नापेक्षेत स्वकार्ये । नन्वपेक्षत एव, किं तु स्वोत्पादे न पुनः स्वकार्ये । तत्र चास्यानपेक्षत्वमुपेयते, न तु स्वोत्पादे । ननूत्पत्तावप्यस्य जागर्ति स्वसन्तानवर्ती पूर्व एव निरपेक्षः । एवं तस्य तस्य पूर्वः पूर्वः क्षणसन्ततिपतित एवानपेक्षो जागर्त्युपजनन इति कुसूलनिहितबीज एव स्यात् कृती कृषीबलः, कृतमस्य कृषिकर्मणा दुःखबहुलेन । तस्मात् परस्परापेक्षाणामेवान्त्यक्षणप्राप्तानां कार्यजनकत्वमकामेनाप्युपेयम्56 । अपि चान्त्यक्षणप्राप्तं बीजमनपेक्ष्य अङ्कुरावनिपवनपाथस्तेजांसि जनयत् किं येनैव रूपेणाङ्कुर जनयति तेनैव तदितराण्यपि ? किं वा रूपान्तरेण ? न तावत् तेनैव, क्षित्यादीनामङ्कुरस्वाभाव्यापत्तेः । न खलु भवतां कारणाभेदे भेदवत्कार्यं भवितुमर्हति, कार्यभेस्याकस्मिकत्वप्रसङ्गात् । यथोक्तं भवद्भिरेव अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च

इति । नापि सामग्रीभेदः, तस्या अप्यभेदात् । अन्यथा सहभावनियमाभावात् । स्वकारणादासादितः कश्चिदेव स्वभावभेद एकस्तादृशो यस्मान्नानाकार्याणि जायन्ते । तस्मान्नाकस्मिकत्वं कार्यनानात्वस्य नाप्यतिप्रसङ्गः तादृशस्य तस्यासार्वत्रिकत्वात् । न च कार्यकारणयोरभेदो येन कारणभेदाभेदावनुपतेतां कार्यभेदाभेदौ । तस्माद् यथा केभ्यश्चिदेव बहुभ्यः कार्यमेकं जायते तथैकस्मादेव कुतश्चिद् बहूनि जनिष्यन्ते57 कार्याणीति चेत् ? मुधैव तर्हि नानादेशवृत्तिरेकोऽवयविसामान्यसंयोगादिरर्थस्तपस्वी भवता आयासितः58 । न हि नानात्वेऽपि देशानां तदाश्रितः सामान्यादिरर्थो नाना भवितुमर्हति, तस्य तेभ्योऽभिन्नत्वात्59 । रूपान्तरेण बीजमङ्कुरादितरेषां क्षित्यादीनां जनकम् । तथा हि बीजमङ्कुरस्योपादानं तत्सारभागाविक्रिययाङ्कुरस्योत्पत्तेः । क्षित्यादिषु तु जनयितव्येषु सहकारि, पूर्वे तु क्षित्यादयः क्षित्यादीनां यथास्वमुपादानानि तद्विक्रियया तदुत्पत्तेरिति चेत् ? अथ सहकारितोपादानते किमेकं तत्त्वं नाना वा ? एकं चेत्, कथं रूपान्तरेण जनकम् ? नानात्वे त्वनयोर्बीजाद् भेदोऽभेदो वा ? भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः ? अभेदे वा कथं न भेदो बीजस्य भिन्नतादात्म्यात् । एतयोर्वा60 कथं नाभेदो भिन्नार्थतादात्म्यात् । तस्मादङ्कुराद् भिन्ने क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिसमसमयभावि बीजेनापेक्ष्यते । एवं बीजमपि समसमयभाव्येव सहकारिकारणं क्षित्यादिभिरपेक्ष्यते । नान्यथा कार्यभेदसिद्धिरित्यनिच्छताप्यभ्युपेतव्यम् । न चानुपकारकमपेक्षागोचर इति च भवद्भिरेवोपपादितम् । न च क्षणस्योपकारकत्वसम्भवोऽन्यत्र जननात् तस्याभेद्यत्वात् । न च समसमयभाविनोर्जन्यजनकत्वमस्ति सव्येतरगोविषाणयोरिव । तस्मात् स्वसन्तानमात्रादेव कार्योत्पादप्रसङ्गात् कार्यभेदानुपपत्तेश्चानुपकारिण्यपेक्षाविरहाच्च क्षणिकस्यापि सापेक्षस्यानपेक्षस्य वा नार्थक्रिया सम्भविनीत्यसाधारणसत्त्वं न क्षणभङ्गसिद्धावङ्गम् ।

अथ मा भूदसाधारणता सत्त्वस्येत्यनुपकारकेष्वपि कार्यकरणायापेक्षाभ्युपेयते, तेषामपि कार्येणानुकृतान्वयव्यतिरेकत्वात् । न त्वनेन क्रमेणाक्षणिकोऽपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवतैव कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते । करिष्यते च क्रमवत्सहकारिवशः क्रमेण कार्याणि । समर्थस्यापि चापेक्षणीयासन्निधेः कार्यक्षेप उपपत्स्यते । न चैतावता सहकारिसमवधानादेवोत्पत्तिमतः कार्यसिद्धिः, कृतमेषां रूपेणेति वाच्यम्, तत्सहितादेव तत उत्पत्तिदर्शनात्, रूपे सत्यप्यनुत्पादात् । समवधाने तु सत्युत्पादादेव कार्यस्य समवधानमेव हेतुः, न पुना रूपमपीति चेत् ? तत् किमिदानीं रासभादितुल्यता बीजरूपस्य ? ओमिति चेत् ? अथ कस्मात् गर्दभादीनन्तरेणेव बीजरूपं विनापि नाङ्कुरो जायते । तत्समवधानस्य तत्कारणत्वादिति चेत् ? तत्समवधानस्य च कारणत्वे61 कथं तन्निवेशि रूपमपि न कारणम् । न चावर्जनीयतया तन्निवेशः समवधानमात्रस्य बीजादिरूपमन्तरेणापि तत्र तत्र भावात् । विशेषस्तु समवधानस्य62 रूपमेव बीजादीनाम् । तस्माद् यथोभयाधीननिरूपणा व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते, व्याप्ये भाव एव व्यापकस्य नाभाव इति व्याप्ये पुनरन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्यकारणभावोऽप्युभयाधीननिरूपणोऽपि कारणे अयोगव्यवच्छेदेन निरूप्यते । कार्योत्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति । कार्ये पुनरयोगव्यवच्छेदेन, कारण एव सति भावो नान्यस्मिन्निति अनुभवानुसारान्निश्चीयते । तथैव लौकिकपरीक्षकाणां सम्प्रतिपत्तेः । न च कारणतैव सत्ता किं तु स्वरूपं नीलादेरनुभूतावसितम्, तद्धि तेनैव रूपेण स्वाभावव्यवच्छिन्नं तासु तास्वर्थक्रिसूपयुज्यते, न पुनरर्थक्रियाकारितैव स्वरूपम् । मा भूदनेकार्थक्रियाकारिणोऽपर्यायेण रूपभेदः । तस्माद् यद्यस्ति सर्वज्ञस्ततः स्वरूपेणैव सन् भावस्तज्ज्ञानस्यालम्बनप्रत्ययो भविष्यति । अथ तु नास्ति तथापि सद्रूपो63 जनित्वा आपाततोऽकिञ्चित्करोऽपि पश्चात् कुतश्चिन्निमित्तादासाद्य सहकारिप्रत्ययान् तासु तास्वर्थाक्रियासूपयोक्ष्यते । तत् सिद्धमेतत् क्षणिकस्यापि64 क्रमाक्रमाभ्यां यथायोगमर्थक्रियोपपत्तेर्व्यापकानुपलब्धेरसिद्धेः सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं “शाक्या”नां क्षणिकत्वे साध्ये भावानाम् । अस्माकं त्वन्यथासिद्धमसिद्धप्रभेद एवेति । न च जनकत्वाजनकत्वलक्षणविरुद्धधर्मसंसर्गो नानात्वे हेतुर्भवितुमर्हति । जनकत्वं नाम न वस्तुस्वभावोऽपि तु तद्धर्मः । धर्मश्च धर्मिणो वस्तुतो भिद्यते । न चान्यस्य भेदोऽन्यस्य भेदायालमतिप्रसङ्गात् । अन्यत्वाविशेषे कथं तस्यैव धर्म इति चेत् ? अत्र वस्तुस्वभावैरेवोत्तरं वाच्यम् । यथान्यत्वाविशेषेऽपि कार्यं धूमो हुतभुजः एव, न बीजस्येत्युक्तम् । न च कृतकत्वमपि क्षणिकत्वे हेतुरन्यथासिद्धेः सहेतुकेऽपि विनाशे तदुपपत्तेश्च । न चोत्पत्तिविनाशयोस्तादात्म्यं भावस्यात्यन्ताभावप्रसङ्गादित्युक्तम् । तदिदमुक्तं “वार्त्तिककृता—तेऽप्यसिद्धा वान्यथासिद्धा वा विरुद्धा वा भवन्तीत्यहेतव” इति । अन्त्यक्षणविशेषदर्शनं पूर्वक्षणधर्मत्वेनासिद्धत्वादसिद्धम् । सत्त्वकृतकत्वे अन्यथासिद्धे, विरुद्धत्वं च सर्वस्यैव हेतोः क्षणिकत्वे साध्ये । तथा हि सत्त्वं कृतकत्वं वा त्रैलोक्यव्यावृत्ततयाननुगतं देशतः कालतो वा न साधनं तस्याशक्याविनाभावज्ञानतया लिङ्गभावाभावात् । अन्वयमुखेन व्यतिरेकमुखेन वा अविनाभावग्रहस्यैकस्मिन् क्षणेऽशक्यत्वात् । तस्माद् देशकालानुगतं सत्त्वं कृतकत्वमन्यद् वा हेतूकर्तव्यम् । तच्च विधिरूपं वा भवत्वन्यव्यावृत्तिरूपं वा नानाकालमेकमक्षणिकं क्षणिकत्वेन स्वसाध्येन विरुध्यत इत्युक्तम्—“विरुद्धा वेति ।” अन्ते विशेषदर्शनादित्यस्य तु विरुद्धत्वमनन्तरं वक्ष्यति । उपेत्य विशेषवत्त्वस्य65 सिद्धत्वमनैकान्तिकत्वमाह—“उपेत्य वेति ।” हेतोरसिद्धत्वविरुद्धत्वे दर्शयितुमाह— “अन्ते विशेषेति ।”

दर्शनादर्शनलक्षणस्य हेतोरन्यथासिद्धतेत्याह—“योऽप्ययं हेतुरिति ।”

“भावाभावयोस्तद्वत्त्वादिति ।” संयोगभावाभावयोरिह बुद्धेर्भावाभाववत्त्वात्66

“प्रदीपस्य देशान्तरे उत्पाद इति, एतदपि न बुध्यामह” इति । क्षणिकस्य प्रदीपस्य यदि स्वसन्तानमात्रप्रतिबद्धं67 देशान्तरे कार्योत्पादकत्वं ततः सर्व एव प्रदीपक्षणा देशान्तरे प्रदीपमुत्पादयेयुः, न केचन प्रघनोदर एवेति । अथोपसर्पणप्रत्ययवशात् प्रघनोदरादन्यत्रापि कार्यमुत्पादयन्ति ? ननूपसर्पणप्रत्ययः प्रदीपे कञ्चिदुपकारमाधत्ते न वा ? न तावदाधत्ते क्षणस्याभेद्यत्वेनोपकृतानुपकृतत्वासम्भवात् । अनाधाने च सहकारिभावाभावात् । अनुपकारकस्य सहकारित्वेऽतिप्रसङ्गादिति भवतामेव गिरः । न च विशिष्टप्रदीपक्षणजननमेवोपकारः सहकारिणां तस्य पूर्वस्मादेवोपादानादुपपत्तेः सहकार्यनपेक्षणात् । न खलु तस्येव तत्कारणस्याप्युपकारकाः68 सहकारिणो भवितुमर्हन्ति । एवं पूर्वेषामपि प्रदीपक्षणानां तत्पूर्वपूर्वप्रदीपक्षणमात्रसामर्थ्यभुवा न सहकारिणा किञ्चिदाधीयत इति सर्व एवैकस्मिन् प्रघाने69 कार्यं कुर्युः, देशान्तरे वा । यदि पुनरनुपकारिणोऽपि कार्यानुविहितभावाभावतया क्षणिकेन प्रदीपेन कार्यक्रियां प्रत्यपेक्षन्ते तदक्षणिकपक्षेऽपि तुल्यमित्यभिप्रायः70 । विपञ्चितं चैतदस्माभिः “ब्रह्यतत्त्वसमीक्षान्यायकणिका”भ्यामित्युपरम्यते ।

