तृतीयाध्याये प्रथमाह्निकम्
इन्द्रियभेदप्रकरणम्
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ ३ । १ । १ ॥
अत्र “भाष्यं परीक्षितानि प्रमाणानि । प्रमेयमिदानीं परीक्ष्यत” इति वृत्तानुकीर्तनं प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षाया हेतुभावं दर्शयितुम् । प्रमाणेन हि प्रमेयं परीक्ष्यते नान्येन । न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति । तस्मात् प्रमाणपरीक्षा हेतुः । हेतुमती च प्रमेयपरीक्षेति । द्वादशविधं च तत् प्रमेयमिति1 कस्मात् प्रथमत आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह—“तच्चात्मादीत्यात्मा विचार्यत” इति । आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टश्च लक्षितश्चेति । तदनुरोधादात्मैव प्रथमं परीक्ष्यते, न प्रमेयान्तराणीति । अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां प्रतिजानीते, तथापि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणात् लक्षणपरीक्षैव द्रष्टव्या । यथा चेयमात्मलक्षणपरीक्षा तथोपरिष्टाद् दर्शयिष्यति2 ।
तदेतद् “वार्त्तिककारो” व्याचष्टे—“आनन्तर्यादिति ।” किं पुनः प्रयोजनं प्रमेयपरीक्षायाः ? न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह—“यद्विषयोऽहङ्कार” इति । अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निर्दिशति । शरीराद्यभेदेनात्मदर्शनं खलु संसारं प्रवर्तयतीत्युक्तं द्वितीय“सूत्रे ।” अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं दर्शितम् ।
अत्र “भाष्यकारेण” विचारपूर्वरूपं3 संशयो दर्शितः । “किं देहेन्द्रियमनोबुद्धिसङ्घातमात्रमात्मेति” संशयकारणं चोक्तं “व्यपदेशस्येति ।” यद्यपि वृक्षप्रासादयोरवयविसमुदाययोरन्ययोरेवान्येनावयवेन समुदायिना च व्यपदेशः, तथाप्यवयव्यभावं समुदायं च समुदाय्यव्यतिरिक्तं4 मन्यमानस्य5 परस्योदाहरणं द्रष्टव्यम् ।
तदेतद् “वार्त्तिककार” आक्षेप्तुं पृच्छति—“किं पुनरस्येति ।” उत्तरम्—“किं शरीरेति ।” आक्षिपति—“नेति ।” समानधर्मणो धर्मिणो दर्शनात् “संशयो न” पुनरदर्शनादित्यर्थः । समाधत्ते—“नेच्छादिसूत्रेति ।” इच्छादयो हि कार्यत्वात् लिङ्गमात्मन इति दर्शितम् । तान्येव तु लिङ्गानि दर्शयिष्यन्त्येषितारं परीक्षिष्यन्ते6 । किं देहेन्द्रियव्यतिरिक्त एषितैभ्यः सिध्यति, आहोस्विदभिन्न इति युक्तो विचारः ।
अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेन्द्रियादिभेदाभेदे7 वादिनां विवाद इत्याह—“अविप्रतिपत्तेश्चेति ।” ननु चात्मासत्त्वे परैः प्रमाणान्यजातत्वादीन्युपन्यस्तानि, तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरित्यत आह—“असत्त्वप्रतिपादकप्रमाणासम्भवाच्चेति ।” वाद्येवासौ न भवति यो धर्मिणि विप्रतिपद्यते । न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किञ्चित् प्रमाणं सर्वस्य तस्याश्रयासिद्धेरप्रमाणत्वात् । अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावानिरूपणेनानिरूपणात् । तस्माद् धर्म्यभाववादी न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीय इति भावः ।
धर्म्यसिद्धिवादीनां8 प्रमाणमुपन्यस्यति—“न नास्तीति ।” निराकरोति—“नास्त्यात्मेति ।” यत् पुन“रपरे” समादधुः
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ॥
भावाश्रयो यथा नीलमिति । अभावाश्रयो यथा शशविषाणमिति । उभयाश्रयो यथा अमूर्तमिति । अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् ।
तस्मिन् बाह्यानुपादाने साध्येऽस्यानुपलम्भनम् ।
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ॥
इति । सोऽयमात्मविकल्पो बाह्योपादानो न भवतीति । यथा नीलविकल्पो बाह्यनीलोपादानः, नैवमात्मविकल्पो बाह्योपादानो भवतीत्यर्थः ।
अत्रैवं भवान् प्रष्टव्यो जायते किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते, किं वा बाह्यात्मोपादानत्वम् ? पूर्वस्मिन् सिद्धसाधनम् । मा भूदात्मविकल्पो बाह्यनीलाद्युपादानः, किं नश्छिन्नम् ? उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः, यदुपादानत्वं विकल्पस्य प्रतिषिध्यते ? सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रतिषेधः । असिद्धश्चेत् कथमप्रतीतस्य निषेधः ? प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र इव गेहे चत्वरतले निषिध्यते इति चेत् ? एवमपि यत्र प्रतीतस्तत्र न निषिध्यते, यथा भवद्भिरेवोक्तम् न तस्यैवाभावः शब्दप्रयोगतः इति । बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् । अप्रदर्शितोऽप्यध्यवसित इति प्रसक्त एवेति चेत् ? अथ9 कोऽयमध्यवसायो नाम ? ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वा अलीकस्य वा बाह्याध्यारोप इति चेत्—न, बाह्याऽविषया विकल्पा बाह्यमारोपयन्तीति10 चित्रम् । न हि आरोपविषयारोप्ये अजानान आरोपयितुमर्हतीत्यसकृदावेदितम् । अपि चालीकं प्रतीयमानं यथा न निषेद्धुं शक्यं प्रतीयमानत्वाद् एवमस्य बाह्यत्वमपि । मिथ्यात्वात् प्रतिषिध्यत इति चेत् ? किमलीकमपि सत्यं यत् तदुल्लङ्घ्य तस्य बाह्यत्वं प्रतिषेद्धुमध्यवसितोऽसि ? बाह्यभेदाग्रहस्तु11 तदध्यवसायो न प्रसञ्जक इति न निषेधगोचरः । न च ज्ञानाकार आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत इति साम्प्रतम् । विज्ञाननये12 सर्वथा बाह्यस्याग्रहे तत्समारोपासम्भवात् । अत्यन्तासतश्च बाह्यस्य विज्ञानानात्मनो ग्रहे तथा विधेनासता विज्ञानानात्मना13 विज्ञानग्राह्येण किमपराद्धं येन तद्ग्राह्यं न स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत । न चायमात्मा पूर्वापरकालावस्थायी क्षणिक विज्ञानाकारो14 भवितुमर्हति, येन तदाकारो बाह्यत्वेन प्रतिषिध्येत । तस्माद् अन्यत्र दृष्टमन्यत्र समारोपप्रसञ्जितं15 प्रतिषिध्यत इति युक्तम् । स च समारोपः क्वचित् स्वकारणप्रभवः क्वचित् प्रतिषिध्यते यथेन्द्रियादिदोषादुत्पन्नरजतज्ञानस्य शुक्तिकायां नेदं रजतमिति । क्वचित् पुनराहार्यो यथा नेह गेहे चैत्र इति । तस्मादात्मनो देशकालावस्थान्तरे16 विकल्पविज्ञाने वा असम्भवादत्यन्तासतो न समारोपः, तदभावादात्मन्येव17 नास्ति । अस्ति चेत् कथमत्यन्ताय निषेधः ? तस्माद् आत्मा नास्तीति पदयोर्व्याघातः । यद्यप्यात्मा नास्तीति पदानि, तथापि नास्तीत्यस्यैकपद्यं विवक्षित्वा पदे इति द्विवचनोपपत्तिः । पद्यते गम्यतेऽनेनार्थ इति हि विवक्षित्वा पदसमुदायोऽपि पदमुच्यते ।
यद्यपि पटादीनां देशान्तरादौ निषेधस्तथापि आत्मनोऽत्यन्ताय भविष्यति । न हि प्रतिषेधान्तरधर्ममवश्यं प्रतिषेधान्तरमनुबध्नातीत्यत आह—“सर्वश्चायमिति ।” उपपादितमेतदधस्ताद् यथा नानारोपितप्रतिषेधो यथा चाननभूतमशक्यमारोपयितुमिति । न क्वचिदात्मन्यनाधारत्वमुक्तमिति स्वातन्त्र्यादात्मनः । सामान्यादयस्तु पिण्डादिपारतन्त्र्यनिरूपणाः पिण्डाद्याधारा इति पृच्छति—“किमयमिति ।” यन्न क्वचिदस्ति तदत्यन्तासद् यथा शशविषाणम् । तथा चायम् । तस्मादत्यन्तमसन्निति भावः । उत्तरम्—“न नास्तीति ।” न तावत् न क्वचिदस्तीति वाक्यमात्मानं स्वरूपेण निषेधति देशरूपविशेषप्रतिषेधात् । शङ्किता आह—“केयं वाचोयुक्तिरिति ।” उत्तरवाद्याह—“एषा वाचोयुक्तिरिति । एषा” वक्ष्यमाणार्था । तमर्थमाह—“यद् यथाभूतमिति ।” न हि पदार्थानां सत्ता देशवत्त्वेन व्याप्ता, येन देशवत्त्वं निवर्तमानं तां निवर्तयेदिति भावः । “न च कालविशेषप्रतिषेधोऽपीति ।” कालान्तरप्रतियोगी एकैकः कालः कालविशेषः । तत्प्रतिषेधोऽप्यात्मनि न युक्तः । न हि यथा घटादिष्ववच्छेदार्थः कालस्तथा नित्य आत्मनि । प्रध्वंसाभाववान् घटः खल्वासीत् न तथा आत्मा । प्रागभाववान् घटो भविष्यति न तथा आत्मा । अतीतप्रागभावोऽनागतप्रध्वंसश्च घटो वर्तमानः । न च तथात्मा । तस्मान् नास्यावच्छेदार्थं त्रैकाल्यमुपावर्तते । अतीतानागतव्यपवृक्तवर्तमानक्रियाव्यङ्ग्यः कालोऽस्ति सदा नित्यानां यतः अस्त्यात्मा, विद्यते व्योमेति भवति । तस्मादवच्छेदकत्रैकाल्याप्राप्तेर्न त्रैकाल्यप्रतिषेधः, अतीतानागतव्यपवृक्तक्रियाव्यङ्ग्यस्य च वर्तमानस्याशक्यप्रतिषेधत्वात् नात्मनि कालप्रतिषेध इति स्थितम् । “आत्मप्रतिषेधं चेति ।” आत्मेति हि पदं लोकसिद्धम्, पद्यते हि तेन कश्चिदर्थभेदः । येन च कश्चिदर्थः पद्यते, न तदनर्थकं भवितुमर्हतीति ।
“किमसतः सता साधर्म्यमिति ।” न हि भवतां सिद्धान्ते सर्वोपाख्याविरहितमसत्प्रमेयमपीति भावः । अथ शरीरदेरात्मत्वं कल्पितं निषिध्यते शरीरादयो नात्मन इति तत्राह—“आत्मसामान्यं चेति । अथ शरीरादीति ।” अहङ्कारस्तावत् परमार्थतः शरीरादिविषयः स्थूलोऽहं कृशोऽहं गौरोऽहमिति प्रत्ययात् । तमिमम् “आत्मनि कल्पयित्वा विपर्यस्यति” तदनुरूपं व्यपदिशति व्यवहरति च । सोऽयं विपर्ययः प्रतिषिध्यते नास्त्यात्मेति । निराकरोति—“एवं च शरीरादीति ।” न ह्यहङ्कारसमारोपविषयसत्त्वमनभ्युपगच्छतः समारोप उपपद्यते । तस्मात् तत्प्रतिषेधतो व्याघात इत्यर्थः । “चतुर्णामुपादानरूपत्वात् तमस” इति । रूपरसगन्धस्पर्शाश्चत्वारो घटादिरूपेण विपरिणतास्तेषामुपादानरूपं तम उपादीयत इत्युपादानम् । उपादेयरूपत्वादिति क्वचित् पाठः । स तु सुगमः । सोऽयं “वात्सीपुत्राणां वैभाषिकाणां” सिद्धान्तः । तेन विरोध इत्यर्थः । सुगममन्यत् ।
“अथायं भावप्रतिषेध” इति । न जन्ममात्रप्रतिषेधोऽपि त्वात्मनो भावः सत्ता प्रतिषिध्यते इत्यर्थः । “स्वतन्त्रस्य धर्मस्य” समवायादन्यस्य “अदर्शनाद्” इति । निकायो देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः सङ्घातः तद्विशिष्टाभिरित्यर्थः ।
