०२

प्रथमाध्याये द्वितीयाह्निकम्

कथालक्षणप्रकरणम्

प्रमाणतर्कसाधनोपालम्भः सिद्धाताविरुद्धः पञ्चवयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ १ । २ । १ ॥

नितान्तदक्षिणश्लक्ष्णधियो गृह्णन्त्वमत्सराः ।
वाचस्पतिगिरामर्थतत्त्वानि विबुधा इव ॥

उद्देशक्रमप्राप्तं वादलक्षणपरं1 “सूत्र”मवतारयितुं “भाष्यम्-तिस्रः कथा भवन्तीति ।” तदयुक्तम्, “बृहत्कथादीनां” तिसृषु कथासु अनन्तर्भावात् । न च सामान्यलक्षणाभिधानमन्तरेण विशेषलक्षणावसरोऽस्ति, वादादयश्च कथाविशेषा इत्यत आह “वार्त्तिककारः-तिस्रः कथा भवन्तीति ।” नायं कथामात्रनियमो येन “बृहत्कथा”दीनामकथात्वं स्यात्, अपि तु यन्नानाप्रवक्तृके विचारे वसति तद् विचारवस्तु । विचारविषया2 वाक्यसन्दृब्धिः3 कथेति यावत् । तस्याः कथाया4 एष नियमः तिस्र एवेति । तथा च नानाप्रवक्तृकविचारविषया वाक्यसन्दृब्धिः कथेति सामान्यलक्षणं “पक्षप्रतिपक्षपरिग्रह” इति “सूत्रा”वयवेन सूचितमित्येतदप्यर्थादुक्तं भवतीति द्रष्टव्यम् । “यद् वस्तु विचार्यते” इत्यर्थाभिधानमात्रम्, न तु विचारवस्त्वित्यस्य विवरणम् । वादादिष्वधिकारिणः पुरुषानाह—“तत्र गुर्वादिभिरिति ।” वादलक्षणस्यानन्तर्ये हेतुमाह—“तत्र यथोद्देशमिति ।”

“सूत्रमिति ।” सामान्यलक्षणमप्यनेन सूच्यत इत्युक्तं भवति । “एकाधिकरणस्थावित्यादि भाष्यं” प्रश्नपूर्वकं व्याचष्टे—“काविति ।” वस्तुधर्माविति । विभजते “वस्तुधर्मावितीति ।” धर्मशब्दो विशेषे । तदनवसायाद् वस्तुनः सामान्यतोऽवसाय उक्तो भवति । तदिदमाह—“वस्तुनः सामान्येनेति ।” अविरुद्धावप्येवं न विचारं प्रयोजयत इत्यर्थः । प्रमाणतर्कसाधनोपालम्भपदस्य तात्पर्यमाह—“अस्येति ।” अनेन “तस्य विशेषणम्” इत्यादि “भाष्यं” व्याख्यातम् । यद्यपि वितण्डायामपि पक्षप्रतिपक्षपरिग्रहोऽस्ति, तथापि प्रतिपक्षसाधनं नास्ति तस्याः स्थापनाहीनत्वात्5 । यद्यपि च जल्पेऽपि पक्षप्रतिपक्षसाधनमस्ति,6 तथापि न प्रमाणमूलैरवयवैस्तर्केण च साधनोपालम्भाविति जल्पवितण्डाभ्यां प्रमाणतर्कसाधनोपालम्भग्रहणेन व्यवच्छेदः । यथा चैतत् तथोपरिष्टादुपपादयिष्यते ॥

आक्षिपति—“कथं पुनस्तर्केणेति ।” समाधत्ते—“न ब्रूम” इति । तर्कस्येतिकर्तव्यतारूपस्य प्रमाणानुग्राहकतया प्रमाणमूला अवयवास्तर्कमूला अपि भवन्ति । तथा च तर्कस्यापि साधनोपालम्भहेतुभावः सिद्धो भवतीत्यर्थः । विकल्प्याक्षिपति— “साधनमुपालम्भश्चास्मिन्निति ।” परं प्रति हि सिद्ध्युपालब्धी विवक्षिते । न च ते प्रमाणतर्काभ्याम्, तयोः स्वप्रतिपत्तिहेतुत्वात् । “अवयवार्थस्य” अवयवशब्दार्थस्येत्यर्थः । उभयथाभिमतत्वेऽपि करणसाधनपक्षं कक्षीकृत्य7 तावत् समाधत्ते—“न, अन्यार्थत्वादिति ।” अन्यप्रयोजनत्वादित्यर्थः । यदा तु भावसाधनौ तदा पृच्छति— “अथैताविति ।” विप्रतिपन्नस्य प्रश्नः । न प्रतिपक्षविषय उपालम्भो नापि तत्साधनविषयः, तयोर्वस्तुनोः स्वकारणादुत्पन्नयोः सदा तद्रूपत्वेन पुरुषधर्मोपालम्भानास्पदत्वादित्याक्षेपार्थः । समाधत्ते—“एवमेतदिति ।” धर्मी धर्मविशिष्टः पक्षः प्रतिपक्षो वा कर्म, तस्य विषयः । तस्य धर्मिणो वास्तवं तादृशत्वमतादृशत्वं वा, करणस्य तु कर्मैव विषयः । तत्र च8 कर्मकरणे समर्थे एव, नासमर्थे । अन्यविषये तु पुरुषस्ते नियुञ्जानोऽसमर्थीकरोतीति । सोऽयं पुरुषस्यापराधो न कर्मकरणयोः । यथा आकाशे निशातमसिं व्यापारयतः पुरुषस्यापराधो नाकाशस्य शब्दे समर्थस्य, असेर्वा निशातस्य दारुणि समर्थस्य । तस्मादौपचारिकः साधनस्योपालम्भो न मुख्यः । मुख्यस्तु पुरुषस्यैव । वचनद्वारेण तूद्भाव्यते पुरुषस्येति । “वचन” उपचर्यते न तु पक्षे पक्षद्वारेणानुद्भावनादिति सिद्धम् । यथायमर्थः “सूत्र”पदेभ्यो लभ्यते तथा प्रश्नपूर्वकं दर्शयति—“कथं पुनरिति ।”

यदुक्तं प्रमाणतर्कसाधनोपालम्भग्रहणं वादस्य जल्पवितण्डाभ्यां विशेषणार्थमिति, तत्र प्रकारं पृच्छति—“अथेति ।” प्रष्टैवाह—“नन्विदमपीति ।” उत्तरम्—“न समानमिति ।” नियममाह—“प्रमाणतर्कसाधनोपालम्भ एव वादः ।” एवकारेण छलादिसाधनोपालम्भत्वं वादस्य व्यवच्छिद्यते, तथा च जल्पवितण्डाभ्यां व्यवच्छेदः । एतदुक्तं भवति, तर्कानुगृहीतप्रमाणमूला अवयवाः परमार्थतो भवन्तु मा भूवन् वादिप्रतिवादिनोस्त्वभिप्रायो भवतु9 प्रमाणमूला अवयवा इति । एतावतैव प्रमाणतर्कसाधनोपालम्भता वादस्य, वीतरागकथात्वेन तत्त्वनिर्णयावसानत्वात् । जल्पवितण्डयोस्त्वप्रमाणमूलत्वं विदुषापि प्रतिवादिना छलादिभिः प्रत्यवस्थेयम् । एकान्तपराजयाद् वरं संशयोऽस्त्वितीच्छता विजिगीषुणा । यथा चास्य शास्रे व्युत्पादनं नासदृशं यथा चैष सतामाचारः, तथा जल्पलक्षणे वक्ष्यामः10

“जल्पे निग्रहस्थानविनियोगाद्” इत्यादि “भाष्यम् ।” तदनुपपन्नम् उपालम्भग्रहणादेव वादेऽपि निग्रहस्थानस्य लब्धत्वादित्यत आह “वार्त्तिककारः— छलजातीति ।” असत्युपालम्भग्रहण इत्यभिप्रायः11 । चोदयति—“समस्तेति ।” यद्युपालम्भग्रहणस्य निग्रहस्थानविधानं प्रयोजनम्, हन्त भो न जल्पाद् वादस्य विशेषः, कृतं चोत्तराम्यां पदाभ्यामित्यर्थः । परिहरति—“नोत्तरयोरिति । नियमः” परिसङ्ख्या । तदनेन “कस्यचिदभ्यनुज्ञानार्थमिति भाष्यं” व्याख्यातम् । “सिद्धान्ताविरुद्ध” इत्यत्र “भाष्य”व्याख्यानमुपन्यस्य दूषयति—“सिद्धान्ताविरुद्ध इत्यनेन किलेति । भाष्यमते” दूषिते पृष्ट्वा स्वमतेन व्याचष्टे—“अथ किमिदं पदमिति ।” पृच्छति—“कस्मात् पुनरिति ।” उत्तरम्—“गुर्वादिभिरिति ।” न खल्वप्रतिभाद्युद्भावना तत्त्वप्रतिपत्तावुपयुज्यते, अधिकं तु न यद्यपि तत्त्वप्रतिपत्तिं साक्षाद् व्याहन्ति, तथापि तत्प्रयोजनानुसरणे परः प्रतिपत्ता समाकुलितबुद्धिर्न तत्त्वं प्रतिपत्तुमर्हतीत्यधिकस्यापि तत्वप्रतिपत्तिविघातहेतुत्वमिति । “तत्त्वबुभुत्सुरिति” जिगीषुतां निराकरोति, न हि गुर्वादिषु12 जिगीषासम्भवः । “त्रिविधं फलमिति ।” अनधिगततत्त्वावबोधः संशयनिवृत्तिरध्यवसिताभ्यनुज्ञानमिति फलानि त्रीणि । प्रतिद्वन्द्विनि तु न वादः, अपि तु जल्पवितण्डे । चोदयति—“प्रमाणतर्केति ।” पारमार्थिकात् तर्कसहितात् प्रमाणादेकस्मिन् विषये साधनोपालम्भयोः सम्भवे विरुद्धधर्मसमालिङ्गितमेकदा वस्तु प्रसज्यत इत्यर्थः । परिहरति—“नैष दोष” इति । वादेऽभिप्रायो नियम्यते वादिप्रतिवादिनोः प्रामाणिकधिया साधनोपालम्भौ ताभ्यां प्रयोक्तव्यौ, नाप्रामाणिकधिया जल्पवितण्डयोरिव । न पुनर्वस्तु नियम्यत इति । तथा च वादे अबुद्धिपूर्वं13 छलादिप्रयोगे तदुद्भावनमपि सम्भवति, तावदेव चोद्भाव्यं यावत्यनुद्भाविते तत्त्वप्रतिपत्तिव्याघातः, यस्मिंस्त्वनुद्भावितेऽपि न तत्त्वप्रतिपत्तेर्व्याघातः, तत्प्रयुक्तमपि14 नोद्भावनीयम् । एतच्च पञ्चमेऽध्याये निपुणतरमुपपादयिष्यते ।

साधनोक्तं प्रकारं दूषणेऽप्यतिदिशति—“दूषणमप्येवम् ।” पूर्वस्मिन् प्रयोजने स्थिते “भाष्यकारः” प्रयोजनान्तरमन्वाचिनोति—“अवयवेष्विति ।” न हि पञ्चावयवोपपन्नत्वं15 प्रमाणं च तदनुग्राहकं च तर्कमन्तरेण भवतीति पञ्चावयवोपपन्नत्वादेव प्रमाणतर्कप्रतिलम्भे साधनोपालम्भयोर्व्यतिषङ्गज्ञापनायावश्यं साधनोपालम्भग्रहणं तावत् कर्तव्यम्, अन्यथैकः स्वस्थानस्थित16 एव शब्दस्यानित्यत्वं प्रति पञ्चावयवोपपन्नं वाक्यं प्रयुङ्कते अपरोऽपि तादृशः शब्दनित्यतां प्रति तादृशमेव वाक्यं प्रयुङ्क्ते इति सोऽपि वादः प्रसज्येत । साधनोपालम्भविशेषणाय च प्रमाणतर्कग्रहणं कृतमिति17 भावः । प्रयोजनान्तरमन्वाचिनोति—“अन्तरेणापि चेति ।” वादः पञ्चावयवोपपन्न इत्येकः कल्पः । प्रमाणतर्कसाधनोपालम्भ इति च द्वितीय इत्यर्थः । प्रयोजना न्तरमन्वाचिनोति—“छलजातीति । विनिग्रहो जल्पो मा विज्ञायि ।” वादगतनिग्रहस्थानरहितो18 मा विज्ञायीत्यर्थः । तद्विज्ञाने कीऽदृशोऽर्थो भवतीत्यत आह— “छलजातिनिग्रहस्थानेति ।” वादगतो निग्रहो न जल्पे, जल्पगतश्च निग्रहो न वाद इति स मा विज्ञायि । इष्यते हि वादगतोऽपि19 निग्रहो जल्पे । सोऽयमिष्टोऽर्थो ग्रन्थाधिक्यात् प्रमाणतर्कग्रहणात् लभ्यत इत्यर्थः ।

तदेवं स्वाभिमतं वादलक्षणं व्याख्याय “वासुबन्धवं”20 लक्षणं दूषयितुमुपन्यस्यति—“अपरे त्विति ।” स्वपक्षस्य सिद्धिः परपक्षस्य चासिद्धिः, तदर्थं वचनं वाद इत्यर्थः । दूषयति—“अत्र चेति ।” प्रथमं हेतुं विभजते—“एताविति ।” पूर्वः पक्षोऽयुक्तः, पक्ष उत्तरस्तु युक्त इत्यर्थः । एकस्य वा शब्दस्य धर्मिणोऽनेकनित्यानित्यविशेषणाभिसम्बन्धिनः पुरुषाभिसन्धिभेदात् अनेकशब्दाभिधानम्, स्वपरशब्दाभिधानमित्यर्थः । “एतदेव चिन्त्यते किं तत्स्वीकरणमिति” न तावद् भूमिधनादिष्विव स्वोचितास्वर्थक्रियासु यथेष्टविनियोगयोग्यत्वं स्वत्वमर्जनापादितमनित्यत्वादिना प्रतिज्ञाते शब्दादौ सम्भवतीत्यर्थः । चोदयति—ममेति प्रत्योत्यपत्तिकारणत्वं स्वत्वम्, अकारणत्वमस्वत्वमिति । दूषयति—“निर्दिष्ट” इति । यथेष्टविनियोगयोग्यत्वमेव ममेति प्रत्ययकारणत्वम्21 नान्यत् । न चैतन्नित्यत्वादिना प्रतिज्ञाते शब्देऽस्ति शास्रकारस्येत्यर्थः । अपि चोपकारकत्वेन व्याप्तं सत्वं गोघटादिषु तथा दर्शनात्, पक्षात् निवर्तमानमुपकारकत्वं स्वत्वमपि स्वव्याप्यं निवर्तयति वृक्षत्वमिव शिंशपात्वमित्याह—“यच्च यस्येति ।” द्वितीयं कल्पम् आशङ्कते—“साधनीयेति ।” निराकरोति“अहो शब्दार्थेति ।” विशेष्यपदात् अनतिरिक्तार्थं विशेषणपदमित्यर्थः । अपि चेदं विशेषणपदं विशेष्यं22 सामान्यतः प्रसृतं विशेषेऽवस्थापयति न वा ? अवस्थापयतीति चेत् ? न साधनीयमात्रार्थता स्वपक्षशब्दस्य,23 न चेद् विशेषणं व्यर्थमित्याह— “व्यवच्छेदार्थं चेदमिति ।” ननु च विशेष्यशब्दो विशेषणयोगात् विशेषे वर्तमानोऽपि सामान्यशब्द एव, ततश्च शक्नोति समानमर्थं वक्तुमिति चोदयति—“सामान्यशब्दा अपीति ।” परिहरति—“न ते सामान्यशब्दा” इति । “अपि च साधनीयः पक्ष” इति । विरुद्धोपदर्शनेन स्फुटा प्रतीतिर्भवतीति अयुक्तप्रतिपादनार्थं युक्तस्याप्युपन्यास इति । यदि न पक्षेण दूषणं सम्बध्यते कस्तर्हि तस्य विषय इति शङ्कते—“अथ दूषणस्येति ।” उत्तरम्—“कस्यचिदिति । उत्तरदोषः” जात्युद्भावनम् । आक्षिप्यन्त इत्याक्षेपाः । के ते भावाः ? अप्रतिभाविक्षेपादयः । नैते स्वपरपक्षाभ्यां सम्बध्यन्ते नापि स्थापनयेति । चोदयति—“सत्यमिति ।” परिहरति—“उपचरितेति ।” नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनम् इति हि गाथा भवतामित्यर्थः । अपि चोपचारश्चेत् लक्षणे ततो24 वरमेवं क्रियतां लक्षणं लाघवायेत्याह—“यदि चेति ।” शङ्कते—“अथेति ।” निराकरोति—“स्वरूपत” इति । मुख्यत इत्यर्थः । चोदयति—“स्थापनयापीति ।” परिहरति—“न दोषेति ।” ननु न दूषणमात्रं सम्बध्यते असिद्ध्यर्थमिति च दूषणमात्राभिधानम्, तत् कुतो विशेषप्रतिलम्भ इत्यत आह—“सामान्याभिधानेऽपीति ।” तृतीयं कल्पं दूषयितुमुपन्यस्यति—“स्वपरशब्दाविति ।” एतदपि “सूत्रा”न्तरविरोधेन25 दूषयति—“न युक्तमेतदपीति ।” ते साधनदूषणैः स्वपरशब्दाः26 सम्बध्यन्ते इति “सूत्रे” हि नियमेन स्वपक्षे साधनं परपक्षे दूषणमुक्तम्, तथा चोत्तरपक्षो दूषणीय एवेति उत्तरपक्षवादिनापि दूषणीयः27 । एवं पूर्वपक्षोऽपि साधनीय एवेति । उत्तरपक्षवादिनोऽपि साधनीयो न दूषणीयः स्यादित्यर्थः । अपि चायुक्तस्य पूर्वपक्षस्य28 साधनं युक्तस्य चोत्तरपक्षस्य दूषणमिति विपरीतप्रसङ्ग इत्याह— “स्वपक्षश्चोत्तरपक्षवादिनः पूर्वपक्षात्” अयुक्तपक्षात् “अन्यः” युक्त इत्यर्थः । “न पदार्थः” नावयवार्थः29 । एतेन “सूत्रा”न्तरनियमाभिधानव्याघातेनेत्यर्थः । “व्याख्याता” निराकार्यत्वेन । षष्ठं कल्पं दूषयितुमुपन्यस्यति—“एक एवायमिति ।” दूषयति— “युक्तमेतत् ।” एकस्यानेकं विशेषणम् ।