“न किलाकाशे पततो लोष्टादेरिति ।” लोष्टश्येनादेस्तुल्यानां गुरुत्ववतां द्रव्याणामेकस्य गुरुत्वप्रयत्नक्षेपाः कारणम् । तथा हि सौधस्योपरिस्थितेन पुरुषेण भूमौ चरन्तं पारावतमुद्दिश्य यदाधःश्येनः क्षिप्यते तदा श्येनस्य पारावतजिघृक्षाजनितः प्रयत्नश्च गुरुत्वं च क्षेपश्चाशुतरपतनहेतवः । अक्षिप्तस्य तु गुरुत्वप्रयत्नावाशुपतनहेतू । अप्रयतमानस्य गुरुत्वमात्रं पतनहेतुरिति । “औलूक्य”मतेऽपि न दोष इत्यत आह—“एकश्च संस्कार” इति ।

अयुगपत्कालाः प्रत्यया एकविषया इत्युच्यमाने घटपटादिप्रत्ययाः प्रदीपादिप्रत्ययाश्च क्रमवन्त एकविषयाः प्रसज्येरन्नित्यत आह—“विप्रतिपन्ना” इति । समानशब्दवाच्यत्वादित्यनेकान्तः । सम्भवन्ति हि समानशब्दवाच्याः प्रत्ययाः अक्षोऽक्ष इति । न च समानविषयाः देवनादीनां तद्विषयाणां भेदादत आह—“तत्प्रत्ययसामानाधिकरण्ये सतीति ।” तथापि प्रदीपप्रत्ययैरेवानेकान्त इत्यत आह— “अव्युत्थायीति ।” व्युत्थातुं भ्रमितुं शीलमस्येति व्युत्थायि भ्रान्तमिति यावत् । अभ्रान्तत्वं चास्य क्षणिकत्वसाधननिराकरणेन द्रष्टव्यम् । अव्युत्थायितत्प्रत्ययसामानाधिकरण्येनैव सिद्धे समानशब्दवाच्यत्वं प्रपञ्चः ॥ १४ ॥

न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥ ३ । २ । १५ ॥

“भाष्यम्—गुणान्तरप्रादुर्भाव” इति । द्रव्यं तावत् सदेव, गुणोऽपि सन् केवलमनुद्भूत आसीत् । एकश्चोद्भूतो गुणः । तत्र य उद्भूतः71 स तिरोभवति । तिरोभूतश्चोद्भवति । “पूर्वगुणस्य निवृत्तौ” तिरोभूतौ “गुणान्तरमुत्पद्यते” उद्भवतीत्यर्थः ॥ १५ ॥

व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥ ३ । २ । १६ ॥

“अत्र तु प्रतिषेध” इति । क्षीरावयवा एव हि क्षीरविनाशे सत्युत्पन्नपाकजा दधिलक्षणं72 द्रव्यमुत्पादयन्ति । यदि तु सर्वं कार्यं सदेव कारणव्यापारात् प्रागपि, व्यर्थः कारणव्यापारः, अभिव्यक्तेरपि कार्यायाः सत्त्वात् । असत्त्वे वा यथा सैव न सती क्रियते, एवं कार्यान्तराण्यपीति । विपञ्चितं चैतदस्माभिः “न्यायकणिकायाम्” ॥ १६ ॥

क्वचिद् विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥ ३ । २ । १७ ॥

“अभ्यनुज्ञाय च निष्कारणमिति ।” विनाशोत्पादवत्त्वात् समानधर्मात् संशयः । दधिक्षीरयोर्विनाशोत्पादावकारणौ दृष्टौ कुम्भस्य चोत्पादविनाशौ सकारणकौ । तदिह स्फटिके विनाशोत्पादौ सकारणौ निष्कारणौ वेति सन्देहः । तद् यदि सकारणावेवेति प्रमाणतो निश्चीयते, ततो विनाशकारणानुपलब्धेः स्फटिकस्य कुम्भवद्विनाशो नास्तीति निश्चीयते । तदिदमुक्तं “भाष्यकारेण—न पुनर्यथा विनाशकारणाभावादिति ।”

“निरधिष्ठानं चेति ।” धर्मिणमाश्रित्य तत्समानधर्मा दृष्टान्तो भवति । स्फटिकोत्पाद विनाशौ च धर्मिणौ । तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोर्दृष्टान्तत्वेन भवितव्यम् । न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्येते । तस्मान्न तत्समानधर्मतया दृष्टान्तौ भवत इति । “अभ्यनुज्ञाय73 च स्फटिकोत्पादविनाशौ” इति । कुम्भो दृष्टान्तः प्रामाणिकत्वात् । न तु दधिक्षीरविनाशोत्पादौ तयोरकारणत्वस्य सकारणत्वग्राहिणा प्रमाणेनापास्तत्वादित्यर्थः73 । यदि तु द्रव्यसमवायादित्युच्येत ततस्तोयादिपरमाणुसमवेतै रूपादिभिरनेकान्तः स्यादित्यत आह—“व्यापकेति ।” तथाप्यात्मत्वसामान्येनानेकान्तोऽत आह—“गुणत्वे सतीति ।” तथाप्यात्मसामान्येनानेकान्तः,74 अत आह— “गुणत्वे सतीति ।” तथाप्यात्मपरिमाणेनानेकान्तोऽत आह—“प्रत्यक्षतयेति ।” अस्मदादीनामिति शेषः । गुणत्वादिविशेषणयोगात् प्राग् व्यापकग्रहणस्योपयोगः । अस्मदादिप्रत्यक्षत्वादित्युच्यमाने सामान्यसमवायाभ्यामनेकान्तः स्यादित्यत आह—“जातिमत्त्वे सतीति । आश्रितत्वादि”त्यत्रापि जातिमत्त्वे सति प्रत्यक्षत्वे चेत्यनुषञ्जनीयम् । अनित्या बुद्धिः प्रत्यक्षत्वादित्युच्यमाने मनसा व्यभिचारोऽत आह—“अयोगीति ।” तथाप्यात्मना व्यभिचारोऽत उक्तं “करणभावे सतीति ।” हानादिबुद्धौ बुद्धिः करणं भवति । शब्दश्चार्थप्रत्यये करणम् । अत्रापि जातिमत्त्वे सतीत्यनुषङ्क्तव्यम्, तेन न गन्धत्वादिभिरनेकान्तः ॥ १७ ॥

॥ इति क्षणभङ्गप्रकरणम् ॥

बुद्धेरात्मगुणत्वप्रकरणम्

नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥ ३ । २ । १८ ॥

चिन्तान्तरमवतारयति—“इदं तु चिन्त्यत” इति । नन्वात्मपरीक्षायामात्मगुणत्वं बुद्धेर्व्यवस्थापितं तत् कस्मात् पुनः परीक्ष्यत इत्यत आह “भाष्यकारः—प्रसिद्धोऽ पीति ।” यद्यप्ययमर्थः परीक्षितः, तथाप्यवान्तरविशेषपरिज्ञापनार्थं पुनः परीक्षत इत्यर्थः । चोदयति “बार्त्तिककारः—न गुणेति ॥” परिहरति—“अनित्यत्वे सतीति ।” विमृश्य सिद्धान्ती पक्षं गृह्णाति—“सन्निकर्षोत्पत्तेरिति । नेन्द्रि…नात् ॥” चोदयति—“अद्राक्षमित्येतन्नेति ।” परिहरति—“स्मृतावपीति” ॥ १८ ॥

युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥ ३ । २ । १९ ॥

देशयति—“अस्तु तर्हीति । युग…सः” ॥ परिहरति—“युगपदिति ।” यत् करणत्वेनानुमितं तत् करणत्वमपोद्य न कर्तृ भवितुमर्हतीत्यर्थः । “युगपज्ज्ञेयानुपलब्ध्या यत् समधिगतमिति भाष्य”माक्षिपति—“विशेषणोपादानादिति ।” समाधत्ते—“न सर्वस्येति ।” पुनराक्षिपति—“एवमपीति ।” विशिष्टस्य करणस्य ज्ञानगुणत्वनिषेधः करणान्तरस्य ज्ञानगुणत्वमापादयति, न चात्मा करणमित्यर्थः । समाधत्ते—“अन्यस्योपपत्तेरिति ।” एतदेव विवृणोति—“अनवस्थितत्वादिति ।” प्रमातैव कदाचित् प्रमाणं कदाचित् प्रमेयमित्यर्थः । “पुरुषान्तरेण पुरुषान्तरं परिच्छिनत्तीति ।” यादृशोऽयं पुरुषः, तादृशोऽयमपीति पुरुषान्तरेण प्रसिद्धेन पुरुषान्तरपरिच्छेद इति । पृच्छति—यदि न तस्य करणस्य, “कस्य तर्हीति ।” उत्तरम्—“ज्ञस्य वशीत्वात् ।” कर्तुः स्वातन्त्र्यादित्यर्थः । कर्तृकरणादिसमवधाने हि चैतन्यं कर्तर्येव दृष्टं न करणादौ यथा मृद्दण्डचक्रसलिलसूत्रकुलालसमवधाने कर्तुरेव कुलालस्य न तु मृदादीनामिति । “वशीज्ञाता,” वश्यं “करण”मिति “भाष्यम् ।” तदनुपपन्नम्, ज्ञातुरपि क्वचिद्, वश्यत्वदर्शनात्, यथा देवदत्तं कटं कारयति यज्ञदत्त इत्यत आह—“न चायं ज्ञातरीति ।” यदि तु कश्चित् ज्ञानगुणं मन इच्छेत् तं प्रति “भाष्यम्—ज्ञानगुणत्वे चेति75 । घ्राणादिसाधनस्येति भाष्यं” व्याचष्टे—“यथा ज्ञातुरिति ।” तथा च मन्तुर्मतिसाधनं यत् तन्मनः करणम् । अथ तदपि कस्माच्चेतनं न भवतीत्यत आह—उ“भयोरिति । विभु चान्तःकरणं ज्ञानगुणम्” अन्तःकरणान्तररहितमिति शेषः । “विकरणधर्मेति भाष्यम् ।” विशिष्टं करणं धर्मो यस्य स विकरणधर्मा अस्मदादिकरणविलक्षणकरणो येन व्यवहितविप्रकृष्टसूक्ष्मादिवेदी भवतीत्यर्थ ॥ १९ ॥

