प्रथमाध्याये प्रथमाह्निकम्
विश्वव्यापी विश्वशक्तिः पिनाकी
विश्वेशानो विश्वकृद् विश्वमूर्तिः ।
विश्वज्ञाता विश्वसंहारकारी
विश्वाराध्यो राधयत्वीहितं नः ॥
नमामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।
निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥
ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा ।
न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥
इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।
उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥
अभिधेयप्रयोजनसम्बन्धप्रकरणम्
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानान्तत्त्वज्ञानान्निःश्रेयसाधिगमः ॥ १ । १ । १ ॥
अथ भगवताऽ“क्षपादेन” निःश्रेयसहेतौ शास्त्रे प्रणीते,1 व्युत्पादिते च भगवता “पक्षिलस्वामिना,” किमपरमवशिष्यते यदर्थं “वार्त्तिका”रम्भ इति शङ्कां निराचिकीर्षुः “सूत्रकारो”क्तशास्त्रप्रयोजनानुवादपूर्वकं2 वार्त्तिकारम्भप्रयोजनं दर्शयति—“यदक्षपाद” इति ॥
यद्यपि “भाष्यकृता” कृतव्युत्पादनमेतत्, तथापि “दिग्नाग”प्रभृतिभिरर्वाचीनैः कुहेतुसन्तमससमुत्थापनेनाच्छादितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमि“त्युद्द्योतकरेण” स्वनिबन्धोद्द्योतेन3 तदपनीयत इति प्रयोजनवानारम्भ इति । सूत्रोक्तप्रयोजनानुवादश्च प्रयोजनवच्छास्त्रव्युत्पादनेन स्वनिबन्धस्य प्रयोजनवत्तां प्रेक्षावत्प्रवृत्त्यङ्गं दर्शयितुम्, व्युत्पादनमात्रस्य च काकदन्तपरीक्षाग्रन्थसाधारण्येन प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् । अत्र चैकविंशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः “शमः,” तस्मै । कस्य ? जगतः । परमकारुणिको हि भगवान् मुनिः4 जगदेव दुःखपङ्कमग्नमुद्दिधीर्षुः शास्त्रं प्रणीतवान् । तत्र यदि कश्चिन्न प्रवर्तेत, किमायातं शास्त्रस्य ? न चानधिकृतपुरुषव्युत्पादनेनास्य तपोनिधेः कश्चिदस्ति दोषः । तथा च विश्वामित्रस्त्रिशङ्कुं याजयामास, वशिष्ठश्चाधमयोनिजामक्षमालामुपयेमे । तपःप्रभाव एव हि तादृशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त इति । न चास्मदादीनां मन्दतपसामयं प्रसङ्गः । न हि गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्युदर्येण तेजसा तथा भवितव्यम् । कुतार्किकै“र्दिग्नाग”प्रभृतिभिराहितमज्ञानं “कुतार्किकाज्ञानमिति ।”
अविगीतशिष्टाचारपरम्पराप्राप्तः परमशिष्टेन “वार्त्तिककारेण” कृतोऽपीष्टदेवतानमस्कारो न शास्त्रे5 निवेशितः । न खल्वन्यदपि मङ्गल्यं शास्त्रे निवेशितम्, प्रसिद्धतरतया तु मङ्गल्यान्तरवच्छिष्या अवगमिष्यन्तीति सर्वमवदातम् ।
तत्र सङ्क्षेपतः प्रथमसूत्रमनूद्य तस्य तात्पर्यमाह—“प्रमाणादिपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्येतच्छास्त्रस्यादिसूत्रम् । तस्य” शास्त्रस्य “अभिसम्बन्धवाक्यम् ।” आदिग्रहणेन क्रमप्राप्तस्यैव प्रथमं व्याख्यानं युक्तम्, न द्वितीयादेरिति दर्शितम् । अभिमतः सम्बन्धोऽभिसम्बन्धः, शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः । तस्य इदं सूत्रवाक्यमभिसम्बन्धवाक्यम्6 । प्रमाणादिपदार्थतत्त्वज्ञानादित्यत्र हि ज्ञायतेऽनेनेति7 ज्ञानमिति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रमुच्यते । पञ्चम्या च तस्य हेतुत्वम् । न हि विषघ्नमन्त्रवत् स्वरूपमात्रेण8 तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्त्वावगमकरणतया शास्त्रमपदिशति,9 न तु स्वरूपेण, तेन शास्त्रस्य निःश्रेयसे कर्तव्ये प्रमाणादितत्त्वावगमोऽवान्तरव्यापार इत्युक्तं भवति । तथा च प्रमाणादिपदार्थतत्त्वं प्रतिपाद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्त्वयोर्ज्ञाप्यज्ञापकभावश्च10 प्रमाणादिपदार्थतत्त्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च सम्बन्धः सूचितो भवति । तदिदमभिधेयसम्बन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य । पत्पदार्थतत्त्वज्ञानस्य11 च यथा निःश्रेयसाधिगमं प्रत्युपयोगस्तथाग्रे निवेदयिष्यते । विनिश्चिताप्तभावाश्च मुनेराप्तत्वेन तद्वाक्यात् प्रयोजनादि विनिश्चित्य प्रर्क्त्स्यन्ति, आप्तत्वाविनिश्चये त्वर्थसंशयात्12 । न खलु कृष्यादावपि विनिश्चितसस्याद्यधिगमानां प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि सम्भवात् । न च प्रयोजनादिवाक्याभावेऽपि13 संशयस्य साधकबाधकप्रमाणाभावेन न्यायप्राप्तत्वेन तदभिधानमनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् । वाक्यात् तु विशेषस्मृतिरिति नानर्थक्यम्14 ।
तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा “भाष्यस्या”दिवाक्यतात्पर्यमाह—“प्रमाणतोऽर्थप्रतिपत्तावित्येवमादि15 । तस्यानुसन्धानवाक्यम् ।” तस्य शास्त्रस्य निःश्रेयसाधिगमेन सह सूत्रेण घटितस्य । कुतश्चिन्निमित्ताद् विघटनशङ्कायाम् अनु सूत्रघटनायाः पश्चात् सन्धानं घटनं अनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ।
एवं किलात्र शङ्क्यते—यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशकं वचनम्16 । तादृशं चेदं शास्त्रमिति । तथा हि प्रमेयादीनां तावत्पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनम् । न हि प्रमाणं तत्त्वेनानवधारितं बोधकत्वमात्रेण स्वगोचरावधारणायालं तावन्मात्रस्य तदाभाससाधारण्यात्, अपि तु बोधकत्वैकार्थसमवेतेनाव्यभिचारित्वेन । तदेव हि प्रामाण्यम् । तच्चाशक्यावधारणम् । तदनवधारणाच्च प्रमेयादयो दुरवधारणाः । तथा हि विज्ञानस्य तावत्प्रामाण्यं स्वतो वा निश्चीयते परतो वा ? न तावत् पूर्वः कल्पः । न खलु विज्ञानमनात्मसंवेदनमात्मानमपि गृह्णीयात्, प्रागेव तत्प्रामाण्यम् । नापि विज्ञानान्तरम्, तद्विज्ञानमित्येव गृह्णीयात् । न पुनरस्याव्यभिचारित्वम् । ज्ञानत्वमात्रं च तदाभाससाधारणमिति न स्वतः प्रामाण्यावधारणम् । एतेन स्वसंवेदननयेऽपि अव्यभिचारग्रहणं प्रत्युक्तम् । नापि परतः । परं हि तद्गोचरं वा ज्ञानमभ्युपेयेत, अर्थक्रियानिर्भासं वा ज्ञानम्, तद्गोचरनान्तरीयकार्थान्तरदर्शनं वा । तच्च सर्वं स्वतोऽनवधारितप्रामाण्यमाकुलं सत् कथं पूर्वं प्रवर्तकं ज्ञानमनाकुलयेत् ? स्वतो वास्य प्रामाण्ये किमपराद्धं प्रवतर्कज्ञानेन, येन तस्मिन्नपि तन्न स्यात् । न च प्रामाण्यं ज्ञायते स्वतः इत्यावेदितम् । यदा च संवेदनप्रामाण्यमुक्तेन क्रमेण दुरधिगमं तदा कैव कथेन्द्रियादीनामव्यभिचारिसंवेदनकार्यव्यङ्ग्यप्रमाणभावानाम् ? तदेवं दृष्टार्थाः प्राणभृतां व्यवहारा भवन्तु सन्देहादपि यथा तथा, अदृष्टार्थास्तु बहुवित्तव्ययायाससाध्या वैदिका व्यवहारा दत्तजलाञ्जलयः प्रसक्ताः । तस्मात् प्रमाणादिपदार्थतत्त्वज्ञापनद्वारेण17 न शास्त्रं निःश्रेयसेन सम्बध्यत इति । सेयमाशङ्का प्रामाण्यज्ञानोपायकथनेनादिवाक्येन “भाष्यकृता” निराकृता । तथा हि प्रमाणमर्थव-दिति नित्ययोगे मतुप् । नित्यता चाव्यभिचारिता । तेनार्थाव्यभिचारीत्यर्थः । इयमेव चास्याव्यभिचारिता18 प्रमाणस्य यद्देशकालनरावस्थान्तराविसंवादोऽर्थस्वरूपप्रकारयोस्तदुपदर्शितयोः19 । अत्र हेतुः “प्रवृत्तिसामर्थ्यात्” सफलप्रवृत्तिजनकत्वात् । यदि पुनरेतदर्थवन्नाभविष्यत्, न समर्थप्रवृत्तिमकरिष्यत्, यथा प्रमाणाभास इति व्यतिरेकी हेतुः । अन्वयव्यतिरेकी वा । अनुमानस्य स्वतः प्रमाणतया अन्वयस्यापि सम्भवात् । प्रवृत्तिजनकत्वं तु प्रमाणस्य न साक्षात्, किं त्वर्थप्रतिपत्तिजननद्वारेणेत्याह—“प्रमाणतोऽर्थप्रतिपत्ताविति ।” सर्वस्य चास्योपपत्तिं “वार्त्तिक”व्याख्यानावसरे निवेदयिष्यामः ।
स्यादेतत् । भवन्तु प्रमाणादयः पदार्थाः शक्यज्ञानाः शास्त्रेण तु ते नाभिधीयन्त इति न निःश्रेयसेन सङ्गतिः शास्त्रस्येत्यत आह—“शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात् ।” यद्यपि श्रेयो दुःखनिवृत्तिमात्यन्तिकीं वक्ष्यति, तथापि सोपायैव सा अत्र श्रेयःशब्देन विवक्षिता, तन्मात्रस्य शास्त्राविषयत्वात् । तदयमर्थः । शास्त्रं तावदेतत् पुरुषश्रेयः सहोपायेनाभिधत्त20 इत्यनुभवसिद्धं सदशक्यानुष्ठानतयापवदितव्यम्21 । सा चेदशक्यानुष्ठानोपायोपदेशतापनीता22 प्रमाणत इत्यादिना । संहितं निःश्रेयसेन सह शास्त्रमिति । शास्त्रस्येत्यादि ग्रहणकवाक्यं विवृणोति—“शास्त्रं पुन”रित्यादिना उपभोगात् प्रक्षयेणेत्यन्तेन । प्रमाणादिवाचकपदग्रहणेन तल्लक्षणानि च तत्परीक्षाश्चोपलक्षयति । तथा च “पञ्चाध्यायी शास्त्र”मित्युक्तमित्यविरोधः । पञ्चाध्यायीत्यनेन व्यूहः समूहिनामुचितानुपूर्वी । उपलक्षकपदस्वरूपमाह—“पदं पुनरिति ।” एकस्मृतिसमारूढा वर्णा एकार्थप्रतिपादनावच्छिन्नाः समूहः । एवं स्वार्थस्मृत्यवान्तरव्यापाराणां सूत्रपदानां नानापदार्थविशिष्टैकपदार्थरूपवाक्यार्थप्रत्यायनकार्यावच्छिन्नानां23 समूहो वेदितव्यः । एवं च क्वचित् केनचिदर्थेनैकेन सूत्रवाक्यानामेकवाक्यत्वं समूहः प्रकरणम् । प्रकरणानामपि कयाचित् स्वार्थसङ्गत्या समूह आह्निकम् । एवं तत्र तत्र वेदितव्यम् । एताश्च प्रकरणाह्निकाध्यायार्थसङ्गतीस्तत्र तत्र लेशतो दर्शयिष्यामः ।
तदेवं शास्त्रस्वरूपं दर्शयित्वा नान्तरेण तदर्थकथनं पुरुषश्रेयोऽभिधायकत्वमस्य सिध्यतीति तदर्थं कथयति—“तत्पदार्था” इति । ननु प्रमाणादीनां प्रतिनरमानन्त्येन दुर्ज्ञानत्वमिति तदवस्थमेवानर्थक्यं शास्त्रस्य प्रसक्तमित्यत आह— “षोडशात्मानः ।” आत्मा स्वभावः प्रमाणादीनां प्रमाणत्वादिसामान्यविशेष इति यावत् । एतदुक्तं भवति । आन्तर्गणिकभेदादानन्त्येऽपि स्वसामान्यविशेषैः सङ्गृहीता न दुर्ज्ञाना इति यतोऽस्य पदार्थाः प्रमाणादयः, “तत्तस्मात्” शास्त्रं पुरुषश्रेयोऽभिधत्ते ।
स्यादेतत् । प्रमाणादयः पदार्थाः प्रमाणिका अप्रामाणिका वा ? अप्रमाणिकत्वे कल्पनामात्रनिर्मिताः कथं निःश्रेयसाय कल्पन्ते ? न च षोडशात्मानः कल्पनाः कोशस्यानन्तप्रसरत्वात्24 । प्रामाणिकत्वे वा प्रमाणादेव तत्सिद्धेः शास्त्रस्य वैयर्थ्यमित्यत आह—“प्रत्यक्षेति ।” प्रत्यक्षानुमानाधिगतग्रहणेनाप्रामाणिकत्वं निषिद्धम् । अत+एव “वस्तुतत्त्वमिति ।” प्रमाणादयः पदार्था नोपमानविषया इति नोपमानमुपन्यस्तम् । यद्यपि प्रमेयमात्माद्यपवर्गान्तलक्षणमागमिकं तथाप्यागमस्याप्तप्रणेतृकतया तत्रापि मूलभूतमनुमानं प्रत्यक्षं वास्तीति प्रत्यक्षानुमाने एव दर्शिते । ननूक्तं प्रामाणिकत्वे शास्त्रवैयर्थ्यमित्यत आह—“तस्य विषय” इति । व्यवहरमाणा अपि25 प्रमाणैर्लौकिका वैनयिकबुद्धिविरहिणो नैतान् पदार्थान् विविञ्चते । अविविक्ताश्चैते न निःश्रेयसाय कल्पन्त इति “अनधिगतेत्यु”क्तम् । आध्यात्मिकी शक्तिः शुश्रुषादिः । पुरुषेत्युक्तम् । तत्र विवक्षितं पुरुषविशेषं ग्रहीतुं सम्भविनः पुरुषप्रकारान्26 दर्शयति— “पुरुषः पुनरिति ।” हेयं दर्शयति—“तत्रेति ।” उपादेयानाह—“इतर” इति । “अपेक्षा” जिज्ञासा । सा सन्दिग्धस्य तावदस्ति शिष्यस्य । विप्रतिपन्नस्य तु साक्षिणां पुरतो जल्पवितण्डाभ्यां शिष्यमाणस्य विगलितेऽहङ्कारे सन्दिग्धस्य सञ्जातजिज्ञासस्य सापेक्षस्य सतः । अप्रतिपन्नस्यापि केनचित् प्रकारेण सन्देहमापाद्य सापेक्षीकृतस्य प्रतिपाद्यता । तदिदमुक्तम्—“इतरे सापेक्षाः सन्तः प्रतिपाद्या” इति । असन्दिग्धोऽपि तत्त्वप्रतिपादनाय कारुणिकेन सन्दिग्धः कृत्वा प्रतिपाद्यत इति । तत् किं सापेक्षमधिकृत्य शास्त्रं प्रवृत्तम् ? तथा च प्रमातॄणां न प्रमाणान्तरे प्रवृत्तिः स्यादित्यत आह—“ते यदेति ।” कञ्चिद् विषयं जिज्ञासवो यदेन्द्रियाद्यपेक्षन्ते, तदा प्रत्यक्षेण प्रतिपाद्याः । एवमुत्तरमपि योज्यम् । अयमभिसन्धिः, न दृष्टप्रयोजनोपयोगिवस्तुजिज्ञासा इहा पेक्षाभिमता । किं तु निःश्रेयसोपयोगिपदार्थजिज्ञासा । सा चास्मिन्नेव शास्त्रे प्रवृत्तिहेतुः, नान्यत्र । तदिदमुक्तम्—“यदा पुनरिति ।” परमपुरुषार्थसाधनं तु जिज्ञासव इति शेषः । इहाभिमतं श्रेयो निर्धारयितुं श्रेयोमात्रप्रकारानाह—“श्रेयः पुनः सुखमहितनिवृत्तिश्च ।” तत्राप्यवान्तरप्रकारानाह—“तच्छ्रेयः” सुखं दुःखनिवृत्तिश्च भिद्यमानं द्विधा व्यवतिष्ठते । तदाह “दृष्टादृष्टभेदेन ।” न व्यासज्य किं तु प्रत्येकमित्याह—दृष्टं सुखं स्रक्चन्दनवनितादिभोगजन्म । अदृष्टं सुखं स्वर्गादि । एवं च दुःखनिवृत्तिरपि श्रेयो दृष्टमदृष्टं चेति योजनीयं चकारलोपात् । अहितनिवृत्तेः श्रेयस आत्यन्तिकानात्यन्तिकत्वेन27 दृष्टादृष्टस्य भेदमाह—“अहितनिवृत्तिरपीति ।” अभिमतं श्रेयो निर्धारयति—“आत्यन्तिकीति । पुनरिति” निर्धारणमेव द्योतयति । आत्यन्तिकत्वं निवृत्तेर्निवृत्तस्य पुनरनुत्पादः । स च कार्यकारणतदनुषङ्गिनिवृत्त्या लक्ष्यते । न ह्यकारणं कार्यं जायते । तदिदमुक्तम्—“एकविंशतिप्रभेदभिन्नदुःखहान्येति ।” गौणमुख्यभेदेन चैकविंशतेः शरीरादीनां दुःखत्वे प्रकारानाह—“एकविंशतीति ।” षष्ठमिन्द्रियं मनः । तस्य विषय इच्छाद्वेषप्रयत्नाः । यद्यपि विषयः शरीरमपि तथाप्यन्यथास्य दुःखहेतुभाव इत्याह—“शरीरमिति” शरीरावच्छिन्न आत्मप्रदेशो दुःखायतनमिति शरीरं दुःखायतनमुक्तम् । इन्द्रियविषयबुद्धीनां दुःखत्वोपचारे कारणमाह— “इन्द्रियाणीति ।” तत्रेन्द्रियाणि तावद् गन्धादिविषयबोधनात्, विषया बोध्यत्वात् । बुद्धयस्तु साक्षाद् दुःखसाधनानीति दुःखत्वेनोपचर्यन्ते । सुखस्य28 दुःखत्वोपचारबीजमाह—“सुखमिति ।” साधनपारतन्त्र्यं क्षयित्वं काम इति दुःखहेतवः सकलसुखानुषङ्गिनः, तस्मात् सुखमपि दुःखानुषङ्गि । उक्तप्रकारदुःखहानिसाधनमाह—“तस्य हानिरिति ।” संशयादितत्त्वज्ञानपरिशोधितपरमन्यायमार्गः खलु हेयोपादेयभूतद्वादशविधप्रमेयतत्त्वपरिभावनभुवा प्रसङ्ख्यानेन निर्मृष्टनिखिलप्रवृत्तिहेतुदोषानुषङ्गोऽप्रवर्तमानो न शरीरेन्द्रियादिहेतुमपूर्वधर्माधर्मप्रचयमातनोति29 अनादिभवपरम्परोपात्तं च धर्माधर्मप्रचयमनन्तमप्यनियतविपाकसमयमपि प्रसङ्ख्यानपरिपाकप्रभावात् परितस्तत्तदुपभोगभागिनः कायान् निर्माय तत्तत्फलोपभोगात् प्रक्षिणोति । अचिन्त्यसामर्थ्यातिशयो हि समाधिः । यथाहुरत्रभवन्तः30
को हि योगप्रभावादृते अगस्त्य इव समुद्रं पिबति, स इव च दण्डकारण्यं सृजतीति । सेयमात्यन्तिकी दुःखनिवृत्तिः श्रेयः । तदिदमुक्तम्—
शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वादिति ॥
स्यादेतत् । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिः श्रेयः पुरुषप्रवृत्त्यङ्गम् । इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं श्रेयः, कथं च प्रेक्षावत्प्रवृत्त्यङ्गमित्यत आह—“पुरुषा रागादिमन्त” इति । यद्यपि रागादिमतां पृथग्जनानामेतन्न प्रवृत्त्यङ्गम्, ते हि मधुविषसम्पृक्तमप्यन्नं मधुरतया आपातरमणीयं विषविषङ्गात्तु31 मारयतु मा वा मीमरदुपयुञ्ज्महे32 तावदापाततः सुखम्, को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते । विवेकिनस्तु आयतिमालोचयन्तः स्वर्गमपि कुपितफणिफणामण्डलच्छायप्रतिम33 इत्यपजहति । तेन मा भूदेतद् रागादिमतां प्रवृत्त्यङ्गम्, विवेकिनां तु भविष्यति । अविवेकिनामपि चाप्रतिपन्नविप्रतिपन्नानां विवेकाधानोपायः पूर्वमावेदितः । शास्त्रप्रवृत्त्यङ्गमात्रमेव चेह विवेको वैराग्यमभिमतमिति । “प्रवृत्तेर्द्वैविध्यम्” ऐकरूप्यं द्वैरूप्यं च । पुरुषभेदो34 रागवैराग्याभ्याम्, प्राप्तव्यस्य सर्वस्य सुखस्य दुःखसम्भेदेनानिष्टपक्षनिक्षेपादनिष्टप्रतिषेधायैव प्रवृत्तिर्विवेकिनामेकरूपैव । अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ।
तदनेन प्रपञ्चेन प्रमाणतोऽर्थप्रतिपत्तावित्यादिवाक्यस्य तात्पर्यमभिधाय तदवयवं प्रवृत्तिसामर्थ्यादिति विवरीतुं भूमिमारचयति—“प्रवृत्तेरपीति35 ।” दृष्टं प्रवृत्ति सामर्थ्यं हेतुरिति रागादिमत्प्रवृत्तिसामर्थ्यमुपन्यस्तम्, न तु वीतरागाणाम् न हि तत्प्रवृत्तेर्निःश्रेयसाधिगमलक्षणफलसम्बन्धो दृष्टो निःश्रेयसस्यालौकिकत्वात् । “प्रमाणस्यार्थवदनर्थकत्वाद्” इत्ययुक्तम्, प्रमाणमनर्थकमिति हि विप्रतिषिद्धमित्यत आह—“प्रमाणं तावदिति ।” न ह्यप्रमाणमप्रमाणमिति गृहीतं प्रवृत्त्यै कल्पते । किं तर्हि ? प्रमाणमिति । न चाप्रमाणे प्रमाणाभिमानो36 विना प्रमाणादिसाधर्म्यादिति तत्साधर्म्यं पृच्छति—“किं पुनरिति ।” उत्तरम्—“सामान्यपरिच्छेदकत्वम् ।” तद्विवृणोति—“प्रमाणेनापीति ।” रजतविज्ञानमपि पुरोवर्तिशुक्लं भास्वरं सद्द्रव्यं परिच्छिनत्ति, शुक्तिज्ञानमपि । केवलमेकस्मिन्नेव विषये रजतसमारोपापवादाभ्यां बुद्ध्योर्बाध्यबाधकभाव इति भावः । तदेवमुभयतः प्रवृत्तिः समर्थात् प्रमाणादेव, नाप्रमाणादर्थव्यभिचारिण इत्याह—“सोऽयं प्रमातेति ।” ततश्च सिद्धः समर्थायाः प्रवृत्तेरनर्थवद्व्यतिरेक इत्यभिसन्धिः । तथा च समर्था प्रवृत्तिरनर्थवद्व्यतिरेकसम्पन्नप्रमाणस्यार्थवत्त्वे37 हेतुरित्याह—“तस्याः” समर्थायाः प्रवृत्तेर्हेतोः पुनः प्रमाणस्यार्थवत्त्वमर्थाव्यभिचारित्वम् । असमर्था त्वनन्तरापि न सम्बध्यते योग्यताविरहात् ।
सम्प्रत्यादिवाक्यमाक्षेप्तुमनुवदति—“प्रमाणत” इति । आक्षिपति—“परस्परेति ।” समाधत्ते—“नेति ।” आक्षेपवाक्यं विभजते—“यदि प्रमाणत” इति । न तावदर्थप्रतिपत्तिः प्रवृत्तिहेतुरपि तु तद्विनिश्चयः । न च तन्मात्रम् अपि तु तदर्थजातीयस्य38 श्रेयोहेतुतामसकृदुपलभ्य39 सम्प्रत्युपलभ्यमानस्यार्थस्य तज्जातीयतया श्रेयोहेतुभावानुमानसहितो विनिश्चयः40 प्रवृत्तिहेतुः । सेयं श्रेयःसाधनतानुमानसहिता प्रमाणतोऽर्थप्रतिपत्तिर्विनिश्चितिः समर्थप्रवृत्तिनिमित्तमुक्ता । न चार्थविनिश्चयः प्रामाण्यावधारणमन्तरेण, प्रामाण्यावधारणं चार्थश्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं41 च न समर्थां प्रवृत्तिं विना, न च समर्था प्रवृत्तिस्ताभ्यां विनेति परस्पराश्रयता । तदिदमुक्तम्, यदि पूर्वं प्रमाणतोऽर्थप्रतिपत्तिर्विनिश्चितिरपेक्षितोपायतानुमानसहिता42 प्रवृत्तिसामर्थ्यमन्तरेण किमिति प्रतिपद्यते निश्चिनोत्यपेक्षितोपाय एवेति च तोय मेवेति चेति ? समाधानं विभजते—“तच्च नैवमिति ।” यत् तावदुक्तम्, प्रमाणस्य दुरवधारणत्वादर्थविनिश्चयाभावान्न प्रवृत्तिसामर्थ्यमिति, तत्र ब्रूमः—सत्यं न स्वतः प्रामाण्यं शक्यावधारणम् । परतस्तु दृष्टार्थेष्वनभ्यासदशापन्नेषु प्रवृत्तिसामर्थ्यादेव तद् गम्यते । अर्थप्रतीत्यधीना तु प्रवृत्तिर्नार्थावधारणाधीना, अर्थसन्देहादपि43 प्रेक्षावतां प्रवृत्तेः44 । नो खलूपायताविनिश्चयेनापि प्रवर्तमाना न अनागतफले सन्दिहते । तदमी संशयाना अपि प्रवर्तमानाः प्रवृत्तिसामर्थ्यात् प्रमाणस्य तत्त्वं विनिश्चित्य तज्जातीयस्यान्यस्याभ्यासदशापन्नस्य प्रवृत्तिसामर्थ्यात् प्रागेव तज्जातीयत्वेन लिङ्गेन प्रामाण्यावधारणात् अर्थविनिश्चयेन प्रवर्तन्ते । एवं च दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं प्रवृत्तिसामर्थ्येनावधार्य तज्जातीयस्याप्तोक्तस्यादृष्टार्थस्य45 वेदस्य विनापि प्रवृत्तिसामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेन निवेदयिष्यते46 । न च फलज्ञानं परीक्ष्यते प्रेक्षावद्भिः, तस्य यादृशतादृशस्यापीष्टत्वादिष्टलक्षणत्वाच्च फलस्य तत्साधनत्वं ते47 परीक्षन्ते । तथा हि तोयज्ञानम्, पिपासोस्तत्र प्रवृत्तिः, प्रवृत्तस्य तदाप्तिः, आप्तस्य पानम्, पानेन चोदन्योपशान्तिरित्येतावतैव प्रमाता कृती भवति । न पुनरुदन्योपशममपि परीक्षते, तस्य यादृशतादृशस्यापीप्सितत्वादिति “केचित् ।” वयं तु ब्रूमः, फलज्ञानमप्यभ्यासदशापन्नतया तज्जातीयत्वेन लिङ्गेनावधृताव्यभिचारमेव48 । एवं तत्पूर्वं तत्पूर्वतरं तत्पूर्वतममिति । न च सम्प्रतितनस्य फलज्ञानस्य प्रामाण्यावधारणायेदानीमेव पूर्वस्य फलज्ञानस्य तज्जातीयत्वेन प्रामाण्यावधारणे सत्यनवस्थेति वाच्यम् । पूर्वतरसाधर्म्येण पूर्वमेव पूर्वस्यावधृतप्रामाण्यत्वात्49 । एवं पूर्वतमसाधर्म्येण पूर्वतरस्य । एवं तत्पूर्वसाधर्म्येण पूर्वतमस्येत्यनादितयैवात्र परिहारः । एतेषु च मध्ये यत्फलज्ञानं स्वप्नाद्युपभोगतुल्यतया शङ्कितव्यभिचारं तदनभ्यासदशापन्नम् । अतः प्रवृत्तिसामर्थ्यं तत्र प्रामाण्यावधारणाय विनिवेशनीयमित्यर्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोरनादित्वमुक्तम्50 । अनुमानस्य तु प्रवृत्तिसामर्थ्य लिङ्गजन्मनोऽन्यस्य वा निरस्तसमस्तव्यभिचारशङ्कस्य स्वत एव प्रामाण्यमनुमेयाव्यभिचारिलिङ्गसमुत्थत्वात् । न हि लिङ्गाकारं ज्ञानं लिङ्गं विना, न च लिङ्गं लिङ्गिनं विनेति स्वत एव51 गृहीताव्यभिचारलिङ्गसमुत्थं निष्कम्पमुपपद्यते ज्ञानम् । प्रत्यक्षज्ञानं त्वर्थादुत्पद्यमानमपि न गृहीताव्यभिचारात् अपि तु सत्तामात्रेणावस्थितात् । न च कारणान्तराण्यपीन्द्रियादीनि अस्यार्थेन गृहीताव्यभिचाराणि न चार्थेनाव्यभिचाराणि । शाब्दं तु ज्ञानं नार्थादुत्पद्यते तदभावेऽपि सति शब्दे भावात् । नापि लिङ्गस्येव शब्दस्यार्थाव्यभिचारः, किं तु सङ्केतग्रहणमात्रात् पदार्थप्रत्यायनेन वाक्यार्थमधिगमयति52 शब्दः । तस्मात् प्रत्यक्षशाब्दविज्ञानयोर्न स्वतोऽव्यभिचारग्रह इति । प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा लिङ्गमर्थाव्यभिचारायानुसरणीयम्, ज्ञानगततज्जातीयत्वलिङ्गग्राहिणश्च ज्ञानस्य मानसप्रत्यक्षस्य तादृशस्यादृष्टव्यभिचारतया53 परितो निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः प्रामाण्यमिति नानवस्था । एतेनोपमानं व्याख्यातम् । संवेदनस्य चार्थाव्यभिचारिताकथनेन तत्कारणानामिन्द्रियादीनामपि प्रमाणत्वमुक्तं वेदितव्यम् । न ह्यव्यभिचारिविज्ञानजनकत्वादन्यदेषां प्रामाण्यम्54 । न चार्थव्यभिचारिणामिन्द्रियादीनां कथमर्थाव्यभिचारिविज्ञानजनकत्वमिति साम्प्रतम्, कारणस्वभावनियोगपर्यनुयोगयोरशक्यत्वात् । तस्मादर्थसन्देहादनभ्यासदशापन्नात् प्रमाणतोऽर्थप्रतिपत्तौ55 प्रवृत्तिसामर्थ्यसम्भवात् प्रवृत्तिसामर्थ्यज्ञानस्य चाभ्यासदशापन्नस्य तज्जातीयत्वेन प्रामाण्यानुमानादनभ्यासदशापन्नस्य तु प्रवृत्तिसामर्थ्यान्तरज्ञानेन56 प्रामाण्यानुमानादनादित्वान्नार्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोः परस्पराश्रयत्वमस्तीति । अर्थस्यापेक्षितोपायतानुमानप्रवृत्तिसामर्थ्ययोः परस्परापेक्षित्वमवशिष्यते । तत्राप्यनादितापरिहारः । उत्पन्नमात्रकस्य हि बालकस्य स्तनं दृष्टा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । ततश्च57 स्मरणम् । ततोऽपेक्षितोपायतानुमानम् । ततः प्रवृत्तिः । ततस्तस्याः सामर्थ्यम् । एवं पूर्वस्मिन् पूर्वस्मिन् जन्मनीत्यनादितया न बीजाङ्कुरवत् परस्परापेक्षितेति । “अर्थप्रतिपत्तिरिति” अर्थप्रतिपत्तिश्चार्थस्यापेक्षितोपायताप्रतिपत्तिश्चेत्यर्थः । तस्मात् सर्वमवदातम् ।
तदनेनोक्तेन क्रमेण प्रमाणतोऽर्थप्रतिपत्तावित्यस्य शास्त्रानुसन्धानवाक्यत्वं तात्पर्यं58 च समाहितम् । इदानीमस्यैव तात्पर्यान्तरमाह—“प्रमाणप्रवृत्त्योर्वेति59 ।” तत्रेदमाशङ्क्यते मुनिर्हि प्रत्यक्षसंशयादिव्युत्पादनद्वारेण साक्षाच्चानेन शास्त्रेणान्वीक्षिक्या हेयोपादेयभावावस्थितद्वादशविधप्रमेयव्युत्पादकं न्यायमनुमानापरनामानं निःश्रेयससिद्धये व्युत्पादयाम्बभूव । न च न्यायतः प्रमाणात् प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेयसाधिगमः । अपि त्वाद्यन्तवर्ज्जं60 दशानां प्रमेयाणां दुःखसञ्ज्ञाभावनम्, आत्मनश्च याथात्म्यभावनमित्यादिभ्यः प्रवृत्तिभ्य61 आत्मतत्त्वसाक्षात्कारवैराग्यपरिपाकक्रमेणापूर्वयोर्धर्माधर्मयोरनुत्पादेनोत्पन्नयोश्चोपभोगात् प्रक्षयेणेति । तथा च निःश्रेयसं प्रत्यन्तरङ्गत्वात्62 प्रमाणान्न्यायात् प्रवृत्तिरेव बलीयसी, न न्यायः । तस्मात् प्रवृत्तिरेव व्युत्पादनीया न प्रमाणं63 निःश्रेयसहेतुरपि प्रवृत्तेरन्तरङ्गत्वात् । तत्रेदमुपतिष्ठते प्रमाणतोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तेः सामर्थ्यं फलेनाभिसम्बन्धो, न तु प्रमाणतोऽसत्यामर्थप्रतिपत्तौ । तस्मादर्थवत् प्रयोजनवत् प्रमाणमपि प्रवृत्तिवदेव । एतदुक्तं भवति, यथान्तरङ्गतया प्रवृत्तिर्बलीयसी एवं मूलकारणतया प्रमाणमपि । न64 ह्यप्रमाणात् प्रवृत्तिः फलेनाभिसम्बध्यते । तस्मात् तुल्यमुभयमपि । तथापि प्रमाणव्युत्पादनेन प्रवृत्तिरपि व्युत्पादिता भवतीति प्रमाणस्य व्युत्पादनमकारि शास्त्रेण, न तु प्रवृत्तेः । सामान्याभिधानं च परमन्यायपरम्, तस्यैव प्रकृतत्वादिति । प्रामाण्यज्ञानोपायप्रतिपादनपरतयानुसन्धानवाक्यत्वमस्य पूर्वमुक्तम् । सम्प्रति परपर्यनुयोगमुखेनास्यानुसन्धानवाक्यत्वं प्रतिपादयति—“लोकवृत्तेति ।” तथा हि प्रमाणप्रतिपत्त्युपायं प्रत्याचक्षाणक एवं प्रष्टव्यो जायते, किं भवान् प्रमाणेन प्रमाणज्ञानोपायं प्रत्याचष्टे, अप्रमाणेन वेति ? यदि ब्रूयात् प्रमाणेनेति स प्रतिवक्तव्यः, प्रमाणज्ञानोपायमविद्वान् कथं भवानेवमाहेति ? अप्रमाणेनेति चेदनुज्ञया वर्तितव्यम् । अथ प्रमाणेनागृहीतप्रामाण्येनेति, वाङ्मनसयोर्विसंवादः । तस्मादनिच्छतापि त्वया लोकवृत्तमनुसरणीयम् । अन्यथा नासि लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्या इति । तदिदं लोकवृत्तमाक्षेप्तारं बोधयितुमनेन “भाष्ये”णानूद्यते “प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणं” यतोऽतः सर्वः प्रमाता प्रमाणेनावगतार्थवत्त्वेनार्थमवधार्य प्रवर्तमानः फलमुपलभत इति लोकवृत्तम् । तत् प्रमाणत इत्यादिना वाक्येन कारणप्रदर्शनद्वारेणानूद्यते ।
अस्यैव “भाष्य”स्य तात्पर्यान्तरं वक्तुं भूमिमारचयति—“हेयहानेति ।” अर्थोऽर्थशब्दः प्रमाणतोऽर्थप्रतिपत्तावित्यत्र स्थितः पदं वाचकं येषां तानि तथा । एत“द्वार्त्तिक”ग्रन्थस्यैतादृशं व्याख्यानम्, भाष्यगतस्य त्वन्यथा भविष्यति । “उपायः शास्त्रमिति ।” शास्त्रशब्दस्तदर्थपरः, अर्थस्यापि शब्दवच्छास्त्रशरीरत्वात् । अत्र च हेयहानाधिगन्तव्यपदैः प्रमाणप्रमेययोरुपादानाद् गोबलीवर्दन्यायेन संशयादिषु निग्रहस्थानान्तेषु शास्त्रपदं प्रवर्तते । तेनोपायपदेन संशयादयो निग्रहस्थानान्ता एवोक्ता इति । ग्रहणकवाक्यं विवृणोति—“हेयमिति ।” तात्पर्यमाह—“एतस्मिंश्चेति ।” चेन प्रमाणप्रमाप्रमातृप्रमेयरूपं चतुर्वर्गान्तरमपि सूचयति । तत्र हेयादिचतुर्वर्गे चार्यमाणतयार्थपदसूचिते65 प्रमाणादिचतुर्वर्गे च प्रमाणस्य प्राधान्यप्रदर्शनार्थमिदं भाष्यम् । यद्यपि चतुर्वर्गद्वयतत्त्वावगमो निःश्रेयसाधिगमहेतुः, तथापि प्रमाणमेव प्रधानम्, तन्मूलत्वादितरसिद्धेः । तदिदमुक्तम्—“अर्थवदिति ।” अतिशायने मतुप् । प्रमात्राद्यपेक्षया हेयाद्यपेक्षया चातिशयेन प्रयोजनवत् प्रमाणम् । कस्मात् ? प्रमाणतोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तस्य प्रमातुस्तदितरप्रतिलम्भात् । प्रमायाश्च तत्कार्यत्वात् । तदिदमुक्तम्—“प्रवृत्तिसामर्थ्यादिति ।” तदेतस्मात् प्राधान्याद् विवक्षाभेदेन त्रिवर्गद्वयात् प्रागुद्देशः प्रमाणस्येति । एतेन यदाहु“रेके” यदि प्राधान्यात् प्राथम्यं तत्66 प्रमेयस्यैव । अथोपायत्वात् तत्67 संशयादीनाम्, तेषां प्रमाणोपायत्वात् । कस्माच्च68 प्रमात्रादिभ्यः प्राथम्यं प्रमाणस्येति ? तन्निरस्तं भवति, प्रमाणोपायानामपि संशयादीनां प्रमाणाधीनत्वादिति । नन्ववगतम्, अर्थपदतया हेयादिचतुर्वर्गो दर्शित इति; प्रमाणादिचतुर्वर्गस्तु कथं दर्शित इति पृच्छति—“कथं पुनरिति ।” उत्तरं “प्रमाणप्रमेयाधिगतय” इति ।
तदेवं तात्पर्यं व्याख्यायावयवार्थं व्याख्यातुमुपक्रमते—“तदिदं वाक्यमवयवश उपन्यस्य वर्ण्यते” व्याख्यायतेऽवयवश इति । तत्रास्यावयवेषु69 व्याख्यातव्येषु प्राथम्यात् प्रमाणत इति विवृणोति—“तत्रेति ।” विभजते—“प्रमाणत इतीयं निमित्तपञ्चमी ।” निमित्तपञ्चमी70 चेत् कस्मात् प्रमाणादिति नाभिहितमित्यत आह—“अस्येति ।” प्रमाणत इत्येवंरूपस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं चेति । वचनव्याप्त्यर्थमिति मृष्यामहे न तु विभक्तिव्याप्त्यर्थमिति, पञ्चमीव्यतिरेकेण तसेरभावादित्याह—“कथं पुनरिति ?” परिहरति—“लभ्यत” इति । व्याप्तेः प्रयोजनं पृच्छति—“किं सिद्धं भवतीति ।” उत्तरं “वचनव्याप्त्या सम्प्लवो व्यवस्था च ।” तदुभयं विभजते—“प्रमाणेनेति ।” यत्र द्वयोर्बहूनां वा सम्प्लवः प्रमाणानां तत्रैकैकस्याप्यस्ति प्रतिपत्तिसाधनत्वं प्रमाणस्येति कथयितुं सम्प्लवावसरेऽपि प्रमाणेनेत्युक्तम् । अत एव व्यवस्थायामेवकारः “प्रमाणेनैवेति ।” विभक्तिव्याप्तेः प्रयोजनमाह—“विभक्तिव्याप्त्या हेतुकरणभावः ।” गम्यते इत्यनुषज्यते । तद्विभजते—“प्रमाणादर्थाधिगतिर्भवतीति” हेतुत्वं गम्यते । प्रमाणेनार्थाधिगतिर्भवतीति करणरूपोऽर्थो गम्यत इति सम्बन्धः । कस्मात् पुनः करणार्थो गम्यत इत्यत आह—“प्रमाणेनेति ।” अर्थमर्थाधिगतिं साधयतीति साधकतमत्वात् । अत्र च करणभावनान्तरीयकस्य हेतुभावस्य पञ्चम्या अभिधानं प्रमाणफलयोस्तादात्म्यप्रतिषेधार्थम्, भेदाधिष्ठानत्वाद्धेतुफलभावस्य । न खलु परशुरेव च्छिदेति । प्रमाणप्रातिपदिकलब्धकरणत्वानुवादश्च प्रमाकारका न्तरेभ्योऽभ्यर्हितत्वेनास्य व्युत्पाद्यत्वं च प्राथम्यं च युक्तमिति दर्शयितुम् । सम्प्लवमाक्षिपति—“सम्प्लवेति ।” समाधत्त—“नेति ।”
आक्षेपं विभजते—“स्यान्मतिरिति ।” विशिष्टो भिन्नो विषयो येषां तानि तथा । बहुवचनमान्तर्गणिकभेदाभिप्रायम् । अर्थसामर्थ्यसमुत्थं हि प्रत्यक्षमर्थगोचरम् । स एवार्थः । प्रत्यक्षगोचरो यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति । न च सामान्यं निरस्तसमस्त्तार्थक्रियासामर्थ्यमेवं भवितुमर्हति । स्वलक्षणं तु स्यात् । तदेव71 हि परमार्थसत्, अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः । एतदेवास्य स्वमसाधारणं लक्षणं यद्देशतोऽननुगमेनादेशात्मकस्य परमाणुत्वम्,72 कालतोऽननुगमेन च क्षणिकत्वम् । तस्मात् स्वलक्षणविषयं प्रत्यक्षम् । न च स्वलक्षणमनुमानस्यापि गोचरः । तद्धि गृहीतप्रतिबन्धलिङ्गहेतुकम् । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिलक्षणः स्वलक्षणविषयोऽशक्यग्रह इति सामान्यधर्मावाश्रयते । न च सामान्यमेकमनेकदेशकालावस्थासंसर्गि भवितुमर्हति । तदिदमनादिवासनोद्भूतविकल्पाधिष्ठानं विकल्पाकारस्य वा अलीकस्य वा बाह्यत्वमनुमानगोचरोऽभ्युपेयम्73 । तच्च भावाभावसाधारण्याच्च बाह्यसादृश्याच्च नियतप्रतिभासत्वाच्चान्यव्यावृत्तिनिष्ठम्74 । यत् खलु भावाभावसाधारणम्, तदन्यव्यावृत्तिनिष्ठमेव यथा अमूर्तत्वम् । तद् विज्ञानादौ भावे शशविषाणादौ चाभावे साधारणम् । भावाभावसाधारणश्च विकल्पगोचरोऽस्ति घटो75 नास्ति घट इति । यदि पुनरसाधारणो भावो भवेद् अस्तिशब्दो न प्रयुज्येत, पुनरुक्तत्वात् । नास्तीत्यपि न वक्तव्यं76 विरोधात् एवमभावासाधारण्येऽपि वाच्यम् । न चालीकस्य सर्वसामर्थ्यविरहिणः परमार्थसत्ता स्वलक्षणेन सादृश्यं मन्यतेऽन्यव्यावृत्तेः । न च गौरिति नियतौ बुद्धिव्यपदेशौ विनाश्वादिव्यावृत्तिम् । तस्मात् सामान्यमन्यव्यावृत्तिरूपमबाह्यं बाह्यभेदाग्रहाद् बाह्यत्वेनावगाह्यमानमनुमानं बाह्ये प्रवर्तयति । पारम्पर्येण च बाह्यप्रतिबन्धाद् बाह्यं प्रापयत् संवादकं सद् भ्रान्तमपि प्रमात्राश्रयवशात् प्रमाणम् । तदस्य न स्वलक्षणं गोचरः77 । प्रत्यक्षमपि न सामान्यगोचरमित्यावेदितम् । न चाभ्यामन्यत् प्रमाणमस्ति, प्रमाणस्य सतोऽत्रैवान्तर्भावात् । अनन्तर्भावे वा प्रमाणत्वानुपपत्तेः । न च सामान्यविशेषाभ्यामन्यदस्ति प्रमेयान्तरं यत्रैते सम्प्लोष्येते इत्यर्थः ।
समाधानवाक्यं विवृणाति—“एतच्च नेति ।” यथा चैतत् तथा तत्र तत्र निवेदयिष्यते । विशेषो व्यवच्छेदकः । स च वक्रकोटरादिरन्त्यश्च । व्यवस्थासङ्करोदाहरणान्याह—“इन्द्रियवदिति ।” सम्प्लवममृष्यमाण आह—“अधिगतत्वादिति ।” समाधत्ते—“नान्यथेति ।” आक्षेपं विवृणोति—“यदीति78 ।” स्यादेतत् । नास्ति वैयर्थ्यमधिगतीनामाशुतरविनाशितया तद्गोचराधिगत्यन्तरोत्पादं प्रति प्रमाणान्तरस्यार्थवत्त्वादित्यत आह—“अधिगतं चार्थमधिगमयता प्रमाणेनेति ।” यद्यप्यधिगतय आशुतरविनाशिन्य स्तथाप्येकतरप्रमाणजनितार्थाधिगतिलब्धजन्मनः संस्कारादेव स्थायिनस्तदर्थस्मृतिसन्ततिसम्भवाद् अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति । समाधिवाक्यं विवरीतुमनुवदति—“नान्यथेति ।” विवृणोति— “न ब्रूम” इति । अयमभिसन्धिः, न हि प्रमाणकारणानि प्रेक्षावन्ति, येनैवमालोचयेयुः—जनितमेव79 प्रमाणमन्यतमेनास्मासु, वयमिहोदास्मह इति । नापि स्वकारणबललब्धजन्मानि80 प्रमाणानि दर्शितोऽयमर्थोऽन्यतमेन चास्मासु प्रमाणेन । कृतमस्माभिरिति विरन्तुमर्हन्ति । प्रमातुश्चेतनत्वादयमनुयोग इति चेत्—न, प्रियतमस्य वस्तुनोऽनेन भूयो भूयः प्रमित्सितत्वात् । अप्रमित्सितस्यापि च दुर्जनवचनादेः प्रमेयस्यानेन प्रमीयमाणत्वात् । तस्मान्न प्रमात्रभिसन्धानात् प्रमाणस्य प्रवृत्तिरप्रवृत्तिर्वार्थे किं तु सामर्थ्यात् । अन्यथाग्निदाहादिदुःखस्याप्रत्यक्षत्वप्रसङ्गः ।
यत्तु प्रमाणं प्रमित्साधीनप्रवृत्ति तद्यदि प्रमाता न व्यापारयेत् किमायातं प्रमाणस्य ? न हि तोयमपि पिपासुना न पीयत इति, तस्य पिपासोपशमनशक्तिर पैति । तस्मात् प्रत्युत्पन्नकारणसामग्रीजनिता81 बुद्धिः प्रमा । तज्जनकानि च प्रमाणानि समानविषयाण्यपि । स एव चानेन सामग्रीभेदः प्रदर्शितः । अन्यथा82 तु प्रत्यक्षेणेत्यादिना । यद्यपि साक्षात्कारासाक्षात्कारादिरपि प्रकारभेदोऽस्ति, तथाप्यसौ प्रकृतानुपयोगान्नोक्तः । यदि च द्रव्यं त्वचा गृहीतमिति कृतं चक्षुषा, चक्षुषा वा गृहीतमिति कृतं त्वचेत्युच्येत, न रूपविज्ञानं वा स्पर्शविज्ञानं वोपजायेत । तेन83 तदर्थं चक्षुर्वा त्वग्वाभ्युपेतव्यम् । तथा च सम्प्लववैयर्थ्येऽपि व्यवस्थायां न वैयर्थ्यमित्याह— “विषयान्तर” इति । प्रकृतमुपसंहरति—“तस्मादिति ।”
विभक्त्यर्थं निरूप्य प्रातिपदिकार्थनिरूपणमवतारयति—“प्रमाणेति ।” अत्र84 चावधार्यतेऽनेनेत्यवधारणं विचार इति । विचारणाय भावभवितारौ पृच्छति—“किं पुनरिति ।” केचिदाहुः,85 अनधिगतार्थगन्तृ86 प्रमाणमिति । विषयसारूप्यं साकारस्य विज्ञानस्येत्यन्ये87 । विज्ञानस्यैवानाकारस्यात्मानात्मप्रकाशनसामर्थ्यमित्यपरे88 । उपलब्धिसाधनमिति वृद्धाः89 । तस्माद् विप्रतिपत्तेः संशयात् प्रश्नः । भावप्रश्नव्याख्यानेन भवितृप्रश्नो व्याख्यातः । उत्तरम्—उपलब्धिहेतुः प्रमाणम् । न च संशयविपर्यासरूपोपलब्धिकारणयोः प्रसङ्गः, अर्थवदित्यधिकारात् । तयोश्चोपदर्शितार्थव्यभिचारेणानर्थवत्त्वात्90 । नो खलु विकल्प्यमानं वस्त्वस्ति, अर्थक्रियासु वोपयुज्यते ।
स्यादेतत् । स्मृतिहेतोरपि प्रामाण्यप्रसङ्गः । न ह्यसौ नोपलब्धिहेतुः । न चार्थसहकारि प्रमाणमिति संस्कारस्यार्थसहकारिताविरहादप्रमाण्यमिति साम्प्रतम्, नदीपूरस्य पिपीलिकाण्डसञ्चरणस्य चातीतानागतवर्षलिङ्गस्य शब्दस्यातीतानागतगोचरस्यार्थसहकारिताविरहिणोऽप्रमाणत्वप्रसङ्गात् । ज्ञापकत्वेन कार्यत्वेन वा कथञ्चिदर्थसम्बन्धे संस्कारस्यापि तत् समानमिति तस्यापि स्मृतिरूपोपलब्धिहेतोः प्रामाण्यं प्रसक्तम् । मैवम्, प्रमाणशब्देन तस्यापास्तत्वात् । प्रमासाधनं हि प्रमाणं न च स्मृतिः प्रमा । लोकाधीनावधारणो हि शब्दार्थसम्बन्धः । लोकश्च संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणीं प्रमामाचष्टे । तस्मात् तद्धेतुः प्रमाणमिति न स्मृतिहेतौ प्रसङ्गः । अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकप्रसिद्धप्रमाणभावानां प्रामाण्यं विहन्तीति नाद्रियामहे । न च कालभेदेनानधिगतगोचरत्वं धारावाहिकानामिति युक्तम्, परमसूक्ष्माणां कालकलाभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् । न चाद्येनैव विज्ञानेनोपदर्शितत्वादर्थस्यप्रवर्तितत्वात् पुरुषस्य प्रापितत्वाच्चोत्तरेषाम्, अप्रामाण्यमेव विज्ञानानामिति वाच्यम् । न हि विज्ञानस्यार्थप्रापणं प्रवर्तनादन्यत्, न च प्रवर्तनमप्यर्थप्रदर्शनादन्यत् । तस्मादर्थप्रदर्शनमात्रव्यापारमेव ज्ञानं प्रवर्तकं प्रापकं च । प्रदर्शनं च पूर्ववदुत्तरेषां विज्ञानानामभिन्नमिति कथं पूर्वमेव विज्ञानं प्रमाणं नोत्तराण्यपि पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्याप्रामाण्यप्रसङ्गः । न चातिदवीयस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम्, तस्योपेक्षणीयार्थविषयत्वात् । न चोपेक्षणीयमप्यनुपादेयत्वाद्धेयमिति निवेदयिष्यते । उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति, उपलब्धिमात्रस्यार्थाव्यभिचारिणः स्मृतेरन्यस्य प्रमाशब्देनाभिधानात् । हेतुग्रहणेन सारूप्यशक्त्योः फलादभिन्नयोरपाकरणात् हेतुहेतुमद्भावस्य तादात्म्येऽनुपपत्तेरिति । उपलब्धिहेतुत्वं च प्रमाणत्वम् । भवितृव्याख्यानेन भावो व्याख्यातः । तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् । तस्य भावस्तत्त्वमिति स्थितम् ।
तदेतदतिव्यापकत्वेनाक्षिपति—“समानत्वादिति ।” समाधत्ते—“अयं विशेष” इति । अयमर्थः, सर्वः कर्ता करणगोचरव्यापारो न तु साक्षात् फले व्याप्रियते । करणं च द्विधा सिद्धससिद्धं च । तत्र सिद्धं परश्वादि दारुद्वैधीभावायोद्यम्योद्यम्य दारुणि निपातयन् दारु च्छिनत्तीत्युच्यते, न तु साक्षात् कर्तृव्यापारगोचरो दारुद्वैधीभावः, किं तु स्पर्शवद्वेगवतः करणीभूतस्य परशोः संयोगस्योद्यमननिपातनलक्षणस्तु कर्तृव्यापारः परशुगोचर एव । एवं स्वर्गकामोऽपि कर्ता न साक्षात् स्वर्गे व्याप्रियते, किं तु तत्करणं यागमसिद्धं साधयति । स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानात् चेतनाश्रयाद् देशकालावस्थाभेदासादितपरिणतिविशेषात् साक्षादुत्पद्यते । तद्व दिहापि प्रमाणसिद्धमिन्द्रियादि, असिद्धं च91 तत्सन्निकर्षादि व्यापारयन्नुत्पादयन् वा92 करण एव चरितार्थः । करणं त्विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चरितार्थमिति साक्षादुपलब्धावेव फले व्याप्रियते । प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव तावन्नास्ति, केवलं प्रमाणविषयभावमात्रेणोपयुज्यते । यत्राप्यस्य हेतुभावः प्रत्यक्षेऽभिप्रेयते, तत्रापीन्द्रियसम्बन्धमात्रे उपयुज्यते प्रमेयम् । इन्द्रियमेव तु तत्सन्निकर्षादि वा93 साक्षात् प्रमाहेतुः । ततः सिद्धमेतत् न प्रमाता साक्षात् प्रमाहेतुः कर्तृत्वात् । यो यः कर्ता स सर्वो न साक्षात् फलहेतुः, यथा व्रश्चनयजमानादिः94 तथा चायम्95 । तस्मात् तथा । तथा प्रत्यक्षं प्रमेयं96 न साक्षात् प्रमाहेतुः प्रमेयत्वात् । यद् यत् प्रमेयं तत्तत् सर्वं न प्रमाहेतुरनुमेयादिवत् । तथा चैतत् । तस्मात् तथेति97 । तदिदं प्रमातृप्रमेययोः प्रमाणे चरितार्थत्वमचरितार्थत्वं च प्रमाणस्य, तस्मात् तदेव फलहेतुः । प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्ते इति तद्धेतू कथञ्चिदिति । चोदयति—“अकरणेति ।” नाकरणः कर्ता प्रमाणमपि व्याप्तुमर्हतीत्यर्थः । परिहरति—“न, इन्द्रियार्थेति ।” यदा98 ज्ञानं प्रमाणं तदा ज्ञानस्य प्रमाणस्योत्पत्तावित्यर्थः । पुनश्चोदयति—“यदि तर्हीति ।” परिहरति—“तस्मिन्नपीति ।” चोदयति—“यदि प्रमातृप्रमेयाभ्यां सद्भ्यां प्रमाणमिति ।” प्रमाणमन्तरेण प्रमाया अभावात् प्रमातृप्रमेययोरसिद्धिरित्यर्थः । पृच्छति—“कथमिति ।” उत्तरं—“प्रमाणमितीति ।” अथ स्वरूपमात्रमेव99 कारकं कस्मान्न भवति, तच्च क्रियासम्बद्धस्य पुरस्तादप्यस्तीत्यत आह—“न च द्रव्यमात्रमिति ।” अस्तु तर्हि तदीयोऽवान्तरव्यापारः प्रधानक्रियायां साध्यायां कारकम्,100 तस्यापि प्रधानक्रियायां निमित्तत्वादित्यत आह—“न च क्रियामात्रम् ।” न हि स्वरूपेण देव दत्तो व्रश्चनः, नापि तदीयो व्यापार उद्यमननिपातनादिर्लोष्टाद्याश्रयः । क्व तर्हि कारकशब्दः प्रवर्तत इत्यत आह—“कारकशब्दो हीति ।” प्रधानक्रियासाधने हेतौ अवान्तरक्रियाविशेषयुक्ते कारकशब्दः प्रवर्तते । द्वैधीभावे101 हि फले प्रधानव्यापारे कर्तुः करणगोचर उद्यमननिपातनादिरवान्तरव्यापारः102 । कर्मणश्च दारुणः स्पर्शवद्वेगवत्तीक्ष्णतरकुठारसंयोग एवावान्तरव्यापारः । तेन हि दारु स्वावयवपरिस्पन्दलब्धजन्मनोऽवयवविभागाद्103 द्वैधीभावमनुभवति । तस्मादवान्तरप्रधानव्यापारसम्पन्नं104 कारकमिति सामान्यतः प्रसाध्य प्रकृते योजयति—“प्रमातृप्रमेयशब्दौ चेति । तावन्तरेण क्रियां” प्रधानक्रियामित्यर्थः । परिहरति—“न, पाचकादिशब्दवदिति ।” लोकाधीनावधारणः खल्वयं शब्दार्थसम्बन्धः । लोकश्चातीतानागतवर्तमानक्रियासम्बन्धमात्रविवक्षया कारकशब्दान् प्रयुङ्क्ते, पाचकमानय पक्ष्यतीति च, पाचकोऽयमपाक्षीदिति च, पाचकोऽयं पचतीति च तुल्यवत् त्रैकाल्यविषयप्रयोगदर्शनम् । तत् कस्य हेतोरपचत्यपि पाकसम्बन्धं प्रत्यस्ति स्वरूपशक्तिर्देवदत्तादाविति ? द्वयी हि शक्तिः कारकाणां कार्यजननं प्रति स्वरूपं च सहकारिग्रामसमवधानं च । तत्रासत्यपि सहकारिग्रामसमवधाने105 कारकशब्दानां प्रवृत्तेः, सत्यपि च स्वरूपे त्रैकाल्यव्यापिनि त्रैकाल्ययोगिकार्यासम्भवेऽप्रवृत्तेः106 त्रैकाल्ययोगिकार्योपहितमर्यादमेव स्वरूपं कारकशब्दानां प्रवृत्तौ निमित्तमिति । असत्यपि प्रत्युत्पन्नप्रमाहेतुप्रमाणसम्बन्धे प्रमातृप्रमेयशब्दयोः प्रवृत्तिरिति उपपन्नं प्रमातृप्रमेयाभ्यां प्रमाणं जन्यत इति । तत् प्रमाणमुपलब्धिसाधनं साक्षात्, न प्रमातृप्रमेये इति सिद्धम् ।
सत्यपि चोपलब्धिसाधनत्वे प्रमातृप्रमेययोरुपलब्धिहेतुरित्यत्राप्रसङ्गः,107 साधकतमासाधकतमयोः साधकतमे कार्यसम्प्रत्ययात्108 सातिशयत्वेनोद्भूतत्वात् तस्येत्याह—“साधकतमत्वाद् वेति ।” साधकतमार्थं पृच्छति—“कः पुनरिति ।” उत्तरम्—“प्रमाणस्य भावाभावयोः” प्रमायाः कार्यस्य तद्वत्ता । भावाभाववत्ता साधकतमार्थः । लक्ष्यलक्षणयोरभेदविवक्षया सामानाधिकरण्यम्, न तु प्रमातृप्रमेयान्वयव्यतिरेकानुविधानमप्यस्ति प्रमाया109 अन्वयव्यतिरेकयोरित्यत आह—“न प्रमातरीति ।” प्रमातृप्रमेयाभ्यां सह प्रमोत्पादस्यान्ययोगव्यवच्छेदेन सम्बन्धः । प्रमाणेन तु110 सम्बन्धः प्रमोत्पादस्यायोगान्ययोगव्यवच्छेदाभ्यामित्यतिशयः प्रमाणस्य । प्रमातृप्रमेये हि प्रमाणोपक्षीणवृत्तिनी न प्रमायां व्याप्रियेते । तेनान्तरायसम्भवान्नावश्यं प्रमातृप्रमेयव्यापारे सति प्रमा भवति । प्रमाणस्य व्यापारे तु प्रमा भवत्येवेति कल्पान्तरमाह—“यद्वान् वा प्रमिमीते सोऽतिशयः ।” प्रमिमीत इति स्वतन्त्रं कर्तारं दर्शयति प्रतिपाद्यात् करणाद् व्यवच्छेत्तुम् । यद्वानेवेति च सावधारणम् । तत्र यद्वानिति कर्त्रन्तरं व्यवच्छिनत्ति । न हि कर्ता कर्तृमान्, किं तु प्रमाणवान् । स्वतन्त्रो ह्याश्रयः परतन्त्रेणाश्रीयते । कर्त्रधीनं हि करणमित्यावेदितम् । प्रमाता प्रमेयवानपि क्वचिद् भवेत् तत्तन्त्रत्वात् प्रमेयस्य न तु प्रमेयवानेव, अनुमानादिषु प्रमेयस्यातीतत्वादिना तद्वत्ताविरहात् । न तु लिङ्गादिज्ञानवान् न कदाचिदित्यवधारणफलम् । सोऽयं विशेषः प्रमातृप्रमेयाभ्यां प्रमाणस्य । अस्यैव च विशेषस्यातिशयत्वमन्वयव्यतिरेकाभ्यामादर्शयति—“प्रमाणे सतीति ।” कल्पान्तरमाह—“सतोर्वेति ।” पूर्वेण भावप्रधानोऽतिशयो यादृशस्य दर्शितः, तादृशस्यैवेह व्यतिरेकप्रधानोऽतिशय इति विशेषः । अकर्तृत्वमहेतुत्वमित्यर्थः । कल्पान्तरमाह—“संयोगवच्चरमभाविता वा ।” सेतिकर्तव्यताकं111 हि व्याप्रियमाणं करणम्, न तु चक्षुरादिस्वरूपम्112 । करणादिशब्दप्रवृत्तिनिमित्तमात्रं तु स्वरूपं स्यादिति पूर्वमावेदितम् । तच्च सिद्धमसिद्धं वा प्रमातृप्रमेयव्यापारस्य पश्चादेव तथात्वेन सम्पद्यत इति चरमभावीत्युच्यते । सोऽयमस्य चरमभावितातिशयः । यथा तन्तूनां पटे जनयितव्येऽन्त्याः संयोगभेदा यदनन्तरं पट उत्पद्यत एवेति । कल्पान्तरमाह—“प्रतिपत्तेरानन्तर्यं वा ।” यत एव प्रमाणं चरमभावि, अत एव तदनन्तरं प्रतिपत्तेः प्रमाया भावात् । प्रतिपत्तेरानन्तर्यमेव प्रमाणस्यातिशयः । “स चेति ।” चोऽवधारणे । इदमपि लक्ष्यलक्षणयोरभेदविवक्षयोक्तम् । कल्पान्तरमाह—“असाधारणकारणता वा ।” चतस्रः खल्विमाः प्रत्यक्षादिप्रमितयो भिन्नबुद्धिव्यपदेशभाजोऽनुभूयन्ते । न च प्रमाता तद्भेदहेतुः, तस्य साधारण्यात् । न च प्रमेयमेकस्यापि प्रमेयस्य सम्प्लवे सर्वप्रतिपत्तिसाधारण्यात् । प्रमाणानि तु यथायथं चतसृष्वपि113 प्रमितिष्वसाधारणानीति भिन्नबुद्धिव्यपदेशनिबन्धनानि । तदिदमसाधारण्यमतिशयः अशेषः पुरुषः प्रमातात्र विवक्षितः114 । कल्पान्तरमाह—“प्रमाकारणेति ।” प्रमाया असमवायिकारणं खल्वात्ममनःसंयोगः । स च सर्वप्रमासाधारणः115 । नासौ प्रमात्रा प्रमेयेण वा शक्यो विशेष्टुम्, तयोरपि तद्वदेव साधारण्यात् । असाधारणं तु प्रमाणं यथायथमात्ममनःसंयोगमवच्छिनत्ति । एवं सुखादिप्रमेयाणामपि मन एवसाधारणं व्यवच्छेदकं द्रष्टव्यम् । सोऽयमस्यातिशयः अतिशयातिशयिनोरभेदविवक्षया “अतिशयशब्दवाच्यम्” इत्युक्तम् ।
क्रमप्राप्तमर्थग्रहणं तात्पर्यतो व्याचष्टे—“अर्थग्रहणमिति ।” कस्मात् पुनर्निषिध्यते प्रमाणविषया प्रतिपत्तिरित्यत आह—“यतो न प्रमाणविषयेति, इतिकर्तव्यता” अनुष्ठानम्, तस्मिन् । अर्थ्यत इत्यर्थः, तोयकण्टकादिः । तस्य तथाभावोऽर्थनीयत्वम् । तच्च सुखदुःखसाधनत्वम् । सुखसाधनं खलूपादेयत्वेन दुःखसाधनं च हेयत्वेनार्थ्यते116 । तात्पर्यान्तरमाह—“उपेक्षणीयेति ।” उपेक्षणीयविषये प्रमाणे प्रवृत्तिसामर्थ्यं नास्तीति तत्प्रतिषिध्यते । न च तदप्रमाणमिति । तस्यापि117 दृष्टप्रमाणसाधर्म्येण लिङ्गेन प्रामाण्यानुमानादिति । चोदयति—“प्रमाणाग्रहणमिति ।” समर्थप्रवृत्तिजनिका हि प्रतिपत्तिर्नाप्रमाणाद्भवतीत्यर्थादेव प्रमाणादिति गम्यत इत्यर्थः । परिहरति—“न प्रमाणविशेषज्ञापनार्थत्वात् ।” अयमभिसन्धिः, प्रवृत्तिसामर्थ्येन हि कार्येण प्रमाणस्यार्थवत्त्वमनुमातव्यम् । न चैतत् साक्षात् प्रमाणस्य कार्यम्, किं त्वर्थप्रतिपत्तेः । तदनन्तरं हि समर्था प्रतिपत्तिरुपजायते । अर्थप्रतिपत्तिस्तु प्रमाणकार्येति समर्था प्रवृत्तिः प्रमाणकार्या सती प्रमाणस्यार्थवत्त्वमनुमापयति118 । तस्मादर्थगम्यमपि प्रमाणमर्थप्रतिपत्तिकरणत्वेन द्योतनीयम् । अन्यथा प्रमाणमर्थवदर्थप्रतिपत्तेः समर्थप्रवृत्तिजनकत्वादिति किं केन सङ्गतम् ? प्रमाणस्य विशेषः प्रमाणाभासाद् व्यावृत्तिः । तस्य ज्ञापनम् । स एवार्थो यस्य119 प्रमाणग्रहणस्य तत् तथोक्तम् । तस्य भावस्तत्त्वम् । तस्मादेतदुक्तं भवति—प्रमाणकार्याया अर्थप्रतिपत्तेः प्रवृत्तिसामर्थ्यं न तदाभासकार्यायाः । तस्मात् प्रमाणस्यार्थवत्त्वं गम्यत् इति । तदिदमुक्तम्—“तद् येह प्रमाणेन प्रतिपत्तिः सा प्रवृत्तिसामर्थ्यं प्रतिपादयति प्रमाणम् ।” अयमर्थः । प्रमाणं कर्तृ, प्रवृत्तिसामर्थ्यं प्रतिपद्यमानं प्राप्नुवत् तत् प्रतिपादयति प्रापयति प्रमाणकार्यार्थप्रतिपत्तिरिति । इदमपि प्रमाणग्रहणस्य प्रयोजनमित्याह—“न च प्रमाणग्रहणमिति ।” एकदेशिव्याख्यानमुपन्यस्यति—“सुखेति ।” न केवलं सुखदुःखहेतुत्वादर्थ्यमानत्वात्,120 ज्ञायमानत्वाच्च121 । दूषयति—“नेति ।” सर्वस्य सुखदुःखतद्धेतुत्वेन हेयपक्षनिक्षेपात् । उपादेयानां प्रमाणशास्त्रापवर्गाणामभावप्रसङ्गाद् व्याघातः । “अविवक्षितत्वाच्चेति ।” चशब्दसमुच्चितमशक्यहानत्वं हेत्वन्तरमादर्शयति—“न च प्रमाणादिहानमिति ।” सुखदुःखतद्धेतवो हि हेयाः सन्तो हानोपायमपेक्ष्यन्ते । न च प्रमाणादेरन्यस्तदुपायः सम्भवति । न च प्रमाणादिः स्वोच्छेदाय पर्याप्तः । न चास्मादपवर्गो नाधिगम्यते । तस्मान्न शक्यं प्रमाणादिना प्रमाणहानमिति । न चैतन्निःश्रेयसहेतुं शास्त्रं प्रणयतः सूत्रकारस्य तदनुवर्तिनो वा भाष्यकारस्य विवक्षितमित्याह—“न च प्रमाणादिहानं विवक्षितम् ।” तस्मादस्मद्व्याख्यानमेव शोभनमित्याह—“किं त्विति ।” प्रवृत्तिसामर्थ्याधानयोग्यत्वमधिकारः122 । तस्मात् सुखदुःखतद्धेतुरूपार्थप्रतिपत्तिरेव हि समर्थां प्रवृत्तिमाधत्ते । न त्वर्थमात्रप्रतिपत्तिरित्यर्थः । न केवलं व्याघाताशक्यहाना विवक्षितत्वैरर्थपदेन123 न सर्वसङ्ग्रहोऽशक्यत्वादपि न सर्वसङ्ग्रह इत्याह—“न संविद” इति । सुखदुःखतद्धेतुतया न संविद ग्रहणं सङ्ग्रहः सर्वमध्यपतिताया अपि । कुतः ? अनधिकारात्, सुखदुःखतद्धेतुयोग्यताविरहात् । नाप्यर्थ्यमानत्वेन सङ्ग्रह इत्याह—“अकर्मत्वाच्च ।” न तावत् सर्वा एव संविदः संविद्गोचरा मनोयोनयः संवेद्या भवितुमर्हन्ति । एकनीलविषयसंवित्परम्परामात्र एव पुरुषायुषसहस्रपर्यवसानात् विषयान्तरसञ्चाराभावप्रसङ्गाच्च124 । तस्मादनवस्थाभयादन्ते कस्याश्चित् संविदोऽसंवेद्यतया फलमात्रत्वमभ्युपेयम् । तथा च सा नार्थ्यते125 । न च सुखदुःखे तद्धेतुरिति न सर्वसङ्ग्रहः संविदोऽसङ्ग्रहादित्यर्थः ।
तदेवमादिवाक्यं126 व्याख्याय भाष्यव्याख्यान्तरमवतार्य तत्रैकदेशिव्याख्यानं दूषयितुमुपन्यस्यति—“सोऽयं प्रमाणर्थ” इति । दूषयति—“न उभयस्यापि परिसङ्ख्यातत्वात्,” अर्थस्तु सुखमित्यादिना भाष्यग्रन्थेन । कार्यकारणाभ्यामुभयत्वम् । प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति च हेतुः,127 श्वेतः प्रासादः काकस्य कार्ष्ण्यादितिवन्न प्रतिज्ञार्थेन सङ्गच्छत इत्याह—“प्राणभृद्भेदस्य चेति ।” तदेतदेकदेशिमतदूषणमस्मिन् व्याख्याने128 नास्तीत्याह—“नार्थशब्दस्येति ।” चन्दनादिविषयं प्रमाणं सुखप्रयोजनमेव । कण्टकादिविषयं च प्रमाणं दुःखोत्पादप्रयोजनमेवेत्येतदुभयं परिसङ्ख्यातुं नियन्तुमशक्यमित्यर्थः ।
एवं किलात्र शङ्क्यते—सुखदुःखहेतुभावो वस्तूनां स्वाभाविको भवेन्न वा । स्वाभाविकत्वे नील इव129 सर्वान् प्रत्यर्थः सुख इति करभवन्मनुष्याणामपि कण्टकः सुखः स्यात् । एवं निदाघेऽपि कुङ्कुमं सुखं स्यात् । चन्दनं च हेमन्तेऽपि सुखं भवेत् । एवं तृष्णज इवापां सुहितस्यापः सुखाः प्रसज्येरन् । अस्वाभाविकत्वे त्वनादिवासनावैचित्र्यलब्धजन्मपुरुषधर्मकल्पनानुपातिनः सुखदुःखादयो न प्रमाणप्रयोजनं भवितुमर्हन्तीति । तत्रेदमुपतिष्ठते—“सोऽयं प्रमाणार्थ” इति । निवेदयिष्यते हि क्षणभङ्गाधिकारे130 यथा स्थेमभाजामपि वस्तूनामक्रमाणामपि क्रमवत्सहकारि कारणसमवधानवशादुपजनापायधर्माणः क्रमवन्तो धर्मा भवन्तीति, तदिहापि । यद्यपि न जात्या सुखदुःखहेतुभावो भावना131 भवति, तथापि जातिदेशकालावस्थापुरुषभेदसहकारिसमवधानादुत्पत्स्यते सुखदुःखहेतुभावोऽव्यवस्थयेति भावः ।
तत् सिद्धमेतत्, प्रमाणार्थोऽनियतः अनियतप्राणभृद्भेदहेतुकत्वात् । यद्यदनियतकारणकं कार्यं तत्सर्वमनियतमेव, यथा अनियतकालमेघोदयनिबन्धनं वर्षम् । तथा चायम् । तस्माद् अनियत इति । कस्मात् पुनः प्रमात्रादिचतुर्वर्गे प्रमाणस्यैव अर्थवत्त्वमुच्येत132 न प्रमात्रादीनामपीति आशङ्कानिवारणार्थ “भाष्य”मनुवदन्नेव व्याचष्टे—“अर्थवति च समर्थे” सम्यगर्थेऽर्थाव्यभिचारिणीति यावत् । “प्रमाणेऽर्थवन्ति” भवन्ति “समर्थानि” सम्यगर्थानि प्रमात्रादीनि । अर्थस्य तु सम्यक्त्वमिदमेव यद् यादृशः प्रमाणेनोपदर्शितस्तस्य तथात्वं न पुनरन्यथाभाव इति । यदात्वादिभाष्यवाक्येऽर्थशब्दः प्रयोजनवचनः तदैवं व्याख्यानम्—“अर्थवति च” प्रयोजनवति च यतःसमर्थं133 शक्तं प्रमाणं प्रतिपत्त्यादिक्रमेण पूर्वोक्तेन प्रयोजनं प्रति, अतः “समर्थे प्रमाणे” प्रमात्रादीनि “अर्थवन्ति” प्रयोजनवन्ति भवन्ति, यतस्तान्यपि प्रमाणवदेव समर्थानि शक्तानि प्रयोजनं प्रतीति । अत्र हेतुः “अन्यतमापाय” इति । तस्यार्थं व्याचष्टे—“अन्यतमत्वार्थ” इति । नन्वन्यतमशब्दो बहुष्वनिर्धारितविशेषमेकमाह,134 न तु साधकतममित्यत आह—“प्रकरणात्” इति । साधारणशब्दो हि प्रकरणाद् विशषे वर्तते । तद् यथा शिविकावाहनप्रक्रमे पुरुषमानयेति पुरुषशब्दो विष्टौ, तद्वदिहापि प्रमात्रादिपरिहाण्या135 प्रमाणस्यार्थवत्त्वाभिधाननियमप्रक्रम इति प्रमात्रादिभ्य प्रमाणस्य विशेषो वाच्य इति तत्रैवान्यतमशब्दो वर्तते । यद्यप्यर्थप्रतिपत्त्यर्थाव्यभिचारद्वारेण136 प्रमाणस्याव्यभिचारो गम्यते दृष्टे विषये, तथाप्यदृष्टे विषये न तज्जनितप्रतिपत्त्यव्यभिचारेणाव्यभिचारः शब्दस्य प्रमाणस्य शक्यो विज्ञातुम्, प्रतीत्यव्यभिचारस्य प्रमाणाव्यभिचारग्रहणमन्तरेणाशक्यज्ञानत्वात् । तस्माद् दृष्टा र्थस्य मन्त्रायुर्वेदस्य प्रवृत्तिसामर्थ्यावधृतार्थाव्यभिचारस्य साधर्म्यादाप्तप्रणीतत्वादग्निहोत्रादिवाक्यानां137 प्रमाणानामव्यभिचारग्रहणपुरःसरमेव त्रिवर्गस्याव्यभिचारग्रहणम् । न पुनरत्र त्रिवर्गस्याव्यभिचारः138 शक्योऽन्यतः परिच्छेत्तुम् । अदृष्टार्थविषयस्य च चतुर्वर्गस्येहार्थवत्त्वेन प्रयोजनं दृष्टार्थे सन्देहादपि व्यवहारसिद्धेः । तदिदं चतुर्वर्गे प्रमाणस्य प्राधान्यमिति ।
चतुर्वर्गविभागपरे “भाष्ये” प्रमाता प्रथमं दर्शितः । ततस्तस्य139 लक्षणमाह—“प्रमाता स्वतन्त्र” इति । स्वातन्त्र्यं पृच्छति—“किं पुनः स्वातन्त्र्यम्,” यस्याभिसम्बन्धात् स्वतन्त्र इति । तत्र “भाष्यकृता” प्रमातोपलक्षितो140 न लक्षितः । न खल्वीप्साजिहासयोर्वा प्रवृत्तौ वा स्वातन्त्र्यं प्रमातृत्वम्, अपि तु प्रमायाम् । ईप्सादिस्वातन्त्र्येण तु तदुत्तरकालभाविना प्रमायां स्वातन्त्र्यं पूर्वकालभाव्युपलक्षितम्141 । तेन तच्चरितमनुवर्तमानो “वार्त्तिककृदु”पलक्षणान्तरं कर्तृत्वोत्तरकालभाव्याह—“कारकफलोपभोक्तृत्वम्142 ।” न हि सर्वः कर्ता समस्तकारकजन्यं स्वर्गादि143 वौदनादि वा भुङ्क्ते ऋत्विक्पाचकादिषु144 च व्यभिचारदर्शनात्145 । कारकस्य तु सतः कर्तृत्वोत्तरकालभाविनी फलोपभोक्तृता कर्तृत्वनान्तरीयकतया तदुपलक्षयति, यजमानस्य राज्ञश्च प्रैषादिना तत्तद्व्यापारे कर्तृत्वात् । यथाहुरत्रभवन्तः, तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा युक्तं यत्सर्वं146 पच्यर्थः [महाभाष्ये ३.१.२६] इति । स्वातन्त्र्यलक्षणमाह—“तत्समवायो वा” कारकाभिधानेन सन्निधापितां क्रियां तदितिसर्वनाम्ना परामृशति । यस्य हि व्यापारं प्राधान्येन धातुराख्यातप्रत्ययो वाभिधत्ते स स्वतन्त्रः कर्ता । तथा हि विक्लिद्यन्तीत्यत्र तण्डुलादयः कर्तारः, पचन्तीत्यत्र देवदत्तादयः । तत् कस्य हेतोः ? एकत्र तण्डुलादेर्व्यापार उपात्तोऽपरत्र देवदत्ता देरिति । प्राधान्येन चाशेषकारकनिवर्त्त्यत्वं प्रधानक्रियायाः147 अवान्तरव्यापारभेदेऽपि प्रधानक्रियोद्देशेन समस्तकारकप्रवृत्तेरिति । “पुरुष” इति प्रकृतक्रियापेक्षम्, प्रमायाः पुरुषाश्रयत्वादिति । लक्षणान्तरमाह—“तत्प्रयोक्तृत्वमितराप्रयोज्यता वा ।” तस्य चेतनस्य सर्वकारकाणि प्रति प्रयोक्तृत्वम्, तैश्च कारकैरप्रयोज्यता वा148 । अचेतनस्य तु भाक्तं कर्तृत्वं न स्वाभाविकमिति भावः । परिसमाप्तिपदार्थं व्याचष्टे—“तत्त्वपरिसमाप्तिरिति ।” तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वम् । तच्च हानोपादानोपेक्षाभिः पर्यवस्यति । पर्यवसानं परिसमाप्तिः । विनियोज्यतेति वक्तव्ये योग्यताग्रहणमीप्सितेऽपि दृष्टे149 वस्तुनि कुतश्चित् प्रतिबन्धात् पुरूषेणानुपात्ते मा भूत् तत्त्वापरिसमाप्तिरिति । यद्यपि हि तत् पुरूषेणानुपात्तं तथाप्युपादानयोग्यताप्रदर्शनादस्ति तत्वपरिसमाप्तिरिति । तत्प्रतिषेधश्चेत्यत्र तच्छब्देन हानोपादानलक्षणं विनियोगं परामृशति ।
“किं पुनस्तत्त्वमित्यादि भाष्यं” व्याचिख्यासुस्तत्त्वप्रत्ययप्रकृतेस्तदोऽर्थं पृच्छति—“किं पुनरिति ।” उत्तरं—“सदसती तत्150 ।” प्रश्नं विभजते—“तस्य भावस्तत्त्वमित्यत्रेति ।” उत्तरं विभजते—“सदसती तत् ।” अथ कस्मात् प्रकृतिपुरुषौ वा, पञ्चस्कन्धा वा, परं ब्रह्माद्वैतं वा, जीवाजीवास्रवादयो वा सप्त, पृथिव्यापस्तेजोवायुरिति वा चत्वारि151 भूतानीत्यादीनि तदो वाच्यानि न भवन्तीत्यत आह—“प्रमाणविषयत्वेनाधिकारात् । सूत्रभाष्यवाक्यतद्विवरणे”षु प्रमाणं प्रमाणविषयश्चाधिकृतः152 । न च “साङ्ख्या”दिसिद्धान्तभेदानुपातिनोऽर्थाः प्रमाणविषयाः । यथा चैतत् तथात्रैव153 निवेदयिष्यते । उपसंहरति—“तस्मादिति ।”
प्रकृत्यर्थं व्याख्याय प्रत्ययार्थं व्याचष्टे—“तद्भाव” इति, सदसतोर्यथासङ्ख्यं विधायकप्रमाणविषयता सतो भावः, तत्प्रतिषेधश्चासतो भावः । सदिति विधायकप्रमाणविषयतां परामृशति । तत्प्रतिषेधेन च प्रतिषेधकं प्रमाणमुप स्थापितम् । तेन प्रतिषेधकप्रमाणविषयत्वमेव तत्प्रतिषेध154 इत्यनेनोक्तं भवति । एतद् विभजते—“तयोः खल्विति ।” शङ्कते—“प्रमाणविषयत्वादिति ।” सर्वसामर्थ्यविरहेण त्वसत् सतो व्यावर्तते । यदि चासदपि प्रमाणविषयः, तर्हि नासमर्थम् । तथा च सदसतोरभेद इत्यर्थः । निराकरोति—“न, अनैकान्तात् ।” न वयमसामर्थ्येनासतो भेदमाचक्ष्महे येनैवमुपालभ्येमहीति भावः । शङ्कां विभजते—“तत्र भवेदिति ।” निराकरणं विभजते—“तच्च नेति ।” गवादि चेतनम्, अचेतनं घटादीति । यदि सदसती समर्थे कुतस्तर्हि तयोर्भेद इत्यत आह—“स्वतन्त्रेति ।” असदुपलब्धिरेव सदुपलब्धेरन्यानुपलब्धिः । ननु संयोगविभागादिषु सत्स्वपि परतन्त्रोपलब्धिकारणत्वमस्ति, तेषां संयुज्यमानविभज्यमानाद्यधीननिरूपणत्वादित्यत आह—“प्रतिषेधमुखेन प्रतिपद्यते” प्रतीयते । सतां केषाञ्चित् पारतन्त्र्येऽपि न निषेध्यनिषेधाधिकरणपारतन्त्र्यमित्यर्थः ।
सम्प्रति सदुपलम्भकस्य प्रमाणस्यासदुपलम्भकत्वं प्रतिपिपादयिषता155 “भाष्यकारेण” प्रदीपो दृष्टान्त उपन्यस्तः । स तु साध्यसमः, तस्यापि प्रमाणसामग्रीनिवेशादिति शङ्क्यमानोऽत्यन्तलोकप्रसिद्धतयास्य दृष्टान्तत्वं समर्थयते—“प्रदीपवदिति ।” गोपालाङ्गना अपि हि किमत्रास्ति स्तेनोऽस्मद्धनं वा अपवरके156 न वेति सन्दिहानाः प्रदीपमुपादाय समन्तादवलोक्यापवरकमस्तीहास्मद्धनं नास्ति स्तेन इति सममेव निश्चिन्वन्ति, न तु स्तेनाभावनिश्चयायोपायान्तरमुपाददते । तेनागोपालाङ्गनमा157 च पण्डितरूपेभ्यः सिद्धः प्रदीपो दृष्टान्तः । तदिदमुक्तम्—“न ह्यसत्प्रतिपत्तावुपायान्तरमास्थीयते” लोकेन । अनाश्रयणे हेतुमाह—“प्रदीपेन दृश्यमाने हि घटादिकेऽर्थे” स्वतन्त्रे “नानेन समानजातीयं” तुल्योपलम्भयोग्यतं158 “दृश्यान्तरमस्ति ।” नीलपीतौ हि परस्पराभाववन्तौ, तेन नीलनिषेधे नावश्यं पीतविधिः । भावाभावौ तु परस्पराभावात्मानौ, नो खल्वभावाभावो नाम कश्चिदन्यो भावरूपात्159 । नापि भावाभावोऽन्योऽभावात् । तेन समानजातीयं दृश्यान्तरं निषेधन् दृश्यान्तराभावमेव विधत्ते प्रदीपः । तदेवं प्रदीपोपायस्य प्रतिपत्तुः प्रतीतिक्रममुक्त्वा परीक्षकाणामुपपत्तिक्रममाह—“यद्यभविष्यदिति ।” यदि कश्चिदाशङ्केत दृश्यतामभावः प्रदीपेन भावोऽपि भविष्यतीति, तत्रैष परीक्षकाणां तर्क उपतिष्ठते— “यद्यभविष्यदिति ।” तदेवं लौकिकपरीक्षकसम्मतं दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयति—“एवं प्रमाणेनापि” इन्द्रियादिना “सति प्रमीयमाणे” इति । पूर्ववद् व्याख्येयम् । उपसंहरति—“तदेवमिति ।” सर्वं चैतदुपरिष्टादुपपादयिष्यते । ननु यदि सदसती प्रमाणविषयौ, कस्मात् सद्भेदा इवासद्भेदा अपि “सूत्रकृता” नोच्यन्त इत्यत आह— “तत्र” तेषु सदसद्भेदेषु मध्ये “स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति नोच्यन्ते ।” निषेध्यनिषेधाधिकरणाधीननिरूपणत्वादसद्भेदानां भावभेदतन्त्रं प्रकाशनमिति भावभेदकथनेनैवाभावभेदा अपि गम्यन्त इति नोक्ता इत्यर्थः । अथ वा कथिता एव येषां तत्त्वज्ञानं निःश्रेयसोपयोगि, ये तु न तथा न तेषां प्रपञ्चः अनुपयुक्तभावप्रपञ्च इव वक्तव्य इत्याह—“चतुर्वर्गानन्तर्भावाद्वा भावप्रपञ्चवदभावप्रपञ्च” इति । निःश्रेयसानुपयोगिनि भावप्रपञ्चे यथा चतुर्वर्गानन्तर्भावः, एवमभावप्रपञ्चेऽपीति । अथ निःश्रेयसोपयोगाभावः कुतोऽवगन्तव्य160 इत्यत आह—“भावोपदेशादेवाभाव उपदिष्टो भवतीति ।” द्विविधं प्रमाणं भावोऽभावश्च । यथा कारणाभावेन कार्याभावज्ञानं यतो द्वितीय“सूत्र”समुत्थानम् । प्रमेयेषु चापवर्ग एव मूर्धाभिषिक्तः । एवं प्रयोजनादिष्वपीति तत्र161 तत्रोहनीयमिति । उपसंहरति—“अतश्चेति ।”
तदेवं तात्पर्यं व्याख्याय अवयवार्थं व्याख्यातुं “भाष्यं” पठति—“सच्च खलु षोडशधा व्यूढमुपदेक्ष्यत” इति । अत्र प्रथमे कल्पे चशब्दोऽवधारणे, खलुशब्दः स्पष्टार्थे162 । सदेव षोडशधा व्यूढमुपदेक्ष्यते नासत्, तस्य सदधीनप्रकाशत्वादिति । द्वितीये तु कल्पे पारमार्थिके चः समुच्चये, खलु अवधारणे । सति षोडशधैवोपदेक्ष्यमाणेऽसदप्युपदेक्ष्यत इत्यर्थः । प्रकृत्यर्थं व्याचष्टे—“व्यूह” इति । “सूत्र”स्य सप्रपञ्चं तात्पर्यं व्याख्याय अवयवार्थं व्याचिख्यासुना भाष्यकारेण “तासां खल्वासां सद्विधानामिति भाष्येण सूत्रम”वतार्य पठितं तदस्य “वार्तिककृत्” तात्पर्यमाह त एते सद्भेदा इति सूत्रम् । त एते प्रमाणादयः सद्भेदा निःश्रेयसोपयोगिनो न गङ्गाबालुकादयः । तस्मात् सत्सु163 प्रमाणादयः षोडशैवोद्दिष्टा164 लक्षिताः परीक्षिताश्च । न गङ्गाबालुकादयः सन्तोऽपि निःश्रेयसानुपयोगादिति भावः ।
द्वन्द्वस्वरूपमाह—“सर्वपदेति ।” द्वन्द्वपरिग्रहे तात्पर्यमन्वयव्यतिरेकाभ्यामादर्शयति—“सर्व एत” इति । बहुव्रीहिकर्मधारययोरसम्भवात् षष्ठीसमासपरिग्रहे निग्रहस्थानस्यान्त्यपदार्थस्य165 प्राधान्ये विवक्षितार्थहानप्रसङ्ग इत्यर्थः । “निर्देशे यथावचनं विग्रह” इत्यस्य भाष्यस्य तात्पर्यमाह—“यथावचनमिति ।” अन्योन्यनिरपेक्षाणां प्रत्येकं प्रमाहेतुभावः प्रमाणानामिति हि बहुवचनप्रयोजनम् । प्रमेयेषु तु यद्यपि प्रमेयता वास्तवी प्रत्येकमस्ति तथाप्यपवर्गहेतुभावेन प्रमेयता समुदाये समाप्यते, न तु प्रत्येकम् । आत्मादीनामन्यतमस्याप्यतत्त्वज्ञाने संसारानतिवृत्तेरिति यदेव हि166 निर्देशे वचनभेदस्य प्रयोजनम्, तदेव चोद्देशेऽपि, तयोरेकवाक्यत्वादिति भावः । “प्रमाणादीनामिति” विभक्त्यर्थव्याख्यानपरं भाष्यं पठित्वा पृच्छति—“कः पुनरिति ।” उत्तरं—“कारकाणामिति ।” तद्विभजते—“यत्रेति । कारकार्थः” प्रधानक्रिया, यदुद्देशेन सर्वकारकप्रवृत्तिः । कारकग्रहणेन च तन्नान्तरीयकतया प्रधानक्रियाप्यानीतेति “विवरणे” सापि दर्शिता । यद्यपि स्वस्वामिभावादावपि सम्बन्धेऽन्तर्गतः क्रियाकारकसम्बन्धोऽस्ति सम्बन्धमात्रस्य क्रियागर्भत्वात् तन्नान्तरीयकत्वाच्च कारकस्य, तथाप्यसौ न विवक्ष्यते । सम्बन्धमात्रमेव तु विवक्ष्यत इत्यर्थः । तत्र चोदयति—“तत्त्वस्येति” षष्ठी चानर्थिका अव्यतिरेके तदनुपपत्तेरित्यपि द्रष्टव्यम् । तत्रानियमवाद्येकदेशी परिहरति—“न, उभयथापीति ।” भावस्य भवित्रधीननिरूपणत्वाद् भावनिरूपणमेव भवितृनिरूपणमाक्षिपति । “अभेदेऽपीति ।” इषुस्थित्या167 यथा तद्भावप्रतिषेध इषोर्भावो168 धर्मो गतिः, तस्य प्रतिषेधः स्थितिः, तिष्ठतेर्गतिनिवृत्त्यर्थत्वात् । एवमत्रापि न प्रमाणप्रमेयादिमात्रमुच्यते तत्त्वग्रहणेनापि त्वर्थान्तरं तेष्वेव यत् समारोपितं रूपमन्यथात्वमिति यावत् तत् प्रतिषिध्यते । “गतिमदिति” भावप्रधानो निर्देशः । यथा द्वेकयोर्द्विवचनैकवचने [पा। सू। १.४.२२] इति द्वित्वैकत्वयोरिति । सङ्ख्येयविवक्षायां तु द्व्येकेष्विति स्यात् । तेन गतिमत्त्वमर्थान्तरमिषोर्न भवतीत्यस्मिन्नर्थे इषोः स्थितिरिति वाक्यं प्रयुज्यत169 इत्यर्थः । तदेतदेकदेशिमतमर्थान्तरत्वनियमवादी दूषयति—“तन्नेति ।” प्रमाणादिभ्योऽनर्थान्तरस्य तत्त्वस्य च इषोरनर्थान्तरस्य गत्यभावस्य170 चासिद्धे । यथा च भावातिरिक्तोऽभावस्तथा क्षणभङ्गाधिकारे171 निवेदयिष्यते । प्रमाणाद्यतिरिक्तं च तत्त्वमनन्तरमेव दर्शयिष्यतीति । तत्वस्य ज्ञानमित्यादिभाष्यं व्याचष्टे—“तत्त्वं ज्ञायमानमिति ।” उभयं पृच्छति—“किं पुनरिति ।” तत्त्वप्रश्नस्योत्तरम्—“तत्त्वमिति । निमित्तत्वं” शक्तिः प्रमाणादीनाम् । सा च द्वयी स्वरूपलक्षणा सहकारिसाकल्यलक्षणा च, अतीन्द्रियस्य सामर्थ्यस्य नैयायिकैरनभ्युपेतत्वात् । शक्तेश्च भावत्वेन भवितृनिरूपणाधीननिरूपणत्वाद् भवितुरपि निरूपणं भवतीत्युक्तम् ।