द्वितीयं हेतुमुपन्यस्तं व्याख्यातुं स्मारयति—“समासेति ।” न केवलं विशेष्यात् पृथक् स्वार्थो विशेषणं नावधार्यते, अपि त्वन्यस्मादपि न भिद्यते इत्याशयवानाह— “भेदाच्चेति ।” चोदयति—“असत्यपि भेद” इति । न केवलं पत्युर्विशेष्यात् सेना न भिद्यतेऽपि तु ततोऽन्येभ्योऽपि हास्तिकाश्वीयरथपदातिभ्य इति । एवं पानकमपि न केवलं तदङ्गेभ्यो जीरकादिभ्यः, अपि त्वन्येभ्योऽपि फलसलिलादिभ्य इति । परिहरति—“तच्च नेति ।” उक्तं विस्मृत्य30 शङ्कते—“अथ मन्यसे स्वार्थ” इति । उक्तस्मारणेन निराकरोति—“तन्नेति ।” एतेनैव च31 कर्मधारयबहुव्रीही अपीत्याह— “एतेनेति ।” अपि च स्वः पक्षो यस्य साधयितुः स तथोक्तः । तथा च साधयितृविषयं स्यादित्याह—“साधयितृविषयं चेति ।”

ननु मा भूद् यथेष्टविनियोगयोग्यार्थता स्वशब्दस्य, साधनीयार्थता तु भविष्यति । तथा च समासोपपत्तिरिति चोदयति—“ननु चेति ।” षष्ठीसमासपक्षोक्तं दोषं स्मारयति—“न सम्भवतीति ।” अपि च पक्षात्32 स्वपक्षभेदे “सूत्रा”न्तरव्याघातोऽभेदे वा एतस्य व्याघात इत्याह—“विरोधाच्चेति ।”

अपि च वाक्यसमासयोः समासो ज्यायान् लाघवादित्याह—“आस्तां तावदिति । न ह्ययं समर्थः समास” इति । सिद्ध्यसिद्ध्यर्थमित्ययं समासः स्वपरपक्षयोः प्रत्येकं न सम्बन्धार्थ इत्यर्थात् कस्यचित् सिद्धिः कस्यचिदसिद्धिरित्यर्थः । परिहरति—“यद्यसामर्थ्यात् न समासः” सिद्ध्यसिद्ध्यर्थमिति । “समासेऽपि तर्हीति ।” स्वपक्षपरपक्षसिद्ध्यसिद्ध्यर्थमिति समासेऽपीत्यर्थः ।

एकवचनबहुवचनप्रसङ्गोऽपि नास्त्यसामर्थ्यादिति चोद्यसमाधानाभ्यां दर्शयति—“एकवचनेति ।” अनित्यत्वेऽपि समासविधेः समास एव विग्रहात् ज्यायानिति चोद्यसमाधानाभ्यां दर्शयति—“अनित्य इति ।” भवतु गौरवमेवमपि33 को दोष इत्यत आह—“अर्थगत्यर्थं34 चेति ।” लघुनोपायेनाशुसिद्धौ गुर्वभिधानमनर्थकम् । यथाहुः, अक्के35 चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥

इति अनर्थकप्रयोगश्चानपेक्षितः शिष्यैरिति तेषामशासनात् न शास्त्रं स्यात्, तदिदमुक्तम्—“शास्त्रत्वेनेति ।”

सिद्ध्यसिद्ध्यर्थमित्येतदपि दूषयति—“सिद्ध्यसिद्ध्यर्थमित्येतदपि36 न युक्तमिति । तन्न तावदिति । तदिति” तयोर्मध्य इत्यर्थः । “अधिकरणप्रत्यायनमिति” प्राश्निकप्रत्यायनमित्यर्थः । कुतो व्याहतमित्यत आह—“ये चैते” इति । “चो” यस्मादर्थे, अधिकरणे वर्तते पक्षस्येति व्याहतमित्यर्थः । चोदयति—“नायमिति ।” सिद्धिर्ज्ञानं तस्य पक्षो विषयः, आश्रयास्तु प्राश्निका इत्यर्थः । विकल्प्य दूषयति—“न युक्तमेतदिति ।” न तावत् ज्ञानं पक्षविषयं प्राश्निकाधिकरणं चेति “बौद्ध”राद्धान्ते सम्भवति, ज्ञानस्यानाधारत्वात् विषयिविषयभावस्य चातात्त्विकत्वात्37 । तस्मादन्या सिद्धिः । तत्रेदमुपतिष्ठते—“किं तर्हीति ।” सिद्धियोगात् सिद्धः पक्षो भवति । प्रमाणयोगस्य सिद्धिः । सैवार्थस्य तथाता,38 तस्यास्तु प्राश्निकानां प्रतीतिर्भवति । तस्मात् न प्राश्निकप्रतीतिः पक्षस्यासिद्धिरिति विरोधः । यस्मात् सोऽर्थस्तथा भवति तस्मात् तथाभावादधिकरणप्रत्यायनं भवतीति द्वितीयं कल्पमाशङ्कते—“अथासिद्ध” इति । यावत् पक्षविषयं साधनं न प्रयुज्यते तावद्यद्यधिकरणप्रत्यायनं39 ततः साधनप्रयोगात् प्रागधिकरणप्रत्यायनमस्तीति वादवैयर्थ्यं साधनदूषणप्रयोगोऽनर्थकः । दूषणान्तरमाह—“पक्षस्येति ।” न प्रयोजनमन्तरेणेदानीन्तनानामस्मदादीनां मुख्यार्थशब्दस्यातिक्रमोऽवाचकपदप्रयोगेण लभ्यते इत्यर्थः । यथाहुः,

अस्मदायत्ते शब्दप्रयोगे40 किमित्यवाचकं प्रयोक्ष्यामहे41 इति ।

स्यादेतत् । मञ्चस्थाः क्रोशन्तीति वक्तव्ये विनापि प्रयोजनं मञ्चाः क्रोशन्तीत्युपचारो दृष्ट इत्यत आह—“अपि तु प्रमाणासम्भवेनेति ।” प्रमाणासम्भवेनापि त्विति योजना । नन्विहापि विनापि प्रयोजनं प्रमाणासम्भवमात्रेणोपचारो मञ्चाः क्रोशन्तीतिवद्भविष्यतीत्यत आह—“लोकप्रयुक्तेति”42 लोकप्रयुक्तशब्दार्थवत् । उपचारोऽपि लौकिको न प्रयोजनाभावेन शक्योऽपवदितुं न लोकः पर्यनुयोज्यो यतः इदानीन्तनस्तु43 अस्मदादिप्रयोगः प्रयोजनाभावे न44 शक्य पर्यनुयोक्तुमित्याशयेनाह—“न चेदं लौकिकमिति ।”

“अपरे त्विति ।” न दूषणविषयत्वमसिद्धिर्येन न पक्षेण सम्बध्येत, अपि त्वज्ञानम् । तच्च पक्षविषयमेवेति न मुख्यार्थलङ्घनमित्यर्थः । अत्रापि पूर्वोक्तं प्रसङ्गमाह— “तद् यदीति ।” तस्मात् पक्षस्येतीच्छता सिद्ध्यसिद्धिज्ञानाज्ञाने पक्षधर्मावेवाभ्युपगन्तव्ये । यतः तयोः पक्षधर्मत्वात् एतद्भवति सिद्धः पक्षोऽसिद्धश्चेति45 । अस्तु तर्ह्येवमित्यत आह—“एवं सतीति ।” नैव46 द्रष्ट्राधारता ज्ञानस्य विषयता च “बौद्ध”राद्धान्ते सम्भवतीति भावः । शङ्कते—“अथ मा भूदिति ।” अस्ति खल्वालयज्ञानं यदुपाश्रित्य षडपि प्रवृत्तिज्ञानानि जायन्ते । तस्मादालयप्रत्ययो द्रष्टा । तत्स्थे एव सिद्ध्यसिद्धी । ननु पक्षस्य तद्विषयत्वात् तस्यापीति चेत्, कः पुनरयं विषयभावः47 । तत्कारणत्वमिति चेत् ? चक्षुरादीनामपि ज्ञानकारणानां विषयत्वप्रसङ्गः । असतश्चाकारणस्य अविषयत्वप्रसङ्गः । ज्ञानप्रकाश्यत्वं विषयत्वमिति चेत्-न, ज्ञानेनार्थे प्रकाशाजननात् । तस्मात् ज्ञानस्य तदसमवायिनः तदविषयस्य च8 द्रष्ट्टस्थतैवेति सिद्धम् । निराकरोति—“तथापीति ।” पुनः शङ्कते—“अथ तथातथाते” इति प्रमाणयोग इत्यर्थः । निराकरोति—“तथापीति ।” तत्त्वं जिज्ञासुः पृच्छति—“के पुनरेते” इति । सुहृद्भावेनोत्तरमाह—“वस्तुधर्माविति ।” यद्यपि प्रमाणयोगायोगौ प्रमेयस्य च प्रमातुश्च साधनासम्बन्धे कर्तृत्वानुपपत्तेः, तथापि प्रमेयस्य प्राधान्यात् तत्रैवाभिधानप्रत्ययाविति प्रमेयधर्मावुच्येते व्यक्त्यव्यक्ती, न तु प्रमातृधर्माविति । सिद्ध्यसिद्ध्यर्थमिति48 “अर्थशब्दानुपपत्तिः ।” कस्मात् ? “विकल्पानुपपत्तेः ।” विकल्पमाह—“अर्थशब्दः खल्विति ।” इह “सूत्रे” धननिमित्तादिवचनतार्थशब्दस्य न सम्भवतीति त्रयमवशिष्यत इति त्रेधा प्रवर्तत इत्युक्तम् । साधनं साधनाभासो दूषणं दूषणाभास इति चतुर्विधं वाक्यम् । प्रथमकल्पमपाकरोति—“तन्न तावदिति । तदिति” तेषु मध्य इत्यर्थः ।

ग्रन्थान्तरे49 युक्तायुक्तत्वेन विशेषणात् चतुर्विधवाक्यसङ्ग्रहार्थो ह्युद्देशे अर्थशब्दो व्याख्यातः । न च युक्तायुक्तत्वविशेषणे चतुर्विधवाक्यसङ्ग्रहो भवति साधनाभाससम्बन्धिनः पक्षस्य युक्तत्वाभावात् दूषणाभाससम्बन्धिनश्च प्रतिपक्षस्यायुक्तत्वाभावादित्यर्थः । अथ न साधनादियोगोऽपि तु साध्यधर्म एव साधनानपेक्षो युक्तायुक्तत्वमिति शङ्कते—“अथ पुनरिति ।” निराकरोति—“तथापीति ।” कुतो व्याघात इत्यत आह—“न हीति ।” यदि प्रत्यायनं सिद्धिः प्रतीतिः, तथापि सा प्रत्याय्या50 न सम्भवति । अथ करणम् ? तथापि कर्म करणं न सम्भवतीति व्याघात इत्यर्थः । द्वितीयं कल्पमाशङ्क्य निराकरोति—“अथ प्रयोजन” इति । प्रयोजनं कार्यम् । तन्न कारणाभासाद् भवितुमर्हति । न हि वह्निरिति गृहीतः खद्योतो दहति पचति वेत्यर्थः । तृतीयं कल्पमाशङ्क्य निराकरोति—“अथाभिधेय” इति । “ग्रन्थकारः” सूत्रकारः । “एवं त्विति ।” एवं सति सिद्धिशब्दोऽसिद्धिशब्दश्च वादः स्यात् । ननु धननिमित्तादयोऽप्यर्थशब्दवाच्याः सन्ति, ते कस्मादिह न गृह्यन्ते इत्यत आह—“तत्र सूत्रे । न चान्योऽर्थशब्दस्य विषयः” सम्भवति, न हि सिद्धिर्धनं वा स्वपरपक्षयोः साधनं51 वा निवृत्तिर्वा सम्भवतीत्यर्थः । अपि च वचनविशेषणपक्षे52 स्वशास्त्रव्याघात इत्याह— “सिद्ध्यसिद्ध्यर्थं वचनं53 वाद इति ब्रुवाणेनेति । नैयायिक”हेतुदूषणं पूर्वमिदं “सूत्र”मुत्तरम् । उपसंहरति—“तदेवमिति । तन्त्रं” शास्त्रम् । “लोकं च बाधन्त” इति । अवाचकपदप्रयोगात् साधनदूषणाभासवादिनश्च वादित्वेन लोकसिद्धस्यावादित्वापादनात् सिद्ध्यसिद्धिशब्दयोश्च वादत्वापादनार्थत्वादित्यर्थः ।

“सूत्रं” दूषयित्वा “वृत्तिं” दूषयति—“यथा चेति । स्वस्य पक्षस्येति54 ।” स्वस्यात्मीयस्य पक्षस्य । न हि पक्षव्यतिरेकेण पक्षाधारं साध्यं ज्ञानमन्यद् वा सिद्धिशब्दाभिधेयं सम्भवति, ज्ञानस्य पुरुषाधारतया अनाधारतया वा पक्षाधारत्वानुपपत्तेः, पक्षस्य तु भवेत् केनचित् सम्बन्धेन यादृशतादृशेनेत्यर्थः । ते साधनदूषणैरित्यत्र पृथगुक्ते साधनदूषणे । युक्तायुक्तत्वाभ्यां55 ते युक्तायुक्तत्वे । “साधनदूषणैरिति ।” न हि कर्म करणं भवतीत्यर्थः । अपि च युक्तायुक्तार्थाभ्यामभेदे साधनदूषणपदमनर्थकं ते इत्यनेनैव युक्तायुक्तत्वावमर्षिणा गतार्थत्वादित्याह—“युक्तायुक्तत्वशब्दाभ्यां”56 चेति । अथ न पर्यायता, अपि तु सामान्यविशेषभावः, युक्तायुक्तत्वे सामान्यम्, साधनदूषणे च विशेष इति शङ्कते—“अथ मन्यसे” इति । निराकरोति—“न प्रथमेति ।” उभयव्यभिचारे विशेषणविशेष्यभावे कामचारादुत्पलैरित्युक्तम् । द्वितीयं कल्पमाशङ्क्य दूषयति—“योग इति चेदिति ।” न खलु योगो नाम “बौद्धा”नां साध्यसाधनवृत्तिर्दूष्यदूषणवृत्तिर्वा कश्चिदस्तीत्यर्थः । अपि च सांवृतोऽपि योगः साध्यसाधनज्ञानाधीननिरूपणतया नानिरूपिते साध्ये निरूपितो भवति, निरूपणं च निर्णय इति योगनिरूपणात् प्राक् साध्यनिर्णयात् कृतं योगनिरूपणेन साध्यनिर्णयार्थेनेति । युक्तायुक्तत्त्वेन करणेनाधिकरणप्रत्यायन-मिति व्याघात इत्याह—“साधनेनेति । भवति” ज्ञायते । तृतीयं कल्पमाशङ्क्य निराकरोति—“अथ पदार्थस्येति ।” युक्तायुक्तत्वेनाधिकरणप्रत्यायनमिति युक्तायुक्तत्वयोः करणत्वं दर्शितम्, तत् तथात्वातथात्वपक्षे न सम्भवति, कर्मत्वात् । तदिदमुक्तम्—“ते व्यवच्छेद्ये” परिच्छेद्ये न तु व्यवच्छेदस्य परिच्छेदस्य साधने इति ।

