०१

द्वितीयाध्याये प्रथमाह्निकम्

संशयपरीक्षाप्रकरणम्

“अत ऊर्ध्वं प्रमाणादिपरीक्षा” इत्यादि“भाष्य”निराकरणीयामाशङ्कामाह “वार्त्तिककारः-त्रिविधा चास्येति । स्थानवतां” क्रमवताम् । “परीक्षावचनमिति ।” प्रमाणमेव परीक्ष्यत इति युक्तमिति । किमत्रादौ प्रमाणं न परीक्षितम् ? न1 परीक्षितम् । किन्तु संशय एव परीक्ष्यत2 इत्याह—“तानि विलङ्घ्येति ।” सोऽयं किमर्थं क्रमभेदः कृत3 इति “भाष्यार्थमाह—परीक्षाङ्गत्वादिति ।” उद्देशक्रमानुरोधेन हि प्रमाणं पूर्वं लक्षितम्, न खलु लक्षणे संशयस्याति कश्चिदुपयोगः । परीक्षा तु सर्वा विमर्शकरणिकेति4 परीक्षापर्वणि सर्वथा आर्थक्रमेण संशयस्य पूर्वभावः, यथा अग्निहोत्रं जुहोति यवागूं पचति

इत्यत्राग्निहोत्रात् प्राग्भावो यवागू पाकस्य । तस्याग्निहोत्र साधनत्वात् । संशयलक्षणं चात्र परीक्ष्यते, न संशय इति नानवस्थापि । देशयति—“ननु चोक्तमिति ।” शास्त्रगता त्वियं परीक्षा । सा च न विमर्शपूर्वेत्यार्थक्रमाभावात् नोद्देशक्रमो बाधनीय इत्यर्थः । परिहरति—“सत्यम्, न निर्णये नियम” इति । न निर्णयः सर्वः संशयपूर्वः । विचारस्तु सर्व एव5 संशयपूर्वः । शास्त्रवादयोश्चास्ति विचार इति तेन नियतं6 संशयपूर्वेण भवितव्यम् । शिष्टयोश्च वादिप्रतिवादिनोः शास्त्रेण विमर्शाभावो न शिष्यमाणयोः, तस्मादस्ति शास्त्रेऽपि विमर्शपूर्वो विचार इति सिद्धम् । संशेत इति7 संशयस्य निरुक्तम् । नावधारयतीत्यर्थः ।

समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः ॥ २ । १ । १ ॥

समाना…यः । ननु यथा लक्षणार्थः पूर्वं निरूपितः, तथा निर्बीजः पूर्वपक्ष इत्यत आह—“तस्य8 यथाश्रुतीति ।” परीक्षासाध्यो ह्यर्थः । तत्र व्याख्यानतो लक्षणपदेभ्यः साक्षादेव गम्यत इत्यर्थः । “समानमनयोरिति” साक्षात्कारं दर्शयति ।

न हि साक्षात् स्थाणुपुरुषावुपलभमानः समानं चानयोर्धर्मं कश्चित् सन्दिग्ध इत्यर्थः । “व्यवच्छेदात्मकत्वादिति ।” न निश्चयोऽनिश्चयस्य जनकः कारणानुरूपत्वात् कार्यस्तेत्यर्थः । “न समानधर्माध्यवसायादेवेति” संशयलक्षणोक्तकारणमात्रोपलक्षणपरम् । “एकवृत्तित्वाच्चेति ।” न हि यावेवारोहपरिणाहौ स्थाणोस्तावेव पुरुषस्येत्यर्थः ॥ १ ॥

विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ । १ । २ ॥

विप्र…च्च ॥ २ ॥

विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥ २ । १ । ३ ॥

विप्रतिपत्तौ च सम्प्रतिपत्तेरिति । न स्वरूपविरोधाद् विप्रतिपत्तिरस्तीति ॥ ३ ॥

अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ २ । १ । ४ ॥

अव्य…याः ॥ ४ ॥

तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ २ । १ । ५ ॥

“तथात्यन्तसंशय” इति तत्पदान्तरेण समानधर्मोपपत्त्यादेर्विशेषणमपश्यतः पूर्वपक्षः ॥ ५ ॥

यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥ २ । १ । ६ ॥

सिद्धान्तमाह—“अस्योत्तरमिति । यथो…वा ॥”

यदि हि निर्विशेषणं समानधर्मोपपत्त्यादि संशयकारणमुच्येत ततः पश्चादकरणात् पूर्वमपि न कुर्यादित्यसंशयः, पूर्वं वा करणात् पश्चादपि कुर्यादित्यत्यन्तसंशयः । न त्वसौ निर्विशेषणः संशयकारणमिति नासंशयो नात्यन्तसंशय इत्यर्थः । यथोहित्वेति “भाष्ये” यदप्युक्तमित्यर्थः ।

“एतेनेति” समानपदप्रयोगेण । सदृशार्थो हि समानशब्द इति पूर्वं व्याख्यातम्9 । “यदप्येतत् सारूप्याभावात्” अध्यवसायसंशययोः कार्यकारणयोरिति । विशेषानवधारणमुभयोः समानमित्यर्थः । “भाष्यकारेण” तु यत् सारूप्यमुक्तं तत् तथा न बोद्धव्यम् । यदि हि कार्यकारणयोरुत्पत्तिः सारूप्यम्, तदतिव्यापकं चाव्यापकं च नित्यानामपि कारणत्वात् । तस्मात् सारूप्यशब्दो न सारूप्यस्य निर्देशः, अपि तु कार्यकारणधर्मान्वयव्यतिरेकपर इत्याह—“कारणसद्भावाच्चेति । अनवधारणेनैव तत्त्वानुपलब्धेरिति प्रत्युक्तम् ।” सत्प्रतिपक्षयोरपि मिलितयोरन्यत्रादर्शनेनासाधारण एवान्तर्भावात् । एकैकविवक्षया तु हेत्वाभासान्तरत्वमिति भावः । “न चाव्यवस्थातः संशय” इति । नासौ पृथक् कारणम्, अपि तु समानधर्मोपपत्त्यादिपरिकरतयेत्यर्थः । “यत् पुनरेतत् विप्रतिपत्ताविति ।” विषया पेक्षया विप्रतिपत्तिः । स्वरूपापेक्षया तु सम्प्रतिपत्तिरिति । एवमव्यवस्थायामपि द्रष्टव्यम् ॥ ६ ॥

यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ २ । १ । ७ ॥

“कोऽस्य सूत्रस्येति” तात्पर्यप्रश्नः । उत्तरम्—“स्वयमिति ।” संशयपूर्वकत्वात् सर्वपरीक्षाणां परिचिक्षिषमानेन संशयाक्षेपहेतुभिर्न प्रतिषेध्यव्योऽपि तु परैरेवमाक्षिप्तः संशय उक्तैः समाधानहेतुभिः समाधेयः । “शास्त्रे कथायां वा” वादलक्षणायामित्यर्थः ॥ ७ ॥

॥ इति संशयपरीक्षाप्रकरणम् ॥

सामान्येन प्रमाणपरीक्षाप्रकरणम्

प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ २ । १ । ८ ॥

“अथ प्रमाणपरीक्षे”त्यादि “भाष्यम् ।” प्रत्य…द्धेः । आर्थेन हि क्रमेण संशयपरीक्षायामुक्तेनोद्देशक्रमो बाधितः । प्रमाणादिषु तु तद्बाधकारणाभावाद् उद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक् प्रमाणान्येव परीक्षणीयानि । तत्रापि प्रथमं प्रमाणसामान्यलक्षणपरीक्षा, तत्पूर्वकत्वाद् विशेषलक्षणानाम् । तत्र सामान्यलक्षणम् उपलब्धिसाधनं प्रमाणमिति । तच्चोपलब्धिसाधनत्वं प्रत्यक्षादीनामेवेति “प्रत्यक्षा”दीनामित्युक्तम् ।

तदेतदाह “वार्त्तिककारः । अथेदानीमिति ।” परीक्षणीयं पृच्छति—“किं पुनरेषामिति” सर्वैरेव वादिभिः स्वसिद्धान्तव्यवस्थापनाय प्रमाणान्यभ्युपेतव्यानि, तदभावे तद्व्यवस्थानुपपत्तेः । यस्य तु स्वपक्ष एव नास्ति, नासौ लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः । तस्मात् सर्वप्राणभृत्सिद्धेर्न प्रमाणसामान्यं परीक्षणीयमिति भावः । उत्तरम्—“आदौ तावत् सम्भव इति ।” न परीक्षा संशयमन्तरेणेति संशयस्य बीजमाह—“सदसतोरिति ।” पूर्वपक्षमाह—“व्युदस्य संशयमिति ।” अयमत्र पूर्वपक्षिणो “माध्यमिक”स्याभिसन्धिः, यद्यपि मम विश्वविचारासहत्ववादिनः प्रमाणं नाम न किञ्चिदस्ति विचारसहम्, तथापि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः पर्यालोच्यमानानि विचारं न सहन्ते । सोऽयं प्रमाणानामपराधो यानि स्वविरोधेन विलीयन्ते, न तु ममापराध इति ॥ ८ ॥

पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्यत्तिः ॥ २ । १ । ९ ॥

ज्ञानं हि प्रमाणं तद्योगात् प्रमेयमिति चार्थ इति च भवति । तद् यदि प्रमाणं पूर्वं प्रमेयादर्थादुत्पद्यते ततः प्रमाणात् पूर्वं नासावर्थ इति “इन्द्रियार्थेत्यादिसूत्र”व्याघातः ॥ ९ ॥

पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ २ । १ । १० ॥

अथ पूर्वं प्रमेयं पश्चात् प्रमाणं तत्राह—“पश्चादिति ।” यद्यपि च वस्तुस्वरूपं न प्रमाणाधीनं तथापि तस्य प्रमेयत्वं तदधीनम् । तदपि चेत् प्रमाणात् पूर्वं, न प्रमाणयोगनिबन्धनं स्यादित्यर्थः । तदिदमुक्तम्—“प्रमेयसञ्ज्ञेति” ॥ १० ॥

युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥ २ । १ । ११ ॥

यौगपद्ये दृष्टव्याघातः “सूत्र”व्याघातश्च । प्रयोगस्तु प्रत्यक्षादयो न प्रमाणत्वेन व्यवहर्तव्याः, कालत्रयेऽप्यर्थाप्रतिपादकत्वात् । यदेवंविधं न तत् प्रमाणत्वेन व्यवहृयते यथा शशविषाणम् । तथा चैतत् । तस्मात् तथेति । एवं पूर्वपक्षिते सिद्धान्तमाह—“अत्र समाधिरिति । उपलब्धिहेतो”रित्यादि“भाष्य”वाक्यस्य कालत्रयेऽप्यर्थाप्रतिपादकत्वादिति हेतोरसिद्धतोद्भावनमर्थः ।

स्वयं “वार्त्तिककारो”ऽस्यानुमानस्य दूषणमाह—“प्रत्यक्षादीनाम् अप्रामाण्यमिति चेति ।” लब्धात्मकं खल्वनुमानं प्रत्यक्षादीनां प्रमाणानामप्रामाण्यमापादयेत् । न च लब्धात्मकम् । तस्य तु प्रतिज्ञाविरोधेनात्मलाभ एव नास्तीति कथं तेषामप्रामाण्यमापादयितुमर्हतीति भावः । यदि प्रमाणानि नार्थं साधयन्ति प्रत्यक्षादीनीत्येव न स्यात् । न खलु तानि प्रमाणतोऽसिद्धानि प्रत्यक्षादीनीत्येव भवन्तीत्यर्थः । न चैतेषामर्थसाधनत्वं सामान्यविशेषाभिधायिप्रत्यक्षादिपदगोचरतापीत्याह—“कथं चान्यथेति ।”

अपि च प्रामाण्यनिषेधे न प्रमाणानां प्रत्यक्षादीनामसत्त्वम् । न ह्यकमण्डलुर्माणवक इत्यनेन माणवकः प्रतिषिध्यते । किं तर्हि ? तस्य कमण्डलुयोगो धर्मः । ततश्च प्रमाणानामसत्त्वं पूर्वपक्षिणोऽमिमतं न स्यादित्याह—“धर्मप्रतिषेधाच्चेति ।” शङ्कते, “अथ भावस्यास्वतन्त्रत्वादिति ।” निराकरोति “एवमपीति ।”

प्रतिषिध्यमान इतिमात्रे वक्तव्ये विधीयमान इति दृष्टान्तार्थम् । “एतेन तद्धितार्थ” इति, प्रामाण्यपदार्थ इत्यर्थः । यथाश्रुतश्च हेतुर्व्यधिकरण इत्याह— “यश्चायं हेतुरिति ।”

“यत् पुनरित्यादि भाष्यं” व्याचष्टे—“यत् पुनरेतत् प्रमाणेनेति । सम्भवः” प्रत्यक्षादीनां “निवर्तत” इति । प्रत्यक्षादीनामभावे कारकहेतुवचनमित्यर्थः10 । “न ह्यसतो निवृत्तिरिति ।” नासन् घटो मुद्गरप्रहारेण निवर्त्यत इत्यर्थः । असम्भवं प्रत्यक्षादीनां सिद्धमेव ज्ञापयतीत्याह—“असम्भवो ज्ञाप्यते” इति ॥ ११ ॥

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ २ । १ । १२ ॥

देशयति—“त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरित्येवमभिदधानेनेति ।” परिहरति—“नैष दोष” इति । त्वद्वचनं त्वदभ्युपगमविरुद्धम् । अस्माकं तु नैतद् वचनम्, नाप्ययमभ्युपगम11 इत्यर्थः । “न च धर्मिणां प्रतिषेधे कश्चित् न्याय” इति । नानुमानं धर्मिप्रतिषेधे प्रभवति आश्रयासिद्धत्वाद्धेतोरित्यर्थः ।

अपि च प्रमाणमात्रमधिक्षिपतः प्रत्यक्षादीनामप्रामाण्यमिति च प्रत्यक्षादीनां प्रामाण्यमिति च वाक्ययोरर्थभेदाभेदौ विचारं न सहेते इत्याह—“प्रत्यक्षादीनामप्रामाण्यम्” इति । “एवमेव वक्तव्यम्” इति नञोरप्रयोगे लाघवात् । “घटस्य सामर्थ्यं वेति,” यदा सत्येव घटे तस्यासामर्थ्यं विवक्षित्वोच्यते नास्ति घट इति, नोदकाहरणसमर्थ इति तदा गम्यते । “तन्त्रान्तराभ्युपगतानां वा प्रतिषेधः” इति । तन्त्रान्तरे यादृशं प्रमाणमभ्युपेयते तादृशप्रतिषेधे अन्यादृशस्याभ्युपगमो भवति । यथा प्रधानं नास्तीति जगत्कारणस्य सुखदुःखमोहात्मकत्वं प्रधानत्वं तत्प्रतिषिध्यते, न पुनर्जगत्कारणम् । तस्यान्यादृशस्याभ्युपगमादिति । “कथमिति” प्रमाणाक्षेपः । “कस्येति” प्रतिपाद्याक्षेपः । “कश्चेति” प्रतिपादकाक्षेपः । प्रतिपाद्याक्षेपं विभजते—“अप्रतिपन्न” इति । प्रतिपादकाक्षेपं विभजते—“प्रतिपन्नश्चेति । क्व” प्रतिपाद्ये “किं प्रतिपाद्यत” इति ॥ १२ ॥

सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ २ । १ । १३ ॥

“यद्युपादीयते” उदाहरणम्, तत्प्रमाणेनानवधारितं न शक्यमुपादातुमिति भावः12 । न केवलमशक्यं व्यर्थं चेत्याह—“प्रत्यक्षादीनां चेति । सर्वैः प्रमाणैरिति,” उदाहरणादिविषयैः प्रमाणैः “विप्रतिषिद्धो” विरुद्धो “भवति,” बाधितविषयतया प्रमाणाभासो भवतीत्यर्थः । विरुद्धं चाह—“सिद्धान्तमभ्युपेत्येति13 । प्रमाणानाम्” इत्यवयवाभिप्रायम् । “अवर्जयन्निति” वर्जनविरुद्धमपादानमुच्यते, उपाददान इत्यर्थः ॥ १३ ॥

तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ २ । १ । १४ ॥

“तत्प्रामाण्ये वेति ।” अस्यार्थः । यदि “माध्यमको” ब्रूयात् प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः14 इति, स्ववाक्यावयवाश्रितानि प्रमाणानि यथालोकप्रतीतिसिद्धानि तैरविचारितसिद्धैरितरेषां प्रामाण्यं प्रतिषिध्यत इति, तत्रेदमुच्यते—“तत्प्रामाण्ये वा” अवयवाश्रितप्रत्यक्षादिप्रामाण्ये “न सर्वप्रमाणविप्रतिषेधः,” अवयवाश्रितानामेव प्रामाण्याभ्युपगमात् । किं पुनरिदमविचारितसिद्धत्वम् ? किं विचारासहत्वम्, आहो सर्वजनसिद्धतया सन्देहानास्पदत्वम् ? तत्र पूर्वस्मिन् कल्पे विचारासहेन15 स्वयं दुःस्थितेनान्येषां प्रामाण्यं बाध्यत इति सुभाषितम् । तस्मादुत्तरः कल्पः । तथा च न सर्वाप्रामाण्यम्,—तस्यैव प्रामाण्यात् ।

अत्र “भाष्यम्”—वीत्ययमुपसर्गः सम्प्रतिपत्त्यर्थे । प्रतिषेधशब्दार्थमनुजानाति विशेषमभिदधत् न तु तद्व्यतिरिक्तार्थः । न व्याघातवचन इत्यर्थः । तदिदमुक्तम्—“न व्याघाते ।” कस्मात् । “अर्थाभावात् ।” स्ववाक्यावयवाश्रितानां हि प्रमाणानां प्रामाण्ये सर्वप्रमाणप्रतिषेधव्याघातः पुर्वमुक्तः, तत्प्रतिषेधः पूर्वेण विरुध्यते अशक्यश्चेति अर्थाभाव इत्यर्थः ।

तदेतद् “वार्त्तिककारो” व्याचष्टे—“वीत्ययमुपसर्गो विशेषप्रतिषेधे ।” यावदुक्तं भवति विशेषेण सर्वेषु प्रमाणेषु प्रतिषेध इति तावदुक्तं भवति विप्रतिषेध इति । प्रतिषेधशब्दार्थाभ्यनुज्ञानत्वाद् विशब्दस्य । तेन तु “न सर्वप्रमाणविप्रतिषेधः” इत्यनेन विपदसहितेन “किमुक्तं भवति ?” इदमुक्तं भवति—“कानिचिदिति ।” अवयवाश्रितानि प्रमाणानि विचार्य समुदायं विचारयति—“यच्चेदमिति” ॥ १४ ॥

त्रैकाल्याप्रतिषेधश्चशब्दादातोद्यसिद्धिवत् तत्सिद्धेः ॥ २ । १ । १५ ॥

तदिह16 “सूत्रकारेण” श्रैकाल्यासिद्धेरित्यनुयोगस्य प्रतिषेधेऽपि साम्यं सर्वप्रमाणविरोधश्चापादितः सम्प्रत्यसिद्धतोद्भावनपरं “सूत्रं” पठति—“त्रै…द्धेः ॥”

तत्पाठमाक्षिपति—“किमर्थमिति ।” स्वातन्त्र्येण चेदस्य “सूत्र”स्यार्थः पूर्वमुक्तः, कृतं “सूत्र”पाठेनेत्यर्थः । परिहरति—“पूर्वोक्तेति ।” न तदस्माभिरुत्सूत्रमुक्तम्, अपि तु “सूत्रा”र्थ एवेति ज्ञापनार्थं “सूत्र”पाठोऽस्माकमित्यर्थः । नियमेन यः प्रतिषेधः पूर्वमेव वा पश्चादेव वा सहैव वेति तं प्रतिषेधति—“अनियमेति17 ।” खलुशब्दोऽयं यस्मादर्थे । यस्माद् अनियमदर्शी ऋषिः ।

“वार्त्तिकम्,” तदुत्थानज्ञापनार्थं “सूत्र”पाठ इति । देशयति—पाठक्रममतिलङ्घ्य “कस्मात् ? तत्रैवेदमिति ।” अत्रैव वा तद् “भाष्यम्” कस्मान्नोक्तमित्यपि18 द्रष्टव्यम् । परिहरति—“अविशेषादिति ।” अथ शब्दः श्रोत्रविवरे समवेतः कथमातोद्यमसम्बद्धं गमयतीत्यत आह—“योऽसौ वीणावेणुशब्दयोरिति ।” अयं शब्दविशेषो धर्मी । वीणाङ्गुलिसंयोगजशब्दपूर्व इति साध्यो धर्मः, तन्निमित्तासाधारणधर्मवत्त्वात् पूर्वोपलब्धवीणानिमित्तध्वनिवदिति । तदिदमुक्तम्—“वीणानिमित्तकत्वमिति । धूमदर्शनादिति ।” संयोगिना हि वह्निना विशिष्टो धूमोऽनुमीयते न कारणेन, अस्तीति वर्तमानावभासानुपपत्तेरिति ॥ १५ ॥

प्रमेया च तुलाप्रामाण्यवत् ॥ २ । १ । १६ ॥

यत्पुनराक्षिप्यते यदनियतं न तत् परमार्थसत् । यथा रज्ज्वामारोपितं सर्पत्वम् । तामेव हि रज्जुं तदैव कश्चित् सर्प इति कल्पयति कश्चित् हार इति । स एव कदाचित् सर्प इति कल्पयित्वा पश्चात् हार इति कल्पयति । तथा च प्रमाणप्रमेयभावः । तस्मात् न परमार्थसन्निति । अत्रेदमुत्तरसूत्रम्—“प्रमे…त् ।”

तद्योजनिकां करोति—“प्रमाणं प्रमोयमिति चेयमिति ।” अयमभिसन्धिः । क्षणभङ्गपरिणामनिरासे सति स्वकारणादुत्पन्नं स्थिरं वस्तु तत्तद्वस्त्वन्तरसन्निधानात् तत्तद्धर्मयोगे सति तत्तद्बुद्धिव्यपदेशमनुभवति । समावेशं दर्शयितुं पृच्छति—“यदा पुनरिति ।” उत्तरम्—“तदा निमित्तेति ।” अस्य चार्थस्य ज्ञापनार्थं सूत्रम्—“प्रमे…त् ॥”

इति । न केवलं प्रमाणं समाहारगुरुत्वे तुला । यदा पुनरस्यां सन्देहो भवति प्रामाण्यं प्रति, तदा सिद्धप्रमाणभावेन तुलान्तरेण यत्परीक्षितं सुवर्णादि तेन प्रमेया च तुलाप्रामाण्यवत् । यथा प्रामाण्ये तुला प्रमेया च, तथान्यदपि सर्वं प्रमाणं प्रामाण्ये प्रमेयमित्यर्थः । तदेतद् “भाष्यकृद्” आह—“एवमनवयवेन” कार्त्स्न्येन “तन्त्रार्थः” शास्त्रार्थ इति । क्वचित् प्रमातृत्वप्रमेयत्वप्रमाणत्वादीनां समावेशः, यथात्मनि । स हि प्रमाता च प्रमीयमाणश्च प्रमेयम् । तेन तु प्रमितेन तद्गतगुणान्तरानुमाने प्रमाणम् । क्वचित् पुनः प्रमाणत्वप्रमेयत्वफलत्वानां समावेशः, यथा बुद्धौ । क्वचित् पुनः प्रमाणत्वप्रमेयत्वयोः, यथा संशयादौ । सेयं समावेशस्य तन्त्रार्थव्याप्तिरिति । “तथा च कारकशब्दा” इति “भाष्यम्” पूरयित्वा व्याचष्टे “वार्त्तिककारः—यथा च प्रमाणेति ।” यावन्ति यत्र निमित्तानि तावतां तत्र नैमित्तिकानां प्रवृत्तेरवश्यम्भावो नियमः । “स्वस्थितौ वृक्षः स्वातन्त्र्यात् कर्तेति भाष्यम् ।” तत्र स्वातन्त्र्यं पृच्छति “वार्त्तिककारः—किं पुनः स्वातन्त्र्यमिति ।” इतरकारकाप्रयोज्यत्वं प्रयोजकत्वं च कारकाणां19 मध्ये कर्तुः स्वातन्त्र्यमुक्तम् । इह तु कारकान्तराणामभावात् तादृशं स्वातन्त्र्यं नास्तीति भावः । उत्तरम—“कारकान्तरानपेक्षित्वम्,” कारकान्तरापेक्षस्य हि प्रयोजकतया कथञ्चित् स्वातन्त्र्यं विवक्ष्यते, तदनपेक्षस्य पुनर्नितरां स्वातन्त्र्यमित्यर्थः । “यदायं स्थितिशब्दो गतिप्रतिषेधवचन” इति । यावदुक्तं भवति न यातीति, तावदुक्तं भवति तिष्ठतीति । अत्र च निषेधस्य निषेध्याधीननिरूपणतया तदुपाधिः पूर्वापरीभावो न तु स्वरूपेण निषेधस्य पूर्वापरीभावसम्भव इति । “यदाप्यस्तेरभिधायक” इति सत्तासामान्याभिधायक इत्यर्थः । “अस्ति व्यनक्तीति,” वृक्षस्य हि महत्त्वे रूपवत्त्वे सति सतासमवाय एव सत्ताव्यञ्जकत्वम्, तत्र चानपेक्ष इत्यर्थः । “गेहसम्बन्धानुभवः” गेहसम्बन्धप्राप्तिः समवायः, तद्विषया क्रिया गतिविधारकः प्रयत्नः । तेन हि स तिष्ठति । घटो गृहेऽस्तीति त्वौपचारिकः प्रयोगः । “यदाप्ययमभग्नवचन” इति । अत्रापि निषेध्यस्य पूर्वापरीभावोपाधिरेव निषेधस्य तथाभावः । अथवा तिष्ठतीत्यत्रापि कयाचिद् विवक्षया कारकान्तरापेक्षा अस्तु, तथापि तत्प्रोयजकत्वेनैव स्वातन्त्र्यमित्याह—“समुदायेति ।” अवयवानां समूहः समुदायस्तदेकदेशोऽवयव इति । “ध्रियत” इति कर्तरि लकारः ।

प्रत्यभिज्ञानविषयता वा स्थितिः । तस्यां सत्यामपि कारकान्तरापेक्षायां कथञ्चित् प्रयोजकतया स्वातन्त्र्यमित्याह—“पूर्वापरेति ।” अनेके पर्यायवन्तः प्रत्ययाः । प्रागनुभवः । अनु20 तत्ताश्रयस्य धर्मिणः पुनरनुभवः । अथ स्मृतिः । अथ प्रतिसन्धानमिति ।

“वैनाशिको” देशयति—“चक्रेति ।” यदेव दण्डसंयोगेन चक्रभ्रमणं तदेवेदमुपरतेऽपि दण्डसंयोगे इत्यर्थः । परिहरति—“न प्रमाणेति ।” नासति बलवति बाधके प्रमाणे प्रत्यभिज्ञानस्य शक्यं मिथ्यात्वम् । ज्वालादिषु तु तदस्तीत्यर्थः । न च समस्तप्रतिसन्धानप्रत्ययमिथ्यात्वे मिथ्याप्रतिसन्धानप्रत्ययो भवितुमर्हति बीजाभावादित्याह“मिथ्याप्रत्ययाश्चेति21 । वैनाशिकः” पृच्छति—“अथ भवत” इति । एवं ब्रुवाणः प्रत्यक्षमप्रमाणयन्न शक्यस्तेन बोधयितुमित्यनुमानमुत्तरमाह—“उक्तं22 प्रमाणम्” आत्मलक्षणे “रूपेति ।” अनुमानान्तरमाह—“कार्यस्येति । कार्यकालानुभवनं” कार्यकालप्राप्तिः । “वैनाशिकः” शङ्कते—“अनाधारमिति । प्रतीत्येति” पूर्वभावं विकृत्येत्यर्थः । दुषयति—“तन्नेति ।” आधेयस्याधारसमानकालत्वमनुभवसिद्धम् । तेनाधारेण कारणेन कार्यकालं स्थातव्यम् । अनाधारत्वं तु कार्यस्य नानुभवगोचरः, अपि तु युक्त्या साध्यम् । सा च दृष्टान्ताभावादनुपपन्ना । न च विप्रतिपत्तिमात्रादनुभवः शक्योऽपवदितुम् । क्षणभङ्गसाधनानि च निराकरिष्यन्ते ।