अभिमतं निःश्रेयसं ग्रहीतुं निःश्रेयसद्वैविध्यमाह—“निःश्रेयसं पुनरिति ।” तत्रादृष्टं निःश्रेयसं ग्रहीतुं दृष्टमतिप्रसङ्गापादनेन दूषयति—“एवं च कृत्वेति ।” सूत्रकाराभिमतं निःश्रेयसमाह—“परं त्विति ।” एतदुक्तं भवति, यद्यपि निःश्रेयसपदमभिमतमात्रवाचि प्रमाणादितत्त्वज्ञानस्य च दृष्टमपि निःश्रेयसं सम्भवति, तस्यैव ततः साक्षादुत्पत्तेः । तथाप्यात्मादिवाचकप्रमेयपदसमभिव्याहाराददृष्टमेव निःश्रेयसमभिप्रेतं172 सूत्रकारस्य । तत्र च प्रमाणादितत्त्वज्ञानस्यापि पारम्पर्येण हेतुभावोऽस्त्येवेति । चोदयति—“दृष्टमिति ।” दृष्टे दर्शनमेव प्रमाणम् । अदृष्टं तु निःश्रेयसमप्रामाणिकं दर्शनाभावादित्यर्थः । परिहरति—“न, नास्ति अर्थस्य तथाभावात् ।” अर्थ आत्मादिः । तस्य आगमानुमानसहकारिणा कारणाभावेन कार्याभावानुमानमेवात्रार्थे प्रमाणमिति भावः । ये तु वैयात्यान्मन्येरन् पदार्थतत्वज्ञानमात्रमेव173 परनिःश्रेयसहेतुरिति, यथाहुः—
एको भावस्तत्त्वतो येन दृष्टः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः इति, तान् प्रत्याह—“यदि पुनरिति ।” न हि भावानां तत्त्वमन्यदतः प्रत्यक्षविषयीकृताद् रूपादिति भावः । मोक्षमाणा इति, सनि मुचोऽकर्मकस्य गुणो वा [पा। सू। ७.४.५७] इति गुणाभ्यासलोपौ । न केवलं वस्तुवृत्तिः, “सूत्रकार”स्यापि सम्मतमेतदित्याह—“पृथगुपदेशाच्च” प्रमेयस्य प्रमाणादिभ्यः । यदि च यत्किञ्चित् प्रमेयतत्त्वज्ञानान्निःश्रेयसस्य परस्य प्राप्तिः, किमर्थमात्मादिसूत्रेण द्वादशैव प्रमेयाणि नाधिकानि न न्यूनानि चेत्यवधार्यते सूत्रकारेण ? तस्मात् तदेव174 साक्षादुपयोगि निःश्रेयसे न पदार्थमात्रमित्याह—“प्रमेयावधारणार्थायां चोत्तरसूत्रप्रक्रियायामकुशलः सूत्रकारः स्यात् ।” कुतः ? “प्रमेयस्य विहितत्वादाद्येन सूत्रेणेति ।” तस्माद् यद्युपपत्तिः यदि च सूत्रकाराभिमतमुभयथापि प्रमेयतत्त्वपरिज्ञानं परस्य निःश्रेयसस्य हेतुः । तदनेन “आत्मादेरिति भाष्यं” व्याख्यातम् ।
अथ किं तत्त्वज्ञानस्यात्मादिविषयस्यादृष्ट एव कोऽपि सामर्थ्यातिशयो यतः परनिःश्रेयसोत्पादः, मैवम् । किं तर्हि ? दृष्ट्यैव द्वारेत्याह भाष्यकारः—“तच्चैतदिति” निःश्रेयसहेतुभावाभिधानस्य “अनु” पश्चात् “उद्यते” अनूद्यते । तत्त्वज्ञानोत्पादे हि शास्त्रात्175 तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गोत्पाद इति द्वितीय“सूत्रे”णानूद्यते । तदेतद् “भाष्यं” तच्चैतदित्याद्यधिगच्छतीत्यन्तमनूद्य व्याचष्टे—“हेयमिति ।” मिथ्याज्ञानमात्मादिषु प्रमेयेषु “अविद्या” तन्मूलं “तृष्णा ।” उपलक्षणं चैतत्, द्वेषोऽपि द्रष्टव्यः । तन्मूलौ च धर्माधर्मौ । तदेतद्धेयम् । हानं तत्त्वज्ञानं हीयते ह्यनेनैतत् सर्वम् । “तस्य” प्रमाणस्य । “उपायः”शास्त्रम् । “अधिगन्तव्यो” मोक्षः । एवमवयवान् विभज्य तात्पर्यमाह—“एतानीति ।” एतानि “चत्वार्यर्थपदानि” पुरुषार्थस्थानानि, न केवलं हेयाधिगन्तव्यभेदेन द्वादशभेदं176 प्रमेयं दर्शयतः तद्विषयतत्त्वज्ञानाय च सोपकरणन्यायाभिधानप्रमाणव्युत्पादकं शास्त्रं प्रणयतः “सूत्रकार”स्य सम्मतमपि तु सर्वेषामेवाध्यात्मविदामाचार्याणामिति “भाष्य”तात्पर्यमित्यर्थः ।
“तत्र संशयादीनां पृथग्वचनमनर्थकम्” इत्यादिचोद्य“भाष्यं” व्याचष्टे— “संशयाद्यग्रहणमिति ।” सत्यमिति परिहार“भाष्यं” व्याचष्टे—“न विद्येति ।” चोद्यं विवृणोति—“संशयादय” इति । परिहारं विवृणोति—“न विद्येति ।” प्रस्थानं व्यापारः । तेषां पृथग्वचनमित्यादि“भाष्यं” व्याचष्टे—“तस्याः177 संशयादीति ।” न च वाच्यमस्तु विद्यात्रयमेव, कृतमान्वीक्षिक्या विद्ययेति, तस्या एव समस्तविद्यावदातीकरणहेतुत्वात् । यथा वक्ष्यति—“प्रदीपः सर्वविद्यानामिति । स चायं किंस्विदिति वस्तुविमर्शमात्रमनवधारणज्ञानं संशय” इति भाष्यम् । तद् व्याचष्टे—“तत्र” तेषु संशयादिषु । “संशयस्तावदिति” ज्ञानमवधारणं प्रत्यय इति पर्याय इति मन्वानश्चोदयति—“अनवधारणात्मक” इति । न ज्ञानमात्रपर्यायोऽवधारणशब्दः । अपि तु तद्विशेषनिश्चयवचनः । किंस्विदिति दोलायमानस्योभयकोटिस्पृशः प्रत्ययस्यार्थेऽनवधारणात्मकस्यापि प्रत्यात्मं मानसेन प्रत्यक्षेणावधार्यमाणत्वादिति । परिहरति—“न व्याघात” इति । “तत्” तस्मात् “उभयमिति ।” तत्र “नानुपलब्धे” इत्यादि “भाष्य”मवतारयितुं पृच्छति—“स कथं न्यायस्येति ।” यदि न्यायस्याङ्गं संशयो भवेत्, सोऽपि व्युत्पाद्येतेति भावः । उत्तरम्—“यस्मादिति ।” एतदाक्षिपति—“उपलब्ध” इति । पञ्चरूपश्चतूरूपो वा हेतुर्न्यायः । प्रतिज्ञाद्यवयवसमूहो वा न्यायः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति, तस्याश्रयो178 विषय उपलब्ध उच्यमानो निर्णीत एव वक्तव्यः । सन्दिग्धे हि तस्मिन् हेतुः सन्दिग्धाश्रयतया असिद्धः स्यात्, यथेह नगनिकुञ्जे मयूरः केकायितापातादिति । तदापातसन्देहे अतो179 न निर्णीतश्चेन्नोप लब्धः । ततश्चोपलब्धश्चानिर्णीतश्चेति व्याहतमित्यर्थः । परिहरति—“नास्ति व्याघात” इति । सामान्यतः पर्वतमात्रमुपलब्धं निर्णीतम्, तद्विशेषस्तु वह्निमत्त्वादिरनिर्णीत इति । पुनश्चोदयति—“एवमपीति ।” उपलब्धो निर्णीत इति सामानाधिकरण्यात् समानविषयत्वं दर्शयति । तथा च व्याघातः । सामान्यविशेषभेदेन तु व्याघातं परिहरन् सामानाधिकरण्यं न समर्थस इति भावः । परिहरति—“न, यथा तथेति व्यपदेशादिति ।” सामान्यविशेषयोः सामानाधिकरण्यात् । य एव सामान्यतो निर्णीतः, स एव विशेषतोऽनिर्णीतोऽपि सम्भवतीति न व्याघात इत्यर्थः । “एवमर्थं” न्यायप्रवृत्त्यर्थम्, असन्दिग्धे न्यायप्रवृत्तेरनुपपत्तेः । न हि करिणि180 दृष्टे चीत्कारेण तमनुमीमते प्रेक्षावन्त इति ।
प्रयोजनस्वरूपप्रतिपादनपूर्वकं प्रयोजनपदप्रयोजनप्रदर्शनार्थं “भाष्य”मनुभाषते“अथ प्रयोजनम् ।” व्याख्यातुं पृच्छति—“किं पुनरिति ।” उत्तरम्—“येनेति ।” स्फुटतरमेवैतदित्यर्थः । पुनः पृच्छति—“केनेति ।” एकदेशिमतेनोत्तरमाह—“धर्मेति ।” तत्र काम इतीच्छामात्रं वोच्यते, कामिनीविषयो वा रागः ? पूर्वस्मिन् कल्पे काम इत्येवास्तु कृतं धर्मादिभिः सर्वेषामेव काम्यमानत्वात् । उत्तरस्मिन्नव्याप्तिः सरकमृगयादीनां काम्यानामसङ्ग्रहात् । धर्ममोक्षयोरपि नास्तिकान् प्रत्यप्रवर्तकत्वम्90 । तस्मादयुक्तमेतदिति मन्वान आह—“वयं तु पश्याम” इति । सुखस्यास्या दुःखस्य हान्या विषयेण विषयिणं प्रत्ययमुपलक्षयति । असत्योरकारणत्वात्, सत्योर्वा अनर्थकत्वात् प्रवृत्तेरिति । तथापि सुखदुःखाप्तिहान्योरेव कर्तुः प्रवृत्तिप्रसङ्गो न तत्साधने, न ह्यन्यद्विजानाति इच्छति च करोति चान्यदिति घटते, अतिप्रसङ्गात् । न च फलं पुरुषप्रवृत्तिगोचरः । तत्साधनं तु तद्गोचरः, तत्साधनत्वविज्ञानात् तत्साधन एव प्रवर्तते । तन्नातिप्रसङ्ग इति चेत् ? हन्त तर्हि तत्साधनत्वज्ञानमेव प्रवर्तयति, न फलज्ञानम्, ज्ञानेच्छाप्रवृत्तीनां कार्यकारणभूतानां सामानाधिकरण्येन सम्प्रतिपत्तेरित्यभिप्रायेणाह—“सुखदुःखसाधनभावात्तु सर्वेऽर्थाश्चेतनं प्रयोजयन्तीति ।” तुशब्दः फलाद् व्यवच्छिनत्ति । अत्रापि विषयेण181 विषयिणं प्रत्ययमुपलक्षयति । एतदुक्तं भवति तोयमुपलभ्य तज्जातीयस्यापेक्षितसाधनतां दृष्टचरीमनुस्मरति । अथ तज्जातीयतया लिङ्गेन दृश्यमानस्यापेक्षितसाधनभावमनुमिमीते । अनुमाय च पिपासुः प्रवर्तते । तेनोपायज्ञानस्य साक्षात् पुरुषप्रवृत्तिहेतुत्वम्, फलस्य182 त्वीप्सिततमस्योद्देश्यतयेति सर्वं सुन्दरम्183 । “तदाश्रयश्च न्यायः प्रवर्तते” इति भाष्यं व्याचष्टे—“तदिदं प्रयोजनं न्यायस्येति ।” आक्षिपति—“क” इति । समाधत्ते—“उपकारकत्वमिति ।” यथा राजाश्रितः पण्डित इति । उपकारकत्वमेव दर्शयति—“तन्मूलत्वादिति । विधिः” प्रवृत्तिः । न जातु निष्प्रयोजनां184 काकदन्तादौ परीक्षामारभन्ते प्रेक्षावन्त इत्यर्थः । आक्षिपति—“का पुनरियमिति ।” न्यायाश्रयत्वं प्रयोजनस्य प्रतिज्ञाय परीक्षाश्रयत्वसमर्थनमसङ्गतमिति भावः । उत्तरम्—“न्यायः ।” तस्मान्नासङ्गतमित्यर्थः । नन्वेवमपि नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति व्युत्पत्त्या प्रत्यक्षादि प्रत्येकं न्यायः । न चैतत्185 प्रत्येकं प्रयोजनमाश्रयते । अजिहासितानुपादित्सितानामप्यजिज्ञासितानामर्थानां प्रत्यक्षादिगोचरत्वदर्शनादित्याक्षिपति—“कः पुनरयं न्यायः ?” समाधत्ते—“प्रमाणैरिति ।” प्रत्यक्षादिप्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः प्रमाणानि । तैरर्थस्य लिङ्गस्य परीक्षणं परीक्षा । परीक्षितं तु लिङ्गं पञ्चावयवोपपन्नमनुमेयप्रत्ययफलं भावयत्येव, न त्वनुमेयार्थपरीक्षा । तस्य सन्दिग्धत्वेऽपि स्वरूपेण परीक्षानास्पदत्वादिति । नन्ववयवैश्चेदर्थपरीक्षणम्, न तर्हि प्रमाणैः कार्यकारणयोरभेदाभावादित्यत आह—“किमुक्तं भवतीति ।” न साक्षात् प्रतिज्ञादयोऽवयवा अर्थपरीक्षायामुपयुज्यन्ते । अपि तु स्वकारणतत्प्रमाणसूचनेन । तस्मात् प्रमाणानामवान्तरव्यापारः प्रतिज्ञादय इत्युपपन्नं प्रमाणैरर्थपरीक्षणम् । तदिदमुक्तम्—“प्रमाणव्यापारादितीति ।” तस्मात् “नैकैकं प्रमाणमिति ।” समस्तप्रमाणोपकरणत्वादेव चास्य परमत्वमित्याह—“सोऽयमिति ।” पञ्चावयवोपपन्नतया च प्रत्यक्षागमाश्रितत्वम्186 । न तद्विरोध इति प्रदर्शनार्थं187 भाष्यमनुभाष्य तात्पर्यं व्याचष्टे—“प्रत्यक्षागमेति ।” कथं पुनरनेन भाष्येणैतदुच्यत इत्यत आह—“यदिहानुमानेनेति । यत् पुनरनुमानमि”त्यादि भाष्यं व्याचष्टे—“यत्र पुनरिति ।” यत्र हि विरोधस्तत्र प्रमाणमूलानामवयवानां प्रतिज्ञादीनामितरेतरप्रतिसन्धानमेकवाक्यता नास्ति । प्रमाणविरोधेन योग्यताविरहिणां तत्पदार्थानां पारमार्थिकान्वयाभावादिति । “तीर्थं” दर्शनं तस्य “प्रतिरूपकः ।” अदर्शनमिव188 दर्शयतीति यावत् । स खलु तादृशः पञ्चावयवप्रयोगो लाभपूजाख्यातिकामैः पण्डितव्यञ्जनैरुपवर्ण्यमानः प्रत्यवायाय, प्रागेव189 त्वपवर्गायेत्यर्थः । तदेवं समुदायतो भाष्यं व्याख्यायावयवविभागाय पठति“यत् पुनरनुमानमिति ।” प्रत्यक्षविरुद्धोदाहरणमाह—“अनूष्णोऽग्निरवयवी190 कृतकत्वाद् घटवदिति ।” अत्र चोदयति—“कः पुनरिति ।” इदमत्राकूतम् रूपत्रयसम्पन्नमेतत् कृतकत्वं न वा ? न चेत् तत एव तर्हि तदनुमानाभासमिति191 कृतं प्रत्यक्षविरोधेन । अथान्वयव्यतिरेकपक्षधर्मतासम्पन्नमपि बाधितविषयतयैतदप्रमाणम् ? तदयुक्तम्, रूपत्रयसम्पत्त्यां खल्वेतत् स्वसाध्येनाविनाभूतं भवति । न च बाधाविनाभावयोः सह सम्भवः । बाधायामपक्षधर्मो भवेत्, अनैकान्तिकश्च हेतुः । जिज्ञासितधर्मणो धर्मिणः पच्यमानत्वेन192 पक्षत्वम्, न पुनः प्रत्यक्षावधृतसाध्यविरुद्धधर्मस्य193 । तस्याजिज्ञासितत्वेनापक्षतया तद्धर्मस्यापक्षधर्मत्वान्न चैकान्तिकः194 । साध्यधर्मिण्येव प्रत्यक्षोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् । न च सपक्षासपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् । यदि हि पक्षं विहाय बहिरेव सपक्षासपक्षयोरविनाभावो गम्येत, तदा बहिर्व्याप्तिमात्रबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत् । असिद्धा हि तत्रास्य स्वसाध्येन व्याप्तिः । तदेतत् पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनमिव । तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावोऽवगन्तव्यः । एवं च सिद्धः पक्षेऽपि व्यभिचारः साधनधर्मस्येत्यनैकान्तिकत्वम् । तथा च रूपत्रयसम्पन्नो हेतुर्बाधितविषयश्चेत्यसम्भवः । तस्मात् सुष्ठूक्तम्—“कः पुनरस्यानुमानस्य” रूपत्रयसम्पन्नस्य “विरोधः ?” न ह्यस्ति सम्भवो रूपत्रयसम्पन्नं विरुद्धं चेत्यर्थः । अत्र195 समाधिमाह—“अनुमानाविषये प्रयोगः ।” वक्ष्यति196 ह्यनुमानाधिकारे यथानौपाधिकः सम्बन्धो हेतुसाध्ययोरनुमानाङ्गम्, न तु कार्यकारणभावादिरव्यापकत्वादतिप्रसङ्गाच्चेति । स चैवं प्रवर्तते—यो यः कृतकः स सर्वोऽनुष्णो यथा घटादिरिति । न च वह्नेरिव धूमसम्बन्धे आर्द्रेन्धनसंयोगो गुर्वन्तेवासिनोः साहचर्ये197 इव स्वाध्यायाध्ययनमुपाधिः कृतकत्वानुष्णत्वयोः सम्बन्धे उपलभ्यते । सोऽयं शङ्कितः समारोपितो वा प्रयत्नेन पुनःपुनरन्विष्यमाणोऽनुपलभ्यमानस्तत्र तत्र घटादावुपाधिर्नास्तीति प्रत्यक्षेण, यद्यभविष्यद् घटादिवदेव व्यज्ञास्यत, विज्ञानाभावान्नास्त्येवेति तर्कसहायेन निश्चीयते । सोऽयं रूपेणेव रसस्य, श्वस्तनेनेव सवितुरुदयेनाद्यतनस्य तदुदयस्य, समुद्रवृद्ध्येव चन्द्रोदयस्य समानकालस्य, कृतकत्वस्यानुष्णत्वेन स्वाभाविक औत्सर्गिकः सम्बन्धः सामान्येन यो यः कृतकः स सर्वोऽनुष्ण इत्यवधारितः, न तु निर्विभज्य तेजोऽवयविनि । न हि सर्वोपसंहारवती व्याप्तिरेकदेशविषया भवितुमर्हति । एकदेशविषयत्वे यत्रैव न दर्शिता तेनैवानैकान्तिकत्वमाशङ्क्येत । तथा च तत्र तत्रैकदेशे प्रत्येकं व्याप्तिप्रदर्शनमशक्यम्, आनन्त्यात् । तस्मात् सर्वोपसंहारेणैव तदुपदर्शनम् । तदिह कृतकत्वमौत्सर्गिकसामान्यविषयव्याप्तिस्मरणसध्रीचीनं पक्ष धर्मतावशात् विशेषे तेजोऽवयविनि साधयितुमनुष्णतोन्मुखं यन्न साधयेत् तत्195 किं प्रत्यक्षेणापहृतविषयत्वात्, आहोस्विदनैकान्तिकत्वात् ? न तावदनैकान्तिकत्वम् प्रागेव सामान्यतोऽनौपाधिकसम्बन्धस्यावधारणात् । उष्णे198 तेजोऽवयविनि कृतकत्वस्य दर्शनादनैकान्तिकमपक्षधर्मो वा कृतकत्वमितिचेत्—न, अनुमानेन सामान्यतोऽवधृतव्याप्तिना तस्यानौष्ण्यसाधनात् । प्रत्यक्षेण तेजोऽवयविन औष्ण्यग्रहणेन तत्र199 कृतकत्वस्य हेतोर्वृत्तावुत्पन्नमपि व्याप्तिविज्ञानं बाध्यते । ततश्चानैकान्तिकत्वादप्रवृत्तिरनुमानस्येति चेत्—न, अनुमानप्रवृत्तिविषये साध्यधर्मिणि हेतोर्व्यभिचारानुद्भावनात् । अन्यथा तद्गतसाध्यधर्मसन्देहे तत्रोपलभ्यमानः साधनधर्मः सन्दिग्धव्यतिरेकित्वादनैकान्तिकः स्यात् । सन्दिग्धसाध्यधर्मे दृष्टान्त इव साधनधर्मः । तथा चानुमानमात्रमुच्छिद्येत, प्रत्यक्षेण साध्यधर्मविपर्ययदर्शनात् । तेजोऽवयविनोऽनुष्णत्वेनासाध्यत्वम्, तथा चानैकान्तिकत्वमपक्षधर्मता वेति चेत् ? तर्हि प्रत्यक्षेण साध्यविपर्ययसाधनं बाधनमित्यनर्थान्तरम् । तदिदमुक्तम्—“यस्मिन् विषये” तेजसोऽनुष्णत्वे एतत् प्रयुक्तम्, “स प्रत्यक्षेणापहृत” इति । एवं चानुमाने दूषिते कृतमपक्षधर्मत्वव्यभिचाराभ्यां तदुपजीविभ्यामिति भावः ।
यत् पुनः “दिग्नागेन” प्रत्यक्षविरुद्धमनुमानमुदाहृतं तदुपन्यस्यति—“अपरेपुनरिति ।” अश्रावणः शब्दः कृतकत्वाद् घटादिवदिति ब्रुवाणः शब्दस्वरूपमेवापलपति । न हि श्रवणेन्द्रियादन्यदस्ति शब्दग्रहणकारणम् । न चागृह्यमाणः शब्दः सद्व्यवहारगोचरः । तस्मादेवंवादिनोऽभिप्रायव्याप्तमसत्त्वं शब्दस्य । तथा च प्रत्यक्षविरोध इति भावः । दूषयति—“तैस्त्विति ।” सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामत इत्युत्सर्गः । क्वचित् पुनर्विशिष्टविधानमपि भवत्यनन्यगतित्वात् । तद्यथा—
लोहितोष्णीषा ऋत्विजः प्रचरन्ति ।
सति विभवे न जीर्णमलवद्वासाः स्नातकः स्यात्200 ।
इति । तद्वदिहापि अश्रावणः शब्द इति श्रुतिवाक्ययोः सामर्थ्यात् श्रावणत्वविशेषणोपसङ्क्रान्तो निषेधो न विशेष्येण शब्देन सह सम्बध्यते । नापि श्रावणत्वनिषेधादार्थः201 शब्दनिषेधो वाद्यभिप्रायव्याप्तः । वचनार्थाविरोधिनोऽर्थस्यार्थगम्यत्वान्न तद्विरोधिनः श्रावणत्वनिषेधस्य चाधिकरणं शब्द इति न शब्दाभावे तन्निषेधोऽवकल्पते । न चाभावस्तुच्छ इति तृतीय202 उपपादयिष्यते । न च श्रावणत्वं प्रत्यक्षगोचरः । तद्धि शब्दश्रोत्रयोः सम्बन्धः कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति कात्यायनीयवचनात् । न च प्रत्यक्षाप्रत्यक्षवृत्तिः सम्बन्धः प्रत्यक्षः । तस्मात् श्रावणत्वमप्रत्यक्षमिति नात्र प्रत्यक्षविरोधः । तदिदमुक्तम्—“इन्द्रियवृत्तीनामतीन्द्रियत्वादिति ।” वृत्तिः स्वार्थे सम्बन्ध इत्यर्थः ।
आगमविरुद्धमुदाहरति—“शुचीति । मन्वादि”भिर्नरास्थिस्पर्शप्रतिषेधात्, स्पर्शे च प्रायश्चित्तोपदेशादशुचित्वं नरशिरःकपालादीनामिति । “कापालिक” आक्षिपति— “कथमिति ।” नास्माकं वेदस्तन्मूला वा स्मृतयः प्रमाणमित्यभिप्रायः । उत्तरम्—शुचि नरशिरःकपालमिति ब्रुवता श्रुतिस्मृतीतिहासपुराणानपेक्षेणानुमानमात्रसहायेनात्र203 वस्तुनि त्वया शुचिरूपोऽर्थो वक्तव्यः । “किमुक्तं भवति शुचीति ?” यदि उच्येत स्प्रष्टुः प्रत्यवायाभावः ? सिद्धान्ती पृच्छति—स कस्येति वाच्यम् । यद्यात्मन इति ब्रूयात् “कापालिकः,” अविगीता हि व्यवहारपरम्परास्माकम् । “कापालिकानां” नरशिरःकपालस्पर्शतदवस्थितान्नपानोपयोगलक्षणा, दाक्षिणात्यानामिवाह्नेनैवुकादिलक्षणा क्रिया श्रेयस्करी । तस्मादस्माकमप्रत्यवायकरतया शुचि नरशिरःकपालमित्यर्थः । तत्र सोपहासमुत्तरमाह—“तदागमानुष्ठानतात्पर्यावस्थानात्”204 कापालिकस्यैवमेतत् । श्रुतिस्मृतीतिहासपुराणलक्षणागमविहितमर्थमाचरतां तन्निषिद्धं च परिहरतां दाक्षिणात्यानामाह्नेनैवुकाद्यनुष्ठानमनादि अद्य यावदनुवर्तमानमविगीतमाम्नायमूलतामनुमापयति आत्मनः श्रेयोहेतुभावेन, न खल्वागमानपेक्षः सहस्रणाप्यनुमानैरिममर्थमवगन्तुमर्हति । “कापालिकानां” त्वामगमविहितमकुर्वतां कुर्वतां च तन्निषिद्धमर्थं प्रयत्नेनानादिरपि व्यवहारः शाक्यभिन्नकादीनामिव205 न वेदानुमाने मूलमिति भावः । अथ त्रयीविदां नरशिरःकपालमप्रत्यवायहेतुरिति “ब्रूयात्,” तदा त्रय्या वक्ष्यमाणेन न्यायेन प्रामाण्योपगमादागमविरोधः, तदीयस्पर्शस्य त्रय्यां निषेधेन206 प्रत्यवायहेतुत्वनिश्चयात् । अपि चागमानपेक्षोऽनुमानेन शौचं नरशिरःकपाले व्यवस्थापयन् प्रष्टव्यो जायते—“शुचि नरशिरःकपालमिति कोऽर्थः ?” ननु य एव वाक्यात् प्रतीयते स एवार्थः, तत् किं पृच्छ्यत इत्यत आह—विशेषस्य नरशिरःकपालस्य शौचविधानमेतत् । ततः किमित्यत आह—विशेषविधानं च शेषप्रतिषेधपरं207 लोके दृष्टम्, यथा दक्षिणेन चक्षुषा पश्यतीति उक्ते न208 वामेनेति गम्यते । तदिह यदि शुचि नरशिरःकपालम्, किमन्यदशुचीति वक्तव्यम्209 । न हि नरोच्चारादीनामशुचित्वे प्रमाणमन्यदस्त्यागमात् । आगमप्रामाण्यं च न मन्यस इति भावः । अथ त्रयीविद्वेषादनुमानपक्षपातिना त्वया सर्वमेव नरविट्कपालादि शौचपक्षे निक्षिप्यत इत्याह—“अथ सर्वमेव” शुचि । परिहरति—“दृष्टान्तो नास्ति ।” कुतः “सर्वस्य पक्षीकृतत्वात् ।” चोदयति—“अथानुमानविरुद्धं कस्मादनुमानं न भवतीति ।” न खलु प्रमाणत्वेन प्रत्यक्षागमाभ्यामनुमानस्य कश्चिद् विशेषो येन तौ बाधकावनुमानस्य नानुमानमिति210 भावः । परिहरति—“एकस्मिन्ननुमानद्वयसमावेशाभावात् ।” अयमभिसन्धिः—यत् तावदनुमानं पूर्वप्रवृत्तं तेन बाधितविषयं तद्बलभावि पश्चात्तनमनुमानं211 न स्वकार्याय पर्याप्तम्, यथोक्तमश्रावणः शब्दः कृतकत्वाद् घटादिवदित्यस्यानुमानस्यानुमानविरोध212 इति । लब्धस्वरूपं हि वस्तु क्वचित् किञ्चिन्निषिध्यते, न तु ज्ञानाकारालीके बहिरिति213 तृतीये निवेदयिष्यते । तदिह श्रावणत्वं शब्दस्य निषेधता पूर्वं श्रवणमिन्द्रियमतीन्द्रियं214 तद्ग्राह्यत्वं च वस्तुनी अनुमातव्ये शब्दोपलम्भलक्षणेन कार्येण । तथा चैतेनैवानुमानेनापहृतविषयमश्रावणत्वानुमानं चरममन्वयव्यतिरेकसम्पन्नमपि न स्वोचितं कार्यं जनयति । एवं तनुभुवनादीनां न कर्तेश्वरोऽशरीरित्वान्मुक्तात्मवत् प्रयोजनाभावादित्याद्यपीश्वरधर्मिग्राहिमूलानुमानेनापहृतविषयतया न्यायाभासं वेदितव्यम् । तस्मात् परस्परानपेक्षसमानकालप्रवृत्तिसमर्थानुमानद्वयसमावेशाभावाभिप्रायमेतदुक्तम् । न ह्यनयोरन्यतरद् बाध्यं बाधकं वा सम्भवति, किं तु मिथः सत्प्रतिपक्षतया न प्रमां कुरुतः । कस्मात् पुनर्न समावेशोऽनुमानयोः ? असमावेशे वा कुतः सत्प्रतिपक्षतेत्यत आह—“न ह्यन्वयव्यतिरेकसम्पन्ने”215 इति । इहान्वयव्यतिरेकग्रहणेन समानबलयोरन्वयव्यतिरेकपक्षधर्मत्वासत्प्रतिपक्षत्वान्युपलक्षितानि । एतैः सम्पन्नयोर्यदि समावेश एकस्मिन् विषये भवेत् तत एकतरस्य बाध्यत्वं बाधकत्वं वा गम्येतापि । न त्वेतदस्ति, असत्प्रतिपक्षतासम्पत्तेरभावादिति । उपसंहरति—“तस्मान्नानुमानविरुद्धम्” अनुमानं तुल्यबलम्, अपि तु सत्प्रतिपक्षमित्यर्थः । प्रत्यक्षमप्युनमेयविरुद्धसाधनादनुमानस्य प्रतिपक्ष इति सत्प्रतिपक्षतयान्वयव्यतिरेकादिसम्पन्नस्यानुमानस्य न प्रत्यक्षेण तद्विरुद्धार्थोपसंहारिणा समावेश इति न बाध्यबाधकभाव इत्यमिप्रायेण चोदयति—“प्रत्यक्षविरोध्यपीति ।” परिहरति—“न नेति ।” तुल्यबलौ हि मिथः प्रतिपक्षौ भवतः न तु दुर्बलोत्तमबलौ । न हि भवति तरक्षुः प्रतिपक्षो हरिणशावकस्य, किं तु समरकण्डूनिघ्नविषाणकोटिसमुल्लिखितगण्डशैलस्य विपिनमहिषस्य । तस्मात् पूर्वभावि प्रत्यक्षमनन्यथासिद्धं सदसत्प्रतिपक्षमनुमानं समानविषयसमावेशाद् बाधत इति युक्तमित्यर्थः ।
चोदयति—“अथोपमानविरुद्धमनुमानं कस्मान्न भवति ?” गोसदृशो गवय इत्यारण्यकस्य वाक्यं श्रुत्वा यदा नागरको वनं गतो गोसदृशं पिण्डमुपलभते, तदास्य वाक्यार्थानुभवाहितसंस्कारप्रबोधजनितस्मृत्यपेक्षं216 गोसादृश्यज्ञानमुपमानं पुरोऽवस्थितस्य पिण्डस्य गवयशब्दवाच्यत्वज्ञाने217 प्रमाणम् । तत्र यदि कश्चित् प्रमाणयेत् नैष पिण्डो गवयशब्दवाच्यो गोपिण्डसादृश्याद् गोपिण्डान्तरवदिति, तदिदमनुमानमुपमानेन बाधितविषयमस्त्वित्यर्थः । सम्प्रतिपत्तिरुत्तरम्—“नोपमानविरुद्धं”218 न भवतीत्यनुषज्यते । अस्ति चेत् कस्मान्नोक्तमित्यत आह—पूर्वप्रमाणविरोधानुविधानान्नोक्तमिति शेषः । तद् दर्शयति—“उपमानविरोध” इति । स्वफलद्वारा शाब्दं प्रमाणं दर्शयति—“आगमेति ।” स्वफलद्वारैव प्रत्यक्षं प्रमाणं दर्शयति— सारूप्यज्ञानमिति । उपसंहरति—“प्रत्यक्षागमयोर्विरोधात्” विरोधाभिधानाद्219 “उक्तं तद्” उपमानविरुद्धमनुमानमिति ॥
भाष्यमनुभाष्याक्षिपति—“तत्र वादजल्पाविति ।” प्रयोजनस्वरूपोपयोगाभिधानानन्तरं दृष्टान्तपदे व्याख्यातव्ये तदुल्लङ्घनेन वादजल्पयोः कोऽवसर इत्यर्थः । अवसरमाह—“तेनानेनेति ।” प्रयोजनव्याख्यानाङ्गमेवेदं न वादजल्पव्याख्याङ्गमित्यस्त्यवसर इति भावः । “तत्र”शब्दार्थं व्याचष्टे—“तस्मिन्न्यायाभासे” इति । वादजल्पकथयोर्हि न द्वयोर्वादिप्रतिवादिनोः साधने समीचीने सम्भवतः, वस्तुनि विरुद्धधर्मद्वयसमावेशाभावात् । तस्माद् द्वयोरेकस्य न्याय एकस्य तु न्यायाभास इति वादजल्पाभ्यां विविच्यते । न्यायाभास इति तु सन्निधानादुक्तम्, सन्निहितार्थत्वात् सर्वनाम्न इति । “वितण्डा तु परीक्ष्यते । सप्रयोजना निष्प्रयोजना वेति । तु”शब्दः प्रसिद्धप्रयोजनाभ्यां वादजल्पाभ्यां व्यवच्छिनत्ति । प्रतिपक्षस्थापनाहीना हि वितण्डोच्यते । तत्र स्थापनाहीनत्वात् प्रतिपक्षहीनेति प्रतीयते । न220 खलु स्थापनाभावे स्थाप्यसम्भवः । तथा वितण्ड्यते व्याहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्त्या परपक्षोपघातेन पारिशेष्यात् स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते । तदेवं सन्दिग्धप्रयोजना सती वितण्डा परीक्ष्यते, प्रयोजनवती न वेति । तत्र यदि निष्प्रयोजना ततो न सर्वा विद्याः, सर्वाणि कर्माणि, तन्मुखेन च सर्वे प्राणिनः प्रयोजनेन व्याप्ताः, वितण्डाया एव कर्मरूपाया विद्यारूपाया निष्प्रयोजनत्वात् । अथ प्रयोजनवती, तत उपपन्ना प्रयोजनव्याप्तिः । किं तावत् प्राप्तम् ? तत्र केचिद् ब्रुवते निष्प्रयोजना वितण्डेति । स्थापनाहीनतया तावत् स्थाप्यः पक्षो नास्ति । अवयवव्युत्पत्त्यापि परसाधनाविघातः प्रतीयते । न च तावन्मात्रेण221 स्वपक्षसिद्धिरस्ति । न हि पर्वतनितम्बवर्तिनि धूमे असिद्धत्वादिना दूषिते वह्नेस्तत्राभावो निश्चीयते । तदिदमुक्तम्—“दूषणमात्रत्वादिति ।” तमिमं निष्प्रयोजनवितण्डावादिनं प्रत्याह—“तच्च नैवमिति ।” परसाधनदूषणेनास्य पारिशेष्यात् स्वपक्षः222 सिध्यतु मा वा सैत्सीत् । स तु स्वपक्षसिद्ध्यैव प्रयोजनेन प्रतिपक्षसाधनमाहन्तीति भावः । तदनेन “स यदि प्रयोजनमनुयुक्त”-इत्यादि “भाष्यं” व्याख्यातम् । “अथ न प्रतिपद्यत” इत्यादि भाष्यं व्याचष्टे-“अथ पक्षमपीति ।” अथापीत्यादि “भाष्यं” व्याचष्टे“अथ परपक्षेति” नास्तिको हि सदसदुभयानुभयरूपतया न विचारं सहन्त223 इति प्रमेयाणि सर्वथा दूषयति । तदयं परपक्षप्रतिषेधमात्रप्रयुक्तः प्रवर्तते । न त्वस्यास्ति पक्षो न च स्थापना224 । तयोरपि प्रमेयपक्षपातितया दूष्यत्वादित्यर्थः225 । “एतदपीत्यादि” भाष्यं व्याचष्टे—“तादृगेवैतत् ।” एतद्विभजते—“एतस्मिन्नपि” पक्षे “चतुर्वर्गं चेत् प्रतिपद्यते सोऽस्य पक्षः ।” प्रतिपत्तिरभ्युपगमः । यद्यपि स्थाप्य एव पक्षः, तथापि तन्नान्तरीयकतया अभ्युपगममात्रेण चतुर्वर्गोऽपि पक्ष उक्तः । कश्चतुर्वर्ग इत्यत आह—चतुर्वर्ग इति । एष साधनवादी ज्ञापयति—अहं वैतण्डिको जाने अनेन पञ्चावयवेन साधनवाक्येनेदं226 साध्यं ज्ञाप्यत इति चतुर्वर्गः । तत्प्रतीत्या खल्वस्य वैतण्डिकस्य परपक्षनिषेधः प्रयोजनं सिध्यति । तथा च न निष्प्रयोजनोऽयं वैतण्डिक इत्यर्थः । द्वितीयं कल्पं दूषयति—“अथ न प्रतिपद्यत” इति । चतुर्वर्गनान्तरीयकत्वाद् दूषणमपि न प्रतिपद्यते227 इत्युन्मत्तवदुपेक्षणीय इत्यर्थः । अपरमपि नास्तिक वैतण्डिकं प्रति दोषमाह—“प्रतिपक्षेति ।” असिद्धविरुद्धादिदोषो वाक्यस्य वैतण्डिक प्रयुक्तस्यार्थः । तं यदि प्रतिपद्यते सोऽस्य पक्षः । अथासिद्धविरुद्धादीनां सद्भावाभ्युपगमेप्रमेयमध्यपातिनां228 प्रमेयमात्रविचारासहत्वाभ्युपगमो विघटत इति स्ववाक्याभिहितमेवासिद्धविरुद्धादि न प्रतिपद्यते, पूर्ववद्दोषः । नायं लौकिको न परीक्षक इति । तस्माद् वितण्डापि प्रयोजनवतीति नाव्यापकं प्रयोजनमिति सिद्धम् । सोऽयं प्रसक्तानुप्रसक्तिवादः प्रयोजनव्याख्याङ्गमित्याह—“उक्तं प्रयोजनमिति ।”
दृष्टान्तपदव्याख्यानपरं “भाष्य”मनुभाषते—“प्रत्यक्षविषय” इति । आक्षिपति“किमुक्तं भवतीति ।” न तावद् यो यः प्रत्यक्षविषयः, स सर्वो दृष्टान्तः, अदृष्टान्तस्यापि प्रत्यक्षविषयत्वात् । नापि यो दृष्टान्तः स सर्वः प्रत्यक्षविषयः, आगमादिविषयस्यापि दृष्टान्तत्वात् । तस्मादयुक्तमेतदित्याक्षेप इति । तत्समाधानभाष्यम्—“यत्रेति ।” तद्व्याचष्टे—“लौकिकपरीक्षकाणं दर्शनविघातहेतुरिति ।” एतच्च क्वचिल्लौकिकपरीक्षाकाणाम् क्वचित्229 परीक्षकाणामिति मन्तव्यम् । अन्यथा यदप्रसिद्धं लौकिकानां केवलं पण्डितरूपवेदनीयं परमाण्वादि तस्यादृष्टान्तता स्यात् । अत्र च यो दृष्टान्तः स एवम्, न तु य एवं स दृष्टान्त इति द्रष्टव्यम् । एवम्भूतव्याख्यानस्य प्रयोजनं दर्शयति—“एवं चेति ।” तद् विभजते—“दर्शनाविघातेति ।” न केवलं प्रमेयविरोधः सूत्रविरोधश्चेत्यत आह-ततश्चोदाहरणसूत्रं व्याहन्यते । यत् तेषु तेषु शास्त्रप्रदेशेष्वतीन्द्रियोदाहणसूत्रं सिद्धान्ते पूर्वपक्षे वा यथा, मन्त्रायुर्वेदप्रामारण्यवत् [२.१.६८] अणुश्यामतानित्यत्ववत् [३.२.७१] इत्येवमादि, तद् व्याहन्यते । न तूदाहरणलक्षणसूत्रम् । तद्धि प्रत्यक्षविषयदृष्टान्तत्वेऽप्युपपद्यत एव । तस्माद् भाष्ये प्रत्यक्षवचनं दृष्टान्तविषयप्रमाणदार्ढ्यं लक्षयति । प्रत्यक्षमूलत्वाद् वा प्रत्यक्षो दृष्टान्तः, अन्यथानवस्थाप्रसङ्गादिति230 । सोऽयं दृष्टान्तः प्रमेयेऽन्तर्भवन्नेवमर्थं पृथगुक्त इत्याह—“सोऽयमिति ।” न्यायस्य पञ्चावयवात्मकस्य वचनसमूहस्य दृष्टान्तो मूलम्, अतस्तस्य पृथगुपदेशः । अतश्चास्य पृथगुपदेशो यत्—“सति तस्मिन्निति ।” अनुमाननिमित्तत्वमाह—“पूर्वं प्रत्यक्षेति ।” दृष्टान्तधर्मिणि दृढतरप्रमाणावधारितमित्यर्थः । शाब्दमूलतां दृष्टान्तस्य दर्शयति—“पूर्वं ज्ञातं चार्थमिति ।” सम्बन्धग्रहणविषयोऽर्थो दृष्टान्तः, सम्बन्धग्रहणं231 च शाब्दस्यापि ज्ञानस्य निमित्तं प्रथमश्राविणः शब्दादर्थज्ञानाभावात्232 । तस्मादस्ति शाब्देऽपि दृष्टान्तस्योपयोग इति । अपरमपि पृथगुपादानप्रयोजनमाह—“नास्तिकस्येति ।” अप्रपञ्चने हेतुमाह—“तदुक्तं भाष्य” इति ॥
सिद्धान्तपदविवरणभाष्यं व्याचष्टे—“अभ्युपगमेति ।” तद्विभजते—“अभ्युपगम इदमित्थम्भूतं चेति ।” तद्विभजते—“इदमितीति ।” इदमिति हि धर्मिविषयं सिद्धान्तं दर्शयति, धर्मी सर्वतन्त्रसिद्धान्तविषयः । इत्थमिति प्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तविषयं दर्शयति । व्यवस्थायामुपलक्षणतया प्रतितन्त्रसिद्धान्तमात्रमुदाहरति—“इदं साङ्ख्येष्वेवेति ।” उपलक्षणतामुदाहरणस्याजानानश्चोदयति—“सर्वतन्त्रेति ।” परिहरति—“योऽयमिति ।” अभ्युपगमव्यवस्थितिरनभ्युपगमाद् व्यवच्छिनत्ति । न तु पुरुषविशेषे व्यवस्थापयतीति भावः233 । अस्यापि प्रमेयान्तर्गतस्यापि सतः पृथगुपादानप्रयोजनमाह—“तस्य प्रमेय” इति । तत्र सर्वतन्त्रसिद्धान्तसिद्धस्तावद् विप्रतिपन्नानामपि वादिनां धर्मी, तस्य सर्वतन्त्रसिद्धान्तसिद्धस्य विशेषेषु प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते । तथा हि यदि घटो नाम न सर्वतन्त्रसिद्धान्तसिद्धः, किमाश्रया अवयवी वा परमाणुसमूहो वा ज्ञानाकारो वा प्रधानपरिणामो वा ब्रह्मपरिणामो वा तद्विवर्तो वेति प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते ? कथं च प्रतितन्त्रसिद्धान्ताश्रया वादजल्पवितण्डाः प्रवर्तन्ते ? किमाश्रयश्च न्यायः स्यात् ? तथा यद्यधिकरणसिद्धान्तो न भवेत्, कथं साध्यसामान्यव्याप्तं साधनसामान्यमिति साधनविशेषात् साध्यविशेषो गम्येत ? तस्मादस्ति प्रमेयस्यापि सिद्धान्तस्य पृथगुपादानप्रयोजनम् । अभ्युपगमसिद्धान्तं चोपरिष्टाद् विचारयिष्यति वार्त्तिककृदिति तत्प्रयोजनमिहास्माभिर्नोक्तमिति ॥
क्रमप्राप्तानवयवानाह—“अथावयवाः ।” ननु यथा तन्तवः पटस्य समवायिकारणं किं तथैवैते प्रतिज्ञादयो वाक्यस्य ? नो खलु गगनगुणा वर्णाः समवायिकारणतां प्रतिपद्यन्त इत्याह—“वाक्यैकदेशा” इति । अवयवा इवावयवाः, न पुनः समवायिकारणम् । यथा ह्यवयवाः समुदायिन एकस्मिन्नवयविनि कार्ये धारयितव्ये च, एवमेकस्मिन् विवक्षितार्थप्रतिपादने234 प्रतिज्ञादयोऽवयवा वाक्यस्य समुदायस्य समुदायिन इति । ननु वर्णानामाशुतरविनाशिनां क्रमवतामेककालत्वाभावे समुदायाभावात् कुतस्तत्समुदायो वाक्यम्, कुतश्चैकदेशतेत्याशयवानाक्षिपति—“किं पुनर्वाक्यम् ?” उत्तरम्—“पूर्वपदस्मृत्यपेक्षोऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् ।” विशिष्यत इति विशेषः पदार्थ एकः, क्रिया वा कारकं वा प्रातिपदिकार्थो वा पदार्थान्तरविशिष्टो वाक्यार्थः । यथा सोमेन, यजेत गोदोहनेन पशुकामस्य, यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति । तस्य विशेषस्यैकस्य प्रतिपत्तिहेतुः । तदेवं235 समूहनिबन्धनं पदानामेककार्यत्वं सूचयति । को विशेषप्रतिपत्तिहेतुरित्यत उक्तम्—“अन्त्यपदप्रत्ययः ।” अन्त्यं विशेष्यं विशेषणपूर्वकत्वात् । तस्य पदम् । न च तदविदितं सत्तामात्रेण चक्षुरादिवद् विशेष्यं प्रतिपादयतीत्यत उक्तम्—“प्रत्यय” इति । प्रतीयमानं विशेष्यवाचि पदं विशेष्यं बोधयति । प्रतीतिश्च नानुभवः, अपि तु स्मृतिः । न हि क्रमवद्वर्णसमुदायः पदं236 श्रवणेन्द्रियानुभवगोचरः सम्भवति, सम्भवन्ति तु प्रत्येकं वर्णाः । न चैते प्रत्येकं पदम् । न च पूर्ववर्णस्मृतिनिचयसहितोऽन्त्यवर्णानुभवः श्रोत्रज इति युक्तम्, स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात् । विनश्यदविनश्यदवस्थयोस्तूपान्त्यान्त्यवर्णस्मृत्यनुभवयोः स्यात् । न चैतावतार्थप्रत्ययः पूर्ववर्णस्मृतीनां तिरोभावात् । न च पूर्ववर्णानुभवजनितसंस्कारसहकारिणः237 श्रवणादेव लब्धजन्मनः प्रत्ययस्यैकस्याध्यस्ततत्स्मृत्यनुभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्ना वर्णा अर्थधियमादधतीति साम्प्रतम्, सम्बन्धसंवेदनाहितसंस्कारोद्बोधसमयजन्मना स्वजनितेन238 संस्कारेण सम्बन्धस्मृत्युत्पत्तिसमये विनाशात् पदार्थावबोधकत्वानुपपत्तेः । तस्मात् स्मृतिरेव प्रत्ययः । अत+एवाध्ययनसमये गुरुमुखाद् गृहीतो वेदराशिर्वेदाङ्गोपाङ्गज्ञानसंस्कृतेन स्मर्यमाण एव तस्यार्थं बोधयति । एवं च यदा पदार्थप्रत्यायन एव पदानुभवो न कारणम्, तदा वाक्यार्थज्ञाने नानापदार्थस्मरणाकाङ्क्षायोग्यतासन्निधानावधारणादिव्यवहिते कैव कथेति । यदि तर्हि विशेष्यपदमेव स्मर्यमाणं विशिष्टमर्थमवगमयति कृतं पदान्तरैः, तत एव वाक्यार्थप्रतिपत्तेरित्यत उक्तम्—“पूर्वपदस्मृत्यपेक्षः ।” पूर्वं विशेषणं तत्पूर्वकत्वाद् विशेष्यप्रतीतेः । तस्य पदं स्मर्यमाणपूर्वपदापेक्षः । यद्यपि स्मरणानि न सह सम्भवन्ति तथाप्येकस्मृतिसमारूढानि वा पदानि निरन्तरस्मृतिसन्तानसमारूढानि वा परस्परापेक्षाणि । तथा च स्मर्यमाणं विशेष्यपदं विशेषणपदापेक्षं विशिष्टमर्थमवगमयतीति ।
स्यादेतत् । पदमाला चेत् स्मर्यमाणा वाक्यार्थबोधनी, कृतं तर्हि पदार्थबोधनेन239 कृतं च पदतदर्थसम्बन्धबोधनेनेत्यत240 उक्तम्—“स्मृत्यनुग्रहेणेति ।” प्रत्येकं पदेभ्यो याः पदार्थस्मृतयस्तदनुग्रहेण । एतदुक्तं भवति यद्यपि वाक्यार्थबोधनाय पदमाला प्रवृत्ता, तथापि पदार्थस्मृतिरवान्तरव्यापारभूता अपेक्षते काष्ठानीव पाकप्रवृत्तानि ज्वलनमवान्तरव्यापारम् । न च पदान्यगृहीतसङ्केतानि पदार्थान् स्मारयन्तीति उपपन्ना पदार्थस्मृतिसम्बन्धसंवेदनयोरपेक्षेति । यदि हि पदार्थस्मृत्यपेक्षा पदमाला वाक्यार्थबोधनी, हन्त दश दाडिमानि षडपूपा भवन्तीत्येवमादीनामपि वाक्यार्थबोधकत्वं स्यादित्यत आह—“प्रतिसन्धीयमानः ।” प्रतिपदं सन्धानं घटनं प्रतिसन्धानम् । तच्च स्वार्थद्वारेणाकाङ्क्षायोग्यतासत्त्यधीनम्241 । न च दशदाडिमादिवाक्यादिषु तदस्तीति न ततो वाक्यार्थावबोध इत्यर्थः । तदेवमेकस्मृतिसमारोहेण एकार्थावच्छेदेन च पदानां242 समूहो वाक्यम् । “तस्य भागा एकदेशा” इति । “यावतीत्यादि” भाष्यमवतारयति—“ते कियन्तः ?” भाष्यव्याख्यानेनोत्तरम्—“यावद्भिरिति ।” पृच्छति—“केति ।” न हि समाप्तेर्निष्पत्तेरन्या सिद्धिरस्तीत्यभिप्रायः । उत्तरम्—“पदार्थस्येति ।” धर्मिणः सिषाधयिषितधर्मविशिष्टत्वं वास्तवमित्यर्थः । समाप्तिं243 पृच्छति—“केति ।” उत्तरम्— “विशेषेति ।” वास्तवो धर्मः सिद्धिः, तद्गोचरस्तु विनिश्चयः पुरुषधर्मो निष्पत्तिरिति विशेष इत्यर्थः । कियद्भिः किमभिधानैश्च विभागैः सिद्धिः परिसमाप्यत इत्याशङ्क्य भाष्यकृतोक्तम्—“तस्य पञ्चेति ।” तद् व्याचष्टे—“समाख्येति ।” भाष्यमनुभाष्याक्षिपति—“तत्रागम इति ।” न ह्यागमवत् प्रतिज्ञावचनं निश्चायकम्, हेतुवचनादिवैयर्थ्यात् । निष्पादितक्रिये कर्मणि साधनस्य साधनन्यायातिपातादिति । समाधत्ते—“आगमाधिगतस्येति ।” आत्मादिप्रमेयप्रतिपादनोद्देशेन हि शास्त्रमेतत् प्रवृत्तम् । तन्नान्तरीयकतया न्यायं व्युत्पादयत् तमेव व्युत्पादयेत्, य आत्मादेः प्रमेयस्य साक्षान्निश्चायकः, तत्प्रतिपादकागमप्रामाण्यनिश्चायको वा । तस्य च न्यायविशेषस्याद्योऽवयवः प्रतिज्ञा, आगमार्थविषया साक्षात्, तद्विषयागमप्रामाण्यप्रतिपादकस्य च परम्परया । तस्मात् “आगमः” प्रतिज्ञा । आगमोपचारस्य च प्रयोजनमिदं यदर्थसंवादेनागमेनानुगृह्यते244 न्यायः सप्रयोजनश्च भवति, आगमार्थज्ञानस्य निःश्रेयसहेतुभावेन निरूढत्वात् । तस्माद् यद्यपि न न्यायमात्रवर्तिनी प्रतिज्ञा आगमः, तथापि प्रकृतन्यायाभिप्रायेणैतद् द्रष्टव्यम् । तथा चागमार्थसम्बन्धेन245 प्रतिज्ञायाः कल्पितविषयत्वमपि पराकृतं वेदितव्यम् । यदाहुरेके—सर्वोऽयमनुमानानुमेयव्यवहारो बुद्ध्यारूढेनैव धर्मधर्मिभावेन246 न बहिःसदसत्त्वमपेक्षत इति ।
तथानुमानस्य न्यायानुग्राहकत्वं हेतुवचनस्यानुमानत्वोपचारेण भाष्यकारेणोक्तम्—“हेतुरनुमानमिति ।” तत् खल्वनुमानप्रतिपादकं247 वचनं विषयतयानुमानेनानुग्रहीतव्यम् । न च लिङ्गदर्शनमात्रमनुमेयप्रतिपत्तिहेतुः,248 अपि तु सम्बन्धस्मृतिसहकारि । न च हेतुवचनमात्रात् सहकारितावगम्यते । तस्मान्न लिङ्गवचनमनुमानप्रतिपादकमिति कथमनुमानत्वोपचार इत्यह आह—“एवं लिङ्गदर्शनमात्रे” दृश्यमाने लिङ्गरूपे सम्बन्धस्मरणरहिते “हेतूपचारात्” अनुमानत्वोपचारात् हेतुरनुमानमित्युक्तं भाष्यकृता । तदेव विभज्यते—“यत्तु द्वितीयं लिङ्गदर्शनम् ।” सम्बन्धग्रहणसमये लिङ्गदर्शनं प्रथमम्, तदपेक्षया साध्यधर्मिणि लिङ्गदर्शनं द्वितीयम्, “तत्सम्बन्धस्मृतिव्यक्तिहेतुभावात् ।” स्मर्यतेऽनयेति स्मृतिः संस्कारः । तस्य व्यक्तिः कार्याभिमुखीकरणम्, तत्र हेतुभावात् । क्वचित् पाठः—सम्बन्धस्मृतिहेतुव्यक्तिहेतुभावादिति । स तु सुगम एव । अतो हेतुरित्युच्यते249 । एतदुक्तं भवति, यत् तद्250 द्वितीयं लिङ्गदर्शनं शुद्धमप्यापाततः सम्बन्धस्मृतिहेतुभावात् सम्बन्धस्मृतिसहकार्येव । तथा चानुमानम् । एवं च तत्प्रतिपादकस्य वचस उपपन्नोऽनुमानत्वोपचार इति सिद्धम् । एवं च वास्तवेन लिङ्गेन सम्बन्धात् तद्वचनस्य बुद्धिविकल्पितलिङ्गविषयत्वं परास्तं वेदितव्यम् । एवमन्येष्वप्यवयवेषु वक्ष्यमाणेष्वेतदेव प्रयोजनं योजनीयमिति । “उदाहणं प्रत्यक्षमिति” भाष्यम् । तद्व्याचष्टे—“स्मृतिविषयस्येति ।” यत्र प्रत्यक्षे विषये पूर्वं व्याप्तिर्गृहीता तस्य स्मृतिरिति स्मृतिविषयस्य प्रत्यक्षतः पुनरुपदर्शनात् अविप्रतिपत्त्या पुनः स्मरणात् । तत्स्मारकं वचनमुदाहणं प्रत्यक्षम्, मूलभूतप्रत्यक्षप्रमाणसमुत्थत्वादिति । “कःपुनरुपमानार्थ”251 इति । प्रत्यक्षमिव प्रत्यक्षमित्यत्रेवकारे तत्रोपमार्थः क इत्यर्थः । एतदेव विभजते—“यस्मादिति । उपमानमुपनय” इति भाष्यम् । तद् व्याचष्टे—“यथा तथेत्युपमानैकदेश” इति । उपनयो हि तथा चैतदिति प्रवर्तमान उदाहरणस्थं यथाशब्दार्थमपेक्षत इति यथा तथेति प्रवर्तत इति । किं पुनरुपमानं यस्यायमेकदेश इत्यत आह—“उपमानं खलु यथा गौस्तथा गवय इत्युपदेशोपयोगे ।” उपयोगस्तदर्थविषयोऽनुभवः । तस्मिन् सति पश्चाद् वनं गतो नागरकः प्रत्यक्षेणादृष्टपूर्वं पिण्डं पश्यति । स्मरति चोपदेशार्थम् । पिण्डस्य च पुरोवर्तिनः स्मर्यमाणेन गवा सादृश्यं प्रत्यक्षेणैव पश्यति । तदेवम्भूतं सारूप्यज्ञानं गवयशब्दवाच्योऽयं पिण्ड इति प्रतीतिहेतुरुपमानम् । तदेतस्योपमानस्योपदेशार्थस्मरणगवयपिण्डगोसारूप्याप्रत्यक्षरूपस्यैकदेशे सारूप्ये यो यथातथाभावः स उपनयेऽप्यस्तीत्येतावतोपमानत्वोपचार उपनय इत्यर्थः । सोऽयं सर्वप्रमाणविनिवेशेन परमो न्यायः स्तूयते । निगमनव्याख्यान भाष्यमनुभाष्याक्षिपति—“कःपुनरिति ।” न खल्ववयवानां प्रमाणानां वा वाक्ये समवायः सम्बन्धः सम्भवतीति भावः । उत्तरम्—“एकवाक्येति ।” अध्यारोपो बुद्ध्या प्रतिसन्धानम् । सामर्थ्यं पृच्छति—“किं पुनरिति ।” उत्तरम्—“इतरेतरेति ।” सामर्थ्यं हि पदार्थानां धर्मः । इह तु विभज्यमानानामवयवानां तन्मूलानां च प्रमाणानां साकाङ्क्षत्वमेव धर्मः सामर्थ्यम् । तदत्र समस्तरूपसम्पन्नलिङ्गप्रतिपादनमेकं प्रयोजनं विभज्यमानसाकाङ्क्षत्वं चास्तीति252 सिद्धमेकवाक्यत्वमवयवानामिति निगमनपदं व्युत्पादयति—“निगम्यन्त” इति । “सोऽयमिति” भाष्यमनुभाष्य पृच्छति—“कः पुनः परमशब्दस्यार्थ” इति । उत्तरम्—विप्रतिपन्नपुरुषप्रतिपादकत्वं पञ्चावयववाक्यस्य253 परमत्वमिति । एतदेव व्यतिरेकमुखेन प्रतिपादयति—“एकैकश”254 इति । यद्यपि लोके प्रत्यक्षादीनामेकैकशोऽपि255 विप्रतिपन्नपुरुषप्रतिपादकत्वं तत्र तत्रोपलभ्यते, तथापि यदेतद् वेदप्रामाण्यमात्मादिप्रतिपादनं च निःश्रेयसोपयोगि, न तत् पञ्चावयववाक्यादेतच्छास्त्रोपदिष्टोपकरणाद् विना सिध्यतीत्यनेनाभिप्रायेण द्रष्टव्यम् । अवयवानां पृथगभिधानमाक्षेप्तुं विकल्पयति—“किं पुनरवयवा” इति । विकल्पप्रयोजनं पृच्छति—“किं चातः ?” उत्तरम्—“यदि प्रमाणान्तरमिति ।” समाधत्ते—“न256 प्रमाणान्तरमिति ।” प्रयोजनान्तरमाह—“त एत” इति । यत एव वादादिप्रवृत्तिहेतवोऽत एव “तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति ।” पृच्छति—“क”257 इति । न हि कुण्डमिव वदराणि तत्त्वव्यवस्थावयवानाश्रयतीत्यर्थः । उत्तरम्—विशेषप्रतिपादकत्वम् । धर्मिविशिष्टो धर्मो258 विशेषः । विशिष्यत इति व्युत्पत्त्या तत्प्रतिपादकत्वमवयवानां तत्त्वव्यवस्थाश्रयत्वमित्यर्थः ।
क्रमप्राप्ततर्कपदव्याख्यानार्थं भाष्यमनुभाषते—“तर्को न प्रमाणसङ्गृहीतः ।” प्रमाणपदेन हि चत्वारि प्रमाणानि सङ्गृहीतानि । न चैतेष्वन्यतमस्तर्क इत्यर्थः । अस्तु तर्हि प्रमाणपदसङ्गृहीतेभ्यः प्रमाणेभ्यः प्रमाणान्तरमसङ्गृहीतं प्रमाणपदेन प्रमेयपदेन वा259 सङ्गृहीताः संशयादयः प्रमेया इत्यत आह—“न प्रमाणान्तरम् ।” भाष्यमनुभाष्य हेतुमाह—“अपरिच्छेदकत्वात्” अनिश्चायकत्वात् । तदेव व्यतिरेकमुखेन दर्शयति—“प्रमाणमिति260 ।” स्यादेतत् । अपरिच्छेदकत्वमसिद्धं तर्कज्ञानस्य संशया दिवद् गुणत्वेनात्मलिङ्गत्वात् । अन्यथा त्वकिञ्चित्करत्वादुपादानवैयर्थ्यमित्यत आह—“प्रमाणविषयविभागात् त्विति ।” न हि वयं गुणत्वेनोत्पत्तिमत्त्वेन वा रूपेणानिश्चायकत्वं तर्कस्याचक्ष्महे, किं तु प्रमाणविषयविभागहेतुतया । न चैवमस्याकिञ्चित्करत्वमित्यर्थः । पृच्छति—“कः पुनरिति ।” उत्तरम्—“युक्तायुक्तेति । इदं युक्तमिदमयुक्तमिति ।” इतिकारेण युक्तायुक्तविषयं तर्कज्ञानं परामृशति । तदनेन तर्कस्य स्वरूपं दर्शितम् । तस्य व्यापारमाह—यत् तत्र युक्तं भवति सम्भवति तदनुजानाति, न त्ववधारयति तर्कः । एतदुक्तं भवति प्रमाणं तत्त्वावधारणाय प्रवृत्तं261 करणतया इतिकर्तव्यतामपेक्षते । तर्कश्च प्रमाणविषययुक्तायुक्तविचारात्मा प्रमाणं युक्ते तत्त्वे प्रवर्तमानमनुजानन् प्रमाणमनुगृह्णाति । तदनुगृहीतं प्रमाणं तत्त्वनिर्णयाय पर्याप्तम्262 । न च प्रमाणविषये चेत् तर्कः प्रवर्तते कृतमस्य प्रमाणानुज्ञया, नन्वयमेव निश्चायकः कस्मान्न भवतीति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयमसाधनत्वात् । अस्ति हि प्रसङ्गो न प्रसङ्गो हेतुः । तथा हि प्रत्यक्षमेव तावद् भूतले प्रवर्तमानं तद्विशेषणतया घटाभावेऽपि प्रवर्तमानं यद्यत्राभविष्यद् घटो भूतलमिवाद्रक्ष्यत, तेन सह तुल्यदर्शनयोग्यत्वात् । न च दृश्यते । तस्मान्नास्तीति तर्केणानुज्ञायमानं263 घटाभावविशिष्टे भूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति । एवं स्वर्गकामो यजेत इति शब्दोऽपि प्रवर्तमानः परमाप्तस्य भगवत ईश्वरस्य नियोगो नास्वर्गफलायां यागभावनायामवकल्पत इति समानपदेनोपात्तोऽपि दुःखतया धात्वर्थः साध्य इति न युक्तम्264 । भिन्नपदोपात्तोऽपि पुरुषविशेषणमपि स्वर्ग एव भावनाफलं युक्त इति तर्केणानुज्ञायमानः प्रवर्तते । न च यद्यभविष्यद्घट इति वा यद्यभविष्यद् धात्वर्थः साध्य इति वा क्रियातिपत्तिरस्ति, यदाश्रयानिष्टप्रसङ्गेनायुक्तत्वमितरथा तु युक्तत्वम्, तत् तर्केण निश्चीयते । तस्मान्न प्रमाणम् । निश्चयाय तु प्रवृत्तं265 प्रमाणं त द्विषयविवेचनेनानुगृह्णन्नितिकर्तव्यतात्वेनोपयुज्यते । यथोक्तम्—
मीमांसासञ्ज्ञकस्तर्कः सर्ववेदसमुद्भवः ।
सोऽतो वेदो रुमाप्राप्तकाष्ठादिलवणात्मवत् ॥
पूजितविचारवचनो हि मीमांसाशब्दः । अयुक्तप्रतिषेधेन युक्ताभ्यनुज्ञानं तर्कः266 । प्रमाणेतिकर्तव्यतात्वेन च प्रमाणाद् वेदादभेद267 उक्तः । सोऽतो वेद इत्यङ्गाङ्गिनोरभेदविवक्षया इतिकर्तव्यतात्वं चास्य साक्षाद् दर्शितम् ।
धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥
इति सर्वमवदाम् । “तस्योदाहारणं भाष्ये कर्मेति ।” कर्मकारणकमपूर्वं धर्माधर्माविति यावत्, कार्ये कारणत्वोपचारात् । एतदुपपादनाय पृच्छति—“कथं पुनरिति ।” निकायविशिष्टाभिरपूर्वाभिः268 शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म, तस्य कथं कर्मनिमित्ततेत्यर्थः । अत्र प्रमाणमनुमानमाह—“भेदवत्त्वात्,” विचित्रत्वादित्यर्थः । पृच्छति—“कःपुनरिति ।” भेदमाह—“सुगतिरिति ।” प्रमाणमुक्त्वा तस्येतिकर्तव्यताभूतं तर्कमवतारयति—“सोऽयं भेद” इति । यद्येकं निमित्तं स्याद् वैवित्र्यं न भवेत् । न ह्यभिन्नात् कारणात् कार्यवैचित्र्यमुपपद्यते, तस्याकस्मिकत्वप्रसङ्गात् । अत उक्तम्—“अनेकमिति ।” नन्वनेकं यागादिब्रह्महत्यादिक्रियारूपं कारणमस्तु कृतमपूर्वैरित्यत उक्तम्—“अवस्थितम् ।” यागादिका तु किया आशुतरविनाशिनी न चिरभाविने स्वर्गाय कल्पत इत्यर्थः । अवस्थितं चेद् यागाद्याहितमपूर्वं धर्मोऽस्तीति सदैव सुखिना भवितव्यम् । एवमधर्मोऽस्तीति सदैव दुःखी स्यादिति269 सुखदुःखयोः कादाचित्कत्वं व्याहन्येत । न ह्यवस्थितात् कारणादनवस्थितं कार्यमित्यत उक्तम्—“अनित्यम् ।” न270 ह्यवस्थानं नित्यतां ब्रूमः, किं तु तावदनेन स्थातव्यं271 न यावदन्त्यसुखदुःखसंविज्ञानं जनयति, अथ नश्यतीति । ननु भिन्नानि सन्त्वपूर्वाणि, तथापि सर्वाणि सर्वात्मसमवेतानि,272 यथावयवी स्वावयवेषु । तथा च सर्वसाधारण्यान्नोक्तवैचित्र्योत्पाद इत्यत उक्तम्—“एकद्रव्यम् ।” एकद्रव्यं चेदस्तु तर्हि सर्वसाधारणे पृथिव्यादौ यत्र क्वचित् । तथापि वैचित्र्यानुपपत्तिरित्यत उक्तम्—“प्रत्यात्मनियतम् ।” अथ पृथिव्याद्येव कारणं जन्मवैचित्र्ये कस्मान्न भवतीत्याशयवान् पृच्छति—किं कारणमिति कस्मात् कारणादित्यर्थः । उत्तरम्—“पृथिव्यादीनामिति ।” मा273 भूत् पृथिव्यादि, पृथिव्यादिगतं किञ्चिद् भविष्यतीत्यत आह—“पृथिव्यादिगतस्येति ।” भाष्योक्तप्रमेयत्वे तर्कस्य हेतुमाह—“उपलब्धिविषयत्वादिति ।”
तर्कानन्तरं निर्णय उद्दिष्टस्तर्कहेतुकत्वात् । तस्य स्वरूपमाह—निर्णयस्तत्त्वज्ञानमिति । यद्येवमिन्द्रियापातजन्मप्रत्यक्षज्ञानमपि274 तत्त्वज्ञानमिति निर्णयः स्यादित्यत आह—“प्रमाणानामिति ।” अनेन पञ्चावयववाक्यमुपलक्षयति । तत्र सतर्काणां प्रमाणानां समवायात् । परमार्थतस्तु तर्कपूर्वकस्तत्त्वविनिश्चयो निर्णय इति प्रत्यक्षादीनामपि तर्कसहायानां निर्णयफलत्वमिति275 । स्यादेतत् । धूमादिगोचरेण तत्त्वनिर्णयेन276 वह्न्यादावनुमीयमाने प्रमाणमेव निर्णयो न फलमित्याशयवान् पृच्छति—“कदा पुनरिति ।” विदिताभिप्रायस्योत्तरम्—“यदेति ।” सङ्कलय्य तर्कनिर्णयव्युत्पादनस्य प्रयोजनमाह—“तावेताविति ।” परीक्षकोऽत्र लोको लोकशब्देनोच्यते, तदितरस्य तर्कासम्भवात् । बुद्ध्वेति परीक्ष्य निर्णयं कृत्वेत्यर्थः । शेषं निगदव्याख्यातम् ।
निर्णयानन्तरं वादव्याख्यानार्थं भाष्यम्—“वादः खल्विति ।” तदनुभाष्योपपत्तिमाह—“वाद” इति । नाना प्रवक्तारो यस्मिन् स तथा । एकस्यापि शास्त्रकर्तुः पूर्वपक्षोत्तरपक्षसाधनदूषणप्रतिपादको वचनसमूहो वादः स्यादिति नानाप्रवक्तृक इत्युक्तम् । सिद्धान्तभेदानुविधानेन हि द्वावपि स्वसिद्धान्तानुरूपं साधनं दूषणं चाहतुरित्यर्थः । “प्रत्यधिकरणेत्यादि” भाष्यमनुभाष्याचष्टे—“प्रत्यधिकरणमस्य साधनम् ।” अधिक्रियत इत्यधिकरणं साध्यम्, तदधिकृत्य साधनप्रवृत्तेः । प्रत्यधिकरणं साधनं यस्मिन् वादे स तथोक्तः अस्यैवार्थं निष्कर्ष्टुं पृच्छति—“किमुक्तं भवति ?” निष्कर्षति—“उभाभ्यां” वादिप्रतिवादिभ्यां स्वस्वसाध्ये “साधनं वक्तव्यम् ।” तथा च नानाप्रवक्तृकत्वेन तुल्यत्वेऽपि वादस्य वितण्डायाः प्रत्यधिकरणसाधनत्वेन भेदः सिद्धो भवति । वितण्डायाः प्रतिपक्षस्थापनाहीनतया प्रत्यधिकरणसाधनत्वाभावात् । तथापि जल्पादभेदो वादस्य, अस्ति हि जल्पस्य प्रत्यधिकणसाधनवत्वं च नानाप्रवक्तृकत्वं चेति । अत आह—“अन्यतरस्मिन्नधिकरणे निर्णय” इति । वादे हि तावद ब्रूते, न यावदन्यतरस्मिन् पक्षे निर्णयो जातः । तत्त्वभुभुत्सोर्वादिनोर्वादेऽधिकारात् । जल्पे तु पुरुषशक्तिपरीक्षालक्षणेऽप्रतिभादिनापि पराजयोपपत्तेर्नावश्यं277 तत्त्वनिर्णयः । तस्मादन्यतरनिर्णयावसानत्वेन जल्पाद् भेदो वादस्येति सिद्धम् । यथा चैतत्, तथोपरिष्टात् उपपादयिष्यते278 इत्याह “तच्चेति ।” तस्य स्वरूपं पृच्छति—“सोऽयमिति ।” उत्तरम्—“वाक्येति ।” चोदयति—“ननु चेति ।” वाक्यसमूहश्च ज्ञानं चेति विप्रतिषिद्धमेतदित्यर्थः । परिहरति—“नेति ।” साधनोपालम्भग्रहणस्य शब्दविषयत्वादविरोध इत्यर्थः ।
युगपदेव जल्पवितण्डे व्याचष्टे—“तद्विशेषाविति ।” विशिष्येते भिद्येते इति विशेषौ । तस्माद् वादाद् विशेषौ भिन्नौ । भाष्यनुभाष्य पृच्छति—“कः पुनर्विशेषः ।” यद्योगाद् विशिष्टे वादात् जल्पवितण्डे इत्यर्थः । उत्तरम्—“अङ्गाधिक्यमङ्गहानिश्च” यथासङ्ख्यम् । तदेव दर्शयति—“छलेति ।” तत् किमिदानीं संशयादिभिरिवात्यन्तवैरूप्यं वादेन जल्पवितण्डयोः । नेत्याह—“एतावता विशेषेण कथामार्गभेद” इति । एतावानेव विशेषो न सर्वथा, कथात्वेन संशयादिव्यावृत्तेन सामान्यविशेषेण त्रयाणामप्यभेदादित्यर्थः । अपरमपि भेदहेतुमाह—“विषयभेदाच्चेति279 ।” तद् विभजते—“शिष्यादीति ।” शिष्यमाणोऽत्यन्तविपर्यस्तः दुर्ज्ञानावलेपदुर्विदग्ध इति यावत् । न त्वेवम्भूतः शिष्यादिर्विपर्यस्तोऽप्यनवलिप्तात्वादिति भावः ।
क्रमप्राप्तानां हेत्वाभासानां स्वरूपमाह—“अन्यतमेति ।” पञ्चसु चतुर्षु वा लिङ्गरूपेष्वन्यतमं लिङ्गं धर्ममेकं द्वयं त्रयं वानुविदधाना अहेतवो हेतुवदाभासन्त इति हेत्वाभासा उक्ताः । “निग्रहस्थानेभ्य” इति भाष्यमवतारयितुमाह—“ते च निग्रहस्थान”मिति । अवतारयति—“निग्रहस्थानेति ।” अवतार्य दूषियतु“मेकदेशि”मतेन व्याचष्टे—“यस्मात् किलैत” इति । किलशब्दोऽयमरुचौ । तदेतदेकदेशिव्याख्यानं दूषयति—“न, उभयथाप्यसम्बन्धात् ।” किं ये ये निग्रहस्थानेभ्यः पृथगुपदिश्यन्ते, ते सर्वे वादे चोद्यन्ते ? अथ ये ये वादे चोद्यन्ते ते सर्वे पृथगुपदिश्यन्त इति ? उभयथाप्यनैकान्तिकत्वात् नाविनाभावलक्षणः सम्बन्ध इत्यर्थः । तदेतद् विभजते—“न वादे चोदनीयत्वमिति ।” कस्माद्280 उभयथाप्यविनाभावाभाव इत्यत आह—“यदि तावदिति ।” तस्मात् नायमविनाभूतो हेतुर्वादे चोदनीयत्वं वा पृथगुपदेशो वा भाष्यकारेणोक्त इत्युपसंहरति—“तस्मादिति ।” वादे चोदनीयत्वादित्युपलक्षणम्,281 पृथगुपदेशादिति च282 द्रष्टव्यम् । तदेवमेकदेशिमतं दूषयित्वा स्वमतेन भाष्यं व्याचष्टे—“एतदेव तु न्याय्यमिति ।” निग्रहस्थानेभ्यो हेत्वाभासानां पृथगुपदेशे प्रयोजनं यद् भाष्याक्षरेभ्यः साक्षात् प्रतीयते । सामान्योपदेशेन विशेष उपदिष्टे विशेषोपदेशः प्रयोजनाधिक्यं सूचयति । यथा ब्राह्मणान् भोजय कठं चेति कठभोजने विशषो गम्यते, तद्वदिहापि निग्रहस्थानोपदेशेनैव हेत्वाभासेषु लब्धेषु तेषां विशेषेणाभिधानप्रयोजनाधिक्यं सूचयति283 । एतावानेव सूत्रकृतो व्यापारो यत् सूत्रणं नाम । तत्र निग्रहस्थानविशेषाणां हेत्वाभासानां स्वरूपं वादस्य च तत्त्वनिर्णयावसानत्वमालोच्य वादे चोदनीया284 भविष्यन्ति निग्रहस्थानत्वेन हेत्वाभासा नाप्रतिभादय इति प्रयोजनं वर्णयाञ्चकार भाष्यकारः । स्यादेतत् । भवन्तु वादे चोदनीया हेत्वाभासाः, मा च भूवन्नप्रतिभादयः । किमेवमपीत्याह—“विद्याप्रस्थानप्रभेदज्ञापनार्थत्वात् ।” वादजल्पवितण्डा विद्याः परम्परया निःश्रेयसोपयोगात् । तासां प्रस्थानं व्यापारः, तस्य भेदः, तज्ज्ञापनार्थत्वात् । अत+एव “जल्पवितण्डयोस्तु” इत्याह285 । चोदयति—“अथ कस्मादिति ।” यदि वादे हेत्वाभासाः प्रयुज्येरन् ततो निग्रहस्थानत्वेन चोद्येरन्, न तु तेषामस्ति प्रयोगोऽप्रमाणत्वात् प्रमाणतर्कसाधनोपालम्भत्वाच्च वादस्य । तस्मात् निग्रहस्थानमात्रत्वं हेत्वाभासानाम् । तथा286 च न पृथगुपदेशः, निग्रहस्थानोपदेशेनैव लब्धत्वादित्यर्थः । परिहरति—“प्रमाणसामान्यादिति ।” न खलु हेत्वाभासान् तद्बुद्ध्या प्रयुञ्जाते वादिप्रतिवादिनौ, अपि तु हेतुबुद्ध्या । तथा चास्ति तेषां वादे प्रयोग इति, वादे निग्रहस्थानत्वेन हेत्वाभासाश्चोद्यन्ताम्, नाप्रतिभादीनीत्यर्थवान् पृथगुपदेशः । तदेतद् विकल्प्याक्षिपति—“वादे कानिचिदिति ।” समाधत्ते—“न, लक्षणपरतन्त्रत्वादर्थतथाभावस्येति ब्रूमः ।” लक्ष्यत इति लक्षणम्, समानासमानजातीयव्यावृत्तं रूपं वादस्य च निग्रहस्थानानां च । तदधीनो हि तेषां तथाभावो व्यवस्था, कानिचिदेव निग्रहस्थानानि वादे न तु सर्वाणीति सामान्यतोऽभिधाय तदेव लक्षणपरतन्त्रत्वमभिमते विशेषे योजयति—“वादस्येति ।” उक्तमाक्षिपति—“प्रमाणप्रतिरूपकत्वादिति ।” निश्चितौ हि वादं कुरुतः । निश्चयश्च प्रमाणफलमिति कुतोऽप्रमाणस्यावकाश इत्यर्थः । उत्तरम्—भ्रान्तेरिति । न निश्चयः सर्वः प्रमाणमूलोऽप्रमाणमूलस्यापि तस्य दर्शनात्, अन्यथा विपर्यासादप्रवृत्तिप्रसङ्गात् । वादिनोश्चाभ्रान्तत्वे वस्तुनो विरुद्धधर्मद्वयसमालिङ्गितत्वमेकदा287 स्यादिति भावः । पृच्छति—“कः पुनः शिष्येति ।” उपास्योपासकयोः परस्परं न ध्वंसनं सम्भवतीति भावः । उत्तरम्—“विवक्षितार्थाप्रतिपादकत्वमेव” न खलीकार इति । हेत्वाभासानां च पृथक्करणं न वादे तन्मात्रावधारणार्थम्,288 अपि तु यस्मिन्ननुद्भावितेऽपि निग्रहस्थाने तत्त्वप्रतिपत्तिव्याघातो भवति, तस्य289 सर्वस्य सङ्ग्रहार्थम् । एवं च न्यूनाधिकापसिद्धान्ता अपि सङ्गृहीता भवन्ति । तत्र पृच्छति—“न्यूनाधिकेति ।” उत्तरम्—“प्रमाणेति । जल्पवितण्डयो स्त्विति” भाष्यमनुभाष्यापपादयति—“जल्पवितण्डयोस्त्विति ।” साहङ्कारो विजिगीषुरप्रतिभादिभिरपि निग्रहस्थानैस्तिरस्कृतो गलिताहङ्कारस्तत्त्वबुभुत्सुतां नीतः पश्चाद् वादेन व्युत्पाद्यत इत्यर्थः ।
छलजातिनिग्रहस्थानानां पृथगुपदेशप्रयोजनपरं भाष्यमनुभाषते—“छलेति । उपलक्षणार्थमिति”290 भाष्यावयवं व्याचष्टे । “परिज्ञानार्थमेव291 केवलम्,” परिज्ञानस्य फलमुक्तम्—“स्ववाक्ये परिवर्जनम”प्रयोगः, परवाक्ये चोद्भावनमिति । चोदयति—“छलजातिनिग्रहस्थानानीति ।” अत्र हि जातेः स्ववाक्ये परिवर्जनमुक्त्वा पुनः स्वयं प्रयोगो292 न युक्तः । कस्मात् ? “व्याघातात् ।” एतद् विभजते—“स्ववाक्य” इति । परिहरति—“न व्याघातः ।” कुतः293 ? “प्रश्नापाकरणार्थत्वात् ।” तद् विभजते—“स्वयं च सुकरः प्रयोग” इत्यनेन भाष्येण । किमुक्तं भवति ? परेण प्रतिवादिना जातौ प्रयुक्तायां वादी98 “प्राश्निकान्” सभ्यान् ब्रवीति—“जातिरनेन” प्रतिवादिना “प्रयुक्तेति । ते” प्राश्निका “एनं पर्यनुयुञ्जीरन्” हे वादिन् “कथं” केन प्रकारेण “जातिः” चतुर्विंशत्यां जातिषु “कतमा जाति”रिति । सोऽयं प्राश्निकानां प्रश्नः । तदपाकरणार्थं स्वयं सुकरः प्रयोग इत्यर्थः । प्रकृतमुपसंहरति—“तस्मादेत” इति ।
“सूत्रकारे”ण शास्त्रस्यात्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमः प्रयोजनमुक्तम् । भाष्यकारस्तु नास्त्येव तत् प्रेक्षावतां प्रयोजनम्, यत्रान्वीक्षिकी न निमित्तं भवतीत्याह—“सेयमान्वीक्षिकीति ।” तदेतद् भाष्यं व्याचष्टे—“सेयमान्वीक्षिकी न्यायविद्येति ।” यद्यपीतरा विद्याः प्रामाणिकमेवार्थमभिनिविशन्ते तथाप्येतद्विद्याप्रतिपाद्यमेव प्रमाणाद्युपजीव्य स्वे स्वे व्युत्पाद्ये तत्त्वे294 प्रवर्तन्ते, न तु प्रमाणाद्यपि व्युत्पादयन्ति । यथा प्रत्यक्षाद्युपजीव्य प्रवर्तमानमनुमानं न प्रत्यक्षादिविषयमपि तदानीमेव गोचरयति । तदनेन विद्योपकरणग्रहणेन व्यापार आन्चीक्षिक्या दर्शितः । सम्प्रति विद्यानां यानि कर्माणि प्रतिपाद्यानि सामाग्निहोत्रकृष्यादीनि तत्राप्यान्वीक्षिक्युपाय इत्याह—“उपायः सर्वकर्मणां” विद्याव्युत्पाद्यानाम्, न तु हालिकमृगय्वादिकर्मणामपि295 । न हि विद्यापदेभ्यो यावन्मात्रावगतिः, तावन्मात्रेण प्रेक्षावतां परितोषः । मा भूत् आदित्यो वै यूपः इत्यादिभ्यः आदित्यादीनां यूपादिता । तस्मात् संशयपरीक्षाप्रमाणविनिवेशद्वारेण तदर्थतत्त्वमवधार्य तत्र त्रयी विनिवेशनीया । एवं दण्डनीतिवार्तयोरनुगन्तव्यम्296 । तस्मादान्वीक्षिकीपरिशोधितप्रमाणप्रकाशितं297 सामा“दीतरा विद्याः कुर्वन्ति” विषयमिति शेषः । अपि च द्रव्यगुणकर्मणामभिमतानभिमतोपायताप्रज्ञापनेन यथायथं298 सर्वा विद्याः प्रेक्षावन्तः प्रवर्तयन्ति निवर्तयन्ति वा । तत्र किमविशेषेण साध्यसाधनेतिकर्तव्यतासु प्रवर्तयन्तु, आहोस्वित् साधनेतिकर्तव्यतामात्रे ? तत्र यदि साध्यांशोऽपि प्रवर्तनागोचरः, तदा67 श्येनादिसाध्याया हिंसाया विहितत्वेनानर्थत्वम् । अथ साध्यांशं299 रागतः प्राप्तमनूद्य साधनेतिकर्तव्यते एव विधीयेते, ततः श्येनादिसाध्याया हिंसाया अविहितत्वेन न हिंस्यात् सर्वाभूतानि इति प्रतिषेधादनर्थत्वम् । तदिह साध्यांशेऽप्रवर्तनमान्वीक्षिकीगम्यम् । एवमनुष्ठानगताः प्रयोजकत्वाप्रयोजकत्वादय आन्वीक्षिकीगम्या । एवं300 वार्तादिष्वपीति । तदेवमान्वीक्षिकीमाश्रयन्ते सर्वविद्या इत्याह—“आश्रयः सर्वधर्माणाम्” सर्वासां विद्यानां पुरुषप्रवर्तना धर्माः, तेषामाश्रयः । “वार्त्तिककार”स्तु धर्मद्वारेण विद्यानामेवाश्रय इति व्याचष्टे—“सर्वविद्योपकारकत्वादाश्रयः, सर्वासां विद्यानामियमुपकरोति ।” विद्यया प्रवर्तनायां कर्तव्यायामियं सहकारितयोपकरोतीत्यर्थः ।
स्यादेतत् । व्युत्पाद्याश्चेत् प्रमाणादयः सर्वविद्योपयोगिनः, न तर्ह्यात्यन्तिकी दुःखनिवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्यते301 । व्युत्पाद्यस्वभावालोचनया हि तद् गम्यते,302 स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन सङ्करप्रसङ्ग इत्यत आह—“तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदितव्यम्” विद्यान्तराणि तावद् यत् तत्त्वज्ञानं कुर्वन्ति303 तत्स्वभावालोचनया हि तद्विद्यासाध्ये एव निःश्रेयसभेदे उपयुज्यन्ते304 नान्यत्र । इह तु प्रमाणादि यद्यपि साधारणम् तथाप्यसाधारणात्मादिरूपप्रमेयसमभिव्याहृतं305 सदभिमत एव निःश्रेयसेऽवतिष्ठत इति । विशुद्धेनार्जनेन होमसाधनस्य द्रव्यस्य प्राप्तिः “स्वागतम् ।” आदिग्रहणेन क्रमपर्यन्ताङ्गग्रामसाकल्यं306 गृह्यते । श्वमार्जारादिभिरनुपघातोऽनुपहतत्वम्307 । आदिग्रहणाद् विशुद्धोऽभिसन्धिरिति । शेषमतिरोहितम् । वादादीनां निग्रहस्थानान्तानामुपदेशः पराभिभवोपायतया मदमानादिहेतुत्वेन निःश्रेयसपरिपन्थीति मन्वानश्चोदयति—“मदमानादीति ।” परिहरति—“न, सूत्रार्थापरिज्ञानात् ।” नायं सूत्रार्थः, सर्वेषां तत्त्वज्ञानं साक्षान्निःश्रेयसोपयोगीति, किन्त्वात्मादितत्त्वज्ञानम् । तदितरत्308 तु पारम्पर्येण । तत्र जल्पादीनां पराहङ्कारप्रशमनमवान्तरव्यापार इति न निःश्रेयसपरिपन्थिता, किन्त्वानुकूल्यमित्यर्थः । मदमानादिनिमितत्तत्त्वं309 च हेतुरसिद्ध इत्याह—“यच्चेदमिति ।” उपसंहरति—“तस्मान्न निमित्तं वादादिपरिज्ञानं रागादीनामिति ।” इतिः सूत्रसमाप्तौ ॥ १ ॥
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ॥ १ । १ । २ ॥
तदेवं प्रथम“सूत्रे”ण शास्त्रस्याभिधेयप्रयोजनसम्बन्धान् दर्शयता पदार्थाः प्रमाणादय उद्दिष्टाः । तेषां च लक्षणमुक्त्वा तत्परीक्षा वर्तयिष्यते,310 अपरीक्ष्य तत्त्वज्ञाननिर्णयायोगात् । न चानिर्णीतप्रयोजनसम्बन्धानां प्रमाणादीनां लक्षणपरीक्षयोरवसरः311 । न च प्रयोजनसम्बन्धनिर्णयः परीक्षां विनेति तत्परीक्षार्थं द्वितीयं “सूत्र”म् । तत्र प्रयोजनाभिधानस्य द्वैविध्यात् संशयः । द्विविधं हि प्रयोजनाभिधानं ग्रन्थकृतां दृष्टं समीचीनमसनीचीनं च, यथा वार्त्तिकादिप्रयोजनाभिधानमायुर्वेदादिप्रयोजनाभिधानं च । तस्मादभिधानसामान्यादुभयथा दर्शनाच्च312 संशयः तत्रोत्सूत्रेण प्रयोजनाभिसम्बन्धप्रतिपादनपरं313 पूर्वपक्ष“भाष्यम्—तत् खलु वै निःश्रेयसमित्यादि ।” तद् विभजते—“न तत्त्वपरिज्ञानादपवर्गः ।” कुतः ? “उभयथा दोषात् ।” तदत्यन्तविमोक्षलक्षणोऽपवर्गो निःश्रेयसम् । तच्चेत् तत्त्वज्ञानानन्तरम्, सम्प्रदायोच्छेदो वातपुत्रीयता च शास्त्रस्य स्याताम्314 । तस्मान्न तत्त्वज्ञानानन्तरं निःश्रेयसम् । तथा सति प्रमाणदितत्त्वज्ञानान्निःश्रेयसमिति315 मिथ्या । न चान्यन्निःश्रेयसमित्यभिमानः316 पूर्वपक्षवादिन इति । अत्रेदं सिद्धान्तसूत्रमुपतिष्ठते—“दुःखजन्मेति ।” तस्य तात्पर्यमभिधायावतारयति—“न प्रयोजनानभिसम्बन्धः ।” कुतः ? “निःश्रेयसस्य परापरभेदात् ।” चतस्रो हि प्रतिपत्तयः प्रमेये आत्मादौ । प्रथमा तावदागमात् यामाचक्षते श्रवणमिति । द्वितीया तु श्रुतस्य परीक्ष्य317 न्यायेन व्यवस्थापनम् यामाहुर्मननमिति । सा चान्वीक्षिक्यामायतते । आन्वीक्षिकी च संशयादिः तत्त्वज्ञापनं प्रमाणतत्त्वज्ञापनायोपादत्ते । प्रमाणतत्त्वज्ञापनं च हेयोपादेयभेदव्यवस्थितप्रमेयतत्त्वपरिज्ञापनाय । तत्राप्याद्यन्तवर्जितदशवर्गज्ञापनमाद्यन्तयोरेवात्मापवर्गयोरुपादेययोस्तत्त्वज्ञानस्योपकरोति318319 । न चायमान्वीक्षिकीविद्यावधृतप्रमेयतत्त्वोऽपि परितुष्यति, पूर्ववदेवात्मादिगतंविपर्ययवासनानुवृत्तेः । नो खलु दिङ्मूढः सहस्रेणाप्यनुमानैर्विपर्ययसंस्कारमपनयति320 । तत्त्वसाक्षात्कारस्तु विपर्ययसंस्कारं321 निवर्तयति । तज्जनिता च वासना विपर्ययवासनामिति322 लोकसिद्धम् । तस्मादात्मादिसाक्षात्कारवतीं चतुर्थीं प्रतीतिमशेषतद्323 गोचरवासनाविपर्यासशमनीमर्थयमानेनादरनैरन्तर्याभ्यां ध्यानचिन्तादिशब्दवाच्या324 तृतीया325 प्रतीतिः साक्षात्कारफला दीर्घकालमुपासनीया । अथ परिनिष्पन्नध्यानोपायः साक्षात्कारवतीं प्रतिपद्य चतुर्थीं प्रतीतिं निर्मुक्तसकलक्लेशजालोऽप्रवर्तमानो धर्माधर्मसाधनेषु निरुद्धानागतधर्माधर्मप्रबन्धोत्पादो भूतेन्द्रियविजयी प्रज्ञाज्योतिर्जीवन्नेव मुक्त इत्युच्यते । न चैवमवस्थो वीतरागोऽपि सहसैव देहादिभिर्वियुज्यते, प्रागुपात्तस्य धर्माधर्मप्रचयस्याभुक्तस्य भुज्यमानस्य चाप्रक्षीणत्वात्326 । न च प्रायश्चित्तेनेवात्मज्ञानेनादत्तफलान्येव कर्माणि क्षीयन्त इति युक्तम्, नाभुक्तं क्षीयते कर्म । इति स्मृतेः । अत्यन्त सुखदुःखसंविज्ञानविरोधस्य कर्मणामवधारणात् । औत्सर्गिकस्य क्वचित् प्रायश्चित्तादौ विशेषवचनेनापवादात् । क्षीयन्ते चास्य कर्माणि । [मुण्डक २। २। ८] इति श्रुतेः । योगर्द्धिवशाद् युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्तेः ।
तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये ।
[छान्दोग्योपनिषदि ६। १४। २]
इति चाभुक्तोपभुज्यमानफलकर्मप्रक्षयावधित्वदर्शनम्327328 । योगर्धिवशाच्चानियतविपाककालान्यपि329 दीर्घकालफलान्यपि कर्माणि पिण्डीकृत्य भूतेन्द्रियविजयितया युगपदेव भुङ्क्ते । अचिन्त्यो हि समाधिप्रभाव इत्युक्तम् । न चाचिन्त्यत्वाद्330 विनैवोपभोगेन कर्माशयान् प्रक्षयिष्यतीति331 युक्तम्, दृष्टानुसारेण कथञ्चिदुपपत्तौ अत्यन्तादृष्टकल्पनाया अयोगात् । तस्मादुत्पन्नतत्त्वसाक्षात्कारस्य दोषाभावात् प्रवृत्त्युपरमे योऽनागतापूर्वानुत्पादस्तदपरं निःश्रेयसम् । तच्च तत्त्वसाक्षात्कारानन्तरं भवति । तादृशश्च मुनिस्तत्त्वज्ञानवान् शास्त्रस्य प्रणेतेति न वातपुत्रीयं शास्त्रमिति । परं तु निःश्रेयसं योगर्द्धिप्रभवसम्पदा332 युगपदुपभोगेनोपात्तकर्माशयस्य क्षयात् सर्वदुःखोपरम इत्युपपन्नं निःश्रेयसद्वैविध्यमिति भावः ।
तदेतद् दर्शयति—“यत्तावदिति ।” तत्त्वसाक्षात्कारः “तत्त्वज्ञानम् । संहर्षः” सुखम् । “आयासो” दुःखम् । तत्रानागताभ्यां तावत्333 प्रवृत्त्यभावादनुत्पादादेवमुच्यते334 । विद्यमानकारणे अपि सुखदुःखेऽशक्तोऽद्विष्टश्च335 भुञ्जानो न सुखदुःखतया मनुते336 न ह्यस्ति सम्भवो न तत्र तृप्यति337 तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति । स्यादेतत् भवत्वेतदपरं निःश्रेयसम्, प्रकृते किमायातमित्यत आह—“अयं शास्त्रार्थः ।” अर्थशब्दो निमित्ते । अपरं निःश्रेयसं शास्त्रस्य निमित्तम् । अथापरनिःश्रेयसोत्पादसमय एव परनिःश्रेयसोत्पादोऽपि कस्मान्न भवतीत्याह—“परं तुनिःश्रेयसं तत्त्वज्ञानात् क्रमेण भवति ।” नो खलूत्पन्नतत्त्वसाक्षात्कारः338 सवासनाविपर्यासज्ञानतत्कार्यदोषतत्कार्यप्रवृत्तीनां निवृत्त्यै प्रयतते, कारणनिवृत्त्यैवायत्नलभ्यत्वात् कार्यनिवृत्तेः । न हि कफोद्भवज्वरप्रशमनाय कफनिवृत्तौ सत्यां यत्नान्तरमातिष्ठते, तत एव तत्सिद्धेः । परं तु निःश्रेयसं न तावद् भवति, यावदुपभोगादुपात्तकर्माशयप्रचयो न क्षीयते । तस्मात् तत्त्वसाक्षात्काराधानप्रयत्नात्परस्तदुपभोगप्रयत्न339 आस्थेयः । तथा च न तुल्यकाल उत्पादः परापरयोर्निःश्रेयसयोः । तदिदमुक्तम्—“क्रमेणेति ।”