“कार्यं कारणं वेति ।” यदि विषाणमवयवस्तदा कारणं यदि तु केशनखादितुल्यत्वेनानारम्भकत्वात् नावयवः, ततः कार्यम् तस्मात् तत् प्रभवतीति । उक्तमप्यर्थं पुनर्विकल्पयन् पर्यनुयोगार्थमाह—“इदं च शशविषाणं नास्तीति ब्रुवाण” इति । “सामान्यप्रतिषेधः” विषाणसम्बन्धमात्रप्रतिषेध इति । “विशेषप्रतिषेधः” कार्यकारणभावलक्षणसम्बन्धप्रतिषेध इति ।
“विषयस्वभावभेदानुविधायीति ।” अहमिति हि18 ज्ञानं मानसं विषयस्य आत्मनो यः स्वभावभेदः कर्तृत्वभोक्तृत्वादिरूपः19 जानेऽहं भुञ्जे इत्यादिस्तदनुविधायि । एतदुक्तं भवति, न केवलमात्मस्वरूपमात्मज्ञानस्य विषयस्तथा सति परसमवेतक्रियाफलशालित्वाभावेनात्मनः कार्यत्वाभावेनाकर्मतया तद्व्याप्यज्ञानस्यापि निवृत्तिप्रसङ्गात् । यदा तु धर्मवदात्मविषयं ज्ञानं भवति तदा धर्माणां परसमवायिक्रियाफलसङ्कलिततया कर्मत्वात् न कर्माभावेन जानातेर्निवृत्तिरिति20 । जानातिरात्मधर्मकर्मा आत्मानमपि गोचरयतीति सूक्तं21 “विषयस्वभावभेदानुविधायीति । अहङ्कारालम्बनेति ।” आलम्ब्यतेऽनेनेत्यालम्बनं विज्ञानम् अहङ्कारेण च विषयिणा विषयमुपलक्षयति । देशयति—“ननु भवत्यहं गौर” इति । परिहरति—“न भवतीति ब्रूम” इति । न व्यपदेशमात्रं देहाद्यव्यतिरिक्तात्मसद्भावसाधनमस्माभिरुक्तं येनानैकान्तिकं भवेत्, अपि त्वनुभवः । स च न शरीरादिष्विदमो विषयेष्वस्ति, अपि त्वसम्भिन्नेदंविषयोऽहम्प्रत्ययः शरीराद्यतिरिक्त एवास्ति । स चात्मा । शरीरादयस्तु मतुब्लोपादभेदोपचाराद् वा अहमा विषयीक्रियन्ते । ममात्मेति तु व्यपदेशमात्रं न पुनः शरीरादिष्विव ममकारस्तत्र मुख्यो भेदेनाप्रतिभासनात् । राहोः शिर इतिवत्तु ममकार आत्मनि द्रष्टव्यः । अत एवाह—“ममप्रत्ययेति,” न पुनर्ममकारमात्रम् । तस्मात् सर्वं रमणीयम् । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिर्बाधितेति यावत् ।
“कः साधनार्थ” इति कः साधनशब्दस्यार्थः । “अथानुपलब्धिरपि नास्तीति ।” भावरूपो धर्मोऽसति विरुध्यते, न त्वभावरूपः, उभयोः समानशीलत्वादित्यर्थः । निराकरोति—“कः साधनार्थोऽनुपलब्धेरिति ।” असत्यास्तुच्छाया अनुपलब्धेः कः साधनत्वरूपोऽर्थ इत्यर्थः । शङ्कते—“अथ कल्पितस्येति ।” नानुपलब्धिस्तुच्छा किं तु तत्त्वान्तरं सत् । सा तु कल्पिताश्रयतया नाश्रयासिद्धेत्यर्थः । एतद्विकल्प्य निराकरोति— “कथं कल्पितस्येति ।” न हि तात्त्विक्यनुपलब्धिः परमार्थसदाश्रया कल्पितसत्त्वस्य धर्मिणो धर्मो भवितुमर्हतीत्यर्थः । द्वितीयं कल्पमाशङ्कते—“अथासत्त्वेनेति ।” निराकरोति—“सिध्यत्यनुपलब्धिरिति ।” असत्त्वेन हि कल्पितस्य पारमार्थिकं भावत्वमुपेतव्यम्22 । असत्यसत्त्वकल्पनाया अयोगात् । तथा च भावाश्रयानुपलब्धिस्तात्त्विकी सिध्यत्येव । यदर्थं त्वसौ तदेव पारमार्थिकम् असत्त्वमात्मनो न सिध्यति असत्त्वस्य काल्पनिकत्वाभ्युपगमाद् भवद्भिरित्यर्थः । अपि चायमसत्त्वेन सन्तमात्मानं कल्पयित्वा अत्यन्तासत्त्वमनुपलब्धेरस्य साधयितुमध्यवसितः । तच्चान्यधर्मेण23 अनुपलब्ध्या न सिध्यति । न जातु स्थाणुधर्मेण कल्पितेन पुरुषे स्थाणुत्वं पारमार्थिकं शक्यं साधयितुमित्याह—“किमर्थं चायमात्मेति ।”
“रूपादिशब्देभ्योऽन्यत्वे सतीति ।” यदि हि पदत्वादित्युच्येत रूपादिशब्दैरनैकान्तिकत्वं स्यादत उक्तम्—“रूपादिशब्देभ्योऽन्यत्वे सतीति ।” यद्येकपदत्वादित्युच्येत24 रूपादिशब्दैरनैकान्तिकत्वं स्यादत उक्तम्—“रूपादिशब्देभ्योऽन्यत्वे सतीति ।” तथापि रूपविज्ञानवेदनासञ्ज्ञासंस्कारा इत्ययं शब्दो रूपादिवाचको यः शब्दो रूपं वेदना सञ्ज्ञा विज्ञानमित्यादिस्ततोऽन्योऽसमस्तादन्यः समास इति । तेनानैकान्तिकत्वमत उक्तम्—“एकपदेति ।” तेन रूपादिवाचकैकपदव्यतिरिक्तं यद्यदेकपदं तत्तद् रूपादिव्यतिरिक्तस्य वाचकम्, यथा घटादिपदम् । तथा चात्मपदम् । तस्मात् तदपि तथेति । “एतेनेति ।” आत्मशब्दसाध्यत्वेनैवासम्भिन्नेदम्प्रत्ययः । “अहम्प्रत्ययो व्याख्यातः ।” शङ्कते—“असिद्ध” इति । घट इति रूपादय एवैकोदकाहरणावच्छिन्ना उच्यन्ते, न तु रूपाद्यतिरिक्तो घटो नाम कश्चिदस्तीत्यर्थः । निराकरोति— “अत्रोक्तमिति । उपादायरूपत्वात् तमस” इति । यथा दाय इति देयमुच्यते एवमुपादायेत्यनेनोपादेयमिति । “सविषयत्वं” सद्विषयत्वं “सिद्धान्ति”नोक्तमिति मन्वानश्चोदयति—“तमःशब्दस्य सविषयत्व” इति । यद्यप्यभावविषयत्वे अपि न निर्विषयत्वं तथापि देशकाभिमानमनुविदधानः परिहरति—“न सूत्रार्थेति ।”
“पुनर्दृष्टान्तो नास्तीति ।” पूर्वमात्मानुपकारकत्वे साध्ये दृष्टान्ताभाव उक्तः पुनरिहोच्यत इत्यर्थः । देशयति—“अथात्मशब्द” इति । यो यो वर्णात्मकः स सर्वोऽनित्यविषयो यथा घटादिशब्दः, तथा चानित्यत्वे सति तद्विज्ञानमेव स्यात् नात्मेति फलत आत्मप्रतिषेध इत्यर्थः । एतदपि दूषयति—“तथापीति ।” नित्यशब्दस्तावन्नित्यमाचष्टे अन्यथा तत्प्रतिषेधानुपपत्तेरित्यर्थः25 । शङ्कते—“अथेति ।” सिद्धसाधननिवृत्त्यर्थं शरीरादिव्यतिरिक्तविधिविषय इति । निराकरोति—“तथापीति ।” रूपादिस्कन्धपञ्चकातिरिक्तं नास्तीति भवतां राद्धान्तस्तदतिरिक्ताभ्युपगमे विरुध्यते इत्यर्थः ।
“यदि विवक्षितार्थव्यतिरेकेणेति ।” वादिनो हि शरीरेन्द्रियबुद्धिवेदनासङ्घातस्य पारार्थ्यं विवक्षितम् । परार्थाश्चक्षुरादय इति ब्रुवतो न सङ्घातपरार्थत्वं26 तच्चेह पक्षधर्मताबलात् सिध्यदस्याभिप्रायेण व्याप्यते । न तु साक्षाद्विवक्षितम् । तद्वदिहाभिप्रायव्याप्तं विवक्षितमारोप्य यद्यनन्वयविरोधौ देश्येते, ततः सर्वानुमानोच्छेदप्रसङ्गः । एतच्च “ईश्वरसिद्धौ” निपुणतरमुपपादयिष्यते । “अथानुमानेन बाध्यत” इति । सङ्घातत्वानुमानमेवाभिप्रेतविपरीतसङ्घातपरार्थत्वपक्षो व्यवस्थालक्षणानिष्टप्रसङ्गरूपतर्कसहायमस्य बाधकं प्राणादिसत्त्वाद्यनुमानं वेति । “एकदेशेन चैकदेशान्तराणामिति” ब्रुवतो “वार्त्तिककारस्य” गृहप्रासादादयो नावयविनो विजातीयानामनारम्भकत्वादित्यभिमतम् ।
“दर्श…णात् । अकार्यकारणभूतानां चेति ।” यथा हि कालाक्षीं गामीक्षितवतः स्वस्तिमत्यां गवि भवति प्रतिसन्धानम्, न चैतयोरस्ति कार्यकारणभाव इत्यर्थः । “भाष्यम्—भिन्ननिमित्ताविति ।” भिन्नमिन्द्रियं निमित्तं ययोः । “अनन्यकर्तृकौ” आत्मैककर्तृकौ “समानविषयौ” द्रव्यमेकं विषय इत्यर्थः ॥ १ ॥
न विषयव्यवस्थानात् ॥ ३ । १ । २ ॥
पूर्वपक्ष“सूत्रम्—न वि…नात् ॥” यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ तच्चेतनम् । इन्द्रियभावाभावानुविधायिनौ च ताविति तदेव चेतनमिति भावः ।
सिद्धान्त“भाष्यम्—सन्दिग्धत्वादहेतुः ।” अनन्यथासिद्धावन्वयव्यतिरेकौ कारणत्वमात्रे प्रमाणम्, न तु कर्ता न चेतनश्चेतनं वा करणमित्यत्रेत्यर्थः ॥ २ ॥
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ । १ । ३ ॥
विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह— “यच्चोक्तमिति । तद्व्य…धः ॥ सर्वज्ञ” इत्यस्य विवरणं “सर्वविषयग्राही” सर्वेषामिन्द्रियाणां प्रमाणान्तराणां च ये विषयास्तद्ग्राही । इन्द्रियान्तराणि प्रमाणान्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वाग्दृगपि सर्वज्ञ इति सिद्धम् । “तत्रेदमभिज्ञानमिति ।” असाधारणं चिह्नमभिज्ञानमुच्यते । तच्चाप्रत्याख्येयमनुभवसिद्धत्वात् । चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत इति योजना । “अनियतपर्यायम्” अनियतक्रममित्यर्थः । “अनेकविषयमर्थजातमिति ।” अनेकः पदार्थो विषयो यस्यार्थजातस्य तत् तथोक्तम् । क्वचित् पाठोऽनेकविधमर्थजातमिति । स सुगम एव । “आकृतिमात्रं त्विति” सामान्यमात्रमित्यर्थः ।
“चैतन्यं27 त्वात्मनः स्वातन्त्र्ये सत्यव्यवस्थानाच्चक्षुरादिवदिति,”28 प्रमाणसंशयविपर्यासस्मृतिषु योऽनुस्यूत एक उपलभ्यते स चेतनः स्वातन्त्र्ये सत्यव्यवस्थानात् । यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यव्यवस्थितो यथा चक्षुरादीति व्यतिरेकी हेतुः । यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत, ततो मनसानैकान्तिकः स्यादत उक्तम्—“स्वातन्त्र्ये सतीति ।” अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव केवलमस्तु चैतन्यसाधनमित्याह—“नाचेतन आत्मेति ।” आत्मेति प्रमाणसंशयविपर्ययस्मृतिष्वनुस्यूतमनुभूयमानमुपलक्षयति । निराकृतमप्यर्थं प्रकारान्तरेण पुनरुपन्यस्य निराकरोति—“पृथिव्यादिनित्यत्वसाधन” इति ।
तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितम् । नेच्छाद्याधारत्वं देहादीनामिति ॥ ३ ॥
॥ इन्द्रियभेदप्रकरणम् ॥
शरीरव्यतिरेक्यात्मप्रकरणम्
शरीरदाहे पातकाभावात् ॥ ३ । १ । ४ ॥
“सूत्रा”न्तरमवतारयति “भाष्यकारः—इतश्च व्यतिरिक्त आत्मा न देहादिसङ्घातमात्रमिति ।”
“शरी…वात् ।” प्राणातिपाते पातकाभावप्रसङ्गादिति । अयं च यद्यपि “भूतचैतनानिका”नां नानिष्टप्रसङ्गस्तथापि “शाक्यान्” प्रति द्रष्टव्यः । ते हि प्राणातिपातकृतं पातकमिच्छन्ति । एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसन्धित्वात् पुंसाम् । यदि कश्चिद् भूतचैतनिकोऽपि प्राणातिपातकृतं पातकं नेच्छेत् तमपि प्रति दूषणं भविष्यतीत्येवमर्थमिति29 मन्तव्यम् ।
“वार्त्तिकम्—अकृतकृताभ्यागमनाशदोष” इति । येनाकृतं कर्म प्राणातिपातः तस्य पातकाभ्यागमो येन च कृतं तस्य नाश इत्यर्थः । शास्त्रचोदितं फलमनुष्ठातरि30