अधिकरणप्रत्यायनमिति दूषयति—“अधिकरणेति । शास्त्रसम्बन्धः” प्रयोजनेनेति । चोदयति—“प्राश्निकप्रत्यायनादिति ।” कश्चित् चोदकं57 पृच्छति“किं कारणम्58 ? तत्प्रत्यायनादिति ।” चोदकस्योत्तरम्—“प्रतिवादी किलेति ।” सिद्धान्त्याह—“सन्तमप्यर्थं न प्रतिपद्यत” इति । न खल्वाध्यात्मिकशक्तिसम्पन्नः समाहितः समग्रे साधनप्रयोगे सति59 सन्तमर्थं न प्रतिपद्यत इति सम्भवतीत्यर्थः । तथाविधेनापि चेत् प्रतिपत्त्रा सोऽर्थोऽन्यथा प्रतिपन्नः, कथमसौ तथा सन्नित्यभिधीयते इत्याह—“कथं चेति ।” शङ्कते—“अथ” जिगीषुतया “प्रतिपद्यमानोऽपीति ।” कामकारोऽनुज्ञा । निराकरोति—“तथापीति ।” न प्रतिपद्यते प्रतिपद्यमान इति व्याहतम् । न चायमनुज्ञानिषेधो न प्रतिपद्यते इति वादे वीतरागकथात्वेन60 जिगीषाया अभावादिति भावः । “यच्च प्राश्निकप्रत्यायनादिति ।” अन्यदीयेन करणेनान्यः प्रतिपद्यत इति सुभाषितम् । “अन्यविषयस्येति” अन्याश्रितस्येत्यर्थः । “न चायं नियम” इति । न वादे प्राश्निकानामुपादानम्, दैवागतानां तु न वर्जनमित्यर्थः । वादस्य जल्पवितण्डाभ्यामभेदमभिप्रेत्य चोदयति—“यदा तु नायमिति61 ।” आशयस्थितमर्थमनभ्युपगच्छन् परिहरति—“सत्यमिति ।” स्वाभिप्रायं62 दर्शयति—“न त्रैविध्येति ।” दूषयति—“न” भवद्भिरेव “प्रतिषेधादिति ।” त्रैविध्यानभ्युपगमादिति दूषयति—“यदपीति ।”

यच्चोक्तं “वृत्तौ” पक्षसिद्धिविषयम्, एतदपि दूषयितुमुपन्यस्यति— “यच्चोक्तमिति । न कामतः” विना प्रयोजनमिति । विनापि प्रयोजनं प्रमाणासम्भवेनापीति योजना । “सूत्रो”क्तं दूषणं वृत्तौ आह—“तदर्थं वचन” सिद्ध्यसिद्ध्यर्थमित्यर्थः । अधिकरणं दूषयति—“अधिकरणमिति । न हि वादे63 प्राश्निकाधारमिति ।” प्राश्निका एव तावद् वादे न सन्ति, अभ्युपेत्य उक्तमिति । शङ्कते—“प्रत्यायनाधारत्वादिति ।” सिद्धिः प्रत्यायनं तदाधाराः प्राश्निकाः इत्यर्थः । निराकरोति—“नेति ।” शङ्कते—“तस्मिन्निति”—दैवमिलिते प्राश्निके सतीत्यर्थः । निराकरोति—“नेति ।” न हि दैवमिलितं कारणम्, मा भूद् गर्दभोऽपि धूमस्य कारणमिति भावः । चोदयति यदि प्राश्निका न सन्ति “तद्वाद” इति । तयोर्वादिप्रतिवादिनोर्वादस्य “परीक्षा का कस्य” च तयोः वादस्य “क्व” च असौ परीक्षा ? प्राश्निकाभावे हि वादतत्परीक्षातदधिकरणा नामज्ञानमित्यर्थः । परिहरति—“साधनेति ।” वीतरागौ हि वादिप्रतिवादिनावेव वादस्वरूपज्ञानं च तत्परीक्षां च कर्तुं शक्नुतः, तत् किमत्र प्राश्निकैः ? साधनप्रयोगः पक्षविषयः, दूषणप्रयोगः स्थापनाविषयः इति वादस्वरूपम् । साधनदूषणतदाभासानां परितो ज्ञानं परीक्षा । “तदर्थं” परीक्षार्थं64 तस्मिन् वादेऽधिकारो वीतरागयोरेव वादिप्रतिवादिनोः65 । तदिदं क्वेति विप्रश्नस्योत्तरम् । तस्मात् सप्तम्यर्थोऽधिकरणार्थः पराभिमतः प्राश्निक इति यावत् । स नास्ति वादिप्रतिवादिनोरेव वीतरागयोः कथासमाप्तेरित्यर्थः ।

यदपि “वृत्तौ” चोदितं यदि सिद्ध्यसिद्ध्यर्थं वचनं वादः, ततः66 प्राश्निकप्रतिवादिनोः प्रियाप्रियवचसि रथ्यावादे67 प्रसङ्ग इति तदप्यतिनिर्बीजमित्याह“यदपीति ।” न हि प्रियाप्रियवचसः साक्षात् पारम्पर्येण वा सिद्ध्यसिद्ध्यर्थता, नापि साधनदूषणयुक्तायुक्तत्वविशेषणसम्बन्धः । तस्मादेवंवादी नोत्तरार्हः । न ह्युन्मत्ताय कश्चिदनुन्मत्त उत्तरमाह, ब्रुवाणो वा सोऽप्युन्मत्तः स्यात् । तदिदमुक्तम्—“दत्तः स्वहस्त” इति । पूर्वं सिद्ध्यसिद्ध्यर्थमिति, अपरं युक्तायुक्तत्वमिति, उभयोरप्यनेन चोद्येनासम्बन्धात् । यदि त्ववश्यमुत्तरं वाच्यम्, ततो वरमेवं वक्तव्यमित्याह—“यदि त्विति ।” सेयं सूक्ष्मेक्षिका “परै”रिह कृतेति तदनुबन्धेन68 “वार्त्तिककृता”पि कृतेति ॥ १ ॥

यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥ १ । २ । २ ॥

उद्देशक्रमानुरोधेन वादलक्षणानन्तरं जल्पं लक्षयति—“यथो—ल्पः ।” अत्रापि समानजातीयाभ्यां वादवितण्डाभ्यामसमानजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छेदो “सूत्रार्थः ।” यथोक्तोपपन्नपदार्थं व्याचष्टे—“समस्तमिति ।” चोदयति—“यथोक्तोपपन्न इति न युक्तमिति । निग्रहस्थाननियमस्य” प्रमाणतर्कसाधनोपालम्भाभिप्रायनियमस्य च जल्पेऽभावात्, भावे वा वादजल्पयोरभेदप्रसङ्गात्, वादलक्षणस्य च8 जल्पव्यापकत्वेन व्यभिचारप्रसङ्गाद् यथोक्तोपपन्न इत्येतदनुपपन्नमित्यर्थः69 । परिहरति—“नैष दोष” इति । उक्तमात्रमिह सम्भवात् योग्यतासम्भवाद् गृह्यते, न त्वनुक्तोऽर्थलभ्यो नियमः । न ह्यसौ “सूत्र”पदश्रवणमात्रात् प्रतीयते, अपि तु तदर्थे प्रतीते तस्यान्यतः सिद्धौ सत्यां गम्यत70 इति प्रमाणतर्कसाधनोपालम्भ इत्येतदतिदिश्यत इति उक्तमात्रोपलक्षणपरम् । तेन प्रमाणतर्कसाधनोपालम्भः पञ्चावयवोपपन्नः सिद्धान्ताविरुद्धः पक्षप्रतिपक्षपरिग्रह इत्येतस्य वादपदवर्जं71 समस्तस्य लक्षणस्यातिदेशः । नियमस्त्वार्थो न सम्बध्यत इति सिद्धम् । “लक्षणमात्रस्येति” उक्तमात्रस्य, नार्थस्य नापि लक्ष्यपदस्येत्यर्थः । अत्रैव दृष्टान्तमाह—“यथान्यत्र वैशेषिकतन्त्रे । न नियमार्थे पदे” इत्युपलक्षणम्, न प्रमाणतर्कसाधनोपालम्भपदलभ्योऽभिप्रायनियम72 इत्यपि द्रष्टव्यम् ।

पक्षान्तरमाह—“अथ वेति ।” यथा गोभिर्युक्तो रथो गोरथ इति युक्तपदलोप इति । “न हि73 नियमार्थयोरिति ।” एतदप्युपलक्षणं पूर्ववदेव । इह वादलक्षणं पठता “भाष्यकारेण” नियमोऽप्यतिदिष्ट इति मन्वानश्चोदयति—“भाष्यम् इदानीमिति ।” परिहरति—“न सूत्रेति ।” जल्पलक्षणानुकूलो यः पाठक्रमः, ततोऽर्थस्वरूपमात्रं74 प्रतीयते, न त्वार्थोऽर्थ इत्यर्थः । “यदुपपन्न”मुक्तमात्रमित्यर्थः । अत्र75 “भाष्यकारेण” छलादीनां निषेधार्थतया साधनाङ्गभावमाक्षिप्य परपक्षविघातेन स्वपक्षरक्षणादङ्गभाव इति दर्शितम् । तदेतद् “वार्त्तिककार” आक्षिपति—“छलजातिनिग्रहस्थानैरिति ।” तत् किं निग्रहस्थानान्यप्ययुक्तानि, न चैतच्छक्यमित्यत आह—“छलं तावदिति ।” छलजात्योराक्षेप्तव्ययोः76 सम्पातायातानि निग्रहस्थानानीत्यभिप्रायः । “भाष्योक्तं” समाधिमाशङ्कते—“अङ्गभाव इति चेत्” इति । निराकरोति—“एतदपीति” न हि सहस्रेणाप्यन्धैः पाटच्चरेभ्यो गृहं रक्ष्यत इत्यर्थः ।

एवमाक्षिप्ते पार्श्वस्थः पृच्छति—“किमर्थं तर्हीति ।” सिद्धान्तिन उत्तरं “साधनेति,” वादे तावद् यद्यपि न साधनविघातसमर्थानि, तथापि तेषां तत्त्वमविद्वान् एभिरहं77 “साधनं विहनिष्यामीत्यनया” बुद्ध्या “अपहृतः” व्यामोहितः प्रवर्तते78 । तस्माद् वादे भ्रमेणोपादानमेतेषामित्यर्थः । यत्र त्वेषां तत्त्वं विद्वान् प्रवर्तते, न स वादः, किन्तु जल्पो वितण्डा वेत्याह—“यत्र चैतानीति ।” ननु जल्पवितण्डयोः प्रयोगात् साधनमङ्गं वा स्यादत79 आह—“न पुनरिति ।” ननु यदि न साधनमङ्गं वा, कस्मात् तर्हि जल्पवितण्डयोरेषां प्रयोग इत्यत आह—“साधुसाधनोपादाने चेति ।” साधुसाधनोपादाने च वादिना कृते परेण प्रतिवादिना जिगीषुणाकुलितबुद्धिर्द्राक् पारमार्थिकमुत्तरमप्रतिपद्यमानश्छलादीनि प्रयुङ्क्ते । किमर्थमित्यत आह—“कदाचिदिति ।” यथाकथञ्चित् प्रयोगेण । तदनेन प्रकारेण तत्त्वसंरक्षणार्थत्वात् नासदाचारः80 । न च शास्त्रकाराणां छलादिव्युत्पादनमसदृशम्, न च खटचपेटाद्यभिधानप्रसङ्गः,81 वाग्युद्धे82 तेषाम् अप्रसङ्गादिति । “न बाधेति ।” नैकेनापरं तदैवापोद्यत इत्यर्थः । शेषं सुगमम् ॥ २ ॥

स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ १ । २ । ३ ॥

उद्देशक्रमानुरोधेन जल्पानन्तरं वितण्डालक्षणमाह—“स-ण्डा ।” पूर्ववादिपक्षापेक्षया प्रतिवादिन आत्मीय एव पक्षः प्रतिपक्षः । तस्य स्थापना साधनम्, तया83 हीनः । तदनेन जल्पाद् व्यवच्छिनत्ति । तदेतदाह “भाष्यकारः—स जल्प” इति । “तयोरेकतरं” प्रतिवादी आत्मीयं पक्षं न “स्थापयतीति । परपक्षप्रतिषेधेनेति ।” तत्स्थापनाप्रतिषेधेनेत्यर्थः । स्यादेतत् । यथा प्रतिवादिनः पक्षो वादिपक्षापेक्षया प्रतिपक्षः, एवं वादिपक्षोऽपि प्रतिवादिपक्षापेक्षया प्रतिपक्ष इत्युभयपक्षस्थापनाहीना वितण्डेति स्यात्, इत84 आह—“वार्त्तिककारः—प्रतिपक्षस्थापनाहीन” इति । द्वितीयपक्षस्थापनाहीन85 इति । प्रथमपक्षवादिनो हि स्थापनाया अभावे किं वैतण्डिक आहन्ति ? न च पक्षः शक्य आहन्तुम् । तस्मात् प्रथमपक्षवादिनोऽस्ति स्थापनेति द्वितीय एव पक्षः स्थापनाहीन इति सामर्थ्याद् युक्तमिति । अत्र चोद्य“भाष्यम्—अस्तु तर्हीति ।” स्थापनाया अभावे स्थाप्यः पक्षोऽपि86 नास्ति । न ह्यन्यथा पक्षस्य पक्षत्वमिति भावः । परिहरति—“यद् वै खलु तदिति ।” वैतण्डिकोऽपि हि वादी पारिशेष्यात् मत्पक्षः सेत्स्यतीति बुद्ध्या स्वपक्षमस्थापयन् परपक्षस्थापनामाहन्ति । तस्मात् “परपक्षप्रतिषेधलक्षणं वाक्यम्” अस्य “पक्षः” परपक्षनिषेधेन पारिशेष्यात् पक्षसिद्धिहेतुत्वादुपचारतः । तस्मादस्ति वैतण्डिकस्य पक्षः । न तु परपक्षप्रतिषेधादन्या स्थापना । तेनास्य पक्षोऽस्ति, नास्ति च87 पक्षस्थापना । तदिदमुक्तम्—“न कञ्चिदर्थं प्रतिज्ञाय स्थापयतीति ।” पक्षत्वं तु योग्यतामात्रेण,88 न तु स्थाप्यमानतयेति ।