तदेवमर्थगतिं परिशोध्य “सूत्र”मवतारयति—“क्रमेति ।” यद्यप्यपरस्मिन्नपि निःश्रेयसे मिथ्याज्ञानदोषप्रवृत्तीनामपि समुच्छेदक्रमोऽस्ति, तथापि जन्मदुःखोच्छेदक्रमो नास्ति, पूर्वोपात्तस्य कर्माशयप्रचयस्य तादवस्थ्यात् । तस्मात् जन्मदुःखोच्छेदक्रमसमभिव्याहृतो मिथ्याज्ञानाद्युच्छेदक्रमः परस्यैव निःश्रेयसस्य शास्त्रप्रयोजनस्य । तत्प्रतिपादनमर्थः प्रयोजनं यस्य तत् तथोक्तम् । इदं चावान्तरप्रयोजनम् । प्रधानप्रयोजनमग्रे वक्ष्यति ।
अत्र “केचित्” योगविभागमिच्छन्ति । कारणोच्छेदात् कार्योच्छेदोऽभिमतो, न चासौ दुःखादीनां मिथ्यज्ञानान्तानामप्रदर्शिते कार्यकारणभावे सिध्यति । तस्माद् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामित्येको योगः । अत्र किल समासादेतेषामितरेतरयोगोऽवगम्यते । स च योग्यतया कार्यकारणभावः । कार्येण कारणं युक्तम्, कारणेन च340 कार्यमिति । अतः सिद्धे कार्यकारणभावे उत्तरोत्तरापाये तदनन्तरापायादपवर्ग341 इत्यनेन योगेन कारणोच्छेदक्रमेण कार्योच्छेदक्रमप्रतिपादनेनापवर्गः प्रतिपाद्यते । अत्र चोत्तरत्वं पाठापेक्षया कारणस्य । तदनन्तरत्वं च कार्यस्याव्यवहितादिपाठापेक्षया । मिथ्याज्ञाने कारणे तत्कार्याः दोषाः । एवं शेषेष्वपि योज्यम् । तमिमं342 सूत्रविभागममृष्यमाणो वार्त्तिककृदाह—“इदं सूत्रम् ।” एकवचनेन भेदं व्यावर्तथति । न हि समुच्छेदक्रमप्रतिपादनेनापवर्गपरतयैकवाक्यत्वे सम्भवति वाक्यभेदो न्याय्यः । एकनिवृत्त्या अन्यनिवृत्त्यैव कार्यकारणभाव आक्षिप्त इति नासौ सूत्रे343 दर्शनीयः । न ह्यर्थाक्षिप्तं “सूत्रकारा” दर्शयन्ति । तदिदं “सूत्र”ग्रहणप्रयोजनम् । तथा हि—
स्वल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
[विष्णुधर्मोत्तरे ३। ५। १] इति । अस्तोभमनधिकम्, अर्थलभ्यप्रदर्शने त्वधिकं भवेदिति । तत्सूचनात् सूत्रं स्यात् । तथा ह्याहुः,
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥
इति । इतरेतरयोगेनापि कार्यकारणभावः सूचनीय344 एव । स वरमेकनिवृत्त्यान्यनिवृत्त्यैव सूच्यतामेकवाक्यतानुरोधायेति । परमतात्पर्यमस्याह—“एतत्सम्बन्धेनैव ।” शास्त्रस्य निःश्रेयसाधिगमलक्षणेन प्रयोजनेन यः सम्बन्धः पूर्वमाक्षिप्तः, तत्समाधानेनार्थेन345 “अर्थवदेतत्” सूत्रम् । सम्बन्धपदेन विषयवाचिना विषयिसमाधानं346 लक्षयति । तदेवं “सूत्र”तात्पर्यं व्याख्यायावयवव्याख्यानमवतारयति—“पदार्थस्त्विति ।” यद्यपि सामभेदादौ हलशकटादौ च मिथ्याज्ञानमनेकप्रकारं सम्भवति, तथापि न तत् संसारहेतुरपि त्वात्मादिद्वादशविधप्रमेयविशेषविषयमिति “सूत्रस्थं” मिथ्याज्ञानं विशेष्टुमाह—“तत्रेति ।” तदेतेन “आत्माद्यपवर्गपर्यन्त” इत्यादि भाष्यमवतारितम् । तदेतदाक्षिपति “को वृत्त्यर्थ”347 इति । न खलु यथा कुण्डे वदरं पटे वा शौक्ल्यम्, एवं प्रमेये मिथ्याज्ञानं प्रवर्तते, तस्य ज्ञातृसमवेतत्वादित्यर्थः । उत्तरम्—विषयार्थः348 । यावदुक्तं भवति प्रमेयविषयं मिथ्याज्ञानमिति, तावदुक्तं भवति प्रमेये वर्तत इति । विषयत्वं चाग्रे निवेदयिष्यते । “अनेकप्रकारम्” इत्युक्तम् । तदाह—“तत्रायं भेदः ।” तत्रात्मनि तावत् प्रधाने प्रमेये नास्तीति कथं पुनरेतन्मिथ्याज्ञानमित्यत आह—“आत्मा तावदिति ।” अत्र शङ्कते—“तस्यानुपपत्तिः ।” कुतः ? “सदसतोः सारूप्याभावादिति चेत् ?” सर्वत्र हि रजतोदकादिविभ्रमेषु शुक्तिरजतयोर्वा मरुमरीचिसलिलयोर्वा सारूप्यमेव निमित्तं प्रतीमः । न हि जातु रूपं रसादिषु हस्तिनं वा मशकादिषु आरोपयन्ति । असदृशेऽपि श्वेते पीतभ्रमः, मधुरे च तिक्तभ्रमः, पीतः शङ्खस्तिक्तो गुड इति च दृश्यत इति चेत्—न, तत्रापि सारूप्यसम्भवात् । तथा हि बहिर्निर्गच्छदत्यच्छनयनरश्मिसम्पृक्तपित्तगतं पीतिमानमाश्रयरहितम्, शङ्खं च दोषाच्छादितसितिमानमनुभवन् पीतगुणस्य च तदसम्बन्धमननुभवंस्तदसम्बन्धाग्रहेण349 पीतचिरविल्वादिसामानाधिकरण्येन सारूप्यात् शङ्खः पीत इति विपर्यस्यतिं । एवं त्वगिन्द्रियोपनीतं गुडद्रव्यमननुभूयमानमाधुर्यमनुभवन् रसनाग्रवर्तिनश्च पित्तस्यास्वभावजाततिक्तस्य तिक्तत्वमनुभवन्350 तदाश्रयं च पित्तमननुभवन्नसम्बन्धाग्रहसारूप्यात्351 तिक्तनिम्बसामानाधिकरण्येन तिक्तो गुड इति विपर्यस्यति । अतिशीघ्रतया चैष क्रमो न लक्ष्यते । न च ब्रूमो यत्र सारूप्यं तत्र भ्रम इति, येनातिप्रसक्तिश्चोद्येत,352 अपि तु यत्र भ्रमस्तत्रावश्यं कथञ्चित् सारूप्यमिति353 । एवं द्विचन्द्रदिङ्मोहालातचक्रादिष्वपि किञ्चित् कथञ्चित् सारूप्यमूहनीयम् । न च सदसतोरत्यन्तविलक्षणयोः सारूप्यमस्ति । तत् कथमात्मनि नास्तितारोप इत्याक्षेपः ।
समाधत्ते—“न, प्रमाणगम्यतोपपत्तेः ।” आक्षेपं विभजते—“न हि सदसती” इति । समाधानं विभजते—“तच्च नैवमिति ।” यदि सदसतोः समानत्वं नास्ति, तर्हि भेदः । तथा च कस्य कुत्रारोप इत्यत आह—“क्रियागुणेति । सोऽयमसद्भर्मान्” क्रियागुणरहितत्वादीन् “सत्यात्मनि समारोप्या”सत्तया विपर्यस्यति “नास्त्यात्मेति,” न त्वात्मानं सर्वतोऽभ्यर्हिततमम्, यं पश्यन् तत्रासौ स्निह्यति । स्नेहाच्च तदुपकाराय घटते । एवं तत्परिपन्थिनं द्वेष्टि । द्वेषाच्च तदपकाराय घटते । ततश्च कर्माशयमाचिनोति । ततो जन्म । ततश्च दुःखमिति । एवमात्मनस्तादृशस्य मा भूत् तत्त्वज्ञानम् । अस्तु नास्तितासमारोप एव तावद् यतो न प्रवर्तते । यथाहुः,
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ।
यैवाहमितिधीः सैव सहजं सत्त्वदर्शनम् ॥ [प्रमाणवार्त्तिके १।२०२-३]
अत्रोच्यते । यद्यपि रागादिनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तथापि नास्ति कर्म, नास्ति कर्मफलमिति दृष्टेः परमं निदानम् । एवं प्रेत्याभावाभावज्ञानस्य च । तथा च दुःखहेतोर्हेयवर्गस्याभावान्न तद्धानायानेन घटितव्यम् । न चाघटमानो हेयं354 हातुमर्हति । सोऽयं वृश्चिकभिया पलायमान आशीविषमुखे निपतितः । सेयमास्तिकत्वायात्मास्तितोपासनीया । अभ्यर्हितता355 चात्मनोऽत्यन्तदुःखनिवृत्तावुपपद्यते । अयमेव चास्योपकारो यदात्यन्तिकदुःखशमनम्, सुखाधाने त्वस्य तदनुषङ्गिदुःखाधानादपकारप्रसङ्गात् । न हि जातु कश्चिच्चेतनः सुखमाप्स्यामीति मधुविषसम्पृक्तमन्नमुपभुङ्क्ते । तस्मान्नैरात्म्यदृष्टिः प्रयत्नेनोच्छेत्तव्या प्रेक्षावतेति सिद्धम् ।
अपरमपि संसारहेतुं मिथ्यादर्शनमाह—“एवमनात्मनीति ।” पृच्छति—“किं पुनरिति ।” उत्तरम्—“अहङ्कारेति ।” विशेषमाह—“इच्छादीति ।” पुनः पृच्छति—“कथं पुनरिति ।” उत्तरम्—“शरीरेति ।” उपसंहरति—“एवमिति ।” सामान्यधर्मोऽहङ्कारास्पदत्वम् । विशेषधर्म इच्छाद्याधारता । तां खल्वयं शरीरादिष्वारोप्य एत356 एवाहमिति शरीरादिष्यात्मभावमारोपयति ।
एवं सिद्धं कृत्वा विपर्ययं सर्वमुक्तम् । सम्प्रति सन्दिहानो विपर्ययस्वरूपं357 पृच्छति—“कः पुनरयं विपर्ययः ?” परीक्षकाणां विप्रतिपत्तेः संशयः । केचित्358 स्वाकारबाह्यत्वविषयं359 ज्ञानं विपर्यय इत्याचक्षते । अन्येऽसद्विषयं360 ज्ञानम् । अन्ये361 त्वनिर्वचनीयमेव ज्ञानम् । अपरे362 त्वग्रहणमेव । अन्यथाख्यातिं तु363 वृद्धाः364 । उत्तरम्—“अतस्मिंस्तदिति प्रत्ययः ।”
इदमत्राकूतम्—न तावत् स्वाकारं रजतादि बाह्यतया आलम्बन्ते विभ्रमाः । तथा हि ज्ञानाकारत्वं रजतादेरनुभवाद् व्यवस्थाप्येत, अनुमानाद् वा ? अनुभवोऽपि रजतप्रत्ययो वा स्याद् बाधकप्रत्ययो वा ? न तावद् रजतप्रत्ययः । स हीदमनहङ्कारास्पदं रजतमादर्शयति, न त्वान्तरम् । अहमिति तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् । भ्रान्तं हि ज्ञानं स्वाकारमेव बाह्यतया आलम्बते । तथा चानहङ्कारास्पदमस्य विषयो ज्ञानाकारोऽपि । ज्ञानाकारता पुनरस्य बाधकज्ञानप्रवेदनीयेति चेत् ? हन्त चक्षुषी निमील्य वैतालिकपक्षपातं365 परित्यज्यालोचयत्वायुष्मान्366 किं पुरोवर्तिद्रव्याकारतामात्रं प्रतिषेधति रजतस्य, आहोस्वित् ज्ञानाकारतामप्यस्यादर्शयति बाधकप्रत्ययः ? तत्र ज्ञानाकारतोपदर्शनं व्यापारं बाधकप्रत्ययस्य367 ब्रूवाणः श्लाघनीयप्रज्ञो देवानाम्प्रियः । पुरोवर्तित्वनिषेधादर्थात् ज्ञानाकारतासिद्धिरिति चेत् ? तन्निषेधो368 वणिग्वीथ्यादावुपलब्धस्य रजतस्य व्यवस्थापने हेतुः । आन्तरत्वं त्वस्यानुपलब्धचरं369 कुतस्त्यम् ? न चानुमानमत्र प्रभवतीति चतुर्थे370 निवेदयिष्यते ।
सन्तु तर्हि बाधकप्रत्ययानुरोधादसत्प्रकाशनशीला एव मिथ्या प्रत्ययाः । तथा हि बाधकं विज्ञानं नेदं रजतमिति रजतज्ञानगोचरस्यासत्त्वं गृह्णाति । न चासतो विषयभावो नोपपद्यते । न हि विषयत्वं नाम कारणत्वं येनासति न स्यात्, किं तु स्वकारणाधीनः सामर्थ्यातिशयः । स तादृशो ज्ञानस्य, येन सन्तमिवासन्तमपि गोचरयति । न च विषयसामर्थ्यमत्रोपयुज्यते, ज्ञानस्य सामर्थ्यादेव तद्भावसिद्धेः । अत+एवासत्प्रकाशनसामर्थ्यमेव मिथ्याज्ञानानामविद्यात्वमनिर्वचनीयं371 केचिदास्थिषत । अत्रेदमालोचनीयम्—किमेतन्मिथ्याज्ञानमसत् सदात्मना गृह्णातीत्यसद्विषयमुपेयते,372 आहोस्वित् सदेव सदन्तरात्मना गृह्णाति, सतश्च सदन्तरात्मत्वेन373 असत्त्वादसद्विषयमुच्यते ? न तावत् पूर्वः कल्पः,374 रजतात्मना चेदसदालम्बेत, न सतीं शुक्तिकाम्, कथं पुनरसौ रजतार्थी शुक्तौ प्रवर्तते न पुना रजताभावे ? कस्माच्चेदमिति पुरोवर्ति द्रव्यमङ्गुल्या निर्दिश्य तस्य रजतत्वं निषेधति—नेदं रजतमिति, यदि तत्र न प्रसञ्जितं रजतत्वं पूर्वविज्ञानेन ? अथ शुक्तिरेव रजतात्मना असतीति तदाकारतया तामालम्बमानं मिथ्याज्ञानमसदालम्बनमुच्यते ? तत्रानुज्ञया वर्तामहे । न खल्वन्यथाख्यातिवादिनोऽपि सदन्तरं सदन्तरात्मना सदभ्युपगच्छन्ति । तथा सत्यन्यथेत्येव न स्यात् । यथाहु“रन्यथाख्यातिवादिनः,”
तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बनं375 च तत् ॥
[श्लोकवार्त्तिके निरालम्बनवादः ११७-८] इति । न च रजतात्मना पुरोवर्तिनो द्रव्यस्यानिर्वचनीयता, मिथ्याज्ञानसमये सत्त्वेन बाधकसमये चासत्त्वन376 निर्वचनीयत्वात् । न चैवम्भूतस्यासतः प्रथा नोपपद्यते, तस्य सदसद्भ्यामुपाख्येयत्वात् । यः पुन“रद्वैतवादिनां” प्रपञ्चो “वैनाशिकानां” वा सामान्यादिर्नो बहिः377 किं त्वलीकम् । तद्विषयं च ज्ञानं मिथ्याज्ञानमित्यपि न सम्भवति, तस्य सर्वोपाख्यारहितस्य केनचित् सारूप्याभावात्, तत्कारणकत्वाच्च भ्रान्तेः । कारणाभावे कार्याभावस्य सुलभत्वात् । तस्मात् प्रपञ्चश्च सामान्यादि च वस्तुसती नासमीचीनविज्ञानगोचरौ । तद्बाधकं चोपरिष्टादपाकरिष्यति378 । तस्मान्नानिर्वचनीयख्यातिरपि । स्यादेतत् । अन्यदन्यथा प्रकाशत इति संविद्विरुद्धम् । न तावत् सद्भावमात्रेणालम्बनत्वम् । तन्मात्रस्य सर्वप्रत्ययसाधारण्येन सर्वेऽर्था सर्वप्रत्ययविषया इति सर्वसर्वज्ञतापत्तिः । न च कारणत्वेनालम्बनत्वम्, रूपादिविज्ञानानां रूपादिवच्चक्षुराद्यपि कारणमिति चक्षुराद्यालम्बनत्वप्रसङ्गात् । अतीतानागतविषयत्वं च विज्ञानस्य न स्यात्, अतीतानागतयोरसत्त्वेनाकारणत्वात् । तस्मात् प्रतिभासमानमालम्बनम् । तथा च रजतप्रतिभासः शुक्तिकालम्बनमिति दुर्घटम् । अपि च चक्षुरादीनां समीचीनज्ञानोपजननसामर्थ्यमिति कथमेभ्यो मिथ्याज्ञानं भवितुमर्हति । न हि श्यामाकबीजं परिकर्मसहस्रेणापि कलमाङ्कुराय कल्पते । दोषसहाया लोचनादयो मिथ्याप्रत्ययमादधत इति379 चेत्—न, दोषा हि कारणानां सामर्थ्यं निघ्नन्ति, न पुनः कार्यान्तरोपजननसामर्थ्यमादधति । न खलु भृष्टं380 कुटजबीजं न्यग्रोधधानायै कल्पते, किं तु न करोति कुटजधानाम्381 । अपि च स्वगोचरे व्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात् सर्वमेव विज्ञानं समीचीनमास्थेयम् । तथा हि रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात् तद्गतस्य शुक्तिकात्वसामान्यविशेषस्याग्रहणात् । तावन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशात्382 गृहीतांशप्रमोषेण ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिमात्रग्रहणस्य च मिथः स्वरूपतश्च विषयतश्च भेदाग्रहणात् सन्निहितरजतविषयविज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित् पुनर्ग्रहणे एव मिथोऽगृहीतप्रभेदे, यथा पीतः शङ्ख इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः383 पित्तद्रव्यस्य काचस्येवातिस्वच्छस्य पीतत्वं च गृह्यते, पित्तं तु न गृह्यते । शङ्खोऽपि दोषवशात् गुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहात् सारूप्यात् पीतचिरबिल्वफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च384 नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ च भ्रान्तत्वमपि लोकप्रसिद्धं सिद्धं भवति । तस्माद् यथार्थाः सर्वेऽपि भ्रमाः प्रत्ययत्वात् पटप्रत्ययवदिति प्राप्तम् । एवं प्राप्तेऽभिधीयते—अस्ति तावद् रजतार्थिनो रजतमिति ज्ञाने सति पुरोवर्तिद्रव्यप्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तत् किं ग्रहणस्मरणयोस्तद्गोचरयोश्च भेदाग्रहाद् भवतु, आहोस्विदभेदग्रहात् ? न तावच्चेतनोऽज्ञानात् प्रवर्तते, अपि तु ज्ञानात् । पुरोवर्तिवस्तुग्रहणरजतज्ञानादगृहीतभेदं स्वरूपतो विषयतो वा रजतार्थिनं पुरोवर्तिद्रव्ये प्रवर्तयतीति चेत् ? हन्त भोः किमेतावता पुरोवर्तिवस्तुगोचरं ज्ञानं रजतगोचरं भवति, आहोस्वित् तन्मात्रगोचरमेव ? यदि रजतगोचरं पुरोवर्तिरजततयागृह्णात्,385 कथं नान्यथाख्यातिः ? अथ तन्मात्रगोचरम्, को भेदाग्रहस्योपयोगः ? न हि वृक्षमात्रदर्शनं निश्चयेन शिंशपार्थिनं प्रवर्तयति । न हि तत्र शिंशापाज्ञानमस्ति । अस्ति त्विह रजतविज्ञानम्, अगृहीतभेदमिदमिति ज्ञानेनेति चेत् ? ननु रजतविज्ञानं पुरोवर्तिनि द्रव्ये न वर्तते, पुरोवर्तिज्ञानं च न रजत इति तत्र पुरोवर्तिद्रव्यमात्रार्थी पुरोवर्तिनि386 प्रवर्तेत न रजतार्थी । एवं रजतार्थी यत्र क्वचन प्रवर्तेत न नियमेन पुरोवर्तिनि द्रव्ये । न हि तत्र तेन रजतत्वमवगतमिति । अथेदं रजतमिति द्वे ज्ञाने भेदाग्रहादिदं रजतमित्येकज्ञानसदृशे, तेन तदुचितं व्यवहारं प्रवर्तयतः ? यद्येवं तद्रजतम् इयं शुक्तिरिति भेदावभासिविज्ञानव्यवहारमपि कस्मान्न प्रवर्तयतः ? यथैव हि भेदाग्रहादभिन्नविज्ञानसादृश्यम्,387 एवमभेदाग्रहाद् भिन्नविज्ञानसादृश्यमपि । सोऽयमुभयतो भेदाभेदाग्रहसारूप्यात् प्रवृत्तिनिवृत्तिभ्यां युगपदाकृष्यमाणः प्रतिपत्ता कष्टां दशामावेशितः प्रज्ञाशालिभिरतिव्याख्यया ।
स्यादेतत् । विपर्ययज्ञानोत्पादेऽपि शुक्तिरजतयोर्भेदाग्रहेऽस्य388 व्यापार आस्थेयः अन्यथा गृहीतभेदानामपि विपर्ययोत्पादप्रसङ्गात् । तथा च शक्यं तत्रापि वक्तुम्— यथा भेदाग्रहाद् विपर्ययज्ञानोत्पाद एवमभेदाग्रहात् कस्मान्न समीचीनज्ञानोत्पाद इति । तत्र यस्तव परिहारः सोऽस्माकं व्यवहारव्यपदेशयोर्भविष्यतीति । यथाहुरख्यातिवादिनः—येषामपि विपरीतख्यातिस्तेषामप्यज्ञानवासनानिबन्धनो भ्रम इति । मैवम्, ज्ञानहेतूनामज्ञातरूपकार्यसम्बन्धानां चक्षुरादीनां दर्शनात्, चेतनव्यवहाराणां त्वबुद्धिपूर्वकाणामप्रतीतेः, बुद्धिपूर्वकत्वे तु विवेकाग्रह उपयुज्यते न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः । यद्यविवेकग्रहोऽपि तत्परिपन्थी विद्यत इति कुतोऽन्यतरनिबन्धनो व्यवहारः ? तस्मात् समारोप एव भेदाग्रह इति । तत् सिद्धम्389 एतद्विवादाध्यासितं रजतादिविज्ञानं पुरोवर्तिवस्तुविषयम्, रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यद् यदर्थिनं नियमेन यत्र प्रवर्तयति तद्विज्ञानं तद्विषयम्, यथोभयसिद्धं समीचीनरजतविज्ञानम् । तथा चैतत्390 । तस्मात् तथा । यच्चोक्तम्—अनवभासमाना शुक्तिरनालम्बनमिति,391 तत्र किं शुक्तिकात्वस्य रजतमिति ज्ञानं प्रत्यनालम्बनत्वं साध्यते, आहोस्विद् द्रव्यमात्रस्य सितभास्वरस्य पुरोवर्तिनः ? तत्र पूर्वस्मिन्392 कल्पे सिद्धसाधनम् । उत्तरस्मिन्ननवभासनमसिद्धम्,393 इदमिति पुरोवर्तिनो द्रव्यस्याङ्गुल्या निर्देशात् दृष्टं च दुष्टानामपि कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोत्पादकत्वम् । तद् यथा, वेत्रबीजानां दावाग्निदग्धानां कदलीप्रकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बहुतरान्नपानपाचकत्वम् । नेदं रजतमिति च प्रत्यक्षबाधकप्रत्ययादपहृतविषयम्, प्रत्ययत्वेन विभ्रमाणां यथार्थत्वानुमानं नोदेतुमर्हति । यथा च प्रमाणाभासव्यभिचारेऽपि प्रमाणे आश्वासः, तथा “प्रमाणतोऽर्थप्रतिपत्तौ” इत्यत्रोपपादितम्394 । दिङ्मात्रमत्र दर्शितम् । प्रपञ्चस्तु “तत्त्वसमीक्षायामस्माभिः” कृत इत्युपरम्यते ॥
तदेवमात्मनि मिथ्याज्ञानं व्याख्याय शरीरादिष्वेकादशसु मिथ्याज्ञानं “भाष्य” एव दर्शितम् । तत्तु स्पष्टत्वादस्माभिर्न व्युत्पादितमित्याशयवानाह—“शेषमिति395 ।” तत्र शरीरादिषु मनःपर्यन्तेषु यथायोगं मिथ्याज्ञानं “दुःखे सुखम्” इत्यादिना “अप्रतिहातव्यम्” इत्यन्तेन “भाष्येणो”क्तम् । प्रवृत्त्यादिषु शृङ्गग्राहिकयोक्तं “प्रवृत्तौ” इत्यादिना “रोचयेत्” इत्यन्तेन “भाष्येण ।” एवं मिथ्याज्ञानस्य स्वरूपं दर्शयित्वा मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखानां कार्यकारणभावो दोषादीनां स्वरूपं चोक्तम्, “एतस्मात्” इत्यादिना “ताप”396 इत्यन्तेन “भाष्येण ।” सम्प्रति मिथ्याज्ञानाद्युच्छेदादपवर्ग इति वक्ष्यति । तच्चायुक्तम्, सत्यपि तदुच्छेदे संसारतादवस्थ्यात् । न ह्यन्योच्छेदेऽन्यस्योच्छेदः । तथा च नापवर्ग इति वक्ष्यमाणमर्थमुपपादयितुमुक्तं “भाष्यकृता त इमे मिथ्याज्ञानादय” इत्यादि । तद् “वार्त्तिककारो” व्याचष्टे—“त इमे दुःखादय” इति । “भाष्यकारो”क्तक्रमाद् विपरीतक्रमाभिधानं वार्त्तिककृतः । एवं “सूत्रकारो”क्तक्रमाद् विपरीतक्रमाभिधानं “भाष्यकृतः ।” तद् दुःखादीनां मिथ्याज्ञानपूर्वकत्वेन मिथ्याज्ञानस्य दुःखादिपूर्वकत्वेनानादित्वं दर्शयितुम् । पृच्छति—“कः पुनरिति ।” यद्येत एव संसारस्तर्हि “सूत्रकारः” प्रमेयसूत्रे कस्माद् दुःखादिभ्यः पृथक् प्रेत्यभावं संसारापरनामानमुपादत्ते ? तस्मादेभ्योऽन्य एव संसार इति भावः । उत्तरम्—“दुःखादीनामिति ।” नैषां स्वरूपमपि तु कार्यकारणभाव इत्यर्थः । क्रमव्यतिक्रमतात्पर्यमाह—“स चानादिरिति ।” अत्र हेतुमाह—“पूर्वापरेति ।” दुःखजन्मप्रवृत्तिदोषाः विषयत्वेन397 तावन्मिथ्याज्ञानस्य कारणम् । एवमसति जन्मनि मिथ्याज्ञानस्यानुत्पत्तेरविषयोऽपि जन्म मिथ्याज्ञानस्य कारणम् । एवं विना प्रवृत्तिं जन्माभावात् जन्मद्वारेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वम् । प्रवृत्तिद्वारेण च दोषाणाम्, तथा मिथ्याज्ञानाद् दोषाः, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर्जन्म, जन्मनो दुःखम् । यद्यपि प्रवृत्तिरेव साक्षाद् दुःखहेतुः, तथाप्यनायतनस्य तस्यानुत्पत्तेरन्तरा जन्म करोति । अथ सैव दुःखमिति ? अनादित्वाच्च नान्योन्याश्रयं चक्रकं वा बीजाङ्कुरसन्तानयोरिवेति । सम्प्रति बीजापाय इव तज्जन्याङ्कुरप्रवाहनिवृत्तिः, मिथ्याज्ञानापाये तज्जन्यदोषप्रवृत्तिजन्मदुःखमिथ्याज्ञानादिप्रवाहनिवृत्तिः, कारणनिवृत्तौ कार्यनिवृत्तेरिति कथनपरं “भाष्य”मनुभाष्याक्षिपति—“यदा तु तत्त्वज्ञानादिति ।” अपायोऽपि तत्त्वज्ञानान्मिथ्याज्ञानस्य स्वरुपतो वा, विषयतो वा, फलतो वा स्यात्, न तावत् स्वरुपतः, तस्याशुतरविनाशिनः संस्काराद् वा ज्ञानान्तराद् वा अपायस्य तत्वज्ञानसाधारण्येन तस्यापि बाध्यत्वप्रसङ्गात् । नापि विषयतः, न हि शुक्तिकाज्ञानं रजतज्ञानस्य रजतविषयतामपहर्तुमुत्सहते जातं398 हि तद् रजतं विषयीकृत्य । यथाहुः गृहीत्वार्थं गताश्चौराः कस्तानाच्छेत्तुमर्हति ।
इति । नापि फलमपहरति, उपदर्शितो हि तेनार्थः, प्रवर्तितश्च तत्र पुरुषः । तदिदमुक्तम्—“कथमपाय” इति । उत्तरम्—“समानविषय” इति । यस्मिन्नेव हि पुरोवर्तिनि द्रव्ये पूर्वेण रजतत्वमासञ्जितमत्रैवोत्तरं तद्विरुद्धशुक्तिकात्वं धर्ममुपनयति । तथा च पूर्वस्य विज्ञानस्य मिथ्यात्वमादर्शयत्तज्जनितां399 प्रवृतिं विघटयत् फलमस्यापहरतीति भावः । न तु समानविषयतामात्रेण विरोधः, मा भूदेकस्मिन्नात्मनि नित्यत्वविभुत्वज्ञानयोर्विरोध इत्यत आह—“यस्मादिति ।” तत्त्वमिथ्यात्वकथनेन मिथो विरुद्धधर्मप्रसञ्जनं सूचयति । नित्यत्वविभुत्वज्ञानयोस्तु समानविषययोरप्यविरुद्धधर्मोपस्थापकतया तत्त्वज्ञानत्वादित्यर्थः । कस्माद् विरोध इत्यत आह— “वस्तुन” इति । परस्पराभावधर्मिणोरेकत्र समवाये नेदं स्वाभाविकं नानात्वं क्वचिदपीत्यद्वैतप्रसङ्ग इति भावः । उपसंहरति—“तस्मादिति ।”
अत्र देशयति—“कथं400 पुनरिति ।” प्रथममुत्पन्नं मिथ्याज्ञानमनुपजातविरोधि, तेनापहृतविषयं पश्चात्तनं तत्त्वज्ञानमुदेतुमेव नोत्सहते, प्रागेव तु मिथ्याज्ञानं बाधितुमिति भावः । उत्तरम्—“मिथ्याज्ञानस्येति ।” तत्र हि प्रथममुपजातेनानुप जातविरोधिना ज्ञानेनोत्तरं बाध्यते, यत्र पूर्वापेक्षमुत्तरमुपजायते । तत् खलु पूर्वविरोधे न जायेत401 । अजातं सत् कथं पूर्वं बाधेत, यथा प्रत्यक्षादिविरुद्धमनुमानम् ? इह तु द्वे अपि ज्ञाने दोषोपहतानुपहतेन्द्रियार्थसन्निकर्षजन्मनी परस्परानपेक्षे । तत्र पूर्वमनुपजातविरोधित्वात् किं बाधताम् अनागतस्याप्राप्तत्वेन बाधितुमशक्यत्वात्, स्वकारणबलादासाद्यमानजन्मनश्चोत्पत्तिविरोधस्य चाशक्यत्वात् ? तदेवमुत्पन्नमुत्तरमुपजातविरोधितया पूर्वबाधात्मकं सन्नानुपमृद्य पूर्वमुत्पत्तुमर्हतीति बाधते402 । तत्तु न पूर्वेण नाप्यन्येन केनचिदिति भवत्यर्थसहायम् । अर्थासहायं च मिथ्याज्ञानम् । तदनेन बाध्यत्वाबाध्यत्वे मिथ्याज्ञानतत्त्वज्ञानयोरुपलक्ष्येते । तदिदमन्यैरप्युक्तम्—
पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम्403 ।
अन्योन्यनिरेपेक्षाणां यत्र जन्म धियां भवेत् ॥
इति । तथा चानुपजातविरोधित्वमत्र बाध्यत्वे हेतुः, उपजातविराधित्वं च बाधकत्व इति ।
यदुपलक्षणार्थं ससहायत्वाभिधानं तज्जिज्ञासुः पृच्छति—“कस्मात् ?” उत्तरम्—“तथात्वेनेति ।” अनेनाबाध्यत्वं तत्त्वज्ञानस्योक्तमिति । न केवलमबाध्यत्वम्, दृड्¤हमूलत्वमपि तत्त्वज्ञानस्येत्याह—“प्रमाणान्तरानुग्रहाच्च ।” अन्तरशब्दो विशेषवचनः । आत्मादितत्त्वज्ञानं हि फलं प्रमाणविशेषैरागमानुमानप्रत्यक्षैरनुगृह्यते, तस्माद् दृढमूलत्वात् तदपि तत्वज्ञानं मिथ्याज्ञानं निवर्तयतीत्यर्थः । एतदेव विभजते—“आगमेति ।” तदेव स्फोरयति—“यदा हीति ।” आगममयेन404 हि ज्ञानेन प्रमेयं गृहीत्वा शास्त्रीयेण च न्यायविज्ञानेनानुमानापरनाम्ना व्यवस्थाप्य भावयतो यदात्मनः सन्निकर्षाद् योगजधर्मसहायादुत्पद्यते तत्त्वविषयः साक्षात्कारः प्रत्यक्षफलम्, तत्र त्रयाणामपि प्रमाणानां प्रतिसन्धानमस्तीति दृढमूलत्वात् तेन मिथ्याज्ञानं बाध्यते ॥
“विषयं” भावयतीति व्याचष्टे—“समाहित” इति । समाहितत्वेन चेतसो405 धारणां दर्शयति—“अनन्यमना” इति प्रत्याहारम्, “चिन्तयतीति” चेतसः तत्त्वविषयबुद्धिधारा, विपच्यमानत्वं ध्यानस्य, तत्त्वज्ञानस्य स्फुटाभत्वारम्भावस्था406 । ध्यानजनितभावनासंस्कारो ध्यानभावना, तस्या विवेको मिथ्याज्ञानवासनायाः । पूर्वं हि मिथ्याज्ञानवासना तत्त्वज्ञानवासनाया बलवत्यासीत्, अथाभ्यासवशात् तुल्यबलाभवत्, अथेयमेव बलीयसी तत्त्वज्ञानवासनासम्भिन्ना407 मिथ्याज्ञानवासनया सहानुवर्तते । सम्प्रति तु408 तत्त्वज्ञानवासनाया अत्यन्तबलीयस्या समूलकाषं कषितत्वात् मिथ्याज्ञानवासनाया भवति विविक्ता तत्त्वज्ञानवासना407 तस्यामित्यर्थः ।
नन्वनेन क्रमेण निवर्ततां मिथ्याज्ञानम्, निवृत्तं तु तत्त्वसाक्षात्कारसमयेऽपि कस्मात् पुनः स्ववासनावशान्न जायते ? न खलु मिथ्याज्ञानवासना अनादिकालप्रवृत्ता आदिमता तत्त्वज्ञानेन तत्संस्कारेण409 वा शक्या निवर्तयितुमित्यत आह—“निवृत्ते चेति ।” तावदेव पुंसां बुद्धयोऽस्थिराः भ्राम्यन्ति स्वोचितं410 च संस्कारजातमातन्वते, न यावद् भूतमर्थं साक्षात्कुर्वन्ति । अथ साक्षाकृत्य तत्र स्थिरपदा भवन्ति, क्षिण्वन्ति च सवासनान् मिथ्याप्रत्ययान् । भूतार्थपक्षपातो हि बुद्धेः स्वभावः । यदाहु“र्बाह्या” अपि—
निरुपप्लवभूतार्थस्वभावस्य411 विपर्ययैः ।
न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥
प्रमाणवार्त्तिके १।२१२-३
इति । तस्मात् मिथ्याज्ञानस्य न पुनरुत्पाद इति ॥
उक्तमेवार्थं स्मृतिदाढ्र्याय पृच्छति—“कः पुनरिति ।” उक्तं स्मारयितुमुत्तरम्— “सहेति ।” भवतु मिथ्याज्ञानस्य निवृत्तिः सवासनस्य, ततोऽपि किमित्यत आह—“मिथ्या ज्ञानेति ।” अत्र पृच्छति—“ये तावदिति ।” उत्तरम्—“तेषामपीति ।” वैराग्यस्वरूपं पृच्छति—“किं पुनरिति ।” रागाभावो हि वैराग्यम् । न च तस्मादेव रागादीनामभाव इति भावः । उत्तरम्—“भोगानभिष्वङ्गलक्षणमित्युक्तम् ।” विषयदोषपरिभावनापरिपाकात् खलु विषयपरित्यागेच्छा भवति । तया विरोधिगुणेन विषयतृष्णा च तत्परिपन्थिनि विद्वेषश्च तदाधिकरणश्चेर्ष्यादयो निवर्तन्ते । असक्तिर्विषयपरित्यागेच्छा, वशितया च स्वयमुपनतेषु विषयेषु माध्यस्थ्यदर्शनम् । दोषाभावे किं भवतीत्यत आह—“दोषाभाव” इति । पृच्छति—“का पुनरियमिति ।” यदि हि जन्मनः प्रवृत्तिः कारणं स्यात्, ततो जन्मनिवृत्त्पै तन्निवृत्तिरर्थ्येत । न पुनरसौ क्षणिका सती आमुष्मिकाय जन्मने कल्पते । अतः किमर्थं निवर्त्यत इति भावः । विदिताभिप्राय उत्तरमाह—“धर्माधर्मौ ।” कस्मात् पुनरुपचार इत्यत आह—“जन्मसाधनत्वात् ।” एतद्विभजते—“नास्मिन्निति ।” उपचारे प्रयोजनं दर्शयित्वा निमित्तमाह—“धर्माधर्मयोस्त्विति ।” वर्तमानानागतयोरविशेषेण दोषापायात् निवृत्तिरुक्तेति भ्रान्त्या देशयति—“यौ तावदनागताविति ।” परिहरति— “न, अनागतयोरिति ।” अनागताभिप्रायमेतदित्यर्थः । यद्येवम्, वर्तमानयोः कुतः प्रक्षय इत्यत आह—“वर्तमानयोरिति ।” अस्तु प्रवृत्तेरभावः, ततः किमित्यत आह— “प्रवृत्त्यभाव” इति । उक्तं विवेकमिहापि योजयति—“अत्रापीति ।” वर्तमाननिवृत्तिहेतुं पृच्छति—“अथेति ।” उत्तरम्—“संस्कारेति ।” श्रुतिः तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये
[छान्दोग्य ६।१४।२] इति । किं जन्माभावे सिध्यतीत्यत आह—“जन्माभाव” इति । अत्रैव वृद्धसम्मतिमाह—“एतच्च412 तदाहुरिति ।” तदेतच्चेति योजना । प्राणनस्य कालभेदावच्छेद “आयुः ।”
स्यादेतत्, महाप्रलयेऽपि मिथ्याज्ञानादिना दुःखान्तेनास्ति वियोग इति अत्रापि मुक्तिप्रसङ्ग इत्यत आह—“सोऽयं मिथ्याज्ञानादिनेति । सर्वत” इति तृतीयार्थे तसिः सर्वेणेति । न च प्रलयावस्थायां सर्वेण वियोगः, कर्माविद्यावासनयोरविनाशात् । मुक्तौ तु तयोरपि विनाशः । कर्मवासना च सर्वकार्याणामुत्पादिका अवस्थापिका च । तन्निवृत्तौ शरीरादिवत् तत्त्वज्ञानसंस्कारस्यापि प्रलय इत्यशेषविशेषगुणविमुक्तो मुक्त इत्युच्यत इति सिद्धम् ।
स्यादेतत् । तत्त्वज्ञानात् मिथ्याज्ञानापाय इत्युक्तम् । किं पुनस्तत्त्वज्ञानमित्यत उक्तं “भाष्यकृता—तत्त्वज्ञानं त्विति ।” तदनुभाष्य सर्वेषां ज्ञानानां “भाष्यो”क्तानामनुगतमेकं स्वरूपमाह—“स्वरूपतस्त्विति ।” चोदयति—“कस्मादिति ।” नो खल्वयं प्रेक्षावतां समाचारो यद् दुःखभिया सुखपरित्याग इति, अपि तु सुखं दुःखाद् विविच्योपाददते413 दुःखं च वर्जयन्ति । न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्त इति414 । उत्तरम्—“विवेकहानस्येति ।” यद्यपि सुखदुःखे भिन्ने, तथाप्यनित्यत्वकृतकत्ववत् परस्परानुषक्ते इति न खलु सुखस्य केवलस्योपादानं दुःखस्य वा केवलस्य परिवर्जनं शक्यमित्यर्थः । कः पुनरयमनुषङ्गो यतो विवेकहानमशक्यमित्यत आह—“अनुषङ्गोऽविनाभावः ।” तत्स्वरूपमाह—“यत्रैकं” सुखं वा दुःखं वा, “तत्रेतरत्” दुःखं वा सुखं वा । तदनेनानित्यत्वकृतकत्वयोरिव सुखदुःखयोरविनाभावो415 दर्शितः । न चाविनाभावो विना सम्बन्धादिति तत्सिद्धये सम्बन्धविकल्पानाह—“समाननिमित्तता वां अनुषङ्गो”ऽविनाभावः, वाशब्दश्च वक्ष्यमाणसम्बन्धान्तरापेक्षया, न416 तु पूर्वापेक्षया । अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया तयोरसाधारण्यादिति मन्तव्यम् । तयोरविनाभावसिद्ध्यर्थं सम्बन्धान्तरमाह—“समानाधारता वा ।” अपरं सम्बन्धान्तरमाह—“समानोपलभ्यता वा ।” मनोगोचरत्वमुभयोः । ततश्च सिद्धोऽविनाभावापरनामा अनुषङ्ग इति । “यत्रैकं तत्रेतरदिति वा417 ।” यत्र यस्मिन्निमित्ते सतीति वा यत्राधार इति वा यत्रोपलब्धिसाधने सतीति व्याख्येयम् । “इतिः” सूत्रसमाप्तिं सूचयति ॥ २ ॥
॥ इति अभिधेयप्रयोजनसम्बन्धप्रकरणम् ॥
प्रमाणलक्षणप्रकरणम्
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ १ । १ । ३ ॥
तदेवं प्रमाणादिपदार्थतत्त्वज्ञानस्य418 निःश्रेयससम्बन्ध उक्तः परीक्षितश्च । तत्रैतत् स्यात् स्वपदेभ्यः प्रमाणदयः पदार्थास्तत्त्वतो ज्ञाता यथायथं मिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गे419 उपयोक्ष्यन्ते, कृतमुपरितनेन प्रबन्धेन इत्यत उक्तं “भाष्यकृता—त्रिविधा चास्येति ।” न नामधेयमात्रात् प्रमाणादीनां तत्त्वज्ञानं भवति, अपि तु लक्षणपरीक्षणाभ्यामित्यस्ति प्रबन्धस्योत्तरस्योपयोग इति “भाष्या”र्थः । तदेत“द्भाष्य”मनुभाष्य पृच्छति—“प्रवृत्तेरिति ।” यदि पुरुषकल्पनामात्रात् त्रैविध्यम्, अथानन्त्यमेव कस्मान्न भवति, सर्वत्र तस्य सुलभत्वादिति भावः । उत्तरम्— “अर्थस्य तथाभावात् ।” अर्थस्य प्रयोजनस्य साक्षात् शास्त्रकार्यस्य तत्त्वज्ञानलक्षणस्य तथैव त्रिविधयैव420 शास्त्रप्रवृत्त्या भावात् । तथा हि, लक्षणं नाम व्यतिरेकिहेतुवचनम् । तद्धि समानासमानजातीयेभ्यो व्यवच्छिद्य लक्ष्यं421 व्यवस्थापयति । न चास्य धर्मिदर्शनमन्तरेण पक्षधर्मता सिध्यतीति तदुपदर्शनाय नामधेयमात्रेण धर्मिणामुद्देशः । यद्यपि च प्रतिलक्षणमुद्दिष्टा एव धर्मिणः, तथापि शास्त्राभिसम्बन्धपरादपि वाक्यात् समधिगम्यन्त इत्युद्देशोऽप्युक्तः । न चापरीक्षितो हेतुर्व्यतिरेकी चतूरूपो भवतीति परीक्षाप्यवश्यं कर्तव्या । तस्मात् तत्त्वज्ञानस्यार्थस्य तथाभावात् त्रैविध्य मिति । तदेतद्422 विभजते—“नामी पदार्था” इति । “किं त्विति । अर्थः” तत्त्वज्ञानं तथाभूतम्, येनार्थेन हेतुना शास्त्रस्य प्रवृत्तिस्त्रेधा भवति ॥
उद्देशस्वरुपप्रतिपादनपरं भाष्यमनुभाष्याक्षिपति—“नामधेयेनेति ।” परिहरति— “मात्रग्रहणसामर्थ्यादिति ।” यद्यपि प्रमाणादिशब्दा अपि कारकशब्दा एव, तथाप्युद्देशसमये तदर्थानां सदपि कारकत्वमविवक्षितम्, अपि तु प्रातिपदिकार्थमात्रम् । “घ्राणादिसूत्रे” [१। १। १२] तु लक्षणपरे कारकत्वं विवक्षितम्, अन्यथा लक्षणत्वायोगादित्यदोषः । अत्र यद्यपि “सूत्रकारेण” संशयप्रमाणप्रमेयेषु परीक्षा साक्षात् कृता न प्रयोजनादिषु, तथापि तत्करणादेव प्रयोजनादिपरीक्षापि सूचिता “सूत्रकारेणेति” त्रिविधेत्युक्तम् । अत एव भाष्यकारः सर्वत्र परीक्षामन्ववर्तयदिति ॥
स्यादेतत् । विभागपरमेतत् “सूत्र”मिति वक्ष्यति । न च विभागो न्यूनाधिकसङ्ख्याव्यवच्छेदार्थमेकं किञ्चिदुपसङ्ग्राहकमन्तरेण । न च प्रमाणत्वादन्यदत्रोपसङ्ग्राहकम्423 । न चेदमलक्षितमुपसङ्गृह्णाति । न चैतत् “सूत्र”मस्य लक्षणम्, विभागपरत्वादिति शङ्कानिराकरणपरं “भाष्यम्-तत्रोद्दिष्टस्येति ।” तस्यार्थः-यद्यपि विभागपरमेतत् “सूत्रम्,” तथापि प्रमाणपदसमभिव्याहृतं सत् सामर्थ्यात् प्रमाणत्वमपि लक्षयतीति । तथा हि, प्रमीयतेऽनेनेत्यस्य वाक्यस्यार्थे प्रमाणपदप्रयोगः । प्रमा च स्मृतेरन्या, अर्थाव्यभिवारी स्वतन्त्रः परिच्छेदः । तस्माद् विभागपरादपि “सूत्रात्” प्रतीयमानं प्रमाणसामान्यलक्षणमपेक्षितं424 सङ्गृहीतमिति प्रमाणत्वोपगृहीतानां प्रत्यक्षादीनां प्रमाणानां युक्तो विभागः । तथा च विभागपरत्वेन साक्षात् सामान्यलक्षणानभिधानाद् विभक्तस्य लक्षणमुच्यत इत्युक्तम् । तच्चेह विशेषलक्षणम् “इन्द्रियार्थसन्निकर्षेत्यादि” [१।१।४] । तदेतद् भाष्यं व्याचष्टे—“उद्दिष्टस्येति ।” लक्षणालक्षणमात्रविवक्षया लक्षितस्यालक्षितस्य इत्युक्तम् । तच्च छले425 सामान्यतः, प्रमाणेषु प्रमेयेषु च विशेषत इति गमयितव्यम् ॥
अत्र “भाष्यम्—अथोद्दिष्टस्यविभागवचनमिति ।” तस्यार्थः—उच्यतेऽनेनेति वचनं “सूत्रं” विभागस्य । अथेति त्रिविधप्रवृत्तिव्युत्पादनानन्तरं विविक्तानां426 प्रतिपादनं “विभागवचनम् ।” न च विवेकः स्वरूपत उपयुज्यत इत्यत आह—“अथोद्दिष्टविभागद्वारेणेति ।” नात्र विभागमात्रं विवक्षितम्, अपि तु तद्द्वारेण न्यूनाधिकसङ्ख्याव्यवच्छेदस्तत्त्वज्ञानाङ्गमित्यर्थः ॥
अव्याख्याने हेतुमाह—“सूत्रेति ।” चोदयति—“उद्दिष्टस्य427 विभागानर्थक्यम्, व्याघातात् ।” त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरित्यस्यानर्थक्यम् । अनर्थमर्थविपर्ययं कायति कीर्तयतीत्यनर्थकम् । तस्य भावस्तत्त्वम् । कस्मात् ? “व्याघातात् ।” व्याघातमेव स्फोरयति—“त्रिविधा चास्य शास्त्र्यस्येति ।” परिहरति—“नोद्दिष्टेति ।” परस्परं विभक्ता नामधेयमात्रेणोद्दिश्यन्त इत्युद्देशेऽन्तर्भावः428 । तेनायमर्थो भवति, सामान्येनोदिष्टस्य विभागवचनं विशेषेणोद्देश इति । विभागप्रयोजनं पृच्छति—“किं पुनरिति ।” उत्तरम्—“नियमः ।” तद्विभजते—“यदीति ।” पुनश्चोदयति—“लक्षणत” इति । प्रमाणलक्षणकरणप्रवृत्तो यत् चत्वार्येव लक्षयति तदवगम्यते न न्यूनान्यधिकानि वा प्रमाणानीत्यर्थः । परिहरति—“लक्षणस्येति ।” आक्षेपं विभजते—“स्यादेषेति ।” परिहारं विभजते—“न, लक्षणस्येति ।” अन्यपरमपि वाक्यं तदेवार्थलभ्यं स्वीकरोति । यत् तेनापेक्षितम्, तदेव429 च तेनापेक्षितम् येन विना तदर्थो नोपपद्यते । न च प्रत्यक्षादीनां समानासमानजातीयस्य व्यवच्छेदे पञ्चमाद्यभाव उपयुज्यते । लक्षणकरणप्रवृत्तस्य क्वचिदकरणं न तदभावे प्रमाणम्, सतोऽप्यनुपयोगेनाकरणोपपत्तेः । तदेतदाह—“अन्यासम्भवस्येति ।” विभागोद्देशस्य पुनरनन्यपरत्वादन्याभावनिश्चयो भवतीति । उपसंहरति—“तस्मादिति ।”
“अक्षस्याक्षस्येति भाष्य”मनुभाष्य तात्पर्यमाह—“अयं च सूत्रविवक्षयेति430 ।” अक्षमक्षं प्रति वर्तत इति विगृह्याव्ययीभावे कृत सर्वेन्द्रियावरोधो भवति । ननु यदीदृशो विग्रहः, कस्मात् पुन“र्भाष्यकारेण अक्षस्याक्षस्येति” विगृह्यत इत्यत आह—“अन्यथा तु वस्तुनिर्देश” इति । अर्थमात्रमनेन प्रतिपाद्यते, न पुनः समास इत्यर्थः । अथ कस्मात् समास एव तेन विग्रहेण न प्रतिपाद्यत इत्यत आह—“समासे हि अक्षस्येति षष्ठी न श्रूयेतेति ।” यदि “सूत्र”गतस्य प्रत्यक्षपदस्याव्ययीभावः समासः, अन्यत्र पुनरस्य कः समास इति पृच्छति—“कः पुनरिति ।” उत्तरम्—“प्रादिसमास” इति । तथा हि, प्राप्तापन्नालम्पूर्वगतिसमासेषु431 परवल्लिङ्गताप्रतिषेधादभिधेयलिङ्गोपादानात् प्रत्यक्षोऽर्थः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानमित्यभिधेयलिङ्गता सिद्धा भवति । क्वचित् पाठः “समासे हि प्रत्यक्षस्येति षष्ठी न श्रूयेतेति । सूत्र”विवक्षयाव्ययीभाव इत्युक्तम् । तत्र शङ्कते—कस्मात् पुनः सूत्रविवक्षयेत्युच्यते यावता सर्वत्रैव कस्मादव्ययीभावो न भवतीति ? तत्रेदमुपतिष्ठते—“समासे हि” अवययीभावसमासे हि सर्वत्र प्रत्यक्षस्येति षष्ठी न श्रूयेतेति । व्युत्पत्तिनिमित्तमात्रं चेदं प्रत्यक्षशब्दस्य, न तु प्रवृत्तिनिमित्तम् । तस्मात् नेन्द्रियगतैर्गुणसामान्यादिभिर्व्यभिचारः, प्रवृत्तिहेतुस्तर्थसाक्षात्कारिज्ञानजनकत्वम् । तन्निमित्तः खल्वयं प्रत्यक्षशब्दस्तत्र तत्र लौकिकपरीक्षकैः प्रयुज्यते । यथा मयूरशब्दो मयूरत्वसामान्यनिबन्धनः कासुचिदेव पतत्रिव्यक्तिषु वर्तमानः, मह्यां रौतीत्यन्वाख्यायते । तदिदं प्रत्यक्षमुद्दिष्टमपि सत् प्रमाणतदाभाससङ्कीर्णमिति तद्विवेकाय लक्षणमुपयुज्यते । यदि तूद्देशपदं तद्विवेचयेत्, कृतं तर्हि लक्षणप्रणयनेन432 ॥
विग्रहवाक्यगता च वृत्ति“र्भाष्य”कृता व्याख्याता । “वृत्तिस्तु सन्निकर्षो ज्ञानं वा ।” वृत्तिरिति हि व्यापारः । स तु व्यापार उच्यते, यः कारकैः फले जनयितव्ये चरमभावी धर्मभेदः फलोत्पादानुकूलोऽपेक्ष्यते । यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगभेदाः, स्वर्गे जनयितव्ये यागेनापूर्वमात्मधर्मः, तथेहापि इन्द्रियादिना प्रमाणेन प्रमायां फले प्रवृत्तेन तदुत्पादनानुकूलः सन्निकर्षो ज्ञानं वा चरमभावी धर्मभेदोऽपेक्ष्यत इति भवति व्यापारः । स एव वृत्तिरित्याख्यायते । व्यवस्थां दर्शयति—“यदा सन्निकर्षो व्यापार” इन्द्रियादेः प्रमाणस्य “तदा ज्ञानम्” आलोचनं वा सविकल्पकं वा साक्षात्कारवद्विज्ञानं433 “प्रमितिः फलम्,” उभयस्यापीन्द्रियव्यापारात् सन्निकर्षापराभिधानादुत्पत्तेः न चान्तरालिकेन निर्विकल्पकेनेन्द्रियव्यापारविच्छेद इति प्रत्यक्षव्याख्यानावसरे निवेदयिष्यते । “यदा ज्ञानम्” आलोचनं वा विकल्पो वा व्यापार इन्द्रियादीनां “तदा हानोपादानोपेक्षाबुद्धयः फलम् ।” तत्रोपादेयमिदं सलिलमिति बुद्धिरनागतोपादानविशिष्टं सलिलमालम्बमाना न साक्षात्कारवती, सलिलमात्रसाक्षात्कारस्तु स्यात् । न च तन्मात्रमस्य फलम्, अपि तूपादेयता । सा च परोक्षा, अनागतत्वात् । तस्मादुपादीयतेऽनेनेत्युपादानम् । उपादानं चासौ बुद्धिश्चेत्युपादानबुद्धिः । तत्र434 तोयालोचनमथ तोयविकल्पः, अथ435 तज्जातीयस्य दृष्टचरपिपासोपशमनहेतुभावस्य स्मृतिबीजसंस्कारोद्बोधः, अथ तस्य स्मरणम्, अथ लिङ्गपरामर्शः तज्जातीयं चेदमिति । तदिदं लिङ्गपरामर्शविज्ञानं साक्षात्कारवत् । लिङ्गे विनश्यदवस्थव्याप्तिस्मरणसहकारिदृश्यमानस्य सलिलस्य पिपासोपशमनहेतुतया अनुमानमुखेनोपादानबुद्धिरुच्यते । अनुमाय436 खल्वयं तथाभावं तदुपादित्सन्नीहमानः437 तदुपादत्ते । न च व्याप्तिस्मृतिविच्छिन्नमालोचनं वा विकल्पो वा न लिङ्गपरामर्शज्ञानहेतुरिति वाच्यम्, तदुद्बोधितसंस्कारद्वारेण व्याप्तिस्मरणे च परामर्शे च तस्य तदानीमसतोऽपि कारणत्वात् । न खलु कृषिकर्म शस्याधिगतिसमये समस्ति, न च यागादिकं स्वर्गाद्युत्पादसमये, न च त्रिवृत्कषायपानं विरेकसमये । आन्तरालिककार्यपरम्परया तु तत्साधनत्वं438 सर्वत्र समानम् ॥
स्यादेतत् । का पुनरियं पिपासोशमनशक्तिस्तोयस्य, या अनुमानगोचरः ? न ताव“न्मीमांसक”वदतीन्द्रिया शक्तिर्युस्माभिरभ्युपेयते,439 किं तु कारणानां स्वरूपं वा सहकारिसाकल्यं वा । तत्र स्वरूपं हेतूनां प्रत्यक्षमेव । सहकारिणां प्रत्यक्षाप्रत्यक्षाणां साकल्यं कार्यसमुत्पादैकव्यञ्जनीयम्,440 न तु तत् तोयरूपदर्शनमात्रात्441 शक्या नुमानम् । तत् किमपरमवशिष्यते यदनुमानस्य गोचर इति ? अत्रोच्यते न वयमतीन्द्रियं सामर्थ्यमातिष्ठामहे, नापि सहकारिसाकल्यानुमानमाचक्ष्महे,442 किं तु स्वरूपस्य कार्यसम्बन्धिताम् । न चेयं स्वरूपमेव, इहस्थस्येव नारिकेलद्वीपादागतस्यापि वह्निदर्शनमात्राद् ग्राहकत्वावगमप्रसङ्गात् । तस्मात् कार्योपहितं स्वरूपमनुमेयम् । इदमेव चास्य कार्योपधानं यत् कार्योत्पादात् पूर्वमवश्यम्भाव आनन्तर्यनियमः । न च तज्जातीयस्य दृष्टचरस्य तथाभावदर्शनेऽपि दृश्यमानस्य तोयस्य तद् दृष्टं भवति येन तत्र स्मर्येत । न खलूज्जयिन्यामुपलब्धस्य सौधस्य पाटलिपुत्रे स्मरन्त्यभ्रान्ताः । उपादानेन हानं व्याख्यातम् । न चोपेक्षानुपादानतया हानपक्षे निक्षिप्ता, अहानतयोपादानपक्षे निक्षेपप्रसङ्गात् । उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति चेत् ? किमियं हानप्रयत्नमपि प्रसूते यतो हानं स्यात् ? तस्माद् या नोभयप्रयत्नप्रसवहेतुः सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम् ॥
प्रत्यक्षपदव्युत्पत्तिं दर्शयित्वा अनुमानादिपदेष्वपि व्युत्पत्तिगतिं443 दिशति— “एवमनुमानादिष्वपीति ।” तत्रेदमनुमानपदव्युत्पत्तिभाष्यम्—“मितेन444 लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानमिति ।” मितिर्मानम् । तथा च लिङ्गदर्शनोद्वोधितसंस्कारजा स्मृतिर्व्यवच्छिना,445 तस्या मितेरन्यत्वेन446 लोकसिद्धत्वात् । मितेनेत्यज्ञानसन्देहविपर्यासा लिङ्गविषया व्युदस्ता447 भवन्ति । तथापि मितेनार्थस्य ज्ञानं शाब्देऽप्यस्तीत्यत448 उक्तम्—“लिङ्गेनेति ।” अपक्षधर्मतां निवर्तयति—“लिङ्गिन” इति । तथापि धर्मिणः449 प्रत्यक्षगोचरत्वात् कृतमनुमानेनेत्यत उक्तम्—“अर्थस्येति ।” अर्थ्यते450 साध्यत इत्यर्थः । न च धर्मी स्वरूपेणार्थ्यते,451 किं तु जिज्ञासितधर्मविशिष्ट इत्यर्थः । पश्चादित्यनुशब्दस्य व्याख्या । तदेत“द्भाष्य”मनुभाष्याक्षिपति—“मितेनेति ।” कस्मादयुक्तमित्यत आह—“फलाभावादिति ।” एतद् विभजते—“एतस्मिन्निति ।” अनुमानज्ञानस्य फलावस्थायामेवार्थो मित इति मेयं नावशिष्यते, यत्रैतत् सिद्धं सत् प्रमाणं भवेदित्यर्थः । तत्र फलविशेषणपक्षमास्थाय452 यत इत्यध्याहृत्य समाधत्ते—“नैष दोष” इति । अनध्याहारेणाप्यदोष इति समाधानान्तरमाह—“भवतु वेति ।” पूर्वोक्तं दोषं स्मारयति—“ननु चेति ।” परिहरति—“न दोष” इति । अथ कस्मात् हानादिविषयं प्रमाणमुच्यते, न स्वगोचरं प्रतीत्यत आह—“सर्वं च प्रमाणमिति ।” यद्यपि वह्निविज्ञानस्यानुमानस्य सतो हेयत्वादिकं विषयः, तत्रैव453 व्यापारात् । अन्यथा प्रमाणफलयोर्विभिन्नविषयत्वेन विप्रतिपत्त्या प्रमाणफलभावायोगात् । न हि पनसविषयेण परशुना खदिरे द्वैधीभावो भवति । तथापि फलान्तरानपेक्षमुत्पत्तावेव विज्ञाने यत् प्रकाशते स तस्य विषयः । तत्र तु न तत् प्रमाणम्, फलान्तराजनकत्वादपि तु फलमेवेत्यर्थः । विषयान्तरं प्रति तु454 प्रमाणमित्याह—“विषयान्तरमिति ।” चोदयति—“यदीति ।” भावसाधनश्चेत् प्रमाणशब्दः फलमस्यार्थो न तु फलं स्वविषये करणम्, तद्व्यापारस्य455 तज्जनकेनैव कृतत्वात् । न च स्वविषयादन्यद् विषयान्तरमस्य सम्भवति, अतिप्रसङ्गादिति भावः । परिहरति—“उक्तं फलमिति ।” यद्यपि यत्र फलं सोऽस्यौत्पत्तिको विषयः, तथापि यत्रानेन प्रमाणेन सता हानादिबुद्धयो जनयितव्याः, सोऽपि व्यापारेण विषय इति भावः । फलत्व एव हेतुमाह—“ज्ञात” इति । परोक्षार्थावगाहितया हेयादिबुद्धयः प्रत्यक्षफलं न भवन्ति, भवन्ति त्वनुमानस्येति नियमवादिनां मतमुपन्यस्य दूषयति—“केचित् त्विति ।” अनियमं रोचयमान आह—“उभयं त्विति ।”
अनुमानशब्दवत् फलेन456 निर्वचनीयत्वमुपमानशब्दस्येति मन्वान आक्षिपति “सामीप्येति ।” समाधत्ते—“नास्ति व्याघात” इति । नेयमुपमानशब्दस्य फलेन456 निरुक्तिः अपि तु प्रमाणेन निरुक्तिरिति न व्याघात इत्यर्थः ।
“शब्दविषया प्रतिपत्तिः” शाब्दं प्रमाणम् । यत् खलु चैत्र, गां बधानेति वाक्यमिदमित्यनुसन्धानात्मकं स्मार्तं विज्ञानमुपजायते, तत् पदार्थस्मरणसहकारिविशिष्टार्थविषयं विज्ञानं प्रसूते, तच्छाब्दं प्रमाणम् । प्रमाणमुक्त्वा फलमस्याह—“फलं तदेव ।” यदा ह्येतत् प्रमाणं तदा वाक्यार्थविज्ञानं फलम् । यदानुमानवद्457 वाक्यार्थविज्ञानं प्रमाणं तदा हानोपादानादिबुद्धयः फलमित्यर्थः ।
अत्र प्रत्यक्षादीनां क्रमोद्देशप्रयोजनं “प्रति एकदेशि”मतमुपन्यस्यति—“केचित् त्विति ।” प्रत्यक्षपरा हि प्रमाणान्तरजन्याः प्रमितय इति प्रत्यक्षस्य प्राधान्यम् । यद्यपि किञ्चिदनुमानमनुमानादिपूर्वकमपि,458 तथापि प्रायेण प्रत्यक्षपूर्वकम् । उपमानं तु प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेत्यस्यानुमानादपकर्षः । स्मणसहकारिता चानुमानसादृश्यमुपमानस्यास्तीत्यनुमानानन्तरमुद्देशः । अल्पज्ञानाधीनं च बहुज्ञानमित्यल्पविषयप्रत्यक्षाद्युद्देशेभ्यः परो बहुविषयशब्दोद्देश इति । तदेतद्459 “एकदेशि”मत“मेकदेश्यन्तर”मतेन दूषयति—“तच्चायुक्तमित्यपर” इति । अक्लिष्टो हि प्रथमं महाविषयमेव दुरवधारणत्वान्निरूपयति, अल्पविषयं तु क्लिष्टोऽपि शक्नोति460 निरूपयितुम् । अतो महाविषयत्वं प्राथम्य एव हेतुर्न चरमत्व इत्यर्थः । अनन्तरमतं दूषयति—“एतच्चेति ।” एतावता क्रममात्रं भवेत्, न तु तद्विशेषनियम इत्यर्थः ॥
सम्प्रति विमर्शपूर्वकं स्वाभिमतक्रमनियमहेतुमवधारयन्नेव पूर्वै“कदेशि”मतमपाकरोति—“तस्मादन्य” इति विमर्शनिमित्तं461 विप्रतिपत्तिमाह—“प्रत्यक्षं पूर्वं प्राधान्यात्” इत्येकः । “महाविषयत्वाच्चादौ शब्दोपदेश” इत्यपरः । तत्र महाविषयत्वमनैकान्तिकं सन्नागमस्यैव पूर्वोपदेशं गमयतीत्याह—“उभयमिति ।” पृच्छति— “कथमिति ।” उत्तरम्—“प्रत्यक्षेणापीति ।” महाविषयत्वलक्षणसाधारणधर्मदर्शननिमित्तं सन्देहमाह—“तत्रेति462 ।” स्वाभिमतेन463 हेतुना क्रमविशेषनियममवधारयति—464 “प्रत्यक्षस्येतीति ।” यद्यपि प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षस्य प्राधान्यम्, तथापि शास्त्रे व्युत्पाद्यत्वेनानुमानस्यापि तदस्तीति साधारणतया न हेतुरिति भावः ।
स्यादेतत् । व्यवस्थितविषयं प्रत्यक्षं नानुमानविषये प्रवर्तते, न चानुमानमगृहीतसम्बन्धमुदेति । न च सम्बन्धग्रहः सम्बन्धिग्रहमन्तरेण । न चानुमानविषये सामान्यरूपे सम्बन्धिनि प्रत्यक्षं प्रवर्तते । अनुमानान्तरेण तु ग्रहणेऽनवस्था । तस्मात् कारणाभावान्नानुमानमस्ति । एतेन शब्दोपमाने अपि परास्ते, तयोरपि सम्बन्धसंवेदनाधीनजन्मत्वात् । तस्मात् नाप्रत्यक्षं प्रमाणमिति विभागवचनमनुपपन्नमिति शङ्कामपनेतुं विमर्शपूर्वकं विचारयति स्म “भाष्यकारः—किं पुनः प्रमाणानीति ।” तदेत“द्भाष्य”मनुभाष्याव्याख्याने कारणमाह—“किं465 पुनरेतानीति ।”
“सा चेयं प्रमितिः प्रत्यक्षपरेति भाष्यम् ।” तदनुभाष्य हेतुमाह—“सेयमिति ।” आकाङ्क्षाभावप्रतिपादनाय प्रतीतिस्वरूपं466 क्रमं चाह—“यथायमिति । आहित” उत्पादितः “प्रत्ययो” निश्चयो यस्य, संसर्गोपधानं वह्निं प्रति स तथा467 । सन्दिग्धेन हि निश्चयाय प्रवर्तितव्यमेव । निश्चितस्तु विनिश्चयाय प्रमाणान्तरे प्रवर्तमानस्तदभ्यर्हिततरं मन्यते । “धूमाङ्गत्वेनेति ।” अङ्गत्वं व्यापकत्वम् । व्याप्यं पुनर्व्याप्तिक्रियायां कर्मत्वेन प्रधानम् । तदनेन धूमव्यापकत्वोपधानेन धूमाद् गम्यमानो वह्निः परोक्ष इति दर्शितम् । अनुपहितप्रकाशस्तु प्रत्यक्षेणाव्यवहितवह्निस्वरूपप्रकाशः । स हि साक्षात्कार इति । तावदयं प्रमाता साकाङ्क्षो यावदुपधानव्यवहितं स्वरूपमुपलभते468 । उपधानानपेक्षस्तु प्रत्यक्षेणाव्यवहितं साक्षाद् वह्निं विषयीकृत्य निराकाङ्क्षो भवति469 “धूमाङ्गत्वेन” धूमविशेषणत्वेनेति “केचित् ।” तत्तु प्रकृतानुपयोगितया अयुक्तमिति । उपसंहरति—“अतः प्रधानमिति ।” सोऽयं गुणाप्रधानभावो भेदाश्रयो व्यवस्थायां नास्ति, व्यवस्थितानां प्रत्येकमेकत्वात् । तस्माद् व्यवस्थायां470 गुणाप्रधानभावो न चिन्त्य471 इति । “इतिः” सूत्रसमाप्तौ ॥ ३ ॥
॥ इति न्यायत्रिसूत्रीतात्पर्यटीका समाप्ता ॥
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥ १ । १ । ४ ॥
प्रत्यक्षादिप्रमाणविशेषलक्षणानामर्थाक्षिप्तसामान्यलक्षणविभागोद्देशहेतुत्वेन तदनन्तराभिधानमित्याह—“अथ विभक्तानामिति ।” तत्र तेषु मध्ये प्राथम्यात् प्रत्यक्षलक्षणम् “इन्द्रियार्थसन्निकर्षोत्पन्नम्” इत्यादि “सूत्रम् ।” अस्य तात्पर्यमाह— “सूत्रार्थः” सूत्रप्रयोजनम् । “समानासमानजातीयविशेषकत्वम् ।” समानजातीयमनुमानादि, असमानजातीयं प्रत्यक्षाभासप्रमेयादि । तेभ्यो विशेषकत्वं विशेषः । तदस्य “सूत्रस्य” प्रयोजनम् । यः खलु कुतश्चिद् व्यामोहात् समानासमानजातीयव्यावृत्तं तद्रूपं न शक्नोति ग्रहीतुम्, सोऽनेन लक्षणेन बोध्यते, एवंलक्षणकं प्रत्यक्षमिति । तस्मात् सामान्यतः सिद्धविविक्तप्रत्यक्षमात्रानुवादेन लक्षणविधानपरमिदं “सूत्रम् ।” इतस्त्ववगतलक्षणः तेनैव विविच्य प्रत्यक्षतत्त्वं गृह्णातीति समानासमानजातीयव्यवच्छदेः “सूत्रा”र्थ उक्त इति । अत्र च यत इत्यध्याहृत्य यत्तदोर्नित्याभिसम्बन्धात् तत् प्रत्यक्षमिति प्रमाणवाचि प्रत्यक्षपदं योजनीयम् । एवं च ज्ञानप्रामाण्यपक्षेऽपि472 यत् तद्विशेष्यज्ञानं प्रत्यक्षफलं लिङ्गपरामर्शो वा तदपीन्द्रियार्थसन्निकर्षोत्पन्नत्वाद्युपेतत्वेन भवति प्रमाणविशेषणमिति नाव्यापकत्वं लक्षणस्येति । “सूत्र”पदार्थं पृच्छति—“अथेति ।” उत्तरम्—“इन्द्रियेति ।” सन्निकर्षग्रहणलभ्यं प्रकारभेदं परिसञ्चष्टे— “सन्निकर्षः पुनरिति ।” पुनःशब्देन संयोगसमवायपदोपादानात् व्यवच्छिनत्ति । संयोगपदोपादाने हि न समवायो लभ्यते, समवायपदोपादाने वा न संयोगः । सन्तिकर्षपदोपादाने त्वभिमतलाभः । अर्थग्रहणेनार्थ्यमाणतया473 ज्ञेयस्वरुपयोग्यता दर्शिता । न चासावण्वाकाशादीनामस्तीति सत्यपि संयोगादौ नासावर्थसन्निकर्ष इति तद्व्युदासः । उत्पन्नग्रहणेन च सन्निकर्षस्योत्पादकत्वं सूचितम् । ततः सत्यप्यर्थस्वरूपयोग्यत्वे संयुक्तसंयोगादेरनुत्पादकस्य सन्निकर्षस्य व्युदासः । अन्यथा कुड्यादि संयुक्तेनेन्द्रियेण कुड्यादिव्यवहितस्य तत्संयुक्तस्य घटादेः तत्समवेतस्य च रूपादेरपि ग्रहणप्रसङ्गः । न चैतावता त्रिविध एव सन्निकर्षः संयोगः संयुक्तसमवायः समवायश्चेति साम्प्रतम् । स्वतन्त्रव्याघातादनुभवव्याघाताच्च । ये हि द्रव्यगुणकर्माश्रयं474 सामान्यातिरिक्तं सादृश्यमर्थान्तरं रोचयन्ते, तेषां कथं रूपादिभेदानामन्योन्यस्य सादृश्यं प्रत्यक्षं भवेत् ? न हि तदिन्द्रियेण संयुक्तम् । नापीन्द्रियसंयुक्तसमवेतम् । तस्मात् चतुर्थः संयुक्तसमवेतसमवायोऽभ्युपगन्तव्यः । इतरथा स्वतन्त्रव्याघातः अनुभवव्याघातश्च । अनुभूयन्ते हि रूपगन्धत्वादयः सामान्यविशेषा अनुगताः, तासु तासु व्यक्तिषु परस्परव्यावृत्तिमतीषु एते नानुभूयेरन् असति सन्निकर्षान्तरे । यदि तु वैयात्यादाहुः475 नानुभूयन्त एवेति, तदा प्रतिवक्तव्यं कुतस्त्योऽयमनन्तासु रूपगन्धादिव्यक्तिषु रूपमिति वा गन्ध इति वा व्यपदेशभेदः ? चाक्षुषत्वाद्युपाधिनिबन्धन इति चेत्-न, अननुसंहितोपाधेरुपहितप्रत्ययायोगात् । न खल्वननुसंहितदण्डश्चैत्रं दण्डीति व्यपदिशति । न चेन्द्रियाण्यतीन्द्रियाणीन्द्रियदर्शनविषयभावमनुभवन्ति । तस्मादस्तीन्द्रियेण रूपत्वादिसामान्यानुभवो यन्निबन्धनाः कासुचिदेव व्यक्तिषु केचिदेव व्यदेशभेदा इति सिद्धं सन्निकर्षान्तरम् । विशेषणभावेन च संयुक्तविशेषणं समवेतविशेषणं च सङ्गृहीतम् ।
यस्येन्द्रियेण यादृशः सन्निकर्षः तादृशं तत्र दर्शयति—“तत्र चक्षुरिति ।” शब्दस्य आकाशगुणत्वम् । कर्णशष्कुल्यवच्छिन्नस्य नभोभागस्य श्रोत्रत्वम् । आद्यस्यैव शब्दस्य संयोगविभायोनिजत्वम् । सन्तानेन श्रोत्रे समुत्पादः समवाय इत्यादि द्वितीये476 निपुणतरमुपपादयिष्यते । अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिजातिमन्तौ च मिथः सम्बद्धावनुभूयेते नान्यथा, तन्तुषु पट इति च, शुक्लः पट इति च, पटः स्पन्दते इति च, पटो द्रव्यमिति च बुद्धिव्यपदेशौ स्याताम् । शुक्लः पट इत्यादि सामानाधिकरण्यज्ञानं न तु सम्बन्धज्ञानमिति चेत् ? किं पुनरिदं सामानाधिकरण्यम् ? तादात्म्यमिति चेत्—न, द्वितीयबुद्धिव्यपदेशयोः पौनरुक्त्यात् । अपौनरुक्त्यं चाभिमन्यन्ते प्रतिपत्तारः, यदन्यतरदुपलभ्यान्यद्477 बुभुत्सन्ते । न चैकं वस्तु द्व्यात्मकमिति युक्तम् । भेदाधिष्ठानस्य तन्नान्तरीयकस्य द्वित्वस्यैकात्मनि विरोधेनासम्भवात् । तस्माद् भिन्ने एव वस्तुनी सम्बद्धे सामानाधिकरण्येन भासेते,478 असम्बन्धे गौरश्व इतिवत् तदनुपपत्तेः । सम्बन्धेऽपि कुण्डे दधीतिवद्वैयधिकरण्यप्रसङ्ग इति चेत्—न, शब्दवृत्तिभेदेन सम्बन्धाभेदेऽपि सामानाधिकरण्यवैयधिकरण्यव्यवस्थापनात् । न हि जातु दधिशब्दः कुण्डे वर्तते कुण्डशब्दो वा दध्नि । वर्तन्ते तु सुरभिमधुरशुक्लादिशब्दाः स्वाभिधेयं निमित्तीकृत्य पटादिषु, एवं पटादिशब्दा अपि जात्यादि निमित्तीकृत्य द्रव्ये प्रवर्तन्ते इति सामानाधिकरण्यम् । तेन सामानाधिकरण्येऽपि प्रवृत्तिनिमित्तानां नैकात्म्यं परस्परम् । नापि द्रव्येण, किन्तु तैस्तैरन्वितमेकं द्रव्यं प्रतीयते । शब्दानां तु तत्रैकस्मिन् द्रव्ये प्रवृत्तेः तद्वाच्यानामैकात्म्यभ्रमः । अयुतसिद्ध्या तु कुण्डे दधीतिवन्न स्फुटतरो विवेकप्रकाशः । तदेवमस्ति सम्बद्धानुभवः, न चासौ सम्बन्धानुभवं विनेति सम्बन्धोऽनुभूयते, स चायुतसिद्ध्यादिसम्पत्त्या समवायः, न चास्यान्यः समवायोऽनवस्थानात् । न चेन्द्रियेणास्य संयोगोऽद्रव्यत्वात् । न चासम्बद्धस्य ग्रहणम्, इन्द्रियाणां प्राप्यकारित्वसमर्थनात् । तस्मात् विशेषणविशेष्यभावः परिशिष्यते । नन्वयं विशेषणविशेष्यभावोऽन्यत्र सम्बन्धान्तरपूर्वको दृष्टः । तत् किमत्र सम्बन्धान्तरं कल्प्यताम् ? तथा चानवस्था इत्युक्तम् । न चेन्द्रियासम्बन्धस्य ग्रहणम् । तस्माद् विना सम्बन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम् । एवमभावेऽपि यदिन्द्रियसंयुक्तं वा यद्वेन्द्रियसमवेतं479 यथा भूतले घटो नास्तीति वा नास्त्यकारेऽनुदात्तस्वर इति वा तस्य संयुक्तस्य वा विशेषणभावेन, समवेतस्य विशेषणभावेन चेन्द्रियप्रत्यासत्त्या ग्रहणम् । न च भूतलादिरूपमेव घटाभावो नार्थान्तरमिति साम्प्रतम्, सत्यपि घटादौ भूतलस्य भावात् । न च कैवल्यं तस्य धर्मो घटभावविरोधी घटाभावादन्यः । न च दृश्ये घटादौ भूतलोपलम्भः कैवल्यमभावव्यवहारहेतुरिति युक्तम् । एवं हि घटसंसृष्टभूतलग्रहोऽपि कैवल्यमिति घटाभावव्यवहारं प्रवर्तयेत् । न ह्यदृश्यो घटस्तदानीं दृश्यमानः । दृश्येऽनुपलभ्यमान इति तु विषेषणे किमपराद्धमुपलभ्याभावेन येन तदपाकरणायोपलम्भाभावोऽभ्युपेयते । तस्मात् सदिवासदपि तत्त्वमभ्युपेयम् । तच्च प्रत्यक्षमक्षव्यापारे सति तत्प्रत्ययात् । न च प्रतियोगिस्मरणव्यवहित इन्द्रियार्थसन्तिकर्षो नालमभावधियमुपजनयितुमिति साम्प्रतमित्यग्रे दर्शयिष्यामः । सविकल्पकस्य प्रत्यक्षत्वसिद्धौ यथा शब्दस्मरणपूर्वगृहीतपिण्डानुसन्धानादयो नेन्द्रियव्यापारं व्यवदधतीति, न च शब्दस्मरणादीनामनुयोगिता, भूतलविकल्पं प्रत्यङ्गत्वात्, स्वाङ्गमव्यवधायकमिति न्यायात् । घटस्य तु प्रतियोगितेति साम्प्रतम् । कस्य पुनः प्रतियोगी घटः ? तदभावस्येति चेद् भवतु । घटाभावानुभवस्य तु घटस्मरणं हेतुरिति न प्रतियोगि, किन्त्वनुयोग्येव । ननु स्वरूपमात्रं दृष्टं वेश्माद्यर्थं स्मरन्नेव बहिर्निर्गतश्चैत्रो यदा पृच्छ्यते केनचित्-वयस्य तव गृहे तदा किमासीत् मैत्र इति । स चैत्रः प्रतियोगिस्मरणविरहात् पुर्वमप्रतिपन्नमैत्राभावोऽपि तत्प्रश्नजनितमैत्रस्मृतिः क्षणं ध्यात्वा तदभावमवगम्याह, मित्र, तत्र नासीत् मैत्र इति । तदीयमसतीन्द्रियार्थसन्निकर्षेऽभावबुद्धिर्भवन्ती प्रत्यक्षाद्यतिरिक्तमभावाख्यं प्रमाणं व्यवस्थापयतीति । नैतत्, संयुक्तविशेषणलक्षणेन मनःसन्निकर्षेण स्मर्तव्यस्य स्मरणाभावं मैत्रस्य गृहीत्वा तेन लिङ्गेन तदभावस्य तदानीमनुमानात् । तथा हि तद्गेहं तदा मैत्राभाववत्, ज्ञानार्हस्य मैत्रस्याज्ञाने गेहस्य ज्ञायमानत्वात् । यद् यस्य ज्ञानार्हस्याज्ञाने ज्ञायते तत् तदभाववत् । यथा घटाभाववद् भूतलम् । तथा च गेहम् । तस्मात् तथा । न च यत् कदाचिदानुमानिकं तेनेन्द्रियगम्येन न भवितव्यम्, प्रमाणसम्प्लवव्यवस्थापनात् । तत् सिद्धं विशेषणाभावादभावस्येन्द्रियप्रमेयतेति । संयोगसमवायपदपरिहारेण480 सन्निकर्षपदोपादानस्य प्रयोजनमाह—“सोऽयं सन्निकर्षशब्द” इति ।
तदनेन प्रबन्धेन “इन्द्रियस्यार्थेन सन्निकर्षाद् यदुत्पद्यते ज्ञानं तत् प्रत्यक्षमिति भाष्यं” व्याख्यातम् । सम्प्रति “न तर्हीति” चोद्यभाष्यं व्याचष्टे—“यदीन्द्रियार्थेति ।” प्रत्यक्षज्ञानकारणाभिधानप्रवृत्तस्तदेकदेशं481 वदन्नकुशलः “सूत्रकारः” स्यादित्यर्थः । कारणान्तराणि दर्शयति—“तद्यथेति । विषयसंयोगि” चक्षुरालोकश्च । तत्स्थं रूपम् । आत्मीयेन हि रूपेणालोकचक्षुषी द्रव्यं दर्शयत इति स्थितिः । महत्त्वं वा अनेकद्रव्यवत्त्वं वा, अनेकद्रव्या अवयवाः, तद्वत्त्वमवयविनो महत एव न द्व्यणुकस्य । तस्मादन्योन्यनिरणेक्षत्वं महत्त्वानेकद्रव्यवत्त्वयोरिति विकल्प एव न्याय्य इति । सत्यप्येवंलक्षणकत्वे चक्षुरवयविनस्तैजसस्य न चाक्षुषत्वमित्यत उक्तम्—“उपलब्धिफलः संस्कार” इति । धर्माधर्मनिमित्त उद्भवसमाख्यातः संस्कारः उपलब्धिफलः न चासौ चक्षुषि तस्यादृष्टवशेनानुद्भूतरूपस्पर्शत्वादित्यर्थः । परिहरति—“न वक्तव्यानि” इति । प्रत्यक्षलक्षणकरणप्रवृत्तो482 हि “सूत्रकारः” तदेव ब्रूयात् यदस्यासाधारणं कारणम्483 । न तु सदपि साधारणमस्य कारणम् । न हि तत् तस्य लक्षणमतिव्याप्तेरित्यर्थः । तदनेन “नेदम्” इत्यादि “भाष्यं” व्याख्यातम् । असाधारणं कारणं चेत् प्रत्यक्षलक्षणायोपादेयम्, हन्त, अन्यदप्यस्यासाधारणमस्ति कारणमिति तदप्युपादेयमिति चोदयति—“इन्द्रियमनःसंयोगस्तर्हीति ।” तदनेन “मनसस्तर्ही”त्यस्य भाष्यस्यार्थ उक्तो वेदितव्यः । परिहरति—“न, अनेनैव” इन्द्रियार्थसन्निकर्षेणैव । “तस्य” इन्द्रियमनःसन्निकर्षस्य उक्तत्वात् । तदुक्तिसाध्यं यत् तत् तेनैव कृतम् । तत् साध्यं त्विन्द्रियमनःसन्निकर्षो न शक्नोति साधयितुम् । न च सुखदिज्ञाने मानसे अस्तीन्द्रियमनःसन्निकर्षः । इन्द्रियार्थसन्निकर्षस्तु सर्वव्यापकः । वक्ष्यति हि मनस इन्द्रियत्वम्484 । सुखादेश्चार्थत्वं सिद्धमेवेति । सम्प्रति व्यापकत्वमभ्युपेत्य परीहारान्तरमाह—“इन्द्रियार्थेति ।” यद्यपीन्द्रियमनःसन्निकर्षेऽपीन्द्रियमस्ति प्रत्यक्षज्ञानस्य विशेषकम् इन्द्रियेण व्यपदेशादिन्द्रियज्ञानमिति, तथापि मनसा व्यपदेशाभावात् मनसस्तत्राविशेषकत्वम् । इन्द्रियार्थसन्निकर्षे तूभयमपि विशेषकम्, उभाभ्यां प्रत्यक्षज्ञानस्य व्यपदेशादित्ययमस्येन्द्रियमनःसन्निकर्षाद्विशेष इति ।
चोदयति—“यदा त्विति ।” तुशब्दः पूर्वपक्षं व्यावर्तयति । युञ्जानस्य हि योगिनो यदात्ममनःसंयोगादात्मनि बुद्धयो भवन्ति ताः खल्वात्मना व्यपदिश्यन्ते आत्मबुद्धय इति । मनसा च व्यपदिश्यन्ते मनोबुद्धय इति । तस्मादुभाभ्यां व्यपदेशादुभयोर्विशेषकत्वमितीन्द्रियार्थसन्निकर्षवदात्ममनःसन्निकर्षो वक्तव्य इत्यर्थः । परिहरति—“यच्चेति ।” चोऽवधारणे । यदेवासाधारणं तद् व्यपदेशभाग्भवति, कारणत्वेन तेन व्यपदिश्यते इत्यर्थः । एतदुक्तं भवति—यथा चक्षुषा इन्द्रियत्वेन ज्ञानं व्यपदिश्यते चाक्षुषमिति, तथा मनसापीन्द्रियत्वेन485 व्यपदिश्यते ज्ञानं मानसमिति । एवं यथा रूपेणार्थेन व्यपदिश्यते ज्ञानं रूपज्ञानमिति, तथा आत्मनाप्यर्थेन व्यपदिश्यते आत्मज्ञानमिति । तत्र चासाधारणत्वमेव तयोः । यत्र त्विन्द्रियान्तरमेवासाधारणम्, लिङ्गादि वा तत्र486 चात्मा नार्थोऽपि तु प्रमातैव । यथा487 रूपादिज्ञानेऽनुमानादिज्ञाने वा न तत्र ज्ञानं मानसमिति वा आत्मज्ञानमिति वा व्यपदेशः, स कस्य हेतोः ? तयोः साधारण्यात् । आत्ममनःसन्निकर्षस्त्विन्द्रियार्थसन्निकर्षेण सङ्गृहीतो न त्विन्द्रियार्थसन्निकर्षस्यैष सङ्ग्राहकोऽव्यापकत्वादिति ।
“एकदेशिनः” परीहारमुपन्यस्यति—“इन्द्रियमनःसंयोगस्य वा अग्रहणं भेदेऽभेदात् ।” यदा हि नगरयोषितः कुतूहलात् प्रणिहितमनसो विकसितनिःस्पन्दनयनोत्पलाः सौधमालागवाक्षकैरवनिपतिं सबलवाहनमतिचिरप्रोषितपरावृत्तं गोपुरेण निविशमानमालोकयन्ति, तदा खल्वासामेकेनैवेन्द्रियमनःसंयोगेन क्रमवदनेकेन्द्रियार्थसन्निकर्षसहकारिणा भिन्नानि क्रमवन्ति हास्तिकाश्वीयादिप्रत्यक्षज्ञानानि जायन्ते । तदिदमाह—“यस्मादिति ।” चोदयति—“यदीति ।” यदा हि मन्दं गच्छति गवि दूरतः संयुक्तसमवायेनेन्द्रियार्थसन्निकर्षेण शुक्लो गौरित्यज्ञासीत्, अथ प्रत्यासीदन् गच्छतीत्यपि विजानाति तेनैव संयुक्तसमवायेन सन्निकर्षेण, तेन प्रत्यक्षज्ञानस्य शुक्ल इति च गच्छतीति च भेदेऽपीन्द्रियार्थसन्निकर्षो न भिद्यते । तस्मादिन्द्रियार्थसन्निकर्षे तुल्यत्वादिन्द्रिययमनःसंयोगोऽपि तत्र वक्तव्य इत्यर्थः । परिहरति—“न वक्तव्यः ।” कुतः—“उक्तोत्तरत्वादिति ।” तद्विभजते—“उक्तेति ।” ननु भवतूक्तमुत्तरं भेदेऽभेदादित्यस्याक्षेपः समाधातव्यः इत्यत आह—“अनभ्युपगमाच्च । एकदेशि”मतमेतदस्माभिर्नाभ्युपेयते । तस्मान्न समाधेयमित्यर्थः । तत् किमिदानीं “भिद्यमानस्य” प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति “भाष्यम्” अनुपपन्नमेव ? नेत्याह—“इन्द्रियमनःसंयोगस्य चाग्रहणं समानत्वात् ।” पृच्छति—“केनेति ।” उत्तरम्—“आत्ममन” इति । पुनः पृच्छति—“किं पुनः” समानत्वम् ? उत्तरम्—“व्यपदेशाभाव इत्युक्तम् ।” तेन “भाष्य”स्यायमर्थः । “प्रत्यक्षज्ञानस्य” रूपज्ञानस्य रूपज्ञानमिति वा चक्षुर्विज्ञानमिति वा व्यपदेशेन “भिद्यमानस्य” आत्ममनःसंयोग इव “अयम्” इन्द्रियमनःसंयोगो “न भिद्यते ।” एवं हि स भिद्यते, यदि स्वसम्बन्धिवाचकेन व्यपदेशेन स्वमन्यतो व्यावर्त्यते, न विशेषणेन विशिष्टं विशेष्यं488 ज्ञानमप्यन्यतो व्यावर्तयेत् । न त्वस्ति इन्द्रियमनःसन्निकर्षाधाराभ्यामिन्द्रियमनोभ्यां प्रत्येकमस्य व्यपदेशो यथेन्द्रियार्थसन्निकर्षाधाराभ्यामिन्द्रियार्थाभ्यां व्यपदेशो रूपज्ञानमिति चक्षुर्ज्ञानमिति वा । तस्माद् व्यपदेशाभाव आत्ममनःसन्निकर्षेण साम्यमिन्द्रियमनःसन्निकर्षस्य । तस्मात् समानत्वात् नोक्त इति ।
प्रकारान्तरं समानत्वे दर्शयति—“अतीन्द्रियाधारता वेति ।” लक्षणं हि प्रसिद्धं भवति यथा धूमो वह्नेः । न चातीन्द्रियद्वयाधारसन्निकर्षस्तथा प्रसिद्धो यथेन्द्रियार्थसन्निकर्षोऽर्थस्य सम्बन्धिन एकस्य प्रसिद्धत्वात्, इन्द्रियमनसोस्तु द्वयोरतीन्द्रियत्वात् । आत्मा तु यद्यपि युञ्जानस्य शरीराद्यतिरिक्तः प्रत्यक्षः, तथाप्यस्मदादीनां न तथेत्यतीन्द्रिय उक्तः । तदनेनातीन्द्रियाधारत्वं स्वरूपेणोक्त्वा489 तदेवं विषयावृत्तित्वमनोवृत्तित्वाभ्यामतीन्द्रियाधारत्वं सामान्यमाह—“विषयावृत्तित्वं वेति ।” उपसंहरति—“तस्मादिति । समानत्वादिति भाष्यो”क्तो हेतुः “चरितार्थत्वादिति” स्वोक्तः ।
आक्षिपति—“इन्द्रियार्थसन्निकर्षोत्पन्नमित्ययुक्तमिति ।” सान्तरग्रहणादिति हेतुं विभजते—“विप्रकृष्टेति ।” ननु नार्थो विप्रकृष्टः, चक्षुषस्तत्र प्राप्तेरित्यत आह— “न तु490 चक्षुष” इति । कस्मादित्यत आह—“भूतविशेषस्येति ।” बाह्यो भूतविशेष आलोकः । तस्य प्रसाद इन्द्रियाव्यवधायकत्वम् कुड्यादिभ्यो विशेषः यः491 खलु काचाभ्रपटलादिषु स्वच्छेषु समस्ति । स्यादेतत् । अस्ति कृष्णसारलक्षणो भूतविशेषः प्रसन्नान्धस्यापि, अतस्तस्यापि रूपोपलब्धिः स्यादित्यत आह—“तत्तृष्णापूर्वकेति ।” रूपोपभोगतृष्णा हि तत्साधनं कृष्णसारमपि विषयीकरोति । एतदुक्तं भवति— भूतविशेषः कर्मापेक्षो रूपं492 चष्ट इति चक्षुरित्युच्यते । कर्मक्षयात् तु प्रसन्नान्धस्य न रूपं चष्ट इति न चक्षुः । अस्तु गोलकमेव चक्षुः किमेतावतापीत्याह—“न चेति ।” विच्छिन्नं हि गोलकमर्थादनुभूयत इत्यर्थः । तदेवं वस्तुनः सान्तरस्य ग्रहणमप्राप्यकारित्वे हेतुरुक्तम् ।
“केचित्” तु सान्तरमिति ग्रहणविशेषणं हेतुं ब्रुवते,493 तन्मतमुपन्यस्यति—“अपरे त्विति ।” साध्यविपर्ययादस्य व्यतिरेकं दर्शयति—“न हि प्राप्यकारिष्विति ।” पक्षधर्मतामाह—“दृष्टं त्विति ।” यच्चोक्तमप्राप्यकारित्वे साधनं पृथुतरग्रहणादिति, तद्विभजते—“पृथुतरेति ।” द्व्याश्रयो हि संयोगोऽल्पमेव संयोगिनमनुरुध्यते, न महान्तम् । न जातु रथादिसंयोगा नभो व्यश्नुवते, मा भूत् सर्वत्र रथादीनां तत्संयोगादीनां चोपलब्धिः । तेन यावन्मात्रं राष्ठ्रवनादेर्गोलकेन व्याप्तं तावन्मात्रस्य ग्रहणप्रसङ्गंः । हेत्वन्तरमाह—“दिगिति ।” अस्यापि व्यतिरेकमुखेन गमकत्वं दर्शयति— “यदि प्राप्यकारीति ।” अपरमपि हेतुमाह—“सन्निकृष्टेति ।” यद्यपि गतिक्षणानां प्रत्येकं स्वाश्रयस्य देशान्तरविभागसंयोगोपजननं प्रति क्षिप्रतया न विशेषः494 स्वाश्रयप्रत्या सत्तौ चाविशेषः तथाप्या चापादानविभागात् आ च प्रापणीयदेशप्राप्तेरन्तरालवर्ती यावान् गतिक्षणप्रचयः पूर्वापरीभूतो गतिरिह विवक्षितः । तस्य सान्तरत्वं मन्दत्वं विलम्बः । नैरन्तर्य तु495 पाटवं क्षिप्रता । तामिमां गतिमभिन्दद् नैरन्तर्येण कुर्वदपि सन्निकृष्टमाशु प्राप्नोति । न विप्रकृष्टेन तुल्यकालम्, किं तु विप्रकृष्टं चिरेणेति । यथोक्तं “दिग्नागेन”— सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च ।
बहिर्वर्तित्वादिन्द्रियस्योपपन्नं सान्तरग्रहणमिति चेत् अत उक्तम्— अधिष्ठानाद् बहिर्नाक्षं
किं त्वधिष्ठानदेश एवेन्द्रियम् कुतः ?