यदि हि रूपादीनामाधारवत्त्वं निषिध्यते ततोऽस्याभ्युपगमविरोधो भवति, भूतानि पृथिव्यादीनि भौतिका रूपादय इति । अभ्युपगमान्तरविरोधमाह“यच्चोक्तं” भवद्भिरिति शेषः । न केवलं रूपादीनामाश्रितत्वं भवद्भिरभ्युपगतमुपपन्नं चेत्याह—“अनाश्रिताश्चेति ।”

पृच्छति—“कर्मणिकः कारकार्थः” कारकशब्दार्थः । क्रियानिमित्तं हि कारकम् । यत् पुनः क्रियाया एव व्याप्यं न तत् क्रियानिमित्तमिति न कारकम् । अकारकं च कथं कर्म, कारकाधिकारित्वात् कर्मसञ्ज्ञाया इति भावः । उत्तरम्—“क्रिया विषयत्वमिति ।” अनात्मसमवेतक्रियाफलशालित्वं क्रियाविषयत्वं कर्मत्वम् । देवदत्तसमवेतया हि क्रियया दर्शनलक्षणया वृक्षविषयोऽनुभवो जन्यते । इदमेव चानुभवस्यार्थविषयत्वं यदर्थाधीननिरूपणत्वमित्युक्तं प्रमाणलक्षण इति । तेन क्रियाविषयस्य क्रियातः प्राग्भावाद् युक्तं कारकत्वम् । एवं च विकार्यप्राप्ययोरुपपन्नःकर्मभावः,23 निर्वर्त्यस्य तु पटादेर्यद्यपि क्रियायाः प्राग्भावो नास्ति, तथापि तदवयवानां तन्तूनां प्राग्भावः, तेषां च तादर्थ्येन पटत्वे उपचारात् पटं करोतीति युक्तः प्रयोगः । तथा हि सहचरणादिसूत्रे24

वक्ष्यति कटार्थेषु वीरणेष्विति । एतेन च कर्मलक्षणेनाहिं लङ्घयति ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीत्यादयोऽपि सङ्गृहीता वेदितव्याः । नगरं गच्छति चैत्र इत्यत्र यथाप्राप्तिर्नगरसमवेता एवं चैत्रसमवेतापीति चैत्रस्यापि क्रियाजनितफलशालिनो मा भूत् कर्मत्वमित्यत उक्तम्—“अनात्मसमवेतेति ।” आत्मविषयेऽपि च मानसप्रत्यक्षे यद्यप्यात्मनो न कर्मता तथापि ज्ञानक्रिया सकर्मिकैवात्मधर्मस्यात्मनो व्यतिरिक्तस्य कस्यचित् तत्र कर्मणोऽवभासनादिति सर्वदवदातम् ।

“वृक्षः सम्प्रदानं भवतीति ।” पाणिनीयलक्षणानुरोधेन लौकिकप्रयोगानुरोधाच्च सम्प्रदानमिति, नेयमन्वर्थसञ्ज्ञेति भावः । “गुरुत्वप्रतिबन्धे कारणमिति” प्रकृतोदाहरणा भिप्रायम् । तथा च गुणादीनामप्याधेयत्वाधिगतेर्द्रव्यादिभिराधेयभावः सिद्धो भवति । तेन न द्रव्यस्वभावः कारकामिति यदुक्तं “माध्यमिकेन” तदस्माकमभिमतमेव । काल्पनिकं तु कारकं न मृष्यामहे इत्यनेनाभिसन्धिना “भाष्यकारेणोक्तम्—एवं च सतीति । न क्रियामात्रमिति,” नावान्तरक्रियामात्रम् । यत् प्रधानक्रियासाधनमवान्तरक्रियाविशेषयुक्तमिति, तदेतदनुभाष्य “वार्त्तिककारो” व्याचष्टे—“एवं च सतीति ।” तदनेन कारकसामान्यमुक्तम् । विशेषलक्षणपरं “भाष्यं यत् क्रियासाधनं स्वतन्त्रमिति ।” तद् व्याचष्टे—“यदा तु विशेष” इति ।

स्यादेतत् । क्रियासाधनमित्येतावदेवास्तु, क्रियाविशेषयुक्तमिति वा, कृतमुभयोपादानेनेत्यत आह—“सर्वस्य च कारकस्येति ।” यद्यवान्तरक्रियामात्रमुच्यते ततस्तस्मिन् सर्वस्य कर्तृत्वात् कारकवैचित्र्यं न स्यात्, प्रधानक्रियामात्रोपादाने च तत्र सर्वेषामवान्तरव्यापारमन्तरेण वैचित्रायोगाद् अत उभयोपादानं प्रयोजनवदिति । एवं “लक्षणत” इति “भाष्यं” व्याचष्टे—“एवं च शास्त्रमिति ।”

देशयति—“यदीति ।” परिहरति—“न, शक्तेरिति ।” पुनर्देशयति—“शक्तेरिति ।” परिहरति—“नैष दोष” इति । ननु च बुद्ध्यादयोऽपि शक्तिव्यक्तिहेतवः, न चैते क्तियारूपाः किं तु गुणरूपा इत्यत आह—क्रिये“त्यनेनेति । सामर्थ्यं” बलम् । दुर्बलो हि जानन्नप्युपायं न व्यापारयति । यथा पाणिना कुण्ठः कुठारम् । तेन शक्तिक्रियासम्बन्धयोः कारकशब्दो मुख्यः, शक्तिमात्रे तु गौण इति । प्रकृते योजयति—“कारकशब्दश्चायमिति” ॥ १६ ॥

प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ २ । १ । १७ ॥

सम्प्रति प्रकारान्तरेण प्रमाणान्याक्षिप्य समाधीयन्ते—“अस्ति भोः कारकशब्दानामिति ।” अत्रैते कल्पा उपप्लवन्ते, किं प्रत्यक्षादीनामुपलब्धिः ससाधना निःसाधना वा ? यदा ससाधना तदापि किमेभिरेव प्रत्यक्षादिभिराहो प्रमाणान्तरेण ? यदाप्येभिस्तदापि किं तयैव प्रत्यक्षव्यक्त्या, अथैका व्यक्तिर्व्यक्त्यन्तरेणेति ? तत्र प्रमाणान्तराभ्युपगमे विभाग“सूत्र”व्याघातः, अनवस्थापातश्च । प्रत्यक्षादिभिः प्रत्यक्षाद्यन्तराणां ग्रहणेऽनवस्थापातः । तथैव व्यक्त्या तद्ग्रहणे आत्मनि वृत्तिविरोधः; न हि तयैवासिधारया सैवासिधारा छिद्यते । तस्मादसाधना प्रमाणोपलब्धिः । एवं चेत्, कृतं प्रमेयसाधनै प्रमाणैः, प्रमाणवद साधनैवास्तु प्रमेयोपलब्धिरिति पूर्वः पक्षः । नासाधना प्रमाणसिद्धिः, नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणाभ्युपगमो येन विभाग“सूत्र”व्याघातः स्यात् । नापि च तथैव व्यक्त्या तस्या एव ग्रहणभ्युपेयते येनात्मनि वृत्तिविरोधो भवेत् । अपि तु प्रत्यक्षादिजातीयेन प्रत्यक्षादिजातीयस्य ग्रहणमातिष्ठामहे । न चानवस्था । अस्ति किञ्चित् प्रमाणं यत् स्वज्ञानेनान्यधीहेतुः यथा धूमादिः । किञ्चित् पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि । तत्र पूर्वं स्वज्ञाने चक्षुराद्यपेक्षम् । चक्षुरादि च स्वज्ञानमनपेक्षमेव तज्ज्ञानसाधनमिति का अनवस्था ? बुभुत्सया च तदपि शक्यज्ञानम् । सा च कदाचिदेव क्वचिदिति नानवस्था । न च प्रामाण्यं प्रमाणानामप्रतीतं न प्रवृत्यङ्गमिति तदर्थं प्रमाणान्तरापेक्षायामनवस्थेति वाच्यम् । दृष्टार्थेषु संशयादपि प्रवृत्तौ सत्यां प्रवृत्तिसामर्थ्येन तस्य सुज्ञानत्वात् । अदृष्टार्थेषु प्रवृत्तिसामर्थ्यावधृतप्रामाण्यप्रमाणसाधर्म्येण तस्य शक्यज्ञानत्वादिति दर्शितं प्रथम“सूत्रे ।” तस्मात् प्रत्यक्षादिभिः प्रत्यक्षादीनामुपलब्धिर्न चानवस्थेति सिद्धान्तः ।

“भाष्ये भो” इत्यामन्त्रणे । कुतः पुनरुपलिब्धहेतुत्वमित्यत आह—“संवेद्यानि चेति ।” चो हेतौ । उपलब्धिविषयत्वं कुत इत्यत आह—“प्रत्यक्षं मे ज्ञानमिति” ॥ १७ ॥

तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥ २ । १ । १८ ॥

तद्वि…द्धिः ॥ १८ ॥

न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥ २ । १ । १९ ॥

“प्रदीपभावाभावयोर्दर्शनस्य तथाभावात् । ज्ञातृमनसोश्च दर्शनादिति भाष्यम् ।” तद्व्याचष्टे “वार्त्तिककारः । न चायमेकान्त” इति । ज्ञाता ज्ञेय इति सकर्माभिप्रायम्, न ह्यन्यसमवेता ज्ञानक्रिया येनात्मनः कर्मता स्यात्, अपि तु ज्ञातृस्थैव । परसमवेतक्रियाफलशालि हि कर्मेत्युक्तम् । तस्मात् सुखादीनामात्मधर्माणामत्र कर्मता, आत्मनस्तु, प्रकाशमानता, तत्र विवक्षया ज्ञेयत्वाभिधानम् । मनस्तु यद्यपि स्वज्ञानं प्रति करणं कर्म च तथापि न स्वात्मनि वृत्तिविरोधः । यदि हि ज्ञानं करणं भवेत् तदात्माश्रयदोषप्रसङ्गः । स्वसत्तया च ज्ञानं प्रति करणम् । अन्यच्चास्य ज्ञानम् अन्या च सत्ता । न च तत्समवेता ज्ञानक्रिया, किं त्वात्मसमवेता । तस्मात् ज्ञेयत्वं ज्ञानसाधनत्वं च मनसो न दोषमर्हतीति ॥ १९ ॥

क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः ॥ २ । १ । २० ॥

ये तु प्रदीपप्रकाशो यथा न प्रकाशान्तरमपेक्षते, एवं प्रमाणान्यपि प्रमाणान्तरमनपेक्षमाणान्यपि सन्ति भविष्यन्ती“त्याचार्यदेशीया” मन्यन्ते, तान् प्रत्याह—“क्व…न्तः ।”

“यथायं प्रसङ्गः” प्रमाणानामनपेक्षत्वप्रसङ्गः, प्रदीपे प्रदीपान्तरानपेक्षया प्रकाशकत्वदर्शनात् प्रमाणान्तरानपेक्षाण्येवालोकवत् प्रमाणानि सेत्स्यन्तीति एवमर्थमुपादीयते । एवमनपेक्षत्वप्रसङ्गः25 । प्रमेयाण्यप्यनपेक्षाण्येव सेत्स्यन्तीत्येवमर्थमप्युपादेयः । तथा च प्रमाणाभाव इत्यर्थः । तदेवं प्रदीपदृष्टान्ताश्रयणेन प्रमाणाभावप्रसङ्गमुक्त्वा स्थाल्यादिदृष्टान्तोपादानेन तु प्रमाणस्यापि प्रमाणान्तरापेक्षेत्याह“यथा स्थाल्यादिरूपग्रहणे” इति ।

तदेतद् “भाष्यं” व्याचष्टे “वार्त्तिककारः—यथाप्रदीपप्रकाशः” सजातीयानपेक्षः “तथा प्रमाणानि” सजातीयानपेक्षाणि, “न पुनर्यथास्थाल्यादिरूपं” प्रमाणापेक्षं तथा प्रमाणान्यपि प्रमाणापेक्षाणीति । कस्मात् पुनः स्थाल्यादिरूपं प्रमाणापेक्षमित्यत आह“स्थाल्यादिरूपप्रकाशने चेति ।” प्रदीपप्रकाशस्तत्र प्रमाणमिति लोकसिद्धमित्यर्थः । “कस्मादेवं” स्थालीरूपवत्26 न प्रमाणानि, तान्यपि प्रमाणान्तरेण प्रकाश्यन्तामित्यर्थः । तदनेन प्रदीपदृष्टान्तेन निरपेक्षत्वम्, न तु स्थाल्यादिदृष्टान्तेन सापेक्षत्वमित्यत्र नियमहेतुर्नास्तीत्युक्तम् । नियमान्तरहेत्वभावमाह—“अयं च प्रदीपप्रकाशदृष्टान्त” इति । यथा हि प्रमाणानि प्रदीपदृष्टान्तेन निरपेक्षाणि, एवं तेनैव दृष्टान्तेन कस्मान्न प्रमेयाण्यपि ? ततश्च प्रमाणाभावप्रसङ्गः । न हि प्रमाणानामेव प्रदीपो दृष्टान्तो न प्रमेयाणामिति नियमहेतुरस्ति । तदनेन “यथायं प्रसङ्गः” इति “भाष्यं” व्याख्यातम् । “प्रदीपप्रकाशो दृष्टान्तो भवतु” इत्यनेनायमेव दृष्टान्तो नायमिति नियमो निराकृतः । पूर्वेण तु प्रदीपदृष्टान्तेन निरपेक्षत्वमेव न तु स्थालीदृष्टान्तेन सापेक्षत्वमित्ययं नियमो निराकृत इति न पुनरुक्तम् । “प्रकाशकत्वादिना” तु हेतुना सङ्गृहीतः प्रदीपदृष्टान्तो27 नियतो भवतीति नानियमः शक्यो वक्तुम् । केवलं प्रकाशकत्वं सजातीयान्तरानपेक्षत्वे साध्ये विकल्पनीयम् किमत्यन्तसजातीयमाहो सजातीयमात्रम् यद्यत्यन्तसजातीयम् ततः सिद्धसाधनम् । न हि चक्षुरादि प्रमाणं स्वग्रहणे चक्षुराद्यन्तरमपेक्षते । अथ कथञ्चित् सजातीयम्, तदपेक्षत्वमालोकस्याप्यस्ति, तस्यापि चक्षुराद्यपेक्षत्वात् । ततश्च साध्यहीनो दृष्टान्तः, विरुद्धश्च हेतुः । विषयज्ञानमपि न विषयज्ञानेन गृह्यते, किन्तु ज्ञानविषयेन ज्ञानेनेति नात्यन्तसजातीयमिति । तदनोभिप्रायेण “वार्त्तिककृता” उक्तम्—“अनेकान्त इत्ययं दोषो न भवति” दोषान्तरं तु भवतीत्यर्थः । उत्तरग्रन्थस्तु28 सिन्द्धान्तं दर्शयाद्भिरस्माभिरुपपादितार्थ इति न व्याख्यातः । येन प्रयुक्तोऽनवस्थामुपाददीतेति सोत्प्रासम्29 ॥ २० ॥

॥ इति सामान्येन प्रमाणपरीक्षाप्रकरणम् ॥

प्रत्यक्षलक्षणपरीक्षाप्रकरणम्

प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ २ । १ । २१ ॥

प्रत्यक्षकारणं30 वानेन “सूत्रे”णोच्येत प्रत्यक्षस्वरूपं वा ? न तावत् प्रत्यक्षकारणमित्याह—“यदिदं भवता प्रत्यक्षलक्षणमुच्यत” इति प्रत्यक्षकारणमित्यर्थः । कारणे सति कार्यं ज्ञानं लक्ष्यते प्रज्ञायत इति31 । द्वितीयकल्पं शङ्कते—“अथेति ।” सिद्धान्तवाद्याह“नोभयथापीति ।” लक्षणपक्ष एव सिद्धान्तिनोऽभिमतः । कारणपक्षाभ्युपगमस्तु प्रौढिवादेन द्रष्टव्यः । सकलप्रत्यक्षव्यापकमसाधारणं कारणमवधार्यते । न हीदृशमन्यत् कारणमात्ममनःसंयोगो वा, इन्द्रियमनःसंयोगो वा प्रत्यक्षस्यास्ति पूर्वस्य साधारणत्वाद् उत्तरस्य चाव्यापकत्वादिति । समाधानान्तरमाह—“अर्थतो वा” इत्यादिना “मनः सन्निकर्षोऽपि कारणम्” इत्यन्तेन । तदेवं सिद्धान्तसारमुक्तत् ॥ २१ ॥

नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥ २ । १ । २२ ॥

नात्ममनसोरित्यादि“सूत्र”मपठित्वैव “भाष्यकारो” व्याचष्टे—“न चासंयुक्ते द्रव्ये इति ।” सर्वं हि कारणजातं कार्योपजननाय परस्परसमबधानमपेक्षते, अन्यथा यत्र तत्र व्यवस्थितेभ्योऽपि कारणेभ्यः कार्यमुपजायेत । तदात्मनापि मनःसम्बद्धेन कार्यं जनयितव्यम् । सम्बन्धश्चात्ममनसोः संयोग एव । भवतु वा संयोगजं ज्ञानम् । अथेन्द्रियात्मसंयोगजं कस्मान्न भवति, कृतं मनःसंयोगेनेत्यत आह—“मनःसन्निकर्षेति ।” तस्मादात्ममनःसन्निकर्षोऽपि वक्तव्य इति पूर्वः पक्षः । “तदिदं”32 नात्मनसोः सन्निकर्षेत्यादि“सूत्र”पाठस्य “पुरस्तात् कृतभाष्यम् ।”

तदेतद् “वार्त्तिककारो भाष्यम्” अनुभाष्य पूर्वपक्षसूत्रं पठति—

“तदिदं सूत्रमिति । सूत्रा”र्थमाह—“आत्ममनसोरिति ।” पूर्वपक्षस्य क्षणमप्यवस्थानमनिच्छन्,33 “वार्त्तिककारः” प्रतिषेधमस्योक्तं स्मारयति—“न, उक्तेति” ॥ २२ ॥

दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ २ । १ । २३ ॥

तदेवं द्वाभ्यां “सूत्रा”भ्यां पूर्वपक्षिते सति भावमात्रेण इन्द्रियार्थसन्निकर्षादीनामनेन कारणत्वमुक्तमिति मन्यमानः33 पार्श्वस्थः प्रत्यवतिष्ठते—“सति चेन्द्रियार्थेति ।”

“दिग्दे…ङ्गः ।” न सति भावमात्रेण कारणत्वम् । आकाशादीनामपि कारणत्वप्रसङ्गात् । तादृशश्चात्ममनः संयोग इन्द्रियार्थसन्निकर्षश्चेति न कारणं युक्तमित्यर्थः । दूषयति— “अकारणभावेऽपीति ।” नान्वयमात्रात् कारणत्वनिश्चयोऽपि त्वन्वयव्यतिरेकाभ्याम् । न च दिगादावस्ति व्यतिरेकः । नित्यत्वविभुत्वाभ्यामवर्जनीयः सन्निधिः । सेन्द्रियशरीरवर्त्यात्ममनःसंयोगस्त्वन्वयव्यतिरेकावधृतसामर्थ्यः, सुप्तस्य ज्ञानानुत्पादात् । इन्द्रियार्थसन्निकर्षे त्वसति विप्रकृष्टे व्यवहिते च ज्ञानं न जायते । इन्द्रियमनःसन्निकर्षाभावे तु नायुगपज्ज्ञानानि भवन्ति । तस्मात् नाकाशादिभिरतिप्रसङ्ग इति ।

तदेतद् “वार्त्तिककारो” व्याचष्टे—“ये च सति भावात् कारणभावं वर्णययन्ति” पूर्वपक्षिणः सिद्धान्तिनो वा, असति न भवतीति दैवादागतो व्यतिरेको न तु प्रयोजकः, तान् प्रति पार्श्वस्थो ब्रूते “तेषां दिग्देशेति ।” यथा चान्द्रमसं रूपमिति । यद्यपि तत्रापि तेजस्यौष्ण्यमस्ति तथाप्यत्यन्ताभिभवेन स्वेचितार्थक्रियानुपयोगादसत्कल्पत्वमित्यर्थः ॥ २३ ॥

ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ २ । १ । २४ ॥

एवं पार्श्वस्थे निरस्ते पूर्वपक्षी ब्रूते—“यद्येवमिति ।” सिद्धान्त्याह—“नोपसङ्ख्येय” इति ।

“ज्ञान…धः ।” अत्र ज्ञानस्यात्मलिङ्गत्वमुच्यते । ज्ञानं तावत् कार्यमनित्यत्वाद् घटादिवत् । क्वचित् समचेतं च कार्यत्वाद् घटवत् । न च तत् पृथिव्याद्याश्रितं मानसप्रत्यक्षत्वात् । यत् पुनः पृथिव्याद्याश्रितं तत् प्रत्यक्षान्तरवेद्यमप्रत्यक्षमेव वा । न च तथा ज्ञानम्, तस्माद् द्रव्याष्टकातिरिक्ताश्रितम् । तदाश्रयश्च द्रव्यजातीयः समवायिकारणत्वादाकाशवत् । तस्य च विभुत्वमात्मलक्षणेऽस्माभिरुक्तम् । अतो गुणजातीयं ज्ञानं कार्यत्वे सति विभुद्रव्यसमवायात् शब्दवत् । एवं व्यवस्थिते प्रश्नोत्तरे “वार्त्तिक”गते व्याख्यातव्ये ॥ “आत्मसमवायादिति” कार्यत्वे सति विभुद्रव्यसमवायादित्यर्थः । विभुद्रव्यसमवाय एव तस्यासिद्ध इति चेदत34 आह—“न पृथिव्यादिगुणः स्वसंवेद्यत्वात्,” मानसप्रत्यक्षवेद्यत्वादित्यर्थः । स्वपरसंवेद्यं35 प्रत्यक्षान्तरवेद्यं द्रष्टव्यम्, अन्यथा पृथिव्यादिगुणेन द्वित्वादिना व्यभिचारः स्यादिति । तस्मात् ज्ञानलिङ्ग आत्मा । न चासावसंयुक्तो ज्ञानं जनयति, तस्य सदातनत्वेन सदा ज्ञानोत्पादप्रसङ्गात् । तस्मात् संयोगभेदं कादाचित्कमपेक्षत इति अर्थात् सिद्ध आत्ममनः संयोग इति न “सूत्रकृता” उक्तः । प्रौढिवादितयैष36 समाधिरिति दर्शयितुमुक्तमेव परमं समाधिं स्मारयति—“उक्तं चात्रेति” ॥ २४ ॥

तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥ २ । १ । २५ ॥

“अन्यार्थमिति” प्रमेयभूतमनःस्वरूपप्रतिपादनार्थम् । “अन्यार्थस्यापि तदर्थप्रकाशकत्वम् । उपपत्ति”र्लिङ्गम् । ईदृशं हि तल्लिङ्गं यदन्यार्थमपि मनसो ज्ञान कारणत्वं प्रतिपादयतीति । “न हि ज्ञानं स्वतन्त्रं” येन स्वकारणं मनो नापेक्षेत, नापि चक्षुरादि स्वतन्त्रं ज्ञानोपजनने येन मनो ज्ञानकारणं न स्यादित्याह—“न च चक्षुरादीति ।” तस्मादर्थप्राप्तत्वादात्ममनःसंयोग इन्द्रियमनःसंयोगश्च नोक्तौ “सूत्रकारेण” ॥ २५ ॥

प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥ २ । १ । २६ ॥

देशयति—“अथ कस्मादिति ।” इन्द्रियार्थसन्निकर्षेऽप्यर्थतः प्राप्तिरविशिष्टेति भावः ।

“प्रत्य…नम् ।” परिहरति—“प्रत्यक्षेति ।” सर्वानभिधाने हि प्रत्यक्षं न लक्षितं स्यादिति तल्लक्षणाय किञ्चिद् वक्तव्यम् । तत्रेन्द्रियार्थसन्निकर्ष एव वक्तव्यः समस्तप्रत्यक्षव्यापकत्वात्, नेतरौ अव्यपकत्वादतिव्यापकत्वाच्चेति परमः समाधिः ॥ २६ ॥

सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥ २ । १ । २७ ॥

ज्ञानोत्पत्तेरिति “सूत्र”शेषः । “प्रणिधाय” सङ्कल्प्य प्रदोषे सुप्तोऽर्धरात्रे मयोत्थातव्यमिति सोऽर्धरात्र एव प्रबुध्यते । “प्रबोधज्ञानमिति,” प्रबोधे निद्राविच्छेदे सति तीव्रस्पर्शस्य37 ज्ञानं प्रबोधज्ञानमित्यर्थः । सुप्तमनसामिति व्याख्याय व्यासक्तमनसामिति38 व्याचष्टे—“एकदा खल्वयं विषयान्तरेति” ॥ २७ ॥

तैश्चापदेशो ज्ञानविशेषाणाम् ॥ २ । १ । २८ ॥

प्राधान्ये च हेत्वन्तरम्—

“तैः…णाम् ।” इन्द्रियैर्व्यपदेशं विग्रहसमासाभ्यां ज्ञानस्य दर्शयति—“घ्राणेनेति ।” इन्द्रियविषयसङ्ख्यावरोधात् तज्ज्ञानस्य39 तद्व्यपदेश इत्याह—“इन्द्रियेति । वार्त्तिकम्यच्चासाधारणं तेनेति ।” दिगादिरप्युपाधिकल्पितेन प्राचीत्वादिना कार्यं विशेषयन् असाधारण एवेत्यमिप्रायः ॥ २८ ॥

व्याहतत्वादहेतुः ॥ २ । १ । २९ ॥

अनेन प्रबन्धेनेन्द्रियार्थसन्निकर्ष एवं कारणं ज्ञानस्य न त्वात्ममनःसन्निकर्षो न मन इन्द्रियसन्निकर्षो वा ज्ञानकारणमनेनोक्तमिति मन्वानो देशयति—“व्या…तुः ।”

व्याहतत्वादिति पूर्वपक्ष“सूत्रम् ।” अस्य तात्पर्यमाह “वार्त्तिकारः—अनेनेति ।” नन्वियं त्रिसूत्री इन्द्रियार्थसन्निकर्षस्य प्राधान्यमाह न पुनः संयोगान्तरस्य कारणत्वं प्रत्याचष्ट इत्यत आह—“इयं किलेति ।” कारणत्वं प्रतिषेधतीत्यभिमानः पूर्वपक्षिण इत्यर्थः । “दृष्टव्याघात” इति, अयौगपद्यं दृष्टं तस्य व्याघात इत्यर्थः । शेषं तु “भाष्य”व्याख्यया गतार्थमिति40 ॥ २९ ॥

नार्थविशेषप्राबल्यात् ॥ २ । १ । ३० ॥

परिहारसूत्रम्—“ना…त् ।”

अनेनेन्द्रियार्थसन्निकर्षस्य प्राधान्यमात्रमुच्यते, न त्वात्मममनःसंयोगस्येन्द्रियमनः संयोगस्य वा अकारणत्वमुच्यत इति न व्याघात इत्यर्थः । पृच्छति—“असति सङ्कल्पे” “प्रणिधाने चेति ।” प्रयत्नः प्रणिधानम् । सङ्कल्प इच्छा । उत्तरम्—“यथैवेति ।” नन्वस्य जात्यायुर्भोगनिमित्तत्वमवगतम्, न तु मनःप्रेरकत्वमपीत्याह—“तेन ह्यप्रेर्यमाणे मनसीति ।” भोगो ह्यदृष्टस्य प्रधानं प्रयोजनं तन्नान्तरीयकतया जन्मायुषी अप्याक्षिपति । स्वसम्बन्धिसुखदुःखसाक्षात्कारश्च भोगः । तदायतनं च शरीरम् । अप्राप्तं च मनो न तत्र भोगं च भोगविषयौ सुखदुःखे च तयोः कारणं च ज्ञानं जनयितुमर्हतीति नूनं तत्र प्राप्तिहेतोर्मनःकर्मणः कारणमदृष्टं वक्तव्यम् । अन्यथास्य सर्वद्रव्यगुणकर्मकारणता न स्यात् । मा भूत् सर्वार्थतेत्यत आह—“एषितव्यं चास्येति ।” अणूनां विशेषणं “भूतसूक्ष्माणाम्” इति ॥ ३० ॥

॥ प्रत्यक्षलक्षणपरीक्षाप्रकरणम् ॥

प्रत्यक्षस्यानुमानत्वपरीक्षाप्रकरणम्

प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥ २ । १ । ३१ ॥

“अतः परमिदानीमिति ।” न ह्यवयवी नाम कश्चिदर्थान्तरभूतोऽवयवेभ्योऽस्ति, अपि त्ववयवा एव परमार्थसन्तः । तेषु च कतिपयानवयवान् गृहीत्वा तत्सहचरितानवयवाननुमाय प्रतिसन्धानजेयं वृक्षबुद्धिस्तानेवावयवानालम्बमानानुमानमिति प्रत्यक्षस्यानुमानेऽन्तर्भावाद् विभाग“सूत्रे”ण न्यूनाधिकसङ्ख्याव्यवच्छेदो नोपपद्यत इत्यर्थः ।