इत्ययमुत्सर्गो यत्र पुनः शास्त्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलम्, पितृकृताया वा जातेष्टेः पुत्रगामि फलमिति । भावना स्मृतिहेतुः संस्कारः । “यत्कायेति ।” येन कायेनोपलक्षितः कश्चिच्चित्तसन्तानः31 स कायान्तरवर्त्यपि फलं भुङ्क्त इत्यर्थः । “एकनिमित्तानां प्रत्ययानां प्रतिसन्धानाद्” इति । उक्तमेतद् यथा नर्तकीभ्रूलताभङ्ग एकस्मिन् बहूनां प्रतिसन्धानमिति । “सर्वावस्थोपलब्धेरिति ।” सर्वास्ववस्थासु बीजावयवानामुपलब्धेः परमाण्ववस्थत्वे त्वनुपलब्धिः स्यात् । तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ परमाण्ववस्था भवन्ति, अपि त्ववयविन एव पच्यन्त इत्यर्थः । परमाण्ववस्था बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा देशयति—“यदि तर्हीति ।” परिहरति—“नानेनैवोक्तोत्तरत्वादिति ।” प्रतिसन्धानाय बीजत्वजातीयानवयवान् लक्षयितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो निषिद्धः । कल्पादौ त्वारम्भे परमाणूनां न प्रतिसन्धानमस्ति । न हि पूर्वसर्गे ये बीजमारेभिरे साम्प्रतमपि त एवारभन्ते नान्य इति प्रतिसन्धाननियमः, अपि त्वन्येभ्योऽपि भवन्तीति भावः । “पैलुकण्ठः” शङ्कते—“आ मध्यात् पाकानुपपत्तिरिति चेत् ?” परिहरति—“नाप्रतिबन्धादिति ।” सान्तराण्येवावयविद्रव्याणीत्यर्थः । अथायमवयवानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह—“यदि चायमवयवानुप्रवेश” इति । “भाजनगतानामपां” भाजनविनाशे “अवस्थान”मेव “न स्यात् ।” सान्तरत्वे तु तावत्य एवापो भाजने स्यन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति, मात्रया च तत्र कालपरिपाकवशादनवस्थानमपि । विनाशे तु सहसानवस्थानमपां भाजनगतानां भवेदित्यर्थः । व्यवहिते चाव्यवहिते च स्फटिभाजने न द्रव्ये तुल्योपलब्धिरिति32 ।
शङ्कते—“सुखी स्यामिति तत्क्रियेति चेत् ?” यद्यपि विशरारवः स्कन्धाः तथाप्यनाद्यविद्यावासनावशोऽयमेकमहङ्कारास्पदं सत्त्वं नित्यमभिमन्यमानः33 सुखी भवेयं दुःखी मा भूवमिति तृष्णक्34 प्रवर्तते इत्यर्थः । निराकरोति—“तन्न, अननुभूतत्वादिति ।” यथा च क्षणिकानां विज्ञानानां परस्परवार्तानभिज्ञतया न प्रतिसन्धानक्षमत्वं तथोपपादितमस्माभिरात्मलक्षणावसर इति । “न अनागतानामनुत्पत्तेः सत्त्वादिति ।” न च ब्रह्मचर्यादिपरिपाकसहितेन ज्ञानक्षणेनासमर्थो ज्ञानक्षणो जन्यते, स च न ज्ञानान्तरं35 प्रसूत इत्यनागतानुत्पत्तिरसमर्थस्य च क्षणस्य स्वभावतो विनाश इति युक्तम्, असमर्थक्षणस्योत्पादस्यैव केवलात् सहकारिसापेक्षाद् वानुपपत्तेः36 । यथा चैतत् तथा क्षणभङ्गभङ्गावसरे उपपादयिष्यते ॥ ४ ॥
तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥ ३ । १ । ५ ॥
“वैनाशिको नैयायिक”पक्षवत् “साङ्ख्य”पक्षेऽपि हिंसातत्फलानुपपत्तिमापादयितुं हिंसा तत्फलसम्भवं पूर्वपक्षयति—“इयं तु हिंसेति । व्यक्तेरिति ।” सदेव हि कार्यं कारणेन व्यज्यते, न त्वसत् क्रियते इत्यर्थः । परिहरति—“नेति ।” त्रिविधोऽप्ययं धर्मलक्षणावस्थारूपः परिणामो नित्याद् धर्मिणो न भिद्यते इति परिणामानित्यत्वं धर्मिनित्यत्वेन विरुध्यते । अविरोधाय वा धर्मिणोऽप्यनित्यत्वाभ्युपगमे “वैनाशिक”पक्षोक्तदोषप्रसङ्ग इत्यर्थः । “गुण” इति । ऋजुत्ववक्रत्वे खलु अङ्गुल्यवयवसंयोगविशेषौ37 सत्येव द्रव्यारम्भकसंयोगे उदयव्ययवन्तावनुभूयेते इति ।
तदेतत् “नैयायिक”पक्षदूषणं “साङ्ख्य”पक्षेऽप्यापाद्य “नैयायिकं” पृच्छति— “अथात्मनो नित्यस्येति । नैयायिक” आह—“सुखदुःखे” इति । नित्यादात्मनो व्यतिरिक्ताभ्यां पुण्यपापाभ्यामात्मधर्माभ्यामनित्याभ्यामात्मधर्मावेव सुखदुःखे जन्येते इत्यर्थः । एतदुक्तं भवति । नित्यस्यानित्यधर्माधानमेवोपकारो न तु नित्यस्वरूपकरणं येन तदनित्यं स्यात् । धर्मश्च धर्मिणो भिन्नो न तु धर्मिस्वभावः । यथा च भेदाविशेषे सत्यपि धामधूमयोरेव38 कार्यकारणभावो न वह्निक्रमेलकयोर्वस्तुस्वभावनियमात् एवं भेदाविशेषेऽपि आत्मनः पुण्यपापयोरेव धर्मधर्मिभावो नात्माकाशयोः पुण्याकाशयोर्वेति लेशमात्रमत्रोक्तम् । विस्तरस्तु क्षणभङ्गभङ्गे भविष्यतीति । “नानेकान्तादिति ।” वाद्यभिमतपरमाणुनित्यत्वग्राहि प्रमाणदार्ढ्याभिप्रायेणानैकान्तिकत्वमुक्तम् । न तु “बौद्ध”राद्धान्ते नित्यः परमाणुरिति । अत एवापरितोषेणान्यथासिद्धिमाह—“चर्मणश्चानित्यत्वमिति । तद्वतां च” उपलादीनाम् “अवस्थानादिति ।” नासति विनाशप्रत्यये विनाशेऽस्ति किञ्चित् प्रमाणम् । उपलादिषु चावयवविभागविनाशाभ्यां प्राग् न विनाशोऽनुभूयते क्षणभङ्गश्च निषेत्स्यत इति भावः ।
“आरब्धकार्याणां द्रव्यान्तरानारम्भिका” इति अवयव्यारम्भकात् संयोगाद् भेद उक्तः । “विक्रियायां च दृष्टान्ताभाव” इति । धर्मोत्पादमन्तरेणाविनश्यतो धर्मिस्वरूपस्य विक्रियायामित्यर्थः । शङ्कते—“यद्येवमिति ।” यद्येवम्भूतो विकारः यादृशो घटादीनां श्यामतानिवृत्तौ लोहितोत्पादे विकारः तादृशो नात्मन इति यदि शङ्कसे इत्यर्थः । निराकरोति—“आत्मन्यपीति ।” न बाह्येन्द्रियग्राह्य एव विकारोऽपि तु धर्मान्तरोत्पत्तिमात्रम् । तच्चात्मन्यप्यस्तीति ॥ ५ ॥
न कार्याश्रयकर्तृवधात् ॥ ३ । १ । ६ ॥
“वैकल्यं वा प्रमापणं वेति ।” यथा शरीरमुपघ्नन् हिनस्त्येवं चक्षुराद्युत्पाटयन् हिनस्त्येवेति । पृच्छति—“कुत एतदिति ।” स्वरूपतो हिंसासम्भवे भाक्ती हिंसा न युक्तेति “वैनाशिक”स्याभिसन्धिः । उत्तरम्—“हिंसाफलोपभोगस्येति । वैनाशिक”स्यापि विशरारूणां भावानां न स्वरूपतो हिंसा कारणजन्येति विलक्षणोत्पादो हिंसेति वक्तव्यं तत्र कारणव्यापारसम्भवात्, तथा च तत्रापि हिंसा भाक्तीति भाक्त्वस्योभयत्राप्यविशेषाद् यतरस्मिन् पक्षे कृतविप्रणाशाकृताभ्यागमदोषो नास्ति स पक्षोऽभ्युपेतव्यः । स च नित्यात्मपक्षः । तस्मात् पारिशेष्यात् तत्सिद्धिरिति ।
“ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति ।” उपायतद्व्यापाराणामनभिज्ञो हि चिकीर्षन्नपि न कर्ता । एवमभिज्ञोऽप्यचिकीर्षन्नकर्ता । तथा चिकीर्षन्नप्यलसतया अप्रयतमानो न कर्तेति । “सुखदुःखसंवित्समवाय” इति । स्वसुखदुःखेति द्रष्टव्यम् । अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः ॥ ६ ॥
॥ इति शरीरव्यतिरेक्यात्मप्रकरणम् ॥
चक्षुरद्वैतप्रकरणम्
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ ३ । १ । ७ ॥
“इतश्च देहादिव्यतिरिक्त आत्मा” कुतः ? “सव्य…नात् ॥” तत्र मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं “भाष्यकारो” दर्शयति—“तमेवैतर्हीति ।” व्यवसायं बाह्येन्द्रियजं प्रत्यभिज्ञानमाह—“स एवायमर्थ” इति । अस्यैव चानुव्यवसायः पूर्वः ।
तदेतत् प्रकरणं “वार्त्तिककारो” दूषयति—“सिद्धत्वादनारम्भ” इति । “युक्तोऽन्यः समुच्चयः” शास्त्रे । अयमभिसन्धिः । काणस्तथा न पश्यति पिहितैकलोचनो वा यथा अविकलेन्द्रियः । तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुः, न चैतद् द्वयमणुना मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् । तथा च सर्व एवैकैकेन चक्षुषा पश्यतीति पिहितैकलोचनेन तुल्योपाम्भोऽविकलाक्षस्य स्यात्, न चैवमस्ति । एकत्वे तु तदुभाभ्यामधिष्ठानाभ्यां विनिर्यत् क्वचिदपि मनसाधिष्ठितमेवेत्यविकलाक्षस्य न विकलाक्षवदुपलम्भप्रसङ्गः । तस्मादेकमनेकाघिष्ठानं चक्षुरिति । “प्रकरणविरोधश्चेन्द्रियपञ्चत्वादिति ।” न चैतदेकस्मिन् शरीरे जात्यभिप्रायं घ्राणादीनां व्यक्तीनां चतसॄणां व्यक्त्यन्तरेण समभिव्याहारोपपत्तेर्न तु जात्या । न हि भवति ब्राह्मणयुधिष्ठिरावागताविति किं तु ब्राह्मणराजन्याविति वा वसिष्ठयुधिष्ठिराविति वेति ॥ ७ ॥
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥ ३ । १ । ८ ॥
तदेतच्चक्षुरैक्येनाक्षिपति—“नैक…त्” ॥ ८ ॥
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ३ । १ । ९ ॥
समाधत्ते—“एक…त्वम् ॥” विनाशाविनाशलक्षणविरुद्धधर्मसंसर्गात्39 नानात्वमित्यर्थः । “विनष्टेऽप्येकस्मिन्नधिष्ठाने” योऽविनष्टोऽवशिष्यते “तेन” प्रत्ययमात्रं काणस्येव भवति ॥ ९ ॥
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ ३ । १ । १० ॥
आक्षेप्ताह—“अव…तुः” ॥ १० ॥
दृष्टान्तविरोधादप्रतिषेधः ॥ ३ । १ । ११ ॥
समाधाता आह—“दृष्टा…धः ॥” तृतीयं व्याख्यानमाह—“अथ वा एकविनाशस्यानियमादिति ।” एकत्वे चक्षुषो विनाशनियमो न स्यात् । सव्यस्यैव चक्षुषो न दक्षिणस्यैव वेति40 । एकत्वात् सव्यविनाशे दक्षिणस्यापि विनाशप्रसङ्गात् । दृश्यते चायं नियमः । तस्माद् द्वावर्थौ पृथगावरणौ पृथगुपघातौ चेति । अपि च यदि चक्षुरेकं मध्येन नासावंशेनावपीडितम्, ततोऽङ्गुल्यावपीडितं यथैकमर्थं भिन्नमिवावभासयति अवपीडने च निवर्तमाने भिन्नावभासितावर्थौ41 सन्दधातीव तथा नासावंशावपीडितं भिन्नमिव दर्शयेत्, तन्निवृत्तौ सन्दध्यादिवेत्याह—“अवपीडनाच्चैकस्य चक्षुष” इति । रश्मिभेदाद् विषयसन्निकर्षस्य भेद इत्यर्थः । अङ्गुल्यवपीडितेन चक्षुषा दृष्टान्तेन विरोधादित्यर्थः । एकविनाशे इतराविनाशो वा दृष्टान्तः । तेन विरोधादिति । स खलु दृश्यमानश्च एकान्तावधारणाद् अन्तश्चेति दृष्टान्त इति सूत्रार्थः ।
न च नासावंशावपीडनेन सर्वेषां सर्वदा सर्वत्र द्विचन्द्रवद्विभ्रमप्रसङ्गः, आगन्तुकमवपीडनं भ्रमहेतुर्नौत्पत्तिकमिति कार्यदर्शनात् कल्प्यते ॥ ११ ॥
इन्द्रियान्तरविकारात् ॥ ३ । १ । १२ ॥
तदेवं प्रतिसन्धानद्वारेणात्मनि प्रत्यक्षं प्रमाणयित्वा अनुमानमिदानीं प्रमाणयति— “अनुमीयते चायमिति ।” विप्रतिपन्नं हि प्रति प्रतिसन्धानमनुमानमुक्तम् । परमार्थतस्तु अनुभवानुसारमार्गोऽसाविति मन्तव्यम् । “इन्द्रि…त् ॥” कस्यचित् फलस्य चिरविल्वादेरम्लस्याम्लेन रसेन सहचरितं रूपं वा गन्धं वानुभवति । अथ तत्सहचरितं रसमनुस्मरति । स्मृत्वा चेच्छति । इच्छातोऽस्य रसनेन्द्रियविकारो दन्तोदकसम्प्लवलक्षणः प्रवर्तते । तद्दर्शनाच्चास्येच्छानुमीयते । इच्छया च स्मृतिः । सेयं स्मृतिरसत्यात्मनि सर्वेन्द्रियविषयवेदिनि न भवितुमर्हतीति ॥ १२ ॥
न स्मृतेः स्मर्तव्यविषयत्वात् ॥ ३ । १ । १३ ॥
अस्याक्षेप“सूत्रम्—न स्मृ…त् ॥” स्मृतिरात्मानं कारणत्वेनावगमयेत्, विषयत्वेन वा ? न तावत् कारणत्वेन तस्याः संस्कारकारणत्वात् । न विषयत्वेन स्मर्तव्यविषयत्वात् । स्मृताच्च तस्मादिन्द्रियान्तरविकारोत्पत्तिरित्यर्थः ॥ १३ ॥