“अस्तु तर्हीति भाष्या”र्थमाह—“वार्त्तिककारः अपरे त्विति ।” तस्मात् प्रतिपक्षहीनो वितण्डेति वक्तव्यमित्यर्थः । परिहरति—“अयुक्तं चैतदिति ।” न तावदस्थाप्यमानस्यापि स्थापनार्हतालक्षणा पक्षता न युज्यते, तस्मात् न वैतण्डिको दूषणादन्यत् किञ्चिदभ्युपगच्छतीति । अनभ्युपगमात् पक्षोऽस्य नास्तीति वक्तव्यम् । तथा च चतुर्वर्गाभ्युपगमे विरोधोऽनभ्युपगमे वा नायं लौकिको न परीक्षक इति प्रसङ्ग इति भावः । प्रतिपादयितुरयथार्थावबोधं89 प्रतिपत्तारं चात्मानमित्यर्थः । यस्तु मन्यते चतुर्वर्गाभ्युपगमेऽपि दूषणमात्रं वितण्डेत्येव वक्तव्यं लाघवायेति, तन्मतमुपन्यस्यातिप्रसङ्गापादनेन दूषयति—“दूषणमात्रेति ।” समाख्यानिर्वचनसामर्थ्यादेव गम्यत इत्यर्थः । उपसंहरति—“तस्मादिति ।” तदनेनार्थतो “यद् वै खल्वित्यादि भाष्यं” व्याख्यातम् ॥ ३ ॥

॥ इति कथालक्षणप्रकरणम् ॥

हेत्वाभासलक्षणप्रकरणम्

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥ १ । २ । ४ ॥

उद्देशक्रमानुरोधेन वितण्डानन्तरं हेत्वाभासेषु लक्षयितव्येषु अर्थाक्षिप्तसामान्यलक्षणमेषां विभागोद्देशपरं “सूत्रम्—सव्य-साः ।”

तद्व्याख्यानपरं “भाष्यं” समाख्यानिरुक्तिवशेन सामान्यलक्षणं प्रतिपादयन्90 “वार्त्तिककारः” पठति—“हेतुलक्षणाभावादिति ।” पृच्छति—“किं पुनरिति ।” न ह्यन्यस्यान्यत्वमात्रेण सादृश्यम्, मा भूत् सर्वस्य सर्वेण सादृश्यमिति भावः । उत्तरम्“प्रतिज्ञेति ।” प्रयोगगतं सामान्यमुक्त्वा प्रयोज्यगतमाह—“अन्यतमेति ।” अबाधितविषयतासत्प्रतिपक्षत्वे91 सती अप्यविवक्षित्वा त्रैलक्षण्यद्वैलक्षण्याभिधानं द्रष्टव्यम् । शेषमतिरोहितम् ।

षट्सप्ततं शतं गणयति—“तत्र साध्यव्यापकेति ।” एतस्यां त्रिषोडश्यां साध्यव्यापकसाध्यैकदेशवृत्तिधर्मभेदात् षोडशीद्वयं विशेषणविशेष्यासिद्धिभेदात् चतुःषष्टिः । एवं समर्थासमर्थविशेषणविशेष्यभेदात्92 चतुःषष्टिः । तदेतत् चतुःषष्टिद्वितयमष्टाविंशं शतं पूर्वया त्रिषोडश्या सह षट्सप्ततं शतम् । साध्यव्यापकानां धर्मविशेषाणामुदाहरणान्याह—“तत्रेति ।” विपक्षव्याप्त्यव्याप्तिभ्यां प्रथमद्वितीयौ साधारणौ, तृतीयोऽन्वयव्यतिरेकी साध्यतज्जातीयव्यापको हेतुरेव । विपक्षव्याप्त्यव्याप्तिभ्यां चतुर्थपञ्चमौ विरुद्धौ हेत्वाभासौ । यत्र विपक्षे न वृत्तिस्तं दर्शयति—“द्व्यणुकवदिति ।” षष्ठोऽविद्यमानसपक्षविपक्षोऽसाधारणः, अत एवाह“घटादिवदिति93 ।” सप्तमाष्टमौ विपक्षव्याप्त्यव्याप्तिभ्यां94 साधारणौ । नवमः सपक्षैक देशवृत्तिरन्वयव्यतिरेकी हेतुरेव । दशमैकादशौ सपक्षव्याप्त्यव्याप्तिभ्यामन्वयिनौ हेतू । द्वादशस्तु अविद्यमानाविपक्षोऽसाधारणः । त्रयोदशचतुर्दशौ त्वविद्यमानसपक्षौ विपक्षव्याप्त्यव्याप्तिभ्यां विरुद्धौ । पञ्चदशोऽपि व्यतिरेकी हेतुरेव । षोडशस्तु अविद्यमानसपक्षविपक्षोऽसाधारणः95

यदि बाह्यकरणप्रत्यक्षे वाङ्मनसे इति साध्येत तदा96 नानित्यत्वं सपक्षव्यापकं स्यात्, सामान्ये बाह्यकरणप्रत्यक्षेऽभावात् । अतः साध्यधर्मं विशिनष्टि—“सामान्यविशेषवदिति । अनित्ये रूपविज्ञाने अमूर्तत्वादिति ।” रूपविज्ञानस्कन्धातिरिक्तानां97 वेदनासञ्ज्ञासंस्कारस्कन्धानामनित्यतया सपक्षाणां व्यापकममूर्तत्वमिति98 । तज्जातीयैकदेशवृत्तित्वममूर्तत्वस्य दर्शयितुं यत्र न वर्तते तत्पुरःसरमुदाहरणं “रूपादिवदिति ।”

“अनित्यः शब्दोऽश्रावणत्वात्” इति नित्ये शब्दत्वे न वर्तते । “अर्थः शब्द” इति, शब्दो धर्मी । अर्थ इति साध्यो99 धर्मः, द्रव्यगुणकर्मणामन्यतम इत्यर्थः । यद्यश्रोत्रग्राह्यत्वादित्युच्येत, ततः सामान्यादिष्वनर्थेषु विपक्षेष्वपि वर्तेत । अत उक्तम्— “अश्रोत्रग्राह्यसामान्यवत्त्वादिति ।” अश्रोत्रग्राह्यं च तत् सामान्यवच्वेति विग्रहः । ननु चाक्षुषत्वं100 विपक्षवृत्ति समवायस्यानाश्रितस्य चाक्षुषत्वादित्यत उक्तम्— “औलूक्यपक्षे” इति । “सिद्धान्तभेद” इति, “सौत्रान्तिकानाम्” इत्यर्थः । असमर्थविशेष्यस्योदाहरणम्—“कृतकत्वे सति प्रमेयत्वादिति ।” असमर्थविशेषणस्योदाहरणम्—“प्रमेयत्वे सति कृतकत्वादिति ।” निरपेक्षं खलु कृतकत्वमनित्यत्वे साध्ये समर्थम्, प्रमेयत्वं त्वन्यापेक्षमसमर्थमित्यर्थः । तदेवं त्रिषोडश्या प्रकृत्याष्टचत्वारिंशद् भवन्ति हेतुहेत्वाभासाः101 । व्यापकाव्यापकभेदेन तु द्विषोडशी यदा विशेषणविशेष्यासिद्ध्या चोभयसम्प्रतिपन्नया असमर्थविशेषणविशेष्यतया102 सन्दिग्धविशेषणविशेष्यतया चोभयभसम्प्रतिपन्नया विक्रियते तदा चतुःषष्टित्रयेण द्वानवतं शतं भवति । वाद्यसिद्धप्रतिवाद्यसिद्धतया उभयान्यतरसन्दिग्धतया च चतुःषष्टिद्वयेनाष्टाविशङ्कं शतमपरम् । तदिदम् “अन्यतरासिद्धा” इत्यनेन “वार्त्तिककृता” सूचितम् । द्वाभ्यामूना त्रिंशद् द्वात्रिंशदिति कथञ्चिद् व्युत्पत्त्या । “ते पुन”र्व्यापकाव्यापका व्यधिकरणविशेषणविशेष्यव्यधिकरणसन्दिग्धविशेषणविशेष्यव्यधिकरणासमर्थविशेषणविशेष्यभेदेन चतुःषष्टित्रयेण “द्वानवतं शतम्” अपरम् ।

“एवमप्रसिद्धाश्रय”विशेषणविशेष्या उभयान्यतरपक्षाप्रसिद्ध्या अष्टाविंशकं शतम् । अत्रापि द्वात्रिंशकमिति पूर्ववद् व्याख्येयम् । अन्यतरमात्रमत्र विवक्षितं न तु वादिप्रतिवादिभेदः । ते पुनरप्रसिद्धाश्रयाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन चतुःषष्टित्रये सति द्वानवतं शतम् । तदेवमनन्तराभ्यां द्वानवतशताभ्यां शतत्रयं चतुरशीतं यत् तदेवाष्टाविंशकशताभ्यां103 द्वानवतेन च शतेन सम्पिण्डितं द्वात्रिंशदुत्तराष्टशती विकारभूता भवति । अष्टाचत्वारिशत् प्रकृतयः पश्चात् निवेशनीया इति । उभयाप्रसिद्धाश्रयविशेष्यमुदाहरति—“यथा अग्निमान् देशो धूमवत्त्वात् ।” उक्तं हि प्राग् यथा न देशोऽग्निमत्तया साध्योऽपि तु धूमविशेष एवेति । अन्यतरासिद्धाश्रयोदाहरणमाह—“अस्ति104 चात्मा इच्छादिगुणत्वादिति ।” आश्रयासिद्धविशेषणादयोऽप्यूहनीयाः । “असमर्थाव्यापकासिद्धविशेषणानामुदाहरणम् ।” असमर्थाश्च तेऽव्यापकाश्च, ते व्यधिकरणतया असिद्धाश्चेति विग्रहः । “अनित्यः शब्दः प्रयत्नानन्तरीयकत्वे सति कृतकत्वादिति,” कृतकत्वस्यैव विशेष्यस्य सामर्थ्यादसमर्थमनित्यत्वे प्रयत्नानन्तरीयकत्वम्, अव्यापकं च स्तनयित्नुशब्दानामव्यापकत्वात् । व्यधिकरणतया असिद्धं च कोष्ठवायुताल्वादिक्रियाया एव प्रयत्नानन्तरीयकत्वं, न त्वाद्यस्यापि105 शब्दस्य, प्रागेव तु श्रोत्रसमवायिन इति । कृतकत्वे सति प्रयत्नानन्तरीयकत्वादिति चासमर्थाव्यापकासिद्धविशेष्याणामुदाहरणं द्रष्टव्यम् ।

वैभवेन त्वसिद्धतावर्जमुदाहरति—“अव्यापकासमर्थविशेष्याणामुदाहरणम्—अनित्यः शब्दः प्रत्ययभेदभेदित्वेनोपलभ्यमानत्वात्106 ।” उपलभ्यमानत्वं हि नित्येऽप्यस्तीति व्यभिचारादसमर्थम् । कारणभेदभेदित्वमेव तु विशेषणं समर्थमव्यभिचारादिति । केवल“व्यधिकरणविशेष्याणामुदाहरणम्” अस्ति प्रधानं भेदानां गोघटादीनां सुखदुःखमोहात्मकत्वेनान्वयदर्शनादिति । अन्वयदर्शनं हि भेदाधिकरणतया न प्रधानाधिकरणमिति, व्यधिकरणमिति व्यधिकरणं विशेष्यम् । केवल“व्यधिकरणविशेषणानामुदाहरणम्—रूपरसगन्धस्पर्शशब्दाः चन्दनशब्दादत्यन्तं विभिन्नार्थाः समुदायसमुदाय्यसम्भवे सति” रूपादीनामर्थानां रूपादिशब्दानां च तेन चन्दनशब्देन व्यपदिश्यमानत्वात् । चन्दनस्य रूपादय इति समुदायसमुदाय्यसम्भवो रूपादिषु व्यपदेशश्च रूपादिशब्देष्विति व्यधिकरणं विशेषणमित्यर्थः । तदनेन प्रपञ्चेन द्वात्रिंशदुत्तराष्टशती दर्शिता ।

सम्प्रति द्वानवतशतयुग्मान्तरं दर्शयितुमुदाहरणमाह—“अन्यथासिद्धोदारहणं नित्यः शब्दोऽभ्यासात् ।” सेयं क्रियाभ्यावृत्तिर्यथा शब्दानित्यत्वेऽप्युपपद्यते तथा द्वितीये दर्शयिष्यते107 । सिंहावलोकितन्यायेन व्यधिकरणविशेष्यं सन्दिग्धविशेषणमुदाहरति—“सन्दिग्धाप्रसिद्धेति ।” विशेषणशब्दः तन्त्रेण विशेषणे विशेष्ये च कर्मकरणसाधनतया प्रयुक्तो वर्तते । तेन सन्दिग्धं विशेषणम् । अप्रसिद्धं व्यधिकरणतया विशेष्यं येषां तेषामुदाहरणमित्यर्थः । यथा सन्दिह्यमाने धूमादिभावेऽग्निमान् देशो धूमवत्त्वे सति प्रकाशकत्वात्, धूमवत्त्वं विशेषणं सन्दिग्धम् । प्रकाशकत्वं च विशेष्यं व्यधिकरणम् । तत् खलु वह्नेर्धर्मो न देशस्येति । अप्रसिद्धविशेषणसन्दिग्धविशेष्याणामुदाहरणं108 दर्शयति—“विपर्ययेणेति ।” अप्रसिद्धेत्यपि द्रष्टव्यम् । अग्निमान् देशः प्रकाशकत्वे सति धूमवत्त्वादिति ।

सम्प्रति द्वानवतशतयुग्मान्तरं दर्शयितुं भूमिरचनां करोति—“एवमिति ।” ये सन्दिग्धासिद्धा व्यापकाव्यापकभेदेन द्वात्रिंशत् त एवोभयान्यतरासिद्ध्या चतुः षष्टिर्भवन्ति । ततः किमित्यत आह—“ते” चतुःषष्टितामापन्नाः “पूर्ववद्भेदेन” व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन109 तावच्चतुःषष्टित्रयमित्येकं द्वानवतं शतम् । अपरं चाश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन110 द्वानवतं शतम् । तदिदं चतुरशीतं शतत्रयं सन्दिग्धासिद्धमाश्रित्य । अपरमपि द्वानवतशतयुग्मान्तरमन्यथासिद्धमाश्रित्याह—“एवमन्यथासिद्धभेदो द्रष्टव्यः ।”

अन्यथासिद्धभेदोऽपि111 हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात् चतुःषष्टित्रयमिति । पुनश्च स एवान्यथासिद्ध आश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात् चतुःषष्टित्रयमिति द्वानवतशतयुग्मेन शतत्रयं चतुरशीतम् । अपरमपि द्वानवतशतयुग्ममाह—“एवं विरुद्धविशेषणाविरुद्धविशेष्याश्चेति112 ।” विरुद्धविशेषणविशेष्या113 अपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च आश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च शतत्रयं चतुरशीतम् । तदेवमेभिस्रिभिश्चतुरशीतैः शतत्रयैर्द्विपञ्चाशच्छतोत्तरं सहस्रमेकम् । द्वात्रिंशदुत्तरया अष्टशत्या सहस्रमेकं चतुरशीतिसहिता च नवशती । तदेवं प्रकृतिभूताष्टाचत्वारिंशत्प्रक्षेपेण सम्पिण्डितं द्वात्रिंशे द्वे सहस्रे भवत इति ।

“तन्न असत्त्वादिति ।” पञ्चानां चतुर्णां वा रूपाणां सम्पत्तिरव्यभिचारः । स चैकस्मिन् विषये विरुद्धयोर्न सम्भवति, अन्ततोऽसत्प्रतिपक्षस्यैव रूपस्याभावादित्यर्थः । “पञ्चानां हेतूनामिति ।” सपक्षव्याप्त्यव्याप्तिभ्यां द्वेधा, व्यतिरेक्येकः, अन्वयव्यतिरेक्यपि सपक्षव्याप्त्यव्याप्तिभ्यां द्वेधेति पञ्च हेतवः । “पञ्चानां हेतूनां सरूपासरूपप्रतिबन्धात् पञ्च पञ्चका भवन्ति ।” सरूपः अन्वयिनोऽन्वयी, व्यतिरेकिणो व्यतिरेकी, अन्वयव्यतिरेकिणोऽन्वयव्यतिरेकी । असरूपश्च अन्वय्यादेर्व्यतिरेक्यादिः, तेन प्रतिबन्धः । एतदुक्तं भवति, अन्वय्यादावेकैकस्मिन् सरूपासरूपाः पञ्च हेतवः प्रतिबन्धका इति पञ्चभिः पञ्चकैः पञ्चविंशतिर्विरुद्धाव्यभिचारिण इति । चोदयति—“लक्षणत एवेति ।” परिहरति—“नानर्थकमिति ।” यत्परो हि शब्दस्तत्रासौ प्रमाणम्, समानासमानजातीयव्यवच्छेदकं च लक्षण“सूत्र”मिति तत्रैव प्रमाणम्, न त्वियत्तायामतत्परत्वात् । न चासावर्थी सतोऽप्यनुपयोगाद् अलक्ष्यमाणत्वोपपत्तेः प्रमेयान्तरवदिति ॥ ४ ॥