निराकरोति—“न, यथासम्भवं विकल्पानुपपत्तेः । एकदेशो ह्यवयविन आधार” इति । एकश्चासौ देशश्चेत्येकदेशः । देशश्चाधारो न चाधेयो ह्यवयवीति कथमाधार इत्यर्थः । “अहो शब्दार्थकौशलमिति” शब्दे चार्थे च41 कौशलमित्यर्थः । अर्थे तावदकौशलमाह—“अकार्येति ।” कार्यस्यैकस्य कारणानां तदेव कार्यं कर्तुं परस्परप्रत्यासत्तिर्भवति, यथा मृद्दण्डचक्रसूत्राणां घटे कार्ये जनयितव्ये प्रत्यासत्तिः । कार्यणां चैकसामग्रीजन्मनां परस्परप्रत्यासत्तिः, यथा रूपरसगन्धस्पर्शानाम् । कार्यकारणयोर्वा यथाग्निधूमयोः । येषां तु न कार्यकारणभावो, नैककार्यत्वं वा, नैककारणत्वं वा, तेषां कुतो नियमवती प्रत्यासत्तिरित्यर्थः । शब्दाकौशलमाह—“न च परस्परेति ।” अवयविनं दधदवयवान्तरमवयवान्तरमपेक्षते, ततश्चावयवाः परस्परोपकारिणो भवन्ति । अवयव्यभावे तु न परस्परोपकारिणः, कथमवयवा इत्यर्थः ।

“न चावृक्षप्रतिसन्धानजेति ।” स्वस्तिमतीं हि गां गृहीत्वा कालाक्ष्यां गवि गौरिति प्रतिसन्धानं दृष्टम्, न त्वश्वं गृहीत्वाश्वान्तरे गौरिति प्रतिसन्धानं दृष्टम् । तत् कस्य हेतोः ? तयोरगोत्वात् । एवमर्वाग्भागपरभागाणामवृक्षत्वाद् वृक्ष इति प्रतिसन्धानं न भवेदित्यर्थः । यद्युच्येत मा भूद् वृक्षरूपधर्मिग्रहः पूर्वम्, अर्वाग्भागं तु धर्मिणं वृक्षविशिष्टमनुमाय42 प्रतिसन्धास्यतीत्यत आह—“न चानुमानम् ।” कस्मादित्यत आह— “अनुमान” इति । नायमनुमाता पूर्वमनुपलभ्याग्निमनुमानेन च धूमस्य विशेषणमग्निं प्रतिपद्य प्रतिसन्धत्ते अयं धूमोऽयं चाग्निरिति । अथ पूर्वं प्रतिसन्धानं पश्चादनुमानमित्यत आह—“न च प्रतिसन्धायेति ।” प्रतिसन्धानसमय एवाग्नेरवगतत्वाद् भवितव्यमत्राग्निनेति व्यर्थमनुमानं स्यादित्यर्थः । अभ्युपेत्याह—“प्रतिसन्धायापि चेति ।”

“किं चार्वाग्भागमयमिति ।” स भागवान् भागो न भवति किं तु भाग्येव । कस्मान्न पश्यतीत्यत आह—“नार्वाग्भागपरभागौ सम्बद्धौ ।” एकावयविसमवायेन हि परस्परसम्बद्धौ स्याताम्, न चावयव्यस्ति, नापि संयुक्तौ संयोगस्याप्यवयविनिरासमार्गेणापास्तत्वादित्यर्थः । पृच्छति—“कथं पुनरिति ।” उत्तरम्—“नित्यमर्वाग्भागेनेति ।” सम्बन्धस्तावन्नास्तीत्युक्तमेव । तमभ्युपेत्य तूत्तरम्—“सत्यं सम्बद्धाविति ।” सत्यपि सम्बन्धे अशक्यग्रहोऽसावित्यर्थः । सत्यं सम्बद्धावित्ययमभ्युपगमवाद एव ।

“यच्चेदमुच्यते प्रतिसन्धानप्रत्ययजेति ।” पूर्वं सत्यपि वृक्षे अवयवानामवृक्षत्वान्नावययेषु प्रतिसन्धानजा वृक्षबुद्धिरित्युक्तम् । सम्प्रति तु वृक्षस्यासत्त्वेन नावयवेषु वृक्ष इति प्रतिसन्धानमित्यपौनरुक्त्यम् । “रूपं च मयोपलब्धं रसश्चेति ।” य एवोपलब्धा रसप्रत्ययोपरञ्जितः स एव रूपप्रत्ययोपरञ्जित इत्यर्थः । “प्रमाणस्य यथाभूतार्थपरिच्छेदकत्वादिति ।” यथा भ्रान्तमप्यनुमानमर्थसम्बन्धेन प्रमाणमिति न भवति तथा प्रथमेऽध्याये दर्शितम् । “प्रधानानुकारेण” भ्रान्तिरिति विपरीतख्यातौ सत्याम् । सा चोपपादिता प्रथमाध्याये ।

“न, तथाशब्दस्यार्थानाभिधानदिति ।” कः पुनरयं तथाशब्दार्थः, परमाणूनां रूपं वा नैरन्तर्यं वा संयोगभेदो वा उत्पादभेदो वा ? यदि रूपमात्रम्, तद् घटादिष्वपीति तेष्वपि वृक्षबुद्धिः स्यात् । अथ रूपभेदः, क्षणान्तरेणावृक्षः43 स्यात्, न हि तत् पूर्वं रूपम् । अथ नैरन्तर्यम्, तद् घटादिष्वप्यस्ति । न वा क्वचिदपि गन्धरसरूपस्पर्शपरमाणुव्यवधानात् । न संयोगो भवद्भिरास्थीयत इति कुतस्तद्भेदः ? उत्पादभेदोऽपि हि परमाणूनां रूपमेव । न हि परमाणुव्यतिरिक्तः कश्चिदस्ति तेषामुत्पादः । रूपं44 च पूर्वं विकल्पितम् । यदि हि क्वचिदवयवसन्निवेशो वास्तवः पूर्वापरभागादिशब्दप्रवृत्तिहेतुरूपलब्धः स्यात्, ततस्तथाशब्दार्थः प्रतीयते । न तु भवतां क्वचिदेष वास्तवः, वस्तुसतां परमाणूनामभागत्वादित्यर्थः । सामान्यतोदृष्टे धर्मिविषयकमपि प्रत्यक्षं नास्तीति भ्रान्तः पृच्छति—“कः सामान्यतोदृष्टस्येति ।” उत्तरम्—“अयं विशेष” इति । द्विकस्य प्रत्यक्षेण प्रसिद्धौ सामान्यतोदृष्टं प्रवर्तते त्रिकस्य तु प्रत्यक्षेण प्रसिद्धौ प्रत्यक्षतो दृष्टमिति विशेषः । सर्वस्याप्रत्यक्षत्वाद् वृक्षबुद्धिस्तु न प्रत्यक्षतोदृष्टादनुमानात् नापि सामान्यतोदृष्टादित्याह—“भवत्पक्षे त्विति” ॥ ३१ ॥

न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ २ । १ । ३२ ॥

न प्रत्यक्षस्यानुमानता । कुतः ? यावदेकदेशभूतस्यार्थजातस्य ग्रहणम्

एक देशग्रहणादुपलब्धेः

इत्यत्र हेताविष्यते तावदपि प्रत्यक्षेण, अन्यथैकदेशग्रहणाभावेनानुमानानुदयात्, अनुमानान्तरेण वा तद्ग्रहणेऽनवस्थापातात् । अतस्तावतोऽर्थजातस्य प्रत्यक्षेणोपलम्भात् सर्वं प्रत्यक्षमनुमानमिति प्रतिज्ञा हेतुना एकदेशग्रहणादुपलब्धेरित्यनेन बाधिता, एकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे वा प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो हेतुः । सेयमुभयतः पाशा रज्जुरित्यर्थः । अनुमानेनैकदेशग्रहणात् नासिद्धो हेतुरित्यत आह “भाष्यकारः—न चैकदेशग्रहणमिति ।” अनुमितिः अनुमानम् भावयितुं कर्तुम् । अनवस्थाप्रसङ्गेन “हेत्वभावादिति ।”

तदेतत् “सूत्रं वार्त्तिककारो” व्याचष्टे—“विरुद्धश्चायमिति ।” नन्वेकदेशप्रत्यक्षत्वेऽपि तन्मात्रं प्रत्यक्षं न तु सर्वं प्रत्यक्षं स्यादित्यत आह—“न चैवं प्रतिज्ञायते सर्वमिति । अप्रकारवदिति ।” अनुमानस्य हि त्रयः प्रकारा यादृशा न तादृशाः प्रत्यक्षस्येति । “त्रिकालविषयत्वाच्चेति ।” अनेन परोक्षार्थत्वं सूचयत्यनुमानस्य । प्रत्यक्षं त्वपरोक्षार्थविषयम् । तस्मादपि भेद इत्यर्थः । लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्यापि प्रमाणस्य सतो लिङ्गलिङ्गिसम्बन्धस्मृत्यनुग्रहोऽस्त्युत्पत्तौ । न त्वेवं प्रत्यक्षस्य प्रमाणस्य सत45 उत्पत्तौ वा कार्ये वा लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षेत्यर्थः ।

“अन्यथापि” चेत्यादि भाष्यं व्याचष्टे—“इतश्चेति । न त्वेतदनुमानम्” इत्यादि “भाष्यार्थ” माह—इन्द्रियेति । इन्द्रियसम्बन्धाच्चार्थस्य प्रत्यक्षमुत्पद्यते, न त्वनुमानमेवमित्यर्थः ।

अपि चावयविनोऽसत्त्वं मन्यमानेन त्वयैकदेशमात्रोपलब्ध्या वृक्षबुद्धेरनुमानत्वमुक्तम् । न त्वियमेकदेशमात्रोपलब्धिरपि तु तस्य च तत्सहचरितस्य चावयविन उपलब्धिलक्षणप्राप्तस्य सिद्धेरित्याह—“न चैकदेशोपलब्धिरिति ।” तदेतद्“भाष्य”मनुभाष्य “वार्त्तिककारो” व्याचष्टे—“न चेति ।”

अत्र देश्य“भाष्यम्—अकृत्स्नग्रहणादिति चेत् ?” उत्तर“भाष्यम्—न कारणत” इति । देश्यविवरणम्—“न चावयवा” इति । एकदेशग्रहणनिवृत्त्यर्थं हि त्वया अवयविग्रहणमास्थीयते । न चैतावता कृत्स्नग्रहणसम्भवो यत एकदेशग्रहणनिवृत्तिः स्यात् । न ह्यवययविग्रहणेऽप्यवयवा कृत्स्ना गृहीता भवन्ति, नाप्यवयवी, तस्यार्वाग्भागस्य ग्रहणेऽपि मध्यपरभागस्थस्याग्रहणादिति देश्य“भाष्या”र्थः ।

तदेतद् “भाष्यं वार्त्तिककारो” व्याचष्टे—“नावयविन उपलब्धिरिति ।” यत् खलु बहुषु वर्तते तत् प्रत्येकं परिसमाप्त्या46 वा यथा कलविङ्ककण्ठगुणः, एकदेशेन वा यथास्रक्सूत्रं कुसुमेषु । न च कृत्स्नैकदेशाभ्यां प्रकारान्तरमस्ति । अनयोरन्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वात् नित्यत्वानित्यत्ववदिति । न चैकत्र कृत्स्नसमाप्तावन्यत्र तस्यैव सम्भवः । तथा सति कृत्स्नसमाप्तेरसम्भवात्47 । तस्माद् योऽवयवान्तरे दृश्यते नासाववयवी । तथा चावयवा एवेति प्राप्तमित्यपि द्रष्टव्यम् । “न ह्मस्य कारणव्यतिरेकेणेति ।” यदि ह्येकदेशान्तराण्यस्य स्युः, ततस्तेष्वपि वृत्तावेकदेशान्तरकल्पनायामनवस्थाप्रसङ्ग इत्यर्थः । पूर्वपक्षवाद्येव प्रश्नपूर्वकं क्रियातिपत्तिमाह—“अथोपलभ्यमान” इति ।

उत्तर“भाष्य”विवरणपरं “भाष्यम्—कृत्स्नमिति वै खल्वित्यादि ।” तदेकग्रन्थतया “अङ्ग तु भवानित्यादि” सम्बोधनोपक्रमं “भाष्यं” व्यवस्थितम् ।

तदेतद् “वार्त्तिककारो” व्याचष्टे—“एकस्मिन्निति ।” अयमभिसन्धिः । यत् तावत् कुसुमेषु सूत्रमेकदेशेन वर्तमानं दृष्टमिति तदनुपपन्नम् । यदि कुसुमेषु सूत्रावयवा वर्तन्ते किमायातमवयविनः सूत्रस्य ? न ह्यन्यस्मिन् वर्तमाने अन्यद् वर्तत इति युक्तम्48 । न चावयविनोऽभावे भवत्येतदपि सूत्रमवयव्यवयवैर्वर्तत इति । अथ मा भूत् सूत्रं नामावयवी एकदेशास्तु कुसुमेषु वर्तन्त इति ब्रूमः । तथा च सति नैकमनेकत्रैकदेशेन वर्तते किं त्वनेमनेकत्रेति । तथा च कुसुमपरमाणावेकस्मिन् सूत्रपरमाणुरेको वर्तत इत्युक्तं भवति । न च वृत्तिरपि परमाणुभ्यामतिरिच्यते यतो भवति वर्तत इति । तस्मात् निरन्तरोत्पाद एव परमाण्वोर्वृत्तिरिति व्यवहर्तव्यः, न पुनः परमाणुस्वरूपातिरिक्ता काचिद् वृत्तिरस्ति वस्तुसती । एतेन कलविङ्ककण्ठगुणवत् प्रत्येकं कृत्स्नपरिसमाप्तिर्वृत्तिरित्यपि व्याख्यातम् । तथा च वृत्तेरभावादेकदेशेन वा कार्त्स्न्येन वा वर्तत इति रिक्तं वचः । यथालोकप्रत्ययं तु वृत्तेरभ्युपगमे सूत्रं कुसुमेषु नैकदेशेन वर्तते किन्तु तदेकदेशाः सूत्रं च कुसुमेषु वर्तत इति लौकिकोऽनुभवः । तत्र सूत्रस्य वृत्तिः कुसुमेषु नैकदेशेन, नापि कार्त्स्न्येन किं तु स्वरूपतः । एवमवयवेष्ववयविनोऽपि स्वरूपत एव । इयांस्तु विशेषो यत् सूत्रस्य कुसुमेषु वृत्तिं प्रति सन्ति भागा अपीति सूत्ररूपं च भागाश्च कुसुमेषु वर्तन्त इति । अवयविनस्तु स्वावयवेषु वृत्तिं प्रति नावयवान्तराणि सन्तीति रूपमात्रेण तत्र वर्ततेऽवयवीति । तस्मात् न किञ्चित् क्वचित् कार्त्स्न्येन एकदेशेन वा वर्तमानं दृष्टमिति तयोर्वृतिं प्रति व्यापकत्वमसिद्धम् । रूपस्यैव तु व्यापकत्वम् । तच्चावयविन्यप्यस्तीति व्यापकानुपलब्धेरसिद्धेर्नावयविनोऽवयवेषु वृत्तिनिवृत्तिरिति सिद्धम् । यथा च कृत्स्नैकदेशशब्दौ नावयविरूपे प्रवर्तेते तथोक्तं “वार्त्तिककृतेति ।” नैकदेशेन वर्तते, न कार्त्स्न्येन वर्तते, अथ च वर्तत इति कैषा वाचो युक्तिः ? यद् यथाभूतं वस्तु तत् तथा निर्दिश्यत इत्येषेति योजना ।

“उभयेन व्याघातादिति ।” एकस्यानेकवृत्तेरेकदेशेन कार्त्स्न्येन च व्याघात इत्यर्थः । स एव हि धर्मो विकल्प्यते यो विकल्प्यमानो धर्मिणं न बाधते । यथा शब्दो नित्योऽनित्यो वेति । यस्त्वधिकरणं धर्मिणमेव बाधते नासौ धर्मविकल्पो न्याय्यः, आश्रयस्याप्रसिद्ध्या तस्यानुपपत्तेरिति ।

यस्तु मन्यते यत् सत् तत् सर्वमनवयवम्, यथा विज्ञानम् । सच्चेदं नीलाद्यनुभूतावसितमिति स्वभावहेतुः, सत्तामात्रानुवर्तित्वाद् अनवयवत्वस्य । तथा हि एकस्य सत्त्वं विरुद्धधर्मासंसर्गेण व्याप्तम् । तद्विरुद्धश्च विरुद्धधर्मसंसर्गो नीलादीनां सावयवत्वे प्रसजन् स्वविरुद्धं विरुद्धधर्मासंसर्गं निवर्तयंस्तद्व्याप्यं सत्त्वमपि निवर्तयति । तथा हि पाण्यादिकम्पे तत्स्थानोऽवयव्यपि कम्पत इति तस्य जङ्घादिष्वप्यवयवेष्वविशेषावस्थानस्याप्यवयविनः कम्प उपलभ्येत । न चोपलभ्यते, तस्मात् स एव तदानीमेव कम्पते न कम्पते चेति विरुद्धधर्मसंसर्गः । अथावयवेषु कम्पमानेष्वपि नावयवी तत्समवेतः कम्पते, ततश्चलाचलयोर्वस्त्रोदकवद् युतसिद्धिप्रसङ्गः । एवम् एकस्य49 चावयवस्यावरणे तत्तदवस्थानोऽवयव्यावृत इति अवयवान्तरस्थानस्याप्यावरणप्रसङ्गः, अभेदात् । न वास्य क्वचिदप्यावरणमित्यविकलो दृश्येत । अवयवस्यावरणं नावयविनस्तस्यान्यत्वात् । न ह्यन्यस्यावरणेऽन्यदावृतं भवत्यतिप्रसङ्गादिति चेत् ? न, अर्धावरणेऽप्यनावृतत्वादवयविनः प्राग्वदविकलग्रहणप्रसङ्गः । अवयवदर्शनद्वारेणावयविनो दर्शनाददृष्टावयवस्यावयविनोऽप्रतिपत्तिरिति चेत् ? न, विकल्पासहत्वात् । किं सर्वावयवदर्शनद्वारेणावयविनः प्रतिपत्तिरुत कतिपयावयवदर्शनद्वारेण ? पूर्वस्मिन् कल्पे नावयवी कदाचिदपि दृश्येत । न ह्यसर्ववित् सर्वावयवोपलम्भक्षमः, अर्वाग्भागेन मध्यपरभागयोर्व्यवधानात् । कतिपयदर्शनेन तु तदभिव्यक्तौ अल्पावयवदर्शनेऽपि बह्ववयवदर्शनवत् स्थूलोपलम्भप्रसङ्गः । रक्ते चैकस्मिन्नवयवे तत्स्थानोऽवयव्यपि रक्त इत्यवयवान्तरेऽपि तस्याभेदाद्रागोपलम्भप्रसङ्गः । अवयवमात्ररागे वा तत्स्थानस्यावयविनो रूपमरक्तं दृश्येत, सोऽयं विरुद्धधर्मसंसर्ग इति ।

तदनेनाभिप्रायेण “वार्त्तिककारो” ग्रहणाग्रहणलक्षणेन विरुद्धधर्मसंसर्गेण सर्वानेव विरुद्धधर्मसंसर्गानुपलक्षयति—“ग्रहणाग्रहणेति ।” निराकरोति—“न भेद” इति । इदं तावदत्र वक्तव्यम्, यद्यनुभूतावसितं नीलमनवयवत्वेन साध्यते ततः सिद्धसाधनम् । नो खलु रूपविशेषो नीलादिरस्माकमपि सावयवो गुणत्वात् । तदाश्रयो घट इति चेत् ? ननु घट इत्यपि च रूपरसगन्धस्पर्शा एवार्थक्रियाकारिणः तथा50 व्यपदिश्यन्ते ते च गुणत्वेन निरवयवा एव न तु तदाश्रयोऽस्ति द्रव्यं51 नाम । अथ परसिद्धं द्रव्यं रूपाद्याश्रयं पक्षीकृत्य परसिद्धेनैव तस्य सत्त्वेनानवयवत्वं साधयति । सोऽयमसिद्धमसिद्धेन साधयन् महानैयायिकत्वमात्मनो दर्शयति । न हि स्वयमप्रतीतौ हेतुधर्मसाध्यधर्मिणौ परप्रत्यायनाय कल्पेते । यदाहुः

योऽपि तावत् परासिद्धः स्वयं सिद्धोऽभिधीयते ।
भवेत् तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ॥ इति ।

न च प्रसङ्गसाधनेऽप्येतद्52 भवितुमर्हति । सत्त्वस्य53 सावयवत्वेन विरोधाभावात् । न चैकस्य विरुद्धधर्मसंसर्गो54 बाधकं प्रमाणम् । न तावदेकस्यावयविनो ग्रहणाग्रहणे, अवयवावरणेऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव । न च बह्ववयवस्थानस्य ग्रहण इव कतिपयावयवस्थानस्य ग्रहणे तादृशस्थौल्यानवभासादनवभासोऽवयविन इति साम्प्रतम् । परिमाणभेदो हि स्थौल्यमवयविधर्मः । न च तस्य तादृशस्यानवभासेऽवयवी नावभासितो भवति । तस्य ततोऽन्यत्वात् । तस्मादिन्द्रियसन्निकर्षमात्रादवयावनो ग्रहणम् । इन्द्रियेणार्थस्य, इन्द्रियावयवैरर्थस्य, इन्द्रियेणार्थावयवानाम्, इन्द्रियावयवैरर्थावयवानां सन्निकर्षात् परिमाणभेदग्रणमिति सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्येते । एतेनार्वाग्भागसहितस्य ग्रहणेऽपि न मध्यभागपरभागसहितस्याग्रहणं कथञ्चिद् विरोधमावहतीत्युक्तं भवति । न चावयवकम्पेऽप्यवयविनः कम्पो येनावयवान्तरेऽपि कम्पप्रसङ्गः, भिन्नत्वादवयवावयविनोः । तथा सति युतसिद्धिप्रसङ्ग इति चेत् ? का पुनरियं युतसिद्धिः ? किं भेदोऽवयवावयविनोः, आहोस्विदसम्बद्धस्य विद्यमानत्वम् ? यदि भेदः सोऽस्माभिरिष्यत एव । अथासम्बद्धस्य विद्यमानत्वम्, तत् सत्यपि पृथग्गतिमत्त्वे नावयविनोऽस्ति । जातः सम्बद्धश्चेत्येकः कालः55 । तथा हि नावयवी अवयवासम्बद्धोऽस्ति । न हि जातिमान् जात्यसम्बद्धोऽस्ति । न गुणकर्मणी द्रव्यासम्बद्धे स्तः । न च विशेषो द्रव्यासम्बद्ध इति ।

ये त्वप्राप्तिसंयोगौ युतसिद्धिमाहुः, तैरवयवावयविनोरसंयोगे हेतुर्वक्तव्यः । अयुतसिद्धिरिति चेत् ? न, तस्या एवासंयोगेन बुभुत्सनादिति । रक्तारक्तत्वं च नावयविन एकस्य, तस्यारक्तत्वादेव । तत्संयोगिनस्तु महारजनस्य रक्तत्वात् तस्य च पटादरक्तादन्यत्वात् । पटो रक्त इति तु भ्रमः । न त्वनेन विभ्रमेण सर्वत्र भवितव्यम्, तस्य महारजनयोगनिमित्तत्वात् । तस्य च पटवृत्तित्वात् । पटस्य च सर्वत्राविशेषात् । पटस्य वा क्वचिदसंयोगे संयुक्तासंयुक्तभेदप्रसङ्गः । न हि स एव तदैव तत्रैव भवति न भवति चेति युज्यते । तस्मात् संयुक्तात् पटादन्योऽसंयुक्तः पट इति प्राप्तम् ।

अत्रोच्यते । एषा तावत् प्रमेयगतिः, भावाभावौ परस्पराभावात्मानौ56 भावनिवृत्तिरेवाभावः । अभावनिवृत्तिरेव भावः । न तु भावाभावाभ्यामन्या तयोर्निवृत्तिः । तेन नैतयोः कदाचिदपि परस्परात्मत्वं भवितुमर्हति अदर्शनात् । एवमनयोराश्रयैकत्वनानात्वे अपि यथादर्शनं व्यवस्थापनीये । यथा तस्यैव श्वैत्यस्य यदा प्रासादे सद्भावस्तदैवाभावः काक इति । एवं च य एव कुम्भः श्यामः स एव पश्चादग्निसंयोगादश्यामः । यः पुनरस्य परिमाणभेदो नासौ सति कुम्भे विनश्यति । तत्र किमेवमुच्यतां परिमाणवत्57 श्यामतापि न नश्यतीति ? एवं प्रमेयवैचित्र्यं दर्शनवैचित्र्यव्यवस्थापितं यथाभ्युपेयते, तथा तस्यैव संयोगस्य तस्मिन्नेवैकदा भावाभावौ व्यवस्थापनीयौ तथैव दर्शनादिति । न हि दृश्यमानस्य दृश्यमानान्तरवैधर्म्येण रूपमुपलभ्यमानं शक्यमपाकर्तुम् । मा भूद् दृश्यमानवैधर्म्येण दृश्यमानरूपान्तरापाकरणम्58 अविशेषात् । तद्दर्शनानुरोधात् प्रमेयवैचित्र्यसिद्धेरुपपन्नः संयोगशब्दबुद्ध्यादीनां तत्रैव तदानीमभावो भावश्चेति । अत एवैषामव्याप्यवृत्तित्वमास्थीयते । रूपादीनां तु न दृष्टस्तत्रैव तदानीमभावो भावश्चेति तेषां व्याप्यवृत्तीनां भावाभावौ युगपदेकत्र विरोधिनाविति सिद्धो रक्तारक्तयोरेकत्राविरोधः सह दर्शनादिति ।

यत् पुनर्यदनेकवृत्ति तन्नाना, अनेकवृत्तिश्चावयव्यभ्युपगतः इति प्रसङ्गसाधनं स्वभावहेतुः । नानात्वाभावादनेकवृत्तित्वाभाव इति च प्रसङ्गविपर्ययो व्यापकानुपलब्धिरिति । तत्र ब्रूमः । एकत्वानेकवृत्तित्वयोरविरोधेन नानात्वस्य व्योपकत्वासिद्धेर्न प्रसङ्गो नापि तद्विपर्ययः । यथैव नीले परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, अन्यथा न नीलं परिच्छिन्नं स्यात् । एवं तदभावाविनाभावि पीतमपि नीलपरिच्छेदकं प्रत्यक्षं व्यवच्छिनत्ति, तथैकावयवसंसर्गे अवयविनः परिच्छिद्यमाने तदभावो व्यवच्छिद्यते तदभाववन्तश्चावयवान्तरसंसर्गा इति तेऽपि व्यवच्छेत्तव्याः । तदव्यवच्छेदे तदभावोऽपि न व्यवच्छिद्येतेति स एव तदानीमेव तत्र भवेच्च न भवेच्चेति59 दुर्घटमापद्येत । सोऽयमेकत्वानेकवृत्तित्वयोर्विरोध इति चेत् ? हन्त, भावपरिच्छेदे तदभावो व्यवच्छिद्यत इति युक्तम्, भावपरिच्छेदलक्षणत्वात् तदभावव्यवच्छेदस्य । न हि भावादन्यस्तव भावाभावो नाम । भावान्तराणि तु कस्माद् व्यवच्छिद्यन्ते ? तदभावाविनाभावादिति चेत् ? कुतः पुनरयं भावान्तराणां भावाभावाविनाभावः ? पीतादिभावतादात्म्येन कदाचिदपि नीलस्य भावस्यानुपलम्भादिति चेत् ? यत्र तर्ह्येकावयववृत्तेरप्येकस्यावयवान्तरेषु60 वर्तमानस्य तादात्म्यं दृश्यते, न तत्रैकावयवसंसृष्टाभावाविनाभावोऽवयवान्तरसंसृष्टस्य । तस्मान्नैकत्वनानावृत्तित्वयोर्विरोधः । अपि चैकं विज्ञानमनेकै रूपचक्षुरालोकनमनस्कारैः कथं सम्बध्यते ? सम्बध्यमानं वा कथमेकम् ? न वास्तवः कश्चित् कार्यकारणभावो नामास्ति सम्बन्धः, प्रतीत्यसमुत्पादमात्रं तदिति चेत् ? अथ कस्माद् रूपाद्येव प्रतीत्य रूपज्ञानं जायते न पुना रसाद्यपि ? स्वभाव एव तेषां तादृशो यतस्तानेव प्रतीत्य विज्ञानं जायते, न पुना रासभादीनिति चेत् ? हन्त भोः स्वभावान् भिन्नान् प्रतीत्य कथमेको भावो जायते ? को विरोधः ? न हि कार्यकारणयोस्तादात्म्यं येन कारणस्वभावानुरोधः कार्यस्य भवेदिति चेत् ? तत् किमवयवावयविनोरप्यभेदः, समवायस्य वा ताभ्याम्, येनावयवभेदेऽवयविनो वा समवायस्य वाभेदो भवेदिति समः समाधिः । तस्माद् यद् यदवयविनि प्रमाणं वक्ष्यामः, तत्तदसति बाधकेऽप्रत्यूहमवयविनमवस्थापयिष्यतीति सिद्धम् । यः पुनर्मन्यते अवयवसमुदाय एवावयवीति, तं प्रत्याह “भाष्यकारः—समुदाय्यशेषतेत्यादि ।” सुगमम् ॥ ३२ ॥