तच्चिकित्सादियोगतः496 ॥
सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे ।
यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् ॥
यदि च स्यात् उन्मील्य निमीलितनयनोऽपि रूपं पक्ष्येत्, उन्मीलनादस्ति बहिरिन्द्रियमिति ॥
तत्र “वार्त्तिककारः” सान्तरग्रहणादिति हेतुं विकल्प्य दूषयति—“यत् तावदिति ।” सान्तरता खल्वप्राप्तिसाहचर्यात् । अप्राप्तिं लक्षयति—“हेत्वर्थस्य प्रतिज्ञार्थेनाक्षिप्तत्वात्” अभेदेन । तदुक्तम्—“न प्रतिज्ञार्थाद् भिद्यत” इति । हेतुप्रतिज्ञापदवाच्यत्वेन भेदमुपचर्याक्षेप्याक्षेपकभावो द्रष्टव्यः । “तस्य व्यवधायकत्वादिति ।” रूपवतोऽप्रसादस्वभावस्य कुड्यादेरित्यर्थः । यत् तु प्रसादस्वभावं तेजः तन्न गृह्यते, किं तु तस्य रूपमात्रं विस्फारिताक्षेण दृश्यते । तदाश्रयं च द्रव्यं साधयिष्यते । न च गुणो द्रव्यस्यान्तरम् । मा भूद् गन्धादिभिरन्तरं द्रव्यस्य, मा न भूतां च निरन्तरे द्रव्ये, स्वगुणाभ्यामन्तरितत्वात् । न चापातजन्मालोचनं वा विकल्पो वा द्रव्यानुमानं प्रतीक्षते येन रूपज्ञानानुमितं द्रव्यमिन्द्रियार्थयोर्द्रव्ययोरन्तरं स्यात् । अपि च रूपमात्रमगृह्यमाणे द्रव्ये स्वतन्त्रं गन्धादिवद् गृह्यमाणं कथमन्तरा स्वाश्रयमनुमापयेत्, आकाशादीनामाश्रयाणामग्रहणात् ? तस्माद् विषक्तावयवतेजोद्रव्याप्रत्यक्षत्वसमारोपमात्रेण497 दूषणं वक्ष्यमाणं त्वन्यथासिद्धत्वदूषणं पारमार्थिकं द्रष्टव्यम् । “अथाभावोऽन्तरशब्दवाच्य” इति, नास्माकं मूर्तद्रव्याभावादन्यदाकाशमस्तीति भावः । दूषयति—“स स्वतन्त्रश्चक्षुर्विषयो न भवति ।” इन्द्रियं चार्थं चान्तरा अभावो ग्राह्यः, तेन सहार्थस्य ग्रहणं सान्तरग्रहणम् । न चेन्द्रियार्थयोर्मध्ये कस्यचित् संयुक्तस्य वा समवेतस्य वा ग्रहणमस्ति, यत्तन्त्रोऽयमभावो गृह्येत इति भावः ।
स्यादेतत् । मा भूदान्तरालिकं संयुक्तं वा समवेतं वा विशेष्यं गृह्यमाणमेव तु रूपादि विशेष्यमिति । तत्तन्त्रोऽयमभावस्तद्विशेषणत्वेन निरूपयिष्यते । ततश्च सान्तरग्रहणमुपपत्स्यत इत्यत आह—“तेन सहोपलब्धाविति ।” प्रतीयते हि त्वगादिभिरपीन्द्रियैः प्राप्यकारिभिरौष्ण्याभावविशेषणं शिशिरतरं पाथः । न चेन्द्रियाणामत्राप्राप्यकारिता, तस्मादनैकान्तिकम् । अन्वयाभ्युपगमेनैतदुक्तम् । अन्वयाभावे तु विरुद्धमिति भावः । न च तैजसं रूपमन्तरम्, येन सान्तरग्रहणं स्यादित्याह—“न चान्या गतिरिति ।” यथा चैतत् तथोपपादितमधस्तात् । ये तु सान्तर इति ग्रहणमिति हेतुमाहुः, तान् प्रति दूषणमाह—“यैरपीति ।” अन्यथासिद्धत्वे हेतुमाह—“शरीरेति ।” शरीरावच्छिन्नाः खल्वात्मानः शरीरायतनाः शरीरमेवात्मानमभिमन्यमाना अर्थाननुभवन्ति । तत्र य एव शरीरासम्बद्ध इत्यनुभूयते, तमेव सान्तर इति मन्यते । इन्द्रियसम्बन्धो भवतु, मा वा भूत्, शरीरसम्बन्धेन तस्य स्पर्शादौ न सान्तरत्वाभिमान इत्यर्थः । हेत्वन्तरं दूषयति—“यदपीति । सम्बन्धमात्रेणेति ।” मात्रग्रहणं सम्बन्ध चतुष्टयव्याप्त्यर्थम् । तद् यथा इन्द्रियेणार्थस्य सम्बन्धः, इन्द्रियावयवैरर्थस्य, अर्थावयवैरिन्द्रियस्य, इन्द्रियावयवैरर्थावयवानाम् । न चैतत् निर्यता विना पृथ्वग्रतां भवतीति पृथ्वग्रता सूचिता । यथा वर्त्तिदेशे पिण्डितमपि तेजः प्रसर्पत् प्रासादोदरं व्याप्नोति तत् कस्य हेतोः ? पृथ्वग्रत्वादिति । स्वभावतः प्रसरदपि न स्वपरि माणानुविधायिनं प्रत्ययमाधत्ते, किं तु विषयभेदानुविधायिनम् । विषयनिरूपणाधीननिरूपणा हि प्रत्यया नेन्द्रियनिरूपणाधीननिरूपणाः । तदिदमुक्तम्— “विषयभेदानुविधायी प्रत्यय” इति ।
अपरमपि हेतुं दूषयति—“यत् पुनरिति ।” देहमर्थं चान्तरावस्थितस्य पृथिव्यादेः संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं चापेक्षमाणस्येति । खगानां चोपर्युपरि सञ्चरतां दूरान्तिकभावो बहुलतमालोकावयवभागानां संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामवगन्तव्यः । स च तादृगालोकावयवी प्रत्यक्षोऽन्यथा न रूपमात्रेण तदनुमानं शक्यमित्युक्तम् । न च खगानामुपर्युपरि सञ्चरतां दूरान्तिकप्रत्ययः स्यात् । न च पतति पतत्रिणीह प्राप्तो नेहेति भवेत् । तस्मादन्यथासिद्धिरेव सहान्तरेण ग्रहणादितिवदत्रापि दूषणमिति द्रष्टव्यम् ।
अपरमपि हेतुं दूषयति—“यत् पुनरिति ।” युगपद्ग्रहणमसिद्धम् । तदभिमानस्त्वन्यथासिद्धः । अचिन्त्यो हि तेजसो लाधवातिशयेन वेगातिशयो यदुदयगिरिशिखरमारोहत्येव मार्तण्डमण्डले भवनोदरेष्वालोक इत्यभिमानो लौकिकानाम् । तादृशं चाक्षुषमपि तेज इति क्रमेणापि गच्छद् युगपत्तत्र तत्र प्राप्तमिति लक्ष्यते । न चैकस्मादेव कर्मणो युगपद् दूरान्तिकसंयोगा भवन्तीति युक्तम् । तद्धि स्वकार्ये जनयितव्ये स्वाश्रयप्रत्यासत्तिमपेक्षते । अन्यथा मधुरास्थस्य देवदत्तस्य कर्मं पाटलिपुत्रेण देवदत्तं योजयेत् । वेगाख्यसंस्कारजमपि कर्म न सहसा शरमन्तरालदेशेन च लक्ष्येण च योजयति । तस्मात् मिथ्यैव यौगपद्याभिमान इति । चोदयति—“कथं पुनरिति ।” अस्ति हि शाखाचन्द्रमसोर्ग्रहणे यौगपद्याभिमानः । न चायमसति498 बाधके मिथ्येति वक्तुं शक्यः499 । सोऽयमबाधितो बोधोऽवबोधयत्यप्राप्यकारितां500 चक्षुष इत्यर्थः । परिहरति—“इदमिति ।” इन्द्रियं यद्यगत्वानागतमर्थं गृह्णीयात्, किमस्य कुड्यकटाद्यावरणमपकुर्यात् येन तदावृतं न गृह्णीयात् । गतौ तु स्पर्शवता प्रसादरहितेन सैवास्य प्रतिबद्धेति न प्राप्नोति विषयम्, अप्राप्तं च न गृह्णाति । प्रयोगस्तु, चक्षुःश्रोत्रे प्राप्य स्वविषये कार्यं कुरुतः, जनकत्वे सति तदप्राप्तावजनकत्वात् । यज्जनकं सद् यदप्राप्तौ यन्न जनयति तत् तत्प्राप्तावेव तज्जनयति, यथा कुम्भजनकः कुम्भकारो मृदोऽप्राप्तावकुर्वन् कुम्भं तत्प्राप्तावेव करोति । तथा चैतत् । तस्मात् तथेति ॥
युक्त्यन्तरमाह—“दूरान्तिकानुविधानमिति ।” दूरे नोपलभ्यते, अन्तिकेचोपलभ्यते । अप्राप्तेरविशेषेण दूरेऽप्युपलम्भः स्यात् । अनुपलम्भे वा अन्तिकेऽपि न501 स्यात् । प्राप्तौ तु दूरं गच्छत् प्रक्षीणं सत् प्राप्तमर्थं न गृह्णाति अतैजसम् । तैजसमप्यभिभूतं न गृह्णाति यथोल्काप्रकाशं मध्यान्दिने । अनभिभूतं तु मार्तण्डमण्डलं गृह्णात्येवेति । चोदयति—“विषयीभावादिति ।” योग्यो हि तादृश इन्द्रियक्षणः स्वकारणादुपजातः परिणतो वार्थक्षणश्च, ययोरप्राप्तयोरेव ग्रहणग्राह्यभावः । व्यवहितविप्रकृष्टौ च न तौ तादृशौ । तत् किमप्रतीयमानप्राप्तिकल्पनयेत्यर्थः । परिहरति—“तच्च नैवमिति ।” निषेत्स्येते हि क्षणभङ्गपरिणामौ भावानाम् । तेन स्थेमभाजां भावानां स्वरूपयोग्यता वा महत्त्वादिर्विषयीभावः सहकारिसाकल्यं वा ज्ञानोपजननं प्रति परिशिष्यते । तत्र स्वरूपयोग्यतामात्रं चेदास्थीयेत, तदा यदेवाव्यवहितं सन्निहितं सद्502 अजनयद् विज्ञानं विप्रकृष्टमपि व्यवहितमपि तदेवेति तथैव तेन ज्ञानं जनयितव्यम् । अस्ति हि तस्य तदापि स्वरूपयोग्यतेति सहकारिसाकल्यं तु प्राप्तिरेव । तस्मात् न सम्बन्धमन्तरेण विषयीभाव इति सूक्तम् । सन्दिग्धः पृच्छति—“अथ प्राप्यकारित्व” इति । अयमभिसन्धिः—कुलालादौ प्राप्यकारिणि दृष्टं यथा विप्रकृष्टो व्यवहितश्च न करोतीति अप्राप्यकारिणि चायस्कान्तादौ दृष्टं यथा विप्रकृष्टो व्यवहितश्च लौहं मणिराकर्षति,503 तस्मात् तत्र प्रमाणं वक्तव्यमिति । उत्तरम्“इन्द्रियत्वमेव” प्रमाणम् । तदेव पञ्चावयवोपपन्नमाह—“प्राप्यकारीति ।” यदि तु कश्चित् दृष्टान्तस्य साध्यविकलत्वमुद्भावयेत् त्वगादीनामप्राप्यकारित्वादिति, तं प्रत्याह—“अथ पुनर्न504 किञ्चदिति ।” पृच्छति—“अथेति ।” योग्यतयैव हि कारणानि स्वकार्यं कुर्वन्ति, प्राप्तिस्तु स्वरूपयोग्यताप्रयुक्तां व्याप्तिमुपजीवति, न त्वस्याः स्वाभाविकं व्यापकत्वमिति भावः । उत्तरम्—सोऽपीति । सहकारिसाकल्यं तावत् न प्राप्तेरतिरिच्यत इत्युक्तम् । केवलं स्वरूपयोग्यता वक्तव्या । सा च व्यस्तानामप्यस्तीति यत्र तत्र व्यवस्थितेभ्योऽपि कार्योत्पादप्रसङ्गः । अयस्कान्तमणेरपि चक्षुष इव वृत्तिभेद एषितव्यः, अन्यथा व्यवधानविप्रकर्षयोरपि लौहाकर्षणप्रसङ्गात् । न च व्यवधानविप्रकर्षाभावसहितो लौहमाकर्षति, व्यवधानविप्रकर्षयोस्तु तदभावाभावे नाकर्षति505 साम्प्रतम् । प्राप्तेरेव तत्र तत्र कार्योत्पादं प्रति उपयोगस्य विदितत्वात्506 । योग्यतामात्रस्य चोपाधेरपाकृतत्वात् । यथा च द्रव्यातिरिक्तस्तद्धर्मः प्राप्तिस्तथाग्रे निवेदयिष्यते । तस्मात् सर्वमवदातम् । उपसंहरति—“तस्मादिति ।” यदपि कृष्णसारानुग्रहोपघाताभ्यां दर्शनादर्शनादिति तत्रोच्यते, तदधिष्ठानमिन्द्रियमित्यधिष्ठानानुग्रहोपघाताभ्यां507 तस्यानुग्रहोपघातौ । यथा कूष्माण्डलतासेचनच्छेदनाभ्यां तत्फलस्यानुग्रहोपघातौ । अत+एव बहिर्निःसृताप्यच्छिन्नमूला508 दृष्टिः509 कार्याय समर्था न छिन्नमूलेति सिद्धम् ।
पृच्छति—“अथ ज्ञानेति ।” प्रत्यक्षसमाख्यातलक्षणानुवादेन लक्षणे विधीयमाने ज्ञायत एवैतज्ज्ञानमेवेति लोके साक्षात्कारिज्ञानहेतोः प्रत्यक्षत्वादिति भावः । उत्तरम्—“सुखादिव्युदासार्थम् ।” तदेव हि लक्षणवाक्यमुच्यते, यस्य लक्ष्यानपेक्षोऽतिव्याप्त्यव्याप्तिव्युदासो लक्षणपदेभ्य एव प्रतीयते । लक्ष्यानुरोधेन तु लक्षणव्यवस्थापनेऽन्योन्याश्रयत्वमगतिर्वेति भावः । सुखादीनां विज्ञानाभिन्नहेतुजत्वेन विज्ञानत्वादशक्यं व्यावर्तनमिति चेत्—न, अभिन्नहेतुजत्वादिसिद्धेः । न खलु यैव चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापीति । अस्ति हि शीतार्तस्यापि चन्दनेन्द्रियसंयोगात् शीतस्पर्शज्ञानमिति तद्वदेवास्य सुखमपि भवेत् । अवान्तरसामग्रीभेदेऽपीन्द्रियार्थमनस्कारजत्वात् ज्ञानजातीयत्वमिति चेत्—न, किञ्चित्कारणाभेदेऽपि कार्यभेदस्यानाकस्मिकत्वोपपत्तेः । तदर्थत्वाच्च कारण भेदानुसरणप्रयासस्य । न चोपादानाभेदादभेद इति युक्तम् । भिन्नानामपि ज्ञानानामेकसमनन्तरप्रत्ययोपादानत्वस्य भवद्भिरभ्युपगतत्वात् । अपि चोपादानाभेदश्च कुतश्चित् कारणभेदात् कार्यभेदश्चेति को विरोधः ? अत एवास्माकमभेदेऽप्युपादानस्य पिठरस्यौष्ण्यापराख्यस्य च वह्निसंयोगस्य पूर्वरूपादिप्रध्वंसानां कारणानां भेदाद् भिन्नजातीया जायन्ते गन्धरूपरसस्पर्शा इति सिद्धान्तः । तस्मादर्थप्रवणेभ्यो ज्ञानेभ्यस्तदप्रवणतया भिन्नजातीयाः सुखादयो यथास्वमनुकूलवेदनीयत्वादिभिर्लक्षणैरन्योन्यमपि भेदवन्तस्तीव्रसंवेगतया प्रमित्सानपेक्षमानसप्रत्यक्षप्रवेदनीया इति रमणीयम् ॥
स्यादेतत् । असत्यपीन्द्रियार्थसन्निकर्षे ज्ञानमात्रादेव सुखदुःखयोः स्वप्नान्तिके दर्शनात् यत्रापीन्द्रियार्थसन्निकर्षस्तत्रापि ज्ञानमस्तीति तदेव सुखदुःखयोः कारणं कॢप्तसामर्थ्यात् । इन्द्रियार्थसन्निकर्षस्य तु ज्ञानमात्रोपयोगादन्यथासिद्धौ भावाभावाविति । तदयुक्तम्, स्वप्नान्तिके सुखदुःखोत्पादस्यासिद्धेस्तज्ज्ञानस्यार्थज्ञानस्येव मिथ्यात्वात् । यथा हि तत्र कामिनीस्मृतिविपर्यास एवमुपलब्धचरतज्जन्मसुखस्मरणविपर्यासः । सुखदुःखबुद्ध्यूत्पाद एव चात्र510 धर्माधर्मोपयोगो न तु सुखदुःखोत्पादे । न चासतीन्द्रियार्थसन्निकर्षे ज्ञानमन्यन्मनोरथादि वा तादृशं सुखभेदं विधत्ते यादृशो विषयोपभोगजन्मा । सतीन्द्रियार्थसन्निकर्षे ज्ञानमात्रमेव तस्य हेतुः । ज्ञानहेतुस्तु सन्निकर्ष इत्युक्तमिति चेत्—न, विषयासन्निधाने विषयस्मृतिमतः तादृशस्य सुखभेदस्यानुत्पादादित्यप्युक्तमेव511 । विषयसाक्षात्कारस्तदुत्पादहेतुर्न विषयज्ञानमात्रमिति चेत् ? हन्त, ईश्वरस्याप्यस्ति तत्रभवतो योगर्द्धिसम्पन्नानां च महाधियां समस्तवस्तुसाक्षात्कार इति तेषामपि सुखदुःखोत्पादप्रचयः प्रसज्येत असत्यां प्रतिपक्षधारणायाम् । तस्मादिन्द्रियार्थसन्निकर्षोऽपि सुखदुःखोत्पादहेतुरेषितव्यः । स च सत्यप्यर्थसाक्षात्कारे नास्ति सिद्धानामिति न तेषां सुखदुःखोत्पादः । अपि च चरमभावि कारणं गृहीत्वा पूर्वभाविनामकारणत्वापादने तन्त्वादीनामपि पटादीन् प्रत्यकारणत्वप्रसङ्गः । संयोगभेदादेव तादृशपटात्पत्तेः तन्त्वादीनां च संयोगभेद एवोपयोगात् । तत्सहितस्य तु तत्कारणत्वं512 सनिनिकर्षस्याप्यालोचनसहितस्येति समानम् । यथाहुः “पदार्थविदः” स्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षधर्माद्यपेक्षादात्ममनसोः संयोगात् यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम्513 इति । तस्मात् सुष्ठूक्तं सुखादिनिवृत्त्यर्थं ज्ञानग्रहणमिति ।
इह द्वयी प्रत्यक्षजातिरविकल्पिका सविकल्पिका चेति । तत्रोभय्यपि “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारीति” लक्षणेन सङ्गृहीतापि स्वशब्देनोपात्ता, तत्र विप्रतिपत्तेः । तत्राविकल्पिकायाः पदम् “अव्यपदेश्यमिति,” सविकल्पिकायाश्च “व्यवसायात्मकमिति ।” तत्र व्यपदेशो विशेषणमुपलक्षणं वा नामजात्यादि, तत् कर्म व्यपदेश्यं विशेष्यमिति यावत् । तद्यथा डित्थोऽयं गौरयं शुक्लोऽयं कमण्डलुमानयं गच्छत्ययमिति सर्वं हि सविकल्पकं विशेषणविशेष्यभावेन वस्तुषु प्रवर्तते । अविद्यमानं व्यपदेश्यं यस्मिंस्तदव्यपदेश्यं जात्यादिस्वरूपावगाहि, न तु जात्यादीनां मिथो विशेषणविशेष्यभावावगाहीति यावत् ।
तत्र नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मतमपाचिकीर्षुरुपन्यस्यति “भाष्यकारः यावदर्थं वै नामधेयशब्दाः ।” सर्वेऽर्थाः सर्वथा सर्वदा सर्वत्र नामधेयान्विताः । नास्ति सोऽर्थो यः कदाचित् क्वचित् कथञ्चित् नामधेयेन वियुज्यते । तदनेन नामधेयतादात्म्यमर्थानां प्रतिजानीते । अत्र हेतुमाह—“तैरर्थसम्प्रत्यय” इति । अर्था हि प्रतीयमाना नामधेयैरुपेतास्तत्सामानाधिकरण्येनावगम्यन्ते, गौरित्यर्थोऽश्व इत्यर्थ इति । न चोपायतया सामानाधिकरण्यं घटते । न हि चक्षुरादिसामानाधिकरण्यं रूपाद्यनुभवति । नापि ज्ञायमान उपाय उपेयसामानाधिकरण्यमनुभवति । न हि भवति धूमोऽयं वह्निरिति, किं तु धूमोऽयं धूमत्वात् वह्निमानिति । अपि चाशब्दोपायेऽनुमेयादौ न शब्दसम्भेदेनाधिगमो भवेत्, अस्ति तु । तस्मात् तैर्नामधेयैः सह समाना धिकरणस्यार्थस्य प्रत्ययो यत इति । तस्मात् नामधेयात्मानोऽर्थाः । किं च गवादिषु षड्जादिषु514 च शब्दापकर्षेऽर्थप्रत्ययापकर्षात् तदुत्कर्षे त्वर्थप्रत्ययोत्कर्षात् प्रत्ययस्य च प्रत्येतव्योत्कर्षाधीनोत्कर्षत्वात् नामधेयोत्कर्षेणार्थस्योत्कर्षोऽर्थस्य तादात्म्यं गमयति515 । तदिदं समः प्रयोजनं सम्प्रत्यय इति समधिकः प्रत्यय इत्यर्थः । अस्त्यर्थसम्प्रत्ययो नामधेयसामानाधिकरण्येन, न त्वेतावता नामधेयात्मता सिध्यति । अस्ति हि पुरोवर्तिद्रव्यसामानाधिकरण्येन516 रजतप्रत्ययो न चैतावता शुक्ती रजतात्मिका भवतीत्यत आह—“अर्थसम्प्रत्ययाच्च व्यवहारः ।” ततश्चाविसंवादात् प्रमाणं सन्नामधेयतादात्म्यं साधयत्यर्थानामित्यर्थः ।
तदेवं सामान्यतोऽर्थानां नामधेयतादात्म्यं व्युत्पाद्य प्रकृते योजयति—“तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नं विषयज्ञानं रूपमिति वा रस इति वा” एवं रूपाद्यर्थसामानाधिकरण्येन भवति । भवतु, किमेतावतापीत्यत आह—“रूपरसशब्दाश्च विषयनामधेयम् ।” किमेतावतापीत्यत आह—“तेन व्यपदिश्यते ज्ञानम् ।” उक्तमपि व्यपदेशं सव्याख्यानमाह—“रूपमिति जानीते रस इति जानीते” इति । तथा चार्थानां नामधेयात्मकत्वात् तद्गोचरमालोचनमपिनामधेयगोचरमित्यर्थवत् “नामधेयेन व्यपदिश्यमानं शाब्दं प्रसज्यत” इति । न शब्दप्रमाणकतया शाब्दम्, अपि तु शब्दे जातं शाब्दम् । शब्दश्चात्र विषयत्वेन जनकोऽर्थतादात्म्यात् । तथा च नाविकल्पकं शब्दरहितमस्तीति तात्पर्यार्थः । तथा चाहुः,
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥
[वाक्यपदीयम् १.१२३] बालमूकादीनामपि ज्ञानं शब्दानुव्याधवदेवानादिशब्दभावनावशात् । यदवोचत्,
आद्यः करणविन्यासः प्राणस्योर्द्ध्वं समीरणम् ।
स्थानानामभिघातश्च न विना शब्दभावनाम् ॥
[वाक्यपदीयम् १.१२२] इति । तदस्य निराकरणं लक्षणगतेनालोचनज्ञानावरोधार्थेनाव्यपदेश्यपदेन सूचितमिति परीक्षापर्वणि वचनार्हमपि सुभाषितरुचितया तद्विलम्बमसहमानो “भाष्यकारो” लक्षणावसर एवाह । अत एवाह—“अव्यपदेश्यमिति ।” तेन सूचितेऽप्यर्थे अव्यपदेश्यपदं योजयति—“यदिदमनुपयुक्ते शब्दार्थसम्बन्धेऽर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते ।”
अयमभिसन्धिः । सामानाधिकरण्येन शब्दात्मकत्वं रूपादीनामभिधीयमानं शब्दब्रह्मात्मकत्वं वोच्येत श्रूयमाणगौरित्यादिपदभेदात्मकत्वं वा ? न तावदाद्यः कल्पः । न खल्वस्मदादिसमस्तदर्शनपथातिवृत्तेन शब्दब्रह्मणा रूपादीनामस्ति सामानाधिकरण्यप्रतीतिर्लौकिकानाम् । श्रूयमाणशब्दसामानाधिकरण्येन तु तादात्म्यप्रसाधने अनुपयुक्तशब्दसम्बन्धस्य बालमूकादेः रूपादिज्ञानेषु नास्ति श्रूयमाणशब्दगन्धोऽपि, प्रागेव तु तत्सामानाधिकरण्यम् । न च तेषामपि प्राग्भवीयशब्दभावनानुगमेन तत्सामानाधिकरण्यमिति साम्प्रतम् । न खलु रूपाद्यात्मनः शब्दस्य रूपादिवैशद्येनावैशद्यं सम्भवति । युगपद् वैशद्यावैशद्यरूपविरुद्धधर्मयोगेन भेदप्रसङ्गात् । वैशद्ये तु व्युत्पन्नवदव्युत्पन्नोऽपि शब्दैर्व्यवहरेत्, न तु सम्बन्धग्रहणमपेक्षेत । न च तादात्म्यादन्यद् वाचकत्वं शब्दानां यत्र सम्बन्धग्रहापेक्षा भवेत् । न च तादात्म्येऽपि कल्पितभेदानां वाच्यवाचकभावः । तथा सति न सामानाधिकरण्यं स्यात् । न ह्यस्ति सम्भवो भेदकल्पना च सामानाधिकरण्यप्रथा चेति । तस्मादव्युत्पन्नानामस्ति शब्दरहितं रूपादिषु निर्विकल्पकं प्रत्यक्षमिति । न केवलमव्युत्पन्नानाम्, व्युत्पन्नानामप्यस्तीत्याह—“गृहीतेऽपि च शब्दार्थसम्बन्धे” इति । अर्द्धोक्त एव सामानाधिकरण्यनिरासाय सम्बन्धग्रहणस्वरूपमाह—“अस्यार्थस्य” सास्नादिमद्रूपस्य “अयं” गकाराद्योकारो “नामधेयमिति ।” इतिकरणो ज्ञानपरामर्शप्रधानः । तथा च यो डित्थो नानादेशकालावस्थासंसृष्टः पिण्डभेदः सोऽयमिति सन्निहितदेशकाल इत्यर्थः । न त्वयं पिण्डो डित्थशब्द इति प्रत्ययः । औत्सर्गिकं हि शब्दानामर्थपरत्वं क्वचित् पुनरित्यादिभिः शब्दैस्तदपोद्यते । यत्रापि सम्बन्धप्रतिपादनमभेदेन अयं517 डित्थ इति, तत्रापि शब्दो वाच्यत्वपरो518 न स्वरूपपरः । यथा गौर्वाहीक इति लक्ष्यमाणगुणयोगपरः । न च तन्मात्रेण वाहीकस्य गोत्वं भवति । तस्माद् भिन्नयोरेव शब्दार्थयोः सम्बन्धग्रहात् तन्मूलत्वाच्च शब्दव्यवहारस्य न शब्दपुरःसरमपि ज्ञानं शब्दसामानाधिकरण्यमात्मनोऽर्थस्यावगमयति519 । यत्तु शब्दानुपायेऽपि ज्ञाने शब्दः पूर्वं भवति तद्गृहीतसङ्केतस्य प्रथममिन्द्रियार्थसन्निकर्षादालोचनेन शब्दसंसर्गरहितेनालोचितेऽर्थमात्रे तस्यार्थभेदस्य520 शब्दभेदेन सम्बन्धात् शब्दविषयः संस्कारः प्रबोध्यते । स प्रबुद्धः शब्दस्मृतिं जनयति । तेन व्युत्पन्नस्य निर्विकल्पकात् पराञ्चः प्रत्ययाः शब्दानुपाया अपि शब्दपुरःसरा जायन्ते । यथाहुः,
यत् सञ्ज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन् सञ्ज्ञां स्मारयितुं क्षमः ॥
तस्माद् व्युत्पन्नस्यापि नामधेयस्मरणाय पूर्वमेषितव्यो विनैव नामधेयमर्थप्रत्ययः । तदिदमुक्तम्—“गृहीतेऽपि च शब्दार्थसम्बन्धे अस्यार्थस्यायं शब्दो नामधेयमिति । यदा तु सोऽर्थो गृह्यते” नामधेयरहितो नामधेयस्मरणात् पूर्वमविकल्पेन तदा पूर्वस्माद् अव्युत्पन्नावस्थायाम् “अर्थज्ञानात् न विशिष्यते” इति । यतो न विशिष्यते तस्मात्521 “तदर्थज्ञानं तादृगेव भवति ।” ननु परप्रतिपादनादिलक्षणव्यवहाराय स्वरूपेण ज्ञाने व्यपदेष्टव्ये यदर्थव्यपदेशेन व्यपदिश्यते तदवगच्छामोऽर्थव्यपदेशाकारमिति । कथं चार्थाकारं भवति ? यद्यर्थव्यपदेशयोर्नाभेदः, तस्मात् पुनरपि तादात्म्यं प्रसक्तमित्यत आह—“तस्य त्विति ।” अर्थाकारमेव तु ज्ञानमर्थव्यपदेशेन व्यपदिश्यते अन्यथा अशक्यत्वादित्यर्थः । “प्रतीयमानं” परेण । उपसंहरति—“तस्मादिति । तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते” प्रतीयमानतया “व्यवहारकाले” परप्रत्यायनकाले तु “व्याप्रियते” कारणतया । तदनेन गोपालाविपालादीनां सञ्ज्ञानिवेशनं तासु तासु व्यक्तिषु व्यवहारोत्कर्षहेतुः नार्थोत्कर्षहेतुरित्यपि सूचितं भवति । तस्माद् अविकल्पकप्रत्यक्षावरोधार्थेनाव्यपदेश्यपदेनास्यैवाविकल्पकस्य शब्दानुव्याधरहितता सूचिता इत्याशयवान् उपसंहरति—“तस्मादिति ।”
तदेतद् “भाष्यं वार्त्तिककारः” तात्पर्यतो व्याचष्टे—“तच्चेन्द्रियार्थेति । विषयभेदानुविधायि ज्ञानमिति” शब्दात्मतामपाकरोति । चाक्षुषं हि रूपज्ञानं रूप एव नियतं न शब्दे प्रवर्तते । एवं श्रौत्रमपि शब्द एव नियतं न रूपादौ प्रवर्तते । यदि पुनरिदं शब्दात्मकं रूपादि भवेत् श्रोत्रजं ज्ञानं शब्दग्राहीति रूपादावपि प्रवर्तेत । अप्रवर्तमानं वा विधुरयति रूपादीनां शब्दात्मताम् । अपि च श्रूयमाणशब्दात्मत्वे रूपादीनाम्, तेषामपि श्रवणग्राह्यत्वमित्यन्धोऽपि रूपं गृह्णीयात् । अस्ति हि तस्य श्रोत्रं च शब्दज्ञानं च । एवं बधिरोऽपि शब्दं गृह्णीयात् । अस्ति हि तस्य लोचनं च रूपज्ञानं च । अशब्दोऽभाव इति च विवक्षितविपरीतापत्तिः शब्दाभावस्यार्थस्य शब्दत्वात्, अशब्दत्वे वा स एवास्यार्थः शब्दाद् भिन्नः प्रसज्यते । एवमभावोऽप्यर्थ इति शब्दः स्यात् । तथा च नाभावः, शब्दस्य सत्त्वात् । तथा चार्थानुविधायि विज्ञानं न भवेत् । अस्ति च । तस्मात् न शब्दात्मानोऽर्था इति । “तदुत्पत्तिकाल” इति प्राथम्येन शब्दानुव्याधं व्यावर्तयति ।
“एकदेशि”व्यारव्यानमाह—“अपरे त्विति ।” इन्द्रियार्थसन्निकर्षेण हि लिङ्गेन यदिन्द्रियगतिज्ञानं तदपि प्रत्यक्षलक्षणोपेतमिति प्रत्यक्षं प्रसज्यत इति तन्निवारणायाव्यपदेश्यपदम्522 । अपदेशो हेतुवचनम् । तदेव तदाभासेभ्यो विशिष्टं व्यपदेशः । तस्य कार्यं हेतुप्रत्यायनद्वारा अनुमेयज्ञानं व्यपदेश्यम् । न व्यपदेश्यमव्यपदेश्यमलिङ्गोद्भवमित्यनुमानं व्यावर्तितमित्यर्थः । “तदेकदेशिमतं” दूषयति—“तच्च नैवमिति ।” नन्विन्द्रियगतिज्ञानमपि इन्द्रियार्थसन्निकर्षाल्लिङ्गादुत्पन्नमित्यत आह—“न ह्यनुमेयस्येति ।” नैतदिन्द्रियार्थसन्निकर्षादुपजायते, किं तु तज्ज्ञानात् । अत+एवातीतेऽपि धूमादौ लिङ्गे तत्स्मरणमात्रादेवानुमेयज्ञानं भवति । न च सन्निकर्षपदस्य मुख्यत्वे सम्भवति ज्ञानलक्षणा युक्तेति भावः । उपसंहरति—“अत” इति । इमं च “वार्त्तिक”ग्रन्थमबुध्यमाना इन्द्रियगतिज्ञाननिवृत्त्यर्थमिन्द्रियविषयेष्विति पदं “सूत्रे”ऽध्याहरन्तीति ।
क्रमप्राप्तस्याव्यभिचारिपदस्य तात्पर्यं ब्रुवाणो “भाष्य”स्यापि तात्पर्यमाह—“ग्रीष्मे मरीचय” इतीति । यद्यपि सामान्यलक्षणेनैव व्यभिचारिणो निरस्ताः प्रत्ययास्तदपेक्षं च विशेषलक्षणम्, अन्यथा अनुमानादिपदेष्वप्यव्यभिचारिपदमुपादेयं स्यात्, तथापि सिद्धे सत्यारम्भो नियमार्थः । द्वयी हि प्रमाणानां गतिः । किञ्चित् सत्तामात्रेण प्रमासाधनं यथा प्रत्यक्षम् । न हि चक्षुरादीनां ग्रहणं प्रमायामुपयुज्यते, अपि तु सत्तैव । अनुमानादीनि तु स्वज्ञानेन प्रमासाधनानि न खल्वगृहीतं लिङ्गं वा शब्दो वा आगमसहितं सादृश्यं वा यथाविषयम् आदधाति प्रमाम् । तत्रानुमानस्य प्रमोपजननात् प्रागेवार्थाव्यभिचारग्रहणमपेक्षते नान्यथा । ततः प्रमा सिध्यतीति । शब्दादौ तु यद्यपि प्रमोपजननं प्रति नार्थाव्यभिचारग्रहापेक्षा, तथापि शक्यमतिरोहितार्थमन्त्रमध्यपतितस्य द्रागित्येव प्रतीयमानार्थस्यापि सृण्येव जर्भरी तुर्फरी तू इत्येवमादेर्मन्त्रस्याप्तप्रणेतृकतया सामान्यतोऽर्थाव्यभिचारित्वं ग्रहीतुम् । औत्सर्गिकं हि शब्दानामर्थपरत्वम् । अत+एव “निगमनिरुक्तव्याकरण”सहायास्ततोऽर्थमवधारयन्ति । एवं यथा मुद्गस्तम्बस्तथा523 मुद्गपर्णीति आप्तवाक्यश्रवणादेव मुद्गस्तम्बसादृश्यज्ञानस्यानुपजनितफलस्यापि523 शक्यं तदर्थाव्यभिचारित्वं निश्चेतुम् । प्रत्यक्षस्य तु प्रमाणस्यात्यन्तपरोक्षस्वरूपोपलम्भ524 एव तावत्525 प्रमोपजननात् प्राग् दुर्लभः, प्रागेव तु तस्यार्थाव्यभिचारित्वम् । यद्यपि च संवेदनप्रामाण्यपक्षेऽपि तत्संवेदनं मनसा सुलभम्, तथापि न तन्मात्रं प्रमाणम् । अपि तु असाधारणेन्द्रियार्थसन्निकर्षसहायमिति तत्सहायस्य तस्य परोक्षत्वमेव । तेन प्रत्यक्षस्य प्रमाणस्य फलाव्यभिचारेणैवाव्यभिचारज्ञानम्, न स्वरूपत इत्येतत्526 प्रमाणान्तरेभ्यो व्या वृत्तमसाधारणं प्रत्यक्षस्य रूपमादर्शयितुमव्यभिचारि527 पदोपादानम् । अथवा प्रत्यक्षाव्यभिचार एवानुमानाद्यव्यभिचारे कारणम् । न ह्यस्ति सम्भवोऽव्यभिचरितप्रत्यक्षगृहीतपक्षधर्मताकं528 तर्कसहायप्रत्यक्षगृहीताविनाभावं चानुमानं529 व्यभिचरतीति । यत्तु बाधितविषयं सत्प्रतिपक्षितं530 चानुमानम् तदपि यद्यपि प्रथमं व्याप्तिग्रहणदोषेण न खण्डितम्, तथापि खण्डनोत्तरकालं सोऽपि प्रतीयते । तथा च व्याप्तिग्राहि प्रत्यक्षं तत्रापि व्यभिचारीति531 । एवमागमोऽपि साक्षात् क्वचित् पारम्पर्येण प्रत्यक्षपूर्वकस्तद्व्यभिचारेणैव व्यभिचरति । आगमव्यभिचारेणैवोपमानव्यभिचारो532 व्याख्यातः । तदेवं प्रत्यक्षाव्यभिचारे533 प्रमाणानामव्यभिचारोऽस्तीति प्रत्यक्षस्यैव विशेषणम् अव्यभिचारिपदं चकार, नेतरेषां प्रमाणानाम् । न ह्यस्ति सम्भवस्तन्मूलं प्रत्यक्षम् अव्यभिचारि, तानि च व्यभिचारीणीति । सोऽयं विशेषः प्रमाणान्तरेभ्यः प्रत्यक्षस्य । यथाह “मीमांसावार्त्तिककारः,”
प्रत्यक्षाव्यभिचारेण स्वलक्षणबलेन च ।
प्रसिद्धाव्यभिचारित्वान्नानुमानं परीक्ष्यते ॥
इति । तस्मात् सुष्ठूक्तं “ग्रीष्मे मरीचय इति भाष्यम् । तत्प्रतिषेधार्थमिदमुच्यते— अव्यभिचारीति ।”
पृच्छति—“किमिदमिति ।” उत्तरम्—“यदतस्मिन्निति ।” एतच्चोपपादितं द्वितीय“सूत्रे ।” पुनः पृच्छति—“किं पुनरत्रेति । एकदेशि”मतेनोत्तरम्—“एके तावदिति ।” तदेतद् दूषयति—“तच्च नैवमिति ।” पृच्छति—“कस्मात् ?” उत्तरम्—“अर्थस्येति ।” तदेव स्फोरयति—“यत्तदिति ।” अत्र च न निर्विकल्पकं भ्रान्तम्, किं तु सविकल्पकमित्याह— “तांस्तु मरीचीनिति ।” इन्द्रियेणालोच्य मरीचीन् उच्चावचमुच्चलतो निर्विकल्पकेन गृहीत्वा पश्चात् तत्रोपघातदोषाद् विपर्येति, सविकल्पकोऽस्य प्रत्ययो भ्रान्तो जायते इति । तस्माद् विज्ञानस्य व्यभिचारो नार्थस्येति । यथाहु“र्निरुक्तकाराः,”
नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराधः स भवतीति । [निरुक्तम् १। १६]
अव्यभिचारिपदेनैव संशयज्ञानमपि व्युदस्तम्534 । नो खलु संशयज्ञानं विकल्प्यमानवस्तुगोचरं तद्रूपं वस्तु प्रापयति । अप्रापयच्चोपदर्शितं कथं संवादकम्, असंवादकं च कथमव्यभिचारि ? तस्मादव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षावरोधार्थमुपादीयमानं व्यवसायात्मकपदं संशयज्ञानप्रत्यक्षतापाकरणमन्वाचिनोति535 । तद्यथा एधानाहर्तुमरण्यं गच्छ, शाकमप्यानेष्यसीति शाकानयनमन्वाचीयते । न च तदेवास्य प्रेषितुर्विधित्सितम्, तथेहापि । व्यवसायात्मकपदं साक्षात्सविकल्पकस्य वाचकम् । तथा हि व्यवसायो विनिश्चयो विकल्प इत्यनर्थान्तरम् । स एवात्मा रूपं यस्य तत् सविकल्पकं प्रत्यक्षम् । तदेतदतिस्फुटत्वात्536 शिष्यैर्गम्यत एवेति “भाष्यवार्त्तिककाराभ्याम”व्याख्यातमपि “अस्माभिः,”
त्रिलोचनगुरून्नीतमार्गानुगमनोन्मुखैः ।
यथान्यायं537 यथावस्तु व्याख्यातमिदमीदृशम् ॥
स्यादेतत् । न व्यवसायात्मकं प्रत्यक्षं भवितुमर्हति । अभिलापसंसर्गायोग्यप्रतिभासं हि तत् । न चेन्द्रियार्थाभ्यां लब्धजन्म विज्ञानमर्थावभासं शक्यमभिलापेन योजयितुम् । न ह्यर्थे शब्दाः सन्ति, अर्थात्मानो वा, तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् । न चाभिलापोऽर्थसंस्पर्शो संवेदनधर्मः, अर्थेषु तन्नियोजनात् । तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेत् नाभिलापम् । न हि रूपात् जायमानं प्रत्यक्षं रससहितमेतदादर्शयति । तस्मादभिलापसंसर्गानपेक्षमभिलापसंसर्गिणमादर्शयद् विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापारं तिरस्कृत्यानुभवप्रभवतया अनुभवव्यापारं दर्शनं पुरस्कृत्य प्रवर्तमानमनुभवतया अभिमन्यन्ते प्रतिपत्तारः । तत् सिद्धमेतत्, यदर्थसामर्थ्यलब्धजन्म, न तत् शब्दकल्पनानुगतम्, यथा निर्विकल्पकम् । अर्थसामर्थ्यलब्धजन्मानश्च538 विवादाध्यासिता विकल्पा इति प्रसङ्गसाधनविरुद्धव्याप्तोपलब्धिः539 । शब्दकल्पनानुगतत्वस्य हि प्रतिषेध्यस्य विरुद्धं तदननुगतत्वम्, तेनार्थसामर्थ्यजत्वं व्याप्तम् । तस्योपलब्धिस्तदननुगतत्वमुत्थापयन्ती तदनुगतत्वं विरुणद्धीति । अथैषां प्रत्ययानां प्रत्यक्षमभिलापानुगतत्वमशक्यापह्नवम् ? हन्त भोः, नार्थसामर्थ्यजत्वमिति प्रसङ्गविपर्ययः । तथा हि यदभिलापकल्पनानुगतं न तदर्थसामर्थ्यजं यथेश्वरप्रधानादिविकल्पविज्ञानम् । तथा चैते विवादाध्यासिता विकल्पा इति व्यापकविरुद्धोपलब्धिः । निषेध्यमर्थसामर्थ्यजत्वं तदभिलापकल्पनाननुगतत्वेन व्याप्तं तद्विरुद्धं च तदनुगतत्वमिति । न च सन्दिग्धव्यतिरेकिता, अर्थसामर्थ्येन हि तदुत्पद्यमानमर्थरूपमनुकुर्याद् न शब्दरूपम् । न ह्यर्थे शब्दाः सन्ति तदात्मानो वेत्युक्तम् । असम्बद्धरूपानुकारे तु विज्ञानस्य सर्वरूपानुकारेण सर्वसर्वज्ञतापत्तिरिति । सङ्केतवशात् शब्दानामर्थसम्बन्धेनार्थोपलब्धौ तत्स्मरणात् तत्संसृष्टवेदनमिति चेत् ? यत्र तर्हि ते कृतसङ्केताः540 तदेव स्मारयेदेतान् । तत्रैव च ते कृतसङ्केता यदनुगतं सामान्यम् । न च तद्दृष्टम्, किं तु स्वलक्षणं दर्शनगोचरः । तदेव हिपरमार्थसद्विज्ञानस्य541 कारणम्, न तु सामान्यम् । सर्वसामर्थ्यरहितं हि तत्, अलीकत्वात्542 । तस्माद् यद् दृष्टं न तेन शब्दानां सम्बन्धः, येन च सम्बन्धो न तद् दृष्टम् । अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वह्निरुष्ण इति वाक्यादपि प्रतीयेत । तथा च शब्दादपि तस्मिन् प्रतीते शीतापनोदनप्रसङ्गः । सामान्यविषयौ लिङ्गशब्दौ वस्तुभूतसामान्यवच्च स्वलक्षणम् । तादृशं च तद्दर्शनस्य कारणमिति निर्विकल्पकेन प्रथमाक्षसन्निपातजन्मना जातिमद्वस्तुवेदनात् तत्रोपलब्धचरसम्बन्धस्य543 शब्दस्य स्मरणम् । तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाहीन्द्रियार्थसन्निकर्षजन्मा विकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति चेत् ? यथाहुः,544
निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनः ।
ग्रहणम् [श्लो। वा। प्रत्यक्ष। ११८]
तथा
ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता ॥
[श्लो। वा। प्रत्यक्ष। १२०] इति । तन्न, पिण्डविवेकेन जात्यादेरविकल्पकेनाग्रहणात् । न हि जातिजातिमन्तौ वा क्रियाक्रियावन्तौ वा गुणगुणिनौ वा तत्समवायो वा विवेकेन चकासति । न च विवेकेनाप्रतिभासमानाः शक्या मिथो योजयितुं क्षीरोदकवदतद्वेदिना । तस्मादेकमविभागं स्वलक्षणमनादिविकल्पवासनासमारोपितजात्यादिभेदं तथा545 विकल्प्यत इति युक्तमुत्पश्यामः । अपि च परमार्थसद्वस्तुद्वयवेदनेऽपि कुतो विशेषणविशेष्यभावः ? न ह्यङ्गुल्यावेकविज्ञानविषयौ मिथो विशेषणविशेष्यभावमापद्येते । विशेषणं खलूपकारकम्, उपकार्यं च विशेष्यम् । नान्यथा तयोस्तद्भावः । न चैकविज्ञानसमारूढयोर्ज्ञाप्यज्ञापकभावो वा कार्यकारणभावो वा सम्भवी, समानकालयोस्तयोरुभयोरपि पौर्वापर्यनियमात् । अपि च वस्तुनिवेशे जात्यादीनामुपाधीनामेकस्य वस्तुनः सत्त्वं च द्रव्यत्वं च पार्थिवत्वं च वृक्षत्वं च शिंशपात्वं चोपाधय इति दूरादेकोपाधिविशिष्टस्य ग्रहे सर्वोपाधिविशिष्टग्रहप्रसङ्गः । तथा ह्याधाराधेयभाव उपकारगर्भो भवति । पतनधर्मणो हि बदरस्योत्तरस्य546 कुण्डमधरं प्रत्यासन्नमपतनधर्मकं बदरं विदधद् आधारः । तद्वदिहापि जात्यादीनामुपाधीनामुपकर्तव्यम्547 । न च शक्त्यन्तरैरुपकरोति । शक्त्यन्तरोपकारेऽपि शक्त्यन्तरकल्पनायाम् अनवस्थापातात् । तस्मात् स्वभाव एव स्वकारणाधीनजन्मा द्रव्यस्य स तादृशो येन बहूनामुपाधीनामुपकरोतीति वाच्यम् । तथा च सत्त्वोपकारसमर्थे तस्मिन् द्रव्ये गृह्यमाणे द्रव्यत्वाद्युपकारसमर्थोऽपि548 स एवास्य स्वभाव इति तत्स्वभावावच्छिन्नाः सत्त्वविकल्पकेन परमार्थसद्द्रव्यावगाहिना सर्व एव द्रव्यत्वपार्थिवत्वृक्षत्वशिंशपात्वादयो विषयीकृता इति विकल्पान्तराणामानर्थक्यम् । यदाह,
यस्यापि नानोपाधेर्धीग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः549 ॥
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे550 ।
दृष्टे तस्मिन्नदृष्टा ये551 तद्ग्रहे सकलग्रहः ॥
इति ।
“अस्माकं” तु अनादिविकल्पवासनोपादाना विकल्पा यच्च गृह्णन्ति, यच्चाध्यवस्यन्ति तयोरुभयोरप्यन्यनिवृत्तिरूपतया अवस्तुत्वात् मनागपि न परमार्थसद् वस्तु गाहन्ते,552 पारम्पर्येण तु वस्तुप्रतिबन्धात् तत्र प्रवर्तयन्तः प्रापयन्तश्च न विसंवादयन्ति लोकम् । अतो वस्तुसद्भावाविनिवेशाद् विकल्पानां न पौनरुक्त्यमस्ति । अपि चालोचिते वस्तुनीन्द्रियेण तदनन्तरोत्पन्नं शब्दस्मरणव्यवहितव्यापारमिन्द्रियमर्थश्च न सविकल्पिकामपि धियमुपजनयितुमर्हतः । यथाह,
अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।
अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥
न च यदेवालोचनमजीजनदिन्द्रियं तदेव स्मरणसहकारि विकल्पप्रत्ययमाधत्ते । न च स्मृतिर्व्यवधायिका स्वाङ्गमव्यवधायकमिति न्यायात् । यतो
यः प्रागजनको बुद्धेरुपयोगाविशेषतः ।
स पश्चादपि । इति
नो खल्वतीतं भवति गोचरोऽक्षस्य । न चागोचरे सहस्रेणाप्युपायैरेतत् प्रवर्तितुमर्हति553 । न च स्मृतिरतीतविषयाननुभूतपूर्वं वर्तमानं गोचरयितुमर्हति । तद्गोचरत्वे चान्धानामपि रूपसाक्षात्कारप्रसङ्गः । यथाह,
तेन स्यादर्थापायेऽपि नेत्रधीः ।
इति । तदेवं नामजातिगुणकर्मकल्पनाः प्रत्यक्षत्वेन परास्ताः । द्रव्यकल्पनापि दण्डीति,
विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा554 ॥
न चैतावन्तं व्यापारकलापं विचारकनिर्वर्तनीयमिन्द्रियज्ञानं सहते, तस्य सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् । जातिगुणक्रियावतां555 चैतन्न सम्भवत्येव, रूपविवेकसम्बन्धयोरप्रतिभासनेन556 घटनायोगात् क्षीरोदकवदतद्वेदिनेत्युक्तम्557 । तस्मात् न तद्विकल्पं558 प्रत्यक्षमिति ।
अत्रोच्यते । यत् तावदुक्तमर्थसामर्थ्यजत्वाभिलापसंसर्गायोग्यप्रतिभासत्वयोर्विरोध इति, तत्र ब्रूमः । स्याद् विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति । उपपादयिष्यति हि559 परमार्थसन्तं जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् । तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गायोग्यप्रतिभासं चेति न विरोधः । तथा च प्रसङ्गसाधनस्य सन्दिग्धव्यतिरेकिता । न च द्रव्याद्यभिन्नं जात्यादि भिन्नं कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति साम्प्रतम् । द्रव्यादपि हि भेदः साधियष्यते तेषाम् । यथा च भेदेऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोपपादितमधस्तात् । न च भिन्नेन शब्देन डित्थोऽयमित्यभेदकल्पनादर्थस्य विकल्पानामनर्थजत्वमिति युक्तम् । उक्तमेतद् अव्यपदेश्यपदव्याख्यानावसरे यथा न शब्दाभेदेनार्थयोरेकेन्द्रियज्ञानसंसर्गिता560 किं तु प्रथममालोचितोऽर्थः सामान्यविशेषवान् सङ्ङ्केतग्रहणसमयवर्तिनीमात्मनोऽवस्थां561 स्मारयन् तत्कालभाविनं शब्दमपि स्मारयत्यवर्जनीयतया । न त्विन्द्रियजविकल्पोत्पादं प्रत्यस्त्युपयोगः कश्चिच्छब्दस्मरणस्य । अन्यथा बालमूकादीनां नेन्द्रियजः स्याद्विकल्पःशब्दस्मरणाभावात् । सङ्केतसमयवर्त्यवस्थास्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्थाभेदवत एकस्येन्द्रियजेन विकल्पेनाकलनात् । शब्दस्तु सम्पातायातो न निवेशयत्यात्मानमिन्द्रियजे विकल्पे । यथाह,
देवदत्तादिशब्देन हृदयस्थेन यः स्मृतः ।
चक्षुषापि स एवायं पिण्डः सम्प्रति दृश्यते ॥
अनेन हि पिण्डस्य पूर्वापरावस्थावर्तिनीमेकतामिन्द्रियजविकल्पगोचरत्वेन दर्शयति, न तु शब्दनिवेशनमपि । तथा,
सञ्ज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
सञ्ज्ञिनः ।
कुतः ? सा तटावस्था562 न रूपाच्छादनक्षमा ॥
नार्थेन्द्रियव्यापारं व्यवधत्ते इत्यर्थः । न च प्रागवस्थास्मरणसापेक्षतया नेन्द्रियार्थसन्निकर्षः कारणं विकल्पस्येति साम्प्रतम् । यतो,
न किञ्चिदेकमेकस्मात्563 सामग्र्याः सर्वसम्भवः ।
[प्र। वा। ३। ५३] इति भवन्तोऽप्याहुः । अन्यथालोकमनस्कारसापेक्षमर्थेन्द्रियं निर्विकल्पकमपि न जनयेत् । यत्तु प्रथमं नाजीजनत् तत् स्मरणसहकारिविरहात् । न हि नाजीजनत् कुशूलस्थं बीजमङ्कुरमिति न समवहितक्षित्यादिसहकारिग्राममप्यस्याजनकं भवति । न च जनकत्वाजनकत्वलक्षणो विरुद्धधर्मसंसर्गो भेदहेतुरित्युपपादयिष्यते क्षणभङ्गभङ्गे564 ।
स्यादेतत् । अतीतावस्था नेन्द्रियगोचरस्तस्य वर्तमानार्थे नियमात् । न च वर्तमानोऽर्थः स्मरणगोचरः स्मरणस्यानुभवजनितसंस्कारोद्बोधजन्मनः पूर्वानुभवगोचरं प्रति नियमात् । तस्मात् भिन्नविषयतया नेन्द्रियसहकारिता स्मरणस्य । न हि रूपविषयाः सहस्रमपि नयनप्रदीपादयः शब्दविषयस्य श्रवसः सहकारितामापद्यन्त इति । तत् किं भवतां यत्र गन्धज्ञानानन्तरं565 चाक्षुषं रूपज्ञानं जायते तत्र566 गन्धज्ञानम् न समनन्तरप्रत्ययः ? तत्रापि हि चक्षूरूपविषयं न गन्धविषयस्य ज्ञानस्य सहकारि भवितुमर्हति, भिन्नविषयत्वादेव । अथान्वयव्यतिरेकनिबन्धनः कार्यकारणभावो न समानविषयत्वमनुविधीयते इत्युच्येत, तदस्माकमपि समानम् । नन्वतीतावस्थाविशिष्टत्वमस्य नेन्द्रियसन्निकृष्टमिति कथं प्रत्यक्षम् ? तत् किं यदिन्द्रियसम्बद्धं तत् प्रत्यक्षम् ? तथा सत्याकाशपरमाण्वादयोऽपि तत्संयुक्ता इति तेऽपि प्रत्यक्षाः प्रसज्येरन् । तस्माद् यदेवेन्द्रियजस्य ज्ञानस्य गोचरस्तत् प्रत्यक्षम् । न567 त्विन्द्रियसम्बद्धम् । नन्वसम्बद्धमिन्द्रियं568 कथं तत्र ज्ञानं जनयति ? तच्च ज्ञानं कथं प्रत्यक्षम् ? प्रत्यक्षं चेत्, कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति लक्षणं प्रत्यक्षं व्याप्नोति, अस्यैव प्रत्यक्षस्य लक्षणेनाव्यापनात् ? मा भूदर्थस्य पूर्वकालवर्तिता इन्द्रियगोचरः, तथापि स्मरणसहकारिणा संस्कारसहकारिणा वेन्द्रियेण यज्जनितं ज्ञानं तेन तद्569 विषयीक्रियत एव । न च यत् स्मरणसहकारिणेन्द्रियार्थसन्निकर्षेणोपजनितं तदिन्द्रियार्थसन्निकर्षोत्पन्नं न भवति । तथा च नाव्यापकमस्य लक्षणम् ।
ननु पूर्वापरावस्थापरामर्शि ज्ञानं कथमेकम्, विषयभेदात् पारोक्ष्यापारोक्ष्यलक्षणविरुद्धधर्मसंसर्गाच्च ? तथा हि तदिति पारोक्ष्यम्,570 इदमिति च साक्षात्कारः । न च विरुद्धधर्मसंसर्गेऽप्येकत्वम्, त्रैलोक्यस्यैकत्वप्रसङ्गात् । विषयभेदश्च पूर्वदेशकालापरदेशकालसम्बन्धयोरेकस्य विरोधात् । यथा ह्येकस्मिन् पद्मरागमणौ गृह्यमाणे तदभावो व्यवच्छिद्यते, यदि पुनर्न571 व्यवच्छिद्येत तदा भावो न परिच्छिद्येत, तस्य स्वाभावव्यवच्छेदरूपत्वात् । तदभावाविनाभाविनश्च पुष्परागादय इति तेऽपि सर्वे व्यवच्छिन्ना भवन्ति । यदि पुनर्न व्यवच्छिद्येरन्, स एव पुष्परागाद्यात्मेति तदविनाभावी पद्मरागाभाव इति, स एव तदैव पद्मरागाभावः पद्मरागश्च स्यादिति दुर्घटमापद्येत । एवं तस्यैव पूर्वदेशकालसम्बन्धे गृह्यमाणे तदभाव व्यवच्छेदक्रमेणापरदेशकालसम्बधो व्यवच्छिन्नः पूर्वदेशकालसम्बन्धाभावाव्यभिचारी । तथा च न परदेशकालसम्बन्धस्वभावः । तथापि यद्यसौ तद्देशकालसम्बन्धादन्यस्वभावो भवेत् । तथा सति स एव भवेत् न भवेच्चेति दुर्घटमापद्येत । तस्मात् पूर्वदेशकालसम्बन्धादन्योऽपरदेशकालसम्बन्ध इति सिद्धो विषयभेद इति ।
अत्रोच्यते । यदि पारोक्ष्यापारोक्ष्यधर्मभेदात् पूर्वापरावस्थापरामर्शिज्ञानं भिद्येत, हन्त भोः, तदित्यपि विकल्पो भिद्येत । सोऽपि हि परोक्षश्चापरोक्षश्च विकल्पश्चाविकल्पश्च । अर्थे परोक्षो विकल्पश्च स्वात्मनि त्वविकल्पोऽपरोक्षश्च । तस्माद् विषयभेदादविरोध इति572 चेत्—न त्विहापि तदेकं ज्ञानं तस्यैवैकस्य वस्तुनः पूर्वदेशकालसम्बन्धे परोक्षमपरोक्षं वा परदेशकालसम्बन्ध इति572 को विरोधः ? योऽपि कालदेशसम्बन्धभेदेन विषयभेद उक्तः, सोऽपि अयुक्तः । यतो युक्तं यत् पद्मरागस्वरूपग्रहे तदभावो व्यवच्छिद्यत इति, स्वाभावव्यवच्छेदात्मकत्वेन भावानां तदव्यवच्छेदे स्वरूपाग्रहणप्रसङ्गात् । कस्मात् पुनः पुष्परागादयो व्यवच्छिद्यन्ते, पद्मरागाभावाविनाभावादिति चेत् ? अथैतदभावाविनाभावज्ञानं कुतस्त्यम् ? तयोः कदाचिदपि तादात्म्येनानुपलम्भादिति573 चेत् ? यत्र तर्हि तादात्म्यमुपलभ्यते न573 तत्र तदभावाविनाभावः, तथा च पूर्वापरदेशकालसम्बद्धस्तादात्म्येनानुभूयमान इन्द्रियजेन विकल्पेन पद्मरागो न भिन्नो भवितुमर्हति । तस्मात् पूर्वापरदेशकालौ तत्समबन्धौ वा574 कामं भिद्येयातां परस्पराभावाविनाभावात्, तयोरेकदापि तादात्म्येनाप्रतिभासनात् । न तु तदालिङ्गितस्वभावः पद्मरागमणिः, तस्य ताभ्यामन्यत्वात् । न चान्यस्य भेदोऽन्यस्य भेदमापादयति, अतिप्रसङ्गात् । न चेन्द्रियार्थसन्निकर्षाभावेऽपि पूर्वापरावस्थापरामर्शात्मनो575 विकल्पस्य भावादनिन्द्रियजत्वमिति साम्प्रतम्, तथा सत्यविकल्पकमपि कामातुरस्य कामिनीं भावयतः तद्विषयमिन्द्रियार्थसन्निकर्षं विनापि दृष्टमिति नीलाद्यनुभवात्मानोऽपि अविकल्पका अनिन्द्रियजाः प्रसज्येरन् । यदि तु नीलाद्यनुभवानां कामिन्यनुभवात् कथश्चिद् विशेषं ब्रूयात्, तदा अस्माकमप्यनिन्द्रियजेभ्यो विकल्पेभ्य उत्प्रेक्षाव्यापारेभ्योऽस्तीन्द्रियजानां दर्शनव्यापाराणां भेदः । न च विकल्पगतो दर्शनव्यापारोऽनुभूयमानः सति सम्भवे निर्विकल्पकोपाधिरिति युक्तम् । सर्वा एव हीन्द्रियजा बुद्धयो576 विकल्पिका अविकल्पिका वा धारावाहिन्योऽहमहमिकया परस्परानपेक्षा एकमर्थमवगाहमाना उदयन्ते व्ययन्ते च । न त्वमूषामन्योन्यमनुगम्यानुगन्तृतामीक्षामहे । तस्मात् इन्द्रियार्थसन्निकर्षलब्धजन्मानो विकल्पा दर्शनव्यापारा नान्य577 इति युक्तमुत्पश्यामः । न च शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे सत्यपि प्रत्ययाभेदः, कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेः । न च वह्निसंयोगजन्मा शीतापनोदो वह्निज्ञानाद् भवितुमर्हति । न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्ग्रहप्रसङ्गः । स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो वा तैर्विशिष्टत्वं वा तस्य स्वभावः । न च यत् स्वभावसम्बन्धि स स्वभावः । तथा सत्यसम्बन्धित्वमेव । न हि तदेव तेन सम्बध्यते । अपि च रूपज्ञानं विषयग्रहणधर्मं नानापरमाणुविषयं न परमाणुस्वभावः । तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सवैरेव ते परमाणवो विदिताः स्युः । न चासम्बद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम्, असम्बद्धस्य विषयत्वेऽतिप्रसङ्गात् । स्वभाव एवार्थज्ञानभेदयोः578 सम्बन्धो यदर्थो विषयो ज्ञानं च विषयीति चेत् ? हन्तोपाध्युपाधिमतोरपि स्वभाव एव सम्बन्धोऽस्तु तथापि विज्ञानार्थवन्न स्वरूपाभेदः । क्षणभङ्गपरिणामनिराकरणे579 तु स्वभावातिरिक्तं सम्बन्धमुपपादयिष्यामः । तस्मात् नैकोपाध्यन्वितग्रहणे सकलोपाध्यन्वितप्रत्ययप्रसङ्गः ।
यच्चैकविज्ञानगोचरयोर्न विशेष्यविशेषणभाव इति, तत्र ब्रूमः । भिन्नज्ञानगोचरत्वेऽपि नासौ सम्भवीति । न हि विशेषणज्ञानं विशेष्याविषयं विशेष्यमवच्छेत्तुमर्हति । एवं विशेष्यज्ञानमपि विशेषणाविषयं केन580 स्वविषयमवच्छिन्द्यात् ? तयोः परस्परवार्तानभिज्ञत्वात् । ताभ्यां वासना, ततो मानसप्रत्ययो विशेषणविशेष्यभावाकार581 उत्पद्यते । न त्वस्ति विशेषणविशेष्यभावो वास्तव इति चेत् ? अस्तु तावद् वास्तवावास्तवचिन्ता, करिष्यते हीयमुपरिष्टात् । यस्तु भवतामस्य मानसत्वे प्रयासः, स वरमिन्द्रियजत्व एव भवतु, तथा सति दर्शनव्यापारत्वमस्य साक्षात् समर्थितं भवति । इतरथा हि निर्विकल्पकोपधानं कल्प्येत ।
नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं समाकलयेत् ? हन्त भोः किं मानसमपि ज्ञानं सङ्कलयितुमर्हति ? सङ्कलयति मनसस्तत्कारणस्य सर्वविषयत्वादिति चेत् ? यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता ? अस्माकं तु मनः सर्वाविषयमपि अचेतनतया न विचारकम् । तस्मादात्मैव सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च । यथाह,
आत्मन्येव स्थितं ज्ञानं स हि बोद्धात्र गम्यत582 ।
स्मरणे चास्य सामर्थ्यं सन्धानादौ च विद्यते ॥
[श्लो। वा। प्रत्यक्ष १२२] स खल्विन्द्रियार्थसन्निकर्षादालोच्य जातिमन्तं सम्मुखमर्थम् उद्बुद्धसंस्कारसमुपजातपूर्वपिण्डानुस्मृतिसहायः प्रागेव चक्षुषा विकल्पयति, गौरयमिति । यथाह,
करणं चेन्द्रियं बुद्धेः कर्ता चात्मा स चेतनः ।
स च स्मृतिसमर्थत्वात् सर्वार्थान् कल्पयिष्यति ॥
तेनैकविज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभावरूप उपकार्योपकारकभावो नास्ति, तथापि तदर्थलोचनानुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्युत्पादकत्वमेवोपकारकत्वमस्ति । अर्थौ हि रूपरूपिभावेन स्थितावपि नापातजन्मना ज्ञानेन तथा गृहीतौ, अपि तु स्वरूपमात्रेण, न हि यावदस्ति तावद् ग्रहीतव्यम् । तेन तदेकदेशग्रहेऽपि नाप्रमाणता । सविकल्पकं तूक्तसामग्रीजन्म जात्यादिरूपतया द्रव्यं च रूपितया कल्पयत्583 पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येव । अक्रमस्यापि च क्रमवत्सहकारिभेदसमवधानवशात् क्रमेण कार्यकरणमुपपादयिष्यते584 । तत् सिद्धमेतद् विवादाध्यासिता विकल्पाः स्वगोचरे प्रत्यक्षा अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षजत्वात् । यो य एवम्भूतः स सर्वः प्रत्यक्षो यथालोचनम् तथा चैतत् । तस्मात् तथेति ।
तस्मात् सविकल्पकप्रत्यक्षावरोधार्थं व्यवसायात्मकपदमिति सिद्धम् । तदस्य सविकल्पकप्रत्यक्षावरोधार्थस्यान्वाचीयमानो व्यवच्छेदः । तद्व्यवच्छेद्यप्रतिपादनार्थं “भाष्य”मनुभाष्यान्वाचीयमानमेव व्यवसायात्मकपदस्यार्थमाह—“दूराच्चक्षुषेति । न चैतन्मन्तव्यमिति भाष्यं” व्याचिख्यासुश्चोदयति—“न संशयस्येति ।” ननु सतीन्द्रियार्थसन्निकर्षे पुरोवर्तिनि द्रव्ये “धूम इति वा रेणुरिति वा” ज्ञानमुत्पद्यमानं कथमनिन्द्रियजमित्यत आह—“न हीति ।” कस्मान्मानस इत्यत आह—“संशीतिरिति ।” सम्पूर्वो हि शीङ् भावप्रत्ययान्तो विशेषापेक्षे विमर्शे वर्तते । स चैकाधिकरणौ585 स्मर्यमाणौ मिथो विरुद्धौ धर्मावारोपयन् अन्यतरन्नावधारयति586 । तथा चाधिकरणमात्रसमर्पणमिन्द्रियव्यापारः । मनसा तु स्मरणसहकारिणैव पुरुषः संशेते । अत एव विस्फारिताक्षः सौदामिनीसम्पातात् सकृदालोच्य कञ्चित् समानधर्मवन्तं587 धर्मिणं समन्धकारे सन्दिग्धे, तस्मान्मानस एवैष संशयो न त्विन्द्रियज इत्यर्थः । तदेतत् परिहरन् “न चैतदित्यादि भाष्यं” व्याचष्टे—“तच्च नैवम् ।” कस्मात् संशयस्येति—“उभयं त्विति ।” तुशब्दो मनोमात्रनिमित्तत्वं व्यवच्छिनत्ति । तदनेन “चक्षुषा हीत्यादि भाष्यं” व्याख्यातम् । पश्यन् समानधर्माणं धर्मिणं नावधारयति । विशेषतः सन्दिग्धे तस्मिन्नित्यर्थः । इन्द्रियेणोपलब्धं सन्निकृष्टं सन्निकर्षपूर्वकत्वादुपलब्धेः मनसोपलभते जानीते चक्षुःसहायेनेत्यर्थः । अत्र “भाष्यं यच्च तदिन्द्रियानवधारणपूर्वकं मनसानवधारण तद्विशेषापेक्षं विमर्शमात्रं संशयः, न पूर्वमिति ।” अनवधारणशब्दोऽयं संशयज्ञानवाचकः588 स्वकारणेन्द्रियार्थसन्निकर्षे प्रयुक्त उपचारेण । उपरतेन्द्रियव्यापारस्य हि संशयज्ञानदर्शनात् । सत्यपीन्द्रियव्यापारे589 संशयो नेन्द्रियज इति चोदकोऽभिमन्यते । तदनयोः संशयज्ञानयोर्मध्ये यत् तदिन्द्रियानवधारणपूर्वकमिन्द्रियार्थसन्निकर्षपूर्वकं मनसानवधारणं संशायज्ञानमित्यर्थः । “न पूर्वम्” यदुपरतेन्द्रियव्यापारस्य संशयज्ञानं दृष्टान्ततया हृदि स्थितं शङ्कितुरित्यर्थः । तदेतद् “भाष्यं” व्याचष्टे—“तत्र यदिन्द्रियार्थेति ।” इन्द्रियार्थसन्निकर्षश्चासावनवधारणं चेति कर्मधारयः । तत्पूर्वकं मनसानवधारणं संशयज्ञानमित्यर्थः ।
ननु स्मरणव्यवहितव्यापारमस्य कारणं नेन्द्रियमित्यत आह—“तस्य हीति ।” उपपादितमेतदधस्तात् यथा स्मरणं नेन्द्रियव्यापारं व्यवधत्त इति । “पूर्वं त्विति ।” दृष्टान्ततया पूर्वत्वम् । स्यादेतत्, मन एवेन्द्रियानपेक्षं बाह्ये प्रवर्तते इत्यभ्युपेयम्, अन्यथा घटमहं जानामीति ज्ञानं निर्निमित्तं स्यात् । न तावदिन्द्रियजम्, आन्तरे ज्ञाने चक्षुरादीनामप्रवृत्तेः । नाप्यनुमानादिष्वन्तर्भवति, लिङ्गाद्यभावात् । तस्मान्मानसमेवेदम् । यदि च घटादौ बाह्ये न मनः प्रवर्तेत, कथं घटमिति भवेत् ? जानामीत्येव स्यात् । न चार्थनिरूपणमन्तरेण ज्ञानरूपनिरूपणम्, तस्माद् बाह्याभ्यन्तरविषयं मनः, तथा च सर्व एव संशयो मानस इत्याशङ्क्याह “भाष्यकारः, सर्वत्र च प्रत्यक्षविषये” इति । यद्यप्ययमीदृशोऽनुव्यवसायो मानसस्तथाप्यन्धबधिरादीनामभावात् तत्पूर्वं590 व्यवसायोत्पत्तौ चक्षुराद्यपेक्षणीयम्, अन्यथा अन्धबधिराद्यभावप्रसङ्गः । तथा च संशयज्ञानोत्पादेऽपीन्द्रियार्थसन्निकर्षोऽपेक्षणीय इति भावः । तदिदं “तस्य ही”त्यादिना “वार्त्तिकेन” व्याख्यातम् ।
अव्यापकत्वेन लक्षणाक्षेपपरं “भाष्यम् आत्मादिषु” इत्यादि । तद् व्याचष्टे—“इन्द्रियार्थेति ।” चोदयति—“कथं पुनरिति ।” परिहरति—“इन्द्रियेति ।” मा भूदिन्द्रियसूत्रे पाठः । तद्धि बाह्येन्द्रियलक्षणम्, आन्तरं च मन इत्यत आह—“पृथक् चेति ।” न च सुखादौ प्रमाणान्तरमस्ति । तस्मात् पारिशेष्यात् सिद्धं प्रत्यक्ष त्वमित्याह—“प्रत्यक्षाश्चेति ।” ननु नैते प्रमेयाः स्वसंवेदनसिद्धत्वात्, तत् किमत्र प्रमेयार्थेन प्रमाणेनेत्यत आह—“न च तेषामिति ।” ननूक्तं स्वसंवेदनतया न प्रमाकर्मभाव एषामित्यत आह—“न चान्या गतिरिति ।” संवेदनत्वेन हि तेषां स्वसंवेदनता, न चैते संवेदनमित्युक्तमधस्तादिति भावः । आक्षेपमुपसंहरति—“तस्मादिति । भाष्ये” चात्मादिषु सुखादिष्विति नित्यानित्याभिप्रायं वर्गद्वयम् । आत्मखदुःखत्वादयो नित्याः, अनित्याश्च सुखदुःखादय इति । तदिदमुक्तं “दिग्नागेन”
न सुखादि प्रमेयं वा मनो वास्त्विन्द्रियान्तरम् ।
न च तत् सम्भवति, घ्राणादि“सूत्रेण” विभागपरेण निषेधादिति भावः । समाधि“भाष्यम् इन्द्रियस्य वै सत” इति । तद्व्याचिख्यासुर्गूढाभिप्रायः पृच्छति—“कश्चैवमिति ।” आक्षेप्तुरुत्तरम्—“इन्द्रियार्थेति ।” समाधाता आह—“नैष दोष” इति । आक्षेप्तुरनुशयबीजमुद्धाट्य दूषयति—“यत्तु सूत्रे” इति । नेदं विभागपरं घ्राणदि“सूत्रम्,” अपि तु लक्षणपरम् । तत्र चेन्द्रियमपि मनो न लक्षितम्, वैधर्म्यादित्यर्थः । वैधर्म्यमाह— “वैधर्म्यमिति ।” तत्र प्रमाणयति—“सर्वविषयं त्विति ।” वैधर्म्यान्तरं दूषयति—“भौतिकेति ।” कार्यस्य हि विशेषौ भौतिकत्वाभौतिकत्वे, भूतकार्यं भौतिकम् । यद् भूतकार्यं न भवति तदभौतिकम् । भूतकार्यत्त्वप्रतिषेधश्च तदन्यकार्यत्वं गमयति, विशेषनिषेधस्य विशेषान्तराभ्यनुज्ञानहेतुत्वात्591 । इतरथा तु अकार्यमेवोच्येत, न त्वभौतिकमिति । तस्मादकार्यस्य मनसोऽभौतिकत्वं कार्यधर्मो विरुद्धमित्यर्थः । अपि च वैधर्म्यात् मनोवत् श्रोत्रमपि न वक्तव्यमित्याह—“श्रोत्रे चेति ।” शङ्कते—“स्वार्थ” इति । भूतानि हि घ्राणादीनि श्रोत्रान्तानि, मनस्तु न भूतमिति वैधर्म्यमित्यर्थः । निराकरोति—“तच्च नेति ।” दर्शयिष्यति हि “वार्त्तिककारो” यथा स्वार्थिको न कश्चिदपि प्रत्यय इत्यर्थः । आक्षेपहेतुमनुभाषते—“यत् पुनरिति ।” दूषयति—“न नास्तीति592 ।” तदनेन “सति चेन्द्रियार्थसन्निकर्षे” इत्यादि “भाष्यं” व्याख्यातम् । यच्चापरं वैधर्म्यं घ्राणादिभ्यो मनस उक्तं “भाष्यकारेण” तदपि सिंहावलोकनेन593 दूषयति—“सगुणानामिति ।” घ्राणादीनि यथा स्वस्वगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति, नैवं स्वगुणेन शब्देन श्रोत्रं बाह्यं शब्दं बोधयति, तन्मनोवत् श्रोत्रमपि “घ्राणादिसूत्रे” न पठितव्यमित्यर्थः । “भाष्यो”क्तेषु मध्येऽभिमतं वैधर्म्यमुपसंहरति—“तस्मादिति ।” भूतत्वाभूतत्वलक्षणं वैधर्म्यं न भौतिकत्वाभौतिकत्वग्रहणेन शक्यं वक्तुमित्यवधारणाभिप्रायः594 । ननु युगपज्ज्ञानानुत्पत्तेर्ज्ञानकरणं595 मनोऽस्तीत्यवगम्यते न पुनरस्येन्द्रियत्वमपि । तद्भावानवगमे च नेन्द्रियार्थसन्निकर्षजं सुखादिज्ञानं शक्यं वक्तुमित्यत आह—“तन्त्रान्तरेति ।” तन्त्र्यते व्युत्पाद्यते अनेन तत्त्वमिति तन्त्रं शास्त्रम् । तदनेन “मनसश्चे”त्यादि “भाष्यं” व्याख्यातम् । एतद्दूषितं “दिग्नागेन” अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा ।
इति । तद्दूषयितुमुपन्यस्यति—“न शेषेति ।” तद्दूषयति—“न तन्त्रयुक्तीति ।” सर्वस्य तन्त्रान्तरे लोके च सिद्धत्वादवक्तव्यतायां स्वमतमपि नास्ति । वचनलिङ्गं हि मतज्ञानं न चाननुमते निषेधमात्रं शक्यं वक्तुम् अभावस्य भावनिरूपणाधीननिरूपणत्वादिति भावः । सिद्धमर्थमुपसंहरति—“तस्मदिति ।” प्रकृतमुपसंहरति—“तदिति ॥”
तदेवं लक्षणपदानि व्याख्याय विमृशति—“समस्तमिति ।” अभिमतमाह“समस्तमित्याह भाष्यकारः ।” हेतुमाह—“यस्मादिति ।” इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारीति हि प्रत्यक्षलक्षणमनवयवेन समानासमानजातीयेभ्यो व्यावृत्तं शक्यमेव लक्षयितुम् । न खल्वयमसावश्व इति ज्ञानमिन्द्रियजं शब्दजं सम्भवति । तद्धि द्रव्यगोचरं वा उच्येत, वाच्यत्वगोचरं वा, वाच्यत्वविशिष्टद्रव्यगोचरं वा । तत्र द्रव्यमैन्द्रियकमेव न शाब्दमित्यशक्यं हि ज्ञानं596 व्यवच्छेत्तुम्, अनभिमतं च । वाच्यत्वगोचरं तु ज्ञानं शाब्दमेव, अन्यथा ह्यश्रुतशब्दोऽप्यारण्यकोऽश्वमेवेन्द्रियसन्निकर्षादश्वशब्दवाच्य इदि गृह्णीयात् । वाच्यत्वविशिष्टद्रव्यज्ञानमपि शाब्दमेव, वह्निविशिष्टधूमज्ञानमिवानुमानिकम् । अन्यथा तदप्यैन्द्रियकमिति न तन्निराकरणाय यत्नान्तरमास्थेयम्597 । अथ न वाच्यत्वं नाम “मीमांसका”नामिव किञ्चिदतीन्द्रियम्, अपि तु सङ्केतमात्रमेतदस्मादिदं598 प्रत्येतव्यमिति । तथापि तव्यार्थः शब्द एव । अथायमप्यैन्द्रियक एव, तत्र गुरूपदिष्टा गाथा पठितव्या,
शब्दजत्वेन शाब्दं चेत् प्रत्यक्षं चाक्षजन्मतः ।
स्पष्टग्रहणरूपत्वाद् युक्तमैन्द्रियकं हि तत् ॥
इति । तस्मात् नोभयजज्ञाननिवारणायाव्यपदेश्यपदम्599 । व्यवसायात्मकपदेन600 तु सविकल्पके ज्ञानेऽवरुद्धे निर्विकल्पकस्याप्रत्यक्षता मा प्रसाङ्क्षीदिति तदवरोधार्थेनाव्यपदेश्यपदेन निर्विकल्पकेऽपि शब्दसम्भेदनिराकरणमन्वाचितमिति शाब्देत्युक्तम् । एवमव्यपदेश्यपदेन निर्विकल्पकेऽवरुद्धे सविकल्पकस्येन्द्रियजस्याप्रत्यक्षत्वं मा प्रसाङ्क्षीदिति तदवरोधार्थेन व्यवसायात्मकपदेन संशयज्ञानप्रत्यक्षत्वनिराकरणमन्वाचितमिति संशयेत्युक्तम् ।