तदात्मगुणत्वेऽपि तुल्यम् ॥ ३ । २ । २० ॥

अणु76 मनोऽन्तःकरणमपश्यंश्चोदयति—“तदात्मगुणत्वेऽपीति” ॥ २० ॥

इन्द्रियैर्मनसः सन्निकर्षाभावात्तदनुत्पत्तिः ॥ ३ । २ । २१ ॥

परिहरति—“न प्रसङ्ग इति” ॥ २१ ॥

नोत्पत्तिकारणानपदेशात् ॥ ३ । २ । २२ ॥

“यदि पुन”रित्यादि “भाष्यं” पूरयित्वा व्याचष्टे—“यदि पुनरिति । नोत्प…शात् ॥ नोत्पत्तीति ।” नात्र प्रमाणमपदिश्यते प्रत्युत बाधकं प्रमाणमस्तीत्यर्थः । व्याख्यानान्तरमाह—“अयुगपदुत्पत्तौ वेति ।” व्याख्यानान्तरमाह—“विदेहेति ।” शरीरवृत्तित्वे हि मनसः सर्वं ज्ञानं शरीरायतनस्यात्मनो भवेत् । यदा तु मन एव नास्ति तदेन्द्रियार्थसन्निकर्षस्यात्मनश्च शरीराद् बहिरपि भावाद् विदेहप्रत्ययोत्पादप्रसङ्ग इति । “अन्तःकरणप्रत्याख्याने चेति ।” यदि सर्वाण्यपि ज्ञानानि न युगपदुपजायन्ते, तथापि स्मृतीनामवश्यं युगपदुत्पादप्रसङ्ग इति पूर्वस्मादस्य विशेषः । व्याख्यानान्तरमाह—“यदा चेन्द्रियमात्मा चार्थेन युगपत्सम्बद्धाविति ।” असति इन्द्रियमनःसन्निकर्षे व्यभिचारिणां कारणत्वकल्पनायां विनिगमनाहेतोरभावादिति भावः ॥ २२ ॥

विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ ३ । २ । २३ ॥

अत्र पूर्वपक्ष“सूत्रे” चकारः पूर्वपूर्वपक्ष“सूत्रा”पेक्षयेत्याह—“तदात्मगुणत्व” इति । अतः परस्य निगद एव व्याख्यानम् ॥ २३ ॥

अनित्यत्वग्रहणाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥ ३ । २ । २४ ॥

यदनन्तरमपवृज्यते पुरुषः सा “अन्त्या बुद्धिः स्थितिहेत्वभावाद्विनश्यतीति ।” स्थितिहेतू धर्माधर्मौ तयोरभावादिति । अथ तयोरभावः कस्मादित्यत आह—“कालात् ।” अन्त्यसुखदुःखोपभोगकालं प्राप्येत्यर्थः । अथ वा स्वजनितात् संस्कारादेवान्त्याया बुद्धेर्विनाश इत्याह—“संस्काराद् वा ।” संस्कारस्य तु स्थितिहेत्वदृष्टाभावाद् विनाशो भवतीति भावः । पृच्छति—“कथं कालात्” इति । उत्तरम्—“यावन्त्यस्य जन्मन” इति । चरमस्य देहस्येत्यर्थः । देशयति—“यदि कारणस्येति । अत्र तावदेकः परिहार” इति । एकः प्रधानः परिहारः । परिहारान्तरं “त्वेकदेशि”मतेनाप्रधानमित्यर्थः । अपि च न स्मृतयो युगपदुत्पद्यन्ते परिच्छेदत्वाद् गन्धरसरूपस्पर्शशब्दज्ञानवदित्याह— “परिच्छेदत्वाच्चेति” ॥ २४ ॥

ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥ ३ । २ । २५ ॥

“एकदेशि”परिहारमाह—“अपरे त्विति” ॥ २५ ॥

नान्तःशरीरवृत्तित्वान्मनसः ॥ ३ । २ । २६ ॥

दूषयति—“एतत्तु न सम्यगिति । नान्तः…सः ॥ न हि मनः क्वचिदाश्रितम्” इति । न क्वचित् समवेतम् । संयोगमात्रं चातिप्रसक्तमित्यर्थः । “नापि वृत्तिः स्वकार्यसामर्थ्यम्” इति । शरीर एव मनः स्वकार्यं करोति, नान्यत्रेति शरीराश्रितं मन इत्युच्यत इत्येतदपि नास्ति, इन्द्रियार्थसन्निकर्षस्य मनःकार्यस्य शरीराद् बहिर्भावादित्यर्थः । तमिममाक्षेपं समाधत्ते—“अत्र ब्रूम” इति । येनात्मना यच्छरीरं कर्मोपार्जितं तत्संयुक्तस्य मनसो “वैशेषिक”ज्ञानादिलक्षणकार्यकारित्वं न तदसंयुक्तस्येति शरीराश्रितत्वं मनसो नान्यदित्यर्थः ॥ २६ ॥

साध्यत्वादहेतुः ॥ ३ । २ । २७ ॥

चोदयति—“साध्य…तुः”77 ॥ २७ ॥

स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥ ३ । २ । २८ ॥

परिहरति—“स्मर…धः”78 ॥ २८ ॥

न तदाशुगतित्वान्मनसः ॥ ३ । २ । २९ ॥

पुनश्चोद्यम्—“न त…सः” ॥ २९ ॥

न स्मरणकालानियमात् ॥ ३ । २ । ३० ॥

पुनः परिहारः—“न स्म…मात्” ॥ ३० ॥ “भाष्यम्—चिन्ताप्रबन्धः” स्मृतिप्रबन्धः । “कस्यचिदेवार्थस्य लिङ्गभूतस्य” चिह्नभूतस्यासाधारणस्येति यावत् । “चिन्तनं” स्मरणम् । “आराधितं” सिद्धं चिह्नवतः “स्मृतिहेतुर्भवतीति ।” इतश्च शरीरसंयोगापेक्षमेव मनः स्मृतिहेतुर्नेतरथेत्यह—“शरीरसंयोगानपेक्ष” इति ॥ ३० ॥

आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥ ३ । २ । ३१ ॥

शरीरान्न बहिर्मन “इत्यत्रैकदेशि”परिहारमुपन्यस्यति—“आत्म…षः”79 ॥ ३१ ॥

व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥ ३ । २ । ३२ ॥

दूषयति—“व्यास…नम्” ॥ ३२ ॥

प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावाद् युगपदस्मरणम् ॥ ३ । २ । ३३ ॥

“प्रातिभवदिति ।” स्मृत्युत्पादस्य पुरस्तात् प्रणिधानादीनां स्मृतिकारणानामसंवेदनादात्ममनः संयोगात् संस्कारापेक्षात् स्मृतीनां युगपदुत्पादप्रसङ्गः प्रातिभवदित्याक्षेपः । समाधानमाह—“सतः स्मृतिहेतोरिति ।”

अदृश्यमानमपि कारणम् । तत्क्रमश्च कार्योत्पादक्रमेणानुमीयत इति प्रातिभमपि पुरुषकर्मविशेषापेक्षादात्ममनःसन्निकर्षादुपजायमानं नाकारणं न चाक्रमवदिति प्रधानभूतामुपपत्तिमवतारयितुं पृच्छति “भाष्यकारः—प्रातिभमिदानीमिति ।”

अत्रोत्तरमाविलं दत्त्वा शङ्कते—“हेत्वभावादयुक्तमिति चेत् ?” उत्तरसारमाह— “न करणस्येति ।” यद्यपि क्वचिद् व्रश्चनस्य युगपद् दारुद्वयसंयोगे युगपच्छिदाद्वयं भवति, तथापि व्रश्चनावयवभेदात् करणभेद उन्नेयः । अथ वा करणान्तराणि युगपत् कार्याणि कुर्वन्तु, प्रत्ययकरणं तु क्रमेणैव प्रत्ययान् करोतीति तत्र न व्यभिचारः । तदुक्तम्—“प्रत्ययपर्याय” इति । तस्मात् करणमेकं न क्वचिदपि युगपत् कार्यायालम् । कर्ता पुनरेकोऽपि करणभेदेन युगपद् बहूनि कार्याणि करोतीत्याह—“न ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति ।” विविधं करणं धर्मो यस्य स तथोक्तः । तद् व्याचष्टे “वार्त्तिककारः—न चायं नियम” इति । योगी खलु ऋद्धौ प्रादुर्भूतायां सेन्द्रियाणि शरीराणि तेषु तेषु लोकेषु निर्माय मुक्तात्मनामादाय मनांसि मोक्षाय त्वरमाणो युगपत् स्वकर्मणोपार्जितान् सुखदुःखभेदान् अद्विषन्न सक्तो भुङ्क्ते तदस्यैकस्यापि करणभेदाद् युगपज् ज्ञानानि भवन्तीति ।

“अयं च द्वितीयः प्रतिषेधः” ज्ञानसंस्कृतात्मप्रदेशभेदस्या“युग”पज्ज्ञानोत्पादकस्य । “अवस्थितेति ।” यत्रात्मप्रदेशेऽस्य ज्ञानानि नानाविषयाणि जातानि तत्संस्काराश्च तत्रैव “अवस्थितशरीरस्य ।” तदनेन शरीरान्तर्गतस्य मनसस्तत्र प्रदेशे संयोग उपपादितः ।

तदिदमाह “वार्त्तिककारः—यदि च ज्ञानसमवेतात्मप्रदेशासन्निकर्षादिति । अतश्च” अव्यापकत्वाद् “अपरिहार” इत्यर्थः । “आचार्यदेशीयानां” तु स्मृतियौगपद्यप्रसङ्गमाशङ्कत—“अवस्थितशरीरस्यैव80 संस्काराः समानदेशा इत्ययुक्तम् ।” कुतः ? “आत्मप्रदेशानामद्रव्यान्तरत्वात्” सर्वसंस्काराणां समानदेशत्वे प्रत्यययौगपद्यप्रसङ्गोऽपरिहार्यः । न ह्यात्मनो घटस्येव प्रदेशास्ततोऽन्ये सन्ति,81 किं त्वात्मैव । स चैक इति सर्व एवात्मवर्तिनः समानदेशा इत्यर्थः । तदिदमुक्तं “भाष्यकारेण—आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे82 स्मृतियौगपद्यस्यप्रतिषेधानुपपत्तिरिति ।”

“शब्दसन्ताने त्विति” शङ्कानिराकरण“भाष्यम् ।” तुशब्दः “शङ्कां निराकरोति । तदेतद् भाष्यं वार्त्तिककारो” व्याचष्टे—“संस्कारप्रत्यासत्त्येति ।” पृच्छति—“का प्रत्यासत्तिरिति ।” उत्तरम्—“न ब्रूम” इति । निष्प्रदेशत्वेऽप्यात्मनः संस्कारस्याव्याप्यवृत्तित्वमुपपादितम् । तेन शब्दवत् सहकारिकारणस्य सन्निधानासन्निधाने कल्पेते एवेत्यर्थः ॥ ३३ ॥

ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥ ३ । २ । ३४ ॥

सम्प्रति बुद्धिरेव किमिच्छादिसमानाधिकरणा न वेति विचार्यते । तत्र “साङ्ख्यदर्शननाशकानां83 ।” विप्रतिपत्तेः संशयः । तद्विप्रतिपत्तिमाह—“पुरुषधर्मो ज्ञानमन्तःकरणस्य त्विति ।” पुरुषचैतन्यमेकमेव कूटस्थनित्यं सत् तत्तदर्थाकारपरिणतबुद्धिसत्त्वप्रतिबिम्बविभ्रमवशाद् भिन्नमिवोपजनापायधर्मकमिव ज्ञानमिति84 च वृत्तिरिति चाख्यायते । इच्छाद्वेषादयस्तु वस्तुतः उपजनापायधर्माणोऽन्तःकरणस्येति दर्शनम् । तत्प्रतिषिध्यते—“ज्ञस्ये…त्योः ॥” प्रति वृत्त्याञ्चतीति प्रत्यक्85 स चात्मा चेति प्रत्यगात्मा तस्मिन् । एतदुक्तं भवति, ज्ञातृसामानाधिकरण्येनोपलब्धेरन्यदीयानां86 चेच्छादीनामन्यस्याप्रत्यक्षीकरणात् तत्करणे वा मैत्रगतानामपि चैत्रेण ग्रहणप्रसङ्गाद् अन्तःकरणवृत्तीनां च गुणान्तराणां नित्याप्रत्यक्षत्वादात्माश्रिता एवेच्छादयो नान्तःकरणाश्रया इति ॥ ३४ ॥

तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥ ३ । २ । ३५ ॥

अत्रान्तरे लब्धावकाशो “भूतचैतनिकः” प्रत्यवतिष्ठते—“तल्लि…धः ॥” यदि यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ, यस्य चैतौ तस्य चैतन्यम्, हन्त आयातमनेन क्रमेण भूतचैतन्यमस्मदभिमतं भूतेष्वेव कायाकारपरिणतेषु आरम्भनिवृत्तिदर्शनादित्यर्थः ॥ ३५ ॥

परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥ ३ । २ । ३६ ॥

परश्वादिष्वित्यस्य तात्पर्यमाह “वार्त्तिककारः—परश्वादिष्विति । भूतचैतनिकः” तल्लिङ्गत्वादिति हेतुं स्वपक्षसिध्यर्थमन्यथा व्याचष्टे—“अयं तर्हीति ।” शरीरेष्ववयवव्यूहभेददर्शनाच्च लोष्टादिषु शरीरारम्भकाणामणूनां प्रवृत्तिभेदोऽनुमीयते । ततश्चेच्छाद्वेषौ, ताभ्यां चैतन्यमिति । “त्रसं” जङ्गमं विशरारु अस्थिरं कृमिप्रभृतीनां शरीरम् । “स्थावरं” स्थिरं शरीरं देवमनुष्यादीनाम् । तद्धि चिरतरं वा ध्रियते । तदेतद् दूषयति—“कुम्भादिषु मृदवयवानामिति ।” कुम्भाद्यारम्भिकाणां मृदां व्यूहभेदादारम्भदर्शनाददर्शनाच्च सिकतानामारम्भनिवृत्त्योरनैकान्तत्वम् ॥ ३६ ॥

नियमानियमौ तु तद्विशेषकौ ॥ ३ । २ । ३७ ॥

तदेवं भूतचैतन्यसाधनं दूषयित्वा भूतेभ्योऽन्यस्य चैतन्ये साधनमाह— “निय…कौ ॥ तयोरिच्छाद्वेषयोर्नियमानियमौ विशेषकौ ।” अयमेव चेच्छाद्वेषयोर्विशेषो यद् भूताश्रयत्वमनयोर्व्यावर्त्य तदितराश्रयत्वव्यवस्थितिः । तत्रानियमं तावदाह—“ज्ञस्येच्छाद्वषनिमित्ते प्रवृत्तिनिवृत्ती” स्पन्दास्पन्दौ, “न स्वाश्रये” नेच्छाद्वेषयोराश्रये । किं तर्हि ? “प्रयोज्ये” परश्वादौ “आश्रये” दृष्टे । “तत्र प्रयुज्यमानेषु” एव “भूतेषु प्रवृत्तिनिवृत्ती” स्यातां “न सर्वेषु” प्रयोजकेष्वपि शरीरादिष्विति । सेयम् अनियमोपपत्तिः असार्वत्रिकत्वमनियम इति । एतदुक्तं भवति शरीरमिच्छाज्ञानद्वेषानाधार इच्छादिजनितस्पन्दास्पन्दाधारत्वात् परश्वादिवदिति ।

तदेवमनियमं भेदकं व्याख्याय नियमं व्याचष्टे—“यस्य तु चार्वाकस्य” दर्शने “ज्ञत्वाद् भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये शरीरादौ” तस्य “चार्वाकस्य । यथा भूतानां गुरुत्वादि गुणान्तरनिमित्ता प्रवृत्तिः” पतनादिलक्षणा, तस्यैव गुरुत्वादेर्गुणान्तरस्य प्रतिबन्ध आधारद्रव्यसंयोगेन, तस्माच्च “निवृत्तिः” अपतनादिका “भूतमात्रे भवति नियमेन” व्याप्ता न तु शरीरोपगृहीतेष्वेव भूतेषु,87 “एवं भूतमात्रेज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृती स्वाश्रये स्याताम् ।” एतदुक्तं भवति—ये ये पृथिव्यादिधर्मास्ते ते यावत्पृथिव्यादिभाविनो दृष्टाः यथा गुरुत्वादयः, ज्ञानेच्छादयोऽपि चेत् पृथिव्यादिधर्मास्तैरप्यवश्यं यावत्पृथिव्यादिभाविभिर्भवितव्यं न तु घटादौ दृश्यन्ते । तस्मान्न पृथिव्यादिधर्मा ज्ञानादय इति ।

अत्र च “भाष्यकृता” सार्वत्रिकत्वप्रसङ्गविवक्षया नियमशब्दः प्रयुक्तः, असार्वत्रिकत्वविवक्षया त्वनियमशब्दः । “वार्त्तिककृता” तु प्रयोज्य एवेत्यवधारणं विवक्षित्वा प्रादेशिके नियमशब्दः प्रयुक्तः सार्वत्रिके तूक्तनियमरूपावधारणाभावादनियमशब्द इति विवक्षाभेदाश्रयणाद् अविरोध इति ।

यस्तु नियमं मदशक्त्या व्यभिचारयेत्, यथा किल किण्वादयः परिणामविशेषवन्तो मदिराभावमापन्ना मदयन्ति एवं कायाकारेण परिणतानि पृथिव्यादीनि चेतयन्ते नान्यथा, तेन घटादिष्वप्रसङ्ग88 इति, तं प्रत्याह—“एकशरीरे चेति ।” यथा मदिरावयवेषु प्रत्येकमेव मदशक्तिरस्ति न पुनः समुदायमात्रसमवायिनी, एवं शरीरावयवेष्वपि प्रत्येकमेव चैतन्येन भवितव्यम्, न च वैयात्यात् काये समुदायाश्रयमेव चैतन्यं नावयवाश्रययमिति शक्यमास्थातुं त्रिचतुरावयवच्छेदेऽपि चैतन्योपलम्भात् । तस्मादवयवानां प्रत्येकं चैतन्ये शरीर एकस्मिन् बहवश्चेतनाः स्युः । भवतु “किं नो बाध्यत इति चेत् ?” न, विरुद्धाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्यं जायेत । न च बहूनामेकाभिप्रायनियमो दृष्टः । काकतालीयन्यायेन स्यादेकाभिप्रायत्वं न पुनरस्य नियमो दृष्टचर इति प्रसिद्धत्वाद् दूषणमेतदुपेक्ष्य “प्रत्ययव्यवस्था न भवेदिति” दूषणमुक्तम् । एकस्मिन् शरीरे प्रत्ययानां परस्परप्रतिसन्धानं पश्यामो न शरीरान्तर इति व्यवस्था । सेयं यद्येकस्मिन् शरीर एक एव चेतनो न चासौ शरीरान्तरे ततो भवेन्नान्यथेत्यर्थः । क्वचित् पाठः प्रत्ययव्यवस्थानानुमानं स्यादिति89 । स सुगम एव ।

“नियमानियमाविति” यदुक्तं तत्रानुमानप्रयोगं सूचयति “भाष्यकारः—दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेष” इति । हिताहितप्राप्तिपरिहारहेतुः परिस्पन्दः प्रवृत्तिविशेषः । सोऽयं प्रयोगः । त्रसस्थावरशरीरेषु प्रवृत्तिविशेषः स्वाश्रयव्यतिरिक्ताश्रयगुणनिबन्धनम्, प्रवृत्तिविशेषत्वात् परश्वादिगतप्रवृत्तिविशेषवदिति । न केवलं शरीरस्य प्रवृत्तिविशेषोऽन्यगुणनिमित्तः, भूतानामपि तदारम्भकाणां प्रवृत्तिविशेषोऽन्यगुणनिबन्धन एवेत्याह—“तदवयवव्यूहलिङ्ग” इति ।

“नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानादिति च समान” इति यथा हीन्द्रियार्थयोर्विनाशेऽपि ज्ञानावस्थानान्नेन्द्रियार्थयोर्गुणो ज्ञानमेवं बाल्यकौमारयौवनवार्धकावस्थासु शरीरविनाशेऽपि ज्ञानावस्थानान्न शरीरगुणो ज्ञानमित्यर्थः । अपि च, ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्र्योः [३ । २ । ३४] इत्यत्रारम्भनिवृत्तिशब्देन न प्रवृत्तिनिमित्तमात्रमभिमतमस्माकम्, अपि तु हिताहितप्राप्तिपरिहारार्थः परिस्पन्दः90 । तमिमं प्रवृत्तिविशेषमविज्ञाय त्वया प्रवृत्तिसामान्येन प्रत्यवस्थितमित्यप्रतिपत्तिस्ते निग्रहस्थानमित्याह “भाष्यकारः—क्रियामात्रमिति ।” तद् “वार्त्तिककारो” व्याचष्टे “अन्यथाभिधानाच्च ।” अयुक्तमिति शेषः ॥ ३७ ॥

यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥ ३ । २ । ३८ ॥

स्यादेतत् । “यथोक्तहेतुत्वादि”त्यादयो वक्ष्यमाणसूत्रगता हेतवो भूतेन्द्रियचैतन्यप्रतिषेधेऽपि समाना इति कस्मान्मनोमात्रे चैतन्यं प्रतिषिध्यते “न मनस” इति ? अत आह—“भूतेन्द्रियमनसामिति । यथो…सः ॥ यथोक्तहेतुत्वादिति” व्याचष्टे—“इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् इत्यत” आत्मलक्षणात् “प्रभृति” तल्लक्षणपरीक्षापर्यवसानं यावद् यदुक्तं तत् “सङ्गृह्यते ।” अत्र च हेतुशब्देन इच्छादि“सूत्रं” सुसङ्गृहीतं भावप्रत्ययेन हेत्वर्थविषया परीक्षोपलक्षिता । “वार्त्तिकम्—यथोक्तहेतुत्वादिति” दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् इत्येवमादीनां हेतूनाम् उक्तहेतुत्वं तस्मादिति योजना । तदनेन “भाष्य”गत“प्रभृति”पदार्थो विवृतः । नन्वेते यथोक्ता हेतवः परैः प्रतिषिद्धा इत्यत आह—“अप्रतिषेधात् ।” वाङ्मात्रेण प्रतिषिद्धा न वस्तुत इति । “धारणप्रेरणव्यूहनक्रियासु” यथायोगं शरीरेन्द्रियाणि परतन्त्राणि भौतिकत्वाद् घटादिवदिति । मनश्च परतन्त्रं करणत्वाद् वास्यादिवदिति कस्यचित् “प्रयत्नवशात् प्रवर्तन्ते, चैतन्ये पुनः स्वतन्त्राणि स्युः ।” तथा च पारतन्त्र्यप्रसाधकानुमानविरोध इति भावः ।

यस्तु कश्चिदभ्युपेतवेदप्रामाण्यः पुरुषमचेतनं फलभागिनमभ्युपगम्य शरीरादीनां चैतन्यं रोचयते तं प्रति तेषामचैतन्ये हेतुमाह—“अकृताभ्यागमाच्च91 ।” उपदेशफलं हि कर्तरि कर्त्रपेक्षितोपायताभिधानलक्षणत्वादुपदेशस्य । यथाह स्मात्र भगवान् “जैमिनिः” शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् इति । उपपादितं चैतदस्माभिः विधिर्विधायकः [२। १। ६३] इत्यत्रान्तरे । स्वर्गकामो यजेत इति च कर्त्रभिप्रायक्रियाफलावगमात् तत्रैवात्मनेपदस्मरणात् य एव कर्मणः कर्ता स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् । शरीरादीनां चैतन्ये चेतनस्य स्वातन्त्र्यात् त एव कर्मणः कर्तारः, न तेषां भस्मसाद्भूतानामामुष्मिकस्वर्गादिफलशालितासम्भव इत्यात्मनोऽचेतनस्य तद्भागिता अभ्युपगन्तव्या । तथा चैतैः शरीरादिभिः कृतं कर्म पुरुषेण भुज्यते इति शास्त्रप्रतिक्षिप्ताकृताभ्यागमकृतनाशदोषप्रसङ्गः । अचैतन्ये तु शरीरादीनां तदतिरिक्तस्य च पुरुषस्य चैतन्ये पुरुषः स्वातन्त्र्यात् कर्ता । तत्प्रयोज्यतया शरीरादीनि तत्साधनानीति तत्साधनस्य पुरुषस्य स्वकृतकर्मफलोपभोग इति न शास्त्रव्याकोपः, नापि प्रेक्षावत्प्रवृत्तिविरोध इति भावः ॥ ३८ ॥

परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ ३ । २ । ३९ ॥

“अथायं सिद्धोपसङ्ग्रहः” उपसंहार इत्यर्थः । “परि…श्च ॥” उपपत्तिपदार्थव्याख्यानम् “अप्रतिषेधादिति । भाष्यम्—कायस्य भेदाद्” विनाशादिति । “अप्रतिसंहितमिति,” पूर्वेद्युरर्धकृतानामपरेद्युः परिसमापना दृष्टा मयारब्धं मयैव परिसमापनीयमिति प्रतिसन्धाने, अप्रतिसन्धाने तु न परिसमापयेत् । परिसमापने वा चैत्रारब्धमपि मैत्रः परिसमापयेत् यतः स्वयमारब्धात् परैरारब्धम् “अव्यावृत्तम्” अविशिष्टं स्वस्यापि परत्वाद् “अपरिनिष्ठितं” च कर्मजातं स्यात् । तथा हि वैश्यस्तोमे वैश्य एवाधिकृतो न ब्राह्मणराजन्यौ, एवं राजसूये राजैव न ब्राह्मणवैश्यौ । एवं सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यौ । शूद्रश्चानधिकृत एवेति परिनिष्ठा । सा बुद्धिसन्ततिमात्रे न स्यात् । कुतः ? सत्त्वक्षणानां92 सर्वेषामेव त्रैलोक्यवैलक्षण्येन भेदात् । अन्यापोहसामान्यस्य अपास्तत्वादित्यर्थः93 । अप्रतिसंहितत्वे हेतुमाह—“स्मरणाभावादिति” ॥ ३९ ॥

स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥ ३ । २ । ४० ॥

त्रिकालव्यापिनी ज्ञानशक्तिरेव ज्ञस्वाभाव्यम् । तच्चाकाशादिभ्यो व्यावृत्तं त्रिकालव्यापि स्वरूपमेवात्मनः ॥ ४० ॥

प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥ ३ । २ । ४१ ॥

स्मृतिहेतूनामयौगपद्यादित्येतत् सिंहावलोकितन्यायेन पृच्छत्यनन्तरं “सूत्रम्” अवतारयितुं “स्मृतिहेतूनामिति ।” तात्पर्याभिधानपुरःसरं “सूत्रम्” अवतारयति—“स्मृतिकारणानामिति । प्रणि…भ्यः ॥ भाष्यम्-सुस्मूर्षया मनसो धारणमिति ।” तेषु तेषु विषयेषु प्रसक्तस्य मनसस्ततो निवारणमित्यर्थः । सुस्मूर्षितलिङ्गानुचिन्तनं वा साक्षाद् वा तत्र धारणं तल्लिङ्गे वा प्रयत्न इत्यर्थः । “निबन्धः खल्विति ।” यथा अत्रैव प्रमाणादयोऽर्था एकग्रन्थोपात्ता अन्योन्यस्मृतिहेतवः । “आनुपूर्व्या वा ।” यथा प्रमाणपदार्थं स्मृत्वा प्रमेयं स्मरति । “इतरथा वा ।” यथा निग्रहस्थानानां स्मृत्वा प्रमाणानां स्मरति । निबन्धस्य व्याख्यानान्तरमाह—“धारणेति ।” धारणाशास्त्रं “जैगीषव्यादि”प्रोक्तं तत्कृतः “प्रज्ञातेषु” एव वस्तुषु नाडीचक्रहृत्पुणुरीककण्ठकूपनासाग्रतालुललाटब्रह्मरन्ध्रादिषु “स्मर्तव्यानां” बीजरूपसंस्थानास्त्राभरणभृतां च देवतानाम् “उपनिक्षेपः” समारोपः । तथा च तत्र देवताः समारोपितास्तास्तत्तदवयवग्रहणात् स्मर्तव्या94 इत्यर्थः । “अभ्यासजनितः संस्कार आत्मगुणः” अत्र “अभ्यासशब्देनोच्यते ।” तेन पट्वादरप्रत्ययावपि स्मृतिहेतू सङ्गृहीतौ95 भवतः, तयोरप्यभ्यासवत्संस्काराधानद्वारेणैव स्मृतिहेतुत्वात् । अत्र96 च स्मृतिकारणानां नासमावेशो विवक्षितः । तेन संस्कारेण स्मृतिहेतूनां सर्वेषामेव प्रणिधानादीनां समावेश एव । निबन्धादिभिस्तु सह यथायोगं समावेशासमावेशावूहनीयाविति । अयत्नत उपलब्धं “लिङ्गं पुनरिति ।” संयोगिन उदाहरणं “धूमोऽग्नेरिति ।” समवायिन उदाहरणं कुड्यादिव्यवहिताया “गोः” अव्यवहितं प्रत्यक्षं “विषाणम्,” गवा समस्ति विषाणस्य समवाय इति समवायि विषाणमुक्तम् । न तु तद्गवि समवायि गोरेव स्वावयवे विषाणादौ समवायात् । “एकार्थसमवायीत्यस्य” एकार्थस्य समवाय एकार्थसमवायः । स यस्यास्ति स एकार्थसमवायीत्यर्थः । तदिदमुदाहरणम्—“यथा पाणिः पादस्येति ।” एकस्य खलु चैत्रावयविनः97 समवायः पादे च पाणौ च, तौ पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसमवायवता प्रत्यक्षेणाप्रत्यक्ष एकः स्मर्यत इति । यदा त्वेकस्मिन्नर्थे समवाय इत्यर्थः तदा रूपं स्पर्शस्येत्युदाहरण् । स्वाभाविकाविनाभावयुक्तं लिङ्गं साङ्केतिकं तु चिह्नमिति विशेषः । “ग्रामणीः” नायकः । यद्यपि सर्वत्रैव प्रणिधानादौ सम्बन्धः सम्प्लवते तथापि प्रणिधानादिपरिहाण्या सम्बन्धान्तरे गोबलीवर्दन्यायेन सम्बन्धशब्दो वर्तते । न च सम्बन्धपदेन सर्वसङ्ग्रहादनर्थकमितरपदोपादानमिति वाच्यम्, उक्तमत्र “भाष्यकृता” अन्यत्र “स्ववाक्यलाघवं नाद्रियते सूत्रकार” इति । शिष्यधीप्रसादश्चैवं भवति विशिष्याभिधानादिति । “आनन्तर्यादिति ।” ब्राह्मे हि मुहूर्ते प्रबोधानन्तरमुत्थानं ततो मौनं ततो विडुत्सर्गः ततः शौचं ततो मुखप्रक्षालनदन्तधावनादीनि । “वियोगादिति” शोकमुपलक्षयति । ततोऽपि शोकविषयस्य स्मरति । “एककार्यादिति ।” यथा सप्तदशावराणामृद्धिकामानामेकं सत्रं कार्यम् । तत्रैकं यजमानं दृष्ट्वा यजमानान्तरं स्मरति । “अतिशयात्” यथा ब्रह्मचारी उपनयनविद्याविनयाद्यतिशयोत्पादकमाचार्यं स्मरति । “प्राप्तेः” तद् यथा प्रासर्पकः98 यतोऽनेन मृष्टमन्नं99 प्राप्तं प्राप्तव्यं वा तमभीक्ष्णं स्मरति । इच्छा स्नेहः । स तु भ्रात्रादिषु । “द्वेषः” प्रतिकूले दारादौ, ताभ्यामपि च तद्विषयं स्मरति । “क्रियया” कार्येणेत्यर्थः । “धर्माद्” वेदाभ्यासजनिताद्100 जातिं स्मरति पूर्विकाम् । एवं जातमात्रस्य सुखादिसाधनस्मरणं धर्माधर्माभ्यां द्रष्टव्यम् । ननून्मादादयोऽपि स्मृतिहेतवो लोकसिद्धाः, तत् किं तेऽपि नोक्ता इत्यत आह—“निदर्शनमात्रं चेदं स्मृतिनिमित्तानामिति”101 ॥ ४१ ॥

॥ बुद्धेरात्मगुणत्वप्रकरणम् ॥

बुद्धेरुत्पन्नापवर्गित्वप्रकरणम्

कर्मानवस्थायिग्रहणात् ॥ ३ । २ । ४२ ॥

तदेवं सिंहावलोकितं समर्थ्य प्रकृतायामेव बुद्धौ विचारान्तरमारभते— “अनित्यायां च बुद्धाविति ।” द्रव्याश्रितत्वादित्युच्यमानेऽपि पिठरादिगतै रूपादिभिर्व्यभिचारोऽत आह—“व्यापकद्रव्याश्रितत्वादिति ।” तथाप्यात्मत्वादिभिरने— कान्तोऽत आह—“जातिमत्त्वे102 सतीति ।” तथापि विभुत्वेन परिमाणेनानेकान्तोऽत आह—“अस्मदादिप्रत्यक्षत्वे सतीति ।” कर्मादिसन्तानविषया बुद्धय आशुतरविनाशिन्यः । अत्र यदि प्रकाशकत्वादित्युच्येत तत आत्मनानेकान्तः स्यादत आह—“करणत्वे सतीति ।” तथापि मनःश्रोत्रादिभिरनेकान्तोऽत आह—“प्रत्यर्थेति ।” एका बुद्धिरेकविषया न विषयान्तरविषया । एवमन्या अपि बुद्धयः स्वविषयमात्रे पर्यवसिताः । न च मनः श्रोत्रादि तथा, नानाविषयत्वात् तस्येति । ननु प्रत्यर्थनियतत्वमव्यापकं युगपदनेकार्थसन्निकर्षे सति नानाविषयाप्येका बुद्धिरुपजायतेऽत आह—“प्रतिक्षणं” कर्मणोऽपूर्वस्यार्थस्योत्पत्तौ सत्यां तत्कार्याया बुद्धेः क्रमेणोत्पत्तौ103 कारणक्रमानुविधानात्, कार्यक्रमस्य प्रत्यक्षबुद्धेर्विषयकारणत्वात् । एकैकश्चासौ विषयः क्रमोत्पादवान् कारणमिति क्रमवतीनां बुद्धीनां सर्वासामेव सिद्धं प्रत्यर्थनियतत्वम् । नियमश्च तज्जातीयकर्मान्तरापेक्षया न तु द्रव्यापेक्षया । तेन कर्मबुद्धेर्द्रव्यादिविषयत्वेऽपि प्रत्यर्थनियमाविरोधः । प्रत्यर्थनियमविशेषणयोगाच्च प्रागात्मनाऽनैकान्तिकत्वशङ्कायां करणत्वं विशेषणमिति ।

प्रयोगान्तरमाह—“अथवेति ।” सुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत उक्तं “गुणत्वे सतीति ।” रूपादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तम्—“अबाह्येति ।”