॥ इति प्रत्यक्षस्यानुमानत्वपरीक्षाप्रकरणम् ॥

अवयविपरीक्षाप्रकरणम्

साध्यत्वादवयविनि सन्देहः ॥ २ । १ । ३३ ॥

परं61 प्रत्यसिद्धत्वमेवावयविनः साध्यत्वम् । स खल्वेवं मेने संविन्निष्ठा हि विषयव्यवस्थितिः । स एव च संविदा व्यवस्थाप्यते, यस्तस्या विषयः । स एव च विषयो यः स्वाकारमस्यामर्पयति । न च निरन्तरोत्पन्नरूपादिपरमाण्वतिरिक्तमवयव्याकारं बिभ्रतीं संविदमीक्षामहे, किं तु निरन्तरोत्पन्नरूपादिपरमाण्वाकाराणाम् । स्थौल्यं च न यद्यपि परमाणूनां प्रत्येकमस्ति तथापि प्रतिभासधर्मो बहुत्वादिवन्न पुनवरवयविनमेकमवस्थापयितुमर्हति । यदाहुः सोऽयममूल्यदानक्रयी स्वाकारं च ज्ञाने समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छत्यवयवीति । तदेवं परं प्रत्यवयविनोऽसिद्धेर्विप्रतिपत्तिः । ततः साधकबाधकप्रमाणाभावे सति संशय इत्यर्थः । न साध्यत्वं स्वरूपेण संशयहेतुरिति मत्वा “भाष्यकृद्” आह—“एवं च सतीति ।” परासिद्धत्वे सतीत्यर्थः ।

साध्यत्वादिति यथाश्रुतं “सूत्रं” गृहीत्वा “वार्त्तिककारो” विकल्प्याक्षिपति—“किं पुनरत्रेति । कुतश्चिद्” हेतोः तस्य धर्मिण “अभ्यनुज्ञानम्” अङ्गीकारम् अर्हति सर्वस्यैव हेतोराश्रयासिद्धत्वादिति62 भावः । “अथाव्यतिरेक” इति, सत्येव धर्मिणि तस्यावयवेभ्योऽभेदो धर्मः साध्य इत्यर्थः । “अवयव्यपेक्षत्वादिति ।” पटमपेक्ष्य हि तन्तवोऽवयवा भवन्ति, नो खलु रण्डाकरण्डावस्थितास्तन्तवोऽवयवा उच्यन्ते इति । “न च षष्ठीति ।” पटस्यावयवास्तन्तव इति न षष्ठी । तथा च पटस्येति विशेषणाभावे अवयवत्वमात्रं हेतुः स्यात् । स च विरुद्ध इत्यर्थः । अनर्थान्तरभावे63 नावयवत्वमित्यस्योदाहरणम्—“न तन्तुस्तन्तोरिति ।” षष्ठ्यर्थाभावे तूत्तरमुदाहरणमिति । “तन्तूनां तन्त्ववयवत्वं ब्रवीतीति ।” तच्छब्दस्य प्रधानपरामर्शित्वादित्यर्थः । “अवयवशब्दस्य चेति ।” पूर्वं कारणमविवक्षित्वा अवयवशब्दस्य परापरशब्दवत् सम्बन्धिशब्दतामात्रं गृहीत्वोक्तम् । सम्प्रति तु कारणत्वं विवक्षित्वोच्यत इत्यपौनरुक्त्यम् ।

देशयति—“नैव हीति ।” असत् क्रियमाणं निर्वर्त्यम् । न चास्माकं सत्कार्यवादिनां तदस्तीत्यर्थः । दूषयति—“एतच्चेति ।” न हि पटाकारप्रत्ययस्तन्तुमात्रालम्बनो, रण्डाकरण्डावस्थितेष्वपि तन्तुषु प्रसङ्गात् । न च तन्तुपरिमाणभेदालम्बनः, तस्य पूर्वमपि सत्त्वात् । असत्त्वे वा सत्कार्यवादव्याहतिप्रसङ्गात् तस्यैवासत उत्पत्तेः । तस्मात् तन्तुष्वपटेषु पट इत्यकामेनापि मिथ्याप्रत्यय इति वक्तव्यम् । तथा च दूषणमिति ॥

“प्रतिज्ञैकदेशश्चेति” संयोगमात्रपक्षीकरणे इत्यर्थः । “तान्येव तानीति” तान्येवाप्रत्यासन्नानि तानि प्रत्यासन्नानि, क्षणभङ्गपरिणामप्रतिक्षेपादित्यर्थः । “यथा दण्डाद्यनेकं कारणमिति” दण्डवेमाद्यनेकं कारणं घटपटादीनां कार्याणाम् । “संयोगादिनिमित्तान्तरापेक्षमिति” संयोग आदिर्येषां निमित्तान्तराणां कुम्भकारकुविन्दादीनां तानि निमित्तान्तराणि । अतद्गुणसंविज्ञानश्च बहुव्रीहिः यथा चित्रगुरिति । तेन साध्यस्यैव दृष्टान्ततेति न दोषः । विमृश्यावधारयति—“वयं तु ब्रूमो विभाग उत्पन्न” इति । संयोगोऽनपेक्षकर्मकारणकः कर्मकार्यत्वाद् विभागवदिति स्थिते प्रतिबन्धकापगममात्रं विभागेन क्रियत इति सिध्यति । “यथा वा संयोगः साधारणकार्यद्रव्येति ।” यदा हि पटः पाट्यते तदा येषामवयवानामवस्थितानां संयोगानां पटाख्यं साधारणं कार्यं तस्य साधारणस्य कार्यद्रव्यस्य पटस्य च तदसमवायिकारणानां च संयोगानां केषाञ्चिद् विनाशोत्तरकालमर्धपटारम्भे तेषामेवानपेक्षाणां कारणत्वम् । विभागस्तु कर्मजन्यस्तत्र कतिपयसंयोगविनाशद्वारेण साधारणपटाख्यकार्यविनाशमात्रे व्याप्रियते । न तु विभागापेक्षा । अर्धपटे जनयितव्ये संयोगाः कारणमित्यर्थः ।

“न हि प्रमाणमन्तरेणेति ।” मिथ्याज्ञानमपि प्रमाणपूर्वकं सम्यग्ज्ञानपूर्वकत्वाद् विपरीरव्यातेरित्यर्थः । “वृक्षस्थितिं भावयद्भिः” पूर्वापरप्रत्ययैकविषयस्य वृक्षस्य स्थितिं स्थिरतां विभावयद्भिरित्यर्थः ।

“भेदादर्शनमिति” आकारिभेदादर्शनम् । यथा घटपटावाकारिणौ भेदेन दृश्येते, नैवमवयवावयविनौ नापि समवायसमवायिनावित्यर्थः । “यस्मादयमुपनयः अवयवाश्च तन्तवोऽवयवी च पट” इति । पूर्वमवयवाश्चेत्येतावन्मात्रं हेतूकृतं सम्प्रति त्ववयवावयविनावित्यपौनरुक्त्यम् ।

“अन्योऽवयवार्थ” इति । अवयविनोऽन्योऽवयवशब्दार्थ इत्यर्थः । प्रदेशिनोऽन्यः प्रदेशशब्दार्थ इत्यर्थः । तत्प्रदेशशब्दस्य व्यपदेशविषयत्वस्येति । तन्तवो हि पक्षीकृताः प्रधानमिति तदिति सर्वनाम्ना हेतुगतेन ते परामर्ष्टव्याः । तथा च तन्तुप्रदेशस्य व्यपदेशविषयत्वं न तन्तूनामित्यसिद्धो हेतुरित्यर्थः ।

तेभ्यस्तूत्पत्तेरिति कल्पितस्य हेतोर्विवरणं “तन्तुभ्यस्तूत्पद्यते पट” इति ।

“उभयेन व्याघातादिति ।” अभ्युपगमेनानभ्युपगमेनेत्यर्थः । “द्रव्यान्तरेति” द्रव्यान्तरोत्पत्तिदेशव्युच्छेदो व्यवच्छेदः । यथा पटोत्पत्तिदेशादन्यो घटोत्पत्तिदेश इत्यर्थः । “व्यक्त्यादिधर्मभेदेनेति” आदिग्रहणेनाविर्भावसंस्थानादय उच्यन्ते । ते च कारणव्यापारात् पूर्वं नासन्निति जन्मापि तेषामपूर्वमित्यर्थः ।

“यथा चक्रादिभ्यो” रथावयवेभ्य इत्यर्थः ।

“हिमवत्परमाणुकमिति ।” परमाणुग्रहणं सूक्ष्मद्रव्योपलक्षणार्थम् । न पुनः परमाणोर्द्व्यणुकादन्यत्रारम्भसम्भवः । न च विवादाध्यासितः परमाणुर्न महद्द्रव्यमारभते, परमाणुत्वाद् द्व्यणुकारम्भकपरमाणुवत् । अमहत्त्वाच्च न हिमवत्परमाणुकं प्रत्यक्षं स्यात् । तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयविद्रव्यमारभते । महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते । तथा च चाक्षुषत्वमस्य भवति । एवं तोयदविमुक्तोदबिन्दूदधिसंयोगाद् द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या । “भावोऽप्रत्यक्षः स्यादिति ।” भावः सत्ता । ननु यथा संयोगः संयोगिद्वयनिरूपणाधीननिरूपणस्तयोरेकस्यैवाप्रत्यक्षत्वे न प्रत्यक्ष एवमवयवाप्रत्यक्षत्वे नावयवी प्रत्यक्षः स्यादित्यत आह—“न चायं पक्ष” इति । संसृज्यमाननिरूपणाधीननिरूपणो हि संसर्गो युक्तः, यत् तदनिरूपणे न निरूप्यत इति । न त्ववयवी अवयवनिरूपणाधीनो यत् तेष्वनिरूपितेषु न निरूप्यत इति, त्र्यणुकस्यावयवाग्रहणेऽपि ग्रहणात् । एवं विदूरवर्तिनो हस्तिवनस्पत्यादेरवयवाग्रहणेऽपि ग्रहणादिति भावः । “न च तत्कृतोऽस्ति भेद” इति, न ग्रहणाग्रहणकृतो भेद इत्यर्थः ।

“न हीन्द्रियमन्यस्य साङ्ख्यस्य अन्यथा” सूक्ष्मत्वेन “अर्थं प्रकाशयति । अन्यस्य नैयायिकस्य अन्यथा” स्थौल्येन “अविकल्पत्वाद्” ऐकरूप्येणावस्थानादिति ।

“प्रत्यक्षप्रमाणविरोधादिति ।” महाभूतानां हि मूलकारणं परमाणवः परमसूक्ष्माः । तेषामप्रत्यक्षत्वं मानसानुव्यवसायगम्यं परमसूक्षमविषयं मे प्रत्यक्षमिति । तदभावश्चात्मनि संयुक्तविशेषणेन मनःसन्निकर्षेण प्रत्यक्षविरोध इत्यर्थः ।

“एके त्विति ।” यमेव हि त्र्यणुकं दृश्यं भवन्तोऽदृश्यावयवमाचक्षते, तमेव वयं परमाणुमाचक्ष्महे64 । न हि तदवयवकल्पनायामस्ति प्रमाणमिति भावः । “कथमवगम्यते भिद्यते त्रसरेणुरिति,” अङ्गुल्यग्राभ्यां मृद्यमानस्यास्यादर्शनं सूक्ष्मतयाप्युपपद्यते । जालसूर्यमरीचिस्थमेव हि तद्रजः कथञ्चिद् उपलभ्यते नान्यत्रेति भावः । “द्रव्यत्वे सतीति” सामान्यसमवायौ निवर्तयति । “बाह्य”ग्रहणेनात्मानं निवर्तयति । “अनित्यत्वाच्चेति ।” अनन्तावयवत्वेन मेरुसर्षवयोरभिन्नपरिमाणत्वप्रसङ्गात् । महाभूतमूलकारणमनवयवं कल्पितम्65 । न च द्रव्यमनवयवं विनश्यति आकाशादिवदिति नित्याः परमाणवः । त्रसरेणुस्त्वनित्य इति न परमाणुः । अनित्यत्वमेव कुत इत्यत आह—“सामान्यविशेषवत” इति ।

“संहतानामिति ।” रूपादीनां सङ्घातः परमाणुरिति । “न चासंहतप्रतिषेध” इति । अप्रतिषेधे वा त एवासंहताः परमाणव इति भावः ।

“संयुज्यते चायं विभज्यते” च अयमवयव्यन्तरेणेति । “न व्यतिरेक” इति । यथा भिन्नात् संयोगप्राप्त्यभावो व्यावृत्त एवमभिन्नादपि । न हि स एव तन्तुस्तेनैव तन्तुना प्राप्यत इत्यर्थः । सर्पकुण्डलोदाहरणे अन्वयी हेतुरित्यर्थः । सत्त्वरजस्तमसां न संयोगः किं तु तेषां स्वाभाविकः स कोऽपि परिणतिभेदो यतः सम्भूयकारित्वमित्यर्थः ।

“गुरुत्वान्तरकार्याग्रहणादिति ।” अवयवगुरुत्वाद् यत् गुरुत्वान्तरमवयविनः तस्य यत् कार्यमवनतिविशेषस्तस्याग्रहणादित्यर्थः । “सत्यमुपपादितः पक्षधर्म” इति । कार्याग्रहणेन कार्याभावस्ततः कारणस्य गुरुत्वस्याभाव इत्यर्थः । “प्रतिषेध्यं कार्यगतं रूपादि । तद् अभ्यनुज्ञातं भवतीति ।” तथापि कुतः प्रत्यक्षविरोध इत्यत आह“कारणरूपादयश्चेति ।” चो हेतौ । “एतेन कार्ये रूपादिप्रतिपत्तिः प्रत्युक्ता । दोषत्वेनेति66 ।” यदा हि कार्यमेवरूपादि नास्ति तदा कस्मात् तत्र रूपादिप्रतिपत्तिः प्रतिषिध्यत इत्यर्थः । “यथा रूपाद्यन्तरकार्यमिति ।” अवयविगतानां हि रूपादीनां कार्यं रूपसंस्कारादवयविनश्चाक्षुषता एवं स्पृश्यतेति । “उपन्यासः” स्थापनम्67

यद्यप्ययमवनमनविशेषाभावस्तुलाव्यधिकरणः, तथापि न शाब्दी तुलासम्बन्धितास्य प्रतीयते किं त्ववनमनविशेषसम्बन्धितेत्येतावतोक्तं—“सोऽयमिति । असिद्धस्तावदिति एकदेशिनो” दूषणम् । “तदेतदेकदेशिदूषणं” दूषयति—“न तद्वत्तानुपलब्धेः ।” परमार्थदूषणमाह—“अयमपीति । गुरुत्वमात्रोपहितानाम्” द्रव्याणाम्68 “अवनमनविशेषं न करोति” तुला ।

“द्रव्यसमाहार” इति कार्यकारणद्रव्यसमाहारः । मृत्कणमृच्चूर्णशर्कराकपालकुम्भसमाहार इत्यर्थः । ननु समाहारः कुम्भस्य कारणं तच्च ज्ञातेयद्गुरुत्वमेवेत्यत आह—“न चेति ।”

ये त्वाहुः सर्वो मृत्कणादिः कुम्भपर्यवसानः कार्यसमूहः परमाणुष्वेव समवैति, ते हि मृत्कणादिकमारभ्य मृच्चूर्णान्यारभन्त इति । प्रसङ्गात् तन्मतमपाकर्तुमुपन्यस्यति—“केचित् त्विति ।” निराकरोति—“तान् प्रतीदमिति ।”

“गुरुत्वं चानुपतदिति ।” न च यथा प्रदीपाधीनप्रकाशा घटादयः, न तु प्रदीपः प्रदीपाधीनप्रकाशः, तस्य स्वमहिमनिषिद्धतमोऽनुषङ्गत्वात् एवं गुरुत्वाधीनपाता घटादयः । गुरुत्वं तु स्वस्य चान्येषां च गुरुत्वान्तरानपेक्षं पतनहेतुरिति वक्तव्यम् । न हि प्रदीपेन स्वात्मनि प्रकाशयितव्ये किञ्चिदन्यत् क्रियते । यादृशा घटादयः स्वप्रकाशोत्पादे तादृशः प्रदीपोऽपि । चक्षुषः पुनरयं स्वभावभेदो येन घटादौ प्रकाशयितव्ये प्रदीपमपेक्षते, न तु प्रदीपे प्रकाशयितव्ये प्रदीपान्तरमिति । तस्मान्न प्रदीपस्य स्वात्मनि कर्मकरणभावः । गुरुत्वं तु द्रव्यगतस्य पतनकर्मणः करणम् । तेन हि द्रव्यं पात्यते । स्वगतस्य तु पतनकर्मणः करणत्वे तदेव कर्म करणं चेति स्वात्मनि वृत्तिविरोधः । आत्मनस्तु स्वात्मनि प्रकाशयितव्ये कर्तृत्वमेव, न तु कर्मत्वमित्युपपादितमिति । तस्माद् गुणादयो विवादाधिकरणा न पतन्ति अद्रव्यजातीयत्वाद् गुरुत्ववदिति सिद्धम् । सिद्धान्त्याह—“वेद पुनरिति ।” कारणं प्रमाणम् । रूपादयो न संयोगरूपप्राप्तिमन्तो गुणत्वात् संयोगवदित्यप्राप्तेः रूपादिषु विनिश्चयात् तददर्शननिमित्तो रूपादिषु प्राप्तिभ्रमो द्रव्येषु प्राप्तिप्रत्ययः पारमार्थिक एवेति विनिश्चयः । तदनेनाभिप्रायेणोपसंहरति—“तस्माद् व्यवस्थितमिति ।” शेषमतिरोहितार्थम् ॥ ३३ ॥

सर्वाग्रहणमवयव्यसिद्धेः ॥ २ । १ । ३४ ॥

स्यादेतत् । यथावयविनं नाभ्युपैति परः, एवं गुणकर्माद्यपि । तत् कथमयं प्रसङ्गः परस्य सर्वाग्रहणमित्यत आह—“तदिदं सूत्रमिति ।” योऽपि हि तावद् गुणकर्मादि नेच्छति सोऽपि न तत्प्रत्ययमपह्नुते । अस्ति लौकिकपरीक्षकाणामवयविद्रव्यगुणकर्मादिप्रत्ययः । सोऽयमशक्यापह्नवः । तस्य च प्रत्यक्षत्वमुपपादितं प्रत्यक्षलक्षणे । अवयविद्रव्यबाधकानि च प्रमाणानि अधस्तान्निराकृतानि । सोऽयमसति बाधके स्वयं च गुणादिभिश्च सहोपलभ्यमानो न शक्यो निराकर्तुमित्यधिकरणार्थः ॥ ३४ ॥

धारणाकर्षणोपपत्तेश्च ॥ २ । १ । ३५ ॥

ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः । कुतः ? निरवयवे विज्ञानाकाशादौ अवयवे च परमाणौ चादर्शनात् इदमेवं प्रयोगमारोहति । योऽयं दृश्यमानो गोघटादिरवयवी परमाणुसमूहभावेन विवादाध्यासितः, नासावनवयवी धारणाकर्षणानुपपत्तिप्रसङ्गात् । यो योऽनवयवी तत्र धारणाकर्षणे न भवतः, यथा विज्ञानादौ न चायं गोघटादिरर्थस्तथा तस्मान्नानवयवीति ।

“न च विरोध” इति । व्यभिचारलक्षणो दोषो विरोधः । “अवयविन एव ते” प्रत्येकमिति । परमाणुसमूहे तु प्रत्येकमपि न परमाणवोऽवयविन इत्यर्थः । “विशेषहेत्वभावादिति ।” एवं हि विशेषहेतुः स्यात्, यद्यवयविनमन्तरेण क्वचिद् विज्ञानाकाशादौ सङ्ग्रहश्चोक्तलक्षणो धारणाकर्षणहेतुता वास्य दृष्टा स्यात् । न चासौ दृश्यते । काष्ठतृणोपलादयः प्रत्येकमवयविन एवेत्यर्थः ।

स्यादेतत् । अवयवित्वेन तुल्यत्वेऽपि कस्मादेकत्र धारणाकर्षणे नान्यत्रेत्यत आह—“पांशुराशीति ।” समूहमात्रत्वेन तुल्यत्वे सति यथा कश्चिद् विशेषहेतुरेवमवयवित्वेन तुल्यत्वेऽपीति समानमित्यर्थः । तत्सहचरितस्य सम्बन्धः69 स्नेहद्रवत्वकारित इति । तस्माद् “भाष्यकारस्य सूत्र”दूषणं परमतेन द्रष्टव्यम् ॥ ३५ ॥

सेनावनवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ॥ २ । १ । ३६ ॥

“अथेदानीमन्वयिन” इति, अन्वयव्यतिरेकिण इति । पटोऽयमित्येकविषया बुद्धिरेकबुद्धिः । तन्तव इति नानाविषया बुद्धिरनेकबुद्धिः । “समुच्चितासमुच्चितविषयत्वादिति ।” असमुच्चितविषयत्वादेकबुद्धेः समुच्चितविषयत्वाच्चानेकबुद्धेरित्याशङ्कात उत्तर“सूत्रम्—सेना…नाम्70 ।”

“तथोक्तमिति ।” बहुत्वसङ्ख्यैव सेना वनं चेति । यस्तु मन्यते, सेना वनमिति व्यपदेशाय तज्जनिताय वा विज्ञानाय बहुत्वसङ्ख्या कथञ्चित् कारणं सम्भवति, यस्त्वयमैन्द्रियकः प्रत्ययः प्रत्येकमसङ्गृहीतैकत्वेषु वृक्षेष्वनुत्पन्नापेक्षाबुद्धेर्द्रागित्येकघनवनावगाही जायते तत्र कारणाभावेन बहुत्वस्यानुत्पादान्न बहुत्वसङ्ख्यालम्बन इति न परितुष्यति, तं प्रत्याह—“अभेदप्रत्ययस्य चेति ।” उपलभ्यमानरूपेष्वेव कुतश्चिन्निमित्तादनुपलभ्यमानपृथक्त्वेषु मिथ्याऽभेदबुद्धिर्भवति । न पुनः सर्वथानुपलभ्यमानेष्विति तात्पर्यार्थः । यस्तु नोभयपक्षसम्प्रतिपन्नमस्ति जगति किञ्चिदेकमिति मन्यते तं प्रत्याह—“एकं नास्तीति ।”

स्यादेतत् । दूरात् काष्ठलोष्टतृणपाषाणादयः प्रत्येकं पृथक्कृता नोपलभ्यन्ते । समुदायस्तु तेषां दृश्यते । न च ते द्रव्यान्तरमारभन्ते विजातीयत्वात् । तथा मा भूवन् परमाणवः प्रत्येकं दृश्याः समूहस्तु तेषां द्रक्ष्यते विनैव कार्यान्तरारम्भमित्यत आह— “गृह्यमाणाग्रहणस्य चेति ।” तेषामेवागृह्यमाणानामपि मिलितानां दर्शनं ये स्वेन रूपेण ग्रहणयोग्या निमित्तान्तरात्तु न गृह्यन्ते । परमाणवस्तु परमसूक्ष्मतया न स्वरूपेण ग्रहणार्हा इति मिलिता अपि न ग्रहीतव्या एव । न जातु मिलिता अपि पवनसमूहा भवन्ति चाक्षुषाः । रूपवन्महत्त्वमपि हि भावानां स्वरूपयोग्यता ग्रहणं प्रति इति भावः । “अथानुपजातविशेषाः”71 इति । ततश्च त एवैन्द्रियका अनैन्द्रियकाश्चेति महान् विरोध इति । अत्रान्तरे “कीर्ति”राह स्म को वा विरोधो बहवः सञ्जातातिशयाः पृथक् ।
भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत्72

इति । एतदपि “वार्त्तिककृतै”व अथानुपजातविशेषा इति वदता परास्तम् । न खलु स्थैर्यसिद्धौ भावानामवयविद्रव्योत्पादनमन्तरेणास्त्यन्योऽतिशयः परमाणूनाम् । न च यदागन्तुकमासाद्य परमाणवोऽवयविनं जनयन्ति तेनैव स्थूलबुद्धिम्, कृतमवयविनेति साम्प्रतम् । यदाभासा हि बुद्धिस्तदस्या आलम्बनप्रत्ययः । न चेयं परस्परव्यावृत्तपरमसूक्ष्मपरमाण्वालम्बना तथा सति स्थूलमेतदेकमिति73 न स्यात् । न चैष प्रत्ययो विकल्पः स्पष्टप्रतिभासत्वात् । न चाविकल्पोपाधिरस्य विशदता । निर्विकल्पकेनापि तस्या ग्रहणात् । न च प्रतिभासधर्मः स्थौल्यम् नानादिग्देशस्थितस्य तस्य निरन्तरस्यानेकस्यैकेन विज्ञानेन ग्रहणं स्थौल्यम् । तत् खल्वीदृशत्वं परमाणूनां प्रतिभाससमयभावीति प्रतिभासधर्म इत्युच्यते । तथा चैष समीचीन एवानुभवः । न हि ते न परमाणवः, न च न निरन्तरोत्पन्नाः, न च न दिग्देशभिन्नाः, न वैकस्मिन् विज्ञाने न चकासति । तस्मात् कस्यात्रान्यथात्वम् ? यदाह,

न च तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः74
सांवृतग्रहणं चान्यन्न75 च वस्तुग्रहो भ्रमः ॥

इति । अत्र तावत् तिलतण्डुलवद् गन्धरूपरसस्पर्शपरमाणुभिरन्तरिततया नैरन्तर्यमेषां नास्ति । तस्मादन्तरालाग्रहणे विदूरादेकघनवनप्रत्ययवदयं मिथ्याप्रत्ययो रूपादिपरमाणूनां सान्तरत्वादनेकत्वाच्च । न चासति बाधके मिथ्येति युक्तम् । उक्तश्च बाधकाभावः । स्थेमा च भावानामुपपादयिष्यते । तस्मादयुक्तमेतदपीति ।

“इदमेव च परीक्ष्यते” इति “भाष्यम् ।” सर्वत्रावयविनमपह्नुवानस्य अतीन्द्रियं चाणुसञ्चयमात्रमिच्छतः सेनावनाङ्गानामपि करिकुसुम्भादीनामतीन्द्रियाणुसञ्चयमात्रत्वाद्76 दृष्टान्ताभाव इति तात्पर्यार्थः ।

शङ्कते, “दृष्टमिति चेत् ?” सेनावनाङ्गानि तावद् दृष्टतया न शक्यान्यपह्नोतुमिति सिद्धं निदर्शनमित्यर्थः । निराकरोति—“तच्च नैवमिति ।” यदि दृष्टमप्रत्याख्येयमवयव्यपि दृष्ट इति सोऽप्यप्रत्याख्येयः । अथायं परीक्ष्य प्रत्याख्यायते सेनावनाङ्गान्यपि प्रत्याख्येयानीति दृष्टान्ताभावः साध्यसमत्वादिति “भाष्या”र्थः ।

“वार्त्तिकम्—यश्चायमनेकस्मिन्निति ।” अविद्यमानो विशेषः शुक्तौ रजतत्वम् । तस्य दर्शनं वणिग्वीथ्यादौ । तस्य द्वारं संस्कारः । तेनाध्यारोपितः स्मारितः तद्विपरीतः77 शुक्तिविपरीतो धर्मो रजतत्वं येन सामान्यदर्शनेन तत् तथोक्तं तस्य भावः तत्ता सामान्यदर्शनस्येति ।