अन्वयं दर्शयित्वा व्यतिरेकमाह—“यदीति ।” उपसंहरति—“तस्मादिति ।” हेयास्त्रिंशत्कोटीर्गणयति—“तत्रेति । द्विपदपरिग्रहेण दश”—इन्द्रियार्थसन्निकर्षोत्पन्नपदं ध्रुवं कृत्वा ज्ञानाद्येकैकपदसम्बन्धेन चतस्त्रः कोटयः, ज्ञानं च ध्रुवं कृत्वा अव्यपदेश्याद्येकैकपदसम्बन्धेन तिस्रः, एवमव्यपदेश्यपदं ध्रुवं कृत्वा अव्यभिचार्याद्येकैकपदसम्बन्धेन द्वे कोटी, अव्यभिचारिव्यवसायात्मकसम्बन्धे दशमीति । “त्रिपदपरिग्रहेणापि दशैव ।” इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति ध्रुवं कृत्वा अव्यपदेश्याद्येकैकपदसम्बन्धेन तिस्त्रः कोटयः, ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्यादिपदसम्बन्धेन द्वे कोटी, अव्यभिचार्यव्यपदेश्यपदयोस्तु व्यवसायात्मकपदसम्बन्धे कोटिरेका, इन्द्रियार्थसन्निकर्षाव्यपदेश्यपदध्रौव्ये अव्यभिचार्याद्येकैकपदसम्बन्धे कोटिद्वयम्, अव्यभिचारिव्यवसायात्मकपदयोस्तु ध्रुवयोरिन्द्रियार्थसन्निर्षोत्पन्नपदेन ज्ञानपदेन च प्रत्येकं सम्बन्धे कोटिद्वयम्, इति त्रिपदपरिग्रहेण दश कोटयः । “चतुष्पदपरिग्रहेण पञ्च ।” इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्याद्येकैकपदसम्बन्धे द्वे कोटी, अव्यपदेश्यपदं त्यक्त्वापरकोटिः, ज्ञानपदं त्यक्त्वा चापरा, इन्द्रियार्थसन्निकर्षोत्पन्नपदं त्यक्त्वा तु पञ्चमी । पृच्छति—“कस्मात्” पञ्चपदपरिग्रहेणैकत्रिशन्त्तमकोटिपरिग्रहेणेतराः कोटयो व्यवच्छिद्यन्ते ? न ह्यत्र तद्व्यवच्छेदवाचकः कश्चिदस्ति शब्द इत्यर्थः । उत्तरम्—“विशेषेति ।” विशेषप्रतिविधानप्रस्तावे शेषनिषेधोपन्यासो दृष्टान्तलाभाय । “एकदेशाभ्युपगम” एक“त्रिंशत्कोटिषु” एकत्रिंशत्तमी कोटिरेकदेश इत्यर्थः । “शेषविधानं वेति ।” वाशब्द इवार्थः ।
तदेवं प्रत्यक्षलक्षणं समर्थ्य “वासुबन्धवं” तावत् प्रत्यक्षलक्षणं दूषियतुम् उपन्यस्यति—“अपरे पुनरिति ।” लक्षणं व्याचष्ट—“ततोऽर्थादिति ।” यत्तदोर्नित्यसम्बन्धाद् यस्यार्थस्य यद्विज्ञानं व्यपदिश्यते, यदि तत एव तद्भवति नार्थान्तराद् व्यपदेशासम्बन्धिनः601 तत् प्रत्यक्षम् । अत एव व्यपदेशासम्बन्धिनोऽर्थान्तरात् शुक्तिरूपात्602 रजतेन व्यपदिश्यमानं शुक्तिज्ञानं न प्रत्यक्षम् व्यपदेशकानुत्पत्तेः,603 व्यपदेशकस्य रजतस्य तत्रासम्भवात् । एतस्य प्रत्यक्षाभासस्य व्यावृत्तिः सुप्रसिद्धेति तामुपेक्ष्यानुमानव्यावृत्तिमाह—“एतेनेति । कुतः ? न हि तत एव” व्यपदेशकादेव वह्नेः, “तद्” विज्ञानमनुमानं भवति । किं तु यत्र वह्निरस्ति तत्र । ततश्च यत्र तु दृष्टमात्र एव वह्नेरुपरमादुपरतो धूमः तत्रान्यतश्च तद्भवति स्मर्यमाणाद् धूमादसति व्यपदेशके वह्नौ । ततोऽर्थादित्यत्र हि अर्थविशेषणं तत इति । तत्सङ्गतश्च एवकारोऽयोगव्यवच्छेदे वर्तते, यथा चैत्र धनुर्धर एवेति । तेन यत्रैव तदयोगः तदप्रत्यक्षमित्यर्थः । तदेतल्लक्षणं दूषयति—अत्रार्थग्रहणमनर्थकम् । न हि ज्ञानव्यपदेश आत्मना वा इन्द्रियेण वा सम्भवति । शङ्कते—“अवधारणार्थ” इति । अयोगव्यवच्छेदेनैतदवधारणम्, विशेषणं च तत इति604 । विशेषणसङ्गतश्चैवकारोऽयोगं व्यवच्छिनत्ति । असति चार्थपदे कस्येदं विशेषणमिति विशेषणसङ्गतो नैवकारोऽयोगं व्यवच्छिन्दादिति भावः । निराकरोति—“तन्नेति ।” तत इति सर्वनाम्नः सन्निहितविशेष्यापेक्षत्वात् । अन्यथा अभिधानापर्यवसानाद् यस्य तद् व्यपदिश्यत इति व्यपदेशसम्बन्धी विशेष्यः प्राप्यत एवेति सिध्यत्येव विशेषणत्वम् । अभ्युपेत्य त्ववधारणमात्रेऽप्यदोष605 इति मन्यमानेनाब्भक्ष इत्युदाहृतम् । अन्यव्यवच्छेदेऽपि हि606 तदेवान्यद्व्यवच्छिद्येत यद्विरोधि, न पुनरन्यमात्रम् । यथाहुः, नियमस्तद्विरोधाच्च607 कल्पते नाविरोधिनः ।
इति ।
स्यादेतत् । तत इत्युच्यमाने यतस्ततः स्यात्, तथा चानुमानाद्यपि लिङ्गज्ञानादेस्तत उपजायते इति प्रत्यक्षं प्रसज्येतेति तन्निवृत्त्यर्थमर्थादिति वक्तव्यम् । न हि तदर्थात् जायते । अपि तु प्रत्यक्षमेव, इत्यत आह—“एतेनेति ।” यस्य तद् व्यपदिश्यते इत्यपेक्ष्य ततःशब्दसामर्थ्ये नानुमानादिव्युदासोऽपि प्रत्युक्तः । यच्च ततःशब्दस्य व्यावर्त्यान्तरमुक्तम्, तदपि दूषयति—“यत्पुनरेतदिति ।” यदि यस्य व्यपदिश्यते ज्ञानं, तत् प्रत्यक्षं ततो घट इत्यपि ज्ञानं प्रत्यक्षं प्रसज्येत, तदपि हि घटस्य व्यपदिश्यते, न तु ततो घटाद् भवति । तस्य विचारासहतया परमार्थसत्त्वाभावेन संवृतिसतो608 विज्ञानं प्रति कारणभावाभावात्609 । तेन तन्निराकरणाय610 तत इत्युक्तम् । तदेतत् न बुध्यामहे कथमपक्षिप्तमिति । शङ्कते—“यदीति ।” रूपादिपरमाणव एव निरन्तरोत्पादाः परमार्थसन्तो भिन्नाः स्वविज्ञानस्याविकल्पकस्य जनकाः । तेषां तु नानात्वं स्वेन रूपेण संवृण्वती निर्विकल्पकपृष्ठभाविनी घट इति विकल्पिका बुद्धिस्तानेव रूपादीन् एकोदकाहरणादिक्रियाकारिणो भेदिन इव दर्शयन्ती संवृतिरित्युच्यते611 । निराकरोति—“न हि रूपादिभ्य” इति । अनुशयबीजमुद्धाटयति—“अथापीति ।” निराकरोति—“मनोमोदकेति ।” भवन्तु व्यतिरिक्ताः किमेतावतापीत्यत आह—“सर्वं चेति ।” यत्संवृतित्वेन भवतामभिमतं ज्ञानं यच्चाविकल्पकं तत्सर्वं स्वविषयाद् भवति । तस्मात् “ततोग्रहणम्” संवृतिनिवृत्त्यर्थम् अनर्थकम् । मा भूत् संवृतिनिवृत्त्यर्थम्, मिथ्याज्ञाननिवृत्त्यर्थं भविष्यतीति चोदयति—ननु च मिथ्याज्ञानमतस्मादपि भवति । यथा पुरोवर्ति द्रव्यमिदमिति व्यपदिश्यते रजतमिति च, न तु शुक्तिरिति, तेन यद्यपि सामान्यरूपेण तस्य व्यपदिश्यते ज्ञानम्, ततश्च तद्भवति, तथापि येन विशेषारूपेण तस्य व्यपदिश्यते न ततस्तद्भवति इत्यतस्मादपीत्युक्तम् । तस्मात् तत एव यद्भवति तत् प्रत्यक्षम्612 न चैवं मिथ्याज्ञानम् । तद्धि ततश्चाततश्च भवतीत्यर्थः । परिहरति—“न ह्यतस्मात्” आरोपिताद्रूपात् तत्रासतः “तत्” मिथ्याज्ञानं भवति, किं तु ततो भवति । यस्य सामान्यरूपस्य व्यपदिश्यत इदमिति तत एव । समारोपितं तु रजतमस्य विषयो दृश्यमानाकारतया । तदिदमुक्तम्—अतस्मिंस्तद् भवतीति । एवं च लक्ष्यपदमात्रावशेषात् लक्षणाभाव इत्याह—“ततो ग्रहणमिति ।” तथा चातिव्याप्तिरित्याह—“तथा चेति ।” अभ्युपेत्य दूषणान्तरमाह—“यद्यप्येतदिति ।” यतो भवति ज्ञानं स ग्राह्योऽर्थः कारणम्, ग्राहकं च विज्ञानं कार्यम्, तयोरयुगपद्भावात् वर्तमानाभं ज्ञानमतीते मिथ्येति न प्रत्यक्षं स्यात्, तत्समानकालयोस्तु कार्यकारणभावाभावात् । ततोऽर्थादिति नास्तीति भावः । शङ्कते—“नाशोत्पादाविति ।” क्षणिकत्वाद् भावानां कारणस्य नाशः कार्यस्योत्पाद इत्येकः कालः, तथापि कारणस्य ग्राह्यता भिन्नकालस्यापि, स्वसदृशज्ञानजनकमेव हि तस्य तज्ज्ञानं प्रति ग्राह्यत्वम्, नान्यत् । यथाह,
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञाः613 ज्ञानाकारार्पणक्षमम् ॥
[प्र। वा। २। २४७] इति । न चैतावता मिथ्यात्वम्, अर्थाहितस्य नीलाकारस्य ज्ञानवर्तिनो वर्तमानत्वादिति भावः । निराकरोति—“तच्च नेति ।” पूर्वापरकालकलाविकललक्षणा614 क्षणिकता न क्वचिदपि । विद्युज्जालादेरप्याशुविनाशिनो द्वित्रादिक्षणावस्थानादित्यर्थः । पूर्वोक्तश्चानुयोगस्तदवस्थ एवेत्याह—“विनष्टश्चेति ।” अनहङ्कारास्पदमसातादिरूपं विज्ञानाद् भिन्नं नीलाद्यनुभूयते, न तु विज्ञानात्मकम् । तथा च यदि विच्छेदग्रहो मिथ्या, तथा सति ज्ञानमेतस्मिन् मिथ्येति कथं प्रत्यक्षम्, सम्यग्ज्ञानभेदस्य तथाभावात् । न चार्थाहिताकारवेदनमर्थवेदनम्, भाक्तत्वप्रसङ्गात् । न च गौणमुख्यलक्षणा गिरां गतयो ज्ञानेषु शक्या नियोजयितुम्, भिन्नप्रस्थानत्वात् । तस्मात् निराकारं ज्ञानमर्थमात्मनो भिन्नं गोचरयतीति वाच्यम् । स च615 कारणं विनष्टस्य प्रत्यक्षतेति स्यात् । तथा च वर्तमानाभमवर्तमानं गोचरयतीति मिथ्यात्वमप्रत्यक्षत्वं च स्यादिति भावः । यौगपद्येऽपि नास्त्युदाहरणम्, सर्वस्य क्षणिकत्वपक्षनिक्षेपादिति चोदयति—“तुल्यमिति चेत् ।” निराकरोति—“तच्चेति ।”
सम्प्रति “दिग्नागस्य” लक्षणमुपन्यस्यति—“अपर” इति । दूषयितुं कल्पनास्वरूपं पृच्छति—“अथ केयमिति ।” लक्षणवादिन उत्तरम्—“नामेति ।” यदृच्छाशब्देषु हि नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति । जातिशब्देषु जात्या गौरयमिति । गुणशब्देषु गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति616 । सेयं कल्पना यत्र ज्ञाने नास्त्यर्थतः स्वरूपतो वा तत्कल्पनया अपोढं प्रत्यक्षम् । तदिदमाह—“यत् किल न नाम्ना अभिधीयते” अर्थतः स्वरूपतश्च “न जात्यादिभिर्व्यपदिश्यते ।” अव्यभिचाराय विषयकारणत्वमाह—“विषयस्वरूपानुविधायीति ।” प्रमाणत्वमाह—“परिच्छेदकं” व्यवस्थापकम् । ज्ञानतामस्य दर्शयति— आत्मसंवेद्यं स्वसंवेदनादेव तस्य कल्पनारहितत्वमपि617 । यथाह, प्रत्यक्षं कल्पनापोढं प्रत्यक्षेनैव सिध्यति । [प्र। वा। २। १२३]
इति । “तत् प्रत्यक्षमिति ।” तदेतल्लक्ष्यलक्षणपदतत्समुदायव्यापारनिरूपणेन दूषयति—“त इदमिति । अथ618 नेति ।” विकल्पयोनयो हि शब्दास्तद्गोचरमभिनिविशन्ते । यद् विकल्पा गृह्णन्ति, यच्चाध्यवस्यति तदुभयमप्यन्यव्यावृत्तिरूपमवस्तु, तस्मान्नाविकल्पकं ज्ञानं तद्गोचरं वा परमार्थसद् गोचरयन्ति विकल्पाः शब्दाश्चेत्ययमभिसन्धिः । अपि चास्यावाच्यत्वे भवदभ्युपगतप्रामाण्यागमविरोध इत्याह— “अनित्यादीति ।” शङ्कते—“अथेति ।” स्वमसाधारणं रूपं व्यावृत्तमिति यावत् । ततो619 निराकरोति—“सर्वेऽर्था इति ।” न हि यथा सम्यग्ज्ञानमधिकृत्य प्रत्यक्षादिलक्षणं कृतं “कीर्तिना” तथा “दिग्नागेन” येनाधिकारात् ज्ञाने व्यवतिष्ठेत कल्पनापोढमिति भावः । ननु यदि स्वरूपतो नाभिधीयेतानभिधेयं तर्हि वस्तु प्रसज्येत । तथा चावास्तवः स्यात् शाब्दो व्यवहार इत्यत आह—“सर्वस्य चेति ।” सामान्यविशेषतद्वद्भेदाद् वस्तुत्रयम् । तत्र तद्वद्वस्त्वधिकृत्योक्तम्—“द्वावाकाराविति । सामान्येनैवाकारेणाभिधीयते” सामान्यान्वितमित्यर्थः । “ब्राह्मण” इति । मनुष्यत्वजातिमानित्यर्थः । विशेषमाकारमभिप्रेत्य स्वरूपतो न व्यपदेश्यमित्युक्तम्, न तु सर्वथेति भावः । प्रकृते योजयति—“एवमिति ।” आशङ्क्य पूर्वोक्तमतिप्रसङ्गं स्मारयति—“यदि620 चेति ।” अथाश्वकर्णवदव्युत्पन्नः कल्पनापोढशब्दः प्रत्यक्षस्वरूपस्य वाचक इति शङ्कते—“अथेति ।” निराकरोति—“एवमपीति ।” भवतु कल्पनापोढशब्दोऽव्युत्पन्नो मा वा भूत्, अवाच्यं तु प्रत्यक्षमेषितव्यम् । अन्यथा विकल्पस्य प्रत्यक्षत्वप्रसङ्गात् । तथा च व्याघात इत्यर्थः ।
“जैमिनि”प्रत्यक्षलक्षणं दूषयति—“सत्सम्प्रयोग” इति । यथाश्रुतस्यातिव्याप्तिः संशब्देनापि प्रयोगस्य समीचीनता प्रतिपाद्यते । सा च मिथ्याप्रत्ययेऽपि तुल्या । व्यत्ययेऽपि बुद्ध्या बोद्धस्योपस्थापनात् “तद्” इति बोध्यं परामृशति । अस्ति च मिथ्याज्ञानेऽपि बोध्येन सम्बन्ध इन्द्रियाणाम्, बोध्यं हि पुरोवर्ति द्रव्यम् । अथ यथा बोध्यं तादृशो नास्ति सम्बन्ध इन्द्रियाणाम्, रजतत्वस्य प्रकारस्यासन्निधानात् । हन्ताव्यापकत्वं लक्षणदोषः । प्रत्यभिज्ञायां तत्ताप्रकारस्य इन्द्रियेणासम्बन्धात् । अपि च “प्राभाकरे” दर्शने अनुमानादिज्ञानमात्मनि प्रत्यक्षं न भवेत्, न हि तत् सत्सम्प्रयोगजम् । तस्मादेतदपि परिभावनीयं सूरिभिरिति ।
“वार्षगण्यस्यापि” लक्षणमयुक्तमित्याह—“श्रोत्रादिवृत्तिरिति ।” पञ्चानां खल्विन्द्रियाणामर्थाकारेण परिणतानामालोचनमात्रं वृत्तिरिष्यते । सा च संशया दिव्यापकत्वादलक्षणमिति । तत् सिद्धमिन्द्रियार्थसन्निकर्षोत्पन्नमित्येतदेव लक्षणमिति प्रत्यक्षलक्षणं समाप्तम् ॥ ४ ॥
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥ १ । १ । ५ ॥
प्रत्यक्षलक्षणानन्तरमनुमानलक्षणपरं सूत्रं पठति—“अथ तत्पूर्वकं त्रिविधमनुमानमिति ।” अत्रानुमानमिति सिद्धवत् प्रमाणविशेषरूपलक्ष्यानुवाद एव नाप्रत्यक्षं प्रमाणमित्यप्रामाण्यमनुमानस्य सुदूरं प्रतिक्षिपति । दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्म्येण हि कासाञ्चिद् व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत । दृष्टसाधर्म्यं चानुमानमेवेति कथं तेनैव तस्याप्रामाण्यम् ? अपि चानुमानमप्रमाणमिति वाक्यप्रयोगोऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थवान् । न च परपुरुषवर्तिनो देहधर्मा अपि सन्देहाज्ञानविपर्यासा गौरत्वादिवत् प्रत्यक्षमीक्षन्ते । न च तद्वचनात् प्रतीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् । पुरुषविशेषमनधिकृत्य तु वचनमनर्थकं प्रयुञ्जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् । परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते621 । तस्मादकामेनापि प्रमाणमनुमानमुपेक्षितव्यमिति । लक्ष्यं प्रमाणभेदमनुमानमनूद्य तत्पूर्वकमिति लक्षणं विधत्ते । अथेत्यानन्तर्ये । उक्तं प्रत्यक्षमनुमानस्य हेतुः । अथेदानीमनुमानं622 हेतुमद्व्युत्पाद्यते इत्यर्थः । लक्षण“सूत्र”तात्पर्यमाह—“अनुमानेति ।” तदेव स्फुटयति—“अनेनेति ।” समानजातीयानि प्रमाणतया प्रत्यक्षादीनि, असमानजातीयानि चानुमानाभासादीनि, यथा क्षणिकत्वादिषु साध्येषु सत्त्वादीनि । स्यादेतदतिव्यापकमेतत् तत्पूर्वकत्वम् । तदिति हि प्रत्यक्षं परामृशत्यानन्तर्यात् । तथा च प्रत्यक्षपूर्वकत्वमनुमानस्येवागमस्मृतिसंशयविपर्यासानामप्यस्तीति तान्यप्यनुमानं प्रसज्येरन् । अनुमानादिपूर्वकं चानुमानं न प्रत्यक्षपूर्वकमिति नानुमानं स्यात्, अनुमानलक्षणेनाव्याप्तत्वात्623 । तस्मादव्याप्त्यतिव्याप्तिभ्यामलक्षणमेतदित्यत आह—“तत्पूर्वकमिति ।” तत्पूर्वकमित्यावृत्त्या विग्रहत्रयप्रदर्शनम् । तत्र प्रथमे विग्रहे तानीत्यनन्तरं “सूत्रम्” उल्लङ्घ्य विभागसूत्रगताः प्रत्यक्षादयः सम्बन्धनीयाः योग्यत्वात् । यथाहुः, यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः ।
इति । तदनेन लक्षणस्याव्याप्तिः परिहृता । तदिदमाह—“यदा तानीति ।” नन्वेवं प्रत्यक्षपूर्वकमिति “भाष्य”विरोध इत्यत आह—“पारम्पर्येणेति ।” पारम्पर्येण हि प्रत्यक्षपूर्वकत्वमुक्तं “भाष्यकृता,” तस्मान्न विरोध इति । अतिव्याप्तिनिरासाय द्वितीयं विग्रहं विवृणोति—“यदापीति ।” ते इति विग्रहे अनन्तरसूत्रगतमेव प्रत्यक्षपदं सम्बध्यते । तथा च “द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य” लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्य । “तदिदं तत्पूर्वकं प्रत्यक्षम्,” तद्धि624 स्वविषये प्रत्यक्षमप्यनुमेयार्थप्रत्ययं कुर्वदनुमानम् । तदिदं तदित्युच्यते । अत्रापि प्रत्यक्षग्रहणमुपलक्षणार्थम्, अनुमाने इत्याद्यपि द्रष्टव्यम् । स्यादेतत् । सम्बन्धग्रहणसमये पदतदर्थगोचरं625 प्रत्यक्षं प्रथमम् अथ तदर्थविषये द्वितीये प्रत्यक्षे सति या तत्पदविषया स्मृतिरुत्पद्यते सापि प्रत्यक्षद्वयपूर्वा । एवं लिङ्गाल्लिङ्गिसम्बन्धस्मृतिरपि प्रत्यक्षद्वयपूर्वेति तदवस्थैवातिव्याप्तिरित्याशयवान् पृच्छति—“कतरे द्वे” इति । उत्तरम्—“लिङ्गेति ।” सर्वसन्देहेष्विदमुतिष्ठते । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहालक्षणमिति भावः । न च द्वितीयलिङ्गदर्शनं व्याप्तिस्मरणसमये विनश्यदवस्थमप्यस्ति, व्याप्तिसंस्कारोद्बोधसमयजन्मना स्वजनितेन संस्कारेणास्य व्याप्तिस्मरणसमये विनाशात् । विनश्यदवस्थस्य द्वितीयलिङ्गदर्शनस्य व्याप्तिस्मरणेन सह यौगपद्येऽपि तयोः परस्परवार्तानभिज्ञतया मिथो घटनायोगः । न चात्मा ते626 घटयतीति युक्तम् । वृत्त्या खल्वयं घटयेत् न स्वरूपतः । तस्माद् उभाभ्यामुत्पन्नं परामर्शज्ञानमिन्द्रियार्थसन्निकर्षजं तृतीयं प्रत्यक्षम् एषितव्यम् । “बुभुत्सावतो627 द्वितीयादिति ।” बुभुत्साप्यनुमानज्ञानोत्पत्तौ कारणमिति दर्शयितुं बुभुत्सावत इत्युक्तम् । “लिङ्गलिङ्गिसम्बन्धदर्शनमाद्यं” प्रत्यक्षमित्यत्र सम्बन्धपदेनानुमानाङ्गं सम्बन्धं विवक्षन् परोक्तान् सम्बन्धविकल्पान् अनुमानानङ्गभूतान् प्रतिक्षिपति—“प्रत्यक्षमिति” च तस्य प्रमाणमाह । तथा हि केचिदविनाभावं तादात्म्यतदुत्पत्तिनिबन्धनमनुमानाङ्गमाहुः । द्विविधो ह्यर्थः, प्रत्यक्षश्च परोक्षश्च । तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः । स हि स्वविषयाया बुद्धेः जनक इति तमन्तरेण बुद्धिरात्मानमनासादयन्ती तस्य सत्तां निश्चाययतीति युक्तम् । परोक्षस्तु बुद्धौ साक्षात् स्वरूपोपधानसामर्थ्यरहितोऽयुक्तप्रतिपत्तिरेव । न चान्यदर्शनेऽन्यकल्पनायुक्ता, अतिप्रसङ्गात् । नान्तरीयकतया त्वन्योऽप्यन्यं गमयेत् । स हि प्रतिबद्धस्वभावो यथाविधे सिद्धः, तथाविधसन्निधानं सूचयति । स च प्रतिबन्धो न628 दर्शनमात्रादवसेयः, तथा सति स श्यामो मैत्रतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यप्यनुमानं स्यात् । इहापि हि स्तो दर्शनादर्शने । तस्मात् तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः । यदाह,
कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात्629 ॥
तथा च लिङ्गविकल्पं विना न लिङ्गिविकल्पः । न लिङ्गविकल्पो लिङ्गानुभवं विना । न लिङ्गानुभवो लिङ्गं विना । न चाविनाभूतं लिङ्गं विना लिङ्गिनमिति लिङ्गिस्वलक्षणाप्रतिभास्यपि पारम्पर्येण तत्प्रतिबन्धात् तत्राविसंवादकोऽनुमानविकल्प630 इति । कार्यकारणभावश्चेदम् । अस्मिन् सति भवति सत्स्वपि तदन्येष्वस्मिन्नसति न भवत्येवमाकारो नान्वयव्यतिरेकाभ्यामतिरिच्यते । तौ च प्रत्यक्षपृष्ठभाविना विकल्पेनावसीयेते । तथा हि सत्यग्नौ धूम इति प्रत्यक्षमेव विकल्पानुगतव्यापारमध्यवस्यति । असति चाग्नौ न धूम इत्यपि प्रत्यक्षमेव । न ह्यग्निधूमानुपलम्भावन्यौ । अतस्तद्विविक्तवस्तूपलम्भात् नाप्यनयोर्व्यतिरेकोऽन्यस्तद्विविक्ताद् वस्तुनः । एवं तादात्म्यमपि विपर्यये बाधकप्रमाणोपपत्त्या निश्चेतव्यम् । यथा सत्त्वस्य क्षणिकतया सह तादात्म्यं विपक्षेऽक्षणिके क्रमाक्रमयोर्व्यापकयोरनुपलम्भान्निश्चीयते । तस्मात् तादात्म्यदुत्पत्तिभ्यामेव प्रतिबन्धो नान्यत इति ॥
अत्रोच्यते । सत्यं यत् किञ्चित् क्वचिद् दृष्टम्, तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद्गमकं तत्रेत्यनुजानीमः । स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या सम्भवति । का पुनरियं तदुत्पत्तिर्धूमस्य ? किं वह्न्यनन्तरं भावः ? स तादृशोऽस्ति रासभस्यापीति तत्प्रतिबद्धोऽपि धूमः स्यात् । अथ तदनन्तरमेव भावः । न च रासभानन्तरं भवन्नपि तदनन्तरमेव भवति, तस्मिन् सत्यप्यसत्यग्नौ तदभावात् । असत्यपि तस्मिन् सत्यार्द्रेन्धनवति वह्नौ तद्भावात् । अथ यद्यपि धूमस्य वह्निभावाभावानुविधानं तत्रोपलब्धं तथापि देशान्तरादिषु तद्भावोऽस्य कुतस्त्यः ? तथा हि भूयो भूयो रासभे दृष्टे धूमो दृष्टः, तदभावे चादृष्टः । न च स तत्कार्यः । तज्जातीयस्यैव धूमस्य रासभं विना सति वह्नौ भावात् । एवं सत्यप्यग्नौ पिशाचेन जनितो धूमः क्वचित् देशादौ तज्जातीय एव रासभवद् वह्न्यभावेऽपि पिशाचादेव भविष्यतीति । अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।
न च सति भावमात्रं नियामकम्, तस्य रासभादिष्वप्यविशेषात्631 । तदनन्तरमेवेति चावधारणस्य शङ्कापनयनमन्तरेणासम्भवात्632 । अवधारणेन तु शङ्कापनये परस्पराश्रयप्रसङ्गः ।
स्यादेतत् । यो यो धूमो दृष्टः स सर्वस्तावदार्द्रेन्धनसहितवह्न्यनन्तरमेव न पिशाचानन्तरम् । स च कादाचित्कतया निमित्तमपेक्षमाणो यदनन्तरमेव गम्यते तदेवाप्रतीतव्यभिचारं निमित्तीकरोति,633 न तु प्रतीतव्यभिचारं रासभादि । नापि सर्वथा अनुपलब्धपूर्वपिशाचादि । यदि तु634 तन्निमित्तं कस्मात् विनापि वह्निं क्वचिद् धूमो नोपलभ्यते ? अथासौ सर्वथा वह्निसहितः, तथा सत्यार्देन्धनवत् कथं वह्निरपि न कारणम् ? कारणं चेत् कथं तदन्तरेण धूमभावशङ्का ? अकारणस्य हि कार्यस्य नित्यं सत्त्वमसत्त्वं वा स्यादनपेक्षत्वात् अनपेक्षत्वात् न कादाचित्कत्वम् । नाप्यनेककारणकमकारणकत्वप्रसङ्गादेव । वह्न्यनन्तरमेव635 भाव इति हि धूमस्य वह्निकार्यत्वम् । स चेदयमवह्नेरप्यनन्तरं नैवकारार्थः स्यादिति न वह्नेः कार्यम् । एवमन्यस्यापि न कार्यम् । न हि अन्यानन्तरमेव भवति, वह्नेरप्यनन्तरं भावात् । ततश्चाहेतुको धूमः स्यात् । तथा च कादाचित्कत्वव्याहतिः ।
सत्यम्, तत्कार्यत्वसिद्धौ स्यादेवम् । तदेव तु तदनन्तरमेव भाव इत्येवंरूपं नास्ति636 । यद्यपि च विना वह्निं नोपलब्धो धूमो यद्यपि च पिशाचानन्तरं नोपलभ्यते तेषामनुलब्धेः, तथापि पिशाचकार्य एव धूमस्तत्र तत्र वह्निः कुतश्चित् स्वहेतोरुपनिपतितो रासभ+इव न तु धूमस्य जनकः । तेन तदभावेऽपि तज्जातीय एव कारणभेदजन्मा कदाचित् कादाचित्को धूमः स्यादिति अनिवृत्तिरेव शङ्कायाः । न च दृष्टसम्भवे नादृष्टं कल्पयितुं युक्तमिति शक्यं भवद्भिर्वक्तुम्, अनुपलब्धिलक्षणप्राप्तस्य अशक्यनिराकरणत्वात् । न चानुपलब्ध्यन्तराण्यपि तन्निषेधे प्रभवन्ति । तस्मात् अनन्तरमेवेत्यवधारणाभावात् नैवंरूपं637 कार्यकारणभावावधारणं युक्तम् । न च यद् यदन्यसहितानन्तरमुपलब्धं तत् तदन्यरहितात् तस्माद् भवद् भिन्नजातीयं भवति । उक्तं हि रासभसहिताद् वह्नेर्यादृशो धूमः तादृश एव तद्विरहिताद् वह्नेरिति । तस्मादेवंविधा शङ्कापिशाची स्वनिवारकं तदुत्पत्तिनिश्चयमास्कन्दन्ती न शक्या निवारयितुम् । अपि चास्तु तदुत्पत्तिनिश्चयः, तथापि कस्मात् कारणमन्तरेण न कार्यं भवति ? तथा च सत्यनपेक्षतया कादाचित्कत्वविहतिरिति चेत्—यथाह,
नित्यं सत्यमसत्त्वं वाहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः638 ॥
इति । अस्तु तर्हि सम्बन्धः स्वाभाविकतया अन्यानपेक्षोऽव्यभिचारी गमकाङ्गम् । स च यो वा स वा भवतु, कृतं कार्यकारणभावावधारणायासेन । यथा चैतत् तथात्रैव639 प्रदर्शयिष्यामः ।
अपि च कार्यात् कारणमनुमीयमानं ततः पूर्वमेवानुमीयेत, न तु वर्तमानकालम् । न हि हेतुसत्ता कार्यकाला कार्योत्पादाङ्गम्, अपि तु तत्पूर्वकाला । न हि नदीपूरभेदः स्वसत्तासमयवर्ति वर्षं गमयत्यपि तु तत्पूर्वकालम् । तत्कालं तु न तस्य कारणम् । अत+एव साधकबाधकप्रमाणाभावेन तत्कालवर्तिनि वर्षे सन्दिहाना न तदर्थिनः प्रवर्तन्ते । एवं धूमादप्यग्निः तत्पूर्वकाल एवानुमीयेत, न तु वर्तमानकालः । तथा च सति न तदर्थिनस्तत्र निःशङ्कं प्रवर्तेरन् । अपि च रसादन्यद्रूपं रससमानकालमनुमिमतेऽनुमातारः । न चानयोरस्ति कार्यकारणभावः तादात्म्यं वा । यद्युच्येत तत्पूर्वेभ्यो रूपरसगन्धस्पर्शक्षणेभ्यो रसक्षणो जायते, स स्वकारणं पूर्वरूपक्षणमनुमापयन् यादृशा तेन जनितः, तादृशमेवानुमापयति । स चानुमापकरसक्षणसमानकालरूपक्षणान्तरजनक एव स्वकारणमिति तादृशमेव गमयति । तथा च कार्यसमानकालरूपानुमानसिद्धिः । एतेन धूमानुमानं व्याख्यातम् । यथाह,
एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।
हेतुधर्मानुमानेन धुमेन्धनविकारवत्640 ॥
इति ।
अत्रोच्यते । योऽयं गमकरससमानकालो रूपक्षणः, स किं तज्जनकस्य रूपक्षणस्य स्वभाव उत तत्स्वभावावच्छेदकोऽस्वभावभूतः ? न तावत् स्वभावः, एकस्मिन्नभिन्ने जन्यजनकभावानुपपत्तेः, तस्य भेदाश्रयत्वात् । तदस्वभावभूतः कथं तदनुमाननिवेशी ? तदवच्छेदकत्वादिति चेत् ? ननु नैतावताप्यस्य641 तुल्यकालस्य रूपस्य कारणभाव इति कथं कार्यहेतोर्गम्येत642 ? विशिष्टेन कारणस्वभावेनास्वभावोऽप्यसावाक्षिप्यते विशेषणतयेति चेत् ? नन्वाक्षिप्यते ज्ञाप्यत इत्यनर्थान्तरम् । स643 किं कारणानुमितेः प्रागथानुमितिसमये644 पश्चाद् वा ? न तावत् प्राक् न हि सत्तामात्रेण कारणं तद्गमयत्यतिप्रसङ्गात्, किं तु स्वज्ञानेन । न च कार्यमस्य गमकम्, अकारणत्वादित्युक्तम् । अत+एवानुमितिसमयेऽप्यगमकम्, स्वज्ञानेन गमकत्वात् । उभयोश्च ज्ञानयोः सह भवतोः सव्येतरविषाणवत् कार्यकारणभावाभावात् । तथा च रसात् कार्यात् तत्कारणं रूपमनुमातव्यम् । ततश्चानुमिताद् रूपात् कारणात् तत्कार्यं रससमानकालं रूपमनुमातव्यम् । तथा च कारणात् कार्यानुमानं तादात्म्यतदुत्पत्तिभ्यामन्यत इति645 नाभ्यामेव प्रतिबन्धसिद्धिः । लौकिकानां चेदं रसाद् रूपानुमानम्, न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति । न चानध्यवस्यन्तः प्रवृत्तरूपोत्पादनसामर्थ्यं646 रसहेतुं रूपमनुमातुमुत्सहन्ते । न च लक्षणानुरोधेन647 लक्ष्यस्यान्यथाकरणं युक्तं परीक्षकाणाम् । अतिपतितलोकमर्यादानां तेषां तत्त्वानुपपत्तेः । यथाहुः,
सिद्धानुगममात्रं च कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम्648 ॥
इति । अपि चाद्यतनस्य सवितुरुदयस्य ह्यस्तनेन सवितुरुदयेन, चन्द्रोदयस्य च समानकालस्य समुद्रवृद्ध्या, मध्यनक्षत्रदृष्ट्या चाष्टमास्तमयोदयस्य, न कार्यकारणभावस्तादात्म्यं वा । अथ च दृष्टो गम्यगमकभावः । अपि च तादात्म्येऽपि कथं गम्यगमकभावः ? न हि तदेव कर्म च कर्तृ चेति युक्तम्, तस्य भेदाश्रयत्वात् । यद्यपि च वृक्षत्वशिंशपात्वे परमार्थतो न भिन्ने तथापि भेदान्तरप्रतिक्षेपाभ्यां कल्पितभेदयोर्गम्यगमकभाव इति चेत्-न, वास्तवमेव वृक्षत्वशिंशपात्वयोर्भेदमुपपादयिष्यामः । अपि च काल्पनिकमपि रूपं विचार्यमाणं न यथा भिन्नमेवमभिन्नमपि न भवति, वस्तुनोऽपि तुच्छत्वप्रसङ्गात् । काल्पनिकस्यावास्तवत्वेन तत्त्वानुपपत्तेः । तस्मात् कल्पनारूढयोर्न वस्तुतादात्म्यम्, नापि परस्परम् । तथा सति सद्द्रव्यपार्थिववृक्षशिंशपादिविकल्पानां शब्दानां च पर्यायत्वप्रसङ्गात् ।
स्यादेतत् । कल्पनाभेदविरहिणां भेदमुल्लिखन्त्यपि परस्परमेषामभेदमप्यवगाहते सामानाधिकरण्याकारत्वात्, अभेदानुल्लेखे तदनुपपत्तेः । तथा च तादात्म्यं सिद्धमिति । तदयुक्तम्649 । उक्तं हि यथा सामानाधिकरण्यं न भावानामभेदसाधकम्, जात्यादिशब्दा हि जात्यादीन् निमित्तीकृत्य द्रव्ये वर्तन्ते । तच्चाधिकरणमेकमिति सामानाधिकरण्यमश्नुवते । न पुनर्जात्यादीनपि मिथो मिश्रयन्ति । शब्दसमानविषयाणां विकल्पानामपीयमेव गतिः । तस्माद् यत्र गम्यगकभावो न तत्र तादात्म्यम्, यत्र तादात्म्यं न तत्र गम्यगमकभाव इति सिद्धम् । यत्तु विदितशिंशपाव्यवहारमविदितवृक्षव्यवहारमुच्चायां हि शिंशपायां वृक्षशब्दः प्रयुक्तः, तस्मादुच्चत्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमिति मन्यमानं मूढं प्रति शिंशपात्वेन वृक्षव्यवहारमात्रं साध्यते । वामनायामपि शिंशपायां वृक्ष इति व्यवहर्तव्यम्, शिंशपामात्रानुबन्धित्वाद् वृक्षत्वस्येति । तत्रापि चेद् व्यवहारः साध्यः स शिंशपाया भिन्न इति, न तादात्म्यम् । व्यवहारयोग्यता चेत् ? सा शिंशपाया अभिन्नेति न गम्यगमकभावः । व्यावृत्तिभेदे चोक्तम् । तस्मात् तादात्म्यतदुत्पत्तिभ्यां प्रतिबन्ध इति मनोरथमात्रम् ॥
यश्च “वैशेषिकैः” चतुष्प्रकारः सम्बन्ध उच्यते, अस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम् [वै। सू। ९.२.१.] इति, अत्रापि सम्बन्धिपदेनैव सर्वोपसङ्ग्रहात् शेषाभिधानं व्यर्थम् । न च सम्बन्धिपदोपात्तस्यातिप्रसक्तिः शेषपदैर्निवार्यते । तथा सति शेषपदान्येव सन्तु कृतं सम्बन्धिपदेन, तेभ्य एव सम्बन्धिभेदानामधिगतेः । न चैवं चातुर्विध्यं सम्बन्धस्यानुमानाङ्गस्य । तच्चेष्यते । तथा च सम्बन्धिपदस्य सम्बन्धिमात्रावरोधेऽतिव्याप्तिः650 । अपि च “भूतं”651 वर्षम् “अभूतस्य” वाय्वभ्रसंयोगस्य कथं विरोधि ? तद्धि तदनुकूलमेव । एवम् “अभूतम्”652 वर्षं “भूतस्य” वाय्वभ्रसंयोगस्याप्रतिकूलम् । एवं “भूतो”653 नकुलजयो न भूतस्य सर्पपराजयस्य विरोधी । नापि “अभूतो”ऽसौ654 “अभूतस्य” विरोधी येषां पुनर्विरोधः, तेषामन्यतमदन्यतमस्य न लिङ्गमपि तु प्रतिक्षेपकमेव ।
एतेनैव,
मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः साङ्ख्यानां सप्तधानुमा ॥
इत्यपि पराकृतं वेदितव्यम् ।
तस्माद् यो वा स वास्तु सम्बन्धः केवलं यस्यासौ स्वाभाविको नियतः, स एव गमको गम्यश्चेतरः सम्बन्धीति युज्यते । तथा655 हि धूमादीनां वह्न्यादिसम्बन्धः स्वाभाविकः, न तु वह्न्यादीनां धूमादिभिः । ते हि विनापि धूमादिभिरुपलभ्यन्ते । यदा त्वार्द्रेन्धनादिसम्बन्धमनुभवन्ति, तदा धूमादिभिः सह सम्बध्यन्ते । तस्माद् वह्न्यादीनामार्द्रेन्धनाद्युपाधिकृतः सम्बन्धो न स्वाभाविकः, ततो न नियतः । स्वाभाविकस्तु धूमादीनां वह्न्यादिसम्बन्धः, तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद् व्यभिचारस्यादर्शनादनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । अतो नियतः सम्बन्धोऽनुमानाङ्गम् । न चादृश्यमानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सन्दिह्यमान उपाधिः सम्बन्धस्य656 स्वाभाविकत्वं प्रतिबध्नातीति साम्प्रतम् ।
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्657 इति दत्तावकाशा खल्वियं लौकिकप्रमाणमर्यादातिक्रमेण658 शङ्कापिशाची लब्धप्रसरा न क्वचित् नास्तीति नायं क्वचित् प्रवर्तेत । सर्वत्रैव कस्यचित् कथञ्चिदनर्थस्य शङ्कास्पदत्वात् । अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणादिदर्शनात् । तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम् । न त्वदृष्टपूर्वमपि । विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे भवितुमर्हति । तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभ्यमाना नास्तीत्यवगम्य स्वाभाविकत्वं सम्बन्धस्य निश्चिनुमः ।
स्यादेतत् । अन्येनान्यस्य सहकारेण चेत् स्वाभाविकः सम्बन्धो भवेत्, सर्वं सर्वेण स्वभावतः सम्बध्येत । तथा च सर्वं सर्वस्माद् गम्येत । अथान्यस्य659 चेदन्यत् कार्यम्, कस्मात् सर्वं सर्वस्य न भवति, अन्यत्वाविशेषात् । ततश्च स एवातिप्रसङ्गः । यद्युच्येत, न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यञ्च किञ्चिदिति । नन्वेष स्वभावानामनुयोगो660 भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव । तस्माद् यत्किञ्चिदेतत् । कः पुनः प्रमाणेन स्वाभाविकः सम्बन्धो गृह्यते ? प्रत्यक्षसम्बन्धिषु प्रत्यक्षेण, यथाह“लिङ्गलिङ्गिसम्बन्धदर्शनमाद्यमिति ।” यदा तावत् प्रथमं वह्निधूमयोः सहार्द्रेन्धनयोः सम्बन्धं पश्यति तदा द्वयोरपि किं स्वाभाविकः सम्बन्ध औपाधिको वा । अथ धूमस्यौपाधिको वह्नेः स्वाभाविकः वह्नेर्वौपाधिको धूमस्य तु स्वाभाविक इति न शक्यं निर्धारयितुम् । तत्र वह्नेरनार्द्रेन्धनस्य विनाधूममयोगोलकादौ दर्शनाद् आर्द्रेन्धनोपाधिः । अस्य धूमेन सम्बन्धो न तु स्वाभाविक इति निश्चीयते । धूमविशेषस्य तु विना वह्निमनुपलम्भाद् उपाधिभेदस्य चादृश्यमानस्य कल्पनायां प्रमाणाभावाद् विशेषस्मृत्यपेक्षस्य च संशयस्यानुपलब्धपूर्वे अनुत्पादात्, उत्पादे वा अतिप्रसङ्गात् प्रेक्षावतां प्रवृत्त्युच्छेदात् स्वाभाविकः सम्बन्धोऽवधार्यते । तदिदमवधारणं न मानसम्, अनपेक्षस्य मनसो बाह्ये प्रवृत्तावन्धबधिराद्यभावप्रसङ्गात् । भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात्, न हि मनो निमित्तमित्येव मानसं प्रत्यक्षं भवति । तथा सति न किञ्चिदमानसम्, प्रत्ययमात्रस्य मनोनिमित्तत्वात् । तत्तदसाधारणकारणापेक्षया तु तत्प्रमाणव्यपदेशे अत्रापि भूयोदर्शनमसाधारणमिति प्रमाणान्तरं जातम् । तस्मादभिजातमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसम्बन्धग्राहीति युक्तमुत्पश्यामः ।
एवं मानान्तरविदितसम्बन्धिषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसम्बन्धग्रहणे प्रमाणमुन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि साध्यमन्तरेण भवेयुः स्वभावादेव प्रच्यवेरन्निति तर्कसहायानिरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टाः तत्र स्वसाध्यमुपस्थापयन्त्येव । न च श्यामादिषु मैत्रतनयादीनां स्वाभाविकप्रतिबन्धसम्भवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया मैत्रतनयसम्बन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् । एनेन पक्वान्यस्य वृक्षस्याग्रवर्तीनि फलानि एतद्वृक्षप्रभवत्वात् पतितफलवदित्यादयोऽप्यौपाधिकसम्बन्धा व्याख्याताः । तस्मात् सर्वमवदातम् ॥
नन्वन्तिमप्रत्यक्षमतीताभ्यां प्रत्यक्षाभ्यां कथमनुगृह्यते इत्यत आह—“स्मृत्या चेति । चो” हेत्वर्थे । यद्यपि स्वरूपतो लिङ्गदर्शने अतीते, तथापि तज्जनिता स्मृतिरनुगृह्णाति यस्मादतस्ताभ्यामनुगृह्यते । अनुग्रहश्च करणमेव । सम्बन्धस्मृतिसहकारिणेन्द्रियेण स्वसाध्याविनाभूतलिङ्गविज्ञानं यदुपजन्यते तत् परामर्श इत्याख्यायते । तथाभूतलिङ्गगोचर एव चतुर्थो वाक्यावयव उपनय इत्याख्यायते । अत्र पृच्छति—“कः पुनरिति ।” अनुमानशब्दस्यार्थो न तावदनुमितिः । न खलु लिङ्गपरामर्शोऽनुमितिः, प्रत्यक्षफलत्वात् । तस्मादनुमीयते अनेनेति करणार्थो वक्तव्यः । स च लिङ्गविषयः क्रिया च लिङ्गिविषयेति विषयवैषम्यात् न क्रियाकरणभाव इति भावः । उत्तरम्—“अनुमीयत” इति । तेनैवाभिप्रायेण पृच्छति—“किं पुनरिति ।” उत्तरम्—“अग्नीति ।” प्रष्टा स्वाभिप्रायमुद्धाटयति—“कथं पुनरन्यविषयमिति ।” एकदेशिन उत्तरम्—“नानियमादिति ।” वृक्षोद्देशेन प्रवर्तितः परशुः कर्त्रा न तदवयवोद्देशेन, तस्माद् वृक्षविषयः परशुर्न तवदयवविषयः । द्वैधीभावश्चावयवेषु न वृक्षे, तस्य ततो विनाशादिति भावः । “क्वचित् पुनर्यद्विषयमिति ।” औष्ण्यापेक्षो वह्निसंयोगः करणं तण्डुलेषु । रूपादिपरावृत्तिरूपः पाकः तेष्वेव । तण्डुलेन पिठरं लक्षयति । न केवलं समानविषयत्वानियमः कर्तुः करणं भिन्नमित्यपि नियमो नास्तीत्यनियमाभिघानप्रसङ्गेनाह“क्वचित् पुनरिति ।” स्थितिः सावयवेषु समवायो वा प्रदेशविशेषे संयोगो वा । एवमनियमं दृष्टान्त उक्त्वा दार्ष्टान्तिके योजयति— “एवमन्यविषयस्येति ।” धूमविषयस्य प्रमाणस्याग्निविषया क्रिया प्रमितिः । यदा अग्निविषयमेव ज्ञानं प्रमाणं तत्राह—“क्वचित् पुनरिति ।” आक्षिपति—“किं पुनरिति ।” अत्र हेतुमाह—“प्रमितत्वात् ।” उत्तरम्—“प्रमीयते ।” तद्विभजते—“हेयत्वेनेति661 ।” अनियमवादिन “एकदेशिनो” मतं नियमवादी दूषयति—“तन्नेति ।” हेतुमाह— “प्रमाणफलयोरिति ।” यदि अन्यविषयं करणमन्यविषया क्रिया भवेत् ततश्छेदने खदिरं प्राप्ते पनसादावपि च्छिदा स्यादित्यतिप्रसङ्गः स्यात् । यद्यपि वृक्षोद्देशेन कर्त्रा परशुः प्रयुक्तस्तथाप्ययं वृक्षमिव तदवयवानपि प्राप्त इति तद्विषयो भवति । तेन तदवयवद्वैधीभावमुखेन वृक्षविषयामपि द्वैधीभावक्रियां जनयतीति न वैयधिकरण्यं करणफलयोः । एवं यद्यपि लिङ्गविषयं प्रत्यक्षफलतया लिङ्गज्ञानम्, तदनुबद्धस्य तस्य मानसप्रत्यक्षगोचरत्वात्, लिङ्गनिरूपणमन्तरेण तदनिरूपणात् । न तु लिङ्गज्ञानं लिङ्गिनं विना न निरूप्यते । तस्मात् प्रतिपत्त्यनुबन्धितया विषयो न लिङ्गज्ञानस्य लिङ्गी, किं तु लिङ्गमेव । तथापि लिङ्गिविषयप्रतिपत्तिजनकत्वात् लिङ्गज्ञानं भवति लिङ्गिविषयम् । न चातिप्रसङ्गः, स्वाभावितकसम्बन्धशालित्वात् लिङ्गस्य लिङ्गिनि । तस्माद् द्विविधो विषयभावः प्रतिपत्त्यनुबन्धिता,662 प्रतिपाद्यता च । तत्र पूर्वः फलस्य, उत्तरस्तु प्रामाण्यस्येति विवेकः663 । तस्मात् सुष्ठूक्तम्—“प्रमाणफलयोर्विषयभेदानभ्युपगमादिति ।” स्थितौ तु भेदो दर्शयिष्यते कर्तुः करणस्य चेति । तदेवं तानि ते इति विग्रहद्वयं परस्परापेक्षमुपपाद्य तानि तदिति विग्रहद्वयं परस्परापेक्षमुपपादयति—“यदा पुनरिति । लिङ्गलिङ्गिसम्बन्धदर्शनं च अनन्तरलिङ्गदर्शनं च तत्स्मृतिश्चेति” विग्रहः । अत्रापि सर्वसन्देहेष्विदमुपतिष्ठते, व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भावः ॥
ननु यदि प्रमाणफलयोरेकविषयत्वं तर्हि परामर्शज्ञानविषयीकृत एवार्थो विषयीकर्तव्यो नान्यः । स च प्रत्यक्षप्रमाणविषय एवेति कृतमनुमानेनेत्याशयवान् पृच्छति—“किं पुनरिति ।” तैविशिष्टेन लिङ्गपरामर्शेनेत्यर्थः । उत्तरम्—“शेषोऽर्थः ।” प्रत्यक्षप्रमितात् लिङ्गादन्यो लिङ्गी तद्विषयत्वं च लिङ्गपरामर्शस्योक्तमिति । पृच्छति— “अनुमानमित्यत्र किं कारकम् ?” अनुमीयतेऽनेनेति करणकारकमेव युक्तं तस्यैव लिङ्गदर्शनद्वयस्मृतिपूर्वकत्वात् न त्वनुमितिरनुमानं प्रमाणव्यापारत्वेनातन्निमित्तत्वात्664 करणकारकादन्यत्वाद् अतत्पूर्वकत्वाच्चेति भावः । उत्तरम्—“भावः करणं वा ।” ननूक्तं न भावः कारकमित्यत आह—“यदेति ।” न द्रव्यादीनामेव कारकत्वम्, अपि तु व्यापारस्यापि । अन्यथा कर्मनामधेयेषूद्भिदादिशब्देषु न करणविभक्तिः श्रूयेत, उद्भिदा यजेत दर्शपौर्णमासाभ्यां यजेतेत्यादि । सम्भवति हि तस्यापि सिद्धस्य फलभावनायां निमित्तत्वम् । एवं वह्निप्रमायाः सिद्धायाः सम्भवति हानादिबुद्धिनिमित्तभावः । एतस्मिंश्च कल्पे तत्पूर्वकमित्यत्र तदा हानादिसम्बन्धावधारणसमये प्रथमं665 वह्नित्वस्य लिङ्गस्य दर्शनम्, अथानुमानिकं द्वितीयम्, अथ सम्बन्धस्य स्मृतिरिति त्रयमेकीकृत्य परामर्ष्टव्यम् । तत्पूर्वको हि तथा चायमनुमीयमानो वह्निरिति लिङ्गपरामर्शः । तस्माद् दाहपाकादिकारित्वादुपादेयो वह्निरिति ज्ञानमनुमानस्य फलम् । ततश्च तत्पूर्वकत्वमपि सिद्धं भवतीति भावः । करणकारकपक्षे फलमाह—“यदा करणमिति ।” अत्र विमृशति—“लिङ्गेति ।” तत्पूर्वकत्वानुमिति निमित्तत्वसमानधर्मदर्शनात् संशयः । अत्रा“चार्यदेशीय”मतमाह—“एके तावदिति ।” सत्स्वपीतरेषु स्मृतेरभावादनुमितेरनुत्पादेन स्मृतिरेवानुमानम् इतरे तु तदनुग्राहका इत्यर्थः । मतान्तरमाह—“अपर” इति । सत्स्वपीतरेषु लिङ्गपरामर्शं विना अनुमित्यनुत्पादात्, लिङ्गपरामर्श एवानुमानमितरैरनुगृहीत इत्यर्थः । स्वमतमाह—“वयं त्विति ।” अन्वयव्यतिरेकाभ्यामशक्यो गुणप्रधानभावो विवेक्तुम्, तयोः सर्वत्र तुल्यत्वादिति भावः । तत् किमिदानीं नास्त्येव गुणप्रधानभाव इत्यत आह—“प्रधानेति ।” नान्वयव्यतिरेकावत्र666 प्रभवतो न तु न्यायान्तरमिति भावः । पृच्छति—“कः पुनरत्रेति ।” उत्तरमाह—“आनन्तर्येति ।” नेहास्ति तिरोहितं किञ्चित् ॥
अतिव्याप्तिं चोदयति—“यदीति ।” ननु भवतु प्रत्यक्षद्वयपूर्वकः संस्कारोऽनुमानम्, तेनापि शेषोऽर्थोऽनुमास्यत इत्यत आह—“स्मृतिहेतु”र्नानुमितिहेतुरित्यर्थः । परिहरति—“नैष दोष” इति । विशिष्टज्ञानं विज्ञानं विशेषश्च स्मृतेरन्यत्वम् । न हीन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्मृतिः । तस्याः संस्कारमात्रप्रभवतया अन्यस्मादनुत्पत्तेः । तेन च ज्ञानेन स्वकारणं विशेषितम्, प्रत्यक्षसूत्रे यत इत्यध्याहारात् । तस्मादिहापि स्वकारणविशेषकं स्मृतेरन्यद् विज्ञानमधिकृतम् । न च संस्कारः प्रत्यक्षपूर्वोऽपि ताद्दशज्ञानकारणमिति न तस्य प्रसङ्गं इत्यर्थः । निर्णयेऽनुपजनितफले प्रसङ्ग निवारयति—“निर्णय”667 इति । विभागसूत्राक्षिप्तप्रमाणसामान्यलक्षणपूर्वकं विशेषप्रमाणलक्षणं तदपेक्षं प्रवर्तमानं नानुपजनितफलेऽप्रमाणे निर्णयमात्रे प्रवर्तितुमर्हति, जनितफलस्तु निर्णयः प्रमाणमेवेति भावः । स्वविषय “परिच्छेदकत्वात् फलं” परिच्छेद एव परिच्छेदकः, स्वार्थिकः प्रत्ययः ॥
त्रिविधमिति सूत्रावयवमर्थगौरवादराद्668 “वार्त्तिककार” उद्भाष्यं व्याचष्टे— “त्रिविधमितीति ।” अन्वयव्यतिरेकिणं लक्षयति—“तत्रेति । विवक्षितोपपत्तिः” पक्षधर्मता, “तज्जातीयोपपत्तिः” अन्वयः । “विपक्षावृत्तिः” व्यतिरेकः । अन्वयिमात्राद् व्यतिरेकिमात्राच्च व्यावृत्तोऽन्वयव्यतिरेकी दर्शनीय इति हेतुत्रयसाधारणे अबाधितविषयत्वासत्प्रतिपक्षत्वे सती अपि669 हेतुरूपे न दर्शिते । विवक्षितप्रत्ययमन्तरेण670 चान्वयव्यतिरेकयोः तज्जातीयातज्जातीयवृत्तिव्यावृत्त्योरशक्यप्रतीतित्वाद् विवक्षितोपादानम् । तत्प्रसङ्गेन च तद्धर्मता671 हेतुत्रयसमानापि दर्शिता । तस्योदाहरणमाह—“यथेति ।” प्रत्यक्षत्वादिति हेतुरात्मनि नित्येऽस्तीत्यत उक्तम्—“बाह्यकरणेति ।” तथापि सामान्यविशेषैर्घटत्वादिभिर्व्यभिचार672 इत्यत उक्तम्—“सामान्यविशेषवत्त्व” इति । तथापि परमाणुभिर्बाह्यकरणप्रत्यक्षैर्योगिनां673 व्यभिचार इत्यत उक्तम्—“अस्मदादीति ।” तथा चायं नित्येभ्य आकाशादिभ्यो घटादिषु चानित्येष्वन्वित इति भवत्यन्वयव्यतिरेकी । अन्वयिनं लक्षयति—“अन्वयीति विपक्षहीन इति ।” विपक्षाभावेन ततो व्यतिरेकाभावं दर्शयति । सद्भ्यामभावो निरूप्यते नैकेन सतेत्युक्तम्674 । तेन हेतोर्यतो विपक्षान्निवृत्तिः स एव नास्तीति कुतो निवर्तताम्, पक्षादन्यस्य सर्वस्यैव सपक्षत्वात् ? न निवर्तत इति चेत् ? अस्तु तर्हि675 हेतोस्तत्र वृत्तिः निवृत्तिनिषेधरूपत्वाद्676 वृत्तेरिति चेत् ? यस्याभावाधिकरणत्वमपि न सम्भवति निरुपाख्यस्य तस्य भावाधिकरणत्वशङ्केति सुभाषितम् । न खलु मुमुर्षोस्तोयाभ्यवहारेऽप्यसमर्थस्य631 शष्कुलीभक्षणं शङ्कते चेतनः । तत् किमिदानीं भावाभावौ न परस्पराभावात्मानौ यदेकनिषेधेनान्यविधिः स्यात् ? सत्यम्, यदेकतर एतयोर्निषिध्यते विधीयते च677 तत्र तदितरविधिर्निषोधो वावश्यं भवेत् । न त्विह परमार्थतः कस्यचित् निषेधः । न678 चात्र निरुपाख्यो हेतोर्व्यतिरेको निषिध्यते, न निरुपाख्यो निषेधाधिकरणमिति च वचः स्वचरितविरुद्धम् । न चैतत् तत्त्वतोनिरुपाख्ये हेतोर्व्यतिरेकं वा679 हेतुं वा व्यासेधामो नाप्यन्वयं विदध्मः । नो खल्वयं सकलप्रतिपत्त्यभाजनं क्वचिदप्युपयुज्यते । उपयोगे वा निरुपाख्यो न भवेत् । कस्तर्हि न निरूपाख्ये हेतोर्व्यतिरेक इत्यस्य वचनस्यार्थः ? अथ निरूपाख्ये हेतोर्व्यतिरेक इत्यस्य भवद्भाषितस्य कोऽर्थः ? अहृदयवाचां खल्वहृदया एव प्रतिवाचो भवन्ति । यक्षानुरूपो बलिरिति हि लौकिकानामा—भाणकः । न चात्यन्तादृष्ट पूर्वाणां कल्पनाजालगोचरत्वमिति680 चोपपादितमन्यथाख्याति निरूपणावसरे681 । कल्पितगोचरश्च व्यतिरेकोऽपि काल्पनिक इति नानुमानाङ्गम् । स्वाभाविकरूपसम्पन्नं हि प्रमाणं तत्त्वज्ञानरूपफलाय कल्पते न कल्पितरूपसम्पदा, तस्याः सर्वत्र सुलभत्वादिति । तत्त्वविषयत्वं चानुमानस्योपपादयिष्यते । तस्मादनुपाख्ये विपक्षे हेतोर्व्यतिरेकनिवृत्तौ वा व्यतिरेके वा हेतुप्रवृत्तौ682 वा सहृदयानां मूकतैवोचिता । न चैतावता हेतोरगमकत्वम् । न हि व्यतिरेकोऽस्तीत्येव गमको भवति । मा भूदसाधारणस्यापि गमकत्वम्, किन्तु स्वसाध्येन सह स्वाभाविकसम्बन्धशालितया । सा चान्वयव्यतिरेकाभ्यामिवान्वयमात्रेणाप्युपाधिरहितेन शक्या ज्ञातुमिति कृतमत्र व्यतिरेकेण । विपक्षसम्भवे तु तत्रापि हेतुवृत्तिशङ्कानिराकरणाय व्यतिरेकग्रहणमुपासनीयमिति सर्वमवदातम् ।
उदाहरणमाह—“यथेति ।” स्वमते त्वभिधेयो विशेषः प्रमेयत्वात् सामान्यवत् । परमाण्वाकाशादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवदित्यादयो683 द्रष्टव्याः, विश्वस्यैव सदसत्प्रभेदभिन्नस्य यथास्वं पक्षसपक्षयोरन्तर्भावेन विपक्षाभावादिति । व्यतिरेकिणं लक्षयति—“व्यतिरेकीति”—तमिमं व्यतिरेकिणं हेत्ववयवलक्षणव्याख्यानावसरे684 “वार्त्तिककृद्” उपपादयिष्यातीति685 नेहोपपादितः । तदेवं त्रिविधमित्यवच्छिद्य व्युत्पाद्य सम्प्रति पूर्ववदित्यादिना एकवाक्यतया व्याचष्टे— “अथवा त्रिविधिमिति ।” तिसृष्वपि विधासु साध्यवचनस्य पूर्वमुपपादनात् “पूर्वं साध्यं” तद् यस्यास्त्यधिकरणतया तत्पूर्ववत् । तथाप्यनित्याः परमाणवो गन्धवत्त्वाद् घटवदित्यपि हेतुः स्यात् । अस्ति हि साध्यं तस्यापि, पार्थिवानामप्यणूनामनित्यत्वेन सिषाधयिषितत्वादित्यत आह—“व्याप्त्येति ।” अस्ति गन्धवत्त्वस्य साध्यं न तु व्याप्त्या, पृथिवीमात्रवृत्तितया चतुर्षु परमाणुषु तदभावात् । साध्यस्योपयुक्तत्वात् ततोऽन्यस्तज्जातीयः शेषः, साध्यसामान्येन समान इति यावत् । तदिदमाह“साध्यतज्जातीय” इति ।
पदानि विभज्यार्थमाह—“पूर्ववन्नामेति ।” सामान्यतोऽदृष्टमिति नञमन्तर्भाव्य व्याचष्टे—“सामान्यतश्चेति ।” तथा च बाधितविषयं प्रकरणसमं चानुमानं स्यादित्यत आह—“चशब्दादिति । वार्त्तिके” चशब्देनासत्प्रतिपक्षत्वमपि सूचितम् । तेन “सूत्रस्थेन”686 चशब्देनाबाधितविषयत्वमसत्प्रतिपक्षत्वमपि रूपद्वयं समुच्चितमित्युक्तं भवति । नन्वेवं त्रिविधोऽपि हेतुः पञ्चलक्षणः स्यादित्यत आह—“एवमिति ।” एतदुक्तं भवति अबाधितविषयमसत्प्रतिपक्षं पूर्ववदिति च ध्रुवं कृत्वा शेषवदित्येका विधा, सामान्यतोऽदृष्टमिति द्वितीया, शेषवत्सामान्यतो दृष्टं चेति तृतीया । तदेवं त्रिविधमनुमानम् । तत्र चतुर्लक्षणं द्वयम् । एकं पञ्चलक्षणमिति ।
तदेवं स्वमतेन “सूत्रं” व्याख्याय “भाष्यकृन्”मतेन व्याचष्टे—“अथ वेति ।” आक्षेप्तुं स्वरूपतो व्याचष्टे—“तत्रेति ।” पूर्वं कारणं कार्यात् । तद् यस्यास्ति विषयतया परामर्शज्ञानस्यानुमानस्य तत् पूर्ववदित्यर्थः । विकल्प्य आक्षिपति—“यदि तावदिति ।” सर्वत्रानुमानप्रसङ्गादिति भावः । अतिप्रसङ्गभिया कल्पान्तरमातिष्ठते—“अथ पुनरिति ।” दूषयति—“एतदपीति ।” दूषणान्तरं समुच्चिनोति—“कारणदर्शनाच्चेति ।” नासिद्धाश्रयो हेतुर्गमक इत भावः । परिहरति—“नेति ।” द्वयमपि नाभ्युपेयत इत्यर्थः । किं तर्हि अभ्युपेयते इत्यत आह—“कार्यं त्विति ।” एनं प्रकारमन्यत्राप्यतिदिशति—“एवमिति ।” पृच्छति—“कथमिति ।” उत्तरम्—“द्वयोरिति ।” पूर्वशब्देन कारणाभिधायिना प्रतिसम्बन्धितया कार्यमप्युपक्षिप्तम् । अतो द्वयोरप्युपक्षिप्तयोः कारणस्योपयोगादनुमानभावेनेति योजना । उदाहरणमाह—“उदाहरणमिति ।” यद्यपि कारणमात्रं व्यभिचरति कार्योत्पादम्, तथापि यादृशं न व्यभिचरति तत्र निपुणेन प्रतिपत्रा भवितव्यम् । अन्यथा धूममात्रमपि वह्निसत्तां687 व्यभिचरतीति न धूमविशेषो गमको भवेत् । रसाद्रूपानुमाने तु “वैनाशिकाना”मापादितं कारणात् कार्यानुमानम् “अस्माभिः ।” अपि चान्त्यतन्तुसंयोगानन्तरं पटो जायते तत्रापि शक्यं कारणात् कार्यानुमानम् । यदा खल्वयमन्यत एवोद्बुद्धसंस्कारो व्याप्तिस्मृतिमान् अविचलेष्वितरेषु688 तन्तुषु अन्त्यतन्तावुत्पन्नायां क्रियायामिन्द्रियसन्निकर्षात् प्रथममेव परामृशति तथा चेयमिति, तदैव क्रियातो विभाग इत्येकः कालः । अथ यदा विभागात् पूर्वसंयोगविनाशः, तदा परामर्शात् तस्मादवश्यम्भाविपटविशिष्टेयं क्रियेत्यनुमानोत्पाद इत्येकः कालः । अथान्त्यस्य तन्तोः तन्तुसंयोगः, अथ पटोत्पादः, तत्र रूपाद्युत्पादः, अथ प्रत्यक्षदर्शनम् इत्यनुमानोत्पादस्य परस्ताच्चतुर्थे क्षणे प्रत्यक्षम् । यदि तु क्रियोत्पादानन्तरमालोचनमिष्यते, तथापि तृतीये क्षणे प्रत्यक्षस्य उत्पाद इति नानवसरमनुमानम् । अपि च बधिरो मुरजमुखमभिहत्य स्वपाणिनाभिघातादेव689 शब्दकारणात् तत्कार्यं शब्दं निःशङ्कमनुमिमीते । एवमन्यान्यपि कारणात् कार्यानुमानान्यूहनीयानीति ।
शेषवदुदाहरणमाह—“नद्या इति ।” चोदयति—“कथं पुनरिति ।” परिहरति—“नेति ।” अनुमीयतेऽनेनेति “अनुमानं नदीपूरः,” न तु वृष्टिरनुमीयमाना पूरविशेषात् नातीता शक्यानुमातुम् । अनुमानसमये तदत्ययस्याशक्यनिश्चयत्वात् । नापि वर्तमाना तदत्ययस्यापि तदानीं सम्भवात् । एवं भविष्यन्त्यपि साधकबाधकप्रमाणाभावेन सन्दिग्धैव । तस्मात् त्रैकाल्यस्याशक्यनिश्चयत्वात् अनुपपन्नमनुमानमित्यत आह— “भविष्यतीति ।” कारणस्य हि कार्यात् पूर्वकालता शक्या निश्चेतुम् । कार्येण लिङ्गेन690 तु न अतीतत्वादिसन्देहः क्षतिमावहति । “यः कश्चिदिति” योग्याभिप्रायम् । स च कार्यस्य पुरस्तात् ततो निश्चयव्याप्त इत्युक्तम्691 ।
सामान्यतोदृष्टोदाहरणं “भाष्यकारीयं” दुरवबोधम्, शेषवदुदाहरणान्तर्गतं च । अत्रापि कार्येण सवितुर्देशान्तरप्राप्त्या तत्कारणस्य व्रज्याया अनुमानात् । न चैतावता अनुमानस्य त्रैविध्यं भवति, उदाहरणमात्रस्यानन्त्येनानन्त्यप्रसङ्गात् । तस्माद् “भाष्यकार”व्याख्यानमरोचयमानो “वार्त्तिककृत्” अन्यथा व्याख्यायोदाहरणान्तरमाह— “सामान्यतोदृष्टं नामेति ।” साध्यधर्माविनाभाविना विशेषणेन साधनधर्मेण विशिष्यमाणो धर्मी गम्यते गमकत्वेन । हेतुविशिष्टो हि धर्मी गमकः, जिज्ञासितधर्मविशिष्टश्च गम्यः । यथाहुः,
स एव चोभयात्मायं गम्यो गमक इष्यते ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥
इति । अविनाभावित्वं स्वभावप्रतिबद्धत्वं सर्वेषामेव हेतूनां सामान्यम्,692 ततोऽत्र धर्मधर्मिणोरभेदविवक्षया हेतुरेव सामान्यमुक्तः । सामान्येनाविनाभाविना हेतुना अवच्छिन्नं693 दृष्टं धर्मिरूपमनुमानं सामान्यतो दृष्टमनुमानम् । तृतीयायास्तसिः । तदेतत् पूर्ववच्छेषवतोरपि प्रापकमपि तत्पदसन्निधानात् गोबलीवर्दन्यायेन ते परित्यज्यान्यत्रनिविशते । तदिदमुक्तम्—“अकार्यकारणभूतेनेति ।” उदाहरणमाह—“यथा बलाकयेति ।”
भाष्यकारीयमुदाहरणमुपन्यस्याक्षिपति—“अपरे पुनरिति ।” तदिति गतिमानिति परामृशति—“उपलब्धिलक्षणप्राप्तत्वादिति ।” कर्मणो हि महत्त्वरूपविशेषैकार्थसमवाय उपलब्धिलक्षणप्राप्तिः प्रत्यक्षोपलब्धियोग्यता । समाधत्ते—“नैवेदमिति । देशान्तरप्राप्तिमानादित्यः द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्राङ्मुखोपलभ्यत्वे च तदभिमुखदेशसम्बन्धादनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्ययविषयत्वात्,” मण्यादिवत्, तत्प्रत्ययविषयत्वादित्युच्यमाने पुरःस्थितेन स्थाणुना व्यभिचारः, सोऽपि हि प्रत्यभिज्ञाविषयो भवति तत्रैव स्थितः । तन्निवृत्त्यर्थं परिवृत्येत्युक्तम् । तथापि गुणादिभिर्व्यभिचारः । तन्निवृत्त्यर्थं द्रव्यत्वे सतीति विशेषणम् । तथापि प्रदीपादिभिराशुतरविनाशिभिर्व्यभिचारः,694 तन्निवृत्त्यर्थं क्षयवृद्धिप्रत्ययाविषयत्वे सतीति विशेषणम् । तथापि पृष्ठतोऽवस्थितया स्थूणया व्यभिचारः, तन्निवृत्त्यर्थं प्राङ्मुखोपलभ्यत्वे सतीति विशेषणम् । उपलभ्यता च उपलब्धिकर्मता । सा चेहातीता विवक्षिता, अन्यथा पूर्वापरजलधिवेलावगाहिना तुहिनशैलेन व्यभिचारः । यद्यप्ययमपि परिवृत्य695 तत्प्रत्ययवतोऽतिपतितोपलम्भकर्मभावः, तथापि तदा नरान्तरस्योपलभ्यः । मार्तण्डमण्डलं त्वस्ताचलचूडावलम्बि न प्राच्यां कस्यचिदुपलम्भगोचर इति वैषम्यम्, तथापि यदि द्रष्टैव पुरोऽवस्थितस्य पश्चिमाभिमुखस्य प्रासादस्य स्वयमुपनिपत्य पृष्ठतो भवति, तदोक्तलक्षणस्य हेतोरस्ति व्यभिचारः । तन्निवृत्त्यर्थम् अनुत्पन्नपादविहारस्येति विशेषणम् । तदभिमुखदेशसम्बन्धादिति ल्यब्लोपे पञ्चमी । स्वाभिमुखदेशमुद्दिश्यानुत्पन्नः पादविहारो यस्य स तथोक्तः । तमुद्दिश्य खल्वयं पद्भ्यां सञ्चरमाणः प्रासादस्य पृष्ठतो भवतीति भावः । देशान्तरप्राप्तौ साधनान्तरमाह—“देशान्तरेति ।” सत्यविनाश इति च द्रष्टव्यम् । ये त्विमामनुमानपरम्पराम् अमृष्यमाणा दिशः प्रत्यक्षतामिच्छन्ति, विप्रतिपन्नं चानुमानेन बोधयन्ति, तन्मतमुपन्यस्यति—“एके696 त्विति ।” दूषयति—“तच्च नेति ।” अरूपमात्मसुखाद्यपि प्रत्यक्षमिति शङ्कमानेन बाह्यकरणेत्युक्तम् । पृच्छति—“कथं तर्हीति ।” उत्तरम्—“दिग्देशेति ।” अन्यथासिद्धतया अङ्गुल्या निर्देशस्य दिक्प्रत्यक्षत्वेन न स्वाभाविकः प्रतिबन्ध इत्यर्थः ।
स्यादेतत् । अप्रत्यक्षायां दिशि दिग्देशसम्बन्धिष्वित्येतदेव कुत इत्यत आह—“आदित्येनेति ।” तद्विभजते—“प्राचीत्ययमिति ।” तत् पुनरिदं प्रत्यक्षम् आ चोदयात् आ चास्तमयाद् देशाद् देशान्तरं सञ्चरणं मार्तण्डमण्डलस्य अनाकलितद्रव्यत्वे697 सतीत्यादिदण्डकानुमानानामिन्द्रियव्यापारानन्तरमुपजायमानत्वात् । तत्र मा भूवन्नाकाशदिगादयः प्रत्यक्षाः, तथापि परितो विनिष्पतदतिविशदमयूखजालमध्यवर्तिनो हेलिमण्डलस्य त एव मयूखभागभेदाः प्रत्यक्षदेशा698 इति तेषां प्रत्यक्षाणां प्रत्यक्षेण सवितृमण्डलेन संयोगविभागाः प्रत्यक्षा भविष्यन्तीति युक्तम् । इदं त्वतिस्फुटतया नाभिधाय शिष्यव्युत्पादनायाक्षुण्णं मार्गान्तरं दर्शितमिति मन्तव्यम् । तदेवं रूपेण स्पर्शानुमानम्, शिंशपात्वेन श्रुतेन वृक्षत्वानुमानमित्यादि सामान्यतोदृष्टेन सङ्गृहीतं वेदितव्यम् ।
स्वमतेन व्याख्यान्तरमाह—“अथवा त्रिविधमिति ।” तद्विभजते—प्रसिद्धमिति । पक्षैकदेशे सदपि सिद्धम्, पक्षव्यापकं तु प्रकर्षेण सिद्धमित्यर्थः । यद्यप्यविनाभावः पञ्चसु चतुर्षु वा रूपेषु लिङ्गस्य समाप्यते इत्यविनाभावेनैव सर्वाणि लिङ्गरूपाणि सङ्गृह्यन्ते, तथापीह प्रसिद्धसच्छब्दाभ्यां द्वयोः सङ्ग्रहे गोबलीवर्दन्यायेन तत् परित्यज्य विपक्षव्यतिरेकासत्प्रतिपक्षत्वाबाधितविषयत्वानि सङ्गृह्णाति । अत्रापि यथासम्भवं चतुर्णां पञ्चानां वा रूपाणां लिङ्गेषु699 सम्बन्धः । तदनेन प्रबन्धेनानुमान वादिनां स्वरूपसङ्ख्याफलविप्रतिपत्तयो निराकृताः । तत्र तत्पूर्वकमिति स्वरूपविप्रतिपत्तिः । अनुमानमिति समाख्यानिर्वचनसामर्थ्यात् फलविप्रतिपत्तिः । त्रिविधमिति न्यूनाधिकसङ्ख्याव्यवच्छेदेन सङ्ख्याविप्रतिपत्तिर्निराकृता । सम्प्रत्यान्तर्गणिकभेदानन्त्येनानन्त्याद्700 अनुमानस्याशक्यलक्षणत्वमिति यदि कश्चिदनुमन्येत, तन्निराकरणाय त्रैविध्यमनुमानस्य उच्यते इति त्रिविधपदस्य तात्पर्यान्तरमाह—“अथ वेति ।” त्रिविधत्वेन यतो नियतमतः शक्यलक्षणमित्यर्थः । अनित्यः शब्दः कृतकत्वादिति सपक्षे सदेव । अनित्यः शब्दोऽस्मदादिप्रयत्ननान्तरीयकत्वादिति सपक्षे सदसत् । तदेतदन्वयव्यतिरेकि द्विविधम् । एवमन्वय्यपि द्वेधा । तत्र सपक्षे सदेव, यथा परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति, तथा सपक्षे सदसद् यथा तत्रैव साध्ये सत्त्वाद् घटादिवदिति । “कालभेदः” त्रैकाल्यम् । प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति पुरुषभेदः । पूर्वं सिद्धवत् पूर्ववदित्यनूद्य तस्योदाहरणमुक्तम् । सम्प्रति प्रश्नपूर्वकं तदर्थाभासनिराकरणेन तात्त्विकमस्यार्थमाह—“पूर्ववदित्युक्तमिति । भाष्य”व्याघात701 इत्यर्थः । पूर्ववदित्यस्य व्याख्यानं शेषवदित्यत्रापि योजयति । सामान्यतोदृष्टे च ज्ञानमतिदिशति—“एवं शेषवदादिष्विति । अथ वा पूर्ववदिति भाष्यम्,” तस्यार्थः, पूर्वेण तुल्यं वर्तते इति पूर्ववत् । क्रिया तुल्यतायां च वतिरिति क्रियातुल्यता दर्शिता । “यत्रेति ।” पूर्वमन्यतरदर्शनेन सहान्यतरदर्शनं दृष्टान्तधर्मिणि, यथापूर्वं प्रत्यक्षभूतयोरिति प्रमाणमात्रोपलक्षणम् । एवं साध्यधर्मिणि “अन्यतर”धर्मदर्शनेन702 साधनधर्मदर्शनेनान्यतरस्य साध्यधर्मस्यानुमानमनुमितिदर्शनमिति भवति क्रियातुल्यता । तदेतद्“भाष्य”मनुभाष्य व्याचष्टे—“अथ वेति ।”
अत्र “दिग्नागेन” धूमादग्निरूपधर्मान्तरानुमानम् अग्निदेशयोः सम्बन्धानुमानं च दूषयित्वा अग्निविशिष्टदेशानुमानं समर्थितम् । तथा चाह—
केचिद् धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः ।
सम्बन्धं केचिदिच्छन्ति सिद्धत्वाद् धर्मधर्मिणोः ॥
लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत् तेन मीयते ।
अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥
सम्बन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति ।
अवाच्योऽर्थगृहीतत्वान्न703 चासौ लिङ्गसङ्गतः ॥
न हि सम्बन्धधर्मतया लिङ्गं प्रमीयते,704 अपि तु देशसङ्गतमित्यर्थः ।
लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दर्श्यते705 ।
तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥
इति । तत्र “दिग्नाग”दूषितान् कल्पान् अन्यांश्च विकल्पान् “दिग्नाग”समर्थितं च कल्पमुपन्यस्य दूषयति—“अन्ये पुनरिति । धर्मधर्मिभावानुपपत्तेरिति ।” धर्मेण हि धर्मी प्रतिपत्तव्यः, अन्यथा अतिप्रसक्तेरिति भावः । देशस्य च स्वरूपेणेत्यर्थः । शङ्कते—“अथापीदमिति ।” निराकरोति—“तच्च नैवमिति ।” यः कश्चिद् वा देशोऽग्निमान् साध्यो, धूमवान् वा देशभेदः ? तत्र पूर्वस्मिन् कल्पे निराकरणमाह—“अतद्धर्मत्वादिति ।” यः कश्चिदग्निमत्तया देशः साध्यते706 न तस्यावश्यं धूमो धर्म इत्यर्थः । न चैतत् साध्यं सिद्धत्वादित्याह—“न चाग्नेरिति ।” द्वितीयं कल्पमाशङ्कते—“अयमिति ।” निराकरोति—“न, तस्येति ।” शङ्कां विभजते—“देशेति ।” निराकरणं विभजते—“न ह्ययमिति ।” न ह्ययमेवंवादी “दिग्नागो” धूमाधारं देशविशेषं पश्यति । न ह्यस्य मते पर्वतो नाम कश्चिदवयवी यदाधारो धूम उपलभ्येत, किं तु परमाणवः परमसूक्ष्मा अतीन्द्रियाः पर्वतः । एवं धूमोऽपि तादृश एव । यथा वक्ष्यति—“सर्वाग्रहणमवयव्यसिद्धेः” [२.१.३४] इति । येषामपि देशभेदोऽवयवी दर्शनार्हः, तेषामपि वियद्वर्तिनीं धूमलेखामभ्रंलिहामुपलभ्यानुपलब्धदेशानां नानुमानसम्भव इति भावः । शङ्कते—“अविनाभावेनेति ।” तदेव विभजते—“अथापीति ।” निराकरोति—“तन्नेति ।” विकल्पयति—“अग्निधूमयोरिति ।” कार्यकारणभावमालम्बते—“अस्त्विति ।” दूषयति—“तन्नेति ।” धूमेन हि वह्निरनुमीयते, न च कार्यसत्ता निमित्तकारणसत्तया व्याप्ता । न हि यदा यत्र वा पटः, तदा तत्र वा कुविन्दः । नाप्यसमवायिकारणसत्तया, न हि यदा यदा संयोगस्तदा कर्म । तस्मात् समवायिकारणाविनाभावः कार्यस्य वक्तव्यः । तत्रेदं दूषणम्—“अतद्वृत्तित्वादिति ।” एकार्थसमवायमविनाभावं दूषयति—“नैकेति” एकार्थसमवाय इति हि द्वेधा, एकस्यार्थस्य समवायः, एकस्मिन् वार्थे समवाय इति । तत्र प्रथमं कल्पं दूषयति— “ताभ्यामिति ।” यदि हि वह्निधूमाभ्यामेकोऽर्थः कश्चिदारभ्येत ततोऽसौ तयोः समवेयात्, न त्वेतदस्तीत्यर्थः । द्वितीयं कल्पं दूषयति—“न च ताविति ।” तत् किमसम्बद्धावेव वह्निधूमौ, तथा च प्रतीतिविरोध इत्यत आह—“सम्बन्धमात्रमिति ।” संयोग इत्यर्थः । तदेव तर्ह्यवधार्यतामित्यत आह—“तदपीति ।” पृच्छति—“कथमिति ।” उत्तरम्—“यदि तावदिति । कुरुते” प्रयोगम् । “अस्ति सम्बन्धोऽग्निधूमयोर्धूमादिति ।” दूषयति—“तन्नाप्रतीतत्वात् ।” तदनेनानैकान्तकत्वं दर्शयति । सम्बन्धान्तरम् आशङ्कते— “रूपस्पर्शवदिति ।” न हि “बौद्ध”राद्धान्ते द्रव्यं नाम किञ्चिदस्ति यत्र रूपस्पर्शौ समवेतौ, किन्त्वेकसामग्र्यधीनतया नियतसाहचर्यौ, तथा वह्निधूमावपि इत्यर्थः । दूषयति—“नोभयोरिति ।” उभयसाहचर्यनिराकरणेन यत्र धूमस्तत्राग्निरित्यपि पराकृतम्, तस्यापि साहचर्यविशेषत्वादित्याह—“यत्र धूम” इति । गत्यन्तराभावादुपसंहरति—“न चेति ।” शङ्कते—“लोक” इति । निराकरोति—“नास्तीति ।” यत्र तावत् पर्वतनितम्बवर्तिनी धूमलेखा सन्ततमुद्गच्छन्ती दृश्यते, तत्रासौ देश एव तद्विशिष्टोऽनुमीयते इति लोकप्रसिद्धमेवेति किमत्र वक्तव्यम् । यत्र तु भूयिष्ठतया तस्य धूमस्य दूरत्वेन देशो न दृश्यते, धूम एव त्वभ्रंलिहो लिम्पन्निवाभ्रमण्डलमवलोक्यते707 तत्र देशानुमानप्रयासालसतया दृश्यमानो धूमविशेष एवाग्निमत्तया साध्यते धूमत्वैकार्थसमवायिभिः तद्गतैः सन्तत्यूर्ध्वगमनादिभिरित्याह—“धूमविशेषेणेति ।” विशिष्यतेऽनेनेति विशेषः सन्तत्यूद्र्ध्वगमनादिः । तेन धूममात्राद् वह्निव्यभिचारिणो वह्न्यविनाभावी धूमो विशेष्यत इत्यर्थः । शेषमतिरोहितार्थम् ।
“शेषवन्नाम परिशेषः ।” द्रव्यत्वकर्मत्वयोः शब्दे निराकार्यत्वेन उपयुक्तत्वात् ताभ्यामन्यद् गुणत्वं शेषः । स यस्यास्त्यनुमानस्य प्रतिपाद्यतया, तच्छेषवत् । तत्र “न द्रव्यं” शब्दः “एक द्रव्यत्वात् ।” द्विविधमेव हि द्रव्यम्, अद्रव्यमनेकद्रव्यं च । अद्रव्यं परमाण्वादि, अनेकद्रव्यं च घटादि । शब्दस्त्वेकद्रव्यः । तस्मात् न द्रव्यं रूपादिवत् । “न कर्म, शब्दान्तरहेतुत्वादिति ।” तदेतद् “भाष्य”माक्षिपति—“न कर्मेति ।” परिहरति“नेति ।” अन्यमस्यार्थं दर्शयति—“समानजातीयारम्भकत्वादिति ।” यत् समानजातीयारम्भकं न तत् कर्म, यथा रूपादय इति । कार्यत्वात् तावत् शब्दः समवायिकारणवान् । तत्र च पृथिव्यादिनिषेधात् नभोऽस्य समवायिकारणम् । न चैष नभोव्यापकः सर्वत्र उपलम्भप्रसङ्गात् । तस्मादव्यापकः । कर्णशष्कुल्युपसन्निहितं708 च नभः श्रोत्रम् । ताल्वादिसंयोगोपधानेन च नभःप्रदेशे शब्दः समवेतः । प्राप्यकारि च श्रोत्रम् । न च वक्तृवक्त्रावरुद्धं नभःप्रदेशं तत् प्राप्नोति । न चाद्रव्यं शब्दो गत्वा श्रोत्रेण सम्बध्यते । तस्माद् वीचीतरङ्गरीत्या स्वदेशानन्तरदेशे शब्दान्तरारम्भणपरम्परया श्रोत्रदेशोत्पन्नं शब्दं गृह्णातीति सिद्धं सजातीयारम्भकत्वादिति । इदं तु परिशेषस्य उदाहरणं नादरणीयम् । व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति । एष पुनरन्वयव्यतिरेकी द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वाद्, विपक्षे सामान्यादावभावात्709 । तस्माद् आत्मतन्त्रतासाधनमिच्छादीनां परिशेषोदाहरणं द्रष्टव्यम् । तच्चानन्तरमेव वक्ष्यतीति ।
“सामान्यतोदृष्टं नामेत्यादि भाष्यम्” अनुभाष्याक्षिपति—“सामान्यत इति । कथं तर्हि अनुमानमत्र प्रवर्तते” इति । नित्यपरोक्षेण सह कस्यचित् लिङ्गस्य सम्बन्धादर्शनादित्यर्थः । “व्याहतं चेति ।” स खल्वत्यन्तापरिदृष्टः स्वरूपतो वा साध्येत, दृष्टधर्मिविशेषणतया वा ? तत्र पूर्वस्मिन् कल्पे नानुपलब्ध इति व्याघातः । उत्तरस्मिन् सन्दिग्ध इति, विशेषस्मृत्यपेक्षो हि संशयो नात्यन्तानुपलब्धपूर्वधर्मवत्तया710 क्वचिद् भवितुमर्हति । न खलु सप्तमरसवत्तया केचिद् द्रव्ये संशेरत711 इति भावः । समाधत्ते—“न विशेषणभूतस्येति” न तावत् स्वरूपेणानुमीयते येन नानुपलब्ध इति व्याहन्येत, किं तु दृष्टस्य धर्मिणो विशेषणतया । न चैवं सर्वानुमानाविशेषः । साध्यधर्मिण्यस्यास्मदादिभिः कदाचिदपि प्रत्यक्षेणानुपलम्भात् । तज्जातीयेन तु दृष्टान्तधर्मिणि दृष्टेन प्रत्यक्षतो वा मानान्तराद् वा साधनधर्मस्य स्वाभाविकप्रतिबन्धग्रहसम्भवादित्यर्थः । उदाहरणमाह—“यथेच्छादिभिरात्मा ।” तदेव विभजते— “इच्छादयः खलु धर्मिणो भवन्ति” मानसप्रत्यक्षदृष्टाः, तेषाम् “आत्मा विशेषणम्” कुतः ? गुणभूतोऽवच्छेदकतया यतः, तस्मादात्मविशिष्टा इच्छादयः साध्या इत्युक्तं भवति । साधनधर्मं तद्वर्तिनं दर्शयति—“इच्छादीनां गुणत्वमिति ।” ननूक्तमनुपलब्धचरेण साध्यधर्मेण न सन्देहविषयत्वम्, अनुपलब्धचरश्चात्मेति कथं तद्विशिष्टा इच्छादयो न्यायविषया इति शङ्कामुरीकृत्य प्रयोगं सूचयति—“परतन्त्रा” इति । मा तत्र सैत्सीदात्मपारतन्त्र्यम्,712 पारतन्त्र्यमात्रं तु सिद्धमित्यर्थः । तेन सामान्यतोदृष्टस्य पारतन्त्र्यमात्रविषयता, न पारतन्त्र्यमिच्छादीनाम् अनुमेयात्मवादिनां कदाचिदप्यस्मदादिप्रत्यक्षगोचरः परस्य तदाश्रयस्य नित्यपरोक्षत्वादिति । तदेवं सामान्यतोदृष्टमुदाहृत्य परिशेषोदाहरणं पारमार्थिकं प्रश्नपूर्वकमादर्शयति—“पारतन्त्र्येति ।” इच्छादीनां हि बाधकैरपनीते द्रव्याष्टकगुणत्वे गुणत्वमेव व्यतिरेकी हेतुरात्मपारतन्त्र्ये प्रमाणम् । यद्यपि चायं स्वरूपेणात्मा न प्रसिद्धः, तथापि द्रव्याष्टकव्यतिरेकादिशब्दैरदूरविप्रकर्षेण परामृष्टः, शक्नोति विशेष्टुं धर्मिणि च न्यायप्रवृत्त्यङ्गं संशयमापादयितुमिति निरवद्यम् ।
अत्र “भाष्यं विभागवचनादेव त्रिविधमिति सिद्ध” इति । तस्यार्थः, त्रिविधमिति विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानं “सूत्रेणेति ।” तत्र समाधानं “त्रिविधवचनं” त्रिविधस्य पूर्ववदादेर्वचनमुक्तिः । “महतः” त्रिविधस्य “महाविषयस्य” अतीतानागतवर्तमानविषयस्य “लघीयसा सूत्रेण” तत्पूर्वकमित्येतावतै“वोपदेशे परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः” 713 “सूत्रकारस्येति” शिष्यान् व्युत्पादयिषोः । अत्रैव714 निदर्शनम् “तथा चायम् ।” अस्य समाचारः—“इत्थं भूतेन वाक्यविकल्पेन” वैचित्र्येण “प्रवृत्त” इति योजना ।
एवं तावत् लक्षणभेदादनुमानं भिन्नं प्रत्यक्षाद् दर्शितम् । “भाष्यकारस्तु” विषयभेदादपि भेदमाह—“सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् ।” चो विषयभेदं समुच्चिनोति । सदिति वर्तमानम् । असदित्यतीतानागते । प्रत्यक्षं हि लौकिकं वर्तमानविषयमेव । अनुमानं तु त्रैकाल्यविषयम् । यद्यपि प्रत्यक्षमप्यतीतानागतयोः सम्प्रति निषेध्ययोर्निषेधे प्रवर्तमानमसद्विषयं तथापि न प्रतिषेध्ययोः प्रवर्तते इत्येतावता सद्विषयमुक्तम् । अनुमानं तु तयोरपि प्रवर्तते इत्येतावता असद्विषयमुक्तम् । तदेतदाक्षिपति—“सद्विषयं चेति । न ह्यनुपलब्धसामान्ये” इति सामान्यत उपलब्धो विशेषतश्चानिर्णीतो धर्मो न्यायप्रवृत्तावधिक्रियते । न त्वनुपलब्धसामान्य इत्यर्थः । न चासतः स्वतन्त्रस्य सामान्येन715 दर्शनमस्तीति । द्वितीयं कल्पमाशङ्कते—“अथेति ।” एतद्दूषयितुं धर्मत्रैविध्यमाह—“धर्मा इति ।” तद्विभजते— “तत्रेति ।” पृच्छति—“कथं पुनरिति ।” यदि हि स्वतन्त्रः समवायः, न तर्हि कस्यचिद् विशेषणम् । तथा च न विशेषणतया गृह्येतेति भावः । उत्तरम्—“समवायान्तराभावात् ।” न विशेषणत्वं स्वातन्त्र्येण निराकुर्मः, किं तु वृत्तिमस्येत्यर्थः । कस्मात् पुनरस्य न समवायान्तरमभ्युपेयत इत्यत आह—“अथेति ।” पृच्छति—“किमिदमिति ।” अनवस्थाप्रसङ्गो हि नाम तर्कः । नैष प्रमाणमन्तेरण निर्णयाय पर्याप्त इत्यर्थः । उत्तरम्—“न सन्देहः,” किं त्वस्त्येव न्यायः । तमाह—“पञ्चेति ।” अयं पञ्चपदार्थवृत्तिशब्दो बहुव्रीहिणा परमाणौ वर्तते, षष्ठीसमासेन तु समवाये । न च कथञ्चित् शब्दाभेदमात्रमनुमानाङ्गम्, मा भूद् गोशब्दसाम्येन वागादीनामपि विषाणित्वमित्यपरितोषात् न्यायान्तरमाह— “अनाश्रितः समवाय” इति । इह बुद्धिनिमित्तत्वं कारणत्वम् । संयोगेनानैकान्तो मा भूदित्यत उक्तम्—“व्यापकत्वे सतीति ।” सत्युपलब्धिकारणान्तरसमवधाने714 सर्वत्रोपलभ्यता व्यापकत्वम् । तच्चेह प्रत्ययकारणे आत्मनि716 च समवाये चावि लक्षणमिति । न्यायेतिकर्तव्यताभूतं717 तर्कं पृच्छति—“यदि पुनरिति ।” उत्तरम्— “कार्यमिति ।” उक्तमनवस्थाप्रसङ्गमवतारयितुमनाधारत्वप्रसङ्ग उक्तः ।
स्यादेतत् । भवतु वृत्तेः प्रागनाश्रितं कार्यं पश्चात् समवैष्यति, तुरीसंयुक्तेभ्य इव तन्तुभ्य उत्पद्य पटः पश्चात् तुर्या इत्यत आह—“समवायश्चेति ।” अनवस्थाप्रसङ्गः पूर्वोक्त इत्यर्थः । शङ्कते—“प्राप्तित्वादिति ।” प्रमाणवत्त्वात्718 प्राप्तसमवायस्य वृत्तिर्न शक्या अनवस्थाभिया परित्यक्तुमित्यर्थः । विमर्शपूर्वकं शङ्कां निराकरोति— “किमियमिति ।” संयोगे प्राप्तित्वस्य निवृत्त्या स्वाभाविकः सम्बन्धः कार्यत्वस्योपाधेः तत्प्रयोजकस्य विद्यमानत्वादित्यर्थः । अथ प्राप्तिधर्मोऽपि कस्मात् न भवतीत्यत आह—“यदि पुनरियमिति ।” न न्वियमनवस्था कस्माद् बीजाङ्कुरादिष्विवेहापि नाभ्युपेयते इत्यत आह—“न चैनामनवस्थामिति ।” अनिदम्प्रथमेष्वनादित्वात् शक्या प्रतिपादयितुमनवस्था प्रमाणेन, न त्विदम्प्रथमेष्वादिमत्त्वेन तस्याशक्यनिश्चयत्वात् । तदिदमुक्तम्—“प्रमाणाभावादिति ।” शास्त्रविरोधश्च समवायान्तराभ्युपगम इत्याह—“समवायश्चेति । तत्त्व”मेकत्वं समवायस्य “भावेन” सत्त्वया “व्याख्यातमिति” शास्त्रमाह, तदनकेत्वमुपपादयता बाध्येतेत्यर्थः । चोदयति—“सम्बन्धिनिवृत्ताविति ।” तथा च विनश्यति, विनष्टे च तस्मिन् यो दृश्यते स ततोऽन्य उत्पन्न इति सिद्धं समवायस्य नानात्वमित्यर्थः719 । परिहरति—“न नास्तीति ।” ख्यातिरुपलब्धिः । कस्मात् ? “अकृतकत्वात् ।” अकृतकत्वमेव कुत इत्यत आह—“अकृतक” इति । कार्यं स्वोपादानेनाकृतकसम्बन्धवद् आधारवत्त्वादिति व्यतिरेकी हेतुः । व्यतिरेकाव्यभिचारमाह—“यद्ययमिति ।” उत्पद्यमानः खल्वयं समवायः सह कार्येण न कार्यस्य । न हि सहोत्पन्नौ रूपस्पर्शौ मिथः सम्बध्येते । एकार्थसमवायस्तु तयोः । सोऽपि समवाये नास्ति । सन्नप्यसौ न कार्यमाधारवत् करोति । तस्मात् सहोत्पादे कार्यमनाधारं स्यादिति । शङ्कते—“अथेति ।” कार्यात् पूर्वमुत्पन्नः समवायः पश्चादुत्पद्यमानं कार्यमुपादानाधारकं करिष्यति कार्यहेतुबलादित्यर्थः । निराकरोति—“तथापीति ।” त्रिभ्यो हि कारणेभ्यः कार्यं भावरूपं जायते । कार्यकारणसमवायस्य च कार्यकारणे समवायिकारणे वक्तव्ये, कार्यात् प्राग् जातस्य च समवायस्य न कार्यं कारणम् । न च निमित्तकारणमात्रादस्य जन्मेति साम्प्रतम्, भावोत्पादस्य सर्वत्र कारणत्रयपूर्वकत्वनियमात् । तस्मात् समवायस्य समवाय्यसमवायिकारणाभावात् न कार्यात् प्राग् उत्पाद इति सुष्ठूक्तम्—“तथापि कस्येति वाच्यमिति ।” शङ्कते—“अथेति ।” दूषयति—“कार्येति ।” न च पटतुरीसंयोगवत् समवायस्य पश्चात् कार्यकारणसमवाय इति युक्तम् । संयोगजस्य संयोगस्य कारणत्रयसम्भवाद् अस्य तु समवायान्तरमन्तरेण कारणत्रयायोगात् । अन्यथानवस्थाप्रसङ्गादिति720 भावः । उपसंहरति—“तस्मादिति ।” ततश्च न ज्ञायते किमभिप्रेत्यासद्विषयमित्युक्तमित्याक्षेप इति । समाधत्ते—“तत्र प्रतिषिध्यमानेति ।” अतीतानागते सम्प्रति प्रतिषिध्यमाने तद्विषयमनुमानम् असद्विषयमुक्तम् । तन्निषेधस्तु भवतु प्रत्यक्षगोचरः, तथापि सिद्धो विषयभेद इत्यर्थः । अत्र चैष धर्मत्रैविध्यक्रमो द्वेधा तावत्, विधीयमानः प्रतिषिध्यमानश्च । विधीयमानोऽपि721 द्वेधा, परतन्त्रः स्वतन्त्रश्चेति । स्वतन्त्रस्य च धर्मत्वं विशेषणत्वमात्रविवक्षया द्रष्टव्यम् । ननु विधीयमानोऽप्यसन् प्रत्यक्षश्च क्वचित् । यथा व्याप्रियमाणे कुलाले जायमानो घटः । विस्फारिताक्षो हि तदा घटो भवतीति प्रत्येति । न चासौ तदा सन्, सतो भवनं प्रत्यकर्तृकत्वात्, गमनवदिति शङ्कते—“भवतीति ।” निराकरोति—“न, जायमानेति ।” जायमानस्यार्थस्य विधिविषयस्य सत्तयासत्तया वानभ्युपगमात् । निषेधविषयतया तु तस्यासत्त्वमभ्युपेयत एवेति । कस्तर्हि भवतिशब्दस्यार्थ इत्यत आह—“भवतीति ।” घटो जायत इति तु लौकिकः प्रयोगो घटशब्दं घटार्थेषु तावदवयवेषूपचर्य तेषां च सिद्धतया कर्तृत्वादुपपादनीय इति । उपसंहरति—“एवं तावदिति ।”
स्वलक्षणं समाधाय परेषामनुमानलक्षणं दूषयितुमुपन्यस्यति—“अपरे त्विति,” तस्यार्थमाह—“अस्यार्थ” इति । दूषयति—“अत्रेति ।” यथासम्भवं समासं विकल्प्य दूषयति—“नान्तरीयकार्थ इति चेति ।” सत्त्वं विधिविषयज्ञानगम्यत्वम्,722 न तु सामान्यम् । सत्त्वादिभिरनित्यत्त्वानान्तरीयकैस्तन्नान्तरीयककृतकत्वधर्मैरनित्यत्वानुमानं723 स्यात्, न च शक्यम्, तेषामाकाशादिषु नित्येषु व्यभिचारादित्यर्थः । “तथाप्यसमर्थः समास” इति । पूर्वमर्थातिरेकमात्रं दूषणमुक्तम् । सम्प्रति त्वर्थातिरेकेण हेतुना विशेषणसमासानुपपत्तिरित्यपौनरुक्त्यम् । विशेषणं विशेष्येण बहुलम् [पा। २। १। ५७] इत्यत्र विशेषणपदोपादानमात्रेण वा विशेष्यपदोपादानमात्रेण वा अन्यतरस्यार्थात् प्राप्तेरुभयपदोपादानस्यैतत् प्रयोजनम्—यत्रोभयोः प्रत्येकं व्यभिचारः समुदाये त्वव्यभिचारः, तत्र समासो यथा स्यादिति । स चात्र नास्तीति समासानुपपत्तिरित्यर्थः । सामर्थ्यं प्रयोजनाभिसम्बन्धः । चोदयति—“एकपदेति ।” परिहरति—“अत्रापीति ।” प्रधानं व्यक्तिर्विशेष्यत्वात् । अङ्गं जातिर्विशेषणत्वात् । पृथिवीत्युक्ते भवति संशयः, किं पृथिवीत्वं सामान्यमस्य विवक्षितं यथा पशुना यजेतेति किं वा तद्विशेष्यं द्रव्यम्, ग्रहं सम्मार्ष्टीति । अत्रेदमुपतिष्ठते—“द्रव्यमिति ।” तद्धि पृथिवीत्वात् सामान्यविशेषात् पृथिवीं व्यवच्छिनत्ति । एवं द्रव्यमित्यप्युक्ते द्रव्यत्वं वा सामान्यं व्यक्तिर्वेति विमर्शे पृथिवीत्येतदुपतिष्ठते । न द्रव्यत्वं सामान्यं किं तु पृथिवी । न च द्रव्यत्वपृथिवीत्वयोः सामानाधिकरण्यमस्ति । न हि भवति पृथिवीत्वं द्रव्यत्वमिति । तस्मात् सामानाधिकरण्यसम्भवात् प्रधानैकव्यक्तिलाभः । इह त्वर्थो नान्तरीयकत्वं व्यभिचरति । नान्तरीयकत्वं तु नार्थम् । न ह्यस्ति सम्भवो नान्तरीयकश्च स्यात् न चार्थ इति, नान्तरीयकशब्दवाच्यस्यानभिधेयत्वासम्भवात् । वस्तुवचनत्वेऽप्यर्थशब्दस्य लक्ष्यासम्भवाद् अविषयं लक्षणम् । न हि “दिग्नाग”स्य724 मते किञ्चिदस्ति वस्तु यन्नान्तरीयकं सद्धेतुर्भवति । यथाह—
सर्वोऽयमनुमानानुमेयभावो बुद्ध्यारूढेन धर्मधर्मिभावेन न बहिः सदसत्त्वमपेक्षते इति ।
अव्यापकं च, न हि वस्त्वेव नान्तरीयकमसतोऽपि नान्तरीयकत्वादिति भावः । दूषणान्तरमाह—“तद्विद इति चेति ।” नान्तरीयकदर्शनमित्युच्यमाने शब्दसामर्थ्यादेव लभ्यते नान्तरीयकत्वविशिष्टार्थदर्शनमिति, सति सम्भवे शब्दार्थपरित्यागाभावात् । अतस्त्रिरूपलिङ्गदर्शनस्य725 सिद्धेः किमपरमवशिष्यते यदवरोधाय726 तद्विद इत्युपादीयत इत्यर्थः । एतदेव व्यतिरेकमुखेन निरूपयति—“न हीति ।” एतल्लक्षणदूषणं लक्षणान्तरेऽप्यतिदिशति—“एतेनेति ।” पृच्छति—“क” इति । न ह्यस्मिन् लक्षणे तद्विद इत्यस्ति, येन तदतिरिच्यते इति भावः । उत्तरम्—“यथेति ।” तेषामुदाहरणं दूषयति—“उदाहरणमिति ।” तदनेन “दिग्नाग”स्य लक्षणं दूषयित्वा अन्येषां लक्षणं दूषितम् ।
सम्प्रति “दिग्नाग”स्य स्वकीयलक्षणप्रपञ्चार्थं वाक्यम् “अनुमेयेऽथ तत्तुल्य” इत्याद्युपन्यस्य दूषयति—“अपरे त्विति ।” अनन्तरलक्षणकारमपेक्ष्यापर इत्युक्तम् । चोदयति—“अनुमेय” इति । न हि योऽनुमेये संश्चासंश्च स शक्यः सन्निति वक्तुमित्यर्थः । समाधत्ते—“नाप्रसङ्ग” इति । यद्येवं स्याद् यो विपक्षे द्वेधा स विपक्षावृत्तिरिति हेतुरेव स्यात् न सव्यभिचार इत्यर्थः । पुनश्चोदयति—“न कर्त्तव्य” इति । कुतः ? “अवधारणात् निवृत्तेः ।” अनुमेये सद्भाव एवेत्यवधारणेनानुमेये सद्भावस्य727 नियतत्वात्, कुतः पक्षैकदेशवृत्तेः प्रसङ्ग इति भावः । एतन्निराकर्तुं यथासम्भवं विकल्पयति—“अनुमेये” इति । तत्र पूर्वकल्पस्य तात्पर्यं विकल्पयति—किं पुनरनेनेति । असम्भवः अत्यन्तासम्भवो निराक्रियते, यथा नीलं सरोजं भवत्येव नात्यन्तं न भवतीति गम्यते728 । न तु नीलमेव सरोजं नानीलमिति, नापि सरोजमेव नीलं नान्यदिति । “अथ सम्भव” इति । अन्वयपरो न व्यतिरेकपर इत्यर्थः । एतद्विकल्पद्वयं दूषयति—“उभयथा चेति ।” दूषणान्तरं चाह—“न चैकदेशवृत्तिरिति ।” न ह्यत्यन्तायोग व्यवच्छेदेनायोगो व्यवच्छिन्नो भवति, नापि सम्भवमात्रविधानेनासम्भवो व्यवच्छिन्नो भवति । ततश्चायोगाव्यवच्छेदादेकदेशवृत्तिरनुमानाभासो न व्यवच्छिन्न इत्यर्थः ।
स्यादेतत् । विशेष्यसङ्गतोऽयमेवकारोऽनुमेय एव सम्भवति । यथा पार्थ एव धनुर्धर इति । न चायमन्योगव्यवच्छेदो विनैवकारं लभ्यते । तस्मात् न व्यर्थमवधारणमित्यत आह—“उत्तरपदबाधा च ।” न ह्यस्ति सम्भवोऽनुमेय एवास्ति तत्तुल्ये729 चेति । तस्मात् तत्तुल्य इत्यस्य बाधा । चकारो नैकदेशवृत्तिर्निराकृत इति दूषणं समुच्चिनोति ।
अनुमेय एव सद्भाव इति पक्षं यथासम्भवं दूषयित्वा अनुमेये सद्भाव एवेति द्वितीयं पक्षं दूषयितुमुपन्यस्यति—“अथोत्तरमिति ।” तस्य प्रयोजनं दर्शयति—“तस्य व्याप्तिरर्थः ।” सद्भाव एवेति किल विशेषणसङ्गतमवधाऋअणमयोगम् अव्याप्तिं व्यवच्छिन्दत् व्याप्तिं दर्शयति । तथा च व्याप्तिरस्यार्थ इत्यर्थः । दूषयति—“तथाप्यनुमेयमवधारितं” सम्भवस्य “व्याप्त्या न धर्मः” सद्भावः । हेतुमाह—“यत एवकारकरणं ततोऽन्यत्रावधारणमिति ।” मा वधारि सद्भावोऽवधार्यतां चानुमेयम् । किमेतावतापीत्यत आह—“सम्भवव्याप्त्या चेति ।” अनुमेयं खल्ववधारितं सद्धेतुसम्भवं परित्यज्य नान्यत्र वर्तते, ततश्चानुमेयं हेतुसम्भवव्याप्त्यावधारितं भवति, हेतुसम्भवस्त्वनवधारितः सर्वत्रैव तत्तुल्ये च विपक्षे च प्रसृतः । स च कश्चित् तत्तुल्यविपक्षौ व्याप्नोति, कश्चित् तदेकदेशवृत्तिः । तदस्य हेतुसम्भवस्य विपक्षेऽपि प्रसक्तस्य प्रतिषेधाय युक्तमसति नास्तीति । तत्तुल्ये तु प्रसक्तमप्रतिषिद्धमनुमतमेवेति तत्तुल्ये सद्भाव इति व्यर्थमित्यर्थः ।
स्यादेतत् । तुल्ये हेतुसद्भावसिद्धावपि तत्तुल्ये व्याप्त्या हेतोः सद्भावो भवत्वित्येतदर्थं तत्तुल्ये सद्भाव इति वचनमित्यत आह—“तत्तुल्ये चेति ।” यदि पुनर्व्याप्तिर्विवक्ष्येत कृतकत्वे साध्ये प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । न ह्ययं सपक्षव्यापक इति भावः । देशयति—“अथ तत्तुल्ये” इति । दूषयितुं विकल्पयति—“किं पुनरत्रेति ।” पूर्वस्य विरोधाद् बाधनम्, उत्तरस्य पौनरुक्त्यादिति । पूर्वपदेन सह विरोधे निदर्शनमाह—“न हि भवतीति ।” अनुमेये सद्भाव इत्यनेनानुमेये वृत्तौ हेतोर्लब्धायां तत्तुल्य एव सद्भाव इति समुच्चीयमानावधारणं विपक्षमात्राद् वृत्तिं व्यवच्छिनत्ति, न त्वनुमेयात् ।
नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयाम्बभूव इति यथेति चेद् अत आह—“तथेहापीति ।” समुच्चीयमानावधारणे हि तत्तुल्येन यथान्योगव्यवच्छेदेनैवकारः सम्बध्यते तथानुमेयेनापि सम्बध्येत । तथा चानुमेयैकदेशनिवृत्तिरपि हेतुः स्यात् । न खलु नरं च नारायणमेवेति निपातो नारायणेन सहान्ययोगव्यच्छेदेन सम्बध्यते, नरेण चायोगव्यवच्छेदेनेति भावः । अथावधारणस्यावैचित्र्येण सम्बन्धमिच्छतानुमेये यथायोगव्यवच्छेदः, तथा तत्तुल्येऽयोगव्यवच्छेदेन सम्बन्ध उच्येतेति शङ्कते—“अथ तत्तुल्य” इति । निराकरोति—“तत्तुल्य” इति । एतदेव विस्फारयति—“य”730 इति । “ते” तव दर्शने इत्यर्थः । न च यस्यानुमेये सद्भाव एवेत्यनूद्य तस्य तत्तुल्य एव सत्त्वमिति विधातुं शक्यम् । न ह्यनूद्यमानं शक्यं विशेष्टुम्, तथा सति तद्विशेषणाय प्रयत्नान्तरास्थाने सति वाक्यभेदप्रसङ्गात् । यथा
यस्योभयं हविरार्त्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेत् । इत्यत्र हि यद्यपि स्वरूपेणार्तेरशक्यप्रतिपत्तित्वेन हविषा विशेषणं मृग्यते, तथापि न शक्यं हविरुभयत्वेन विशेष्टुं विना प्रयत्नान्तरादिति731 वाक्यभेदभिया प्रतीयमानमप्युभयत्वम् अविवक्षितम्, एवमत्राप्यनुमेय इत्यविवक्षितम् । अथ तद्विवक्षयैव वाक्यभेदमभ्युपेत्य पश्चाद् वाक्यैकवाक्यतया अभिमतार्थसिद्धिरास्थीयते । न च विरोधाद् वाक्ययोरेकवाक्यताविरहः । तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वेनाप्युपपत्तौ विरोधासिद्धेः । तस्मात् अन्यापोहार्थत्वात् पदानां विरोधो वक्तव्यः । तथा हि अनुमेये सद्भाव इत्यत्रानुमेय एव नाननुमेये, सद्भाव एव नासद्भाव इति पदार्थः । तथा च तत्तुल्यविपक्षयोर्हेत्वभावो दर्शितः । एवं तत्तुल्ये सद्भाव इत्यत्रापि तत्तुल्य एव नातत्तुल्ये । सद्भाव एव नासद्भाव इति पदार्थः । तथा चानुमेयेऽसद्भाव इत्युक्तं भवति न चानुमेयम् । तत्तुल्यपदार्थयोः परस्परपरिहारवतोः समुच्चयसम्भवः । द्वयोरपि विपक्षव्यावृत्तिमात्रपरत्वात् परस्परसमुच्चयसद्भाव इति चेत्—न, वृक्षो गौरित्यनयोरपि हस्त्यादिनिवृत्तिमात्रपरत्वेनाभिन्नार्थयोः सामानाधिकरण्यप्रसङ्गात्, तस्माद् विरोधात् समुच्चीयमानावधारणं न युक्तमिति । न च समुच्चीयमानावधारणं “दिग्नागो” मेने, यदेवमूचे “वैशेषिक”लक्षणदूषणावसरे—
यदि रूपमेव चाक्षुषं ततो न द्रव्यं चाक्षुषं स्यात् । तथा च महदनेकद्रव्यसमवायाद् रूपाच्चोपलब्धिः [वै। सू। ८। १। ६] इति द्रव्यचाक्षुषत्वाभिधानं व्याहन्येतेति ।
अत्र हि732 रूपवद्द्रव्यसहितं रूपमेव चाक्षुषं न गन्धरसादीति शक्यं समुच्चीयमानावधारणम् । तस्मात् समुच्चीयमानावधारणाभिधानं “कीर्तेः” स्वातन्त्र्येण । तच्चायुक्तमिति कृतं विस्तरेण ॥
असति नास्तितेति दूषयति—“असतीति ।” कस्मात् ? यदसत् तत्तुच्छं स्वयमेव नास्ति, तन्न सदिति शक्यं व्यवहर्तुम् असदिति वा । भवतु, तथापि कस्मात् तस्मान्न हेतोः व्यावृत्तिर्भवतीत्यत आह—“न ह्यसदिति ।” यथा चैतत् तथा अन्वयिहेतूपपादनावसरेऽ“स्माभि”रुक्तम्733 । स्वरूपेण दूषयित्वा एतद्गतमवधारणं दूषयिष्यन्ननूद्य विकल्पयति—“किमवधार्यत” इति । प्रथमं कल्पं दूषयति—“यदि तावदिति ।” तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः । द्वितीयं कल्पं दूषयति—“अथ पुनरिति ।” गौरयं विषाणीत्वादित्ययं हेतुर्विपक्ष एव नास्ति, पक्षसपक्षव्यापकत्वात् । न तु नास्त्येव, विपक्षैकदेशे महिषादौ वृत्तेः । अतो विपक्ष एव नास्ति इत्ययमपि हेतुः स्यादिति । तदेवमवयवार्थं दूषयित्वा समुदायार्थं दूषयितुमुपन्यस्यति—“यदप्येकद्विपदपर्युदासेनेति ।” तत्रैकपदपर्युदासेन त्रयः पक्षाः, द्विपदपर्युदासेनापि त्रय इति षट्कम् । तत्पर्युदासेन सप्तिकापरिग्रहः । यथानुमेये सद्भाव इत्युच्यमाने यस्य734 तत्तुल्ये नास्तिता विपक्षे च वृत्तिः सोऽपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वादिति । तत्तुल्येऽस्तीत्युच्यमाने विपक्षवृत्तेरपक्षधर्मस्य च हेतुत्वं स्यात्, यथा नित्यः शब्दः चाक्षुषत्वात् सामान्यवदिति । नास्तिता सतीत्युच्यमाने योऽपक्षधर्मस्तत्तुल्ये च नास्ति स हेतुः स्यात् यथा नित्यः शब्दोऽसत्त्वात् । अनुमेये तत्तुल्ये चेत्युच्यमाने, अनित्यः शब्दः प्रमेयत्वादिति विपक्षवृत्तिर्हेतुः स्यात् । अनुमेयेऽस्त्यसति च नास्तीत्येतावत्युच्यमाने735 नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं तत्तुल्यवृत्तिहीनोऽपि736 हेतुः स्यात् । तत्तुल्येऽस्ति, असति च नास्तीत्येतावत्युच्यमाने अनित्याः परमाणवः कृतकत्वादित्ययमपक्षधर्मोहेतुः स्यात् । तदेतत्सर्वं मा भूदिति समुदायोपादानप्रयोजनम् । तदेतद् दूषयति—“एतदपीति ।” सपक्षव्याप्त्व्याप्तिभ्यां द्विरूपयुक्तस्यान्वयिनो द्वित्वम् ।
सम्प्रति “साङ्ख्यीय”मनुमानलक्षणं दूषयति—“एतेनेति । सम्बन्धो”ऽविनाभावः साधनस्य साध्येन । तस्मात् “प्रत्यक्षाद्” दृढतरप्रमाणावधारितात् । तथापि यत्राविनाभूते लिङ्गे भवत एकस्मिन् धर्मिणि विरुद्धाव्यभिचारिणी, तयोरपि हेतुत्वं प्रसज्येतेत्यत उक्तम्—“एकस्मादिति । शेषस्य” अनुमेयस्य “सिद्धिः ।” अनुपपन्नत्वमात्रसाम्येनोक्तमेतेन न737 प्रयुक्तमिति । अनुपपत्तिं पृच्छति—“कथमिति ।” यथासम्भवमनुपपत्तिमाह—“न हीति ।” यदि प्रत्यक्षशब्दो ज्ञानवचनः ज्ञानं चैकत्वेन विशिष्यते, तदैतद् दूषणम् । अथ सम्बन्धविशेषणमेकस्मादिति, प्रत्यक्षशब्दश्च ज्ञेये न तु ज्ञाने तदेतदुपन्यस्य दूषयति—“अथ सम्बन्धादिति ।” शङ्कते—“अथेति ।” सम्बन्धस्य प्रत्यक्षतोक्ता पूर्वम्, न त्वनुमानकाल इत्यर्थः । दूषयति—“तथाप्युपलब्धसम्बन्धस्य पूर्वमनुमानकाले चानुपलब्धलिङ्गस्यानुमानं प्रसज्येतेति ।” स्यादेतत् । सम्बध्यते इति व्युत्पत्त्या सम्बन्धो लिङ्गम् । तेनाविनाभूताद्धेतोः प्रत्यक्षादेकस्माद् अनुमेयसिद्धिरिति । तथा च गृहीताविनाभावात् लिङ्गात् सम्प्रति प्रत्यक्षादित्युपपन्नमित्यत आह—“न चान्या गतिरस्ति ।” अत्रापि व्याख्याने एकस्मादिति व्यर्थम् । तथा हि अन्वयव्यतिरेकमात्रसम्पत्तिरविनाभाव इत्युच्यते, सर्वरूपसम्पत्तिर्वा ? तत्र प्रथमे कल्पे मा भूद् विरुद्धाव्यभिचारी, बाधितविषयस्तु हेतुः स्यात् । द्वितीये तु कल्पे न737 सर्वरूपसम्पन्नो हेतुर्विरुद्धाव्यभिचारी सम्भवतीत्येकस्मादित्यतिरिच्यते । तस्मात् सुष्ठूक्तम्—“न चान्या गतिरस्तीति ।” अव्यापकत्वं लक्षणदोषमाह—“रूपेण चेति ।” न तावदनयोः तादात्म्यम् भिन्नेन्द्रियग्राह्यत्वाद् भिन्नबुद्धिबोध्यत्वाच्च । न चातदात्मनोरनयोः सम्बन्धः कश्चिदुपलभ्यते । न च प्रतिक्षणपरिणामवादे कुण्डवदरादीनामपि कश्चिदस्ति सम्बन्ध इत्यपि द्रष्टव्यम् । शङ्कते—“अथेति ।” निराकरोति—“सोऽपीति ।” न हि “साङ्ख्यानां बौद्धानां” वा राद्धान्तेऽस्ति सम्बन्धः समवायो नाम । नापि तदाश्रयो द्रव्यम् । अतः स्वदर्शनव्याघात इत्यर्थः । यद्युच्येत प्राधानिकत्वाद् रूपादीनां प्रधानमेकमाश्रयः, तथा च यत्र रूपं तत्र स्पर्श इत्यत आह—“यत्र रूपमिति ।” कुतः ? “न क्वचिदिति ।” न हि प्रधानमाधारः कार्याणाम् अपि तु प्रधानात्मकत्वमेषामिष्यते, तथा च यत्र तत्रेत्यनुपपत्तिः । न च तादात्म्यमित्यप्युक्तम् । न च भेदाभेदावेकत्र सम्भवतो विरोधादिति भावः । शङ्कते—“परस्परेति ।” यथा ह्यासन्दिकाङ्गानि भिन्नान्यनौत्तराधर्यव्यवस्थितान्यपि परस्पराश्रयतया न पतन्ति, एवं रूपस्पर्शावपि परस्पराश्रयावित्यर्थः । निराकरोति—“परस्पराधारभावेऽ”प्यन्यत्रासन्दिकाङ्गादौ, नासौ रूपस्पर्शयोः । कुतः ? “न रूपं स्पर्शे न च स्पर्शो रूपे इति ।” परस्परसंयोगभेदप्रतिबद्धगुरुत्वानि738 आसन्दिकाङ्गानि अपतन्ति739 स्थितानि परस्पराधारत्वेनापदिश्यन्ते । रूपस्पर्शादीनां तु स्थितिर्न परस्परहेतुका, अपि तु भोगापवर्गलक्षणपुरुषार्थहेतुकेति भावः । एतेन “साङ्ख्यानां” सप्तविधः सम्बन्धः प्रत्युक्तः । शेषं सुबोधम् ॥ ५ ॥
प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ १ । १ । ६ ॥
विभागसूत्रे अनुमानानन्तरमुपमानस्योद्देशाद् यथोद्देशं च लक्षणादनुमानलक्षणानन्तरमुपमानलक्षणमाह—“अथोपमानमिति भाष्यम् । सूत्रं” पठति—“प्रसिद्ध साधर्म्यात् साध्यसाधनमुपमानम् ।” अत्रापि यत इत्यध्याहार्यम् । सिद्धिः साधनम् । तदेतद् “भाष्यकारेण” व्याख्यातम् । “प्रज्ञातेन” प्रसिद्धेन । गवा साधर्म्यात् “सामान्याद्” गवयस्य । साधर्म्यं च सामान्यमभिदधता न सामान्यातिरिक्तं सादृश्यं नाम740 पदार्थान्तरमस्तीत्युक्तं भवति । साधर्म्यं चाप्रसिद्धं न साध्यसाधनायालमिति741 साधर्म्यप्रसिद्धिरपि द्रष्टव्या । सा च यथा गौस्तथा गवय इत्याप्तवाक्यात् । तदिदमुक्तम्—“यथा गौरिति ।” साध्यसाधनपदव्याख्यानम्—“प्रज्ञापनीयस्य” गवयशब्दवाच्यतया प्रत्यक्षदृश्यमानगोसादृश्यस्य गवयत्वसामान्यविशेषवतः पिण्डस्य “प्रज्ञापनमुपमानम् ।” पिण्डस्य हि गवयशब्दवाच्यतां पुरुषोऽतिदेशवाक्यस्मरणसहकारिणः प्रत्यक्षाद् गवयगताद् गोसादृश्यात् प्रजानन् तेन प्रज्ञाप्यत इति प्रमाणस्य व्यापारः प्रज्ञापनमुक्तमिति । तत्र “वार्त्तिककारः” प्रथमं तावत् “सूत्र”तात्पर्यमाह—“सूत्रार्थः” पूर्ववत् । समानासमानजातीयव्यवच्छेद इत्यर्थः । साध्यसाधनमित्युच्यमाने प्रत्यक्षादिसाधनेषु742 सुखदुःखसाधनेषु प्रसङ्गः । अत उक्तं “प्रसिद्धसाधर्म्यादिति ।” यद्यपि प्रसिद्धसाधर्म्यमुपमानमित्युच्यमाने प्रमाणविशेषाभिधाय्युपमानपदसामानाधिकरण्यात् करणत्वलाभः,743 तथापि तदाभासनिराकरणाय साध्यसाधनपदोपादानम् । तेनोपमानाभासमपाकृतं भवतीति ।
अवयवार्थं विभजते—“प्रसिद्धेति । वार्त्तिककारेण” बहुव्रीहिद्वयसम्भवो दर्शितः, न तु तृतीयासमासो “भाष्यकारीयो” निरस्तः । “भाष्यकारेण” हि सञ्ज्ञितया गवयप्रतिपत्तिः744 फलं साध्यसाधनपदवाच्यमुक्ता, आक्षिप्तप्रयोज्यव्यापारत्वात् । प्रयोजकव्यापारस्य प्रज्ञापनस्य पश्चात् निष्कृष्याभिधानं कृतम्—“समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ” इति । एतदेव साध्यसाधनपदार्थतया “वार्त्तिककारो” व्याचष्टे—“समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थः” फलम् । साध्यशब्देन745 समाख्यासम्बन्ध उच्यते । तस्य साधनं सिद्धिः प्रतिपत्तिरिति । ननु प्रतिपद्यतामयं गोसादृश्य युक्तं गवयम् । समाख्यासम्बन्धप्रतिपत्तिस्तु कुतस्त्या ? न हि यो यत्सदृशं यं प्रतिपद्यते स तस्य समाख्यामप्यवगच्छतीत्याशयवान् पृच्छति—“किमुक्तं भवति ।” उत्तरम्—“आगमेति ।” आगमानुभवाहितात् संस्कारात् स्मृतिः । एतदुक्तं भवति, न केवलं सारूप्यज्ञानं समाख्यासम्बन्धप्रतिपत्तिहेतुः, अपि त्वागमार्थस्मृत्यपेक्षमिति । नन्वसत्यागमानुभवे कुतः स्मृतिरित्यत आह—“यदा ह्यनेनेति ।” प्रसिद्धसाधर्म्यादित्यत्र प्रसिद्धिरुभयी श्रुतमयी746 प्रत्यक्षमयी च । श्रुतमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासम्बन्धप्रतिपत्तिहेतुः । यद्यपि यथा गौरेवं गवय इत्येतस्मादपि गोसादृश्यस्य गवयशब्दः747 समाख्येति शक्यमवगन्तुम् । न खलु प्रत्यक्ष एव सञ्ज्ञाकर्म, समानजातीयव्यवच्छिन्ने हि तद्भवति । तच्च यदि मानान्तरेणापि तथावगम्यते, कस्तत्र748 सञ्ज्ञाकर्म निवारयेत् ? गोसादृश्येन चोपलक्षितः पिण्डो य इति सर्वनाम्ना पररामृष्टः शक्यो घटादिभ्योऽसमानजातिभ्यो महिषादिभ्यश्च749 समानजातीयेभ्यो व्यवच्छिन्नोऽवगन्तुं गवयः, तथापि यावदयमसौ गवय इति साक्षात् प्रतीते सम्बन्धिनि सञ्ज्ञां न निवेश्यति तावदयं परिप्लुतमतिः प्रमाता कच्चित्750 खलु द्रक्ष्यामि तादृशं पिण्डं यत्र गवयसञ्ज्ञां प्रतिपत्स्य इति प्रमोत्सुक एवोदीक्षते । न चासौ वाक्यमात्रसहायोऽप्रत्यक्षीकृतगोसदृशगवयत्वजातिमत्पिण्डोऽसौ751 गवयाख्य इति प्रतिपत्तुमर्हति । न च वाक्यं विना प्रत्यक्षमात्रात् । तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदम् आगमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ।
ननु यदोदीच्येन क्रमेलकं निन्दतोक्तम्, धिक् करभमतिदीर्घवक्रग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इति752 प्रत्येति, तत् कतमदेतेषु प्रमाणम् ? न तावदुपमानं साधर्म्याभावात् । नापि पञ्चमं प्रमाणमुपगम्यते । यद्युच्येत निन्दापरं वाक्यं करभस्य तादृशत्वे न प्रमाणम् । न ह्यन्यपरात् शब्दादन्यस्यावगम इति । यत्र तर्हि तादृक्त्वे पर्यवस्यति वाक्यं तत्र का गतिः ? अथ तत्रापि तादृक् करभ आगमावगतः प्रत्यक्षेण प्रत्यभिज्ञायते, करभशब्दवाच्यता तु तस्य तत्पूर्वं तादृक्करभपरत्वेऽप्यागमस्य प्रयोगमात्रादवगता अनुमानात् । यो हि यत्र प्रयुज्यते शब्दोऽसति वृत्त्यन्तरे स तस्य वाचकः यथा गोशब्दो गोत्वे । प्रयुक्तश्चायं तादृशि । तस्मात् तस्य वाचक इति । तदिदं प्रागेव प्रयोगानुमितं वाचकत्वमस्य प्रत्यक्षसमये केवलं स्मर्यते इति । समानमेतत्753 उपमानवाक्येऽपि । तत्रापि वाक्यादवगतः साधर्म्यवान् पिण्डः प्रत्यक्षेण प्रत्यभिज्ञायते । प्रयोगानुमितं च गवयपदस्य754 वाचकत्वं स्मर्यते इति न फलान्तरमवशिष्यते यत्रोपमानं प्रमाणमिति755 ।
अत्रोच्यते । न तावदाकाशादिशब्दवदेष गवयशब्दः साक्षात् पिण्डस्य वाचकः, किन्तु गवयत्वं निमित्तीकृत्य पिण्डे वर्तते इति परमार्थः । न च यथा गौरेवं गवय इति वाक्याद् गवयत्वमवगतम्, न ह्यनवगतसम्बन्धं गवयपदमेतदवबोधयति756 । ततस्तदवगमात् तु सम्बन्धवेदने परस्पराश्रयप्रसङ्गः । न च गोसादृश्येनोपलक्ष्यते गवयत्वम् । न खल्वनुपलब्धचरेण गवयत्वेन गोसादृश्यं सम्बद्धं दृष्टम् । न चादृष्टसम्बन्धमुपलक्षकम् । न हि पुरुषेणादृष्टसम्बन्धो दण्डः पुरुषमुपलक्षयितुमर्हति । तस्मात् सम्बन्धिनो757 गवयत्वस्य सर्वथानुपलब्धेः कुतो वाक्याद् वा अनुमानाद् वा वाच्यवाचकसम्बन्धावसायः758 ? कुतस्तरां च सम्बन्धस्मृतिः ? गवयत्वसामान्यविशेषवति तु पिण्डे प्रत्यक्षे युक्तः सम्बन्धावगमः, सम्बन्धिनो गवयत्वस्य प्रत्यक्षत्वात् वाक्यार्थस्य759 च स्मर्यमाणत्वात् । तथापि किं गवयत्वजातिमान् पिण्डो वाच्यः, उत गोसादृश्यवानिति760 कुतो विनिगमनेति चेत् ? वाक्यार्थस्मरणसहकारि गवयत्वजातिमतः पिण्डस्य गोसादृश्यदर्शनमेव तर्कसहायं गवयत्वाभिधाने प्रमाणम् । तर्कश्च गोसादृश्यविशिष्टपिण्डाभिधाने कल्पनागौरवप्रसङ्गः । तथा हि सादृश्यविशिष्ट पिण्डाभिधाने नाप्रतीतं सादृश्यं पिण्डं विशिनष्टीति तत्प्रतिपत्तव्यम् । न च शब्दादन्यतस्तदवगम इति शब्दस्य तत्र वाचकत्वं कल्पनीयम् । न चाविशिष्टं सादृश्यमपि पिण्डविशेषे गवयपदमवस्थापयितुमर्हति, यस्य कस्यचिद् येन केनचित् सह सादृश्यादिति तदपि गवा विशेषणीयम् । न चान्यतो गोत्वस्यापि प्रतिपत्तिरिति तदपि गवयपदेनाभिधातव्यमिति कल्पनागौरवम् । गवयत्वजातिमत्पिण्डाभिधाने तु लाघवमिति तदनुजानाति । साधर्म्यग्रहणं च धर्ममात्रोपलक्षणमिति करभसञ्ज्ञाप्रतीतिफलमप्युपमानमेवेति नाव्याप्तिः । नापि पञ्चमप्रमाणाभ्युपगमः । अत एव बहून्युदाहरणान्युक्त्वाप्याह स्म भगवान् “भाष्यकारः, एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य” इति । तस्मात् सर्वं चतुरस्रम् ।
तदीदृशमुपमानफलमविद्वान् सादृश्यविशिष्टवस्तुज्ञानं चोपमानफलमिति भ्रान्तो “भदन्तो दिग्नाग” आक्षिपति—“प्रत्यक्षेति ।” पृच्छति—“कथमिति ।” उत्तरम्—“यदा ताविति ।” उपलक्षणं चैतत्, उभौ प्रत्यक्षेण पश्यतीति । यदा तु गवयमेकं प्रत्यक्षेण पश्यति, स्मरति च गाम्, तदापि गोसादृश्यं गवयस्थं प्रत्यक्षमेव । गोस्थमप्रत्यक्षम्, अप्रत्यक्षत्वाद् गोरिति चेत् ? हन्त भोः किमभिमतं सादृश्यमायुष्मतो यदप्रत्यक्षायां गवि न प्रत्यक्षम् ? सामान्यबाहुल्यं जात्यन्तरवर्ति जात्यन्तरस्य । यथाहुः,
सामान्यान्येव भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यवृत्ति761 सादृश्यमुच्यते ॥
इति चेत् ? तत् किमिदानीं कर्णत्वादिसामान्यं गोगवयगतकर्णादिभेदेन भिन्नमित्यपि वक्तुमध्यवसितोऽसि ? तस्माद् यथा कालाक्ष्यां गवि गोत्वमीक्षितवतः स्वस्तिमत्यां प्रत्यभिज्ञायमानं तदेवेदमिति, एतदेव च तदित्यवगतं भवति, तथेहापीति न फलातिरेकः । तस्मात् न सादृश्यप्रतीतिफलमुपमानं प्रत्यक्षाद् वाक्याद् वा व्यतिरिच्यत इति सूक्तत् । “भदन्त”भ्रान्तिमुद्धटयति—“गवेति । गवयसत्तां” सादृश्यविशिष्टमित्यर्थः । अर्थतत्त्वमुक्तं स्मारयति—“गवयेति ।” उपसंहरति—“तस्मादिति ।” प्रयोगस्तु, प्रत्यक्षादिभ्यः प्रमाणान्तरमुपमानम्, तज्जन्यप्रमाविलक्षणप्रमाजनकत्वात् । यदि तु न तेभ्यो विलक्षणमभविष्यद् न तद्विलक्षणां प्रमामकरिष्यत्, यथा तान्येव । न चैतत् तथा । तस्मात् तथेति ॥ ६ ॥
आप्तोपदेशः शब्दः ॥ १ । १ । ७ ॥
“अथ शब्द” इति “भाष्यम् ।” उपमानानन्तरं शब्दोद्देशात् उपमानलक्षणानन्तरं शब्दस्य लक्षणमित्यर्थः । लक्षणसूत्रं पठति—“आप्तोपदेशः शब्दः ।” अत्र शब्द इति लक्ष्यपदम् । आप्तोपदेश इति लक्षणम् । उपदिश्यतेऽनेनेति उपदेशो वाक्यज्ञानं वा तदर्थज्ञानं वा अभिधीयते । तत्र वाक्यज्ञानप्रामाण्यपक्षे तदर्थज्ञानं फलम्, पदार्थस्मृत्यादयस्त्वान्तरालिका इतिकर्तव्यताः । तदर्थज्ञानप्रामाण्यपक्षे तु हानादिबुद्धिः फलम् । यद्यपि विधिरुपदेशः प्रवर्तनमित्यनर्थान्तरम्, यद्यपि चायं नियोज्यप्रयोजने प्रवृत्तिनिवृत्ती विदधदाज्ञाध्येषणाभ्यामतिरिच्यते, ते हि नियोक्तृप्रयोजने प्रवृत्तिनिवृत्ती विधत्तः, तथापि भूतार्थपरोपनिषदादिशब्दव्यापकत्वात् परप्रयोजनवद्वचनमात्रविवक्षयोपदेशपदं व्याख्येयम् । यद्यपि सदेव सोम्येदमग्र आसीद् इत्यादि वचनं क्वचित् न प्रवर्तयति, कुतश्चिद् वा न निवर्तयति पुरुषम्, तथापि पुरुषश्रेयोऽभिधत्ते इत्युपदेश इत्युच्यते । तथाप्यतिव्याप्तिः, चैत्यवन्दनादिवाक्यानामप्येवंलक्षणत्वात् । अत उक्तम्—“आप्तेति ।” आप्तानां ऋष्यार्यम्लेच्छानामुपदेशः शब्दो न त्वनाप्तानां मायामोहनिर्मितानां “बुद्धर्षभा”दीनां प्रमाणविरुद्धक्षणिकसर्वधर्मनैरात्म्यवादिनामिति । तदेवाह “वार्त्तिककारः—न शब्दमात्रमिति सूत्रार्थः ॥”
“सूत्र”स्थाप्तलक्षणपरं “भाष्यम्—आप्तः खलु साक्षात्कृतधर्मा ।” सुदृढेन प्रमाणेनावधारिताः साक्षात्कृता धर्माः पदार्था हिताहितप्राप्तिपरिहारप्रयोजना येन स तथोक्तः । तथापि तत्त्वं विद्वान् अकारुणिकतया वा762 अलसतया वा अनुपदिशन्, मत्सरितया वा विपरीतमुपदिशन् नाप्तः स्यादित्यत आह—“यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्तः ।” यथादृष्टस्येति मत्सरितया विपरीतोपदेशो निवारितः । चिख्यापयिषयेति अकृपास्वार्थकामत्वे763 निराकृते । “प्रयुक्तः” उत्पादितप्रयत्नः इत्यलसत्वम् । तथापि स्थानकरणपाटवाभावेन वर्णनिष्पादनासामर्थ्येनाप्तः प्रसज्येत, इत्यत आह—“उपदेष्टा” स्थानकरणपाटववानित्यर्थः ।
आप्त इति प्रकृतिप्रत्ययसमुदायात् प्रकृतिं निष्कृष्य तदर्थमाह—“साक्षात्करणमिति ।” अनेन यथोक्तरूपसम्पदुपलक्षिता764 । प्रत्ययार्थमाह—“तयेति ।” आप्तलक्षणस्य व्यापकत्वमाह—“ऋषीति ।” दर्शनाद् ऋषिः । करतलामलकफलवत्765 साक्षात्कृतत्रैकाल्यवर्त्तिप्रमेयमात्रः, आराद् यातः पातकेभ्य इत्यार्यो मध्यमो लोकः, म्लेच्छः प्रसिद्धः । म्लेच्छा अपि हि परिपथमवस्थिताः766 पान्थानामपहृतसर्वस्वानां मार्गाख्याने हेतुदर्शनशून्या भवन्त्याप्ताः । तदनेन, आप्तिं767 दोषक्षयं विदुः ।
इति परेषामाप्तलक्षणमव्यापकमित्युक्तं भवति ॥
तदेतद् “भाष्यम्” आक्षेप्तुमनुभाषते—“आप्तःखल्विति ।” आक्षिपति—“स्वर्गेति ।” आक्षेप्ता “भाष्यम्” आक्षिप्य “सूत्रं” समाधत्ते—“तस्मादिति768 ।” आप्तः प्राप्तो युक्त इति यावत् । अपौरुषेयो वैदिक उपदेशः स्वर्गापूर्वदेवतादिविषयः स्वतः प्रामाण्ये सिद्धे निर्दोषतया युक्त उपपन्नः । लौकिकश्चार्यम्लेच्छानां प्रमाणान्तरमूलो युक्तः । मानान्तराभावे त्वनाप्तोऽयुक्तः इत्यर्थः । समाधत्ते—“न ब्रूम” इति । पौरुषेयत्वं वेदानां द्वितीयाध्याय769 उपपादयिष्यते । तस्मात् पुरुषस्यैवाप्तस्योपदेशः आप्तोपदेश इति साधु व्याख्यानं “भाष्यकारीय”मिति भावः ।
पृच्छति—“कः पुनरिति ।” अस्ति हि स्वर्गादीनामप्रत्यक्षत्वे न्यायः, योगिप्रत्यक्षं न स्वर्गादिविषयः प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति भावः । उत्तरम्—“ब्रूमो” न्यायम् । तमाह—“सामान्यविशेषवत्त्वात् कस्यचित् प्रत्यक्षा” इति । अत्र यावति पक्षे यो हेतुः सिद्धः, तस्य तन्मात्रं पक्षीकार्यम् । योगजे च प्रत्यक्षे सिद्धे तत्साधकादेव प्रमाणात् तस्य स्वर्गादिविषयत्वमपि सिद्धमिति धर्मिग्राहकप्रमाणविरुद्धं “मीमांसकानाम्” अनुमानं नोदेतुमप्युत्सहते प्रागेव तद् बाधितुम् । असिद्धे तु योगजे प्रत्यक्ष आश्रयासिद्धो हेतुराभासः । “अस्माकं” तु सम्यञ्चो बहवश्च न्याया इति भावः । अनित्यत्वं हेतुमाक्षिपति—“असिद्धमिति ।” परिहरति—“नेति । नित्ये चापूर्व” इति । अत्र त्रयः कल्पाः, किमेकमपूर्वं सर्वपुरुषसाधारणम् आहो असाधारणम् ? यदाप्यसाधारणं तदापि किं प्रतिपुरुषमेकैकमपूर्वम्,770 आहो प्रतिपुरुषमनेकमिति ? तत्र प्रथमं कल्पं दूषयति—“यदि साधारणतेति ।” न हि कदाचिदप्ययमपूर्वं पश्यति लौकिकः पुरुषः । योगिनस्त्वनभिव्यक्तमपि पश्यन्तीति भावः । द्वितीयं कल्पं दूषयति—“एतेन प्रतिपुरुषमिति ।” उत्कर्ष आधिक्यमवयवोपचय इति यावत् । शङ्कते—“व्यञ्जकेति ।” एकमपि व्यञ्जकभेदात् उत्कर्षनिष्कर्षवद् दृष्टम् । तद् यथा महति दर्पणतले महन्मुखम्, तदेव कनीनिकायाम् अण्विति भावः । वक्ष्यमाणेनाभिप्रायेण771 निराकरोति—“न ह्येकमिति ।” शङ्किता स्वाभिप्रायमुद्धाटयति—“ननु चेति ।” स्वाभिप्रायेण निराकरोति—“न दृष्ट इति ब्रूम” इति । शङ्किता पृच्छति—“किं पुनस्तत् यदि न दृष्टम् ?” तत्र यदि भेदेन772 न दृष्टम्, दृष्टिर्नास्ति । किं पुनस्तत्, यद् भेदेन भेददर्शनमिति773 भासते ? समाधाता स्वाभिप्रायमाह—“मिथ्याप्रत्यय” इति । न भेददर्शनमपजानीमहे किं तु पारमार्थिकं भेदम् । न च कल्पितोऽपूर्वभेदः पारमार्थिकाय कार्यायालमिति भावः । उत्कर्षापकर्षकर्तृत्वं वेति कर्मण इति शेषः । तृतीयं कल्पमातिष्ठते—“प्रतिपुरुषमनेक” इति । दूषयति—“अनिवृत्त” इति । “अथोत्तरकालमिति ।” अश्वमेधक्रियया तावत् तदपूर्वं स्वकाल एवाभिव्यक्तं फलादानाभिमुखीकृतम्, अभिव्यञ्जकसमानकालत्वादभिव्यक्तेः, प्रदीपादिषु दर्शनात् । तथापि फलं तावत् न दत्ते, यावत् क्रिया न निवर्तते । निवृत्तायां तु फलं दत्ते इत्यर्थः । दूषयति—“असतीति ।” तत् खलु पूर्वं774 सदपि फलं नाकार्षीत् चरमभाविन्याः क्रियायाः तज्जन्याया वाभिव्यक्तेरनुत्पादात् । उत्पन्नायां तु क्रियायामभिव्यक्तौ वा कस्मात् न करोति ? न हि क्रियाया विनाशस्य कश्चिदुपयोगः775 । तस्मादकामेनापि त्वया असत्या776 एव क्रियाया व्यञ्जकत्वमनुग्राहकत्वं चाङ्गीकर्तव्यम् । तच्चैतदुभयमपि चित्रमित्यर्थः । अपि च सासती चेत् क्रियाभिव्यनक्ति, तथा सति असत्तायाः सर्वत्र सुलभत्वात् न किञ्चिदपूर्वं नाभिव्यक्तमिति, “क्रियाविलोपः” प्रयत्नविलोप इत्यर्थः ।
अत्र शब्दं प्रमाणान्तरमसहमानो “दिग्नागः” तल्लक्षणं विकल्प्याक्षिपति— “आप्तोपदेश” इति । अन्यस्मादन्यस्य निश्चयो न तावदसम्बन्धादतिप्रसङ्गात् । न च शब्दोऽर्थात्मा, नाप्यर्थकार्यः । विनाप्यर्थं पुरुषविवक्षामात्रादेव तदुत्पादात् । तस्मात् न साक्षात् शब्दादर्थनिश्चयः, विवक्षाकार्यतया तु विवक्षां गमयेत् । सा चार्थाभिप्रायपूर्वा । अभिप्रायश्च कश्चिन्मनोमात्रयोनिः, अपरस्तु प्रमाणमूलः । तत्र यः प्रमाणनिश्चितमर्थं विवक्षति, यथाविवक्षं चोच्चारयति स आप्तः । तस्य वचनात् कार्यात् कारणं विवक्षा अनुमीयते । तस्याश्च कारणमर्थज्ञानम् । ततश्चार्थज्ञानस्यार्थकार्यत्वादिति प्रमाणगतिः । तत्राप्तोपदेश इत्यत्रोपदेशक्रियया उपदेष्टार उपस्थापिताः । ते च प्रायेण विसंवादका दृष्टा इत्याप्तग्रहणेन तेषामविसंवादित्वम् । ततश्च उपदेशादर्थविनिश्चयो भवत्वित्येतदर्थं यद्युच्येत इत्याह—“यद्याप्तानामिति ।” उपदेष्टट्टणामित्यर्थः । इमं कल्पं दूषयति—“तदनुमानात् ।” अविसंवादित्वमुपदेष्टुरानुमानिकम्, तादृशस्य वचनमर्थविनिश्चये अनुमानमेव । तथा हि यद् यन्निर्दोषसत्त्वीयं वचनं तत्सर्वमर्थवत् यथा “बुद्धस्य” क्षणिकनैरात्म्यादिविषय उपदेशः, तथा चायं विवादाध्यासित उपदेश इति । यथोक्तं “भदन्तेन”
आप्तवाक्याविसंवादसामान्यादनुमानता ।
इति । द्वितीयं कल्पमातिष्ठते—“अथार्थस्य तथाभावः ।” अत्र हि उपदिश्यत इत्युपदेश इति व्युत्पत्त्या अर्थ उच्यते । आप्तः प्राप्त उपदेशो यस्मात्777 स तथोक्तः । एतदुक्तं भवति यस्मात् शब्दादवगम्यार्थं प्रवर्तमानः प्राप्नोति तमेवार्थं स आप्तोपदेशः शब्दः प्रमाणम् । एवं च यथा शब्देन योऽर्थो दर्शितः, तस्याप्त्या तथाता दर्शिता भवति । तदिदमुक्तम् “अथार्थस्य तथाभाव” इति । दूषयति—“सोऽपीति ।” तदेव स्फुटयति— “यदा हीति ।” आप्त्या हि तथात्वं विनिश्चिन्वन् अर्थस्य नाप्रतिपन्नतया निश्चेतुमर्हति । प्रतिपत्तिश्च प्रायेण प्रत्यक्षेणेति प्रत्यक्षत इत्युक्तम् । तमिममाक्षेपमपाकरोति— “तन्नेति ।” नाप्तत्वसहायः शब्दोऽर्थं बोधयतीति सूत्रार्थः । नापि शब्दार्थप्राप्त्या शब्दार्थतथात्वमिति । कस्तर्हि इत्यत आह—“अपि त्विति । इन्द्रियसम्बद्धासम्बद्धेष्विति” दृष्टादृष्टेष्वित्यर्थः । यथोक्तं स द्विविधो दृष्टादृष्टभेदादिति, एतदुक्तं भवति नाप्तत्वहेतुकमविसंवादित्वमनेन “सूत्रे”णागमार्थतया प्रतिपाद्यते । नाप्यर्थतथात्वम् आगमार्थतया प्रतिपाद्यते । नाप्यागमः प्रत्यक्षानुमानाभ्यां न भिद्यते । किं तु उपदेशः शब्द इत्युक्तम् । उपदेश इति च कारकपदम्, उपदिश्यते ज्ञाप्यते प्रयोजनवानर्थोऽनेनेति । तथापि वातिकाद्युपदेशोऽपि शब्दः स्यादित्यत उक्तम्— “आप्तेति ।” तेनोपदेशपदादेवागमस्य वाक्यार्थप्रतिपत्तिः फलमुक्ता । तदिदमुक्तम्—“या शब्दोल्लेखेन” पदार्थस्मरणावान्तरव्यापारात् शब्दादेवार्थं प्रत्येमीत्यनेनोल्लेखेन “प्रतिपत्तिः778 सागमस्यार्थः” फलमिति । आप्तत्वं च न वाक्यार्थं प्रत्याययति अपि त्वागमस्याव्यभिचारिताम्779 । न च यतः प्रामाण्यमवगम्यते ततः प्रमेयमपि । तथा च सति प्रामाण्यज्ञानहेतोरनुमानादेव प्रत्यक्षादिप्रमेयावगतिरिति प्रत्यक्षादीनामप्रामाण्यप्रसङ्गः । तथा780 सति कस्यानुमानमपि प्रामाण्यमवधारयेत् । न चाप्तवाक्यं कार्यं सद्वक्तृज्ञानानुमानद्वारेणार्थेऽप्यनुमानमेव,781 न त्वर्थस्य प्रत्यायकमिति साम्प्रतम् । यदि हि नार्थं प्रत्याययेत् ज्ञानमात्रमनुमापयेत्, तथा च नार्थविशेषसिद्धिः । न च ज्ञानस्यार्थादन्योऽस्ति कश्चिद् विशेषः । तस्मात् वक्तृज्ञानविशेषणाय पूर्वं शब्दादेव केवलाद् वाक्यार्थज्ञानमेषितव्यम् । एवं च कृतं वक्तृज्ञानानुमानेनार्थप्रतिपत्त्यर्थेन केवलं प्रामाण्यज्ञानाय तदुपयोग इति । न चाविनाभाव एव सम्बन्धो येन शब्दार्थयोरसम्बन्धेन गम्यगमकत्वं न स्यात् । अस्ति हि साङ्केतिकः सम्बन्धोऽनयोरिति वक्ष्यते782 न चाविनाभाव एव प्रत्यायनाङ्गम् । चक्षुरादयो नीलादिभेदव्यभिचारिणोऽपि दृष्टाः तत्प्रतिपादका इत्युक्तम् । तस्मात् पदानि कृतसङ्केतानि स्वार्थान् स्मारयन्ति । आकाङ्क्षायोग्यतासत्तिसध्रीचीनानि अदृष्टपूर्वं वाक्यार्थं बोधयन्ति, न सङ्गतिग्रहणमपि प्रतीक्षन्त इति दूरेऽनुमानाद् भवन्ति । यथा चैतत् तथोद्देशे लेशत उक्तम् । उपपादितं च “तत्त्वबिन्दौ ।” तस्मात् सर्वमवदातम् ॥ ७ ॥
स द्विविधो दृष्टादृष्टार्थत्वात् ॥ १ । १ । ८ ॥
“स द्विविधो दृष्टादृष्टार्थत्वात्” इति “सूत्रस्य” तात्पर्यमाह—“नियमार्थम् ।” तद्विभजते—“अनेकधेति ।” दृष्टादृष्टार्थत्वादिति “भाष्य”मतेन व्याचष्टे—“प्रत्यक्षेति ।” आप्तप्रणीतत्वलिङ्गानुमितप्रामाण्यशब्दैकविषयता782 स्वर्गयागादिसम्बन्धादीनामनुमानविषयता । यथाह “भाष्यकारः यस्यामुत्र प्रतीयते सोऽदृष्टार्थ” इति । “अदृष्टा र्थोऽपि प्रमाणमर्थस्यानुमानादिति ।” तेन दृष्टोऽर्थो यस्यागमस्य स तथा । एवमितरोऽपीति । तदेवं “भाष्य”मतेन व्याख्याय स्वमतेन व्याचष्टे—“वक्तृभेदेनेति ।” दृष्टोऽर्थो येन स दृष्टार्थः प्रवक्ता, एवमदृष्टोऽर्थोऽनुमितो येन स तथा । तत्र दृष्टार्था ऋषयोऽस्मदादयश्च । अनुमितार्था अस्मदादय एवेति । एवमपि शब्दद्वैविध्यसाधने मा भूदपक्षधर्मतेति प्रवक्तृपदेन पूरयति—“दृष्टादृष्टार्थप्रवक्तृकत्वादिति ।” अदृष्टार्थः प्रवक्ता यस्यागमस्य स तथोक्तः । अस्यार्थमाह न विग्रहं करोति “प्रत्यक्षत” इति । शेषं 783 सुबोधम् । स न मन्येत दृष्टानां वाक्यानां प्रामाण्यम् । “स” इति । विप्रकृष्टो नास्तिकः परामृष्यत इति “भाष्य”योजनिका । परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते ॥ ८ ॥
॥ इति प्रमाणलक्षणप्रकरणम् ॥
प्रमेयलक्षणप्रकरणम्
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥ १ । १ । ९ ॥
इह प्रमेयं हेयोपादेयभावेनावस्थितं मुमुक्षुणा प्रतिपित्सितम् । तच्च परीक्षितस्वप्रमाणविशेषाधीनप्रतिपत्ति । लक्षणं चास्य प्रमाणविशेषः । न चावान्तरप्रमाणसामान्यप्रत्यक्षादिलक्षणमन्तरेणात्मादिप्रमाणावतारः कर्तुं शक्यः, तस्य प्रत्यक्षादिसामान्यविशेषत्वात् । अतः प्रत्यक्षादिलक्षणानन्तरं तदवतारः । अपरीक्षितं च न तत्त्वनिर्णयाय पर्याप्तमिति परीक्षा विधायिष्यते784 । तत्परिकरश्च संशयादय इति युक्तं तेषां पश्चाल्लक्षणम् । तदिह प्रमेयलक्षणाय तद्विभागोद्देश“सूत्र”मवतारयितुं “भाष्यकारः” पृच्छति स्म—“किं पुनरनेन प्रमाणेनेति ।” जात्यभिप्रायमेकवचनम्, प्रकृते प्रमेये यथायथं प्रमाणानामुपयोगात् । तदेतद् “भाष्यम्” अनूद्य “वार्त्तिककार” आक्षिपति—“किं पुनरिति ।” प्रमेयनान्तरीयकत्वं प्रमाणानां सामर्थ्यम् । समाधत्ते—“नेति ।” प्रत्यक्षादिलक्षणसामर्थ्यात् प्रमेयमात्रं सिद्धम्, विशिष्टं तु प्रमेयमद्यापि न सिध्यतीति तदर्थं प्रश्नः । स च विशेषो “यथावदिति” न737 दर्शित इति । “अयमेव च सूत्रार्थ” इति । येषां तत्त्वातत्त्वज्ञानाभ्यामपवर्गसंसारौ भवतः, त एतावन्त785 एव न न्यूना नाधिका इत्यर्थः । प्रथम“सूत्र”व्यवस्थानमतिदिशति—“अत्रापीति ।” उक्तमर्थमनाकलयन्नाक्षिपति—“उभयेति । दिगादीनामिति ।” द्रव्येषु दिक्कालपरमाणूनामनभिधानात् । “वृक्षस्तिष्ठतीति ।” इतिशब्द आद्यर्थे । तेन वृक्षं पश्यति,786 वृक्षेण चन्द्रमसं पश्यतीत्या दयो वेदितव्याः । समाधत्ते—“न सूत्रार्थापरिज्ञानादिति ।” न प्रमेयपदं प्रमेयमात्रे प्रवर्तते, किं तु यत् तत्त्वतो ज्ञायमानमपवर्गसाधनं तस्मिन्, तच्चात्माद्येव नान्यदिति युक्तोऽन्ययोगव्यवच्छेद इत्यर्थः । अयेगव्यवच्छेदेऽपि न दोष इत्याह—“प्रमेयमेवेति ।” नन्वस्मिन् पक्षे न कदाचिदपि प्रमाणता स्यादित्यस्ति दोष इत्यत आह—“किमुक्तं भवतीति ।” नास्य पुरुषमात्रं प्रति प्रमेयत्वं विधीयते, अपि तु मोक्षमाणशिष्यं प्रति विधीयते । “अनूद्यत” इति प्रमाणान्तरमूलकत्वेन विधानस्य दार्ढ्यं दर्शयति । उपसंहरति—“तस्मादिति ।” कौशलमात्रमात्मनः ख्यापयितुमभ्युपेत्य समाधानान्तरमाह—“उपेत्येति ।” प्रवृत्तिसंस्कारकत्वमस्ति दिक्कालयोः,
प्राङ्मुखोऽन्नानि भुञ्जीत ।
प्राचीनप्रवणे वैश्वदेवेन यजेत ।
पौर्णमास्यां पौर्णमास्या यजेत ।
अमावास्यायाममावास्यया यजेत ।
इत्येवमादिश्रवणात् । कौशलमात्रमिदं न तु समाधानमित्याह—“न पुनरिदमिति । विहितविधानादिति ।” प्रमाणविधानसामर्थ्येन विहितमित्यर्थः । न केवलं प्रमाणविधानाक्षिप्तम्, अपि त्वाद्य“सूत्र”गतप्रमेयपदादपि लब्धमित्याह—“आद्येन चेति ।” एतस्मिंश्चार्थे787 “सूत्रकारस्य” अनुमतिमाह—“एन चार्थमिति । भाष्यम् सर्वस्य” सुखदुःखसाधनस्य द्रष्टा, “सर्वस्य” सुखदुःखस्य “भोक्ता,” यतः सुखदुःखसाधनं सर्वम्, सर्वं च सुखदुःखं जानाति, अतः “सर्वज्ञः ।” न चाप्राप्तान्येतानि जानातीत्यत आह—“सर्वानुभावी ।” अनुभवः प्राप्तिः । तदेतद् वैराग्योत्पादायोक्तम्, एवमुत्तरत्रापि बोद्धव्यम् । आत्मन्ययं विशेषो यदनेन रूपेण हेयः, कैवल्येन788 चोपादेयः । शरीरादीनि तु हेयान्येव । अपवर्गस्तूपादेय एवेति । अविद्यमानं पूर्वं शरीरं यस्य “तदपूर्वं” शरीरम् । तन्निषेधति—“नास्येदमिति ।” प्रमेयतत्त्वमविदुष आत्मन अविद्यमानमुत्तरं शरीरं यस्य तद् “अनुत्तरम् ।” तदपि निषिद्धं चेन,789 नेत्यनुकर्षणात् । ननु यथा पूर्वेषां शरीराणाम् अनादिता एवमुत्तरेषामप्यनन्तता,790 तथा च मोक्षमाणानां प्रवृत्तयश्च तदर्थानि शास्त्राणि चानर्थकानि प्रसज्येरन्नित्यत आह—“उत्तरेषामिति ।” प्रमेयतत्त्वावगमादित्यर्थः । ननु सुखेऽप्युपदेष्टव्ये दुःखमात्रोद्देशः किं सुखं प्रत्याचष्टे ? तथा चानुभवविरोध इत्यत आह—“नेदमिति ।” तदेतद् “भाष्यं वार्त्तिककार” आक्षेपसमाधानाभ्यां व्याचष्टे—“सुखं पुनरिति । न चान्यत” आत्मादिपदात्, “उपलब्धिः, अस्मादेव” आत्मादिभ्यो भेदेन प्रत्यात्ममुपलभ्यमानत्वादेव । “निर्विद्यते” इत्यस्य व्याख्यानम्—“अनभिरतिसञ्ज्ञेति” उपेक्षाबुद्धिः । “निर्विण्णस्य वैराग्यम्” इत्यस्य व्याख्यानम्—“तां चोपासीनस्य” तथैव विरोधिगुणेन तृष्णा विच्छिद्यते । सुखानभिधानेन दुःखपक्षनिःक्षेपं सूचयति । तथा च सुखेऽस्य वैराग्यं भवतीति तात्पर्यार्थः ॥ ९ ॥
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ १ । १ । १० ॥
अपवर्गस्याप्यात्मार्थत्वेन631 प्रमेयेष्वात्मनः प्राधान्यात् प्रथममात्मलक्षण“सूत्रम् इच्छे”त्यादि । तदवतारार्थं “भाष्यम्—तत्रात्मेति ।” अहमिति ज्ञानं गौराद्याकारं शरीरावभासं791 न शक्यं घटादिज्ञानवद् द्रागात्मनि प्रमाणयितुमित्यभिप्रायः, परदेहवर्त्यात्माभिप्रायं वा । तदत्र195 “वार्त्तिककारः सूत्र”तात्पर्यमाह—“समानेति ।” समानजातीयं शरीरादि, असमानजातीयं प्रमाणसंशयादि । सत्येवास्मिन् प्रयोजने प्रयोजनमन्वाचिनोति—“आगमस्येति ।” ततश्चाप्तोक्तत्वानुमानसिद्धमपि प्रामाण्यं शब्दस्य अनेन तदर्थसंवादकेनानुमानेन दृढतरं भवतीत्यर्थः । प्रयोजनान्तरं चान्वाचिनोति—“प्रमाणसम्प्लवस्येति ।” द्वावपि “वा”शब्दौ चार्थेऽन्वाचये द्रष्टव्यौ । तदनेन “वार्त्तिकेन अनुमानाच्च प्रतिपत्तव्य” इति “भाष्यं” व्याख्यातम् । इच्छाया आत्मलिङ्गत्वकथनपरं “भाष्यं यज्जातीयस्येति,” यज्जातीयस्येति व्याप्तिस्मृतिकथनम् । “तज्जातीयं पश्यन्निति” पक्षधर्मोपनयः । तस्मादयं सुखहेतुरित्यनुमायादातुमिच्छति । सेयमीदृशीच्छा व्याप्तिग्रहणतत्स्मरणपक्षधर्मताग्रहणानुमानेच्छादीनामेककर्तृत्वं सूचयति, भेदे प्रतिसन्धानाभावेन तदनुपपत्तेः । तदिदमुक्तम् “एकस्येति ।” यश्चासावेकोऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा । न च शरीरमेवं भवितुमर्हति, तस्यापि631 बाल्यकौमारयौवनवार्द्धकभेदेनान्यत्वात् । नेन्द्रियम् इन्द्रियान्तरगृहीत इन्द्रियान्तरेणाप्रतिसन्धानप्रसङ्गात् यमहमस्प्राक्षं792 तं पश्यामीति । नापि मनः, मनसः करणत्वेनैवानुमानात् । वक्ष्यति ह्येतत् सर्वं ज्ञातुर्ज्ञानसाधनोपपत्तेः ।