अनैकान्तिकः सव्यभिचारः ॥ १ । २ । ५ ॥

तदेवमर्थाक्षिप्तसामान्यलक्षणं विभागं दर्शयित्वा विशेषलक्षणमवतारयति “भाष्यकारः, तेषां” हेत्वाभासानां मध्ये—“अनै—रः ।”

अत्र चानैकान्तिकसव्यभिचारशब्दौ पर्यायौ पुरुषभेदापेक्षया लक्ष्यलक्षणत्वेनावस्थितौ । यस्यानैकान्तिकपदार्थोऽप्रसिद्धः प्रसिद्धश्च सव्यभिचारपदार्थः, तं प्रत्यनैकान्त इति लक्ष्यनिर्देशः, सव्यभिचार इति लक्षणम् । यस्य तु सव्यभिचारपदार्थोऽप्रसिद्धः प्रसिद्धश्चानैकान्तिकपदार्थस्तं प्रति सव्यभिचार इति लक्ष्यनिर्देशः, अनैकान्तिक इति लक्षणम् । तत्र सव्यभिचार इति लक्षणपदं कक्षीकृत्याह “भाष्यकारः व्यभिचार एकत्राव्यवस्थितिः ।” एतदुक्तं भवति । सव्यभिचारपदं निर्वचनसामर्थ्यात् लक्षणपदमिति114 । अनैकान्तिकपदलक्षणपक्षे “भाष्यकारोक्तम् अनित्यत्वमप्येकोऽन्त” इत्यादि । तद् “वार्त्तिककारः” पर्युदासाभिप्रायेण व्याचष्टे—“एकस्मिन्नन्ते नियत ऐकान्तिक” इति । न हेतुरैकान्तिको येन तदन्यत्वेन हेत्वाभासमात्रसङ्ग्रहादेकजातीयत्वेन115 हेत्वाभासानां विभाग“सूत्र”विरोधः स्यात्, किं त्वेकस्मिन्नन्ते यो नियतः स ऐकान्तिकः, तद्विपर्ययादनैकान्तिकोऽनियतः । अनित्यत्वे च नित्यत्वे चान्वयेन च व्यतिरेकेण चोभयपक्षगामीति116 यावत् । न चैवम्भूता विरुद्धादयो हेत्वाभासा इत्यभिप्रायः । तदेवमनैकान्तिकः सव्यभिचारः इति स्थिते पृच्छति—“कः पुनरिति ।” उत्तरम्—“साध्यतज्जातीयेति ।” अवगत117 एष व्यभिचार इति, अनैकान्तिक पदवाच्यतास्य कथमित्यत आह—“सर्वोऽयमिति ।” प्रमेयपदार्थस्य तु सर्वव्यापिनो नान्तो व्यतिरेकोऽस्तीत्यत उक्तम्—“अन्यत्र प्रमेयादिति ।”

अत्र “बौद्धैः” यद् विकल्प्य दूषणमुक्तम्, तदुपन्यस्यति—“अनैकान्तिक” इति । “किं पुनरयमिति ।” ऐकान्तिको हेतुः । ततोऽन्यः सर्व एव हेत्वाभास इत्यर्थः । द्वितीयं कल्पं118 दूषयति—“अथ प्रसज्येति ।” तथापि हेतोरभावोऽनैकान्तिकः । न “नासौ” सव्यभिचारः । भावधर्मौ हि व्यभिचाराव्यभिचारौ नाभावे सर्वोपाख्याविरहिणि युज्येते इत्यर्थः । तदेतत् “शाक्य”दूषणं निराकरोति—“नायं पर्युदासपक्ष” इति । पर्युदासपक्षस्तावदस्माकमभिमत उपपन्नतरश्च, केवलमयं प्रसज्यप्रतिषेधवल्लभस्तमास्थाय119 सर्वं दूषयतीति तमेवाङ्गीकृत्य सर्वत्र ब्रूम इत्याशयवतः समाधानम् । न पुनरब्राह्मणादावपि “वार्त्तिककारस्य” प्रसज्यप्रतिषेधोऽभिमतः, किं तु पर्युदास एवेति । अभ्युपेत्य तु तत्रापि प्रसज्यप्रतिषेधाभिधानम् । न हि प्रसज्यप्रतिषेधोऽपि19 तुच्छः, अपि तु कस्यचिद् वस्तुनोऽभावेन विशिष्टं किञ्चिदेव वस्त्वित्यर्थः ।

अत्र “भाष्यम्—निदर्शनम्, नित्यः शब्दोऽस्पर्शत्वात्” इति । वैधर्म्ये दृष्टान्तमाह—“स्पर्शवानिति ।” अनित्यः कुम्भः स्पर्शवान् दृष्ट इति योजना । वैधर्म्ये व्याप्यव्यापकभावस्य वैपरीत्यादिति120 वैधर्म्यव्यभिचारमाह—“दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते ।” न हि यदनित्यं तत् सर्वं स्पर्शवद् बुद्ध्यादिभिर्व्यभिचारात् । साधर्म्येऽपि चैभिरेव121 व्यभिचारो वक्ष्यत इतीह नोक्तः । ननु122 मा भून्नित्यत्वं साध्यम्, अस्पर्शत्वमेवास्तु नित्यत्वस्य साध्यमित्यत आह—“स्पर्शवांश्चाणुर्नित्यश्चेति ।” तथापि यदस्पर्शवन्न भवति तन्नित्यमपि न भवतीति वैधर्म्यं व्यभिचरति, स्पर्शवतोऽप्यणोर्नित्यत्वादित्यर्थः । साधर्म्यव्यभिचारमाह—“आत्मादौ चेति ।”

अत्र “वार्त्तिककारो”ऽस्पर्शवत्त्वस्य हेतोः प्रश्नपूर्वकं स्वरूपं निष्कर्षति—“किं पुनस्तत्” अस्पर्शत्वं शब्दाद् भिन्नत्वमित्यर्थः । सत्ताविशेषणो वा समवायः, समवायविशेषणा वा सत्ता, अन्वयव्यतिरेकाभ्यामित्यर्थः । वाक्यार्थे च पदप्रयोगः अस्पर्श इति श्रोत्रियपदवदित्याह—“वाक्यार्थेति ।” अनैकान्तिक इति लक्षणमिति पक्षे चोदयति—“अतिदेशेति ।” यदि हि क्वचित् शास्त्रप्रदेशे अनैकान्तिकः कथितः, तद्देशातिलङ्घनेनात्रातिदिश्यमानो विदितरूप इह सव्यभिचारं लक्षयेत्, न त्वस्य शास्त्रप्रदेशे क्वचिदपि कीर्तनमस्तीत्यर्थः । परिहरति—“नेदमिति” लोकप्रसिद्धत्वेनोक्तप्रायमित्यर्थः । अन्वयेनैवोभयान्तसन्नियतोऽनैकान्तिक इति मन्वानः शङ्कते—“अव्यापकत्वादिति ।” परिहरति—“नेति123 । व्यावृत्तीति ।” क्वचिदन्वयस्योभयान्तसन्नियतता क्वचिद् व्यतिरकस्येत्यर्थः । एकेषां मतमुपन्यस्यति—“अपरेत्विति ।” दूषयति—“तैस्त्विति ।” नोदारहणे व्यभिचाराल्लक्षणव्यभिचारो भवत्यन्यत्वात् । नो खलूदाहरणमाद्रियन्ते परीक्षकाः, किं तु लक्षणमित्यर्थः ॥ ५ ॥

सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ १ । २ । ६ ॥

पृच्छति—“कोऽस्य सूत्रस्येति ।” न खलु हेतुरचेतनः सिद्धान्तमभ्युपगच्छति । यश्चाभ्युपगच्छति चेतनो नासावन्यतमेन हेतुलक्षणेन युज्यते इति न हेत्वाभासः । न च पक्षः सिद्धान्त इति तद्विरोधी न विरुद्धः स्यादिति भावः । उत्तरम्— “अभ्युपगतार्थविरोधी विरुद्धः ।” हेतुद्वारेण पुरुषस्याभ्युपगमो हेतावुपचरितः । अभ्युपगमविषयमात्रविवक्षया च124 सिद्धान्तशब्दः प्रयुक्तो न पुनः सिद्धान्त एवेह विवक्षितः । तेन पक्षोऽभ्युपगमविषय इति तद्विरोधी हेत्वाभासः सङ्गृहीतो भवति । विशेषविरुद्धस्य च न हेत्वाभासतेत्युक्तं भवति । न हि विशेषोऽभ्युपगमस्य विषयः, न खल्वयं प्रतिज्ञापदगोचरः, किन्तु प्रतिज्ञार्थस्य सिद्ध्यनुषङ्गीति नाभ्युपगमगोचर इति भावः । ईदृशस्य “सूत्र”व्याख्यानस्य फलमाह—“एवं चेति ।” ईदृशं व्याख्यानमन्तरेणानुक्तस्य विरुद्धस्येत्यर्थः । “अभ्युपगतेन वा125 बाध्यत” इति, स्वरूपेण हेतुत्वेन वेत्यर्थः । तदनेन “तं विरुणद्धीत्यादि भाष्यं” व्याख्यातम् । चोदयति— “नन्वेवमिति ।” यदि हेतुत्वबाधाद् विरुद्ध इत्युक्तः, हन्त,126 सव्यभिचारादयोऽपि विरुद्धाः । तेषामपि हि हेतुत्वं बाधितम् । अबाधे वा न हेत्वाभासा इति भावः । परिहरति—“सत्यमेक एवेति ।” ईदृशाविरुद्धत्वेन127 तुल्यत्वेऽप्यवान्तरभेदविवक्षया पञ्चत्वम् । यथा प्रमाणादीनां प्रमेयत्वेन तुल्यत्वेऽपि प्रमाणप्रमेयादीनामवान्तरभेदविवक्षया षोडशत्वम् यथा वा तृणविशेष एवासाधारणतया तृणोलप इत्याख्यायत128 एवं विरुद्धविशेष एवासावनैकान्तिकादिर्विरुद्धानैकान्तिकादिपदवाच्य इत्यर्थः ।

अत्रोदाहरण“भाष्यम्-यथा सोऽयं विकार” इति । महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियभूतसूक्ष्ममहाभूतानि विकारः, तस्य व्यक्तिः धर्मलक्षणावस्थापरिणामः, तस्मादपाय इति । अत्र हेतुः “नित्यत्वप्रतिषेधादिति ।” तस्य व्याख्यानम्—“न नित्यो विकार उपपद्यत” इति । “अपेतीऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते ।” एतदेव प्रश्नपूर्वकं विभजते—“कथमित्यादिना ।” विरोधस्य द्व्याश्रयत्वात् सिद्धान्तेन विरुध्यते इत्यभिसन्धाय129 सिद्धान्तं व्याहन्तीत्युक्तमित्यर्थः । तदेतद् “भाष्यं” व्याचष्टे—“उदाहरणमिति ।” ननु नित्यत्वप्रतिषेधादिति हेतुर्विनाशप्रतिषेधेन सिद्धान्तेन विरुद्ध इति130 ब्रुवाणः शास्त्रविरोधमापादयति । तथा च कालात्ययापदिष्टो हेत्वाभासो न विरुद्ध इत्यत आह—“एते131 ते वाक्ये परस्परार्थबाधिते” इति । दृढतरप्रमाणबाधितो हि हेतुः कालात्ययापदिष्टो भवति, यथा ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्ययं हेतुः । गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥

इत्यादिभिरागमैरतिदृढैर्बाधितः कालात्ययापदिष्टतया हेत्वाभासो भवति । प्रकृते तु वाक्ये परस्परविरुद्धार्थतया न प्रतिष्ठां लभेते, न पुनरन्यतरदन्यतरेण शक्यं बाधितुं द्वयोस्तुल्यबलत्वात् । तस्मात् नायं कालात्ययापदिष्ट इत्यर्थः ।

व्याख्यानान्तरमाह—“प्रतिज्ञाहेत्वोर्वाविरोध” इति । सोऽयं विकारो व्यक्तेरपैतीति प्रतिज्ञा नित्यत्वप्रतिषेधादिति हेतुना विरुध्यते । व्यक्तिमात्रादपैति, न तु विनश्यतीति हि प्रतिज्ञार्थः अपेतोऽप्यस्ति विनाशप्रतिषेधादित्यनेन व्याख्यातः । तथा च व्यक्तेरपैतीत्यनेन विकारस्य नित्यत्वं प्रतिज्ञातं नित्यत्वप्रतिषेधादित्यनेन हेतुना विरुद्धं भवति । “स्वसिद्धान्तेनेति” स्वपक्षेणेत्यर्थः । अत्र चार्थे सुगमं “भाष्यम् ।” अत्र “वार्त्तिककारः” चोदयति—“ननुप्रतिज्ञाविरोध” इति । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध इत्यर्थः । परिहरति—“नैष दोष” इति । प्रतिज्ञाश्रितत्वं विरोधस्य विवक्षित्वा निग्रहस्थानेषु प्रतिज्ञाविरोधस्योपादानम्, हेत्वाश्रितत्वं तु तस्यैव विरोधस्य विवक्षित्वा हेत्वाभासेऽन्तर्भाव इति । “यदा प्रतिज्ञया हेतुविरोध” इति हेतोरप्यन्यतरासिद्धतया प्रतिज्ञया तुल्यबलत्वाभिप्रायम् । यदा तु132 हेतुरुभयसिद्धो भवति, तदा हेतोर्वा प्रतिज्ञाविरोधकत्वमिति । उपसंहरति—“अत” इति । “हेतोर्विरोधोदाहरणम्” विरोधकत्वं विरोधः । शब्दस्योत्पत्तिधर्मकत्वं प्रमाणविनिश्चितं नित्यत्वप्रतिज्ञां बाधत इत्यर्थः । प्रसङ्गाद्धेत्वाभासातिरिक्तस्य प्रतिज्ञापदयोर्विरोधस्य निग्रहस्थानस्योदाहरणमाह—“प्रतिज्ञाविरोधस्येति ।” तृतीयेऽध्याये चैष विरोध उपपादयिष्यते133 । हेतोरन्यतरासिद्धतया समानबलयोः “प्रतिज्ञाहेत्वोर्विरोधोदाहरणं गुणेति । हेतुविरोधोदाहरणं नास्त्येको भाव” इति । उत्पत्तिमत्त्वं ह्यन्यतरासिद्धमपि शक्यसाधनमिति प्रतिज्ञार्थं व्याहन्ति, “समूहे भावशब्दप्रयोगादिति” तु134 उभयसिद्धमेव प्रतिज्ञार्थं व्याहन्तीत्येतावता भेद इत्यर्थः ॥ ६ ॥

यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ १ । २ । ७ ॥

प्रकरणशब्दार्थमाह “भाष्यकारः—विमर्शाधिष्ठानाविति ।” विमर्शः संशयः । तस्य विषयौ । “अनवसितौ” अनिर्णीतौ, तादृशयोरेव पक्षप्रतिपक्षशब्दवाच्यत्वात्, प्रक्रियते साध्यत्वेनाधिक्रियत इत्यनया135 व्युत्पत्त्या प्रकरणम् । चिन्तापदं व्याचष्टे—“तस्य” प्रकरणस्य “चिन्ता विमर्शात् प्रभृति प्राग् निर्णयात् समीक्षणम्” आलोचनं “जिज्ञासा ।” सा खलु तत्त्वानुपलब्ध्या कृता । नो136 खल्वयं नित्यधर्मान् नित्यत्वाविनाभाविनोऽनित्यधर्मान् वा अनित्यत्वाविनाभाविन उपलभमानस्तत्र सन्दिग्धे तद् वा137 जिज्ञासते । सैव नित्यधर्मानुपलब्धिरनित्यधर्मानुपलब्धिर्वा विचित्राभिसन्धितया वादिना138 निर्णयायापदिश्यमाना प्रकरणसमो हेत्वाभासः । कुतः ? “उभयपक्षसाम्यात्” यथा नित्यत्वपक्षेऽनित्यधर्मानुपलब्धिरेवमनित्यत्वपक्षेऽपि नित्यधर्मानुपलब्धिः । सेयं तत्त्वानुपलब्धिमात्रविवक्षयोभयपक्षसमा, प्रकरणसमा तु यथाप्रकरणमनिश्चायकमेवमियमपीत्यर्थः । व्युत्पत्तिनिमित्तमात्रं139 चैतत् प्रकरणसमपदस्य, प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वम्, अन्यथानैकान्तिकस्यापि प्रकरणसमत्वप्रसङ्गादिति । प्रज्ञापनं प्रज्ञाप्यतेनेनेति व्युत्पत्त्या निदर्शन मुक्तम् ।