तिरोभूतभेदमुपमानमेव भाक्तम् । भेदोल्लेखेन तूपमानमिति78 विवेकः । सञ्ज्ञाज्ञानमौपमिकोदाहरणम्—“यथा सिंहो माणवक” इति । नन्वेतदपि तिरोहितभेदतया भाक्तमेवेत्यत आह—“सिंह इव सिंहः ।” अयमर्थः । सिंहशब्दाद् उपमानादाचारे सर्वप्रातिपदिकेभ्यः क्विबिति क्विबन्तादत्र कर्तरि अचि कृते सिंहशब्द उपमानार्थो भवति । “नानाभावे चाणूनामित्यादि भाष्यं” व्याचष्टे—“मिथ्याप्रत्यया अपीति । तदभावे तु” प्रधानाभावे तु घटादौ “मिथ्याप्रत्यया” इति । परमाणुषु सञ्चितेष्विति । येषामपि घटोऽवयवी तैरपि परमाणुसञ्चयोऽभ्युपेयः येषामप्यवयवी नास्ति तैरपि परमाणुसञ्ञ्चय उपेयः । सोऽयमुभयसम्मतः सञ्चय इत्यर्थः । तेऽपि सञ्चिता एवेति । “वैभाषिकाः” खलु “वात्सीपुत्रा” भूतभौतिकसमूहान्79 पञ्चापि शब्दादीनिच्छन्ति । अतस्तेषां मते शब्दादयोऽपि सञ्चिता इत्यर्थः । अपि चास्मन्मतेऽपि शब्दादीनां न मुख्यमेकत्वं सङ्ख्याया गुणस्य गुणेषु शब्दादिष्वभावात्, अपि तु भाक्तमेवेत्यत आह—“शब्दादिषु चैकप्रत्यय” इति । शङ्कते—“सर्वत्रेति ।” निराकरोति—“न द्वे इत्यत्रेति ।” समुच्चयनिवृत्तिमात्रं चेदेकत्वं द्वित्वनिषेधेन समुच्चयो निवर्तित इति तन्निवृत्तिमात्रमेकत्वमेवेति एकमनेकं वेति संशयो न स्यात् । न च तत्रोत्तरमेकमेवेति नियमार्थं भवेदिति । “गतौ” प्राप्तौ । शङ्कते—“सर्वत्रेति ।” निराकरोति—“नैकमित्यत्रेति ।” अयमभि न्धिः । द्वित्वादीनामभावे समुच्चयमात्रं स्यात् । न तु समुच्चयानामवान्तरभेदः । तथा च नैक इत्यसमुच्चयसहितैकत्वनिषेधे समुच्चयः80 प्राप्त एवेति न संशयः स्यात् ।

इदं त्विह वक्तव्यम् । शब्दादौ द्वित्वाद्यभावे कथं द्वित्वादिप्रयोगः ? भाक्त इति चेत् ? किं भक्तिनिमित्तम् ? समुच्चयमात्रं चेत् ? कुतो द्वाविति नियमः ? समुच्चयविशेषादिति चेत् ? नन्वस्य नास्त्याजानतो भेद इत्युक्तम् । न चेह द्वित्वमस्ति यद्विशिंष्यात् । तथाचाकामेनापि समुच्चयानामवान्तरभेदः स्वाभाविको वक्तव्यः । तथा च स एवास्तु संशयविषयः । कृतं द्रव्ये द्वित्वादिनेति । तस्मात् संविदेव भगवती81 समुच्चयादिविलक्षणं द्वित्वाद्यवगाहमाना व्यवस्थापिका द्वित्वादीनाम् । तदनुसरणप्रकारश्च युक्तिकुशलतया82 “वार्त्तिककृता” कृत इति मन्तव्यम् ।

यः पुनरनुभूयमानमेकत्वं द्वित्वादींश्चानुभूयमानान् न प्रतिपद्यते, तस्य खल्वनुभवमपह्नुवानस्य निर्मर्यादतयैकत्वाधारोऽपि नास्तीति कस्य समुच्चयो द्वित्वादिः स्यात् ? समुच्चयाभावे च कस्याभाव एकत्वं स्यादित्याह—“यः पुनरिति ।” अपि चैकत्वादीन् मुख्याननभ्युपगच्छतोऽयमपि भाक्तप्रयोगो न स्यादित्यत आह—“एकत्वद्वित्वादींश्चेति ।”

“भाष्यम”नुभाष्य व्याचष्टे—“तेषु चैवमिति ।”

“इयत्तानवधाऋअणादिति ।” प्रत्यक्षपरिमाणविषयमियत्तावधारणम् परममहतां त्वप्रत्यक्षपरिमाणानां सत्यपीयत्तानवधारणे नापरिमाणता, द्रव्यत्वेन व्योमादीनां परिमाणानुमानादिति ।

“यथा महत्परिमाण” इति । कुवलपरिमाणादामलकपरिमाणं महदिति लौकिका व्यपदिशन्ति, यथा कुवलादामलकं महदिति । न च परिमाणस्य परिमाणयोगः, अनवस्थाप्रसङ्गात् । तस्माद् भाक्तोऽयं व्यपदेशो महत्त्वं महदिति । तत् सिद्धमेतत्83 शब्दो भाक्तमहच्छब्दवान् गुणत्वान्महत्त्ववदिति । गुणत्वं च शब्दस्यानुमानलक्षणे प्रसाधितम् । भाक्तं च मुख्यपूर्वकमिति क्वचिन्मुख्येन महत्त्वेन भवितव्यम् । तच्चासति बाधके द्रव्ये मुख्यमिति सिद्धम् । “न महत्प्रत्ययविषयत्वादिति ।” न तन्मात्रादपि त्वबाधितादनन्यथासिद्धादिति । तदेवाह—“अपि त्विति ।”

अनेनानन्यथासिद्धिर्द्रव्ये महत्प्रत्ययस्य दर्शिता । “तथैकादिमहत्प्रत्यया” इति । समुदायमेकमाश्रित्येति शेषः । समुदायश्च समुदायान्तरप्राप्ताविति । यदा हि भिन्ना अपि समुदायिनः प्राप्त्या एकीकृता एकः समुदायः, तदा समुदायान्तरमपि समुदायान्तरेण प्राप्तमेकः समुदायः । न चैकस्यात्मना प्राप्तिः । न हि तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण प्राप्यते । ततश्च द्वयोः समुदाययोः प्राप्तिरित्ययुक्तमित्यर्थः ।

चोदयति—“नैव जातिरस्तीति ।” अयमभिसन्धिः । न सामान्यं नाम वस्तुसद् यस्याश्रयो वस्तुभूतोऽनुस्रियते । तथा हि तत् पिण्डे वा वर्तते, सर्वत्र वा । यदि सर्वत्र, सर्व एव गावः प्रसज्येरन् । यथा हि शाबलेयादयो गोत्वाभिसम्बन्धाद् गाव एवं विश्वमेव तत्सम्बद्धमिति गौः प्रसज्येत । अथ केषुचिदेव पिण्डेषु वर्तते, ततो वक्तव्यम्, यदा क्वचिद्देशे पिण्डो जायते तदा वक्तव्यम्, कुतस्त्यं पुनरस्य गोत्वमिति । न तावत् तत्रापि पिण्डोत्पादात् पूर्वमासीत् नापि पिण्डान्तरादागतं तस्य निष्क्रियत्वात् पिण्डन्तरत्यागप्रसङ्गाच्च । न च पिण्डे जायमाने जायते, अनित्यत्वापत्तेः । पिण्डान्तरस्थाच्च गोत्वाज् जन्माजन्मस्वरूपविरुद्धधर्माध्यासेन भेदे सत्यसामान्यत्वप्रसङ्गः । तदितो महाव्यसनाद् विह्वता सांवृतमेव सामान्यमास्थेयं न पारमार्थिकमिति । परिहरति—“जातिविशेषस्येति ।” प्रत्ययानुवृत्तिर्यद्यपि प्रत्यक्षा तथापि विप्रतिपन्नं प्रति सैव लिङ्गमुच्यते । सन्ति हि केचिद् भावा ये सहावस्थानेऽपि परस्परमसम्बद्धाः, यथा समानकाला गन्धरसरूपस्पर्शाः । विज्ञानानि च बहूनि परेषां समानकालान्यप्यसंसर्गाणि, दिक्कालाकाशात्मानश्च सहावस्थाना अपि परस्परासंसर्गिणो “वैशेषिकाणाम् ।” तथा सामान्यमपि सर्वासम्बद्धमपि सर्वैः सहावतिष्ठते, यास्त्वस्य व्यक्तयस्ताभिः परं सम्बध्यते । तथा च यत्र जायन्ते व्यक्तयस्तत्रासम्बद्धावपि स्तः सामान्यसमवायाविति । तासां जन्मैव सामान्यसमवायावच्छेदः । स च स्वकारणादननुयोज्यादिति84 वस्तुगतिं प्रमाणिकीं विद्वांसो नास्माद् व्यसनाद्85 बिभ्यतीति । बाधकान्तराणि चास्यायवयविव्याख्यानेन प्रत्याख्यातानि । “तावदेव तर्ह्यधिकरणं जातेः प्राप्तमिति ।” ये ये वृक्षत्वादिजातिमनपेक्षा व्यञ्जयन्ति, ते ते परस्परं वृक्षादिव्यक्तितया भिद्यन्ते । यथा किंशुकाशोकचम्पकादयो भिन्नास्तरवस्त्तथा चार्वाग्भागमध्यभागापरभागा अपि भिन्नास्तरवःस्युः86 । अवयविनि तु जायमाने नायं दोषः । तस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात्87 । न चैवमवयविनोऽपि तावन्तः स्युरिति वाच्यम्, तस्यैकस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात् । अवयवान्तरस्य तु नावयवान्तरे प्रत्यभिज्ञानम्, तेषां वृक्षव्यक्तिहेतुत्वे88 वृक्षानेकत्वप्रसङ्ग इति ।

“सर्वापकृष्टः सङ्घातश्चेति” व्याहतम्,89 संहन्यमानापेक्षयानपकर्षादित्यर्थः । “साङ्ख्य”मवयवेभ्योऽनर्थान्तरमवयविनं मन्यमानं प्रति प्रयोगमाह—“अर्थान्तरमिति ।” प्रावरणसामर्थ्यं पटस्य, तन्तूनां तु पटोत्पादनसामर्थ्यम् । “तन्तुपटरूपे” इति । तन्तूनां नीलपीतलोहितादिरूपं पटस्य तु चित्रम् । तत्र नीलादीनां समवायिकारणं तन्तवः, चित्रस्य तु पटः । एवं तन्तुपटयोः सावर्ण्येऽपि क्वश्चिद् विशेष उन्नेयः विशेषवत्त्वं च वैयधिकरण्येन प्रमीयमानत्वम् । तेन च भिन्नकारणत्वम् । भिन्नसमवायिकारणत्वं साध्यत इति न सिद्धसाधनं नाप्यनैकान्तिकत्वमिति ।

ये तु पक्षहेतू अन्यथाकारं गृहीत्वा दूषयाम्बभूवुः, तन्मतमुपन्यस्य दूषयति“एके त्विति” ॥ ३६ ॥

॥ अवयविपरीक्षाप्रकरणम् ॥

अनुमानपरीक्षाप्रकरणम्

रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ २ । १ । ३७ ॥

“अनुमानमिदानीमिति भाष्यम् ।” अत्रेदानीं पदार्थमाह “वार्त्तिककारः अथेदानीमवसरप्राप्तमिति ।” उद्देशक्रम एव लक्षणपरीक्षयोः सम्बध्यत इत्यर्थः ।

“रोधो…णम् ।” अप्रमाणपदस्य व्याख्यान“भाष्यम् एकदापीति ।” प्रतिपादकं निश्चायकम् । लक्ष्यपरत्वात् लक्षणस्य लक्षणयुक्तस्य लक्ष्यस्य व्यभिचारादप्रमाणत्वे लक्षणमेव दूषितं भवतीत्यर्थः ।

“वार्त्तिकम्—पूर्ववदादेरुदाहरणानीति ।” अत्र च नदीपूरमयूरवाशिते शेषवत उदारहरणे । पिपीलिकाण्डसञ्चारणं चाचिरमुत्पत्स्यमानस्य वर्षस्य न कार्यम् । न ह्यनागतं कारणं भवति पूर्वोत्पन्नस्य । न च नासावक्रत्वादयोऽप्यनागतेन मरणेन क्रियन्ते । तथा सति पुत्रोऽपि पितुः कारणं स्यादिति सर्वमवदातम् । कार्यकारणभावव्यवस्थापनं लौकिकं भवेत् । नियमवान् खलु प्राग्भावः कारणत्वस्य व्यवस्थापको नियमवांश्च पश्चाद् भावः कार्यत्वस्य व्यवस्थापकः । नासिकावक्रत्वादयोऽपि मरणस्य यत् कारणं तस्य पूर्वकार्याणीति प्रत्यासत्त्यानया मरणमनुमापयन्ति । न च पिपीलिकाण्डसञ्चारणं वर्षस्य कारणमनुपलब्धसामर्थ्यात्, असत्यपि तस्मिन् वर्षस्योत्पत्तेः । वर्षमूलकारणस्य तु महाभूतसङ्क्षोभस्य पिपीलिकाण्डसञ्चारणं पूर्वकार्यम् । क्वथ्यमानाः खलु पिपीलिका भौमेनोष्मणा स्वान्यण्डानि भूमिष्ठान्युपरिष्टान्नयन्ति । तस्मात् पिपीलिकाण्डसञ्चारणेन कार्येण वर्षकारणमनुमाय यदि वर्षकारणात् कार्यं वर्षमनुमिमतेऽनुमातारः, तदा पूर्ववदुदाहरणम् । अथ कार्यकारणभावमनपेक्ष्यैव90 पिपीलिकाण्डसञ्चारणस्य स्वाभाविकं वर्षेण सम्बन्धमात्रमवगम्यानुमिन्वते,91 तदा कार्यकारणभावाभावेन सामान्यतोदृष्टस्योदाहरणमेतदित्यवगन्तव्यम्92 । “उदाहरणव्यभिचारद्वारकमिति ।” लक्ष्यदूषणद्वारेण लक्षणस्य दूषणमित्यर्थः । न हि व्यभिचारलक्षणस्यानुमानाप्रामाण्यप्रतिपादकस्य अनुमानस्य व्यभिचारे किञ्चित् प्रमाणस्तीति ॥ ३७ ॥

नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥ २ । १ । ३८ ॥

“भाष्ये पिपीलिकाप्रायस्येति ।” प्रायशब्दः प्रबन्धार्थः ॥ ३८ ॥

॥ इत्यनुमानपरीक्षाप्रकरणम् ॥

वर्तमानपरीक्षाप्रकरणम्

वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥ २ । १ । ३९ ॥

तदेवमनुमान“लक्ष्य”परीक्षाद्वारेणानुमानलक्षणं परीक्ष्य सम्प्रत्यनुमानविषयपरीक्षयानुमानपरीक्षामवतारयति “भाष्यकारः त्रिकालविषयमिति ।”

“वर्त…त्तेः ।” तत्र “वार्त्तिककारः” सत्यां कालस्य सिद्धौ वर्तमानत्वं परीक्ष्यते । स एवापरीक्षितोऽद्यापि न सिध्यतीति कालस्वरूपं परीक्ष्यते—“तत्र तावदिति । त्रिकारणेयमिति” कारणान्तरवैकल्यं विषयस्यायोग्यत्वमभावो वा विषयस्येति त्रीण्यनुपलब्धिकारणानीति । “अथ धर्मोऽपि नास्तीति ।” भावरूपो हि हेतुरभावाधिकरणो न भवति । अभावरूपस्य त्वभावाधिकरणत्वादविरोध इत्यर्थः । परिहरति“साधनार्थो हीयते ।” न हि पराभिमतोऽभावः सर्वसामर्थ्यरहितः साधनं कस्यचिद् भवति । अस्मदभिमतस्त्वभावः परतन्त्रो भावाधिकरण एव, नानधिकरणो नाप्यभावाधिकरण इत्यर्थः ।

एवं कालस्य बाधकप्रमाणाभावमुक्त्वा साधकं प्रमाणमाह—“परापरादीति ।” स्वयं विद्यमानयोरनियतदिग्देशयोः समानदिक्कयोर्वा देशतः सन्निकृष्टविप्रकृष्टयोर्वा विप्रकृष्टसन्निकृष्टयोर्वा युवस्थविरयोरेकस्मिन् शरीरावस्थाभेदानुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयबहुत्वान्तरितजन्मनि स्थविरे युवानं शरीरावस्थाभेदानुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयाल्पत्वान्तरितजन्मानमवधिं कृत्वा विप्रकृष्टबुद्धिरुत्पद्यते । तामपेक्ष्य बहुतरसवित्र्युदयास्तमयविशिष्टेन कालप्रदेशेन योगाद् वर्षीयसि परत्वस्योत्पत्तिः । एवं वर्षीयांसमवधिं कृत्वा यवीयसि सन्निकृष्टबुद्धिरुत्पद्यते । तामपेक्ष्याल्पतरदिनकरोदयास्तमयप्रचयविशिष्टेन93 काल प्रदेशेन योगाद् यवीयस्यपरत्वोत्पत्तिः । एतयोश्च कालपिण्डसंयोगयोः प्रत्यक्षत्वं न लोकसिद्धम् । ते एते परापरत्वे कालपिण्डसंयोगादुत्पद्यमाने कालकारणविशिष्टमात्मानं कार्यतया गमयतः । सूर्योदयास्तमयक्रिया प्रचयाल्पत्वबहुत्वविशिष्टात् पिण्डादेव परत्वापरत्वे भविष्यतः, कृतमत्र द्रव्यान्तरेण कालेनेति चेत् ? न । सवितृसमवेतायाः क्रियायाः पिण्डेनासम्बन्धात् । संयुक्तसमवायस्त्वस्याः सम्बन्धः कालेन सर्वगतेनास्ति । न चाकाशं सर्वगतमपि परापरव्यतिकराय कल्पते94 तस्य स्वरूपेणाभेदात् । अपि चाकाशात्मानौ न परापरव्यतिकरकारणम् असाधारणगुणयोगित्वात्, पृथिव्यादिवत् । तस्मात् परापरव्यतिकरकारणे कल्पनीये । ते च द्रव्यमपारन्त्र्यादाकाशवत् । ते दिक्काला उच्येते । एवं यौगपद्यायौगपद्यचिरक्षिप्रप्रत्यया अपि काललिङ्गम् । न ह्येते क्रियायां तत्कारकेषु वा भवितुमर्हन्ति, तेषु सत्स्वपि कादाचित्कत्वात् । नन्वयं कालोऽपि नित्य इति तस्मिन् सत्यप्येते कादाचित्काः कथं कालकारणमपि ? यद्युच्येत एकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियायुगपदनेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियाः क्रमवत्योऽयौगपद्यप्रत्ययगोचरः, एवं बहुतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया चिरप्रत्ययगोचरः, अल्पतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया क्षिप्रप्रत्ययगोचर इति । कृतं तर्हि सूर्यपरिस्पन्दस्य कालावच्छेदेन । नन्वयं साक्षादेव क्रियामवच्छेत्स्यतीति । तथा च युगपदादिप्रत्यया भविष्यन्तीति ? तन्न, सूर्यपरिस्पन्दस्य क्रियाभिः सम्बन्धाभावेन तदवच्छेदकत्वानुपपत्तेः । न चाकाशादिसम्बन्धद्वारेणास्य95 तदवच्छेदकत्वम् । तथा हि नाकाशादयः क्रियायौगपद्यादिप्रत्ययनिमित्तम् असाधारणगुणयोगित्वात् घटवत् ।

एवं यौगपद्यादिप्रत्यया न दिक्कारणका दिग्देशनियमानपेक्षणात् कालपिण्डसंयोगजपरत्वापरत्ववदिति । तस्मात् सूर्यपरिस्पन्दस्य देवदत्तादिपरिस्पन्दस्य चास्ति कालेन सर्वगतेन संयुक्तसमवायलक्षणः सम्बन्धः । एतया च द्वारा परिस्पन्दयोरप्यस्ति सम्बन्ध इति । कालसम्बन्धानपेक्षमेव च सूर्यपरिस्पन्दावच्छिन्नस्य देवदत्तादिपरिस्पन्दस्य ग्रहणमुपपद्यते । यथा दण्डीति शब्दाद् दण्डावच्छिन्नं पुरुषं प्रतीत्य तदन्यथानुपपत्त्या पश्चाद् दण्डपुरुषयोः संयोगभेदोऽवगम्यते, न च सम्बन्धज्ञानपुरःसरं दण्डिविज्ञानम् । एवं परत्वापरत्वे अपि कालपिण्डसंयोगनिबन्धने गृहीत्वा कालोऽनुमीयते, न तु कालज्ञानपुरःसरं तज्ज्ञानम् । तत्सिद्धमरूपतया कालोऽप्रत्यक्षश्च परत्वापरत्वाद्यनुमेयश्चेति । तस्मात् सुष्ठूक्तम्—“परापरादिप्रत्ययानां चेति । कार्यकारणविशेषापेक्ष” इति । कार्यस्य परापरादेः, तत्प्रत्ययस्य च यः कारणविशेषो बहुतराल्पतरातीततपनपरिस्पन्दावच्छिन्नकालपिण्डसंयोगः तदपेक्षः काल एकोऽपि परापरादिप्रत्ययहेतुः परापरत्वलक्षणगुणोत्पादनद्वारेणेति वर्तते कारकव्यङ्गः कालः । तस्य निष्पन्नतया व्यक्तिसाधनत्वोपपत्तेः । न तु क्रियाव्यङ्गः, तस्याः साध्यतया असिद्धत्वाद् व्यक्तिं प्रति हेतुभावाभावात् । तथा चातीतानागतमात्रदर्शनाद् वर्तमानाभावेन न त्रैकाल्यविषयमनुमानम् । तयोश्च पितापुत्रवत् परत्वापरत्ववद् ह्रस्वदीर्घत्ववच्च परस्परापेक्षा सिद्धिरन्तरेणापि वर्तमानं कालमिति पूर्वः पक्षः ॥ ३९ ॥

तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥ २ । १ । ४० ॥

नातीतादिरूपता कालस्य कारकव्यङ्ग्या, तयोस्तादवस्थ्यात्, अपि तु क्रियाव्यङ्ग्या । तां खलूररीकृत्य प्रवर्तमानानयमतीतानागतवर्तमानान् प्रतिपद्यते नान्यथा । यदा खल्वयं पुरुषः फलं प्रवर्तमानपतनक्रियाविशिष्टं प्रतिपद्यते, तदा व्यपदिशति पतति फलमिति । तन्मूले चास्यातीतानागतत्वे अपतत् फलं पतिष्यतीति । न च वर्तमानं पतनमसिद्धम् येन न कालं व्यञ्ज्यात् । तदसत्त्वे कस्येदं कारणं गुरुत्वं कस्य च फलं कारकं कस्य च फलं भूमिसंयोगः कार्यम्96 । न च परत्वापरत्वादीनामपि सिद्धिः परस्परापेक्षा । किं तर्हि ? सन्निकृष्टबुद्ध्यपेक्षमपरत्वम्, विप्रकृष्टबुद्ध्यपेक्षं परत्वम् । पूर्वसङ्ख्यावच्छिन्नता च संयुक्तसंयोगानां सन्निकर्षः, परसङ्ख्यावच्छिन्नता च विप्रकर्षः । एवं ह्नस्वदीर्घत्वे अपि परिमाणभेदौ न परस्परापेक्षौ । पितापुत्रौ च प्रमाणप्रमेयव्याख्यया व्याख्यातौ । तस्मादतीतानागतयोर्वर्तमानसापेक्षत्वाद् वर्तमानस्य तदनपेक्षत्वादस्ति त्रैकाल्यमिति सिद्धान्तः ॥ ४० ॥

नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ २ । १ । ४१ ॥

“भाष्यम्—अथापीति” कस्मादतीतानागतावितरेतरापेक्षौ न भवतः कृतं वर्तमानेनेति शङ्कां सूचयति । तन्निराकरणाय “सूत्रम्—नाती…द्धिः ।”

परस्परापेक्षसिद्धेः किल वर्तमानाभावः । सैव तु नास्तीति “सूत्रा”र्थः । “कया युक्त्येति” प्रश्नः । उत्तरम्—“केन कल्पेन” प्रकारेण “अतीतः ?” तदनेन वर्तमानाभावेऽतीतस्वरूपाक्षेपः कृतः । ह्नस्वदीर्घत्वादीनां परस्परापेक्षसिद्धित्वमङ्गीकृत्याह“तन्नोपपद्यते विशेषहेत्वभावादिति ।” परमार्थतस्तु न चेतरेतरापेक्षा ह्नस्वदीर्घत्वादीनामपि सिद्धिरिति ।

स्वकीयां युक्तिं वार्त्तिककार आह—“न च वर्तमानकालानभ्युपगमे पतत इतीति” ॥ ४१ ॥

वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥ २ । १ । ४२ ॥

वक्ष्यमाणसूत्रावतारणपरं “भाष्यम्—अर्थसद्भावव्यङ्ग्यश्चायमिति ।” अस्यार्थः, न केवलं पतनादिक्रियाव्यङ्ग्यो वर्तमानः कालः, अपि त्वर्थसद्भावोऽर्थस्य सत्ता अस्तिक्रियेति यावत् । तया व्यङ्ग्यः कालः । एतदुक्तं भवति—पतनादयः क्रिया वर्तमानेष्वपयान्त्युपयन्ति च । अस्तिक्रिया तु सर्ववर्तमानव्यापिनी । तदेवमस्तिक्रियाविशिष्टस्य वर्तमानस्याभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ।

“वर्त…त्तेः । न चाविद्यमानं” तस्य विवरणम् “असदिति । न चायं” वर्तमानाभाववादी “विद्यमानं सत् किञ्चिदनुजानाति ।”

अत्र “वार्त्तिककारः” पृच्छति—“कथं पुनरिति ।” न हि सर्वं प्रत्यक्षं वर्तमानविषयमतीतानागतयोरपि योगिप्रत्यक्षत्वादिति भावः । उत्तरम्—“यस्मादिति ।” नातीतानागतविषयतया प्रत्यक्षानुपपत्तिं ब्रूमः, अपि त्वतीतानागताधारतयेत्यर्थः । “भाष्यम”पि वर्तमानाभावे “प्रत्यक्षनिमित्तं” सन्निकर्षः अस्मदादि“प्रत्यक्षविषयः” विद्यमानो घटादिः प्रत्यक्षं प्रमाणमनाधारं सत्सर्वं नोपपद्यत इति द्रष्टव्यम् ॥ ४२ ॥

कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥ २ । १ । ४३ ॥

अत्र “भाष्यम्—उभयथा वर्तमानो गृह्यत” इति । तदवतार्य व्याचष्टे “वार्त्तिककारः—उपपन्नः सन् द्वेधा भिद्यत” इति । क्वचित् क्रियामात्रव्यङ्ग्यः, यथास्तिति । क्वचित् क्रियासन्तानव्यङ्ग्यः पचति छिनत्तीति । अत्र हि पूर्वापरीभावः प्रतीयते । न च प्रतिक्षणमपवर्गवतः कर्मणः एकस्य पाकस्य वा छेदनस्य वा अस्ति पूर्वापरीभाव इति कर्मसन्तान आस्थेयः । सोऽपि चैकमुपसङ्ग्राहकमन्तरेण न भवत्यत उक्तं “भाष्यकृता—एकार्था क्रिया क्रियासन्तान” इति, एकप्रयोजनावच्छिन्नेत्यर्थः । अत्र चाधिश्रयणादयो भवन्तु पच्यर्थाः । यथाह “महाभाष्यकारः”—तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा युक्तं यत् तत्सर्वं पच्यर्थ इति । रूपादिपरावृत्तिमात्रार्थत्वं वास्तु पचेः । आख्यातार्थः सर्वोऽयमध्येषणादिर्भवतु भावनाभिधानः । नोभयथापि काचिदस्ति दर्शनक्षतिः । अनागताद् व्यवच्छिनत्ति—“नानारम्म इति ।” अनारम्भः अननुष्ठानं न विवक्षितम् । यथा पक्ष्यतीत्यत्रेत्यर्थः । अतीताद् व्यवच्छिनत्ति—“नोपरमो” विवक्षित इति । यथा अपाक्षीदित्यत्रेत्यर्थः । “सन्तानारम्भविवक्षायामिति ।” आरम्भोऽत्र चिकीर्षाभिधीयत इति न विरोधः । तदेवं वर्तमानं क्रियासद्भावमुक्त्वा तत्सम्बन्धव्यङ्ग्यां कारकस्य वर्तमानतामाह—“यच्चेदं छिद्यमानमिति तत् क्रियमाणं” वर्तमानक्रिया सम्बन्धेन वर्तमानं न तु स्वरूपत इत्यर्थः ।