[३.१.१७] इत्यत्र “सूत्रे ।”
स्यादेतत् । असत्यपि आत्मनि ज्ञातरि793 सत्यपि च बुद्ध्यादीनां भेदे, तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोपपत्स्यत इत्यत आह—“नियतविषये” इति । नियतविषय इति बुद्धिभेदस्य प्रतिसन्धानमपाकरोति । मात्रग्रहणेन च सन्तानं सन्तानिव्यतिरिक्तमपाकरोति । तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितम् । तदेतद् “भाष्यम्” अनुभाष्य “वार्त्तिककार”स्तात्पर्यमस्याह—“यज्जातीयस्येति ।” तत्र विचारमारभते—“तत्रेति ।” पूर्वपक्षमाह—“कथमिच्छादीति ।” परिहरति—“स्मृत्येति ।” नन्वेकविषयाणां स्मृत्यादीनां नानाकर्तृकत्वे को विरोध इत्यत आह—“न हीति ।” नानाविषयत्व उदाहरणमाह—“न794 हि भवति यद्रूपमिति ।” नानानिमित्तत्व उदाहरणमाह—“नापि भवतीति । यद्” यस्मात् निमित्तात् त्वगिन्द्रियात् स्पर्शमहमस्पार्क्षं “तत्” तस्मात् निमित्तात् चक्षुषो रूपं पश्यामीति । नानाकर्तृकत्व उदाहरणमाह—“न हि भवति देवदत्त” इति । तदेतत् किल प्रतिसन्धानं कर्तृभेदाद् देवदत्तयज्ञदत्तादेर्व्यतिरेकबलेनैककर्तृकत्वं साधयतीत्युक्तम् ।
तदेतदनुपपन्नम्, भिन्नकर्तृकत्वाद् व्यतिरेकस्योपाधिसम्भवेन स्वाभाविकप्रतिबन्धविज्ञानवैकल्यात् । अस्ति हि देवदत्तयज्ञदत्तविज्ञानानां भिन्नकर्तृकत्वम कार्यकारणभावश्च । तत्र किमकार्यकारणभावात् प्रतिसन्धानस्य व्यतिरेक उत भिन्नकर्तृकत्वादिति सन्दिग्धव्यतिरेकत्वादसाधनाङ्गं प्रतिसन्धानमित्याशयवांश्चोदयति—“कार्यकारणभावादिति ।” तदिदमुक्तम्—“तदिदम्प्रतिसन्धानमन्यथा भवदिति ।” गूढाभिप्रायः परिहरति—“न795 नानात्वस्येति ।” चोदक आह—“अकार्येति ।” गूढाभिप्राय एव परिहारवाद्याह—“तदयुक्तमिति । अनैकान्तिकत्वं” सन्दिग्धव्यतिरेकिता । चोदक आह—“तुल्यं भवतोऽपीति ।” सिद्धान्ती गूढाभिप्राय एवाह— “अभ्युपगमादिति ।” चोदक आह—“नासाधनादिति । असिद्धार्थता” अन्यथासिद्धार्थता “हेतोः” हेतुवचनस्येत्यर्थः । सम्प्रति समाधाता स्वाभिप्रायमाविष्करोति—न, “हेत्वर्थापरिज्ञानात् ।” तदेव796 विभजते—“न भवतेति ।” कः पुनरसौ हेतुविशेष इत्यत आह—“विशेषितं चैतत्प्रतिसन्धानम् ।” तत् कथयति—“स्मृत्या सह पूर्वापरप्रत्यययोरेकविषयत्वेन प्रतिसन्धानम्” यज्जातीयं चन्दनवनितादि797 सुखहेतुं प्रतीतं स्मरामि तज्जातीयमिमं प्रत्येमीति प्रतिसन्धानम् । तदनेन शालिबीजाङ्कुरस्य परम्परया शालिबीजान्तरजननलक्षणात् प्रतिसन्धानात् कार्यकारणभावनियमाद् व्यवच्छिनत्ति ।
नन्वियं पूर्वापरप्रत्ययसंहिता798 स्मृतिरपि कार्यकारणभावादेवोपपत्स्यते, कृतमेकेन कर्त्रेत्यत आह—“सा च स्मृतिर्भवत्पक्षेऽनुपपन्ना ।” पृच्छति—“कस्मात् ?” उत्तरम्—“अन्येन” निमित्तेन “अनुभूतस्य अन्येन” निमित्तेन “अस्मरणात् ।” न हि भवति येनैव चक्षुषा घटमद्राक्षम्, तेनैव त्वगिन्द्रियेण तं स्पृर्शामीति । निमित्तभेदे प्रतिसन्धानाभावमुक्त्वा विषयभेदेऽप्याह—“न ह्यन्येन” स्वभावेन घटत्वादिनानुभूतस्या“न्येन” वृक्षत्वादिना “स्मरणम् ।” न हि भवति यमहं घटमद्राक्षं सोऽयं वृक्ष इति । कर्तृभेदे प्रतिसन्धानाभावमाह—“न ह्यन्येन” देवदत्तेन “अनुभूतमन्यो” यज्ञदत्तः “स्मरति ।” न हि भवति योऽहं देवदत्तोऽद्राक्षं सोऽहं यज्ञदत्तः पश्यामीति799 । न चेदं सत्यपि भेदे कार्यकारणभावात् प्रतिसन्धानं भवितुमर्हति । न हि यत्र स्फुटतरः कार्यकारणभावः तन्तुपटयोर्घटकपालयोर्वा दृश्यते तत्र प्रतिसन्धानं भवति, ये तन्तवः स एव पट इति वा, यो घटक्षणः स एव कपालक्षण इति वा । वस्तुतः कार्यकारणभूतानामगृहीतभेदानां प्रतिसन्धानहेतुभावः सभागेषु क्षणेषु तथा दर्शनादिति चेत् ? तन्न, आमलकफलस्यैकस्यापनयने तत्रैव स्थाने आमलकान्तरावस्थापने भवति प्रतिसन्धानम् । न च तयोरामलकयोरस्ति कार्यकारणभावः । पूर्वापरप्रत्यययोः स्मृत्या सहैकविषयत्वं कर्तरि कार्यकारणभावनिबन्धनं न कर्मणीति चेत् ? हन्त नैरात्म्यसाक्षात्कारसात्मीभावेऽप्यस्ति विज्ञानानां कार्यकारणभाव इति तन्निबन्धनं प्रतिसन्धानं पूर्ववदेव प्रसज्येत । सैव चात्मदृष्टिर्दोषाणां निदानं परमिति व्यर्थो नैरात्म्यसाक्षात्कारसात्मीभावप्रयासः । अथासदपि प्रतिसन्धानं कार्यवशादाहरति800 “तथागतो” नट इव रामत्वमात्मनः, यदि तत् कार्यकारणभावनिबन्धनम्, कथमसत्,801 कथमाहार्यम् ? अथ कार्यकारणभावोऽप्यवस्तु सन् कल्पनामात्रनिबन्धनः, स तर्हि तादृशः शालिबीजस्योत्पादं वास्तवं न नियन्तुमर्हति, न जातु कल्पितवह्निभावो माणवको दहनपाकयोरुपयुज्यते । न च प्रत्ययानां भेदाग्रहात् प्रतिसन्धानमिति साम्प्रतम्, प्रवृत्तिविज्ञानानां रूपादिविषयाणां भेदेन पृथग्जनैरपि प्रतीयमानत्वात्, आलयविज्ञानस्य च प्रवृत्तिविज्ञानातिरिक्तस्यानुपलब्धेः । अहमिति च सत्त्वदृष्टेः क्षणिकत्वनिराकृतावसति बाधके स्थिरवस्तुविषयत्वात् । तस्मात् स्मृत्या सह पूर्वापरप्रत्यययोः एकविषयत्वलक्षणस्य प्रतिसन्धानस्यानेककर्तृकत्वाद् व्यतिरेको निरुपाधिरेककर्तृकत्वं साधयति । स चैकः कर्ता शरीरेन्द्रियबुद्धिभ्यो भिन्न आत्मेति सिद्धम् ।
तदनेनाशयेनोक्तम्—“अस्ति च स्मृतिः” उक्तरूपा । “तस्माद् यस्मिन् पक्षे स्मृतिः सम्भवति तत्र प्रतिसन्धानं” न्याय्यमिति । स च कर्त्रेकत्वपक्ष इति भावः । आशयमविद्वान् पुनः परः प्रत्यवतिष्ठते—“भवानिति ।” पर एवैकग्रन्थेनाह—“कथमिति ।” कथं न सम्भवतीत्यर्थः । स्यादेतत् योगिचित्तमपि सार्वज्ञ्यस्य चेतस आलम्बनप्रत्यय इति तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादित्यत आह—“यत्कायेति ।” एतदुक्तं भवति, उपादानोपादेयभावेनावस्थितः चित्तप्रवाहः सन्तानः । न च योगिचित्तमुपादानं सार्वज्ञ्यस्य चेतसः । आलम्बनप्रत्ययो हि तदिति । कायग्रहणं च एकसन्तानोपलक्षणपरम् । तेन जन्मान्तरेऽपि स्मृतिरुपपन्नेति । तमिममस्मदभिप्रायानभिज्ञं परमन्यथापि बोधयितुं विभवाम इति सिद्धान्ती अन्यथा स्मृत्यनुपपत्तिमाह—“न, अस्थिरत्वाद् बुद्धीनाम् ।” न ह्यजातानन्वयध्वस्तयोरस्ति कश्चिद् विशेष इति पूर्वोत्पन्नोऽनुभवः काञ्चन वासनामाधाय ध्वंसते, यया कालान्तरे स्मृतिराधीयते इत्यभ्युपगन्तव्यम् । न चास्थिरा बुद्धिः शक्या वासयितुमित्यात्मा स्थिरोऽभ्युपेय इत्यर्थः । युक्त्यन्तरमाह—“असम्बन्धाच्चेति ।” न च बुद्धीनामसमानकालानामस्ति सम्बन्ध इत्यर्थः । पुनः परः प्रत्यवतिष्ठते—“शक्तीति ।” नास्माकं “क्षणिकवस्तुवादिना”मस्ति तज्जगति यदवस्थितं वासकेन वास्यमानं दृष्टमिति भावः । ननु तथाप्यसमानकालतया सम्बन्धरहितमशक्यं वासयितुमिति ग्रहणकवाक्यविवरणव्याजेनापाकरोति—“अथापीति ।” पूर्वचित्तं प्रवृत्तिविज्ञानं यत्तत् षड्विधम्, पञ्च रूपादिज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् । तेन सह जातः समानकालः चेतनाविशेषः तदालयविज्ञानमित्युच्यते । अहङ्कारास्पदं स्मृतिशक्तिः । सा च न शक्तात् तज्ज्ञानादतिरिच्यते । तेन कथञ्चिद् भेदविवक्षया शक्तिविशिष्टमित्युच्यते । सिद्धान्तवाद्याह—“अत्रोक्तमिति ।” उपपादयिष्यते हि भावानां सर्वजनप्रतीतिसिद्धा स्थिरता क्षणभङ्गनिराकरणेन । तथा च स्थिरस्य सम्बद्धस्य च वस्त्रादेर्मृगमदादिना वास्यत्वं दृष्टमिति नास्थिरेऽसम्बद्धे च भवितुमर्हतीत्यर्थः ।
स्यादेतत् । अस्थिरयोरपि ज्ञानयोः समानकालतया अस्ति सम्बन्ध इति कस्मादन्यतरचित्तवासितमन्यतरच्चित्तं स्मृतिं नाधत्ते इत्यत आह—“यश्चासाविति ।” वक्ष्यमाणापेक्षोऽपि शब्दः । ननु वर्तमाने चेतसि मा कार्षीदुपकारम्, अनागते तु करिष्यतीत्यत आह—“नापीति ।” पृच्छति—“कथमिति ।” उत्तरम्—“वर्तमानं तावदिति ।” प्रकृतमुपसंहरति—“तस्मादिति ।” इतोऽप्यसत्यात्मनि विज्ञानमात्रात् कार्यकारण भावेन802 स्मृतिर्नोत्पद्यते इत्याह—“इतश्चेति ।” कस्मात् ? भावस्य भवित्रपेक्षत्वात् । भाव उत्पत्तिमान् धर्मः । भविता धर्मी पाको विक्लित्तिः संयोगभेदः । स च तण्डुलावयवसमवेतोऽप्यवयवावयविनोरभेदोपचारात् तण्डुलानामित्युक्तम् । “गतिः” तु803 परिस्पन्दो देवदत्ते “कर्तरीति” सिद्धान्ती क्षणिकवादिनमुत्थाप्याक्षणिकत्वाभिप्रायेण दूषयति—“अनाधारैवेति ।” पूर्वपक्षी क्षणिकत्वाभिप्रायेणाह—“कार्येति ।” सिद्धान्तवाद्यक्षणिकत्वाभिप्रायेण परिहरति—“तच्च नेति ।” समानकालयोराधाराधेयभावो दृष्टः । यथा कुण्डवदरयोः स्थिरमेव हि कुण्डं स्थिरस्यैव वदरस्य गुरुत्वेन पततो गुरुत्वं प्रतिबध्नदधःपतनं निवारयदाधारो भवति । यद्युच्येत न स्मृतिर्भावः किं तु भवित्री । उत्पत्तिरस्या भावः । न तु भवितुर्भवित्रन्तरापेक्षा युक्ता अनवस्थापातादिति आशङ्कते—“अथापीदमिति ।” निराकरोति—“तच्च नेति । विरोधादिति” विवृणोति—“यदीति ।” कस्माद् व्याहतमित्यत आह—“स्वरूपं चेति । चो” हेत्वर्थे । स्वरूपमुत्पत्तेरुच्यमानं स्वतन्त्रं बाधते यतः, तस्माद् विरोध इत्यर्थः । अनभ्युपगमादिति विवृणोति—“न हि भवन्त” इति । विरोधादिति स्फोरयति— “व्यतिरिक्तां चेति । तन्त्रं” शास्त्रम् । शङ्कते—“अथेति ।” तथा च न विरोधो नाप्यनभ्युपगम इत्यर्थः । निराकरोति—“किं क्वेति ।” अभिधानस्वरूपमाह—“उत्पत्तिरिति ।” अपि चोत्पत्तेर्भावत्वेऽपि न स्मृतिर्न भावः, भावत्वस्य कार्यमात्रानुबन्धित्वात् स्मृतेश्च कार्यत्वात् । न चानवस्था, नित्ये व्यवस्थानात् । तथा च स्मृतेर्भावस्य भविता आत्मैव नित्यः परिशिष्यते इत्याशयवानाह—“यदा चोत्पत्तिरिति ।” प्रकृतमुपसंहरति— “तस्मादिति ।” तत् सिद्धमेतत्, स्मृतिः पूर्वापरप्रत्ययाभ्यामेककर्तृका ताभ्यां804 सहैकविषयत्वेन प्रतिसन्धीयमानत्वात् । या पुनर्नाभ्यामेककर्तृका सा नाभ्यां805 तथा प्रतिसन्धीयते, यथा देवदत्तस्य स्मृतिर्न806 यज्ञदत्तप्रत्ययाभ्याम् । न चेयं807 तथा808 । तस्मात् तथेति ।
तदेवं व्यतिरेकिसमर्थनं कृत्वा अन्वयव्यतिरेकिणमत्रार्थे प्रमाणयति—“अथ वेति ।” अनेकग्रहणमनेकनिमित्तप्रतिषेधशङ्कानिवृत्त्यर्थं809 येन मया810 रूपादयोऽनुभूताः तेनैव गन्ध उपलभ्यते इति खलु मयेति स्मृत्या सह811 प्रतिसन्धानं तस्माद् “भरत”मताभ्यासेनाभिनये ये कृतसङ्केताः, तेषाम् । यच्चोक्तं “परैः,”
नर्तकीभ्रूलताक्षेपो न ह्येकः पारमार्थिकः812 ।
परमाणुसमूहत्वादेकत्वं तस्य कल्पितम्813 ॥
इति । तत्राह—“भ्रूक्षेपस्यैकत्वात् ।” न भ्रूः परमाणुसमूहोऽपि तु अवयविद्रव्यमेकम् । तद्गतं च रेचितमपि क्रियैकैव । भवतु वा परमाणुसमूह एव भ्रूक्षेपः, तथापि समूहस्य समूहिभ्योऽनन्यत्वात् परमाणव एव, तेषां च प्रत्येकमेकता चानेक“भरत”मतनिपुणप्रतिपत्तृसाधारणता च । अस्ति च तेषामपि स्वगोचराविकल्पोत्पादनद्वारेण814 परम्परया मयेति प्रतिसन्धानहेतुभाव इति यत्किञ्चिदेतदेकत्वं815 तस्य कल्पितमिति । तदेवं प्रतिसन्धानद्वारेणेच्छादीनामात्मलिङ्गत्वमुक्त्वा सम्प्रति गुणतया लिङ्गतां “वार्त्तिककृद्” आह—“अथ वेति ।” गुणत्वेनेच्छादीनां पारतन्त्र्यं रूपादिवत् साधनीयम् । तच्चानित्यत्वेनैव सामान्यविशेषसमवायेभ्यो व्यावर्तकेन सिद्धम् । न ह्यनित्यो भावो द्रव्यात् स्वतन्त्रो भवति । तस्माद् गुणत्वप्रसाधकादेव हेतोः पारतन्त्र्यसिद्धेः कृतं गुणत्वेन पारतन्त्र्यसाधकेनेति हृदि निधाय “वार्त्तिककारः” तदपि पूर्वमुक्तमिति सिद्धेन पारतन्त्र्येण गुणत्वमपि साधयति । न चैतदनित्यस्य पारतन्त्र्यमात्रेण816 सिध्यति, द्रव्यकर्मणोरप्यनित्ययोः पारतन्त्र्यात् । तस्मादनित्यत्वसिद्धेन द्रव्यपारतन्त्र्येण द्रव्यकर्मभ्यां व्यतिरेचयति—“न817 द्रव्यं कर्म” वा इच्छादयः “व्यापकद्रव्यसमवायात् शब्दवद्” इत्यादि । यद्यप्यनित्यत्वेन द्रव्यसमवायमात्रं सिध्यति, तथापि द्रव्यकल्पनमात्रेणैवोपपत्तौ तदवयवकल्पनायां प्रमाणाभावेन तद् द्रव्यमनवयवं तावत् सिद्धम् । अनवयवं च द्रव्यं द्वेधा, व्यापकम् अणु च । न तावदणु, तत्रेच्छादीनामुपलब्धेः । क्वचिदन्यतरकर्मणा क्वचित् स्वभावतस्तत्संयोगोपपत्तौ तद्गतिकल्पनायां प्रमाणाभावात् सिद्धमस्य व्यापकत्वम् । तदेतदादिग्रहणव्याख्यानम् । तदनया वक्रोक्त्या नित्यत्वं परममहत्त्वं चात्मनो दर्शितं भवति । एतच्च सामान्यतोदृष्टमनुमानं सूत्रयता सर्वं दर्शितमित्याह—“सामान्यत” इति । यत्818 तत्पूर्वं हृदि स्थितमिच्छादीनां द्रव्यपारतन्त्र्ये474 साध्येऽनित्यत्वानुमानम्,819 तदुद्धाटयति कार्यत्वमपि हेतुं समुच्चिनोति—“एतेनेति ।” नन्वस्तु द्रव्यपारतन्त्र्यं तथापि शरीरपारतन्त्र्यमस्तु, कृतमनुपलब्धचरेणात्मना इत्यत आह—“अयावदिति ।” सर्वपुरुषसाधारण्यप्रसङ्गाच्च न पृथिव्यादिगुणाः । तदुत्पत्तौ करणत्वेन कल्पनाच्च नाकर्तुर्मनसः । तस्माद् अष्टद्रव्यातिरिक्तं द्रव्यान्तरम् । तत्रेच्छादयः, स चात्मेति सिद्धमित्याह—“तत्प्रतिषेधादिति” ॥ १० ॥
चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ १ । १ । ११ ॥
आत्मानं लक्षयित्वात्मनो दुःखनिदानानामिन्द्रियादीनां सर्वेषां साक्षात् पारम्पर्येण च820 शरीरमाश्रित्य तन्निदानत्वमिति तदेवास्य दुःखमूलकारणमित्यनन्तरं शरीरं लक्षयितुं “सूत्रम्—चेष्टेत्यादि ।” तदवताराय “भाष्यम्—तस्येति ।” तस्येत्यात्मानं परामृशति । भोगः सुखदुःखसंवित् । तदधिष्ठानं शरीरम् । तदनेन सर्वस्यास्यानर्थसम्भारस्य परमनिदानं शरीरम् । अतस्तदेवेन्द्रियादिभ्यः पूर्वं लक्षणीयमित्युक्तम् । अत्र चेष्टाश्रयत्वेनेन्द्रियाश्रयत्वेन च प्रत्येकं समानजातीयेभ्य आत्मेन्द्रियादिभ्योऽसमानजातीयेभ्यः प्रमाणसंशयादिभ्यः शरीरं व्यवच्छिद्यते ।
“कथं चेष्टाश्रय” इति “भाष्यम् ।” तस्यार्थं व्याचष्टे—“का पुनरिति ।” चेष्टा व्यापारः । स चातिव्यापकतया अव्यापकतया च न लक्षणम्, वृक्षादिषु भावात्, अभावाच्च पाषाणमध्यवर्तिमण्डूकादिशरीरे इति भावः । अत्रोत्तर“भाष्यम्— ईप्सितमित्यादि ।” तद् व्याचष्टे—“हिताहितेति । प्रयुक्तस्य” उत्पादितप्रयत्नस्य । न च व्यापारमात्रं चेष्टा अभिमता, अपि821 तु विशिष्टो व्यापारः । स च न वृक्षादिष्वस्तीति नातिव्यापकता । यद्यपि च दारुयन्त्रादिषु ईदृशो व्यापारोऽस्ति, तथापि मूर्तान्तराप्रयोगे सतीति विशेषणात् न व्यभिचारः, तेषां शरीरेण822 मूर्तेन प्रयोगात् । शरीरस्य तु मूर्तान्तराप्रयुक्तस्य ईदृशव्यापाराश्रयत्वम्, पाषाणमध्यवर्तिनश्च मण्डूकदेहस्य तद्व्यापारायोगेऽपि तद्योग्यत्वात्, पाटिते पाषाणे तादृशस्य तद्व्यापारस्य दर्शनादिति भावः ।
“कथमिन्द्रियाश्रय” इति “भाष्यं” व्याचष्टे—“कथमिति ।” संयोगितया त्विन्द्रियाश्रयत्वे घटादीनामपि शरीरत्वप्रसङ्गः, तेषामपीन्द्रियसंयोगित्वादिति भावः । “यस्ये”त्यादि परिहार“भाष्यं” व्याचष्टे—“शरीरेति ।”
“एतेनेति ।” तद्वृत्तित्वेनानुपपत्त्या अर्थानामप्यन्यादृश आश्रयार्थो व्याख्येयः । यद्यपि गन्धादयो विषया न स्वरूपेण शरीरमाश्रयन्ते तथापि यदेषां सुखाद्युपलम्भहेतुत्वं कार्यं प्रयोजनं तदर्थमाश्रयन्ते इत्यर्थः । तदनेन “यस्मिन्नि”त्यादि “भाष्यं” व्याख्यातम् । चोदयति—“कथं पुनरिति ।” परिहरति—“सामान्येति ।” विशेषेण बुभुत्सितत्वादिना प्रकरणापन्नं नियन्त्रितं सामर्थ्यम् । “प्रकरणादीत्य”त्रादिपदसङ्गृहीतमपरमपि823 सामर्थ्यशब्दार्थमाह—“सामर्थ्यं चेति ।” अपरमप्याह— “प्रमाणेति ।” अत्र प्रथमे पक्षे चेष्टाशब्दो व्यापारविशेषे स्पन्दादिवन्मुख्यार्थः । तदेतत् “लोकस्तावदित्या”दिना “तथा चायं” चेष्टाशब्द इत्यन्तेन दर्शितम् । “प्रमाणासम्भवो वेति” द्वितीयं पक्षं विवृणोति—“सामान्यवाच्यपीति ।” अपिरभ्युपगमे । प्रमाणासम्भवोऽनुपपत्तिः । सा च824 “न क्रियामात्र” इत्यनेन दर्शिता825 । एवं चेष्टापदव्याख्याने न घटादिषु शरीरत्वप्रसङ्गः ।
एवं “भाष्या”नुसारेण स्वमतेन च820 प्रत्येकं चेष्टाश्रयत्वादि शरीरस्य लक्षणमिति वर्णयित्वा समस्तमेवेदं शरीरलक्षणमिति ये वर्णयाम्बभूवुः,826 तन्मतं827 निराकरोति— “यैरपीति ।” यद्याद्यं पदं लक्षणं चेष्टाश्रय इति, तदा घटेन व्यभिचारः । तदर्थं द्वितीयपदोपादानम् इन्द्रियाश्रय इति, इन्द्रियसंयोगीत्यर्थः । तथापि तेनैव घटादिना व्यभिचारः, प्राप्यकारित्वेनेन्द्रियाणां घटादीनामपि इन्द्रियसंयोगित्वात् । अत आह—“अर्थाश्रय” इति । एवमपि व्यभिचारस्तदवस्थ एव, घटादीनामपि रूपाद्यर्थसमवायेनार्थाश्रयत्वात् । अथ समवायाभिप्रायेणाश्रयत्वम्, तथापि न समवाय इन्द्रियाणां शरीरे । घ्राणस्य पार्थिवत्वेन समवायो न विरुद्ध इति चेत्—न, तस्य शरीरावयवसमवायित्वेन शरीरासमवायात् । यदि नासिकाग्रमेव घ्राणम्, अथ तदाधारमतीन्द्रियम्, तथापि न तत्समवेतं शरीरम्, प्रत्यक्षाप्रत्यक्षवृत्तेर्वायुवनस्पतिसंयोगवदप्रत्यक्षत्वप्रसङ्गाद्देहस्य । अपि च यदा चेन्द्रियार्थस्य समवायेन शरीरत्वम्, हन्त भो इन्द्रियसमवायिकारणेषु परमाणुषु समस्तमेतदस्तीति तेषामपि शरीरत्वप्रसङ्ग इत्याह—“समस्तेति ।” स्यादेतत् । भवन्मतेऽपि चक्षुरादिभिरिन्द्रियैर्व्यभिचारः, तेषामपि यथोक्तव्यापाराधारत्वादित्यत828 आह—“यथा त्विति ।” मूर्तान्तराप्रयोगे सतीति विशेषितम् । चक्षुरादयस्तु उन्मीलनान्मूर्तेन शरीरेण प्रयुज्यन्ते इति न प्रसङ्गः । श्रोत्रं तु चेष्टाधार एव न भवति । तदेतदुपलक्षणं शरीरं भावयन्निर्विद्यते इति सिद्धम् ॥ ११ ॥
घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ १ । १ । १२ ॥
इन्द्रियस्योपनायकत्वेनार्थादिभ्यो विशेषादिन्द्रियाणामर्थादिभ्यः पूर्वं लक्षणम् । न च विशेषलक्षणमकृते सामान्यलक्षणे शक्यमिति “भाष्यकारः” प्रथममिन्द्रियाणां सामान्यलक्षणं निर्वेदोपयुक्तमाह—“भोगसाधनानीति ।” अनेन यच्छरीरसंयुक्तं संस्कारकदोषव्यतिरिक्तं829 साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति सामान्यलक्षणं सूचितम् । साक्षात्प्रतीतिसाधनमिन्द्रियमिति वक्तव्ये भोगसाधनाभिधानं निर्वेदोपयोगीति । पारम्पर्येण च भोगसाधनत्वं830 घ्राणादीनाम्, साक्षान्मनस एव तत्साधनत्वात्, सुखदुःखसाक्षात्कारस्य भोगत्वात् ।
“घ्राण—भ्यः ॥” अत्रेन्द्रियाणीति लक्ष्यनिर्देशः घ्राणादीनीत्यर्थः । तेषां पञ्चानां पञ्चैव लक्षणानीति कथयति—“लक्षणसूत्राणीति ।” आपाततः “सूत्रम् ।” विचार्यमाणानि तु490 “सूत्राणी”त्यर्थः । समानजातीयं घ्राणादे रसनादि प्रतिनियतविषयत्वात् । असमानजातीयं तु मन आदि सर्वविषयमिति । “जिघ्रती”त्यादि“भाष्य”निराकरणीयां शङ्कामाह—“उद्देशेति ।” प्रमाणाद्युद्देशेन सामान्यादित्यर्थः । लक्षणं हि विधेयम् । लक्ष्यं चोद्देश्यम् । ज्ञातं चोद्दिश्यते, अज्ञातं च831 विधीयते इति । न चैकस्य युगपज्ज्ञाताज्ञातत्वे सम्भवतः । नापि लक्ष्यलक्षणत्वे इति भावः । परिहरति—“नेदं तथा” यथोद्देश इत्यर्थः । कस्मात् ? “करणभावात् स्वविषयग्रहणलक्षणत्वं” यतो घ्राणादीनाम् । एतदुक्तं भवति, इन्द्रियाणामतीन्द्रियत्वात् सर्वदा स्वस्वविषयोपलब्धिकरणत्वेनैवानुमातव्यानि । तस्मात् स्वस्वविषयोपलब्धिसाधनत्वमेव समानासमानजातीयव्यवच्छेदकतया लक्षणम् । तदेकार्थसमवायि तु495 घ्राणत्वादि लक्ष्यम् । अत्र च घ्राणादिशब्दाः पङ्कजादिपदवदवयवार्थं निमित्तीकृत्य क्वचित् क्वचित् सामान्यविशेषे वर्तन्ते, अवयवार्थसम्बन्धस्य832 प्रतीयमानस्यासति बाधके परित्यागायोगात् । अश्वकर्णादौ वृक्षविशेषवाचके वाजिकर्णायोगेन बाधकेनावयवार्थपरित्यागात् । अवयवार्थयोगेऽपि च820 गन्धाद्युपलब्धिसाधने सन्निकर्षादौ घ्राणादिशब्दाप्रयोगात् अवयवार्थान्वितं घ्राणत्वाद्येव घ्राणादिशब्दप्रवृत्तिनिमित्तम् । तथा च घ्राणादिपदमेव घ्राणत्वादिपरं लक्ष्यनिर्देशः । तच्च “इन्द्रियाणी”त्यनेन सूचितम् । तदेव त्ववयवार्थपरं लक्षणनिर्देशो घ्राणेत्यादि833 । न च सन्निकर्षेण गन्धोप लब्धिसाधनेन च831 व्यभिचारः, इन्द्रियसामान्यलक्षणयुक्तस्य गन्धोपलब्धिसाधनत्वं न सन्निकर्षस्यास्ति । तदनेन “जिघ्रती”त्यादि “स्वविषयग्रहणलक्षणानि” इत्यन्तं “भाष्यं” व्याख्यातम् । निर्वचनग्रहणेन पदप्रवृत्तिनिमित्तमात्रमुच्यते । तेन त्वक्पदमपि सङ्गृहीतं भवति । तस्यापि त्वक्स्थाने इन्द्रिये स्पर्शोपलब्धिसाधने एवोपचार इति ।
“भूतेभ्य” इति “सूत्रा”वयवतात्पर्यव्याख्यानपरं834 “भाष्यं भूतेभ्य इतीति । नानाप्रकृतीना”मित्यादि । तद् “वार्त्तिककारो” व्याचष्टे—“भूतेभ्य” इति । “पृथिव्यादीति ।” पृच्छति—“कः पुनरिति ?” उत्तरम्—“भूतगुणविशेषग्रहणसाधनत्वम् ।” घ्राणेनैव हि पृथिव्या यो गुणविशेषो गन्धः स गृह्यते, न रसनादिना । एवं रसनेनैवापां यो माधुर्यं गुणविशेषः स गृह्यते, न835 घ्राणादिना । एवं चक्षुषैव शुक्लभास्वरं रूपं तेजसः । एवं त्वचैवानुष्णाशीतस्पर्शोऽपाकजो वायोः । एवं श्रोत्रेणैव शब्दो नभस इति हि नियमः । अत्र च प्रयोगः, गन्धोपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रियावदिति । एवं सा तदन्यक्रियाकरणातिरिक्तकरणनिष्पाद्या तदन्वयव्यतिरेकाननुविधाने सति कार्यत्वात् । या यत्क्रियाकरणान्वयव्यतिरेकाननुविधाने सति कार्या, सा सर्वा तत्क्रियाकरणातिरिक्तकरणनिष्पाद्या,836 यथा पटादिक्रिया घटादिक्रियाकरणचक्रदण्डाद्यतिरिक्तवेमादिकरणनिष्पाद्या । तथा चेयम् । तस्मात् तथेति । तच्च करणं चक्षुराद्यतिरिक्तं घ्राणम् । तद् द्रव्यम् संयोगाधारत्वाद् घटादिवत्837 । तच्च पार्थिवम् । द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् पार्थिवान्तरवत् । एवं रसनादिष्वपि योज्यम् । तदिदमुक्तम् “यज्जातीयमिन्द्रियं” पार्थिवं पाथसीयं वा भवति, तस्य पृथिव्याः पाथसो वा यो गुणविशेषो गन्धो वा मधुर एव वा रसभेदः, तेन हि पृथिवी अबादिभ्यः,838 आपो वा पृथिव्यादिभ्यो व्यवच्छिद्यन्ते इति “इतरेतरभूतव्यवच्छेदहेतुः स तेनैवेन्द्रियेण गृह्यते” नान्येनेति । न चैवं रसना अपामिव पृथिव्या अपि रसभेदं गृह्णातीति पार्थिवी भवति, तथात्वे तया गन्धोऽप्युपलभ्येत । तेन “तेनैवेन्द्रियेणेति” नियमो गुणविशेषमवधारयति, न त्विन्द्रियमिति । अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चिद् भेदं विवक्षित्वा भूतेभ्य इति पञ्चम्यर्थो व्याख्येयः839 ।
अनेन खल्वाहङ्कारिकाणीन्द्रियाणि इति यदाहुः “साङ्ख्याः” तत् निराकृतम् । निराकरणहेतुमाह—“ऐकात्म्य” इति श्लिष्टं पदम् । “साङ्ख्यानां” किल राद्धान्ते कारणात्मकं कार्यम् । तच्च कारणमिन्द्रियाणामहङ्कार एक इत्यैकात्म्यमेककारणकत्वम् । तथा चैकात्म्यमेकत्वं घ्राणादीनामित्यनियमः स्यादिति । तदेतद् विभजते—“यदि पुनरिति ।” शङ्कते—“एकेति ।” विभजते—“अथेति ।” एकः पाक्य एकोऽग्निसंयोगः एकं चौष्ण्यमित्यर्थः । निराकरोति—“न ब्रूम” इति । यद्यप्यौष्ण्यं निमित्तं साधारणम्, तथापि गन्धाद्युत्पत्तौ पूर्वगन्धादिध्वंसानां निमित्तानां840 भेदादुत्पन्नं कार्यनानात्वमिति । तदिदमुक्तं “ये पूर्वे रूपादयः तेषां स्वगतो विशेषः” प्रध्वंस इत्यर्थः । अथ रूपत्वादिसामान्यमेव कस्मात् स्वगतो विशेषो न भवतीत्यत आह—“एवं च कृत्वेति ।” रूपादिसामान्यानां तादवस्थ्ये न पक्वतरतमादिभेदः । प्रध्वंसानां तु स्तोकभूयस्त्वं निःशेषत्वे नोपपद्यते इति भावः । पुनराशङ्कते—“एकं कर्मेति ।” निराकरोति—“नेति ।” समवायिकारणं स्वाश्रयप्रत्यासत्तिं वापेक्षत इति भावः । शङ्कते—“यदि तर्हीति । लक्षणहानिः ।” तथा च लक्षणहानिरित्यर्थः । निराकरोति—“नेति841 । चरमभाविनिमित्तान्तरं” भावरूपमित्यर्थः । संयोगाभावं तूत्तरसंयोगजननायापेक्षत एव । उपसंहरति—“तस्मादिति ॥ १२ ॥”
पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥ १ । १ । १३ ॥
इन्द्रियप्रकृतित्वं तु भूतलक्षणं वेदितव्यम् ॥ १३ ॥
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ १ । १ । १४ ॥
क्रमप्राप्तमर्थलक्षणमवतारयति “भाष्यकारः—इमे त्विति ।” तुशब्देनार्थमात्राद् व्यवच्छिनति । येषामिन्द्रियविषयत्वेन भाव्यमानानां निःश्रेयससाधकत्वम्, मिथ्याज्ञानविषयीकृतानां तु संसारनिमित्तता, त इमे इत्यर्थः ।
“गन्ध—र्थाः ॥” अत्र चोद्देशक्रमस्मारिता अर्था लक्ष्यतया प्रतिपत्तव्याः, तेषां लक्षणं “तदर्था” इति । तदित्यनन्तरलक्षितानीन्द्रियाणि परामृशति, तेषामिन्द्रियाणामर्थाः । इन्द्रियैरर्यमाणत्वमर्थानां लक्षणम् । एतावतैव लक्षणे पर्यवसिते सुहृद्भावेन प्रविभागाभिधानं “पृथिव्यादिगुणा” इति । पृथिव्यप्तेजांसि च गुणाश्च धर्माः सङ्ख्याकर्मादयः । प्रविभागेऽप्येतावतावगते गन्धाद्यभिधानं सुहृद्भावेनेन्द्रियविषयनियमज्ञापनार्थम् । “पृथिव्यादीनामिति भाष्यं” न षष्ठीसमासज्ञापनार्थम्, अपि त्वर्थाभिधानमात्रम् । “यथाविनियोगमिति ।” यथाक्रमं पृथिव्यादिष्वनिलान्तेषु गन्धादयः स्पर्शान्ताः चतुस्त्रिद्व्येकनियमेन विनियुक्ताः । शब्दश्चाकाश एवेत्यर्थः । तदर्था इति लक्षणपदं व्याचष्टे—“इन्द्रियाणामिति ।” येन क्रमेण घ्राणादय “इन्द्रियसूत्रे” पठिताः, येन चेह गन्धादयः, तदनतिक्रमेणेत्यर्थः । अत्र “वार्त्तिककारः” पृथिव्यादिगुणा इत्यत्रानेकसमासप्रतिभासनात् संशयं कृत्वा द्वन्द्वसमासमवधारयति—“पृथिव्यादिगुणा” इति । षष्ठीसमासेनाभिन्नार्थत्वात् सप्तमीसमासस्येत्यसौ842 न दर्शितः । ननु कण्ठेकाल इतिवद् वैयधिकरण्येन बहुव्रीहिर्भविष्यति पृथिव्यादीनां गुणा येभ्यो गन्धादिभ्यः, ते तथा । तथा हि परमाणुगता गन्धादयोऽवयविनि गन्धाद्यारभन्ते, नभोगतश्च शब्दो नभसि समानजातीयं शब्दमित्यत आह—“न चान्यथेति ।” ज्ञापकवशात् क्वचिद् व्यधिकरणानां बहुव्रीहिः । ज्ञापककृतं च न सर्वत्र । न च गन्धादीनां पृथिव्यादिगुणहेतुत्वप्रतिपादनं क्वचित् निर्वेदादावुपयुज्यत843 इति भावः । “अन्यसमासः” कर्मधारयादिः । द्वन्द्वमवधारितमाक्षिपति—“न द्वन्द्व” इति । समाधत्ते—“न, उभयस्यापीति । पृथिव्यादिग्रहणेनेति ।” यद्यादिशब्देन वाय्वादयो गृह्येरन्, “तदर्था” इति लक्षणमव्यापकं स्यात्, तेषां बाह्येन्द्रियार्थत्वाभावादित्यर्थः । “गुणग्रहणेन च सर्व” इति आश्रितानाश्रितत्वाभिप्रायम्, गुणशब्दस्य धर्मवचनत्वात् । “विशेषस्तु” रेखोपरेखादिः न त्वन्त्यः, तस्यातीन्द्रियत्वात् । एतेषां च यथायोगं मिथ्याज्ञानसम्यग्ज्ञानविषयाणां रागवैराग्यहेतुत्वमूहनीयम् । चोदयति—“गन्धेति ।” परिहरति—“न कर्तव्यं” लघुसूत्रम् । गन्धादीनां पृथगभिधानं कर्तव्यमित्यर्थः । नियममाह—“इन्द्रियाणीति । तत्रेत्य”नियतेषु मध्ये “पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि, शेषश्च गुणराशिः” सङ्ख्यादिर्विशेषान्तो द्वीन्द्रियग्राह्य इत्यर्थः । “तथा” सर्वेन्द्रियग्राह्य इत्यर्थः844 ।
अत्र “बौद्ध”मुत्थापयति—“दर्शनस्पर्शनाभ्यामिति ।” तस्य पर्यनुयोगमाह—“स” इति । स्वसंवेदनेन वा मानसेन वा ज्ञानेन845 रूपाद्यालम्बनः प्रत्ययो रूपादिविशिष्टो यथानुभूयते, एवं रूपाद्यतिरिक्तघटादिविशिष्टोऽनुभूयत इत्यर्थः । अत्र “पर” आह— “रूपादिभ्यस्तथा सन्निविष्टेभ्य” इति । तथेत्याकारं निर्दिशति । “सन्निवेशो” व्यवस्थानम् । रूपादिपरमाणव एव “तेन तेनाकारेण” उत्पन्ना एकयोदकाहरणक्रियया व्यवच्छिन्ना घट इत्युच्यन्ते । अनुरञ्जनादिकया तु रूपादिव्यपदेशः । यथाह घट इत्यपि च रूपादयं एवैकार्थक्रियाकारिणस्तथा व्यपदिश्यन्ते इति । निराकरोति—“न, आकारार्थेति ।” तथार्थस्य यथा पदार्थेन नित्याभिसम्बन्धात् यथा घटः, तथा सन्निविष्टा रूपादय इत्यर्थो गम्यते । तेन घटाकारेण घटसादृश्येनेत्ययमर्थः । तथा च दूषणमिति । दूषणान्तरमाह—“रूपादिमात्रे चेति ।” न तावद् रूपादिक्षण एको घटः, क्षणान्तरे तत्प्रयोगाभावप्रसङ्गात् । तस्माद् रूपादिमात्रमविवक्षितभेदम्846 तथा सत्येतद्दूषणमित्यर्थः । शङ्कते—“संस्थानभेदादिति ।” यथासंस्थाना रूपादयोऽर्था847 अनुभूयन्ते, तथा सन्निविष्टेभ्यो घटादिप्रत्यया इत्यर्थः । निराकरोति—“नैतदिति । अन्यत्वे” तदेवावयवीति सञ्ज्ञाभेदमात्रम् । “अनन्यत्वे व्यर्थाभिधानम् ।” शङ्कते—“घटादिप्रत्यया” इति । एकानेकविचारासहत्वाद् असन्त एव घटादयोऽनादिविकल्पवासनाजनितविकल्पप्रत्ययप्रतिभासिनः848 । शब्दशब्देन विकल्पमुपलक्षयति—“शब्दवासनावशादिति ।” निराकरोति—“तदयुक्तमिति । बीजं” मिथ्याप्रत्ययस्य सम्यक्प्रत्ययविषयोऽर्थः । तस्य क्वचिदभ्युपगमेऽभिमतार्थहानमित्यर्थः । यस्तु भिन्नलोकमर्यादतया ब्रूते आदिमान् मिथ्याप्रत्ययः सम्यग्ज्ञानं निमित्तीकरोति । अयं पुनरनादिः पूर्वपूर्वमिथ्याप्रत्ययजन्मा849 मिथ्याप्रत्ययप्रवाहः, कृतमत्र सम्यग्ज्ञानेनेति, तं प्रत्याह— “मिथ्याप्रत्ययाश्चैत” इति । रूपाद्यव्यतिरेके850 अवयविन इत्यर्थः । परस्त्वव्यतिरेके851 प्रमाणमाह—“न नास्तीति ।” न हि मांसतोयातिरिक्तः कश्चिद्यूषो नाम । नापि तृणराजतरुव्यतिरिक्ता पङ्क्तिर्नाम ।
दूषयति—“नायं हेतुरिति । ये घटादिभावमापन्ना” भवतां दर्शने इति । “कामेऽष्टद्रव्यकोऽणुरशब्दः” रूपधातुररूपाधातुः कामधातुरिति त्रैधातुकं जगत् । तत्र कामधातुस्वरूपमुक्तम् । “कामे” कामधातौ । अष्टद्रव्यकोऽणुः । रूपरसगन्धस्पर्शा इति चत्वारि द्रव्याणि, पृथिव्यप्तेजोवायव इति चत्वारि । द्रव्यशब्दो वस्तुवचनः । तेनाष्टद्रव्यकोऽणुरित्यागमः852 । सोऽयं रूपाद्यतिरिक्तपृथिव्याद्यनभ्युपगमे बाध्येत । “अथ” वैयात्यादुच्यते—“पृथिव्यादीनामिति ।” ततश्च सांवृतत्वेनाष्टसङ्ख्यासिद्धेर्नागमविरोध853 इति भावः । उत्तरम्—“तथापीति ।” मा भूवन् वस्तुतः, उभयेऽपि सांवृता भविष्यन्तीत्यत आह—“संहन्यमानस्येति ।” यो हि यत्तन्त्रः स तदभावमभ्युपगम्याशक्याभ्युपगमः, न खलु संयुज्यमानानामभावे संयोगः शक्याभ्युपगम इत्यर्थः । न च संवृतिः, सा हि पररूपं स्वरूपेण संवृणोति, संहन्यमानाभावे च न सङ्घातः, नापि संहन्यमाना इति किमनया स्वरूपेणाव्रियेतेति भावः ।
तदेवं “तदग्रहे तद्बुद्ध्यभावादि”त्यस्य व्याघातदोषं दर्शयित्वा स्वसामर्थ्यालोचने न विवक्षितलिङ्गाभिधायिता, किं त्वसम्बद्धार्थता हेतुवचनस्येत्याह—“तदग्रहे” इति । एवं किलात्राभिमतम्, पृथिव्यादयो रूपादिभ्योऽभिन्ना, रूपाद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति । तन्न854 तदेतदग्रहे855 तद्बुद्ध्यभावादित्यनेन न शक्यं वक्तुम् । तदग्रह इत्यत्र तच्छब्दः प्रधानपरामर्शी, पृथिव्यादयश्च धर्मितया प्रधानमिति परामर्ष्टव्याः856 । तथा च पृथिव्याद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति स्यात् । तथा च प्रतिज्ञातस्तेषां रूपाद्यभेदो न सिध्येदित्यसम्बद्धम् । अथ रूपादयः पक्षीक्रियन्ते, तथापि रूपाद्यग्रहे रूपादिबुद्ध्यभावादिति स्यात् । तथापि न प्रतिज्ञातार्थसिद्धिरित्यसम्बद्धार्थमित्यर्थः । एवं शब्दान्तरेणापि प्रतिज्ञाप्रयोगे तुल्यः प्रसङ्ग इत्याह—“एवं रूपादिमात्रमिति ।” प्रतिज्ञादोषमाह—“सर्वत्र चेति ।” नानात्वैकार्थसम्बन्धनियताया बहुत्वसङ्ख्याया अभेदैकार्थनियतैकत्वसङ्ख्यया सामानाधिकरण्यविरोध इत्यर्थः । तदेतदनैकान्तिकमिति चोदयति—“नन्विति ।” निराकरोति—“तन्न, अनभ्युपगमादिति । समानं धर्मसाधनम् ।” यमाः पञ्च । नियमाश्च पञ्च । ब्रह्मचारिगृहस्थवानप्रस्थयतीनामविशेषेणैव दश धर्मसाधनम् । तेषां धर्मसाधनत्वमेकं चातुराश्रम्यमिति प्रकृतिगता857 विभक्तिराह । आश्रमप्रकृतिगता तु विभक्तिः प्रकृत्यर्थसमवेतामेव बहुत्वसङ्ख्यामाह,858 समानार्थानामपि प्रकृतीनां रूपभेदेन तत्परस्य प्रत्ययस्य सामर्थ्यभेदात् । यथाप्तोयशब्दयोस्तुल्यार्थत्वेऽपि तोयशब्दात् परा विभक्तिस्तोयानीति तोयसमवेतामेव बहुत्वसङ्ख्यामाह । आप इति न तोयगताम्, अपि तु तत्सम्बद्धगताम् । तत्सम्बद्धाश्च तदवयवाः, तद्गतरूपादयो वा बहव इत्येकस्यामपि पाथःकणिकायां बहुवचनोपपत्तिराप इति । न च सोरस्ताडं क्रन्दतोऽपि लोकस्याविनिवृत्तेर्नैवमिति859 साम्प्रतम् । लोको हि दृष्टव्यवहारमात्रप्रयोजनो न विवेचयति, परीक्षकास्तु तदनुसारिणो विवेचयन्त्येव । अन्यथा हि प्रत्यक्षादिलक्षणप्रणयनवैयर्थ्यप्रसङ्गः । एतेन दाराः षण्णगरीत्यादयोऽपि व्याख्याताः । षाङ्गुण्यमिति860 षण्णां गुणानामेकं राजप्रयोजनसाधकत्वम् । वैशेषिकमित्यत्रापि विशेषाणां समानासमानजातीयव्यवच्छेदकत्वमेकमुच्यते इति गमयितव्यम् । हेतुदोषमाह—“असिद्धोऽपीति ।” स्फटिकस्य धवलं रूपम् । तच्च नीलीद्रव्यानुषङ्गादभिभूतं न प्रतीयते । स्फटिकश्च प्रतीयते । न च नीलस्य स्फटिकलक्षणस्योत्पत्तिरिति तृतीये निवेदयिष्यते861 । तस्मादसिद्धो हेतुरित्यर्थः ।
दृष्टान्तश्च साध्यविकल इत्याह—“योऽप्ययमिति । उत्पन्नपाकजानां” तैले सर्पिषि वा भृष्टमांसपिण्डावयवानाम्, “द्रव्यान्तरेण” तोयेन “सम्पृक्तानां”862 पाकजोत्पत्तौ सत्याम् । न चासौ सहसेति अत863 उक्तम्—“कालविशेषानुग्रहे सतीति ।” स च संयोगभेद एव तोयमांसयोः, न त्ववयवी, विजातीययोरनारम्भकत्वात् । नापि यूषजातीयं तोयसंयोगि द्रव्यं क्षीरजातीयमिवेति युक्तम् । तोयविरहे काठिन्येऽपि क्षीरबुद्धिव्यपदेशयोस्तादवस्थ्यात् । इह तु काठिन्ये न यूषबुद्धिव्यपदेशाविति संयोगभेद864 एव तोयमांसयोर्यूष इति न्याय्यम् । स चानुभवसिद्धः संयोगिव्यतिरिक्तः । एवं “बहुत्वसङ्ख्या” सङ्ख्येयातिरिक्तानुभवसिद्धैवेति । एवं तत्र तत्र व्याख्येयम् । “अनाद्यन्तेषु” अनारब्धावयविष्विति द्रष्टव्यम् । न च परकीयसाधनदोषोद्भावनमात्रात् स्वपक्षसिद्धिरिति सिद्धान्तिनं साधनं पृच्छति—“अथ” रूपादिभ्योऽ“र्थान्तरे” द्रव्ये “किं प्रमाणमिति ।” यतोऽयं परो865 रूपादिभ्योऽर्थान्तरं द्रव्यं प्रत्यक्षेण विद्वानपि स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारो न तथा व्यवहरति, अतोऽनेनानुमानेन स व्यवहार्यते । अस्ति हि सर्वेषामेव लौकिकपरीक्षकाणां ब्राह्मणस्य कमण्डलुरितिवत् चन्दनस्य रूपादय इति व्यपदेशः । तत्र च परो रूपाद्युपलम्भमभ्युगपच्छति चन्दनोपलम्भमपि । अन्यथा तद्बुद्ध्यभावादित्येतावन्मात्रे वक्तव्ये कथमाह तदग्रह इति ? तेनावगच्छामो866 रूपादिग्रहेऽस्य चन्दनबुद्धिः अभिमतेति । न चासौ मनोमात्रयोनिः स्मार्तीति न्याय्यम् । उपपादितमेतस्याः सविकल्पिकाया867 इन्द्रियजन्यत्वं व्यवसायात्मकपदव्याख्यानावसरे868 । द्रव्यबाधकप्रमाणानि च परीक्षापर्वणि निराकरिष्यन्ते । तस्मात् सिद्धमुपलभ्यत्वं चन्दनस्य869 । सोऽयं चन्दनो विवादगोचरेभ्यो रूपादिभ्यो भिन्नः, स्वयमुपलभ्यस्य च समस्तैरुपलभ्यैर्व्यपदिश्यमानत्वात् । प्रधानमपि “साङ्ख्यै”र्व्यपदिश्यते, प्रधानस्य रूपादय इति । तन्निवृत्त्यर्थम् “उपलभ्यस्येति ।” प्रधानं तु काल्पनिकं नोपलभ्यम्, तथापि रूपादीनां मूलकारणं प्रधानमित्यस्ति “साङ्ख्यानां” व्यपदेशः । अत उक्तम्—“उपलभ्यैरिति ।” तथापि रूपादीनां परस्परभिन्नानामन्योन्यं व्यपदेश्यव्यपदेशकभाव उपपत्स्यत इत्युक्तम्—“समस्तैरिति ।” अतः समस्तेभ्यो व्यपदेशकेभ्यश्चन्दनं भिन्नं भवति । उपलभ्यस्योपलभ्येनेति वक्तव्ये “प्रत्यक्षस्य प्रत्यक्षेणेति” वचनं रूपावगमसमयेऽनुमेयेभ्यो रसादिभ्य एकान्ततो व्यपदेशं व्यावर्तयितुम्, न त्वस्यानुमान उपयोग इति । अस्यानैकान्तिकत्वमुद्भाव्य निराकरोति—“सेनावनादिभिरिति ।” सङ्ख्यायामसत्त्वमाशङ्क्य निराकरोति—“तदसत्त्वमिति चेदिति । विधीयमानं प्रतिषिध्यमानमिति” यथासङ्ख्यं निषेधस्य विध्यधीननिरूपणतया निषेध्यमेकत्वमङ्गीकार्यम्, तच्च सङ्ख्येत्यर्थः । ननु सन्त्वमी प्रत्ययाः, ते तु द्रव्यमात्रनिबन्धना870 भविष्यन्ति, कृतं सङ्ख्ययेत्यत आह—“विशिष्टाश्चेति । न” द्रव्यातिरिक्त“निमित्तप्रत्याख्यानेन” इत्यर्थः । प्रयोगान्तरमाह—“तत्प्रत्ययविषयनिमित्तप्रत्ययव्यतिरेकेणेति ।” घटप्रत्ययस्य विषयश्च, निमित्तं च, घटप्रत्ययश्च तद्व्यतिरेकेणेति, “तद्विशिष्टसङ्ख्यादिप्रत्ययस्य निमित्तान्तराकाङ्क्षित्वात् ।” तत्871 किमर्थमत उक्तम्—“उत्पत्ताविति ।” चर्मणि द्वीपिनं हन्ति इतिवद् घटादिविषयनिमित्तव्यतिरेकभाज इत्यत्रापि प्रत्ययग्रहणं कर्तव्यम् । चोदयति—“महत्पुष्पितेति ।” न सङ्ख्याया गुणस्य परिमाणपुष्पयोगसम्भव872 इत्यर्थः । परिहरति—“नैष दोष” इति । स्थानशब्देन तिष्ठतीति व्युत्पत्त्या सङ्ख्योच्यते । सा येषामस्ति ते गजवाजिपदातिप्रभृतयः स्थानिनः प्रत्येकं महान्तः । तत्र ते क्वचिच्छतमेव, क्वचित् पुनस्तज्जातीयस्थान्यङ्गान्तरसन्निधाने सत्युपचिताः सहस्रं भवन्ति । तेन बहुत्वसङ्ख्योपचयोपकरणा तदेकार्थसमवेतमहत्त्वोपचारात् महती सेनेत्युच्यते । न चैतावता यत्र शतं गजादयः यत्र च सहस्रं तयोः सेनयोर्महत्त्वाविशेषः, उपचयापचयोपकरणत्वेन873 विशेषितत्वात् । एवं पुष्पितवनादयोऽपि631 द्रष्टव्याः । प्रत्ययभेदाद् द्रव्यादिभ्यः सङ्ख्याया भेदमुक्त्वा व्यपदेशभेदादप्याह—“अत एवेति ।”
“स्थाणुशब्देनापीति ।” मूर्तानां समानदेशत्वाभावात् न पर्वसु खदिरश्च स्थाणुश्च समवेतौ । न चावस्थितसंयोगेभ्यस्तरुविनाशापेक्षेभ्यः स्थाणोरुत्पत्तिरिति युक्तम् । यस्य द्रव्यस्य यावान्874 संयोगप्रचयोऽसमवायिकारणं स तावानुत्पन्नमात्र एव तज्जनकः, तस्य875 क्षेपायोगात् । तस्मात् पर्वणां “संस्थानविशेष” एव स्थाणुरिति गमयितव्यम् । अथावस्थितसंयोगानां द्रव्यविनाशापेक्षाणां जनकत्वम्, ततः संयोगप्रचयपदेन स्थाणुत्वसामान्यविशेषवद् द्रव्यमुपलक्षणीयम् । तच्च खदिरतरोर्भिन्नमिति । “प्रतिमाया” महारजतमय्या अवयविन्याः “शरीरं” संस्थानमेव, एवं “शिलापुत्रकस्य” अवयविनः संस्थानमेव “शरीरम् ।” शङ्कते—“गुणसमुदायेति ।” अतादात्म्येनाग्रहणं “व्यतिरेकेणाग्रहणम्” पृथक्शब्दोऽप्यतादात्म्यमेव ब्रूते । दूषयति— “अग्रहणस्येति ।” सतामपि वस्तूनामनुपलम्भो यथा मूलकीलोदकादीनां876 प्रमाणाभावेन, शशविषाणादीनां चानुपलम्भो ग्राह्याभावेन । तस्माद् व्यतिरेकाग्रहणमात्रं हेतुरनेकान्त इति । शङ्कते—“ग्राह्याभावादिति चेत्,” ग्राह्याभावे सत्यग्रहणादिति हेतुः, न त्वग्रहणमात्रमित्यर्थः । दूषयति—“प्रतिज्ञार्थेनेति” प्रतिज्ञातस्यासत्त्वेन877 तद्विशिष्टो हेतुरसिद्ध इत्यर्थः । शङ्कते—“ग्रहणेति ।” ग्रहणं प्रमाणम् । निराकरोति—न प्रमाणाभावमात्राद्878 “व्यतिरेकप्रतिषेधः,” यस्तु योग्यप्रमाणाभाववदिति विशेषयेत्879 तं प्रत्याह—“यश्च तदग्रह” इति । असिद्धता हेतोर्दोषः । दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानमेव रूपादिव्यतिरिक्तद्रव्यग्रहणम् । अतो880 गुणसमुदायव्यतिरेकेणाग्रहणादित्यसिद्धो881 हेतुरिति । “एकत्र” अन्यत्वे । “प्रमाणानामुपपत्तेः । एकत्र” अनन्यत्वे “चानुपपत्तेरिति ।” प्रकृतमुपसंहरति—“तस्मादिति” ॥ १४ ॥
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥ १ । १ । १५ ॥
आत्मादीनां बुद्धिहेतूनां लक्षणस्यानन्तरं हेतुमती बुद्धिर्लक्षणीयेत्याह “वार्त्तिककारः—अथ बुद्धेरवसरप्राप्ताया” इति । लक्षणं तावत् प्रकृतत्वादपदेष्टव्यमेव, तदपदेशद्वारेणान्यदपि किञ्चित् सूचनीयम् । अत एवोक्तम्—“सूत्रमिति ।” अन्यच्च “साङ्ख्य”मतनिराकरणम् । यथोक्तं “भाष्यकारेण अचेतनस्य करणस्य बुद्धेरिति । इव”कारेण नेदं प्रत्याख्यानपरम्, अपि तु लक्षणपरादयमप्यर्थः प्रतीयमानोऽपेक्षितश्च नोपेक्षणीय इत्युक्तं भवति ।
“बुद्धि—रम् ॥” सूत्रतात्पर्यमाह—“एतैरिति ।” पृच्छति—“कथमिति ।” समानासमानजातीयव्यवच्छेदकं हि लक्षणमव्यभिचारितया । पयार्यशब्दाश्च सङ्केतमात्राधीनप्रवृत्तयः क्व नाम न सम्भवन्ति ? तस्मात् नैते लक्षणमिति भावः । उत्तरम्— “व्यवच्छेदेति ।” ननु व्यभिचारसम्भवेन व्यवच्छेदकत्वमयुक्तमित्यत आह—“एतैश्चेति ।” सङ्केतो हि द्वेधा, सर्वजनीनो882 यथा गौरिति गोजातीयस्य वाचकः, प्रादेशिकश्च यथा चैत्र इति पुरुषभेदस्य । तत्र सर्वजनीनः882 शक्नोति व्यवच्छेदबुद्धिं भावयितुम् तद्विवक्षयैवोक्तम्—“एतैश्चेति । उपपत्तिसामर्थ्यादिति भाष्या”वयवं व्याचष्टे— “पर्यायेति । अचेतनस्येत्यादि भाष्यम् ।” तद् व्याचष्टे—“य आहुर्बुद्धेरिति ।” बुद्धिः किल त्रैगुण्यविकारः । त्रैगुण्यं चाचेतनमित्यचेतनं883 केवलमिन्द्रियप्रणालिकया अर्थाकारेण परिणमते । चितिशक्तिश्चापरिणामिनी नित्यचैतन्यस्वभावा । तस्याः सन्निधानादयस्कान्तमणिकल्पा बुद्धिस्तत्प्रतिबिम्बोद्ग्राहितया चैतन्यरूपतामापन्नेवार्थाकारपरिणतार्थं चेतयते । तेन योऽसौ नीलाकारः परिणामो बुद्धेः, स ज्ञानलक्षणा वृत्तिरित्युच्यते । आत्मप्रतिबिम्बस्य तु बुद्धिसङ्क्रान्तस्य यो बुद्ध्याकारनीलसम्बन्धः, स आत्मनो व्यापार इवार्थोपलब्धिरात्मनो884 वृत्तिरित्याख्यायते । तदिदं बुद्धितत्त्वं जडप्रकृतितया इन्दुमण्डलमिव885 स्वयमप्रकाशं चैतन्यमार्तण्डमण्डलच्छायापत्त्या प्रकाशते, प्रकाशयति चार्थानिति । तन्निराकरणाय पर्यायोपन्यासः । नात्मवृत्तेरुपलब्धेरन्यास्ति बुद्धिः । नापि बुद्धिवृत्तिर्ज्ञानमन्यदिति । अयमभिसन्धिः । न तावद् बुद्धेरात्मच्छायापत्तिरिन्दाविव मार्तण्डमण्डलतेजःसङ्क्रान्तिः886 पारमार्थिकी, चितेरपरिणामितया सङ्क्रमायोगात् । तस्माद् भ्रान्तिः । सा च न तावद् बुद्धेः, तस्या अचैतन्यात् । नाप्यात्मनः, तस्यावृत्तिकत्वात् तथात्वे वा परिणामापत्तेः । तस्मात् कृपणधनमिवात्मचैतन्यं न स्वपरोपकारीति बुद्धेः स्वाभाविकं चैतन्यमास्थेयम् । तथा च उभयचैतन्ये दूषणमुक्तम्887 । प्रत्ययव्यवस्थया यदेककर्तृत्वानुमानं तन्न स्यादित्यर्थः । अथ द्वयोश्चेतनयोरेका वृत्तिर्भेदाग्रहो वा, तेनैककर्तृकत्वाभिमान इत्यत आह—“बुद्धिवृत्त्यविशिष्टायामिति । बुद्धिर्ज्ञानसाधनमिति ।” बुध्यतेऽनेनेति व्युत्पत्त्या मन उच्यते । गन्धादिविषयतया सुखदुःखविषयतया चेयं बुद्धिर्भाव्यमाना निर्वेदाय कल्पत इति ॥ १५ ॥
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १ । १ । १६ ॥
“भाष्यकारः” क्रमप्राप्तं मनोलक्षण“सूत्र”मवतारयन् उत्सूत्रमन्यान्यपि लक्षणानि आह—“स्मृतीत्यादि । सुखादिप्रत्यक्षमि”त्यादिशब्देन विषयतयेच्छादयः सङ्गृहीता । इच्छादय इत्यत्रादिशब्देन कार्यतया सुखादयः सङ्गृहीताः ।
“युग—ङ्गम् ॥ अनिन्द्रियनिमित्ता” अबाह्येन्द्रियनिमित्ता इत्यर्थः । “स्मृती”त्यादि“भाष्य”स्य “वार्त्तिककारः” तात्पर्यमाह—“स्मृतीति ।” अनिन्द्रियेत्यादि“भाष्यं” व्याचष्टे— “यस्मादिति ।” इन्द्रियगतरूपादिनिवृत्त्यर्थमुक्तम्888 “इन्द्रियसंयोगीति ।” तथापि आकाशादीनामपि मनस्त्वं मा भूदित्यत उक्तम्—“सहकारीति ।” तथाप्यालोकस्य मा भूदित्यत उक्तम्—“निमित्तान्तरमिति ।” तथाप्यात्मनो मा भूदित्यत उक्तम्— “अव्यापीति ।”
आक्षिप्य “भाष्यं” समाधत्ते—“कथं पुनरिति ।” चक्षुरादिभ्योऽनुत्पतौ सत्यां “क्रियात्वात् ।” अत्र च य आत्मनो विशेषगुणास्ते सर्वे इन्द्रियजन्मानो यथा गन्धादिप्रत्ययाः, तथा च विवादाध्यासिताः स्मृत्यादयः । तस्मात् तेऽपीन्द्रियजन्मानः । एवं च संस्कारादिषु न करणत्वप्रसङ्ग इति । सौत्रं हेतुमाक्षिप्य समाधत्ते—“अथायुगपदिति । सम्बन्धिभेदादिति ।” यदा तस्यैव मनःसंयुक्तस्येन्द्रियस्य क्रमेण नीलादयोऽर्थाः सम्बध्यन्ते तदा तत्क्रमात् क्रम इत्यर्थः । बुभुत्साक्रमं गृहीत्वा सिद्धान्तेऽपि मनःपरित्यागो मा भूदिति889 भिया उक्तम्—“सत्यां बुभुत्सायामयुगपद्ग्रहण” इति । “न हि किञ्चित्करणं सम्बद्धमपि सदिति” स्यात् । यद्येवं धारावाहिकज्ञानोत्पत्तिर्न स्यात्, द्वितीयादिज्ञानेष्वपि सैव सामग्रीति सकृदेव यावत् कर्तव्यकरणात् समर्थस्य क्षेपायोगात् । क्षेपयोगे वा पश्चादपि न जनयेत्, अविशेषात् । न च कर्तुरप्ययं क्रमकारिताधर्मः स ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि करोति । यथा890 युगपन्माणवको गच्छति, पठति, पन्थानं891 वीक्षते, वहति चाचार्यस्य कमण्डलुमिति । तस्मात् सर्वमवदातम् । तदिदमपि मनः स्मृत्यादिसाधनतया भाव्यमानं निर्वेदाय कल्पत इति सिद्धम् ॥ १६ ॥
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥ १ । १ । १७ ॥
“क्रमप्राप्ता त्विति भाष्यम् ।” प्रवृत्तिलक्षणमवतारयितुं मनसोऽपि प्रवृत्तिर्दर्शनीया । न चाप्रतिपादिते मनसि शक्या दर्शयितुमिति मनसोऽनन्तरत्वं प्रवृतेः इत्यर्थः ।
“प्रवृ—म्भः ।” आरम्भः प्रवृत्तिः । सा च द्विविधा ज्ञानहेतुः क्रियाहेतुश्च । तत्र या ज्ञानोत्पादद्वारेण पुण्यपापहेतुः सा वाक्प्रवृत्तिः । वागिति च ज्ञापकहेतूपलक्षणम् । तेन मनसा इष्टदेवताद्यनुचिन्तनं चक्षुरादिभिश्च820 साध्वसाधुदर्शनादिसूचितं भवति । क्रियाहेतुर्द्वयी, कायनिमित्ता मनोनिमित्ता चेति । तदेतद् “वार्त्तिककारो” विभजते— “शरीरेणेति ।” ननु प्रवृत्तेर्जन्महेतुत्वमुक्तं द्वितीय“सूत्रे ।” न चेयं क्षणिका सती आमुष्मिकं जन्म साधयितुमर्हति । तस्माद् द्वितीय“सूत्र”व्याघात इति चोदयति—“क्षणिकत्वादिति ।” परिहरति—“नेति” ॥ १७ ॥
प्रवर्त्तनालक्षणा दोषाः ॥ १ । १ । १८ ॥
प्रयोज्यव्यापारपूर्वकत्वेन प्रयोजनकव्यापारनिरूपणात् प्रवृत्त्यनन्तरं दोषलक्षणम् ।
“प्रव—षाः ॥” रागद्वेषौ मोहप्रभवौ पुरुषं प्रवर्तमानं प्रवर्तयतः । तयोर्धर्मः प्रवर्तना । सा च मोहैकार्थसमवायः । तावद्धि अयं रागादिवशः स्पन्दते, यावदस्य मोहो वर्तते इति । “प्रत्यात्मवेदनीया” इत्यादि चोद्य“भाष्यम् ।” तस्यार्थः । लक्षणं खल्वनुमानम् । न च प्रत्यात्मवेदनीयेषु समानासमानजातीयव्यावृत्तेषु स्फुटतरेषु तद् युक्तमिति भावः । परिहार“भाष्यम्—कर्मलक्षणा” इत्यादि892 । तस्यार्थः । स्वरूपतः स्फुटत्वेऽपि न निर्वेदविषयतया स्फुटता । तथा चेह प्रयोजनम् । प्रवर्तनावत्त्वेन चैते निर्वेद विषयाः । सा च प्रवृत्त्या कार्येण लक्ष्यत इति कर्मलक्षणा इत्युक्तम् । यतः कर्मणा प्रवृत्त्या प्रवर्तकरागादियुक्ताः पुरुषा लक्ष्यन्ते, अतो रागादीनां प्रवर्तनावत्त्वमपि लक्षितं भवति । “बहु नोक्तं भवतीति ।” स्वरूपमात्रं रागादीनामुक्तं भवति, न तु प्रवर्तनात्वमपि893 तेषामित्यर्थः । तदेतत् सर्वं “वार्त्तिककारः” प्रश्नपूर्वकं व्याचष्टे—“का पुनरिति । अवशो”ऽस्वतन्त्रः । “सा पुनरियं प्रवर्तना” प्रवर्तकानां दोषाणां व्यापारः कथं गम्यते ? दोषा हि गम्यन्ते, न तु तेषां प्रवृत्तिहेतुत्वमपीत्यर्थः । उत्तरम्—“प्रत्यात्ममिति ।” स्वपरात्मनोर्यथासङ्ख्यं प्रत्यक्षानुमानाभ्याम् । मोहैकार्थसमवायो हि रागादीनां मानसप्रत्यक्षवेदनीय इत्यर्थः ॥ १८ ॥
पुनरुत्पत्तिः प्रेत्यभावः ॥ १ । १ । १९ ॥
उद्देशक्रमप्राप्तं प्रेत्यभावं लक्षयति—“पुनः—वः ॥”
“सत्त्वनिकायः” प्राणिनिकायः । नन्वात्मनो नोत्पत्तिः सम्भवति नित्यत्वादित्यत आह “भाष्यकारः—उत्पन्नस्य सम्बद्धस्येति ।” तदेतद् “वार्त्तिककारो” व्याचष्टे— “पूर्वेति । पुनर्ग्रहणमिति ।” पुनरित्यभ्यासमाह । तथा चानादिता सूचिता भवति । तदेतद् “वार्त्तिक”जातं द्वितीय“सूत्रे”894 कृतव्याख्यानम् । पूर्वाभ्यस्त“सूत्रे” चायमर्थ उपपादयिष्यते895 । “आजरञ्जरीभाव” इत्यागमभाषया अस्यार्थस्यागमिकत्वं सूचयति । क्रियामित्युपसर्पणमपसर्पणं चेत्यर्थः ॥ १९ ॥
प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ १ । १ । २० ॥
यद्यपि शरीरेन्द्रियबुद्धिसुखदुःखोपभोगातिरिक्तं896 गौणमुख्यफलं भिन्नं नास्ति ते च यथायोगं पूर्वं लक्षिताः, तेनापि631 च रूपेण ते निर्वेदोपयोगिनः, तथापि प्रवृत्तिदोषजनितत्वेनापि रूपेणामी निर्वेदोपयोगिन इति तेन रूपेण लक्ष्यन्ते ।
“प्रवृ—लम् ॥” अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्तिं प्रति दोषाणां हेतुभावः, अपि तु प्रवृत्तिकार्ये सुखदुःखे अपि प्रति इति दर्शनार्थम् । दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतः, नान्यथा । न चास्ति सम्भवो न तत्र तृष्यति897 तच्च तस्य सुखम् न च तद् द्वेष्टि तच्च तस्य दुःखमिति । “सूत्रे” अर्थग्रहणं गौणमुखफलावरोधार्थम् । “भाष्ये” च “निष्ठा” समाप्तिः । सा च महाप्रलयेऽप्यस्तीत्यत898 उक्तम्—“पर्यवसानमिति ।” अवसानमात्रमस्ति, न तु899 परितः पुनरपि सर्गहानोपादानयोर्भावादित्यर्थः । सुबोधं “वार्त्तिकम्” ॥ २० ॥
बाधनालक्षणं दुःखम् ॥ १ । १ । २१ ॥
नानुक्ते शरीरादौ तेषां दुःखत्वं शक्यं लक्षयितुमिति तल्लक्षणेभ्यः परमिदं दुःखलक्षणम्—
“बाध—खम् ॥” अत्र च “बाधनेति” बाधनाविषयां बुद्धिमुपलक्षयति900 । तेन बाधना च तदनुषङ्गिणश्च शरीरादयो गौणमुख्यभावेन लक्षिता भवन्ति । सैव हि बाधनाबुद्धिर्दुःखे मुख्या, शरीरादौ गौणीति । अलमेभिरिति प्रत्ययो निर्वेदः, वशितया योगिनः स्वयमुपलभन्ते901 स्वयमुपनीतेष्वपि631 विषयेषु औदासीन्यमुपेक्षाबुद्धिर्वैराग्यम् । “लक्षणशब्द” इति “वार्त्तिकम् ।” अनुषङ्गश्च सम्बन्धः । स च बाधनायां विषयविषयिभावः शरीरादिषूक्तः । केचिद् विरक्तम्मन्या मन्यन्ते न सुखं902 नामास्ति स्वरूपत इति । तान्निराचिकीर्षुराह—“स्वरूपतस्तु दुःखमिति । विकल्पो” विशेषः । “अभावफलत्वप्रसङ्गात्” इति । यद्यपि उपात्तदुरितक्षयहे तवोऽपि धर्माः सन्ति, तथाप्यधिकाधिकोत्कर्षफलानां903 दर्शपौर्णमासादीनां सहस्रसंवत्सरपर्यन्तानां विधायकेभ्यो वचनेभ्यो भावफल एव धर्मो गम्यते भावस्यैवोत्कर्षशालित्वादिति ॥ २१ ॥
तदत्यन्तविमोक्षोऽपवर्गः ॥ १ । १ । २२ ॥
क्रमप्राप्तमपवर्गलक्षणमवतारयति “भाष्यकारः—यत्र त्विति ।”
“तद—र्गः ॥” तदित्यनन्तरं गौणमुख्यभेदभिन्नं दुःखं परामृशतीत्याह “भाष्यकारः—तेन दुःखेनेति ।” मुख्यमेव दुःखमिति भ्रमो मा भूदत आह—“जन्मनेति904 ।” अनेन जायमाना दुःखशब्देन सर्वे शरीरादय उच्यन्ते इत्युक्तं भवति । “अभयमिति” पुनः संसारभयाभावमाह अभयं वै490 ब्रह्म इत्यसकृदभयश्रुतेः । ये तु ब्रह्मैव नामरूपप्रपञ्चात्मना परिणमत इत्याहुः, तान् प्रत्याह—“अजरमिति ।” सर्वात्मना वा परिणाम एकदेशेन वा । पूर्वस्मिन् कल्पे सर्वात्मना ब्रह्मणोऽन्यथात्वाद् विनाशप्रसङ्गः । एकदेशपरिणामे तु सावयवत्वेन घटादिवदनित्यत्वप्रसङ्गः इत सूक्तम्—“अजरमिति । वैनाशिकाः” प्राहुः प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः ।
इति । तान् प्रत्याह—“अमृत्युपदमिति ।” एतदुपपादयिष्यत्यग्रे905 “वार्त्तिककारः ।” तदेतद् “भाष्यं वार्त्तिकारो” व्याचष्टे—“तेनेति । आत्यन्तिक”ग्रहणं महाप्रलयावस्थानिवृत्त्यर्थम् ।
अत्र “भाष्यं नित्यं सुखमात्मन” इत्यादि । अस्यार्थः विज्ञानमानन्दं ब्रह्म इति सामानाधिकरण्यश्रुतेः ब्रह्मस्वभावं सुखम्, तथा च ब्रह्मणो नित्यत्वात् तदपि नित्यमित्यर्थः । “आत्मन” इति च षष्ठी राहोः शिर इतिवत् मन्तव्या । तदेतद् “भाष्यं” व्याचष्टे—“आत्यन्तिकीति । तेषामित्यादि भाष्यं” व्याचष्टे—“तन्नेति ।” अत्रानुमानमुप न्यस्यातिप्रसङ्गेन निराकरोति—“न,795 नेति ।” अथात्मनि दुःखादिकं906 नित्यं नेच्छति तत्राह—“अनैकान्तिकता वा । नित्यस्याभिव्यक्ति”रित्यादि “भाष्या”र्थमाह—“नित्यमिति907 ।” अयमभिसन्धिः । सुखं तावदात्मनो गुणो नात्मा । उपपादितो हि गुणगुणिनोर्भेदः908 । एवं विज्ञानमप्यात्मगुणः, न ह्मुदयव्ययवर्तीभ्यो विज्ञानव्यक्तिभ्योऽनुदयव्ययधर्मा भवितुमर्हत्यभिन्न आत्मा । न चात्मैव विज्ञानस्वभावः तत्तद्विषयोपधानेनोदयव्ययधर्मेव भवतीति909 साम्प्रतम् । घटमहं जानामीति मानस्यां बुद्धौ त्रयाणामपि ज्ञानज्ञेयज्ञातॄणां भेदेनानुव्यवसायात् । विषयतज्ज्ञानभेदेऽपि च ज्ञातुरेकस्य910 प्रतिसन्धीयमानत्वात् । न चैतद बाधके भेदज्ञानं भ्रान्तमिति युक्तम् । न चागन्तुकज्ञानातिरिक्तं स्वाभाविकम् आत्मनि चैतन्यमनुभूयते । न चात्मैव तत्स्वभावः, सुषुप्तत्वानुपपत्तेः, अचेतयन्नेव हि सुषुप्त इत्युच्यते । न च तदा विषयशून्यं स्वनिष्ठमात्मचैतन्यमिति युक्तम्911 । तदवस्थाभेदस्य सुषुप्तोत्थितेन स्वप्नान्तिकस्येव स्मरणप्रसङ्गात् । सुखं च न ज्ञानजातीयमित्युपपादितं प्रत्यक्ष“सूत्रे ।” न च किञ्चिदपि स्वयम्प्रकाशमस्तीति चतुर्थे विज्ञानवादं निराकुर्वन् वक्ष्यति912 ।
तदेवं व्यवस्थिते दूषणं “भाष्यवार्त्तिको”क्तं द्रष्टव्यं “यथायमात्मनःसंयोग” इति । संसारावस्थायां तावदयमात्ममनःसंयोगो धर्मं निमित्तमपेक्षमाणः सुखज्ञानमकार्षीत् । यदि तु मुक्त्यवस्थायां तदनपेक्ष एव सुखज्ञानं करोति, हन्त रूपादिज्ञानेषु इन्द्रियान्तराण्यपि नापेक्षेतेति भावः । शङ्कते—“योगजेति ।” न वयं विषयमात्रापेक्षां ब्रूमो येन रूपादिष्वपि ज्ञानमुत्पादयेत् अपि तु संसारावस्थायां यत् सुखज्ञानायानेनापेक्षितं तदपेक्षते । धर्मश्च तदा तेनापेक्षित इति मुक्त्यवस्थायामपि धर्ममेवापेक्षते । एतावान् विशेषो यदयं योगज इति । तथा च न रूपादिविज्ञानप्रसङ्ग इति । शङ्कते— “नित्योऽसाविति ।” निराकरोति—“योगेति ।” ननु त्वन्मते यथा सुखसंवेदनं जिहासितम्, एवमस्मन्मतेऽपि सुखसंवेदनहानाय घटिष्यत इत्यत आह—“न चायं सुखमिति ।” अस्मन्मते हि दुःखहानायैव तदनुषक्तं सुखं जिहासितम् । नित्यं तु सुखं सर्वदुःखविनिर्मुक्तं सन्न दुःखहानाय जिहासितं सम्भवति इत्यर्थः । न केवलमानुकूल्यात् प्रतिबन्धकत्वं नास्ति शरीरादीनाम्, प्रत्युत मुक्त्यवस्थायामपि कल्पनीया इत्याह— “नित्यं913शरीरादि”914 इति । सिद्धान्तिनो वचनमनुभाष्य देशयति—“प्रमाणाभावादित्युक्तं तच्च नेति ।” शास्त्रेण हि मोक्षसाधने लोकः प्रवर्तनीयः । अप्रवर्तमानश्च प्रवर्तनीयः । इष्टार्थी च प्रवर्तते तत्साधने । सुखं चेष्टम् । सुखात्मको मोक्ष इत्यर्थः । सेयं लोकप्रवृत्तिरनैकान्तिकत्वेन संशयहेतुरिति परिहरति—“न, प्रवृत्तीति ।” स्यादेतत् । मुख्यासम्भवे गौणमाश्रीयते । सुखशब्दश्च सुखे मुख्यः । भाक्तस्तु दुःखनिवृत्तौ । तस्मात् नित्यानन्द एव मोक्ष इत्यत आह—“यदिपुनरिति । सञ्चक्षाणकः” सङ्ख्यानप्रवृत्तो योगी । धर्माधर्मौ तावदात्मनि पारमार्थिकौ, न त्वविद्याकल्पितौ । तौ च वीतरागेणासक्तेन सता शक्यौ भोगेन क्षेतुम्, न तु495 सक्तेन । स हि सक्तस्तेषु तेषु विषयेषु उपात्तमुपात्तं भुञ्जानः त्यक्तं त्यक्तं चोपाददानः संसारात् न मुच्येत । तस्मादयं रागो बन्धनमिति समाज्ञातः । तन्निबन्धना च प्रवृत्तिः परिहर्तव्या । अन्यथा तु नित्यसुखावधारणलालितेयं915 तृष्णापिशाची लब्धप्रसरा विषयसुखेष्वपि प्रत्यासन्नेषु पुरुषं प्रवर्तयन्ती मोक्षमस्य सुदूरं प्रतिक्षिपेदिति मनागपि प्रसरोऽस्या न दातव्यः । तस्मात् नित्यानन्दप्रतिपादकश्रुतिरात्यन्तिके दुःखवियोगे भाक्तीति युक्तमिति भावः । चोदयति—“यद्यपीति ।” रागवद् द्वेषस्यापि प्रसरो न दातव्यः । तस्य च त्वया प्रसरो दत्त इति तुल्यो दोष इति । परिहरति—“न, अप्रतिकूलत्वात् ।” यथा नित्यसुखोपादानं मोक्षमप्रतिकूलया सक्त्या सप्रतिकूलं916 नैवमात्यन्तिकदुःखहानं दुःखद्वेषानुषक्तम्917 । द्वेषः क्रोधो मन्युरित्यनर्थान्तरम् । ज्वलनात्मको हि स भवति । नैवं वैराग्यम् । अलं प्रत्ययो हि स इत्यप्रतिकूलं दुःखहानमित्यर्थः । तदनेन “नित्यं सुखमात्मनो मोक्षेऽभिव्यज्यते” इत्यादि “तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवती”त्येवमन्तं “भाष्य”जातं व्याख्यातं वेदितव्यम्918 । “यद्येव”मित्यादे“र्भाष्य”स्यायमर्थः । एवं वैराग्येण मोक्षमाणस्य प्रवृत्तौ सत्याम् मुक्तस्य919 “यदि नित्यं सुखं भवति” कामं भवतु मा वा भूत्, “उभयोरपि पक्षयोः” वीतरागस्य प्रवृत्तौ “न मोक्षाधिगमो” विकल्प्यते, न सन्दिग्धो भवतीत्यर्थः ।