तदात्मगुणसद्भावादप्रतिषेधः ॥ ३ । १ । १४ ॥
समाधत्ते—“तदा…धः ॥” असत्यात्मनि स्मृत्यनुत्पत्तिं दर्शयित्वा स्मर्तव्यार्थविषयैव स्मृतिर्नात्मादिविषयेति पूर्वपक्षिणोऽवधारणं खण्डयति—“अपरिसङ्ख्यानाच्च स्मृतिविषयस्येति ।” मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु नार्थमात्रं विषयः । अपि तु ज्ञानज्ञातृज्ञेयानि सर्व एव विषयाः । चतुर्षु च वाक्येषु एकत्र कारकान्निष्कृष्टा ज्ञानक्रिया, यथा अमुष्मिन् मम ज्ञानमभूदिति अगृह्यमाणोऽप्यर्थः स्मृतिसन्निधापनामुष्मिन्नित्युच्यते । कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना ज्ञानक्रिया गम्यते, यथा अज्ञासिषमहममुमर्थमिति । अन्यत्र ज्ञानभावने कारकादनिष्कृष्टे कर्तृप्रधाने यथा ज्ञातवानहममुमर्थमिति । अन्यत्र तु ज्ञानभावने कारकादनिष्कृष्टे कर्मप्रधाने यथा असावर्थो मया ज्ञात इति । “समानार्थमिति ।” ज्ञानज्ञेयज्ञातृप्रकाशनं समानमित्यर्थः । एवं तावदगृह्यमाणेऽर्थे स्मृतिः प्रदर्शिता । अथ प्रत्यक्षेऽर्थे स्मृतिः प्रदर्श्यते—“अथ प्रत्यक्षेऽर्थ” इति । “स्मृति”रिति प्रत्यभिज्ञानमाह स्मृतिच्छायावाहित्वात् । “अद्राक्षमिति” पूर्वानुभूतमर्थमर्थदर्शनं42 परामृशति । तेनार्थदर्शनानुभवः कल्प्यताम् । अनुभवानुभवकल्पना43 तु कुतस्त्येत्यत आह—“न खल्वसंविदिते स्वे दर्शने” इति । अपि त्वर्थदर्शनं तद्दर्शनं च संविदिते एवेत्यर्थः । कुत एतदित्यत आह—“स्यादेतदद्राक्षमिति ।” यस्मादनुभवानुभवपुरःसरं यत्राद्राक्षमेतदिति भवति नूनं तत्रानुभवानुभवप्रथाप्यभूदिति कल्पनीयमित्यर्थः । इतोऽपि न शरीरगुणः स्मृतिः बाल्ये अनुभूतस्य वार्धके स्मरणात् । अन्यद्धि बालशरीरमन्यच्च वृद्धशरीरमिति । आस्तां तावत् प्रत्यभिज्ञानं सादृश्यमपि दुर्विज्ञानम् । न च परमाणूनां चैतन्यम् । ते हि प्रत्येकं वा चेतयेरन् मिलिता वा ? पूर्वस्मिन् कल्पे अनेकचैतन्ये एकस्मिन् शरीरे नैकमत्यनियमो44 भवेत् । न हि नानाचेतनानामैकमत्यनियमो दृष्टः । मिलितानां तु चैतन्ये परमाणूनामावापोद्वापभेदेन मेलकस्य नानात्वात् स एवान्योपलब्धस्यान्येन स्मृत्यभावप्रसङ्गः । तस्मान्न शरीराधारा चेतनेति ।
“परेषां” कारिकां दूषयति “वार्त्तिककारः—एतेन न तच्चक्षुषि नो रूप इति प्रत्युक्तम् ।” आत्मनः पारिशेष्यात् सिद्धेः स्मृत्याधारत्वव्युत्पादनेनेत्यर्थः । यत्राधिकरणे तज्ज्ञानं निष्ठितं भवेत्, न तदधिकरणमस्ति न च नास्तीति व्याहतम् । स्यादेतत् । नायं विशेषप्रतिषेधो न चक्षुषि विज्ञानं न रूप इति, किन्तु ये चक्षुराद्याश्रयं विज्ञानं मन्यन्ते तन्मतं प्रतिषिध्यते । आधारवत्त्वं तु न प्रतिषिद्धमप्रसक्तत्वादित्यत आह—“कस्य वेति ।” अपि चैषा कारिका आत्माभावविवक्षया प्रयुक्ता आत्मसत्त्वमेव “प्रतिपादयन्ती” विवक्षितविरुद्धेत्याह—“अयं च विज्ञानस्येति ।”
तदेवं “भाष्य”मतेनेन्द्रियान्तरविकारादिति “सूत्रं” व्याख्याय “वार्त्तिककारः” स्वमतेन व्याचष्टे—“अथ वा एकस्येति ।” उक्तमेव प्रतिसन्धानं पुनरिन्द्रियान्तरविकारद्वारेण दर्शयति “सूत्रम् ।” यथा च प्रतिसन्धानं देहेन्द्रियादिव्यतिरिक्तमात्मानं प्रतिपादयति तथाधस्तादेव विवृतमित्याह—“उक्तन्यायमिति” ॥ १४ ॥
॥ चक्षुरद्वैतप्रकरणम् ॥
आत्मनो मनोव्यतिरेकित्वप्रकरणम्
नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥ ३ । १ । १५ ॥
ज्ञातुर्ज्ञानसाधनोपपत्तेः सञ्ज्ञाभेदमात्रम् ॥ ३ । १ । १६ ॥
“मतिः” स्मृत्यनुमानादिज्ञानम् । यद्यपि चेदं प्रातिस्विकसंस्कारादिकारणकं तथाप्यवश्यमनेनेन्द्रियजेन भवितव्यम्, ज्ञानत्वात् । रूपादिज्ञानवदिति । तच्चेन्द्रियमसति चक्षुरादौ भावात् मतेश्चक्षुराद्यतिरिक्तं मन इत्युच्यते । मतेः45 साधनं मन इति ॥ १६ ॥
नियमश्च निरनुमानः ॥ ३ । १ । १७ ॥
ननु भवतु करणान्तरं मनः, तत्तु कथमिन्द्रियान्तरसहकारि कथं चाणुपरिमाणमित्यत आह—“तच्च ज्ञानायौगपद्यलिङ्गमिति ।”
“वार्त्तिकम्—यदि सर्वं विज्ञानं ससाधनमुच्यते मनस्यपीति ।” न च तत्र मन एव करणमात्मनि वृत्तिविरोधात् । तदन्यस्य करणत्वे तस्येन्द्रियान्तरत्वे46 तज्ज्ञानायापीन्द्रियान्तरमुपासनीयमित्यनवस्था । अनिन्द्रियजत्वे तु मतावपि संस्काराद्येव कारणमस्तीति कृतमत्र मनसेति भावः । परिहरति—“ओमितीति ।” यथा कारणसत्तया कार्यं जनितं कारणं ज्ञापयति एवं मनःसत्तया मनोलिङ्गज्ञानं जनितं मनो ज्ञापयति । तच्च लिङ्गजं मनोज्ञानं मनःसत्ताहेतुकम् । न च स्वात्मनि वृत्तिविरोधः । न हि मनःसत्तायां मनः करणं मनोज्ञाने वा मनोज्ञानं करणं येन स्वात्मनि वृत्तिविरोधः स्यात्, केवलं वा मनः स्वज्ञाने करणं येनैकस्य कर्मकरणत्वे स्याताम् । अपि तु मनोज्ञाने लिङ्गज्ञानसहितं मनः करणम्, तत्स्वरूपं तु लिङ्गज्ञानसहितादिति न स्वात्मनि वृत्तिविरोधः । नाप्येकस्यैव केवलस्य कर्मकरणभाव इति भावः । स्यादेतत् । लिङ्गज्ञानसहितस्य मनसः करणत्वे माभूदेकस्यैव कर्मकरणभावः स्वरूपेण कर्मत्वात्, लिङ्गज्ञानसाहित्येन च करणत्वात् । यदा तु योगिना प्रत्यक्षेण मनो गृह्यते तदा कथमेकस्य कर्मकरणभाव इत्यत आह—“यस्य तु मनःप्रत्यक्षम्” इति ॥ १७ ॥
॥ मनोव्यतिरेकित्वप्रकरणम् ॥
आत्मनित्यत्वप्रकरणम्
पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः ॥ ३ । १ । १८ ॥
शास्त्रार्थभूताभ्युदयनिःश्रेयसोपयोगिनं परलोकिनं47 परिचिक्षिषुः परीक्षाहेतुभूतं संशयमाह—“किं पुनरयमिति ।”
अत्र “वार्त्तिककारः” संशयं दूषयन् प्रकरणान्तरारम्भमाक्षिपति—“एतस्मिन्नर्थ” इति । देहेन्द्रियबुद्धिवेदनाभ्यो व्यतिरेकमात्मनो दर्शयता बाल्यकौमारयौवनवार्द्धकभेदेऽपि चैकात्मप्रतिसन्धानमर्थादुपपादयता शरीरनाशादूर्ध्वमात्मसद्भावो दर्शित एव । तावता च नः प्रयोजनम् । तत् किमवशिष्यते यत्र संशयो यत्कृते च प्रकरणोत्थापनमित्यर्थः । समाधत्ते—“नानारभ्यमिति ।” सिद्धेऽपि देहादिव्यतिरेके बाल्यादिषु चानुगमे किमयमात्मा आशरीरोत्पत्तेरा च प्रायणाद् यावद्देहसन्तानभावभावी आत्मा आहोस्विदुपरतेऽपि देहादिसन्तानेऽनुवर्तेत एवेत्येष विमर्शोऽद्यापि न निराकृत इति तन्निरासायेदं प्रकरणमारभ्यत इत्यर्थः ।
“भाष्यम्—देहभेदादिति ।” ल्यब्लोपे पञ्चमी । बाल्यकौमारयौवनवार्द्धकदेहभेदमभिसमीक्ष्य प्रतिसन्धानादस्यावस्थानं सिद्धमित्यर्थः । “पूर्वा…त्तेः ॥ वार्त्तिकम्—अभिप्रेतविषयप्रार्थनाप्राप्ताविति ।” अभिप्रेतविषयप्राप्ताविति वक्तव्ये प्रार्थनाग्रहणम् इष्यमाणतमत्वं सूचयति । नेष्यमाणप्राप्तौ हर्षोऽपि त्विष्यमाणतमप्राप्तौ, तेनाभिप्रेतविषयस्य प्रार्थनायां सत्यां प्राप्तेरित्यर्थः । “हानाशक्यतेति” विषयेण विषयिणीं बुद्धिमुपलक्षयति । अनिष्टो विषयो मरणादिः । तस्य साधनमहिव्याघ्रादिः । तस्योपनिपातः सन्निधानम् । तस्मिन् सति तद्व्याघ्रादिजिहासोरशक्यहानमेतदिति बुद्धिर्भयम् । सा हि कम्पादि48 जनयति । “इष्टविषयवियोगे सति तत्प्राप्त्यशक्यप्रार्थना शोकः ।” तस्यैव पुरुषस्य यः प्राप्त्यशक्यः तत्र प्रार्थना शोकः । य इष्टो विषयः प्राप्तुमशक्यस्तत्र प्रार्थना इदं मे उपपद्यतां भवत्विति । इत्थम्भूता चेयं प्रार्थना न स्वरूपेण शोक इत्यत आह—“इष्टविषयवियोगे सतीति ।” अनर्हणेनेति यावत् । तदयमर्थः । इष्टवियोगे सति तत्प्राप्त्यशक्यताज्ञानं शोक इति । अनर्हणेन प्राप्त्यशक्यताज्ञानं शोचतः सूचयति—“प्रत्यक्षबुद्धिनिरोध” इति । प्रत्यक्षग्रहणेन ग्रहणमात्रमुपलक्षयति । “तदनुगृहीतः” स्मृत्यनुगृहीतः । “तदनुसन्धानविषय” इति । अनुसन्धीयत इत्यनुसन्धानं स्मृते यदनुसन्धेयं तद्विषय इत्यर्थः । तथापि स्मृतिप्रत्यभिज्ञानयोरविशेष इत्यत आह—वर्तमानस्य विषयस्य दृश्यस्य “तद्भावविषय” इति । दृष्टो हि निरालम्बनो बालः स्खलन् मातुरङ्कात् पतनस्यानिष्टसाधनत्वमनुस्मृत्येदं च पतनमिति परामृष्य तस्यानिष्टसाधनत्वमनुमाय रुदन् मातुर्मङ्गल्पमुरःसूत्रं विक्षिप्य हस्तौ वेपमान आलम्बमानः49 । तदस्यानया चेष्टया भयशोकावनुमीयेते इत्यर्थः ॥ १८ ॥
पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः ॥ ३ । १ । १९ ॥
“दृष्टेन विशेषितत्वादिति ।” दृष्टशब्देन विशेषितो व्यवस्थापितः कार्यकारणभावो न शक्यो व्युदसितुमित्यर्थः । “अथात्मन उत्पत्तिनिरोधानुमानमिति ।” यद्विकारि तदुत्पत्तिनिरोधधर्मकं दृष्टम्, यथा पद्मम् । तथा चात्मा । तस्मादनित्य इत्यर्थः । यदि धर्मोपजननमात्रं विकारः स आकाशादिष्वपीत्यनेकान्तः । धर्मधर्मिणोश्च भेदान्न धर्मोपजननापायौ धर्मिणि युज्येते इति नानित्यत्वानुमानं विकारात् । अस्माकं त्वात्मनित्यत्वेऽनुमानमस्तीत्याशयेन नित्यत्वानुमानमाह—“तन्न युक्तमिति । सर्वदामूर्तत्वादिति ।” घटादयोऽपि प्रथमे50 क्षणे भवन्त्यमूर्ताः । परिमाणविशेषो हि मूर्त्तिः । न च द्रव्यसमानकाला उत्पत्तिर्गुणानामिति तन्निवृत्त्यर्थं “सर्वदेति” उक्तम् ॥ १९ ॥
नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥ ३ । १ । २० ॥
पञ्चात्मकानां पद्मादीनां विकाराः पञ्चात्मकविकारा इति ॥ २० ॥
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥ ३ । १ । २१ ॥
“सामान्यतोऽधिगतस्य विशेषज्ञापनार्थमिति” हर्षादिना सामान्यत इच्छामात्रमवगतम् । तद्विशेषस्तु स्तन्याभिलाषो रागश्चात्रोक्त इत्यर्थः ॥ २१ ॥
अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥ ३ । १ । २२ ॥