तस्य च कारकस्य वर्तमानक्रियासम्बन्धमतीतानागतानपेक्षमपेक्ष्यातीतानागतत्वे क्रियायाः कारकस्यापि तद्भावव्यक्तिः, तद्धेतुकं च द्वैविध्यमिति प्रतिपादनपरं “सूत्र”मवतारयति—“तस्मिन् क्रियामाणे”—

“कृत…णम् । भाष्यम्”—आरब्धः अभीष्टफलोरीकरणेन “क्रियासन्तानः” पचतीति । वक्ष्यमाणासम्पृक्ततोपयोगितया क्रियासन्तानस्वरूपमाह—“तत्रेति” क्रियासन्ताने । ननु विद्यत इत्यत्रापि पूर्वापरीभावावगमादतीतानागताभ्यां । सम्पर्क97 एवेत्यत आह “वार्त्तिककारः—अत्र हि केवल” इति । शब्दमाहात्म्यात् सम्पर्को न वास्तवः, वास्तवं तु वर्तमानत्वमेव । अत एवाह—“केवलः शुद्धः” इति । पर्यायाभिधानमात्यन्तिकं सम्पर्काभावं दर्शयति । यदि च क्वचिन्मुख्यं वर्तमानत्वं नाभ्युपेयते, ततस्तत्पूर्वको भाक्तोऽपि वर्तमानप्रयोगोऽपि न स्यादित्यत आह—“अन्यश्च लोक” इति ॥ ४३ ॥

॥ वर्तमानपरीक्षाप्रकरणम् ॥

उपमानपरीक्षाप्रकरणम्

अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः ॥ २ । १ । ४४ ॥

यथा गौरेवं गवय इत्यतिदेशवाक्यार्थस्मृतिसहकारि सारूप्यदर्शनं साध्यस्य गवयोऽयमिति सञ्ज्ञासञ्ज्ञिसम्बन्धस्य साधनमुपमानम् । तच्चेदं नोपपद्यते विकल्पानुपपत्तेः । किं यथा गौरेवं गवय इति गवात्यन्तसाधर्म्यं विवक्षितम् तथा सति गवान्तरमेव गवयः स्यात् । तदिदमाह “भाष्यकारः—न चैवं भवति यथा गौरेवं गौरिति ।” चो यस्मादर्थे । यस्माद्98 यथा गौरेवं गवय इति वाक्यस्यार्थो न भवति यथा गौरेवं गौरिति । गवा प्रायसाधर्म्यादपि गवयोपमानं न सिध्यति महिषस्यापि गवा भूयःसाधर्म्यस्य विद्यमानत्वेन तस्यापि गवयाभिधानप्रसङ्गात् । तदिदमाह—“न हि भवति यथानड्वानेवं महिष इतीति ।” यथानड्वानेवं गवय इत्यस्य वाक्यस्यार्थो यथानड्वानेवं महिष इति यस्मान्न भवति । एकदेशसाधर्म्याद् गवा गवयोपमानं99 न भवति, एकदेशोपमानस्यैवानुपपत्तेरतिप्रसङ्गात् । तदिदमाह—“न हि सर्वेण सर्वमुपमीयते ।” तथा सति सुमेरोरपि सर्षपेणोपमानप्रसङ्गात् ॥ ४४ ॥

प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ २ । १ । ४५ ॥

प्रकरणाद्यपेक्षं हि वाक्यं स्वार्थं प्रतिपादयति, न केवलम् । तद्वशाच्च क्वचिदत्यन्तसाधर्म्यं प्रतीयते, क्वचिद्भूयःसाधर्म्यं, क्वचिदेकसाधर्म्यम् । तदिदं प्रतीतमहिषादिकं पुरुषं प्रति यदा यथा गौरेवं गवय इति वाक्यमुच्चार्यते तथा महिषादिपरिहाण्या100 भूयःसादृश्यं विवक्षितमित्यवगम्य तद्101 वाक्यार्थं स्मरन् महिषादिषु वने गोसाधर्म्यं पश्यन्नपि न गवयसञ्ज्ञां निवेशयति, अपि तु भूयःसाधर्म्यवति गवय एव तां निवेशयति । यस्त्वप्रतीतमहिषादिस्तं प्रति एतद्वाक्यमुपमानं न भवत्येवेति परमार्थः । यथा च प्रकरणादिवशादत्यन्तप्रायैकदेशसाधर्म्यमाश्रित्यातिदेशवाक्यानि प्रवर्तन्ते तथा चोक्तं “वार्त्तिककृता ।”

“न साधर्म्यस्येत्यादि भाष्यं” नियमं निषेधति । न साधर्म्यस्य कृत्स्नभावमेव वा प्रायोभावमेव वा अल्पभावमेव वा आश्रित्योपमानमतिदेशवाक्यं102 प्रवर्तते । किं तर्हि ? “प्रसिद्धसाधर्म्याद्” हेतोः “साध्यसाधनभावमाश्रित्य” उद्दिश्येति । एतदुक्तं भवति । न नियमः, किं तु क्वचित् किञ्चित् साधर्म्यमाश्रित्यातिदेशवाक्यं प्रवर्तते । तच्च प्रकरणाद्युन्नेयमिति । “अनभ्युपगमादिति” च “वार्त्तिकं” नियमाभिप्रायमेव । “तत्क्रिययैव” तत्क्रियान्तरमित्यर्थः ॥ ४५ ॥

प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥ २ । १ । ४६ ॥

यथा गौरेवं गवय इति हि वाक्यं प्रत्यक्षेण गवा गवयमप्रत्यक्षं103 प्रतिपादयति । न खलु श्रुतवाक्योऽपि यदा प्रत्यक्षेण गवयं पश्यति तदा वाक्यार्थावगमादधिकं किञ्चित् प्रतिपद्यते । सञ्ज्ञासञ्ज्ञिसम्बन्धोऽप्यनेन वाक्यादेवावगतः । तस्मात् प्रत्यक्षेण गवा अप्रत्यक्षस्य104 गवयस्य गवयसञ्ज्ञाविशिष्टस्य प्रतीतेरुपमानस्यानुमानतेति पूर्वः पक्षः ॥ ४६ ॥

नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ॥ २ । १ । ४७ ॥

सिद्धान्तस्तु—“ना…मः ।”

गवयत्वं हि सञ्ज्ञि । न च तद् यथा गौरेवं गवय इति वाक्यात् प्रतीयते । अपि तु कस्यचिद् गवा सादृश्यम् । न च वाक्यगतो गवयशब्दस्तस्य वाचकः तथा तदानीमगृहीतसङ्गतित्वात् । न च सादृश्यं सञ्ज्ञि । तस्मात् प्रत्यक्ष एव गवये गवयत्वस्य प्रत्यक्षत्वात् सञ्ज्ञासञ्ज्ञिसम्बन्धपरिच्छेदः प्रमाणार्थः । उपपादितं चैतदुपमानलक्षणे । तस्मादप्रत्यक्षो गवयः प्रत्यक्षेण गवा प्रतीयत इति सिद्धमित्यर्थः ।

पूर्वपक्षवाद्याह—“परार्थमुपमानमिति” चेत् मन्यसे सिद्धान्तवादिन्, तत् न अस्ति । कुतः ? “स्वयमध्यवसायात् ।” एवं हि परार्थं स्याद् यथा गौरेवं गवय इति वाक्यं यदि परस्यैवाध्यवसायं जनयेत्, यावतोच्चारयितुरप्यध्यवसायं जनयति । तस्मात् स्वार्थमपीत्यर्थः । एतदेव दर्शयति “भाष्यकारः—भवति भोः स्वयम्” अप्युच्चारयितुर्वाक्याद् “अध्यवसाय” इति । सिद्धान्तवाद्याह—“नाध्यवसाय” उच्चारयितुः “प्रतिषिध्यते,” उपमानं तु उच्चारयितारं प्रति न भवति । कुत इत्यत आह— “प्रसिद्धसाधर्म्यादिति” ॥ ४७ ॥

तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥ २ । १ । ४८ ॥

“वार्त्तिकं” तु परार्थत्वेनानुमानादुपमानभेदमाह—“परार्थत्वाच्चेति ।” ननु प्रत्यक्षं सारूप्यज्ञानमुपमानम्, न चैतत् परार्थमित्यत आह—“न हि यथा गौरिति ।” अस्तु तर्हि वाक्यमेवेत्यत आह—“न ह्यागमेति ।” भिन्नयोरप्यनुमानोपमानयोरेतावन्मात्रेण साधर्म्यमित्युपसंहारव्याजेनाह—“तस्माद् यथेति ।” अतिरोहितमितरत् ॥ ४८ ॥

॥ इत्युपमानपरीक्षाप्रकरणम् ॥

शब्दसामान्यपरीक्षाप्रकरणम्

शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥ २ । १ । ४९ ॥

अत्र हि “सूत्रकारेण” प्रथममनुमानान्तर्गतिः परीक्षिता । न चापरीक्षितप्रमाणभावस्य सा युक्तेति “वार्त्तिककारः” प्रथममस्य प्रमाणभावमेव परीक्ष्यते । “तस्याक्षेपः, न शब्दः प्रमाणमिति ।” यस्मिन् सति प्रमा भवत्येव न न भवति,105 तत्प्रमाणं साधकतमस्य करणत्वात् । सत्यपि शब्दे प्रमा न भवतीति तस्य साधकतमत्वं विघटयति—“विषयाभावाच्चेति ।” प्रामाण्यं हि विषयवत्तया व्याप्तम् । सा शब्दान्निवर्तमाना प्रामाण्यमपि निवर्तयति, वृक्षतेव निवर्तमाना स्वव्याप्यं शिंशपात्वम् । द्विविधश्च विषयः प्रत्यक्षः परोक्षश्च । तत्र पूर्वः प्रत्यक्षस्य प्रमाणस्य विषयः । अप्रत्यक्षश्चाविनाभूताल्लिङ्गादवगन्तव्यः । तदनपेक्षणेऽसम्बन्धाविशेषात् सर्वे सर्वस्माद् गम्येत । तथा च सर्वः परोक्षार्थप्रत्ययोऽनुमानव्याप्तः । न च प्रत्यक्षपरोक्षाभ्यामन्यो राशिरस्ति । तस्माद् विषयाभावदपि न शब्दः प्रमाणमिति ।

“यत् तावत् सत्यप्यप्रमितेरिति, तन्न असिद्धत्वादिति ।” न शब्दमात्रं प्रमाणमपि तु गृहीतः स्मर्यमाणसम्बन्धश्च । न चेदृशे शब्दे सति प्रमा न भवति । यादृशे तु सति प्रमा न भवति, नासौ प्रमाणमित्यर्थः । “तन्महत्प्रत्ययकर्तृत्वादिति ।” महत्त्वपरिमाणं हि महतो विशेषणम् । तज्ज्ञानं विशेष्ये106 महति प्रमाणम् ।

तदेवं सिद्धप्रमाणभावस्य शब्दस्यानुमानादभेदं परीक्षमाणः पूर्वपक्षयति“अनुमानं शब्द” इति ।

“शब्दो…त्वात् ।” यज्ज्ञानं प्रत्यक्षेणानुपलभ्यमानार्थविषयं प्रत्यक्षस्य पश्चादुपजायते तदनु—मावम्, यथाग्निमद्धूमज्ञानम्, तथा च शब्दज्ञानं तस्मादनुमानमित्यर्थः ॥ ४९ ॥

उपलब्धेरद्विप्रवृत्तित्वात् ॥ २ । १ । ५० ॥

अद्विप्रवृत्तिकत्वं प्रकारभेदरहितत्वं प्रत्यक्षानुमाने तु परोक्षापरोक्षावगाहितया प्रकारभेदवती इत्यर्थः ॥ ५० ॥

सम्बन्धाच्च107 ॥ २ । १ । ५१ ॥

आप्तोपदेशसामर्थ्यात् शब्दादर्थसम्प्रत्ययः ॥ २ । १ । ५२ ॥

सिद्धान्तस्वरूपमुपक्रमते—“यत् तावदिति । एतेन” संशयादिषु व्यभिचारेण । तेऽपि हि त्रिकालविषया इति । अन्वयव्यतिरेकोपपत्तिमात्रं प्रत्यक्षेऽप्यस्ते । प्रत्यायनाङ्गान्वयव्यतिरेकज्ञानं तु अन्यादृशं शब्दे, अन्यादृशं चानुमाने । तद्धि पक्षधर्मताद्यपेक्षमनुमाने, शब्दे तु तदनपेक्षमित्यत्र “सूत्रं” भवति—“आप्तो…यः ।”

यो ह्मत्यन्तादृष्टपूर्वः स्वर्गापूर्वदेवतादिः स वाक्यार्थरूपः । तथा हि

यन्न दुःखेन108 सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्109

इति स्वर्गो वाक्यार्थः । एवमपूर्वमपि । तत् खलु स्वर्गनरकादिभोगहेतुः पुरुषविशेषगुणः कालान्तरावस्थायी स्वफलविरोधीति110 वाक्यार्थ एव । एवं देवताऽपि । सा हि सूक्तहविर्भागिनी सहस्राक्षाद्युपेतदेहादिमती वाक्यार्थ एव । न चैष111 शब्दादृतेऽस्मदादिप्रत्यक्षादिगोचरः । न चागृहीतसम्बन्धं लिङ्गमस्मिन् प्रवर्तितुमर्हति । न चागृहीते सम्बन्धिनि शक्यग्रहः सम्बन्धः । पदं तु यद्यपि पदार्थसङ्गतिसंविदमपेक्षते यद्यपि च पदार्थ एव पदार्थान्तरविशिष्टो वाक्यार्थः, तथापि वाक्यार्थे स्वर्गादौ पदार्थस्मरणद्वारेण प्रवर्तमानं सङ्गतिग्रहानपेक्षमेव स्वर्गरूपवाक्यार्थं प्रतिपादकानि च पदानि कुर्वन्ति, लोकसिद्धं सुखजातीयमुद्दिश्य लोके सिद्धैरेव दुःखाद्यसम्भेदैर्विशिष्टं स्वर्गपदवाच्यं प्रतिपादयन्ति, नापदार्थं वाक्यार्थीकुर्वन्ति । वाक्यार्थे च पदवचनं स्वर्ग इति यथा । श्रोत्रियश्छन्दोऽधीत112 इति । यथा च चक्षुरादयो रूपादिष्वगृहीतसङ्गतयः प्रवर्तन्ते, एवं पदार्थसङ्गतिग्रहापेक्षाण्यपि पदानि वाक्यार्थावबोधने न सङ्गति ग्रहमपेक्षन्ते, कार्यव्यङ्ग्यत्वात् प्रमाणभावस्य, सङ्गतिग्रहापेक्षेभ्योऽपि च पदेभ्यो113 वाक्यार्थावबोधकार्यदर्शनात् । तस्मान्न पदं तदर्थो वा वाक्यार्थावबोधे लिङ्गं तत्र सम्बन्धग्रहानपेक्षत्वाद् रूपादिबोधे चक्षुरादिवत् ।

स्यादेतत् । माभूत् प्रत्यक्षतोदृष्टमनुमानं वाक्यार्थे, सामान्यतोदृष्टं भविष्यति । यद्यपि च वाक्यार्थे साध्ये पदानामपक्षधर्मत्वं, यद्यपि च पदस्मारिताः पदार्था व्यभिचारिणः तथाप्याकाङ्क्षायोग्यतासत्तिविशेषणाः पदार्थाः स्वसंसर्गे लिङ्गं भविष्यन्ति । तथा हि यन्न दुःखेनेत्यादिभिः पदैः स्मारिताः पदार्था गुणप्रधानभावेनावस्थिताः संसर्गवन्तः आकाङ्क्षायोग्यतासत्तिमत्त्वे सति पदैः स्मारितत्वात् गामभ्याजेत्यादिपदस्मारितपदार्थवत् । संसर्गस्य च संसृज्यमाना एव विशेषो न पुनराजानतोऽस्ति कश्चिद् भेदः114 । संसृज्यमानाश्च पदैरेव स्मारिता इति संसर्गविशेषप्रतिलम्भः115 । स एव च वाक्यार्थ इति सिद्धमानुमानिको वाक्यार्थ इति । गामभ्याजेत्यत्र पदार्थानां संसर्गवत्त्वं च वाक्यश्रवणसमनन्तरप्रयोज्यवृद्धप्रवृत्त्यनुमितपदार्थसंसर्गप्रत्ययादवगतम् । तदेतदचतुरस्रम् । पदानामेव पदार्थस्मारणावान्तरव्यापाराणां वाक्यार्थप्रमां प्रति करणतया प्रमाणत्वात् तेषां चापक्षधर्मतया लिङ्गत्वानुपपत्तेः116

यदि तु पदानि पदार्थमात्रपर्यवसितवृत्तीनि न वाक्यार्थप्रत्यायनपराणि117 स्युः, ततो न पदार्थानामाकाङ्क्षा अस्तीति वाक्यार्थप्रत्ययो न भवेत् । न खल्वाकाङ्क्षां विना सन्निधियोग्यताभ्यामेव पदार्थाः संसृज्यन्ते, यथा अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र पुत्रसम्बन्धेन निराकाङ्क्षो राजा न पुरुषेण सम्बध्यते । न च पदानां वाक्यार्थप्रत्ययपरत्वमन्तरेण तत्स्मारितानां पदार्थानामाकाङ्क्षास्ति । न हि यद् येन विना न भवति तत् तदाकाङ्क्षति, येन कारकं क्रियामपेक्षेत द्रव्यं वा गुणम् । तथा सति पटो भवतीति वाक्यं न निराकाङ्क्षं स्यात्, पटस्य गुणाकाङ्क्षित्वात् । तस्माद् रक्तः पटो भवतीत्यस्यैकदेशः पटो भवतीति साकाङ्क्षत्वादप्रमाणम् । एवं केवलं पटो भवतीत्यपि वाक्यं साकाङ्क्षं स्यात्, न चैवमस्ति । पटो भवतीति हि वाक्यं यं कञ्चिद् गुणं गृहीत्वा अनाकाङ्क्षं प्रमाणमेव । यदा118 पुना रक्तः पटो भवतीत्यस्यैकदेशो, यं कञ्चिद् गुणमाक्षिप्य निराकाङ्क्षः, एवं हि विभागे सति निराकाङ्क्षत्वेन वाक्यभेदः स्यात् । रक्त इत्यपि हि वाक्यं यं कञ्चिद् गुणिनं क्रियां च यां काञ्चिदाक्षिप्य निर्वृणुयात् । न च विशेषदर्शने सति नाक्षेप इति युक्तम् । एकवाक्यतायां सत्यां विशेषदर्शनेऽनाक्षेपः । विशेषदर्शनेऽनाक्षेपे च सत्येकवाक्यतेत्यन्योन्याश्रयापत्तेः । तस्माद् वाक्यार्थप्रतिपादनपरसमभिव्याहृतपदकदम्बस्मारितत्वेनापर्यवसानमेव पदार्थानामाकाङ्क्षेति युक्तमुत्पश्यामः । तथा च पटो भवतीत्येतावन्मात्रं निराकाङ्क्षं यं कञ्चिद् गुणमाक्षिप्य निर्वृणेति । रक्तः पटो भवतीत्यत्र तु रक्तपदस्यापि समभिव्याहारात् पटादिसंसर्गपरत्वमिति पटादिसंसर्गमन्तरेण रक्तत्वमपर्यवस्यत् पटादयश्च रक्तत्वसंसर्गं विनापर्यवस्यन्तः परस्परसम्बद्धा भवन्तीति सिध्यत्येकवाक्यता । तस्मात् पदान्येव पदार्थस्मारणेन तत्संसर्गं लक्षयन्ति वाक्यार्थे प्रमाणम् । तेषां चापक्षधर्मतया न लिङ्गत्वम् ।

स्यादेतत् । अयं पदकदम्बकविशेषः स्मारितपदार्थसंसर्गवान् आकाङ्क्षादिमत्त्वे सति पदकदम्बत्वात् गामभ्याजेतिपदावलीवदिति नापक्षधर्मता । नैवम्, अन्योन्याश्रयापत्तेः । कर्मकारकं हि फलादन्यद् वस्तुतः सिद्धं ज्ञानलक्षणाय फलाय कल्पते । यथा अग्निमत्ता धूमस्य पर्वतस्य वाग्निसंयोगः, न त्वग्निज्ञानजनकत्वं तद्वत्ता । फलव्यङ्ग्यं हि तन्नानुपजाते फले कल्पते । तथा च फलोपजनने सत्यग्निमत्ता तद्वत्तायां च कर्मणि फलोपजननमित्यन्योन्यसंश्रयापत्तिः । न च फल कर्मणोरैक्यम् । न हि वृक्ष एव छिदा भवति । तदिह संसर्गवत्त्वं पदानां तज्ज्ञानजनकत्वं नानुमानसाध्यं भवितुमर्हति । न ह्यग्निज्ञानजनकत्वं धूमस्यानुमानसाध्यमित्युक्तम् । स्मृतिजनकत्वमप्येषां वाक्यार्थप्रत्यायनाय कल्पितं न सम्बन्धान्तरं व्यनक्तीति । तत् सिद्धमेतत् न पदानि वाक्यार्थबोधे लिङ्गम् अपक्षधर्मत्वान्मनोवदिति ।

अपि च लौकिक एवार्थः परीक्षकैरनुगम्यते । न तु स्वकृतलक्षणानुरोधेनालौकिकमास्थीयते । न च क्लेशेन कयाचित् प्रणाड्या पक्षधर्मतां कल्पयित्वा लोकः पदेभ्यो वाक्यार्थमवगच्छति, अपि तु स्वतन्त्रेभ्य एव तेभ्य इति सिद्धः शब्दस्य प्रमाणस्यानुमानाद् भेदः । आप्तोक्तत्वं तु स्वर्गादिप्रतिपादकस्यागमस्य प्रामाण्ये लिङ्गमेव । न चैतावता तदर्थ आनुमानिको भवति । न हि प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य प्रत्यक्षस्य विषयो भवत्यानुमानिकः । अर्थविषयं हि प्रमाणं प्रामाण्यविषये च प्रवृत्तिसामर्थ्याप्तोक्तत्वे इति । एवं व्यवस्थिते अभ्युच्चयमात्रतया “भाष्यवार्त्तिककार”भ्यामाप्तोक्तत्वाश्रयत्वानाश्रयत्वे शब्दानुमानभेदहेतुतयोपन्यस्ते इति मन्तव्यम् । “एतेन” प्रवृत्तिभेदकथनेन “अद्विप्रवृत्तिकत्वं व्याख्यातम्” निराकार्यतया ।

सम्बन्धात् प्रतिपत्तेरनुमानं शब्द इति यदुक्तं पूर्वपक्षिणा तदनुभाष्य दूषयति— “यत्पुनरेतदिति । अस्येदमिति षष्ठीविशिष्टस्येति भाष्यम् ।” तस्य व्याख्यानम्“वाच्यवाचकमाव” इति । स्वाभाविको हि शब्दार्थयोः सम्बन्धस्त्रेधा119 स्यात् तादात्म्यलक्षणो वा प्रत्याय्यप्रत्यायकभावो वा प्राप्तिलक्षणो वा । तत्राव्यपदेश्यपदेन प्रत्यक्षलक्षणस्थेन तादात्म्यमपाकृतम् । शब्दार्थयोः प्राप्तिनिराकरणहेतुना चोपरिष्टादौत्पत्तिकः प्रत्याय्यप्रत्यायकभावो निराकरिष्यते । तेन प्राप्तिं निराकरोति “भाष्यकारः—प्राप्तिलक्षणस्त्विति ।” एकेन्द्रियग्राह्ययोर्हि120 प्राप्तिः प्रत्यक्षा यथाङ्गुल्योः न तु शब्दार्थयोरेकेन्द्रियग्राह्यता, तस्मान्नानयोः प्राप्तिः प्रत्यक्षगम्या, वायुवनस्पत्योरिवेत्यर्थः । ननु शब्दशब्दस्यार्थः समानेन्द्रियग्राह्य एव, तत् कथं “येनेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतीतोऽर्थ” इति । अत आह—“अस्ति चातीन्द्रियविषयभूतोऽपीति ।” शब्दग्राहकेन्द्रियमतिपतित इन्द्रियमात्रमतिपतितश्चातीन्द्रियः स च विषयभूतश्चेति कर्मधारयः ।

तदेतद् “यस्माच्छब्दस्येति वार्त्तिकेनं” व्याख्यातम् ॥ ५२ ॥

पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ॥ २ । १ । ५३ ॥

“प्राप्तिलक्षणे” चेत्यादि “भाष्यं” व्याचष्टे—“नानुमानेनापीति । उपसम्पद्यते” प्राप्नोति, गच्छतीति यावत् । “पूर…वः ॥ आगच्छन्नुपलभ्येत मोदकादिः,” न चोपलभ्यते, तस्मान्नागच्छति शब्ददेशमर्थः । “ततश्च” अस्मिन् पक्षे शब्देन “लोकव्यवहार उच्छिद्येत । अथ शब्द” इति । न तावद् गुणस्य शब्दस्य गतिरुपपद्यते । तस्मात् सन्तानवृत्त्या शब्दोऽर्थदेशं गच्छतीति वाच्यम्, तथा च नित्यत्वव्याहतिरित्यर्थः । शङ्कते—“अथ नागच्छति” इति । “भवति” विद्यत इत्यर्थः । अभूत्वा भवनं भवत्यर्थ इति मत्वा निराकरोति—“नित्यश्च भवति चेतीति ।” शङ्किता स्वाभिप्रायमाह—“अथ न गच्छतीति ।” निराकरोति—“न सर्वार्थेति ।” न हि समानदेशाः समानेन्द्रियग्राह्याः प्रति नियतव्यञ्जकव्यञ्जनीया दृष्टा इत्यभिप्रायः । “सामान्यस्याश्रयोपलब्धिर्व्यक्तिहेतुः । न च पुनः शब्दस्याश्रयोपलब्धिरस्ति” यतः शब्दो व्यज्येत, प्रत्युत शब्देनैवाश्रयो व्यञ्जनीयः स्यात् । तथा चार्थाश्रितः शब्दस्ताल्वादिभिरप्राप्तैः सर्वान् प्रति व्यक्त इत्युक्तदोषापत्तिरिति । न च शब्दस्यार्थे वृत्तिरनुभवगोचर इत्याह—“न च वाच्ये वृत्तिः । आगमात् प्रतिपत्स्यत” इति, “निरुक्तादिरागमः ।” उत्तरम्—“स एवात्रेति121 ।” निरुक्तादीनामर्थसम्बन्धे सिद्धे प्रतिपादकत्वं भवेत् । स एव तु विचार्यत इत्यर्थः ॥ ५३ ॥

शब्दार्थव्यवस्थानादप्रतिषेधः ॥ २ । १ । ५४ ॥

पूर्वपक्षवाद्याह—“शब्दा…धः” ॥ ५४ ॥

न सामयिकत्वाच्छब्दार्थ सम्प्रत्ययस्य ॥ २ । १ । ५५ ॥

सिद्धान्तवाद्याह—“न सा…स्य ।”

“न सामयिकत्वादिति । अभिधानाभिधेयनियमनियोग” इति । अभिधानाभिधेययोर्नियमो गोशब्दस्य सास्नादिमानेवार्थ एवमश्वशब्दस्य केशरादिमानेवेति, तस्मिन् नियोगो बोद्धव्य इति भगवतः परमेश्वरस्य सर्गादौ, सोऽयं समय इत्यर्थः । “तस्मिन्नुपयुक्ते” ज्ञाते शब्दार्थव्यवस्था भवति । “सम्बन्धवादिनोऽपि चायमवर्जनीय” इति । येऽपि “मीमांसका वैयाकरणा” वा स्वाभाविकं शब्दर्थयोः सम्बन्धमास्थिषत तेषामपि नैष सत्तामात्रेण गमकोऽपि तु ज्ञातः सन् । विज्ञाने चायमस्य वाचक इति वास्मादयं बोध्यव्य इति वा सङ्केत एवोपायः । वृद्धव्यवहारोऽपि गवादिशब्दानां देवदत्तादिशब्दवत् सङ्केतपूर्व एव । तद् वरमस्तु सङ्केत एव, कृतमत्र स्वाभाविकेन सम्बन्धेन तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेरित्यर्थः ।