अनैकान्तिकत्वशङ्कां सत्प्रतिपक्षस्यास्य140 व्यवच्छिनत्ति—“यत्र समान” इति, संशयेन समः अनिश्चायकत्वादिति । एतदुक्तं भवति, न हि नित्यधर्मानुपलब्धिरुभयसिद्धे नित्येऽस्ति, येन सव्यभिचारो भवेत्, नाप्यनित्यधर्मानुपलब्धिः उभयसम्मतेऽनित्येऽस्ति येन सव्यभिचारो भवेत् । अपि तु परस्परमनयोः सत्प्रतिपक्षतयैव हेत्वाभासत्वमिति । यस्मात् प्रकरणचिन्तेत्युक्तं “सूत्रकृता,” तत्र यस्मादर्थं प्रश्नपूर्वक दर्शयति “वार्त्तिककारः—कस्मादिति ।” कारणत्वं तत्त्वानुपलब्धेर्व्यतिरेकेण दर्शयति—“यस्मादिति । अत एवेति” तत्त्वानुपलब्धेरित्यर्थः । चोदयति—“नन्वयमिति ।” पक्षप्रतिपक्षौ हि प्रकरणम् । तौ च साध्यौ । ताभ्यां च समः साध्यसमः । तथा च साध्यसमात् हेत्वाभासात् न पृथग् निर्देश्यः प्रकरणसम141 इत्यर्थः । परिहरति—“नाविशिष्ट” इति । यद्यपि प्रकरणसमशब्दो व्युत्पत्त्या साध्याविशिष्टेन समानार्थः, तथापि प्रवृत्तिनिमित्तमस्य सत्प्रतिपक्षत्वम् । न च तत्त्वानुपलब्धिः स्वयमसिद्धा, सा ह्युपलम्भनाभावेन सुलभेति भावः ।

परमतमनुभाष्यातिप्रसङ्गापादनेन दूषयति—“ये तु संशयहेतुत्वादिति ।” चोदयति—“समूह” इति । यस्मिन् सति भवत्येव तत् कारणम्, समूहे सति च भवत्येव142 नैकैकस्मिन्, तस्मात् नैकैकं कारणमिति भावः । परिहरति—“समूहः कारणमितीति ।” न ह्यकारणानां समूहः कारणं भवितुमर्हति, अतिप्रसङ्गात् । न च समूहिवैलक्षण्यमन्तरेणाजानतः समूहस्य वैलक्षण्यम् । तस्मात् समूहिन एवान्योन्यसमवधानवन्तः कारणम् । तथा च प्रत्यक्षस्योपपन्नं संशयकारणत्वम् । न च यस्मिन् सति भवत्येव तत् कारणम्, अपि तु यस्मिन् सत्येव, न त्वसतीति क्षणभङ्गे143 वक्ष्याम इति ।

ननूभयधर्मानुपलब्धिरुभयपक्षसाधारणीति सव्यभिचार एवेत्यत आह— “उभयधर्मानुपलब्धाविति ।” नोभयधर्मानुपलब्धिरत्र144 हेतुः, अपि तु एकधर्मानुपलब्धिः । न चासौ साधारणी, किन्तु सत्प्रतिपक्षेत्यर्थः । “उभयविशेषानुपलब्धेः” प्रकरणसमत्वेन “अभिधानाशक्यत्वात् ।” प्रकरणसमस्योदाहरणान्तरं दूषयति— “शरीरादन्यत्वं त्विति । परेषां” किलोदाहरणं नित्य आत्मा शरीरादन्यत्वाद् आकाशवदिति । तत्र शरीरादन्यत्वमुपलभमानो यदा तत्त्वं नित्यत्वमात्मनः प्रत्येति न हि तदा जिज्ञासितुं नित्यत्वं प्रवर्तते । यदा तु तत्त्वं नित्यत्वं नोपलभते शरीरादन्यत्वमुपलभमानोऽपि तदा प्रवर्तते । तस्मादन्वयव्यतिरेकाभ्यां तत्त्वानुपलब्धिरेव प्रकरणचिन्ताप्रवर्तिका न शरीरादन्यत्वम् । तस्मात् नैतत् प्रकरणसमस्योदाहरणम् । अपि तु तत्त्वानुपलब्धिरेव । इतश्चैतन्न प्रकरणसमस्योदाहरणमित्याह—“शरीरादन्यत्वं चानैकान्तिकम् ।” उपसंहरति—“अतश्च न सूत्रार्थः” न “सूत्र”विषयः । एवमन्यान्यपि सत्प्रतिपक्षोदाहरणान्यूहनीयानि ॥ ७ ॥

साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥ १ । २ । ८ ॥

अत्र “साध्यसम” इति लक्ष्यनिर्देशः । “साध्याविशिष्ट” इति लक्षणम् । तदनेन स्वरूपासिद्धैकदेशासिद्धाश्रयासिद्धान्यथासिद्धानां सङ्ग्रहः, तेषामसिद्धत्वेन साध्याविशिष्टत्वात् । अत्र चासिद्धः साध्यसम इति वक्तव्ये साध्याविशिष्टग्रहणमन्यतरासिद्धस्यापि सिद्धेः प्रागहेतुत्वज्ञापनार्थम् । अन्यथात्यन्तासिद्ध एव साध्यसमो नान्यतरासिद्धः, तस्य कदाचित् सिद्धेरिति भ्रान्तिः स्यात् । साध्याविशिष्टेन तु सोऽपि सङ्गृहीत145 इति । नन्वेवं साध्याविशिष्टत्वेनान्यतरासिद्ध एव स्यात् नेतरे, तेषामसिद्धत्वेन साध्याविशेषाभावादित्यत उक्तं “सूत्रकृता146 साध्यत्वादिति ।” यदि हि साध्यं नासिद्धं भवेत् साध्यत्वादेव च्यवेत, न खलु सिद्धं साध्यते । तस्मात् साध्यत्वादसिद्धता । सा च कस्यचित् सर्वदा, कादाचित्की कस्यचिदिति सर्वेषामविशिष्टत्वमिति नाव्याप्तिः । नापि साध्यत्वस्यातिप्रसक्त्यातिव्याप्तिः हेत्वाभाससामान्यलक्षणापेक्षत्वात् तद्विशेषलक्षणस्येति “सूत्रार्थः । साधनीयत्वादिति भाष्य”गतं न साध्यत्वादित्यस्य व्याख्यानम्, अपि तु गतिमत्त्वस्यासिद्धत्वपरम् ।

अत्र “वार्त्तिककारः सूत्रार्थं” व्याचष्टे—“साध्येनाविशिष्टो य” इति । साध्येन व्यभिचारो मा भूदित्यत आह—“साधनधर्म” इति । हेत्वाभाससामान्यलक्षणयोगे सति एतल्लक्षणमिति न व्यभिचार इति भावः । अत्र “भाष्यकारेण” स्वरूपासिद्धाश्रयासिद्धान्यथासिद्धानां साधारणमुदाहरणमुक्तम्—“द्रव्यं छाया गतिमत्त्वादिति ।” तद्विभजते “वार्त्तिककारः द्रव्यं छायेति ।” अत्र स्वरूपासिद्धतां तावदाह—“यथैवेति ।” आश्रयासिद्धतामवतारयितुं गतिमत्त्वं छायायाः पञ्चावयवेन वाक्येन साधयति— “गतिमत्त्वमिति ।” आश्रयासिद्धतामाह—“नाश्रयासिद्धत्वादिति147 ।” सत्या एव छायाया देशान्तरे दर्शनाद् योऽस्या गतिमत्त्वमनुमिनोति तं प्रत्याश्रयासिद्धं देशान्तरे दर्शनम्, तदाश्रयस्यासिद्धत्वात्148 । तदिदमुक्तम्—“सति द्रव्याभाव” इति, सति सत्त्व इत्यर्थः । न तावत् छाया सामान्यविशेषसमवायान्तर्भूता तस्यानित्यताभावात्149 । नापि कर्म, संयोगविभागासमवायिकारणत्वाभावात् । न गुणो द्रव्यासमवायात् । न मनोदिक्कालगुणः, तद्गुणानामप्रत्यक्षत्वात् । नाप्यात्मगुणो बाह्मेन्द्रियप्रत्यक्षत्वात् । नापि नभोनभस्वतोः, तद्गुणानामचाक्षुषत्वात् । नापि तेजसः, तद्विरोधित्वात् तत्सहचरितगुणान्तरानुपलब्धेश्च । अत एव न पृथिवीपाथसोरपि । अपि च तद्गुणश्चाक्षुषो नालोकमन्तरेण शक्यग्रहः । छाया तु तमन्तरेण गृह्यते, तस्मिंस्तु सति न गृह्यते इति दुर्घटम् । नापि द्रव्यम्, तद्धि पृथिव्यादीनामन्यतमम् भवेद् अन्यद् वा दशमम् । न तावदन्यतमम्, तद्गुणानामनुपलब्धेः, नाप्यन्यद् रूपवदिति युज्यते, तस्याद्रव्यस्य प्रत्यक्षत्वानुपपत्तेः, अस्पर्शवत्वादनारम्भकत्वेनानेकद्रव्यत्त्वाभावात् । तस्माद् भाभाव एव छाया न तु सतीति सिद्धम् ।

यस्तु मन्यते मा भूत् छाया सती, भवतु भाभावः तथापि नाश्रयासिद्धता देशान्तरदर्शनस्य भाभावाश्रयत्वादेवेति तं प्रत्यभ्युपेत्यान्यथासिद्धतया साध्यसमत्वमापादयति—“अभ्युपेत्येति ।” स्वाभाविको हि सम्बन्धो हेतोः साध्येन सहानुमानाङ्गं नौपाधिक इति विवेचितमनुमानलक्षणे150 । तदयमन्यथासिद्ध औपाधिकसम्बन्धो भवति हेत्वाभासः । सेयं हेतोरसिद्धिर्द्विधा स्वरूपतो हेतुत्वेन च । स्वरूपतोऽपि द्वेधा, स्वत आश्रयासिद्ध्या च । न चैतावता सव्यभिचारादीनामपि हेतुत्वासिद्धेरसिद्ध एवान्तर्भावः सव्यभिचारत्वादिविशेषणेन तेषामतो भेदात् । अन्यथासिद्धस्य तु तद्विशेषणत्वायोगिनो हेतुत्वासिद्धि मात्रेण साध्यसमेऽन्तर्भाव इति सर्वमवदातम् । सङ्कलयति—“सोऽयमिति ।” त एतेऽसिद्धभेदा उदाहरणभेदेष्वपि द्रष्टव्याः, यथा नित्यःशब्दः151 चाक्षुषत्वादिति स्वयमसिद्धः152 । तनुभुवनादीनां न कर्ता ईश्वरोऽशरीरत्वादित्याश्रयासिद्धः । स श्यामो मैत्रतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यन्यथासिद्धः, अन्नपानपरिणतिभेदनिबन्धनत्वात् रूपभेदस्यान्यथासिद्धत्वमिति । “अयमप्यसिद्धत्वात्” इति “भाष्ये” अपिशब्देनाश्रयस्य छायाया अपि86 सत्तेनासिद्धिः सूचिता ।

अत्र “भदन्तेन” इदं साध्यसमलक्षणमुदाहरणान्तरं कल्पयित्वा दूषितम् । इदं किलास्योदारहणम्, नित्यः शब्दोऽस्पर्शत्वाद् बुद्धिवदिति153 । तदेतत् त्रिधाप्यसिद्धं न भवतीति दूषयित्वा “भदन्तेन” शङ्कितम्, अथ साध्येनाविशिष्टो दृष्टान्तो यस्मिन् स साध्याविशिष्टो हेत्वाभास इति बुद्धेर्दृष्टान्तस्य नित्यत्वेनासिद्धत्वात् इत्याशङ्क्य बहुव्रीह्यभावेन दूषितम् । तदेतत् सर्वमनभ्युपगमेन “वार्त्तिककारो” दूषयति— “नित्यः शब्द” इति । यद्येतत् नोदाहरणं किमुदाहरणं को वा “सूत्रा”र्थ इत्यत आह—“यथा त्वस्माभिरिति । अयं भदन्तोक्तो” दोष इत्यर्थः । कस्मादित्यत आह—“भदन्तेन सूत्रार्थो न विज्ञातः,” न हि सव्यभिचारोऽनेन लक्ष्यते येन सव्यभिचारमस्पर्शवत्त्वमस्योदाहरणं स्यात्, किं तु साध्यसमः । नापि व्यधिकरणबहुव्रीहिदूषणेनाक्षरार्थो ज्ञातः । नापि बुद्धिवदिति दृष्टान्ताभासमेव हेत्वाभासं कुर्वता हेत्वाभासदृष्टान्ताभासौ ज्ञातौ “भदन्तेनेत्यर्थः” ॥ ८ ॥

कालात्ययापदिष्टः कालातीतः ॥ १ । २ । ९ ॥

अत्र “कालालीत” इति लक्ष्यनिर्देशः “कालात्ययापदिष्ट” इति लक्षणम् । हेतोरपदेशस्य हि साध्यसन्देहविशिष्टः कालः । यथाहुः—

नानुपलब्धे न निर्णीते न्यायः प्रवर्तते, अपि तु सन्दिग्धे इति154 । “परे”ऽप्याहुः सन्दिग्धे हेतुवचनात् ।

इति । यत्र च प्रत्यक्षानुमानागमविरोधः, अनुष्णोऽग्निर्द्रव्यत्वादिति च, अश्रावणः शब्दो गुणत्वादिति च, शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति च, स सर्वः प्रमाणतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सोऽयं कालस्यात्ययेनापदिश्यमानः कालातीत इति । तथा चोदाहृतं यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः ।

इत्यत्र “वार्त्तिककृता ।” बाधाविनाभावयोः सहासम्भव इति चात्र “बौद्धा”नामाक्षेपोऽस्माभिः समाहितः । एवं व्यवस्थिते “भाष्यकारः सूत्रं” स्वपरमतश्लिष्टं व्याचष्टे—“कालात्ययेन” संशयकालात्ययेन “युक्तो यस्य” हेतोरपदिश्यमानस्या“र्थैकदेशः”155 धर्मविशिष्टो हि धर्मी हेतोरपदिश्यमानस्यार्थः । स ह्यर्यते156 हेतुना, तस्यैकदेशः साध्यधर्मः । स हि धर्मिणि बलवता प्रमाणेन तद्विपरीतधर्मनिर्णयं कुर्वता संशयकालमतिपातितः । स तादृशो हेतुः कालात्यापदिष्टः कालातीत इति । स्वमतेनास्यार्थः । अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यात् नोदाहृतम् ।

परमते च157 कालात्ययेन युक्तो यस्य हेतोरर्थरूप158 एकदेशो हेतुविशेषणमिति यावत् स कालात्ययापदिष्ट इति योजना । परमतेनैव निदर्शनमाह—“निदर्शनमिति ।” नित्यत्वं चात्रावस्थानमात्रमभिमतमिति, न159 घटादिभिरालोकसंयोगव्यङ्ग्यैर्व्यभिचारः । तदेतत् पञ्चावयवं वाक्यमुपन्यस्य संयोगव्यङ्ग्यत्वस्य हेतोरेकदेशस्य विशेषणस्य संयोगस्य व्यक्तिकालात्ययेन हेत्वाभासतामाह—“अयमहेतुरिति ।” स पुनरयमसिद्धविशेषणतया हेत्वाभासः साध्यसम एवेति न पृथग्वाच्य इति स्थूलतया एष दोषो “भाष्यकारेण” नोद्भावितः ।