न पूर्वाभ्यस्तस्मृत्यनुबन्ध एव प्रवृत्तिकारणम्, अयसोऽयस्कान्तोपसर्पणे तदभावात् । यदि च बालकस्य पूर्वाभ्यस्तस्मृत्यनुबन्धो भवेत् जात्यन्धबधिरादयः तज्जन्मानुभूतान् गन्धस्पर्शान् जात्यन्तरानुभूतान् रूपस्पर्शादीनपि व्याचक्षीरन्नित्यभिप्रायः । विकल्प्य दूषयति—“किमिदमिति ।” यौवनाद्यवस्थायां हि चेतनस्य प्रवृत्तिः क्षीरादौ पूर्वाभ्यस्तस्मृत्यनुबन्धहेतुका प्रतीतेति बाल्यावस्थायामपि चेतनस्य तद्धेतुकैव भवितुमर्हति । तेन हेतुना चेतनप्रवृत्तेः स्वाभाविकसम्बन्धापगमाद् वह्निनेव धूमस्य । एवं व्यवस्थिते यत्र स्मृतेः कार्यं दृश्यते तन्मात्रविषयैव बालस्य स्मृतिरनुमीयते नान्यत्र । न च य एकस्य स्मरति तेनापरमपि स्मर्तव्यमिति कश्चिन्नियमहेतुरस्ति, येन जात्यन्धबधिरादयो रूपादिभेदानाचक्षीरन् अदृष्टपरिपाकोद्बोधितस्य51 संस्कारस्य तन्नियमेन नियमोपपत्तेः । अद्यत्वेऽपि चानुभूतेषु कस्यचिदेव52 स्मरामो न सर्वस्येति ॥ २२ ॥
नान्यत्र प्रवृत्त्यभावात् ॥ ३ । १ । २३ ॥
“भाष्यम्—न च स्तन्याभिलाषलिङ्गमन्यदिति ।” स्तन्याभिलाषो लिङ्गं यस्य निमित्तान्तरस्य तत् तथोक्तम् । अन्यत्र लोष्टादौ लोष्टादेरिति यावत् षष्ठीसप्तम्योरभेदार्थत्वात् । एतदुक्तं भवति । लोष्टादेरन्यस्यायस्कान्ते प्रवृत्त्यभावाद् अयसश्च53 प्रवृत्तेर्न निर्निमित्तमुपसर्पणमिति पूर्वं व्याख्यातम् । सम्प्रति त्वन्यथा व्याचष्टे—“अयसः खल्वपीति” निपातसमुदायः कल्पान्तरं द्योतयति ॥ २३ ॥
वीतरागजन्मादर्शनात् ॥ ३ । १ । २४ ॥
“पूर्वानुभूतविषयानुचिन्तनमिति ।” एकविषयः स्मृतिप्रवाहो विजातीयप्रत्ययासम्भिन्नश्चिन्तनम् । तच्चानुभवस्य पश्चाद् भवतीत्यनुचिन्तनम् । न च तत् स्मृतिमन्तरेण भवति । न हि तत्र प्रवाहः प्रवाहिणं विनास्ति । तदेवानुचिन्तनम् । पूर्वानुभूतविषयप्रार्थना सङ्कल्पः । प्रार्थनार्थः सङ्कल्पः प्रार्थनासङ्कल्पः । स च पूर्वानुभूतविषय इत्यर्थः ।
अथास्मिन्नेव जन्मनि इन्द्रियजो विषयानुभवोऽन्वयव्यतिरेकावधारितेष्टोपायतासहकारी कस्माद् रागहेतुर्न भवतीत्यत आह “वार्त्तिककारः—न च विषयावगमासमर्थेष्विति ।” तदनेन “पूर्वानुभवश्च विषयाणामन्यस्मिन् जन्मनीति भाष्यं” व्याख्यातम् ॥ २४ ॥
सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः ॥ ३ । १ । २५ ॥
“अत्रायमुदितानुवाद” इति “भाष्यम् ।” तस्यार्थः—उदितमिदं चोद्यम् अयरकान्तदृष्टान्तेन चोद्येन । तथापि तस्यानुवादो निदर्शनार्थः । पूर्वमयस्कान्तो निदर्शनम्, इदानीं तु घटादीनामुत्पद्यमानानां रूपादयो निदर्शनमिति तदर्थ इत्यर्थः । चोद्यस्योदितानुवादत्वात् परिहारोऽप्युदितानुवाद एवेति ।
ननु च सगुणद्रव्योत्पत्तिवदिति साधनपक्षे मा भूत्, अनैकान्तिकापादनपक्षे तु को दोष इत्यत आह—“वार्त्तिककारः—अनैकान्तिकपक्षे सूत्रम् ।” न, कस्मात् ? “उक्तोत्तरत्वात् ।” उक्तोत्तरमेतद् यत इति ॥ २५ ॥
न सङ्कल्पनिमित्तत्वाद्रागादीनाम् ॥ ३ । १ । २६ ॥
“तन्मयत्वाद्राग” इति । अभ्युपेत्यादृष्टकारणत्वं रागादीनां पूर्वं परिहृतम् । परमार्थतस्तु तन्मयत्वाद्राग इत्यर्थः । स्यादेतत्, यदि पूर्वाभ्यस्तस्मृत्यनुबन्धाद् रागादीनामुत्पादो हन्त, मनुष्यजन्मानन्तरं प्राप्तकरभभावस्य मनुष्यजन्मोचितानां भावनानामानन्तर्यात् तदनुरूपा एवास्य रागादयो भवेयुर्न करभानुरूपाः । करभजातेरस्य विजातीयजन्मसहस्रव्यवहितत्वादत आह—“जातिविशेषाच्चेति ।” कर्मणः संस्कारोद्बोधकत्वात् करभजात्यर्थेन कर्मणा जन्मसहस्रव्यवहितापि करमभावनोद्बोध्यते नानन्तरापि मनुष्यभावना प्रायणाभिभूतेति भावः ।
अपि च मनुष्यत्वेन तुल्यत्वेऽपि प्रज्ञामेधाप्रकर्षनिकर्षभेददर्शनात् प्राग्भवीयाभ्यासकल्पना । अद्यत्वेऽपि हि शास्त्राभ्यासस्तद्गोचरप्रज्ञामभिवर्धयन् अन्वयव्यतिरेकाभ्यामनुभूयते । सोऽयमिह जन्मन्यकृतशास्त्राभ्यासस्य तद्विषयः प्रज्ञामेधातिशयः प्राग्भवीयमभ्यासातिशयं स्वकारणमवगमयति । जडस्य तु54 तिर्यगादिजातिशतव्यवधानपरिम्लानप्राग्भवीयसंस्कारस्य प्रज्ञामेधानिकर्ष इति कल्पनीयम् । तस्मात् नित्यस्यात्मनः कर्माविद्यानिबन्धनोऽनादिरेषोऽनेकविधशरीरपरिग्रहपरित्यागप्रवाहोऽपवर्गान्त इति सिद्धम् ॥ २६ ॥
॥ इति आत्मनित्यत्वप्रकरणम् ॥
शरीरपरीक्षाप्रकरणम्
पार्थिवं गुणान्तरोपलब्धेः ॥ ३ । १ । २७ ॥
आत्मानन्तरमुद्दिष्टं शरीरं परिचिक्षिषमाणोऽवान्तरसङ्गतिमाह “भाष्यकारःअनादिश्चेतनस्य शरीरयोगत्युक्तम् ।” परीक्षोपयोगिनिर्वेदसाधनत्वमाह—“स्वकृत कर्मेति ।” परीक्षापूर्वस्य संशयमाह—“किं घ्राणदिवदिति ।” एकद्वित्रिचतुः पञ्चप्रकृतिकतामास्थिषत शरीरस्य वादिनः, सोऽयं सङ्ख्याविकल्पः ।
अत्र “वार्त्तिककारः” स्वातन्त्र्येण शरीरपरीक्षायां सङ्गतिमाह—“आत्मानन्तरमिति । भाष्य”मतेन सङ्गतिमाह—“अथ वेति ।” अवान्तरसङ्गतेस्तात्पर्यमाह—“तस्मिन् परीक्ष्यमाण” इति ।
“पार्थि…ब्धेः । मानुषं शरीरं पार्थिवं” गन्धवत्त्वात् पार्थिवपरमाणुवदिति । न कारणं कार्यस्यात्मा । तत् कथमेकात्मकमित्यत आह—“एकात्मकमित्येकस्वभावम् ।” स्वो भावो भवितॄणां जातिः । एकजातीयसमवायिकारणत्वे हि तत् तदेकजातीयं स्यात् नान्यथेत्यर्थः ।
अथ परोक्तान् हेतूननन्यथासिद्धयिष्यन् प्रथमं तावत् सुहृद्भावेनाह—“न त्विदमबादिभिरिति” ॥ २७ ॥
पार्थिवाप्यतैजसं तद्गुणोपलब्धेः ॥ ३ । १ । २८ ॥
निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् ॥ ३ । १ । २९ ॥
गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ॥ ३ । १ । ३० ॥
परोक्तसाधनमन्यथासिद्धमुक्त्वा बाधकमुक्तं “भाष्यकृता ।” तदनुभाष्य “वार्त्तिककारो” व्याचष्टे—“तदिदमनेकप्रकृतीति । पृथिव्युपदकाभ्यामारभ्यमाणमगन्धं कारणगन्धस्यैकस्यानारम्भकत्वात् ।” अयमभिसन्धिः, पृथिव्याप्यपरमाणू तावन्नैकं द्व्यणुकमारब्धुमर्हतः तयो रूपरसस्पर्शवत्त्वेन तदारम्भसम्भवेऽपि गन्धवत्त्वाभावप्रसङ्गात् एकपार्थिवाणुसमवेतस्य गन्धस्यैकत्वेनानारम्भकत्वात् । नापि पार्थिवपरमाणुद्वयमेकश्च पाथसीयः परमाणुरित्यणूनामारम्भकत्वे गन्धवत्त्वोपपत्तिरिति साम्प्रतम्, परमाणूनां बहूनामनारम्भकत्वात् । तथा हि त्रयः परमाणवो न कार्यद्रव्यमारभन्ते परमाणुत्वे सति बहुत्वसङ्ख्यायुक्तत्वाद् घटपरिगृहीतपरमाणुप्रचयवत् । आरम्भकत्वे तु तेषां घटोपगृहीतानां कपालशर्कराचूर्णक्रमो घटनाशे नोपलभ्येत । द्व्यणुके च विजातीयानारम्भकत्वे सिद्धे तेनैव दृष्टान्तेनान्यत्रापि विजातीयेनारम्भो निषेद्ध्यः । एतेन पार्थिवावयवानां महतां बहूनां पाथसीयावयवैः शरीरारम्भः प्रत्युक्तः, विजातीयानामनारम्भकत्वस्य दृष्टान्तधर्मिणि विनिश्चयादिति । तदनेन “वार्त्तिककृता” षड्विंशतिकल्पा निराकृता इति । यदि पुनरेकैकं कारणं स्यात्, ततः किं भवेदित्यत आह—“एककारणत्वे त्विति ।” नित्यं निरपेक्षमेकं कारणमिति सततोत्पत्तिः कार्यस्य भवेत् । कारणविनाशात् तद्विभागाद् वा द्रव्यं विनश्यति । न चैकस्य कारणस्य नित्यस्य विनाशोऽस्ति । न च विभागः तस्य सद्वितीयवस्त्वाश्रयत्वात् । एकस्य व सद्वितीयाभावाद् विनाशकारणाभावेन कृतकनित्यत्वप्रसङ्गः । रूपमसहायमेकमवयविनि न रूपमारभत इति नीरूपोऽवयवी । तथा च रूपसंस्काराभावेनावयवी नोपलभ्येतेत्यर्थः ॥ ३० ॥
श्रुतिप्रामाण्याच्च ॥ ३ । १ । ३१ ॥
“स्पृतिः” उत्पत्तिरित्यर्थः । न्यायसिद्धमर्थं “श्रुतिः” उपोद्वलयति न पुनरस्य प्रापिका, “साङ्ख्य”राद्धान्तावलम्बनेनाप्यस्याः कथञ्चिदुपपत्तेः ॥ ३१ ॥
॥ इति शरीरपरीक्षाप्रकरणम् ॥
इन्द्रियभौतिकत्वप्रकरणम्
कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ॥ ३ । १ । ३२ ॥
उद्देशलक्षणक्रमानुरोधात् शरीरानन्तरमिन्द्रियाणां परीक्षां प्रतिजानीते “भाष्यकारः—अथेमानीन्द्रियाणि प्रमेयक्रमेणेति ।” तत्र परीक्षापूर्वरूपं संशयमाह— “किमाव्यक्तिकानि आहोस्विद्भौतिकानीति ।” उपलक्षणं चैतत् । यदापि भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियम् आहो तदधिष्ठानं तैजसमित्यपि संशयो द्रष्टव्यः । विप्रतिपत्तेः संशयः । तत्र पूर्वः “साङ्ख्यनैयायिक” योर्विप्रतिपत्तेः । उत्तरस्तु “सौगतनैयायिक”योरिति । आव्यक्तिकत्वमाहङ्कारिकत्वं द्रष्टव्यम् । अहङ्काराद्धि बुद्धिविकाराद् वैकारिकाद् एकादशेन्द्रियाणि जायन्त इति “साङ्ख्या ।” आव्यक्तिकत्वं त्वव्यक्तस्य मूलकारणत्वादुक्तम् । विप्रतिपत्तिबीजं पृच्छति—“कुतः संशय” इति । विप्रतिपत्तिमाह कारणे कार्योपचारात् । उत्तरम्—“कृष्णसारे सतीति ।”
“वार्त्तिकम्—किमाव्यक्तिकानि ?” तस्य व्याख्यानम्—“आहङ्कारिकाणीति । कृष्ण…यः ॥” कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति “बौद्धाः । व्यतिरिच्य चोपलम्भात्” तदतिरिक्तम् । तच्चाहङ्कारिकम् अहङ्कारस्य विभुत्वेनाप्रतिघातात् । भौतिकत्वे तु काचाभ्रपटलादिभिर्भौतिकैः प्रतिघातप्रसङ्गादिति “साङ्ख्याः ।”
“न प्रदीपादिभिरनेकान्तादिति ।” वर्तिदेशस्थेन पिण्डितेन तेजसा प्रदीपेनानेकान्तात् । प्रभा हि विसारिणी तं तमर्थं प्राप्य प्रकाशयति, न तु प्रदीप इत्यर्थः । “विषयीभावादिति चेदिति ।” उत्पादविशेष एव स तादृक् चक्षुरर्थक्षणयोर्यतोऽप्राप्तयोरपि विषयविषयिभावाद् वेद्यवेदकत्वम् । न चायं व्यवहितविप्रकृष्टयोरिति न तयोर्वेद्यवेदकभाव इत्यर्थः । निराकरोति—“नोक्तोत्तरत्वात् ।” स एवार्थो विप्रकृष्टो न विषयः, सन्निहितश्च विषय इत्येकस्य विषयीभावः तदभावश्चायुक्तः । क्षणभङ्गश्च निषेत्स्यत इति भावः ॥ ३२ ॥
महदणुग्रहणात् ॥ ३ । १ । ३३ ॥
तत्र “साङ्ख्य”मुत्थाप्य “बौद्ध”पक्षं दूषयति—“अभौतिकानीति ।” कृष्णसाराधिकग्रहणे विवक्षिते अर्थग्रहणं55 सम्पातायातम् । न तु तदत्र विवक्षितम्, असाधकत्वादिति । “मह…णात् ॥ धाना” अङ्कुरः । “अभौतिकं तु” व्यापकत्वादिति56 । तद्यथा विज्ञानाद्यभौतिकं महच्चाणु च गृह्णातीत्यर्थः ।