नन्वयं समयः केषाञ्चित् शब्दानामसति स्वाभाविकेऽर्थैः सम्बन्धे न कर्तुं शक्यः । निर्दिश्य ह्यर्थं ब्रूयादयमस्माद् बोद्धव्य इति । न च निर्देशोऽसति स्वाभाविके सम्बन्धे केषाञ्चित् शब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषां शब्दानामकृतसमयत्वात् किं केन निर्दिशेत्122 ? तस्मात् सङ्केतकरणमेव स्वाभाविकसम्बन्धं प्रतिपादयति शब्दानामित्यत आह—“प्रयुज्यमानग्रहणाच्चेति ।” परमेश्वरेण हि यः सृष्ट्यादौ गवादिशब्दानामर्थे सङ्केतः कृतः, सोऽधुना वृद्धव्यवहारे प्रयुज्यमानानां शब्दानामविदिसङ्गतिभिरपि बालैः शक्यो ग्रहीतुम् । तथा हि वृद्धवचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिनिवृत्तिभयशोकहर्षादिप्रतिपत्तेस्तद्धेतुं प्रत्ययमनुमिमीते बालः । तस्य च सत्स्वप्यन्येष्वप्यर्थेषु भूतस्याभूतस्य वा श्रवणसमनन्तरं च भवतो वाक्यश्रवणहेतुतामवगच्छति तदवयवानां च पदानामावापोद्वापभेदेन तत्तदर्थप्रत्ययोपजनापायदर्शनात् तेषु तेष्वर्थेषु तेषां तेषां पदानां वाचकत्वं कल्पयति । एवं पदावयवेषु प्रकृत्यादिष्वपि123 द्रष्टव्यम् । सोऽयं वृद्धव्यवहारः साम्प्रतिकानां सङ्केतग्रहोपायः, सर्गादिभुवां तु महर्षिदेवादीनां परमेश्वरानुग्रहाद् धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां परमेश्वरेण सुकर एव सङ्केतः कर्तुम् । तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः । तद्व्यवहारपरम्परागतश्चास्मदादीनामपि सङ्केतग्रहो न सम्बन्धस्मृतिमपेक्षते, आप्तपरम्परात एव ततो निःशङ्कव्यवहारोपपत्तेः । अत एवाह “भाष्यकारः—लौकिकानामिति ।”

स्यादेतत् । यदि शब्दानां साङ्केतिकसम्बन्धो न स्वाभाविकः कृतं तर्हि साध्वसाधुविभागपरेण व्याकरणेन । स्वाभाविकं हि यस्य वाचकत्वं स साधुरसाधुश्चेतरः । सामयिकत्वे तु सर्व एव साधवोऽसाधवो वेत्यत आह—“समयपरिपालनार्थं चेदमिति” पारमेश्वरसमयपरिपालनार्थमित्यर्थः, तथा च येषां पदानां येनार्थेन परमेश्वरेण कृतः समयः, तानि तत्र साधूनि, असाधूनीतरत्रेति विभागाय “व्याकरण”मर्थवदिति सिद्धम् । अर्थरूपस्तुषो लेशोऽर्थतुषः, स नास्ति । केवलं परैः प्राप्तिलक्षणः सम्बन्धः कल्पित इत्यर्थः । तथा च स्वाभाविकसम्बन्धाभावादनुमानाभेदायाविनाभावसिद्ध्यर्थं स्वाभाविकसम्बन्धाभिधानमयुक्तमिति सिद्धम् ।

“वार्त्तिकम्—स पुनः समयः कुत” इति । यदि केचनापि शब्दा न प्रसिद्धसम्बन्धास्ततोऽशक्यप्रतीतिः समय इति भावः । उत्तरम्—“पदज्ञानात् ।” पदं ज्ञायते व्युत्पाद्यते अनेनेति व्युत्पत्या व्याकरणादित्यर्थः । ननु सर्वेषां शब्दानामविदिसङ्गतिः कथं “व्याकरणादपि” शब्दमयात्124 समयं प्रतिपद्यते125 इत्यत आह—“लोकतश्चेति ।” वृद्धव्यवहारावधृतसमयो “व्याकरणात्” साध्वसाधुविभागं च प्रतिपद्यत126 इत्यर्थः । तदेतद् विभजते—“तद्धि शास्त्रमिति ।”

एवं तावद् दृष्टेनैव समयेनोभयसिद्धेन शब्दार्थव्यवस्थापनस्योपपत्तेर्नात्यन्तापरिदृश्यमानस्वाभाविकसम्बन्धकल्पना युक्तेत्युक्तत् ॥ ५५ ॥

जातिविशेषे चानियमात् ॥ २ । १ । ५६ ॥

सम्प्रत्यनुपपन्नोऽप्ययं स्वाभाविकः सम्बन्ध इत्याह—“जाति…मात् ॥” स्वाभाविको हि सम्बन्धः कस्यचिच्छब्दस्य केनचिदर्थेनास्ति, न तु सर्वस्य सर्वेण । तथा सति शब्दार्थव्यवस्था न स्यात् । एवं चेत्127 न कृष्यार्यम्लेच्छानां नियमः स्यात् । तथा हि यवशब्द आर्यैर्दीर्घशूके पदार्थे प्रयुज्यते । ते हि यवशब्दाद् दीर्घशूकं पदार्थं प्रतिपद्यन्ते । म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते । ते हि ततः प्रियङ्गुं प्रतिपद्यन्ते । एवं त्रिवृतशब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते आर्यास्तु लताविशेषे । सोऽयमनियमो न स्वाभाविके सम्बन्धे । न हि स्वाभाविकसम्बद्ध आलोको रूपेण सहस्रेणापि शिल्पिभी रसादिसम्बद्धः शक्यः कर्तुं यतस्ततो रसादयो गम्येरन् । नापि तत्र सङ्केतेन स्वाभाविकः सम्बन्धो व्यज्यते । सदेव हि व्यज्यते नासत् । नो खलु यत्र घटो नास्ति तत्र तं प्रदीपः शक्तो व्यङ्क्तुम् । सोऽयमनियमः सामयिकत्वे उपपद्यते पुरुषेच्छाधीनत्वात् तस्याश्चानियमात् । “न तु स्वाभाविकेन”128 इति । न च वाच्यम् सर्व एव शब्दाः सर्वैरेवार्थैः स्वभावतः सम्बद्धाः सङ्केतेन तु नियम्यन्त इति प्रमाणाभावात् । जातिभेदेन चार्थभेदप्रत्यस्य सङ्केतभेदादप्युपपत्तिरिति ।

नन्वार्यदेशवर्त्तिनां म्लेच्छानामार्यव्यवहारनिश्चिसङ्केतानां नानियम इत्यत आह“वार्त्तिककारः—जातिविशेषशब्देनेति” ॥ ५६ ॥

॥ शब्दसामान्यपरीक्षाप्रकरणम् ॥

शब्दविशेषपरीक्षाप्रकरणम्

तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ २ । १ । ५७ ॥

अनुमानान्तर्भावे कदाचिदर्थाविनाभावात् भवेत् शब्दस्य प्रामाण्यम् । तद्बहिर्भावे तु सुलभमस्याप्रामाण्यमिति मत्वा अनुमानभेदाभिधानानन्तरमप्रामाण्यमाह पूर्वपक्षी— “तद…भ्यः ।”

“तस्य” इत्यादि“भाष्यम् ।” तद् “वार्त्तिककारो” व्याचष्टे—“तदित्यधिकृतशब्दाभिधानादिति ।” शास्त्रे ह्यस्मिन् निःश्रेयसाधिगमपरे तन्नान्तरीयकतया वेदप्रामाण्यव्युत्पादनमधिकृतमित्यधिकृतः शब्दो वेद इत्यर्थः ।

स्यादेतत् । अनृतत्वमप्रामाण्यमिति पर्यायः । तथा च प्रतिज्ञार्थ एव हेतुरित्यत आह—“अप्रामाण्यमर्थस्याप्रत्यायकत्वम् ।” अर्थस्येत्यविपरीतस्येत्यर्थः । पुत्रकामेष्टिकारीर्यादयो हि ऐहिकफला नामुष्मिकफलाः, ऐहिकत्वेनैव तत्फलस्य चेतनेन काम्यमानत्वात् एतच्छरीरोपभोगयोग्यत्वाच्चेति । विरुद्धार्थोपस्थापकत्वेन “सहासम्भवो” वाक्ययोर्वा पदयोर्वेति । अत्र “भाष्यकारे”णोदितहोमादिविधिवाक्यानां निन्दाभिर्व्याघात इत्युक्तम् । अधिकविवक्षया “वार्त्तिककार” आह—“अग्निहोत्रमिति ।” होमकालानामुदितादीनां निन्दया प्रतिषेधात् । ननु मध्याह्नापराह्णसायाह्नाः भविष्यन्ति होमस्य काला इत्यत आह—“न चान्य” इति । तेषामपि सर्वेषामुदितकालत्वादित्यर्थः । यस्तु उदयानन्तर एव काल उदितकाल इत्युच्यते, तथा चान्योऽस्ति काल इत्युक्ते व्याघाते न तुष्यति, तं प्रत्यन्यथा व्याघातमाह—“उदितानुदितेति ।” अग्निहोत्रं जुहोतीत्युत्पत्तिवाक्येन विहितेऽग्निहोत्रनाम्नि होमे तदनुवादेनैकं वाक्यमुदितं कालं विधत्ते । अन्यच्चानुदितकालमपरं च समयाध्युषितकालम् । न चैक एव होमस्तदा तदा शक्यः कर्तुम् । न च कालगुणानुरोधेन प्रधानहोमस्यावृत्तिर्युक्ता129 । न चोदिततादिवाक्येषु होमस्याभ्यासः श्रूयते । तस्मात् परस्परव्याघातादप्रामाण्यमेव साधीय इति । नन्वेतेऽनृतत्वादयः सर्ववेदवाक्याव्यापिन इति भागासिद्धतया हेत्वाभासता इत्यत आह—“दृष्टान्तत्वेनेति ।” अयमत्र प्रयोगः । पुत्रकामेष्टिहवनाभ्यासवाक्यानि अप्रमाणम् अनृतत्वादिभ्यः क्षणिकादिवाक्यवदिति । एवं शेषाणि वेदवाक्यानि अप्रमाणं वेदवाक्यत्वात् पुत्रकामेष्ट्यादिवाक्यवदिति । पर्युदासं साध्यमुक्त्वा तेनैव हेतुना प्रसज्यप्रतिषेधं साध्यमाह—“अग्निहोत्रादिवाक्यानां वेति ।” तदन्यद् वाक्यं पुत्रकामेष्ट्यादि ॥ ५७ ॥

न कर्मकर्तृसाधनवैगुण्यात् ॥ २ । १ । ५८ ॥

एवं पूर्वपक्षमुक्त्वा सिद्धान्तमुपक्रममाणः प्रथमं तावदनृतत्वं दूषयति—“न क …त् ।”

फलादर्शनमन्यथाप्युपपद्यमानं नानृतत्वं साधयति । ततश्चासिद्धमनृतत्वं हेतुरित्यर्थः । स्यादेतत् । इष्टेश्चोदितत्वादनपेक्षेयं पुत्रजन्मकारणमिति130 किमस्याः कर्मकर्तृवैगुण्यं करिष्यतीत्यत आह—“इष्टेः करणसाधनत्वेनेति ।” दृष्टसहकार्यदृष्टं कारणम्, न केवलम् । तद् दृष्टवैगुण्यादुपपन्नमभवनं फलस्येत्यर्थः । अपेक्षणीयं कर्तारमाह—“पितराविति ।” करणमाह—“इष्ट्येति ।” क्रियामाह—“सम्प्रयुज्यमानाविति । इष्ट्याश्रयं तावदिति भाष्यम् । समीहा” तदङ्गसमिदादिकर्मानुष्ठानम् । तस्या “भ्रेषो” भ्रंशोऽननुष्ठानमिति यावत् । “अविद्वान् प्रयोक्तेति,” विदुषामिहाधिकारः131 सामर्थ्यात् । अत+एव स्त्रीशूद्रतिरश्चामसमर्थानामनधिकारः । विद्वानपि यदि द्विजातिकर्महानिहेतुं कर्म ब्रह्महत्यादि कृतवान्, तत्कृतमपि कर्म न फलाय कल्पते कर्तृत्वे वैगुण्यादिति दर्शयति—“कपूयेति । कपूयं” निन्दितं कर्म । आचरतीत्याचरणः पुरुषः । “हविरसंस्कृतम्” अशृतमप्रोक्षितं132 वा । उपहतं श्वमार्जारादिभिः । “मन्त्रा न्यूनाः” क्रमविशेषेण । “दक्षिणा दुरागता” चौर्यद्यूतोत्कोचादेर्दुष्टादुपायादागतेत्यर्थः133 । अन्वाहार्यमिह दक्षिणा । सा ततो न्यूना वा दीयते यावत्या पुरूषो न तृप्यति । स च पुरुषाहारो जरत्तरत्वेनापाक्यतया निन्दितः । “मिथ्यासम्प्रयोगः” पुरुषायितादि । मातरि “योनिव्यापदो” नानाविधाः प्रजनप्रतिबन्धहेतवः । लोहितरेतसो बीजस्योपघात उपहतत्वम् । यतः प्रजनो134 न भवति । “मिथ्याभिमन्थनं” यतो नाग्निर्जायते ।

कर्मकर्तृवैगुण्ये आह “वार्त्तिककारः—तथेष्टेः साधयितुरिति । मन्त्राणामसामर्थादिति ।” मन्त्रादिसाधनानां पुत्रकामेष्ट्यादीनां कर्मणामित्यर्थः । ननु यदि निरपेक्षा नेष्टिः साधनं तर्ह्यनपेक्षमाणौ135 पितरावेव सम्यक् सम्प्रयुज्यमानौ पुत्रस्य जनकौ, कृतमत्र पुत्रकामेष्ट्या ।

अत+एव म्लेच्छादीनामपि पुत्रजन्मोपपद्यत इत्यत आह—“तत्सहकारित्वादिति ।” नान्वयव्यतिरेकगम्यमिष्टेः साधनत्वम्136 अपि त्वागमगम्यम् । म्लेच्छादीनां पुत्रजन्म जन्मान्तरीयादृष्टवशादित्यागमप्रामाण्यादनुसरणीयम् । दृश्यमानकर्मकर्तृवैगुण्ये च फलानुत्पादोऽदृष्टमपेक्षणीयं सूचयति । तदनेन पुत्रकामेष्ट्यादीनामनियतफलत्वमपि सूचितं भवति । तथा च कर्मान्तरप्रतिबन्धेन कर्मकर्तृसाधनावैगुण्येऽपि फलानुत्पादः समर्थितो भवति । ऐहिकफलेषु तु कारीर्यादिषु वैगुण्यं137 परिहारः । “अनृतत्वादप्रामा ण्यमिति चेदिति ।” धर्मिविशेषणत्वेनोपयुक्तानामपि पश्चात् निष्कृष्य हेतुत्वाभिधानं138 न दोषावहमिति भावः । उत्तरम्—“किमिदमिति” नन्वर्थाप्रतिपादकत्वं प्रतिज्ञातम् । एतदेवानृतत्वं139 च हेतुरिति प्रतिज्ञाहेत्वोरर्थाभेद इत्यत आह—“अनृतत्वं चेति” ॥ ५८ ॥

अभ्युपेत्य कालभेदे दोषवचनात् ॥ २ । १ । ५९ ॥

यत् पुनरुक्तम् उदिते होतव्यमित्यादीनामेव परस्परं व्याघात इति, तत्राह— “उभयेति ।” त्रिषु कालविधिपरेषु वाक्येष्वेकैकेनैव वाक्येनोभयोभयवाक्यार्थप्रतिषेधानभिधानात् । “नान्यथा” नाप्रामाण्यमित्यर्थः । यद्यपि चैको होमः समुच्चयेन तदा तदा140 न शक्यः कर्तुम्, तथापि विकल्पेन करिष्यते । बहुलं हि विकल्पो लोकेऽप्युपलभ्यते । वस्तु हि व्यवस्थितं न विकल्प्यते । अनुष्ठाने चानागतोत्पाद्ये विधिप्रतिषेधविकल्पानामविरोधः स्वरूपानिष्पत्तेरिति । वाक्यार्थो न कर्तव्य इति “वाक्यं तन्न कर्तव्यमि”त्यस्यार्थः141 । “कामतो वा विकल्प्येत” इति परस्परव्याहतार्थं कल्प्येतेत्यर्थः । “अभिहितं वेति,” यदनेन वाक्येन स्वसामर्थ्येनाभिहितम्, तद् वा परीक्षकैरवधृत्यानूद्यते इदमनेन वाक्येनाभिहितमिति । निर्धारयति—“अभिहितेति ।” विहितानुवादो वेति क्वचित् पाठः । विहितो होमस्तस्यानुवादः कालविशेषविधानायेति । विहितानुवाद एव न्याय्यः कालविशेषविधानाय, न तु कालान्तरप्रतिषेधोऽर्थः कल्पितोऽर्थ142 इत्यर्थः ॥ ५९ ॥

अनुवादोपपत्तश्च ॥ २ । १ । ६० ॥

एकादश सामिधेन्य उत्पत्तौ पठिताः । तासां प्रथमोत्तमयोस्त्रिर्वचनं पञ्चदशावरत्वं143 मन्त्रस्य प्रयोजनवतः साधयत्सप्रयोजनमिति ।

तदेवं वेदाप्रामाण्यहेतूनुद्धृत्य प्रामाण्यसम्भवहेतुः “सूत्रकारे”ण वक्तव्य इति पूर्वं “वार्त्तिककारः” स्वत एव तावत् प्रामाण्यसम्भवहेतूनाह—“पुत्रकामेष्टीति” ॥ ६० ॥

वाक्यविभागस्य चार्थग्रहणात् ॥ २ । १ । ६१ ॥

सौत्रं हेतुमवतारयति—“समस्तानीति” ॥ ६१ ॥

विध्यर्थवादानुवादवचनविनियोगात् ॥ २ । १ । ६२ ॥

विध्य…गात् ॥ ६२ ॥

विधिर्विधायकः ॥ २ । १ । ६३ ॥

“विधिर्विधायकः ॥” तस्य व्याख्यानं “यद् वाक्यमिति ।” चोदकं प्रवर्तकम् । अत्र चारोग्यकामः पथ्यमश्नीयादित्याद्युपदेशश्रवणसमनन्तरं पथ्याशने प्रवर्तमानं प्रयोज्यवृद्धमुपलभ्य बालस्तस्य प्रवृत्तिहेतुं प्रत्ययमनुमिमीते, अस्य प्रवृत्तिः प्रवर्तकप्रत्ययपूर्विका स्वतन्त्रप्रवृत्तित्वात्, मत्प्रवृत्तिवत् । स चायमनुमाता व्युत्पित्सुः स्वात्मसिद्धमेव प्रवर्तकज्ञानमनुमिनोति, नादृष्टपूर्वम् । न हि स्वात्मसिद्धे144 प्रवृत्तिहेतौ दृष्टे सम्भवत्यदृष्टकल्पना न्याय्या । न चैष शब्दतद्व्यापारपुरुषाशयनिरुपाधिप्रवर्तकमात्रापूर्वप्रत्ययानात्मनि प्रवर्तकानवगतवान्, येन तेषु प्रवर्तकत्वशङ्काप्यवतरेत् । स्तन्यपानादिविषयककार्यप्रत्ययोऽस्य प्रवर्तक इति चेत् ? किं पुनरेतत् कार्यमिति । पुरुषप्रयत्नः कृतिः, तद्व्याप्यमिति145 चेत् ? ननु कृतिरिति मानसी प्रवृत्तिः, तदुपहितं कार्यं प्रवृत्तिविषयः प्रवृत्तिफलं वा फलोद्देशेन पुरुषप्रवृत्तेः । तदवगमश्च प्रवृत्तिहेतुः । प्रवृत्त्यवगतिस्तर्हि प्रवृत्तिहेतुरित्युक्तं भवति । न146 चाननुविधेयनियोगेष्वस्माकं व्युत्पन्नानां नास्ति प्रवृत्त्यवगमः । न चास्मात् प्रवर्तेमहि । अपि चेयं प्रवृत्तिः प्रयत्नापरनामा इच्छाद्वेषयोनिरसति कारणे न स्वज्ञानमात्रादुदेतुमर्हति । न चेच्छाद्वेषावेव प्रवृत्तिहेतू लिङादिगोचराविति साम्प्रतम् । स खलु लिङादिगोचरोऽ भ्युपेयो यः स्वज्ञानेन प्रवर्तयति न तु स्वसत्तया, शब्दस्य ज्ञापकत्वादनुत्पादकत्वाच्च । न चेच्छाद्वेषौ स्वज्ञानेन प्रवर्तयतो यतः प्रवृत्तिं प्रति स्वज्ञानाय शब्दमपेक्षेयाताम्, अपि तु सत्तया । तस्मात् तदेव लिङादेर्ज्ञाप्यम् । यज् ज्ञातं यदिच्छाद्वेषै147 प्रसूते, तत्र फलं निसर्गसुन्दरतया ज्ञातमात्मनीच्छां प्रसूते, एवं तदुपायोऽपि, तत् तया ज्ञातः फलसम्बन्धादात्मनीच्छाम् । तस्माद् द्वयमवशिष्यते फलं तदुपायो वा । तत्र फलस्य यद्यपि स्वत+एवेच्छादिविषयत्वम्, तथापि तद्विषयेच्छां न तत्र प्रवर्तयितुमर्हति, तस्यायोग्यत्वेन प्रवृत्तिविषयत्वानुपपत्तेः । न च फलगोचरेच्छा अन्यत्र तदुपाये स्वकार्यं प्रयत्नं जनयितुमर्हति इषिप्रयत्नयोरेकविषयतया148 कार्यकारणयोः सम्प्रतिपत्तेः । न च तत्सम्बन्धात् तदुपायो नेष्यते येन फलेच्छाया एवोपायविषयप्रयत्नः प्रसवहेतुत्वं प्रकल्प्येत । यथाहुः

अन्यदिच्छत्यन्यत्करोतीति विप्रतिषिद्धमिति ।

तस्मादिष्यमाणमपि फलं प्रवृत्तिविषयत्वाभावान्नात्मनि स्वज्ञानेन प्रवर्तकम् । तदुपायस्तु प्रवृत्तिविषयत्वादिष्यमाणत्वाच्च स्वज्ञानेन प्रवर्तक इति युक्तमुत्पश्यामः । बालानां च स्तन्यादावपेक्षितोपायताज्ञानं प्राग्भवीयव्याप्तिग्रहणजनितसंस्कारानुवृत्तिवशादुत्पन्नव्याप्तिस्मरणानां तज्जातीयत्वलिङ्गज्ञानजमनुमानमेव । एतच्च पूर्वाभ्यस्तस्मृत्यनुबन्धात्149 इत्यत्रोपपादयिष्यते । अत एव प्रयोजनलक्षणं व्याचक्षाणेनोक्तं “वार्त्तिककृता”—

“इदं सुखसाधनमिति बुद्ध्वा सुखावाप्तये प्रयतते । इदं दुःखसाधनमिति चावगम्य दुःखहानायेति150 ।”

तस्मादपेक्षितोपायता प्रवर्तना स्वात्मनि सिद्धा वृद्धस्यापि प्रवृत्तिहेतुरित्यवगच्छति व्युत्पित्सुर्बालः । सा च लिङादिश्रवणसमनन्तरमुपजायमाना लिङाद्यर्थ इति निश्चिनोति । न चापेक्षितोपायतामात्रं प्रवृत्तिहेतुः । भवति हि यजमाननिर्वर्तिता कारीरी कृषीबलानामपेक्षितोपायः । न चैतेऽस्यां प्रवर्तन्ते तस्याः सिद्धत्वात् । तस्मात् कर्तुरपेक्षितोपायता प्रवृत्तिहेतुरित्यास्थेयम्151

न च सिद्धे कर्तृतास्ति । यथाह भगवान् “जैमिनिः” शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्152 इति ।

लोके च क्रियैवापेक्षितोपायः शब्दार्थ इति तदनुसारेण अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादयोऽपि वैदिका उपदेशा क्रियामेवापेक्षितोपायमभिदधति । सा चेयमाशुतरविनाशिन्यप्यवान्तरापूर्वव्यापारा सती चिरभाविनेऽपि फलाय कल्पते कृषिरिव निदाघसमयजन्मा हेमन्तसमयभाविने शस्यायेति नापूर्वस्यात्रापेक्षितोपायत्वं कल्पयितव्यम् । भवतु वा तदेवापेक्षितोपायप्रवृत्तिहेतुः, तथापि कर्तुरपेक्षितोपायतालक्षणसमानोपाधिप्रवृत्तिर्विधिशब्दस्तदेकोपाधिसम्बन्धात् क्वचित् क्रियायां क्वचिदपूर्वे प्रवर्त्स्यति न नः153 काचिद् दर्शनक्षतिः । तदेवमुपदेशे नियोज्यप्रयोजनकर्मणि व्युत्पन्नः तानेव शब्दान् नियोक्तृप्रयोजनकर्मण्याज्ञादौ154 प्रयुज्यमानानुपलभ्याध्येषणानुज्ञावाचकत्वमप्यवगच्छति । अग्निहोत्रादिवाक्यानां तु प्रयोज्यप्रयोजनकर्मवाचिनामुपदेशत्वमेव । तस्माद् यद्यप्याज्ञाध्येषणामन्त्रणोपदेशाः सर्वे विधयः, तथापि इह उपदेशो विधिरभिमतः । तस्मात् सुष्ठूक्तम्—“यद्वाक्यं विधायकमिति” कर्त्रपेक्षितोपायताज्ञापकमित्यर्थः ।

“विधिस्तु नियोगोऽनुज्ञा वेति भाष्य”मनुभाष्य व्याचष्टे—“विधिस्त्विति ।” यदेतत्, अग्निहोत्रं जुहुयात् स्वर्गकामः

इति वाक्यमप्रवृत्तप्रवर्तकलक्षणं कर्त्रपेक्षितोपायतामज्ञातां155 ज्ञापयद्विधिः, तदेव तत्साधनद्रव्याद्यवाप्तिप्रवृत्तिमनुजानाति ।

एतदुक्तं भवति—सन्ति156 हि द्रव्यार्जननियमविधयः ब्राह्मणस्य प्रतिग्रहादिना इत्यादयः । ते च रागतो धनार्जने प्रवृत्तानां ब्राह्मणानां लौकिकानेकोपायप्रसक्तौ157 सत्यां नियमपराः पुरुषार्थाः न क्रत्वर्थाः । क्रतुविधयस्तु धनसाधनास्तेन विना अपर्यवस्यन्तोऽपि158 न धनार्जनं तन्नियमं वा प्रयुञ्जते, पुरुषार्थत्वेनैव159 तस्य प्रयुक्तत्वात् केवलमनुजानन्ति । तस्मात् तदेवाग्निहोत्रादिवाक्यमप्राप्तेऽग्निहोत्रादौ विधिरन्यतः प्राप्ते तु तत्साधनेऽनुज्ञेति सिद्धम् । समुच्चये वाशब्दः ॥ ६३ ॥

स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः ॥ २ । १ । ६४ ॥

स्तुतेरुपयोगद्वयम्—प्रवृत्त्या, धर्मे कर्तव्ये विधिना प्रवृत्तौ कर्तव्यायां च सहकारिता । प्रशस्तमिति ज्ञात्वा प्रवर्तमानाः पुमांसः प्रवर्तन्तेतराम् । सा च प्रवृत्तिः श्राद्धस्य धर्मं प्रसूते, नाश्राद्धस्य । तथा च श्रूयते—

यदेव प्रज्ञया श्रद्धयोपनिषदा च करोति तदेवास्य
वीर्यवत्तरं भवतीति160

तत्र प्रवृत्तेः कार्यसहकारितामाह—“स्तूयमानमिति ।” विधेः कार्ये सहकारितामाह—“प्रवर्तिका चेति ।”