“कर्मा…णात् ॥” अवस्थितग्रहणेऽपि प्रत्यक्षनिवृत्तेर्ध्वंसिनीति । यद्यपि शक्यं वक्तुं स्पर्शादिबुद्धिरेकैवैतावन्तं कालमवस्थिता व्यवधानादिनार्थसन्निकर्षविनाशाद् विनङ्क्ष्यति, निमित्तकारणविनाशोऽपि हि कार्यविनाशहेतुर्दृष्टः, अपेक्षाबुद्धिविनाशाद् द्वित्वविनाशवदिति, तथापि क्षणिकत्वे हेत्वन्तरादेव सिद्धे बुद्धीनामभ्युच्चचयमात्रतयैतद् द्रष्टव्यम् । तथा हि क्षणविध्वंसिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनेनैव स्थायिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनमपि सूचितम् । स्थिरगोचरा बुद्धयः क्षणिकाः, बुद्धित्वात् कर्मादिबुद्धिवदिति । बुद्धिरेव स्मर्त्री ग्रहीत्री चेत्यात्मभावं बुद्धावारोप्य शङ्कते—“स्मृतेरवतिष्ठत इति चेदिति ।” निराकरोति—“नात एवेति ।” न हि बुद्धिः स्मर्त्री येन तदभावे स्मृतिर्नोत्पद्येत, अपि त्वात्मा । स च नित्यः । बुद्धिसद्भावस्तु स्मृतिविरोधीत्यर्थः अथ यदि बुद्धिर्नास्ति कुतस्तर्हि स्मृतिरुत्पद्यते ? न ह्यकारणं कार्यं भवति । न चात्ममात्रं कारणम् । मा भूदात्मनो नित्यत्वेन स्मृत्युत्पादोऽपि नित्यः । तस्मात् स्मृत्युत्पादोऽपि लिङ्गं बुद्ध्यवस्थान इत्यत आह—“अन्यतश्च तद्भावादिति ।”

स्यादेतत् । बुद्धिजः संस्कारश्चेत् स्मृतिहेतुरथ यावत्संस्कारं स्मृतिः स्यादित्यत आह—“ततः प्रणिधानादीति ।” न संस्कारोऽस्तीत्येतावता104 स्मृतिरपि तु तत्प्रबोधात् । तत्प्रबोधश्च कदाचित्105 प्रणिधानादेरित्यर्थः ॥ ४२ ॥

अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ॥ ३ । २ । ४३ ॥

बुद्धिस्थैर्यवाद्याह—“यद्यनवस्थायिनीति” ॥ ४३ ॥

हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ३ । २ । ४४ ॥

दूषयति—“नविरोधादिति ।” बुद्धिमात्रस्य स्थायित्वं प्रतिज्ञाय विद्युत्सम्पातजाताया पटादिबुद्धेरनवस्थायित्वाभिधानं106 विरुद्धमित्यर्थः । अव्यक्तग्रहणस्यान्यथासिद्धत्वं चाह—“अव्यक्तग्रहणस्येति ।” धर्मिग्रहणहेतोर्भेदात् । अव्यक्तश्च107 यो धर्मिग्रहणे हेतुः सामान्यमात्रवन्तं धर्मिणं गृह्णाति तद्वशादव्यक्तग्रहणम्,108 यस्तु सामान्यविशेषवन्तं तद्वशाद् व्यक्तग्रहणमित्यर्थः109 । धर्मिणं त्वनाश्रित्य स्वे विषये ग्रहणानां “तदसम्भवाच्च” अव्यक्तत्वासम्भवादित्यर्थः110 । धर्मिणमनाश्रित्येत्यविद्वान् शङ्कते—“लोकविरोध इति चेदिति ।” धर्मिग्रहणमाश्रित्य निराकरोति—“नान्यथेति ।” दोषान्तरमाह—“अनेकान्ताच्चेति । वार्त्तिक”व्याख्यानेनैव “भाष्यं” व्याख्यातम् ॥ ४४ ॥

न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥ ३ । २ । ४५ ॥

॥ इति बुद्धेरुत्पन्नापवर्गित्वप्रकरणम् ॥

बुद्धेः शरीरगुणव्यतिरेकप्रकरणम्

द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ ३ । २ । ४६ ॥

“शरीरेति ।” पूर्वं हि भूतेन्द्रियमनसां चैतन्यं साक्षात् निराकृतमुपक्षेपात्111 शरीरस्य, सम्प्रति तु शरीरस्यैव साक्षात् चैतन्यं निरस्यत इति तात्पर्यभेदादपुनरुक्तम् । वस्तुतस्तु पौनरुक्त्ये परिहारं112 “भाष्यकारः” प्रकारान्तरेण वक्ष्यति । “तद्गुणत्वं तत्रोपलब्ध्या सिध्यति” अबाधितयेति शेषः । “द्रव्ये…यः” ॥ ४६ ॥

यावच्छरीरभावित्वाद्रूपादीनाम् ॥ ३ । २ । ४७ ॥

“न कारणानुच्छेदाच्चेतनायाः” शरीरमस्याः कारणम् । तच्चानुच्छिन्नम् । संस्कारस्य तु कारणोच्छेद113 इति द्रष्टव्यम् ॥ ४७ ॥

न पाकजगुणान्तरोत्पत्तेः ॥ ३ । २ । ४८ ॥

तच्च—“न पा…त्तेः ॥” इति । नात्यन्तिकः परमाणौ वा पिठरे वा रूपाभाव इत्यर्थः ॥ ४८ ॥

प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ ३ । २ । ४९ ॥

तदेवमात्यन्तिकानात्यन्तिकत्वं वैधर्म्यमुक्त्वा सप्रतिद्वन्द्वित्वासप्रतिद्वन्द्वित्वं वैधर्म्यान्तरमाह—“इतश्चेति । प्रति…धः ॥” प्रतिद्वन्द्विसिद्धेः पाकजानां तद्व्यभिचारोद्भावनेन चैतन्यस्य यावच्छरीरभावित्वादप्रतिषेधः ॥ ४९ ॥

शरीरव्यापित्वात् ॥ ३ । २ । ५० ॥

“प्रत्ययव्यवस्थाप्रसङ्गात्”—यथा देवदत्तस्य ज्ञानं न यज्ञदत्तः प्रतिसन्धत्ते किं तु देवदत्त एवेति व्यवस्था । एवमेकस्मिन् शरीरेऽवयवान्तरज्ञानमवयविनो वा ज्ञानं न प्रतिसन्दधीत114 इत्यर्थः ॥ ५० ॥

न केशनखादिष्वनुपलब्धेः ॥ ३ । २ । ५१ ॥

“दृष्टान्तसूत्रमिति ।” न करचरणादयश्चेतनाः शरीरावयवत्वात् केशनखादिवदिति दृष्टान्तार्थं “सूत्र”मित्यर्थः ॥ ५१ ॥

त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ ३ । २ । ५२ ॥

“त्वक्पर्यन्तत्वादिति” शरीरावयत्वं केशनखादीनां हेतुरसिद्धः । इन्द्रियाश्रयत्वं हि शरीरलक्षणम् । तद् यत्र शरीरसमवेतं तेनेन्द्रियाश्रयेणावश्यं भवितव्यम् । त्वक्पर्यन्तश्चावयवसमूहस्तथा न तु केशनखादयस्तादृशा इति न शरीरावयवा इत्यर्थः ॥ ५२ ॥

शरीरगुणवैधर्म्यात् ॥ ३ । २ । ५३ ॥

न रूपादीनामितरेतरवैधर्म्यात् ॥ ३ । २ । ५४ ॥

ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ॥ ३ । २ । ५५ ॥

“रूपादीनामितरेतरवैधर्म्यमननुसंहितं च” शरीरगुणत्वेनानन्वितमित्यर्थः । न हि येषां चाक्षुषत्वरासनत्वादिरूपवैधर्म्ययोगस्ते न शरीरगुणा इति दृष्टम् । अव्यावृत्तं च शरीरगुणानां115 तादृशवैधर्म्यदर्शनात् । तस्मादशरीरगुणत्वान्वयव्यतिरेकाभावाद्116 वैधर्म्यमात्रमेतत् । बाह्यकरणप्रत्यक्षाप्रत्यक्षशरीरगुणवैधर्म्यं मानसप्रत्यक्षत्वम् । “अन्वयव्यतिरेकि तु चेतनायाः शरीरगुणत्वसाधनं न भवति” अपि तु तदन्यगुणत्वसाधनमित्यर्थः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादिति ।

“ये हेतव” इति बहुवचनं हेत्वेकदेशविवक्षया । “न शरीरगुणश्चेतना अयावद्द्रव्यभावित्वाद्” इत्युच्यमाने संस्कारेणानेकान्त इत्यत उक्तम्— “निमित्तान्तराभाव” इति । तथापि पाकजेन गुणेनानेकान्त इत्यत आह—“विरोधिगुणादर्शने चेति । शरीरव्यापित्वादिति । न साधनमिति ।” प्रसङ्गो हि न साधनं हेतोरभावात् । यथाहुः अस्ति प्रसङ्गो न प्रसङ्गः साधनम् इति । “बाह्यकरणाप्रत्यक्षत्वादिति ।” न च गुरुत्वादिभिरनेकान्तः । तेषां खल्वप्रत्यक्षत्वमेव, न तु बाह्यकरणप्रत्यक्षत्वमिति117 भावः ॥ ५५ ॥

॥ इति बुद्धेः शरीरगुणव्यतिरेकप्रकरणम् ॥

मनःपरीक्षाप्रकरणम्

ज्ञानायौगपद्यादेकं मनः ॥ ३ । २ । ५६ ॥

मनःस्वरूपपरीक्षायां “भाष्यवार्त्तिके” निगदेनैव व्याख्याते ॥ ५६ ॥

न युगपदनेकक्रियोपलब्धेः ॥ ३ । २ । ५७ ॥

संस्त्यायनं118 स्थानम् ॥ ५७ ॥

अलातचक्रदर्शनवत्तदुपलब्धिराशुसञ्चारात् ॥ ३ । २ । ५८ ॥

यथोक्तहेतुत्वाच्चाणु ॥ ३ । २ । ५९ ॥

॥ इति मनःपरीक्षाप्रकरण् ॥

शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम्

पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ ३ । २ । ६० ॥

मनसि विचार्यमाणे कः सम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्येत्यत आह— “मनसः खल्विति ।” मन एवाधिकरणविचारेणापि परीक्ष्यत इति नासम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्य । परित ईक्षा परीक्षा । सा च स्वरूपतश्च सम्बन्धितश्च । शरीरं च मनःसम्बन्धि । तदधिकरणत्वान्मनसः । तस्मात् मनस एवेयं परीक्षा या शरीरस्येत्यर्थः ।

“पूर्व…त्तिः ॥ उत्पत्तिसमकालमिति ।” सममिव समम् । उत्पत्त्यनन्तरमित्यर्थः । “क एवमाह न ददातीति ।” यदि समग्रं भवति तत उत्पत्त्यनन्तरं ददात्येवेत्यर्थः119 । “विपच्यमानः कर्माशय”120 इति स्वफलं भोजयन्नित्यर्थः । “यानि वा प्राण्यन्तराणि तस्य कर्मणः समानोपभोगीनीति121 ।” तद् यथा किन्नरत्वनिर्वर्तनीयं कर्म स्त्रीपुंसभोग्यं स्त्रीपुंसयोरन्यतरकर्मप्रतिबन्धे फलं न ददातीति । “यानि च प्राण्यन्तराणि” स्नेहविषया भ्रात्रादयः तस्य “कर्मणो भोगीनीति” कर्मफलानामन्नाद्यश्वग्रामादीनां122 भोगित्वात् “कर्मभोगीनीत्यु”च्यन्ते तेषां प्राणिनां कर्मभिरभाग्यादिशब्दवाच्यैः प्रतिबन्धात् । “तस्य वा कर्मणः सहकारि धर्माधर्मलक्षणं निमित्तं नास्तीति ।” अयमर्थः । दृष्टानां सेवादिकर्मणां व्यभिचाराद् ग्रामादिलाभेऽदृष्टं कारणं कल्पनीयम् । यथाहुः तच्चैव तत्र कारणं शब्दश्च इति । दृष्टं सेवादि च कारणम् । शब्दश्चेति विषयिणा तद्विषयमदृष्टमुपलक्षयति । ते च ग्रामादयः । तस्माददृष्टादुपजायमाना अन्तरा विघ्ननाशाय कोपशमाय देवतानमस्कारादिजनितमपि धर्ममपेक्षन्ते । तस्मात् प्राग्भवीयेण धर्मेण स्वफल निर्वर्त्तनाय धर्मान्तरं सहकार्यपेक्ष्यते । सहकारिणां च वैचित्र्यात् प्रतिबन्धापगमहेतोरपि सहकारित्वाविरोधः । तेन कर्मणः सहकारिनिमित्ताभावात् प्रतिबद्धमदृष्टं फलं न जनयतीत्यर्थः । “तस्य वा” कर्मणः “सहकारिणः कारणस्य” गरीयसा कर्मान्तरेण “प्रतिबन्धात्” फलस्यानारम्भः । एवं स्वकर्मणां सहकारिनिमित्ताभावप्रतिबन्धावुक्त्वा समानोपभोगसत्त्वान्तरकर्मणामपि सहकारिनिमित्ताभावप्रतिबन्धौ दर्शयति—“सत्त्वान्तरकर्मणां चेति123 ।”