“एकदेशि”मतेन दूषणमाह—“न भौतिकेषु प्रदीपादिषु” इति । ननु बुद्धिर्यदि महदण्वोः प्रकाशनं तत् किमिदानीं सर्वस्यैवाप्रकाशनमित्यत आह—“अवधारितस्य त्वर्थस्येति ।” न च हानोपादानोपेक्षाबुद्धयोऽण्व्यो महत्यो वेति भावः । पूर्वपक्ष्याह—“नेन्द्रियेऽपि समानत्वादिति ।” तदेवमे“कदेशिनो”ऽसाधारणत्वापादने पूर्वपक्षिणा दूषिते “परमसिद्धान्ती” आह—“अभूतात्मकं व्यापकं चेति । साङ्ख्यः” शङ्कते—“वृत्तिरिति ।” इन्द्रियाणां वृत्तयो ज्ञानहेतवः प्रतिषिध्यन्त इत्यर्थः । “युगपदनेकविज्ञानप्रसङ्गाच्चेति ।” यद्यपि “साङ्ख्यीये” राद्धान्ते दीर्घां शष्कुलीं भक्षयतो युगपदनेकज्ञानोत्पत्तिरभिमता तथापि क्वचित् क्रमोऽपि दृश्यते स न स्यात् । वृत्तिमतोऽवस्थाने तदभिन्ना वृत्तिरप्यवतिष्ठत इति तन्मात्राधीनोत्पत्तीनां विज्ञानानां क्रमो न स्यादिति भावः । “उभयं नेष्यत” इति । वृत्तिभ्योऽनन्यत्वं वृत्तिमतो नेष्यते, नापि वृत्तीनामनन्यत्वं वृत्तिमत इत्यर्थः ॥ ३३ ॥
रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ॥ ३ । १ । ३४ ॥
“नैयायिकः साङ्ख्यं” दूषयति—“रश्म्य…णम् ॥” आहङ्कारिकत्वे चक्षुर्न प्रतिहन्यते यदि ततः काचाभ्रपटलान्तरितप्रकाशनवत् कुड्यान्तरितमपि प्रकाशयेत् न चैवमस्ति । तस्मात् कृष्णसाराधिष्ठानं तेज एव भौतिकं प्राप्य गृह्णाति कुड्यान्तरितं त्वर्थमप्राप्तं न गृह्णाति । काचाभ्रपटलान्तरिते तु वक्ष्यति । “भूयोऽवयवसन्निकर्षानुग्रह” इति । इन्द्रियावयवानामर्थावयवैः इन्द्रियावयवानामर्थेन अर्थावयवानामिन्द्रियेण इन्द्रियस्यार्थेनेति ॥ ३४ ॥
तदनुपलब्धेरहेतुः ॥ ३ । १ । ३५ ॥
“तदनुपलब्धेरिति ।” नोपलब्धिलक्षणप्राप्तमनुपलभ्यमानं शक्यमनुमातुं नरविषाणादिनामप्यनुमानप्रसङ्गादित्यर्थः ॥ ३५ ॥
नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥ ३ । १ । ३६ ॥
परिहारः—“नानुमीयमानस्येति । नानु…तुः ॥” सत्यम् । उपलब्धिलक्षणप्राप्तमनुपलभ्यमानं न शक्यमनुमातुम् । न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूपविशेषोऽपि । न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्य चक्षुषोऽस्तीत्यर्थः ॥ ३६ ॥
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ॥ ३ । १ । ३७ ॥
“आचार्यदेशीयानां” मतमाह—“अपरे त्विति ।” दूषयति—“एवं तर्हीदमिति ।” यत्रोपलब्धिस्तत्रैतदिति “सूत्रा”र्थः । ततो महत्त्वादिषु मध्ये यत्किञ्चिदेकं वक्तव्यं “सूत्रकारेण” यत्रोपलब्धिस्तत्रैतदित्यर्थस्यैकस्मादेव57 सिद्धेरनेकोपादानवैयर्थ्यम् । तस्मात् समस्तार्थयोग्यतार्थाभिधानपरं58 “सूत्रम् ।” ननु यथासूत्रं59 महत्त्वाद्युपलब्धिकारणमस्ति चाक्षुषस्य रश्मेरिति कस्मादयं नोपलभ्यते इत्यत आह—“द्रव्यगुणधर्मेति” ॥ ३७ ॥60
कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ३ । १ । ३८ ॥
“अनेकरश्मिसन्निपाते” स्पर्शस्योद्भूतौ सत्यां “द्रव्यं दह्येत” रूपोद्भूतौ च सत्यां “व्यवहितत्वात्” आदौ निपतितेन चक्षुरन्तरेण “द्रव्यस्यानुपलब्ध्या भवितव्यम् ।” शङ्कते—“अथानेकेति ।” नानानयनावयवैरेकोऽसौ नयनावयव्यारभ्यत इत्यर्थः । निराकरोति—“एवं सतीति ।” नानानयनावयवैरारब्ध एकोऽसौ नयनावयवी समग्रासमग्रचक्षुःपुरुषसाधारण इत्युपलब्धिस्तुल्या स्यादित्यर्थः ॥ ३८ ॥
मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥ ३ । १ । ३९ ॥
न रात्रावप्यनुपलब्धेः ॥ ३ । १ । ४० ॥
“न हि यद् यस्याभिभावकं तत् तस्य व्यञ्जकमिति ।” रात्रौ यद् लोष्टतेजसोऽभिभावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद् रात्रौ लोष्टतेजो नोपलभ्येत इत्यर्थः । “अपिशब्दाद् गम्यत” इति । “न रात्रावपीति सूत्र”गतादित्यर्थः ॥ ४० ॥
बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥ ३ । १ । ४१ ॥
सोऽयं चाक्षुषो रश्मिः किमभिभवात्61 नोपलभ्यते, किं वानुद्भूतेरित्यत आह “भाष्यकारः । उपपन्नरूपा चेयम् । अनभिव्यक्तितोऽनुपलब्धिरिति” योजना । “अनभिव्यक्तितः” अनुद्भूतेरित्यर्थः । अत्र हेतुः “बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेः ।” विषयश्च स्वरूपमात्मनोऽन्यच्च । एतदुक्तं भवति । यदुपलब्धौ बाह्यप्रकाशमनुग्राहकमपेक्षते, तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः । यथा हेमन्ते विषक्तावयवस्याप्यस्य द्रव्यस्य । आप्यं हि द्रव्यं विषक्तावयवं62 स्वविषयोपलब्धौ बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टम् । चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते निरालोके तस्याप्रवृत्तेः । तस्माद् विषयोपलब्धौ बाह्यप्रकाशानुग्रहापेक्षत्वात् तदनुद्भूत्या न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् । तदेतद् “वार्त्तिककारो” व्याचष्टे—“तस्य विद्यमानस्येति” ॥ ४१ ॥
अभिव्यक्तौ चाभिभवात् ॥ ३ । १ । ४२ ॥
तमिमं विशेषं मध्यन्दिनोल्काप्रकाशादावविद्वान् पृच्छति—“कस्मात्पुनर्नायनस्येति ।” अस्योत्तरम्—“अभि…वात् ॥” अभिभवनीयस्वरूपमाह—“यदुद्भूतरूपमिति63 ।” तद्वैधर्म्यमनुद्भूतरूपस्याह—“अनुद्भूतरूपश्चेति ।” अनुद्भूतरूपस्याभिभवाभावे निदर्शनमाह—“यदनुद्भूतरूपमिति ।” बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे निदर्शनमाह—“यच्च बाह्यप्रकाशानुग्रहापेक्षमिति ।” कृष्णसारं रश्मिमदित्युच्यमाने प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत् साध्येत । तथा चापसिद्धान्त इत्यत आह—“विप्रतिपत्तिविषय” इति । तेन विप्रतिपत्तिविषयः कृष्णसारं रश्मिमदिति64 साध्यनिर्देशः । उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत उक्तम्—“रूपोपलब्धाविति” रूपसाक्षात्कार इत्यर्थः । तथापि सन्निकर्षादिभिरनेकान्तोऽत उक्तम्—“द्रव्यत्वे सतीति ।” तथापि मनसानेकान्तोऽत उक्तम्—“नियतस्य साधनाङ्गस्येति ।” असाधारणस्य साधनाङ्गत्वे सतीति मनसस्तु साधारणस्य साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् । साधनं समुदायस्तदङ्गमवयवः । “अथ वेति ।” द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनेकान्तः स्यादत उक्तम्—“स्फटिकादिव्यवहितेति” ॥ ४२ ॥
नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ ३ । १ । ४३ ॥
“मानुषं चक्षू रश्मिमदिति । रूपाद्युमलब्धिनिमित्तत्वादिति” सावधारणं रूपादीनामेवेति । तेन न मनसानेकान्तः । तथापि सन्निकर्षेणानेकान्त इत्यत उक्तम्— “अप्राप्तिस्वभावत्व” इति । “इतश्च भौतिकानीन्द्रियाणीति ।” चक्षूरसनत्वग्घ्राणानीत्यर्थः । तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत आह—“भूतं श्रोत्रम् ।” अर्थप्रकाशकत्वादित्युच्यमाने मनसानेकान्तोऽत आह—“प्राप्तेति ।” न हि रूपादिभिः सहास्ति मनसः प्राप्तिः । तथापि मनस्येवानेकान्तः । आन्तरं हि सुखादि मनः प्राप्य प्रकाशयति । अत आह—“बाह्येति ।” तथापि सन्निकर्षादृष्टादिभिरनेकान्तोऽत आह—“द्रव्यत्वे सतीति ।”
शङ्का“भाष्यम्—जातिभेदवदिन्द्रियभेद इति चेत् ?” निराकरोति—“धर्मभेदमात्रं चानुपपन्नम् ।” वृषदंशनयनस्य रश्मिमत्त्वं धर्मो मानुषनयनस्य त्वतद्वत्त्वमिति योऽयं धर्मभेदः स एव मात्रम् । तच्चानुपपन्नम् । चोऽवधारणे भिन्नक्रमः । अनुपपन्नमेवेति योजना । कुतोऽनुपपन्नमित्यत्र हेतुमाह—“आवरणस्येति ।” यथा हि धूमवत्त्वं पर्वते रसवत्यां चान्यत् तथाप्येष विशेषोऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः । एवं विडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः ॥ ४३ ॥
अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ ३ । १ । ४४ ॥
कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥ ३ । १ । ४५ ॥
अप्रतीघातात् सन्निकर्षोपपत्तिः ॥ ३ । १ । ४६ ॥
“सोऽप्रति हन्यमान” इति । स रश्मिः अप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन सम्बध्यते काचान्तर्गतेन ॥ ४६ ॥
आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् ॥ ३ । १ । ४७ ॥
“वार्त्तिकम्—अव्यूह्यमानावयवद्रव्यानुप्रवेश” इति । यस्य “द्रव्यस्य” भर्जनकपालादेः “अवयवा न व्यूह्यन्ते” पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्यान्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते । तस्य द्रव्यस्य भर्जनकपालादेः अव्यूह्यमानस्य अवयवव्यूहनमवयविनोऽपीति अव्यूह्यमानस्येत्युक्तम् । तस्य भर्जनकपालादेः “अन्तरावयवैर्योऽभिसम्बन्धो” वह्नेः “सोऽप्रविघातः65 ।”
एतदुक्तं भवति—सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्येऽनुप्रवेशः सोऽप्रतिघात इति । प्रवेशेऽविघातमुक्त्वा निःसरणेऽप्यविघातमाह— “अन्तर्व्यवस्थितस्य वा द्रव्यस्य” मधूदकादेः “बहिरवस्थितहस्तादिप्राप्तिः ।” तस्य कीदृशस्य बहिरित्यत आह—अव्यूह्यमाना अवयवा यस्य द्रव्यस्य कलसादेः तस्य बहिरिति ॥ ४७ ॥
नेतरेतरधर्मप्रसङ्गात् ॥ ३ । १ । ४८ ॥
आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः ॥ ३ । १ । ४९ ॥
“द्रव्यान्तरासम्पृक्तद्रव्यसमवायः” स्वच्छतेत्यर्थः । प्रसङ्गात् प्रतिबिम्बभ्रमोत्पादक्रममाह—“आदर्शादिष्विति । यदभिमुखमग्रमिति ।” द्रष्टुः पुरुषस्याभिमुखं नयनरश्मेः परावृत्तस्याग्रं “तदभिमुखं मुखादि पश्यति ।” सारूप्यनिबन्धनत्वाद् विभ्रमाणां सारूप्यमिहाप्याह—“यथाग्रतोऽवस्थितस्य पुरुषस्य” मुखं लोचनरोचिरग्रसम्बद्धमभिमुखम् एवमेतदपीति । नन्वादर्शे प्रतिहतश्चेत् नयनरश्मिः परावृत्तः कथं पश्चादभिमुखमुखविभ्रमहेतुः ? हन्त भोः पातमात्रादादर्शज्ञानेन भवितव्यम् पश्चात् प्रतिबिम्बविभ्रमेण, न चैवमस्ति यौगपद्यप्रतिभासादित्यत आह—“आदर्शेति ।” कुतस्तर्हि मणिकृपाणदर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास इत्यत आह—“आदर्शरूपानुग्रहात् त्विति” ॥ ४९ ॥
॥ इन्द्रियभौतिकत्वप्रकरणम् ॥
इन्द्रियनानात्वप्रकरणम्
दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥ ३ । १ । ५० ॥
स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ॥ ३ । १ । ५१ ॥
सम्प्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः सन्दिग्धे—“अथापि खल्वेकमिति ।” प्रश्नपूर्वकं “सूत्र”मवतारयति—“कुतः संशयः ?”