“कथं परकृतिपुराकल्पावर्थवादौ” इति । चरकाध्वर्युपुरुषसम्बन्धश्रवणाद् वपाहोमपृषदाज्याभिघारणयोः क्रमभेदस्याप्राप्तस्य पुरुषविशेषधर्मतया विधायकं परकृतिवाक्यम् । तथा बहिष्पवमानसोमस्तोममन्त्रसम्बन्धस्य पूर्वकालपुरुषसम्बन्धितया श्रवणाद् इदानीन्तनपुरुषधर्मतया विधायकं पुराकल्पवाक्यं कस्मात् न भवतीति भावः । उत्तरम्—“स्तुतिनिन्दावाक्येन” कस्यचिद् विधेः शेषभूतेना“भिसम्बन्धादिति ।” न तावदेतेषु वाक्येषु सिद्धाभिधायिषु विधिश्रुतिरस्ति । तत्र किमश्रूयमाणो विधिः कल्प्यतामाहो प्रतीतेन विधिनैकवाक्यतेति । तत्र कल्पनालाघवात् प्रतीतेन विधिनैकवाक्यतैव ज्यायसी । पूर्वपक्षे विधिकल्पना तदेकवाक्यताकल्पनेति द्वयं कल्पनीयम् । उत्तरस्मिंस्तु एकवाक्यतामात्रमिति भावः । स्फुटतरस्तुतिनिन्दाप्रतीत्यभावाच्च परकृतिपुराकल्पयोः स्तुतिनिन्दाभ्यां भेदेनोपन्यास इति ॥ ६४ ॥

विधिविहितस्यानुवचनमनुवादः ॥ २ । १ । ६५ ॥

विधिमधिकृत्य स्तुतिर्वोच्यते निन्दा वेति । यथा अश्वमेधेन यजेत इति विधेरनुवादः योऽश्वमेधेन यजेत इति । किमर्थम् ? स्तोतुम् । तरति मृत्युं तरति पाप्मानम् इति स्तुतिः । उदिते होतव्यम् इत्यस्य विधेरनुवादो य उदिते जुहोति इति । किमर्थम् ? निन्दितुम् । श्यावो वास्याहुतिमभ्यवहरतीति निन्दा ।

प्रयोजनान्तरमाह—“विधिशेषो वाभिधीयत” इति । यथा यदाग्नेयोऽष्टाकपालो भवति इत्यादिभिरुत्पत्तिवाक्यैः षडाग्नेयादयो यागाः पौर्णमास्यमावास्याकालसम्बद्धा विहिताः । ते च विधय इष्टाभ्युपायतारूपाः स्ववाक्ये चेष्टमनासादयन्तः सापेक्षाः । एवमाघाराद्युत्पत्तिविधयोऽपि कालविशेषासम्बद्धा इष्टापेक्षा एव । तत्र य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते इति कालविशेषसम्बन्धेनोत्पन्नानामाग्नेयादीनां षण्णामनुवादः । किमर्थम् ? यदाग्नेयोऽष्टाकपाल इत्याद्युत्पत्तिविध्यपेक्षितेष्टसम्बन्धनियमार्थम् । दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत इति षण्णामेवाग्नेयादीनां कालविशेषसम्बन्धोत्पन्नानूदितानां फलसम्बन्धो यथा स्यात् । मा भूदाघारादीनां कालासम्बन्धेनोत्पन्नानामित्येवमर्थम् । अत आघारादयः फलवत्सन्निधावफलं तदङ्गम् इति दर्शपौर्णमासाङ्गतयावतिष्ठन्त इति सिद्धं भवति । सोऽयं फलसम्बन्धनियमो विधिशेषः । तदर्थमनुवाद इत्यर्थः । एवम् अग्निहोत्रं जुहोति इति विहितो होमोऽनूद्यते । किमर्थम् ? दध्यादिगुणविशेषविधानार्थम्, दध्ना जुहोति पयसा जुहोतीत्यादिषु । सोऽयं गुणविधिर्विधिशेष161 इति । प्रयोजनान्तरमनुवादस्याह—“विहितानन्तरार्थ” इति । यथा सोमो विहितो दर्शपौर्णमासौ च । तयोरानन्तर्यं विधातुमुभयानुवादः दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेत इति । एवम् अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति इति162 । “विभागेऽर्थग्रहणात् प्रमाणं163 भवितुमर्हतीति” प्रामाण्यं सम्भाव्यत इत्यर्थः ॥ ६५ ॥

नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः ॥ २ । १ । ६६ ॥

“भाष्यो”क्तमनुवादस्य प्रयोजनमविदुषः पूर्वः पक्षः ॥ ६६ ॥

शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥ २ । १ । ६७ ॥

“वार्त्तिकम् यथेति ।” यथा शीघ्रं गम्यतामित्युक्ते शीघ्रतरं गम्यतामिति न पुनरुक्तम्, तरपः क्रियातिशयप्रतीतेः, एवं शीघ्रं शीघ्रं गम्यतामित्यभ्यासात् क्रियातिशयप्रतीतेः सकृदुच्चरिताच्चानवगतेः क्रियातिशयस्य प्रयोजनवानभ्यासः । क्रियाविशेषणातिशयोऽपि क्रियातिशय एवेत्यर्थः । अवगतं तावत् शीघ्रं शीघ्रं गम्यतामित्यत्राभ्यासातिशयप्रतीतेरनुवादस्य164 विशेषः, पचति पचतीत्यादौ तु को विशेष इत्याह—“कः पुनरसौ विशेषः ?” यः पचति पचतीत्यादौ “भवतीति ।” न च वक्तुरन्यथाप्रत्ययः श्रोतुश्चान्यथा, येन विप्रतिपत्तेः श्रोतुः प्रत्ययो भ्रान्त इति कल्प्येत इत्याह—“यथा च श्रोतुरिति । एवमन्योऽपीति ।” यथा ग्रामो ग्रामो रमणीय इत्यादिरिति ॥ ६७ ॥

मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ २ । १ । ६८ ॥

अनन्तर“सूत्रा”वतारणपरं “भाष्यं किं पुनः प्रतिषेधेति ।” तदनुभाष्य व्याचष्ट—“किं पुनरिति ।” उत्तरं “नेति ।” पृच्छति—“किं कारणम् ?” उत्तरं “न साधनमन्तरेणेति ।” पुनः पृच्छति—“कुतस्तर्हीति ।” उत्तरं “प्रमाणतः ।” पृच्छति—“तत् किं प्रमाणम् ।” तत्र तावद् वेदप्रामाण्यसम्भावनायां प्रमाणमाह—“अर्थविभागवत्त्वात् ।” न त्वेतद् वेदप्रामाण्ये प्रमाणम्, “बुद्धा”दिप्रणीतेनागमेनार्थविभागवता अनैकान्तिकत्वात् । वेदप्रामाण्यप्रमाणं तु सूत्रोक्तम्—“मन्त्रा…ण्यात् ।”

“चशब्दः पूर्वहेत्वनुकर्षणार्थ” इति । पूर्वस्य प्रामाण्यसम्भावनाहेतोरर्थविभागवत्त्वस्यानुकर्षणार्थः । सम्भावितो हि पक्षो हेतुना साध्यते न त्वसम्भावितः । यथाहुः

सम्भावितप्रतिज्ञायां पक्षः साध्येत हेतुना ।

न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः ॥

इति । “सूत्रं” व्याचष्टे—“यथा मन्त्रायुर्वेदवाक्यानीति ।” पुरुषस्य भगवतो वेदकारस्य विशेषः प्रत्यक्षीकृतहेयोपादेयतत्त्वता च भूतदया165 च यथार्थचिख्यापयिषा च करणपाटवं चेति । विशेष्यते ह्यनेवैव पुरुषः पुरुषान्तरेभ्योऽनाप्तेभ्य इति । “त्रिविधेन विशेषणेनेत्युपलक्षणम्,” करणपाटवमपि द्रष्टव्यम् ।

एतदत्राकूतम् । अनन्तान्तर्गणिकभेदाः सुखदुःखवन्तः166 प्राणभृद्भेदा दृश्यन्ते । न चैषां वैचित्र्यं स्वाभाविकमिति “तृतीये” निवेदयिष्यते । न च दृष्टकारणमात्रनिबन्धनम्, तस्य तस्य दृष्टस्य दृष्टव्यभिचारत्वात्167 । तस्माद् दृष्टसहायमदृष्टमस्य वैचित्र्यस्य कारणम् । तच्चापूर्वमिति च धर्माधर्माविति चाख्यायते । तच्च कस्यचित् प्रत्यक्षं “मन्वादे”रित्युपपादितम् । तनुभुवनादिलक्षणस्य कार्यस्य कर्ता तन्निर्माणसमर्थः समस्तवस्तुतत्त्वज्ञः क्लेशकर्मविपाकाशयापरामृष्टः परमकारुणिकः तनुभुवनादेरेव कार्यादनुमीयत इति “चतुर्थे” उपपादयिष्यते । सोऽयमात्मीयहिताहितप्राप्तिपरिहारोपायान् अविदुषः प्राणिनः पश्यन् प्रत्युतानेकविधदुःखदहनदह्यमानानवलोकयन् कथं न तप्येत, तप्यमानो वा हिताहितप्राप्तिपरिहारोपायतत्त्वं विद्वान् कथं नोपदिशेत् अन्यथोपदिशेद् वा । तस्मादनेन परमकारुणिकेन पृथिव्यादि सृष्ट्वा तदनु प्रजाश्चतुर्विधास्ताभ्यो हिताहितप्राप्तिपरिहारोपाय उपदेष्टव्यः । न ह्ययमनुपदिश्य स्थातुमर्हति । प्रजानां पितृकल्पस्य चास्योपदेशो देवर्षिमनुष्यगोचरश्चातुर्वण्येन चातुराश्रम्येण चादराद् ग्राह्यश्च धार्यश्च हिताहितप्राप्तिपरिहारोपायानुष्ठानाय । तस्माद् यो वर्णाश्रमाचारव्यवस्थापक आगमो महाजनपरिगृहीतः स तत्प्रणीत आप्तोक्तत्वात् प्रमाणम्, मन्त्रायुर्वेदवाक्यवदिति सम्प्रधार्यते168 । कतमोऽसावागम आप्तोक्तः, किं “शाक्यभिन्नकदिगम्बरसंसारमोचकादीनामागमाः,”169 किं वा वेदा इति ? तत्र “शाक्या”द्यागमानां “बुद्धर्षभादयः” प्रणेतार इति स्फुटतरमस्ति स्मरणं न तूक्तलक्षण ईश्वरस्तेषां कर्त्तेति । न चैते “शौद्धोदनिप्रभृतयः” तनुभुवनादीनां कर्तारो येन सर्वज्ञा इति निश्चीयेरन् । तदुपायानुष्ठानेन तु सम्भाव्येतैषां सर्वज्ञता । न च सम्भावनामात्रेण तत्प्रणीतेषु आगमेषु आश्वासः प्रेक्षावतां भवितुमर्हति । न चैतेषामागमा वर्णश्ररमाचारव्यवस्थाहेतवः । नो खलु निषेकाद्याः श्मशानान्ताः क्रियाः प्रजानामेते विदधति । नहि प्रमाणीकृतबौद्धाद्यागमा अपि लोकयात्रायां “श्रुतिस्मृतीतिहासपुराण”निरपेक्षागममात्रेण प्रवर्तन्ते, अपि तु तेऽपि सांवृतमेतदिति ब्रुवाणा लोकयात्रायां श्रुत्यादीनेवानुसरन्ति । तस्माद् भवतु “वेदेषु” जगन्निर्मातृकर्तृकत्वस्मृतिः, मा वा भूत्, एत एव त्वीश्वरप्रणीता इति पश्यामः । न ह्येते “चैत्यवन्दना”दिवाक्यवदन्यकर्तृकाः स्मर्यन्ते । न चान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते । न चेश्वरोऽनुपदिशन्नवस्थातुमर्हतीत्युक्तम् । तत् पारिशेष्याद् वेदा एव सकललोकयात्रामुद्वहन्तो हिताहितप्राप्तिपरिहारोपायमुपदिशन्त ईश्वरप्रणीता इत्यवगच्छामः । तथा ह्येत एव “त्रैवर्णिकै”रद्ययावत् प्रयत्नेन गृह्यन्ते धार्यन्ते च । तदनुपालनाय च महर्षिपरम्पराभिर“ङ्गोपाङ्गेतिहासपुराणधर्मशास्त्राणि” प्रणीताणि । “बुद्धा”दिवाक्यानि तु न लोकयात्रामुद्वहन्ति । न च तत्र लौकिकानामविगानम् । न च विगायतां सांवृतमित्युक्त्वापि तदर्थानुष्ठानम् । तस्माद् विगानात् कैश्चिदेव “म्लेच्छा”दिभिर्मनुष्यापसदैः पशुप्रायैः परिग्रहान्नैतेषामाप्तोक्तत्वसम्भवः । न चैतेषां “मन्वादि”वाक्यवद् वेदमूलकतया प्रामाण्यमिति साम्प्रतम्, अध्येत्रध्यापयित्रनुष्ठातृकर्तृसामान्यस्य वेदमूलकत्वानुमानलिङ्गस्य स्मृतिवेदयोरिव “बुद्धा”दिवाक्येष्वभावात् । ततः सर्वज्ञत्वसंशयेन170 चानुभवमूलकत्वानिश्चयात् । “मन्त्रायुर्वेदे”षु च प्रवृत्तिसामर्थ्यानुमितप्रामाण्येषु वैदिकशान्तिकपौष्टिकादिकर्माभ्यनुज्ञानात् रसायनादिक्रियारम्भे च वेदविहितचान्द्रायणादिप्रायश्चित्तोपदेशाद् “आयुर्वेदे”नाप्याप्तप्रणीतेन “वेदानां” प्रामाण्यम् अभ्युपेयते । तत् सिद्धमाप्तप्रणीता “वेदाः” प्रमाणमिति । अभ्युच्चयमात्रं तु कारीर्यादिषु संवाद इति ।

एतदेवाभिप्रेत्य “वार्त्तिककारः” प्रयोगमाह—“अस्य प्रयोगः । प्रमाणं वेदवाक्यानीति ।” प्रयोगान्तरमाह—“एककर्तृकत्वेनेति ।” मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकाणि महाजनादरे सति अलौकिकार्थप्रतिपादकत्वात् । यानि तु न सर्वज्ञपूर्वकाणि तानि नैवंरूपाणि यथा वातपुत्रीयवाक्यानीति व्यतिरेकी हेतुः । यथा च “बुद्धा”दिवाक्यान्यलौकिकान्यपि न महाजनपरिगृहीतानि तथोक्तमनन्तरमेव । मन्त्रायुर्वेदवाक्यानां च सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामौषधीनां तत्तत्संयोगभेदानां च तत्तदक्षरावापोद्धारभेदस्य च नासर्वज्ञः सहस्रेणापि पुरुषायुषैः शक्तः कर्तुं प्रथममन्वयव्यतिरेकौ । न चानिदम्प्रथमतात्र परिहारः, सर्गादौ तदसम्भवात् । सृष्टिमहाप्रलयौ चानुमानागमाभ्यामुपपादयिष्याम इति सर्वं रमणीयम् । तदेवं सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेदप्रामाण्यमोदनार्थो पचेदिति लौकिकवाक्यवदिति । “यदि न नित्यानि कथं प्रमाणमिति ।” अनित्यत्वे हि पुरुषाणां विचित्राभिसन्धित्वेन भ्रमविप्रलम्भादिसम्भवेऽप्रामाण्यशङ्का न शक्यापाकर्तुम्171 । तस्मादपौरुषेयत्वमेव पुरुषाश्रयान् दोषान् अपाकुर्वद् वेदप्रामाण्यव्यवस्थापकमिति भावः । उत्तरम्“प्रतिपादकत्वादिति ।” आप्तोक्तत्वेनानित्यस्यापि निश्चायकत्वादित्यर्थः ।

“केचित् त्विति ।” प्रमालक्षणामर्थक्रियां कुर्वत् प्रमाणम् । न च नित्यस्यार्थक्रियास्ति तस्मान्न प्रमाणमित्यर्थः । निराकरोति—“तत्तु न सम्यगिति पश्याम” इति । यथा च नित्यस्याप्यर्थक्रियासम्भवस्तथा “तृतीये” वक्ष्याम इति भावः । “आत्मा चेति” प्रमाहेतुतामात्रविवक्षया, न तु करणत्वाभिप्रायम् । “प्रमाणशब्दस्येति” अत्रापि न करणत्वविवक्षा, किं तु प्रमाहेतुमात्रविवक्षेति द्रष्टव्यम् । “इतरवस्तुसाधकत्वेनेति” इतरस्य परमाणुगतस्यैव मूर्तत्वादेः साधकतमत्वेनेत्यर्थः ।

तदेव“मेकदेशि”मतमपाकृत्य स्वमतमाह—“तस्मादिति । स च संसारानादित्वादिति ।” यद्यपि वर्णपदवाक्यानि प्रत्युच्चारणमन्यानि तथापि गत्वादिसामान्यावच्छिन्नानां गकारादीनां तत्समूहानां च पदानां पदसमूहानां च वाक्यानां शक्यो गोत्वादिसामान्यावच्छिन्नाभिः शाबलेयादिव्यक्तिभिरेव सङ्केतो ग्रहीतुमिति भावः । “मन्वन्तरेति ।” महाप्रलये त्वीश्वरेण वेदान् प्रणीय सृष्ट्यादौ सम्प्रदायः प्रवर्त्यत एवेति । शेषं “भाष्यं वार्त्तिकं” चातिरोहितार्थमिति ॥ ६८ ॥

॥ शब्दविशेषपरीक्षाप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रचिरचितायां न्यायवार्त्तिकतात्पर्यटीकायां द्वितीयाध्याये प्रथमाह्निकम् ॥


  1. परित्यक्तम् ↩︎

  2. “परीक्षितः” [ज्] ↩︎

  3. “सोऽयं क्रमभेदः कुतः” [च्] ↩︎

  4. “°र्शकारणेति” [ज्] ↩︎

  5. “एवं” [ज्] ↩︎

  6. “तेनापि” [च्] ↩︎

  7. “संशीतिरिति” [च्] ↩︎

  8. “इत्यत पूर्वपक्षबीजम् आह” [ज्] ↩︎

  9. १। १। २३ सूत्रीयवार्त्तिकटीके द्रष्टव्ये ↩︎

  10. “कारकं हेतु°” [च्] ↩︎

  11. “नाभ्युपगमविरुद्धमि°” [च्] ↩︎

  12. “व्याघातः” [ज्] ↩︎

  13. “चेत्याह” [च्] ↩︎

  14. न्याः सू २। १। ८ ↩︎

  15. “सहत्वेन” [च्] ↩︎

  16. “तदिदं” [च्] ↩︎

  17. “निषेधयति” [ज्] ↩︎

  18. “मिति च” [च्] ↩︎

  19. “कारकान्तराणां कर्तुः” [च्] ↩︎

  20. “प्राक् अनु” [च्] ↩︎

  21. “बीजादित्याह” [च्] ↩︎

  22. “°मानं प्रमाणमाह” [च्] ↩︎

  23. “कारकभावः” [ज्] ↩︎

  24. न्या सू। २ । २ । ६२ ↩︎

  25. “उपादीयते प्रसङ्गः” [च्] ↩︎

  26. “स्थालीवत्” [च्] ↩︎

  27. प्रदीपप्रकाशदृष्टान्तः ? ↩︎

  28. “इतरग्र°” [च्] ↩︎

  29. “सोपहासम्” [च्] ↩︎

  30. “लक्षणं” [च्] ↩︎

  31. “कार्यं लक्ष्यते ज्ञानमिति” [च्] । वर् ↩︎

  32. “तदिदं सूत्रमिति” [च्] ↩︎

  33. “°मसहमानो” [च्] ↩︎ ↩︎

  34. “इति वदतः” [च्] ↩︎

  35. “परवेद्यं” [ज्] ↩︎

  36. “°तयैव” [च्] ↩︎

  37. “द्रव्यस्पर्शस्य” [च्] ↩︎

  38. व्याख्याय व्यासक्तमनसामिति नास्ति [क्] ↩︎

  39. “°सङ्ख्यानुरो°” [च्] ↩︎

  40. “व्याख्यातमिति” [च्] ↩︎

  41. “शब्देऽर्थे वा” [च्] ↩︎

  42. “वृक्षविशेषम्” [च्] ↩︎

  43. “°रेण वृक्षः” [ज्] ↩︎

  44. स्वरूपं च तेषां पञ्जिका ↩︎

  45. “अतः” [च्] ↩︎

  46. “समष्ट्या” [च्] ↩︎

  47. “°रभावात्” [च्] ↩︎

  48. “इत्युक्तम्” [च्] ↩︎

  49. “एकस्यावयस्य” [च्] ↩︎

  50. “एवैकार्थक्रि” [ज्] ↩︎

  51. “इत्थं” [च्] ↩︎

  52. “°नमप्येतद्” [ज्] ↩︎

  53. “न च” [च्] ↩︎

  54. “°द्धधर्मो” [च्] ↩︎

  55. “°त्येकोऽर्थः” [ज्] ↩︎

  56. “°रविरहात्मा” [च्] ↩︎

  57. “परिमाणावस्थापत्तावपि” [च्] ↩︎

  58. “दृश्यमानान्तररूपापा°” [ज्] ↩︎

  59. “भवेन्न भवेद्वेति” [च्] ↩︎

  60. “वृत्तेरप्यवय°” [ज्] ↩︎

  61. “न, परं” [च्] ↩︎

  62. “°सिद्धेरिति” [च्] ↩︎

  63. भावेन अव [क्] ↩︎

  64. “आतिष्ठामहे” [ज्] ↩︎

  65. “कल्पनीयम्” [च्] ↩︎

  66. “निषेध्यत्वेन” [च्] ↩︎

  67. “सोऽयं व्यधिकरण इत्यधिकम्” [ज्] ↩︎

  68. “अणूनाम्” [च्] ↩︎

  69. “सम्बन्धविशेषः” [च्] ↩︎

  70. “इतरसू°” [च्] ↩︎

  71. “अथानुप…ततश्चेति त्यक्तम्” [ज्] ↩︎

  72. प्रमाणवार्त्तिके २। २२३ ↩︎

  73. “स्थूलभेदात् तदेक” [च्] ↩︎

  74. “स्वतः” [च्] ↩︎

  75. “नान्य°” [च्] ↩︎

  76. “किंशुकादीनाम्” [ज्] ↩︎

  77. “तद्विपरीतधर्मो” [च्] ↩︎

  78. “जायमानमौपमिकमिति” [च्] ज्ञायमानमौपमिकम् [क्] ↩︎

  79. “समुहात् पटादीनपि” [च्] ↩︎

  80. “°कत्वसमुच्चयः” [च्] ↩︎

  81. “वस्तूपगमे नः शरणमित्यधिकम्” [च्] ↩︎

  82. “°बहुलतया” [च्] ↩︎

  83. “तस्मिन् तत्” [च्] ↩︎

  84. “°दनुयोज्य इति” [च्] ↩︎

  85. “दूषणाद्” [च्] ↩︎

  86. “°स्तस्य स्युः” [च्] ↩︎

  87. “°वयवसाधारण्यात्” [च्] ↩︎

  88. “वृक्षव्यक्तित्वे” [ज्] ↩︎

  89. “व्याघातः” [च्] ↩︎

  90. “°मबुद्धवैव” [च्] ↩︎

  91. “पिपीलिका…मिन्वते” [ज्] ↩︎

  92. “°दाहरणमिति मन्तव्यम्” [च्] ↩︎

  93. “मयाल्पत्वान्तरितजन्मानमवधिं कृत्या विप्रकृष्टा बुद्धिरुत्पद्यते, तामपेक्ष्य बहुरतसवित्रुदयास्तमय° इत्यधिकम्” [च्] ↩︎

  94. “°करं प्रत्यवकल्पते” [च्] ↩︎

  95. “°द्वारमस्य” [च्] ↩︎

  96. “कार्यः” [च्] ↩︎

  97. “सम्पृक्त” [च्] ↩︎

  98. “तस्माद्” [च्] ↩︎

  99. “एकदेशसामर्थ्यादुपमानं” [च्] ↩︎

  100. “परिहाराय” [च्] ↩︎

  101. “गतं वाक्यार्थं” [च्] ↩︎

  102. “कृत्स्नभावमेव वाल्प° आश्रित्याति°” [च्] ↩︎

  103. “गवयप्रत्यक्षं” [च्] ↩︎

  104. “प्रत्यक्षस्य” [च्] ↩︎

  105. “न तु भवति” [ज्] ↩︎

  106. “तन्न ज्ञातं [च्] ; ज्ञानं विशेषे” [ज्] ↩︎

  107. अत्र टीका नास्ति ↩︎

  108. “दुःखेन यन्न सं” [ज्] ↩︎

  109. “सुखं स्वर्गपदा°” [ज्] ↩︎

  110. “स्वकार्यवि°” [च्] ↩︎

  111. “नैवैषः” [च्] ↩︎

  112. पा। सू। ५। २। २८ ↩︎

  113. “पदभेदेभ्यः” [च्] ↩︎

  114. “कश्चिद् विशेषः” [च्] ↩︎

  115. “विशेषः” [च्] ↩︎

  116. न लिङ्गत्वम् अलन्कारः ↩︎

  117. “प्रत्ययपराणि” [च्] ↩︎

  118. “न पुना” [ज्] ↩︎

  119. “°स्तथा” [च्] ↩︎

  120. “°ग्राह्मेभ्यो हि” [च्] ↩︎

  121. “एवायमिति” [ज्] ↩︎

  122. “निर्दिश्येत” [च्] ↩︎

  123. “प्रकृतादि°” [च्] ↩︎

  124. “मात्रात्” [च्] ↩︎

  125. “बुध्यते” [ज्] ↩︎

  126. “गृह्णाति” [ज्] ↩︎

  127. “°वं च तर्हि” [च्] ↩︎

  128. “°विकत्वेन” [ज्] ↩︎

  129. “°वृत्तिरिति युक्तम्” [च्] ↩︎

  130. “°क्षेयं साधयति पुत्रकारणं” [च्] ↩︎

  131. “विदुषो ह्यधि°” [च्] ↩︎

  132. “अपूतं” [च्] ↩︎

  133. “°दौत्य°” [च्] ↩︎

  134. “पुत्रजन्म” [च्] ↩︎

  135. “तास्तर्हि” [च्] ↩︎

  136. “सहकारित्वम्” [च्] ↩︎

  137. “साधनवैगुण्यम्” [च्] ↩︎

  138. “निष्कृष्याभि°” [च्] ↩︎

  139. “अनृतत्वं” [च्] ↩︎

  140. “तदा” [च्] ↩︎

  141. “वाक्यं न कर्तव्यमित्युक्तम्” [च्] ↩︎

  142. “कल्प्यते” [च्] ↩︎

  143. “°दशावरत्व°” [च्] ↩︎

  144. “स्वात्मनि पूर्वसिद्धे” [च्] ↩︎

  145. “°व्याप्यत्वमिति” [च्] ↩︎

  146. “न चाननुविधेयोऽश्रद्धेय इत्यधिकम्” [च्] ↩︎

  147. “सत्यम् ज्ञानमिच्छा°” [च्] ↩︎

  148. “इतिप्रयत्नयोरिति मातृके; इच्छाप्रयत्नयोरिति शोधनम्” [च्] ↩︎

  149. न्या। सू। ३। १। १८ ↩︎

  150. १। १। २४ सुत्रस्य वार्त्तिकं द्रष्टव्यम् ↩︎

  151. “हेतुरास्थेयम्” [च्] ↩︎

  152. जै। सू। ३। ७। १८ ↩︎

  153. “समानोपाधिर्विधि…प्रवर्तत इति न” [च्] ↩︎

  154. “नियोक्तुं प्र°” [च्] ↩︎

  155. “पायतां ज्ञाप°” [च्] ↩︎

  156. “ये ”ड़ोर्“सन्ति” [च्] ↩︎

  157. “°प्रयुक्तौ” [च्] ↩︎

  158. “°स्तेऽनूदिताः पर्य°” [च्] ↩︎

  159. “°र्थेनैव” [ज्] ↩︎

  160. “विद्या ”ड़ोर्“प्रज्ञया” [च्] “करोति श्रद्धया च तदेव” [ज्] ↩︎

  161. “°विधिविधि°” [ज्] ↩︎

  162. “इत्यादिः” [ज्] ↩︎

  163. “प्रामाण्यं” [च्] ↩︎

  164. “गम्यतामित्यत्रानु°” [ज्] ↩︎

  165. “तद्धेतुभूता भूत°” [च्] ↩︎

  166. “°र्गणिकसुखदुःखभेदवन्तः” [च्] ↩︎

  167. “तस्य दृष्टव्य°” [च्] ↩︎

  168. “सम्प्रसाध्यते” [च्] ↩︎

  169. “°क्यभिक्षुकं” [च्] ↩︎

  170. “तत्सर्वज्ञत्वसन्देहेन” [च्] ↩︎

  171. “भ्रमशङ्का न शक्यापाकर्तुम्” [च्] ↩︎