यत् पुनः “भदन्तेन” कालातीतस्य व्याख्यानं कृतं प्रतिज्ञानन्तरं हि हेतोः कालः । तमतीत्य हेतुः पश्चादपदिश्यमानः कालातीतो भवति । तद् यथा, अनित्यः शब्दः घटादिवदित्युक्ते कस्मादित्यनुयुक्तो हेतुं160 ब्रूते कृतकत्वादिति स कालातीत इति । तच्चैवं तेन दूषितम्—किं निराकाङ्क्षे161 वादिनि एष प्रतिवादिनः प्रश्नः, आहो साकाङ्क्षे ? यदि निराकाङ्क्षे तदा न्यूनमेवास्य निग्रहस्थानम्, न हेत्वाभासस्तस्याप्रयोगात् । प्रयुक्तो हि हेतुस्तदाभासो वा स्यात् नाप्रयुक्तः । अथ साकाङ्क्ष एव वादिनि प्रतिवादिनः प्रश्नः, तथापि पश्चादप्यसौ हेतुः प्रयुक्तो हेतुरेव, न ह्यसौ तदा न स्वसाध्याविनाभूतोऽपक्षधर्मो वेति । तस्मात् न कालातीतो नामास्ति हेत्वाभास इति । तदेतद् “भदन्त”दूषण मेतद्व्याख्यानानभ्युपगमेन परिहरति—“अवयवविपर्यासवचनं त्विति ।” अनभ्युपगमहेतुं पृच्छति—“कस्मादिति ।” उत्तरम्—“यस्येति ।” अर्थेन सामर्थ्येन सम्बन्धोऽर्थसम्बन्धः । अपि च पौनरुक्त्यादपि नाभ्युपगम्यत इत्याह—“अवयवेति ।”

“यस्यापदिश्यमानस्य” इत्यादि “पुनरुच्यत” इत्यन्तं “वार्त्तिकं भाष्य”व्याख्यानेनैव व्याख्यातम् । शङ्कते—“समीकृतेऽभिधानादिति ।” अयमर्थः, नैतदप्राप्तकालेन निग्रहस्थानेन पुनरुक्तम्, अपि तु हेत्वाभास एव । स ह्यवयवविपर्यास उच्यते यत्रैकग्रन्थेनैव वादी प्रतिज्ञोदाहरणादि प्रयुज्य पश्चात् हेतुं प्रयुङ्क्ते, एष तु प्रतिज्ञोदारहणे प्रयुज्य विरतः प्रतिवादिनानुयुक्तः पश्चात् हेतुं प्रयुङ्क्ते । तस्मात् न्यूनतादूषणेन पक्षे समीकृते पक्षमात्रतां नीते सिद्ध्यवस्थातः प्रच्याविते पश्चादभिधानात् हेतोरेष कालातीतो हेत्वाभासः, न पुनरप्राप्तकालम् । “निग्रहस्थानमिति चेदिति ।” निराकरोति—“केनेति यदि हेत्वनभिधानेन” न्यूनतया “समीकृतः” पक्षः “किमत्र हेतोरसामर्थ्यम् ?” न ह्यन्यदोषेणान्यो युज्यत इत्यर्थः । शङ्किता ब्रूते—“एतदस्येति ।” निराकरोति—“नैतदिति ।” न्यूनतया निगृहीतो यदि पश्चादभिधानेन निग्रहीतव्यः, ततो वाद्येव निगृह्यतां न त्वयं पश्चादभिहित इति समर्थः शक्यो हेतुर्निग्रहीतुमिति नायं समीकृताभिहितत्वेनापि हेत्वाभास इत्यर्थः । उभयनिराकरणमुसंहरति—“तस्मादिति” ॥ ९ ॥

छललक्षणप्रकरणम्

वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ १ । २ । १० ॥

उद्देशक्रमानुरोधेन लक्षणक्रमस्य हेत्वाभासानन्तरं छलस्योद्देशात् छललक्षणस्यापि हेत्वाभासलक्षणानन्तर्यमाह “भाष्यकारः-अथछलम् ।”

“वच—लम् ।” यथा वक्तुरभिमतोऽर्थः ततो विरुद्धः अर्थ स्तस्य विकल्पः162 कल्पना, सैवोपपत्तिस्तया । अथ लक्षणान्तर इव163 छलस्य सामान्यलक्षणे कस्मादुदाहरणं न दीयत इत्यत आह—“न सामान्यलक्षणे” इति । सामान्यविशेषवत् सर्वमुदाहरणम्, निर्विशेषस्य सामान्यस्यासत्त्वेन केवलस्य सामान्यस्योदाहरणमशक्यमित्यर्थः । “विभागे त्विति ।” विभज्यत इति विभागो विशेषलक्षणम्, तस्मिन् उदाहरणानि ॥ १० ॥

तत् त्रिविधं वाच्छलं सामान्यच्छलमुपचारच्छलं च ॥ १ । २ । ११ ॥

छलसामान्यलक्षणमभिधाय तद्विशेषलक्षणान्यभिधातुं प्रथमं तावत् न्यूनाधिकसङ्ख्याव्यवच्छेदार्थं विभागलक्षण“सूत्र”मवतारयति—“विभागश्चेति164 ।” विभज्यतेऽनेति विभागः “सूत्र”मुच्यते—“तत् त्रि—च ।”

अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ १ । २ । १२ ॥

तत्र च विशेषलक्षणमवतारयति “तेषां” छलानां मध्ये वाक्छलं लक्ष्यते—“अवि—लम् ।” नवः कम्बलोऽस्येति एकत्र विग्रहः, नव कम्बला अस्येति अपरत्र165 इति विग्रहे विशेषः । वाक्छलशब्दार्थं व्युत्पादयति—वाचि निमित्ते छलं वाक्छलमिति । नवकम्बल इत्युभयत्रापि समानायां वाचि निमित्तभूतायामित्यर्थः । तदेतच्छलं पराजयावस्थायां जल्पे प्रयोक्तव्यमित्युक्तम् । परवाक्ये पर्यनुयोगोऽस्येति चोक्तम् । तदत्र यथा पर्यनुयोगः, तथा दर्शयति शिष्यहिततया “भाष्यकारः—अस्य प्रत्यवस्थानमिति ।” उभयार्थप्रतिभाने166 सम्भवत्पदार्थपरित्यागेनासम्भवत्पदार्थकल्पनमयुक्तमित्यर्थः167

अथ प्रयोक्तापि कथं साधारणेन शब्देनार्थविशेषं बोधयति ? अबोधयंश्च कथं प्रतिपादको नाम इत्यत आह—“प्रसिद्धश्चेति ।” सम्बन्धस्वरूपमाह अभिधानाभिधेययोर्यो नियमः, अयमेव शब्दोऽस्यैवार्थस्येति । तत्र यः पुरुषस्य नियोगः अस्मादयमेव बोद्धव्य इत्येवमाकारः । किमतो यद्येवमित्यत153 आह— “प्रयुक्तपूर्वाश्चेति ।” तथापि किमित्यत आह—“प्रयोगश्चेति ।” तामिमां भूमिरचनां प्रकृते योजयति—“तत्रैवमर्थगत्यर्थ” इति । एतदुक्तं भवति, न सङ्केतकरणावस्थायां वृद्धव्यवहारे वा कश्चित् शब्दः कञ्चिदर्थं शृङ्गग्राहिकया बोधयति, अपि तु सामान्यद्वारेणार्थप्रकरणादिसहकारी विशेषे वर्तते । तस्मात् नैष प्रतिपादयितुरपराधो यदेष विशेषशब्दैर्विशेषं न168 प्रतिपादयति, किन्तु सङ्केतस्यापराधो यो विशेषमपहाय सामान्ये शब्दानां वर्तते । तस्माद् यथासङ्केतं बोधयन् नापराध्यः प्रयोक्तेति सिद्धम् । सामर्थ्यमेव दर्शयति—“यत्रार्थे क्रियाचोदनेति ।”

स्यादेतत् । “अविशेषाभिहितेऽर्थे” इति न युक्तम् । न हि नवकम्बल इति पदं प्रकरणादिनिरपेक्षं कञ्चिदर्थमविशेषेणाभिधत्ते गवादिशब्दवत् । न हि सङ्ख्याविशेषे च नवीनत्वे चास्ति कश्चित्सामान्यविशेषो बाहुलेयादिष्विव गोत्वं यमभिदधीतेत्यत आह “वार्त्तिककारः—सामान्यश्रुतीति ।” अभिहितिः “अभिहितम्” उच्चारणमिति यावत् । समानः शब्दो नार्थे सामान्यमित्यर्थः । अश्व इति नामपदमश्वत्वस्य वाचकम्, आख्यातपदं यदा कस्यचिदभिमुखं प्रयुज्यते अश्व इति, तदा वृद्धिं गतोऽसीति प्रतीयते । चोदयति—“अविशेषेति ।” समानो हि शब्दोऽभिधेये संशयमाधत्ते न त्वर्थमभिधत्त इत्यर्थः । परिहरति—“न प्रकरणादीन्” इति । श्वेतो “धावतीति” इतः सारमेयो द्रुतरं याति, श्वित्री प्रक्षालयतीत्यर्थसन्देह169 इत्यर्थः । अर्थ इत्यस्य प्रयोजनमाह—“अर्थग्रहणमिति ।” अविशेषश्रुतौ शब्दे सति अर्थे अर्थान्तरकल्पना, न शब्द इत्यर्थः । अस्य प्रत्यस्थानमित्यादि “भाष्यं” व्याचष्टे—“तस्येति ।” सुगमम् ॥ १२ ॥

सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १ । २ । १३ ॥

“सम्भवतोऽर्थस्य” ब्राह्मणविशेषस्य विद्याचरणसम्पद्विषयत्वेन170 विद्याचरणसम्पदमत्येति यत् सामान्यं ब्राह्मणत्वं व्रात्य ब्राह्मणे, तस्य ब्राह्मणत्वस्यातिसामान्यस्य योगादसम्भूतार्थकल्पनया171 यः प्रतिषेधः तत् सामान्यच्छलम् । “अहो” नु172 खल्वयं “ब्राह्मणो विद्याचरणसम्पन्न” इति हि स्तुत्यर्थं वाक्यमभ्यनुजानतोक्तं “सम्भवति ब्राह्मणे विद्याचरण सम्पदिति” तदेतदपि173 वाक्यं स्तुत्यर्थमेव, न त्वस्य ब्राह्मणत्वात् हेतोर्विद्याचरणसम्पद् विवक्षितेति । तत्र परो हेत्वर्थमस्याविवक्षितमारोप्य174 वचनं विहन्तीति तदिदं सामान्यच्छलम् । “विषयानुवाद”175 इति । सम्पद्विषयस्य ब्राह्मणत्व स्यानुवाद175 इत्यर्थः । कस्य ? “अविवक्षितहेतुकस्य” पुंसः । तदेतद् “वार्तिककारो” व्याचष्टे—“सामान्यस्येति ।” विवक्षितार्थमधिगतं सामान्यमित्यर्थः । शेषं सुबोधम्176 ॥ १३ ॥

धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥ १ । २ । १४ ॥

शब्दस्य धर्मः प्रयोगः तस्य विकल्पो द्वैविध्यम् । द्विविधः प्रयोगः, प्रधानो भाक्तश्च । तत्रापि प्रधान औत्सर्गिकः, तस्य तु कुतश्चिदपवादाद्177 भाक्तो भवति । तदेतदाह “भाष्यकारः—अभिधानस्य” शब्दस्य यथार्थं प्रयोगो “धर्मः” औत्सर्गिकः । तत् किमयमेव ? नेत्याह—विकल्पो178 द्वैविध्यम् । कोऽसौ द्वितीय इत्यत आह—उत्सर्गस्य तु कुतश्चिदपवादाद् “अन्यत्र दृष्टस्यान्यत्र प्रयोगः ।” तदेवं व्यवस्थितेन179 धर्मविकल्पेन “निर्देशे” वाक्ये, निर्दिश्यतेऽनेनेति व्युत्पत्त्या । तत्र भाक्तविवक्षायां मञ्चाः क्रोशन्तीति, अत्रार्थसद्भावेन प्रतिषेधः । तमेवार्थसद्भावमाह— “मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्तीति । वार्त्तिक”मते त्वर्थसद्भावस्यैव प्रतिषेध इति व्याख्येयम् । ननु यद्यन्यत्र दृष्टस्यान्यत्र प्रयोगः, हन्त सर्वं सर्वत्र प्रयुज्येतेत्यत आह—“उपचारो नीतार्थः” प्रापितार्थः । सहचरणादिना निमित्तेनेति, अन्यत्र दृष्टस्यान्यत्र प्रयोगः सम्बन्धादेव भवतीति नातिप्रसङ्ग इत्यर्थः । “न छन्दतः” न छद्मनेत्यर्थः । ननु यदि भाक्ततयाप्युपपत्तिः, न किञ्चित् जल्पाकभाषितं दुष्टं स्यात् । सर्वस्यैव यथाकथञ्चिद् भाक्तत्वेनोपपत्तेरित्यत आह—“प्रधानभूतस्येति ।” भाक्तस्येत्येतावति वक्तव्ये प्रधानग्रहणं सिद्धतया दृष्टान्तलाभाय । लोकसिद्ध एवोपचारः कर्तव्यो नापूर्वो विना प्रयोजनम्, लोकसिद्धश्चायमुपचारो मञ्चाः क्रोशन्तीत्यर्थः ।

“सूत्र”व्याख्यानपरं “वार्त्तिकं धर्मविकल्पनिर्देशशब्देन सूत्र”स्थेन । अभिधानं प्रयोगः शब्दस्य धर्मो भवन्180 द्विधाभिधीयते । द्वैविध्यमाह—“प्रधानमिति । सोऽयमभिधानाभिधेयव्यवहार” इति, अभिधानं शब्दः अभिधेयो गम्यः । स च क्वचिद् वाच्यः, क्वचिद् भाक्त इत्यर्थः181 ॥ १४ ॥

वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ १ । २ । १५ ॥

परीक्षापर्वणः सन्निधानात् तदर्थं लक्षणपर्वण्यपि योग्यतायै “सूत्रकारः” छललक्षणं परीक्षते—“वाक्छ—त् । स्थान्यर्थो गुणशब्दो” यो वस्तुतः “स” एव “प्रधानशब्दः स्थानार्थ इति कल्पयित्वेति” योजना । यथा हि वाक्छले नवीनार्थो नव शब्दः सङ्ख्याभेदे कल्पितस्तथेहापीति पूर्वः पक्षः ॥ १५ ॥

न तदर्थान्तरभावात् ॥ १ । २ । १६ ॥

सिद्धान्त“सूत्रम्—न त-त् । तस्य” उपचारच्छले “अर्थसद्भावप्रतिषेधस्य । अर्थान्तरकल्पनातो” वाक्छलादित्यर्थः । “सूत्र”तात्पर्यमाह “वार्त्तिककारः— अविशेषादित्यस्येति ।” विधेयं वस्तु, मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा इति त्वनूद्यते । अत एव गुणे त्वन्यार्थकल्पना182 इति मञ्चा इत्येतदप्रधानमनूद्यतया183 भाक्तम् । न तु क्रोशन्तीति न विधौ परः शब्दार्थः इति न्यायात् । तदिह विधीयमानं क्रोशनमेव वस्तु प्रतिषिध्यते, नैव मञ्चाः क्रोशन्तीति छलवाक्येन । नवकम्बलो देवदत्त इत वाक्ये तु देवदत्तमनूद्य नवत्वविशिष्टः कम्बलो विधीयते । तत्र न विधेयस्य वस्तुनः कम्बलस्य सद्भावः प्रतिषिध्यते, किन्तु तदेकदेशस्यानेकताया इति महान् भेद इति सिद्धान्तः ॥ १६ ॥

अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १ । २ । १७ ॥

किञ्चित्साधर्म्यात् त्रित्वाभावे द्वित्वस्याप्यभ्युपगतस्याभाव प्रसङ्गः । ओमिति ब्रुवतो वस्तुत्वेन समस्तभेदोच्छेदप्रसङ्गः । “भाष्यवार्त्तिके” अतिरोहितार्थे ॥ १७ ॥