“स्थाना…यः ।” तत्र केचिदिदं “सूत्रं भाष्य”मतानपेक्षं यथाश्रुति व्याचक्षते । तद्दूषणपुरासरं “भाष्य”व्याख्यानं ग्रहीतु यथाश्रुति व्याख्यानं परेषां “सूत्र”पाठपूर्वकमुपन्यस्यति—“एके त्विति ।” दूषयति—“अनुपपन्नरूपश्चायमिति ।” अत्र हि यथाश्रुति स्थानान्यत्व इति निमित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्वमुक्तं न त्वेकत्वस्येति । एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् । “अवयविनानास्थानत्वादिति” अवयवीत्येकत्वमुपलक्षयति । स्थानान्यत्वं च स्थानानामन्यत्वमुच्यते66 । नानास्थानत्वं च नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः । न च धर्मद्वयं साक्षात् संशयकारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् । तत्र “यदि तावदेवं क्रियते”—संशयः “स्थानान्यत्वे नानात्वैकत्वदर्शनादिति तदा सूत्रा”र्थालोचनेन “एकत्वे स्थानान्यत्वस्यादर्शनान्न समानधर्मः, सूत्रं” खल्वेकत्वे नानास्थानत्वमाह न स्थानान्यत्वम् । अनेकत्वमात्रे हि तदुक्तं “सूत्रकारेण” स्थानान्यत्वे नानात्वादिति । “अथ नानास्थानत्वे सत्येकानेकत्वदर्शनात् संशय” इति ? एतद् दूषयति—“तदा द्रव्यं नानास्थानमनेकं न किञ्चिद् दृष्टं सूत्रे । अवयविनानास्थानत्वादिति” हि “सूत्रं” नानास्थानत्वेनैकत्वमाह, न तु नानात्वमपि । यत् पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं “सूत्रकृता ।” अपि तु स्थानान्यत्वं तस्य “सूत्रकृता” उक्तं स्थानान्यत्वे नानात्वादित्यनेन । दूषणमुपसंहरति—“सोऽयं संशय उभयथानुपपन्न इन्द्रियेषु” यथाश्रुत“सूत्र”परिग्रहेण । “उभयथा” इति स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः । तदेवं परव्याख्यानं दूषयित्वा “भाष्यकारी”यस्य व्याख्यानस्य युक्तत्वमाह—“स्थानेषु तु युक्तः ।” स्थानेष्विति निमित्तसप्तमी । नानास्थानत्वनिमित्त इन्द्रियेस्येकत्वानेकत्वसंशयो युक्तः । नानास्थानं खत्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं तालफलमिति67 । इन्द्रियविषयं नानास्थाननिमित्तकं संशयमाह—“किं नानास्थानानि” इन्द्रियाणि “उत नानास्थान”मेकमिन्द्रियमिति । तदिदमुक्तं “भाष्यकारेण, बहूनि च द्रव्याणि नानास्थानानि दृश्यन्ते, नानास्थानश्च सन्नेकोऽवयवीति । तेनेन्द्रियेषु भिन्नस्थानेषु संशय” इति । “सूत्रे”ऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः । यथाश्रुतस्तु न “सूत्रा”र्थ इत्याह—“इन्द्रियेषु तु न स्थाननानात्वात् सम्भवति नापि नानास्थानत्वादिति ।” किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो “भाष्यकारीयः” साधीयानित्यर्थः । तदेवं परोक्तं संशयबीजं दूषयित्वा “भाष्यकारीयं” संशयबीजं दर्शयित्वा “वार्त्तिककारः” स्वातन्त्र्येण संशयबीजमाह—“शरीरव्यतिरेकात् सत्त्वाच्च संशय” इति ॥ ५१ ॥
त्वगव्यतिरेकात् ॥ ३ । १ । ५२ ॥
पूर्वपक्षं गृह्णाति—“त्वग…कात् ॥ कः पुनरयमव्यतिरेक” इति । घटादिप्राप्तं चक्षुस्त्वचो व्यतिरिच्यत एवेति भावः । उत्तरम्—“सर्वाधिष्ठानसम्बन्ध” इति । सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह—“सति भावो वेति ।” तदनेन “यस्यां च सत्याम्” इति “भाष्यं” व्याख्यातम् । चो विकल्पार्थः । सिद्धान्त“भाष्यम्—नेन्द्रियेति । लोकविरोध” इति । लोक्यते ज्ञायतेऽनेनेति लोकः प्रमाणम्, तद्विरोध इत्यर्थः ? “अनेकेन चानिन्द्रियेणेति ।” शरीरं पार्थिवं भूतान्तरसम्पृक्तं च तद् “इन्द्रियाधिष्ठानानि” शरीरावयवभूतानि “पृथिव्यादिना प्राप्तानीत्यनेकान्तः । न व्याघातादिति” परदोषोद्भावनपरम् । न पुनः सिद्धान्तिनस्त्वगवयवत्वमिन्द्रियान्तराणामभिमतमिति ॥ ५२ ॥
न युगपदर्थानुपलब्धेः ॥ ३ । १ । ५३ ॥
एवं “भाष्यकारीय” सिद्धान्तमुकत्वा सौत्रं सिद्धान्तमाह—“सूत्रेण चाभिसम्बन्धः” सिद्धान्तस्य । “न यु…ब्धेः ॥”
“सूत्रं” व्याचष्टे, नैतदस्ति एकमिन्द्रियमिति । कस्मात् ? “युगपदर्थानुपलब्धेरिति ।” तदेतत् “सूत्रं” भाष्यदृष्ट्या व्याचष्टे “वार्त्तिककारः—यस्यैक”मिन्द्रियमिति । तदेतद् व्याख्यानं दूषयति—“नैकेन्द्रियग्राह्याणामिति । भाष्य”व्याख्यानं दूषयित्वा “सूत्रम्” अन्यथा व्याख्यातुं भूमिरचनां करोति—“एवं ब्रुवाण एकेन्द्रियवादीति । सामि” अर्धम् । एकमपि इन्द्रियमर्धं प्राप्य गृह्णाति । अप्राप्य चार्धमेकदेशमिति यावत् । करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः ॥ ५३ ॥
विप्रतिषेधाच्च न त्वगेका ॥ ३ । १ । ५४ ॥
एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह—“नासाधना क्रियेति । एकत्वं च कथमिति ।” न शक्यः पक्षो दूषयितुमित्युक्तम् । न च साधननिराकरणमात्रात् साध्यं निवर्तते । मा भूद् धूमनिवृत्तौ वह्निनिवृत्तिरित्यर्थः । पृच्छति—“कथं तर्हीति ।” उत्तरम्—“प्रतिषेधाच्चानन्तरमिति ।” यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते तथाप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया । अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति योजना । “अथवेति ।” व्यतिरेकी हि हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेन एकतरं व्यवस्थापयति—यथा नैरात्म्यनिषेधेन जीवच्छरीरस्य सात्मकत्वमिति ॥ ५४ ॥
इन्द्रियार्थपञ्चत्वात् ॥ ३ । १ । ५५ ॥
“सूत्रम्” आक्षिपति—“इदं तु सूत्रामिति ।” एष न्यायोऽनया वचोभङ्ग्या सूत्रित इत्यर्थः ॥ ५५ ॥
न तदर्थबहुत्वात् ॥ ३ । १ । ५६ ॥
पूर्वपक्षिणः “सूत्रम्—न, त…त्वात् ॥” पूर्वपक्षमाक्षिपति—“न विरोधादिति ।” पूर्वपक्षिणः समाधानं “नासाधनाद्” इति ॥ ५६ ॥
गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥ ३ । १ । ५७ ॥
सिद्धान्तः—“गन्ध…धः” ॥ ५७ ॥
विषयत्वाव्यतिरेकादेकत्वम् ॥ ३ । १ । ५८ ॥
न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ३ । १ । ५९ ॥
“यस्याधिष्ठानं भिन्नम्” इति । नियतम्68 । एतदुक्तं भवति—रूपव्यञ्जकस्य कृष्णसारमेवाधिष्ठानं न कर्णशष्कुल्यादि । एवमन्यत्रापि द्रष्टव्यम् । “यस्य पुनः” सिद्धान्तिनः । “अधिष्ठानभेदः” तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः “तस्य” एकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशेऽपि “अधिष्ठानान्तराश्रयस्य” इन्द्रियान्तरस्य “अवस्थानमिति न” एकाधिष्ठाननाशे सर्वाधिष्ठाननाशात् सर्वेन्द्रियनाशलक्षणः तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो “दोष” इति । “इष्टानिष्टोपेक्षणीय” इति । उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केनचित् प्रकारेण । यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तौ पुरुषस्तप्येत । दुःखं कर्मेत्यनुभवो लोकस्य उपेक्षणीयत्वे तु तन्न तस्य भवतीति ॥ ५९ ॥
भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ ३ । १ । ६० ॥
“तत्र पार्थिवं घ्राणं” रूपरसगन्धस्पर्शेषु नियमेन द्रव्यत्वे सति गन्धस्यैव व्यञ्जकत्वाद् “बाह्यपार्थिववदिति ।” यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः पार्थिवा इत्यर्थः । न चातपेनानेकान्तः । न ह्यातपो गन्धस्य व्यञ्जकोऽपि तु जलाभिभूतो गन्धो द्रव्याणां नोपलभ्यते केवलं जलमातपोऽपनयति, न तु द्रव्यस्य गन्धमभिव्यनक्ति । तस्मान्नानेकान्तः । एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन रसस्य व्यञ्जकत्वाद् दन्तान्तरस्यन्दमानोदकबिन्दुवत् । न खलु विशुष्यदास्यो मोदकादिरसमनुभवति । एवं तैजसं चक्षुः गन्धदिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात् प्रदीपवत् । एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये नियमेन69 स्पर्शव्यञ्जकत्वात् स्वेदोदबिन्दुशीतस्पर्शव्यञ्जकव्यजनपवनवत् । नियमग्रहणं मनोनिवृत्त्यर्थम् । गन्धादिषु मध्ये इति चावधारणसिध्यर्थम्, अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं न स्यात् । तदेतदाह—“एवं शेषेष्विति ।” एवं चेन्द्रियपञ्चत्वे हस्तपादपायूपस्थवाचामिन्द्रियत्वनिषेधोऽपि संसूचितः70 इन्द्रियलक्षणविरहात् । यच्छरीरसंयुक्तं संस्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणम् । न चैतदस्ति हस्तादिषु । तज् ज्ञानेन्द्रियाणां लक्षणम्, इमानि तु कर्मेन्द्रियाणीति चेत् ? हन्तैषामिन्द्रियत्वे लक्षणान्तरं वक्तव्यम् । शरीराश्रितमसाधारणकार्यकारीन्द्रियमितीन्द्रियलक्षणमिति चेद् ? वक्तव्यमेषामसाधारणं कार्यम् । उक्तम् वचनादानविहरणोत्सर्गानन्दाः पञ्चानाम् इति । नन्वादानविहरणोत्सर्गास्तावद् वक्त्रहस्तादिभिरपि शक्याः कर्तुम् । अपि चास्ति कण्ठहृदयामाशयपक्वाशयादीनां निगरणादितत्तदसाधारणं कार्यमिति तान्यपीन्द्रियाणि प्रसज्येरन्निति । तस्माद् यत्किञ्चिदेतदपीति ॥ ६० ॥
॥ इन्द्रियनानात्वप्रकरणम् ॥
अर्थपरीक्षाप्रकरणम्
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥ ३ । १ । ६१ ॥
अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ ३ । १ । ६२ ॥
क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोऽर्थलक्षणं स्मारयति, “गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टमिति71 ।” लक्षितमिति वक्तव्ये सम्मुग्धाभिधानम् । सामान्यादुद्दिष्टमित्युक्तम् । तत्र परीक्षामुखं संशयमाह—“उद्देशश्च नियोगेति ।” नियोगादीनां रूपमाह—“तत्र नियोग” इति । तदेवं विमृश्य नियोगसमुच्चयौ परित्यज्य विकल्पमालम्बते “सूत्रा”भ्याम्—“अतो विशेषणार्थमिति—गन्ध…व्याः ॥ अप्ते…रः ॥” विशेषणार्थमिति “सूत्र”योस्तात्पर्यमुक्तम् । तदेव स्फुटयति “नियमार्थे” इति । उत्तरेष्वबादिष्वेकैकशोऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् । तथा हि चतुर्षुगन्धापकर्षः अप्स्वपकृष्टस्य च गन्धस्य पुनरुद्भवो नास्ति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः । एवमपकृष्टयोश्च गन्धरसयोः पुनरुद्भवो नास्तीति तेजस उत्तरे वायौ रूपापकर्ष इति । एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे स्पर्शस्यापकर्षः । तदिदमुक्तम्—“एकैकश” इति । अव्युत्पन्नोऽयमुत्तरशब्दो न तु तरबन्तः72 । तेन बहूनां निर्धारणेऽप्युपपन्नार्थ इति । भवतु तरब्निर्देशः तथापि न दोष इत्याह—“भवतु वेति ।” क्वचित् पाठः तन्त्रं73 वेति । स यथाभाष्यं स्फुटार्थ एव ॥ ६१—६२ ॥