रूपादिमत्त्वादित्युच्यमाने परमाणुभिरनेकान्तः स्यादत आह—“बाह्यकरणग्राह्यत्वे सतीति ।” इन्द्रियग्राह्यत्वे सतीत्येतावतैव सिद्धे इन्द्रियग्राह्यराशेर्बाह्यकरणग्राह्यं124 राश्यन्तरमित्येतावन्मात्रविवक्षया बाह्यकरणग्राह्यत्वे सतीत्युक्तम् ॥ ६० ॥

भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ॥ ३ । २ । ६१ ॥

न साध्यसमत्वात् ॥ ३ । २ । ६२ ॥

सिकतादिदृष्टान्तस्य साध्यसमत्वेनैव पुरुषार्थक्रियासामर्थ्यादित्यस्य हेतोरनैकान्तिकत्वोद्भावनमपि प्रत्युक्तम् । सिकतादीनामपि कथञ्चित् पुरुषार्थहेतुत्वात् तत्सर्गः पुरुषगुणपूर्वक इत्युक्तम् ॥ ६२ ॥

नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥ ३ । २ । ६३ ॥

मा भूद् वा पुरुषगुणपूर्वकत्वं सिकतादिसर्गस्य तथापि शरीरस्योत्पत्त्यादि परिभावयन्तः सिकतादिभ्यो वैषम्यं वीक्षमाणास्तद्विलक्षणकारणत्वमेव प्रतिपद्यामहे । तथा च सिध्यति पुरुषगुणनिमित्ततेत्याह—“विषमश्चायमुपन्यास” इति । “नोत्प… त्रोः ॥ ननु माता पितरौ न साक्षात् शरीरोत्पत्तौ कारणमित्यत आह—मातापितृशब्देन लोहितरेतसी” इति । “अनुभवनीये” इति भव्यगेयादि पाठात् कर्तरि कृत्यः ॥ ६३ ॥

तथाहारस्य ॥ ३ । २ । ६४ ॥

इतोऽपि वैषम्यमित्याह—“तथा…स्य ॥” पूर्व“सूत्र”प्रतीकेन पूरयति— “उत्पत्तिनिमित्तत्वादिति प्रकृतम् ।” कललकण्डरमांसपेश्यादयो लोहितरेतसोः शरीरारम्भकयोः परिणामभेदाः ॥ ६४ ॥

प्राप्तौ चानियमात् ॥ ३ । २ । ६५ ॥

दम्पत्योः संयोगः प्राप्तिः । तस्यामनियमः शरीरोत्पादस्य तस्मात् । दृष्टस्य व्यभिचारादस्ति तददृष्टं यतः शरीरसर्ग इत्यर्थः ॥ ६५ ॥

शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥ ३ । २ । ६६ ॥

पार्श्वस्यः शङ्कते—“सर्वात्मभिरिति ।” ननु यदीयेनादृष्टेन यच्छरीरमुपात्तम्, तत् तस्यैव भोगायतनं नान्यस्येति नानियम इत्यत आह—“न च पुरुषगत” इति । आत्ममनःसन्निकर्षजौ हि धर्माधर्मौ । सन्निकर्षश्च मनसः सर्वात्मभिः साधारण इति । सर्वेषामेव धर्माधर्मौ, न पुनः कस्यचिदेवासाधारणावित्यर्थः । अस्योत्तरम्—“शरीरेति ।”

“शरी…र्म ॥” उक्तेनैवाभिप्रायेण शङ्कते—“तत्स्थता” एकपुरुषस्थता “कुत इति चेत् ?” उत्तरम्—“न स्वसंयोगेति ।” पुनः पृच्छति—“संयोगे कुतो नियम” इति । यथै वैकेनात्मना मनः संयुक्तम् एवमात्मान्तरैरपि । एवं यथैकेन मनसा स आत्मा संयुक्त एवं मनोऽन्तरैरपीति नात्ममनःसन्निकर्षेऽस्ति विशेष इत्यर्थः । उत्तरम्—“न मनोनियमहेतुत्वादिति ।” अदृष्टनियमनिबन्धनो हि मनोनियमः । मनोनियमनिबन्धनश्चादृष्टनियमः । अनादित्वाच्च बीजाङ्कुरवदन्योन्याश्रयो न क्षतिमावहतीत्यर्थः125 ॥ ६६ ॥

एतेनानियमः प्रत्युक्तः ॥ ३ । २ । ६७ ॥

तदेवमात्मगुणनिबन्धने शरीरसर्गे व्यवस्था दर्शिता । ये तु मेनिरे न कर्मनिबन्धनः शरीरसर्गः, अपि तु प्रकृत्यादिनिबन्धनः126 । प्रकृतयो हि स्वयमेव धर्माधर्मरूपनिमित्तानपेक्षाः सत्त्वरजस्तमस्तया प्रवृत्तिशीलाः स्वं स्वं विकारमारभन्ते । प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते । तद् यथा कृषीवलः केदारादप्पूर्णात् केदारान्तरमपूर्णमापिप्लावयिषुरपां सेतुमात्रं भिनत्ति । तास्तु निम्नाभिसर्पणस्वभावा अपहतसेतवः स्वयमेव केदारमाप्लावयन्ति । एवमापूरयन्ति127 प्रकृतयोऽपि विकारानिति । यथाहुः निमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवत् इति । तान् प्रत्याह—“एते…क्तः ॥ एतेन” कर्मसापेक्षाणां भूतानां शरीरसर्गे अनियमाभिधानेन तन्निरपेक्षाणां व्यतिरेकमुखेन “अनियमः प्रत्युक्तः ।” नियमो व्याप्तिः साधारणविग्रहवत्त्वं सर्वात्मनाम् । अनियमस्त्वव्याप्तिः कस्यचिदात्मनः किञ्ञ्चिच्छरीरं कस्यचित् किञ्चिदिति128 । प्रकृतिनिबन्धने हि शरीरसर्गे तस्या एकत्वात् सर्वात्मसाधारण्याच्च न शरीराणामस्त्यसाधारण्येहेतुः । भूतग्रहणं तु प्रकृत्युपलक्षणार्थम् । न केवलमकर्मनिमित्ते शरीरसर्गे साधारणविग्रहवत्त्वं दोषः, अपि तु मोक्षोऽपि न स्यादिति दर्शयितुं स्वपक्षे मोक्षमुपपादयति—“उपपन्नश्चेति । साङ्ख्य”पक्षे तु न मोक्षः स्यादिति दर्शयति—“कर्मनिरपेक्षेष्विति” ॥ ६७ ॥

तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ३ । २ । ६८ ॥

शङ्कते—“तददृष्टकारितमिति चेत्” इति । “तद…र्गे ॥” उपभोग्यशब्दाद्यदर्शनं प्रकृतिपुरुषभेदादर्शनं चादृष्टमुच्चते । तत्कारितमित्यर्थः । निराकरोति—“एतम्मिन्निति ।” यथा प्रागदर्शनमेवं निरोधसमाधेः पश्चादप्यदर्शनमित्यपवृक्तोऽपि पुनः संसरेदित्यर्थः ।

शङ्कामुत्थाप्य दूषयति—“चरितार्थतेति ।” ननु न शब्दाद्युपभोगं पुरुषार्थं ब्रूमो येन चरितार्थता स्यात्, अपि तु गुणपुरुषभेदर्शनम्, तच्चाद्यापि न भवतीत्यारभते शरीरमिति देशयति—“पुरुषार्थेन च हेतुनेति ।” चोऽवधारणे पुरुषार्थत्वेनैवेत्यर्थः । परिहरति—“तस्य चाकरणादिति ।” चस्त्वर्थे देश्यनिवृत्तौ । यदर्थं शरीराण्यारभते तन्न कृतमन्यत्तु कृतमिति किं केन सङ्गतमित्यर्थः । शङ्कते—“दिदृक्षाविशेष” इति । दर्शनं हि नञा पर्युदस्तमतस्तन्मूलां दिदृक्षां ब्रूते । सा चापवर्गे नास्ति । तस्मान्नापवृक्तः संसरतीत्यर्थः । निराकरोति—“न प्रागिति ।” एतदुक्तं भवति दिदृक्षा हि बुद्ध्याश्रया नासत्यां बुद्धावस्ति । प्रकृतिपरिणामश्च बुद्धिः । तथा च सत्यां दिदृक्षायां बुद्धिः, बुद्धौ सत्यां दिदृक्षेति परस्पराश्रयप्रसङ्गः । न चात्रानादिता परिहारः, सृष्ट्यादौ द्वयोरभावात् । अस्माकं तु महाप्रलयसमयेऽपि129 धर्माधर्मसंस्कृतोऽस्त्यात्मा मनश्चेति विशेषः । सत्कार्यमादाय शङ्कते—“सर्वशक्तिमत्त्वादिति ।” निराकरोति—“न, अपवर्गाभावप्रसङ्गादिति ।” शिष्टं विभजते—“दिदृक्षावन्नानात्वदर्शनमप्यस्तीति ।” न तदर्थं प्रकृतेः प्रवृत्तिः, तथा च न संसारस्तत्प्रध्वंसश्चापवर्गः130 संसाराभावान्नास्तीत्यपवर्गाभाव इत्यर्थः । एतदेव स्फुटयति—“विद्यमाने च नानात्वदर्शने”131 तदर्थं “प्रधानस्य प्रवृत्तिरयुक्ता ।” ततः संसाराभावात् तत्प्रध्वंसोऽपवर्गो न स्यादिति भावः । तमेवापवर्गाभावं तद्विरोधिसंसारसत्त्वेन दर्शयति—“यदा च नानात्वदर्शनमिति ।” निदानानुच्छेदेन निदानिनो नोच्छेद इत्यर्थः । पुनर्विकल्पं दर्शयति— “अज्ञानमदर्शनमिति चेति ।” विवेकज्ञानाभावस्य तुल्यत्वादित्यर्थः । शेषमतिरोहितार्थमिति ।

“अपरे” तु “आर्हता अदृष्टं परमाणुगुणं वर्णयन्ति ।” पार्थिवानामणूनां मनसश्च गुणोऽदृष्टम् । तत्र पार्थिवाद्या अणवः स्वादृष्टप्रयुक्ताः शरीरमारभन्ते । मनश्च स्वगुणप्रयुक्तं तच्छरीरमाविशति । तच्च स्वकादेवादृष्टात् पुद्गलस्य सुखदुःखोपभोगं साधयति, न तु पुद्धलस्य धर्मोऽदृष्टमिति “साङ्ख्य”वत् तेषामपि “दिगम्बराणां” पुनःस्तत्प्रसङ्गोऽपवर्गे । एतदुपपादयति—“परमाणुगुणस्येति” ॥ ६८ ॥