॥ इति छललक्षणप्रकरणम् ॥

पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम्

साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १ । २ । १८ ॥

उद्देशक्रमानुरोधेन जातिलक्षणक्रममाह “भाष्यकारः—अतः” छललक्षणाद् “ऊर्ध्वम् । साध-तिः ।” प्रतीपमवस्थानं प्रत्यवस्थानम्, तथा सति छलस्य सम्यग्दूषणस्य च जातित्वप्रसङ्गः । अत उक्तम्—“साधर्म्यवैधर्म्याभ्यामिति ।” न च छले साधर्म्यवैधर्म्ये स्तः । न च सम्यग्दूषणं साधर्म्यवैधर्म्यमात्रात्, अपि तु प्रयोगादिति184 । “प्रयुक्ते हेतौ” तदाभासे वा “यः प्रसङ्गो जायते स जातिरिति ।” जल्पे हि वेदप्रामाण्यं विद्वांसं प्रति कुहेतुना यदा नास्तिकैरधिक्षिप्यते, सदुत्तरं चास्य यदा सहसा न प्रतिभाति, तदेश्वराणां जनाधाराणां मा भूद् वेदाप्रामाण्यबुद्धिरिति जात्यापि प्रत्यवस्थेयम्, अन्यथेश्वरचरितानुवर्त्तिनीनां प्रजानां विप्लवो भवेदिति । क्वचित् पुनरबुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः सम्भवति । “जायमानोऽर्थः” इति जातिपदव्युत्पत्तिनिमित्तं दर्शितम् । तदेतद् “वार्त्तिककारो” व्याचष्टे—“साधर्म्येणेति ।” यथा पक्षे सति प्रतिपक्षः, एवं स्थापनायां सत्यां प्रत्यवस्थानमिति । “सूत्रार्थस्तु यथाश्रुति, न पुनरुदाहरणसाधर्म्येण” यथा“भाष्यं” बोद्धव्यः । यद्येवम् “भाष्यं” तर्हि कथमित्यत आह—“उदाहरणार्थमिति ।” एवं वैधर्म्येण वेत्येतदपि । “यथाश्रुति” न पुनर्यथा“भाष्यम्” उदाहरणार्थं तदित्यर्थः । अस्य व्याख्यानस्य गुणाभिधानेन प्रश्नपूर्वकं प्रपञ्चमाह—“किमर्थमिदमिति” ॥ १८ ॥

विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १ । २ । १९ ॥

सूक्ष्मविषया प्रतिपत्तिर्विपरीता185 । स्थूलविषया च कुत्सिता, कथमसौ निग्रहस्थानमित्यत आह—“विप्रतिपद्यमान” इति । अप्रतिपत्तिमाह—“आरम्भविषय” इति । लाघवाय विप्रतिपत्त्यप्रतिपत्ती इति वक्तव्ये कस्मादसमासकरणमित्यत आह—“असमासाच्चेति ।” विप्रतिपत्त्यप्रतिपत्तिभ्यामन्यदपि हेतूदाहरणाधिकं नाम जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इत्यर्थः । “आरम्भविषयेऽनारम्भ” इत्यादि “भाष्यम्,” तद् व्याचष्टे—“स्वपरार्थोत्तरासंवित्तिरिति ।” द्वेधा खल्वारम्भविषयेऽनारम्भो भवति, दूष्यं वा परोक्तं साधनं विप्रतिषेधहेतुं वा न प्रतिपद्यते । सेयं परार्थोत्तरासम्प्रतिपत्तिः उत्तरग्रहणं साधनमप्युपलक्षयति । स्वार्थोत्तराप्रतिपत्तिस्तु साधनप्रतिषेधहेतू परकीयौ प्रतिपद्य तत् प्रतिषेद्धुं186 स्वकीयमुत्तरं न प्रतिपद्यत इत्यर्थः । चोदयति—स्वयं प्रयुक्ते वस्तुतः “समर्थे साधने कथम् अप्रतिपत्तिर्विप्रतिपत्तिर्वेति” द्रष्टव्यम् । परिहरति—“तदापीति ।” समर्थसाधनज्ञानं साधनप्रतिपत्तिर्न साधनमात्रज्ञानमित्यर्थः ॥ १९ ॥

तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् ॥ १ । २ । २० ॥

सूत्रान्तरमवतारयितुं “भाष्यकार” आह—“किं पुनरिति ।” यद्यपि साधर्म्यवैधर्म्याभ्यां दृष्टान्तस्यापि भेदः, तथापि लक्षणाभेदाभिप्रायेणाभेद उक्तः । “तद्वि—त्वम् । नाना कल्प” इति स्वरूपतः, “विविध” इति प्रकारतः । “यथालक्षणमिति” यथास्वरूपमित्यर्थः ।

अध्यायार्थं सङ्क्षिप्याह “वार्त्तिककारः—तन्त्रप्रतिज्ञेति । तन्त्रस्य” शास्त्रस्य “प्रतिज्ञा” प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इति “सूत्रम् ।” शास्त्रमेव हि तत्त्वज्ञानमिति । “संसारः” दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामिति । “तन्निवृत्तिश्च संविदा” उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्ग इति । तस्माद् यः प्रमाणादि“सूत्रेणो”द्देशः, तत्परिकरो द्वितीयं सूत्रम्, द्वाभ्यामुद्देशः । शेषं सुबोधमिति ॥ २० ॥

॥ पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्याये द्वितीयाह्निकम् ॥

॥ प्रथमाध्यायः समाप्तः187


  1. “°लक्षणसूत्रं” [च्] °तारोऽस्ति [क्] ↩︎

  2. “विचार वस्तु विषया” [च्] ↩︎

  3. “वाक्यसन्दृब्धिः”ओम् [ज्] ↩︎

  4. “तस्यां कथायां” [च्] ↩︎

  5. “साधनहीन°” [च्] ↩︎

  6. “पक्ष°”ओम् [ज्] ↩︎

  7. “कुक्षी°” [च्] ↩︎

  8. “च”ओम् [च्] ↩︎ ↩︎ ↩︎

  9. “भवति” [च्] ↩︎

  10. सू। १.२.२ ↩︎

  11. “इत्यर्थः” [च्] ↩︎

  12. “°दिभिर्जि°” [च्] ↩︎

  13. “बुद्धिपूर्वम्” [च्] ↩︎

  14. “तत्र प्र°” [च्] ↩︎

  15. “°पपन्नं” [च्] ↩︎

  16. “सुस्थान°” [च्] ↩︎

  17. “कर्तव्यमिति” [च्] ↩︎

  18. “निग्रहरहितो” [ज्] ↩︎

  19. “अपि”ओम् [च्] ↩︎ ↩︎

  20. “सौबन्धवं” [च्] वर् ↩︎

  21. “°कारणं°” [च्] ↩︎

  22. “विशेष्यं”ओम् [च्] ↩︎

  23. “स्वशब्दस्य” [च्] ↩︎

  24. “ततो”ओम् [च्] ↩︎

  25. “सूत्रान्तरेण” [च्] ↩︎

  26. “°रेव स्वपरपक्षाः” [ज्] ↩︎

  27. “°णीयम्” [च्] ↩︎

  28. “पूर्वस्य पक्षस्य” [च्] ↩︎

  29. “°र्थ इत्यर्थः” [च्] ↩︎

  30. “प्रस्मृत्य” [च्] ↩︎

  31. “एव च”ओम् [च्] ↩︎

  32. “साक्षात्सपक्षस्य भेदे” [च्] ↩︎

  33. “एवम्”ओम् [च्] ↩︎

  34. “अनुगत्यर्थं” [च्] ↩︎

  35. “अर्के” [ज्] ↩︎

  36. “सिद्ध्य° दूषयति”ओम् [ज्] ↩︎

  37. च औम् छ् ↩︎

  38. “तथा” [च्] ↩︎

  39. “तावदधि°” [च्] ↩︎

  40. “शब्द°”ओम् [ज्] ↩︎

  41. “प्रतीक्ष्या°” [ज्] ↩︎

  42. “लोकप्रयुक्तेति”ओम् [च्] ↩︎

  43. “इदानीं तु नास्म°” [च्] ↩︎

  44. “°भावेन” [च्] ↩︎

  45. “°द्धः पक्षः” [च्] ↩︎

  46. “एव”ओम् [च्] ↩︎

  47. विषयविषयिभावः [क्] ↩︎

  48. “सिद्ध्य°”ओम् [च्] ↩︎

  49. “°न्तरेण” [च्] ↩︎

  50. “प्रत्याय्यं” [च्] ↩︎

  51. “कारणं” [ज्] ↩︎

  52. “विशेषपक्षे” [च्] ↩︎

  53. “°र्थं च” [च्] ↩︎

  54. “स्वस्य पक्षस्येति”ओम् [ज्] ↩︎

  55. “°युक्तार्थाभ्यां” [च्] ↩︎

  56. “°युक्तशब्दाभ्यां” [च्] ↩︎

  57. “चोदकः” [च्] ↩︎

  58. “किं कारणम् ? ”ओन्ल्य् इन् [ज्] ↩︎

  59. “सति”ओम् [ज्] ↩︎

  60. “°कथात्वात्” [च्] ↩︎

  61. “न”ओम् [ज्] ↩︎

  62. “स्वं”ओम् [च्] ↩︎

  63. “वादे”ओम् [च्] ↩︎

  64. “परीक्षार्थं”ओम् [च्] ↩︎

  65. “वादिनोः” [च्] ↩︎

  66. “तदा” [च्] ↩︎

  67. रथ्यातथावादे [क्] ↩︎

  68. “तन्निर्बन्धेन” [च्] ↩︎

  69. “इत्ययुक्तमि°” [च्] ↩︎

  70. “नियम्यते” [च्] ↩︎

  71. “पदलक्ष्यवर्जं” [च्] ↩︎

  72. “°लभ्ये” [च्] ↩︎

  73. “हि ”ओन्ल्य् इन् [ज्] ↩︎

  74. यतो° [क्] ↩︎

  75. “तत्र” [च्] ↩︎

  76. “आक्षिप्तयोः” [च्] ↩︎

  77. “अस्य” [च्] ↩︎

  78. “प्रवर्तते”ओम् [च्] ↩︎

  79. “स्युरिति” [ज्] ↩︎

  80. “जल्पे सदा°” [क्] ; “ना°”ओम् [च्] ↩︎

  81. “घटपटाद्य°” [च्] ; खटचपेटा=बद्धमुष्टिप्रहारः । ↩︎

  82. “वाग्वादे” [ज्] ↩︎

  83. यत्तया [क्] ↩︎

  84. “अतः” [च्] ↩︎

  85. “द्वितीय° इति” ओम् [च्] ↩︎

  86. “अपि” ओम् [च्] ↩︎ ↩︎

  87. “तु” [च्] ↩︎

  88. “तद्योग्य°” [च्] ↩︎

  89. “अव°” ओम् [ज्] ↩︎

  90. “°णप्रतिपादकं” [च्] ↩︎

  91. “°त्वासत्प्रतिपक्षितत्वे” [च्] ↩︎

  92. “°विशेषणभे°” [च्] ↩︎

  93. “आह”ओम् [ज्] ↩︎

  94. “असपक्ष°” [च्] ↩︎

  95. “°सपक्ष”ओम् [च्] ↩︎

  96. “तदा”ओम् [ज्] ↩︎

  97. “°विज्ञान°”ओम् [ज्] ↩︎

  98. “°त्वादिति” [ज्] ↩︎

  99. “साध्यते” [ज्] ↩︎

  100. “न विपक्षावृ°” [च्] ↩︎

  101. “हेतु°”ओम् [च्] ↩︎

  102. “°तया उभयसम्प्रतिपन्नया” [च्] ↩︎

  103. “°ष्टाचत्वारिंशक°” [च्] ↩︎

  104. “°तरप्र°” [च्] ↩︎

  105. “ह्याद्य°” [ज्] ↩︎

  106. “भेदभेदेनो°” [ज्] ↩︎

  107. द्रः २.२.३० ↩︎

  108. “°षणं °ष्यमुदा” [ज्] ↩︎

  109. “°सन्दिग्धासमर्थ°” [ज्] ↩︎

  110. “°सन्दिग्धासमर्थ°” [च्] ↩︎

  111. “सिद्धोऽपि” [ज्] ↩︎

  112. “°विशेषणवि°” [च्] ↩︎

  113. “°द्धविशेष्या” [च्] ↩︎

  114. “°पद°”ओम् [ज्] ↩︎

  115. “मात्र”ओम् [च्] ↩︎

  116. “वोभय°” [च्] ↩︎

  117. “अवगतम्” [च्] ↩︎

  118. “पक्षं” [च्] ↩︎

  119. “आदाय” [च्] ↩︎

  120. “°व्यापकवैप°” [च्] ↩︎

  121. “अप्येष” [च्] ↩︎

  122. “ननु च” [च्] ↩︎

  123. “नेति”ओम् [च्] ↩︎

  124. “°मात्र° & च”ओम् [च्] ↩︎

  125. “वा”ओम् [च्] ↩︎

  126. “विरुद्धो हेतुः” [च्] ↩︎

  127. “तादृश°” [च्] ↩︎

  128. “°लपतया व्याख्या°” [च्] ↩︎

  129. “इत्यभिसन्धाय”ओम् [ज्] ↩︎

  130. “विरुध्यत इत्येवं” [च्] ↩︎

  131. “एते ते” [च्] ↩︎

  132. “यदि” [च्] ↩︎

  133. द्रः टी। ३ । १ । १ ↩︎

  134. “तु”ओम् [च्] ↩︎

  135. “अनया”ओम् [च्] ↩︎

  136. “नैव खल्व°” [च्] ↩︎

  137. “तच्च” [च्] ↩︎

  138. “वादिनां” [च्] ↩︎

  139. “°निमित्त°” [ज्] ↩︎

  140. “अस्य”ओम् [च्] ↩︎

  141. “निर्देशः प्रकरणसमस्य” [च्] ↩︎

  142. “°त्येवेति” [च्] ↩︎

  143. ३.२.१०-१७ ↩︎

  144. “अत्र”ओम् [च्] ↩︎

  145. “गृह्यते” [च्] ↩︎

  146. “सूत्रकृता” [ज्] ↩︎

  147. “°सिद्धमाह” [च्] ↩︎

  148. “°श्रयासिद्ध°” [च्] ↩︎

  149. “अनित्यत्वात् तस्याः” [च्] ↩︎

  150. पृः १३३। २० ↩︎

  151. “अनित्यः” [ज्] ↩︎

  152. “अयम्” [च्] ↩︎

  153. “इति” ओम् [च्] ↩︎ ↩︎

  154. द्रः भा। १। १। १। ↩︎

  155. “यस्यार्थैक°” [च्] ↩︎

  156. “अर्थ्यते” [च्] ↩︎

  157. “तु” [च्] ↩︎

  158. “अनुरूपः” [च्] ↩︎

  159. “अन्यथा ”ड़ोर्“न” [च्] ↩︎

  160. “हेतुं”ओम् [च्] ↩︎

  161. “विरते” [ज्] ↩︎

  162. “कल्पः” [ज्] ↩︎

  163. “°न्तरवत्” [च्] ↩︎

  164. “विभागमव°” [च्] ↩︎

  165. “एकत्रेति” [ज्] ↩︎

  166. “प्रति” ओम् [ज्] ↩︎

  167. “असम्भवदर्थकल्पनमयुक्तम्” [च्] ↩︎

  168. “°शेषान् न” [च्] ↩︎

  169. “निर्णेक्तीत्यर्थः” [च्] ↩︎

  170. “°सम्पदा” [च्] ↩︎

  171. “°दसद्भूतार्थ°” [ज्] ↩︎

  172. “नु”ओम् [च्] ↩︎

  173. “तदपि” [च्] ↩︎

  174. “हेतुत्व°” [च्] ↩︎

  175. “°र्थवादः” [ज्] ↩︎ ↩︎

  176. “शेषं सुबोधम्”ओम् [च्] ↩︎

  177. “क्वचिद°” [च्] ↩︎

  178. “तस्य च वि°” [ज्] ↩︎

  179. “व्यवस्थिते” [च्] ↩︎

  180. “भवन्”ओम् [ज्] ↩︎

  181. “इति सुबोधम्” [च्] ↩︎

  182. “°न्याय्यकल्पना” [च्] ↩︎

  183. “°नुवाद्यतया” [ज्] ↩︎

  184. “प्रयोजकात्” [ज्] ↩︎

  185. “विप्रति°” [ज्] ↩︎

  186. “°षेधं” [ज्] ↩︎

  187. “मङ्गलं महाश्रीः ॥” [ज्] ↩︎