न सर्वगुणानुपलब्धेः ॥ ३ । १ । ६३ ॥
पूर्वपक्षी नियोगपक्षमुत्थापयति—“न स…ब्धेः ॥” पृथिव्यादिप्रकृतीनां घ्राणादीनां गन्धादिप्रतिनियम74 एवमुपपद्यते । यदि गन्धमात्रगुणा पृथिवी रसमात्रगुणा आप इत्यादि, न त्वन्यथा । अन्यथा तु पार्थिवेन घ्राणेन गन्धवद् रसरूपस्पर्शा अपि व्यज्येरन् अविशेषादित्यर्थः ॥ ६३ ॥
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ॥ ३ । १ । ६४ ॥
विष्टं ह्यपरं परेण ॥ ३ । १ । ६५ ॥
संसर्गस्य द्व्याश्रयत्वेऽपि न द्वयोः75 समानत्वम्, यथाग्निधूमयोः सम्बन्धोऽन्यथाग्नेः76 । स हि व्यापकः । धूमे धूमध्वजस्य भाव एव नाभावः । धूमस्तु व्याप्यः । तस्य वह्नावेव भावो नान्यत्रेति । एवमपरं पृथिव्यादि परेणावादिना विष्टं व्याप्तम् । नाबादिमन्तरेणास्ति पृथिवी । तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो न त्वबादिषु पृथिवीगुणानाम् । एवमप्स्वनलादिगुणा व्याख्येयाः77 । विष्टत्वं संयोगविशेषो व्याप्तिरित्यर्थः । “भाष्यम्—तच्चैतद् भूतसृष्टाविति ।” भूतसृष्टिप्रतिपादकेषु पुराणेषु । “नैतर्हीति ।” नेदानीमननुभवादित्यर्थः ॥ ६५ ॥
न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ३ । १ । ६६ ॥
सिद्धान्ती विकल्पवाद्येतद् दूषयति—“न पा…त्वात् ॥” त्रिविधं हि द्रव्यं चाक्षुषमिष्यते पार्थिवमाप्यं तैजसं च । तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्यात्, नेतरदरूपत्वात् । न च रूपिद्रव्यसंसर्गाच्चाक्षुषत्वमरूपयोरपि पार्थिवाप्ययोरिति युक्तम्,78 नभोनभस्वतोरपि चाक्षुषत्वप्रसङ्गात् । अस्ति हि रूपवता तेजसा तयोः संयोग इति । अथवा पार्थिवाप्यसम्बन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन प्रत्यक्षत्वादित्याह “भाष्यकारः रसयोर्वेत्यादिना उपपद्यत” इत्यन्तेन । पुनस्तस्यैव व्याख्यानान्तरमाह—“स्पर्शयोरिति ।” पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात् पार्थिवतैजसोरित्यपि व्याख्यानमुक्तम् ।
व्याख्यानान्तरमाह—“अथ वेति ।” कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि व्यवस्थितगुणमनुमीयते । न च सर्वत्र संसर्गो येनान्यस्य गुणोऽन्यत्रोपलभ्यते विवेकस्यासंसर्गस्य दर्शनादिति । व्याख्यानान्तरमाह—“दृष्टश्चेति ।” चो विकल्पार्थः । नियोगस्तु निरनुमान इत्याह—“निरनुमानं तु विष्टं ह्यपरं परेणेत्येतदिति ।”
यच्चोक्तं “भूतसृष्टौ वेदितव्यं नैतर्हीति,” तद् दूषयति—“नियमकारणाभावादिति ।” नियमो गन्ध एव पृथिव्यामित्येवमादिः । तस्य कारणं प्रमाणं नास्ति तद्वाधकस्यैव प्रमाणस्योक्तत्वात् । तस्माद् भूतसृष्टिः कथञ्चिदुपचारतो व्याख्येयेति । विष्टत्वं संयोगः । “स च द्वयोः समान” इति । अन्यगुणो यदन्यत्रोपलभ्यते तत् किं संयोगादाहो व्याप्तेः ? यदि व्याप्तेः, नायोगोलके वह्निसम्पृक्ते वह्निगुणा गृह्येरन् तयोर्व्याप्यव्यापकभावाभावात् । धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना व्याप्तेर्वह्निगुणा गृह्येरन्, तयोर्व्याप्यव्यापकभावात् । तस्मादत्यन्तसंयोगो79 हेतुः । स चोभयोरविशिष्ट इति तेजसा सम्पृक्तत्वाद्80 वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इति ॥ ६६ ॥
पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥ ३ । १ । ६७ ॥
प्रधानपदार्थं व्याचष्टे “भाष्यकारः—विषयग्राहकत्वम्” गन्धादिर्विषयः । तदेव विषयग्राहकत्वं कुतस्तत्राह—“गुणोत्कर्षात्” तदभिव्यक्तिसामर्थ्यात् । विषयग्राहकत्वं चेत् प्राधान्यम्, तत्81 सर्वेषामविशिष्टम् । सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वादित्याशयवान् “वार्त्तिककारो भाष्यकारीयं” व्याख्यानममृष्यमाणः पृच्छति—“का प्रधानता ।” स्वमतेनोत्तरमाह—“चतुर्गुणत्वादिरिति ।” एतदुक्तं भवति—यस्माच्चतुर्गुणत्वेन पार्थिवं घ्राणं रसनादिभ्यः82 प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न गृह्णीयात् । नन्वेवं रसवत्त्वादिकमप्यस्ति घ्राणस्येति रसादिकमपि गृह्णीयादित्यत उक्तम्—“गुणोत्कर्षादिति ।” सर्वेषां समवायाविशेषेऽपि गन्धस्यैव घ्राण उत्कर्ष इति गन्धमेव गृह्णाति, तेनागन्धवत्त्वनिषेधपरं प्राधान्याभिधानं न पुनर्गन्धग्रहणे गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् । तत्रोत्कर्षपदार्थं पृच्छति “वार्त्तिककारः”—को गुणोत्कर्षः ? उत्तरम्—“स्वगुणाभिव्यक्तिसामर्थ्यम्,” स्वो गुणो घ्राणस्य गन्धः तज्जातीयतया83 चन्दनादिसमवेतोऽपि गन्धः स्व इत्युच्यते । न पुनः स्वगुणमेवाभिव्यनक्ति घ्राणम् । घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात् तादृशो निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति, यथा मृगमदादिगन्धं पार्थिवद्रव्यान्तरसमवेतो गन्ध इति । अत एवाह—“येन गुणेन यद् द्रव्यमुत्कृष्यते स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति ।” तस्मिन् द्रव्य इति शेषः । “यः पुनर्गन्धगुणत्वाद्” इति गन्धमात्रगुणत्वादेव घ्राणं गन्धस्य व्यञ्जकं न तु गन्धस्योत्कर्षादित्यर्थः । “तस्य” वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः ॥ ६७ ॥
तद्व्यवस्थानं तु भूयस्त्वात् ॥ ३ । १ । ६८ ॥
ननु भवतोऽपि कुतो व्यवस्थेति84 “सूत्रम्” अवतारयितुं पृच्छति—“कस्मात् पुनरिति । तद्व्य…स्त्वात् ॥ अर्थनिर्वृत्तीति ।” अर्थः पुरुषार्थः । “प्रविभक्तस्येति” इतरेभ्यो विशिष्टस्य । “संस्कारकारित” इति । अदृष्टकारितः ॥ ६८ ॥
सगुणानामिन्द्रियभावात् ॥ ३ । १ । ६९ ॥
शङ्कते—“यदि पुनरिन्द्रियस्य गन्ध” इति । निराकरोति—“तेनैव तस्येति” ॥ ६९ ॥
तेनैव तस्याग्रहणाच्च ॥ ३ । १ । ७० ॥
तदेतद् ग्रहणकवाक्यं सोपस्कारं व्याचष्टे—“यदीन्द्रियं स्वगन्धं गृह्णीयात् ते” तव दर्शने “नासाविन्द्रियगन्धः । अथेन्द्रियगन्धः” ततो “नेन्द्रियग्राह्यः स्यात् ।” कस्मात् नेन्द्रियग्राह्य इन्द्रियगन्ध इत्यत आह—“गन्धं च गृह्णदिति ।” चो हेतौ । “न चात्मसाधनं करणमस्तीति ।” मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् । तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्कते—“कस्मात् पुनरिदं न देश्यत” इति । पूर्वपक्ष्याह—“न देश्यत” इति । सिद्धान्तवाद्याह—“तुल्यं घ्राणेन स्वस्य गन्धस्याग्रहणमिति ।” तुल्यतामेवापादयति—“एतदप्यदेशनीयमिति” ॥ ७० ॥
न शब्दगुणोपलब्धेः ॥ ३ । १ । ७१ ॥
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥ ३ । १ । ७२ ॥
“तद्गुणत्वमेव” शब्दगुणत्वमेव दिक्कालयोरिति चेत् ? “नाम्नि विवादः” दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणगुणयोगित्वेन न परापरव्यतिकरकारणत्वं पृथिव्यादिवद् भवितुमर्हतीति । तथा च शब्दगुणं परादिप्रत्ययकारणं चाकाशमेवेति नाम्नि विवादः । दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ ततो व्यतिरिक्तावित्यर्थः । अपि चाकाशमिच्छत “आकाशप्रत्याख्यानं वा । सामर्थ्यानुपलब्धेरिति ।” रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यम् । तच्चक्षुरादिद्रव्यस्य दृष्टं न गुणादीनामित्यर्थः ॥ ७२ ॥
॥ इति अर्थपरीक्षाप्रकरणम् ॥
॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां तृतीयाध्याये प्रथमाह्निकम् ॥
-
“°विधं प्रमेयम्, तत्” [च्] ↩︎
-
“दर्शयिष्यते” [च्] ↩︎
-
“°रूपः” [च्] ↩︎
-
“°य्यनति°” [च्] ↩︎
-
“मन्वानस्य” [च्] ↩︎
-
“दर्शयन्त्येषितारं परीक्ष्यन्ते” [च्] ↩︎
-
“शरीरेण सह भेदा°” [च्] ↩︎
-
“धर्म्यसत्त्ववा°” [ज्] ↩︎
-
“ननु विकल्पस्य कोऽयम्” [च्] ↩︎
-
“बाह्यविषया विकल्पा बाह्यमारोपयन्ति चेति” [ज्] ↩︎
-
“बाह्यभेदग्रहस्त°” [च्] ↩︎
-
“विज्ञानमये हि” [च्] ↩︎
-
“अविज्ञा°” [ज्] ↩︎
-
“°विकल्पाकारो” [च्] ↩︎
-
“समारोप्य प्रति°” [च्] ↩︎
-
“देशकालान्तरे वस्तुनि विकल्पनम्, विज्ञाने चासं” [च्] ↩︎
-
“आत्मेत्येव ?” [ज्] ↩︎
-
“विज्ञानं” [च्] ↩︎
-
“°त्वलक्षणः” [च्] ↩︎
-
“परसमवेतक्रियाफलशालितया तद्व्याप्तस्य ज्ञानस्यापि निवृ°” [च्] ↩︎
-
“युक्तं” [च्] ↩︎
-
“सत्त्वमनुमन्तव्यम्” [च्] ↩︎
-
“तच्चास्य सधर्मेण” [च्] ↩︎
-
“यदि हि” [ज्] ↩︎
-
“°था न तत्प्रतिषेध°” [च्] ↩︎
-
“न त्वसंहतपरा°” [ज्] ↩︎
-
“स्वं चैतन्यं” [च्] ↩︎
-
“°दिति हेतुः ।” [च्] ↩︎
-
“भवत्येवम°” [च्] ↩︎
-
द्रः पूर्वमीमांसासूत्र ३। ७। १८ ↩︎
-
“°सन्तानो यत्कायचित्तसन्तानः तेन कायेनोपलक्षितो यश्चित्तसन्तानः” [ज्] ↩︎
-
“व्यवहिते द्रव्ये स्फटिकभाजने न तुल्यो°” [च्] ↩︎
-
“सत्त्वमित्यभि°” [च्] ↩︎
-
“अनुत्पत्तिः संस्काराणाम्” [ज्] ↩︎
-
“कार्यान्तरं” [ज्] ↩︎
-
“°स्यैव सहकारिसापेक्षत्वानपेक्षत्वानुपपत्तेः” [च्] ↩︎
-
“खलु गुणौ प्रचयसंयोगविभागविशेषौ” [च्] ↩︎
-
“वह्निधूमयो°” [च्] ↩︎
-
“धर्माध्यासात्” [च्] ↩︎
-
“दक्षिणस्येति” [च्] ↩︎
-
“°भासौ तावर्थौ” [च्] ↩︎
-
“पूर्वार्थम°” [च्] ↩︎
-
“अनुभवकल्पना°” [च्] ↩︎
-
“नैकमित्य°” [च्] ↩︎
-
“मते…इति” [ज्] ↩︎
-
“तस्ये…त्वे” [ज्] ↩︎
-
“परलोकम्” [च्] ↩︎
-
“कस्यापि” [च्] ↩︎
-
“उपाददानः” [च्] ↩︎
-
“एकस्मिन्” [च्] ↩︎
-
“अदृष्टापरि°” [ज्] ↩︎
-
“स्मरत्यात्मा” [च्] ↩︎
-
“सनिमित्तमुप°” [च्] ↩︎
-
“जनस्य” [च्] ↩︎
-
“अणुग्र°” [ज्] ↩︎
-
“विभुत्वादिति भाष्यपाठः” [च्] ↩︎
-
“°तदित्येकस्मादेव” [च्] ↩︎
-
“सम्भावनायोग्यताभि°” [च्] ↩︎
-
“यथाश्रुतं” [च्] ↩︎
-
इतः परं अनेकद्रव्यः…रूपोपलब्धिरिति वै। सू। [४। १। ९] न्यायभाष्योद्धृतं न्यायसूत्रत्वेन समुल्लिखन्ति केचन ॥ ↩︎
-
“अभावात्” [च्] ↩︎
-
“अविषक्ता°” [ज्] ↩︎
-
“°भवनीयस्य रूप°” [ज्] ↩︎
-
“°सारं रूपं च” [च्] ↩︎
-
“अविघातः” [ज्] ↩︎
-
“स्थानस्यान्य°” [च्] ↩︎
-
“फलमिति” [च्] ↩︎
-
“भिन्नं नियतम्” [च्] ↩︎
-
“स्पर्शस्यैव व्य°” [च्] ↩︎
-
“सङ्गृहीतः” [ज्] ↩︎
-
१। १। १४ ↩︎
-
“°शब्दोऽनन्तरवचनः” [च्] ↩︎
-
“तन्त्रं वेति” [च्] ↩︎
-
“°दिप्रतिव्यक्तिनि°” [च्] ↩︎
-
“द्वये” [च्] ↩︎
-
“°ऽग्नौ” [ज्] ↩︎
-
“°गुणो व्याख्यातः” [च्] ↩︎
-
“वाच्यम्” [च्] ↩︎
-
“°दन्यसं°” [च्] ↩︎
-
“संयुक्तस्य” [च्] ↩︎
-
“तत् सर्वेषामेव°” [च्] ↩︎
-
“°दिभ्य आप्यादिभ्यः” [च्] ↩︎
-
“तज्जातीयश्चन्द°” [च्] ↩︎
-
“व्यवस्थितिरिति” [च्] ↩︎