मनःकर्मनिमित्तत्वाच्च संयोगाव्युच्छेदः ॥ ३ । २ । ६९ ॥

अपि चास्मिन् दर्शने प्रायणं न स्यादित्याह—“मनःकर्मनिमित्तत्त्वादिति । मनः…दः ॥” अस्मद्दर्शने तूपपद्यते प्रायणमित्याह—वर्तमानशरीरारम्भक“कर्माशयक्षये” तु भविष्यद्देहान्तरारम्भक“कर्माशयान्तरादपसर्पणं” मनस इति “युक्तं प्रायणम् । उभयहेतुरिति” उपसर्पणापसर्पणहेतुरित्यर्थः ॥ ६९ ॥

नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ३ । २ । ७० ॥

ननु भवतु संयोगाव्युच्छेदः किं नो बाध्यत इत्यत आह शरीरस्य “नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः । नित्य…त्तेः ॥” संयोगाव्युच्छेदादित्यर्थः । ननु सदकारणवन्नित्यम् इति कथं सकारणं शरीरं नित्यं भवेदित्यत आह शरीरस्य “नित्यत्वप्रसङ्ग इति प्रायणानुपपत्तिं ब्रूमः” विनाशानुपपत्तिमित्यर्थः132 । “यादृच्छिके” अकारणके “प्रायणे प्रायणभेदो न स्यात् ।” दृष्टश्च प्रायणभेदः, कश्चिद् गर्भस्थ एव प्रैति, कश्चिज्जातमात्रः, कश्चित्कुमारक इत्यादिरिति । अकारणस्य नित्यं सत्त्वमसत्त्वं वा स्यात् गगनवत् तत्कुसुमवदित्यर्थः ॥ ७० ॥

अणुश्यामतानित्यत्ववदेतत् स्यात् ॥ ३ । २ । ७१ ॥

अकारणत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रत्यवतिष्ठते—“अणुश्यामतावत्” इति । “अणु…त्” ॥ ७१ ॥

नाकृताभ्यागमप्रसङ्गात् ॥ ३ । २ । ७२ ॥

निराकरोति—“एतच्च नेति ।” प्रमाणेनाविषयीकृतमकृतं प्रत्युत प्रत्यक्षागमप्रतिषिद्धमिति133 यावत्, तस्याभ्यागमोऽभ्युपगमः, तत्प्रसङ्गादित्यर्थः । न च परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात् लोहितादिरूपवदित्यनुमानेन तस्या अपि पाकजत्वाभ्युपगमादिति भावः । “यथाश्रुति वा सूत्रार्थः ।” अकृतस्य कर्मणः फलोपभोगप्रसङ्गादिति । यदा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकः, तदासौ नित्यत्वात् न केनचित् क्रियते । तस्याकृतस्यैव फलं पुरुषैरुपभुज्यते । ततश्चायमास्तिकानां विहितप्रतिषिद्धप्रवृत्तिनिवृत्तिप्रचयोऽनर्थकः । शास्त्रप्रणयनं चाप्यनर्थकं भवेदिति भावः । एतच्च विस्तरोक्तं134 “भाष्ये ।” तस्यार्थो निगदव्याख्यातः ।

॥ इति शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां तृतीयाध्याये द्वितीयाह्निकम् ॥

॥ तृतीयाध्यायः समाप्तः ॥


  1. “°क्षणं प्रति” [च्] ↩︎

  2. “°स्याभ्युपगमात्” [च्] ↩︎

  3. “स्वतो” [च्] ↩︎

  4. “न तु क°” [च्] ↩︎

  5. “°भिधानेन श°” [च्] ↩︎

  6. २.१.१६ ↩︎

  7. “नाप्रयुज्यमानं” [च्] ↩︎

  8. द्रः न्यायालङ्कारः २.१.१ ↩︎

  9. “प्रत्ययायौ°” [ज्] ↩︎

  10. “क्वायं” [ज्] ↩︎

  11. “प्रत्ययो°” [च्] ↩︎

  12. “°पहितसामान्या” [च्] ↩︎

  13. “°धिगमो वा” [च्] ↩︎

  14. “प्रत्ययभेद°” [च्] ↩︎

  15. “बुद्धिस्तं” [च्] ↩︎

  16. “बौद्धैर्यत् साङ्ख्यराद्धान्ते दूषणमुक्तं” [च्] ↩︎

  17. “°मान इतीदममृष्यमाणः” [च्] ↩︎

  18. “प्रवर्तते” [च्] ↩︎

  19. अभिधर्मकोशः १.२९ ↩︎

  20. “स्वतो विशेषावा°” [च्] ↩︎

  21. अभिधर्मकोशे १.१२ ↩︎

  22. “खरोष्णे” [च्] ↩︎

  23. “पूर्वस्मात्” [च्] ↩︎

  24. “°त्येकत्वाभ्युपगमादित्यर्थः” [च्] ↩︎

  25. “जायते” [च्] ↩︎

  26. “°वियोगाद्” [च्] ↩︎

  27. “उत्पन्न एवाभावो” [च्] ↩︎

  28. “सुष्ठ्वव°” [च्] ↩︎

  29. “°विभागाद्” [च्] ↩︎

  30. “भावादन्यदकारणं” [च्] ↩︎

  31. “कारणत्वे” [च्] ↩︎

  32. “°मारभन्ते” [च्] ↩︎

  33. “स्वरूपोप°” [च्] ↩︎

  34. “प्रागप्युत्प°” [च्] ↩︎

  35. “सत्त्वेन” [ज्] ↩︎

  36. “हेतुमात्रानि°” [ज्] ↩︎

  37. “°नुज्ञाफलकत्वात्” [च्] ↩︎

  38. “तवान्यपरम्” [च्] ↩︎

  39. “°शुतरविनाशि°” [ज्] ↩︎

  40. “°विशेषणादनुप°” [च्] ↩︎

  41. “°व्यतिरेक°” [च्] ↩︎

  42. “°न्तरवत् किमर्थक्रि°” [ज्] ↩︎

  43. “°पद्यरूपप्रकारद्वयसमालिङ्गितरूपाः” [च्] ↩︎

  44. “च तयोः” [च्] ↩︎

  45. “प्रसज्यते” [च्] ↩︎

  46. “जनयेत्” [च्] ↩︎

  47. “न कस्मान्नेमान°” [च्] ↩︎

  48. “°रेकस्माच्च” [च्] ↩︎

  49. “कार्यस्य व्यभिचारेण” [च्] ↩︎

  50. “क्रमा एवावर्तन्त इति तत्र चो°” [च्] ↩︎

  51. “भेद°” [च्] ↩︎

  52. “°कता तेनावश्यं” [च्] ↩︎

  53. “तथा” [च्] ↩︎

  54. “सापेक्षत्वानपे°” [च्] ↩︎

  55. “°कर्षितायां” [च्] ↩︎

  56. “°भ्युपेयम्” [ज्] ↩︎

  57. “जनयिष्यन्ते” [च्] ↩︎

  58. “अपासितः” [च्] ↩︎

  59. “भिन्न°” [ज्] ↩︎

  60. “तयोर्वैकरूपत्वमेव तादा°” [च्] ↩︎

  61. “°वधाने कारणे” [च्] ↩︎

  62. “°धाने” [च्] ↩︎

  63. “तद्रूपः” [च्] ↩︎

  64. “अक्षणिक°” [ज्] ↩︎

  65. “°वत्त्वे” [च्] ↩︎

  66. “°र्भाववत्त्वादि°” [च्] ↩︎

  67. “सन्तानमात्रप्रभवत्वं निबद्धं” [च्] ↩︎

  68. “°स्याप्यनुपकार°” [ज्] ↩︎

  69. “प्रधाने” [च्] ↩︎

  70. “°मिति सङ्क्षेपः” [च्] ↩︎

  71. “उद्भूतस्तिरोभवति” [च्] ↩︎

  72. “विलक्षणं” [च्] ↩︎

  73. “” [ज्] पुस्तक एव ↩︎ ↩︎

  74. “°त्मपरिमाणेना°” [च्] ↩︎

  75. “तद् व्याचष्टे—ज्ञानगुणत्वे चेतित्यधिकम्” [ज्] ↩︎

  76. “अथ” [च्] ↩︎

  77. “चोद्यम्” [च्] ↩︎

  78. “परिहारः” [च्] ↩︎

  79. “इत्यत्रैकदेशिमतम्” [च्] द्रः अलङ्कारः पृः ५८४ ↩︎

  80. “प्रसङ्गमाह” [च्] ↩︎

  81. “सम्भवन्ति” [च्] ↩︎

  82. “°शेषे सति” [च्] ↩︎

  83. “°र्शनवैनाशिकानां” [च्] ↩︎

  84. “धर्मकं विज्ञानमिति” [च्] ↩︎

  85. “प्रत्यगात्मा तस्मिन्” [च्] ↩︎

  86. “ज्ञानसामा°” [च्] ↩︎

  87. “एव भूतेषु” [ज्] ↩︎

  88. “घटादिषु प्र°” [ज्] ↩︎

  89. “°स्थानुमानं” [ज्] ↩︎

  90. “°रार्थस्पन्दविशेषः” [च्] ↩︎

  91. “अकृता° [च्] द्रः भा, वा, टी” [ज्] ↩︎

  92. “सल्लक्ष°” [च्] ↩︎

  93. “°स्य च निवर्त्तितत्वा°” [च्] ↩︎

  94. “स्मर्यन्त” [च्] ↩︎

  95. “तेनादरप्रत्ययावपि सङ्गृ°” [च्] ↩︎

  96. “अपि” [च्] ↩︎

  97. “खल्वत्रा°” [च्] ↩︎

  98. “प्रार्थकः” [च्] ↩︎

  99. “मिष्टं” [च्] ↩︎

  100. “°नितेन धर्मेण” [च्] ↩︎

  101. “°तिहेतूनामिति” [च्] ↩︎

  102. “सामान्यवत्त्वे” [च्] ↩︎

  103. “°रयुगपदुत्पत्तौ कारण°” [च्] ↩︎

  104. “°स्तीत्येव” [च्] ↩︎

  105. “कादाचित्कः कादाचित्कत्वात्” [च्] ↩︎

  106. “घटादि°” [च्] ↩︎

  107. “यो ग्रहणहेतुः” [ज्] ↩︎

  108. “°दव्यक्तं ग्रहणम्” [ज्] ↩︎

  109. “व्यक्तं ग्र°” [ज्] ↩︎

  110. “व्यक्तत्वादि” [च्] ↩︎

  111. “°पात् तु” [च्] ↩︎

  112. “°क्त्यपरि°” [च्] ↩︎

  113. “कारणस्यो°” [च्] ↩︎

  114. “सन्धत्ते” [च्] ↩︎

  115. “अशरीर°” [ज्] ↩︎

  116. “तस्मात् श°” [ज्] ↩︎

  117. “°करणाप्रत्य°” [ज्] ↩︎

  118. “संस्त्यानम्” [च्] ↩︎

  119. “दास्यत्ये°” [च्] ↩︎

  120. “कर्मातिशयः” [च्] ↩︎

  121. “°गानीति” [च्] ↩︎

  122. “अन्नाद्यग्रामा°” [ज्] ↩︎

  123. “वेति” [च्] ↩︎

  124. “अग्राह्यरा°” [च्] ↩︎

  125. “°न्याश्रयं नैवाप्रकॢप्तिमा°” [ज्] ↩︎

  126. “°त्यापूरात्” [ज्] ↩︎

  127. “°माप्लावयन्ति” [च्] ↩︎

  128. “°दात्मनः किञ्चिदिति” [ज्] ↩︎

  129. “प्रलयसमये” [च्] ↩︎

  130. “°श्चापवर्गाभावान्ना°” [च्] ↩︎

  131. “तत्त्वदर्शने” [ज्] ↩︎

  132. “पत्तेरित्यर्थः” [च्] ↩︎

  133. “°गमविरुद्धमिति” [च्] ↩︎

  134. “अतिविस्तृतं” [च्] ↩︎