“वैनाशिकानां” मोक्षमुपन्यस्यति—“चित्तं विमुच्यत” इति । संसारी हि मुच्यते । रागादयस्तद्धेतवः । न चात्मनि नित्ये रागादयः संसारं कर्तुमुत्सहन्ते, नित्यस्याविकार्यत्वेन तादवस्थ्यादुपनेयापनेयाभावात् । यथाहुः,
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥
इति । चित्तं तु कार्यं रागादिवशात् संसारी, तद्वियोगाच्च मुच्यते इति युक्तमित्यर्थः । देवमनुष्यादिजातिः गतिस्तत्रोत्पत्तिः । तदेतद् दूषयति—“न, अयत्नत” इति । क्षणिकत्वात् चित्तस्य, जन्म विनाशप्रयोजनमेव । जन्मान्तरं हि920 विनाश इति क्षणस्याभेद्यत्वेनोपनेयापनेयाभावात् । स्वरसभङ्गित्वाच्च वैयर्थ्यमित्यर्थः । शङ्कते— “सन्ततेरिति ।” अनादिः खलु कार्यकारणप्रवाहरूपा बुद्धीनां सन्ततिः । सा चात्मसाक्षात्कारोन्मूलितसवासनक्लेशजालस्य निवर्तते । निवृत्तिश्चेयमेव तस्या यत् तत्सन्तानवर्तिनश्चेतसोऽनागतस्यानुत्पाद इति भावः । निराकरोति—“न, तस्याशक्यत्वात् ।” उत्पन्नस्यानुत्पादो न शक्यः, नापि सन्ताननिवृत्तिः शक्या कर्तुम्, अन्त्यक्षणानुपपत्तेः । स हि अन्त्यः क्षणः किञ्चिदारभते न वा ? आरम्भे नान्त्य इति न कार्यकारणप्रवाहनिवृत्तिः । प्रवाहश्च सन्तान इति न सन्ताननिवृत्तिः । अनारम्भे तस्यासामर्थ्येनासत्त्वम् । ततः921 पूर्वे सर्वेऽपि129 क्षणा असन्तः स्युरिति कस्योच्छेद इति भावः । शङ्कते—“अनागतानुत्पाद” इति । तथा सत्यनागतानुत्पादलक्षणार्थक्रियाकारित्वादन्त्यक्षणोपपत्तिरिति भावः । निराकरोति—“अनागतेति ।” प्रागभावस्यानादित्वादित्यर्थः922 । पृच्छति—“तर्हि कस्येति ।” नित्यस्यानुपकार्यत्वादुपनेयापनेयाभाव इति भावः । उत्तरम्—“य इति ।” यथा चाक्षणिकस्योपकार्यत्वं923 तथा क्षणभङ्गभङ्गे924 उपपादयिष्यत इति सिद्धम् ॥ २२ ॥
॥ इति प्रमेयलक्षणप्रकरणम् ॥
न्यायपूर्वाङ्गलक्षणप्रकरणम्
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ १ । १ । २३ ॥
संशयलक्षणावतारणपरं “भाष्यं स्थानवत एतर्हि” इति । तस्यार्थः । स्थानं क्रमः । तद्वतः । एतर्हि इदानीमिति । क्वचित् पाठः स्थानवत एव तर्हीति । तर्हि तदानीमुद्देशसमये, क्रमवतः संशयस्य प्रमेयानन्तरमुद्दिष्टस्य, प्रमेयलक्षणानन्तरं स्थानं क्रमो लक्षणस्येत्यर्थः । तदेतद् “वार्त्तिककारो” व्याचष्टे—“प्रमेयेति ।” एतदेव स्फुटयति—“येति ।” स्थानं क्रमग्रहणेन व्याख्यातं मतुबर्थश्च प्राप्तिग्रहणेन ।
“समा—यः ॥” अत्र च विमर्शः संशय इति संशयसामान्यलक्षणम् । तत्र925 संशय इति लक्ष्यनिर्देशः, विमर्श इति लक्षणपदम् । एकस्मिन् धर्मिणि विरोधिनानार्थावमर्शो विमर्शः, किं स्विदिति ज्ञानम् । तदनेनासमानजातीयेभ्यः प्रमाणादिभ्यः समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो निवर्तितो भवति । समानेत्यादीनि तु त्रीणि विशेषलक्षणानि । तेषु च विमर्शः संशय इत्येतदनुवर्तनीयम् । अत्र विशिष्टोऽवमर्शो विमर्शविशिष्टः926 संशय इति लक्ष्यपदम् । समानधर्मोपपत्तेरनेकधर्मोपपत्तेर्विप्रतिपत्तेरिति त्रीणि प्रत्येकं शेषैः पदैरुपेतानि लक्षणानीति । तदेतदाह “वार्त्तिककारः—तत्र समानेति । त्रिविध एवेति” ये पञ्चविधमाचक्षते ते निरा कृताः । “तदनवधारणज्ञानं स संशय इति ।” संशयसामान्यलक्षणपरं “भाष्यं” व्याचष्टे—“तत्र विषयस्वरूपेति प्रत्ययोऽनवधारणात्मकश्चेति ।” आक्षेपपरिहारौ प्रथम“सूत्र” एव व्याख्यातौ927 । प्रत्ययशब्दस्य निश्चयवचनत्वमभ्युपेत्य व्याख्यानं “प्रतीयत” इति । परमार्थतस्तु प्रत्ययशब्दो ज्ञानपर्यायः । ज्ञानत्वं च928 सामान्यं संशयादिष्वप्यस्तीति न विरोध इति ।
समानधर्मोपपत्तेरिति व्याचष्टे—“समानेति ।” विकल्प्याक्षिपति—“किं पुनरिति । कस्मादिति ।” मा कार्षीद् द्रव्ये संशयम्, गुण एव कस्मात् न करोतीति प्रश्नार्थः । समाधत्ते—“न, साधारणेति ।” यादृशं सङ्ख्याप्रचयपरिमाणभेदयोनि929 परिमाणं स्थाणुपुरुषयोः, तादृशमस्यापि पुरोवर्तिनो द्रव्यस्य परिमाणम् । तस्मात् सदृशपरिमाणधर्मस्य धर्मिण उपपत्तेरित्यर्थः930 । महत्त्वदीर्घत्वसामान्यधर्मयोगस्तु931 सन्नपि न संशयकारणम्, असादृश्ये तद्योगेऽपि संशयाभावादिति भावः । स्यादेतत् । उपपत्तिः सत्ता । न च सदृशो धर्मः सत्तामात्रेण संशयहेतुः अपि तूपलब्धः । न चोपलब्धिवाचकमत्रास्ति पदमित्यत आह—“तस्योपपत्तिरध्यवसाय” इति । यद्यप्ययमुपपत्तिशब्दः सत्तावचनस्तत्परश्च, तथापि पदान्तरसमभिव्याहारादवगम्यते सत्तामात्राभिधानेऽपि तदुपलब्धिर्विवक्षितेति । विषयविषयिणोरभेदविवक्षया सामानाधिकरण्यमुपपत्तिरुपलब्धिरिति । पृच्छति—“कस्मादिति ।” अस्मदायत्ते हि शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इत्यर्थः । उत्तरम्—“अनुक्तमपीति ।” विशेषापेक्ष इति वचनेन विशेषस्यापेक्षा उच्यते । अपेक्षाशब्दश्च यद्यपीच्छायां वर्तते, तथापीह जिघृक्षायां वाक्यसामर्थ्यात् । न च सा संशयस्य हेतुः, तस्याः संशये सति भावात् । तस्माद् विशेषापेक्षया जिघृक्षालक्षणयेह विशेषयोः पुरोवर्तिवस्तुसादृश्यात्932 स्मरणे सत्यग्रहणं लक्षणीयम्, यथा गङ्गाशब्दस्तीरसम्बद्धमेव लक्षयति, न तु तीरमात्रम् । एवं बुभुत्सयापि स्मर्यमाणमेवागृह्यमाणं सम्बद्धं लक्षणीयम्, न त्वगृह्यमाणमात्रम् । अनेनैवाभिप्रायेण वक्ष्यति “भाष्यकारः विशेषस्मृत्यपेक्ष” इति । तस्माद् विशेषग्रहणप्रतिषेधात् सामान्यग्रहणमभ्यनुज्ञातं933 भवतीत्यर्थः । परिहारान्तरमाह—“अथ वेति ।” स्यादेतत्, उपपत्तिशब्दः सत्तावचनश्चोपलब्धिवचनश्च । तथा च विनिगमनायां को हेतुरित्यत आह—“यः पुनरिति ।” नन्वभावः प्रमाणालम्बनमुक्तः, तत् कुतो934 न विरोध इत्यत उक्तम्—“स्वतन्त्रमिति ।” अथ वा सत्तावाचकोऽप्ययमुपपत्तिशब्दः स्वाभिधेयविषयामुपलब्धिं लक्षयतीत्याह—“विषयशब्देनेति ।” न चेयमलौकिकी लक्षणेत्याह— “लौकिकमिति ।” यथा च धूमो न सत्तामात्रेण हेतुस्तथोक्तं प्रागिति ।
“एकदेशि”नामुपसङ्ख्यानमुपन्यस्यति—“अव्यवच्छेदेति ।” ते किल935 मन्यन्ते व्यवच्छेदहेतुरपि धर्मः समानो भवति । यथा कृतकत्वं साध्यधर्मिणि शब्दे दृष्टान्तधर्मिणि च घटादौ समानम्, न चासौ नित्यानित्यत्वसंशयहेतुः,936 अपि त्वनित्यत्वस्यायोगं साध्यधर्मिणि व्यवच्छिनत्ति । अतोऽव्यवच्छेदहेतोरिति937 वक्तव्यमित्यर्थः । तदेतद् वक्तव्यं दूषयति—“न समानेति ।” समानो हि धर्मः प्रतिसम्बन्धिनमपेक्षते—“केनेति ।” संशयपदेन च स्वविषयोपस्थापकेन परस्परविरोधिनौ तावुपस्थितौ, तेन ताभ्यां समान इति गम्यते । तेन विवक्षिततज्जातीयवृत्तित्वे सत्यन्यजातीयवृत्तिरेव गम्यते । न चैवं कृतकत्वम् । तस्मात् न वक्तव्यमव्यवच्छेदहेतोरिति । समानशब्दार्थः सादृश्यं तत्र नास्तीत्यर्थः । अत्रैवोपलब्धीत्यादिपदद्वयं शङ्कापूर्वकं योजयति—“सोऽयं साधारण” इति । “उपलब्ध्यनुपलब्धी” न व्यवतिष्ठेते इति । शिरःपाण्यादीनामुपलब्धिर्वक्रकोटरादेरनुपलब्धिः पुरुषस्य साधकं प्रमाणम् । तद्विरुद्धस्य वा शिरःपाण्यादेरनुपलब्धिर्वक्रकोटरादेरुपलब्धिः पुरुषस्य बाधकं प्रमाणम् । तद्धि पुरुष एवायं वा “इदन्तया” व्यवतिष्ठते, इदन्तानिषेधेन वा नायं पुरुष इत्यनिदन्तया व्यवतिष्ठते तदभावो व्यवस्था938 । तदनेन साधकबाधकप्रमाणाभावो दर्शितः । “विशेषाकाङ्क्षायां चेति” विशेषस्मृतिर्दर्शिता ।
विमर्शपूर्वकं समस्तमित्यवधारयति—“किमिदमिति ।” तत्रैकपदपरिग्रहे दोषमाह—“यदि समानेति ।” विशेषः शिरःपाण्यादिः । विशिष्यते ह्यनेन पुरुषः स्थाणोरिति । अनुपलब्धसामान्यस्यापि क्वचिदुपलब्ध्यनुपलब्ध्यव्यवस्थास्तीति । यथा सप्तमे रसे दशमे वा द्रव्ये । न हि तत्र साधकं बाधकं वास्ति प्रमाणम् । न च939 संशयः । “विशेषापेक्ष इत्येतावतीति ।” तद् यथा हस्तिनं दृष्टा तत्सम्बन्धिनौ स्थूणाहस्तिपकौ स्मरति न च तत्र सन्दिग्धे ।
द्विपदपरिग्रहे दोषमाह—“एवं समानेति ।” नौदोलाद्यारूढो हि गच्छन् विदूरे आरोहपरिणाहवद्वस्तुदर्शनेऽपि सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्यभावात् नग इति वा नाग इति वा न सन्दिग्धे । एवमुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति940 पदद्वये विधीयमानेऽन्यतः स्मर्यमाणाद् विशेषात् सदृशधर्मवति धर्मिण्यनुपलभ्यमाने संशयः स्यात् । अस्ति हि तदा विशेषस्मृतिः साधकबाधकप्रमाणाभावश्च, नो खल्वनुपलभ्यमाने समानधर्मे धर्मिणि तद्गता वक्रकोटरादयो वा शिरःपाण्यादयो वा शक्यग्रहा इति । “यदायं द्रष्टेति ।” यदा खल्वयं द्रष्टा प्रतिपरुरङ्कुरोद्भेदपुलकिताभिर्मन्दमलयमारुतान्दोलनललितलास्यशालिनीभिः शाखाभिर्मधुमदमुदितमधुपमालाशिञ्जितवल्लकीवाद्यमनोहराभिर्मत्तपुंस्कोकिलकुलविपञ्च्यमानपञ्चमाभिरारब्धसङ्गीतकं सहकारतरुमनुभूयाथ941 विदूरवर्ती कुञ्जरसदृशधर्मवन्तमनुभवति, तदास्यास्ति समानधर्मोपलब्धिः । अस्ति च करितरुरूपविशेषस्मृतिः, न तु साधकबाधकप्रमाणाभाव इति न संशेते । कतिपयव्यक्त्याश्रयत्वं सहकारत्वादेर्विशेषस्याल्पविषयत्वम् । आरोहपरिणाहादेस्तु बहुव्यापित्वं महाविषयत्वम् । नानार्थावमर्शनं च विरुद्धार्थावमर्शनं द्रष्टव्यम् । तदनेन स्थाणुपुरुषयोरित्यादि “भाष्यं” व्याख्यातम् । “पश्यन्” इत्युपपत्तिविवरणम्, “विशेषं बुभुत्समान” इति विशेषापेक्ष इत्यस्य विवरणम् । “किं स्विदिति” विमर्शविवरणम् । स्यादेतत् । संशयोत्तरकाला बुभुत्सेति, कथं बुभुत्समानः संशेत इत्यत उक्तं “भाष्यकृता समानमनयोरिति ।” विशेषापेक्षाशब्देनेच्छावाचिना अगृह्यमाणविशेषस्मरणं लक्षितमिति भावः । सेयं साधकबाधकप्रमाणानुपपत्तौ सत्यां समानधर्मोपलब्धिर्विनश्यदवस्था विशेषस्मृत्या सहाविनश्यदवस्था एकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् । त्रिपदपरिग्रहमनेकधर्मोपपत्तेर्विप्रतिपत्तेरित्यत्रापि योजयति—“एतेनेति ।” द्वे द्वित्वेनैकीकृत्याद्यानन्तरयोरिति द्रष्टव्यम् ।
अनेकधर्मोपपत्तेरित्यत्र “भाष्यकृतो” व्याख्यां ग्रहीतु“मेकदेशि”व्याख्यानमुपन्यस्य दूषयति—“अनेकेति ।” शब्दो हि संयोगजः । संयोगजत्वं हि कार्ये द्रव्ये गुणे च रूपादौ शरीरादिक्रियायां चास्तीति द्रव्यगुणकर्मणां समानम् । तस्मादनेकस्य धर्मश्चरितार्थः । एवं शब्दगतोऽनेकोऽपि धर्मः समानतयैव द्रव्यत्वादिसन्देहहेतुः त्रिषु, संयोगजत्वं साधारणं सत्त्वादिना निर्भक्तस्य,942 निर्गुणत्वं गुणकर्मणोः । एवं क्षणिकत्वं द्रव्यगुणकर्मणामिति समानधर्मोपपत्त्या गतार्थमित्यर्थः । पृच्छति— “अथेति । भाष्यकृद्”व्याख्ययोत्तरम्—“असाधारण” इति । पुनः पृच्छति—“कथमिति ।” समासपदशब्देन तदेकदेशोऽनेकशब्दो लक्ष्यते, समासगतेनानेकशब्देनेत्यर्थः । उत्तरम्—“समानेति ।” एतदुक्तं भवति । यतोऽनेकस्मात् समानासमानजातीयादेष स्वाश्रयं व्यावर्तयति, अतोऽनेकोपादानकव्यावृत्तिहेतुकत्वात् लक्षणयानेकइत्युच्यते । तदनेन “समानजातीयमसमानजातीयं चानेकमिति भाष्यं” तस्माद् विशेष इत्यध्याहृत्य व्याख्यातम् । अध्याहृतविशेषपदविवरणं “विशेषको धर्म” इति । सम्बन्धसामान्यविवक्षया तु षष्ठी “तस्यानेकस्येति ।” लक्षणाबीजान्तरमाह—“तस्य चानेकस्येति ।” निवर्त्यनिवर्तकसम्बन्धेनानेकशब्देन धर्मो लक्ष्यत इत्यर्थः । तदनेन विनैवाध्याहारं समानजातीयमसमानजातीयं चानेकम् । तस्य धर्मो निवर्तकतयेति व्याख्यातम् । न त्वत्र समासभ्रान्तिः कर्तव्या । दर्शयिष्यति हि बहुव्रीहिमिहैव943 “वार्त्तिककारः ।” तदेवं944 लक्षणाबीजद्वयोपन्यासेन “असाधारणो धर्म” इति ग्रहणकवाक्यं व्याख्यातम् । प्रकारान्तरेणानेकधर्मपदं व्याचष्टे—“एकानेकेति ।” एकं चानेकं च तदुभयमनेकं तस्यानेकस्य945 प्रत्ययहेतुर्धर्मोऽनेकधर्मः भेदाभेदप्रत्ययहेतुरित्यर्थः । “विभागजत्वं” विभागजानां शब्दानामन्योन्यस्याभेदप्रत्ययहेतुः, तदितरेभ्यश्च भेदप्रत्ययहेतुः । तदिदमाह—“यतो” विभागजत्वात् “एष प्रत्ययो भवतीदं” विभागजं शब्दजातम् “एकम् ।” इदं च ततोऽन्यद् “अनेकं” भिन्नम् । तत्र य एव “एकप्रत्ययहेतुः” धर्मोऽभेदः946 स एव “अनेकप्रत्ययहेतुर्विशेषः947 ।” जात्यभिप्रायं चैकवचनम् । सदादिर्हि धर्मो द्रव्यगुणकर्मणामभेदप्रत्ययहेतुः सामान्यादिभ्यश्च शब्दं निर्भजति948 । तदिदमाह—यतः सदादेरेष प्रत्ययो भवतीदमेकं यतश्च विभागजत्वादेष प्रत्ययो भवतीदमनेकमिति, तस्मात् सिद्धमेकं चानेकं च । अनेकमिति तत्प्रत्ययहेतुरुपचारेणानेक इति । तदिदमुद्भाष्यं व्याख्यानम् । अत्रोदाहरणमाह— “यथेति ।” द्रव्यत्वादिकोटित्रयविषयसंशयप्रदर्शनार्थमुक्तं949 “सामान्यविशेषसमवायेभ्य” इति ।
सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणाम् अविशेषः950 ॥ तेनानेन “सदादिना निर्भक्तस्य”942 पृथक्कृतस्येत्यर्थः ।
स्यादेतत् । यद् येन सहचरितं दृष्टं तत् क्वचिद् दृश्यमानं तत् स्मारयत् तद्विरुद्धेनापि च सम्बन्धादनिश्चाययत् संशयहेतुर्भवति, यथा समानो धर्मः । असाधारणस्तु धर्मो विभागजत्वं नर्ते शब्दात् क्वचित् पृथिव्यादौ वा उत्क्षेपणादौ वा गन्धादौ वा दृष्ट इति कथं स्मारयेत्, अस्मारयद् वा कथं तत्र951 संशयं जनयेत् ? तस्मात् कोऽयं भवेदित्यतो धर्मादिति जिज्ञासामात्रमुत्पादयेत्, न त्वयं वायं वेति संशयमित्यत आह—“न हीति ।” कस्मात् न दृष्टमित्यत आह—“सर्वत्रासम्भवात् ।” न हि द्रव्यादेर्विभागतो जन्म सम्भवति, तदन्वयव्यतिरेकाननुविधानादित्यर्थः । नन्वत एवोक्तं न संशयहेतुरित्यत आह—“विभागजत्वं संशयं करोति सर्वतो व्यावृत्तेरिति ।” अयमर्थः, यद्यपि विभागजत्वं न द्रव्यादौ क्वचिद् दृष्टम्, तथापि तद्व्यतिरेकः प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्यकर्मभ्यां व्यावर्तमानः किं गुणः, गुणकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां व्यावर्तमानः किं कर्मेति व्यतिरेकमुखेन तत्तत् स्मारयन् असाधारणो धर्मो भवति संशयकारणमिति । देशयति—“ननु चेति ।”
अयमभिसन्धिः । वंशे पाट्यमाने वंशदलयोः क्रिया, ततस्तयोर्मिथो विभागः, ततो वंशदलावरुद्धनभोभागविभागः । सोऽयं विभागजो विभागो न वंशदलकर्मजः । अवयवक्रिया हि तदवयवावरुद्धनभोभागविभागजनिका द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकत्वेन व्याप्ता विकसत्कमलकुड्मलदलेषु952 दृष्टा । न हि तत्र मुकुलिताद् विकासिकमलमन्यत् आकुञ्चितप्रसारिताङ्गुलिकरतलवत् तत्त्वेन प्रत्यभिज्ञायमानत्वात् । वंशदलक्रियापि चेत् तादृशी, नूनमनयापि द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनिकया भवितव्यम् । तथा च द्रव्यं कार्यमपि न नश्येत् । तस्मात् नानया वंशदलाकाशविभागो जनयितव्यः । न चान्यदस्य कारणं सम्भवति । तस्माद् वंशदलक्रियाजनितो दलयोर्विभागः कार्यैकार्थसमवेतः तदवरुद्धाकाशप्रदेशविभागस्यासमवायिकारणमेषितव्यः । एवं च गुणः शब्दो विभागजत्वाद् विभागजविभागवदिति विभागजत्वं गुणत्वनिश्चयहेतुरिति सिद्धं भवतीति । परिहरति—“अनभ्युपगतविभागजविभागस्यैतद्” विभागजत्वम् “एवं” संशयकारणं भवति । अनभ्युपगमबीजं च कुतः पुनरेतदेवमवगतं पद्मपत्रावयवक्रिया विभागद्वयजनिकेति, विभागद्वयक्रमकल्पनायां प्रमाणाभावादिति चेत् ? हन्त, वंशदलविभागयोरपि953 तुल्यम् । ननूक्तं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकं स्यात् कर्म, ततश्च द्रव्यनाशो न भवेदिति । अथ विपर्ययः कस्मात् न भवतीति वंशदलद्वयक्रियैव विभागद्वयजनिका, पद्मपत्रावयवक्रिया त्ववयवविभागजनिका, तदवयवाकाशविभागस्त्ववयवविभागजन्मा । यदि तु490 पद्मपत्रावयवक्रिया उभयजनिका भवेत् वंशदलक्रियैव द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनं विभागं जनयेदिति । न चान्यतरत्र विभागद्वययौगपद्यनिश्चयः954 क्रमप्रमाणाभावश्च955 तुल्यः । तस्मात् पद्मपत्रावयवक्रियाविभागजनकत्वसन्देहादशक्यविनिश्चयो व्याप्यव्यापकभावः । क्रियावैलक्षण्यात् तु स्वहेतुवैलक्षण्यजन्मनः कार्यस्य विभागस्य वैलक्षण्यं स्यात्, यदेको द्रव्यारम्भकसंयोगप्रतिद्वन्द्वी अप्रतिद्वन्द्वी चेतरः, तथापि चैतद्वैलक्षण्यं क्रियाया अभ्युपेतव्यम् यदेका विभागमेकं जनयति । अन्या तु विभागद्वयमिति । तस्मादेतदुदाहरणबलेन न विभागजविभागसिद्धिः । यस्त्वङ्गुलिकर्मानन्तरमङ्गुलितरुविभागो हस्ततरुविभागः, शरीरतरुविभागश्च दृश्यते, तत्राङ्गुलितरुविभागमङ्गुल्याश्रया क्रिया करोतु, हस्ततरुविभागं तु न शक्ता जनयितुम्, तस्याः स्वाश्रयसमवायात्, स्वाश्रयसमवेतकार्यजनने च क्रियायाः सामर्थ्यावधारणात् । तस्मात् हस्तादितरुविभागः क्रियातोऽसम्भवन्नङ्गुल्यादितरुविभागमेव कार्यैकार्थसमवायलक्षणया956 प्रत्यासत्त्या निमित्तीकरोतीति विभागजविभागसिद्धिं मन्यते, तं प्रत्याह—“यः पुनरिति ।” अस्तु वा विभागजो विभागः, तथापि विभागजत्वमीदृशमसाधारणमेवेत्यत आह—“अस्तु वा तस्या”भ्युपगतविभागस्यापि विभागजत्वमसाधारणं विशिष्टम् । तदेव दर्शयति—“विभागजेति ।” पाट्यमाने हि वंशे शब्दोत्पत्तौ वंशदलयोर्मिथो विभागो निमित्तकारणम् । वंशदलावरुद्धाकाशविभागस्त्वस्यासमवायिकारणम्, न तु भेर्याकाशसंयोगवत् वंशदलाकाशसंयोगोऽसमवायिकारणं भवितुमर्हति । तथा हि प्रयोगः, योऽयं वंशदलविभागनिमित्तः शब्दः, स निमित्तसमानजातीयासमवायिकारणजन्यः, तदसाधारणनिमित्तजन्यशब्दत्वात्957 । यो यः शब्दो यदसाधारणनिमित्तजन्मा, स सर्वस्तज्जातीयासमवायिकारणजन्यः, यथा भेरीदण्डसंयोगनिमित्तः शब्दो भेर्याकाशसंयोगासमवायिकारणकः । तथा चायम् । तस्मात् तथेति । तदेवं वंशदलविभागलब्धजन्मना वंशदलाकाशविभागेनासमवायिकारणेन जनितः शब्दः । तदेवं विभागजविभागासमवायिकारणकत्वं शब्दस्य, तदपि यद्यप्यङ्गुल्याकाशविभागजहस्ताकाशविभागासमवायिकारणे कायाकाशविभागेऽस्ति, तथापि कारणमात्रविभागजविभागासमवायिकारणकत्वादिति हेतुः “भाष्यकारेण विभागजत्वात्” इत्यने सूचितः । न चाङ्गुल्याकाशविभागपूर्वकः कायाकाशविभाग एवम् । स हि कारणाकारणविभागपूर्वको, न तु कारणमात्रविभागपूर्वकः । तदिदमुक्तम्—“विभागजविभागासमवायिकारणकः शब्दो नान्यः पदार्थ” इति । ननु सहचरितो दृष्टः स्मारयन् विशेषसंशयहेतुर्भवति, न तु यो व्यावृत्तः तेन958 सहास्यासाहचर्यादिति शङ्कामपनेतुं “भाष्यकारीय”मुत्तरमाह—“तुल्यजातीयेष्विति ।” यद्यपि व्यतिरेकमुखेनासाधारणः शक्तः स्मारयितुम्, तथापि “भाष्यो”क्तमप्युक्तम् । यत् खलु सदादिरूपसम्पन्नं विशेषवत् तत्समानजातीयेभ्योऽसमानजातीयेभ्यश्च व्यावृत्तम्, यथा पृथिवी द्रव्यम् । अबादिभ्यश्च द्रव्यान्तरेभ्यो गुणकर्मभ्यश्च विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् । एवं रूपत्वेन रूपं गुणः । उत्क्षेपणत्वेनोत्क्षेपणं कर्म । तथाविधः शब्दः सदादिरूपसम्पन्नो विभागजत्वेन समानासमानजातीयेभ्यो विशिष्यते । तस्माद् भवति द्रव्यं गुणः कर्म वेति संशय इति । पूर्वव्याख्यानतोऽनेकशब्देनासाधारणधर्मो लक्ष्यत इत्युक्तम् । सम्प्रति समानशब्दपर्यालोचनयाप्यनेकपदमसाधारणे वर्तते लक्षणयैवेत्याह—“समानधर्मस्य” संशयकारणत्वेन “उपयोगाद् वेति ।” समानं हि प्रतियोगितया असमानं बुद्धौ सन्निधापयति । तत्र द्वयस्यापि समानशब्देन श्रुत्यर्थाभ्यामुपात्तस्य “समानस्य धर्मस्यासमानस्य च,” समानस्य संशयकारणत्वेनोपयोगादिति योजना । पृच्छति—“कस्मादिति ।” अस्मदायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इति भावः । उत्तरम्—“नैवमिति ।” असाधारणो हि धर्मो व्यतिरेकमुखेन संशयहेतुः । स चानेकस्माद् व्यावृत्त्या सिध्यति । सा च लाक्षणिकानेकपदाधीना नासमानपदात् लभ्यत इति प्रयोजनवल्लाक्षणिकपदोपादानम् । लक्षणैव चेयम् “अनेकस्माद् व्यावृत्तो” धर्मोऽनेकधर्म इति विग्रहेण निर्वर्ण्यते इति । अभ्युच्चयमात्रमाह—“लाघवं वेति ।” असाधारणस्य संशयकारणत्वे व्यावृत्तिः प्रयोजिकेति मन्वानश्चोदयति—“यद्यनेकेति ।” परिहरति—“नैष दोष” इति । व्यभिचाराव्यभिचारौ हि संशयनिर्णययोः प्रयोजकौ, नान्वयव्यतिरेकमात्रमित्यर्थः959 । चोदयति—“यदि तर्हीति ।” सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः । स चेत् संशयस्य कारणम् ? हन्त, समानधर्मोपपत्तिरेव सर्वत्र संशयकारणमिति कृतमनेकग्रहणेनेत्यर्थः । परिहरति—“सत्यमिति ।” सपक्षासपक्षसाधारण्यं960 हि हेतोर्व्यभिचारः । स च संशयस्य प्रयोजकः । तथाप्येकस्यान्वयः साधारणोऽपरस्य व्यतिरेक इत्येतावतोभयोपादानमित्यर्थः ।
एवमनेकधर्मोपपत्तेरिति स्वमते व्याख्याय परमतव्याख्यानं दुषयितुमुपन्यस्यति—“नञ” इति । नित्यः शब्दः श्रावणत्वात् शब्दत्ववदित्येकः पञ्चरूपोपपन्नोऽव्यभिचारी हेतुः । अनित्यः शब्दः कृतकत्वाद् घटवदिति चायमपरः पञ्चरूपोपपन्नोऽव्यभिचारी हेतुरिति । तदेतद् दूषयति—“तदयुक्तमिति ।” न ह्यव्यभिचारिणौ पञ्चरूपोपपन्नावित्यर्थः । “न चायं” प्रतिवादिनः प्रयोगोऽपि “युक्त” इति । विरुद्धशब्दस्यार्थो “विरुद्धार्थ” इति, स्वरूपमनयोर्विरुद्धं परस्पराभाववदित्यर्थः । “विशेषदर्शनादुपजात” इति । संशयस्य हि विशेषादर्शनं जनकम्, विशेषदर्शनं च निवर्तकमिति । स चेत् त्वन्मते निवर्तकादुत्पद्येत, अव्यभिचारिहेतुजनिताद्विशेषदर्शनात् नास्य निवृत्तिः स्यादित्यर्थः । न च यदा निवर्तकत्वमस्यास्ति तदा जनकमपीत्याह—“न हि विशेषदर्शने सतीति ।”
स्यादेतत् । प्रत्यक्षमेव स एवायं गकार इत्येवमाकारं प्रत्यभिज्ञासमाज्ञातं शब्दस्य स्थेमानमाकलयत्, तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति961 ।
इति नित्यत्वं परिच्छेत्स्यतीत्यत आह—“नायमर्थः प्रत्यक्षस्य विषयः ।” तदेव हि प्रत्यक्षं संशयस्य निवर्तकं यदनन्यथासिद्धम्, यथौष्ण्यग्राहि वह्नेः । इदं तु सादृश्ये नापि सम्भवात् स्वयं सन्दिग्धं सन्न संशयोच्छेदायालमित्यर्थः । मा भूत् प्रत्यक्षस्य विषयः, भवति त्वागमस्य । नो खलु क्षणिकः शब्दोऽर्थप्रत्यायने समर्थः, तस्यान्वयव्यतिरेककालानवस्थायिनोऽशक्यसमयत्वेनार्थप्रतिपत्तेरनुपपत्तेः । तस्माद् यद्यपि साक्षान्नित्योऽहमित्यागमो नाभिधत्ते, तथापि विदितसङ्गतेरर्थप्रत्ययं कुर्वन्नात्मनो नित्यतामाक्षिपन्नित्यताविषयो भवति । यथाहुः नित्यस्तु स्याद् दर्शनस्य परार्थत्वात् ।
[मी। सू। १। १। १८] इत्यत आह—“नागमविषयः ।” यद्यपि वर्णव्यक्तयः क्षणिकाः, तथापि स्वस्वसामान्यविशेषगत्वाद्युपहिता गवादिव्यक्तय इव गोत्वाद्युपधानाः शक्यसङ्केता इति न नित्यतामाक्षिपत्यागम इत्यर्थः । “भवतु किं नो बाध्यत” इति । न खलु चन्द्रमसः परभागे हरिणसदसद्भावसन्देहः शक्यः कदाचिदप्युच्छेत्तुमस्मदादीनामित्यर्थः । “कथं न बाध्यत” इति । सन्दिग्धनित्यानित्यभावे शब्दे कृतकत्वं दृष्टमिति नानित्यत्त्वेन स्वभावतः प्रतिबद्धम् । तथा च न बुद्ध्यादीनामनित्यत्वं साधयितुमर्हतीत्यर्थः । “सर्वमिति ।” कृतकत्वप्रयत्ननान्तरीयकत्वप्रत्ययभेदभेदित्वादीत्यर्थः962 । “सर्वं चानुमानमिति ।” यदि च पञ्चरूपोऽपि हेतुः, संशयकारणं सर्वमेवानुमानमिति963 सर्वमप्रमाणं स्यादित्यर्थः । “वैनाशिकाः” प्राहुः “नित्यासम्भवादिति । न, बाधापरिज्ञानादिति ।” बाधाविषयापरिज्ञानादित्यर्थः । स्वदेशे परोत्पत्तिप्रतिबन्धकत्वं “सप्रतिघत्वम् । सौत्रान्ति”कमते हि रूपं सप्रतिघमिष्यते मूर्तं च, नित्य एवेति वा अनित्य एवेति वा “अभिलापो” नोपपद्येत, स्थाणुरेवेति वा पुरुष एवेति वा अभिलापः । चोदयति—“नैवं भविष्यतीति ।” मा भूदभिलाप इत्यर्थः । परिहरति—“व्याहतमिति ।” स एवैकग्रन्थेनाह—“ननुचेति ।” तदेवं पञ्चरूपयोर्हेत्वोरेकत्र समवायाभाव964 उक्तः । यदि पुनरसत्प्रतिपक्षरूपरहितयोरेकत्र सम्भवोऽङ्गीक्रियते, तथा च संशयहेतुत्वमित्यभिप्रायेण शङ्कते—“अथ कृतकत्वेति ।” निराकरोति— “तथापीति ।” प्रत्येकं सत्प्रतिपक्षत्वम्, मिलितयोस्त्वसाधारणत्वम्, तादृशोरन्यत्र अदर्शनादित्यर्थः । तत् किमिदानीं सत्प्रतिपक्षतया कृतकत्वमसाधनमेव शब्दानित्यत्वे, तथा च बहु व्याहतं भवतीत्याशयवान् पृच्छति—“यदा पुनरेवम्भूताविति ।” उत्तरम्—“तदा तयोरिति ।” ननु कृतकत्वस्य साध्यत्वात् श्रावणत्वस्य च सिद्धत्वात् प्रथमभाविना नित्यत्वानुमानेन सिद्धाङ्गकेनापहृतविषयं चरमभाविसाध्याङ्गकमनित्यत्वानुमानमेव बाध्यतामित्यत आह—“यत्नश्च क्रियमाण” इति । सिद्धमपि श्रावणत्वमनुनासिकताद्यनित्यधर्मसाधारणतया सव्यभिचारं सन्नित्यत्वस्य साधनं न भवितुमर्हतीति । कृतकत्वस्य तु पाञ्चरूप्यम् । नित्यत्वस्य च प्रमाणबाधनमुपपादयिष्यत965 इत्यर्थः ।
विप्रतिपत्तेरित्यस्य व्याख्यानम्—“विप्रतिपत्तेरिति ।” यद्यपि विरुद्धा प्रतिपत्तिर्ज्ञानं विप्रतिपत्तिः, तथापि तस्या वादिप्रतिवादिगताया अत्यन्तपरोक्षत्वात् संशयकारणत्वानुपपत्तेः स्वकार्यं प्रवादं लक्षयतीत्यर्थः । अत्र “भाष्यकारः” उपलब्ध्यव्यवस्थाया अनुपलब्ध्यव्यवस्थायाश्च पृथक् संशयकारणत्वं मत्वा समानधर्मोपपत्तेरित्यनेन गतार्थतां परिहरन्नाह स्म—“पूर्वः समानोऽनेकश्चेत्यादि ।” तदुपन्यस्य “वार्त्तिककारो” दूषयति—“तत्रेति ।” नो खलु समानानेकधर्मोपलब्धौ सत्याम्, सत्यां च विशेषस्मृतौ साधकबाधकप्रमाणासद्भावे966 संशयो भवतीत्युक्तम् । तस्मात् नोपलब्ध्यनुपलब्ध्यव्यवस्थे पृथक् संशयकारणे इति । विशेषमपि दूषयति—“समान” इति । ननु यदि नास्ति भेदः, तत् किमिदानीं सर्वेषां ज्ञातृस्थत्वाविशेषेण त्रयाणामपि संशयकारणानां समानानेकविप्रतिपत्तीनामभेदः, तथा च पृथगुपादानवैयर्थ्यमित्यत आह—“समानानेकधर्मयोरिति ।” पुनश्चोदयति—“समानधर्मः सर्व एवायमिति ।” अयमभिसन्धिः । असाधारणो ह्यदृष्टपूर्वः क्वचिदपि न संशयं कर्तुमुत्सहते । यत् पुनरसाधारणवत्त्वं संशयहेतुत्वेनोपवर्णितं “भाष्यकृता” तत् समानमेव, न त्वसाधारणम्, यथाहुः,
अन्योऽसाधारणो धर्मस्तद्वत्तान्या च दृश्यते ।
सर्वसाधारणी सा चेदिष्टा संशयकारणम् ।
ततः साधारणस्यैव सिद्धा संशयहेतुता ॥
यच्च “वार्त्तिककारेण” सर्वतोव्यावृत्त्या असाधारणस्य संशयकारणत्वमुक्तम्, तत्रापि तदभावस्य साधारणस्य संशयहेतुत्वे किमायातमसाधारणस्य ? यथाहुः,
सर्वतोऽस्य निवृत्तत्वादभावात् संशयो यदि ।
अनन्यवृत्तिरूपस्य ततोऽसाधारणस्य किम् ॥
इति ।
विप्रतिपत्तिरपि विरुद्धहेतुद्वयसमुत्था एकस्मिन् संशयकारणम् विरुद्धहेतुसमवायश्चासाधारण967 एव । स च साधारणे निविशते इति सूक्तम् “सर्व एवायं समानधर्म एवाभिधीयत” इति । परिहरति—“न, सूत्रार्थापरिज्ञानादिति ।” न वयं सर्वत्र साधारणमपजानीमहे अन्वयव्यतिरेकव्यभिचारवक्तृगतत्वभेदमात्रमाद्रियमाणाः कारणभेदेन त्रिविधं संशयमाचक्ष्महे इत्यर्थः ।
“वार्त्तिककारो भाष्यकार”मतमुपन्यस्य दूषयति—“अपरे पुनरिति ।” साधकबाधकप्रमाणाभावरहितं त्रयमपि न संशयकारणमित्युक्तमित्यर्थः । अपि चैतयोः पृथक् संशयकारणत्वेऽतिप्रसङ्गात्968 निश्चयपूर्वं न प्रवर्तेत लोकः, तथा च लोकविरोध इति दर्शयति—“उपलब्ध्यनुपलब्ध्योर्द्वैविध्याच्चेति ।” न चास्य क्वचिदाश्वासो निःशङ्कता, न चानभ्यासदशापन्ने उपलब्ध्यनुपलब्ध्यव्यवस्थायां969 संशय इति वाच्यम्, अनभ्यासदशापन्ने हि दूराद् वह्निज्ञाने उपलब्ध्यव्यवस्थाया अपि न नागो वा नगो वेति संशेरते,970 किं तु किंशुककुसुमनिचयो वा उषर्बुधो वेति, तत्र समानधर्मोपपत्तिरेव कारणमितरसहिता । एवमयोग्यानुपलब्धिमात्रादपि न संशयो विना समानधर्मादिदर्शनमित्युक्तम् । विकल्प्य दूषणान्तरमाह—“येषां चेति ।” सामग्रीभेदेन भेदे त्रैविध्यं संशयस्य सामग्रीनिवेशिकारणभेदेन तु न पञ्चविधः, अपि त्वनेकविध इत्यर्थः ॥
समानानेकधर्मोपपत्तेरित्यत्र षष्ठीतत्पुरुषं मत्त्वा आक्षिपति—“न समानधर्मग्रहणादिति ।” बहुव्रीहिं मत्त्वा समाधत्ते—“अयं परिहार” इति । “अथेति ।” कश्चासौ विशेषश्चेति “किंविशेषः” अनुपलब्धपूर्वो विशेषोऽस्येत्यर्थः । उपलब्धपूर्वायां व्यक्तौ संशये तद्गता विशेषाः सुस्मूर्षिताः तज्जातीयव्यक्त्यन्तरसंशये त्वन्यगतास्ते सामान्यद्वारेणोपलब्धा एवेति—“सामान्यप्रत्यक्षादिति ।” सामान्यवानेव सामान्यः । यथा सामान्योऽयं धर्मसेतुर्नृपाणाम् इति । सामान्यश्चासौ प्रत्यक्षश्चेति धर्मी तथोक्तः । अव्यवस्थितविशेषत्वं साधकबाधकप्रमाणाभाव इत्यर्थः ॥
“बौद्धा”भिमतं संशयलक्षणमुपन्यस्यति—“अन्ये त्विति ।” निगूढाभिप्रायो दूषयति—“तैरपीति ।” अविदिताभिप्रायः शङ्कते—“धर्मी” चेदिति । दूषणवादी स्वाभिप्रायमुद्धाटयति—“यदि तावदिति । बौद्धानां” हि राद्धान्ते न रूपादिधर्माश्रयः कश्चिदस्ति धर्मी । ततश्च सिद्धान्तव्याकोपः । यदि त्वाह भवतु राद्धान्तव्याकोपो न हि शास्त्राश्रयो वाद इति, तत्रापि दोषान्तरमाह—“धर्मधर्मिणोश्चेति । अथाप्यस्मद्दिशेति ।” समानानेकधर्मपदवद् बहुव्रीहिरित्यर्थः । सामान्यशब्दस्तु971 भवितरि दृष्टो यथा, सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
इति भावः । “व्यर्थं चाभिधानमिति ।” सामान्यविशेषतद्वदभ्युपगमेऽपि तद्वतोऽश्रवणात् साधर्म्यस्य सामान्यस्य विशेषा इति गम्येत, न च सामान्यस्य विशेषा इति विरुद्धार्थमभिधानं स्यादित्यर्थः । “वैशेषिक”लक्षणे हि विशेषाप्रत्यक्षादित्यनेन साधकबाधकप्रमाणाभावो दर्शितः । इह त्वसौ वक्तव्यः । तस्मात् न्यूनं “बौद्ध”लक्षणमित्याह—“उपलब्धीत्यादि ।” यदि च साधर्म्यदर्शनादित्यनेनान्वयमात्रव्यभिचारः अभिमतो “बौद्धेन” ततोऽनेकधर्मदर्शनादिति वक्तव्यमिति । तदेवं सामान्यलक्षणम्, एकम्, त्रीणि च विशेषलक्षणानीति स्थितम् ॥
तदेतानि चत्वारि लक्षणानि पुञ्जीकृत्य विचारयति—“समानेति ।” यदि तावत् संशयसामान्यलक्षणे स्थिते त्रीणि विशेषलक्षणानि ततः संशयत्वेनोपगृहीतानां त्रयाणां परस्परव्यवच्छेदकमात्रं लक्षणं वक्तव्यम् । ततः समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरित्येतावन्मात्रं वक्तव्यम् । कृतमत्र शेषेण, तन्मात्रादेव परस्परव्यवच्छेदसिद्धेः । तस्मात् परस्परव्यवच्छेदमनपेक्ष्य संशयकारणकथनपरमेतत् “सूत्रम् ।” तथा चान्यान्यपि संशयकारणानि सन्तीति तान्यपि वक्तव्यानि । यदा खल्वयमात्मनः शमादौ संशेते, किमहं चन्दनवनितादिसन्निधाने रज्ये विरज्ये वेति, सोऽयमस्यात्मनः सन्निकर्षजन्मा संशयः आन्तरस्य शमादेर्विषयस्येति समाधत्ते—“अस्तु तावदिति ।” यद्यपि तावन्मात्रेण समानजातीयव्यवच्छेदसिद्धिः, तथापि विजातीयनिर्णयादिव्यवच्छेदाय972 सामान्यलक्षणमनुवर्तनीयम् । तथा च प्रतिपत्तिगौरवं स्यादिति तल्लाघवाय शेषापेक्षा युक्ता । आत्ममनःसन्निकर्षादयस्त्वत्यन्तसाधारणा973 विजातीयव्यवच्छेदायापि नालमिति नोपात्ता इति भावः । एवं संशयकारणावधारणादर्थात् संशयभेदावधारणमित्युक्तम् । सम्प्रतिकारणविशेषणत्वेन974 संशयस्वरूपमेवोच्यते975 इत्याह—“स्वरूपनिर्देशो वेति ।” विप्रतिपन्नोऽपि पुरुषः सन्दिग्धवत् प्रतिपाद्य एवेति मन्वानश्चोदयति—“संशयवदिति ।” विप्रतिपन्नो न शिष्यः, किं तु जल्पवितण्डाभ्यां शिष्यतां नीत्वा सन्दिग्ध एव प्रतिपाद्य976 इत्यभिप्रायेण परिहरति—“सत्यमिति” ॥ २३ ॥
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ १ । १ । २४ ॥
उद्देशक्रमप्राप्तस्य प्रयोजनस्य लक्षणम्—“यम—नम् ।” अत्रार्थशब्दो गौणमुख्यप्रयोजनावरोधार्थः । तत्र मुख्यं सुखदुःखाप्तिपरिहारौ, गौणं तु तत्साधनम् । अत्र “भाष्यं—यमर्थ”मित्यादि । अत्राधिकृत्येत्यस्य व्याख्यानम्—“व्यवसाय” विनिश्चित्येत्यर्थः । ससाधनौ च सुखदुःखाप्तिपरिहारावर्थः । न च सुखदुःखप्राप्तिपरिहारौ स्वरूपेण प्रवृत्तिनिवृत्तिगोचराविति तदुपायप्रवृत्त्यैव चेतनप्रवृत्तिगोचराविति दर्शयति—“तदाप्तिहानोपायमनुतिष्ठतीति । प्रवृत्तिहेतुत्वादिति ।” यद्यपि सुखदुःखाप्तिहाने तदुपायाश्च सन्ति, तथापि सामान्येन ज्ञायमानानीच्छाद्युपहारमुखेन प्रवृत्तिहेतवः । ननु “सूत्रेऽधिकृत्ये”त्यस्ति “भाष्ये” च “व्यवसायेति,” तत् कुतो न विरोध इत्यत आह—“व्यवसायोऽर्थस्याधिकार” इत्यादि । तदेतद् “वार्त्तिककारो” व्याचष्टे— “यमर्थमधिकृत्येति, व्यवसायेति ।” पृच्छति—“कस्येति ।” सुखदुःखाप्तिपरिहारयोर्व्यवसायस्तत्रैव प्रवर्तयेत्, न चानयोः प्रवृत्तियोग्यता । न चान्यनिश्चयोऽन्यत्र प्रवर्तयति अतिप्रसङ्गादिति भावः । उत्तरम्—“सुखदुःखसाधनानामिति ।” ततश्च प्रतीतिप्रवृत्त्योः सम्प्रतिपत्तिरित्यर्थः । सर्वव्यापितामस्य दर्शयति—“अनेन प्रयोजनेनेति ।” वितण्डाया अपि प्रयोजनमुक्तं प्रथम“सूत्रे । चोद्यमानस्य” प्रवर्तमानस्येत्यर्थः । शङ्कते—“यदीति ।” लोक्यतेऽनेनेति लोकः प्रमाणम् । “तदन्वितः” तदुपपन्नः । न च प्रमाणमीदृशम्, अनवस्थाप्रसङ्गादिति भावः । निराकरोति—“अतिदोषोऽयमिति ।” यथा च प्रमाणस्य प्रमाणोपपन्नता न चानवस्था,977 तथा द्वितीये निवेदयिष्यते978 । न च प्रसिद्धतरतया न प्रयोजनं लक्षणीयमिति युक्तम्, कथमस्य प्रयुक्तौ979 साधनत्वम्, क्व च प्रयोजयति, कथं च व्यापकमिति सर्वस्य परीक्षकप्रवेदनीयत्वात् । “अथान्य” इति । अप्रामाणिको लौकिक इति । यथा वटे वटे वैश्रवणः इति । निराकरोति—“तन्न बुध्यामह” इति । प्रयोजनस्य प्रामाणिकत्वादित्यर्थः । यदप्युक्तं “न्यायस्याङ्गं प्रयोजनं न भवति,” तस्मात् न वक्तव्यमिति, तन्न युक्तम् । “या खलु निष्प्रयोजनेति” न ब्रूमः प्रयोजनं न्यायस्याङ्गमित्यपि,980 मुख्यं प्रयोजनमेव हि तन्न स्याद् यदृते पुरुषादन्यार्थमिति । प्रयोजनवांस्तु न्यायो निष्प्रयोजनां तद्गतां चिन्तामङ्गीकरोति, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । तस्मादनङ्गमपि प्रयोजनं परीक्षाया मूलं स्वर्ग इव सेतिकर्तव्यताकस्य यागाद्यनुष्ठानस्येति सिद्धम्981 ॥ २४ ॥
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ १ । १ । २५ ॥
क्रमप्राप्तं दृष्टान्तं लक्षयति—“लौकिक—न्तः ॥” दृष्टान्त इति लक्ष्यनिर्देशः, शेषं लक्षणम् । साध्यसाधर्म्यात् तद्धर्मभावित्वेनार्यते982 तथा साध्यवैधर्म्यादतद्धर्मभावित्वेनार्यते यः सोऽर्थस्तस्मिन् । तथा च नातिव्याप्तिः । उदाहरण“सूत्रा”च्चेदृशविशेषप्रतिलम्भः । “लोकसामान्यम्” किं तदित्यत आह—“नैसर्गिकमिति ।” शास्त्रपरिशीलनलब्धजन्मा बुद्ध्यतिशयो वैनयिकः । तद्रहिता लौकिकाः प्रतिपाद्या इति यावत् । “तद्विपरीताः” तदुभयसम्पन्नाश्च “परीक्षकाः” प्रतिपादका इति यावत् । कथाबहुत्त्वाच्च बहुवचनम् । तदनेन वादिप्रतिवादिनौ दर्शितौ, तयोर्बुद्धिसाम्यं व्याचष्टे—“यथा यमर्थमिति ।” लक्षणप्रयोजनमाह—“दृष्टान्तविरोधेनेति ।” दृष्टान्तस्य विरोधो विरुद्धत्वं साध्यविकलत्वादि । “प्रतिपक्षा” इति प्रतिपक्षासाधनानि । “समाधिः” अभूतदोषारोपस्य प्रतिषेधः । लक्षितश्च दृष्टान्त उदाहरणलक्षणाय “कल्पते” घटते इति “भाष्यम् ।” अत्र “वार्त्तिककारो” लौकिकपरीक्षकस्वरूपमविवक्षितमिति मन्वान आह—“बुद्धिसाम्येति ।” अविवक्षायाः प्रयोजनमन्वयव्यतिरेकाभ्यामाह—“एवं चेति ।” परेषां दृष्टान्तलक्षणाक्षेपमुपन्यस्य983 दूषयति—“सोऽयं दृष्टान्त” इति । दृष्टान्तस्य प्रयोजनमाह—“दृष्टान्तः सारूप्यव्युत्पत्त्यर्थः ।” यथा आक्षेप्त्रोक्तं तत्तदक्षरमनूद्य दूषयति—“असिद्धसाधनार्थो वेति ।” न खल्वसिद्धः साध्येन साधनस्याविनाभावो दृष्टान्तेन साध्यते इत्यर्थः ॥ २५ ॥
॥ इति न्यायपूर्वाङ्गलक्षणप्रकरणम् ॥
न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ १ । १ । २६ ॥
अत्र “भाष्यकारः” सिद्धान्तसामान्यलक्षणमपठित्वैव तात्पर्यं984 व्याचष्टे—“अथ सिद्धान्त” इत्यादिना । तत्र इदमित्थम्भूतमिति “वार्त्तिककारो” व्याचष्टे—“इदमिति सामान्यत” इति । “भाष्ये” च985 “संस्थितिरित्थम्भावव्यवस्थेति” सामान्योपक्रमस्य अभ्युपगमस्य प्रमाणतो विशेषपर्यन्ततापरिसमाप्तिः संस्थितिरित्यर्थः । अत्रैवार्थे “सूत्र”मित्याह “वार्त्तिककारः—अस्यार्थस्येति ।”
“तन्त्रा—न्तः ।” सूत्रार्थमाक्षिपति—“किं पुनरिति । लक्षणार्थं चेति ।” सामान्यलक्षणार्थम्, न खलु सामान्यलक्षणमन्तेरण शक्यो विभाग इत्युक्तम् ॥ २६ ॥
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥ १ । १ । २७ ॥
समाधत्ते—“नानार्षमिति ।” लक्षणार्थत्वं सामान्यलक्षणार्थत्वम्986 । तन्त्र्यन्ते व्युत्पाद्यन्ते प्रमेयाण्यनेनेति तन्त्रं प्रमाणम् । तदेवाधिकरणम् आश्रयो ज्ञापकत्वेन येषामर्थानां ते तथोक्ताः । “अशास्त्रितः” अप्रामाणिक इत्यर्थः । आभिमानिकं च प्रामाणिकत्वम्, तेन सिद्धान्तभेदिनामर्थानां सर्वेषां न प्रामाणिकत्वप्रसङ्गः । तदेवं “भाष्यकारेण” व्याख्याय सामान्यलक्षणं पठितम् । एवं व्याख्यानपूर्वकमेव विभाग“सूत्रं” पठति—“तन्त्रार्थसंस्थितिरिति ।” तन्त्रग्रहणेन च सर्वतन्त्रप्रतिन्त्रयोरुपादानम् उभयोरपि987 तन्त्रत्वात् । तदिदमुक्तम्—“तन्त्रभेदात् त्विति ।” अनवधारितार्थपरिग्रह इति । साक्षाच्छास्त्रे नोपात्तो यथा मनस इन्द्रियभाव इति ॥ २७ ॥
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ १ । १ । २८ ॥
“सर्व—न्तः ।” यद्यपि घ्राणादिषु भौतिकत्वाभौतिकत्वादयो988 विप्रतिपत्तयः, तथापि इन्द्रियत्वे नास्ति विप्रतिपत्तिरिति । तदेतद् “वार्त्तिककारो” व्याचष्टे— “सर्वेषामिति ।” अत्र चोदयति—“न दृष्टान्तादिति ।” परिहरति—भिद्यत इति । न चैवं सर्वतन्त्रसिद्धान्तः । तस्य सर्वैरेव निश्चितत्वादिति । “अनुमानागमयोरिति ।” सम्बन्धग्रहणाश्रयावनुमानागमौ, यत्र च सम्बन्धग्रहः स दृष्टान्त इत्यर्थः ॥ २८ ॥
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ १ । १ । २९ ॥
“समा—न्तः ॥ समान”शब्द एकपर्यायः । “नैयायिकानां” हि समानं तन्त्रं “न्यायशास्त्रम्,” परतन्त्रं च “साङ्ख्यादिशास्त्रम् । चेतना” आत्मनः “निरतिशया” अपरिणामिनो न केनचिद् धर्मेणोपजनापायधर्मेण युज्यन्ते । प्राकृतेषु च देहादिषु989 “तत्कारणेषु” महदहङ्कारपञ्चतन्मात्रभूतसूक्ष्मेषु “विशेषो”ऽतिशय इत्यर्थः । तदेतत् “सूत्रं वार्त्तिककृद्” व्याचष्टे—“सामान्येति ।” योगानाम् एव, “साङ्ख्यानाम्” एवेति नियमः ॥ २९ ॥
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ १ । १ । ३० ॥
“यत्—न्तः ॥ यस्यार्थस्य” साध्यस्य वा हेतोर्वा “सिद्धौ” इति विषयसप्तमी, न तु निमित्तसप्तमी, द्वयोर्ज्ञायमानयोर्निमित्तनैमित्तिकभावायोगात्990 । तेन यस्मिन्नर्थे ज्ञायमाने तदनुषङ्गिणोऽर्थास्तदन्तर्भाविनो गम्यन्ते,991 सोऽर्थः साक्षादधिक्रियमाणस्तदनुषङ्गिणां चाधारः तदाश्रयत्वात् तत्सिद्धेः, स पक्षो वा भवतु हेतुर्वा992 अनेन रूपेण अधिकरणसिद्धान्तः । पक्षस्तावद् यथा993 विवादाध्यासितमुपलब्धिमत्कारणमुत्पत्तिमत्त्वाद् वस्त्रादिवदिति । अत्र हि पृथिव्यादिगतेनोत्पतिमत्तेन उपलब्धिमत्पूर्वकत्वं तद्गतं साध्यमानं स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतमेव सिध्यति नान्यथेहोपलब्धिमत्पूर्वकत्वस्य सिद्धिरिति । “भाष्ये” हेतुः प्रतिसन्धानं सिध्यत् अनुषङ्ग्यर्थान्तरान्वितं सिध्यतीत्युदाहृतम् । तदेतत्सर्वावरोधार्थं “वार्त्तिककृद्” आह—“वाक्यार्थेति ।” हेतुरीदृशः पक्षश्च वाक्यार्थ इत्यर्थः । पूर्वोऽर्थो यः साक्षादधिकृतः तस्य सिद्धावन्तर्गत इति “भाष्यार्थः” ॥ ३० ॥
अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥ १ । १ । ३१ ॥
अथाभ्युपगमसिद्धान्तलक्षणसूत्रम्—“अप—न्तः ॥” तद् “वार्त्तिककारो” व्याचष्टे— “अपरीक्षितोऽसूत्रित” इति, सूत्रितस्य प्रायेण परीक्षासम्बन्धात्, मनसो हीन्द्रियत्वेनासूत्रितस्यापि इन्द्रियत्वाभ्युपगमः प्रमाणाधिकरणो यतः, तस्मादयमभ्युपगमसिद्धान्तः । “सूत्रं” चैवं योजनीयम्, असूत्रिताभ्युपगमात् हेतोर्यतस्तद्विशेषपरीक्षणं क्रियते,994 तस्माद् विशेषपरीक्षणात् ज्ञायते असूत्रितमप्यभ्युपगतं “सूत्रकारेण ।” सोऽयमस्याभ्युपगमोऽभ्युपगमसिद्धान्त इति ॥
एवं स्वमतेन “सूत्रं” व्याख्याय “भाष्यकार”व्याख्यानं दूषयति—“शास्त्रानभ्युपगत” इति । प्रमाणीकृतेन शास्त्रेणाननुज्ञातः प्रमाणानधीन इत्यर्थः । प्रमाणतन्त्राभ्युपगमसंस्थितिरिति हि सिद्धान्तसामान्यलक्षणम्, न च प्रमाणानधीनाभ्युपगमस्तदन्वेतीति नायमीदृशोऽभ्युपगमसिद्धान्तो भवितुमर्हतीति हृदि निधायायुक्तापि दर्शिता । अज्ञं प्रत्यसदाचारत्वात् प्रामाणिङ्क च पुरुषं प्रत्यशक्यत्वात् “बुद्धिमतोऽवज्ञानस्यायुक्तत्वात्” अशक्यत्वादित्यर्थः । “सर्व एवायं पक्ष” इति । सर्वतन्त्रप्रतिततन्त्रसिद्धान्तौ तावत् साक्षादभ्युपगम्यमानौ स्वमुखेनैव पक्षतयाभिधीयेते । अधिकरणाभ्युपगमौ च985 साक्षादनभ्युपगम्यमानावप्यर्थादभ्युपगन्तव्याविति अर्थापत्त्या पक्षावित्यर्थः । ननु यद्युपपन्नः प्रमाणतया अभ्युपगमः सिद्धान्तः, तर्हि सिद्धान्तभेदिनामर्थानां प्रामाणिकत्वेन विरुद्धधर्मसमालिङ्गिता भावाः प्रसज्येरन्नित्यत आह—“तत्प्रत्ययात् ।” तस्य प्रमाणोपपन्नकर्मत्वस्य प्रत्ययादभिमानादित्यर्थः । पक्ष इति पचि व्यक्तीकरणेत्यस्माद् व्युत्पन्नम् । “कर्मतया” व्यज्यमानतया वा उपादानं स्वार्थस्य पक्ष इति पदम् । उपादीयतेऽनेनेति व्युत्पत्त्या “क्रियासाधन” इति प्रधानक्रियासाधने । “क्रियाविशेषयुक्त” इति अवान्तरव्यापारयुक्ते । तेन हि प्रधानाक्रियायां कारकाणां वैचित्र्यं भवतीति, “यश्चासौ न्यायस्याभ्युपगम” इति । यावदभ्युपगतं न्यायस्य साधनं न्याय इति, तावदभ्युपगतं भवति प्रमेयसाधनं प्रमाणमिति । न च धर्मिणि अनभ्युपगते तदाश्रयोऽभ्युपगतो भवति । तस्मादुभयथापि सर्वतन्त्रसिद्धान्तानपह्नव इत्यर्थः । “अथ सङ्ग्रहः पक्षशब्देनेति,” यथा दण्डिशब्देन दण्डसम्बन्धोपहितसीमानः समानासमानजातीयाः सर्वे सङ्गृह्यन्ते, तथा पक्षशब्देनापीत्यर्थः । अयं तु कल्पः सर्वतन्त्रसिद्धान्ताव्यापकत्वकथनेनैवार्थादपाकृत इति न पृथक् निराकृतः । पक्षशब्दो हि व्यज्यमानत्वोपाधिनिबन्धनप्रवृत्तिः, न च व्यज्यमानत्वमस्ति निसर्गव्यक्ते सर्वतन्त्रसिद्धान्त इति भावः । “वाक्यार्थप्रतिपत्ताविति ।” पीनो देवदत्तो दिवा न भुङ्क्ते इति वाक्यस्य995 दिवाभोजननिषेधोऽर्थः । तस्मात् तद्विपरीतरात्रिभोजनविधिरर्थापत्तिर्लोकसिद्धा । सा च न यथा प्रमाणान्तरफलं तथा द्वितीये निवेदयिष्यते996 । तदनेन प्रबन्धेन “भदन्तदिग्नागो”दितानि दूषणानि निराकृतानि ॥ ३१ ॥
॥ इति न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥
न्यायलक्षणप्रकरणम्
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ १ । १ । ३२ ॥
“प्रति—वाः” ॥ ३२ ॥ “वार्त्तिककारः सूत्र”तात्पर्यमाह—“अवयवानामिति ।” नन्ववयवसामान्यलक्षणम् अन्तरेणाशक्यो विभागोद्देशः, तद्विशेषलक्षणं च । न चेदं सामान्यलक्षणं विभागपरत्वादित्यत आह—“सूत्रम्,” विभागपरमप्येतदर्थादवयवसामान्यलक्षणं सूचयतीति “सूत्रम् ।” अन्यपरादपि वाक्यात् प्रतीयमानोऽर्थोऽपेक्षितः स्वीक्रियत एवेति “शाब्दाः ।” तत्रावयवपदादेव सामान्यलक्षणमवगम्यते । अवयवत्वेनैकवाक्यता दर्शिता । सा च पदानां परस्परमसम्प्रत्यायितापेक्षितसम्बन्धयोग्यार्थप्रत्ययेन997 भवति । तस्मात् तथाविधार्थप्रत्यायनमेव प्रतिज्ञादीनामवयवसामान्यलक्षणं सिद्धमिति सूत्रमित्यनेन दर्शितं “वार्त्तिककृता” इति । विभागोद्देशतात्पर्यमाह— “विभागेति ।” त्र्यवयग्रहणम् उपलक्षणार्थम्, द्व्यवयवमित्यपि द्रष्टव्यम् । अत्र “भाष्यं तत्राप्रतीयमान” इति । सामान्येनावगतधर्मिणि विशेषेणाग्निमत्त्वादिना सन्दिग्धे अग्निमत्वादितत्त्वावधारणं प्रत्ययः । तस्यार्थः प्रयोजनं हानोपादानोपेक्षाबुद्धयः । तस्य998 “प्रवर्त्तिका” उत्पादिका “जिज्ञासा” प्रत्ययसाधनानुसरणद्वारेण प्रत्यासत्तिः संशयतत्त्वज्ञानयोर्विशेषगता999 न तु स्वरूपगता, संशयानन्तरया जिज्ञासया संशयस्य व्यवधानात् । शक्यं प्रमेयम् । तस्मिन् प्राप्तिः शक्तता प्रमाणानां प्रमातुश्च । सा च स्वरूपसहकारिभ्यां द्वेधा । तामिमां “भाष्यकारो”ऽनया वचोभङ्ग्या दर्शयति—“प्रमातुः प्रमाणानीति । प्रतिज्ञादिवदिति ।” वैधर्म्यदृष्टान्तः । “प्रतिपक्षोपवर्णनमिति ।” यदि शब्दो नित्यः स्यात्, न स्यात् कृतक इति अनित्यत्वस्य नित्यत्वं प्रतिपक्षः । तस्मिन् हेत्वभावोपवर्णनं900 न चायमकृतक इति । तदुपवर्णनप्रतिषेधे सति “तत्त्वज्ञाना भ्यनुज्ञानार्थम् ।” तत्त्वं1000 ज्ञायतेऽनेनेति तत्त्वज्ञानं प्रमाणम् । तदभ्यनुज्ञानार्थं “संशयव्युदास”स्तर्कापरनामा । व्युदस्यते हि तेन1001 प्रमाणाभ्यनुज्ञानद्वारेण इतिकर्तव्यताभूतेन1002 संशय इति । तदेतद् “भाष्य”जातं प्रश्नपूर्वकं “वार्त्तिककृद्” व्याचष्टे—“कथं पुनरिति । न पुनर्जिज्ञासादयः परप्रतिपादकाः” शब्दादवगताः सन्तः । अथ मा भूवन् परप्रतिपादकाः, स्वप्रदिपादका एव कस्मात् न भवन्तीत्यत आह—“निश्चितत्वाच्चेति । साधनादेव गम्यते” प्राप्यते,1003 प्राप्तं च ज्ञायत इत्यर्थः । “शक्यप्राप्तिश्च” ज्ञायत इत्यर्थः । तत् किं सर्वथैवानङ्गं जिज्ञासादयः इत्यत उक्तं “भाष्यकृता प्रकरणे तु जिज्ञासादयः” समर्था इति । तदनुभाष्य व्याचष्टे—“प्रकरणे त्विति ।” प्रकरणं कथाप्रवृत्तिः । तदुत्थापका “जिज्ञासादयोऽवयवा” अङ्गमित्यर्थः । ते च जिज्ञासादय उत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेण, न पुनः स्वज्ञानेन, येन शब्दप्रतिपाद्याः1004 सन्तः प्रकरणेऽप्यङ्गं भवेयुः, यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान् प्रतिपादयन्तः । तस्मात् सर्वथैव जिज्ञासादिवाचकपदप्रयोगोऽनर्थक इति भावः । अत एवाह—“परप्रतिपादकत्वादिति ।” तुशब्दो जिज्ञासादिभ्यो व्यवच्छिनत्ति । त्र्यवयवमपीत्यपिना द्व्यवयवनिषेधं1005 समुच्चिनोति । “उपनयनिगमन”योरित्यत्र प्रतिज्ञाया अपीति द्रष्टव्यम् ॥ ३२ ॥
साध्यनिर्देशः प्रतिज्ञा ॥ १ । १ । ३३ ॥
“साध्य—ज्ञा ।” परिगृह्यतेऽनेनेति परिग्रहः । स च वचनं चेति “परिग्रहवचनम् ।” उदाहरणम् “अनित्यः शब्द” इति । तदाक्षिप्य “वार्त्तिककारः” समाधत्ते—“सिद्धत्वादिति ।” अग्निमानेव नातद्वान् नास्याग्निनेदानीमयोगः । स च पर्वतेऽग्निमति साध्यमाने विशेषणविशेष्ययोः परस्परसम्बन्धलक्षणो1006 नियमोऽर्थात् सिध्यति । न तु साक्षादयोगव्यवच्छेद एव साध्यः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् । “तस्य निर्देश” इति निर्दिश्यतेऽनेनेति प्रतिज्ञावाक्यमुच्यते1007 ।
अत्रान्यव्यवच्छेदं वाक्यार्थं मन्वानो “भदन्तः” प्रतिज्ञालक्षणमतिव्याप्त्यव्याप्तिभ्यामाक्षिपति—“उभयेति ।” उभयोरवधारणयोः प्राप्तौ संशयेन1008 किमिदमवधार्यते किं चेदमिति प्रसक्तावित्यर्थः । “प्रतिज्ञावधृतेति ।” यत एवकरणं1009 ततोऽन्यत्रावधारणमिति हि “शाब्दा” इति भावः । “व्यतिरेकित्वादिति” व्यभिचारादित्यर्थः । समाधत्ते—“सर्वस्मिन् वाक्ये” इति । संसर्गो वाक्यार्थ इत्युत्सर्गः । क्वचित् पुनरन्यव्यवच्छेदोऽपीति । “सामान्यश्रुतौ नियम” इति । यथेन्द्रियार्थसन्निकर्षोत्पन्नमित्युक्ते ज्ञानं सुखादि च सामान्येन प्राप्तम् । तत्र ज्ञानग्रहणं न विधायकम्, प्राप्तत्वात् । अतः सुखादिव्यवच्छेदफलं विज्ञायते । यदि त्वस्मद्दर्शनमतिक्रम्य सर्वत्रावधारणं करोति, ततोऽस्य लोकविरोध इत्याह—“सर्वत्र चेति ।” तत् किं लोके न क्वचिदवधारणमित्यत1010 आह—“यत्र चेति ।” चोदयति—“ननु चेति ।” सिद्धप्रतिपक्षः1011 साध्यशब्दस्यार्थ इत्यभिप्रायः । परिहरति—“न सूत्रार्थेति ।” सर्वसन्देहेष्विदमुपतिष्ठते व्याख्यानतोऽर्थप्रतिपत्तिरिति1012 भावः । चोदकः स्वाभिप्रायमुद्धाटयति—“अथ पुनरिति । असाध्यनिर्देशः” सिद्धनिर्देशः । तस्य “निवृत्तिः” साध्यशब्दादवगम्यते, न तु प्रज्ञापनीयोऽर्थ इत्यर्थः । परिहरति—“असाध्यं चेति ।” भवेदेतद् यदि सिद्धमात्रमसाध्यं स्यात् । अपि त्वनुपपद्यमानं साधनं सिद्धिर्यस्य तदप्यसाध्यम् । तथा चासिद्धस्य चाक्षुषत्वादेर्निवृत्तिरित्यर्थः । पुनश्चोदयति—“अथ पुनरिति ।” न कृतकत्वादि सिद्धं299 नाप्यनुपपद्यमानसाधनम् । नापि कृतकत्वादि पराङ्गत्वेनोपात्तं येनाप्रज्ञापनीयं स्यादित्यर्थः । परिहरति—“नैष दोष” इति । “प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनम्” इति “सूत्रार्थः,” न पुनर्धर्ममात्रपरिग्रहवचनमिति । अभ्युपगम्य व्यवच्छेदं शब्दार्थमेतदुक्तम्, परमार्थतस्त्वनियमः क्वचित् संसर्गः, क्वचिद् व्यवच्छेद इत्यत आह—“यच्चेदमिति ।” इतोऽपि नासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्ग इत्याह—“साध्यनिर्देश इति च प्रतिज्ञायामिति ।” प्रमाणतन्त्रः खल्वभ्युपगमः सिद्धान्तः । न च चाक्षुषत्वादिषु प्रमाणमूलता, तदभिमानोऽपि बाधकादपाकृत इति । ननु यदि सर्वतन्त्रसिद्धान्तातिरिक्तानां सिद्धान्तान्तराणां साध्यत्वं तर्हि साध्येनैव चरितार्थत्वाद् अपार्थकं पृथगभिधानमेतेषामिति । अत उक्तम्—“अवस्थायामिति ।” विमत्यवस्थायाम्, सर्वतन्त्रे तु विमतिरशक्येत्युक्तम् । परिहारान्तरमाह—“जिज्ञासादीति ।” विभाग“सूत्रेण” प्रकरणोत्थानहेतवो वाक्यावयवतया निराकार्यत्वेन1013 जिज्ञासादयो बुद्धिस्थीकृताः । तेन यत्र जिज्ञासादयः स साध्यः । न च चाक्षुषत्वादिषु प्रमाणबाधितेषु सन्ति त1014 इत्यर्थः । परिहारान्तरमाह—“अर्हत्यर्थ” इति ।
अपरमपि परिहारमाह—“कर्मकरणयोर्वेति1015 ।” एवं तावद् व्युत्पत्त्याद्यालोचनया1016 साध्यशब्दस्य न हेतुदृष्टान्तयोः प्रसङ्ग इत्युक्तम् । सम्प्रति लोक एवातिस्फुटास्तिस्रो विधा अर्थानाम् । कृतमत्र सूक्ष्मानुसरणेनेत्याह—“साध्यासिद्धसिद्धभेदादिति ।” अन्यतरासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्गो मा भूदिति कर्मतया ते उपादीयन्त इत्युक्तम् । “उभयपक्षेति” पक्ष शब्दो वर्गवचनः1017 । सम्प्रतिपन्नमुभयोर्वर्गयोरित्यर्थः । परिहारान्तरमाह “अथ वेति ।” अवयवानामेतत् प्रकरणम् । तेषां च प्रधानैकार्थप्रत्यायनेनैकवाक्यतामापन्नानामवयवभावः । यत्प्रत्यायनोद्देशेन ते प्रवर्तन्ते तत्प्रधानम् । धर्मी च सिषाधयिषितधर्मविशिष्टः । तथा च न साक्षात् तत्प्रत्यायनाय ते विभवन्तीति तदर्थं साधने व्याप्रियन्ते । तेन सिषाधयिषितधर्मविशिष्टो धर्मी तेषां प्रधानं विषयश्च । प्रधानं च प्रथमं बुद्धौ विपरिवर्तते इति साध्यशब्देन स एवोच्यते, न तु हेतुदृष्टान्तावप्रधाने इत्यर्थः ।
तदेवमदुष्टमस्मल्लक्षणमिति यदस्मल्लक्षणमनेन दोषेण भङ्क्त्वा “भदन्तेन” अन्यथा लक्षणं प्रणीतम्, तदेव दुष्टमित्याह—“न चेदयमिति ।” ननु यत्र साध्यपदमस्ति भवतु तत्रेष्टग्रहणमनर्थकम्, न त्वस्मिंस्तदस्तीति कथमिष्टग्रहणमनर्थकमित्यत आह—“कर्मग्रहणाच्चेति ।” मा भूत् साध्यपदम् । अस्ति तु पक्षपदम् । तदपि हि पच्यमानं1018 व्यज्यमानं साध्यमेवाह—“तच्च कर्म ।” कर्म1019 चेप्सितमिति प्राप्तुमिष्टमित्यर्थः । चोदयति—“अथाप्यनिष्टेति ।” नन्वनिष्टः पक्ष इति विप्रतिषिद्धमित्यत उक्तम्—“अर्थतः किलेति ।” वस्तुव्यवस्थापनाय प्रवृत्तस्य तादृशं नेष्टमित्यर्थः ।
“बौद्ध”पक्षमुपन्यस्यन्नेव मध्ये तदभिमतं किञ्चिन्निराकरोति—“अश्रावण” इति । कृतव्याख्यानमेतत् प्रथम“सूत्रे1020 । अपि त्वनुमानतः” कारणतो विकारात्1021 इत्येवमादेः1022 । न हि व्यङ्ग्यं व्यञ्जकं कारणमनुविधीयते1023 । नो खलु महति प्रदीपे घटो महान् अल्पे वा अल्प इति । महति तु कारणे महान् शब्द इति । तस्मात् कारणतो विकारात् कार्यः शब्दः, यथा महद्भिः स्थूलपिण्डैरारब्धोऽवयवी महानिति । तदनेन प्रत्ययभेदभेदित्वं हेतुरुपलक्षितो भवति, आदिशब्देन च820 सतः शब्दस्य अभिव्यक्तौ दोषात्1024 ।
इत्येवमादयो ग्राह्याः । दोषश्च दर्भेध्मादिवदुपयुक्तानामृचां निरिष्टिकत्वेन पुनरुपयोगः,1025 कार्यत्वे पुनरन्यत्वेन निरिष्टिकत्वमित्यर्थः । यद्यप्यागमोऽपि शब्दानित्यत्वेऽस्ति यथा सोमं राजानमसृजत ततस्त्रयो वेदा असृज्यन्त ।
इति । तथापि नासदासीन्नो सदासीदाम्नाय एव खल्वयमग्र आसीत् ।
इति नित्यत्वेऽप्यागमदर्शनात् अनिश्चयादनुमानस्यैवात्र प्रामाण्यम् । तथा चानुमानविरोध इति । “प्रसिद्धिविरोधं तु न बुध्यामहे” प्रमाणविरोधाद् भेदेन । अबोधमाह— “कोऽयं प्रसिद्धिविरोध” इति । एकग्रन्थेनाह—“प्रसिद्धिः प्रत्यक्षादीनामिति ।” अचन्द्रः शशीति । यदि चन्द्रे शशिशब्दवाच्यत्वं1026 निषिध्यते, तदा लोकव्यवहारावगतान्वयव्यतिरेकप्रभवानुमानविरोधः । अथ विकल्पज्ञानगोचरत्वनिषेधः, ततो भवतां स्वसंवेदनप्रत्यक्षविरोधः । अस्माकं तु मानसप्रत्यक्षविरोध इति सर्वथा न प्रमाणादन्या प्रसिद्धिरिति । तदेवं “बौद्ध”पक्षमुपन्यस्य तदुक्तान्युदाहरणानि दूषयित्वा “बौद्ध”पक्षमुपसंहरति—“एतदर्थेति ।”
तदेतद् दूषयति—“एतच्चेति ।” वस्तु हि यादृशं स्वकारणादुत्पन्नं तादृशमेव तत् । न तस्यान्यथाभाव इति न तत्र दोषो निविशते । तद्विषयाणि पदान्यपि प्रत्येकमदुष्टान्येव । या पुनः पौरुषेयी दृष्टमन्यत्रार्थमन्यत्र समारोप्य भ्रान्त्या वा परविप्रलम्भाय वा प्रतिज्ञादिरूपेण वाक्यक्रिया, सा स्ववचनविरोधादिशालिनी दुष्टा । तद्द्वारेण पुरुषो निगृह्यते, नार्थो न पदानीति । “स्वार्थापवादः” स्ववचनविरोधः कर्तृदोषो भ्रमो वा विप्रलम्भो वा क्रियायामुपचर्यते । न च340 क्रियायां भ्रमो वा विप्रलम्भो वा, तयोरभिप्रायभेदतया पुरुषधर्मत्वात् क्रियाया वस्तुबाधनात् पुरुषाभिप्रायावगतिरिति “क्रियाद्वारे”णेत्युक्तम् ।
चोदयति—“अथ प्रतिज्ञाया” इति । तदेतदतिप्रसङ्गेन दूषयति—“नैतद् युक्तं हेत्वादीति । न पुनर्दूषणानि न्यूनतावयवोत्तरदोषाक्षेपभावोद्भावनानीति ।” त्रैरूप्यसम्पन्नो हेतुः पूर्णः । स त्रिषु रूपेष्वन्यतमेन रूपेण रहितो न्यूनोऽसिद्धो वा विरुद्धो वा अनैकान्तिको वा भवतीति सोऽयं न्यूनतादोषो हेतोः । अवयवदोषश्च प्रतिज्ञादोषः स्ववचनविरोधादिः । हेतुदोषोऽसिद्धत्वादिः । एवमुदाहरणदोषः साध्यविकलत्वादिः । उत्तरदोषो जातिः प्राप्त्यप्राप्तिसमादिः । तस्याक्षेप उपादानं स्वीकार इति यावत् । भावोऽप्रतिभादिः । स हि वादिनो वा प्रतिवादिनो वाभिप्रायः । तस्योद्भावनानि दूषणानीति । “न हि सम्भवे सत्युपचार” इति । प्रतिज्ञागता हि दोषा यदि तद्गतत्वेनोद्भाव्यमाना न वादिनो निग्रहमापादयेयुः, ततस्तत्र निष्प्रयोजनत्वेनासम्भवात् पक्ष एवोपचर्येरन्,1027 पारयन्ति तु प्रतिज्ञागतानि दूषणानि निग्रहितुं वादिनमिति । सोऽयं प्रतिज्ञादोषाणां प्रतिज्ञायां सम्भव इति । कस्मात् पुनर्मञ्चस्था इत्येवं न प्रयुञ्जते इत्यत उक्तम्—“लौकिकप्रयुक्तवाक्यान्वाख्यानम्”1028 न, अनादिर्लोक प्रयोगो नियोज्यः पर्यनुयोज्यो वेत्यर्थः ।
स्यादेतत् । इष्टग्रहणमनक्षरारूढमप्यभिप्रायव्याप्तं साध्यं यथा स्यादित्येवमर्थं यथा परार्थाश्चक्षुरादय इति । अत्र हि पारार्थ्यमात्रमक्षरारूढम्1029 । न च तन्मात्रमस्य साध्यम्, अपि त्वात्मपारार्थ्यम् । तच्च नोच्चारयति मा भूदनन्वयो हेतुः सङ्घातत्वादिति । तस्मात् तदवरोधायेष्टग्रहणमित्याह—“अथेष्टग्रहणेनेति ।” परिहरति—“अयमप्यर्थः साधनादेव गम्यते ।” प्रतिज्ञाप्रयोगादेव गम्यते1030 । अयमभिसन्धिः । वचनलिङ्गा हि वक्त्रभिप्राया भवन्ति । यत्परं च वचनं स वचनार्थः । तात्पर्यं चास्य क्वचिद् वाच्ये क्वचिल्लक्ष्य इति सर्व एवासौ वचनार्थः । यस्तु नैवंविधः कथमसौ वचनार्थः ? कथमसौ1031 वाद्यभिप्रायव्याप्त इत्यवगन्तव्यम् । न च क्वचिदपि पक्षः प्रतिज्ञापदवाच्यः, तस्य वाक्यार्थत्वेन लक्ष्यत्वादेवेति । “अनिष्टनिवृत्तिरिष्टेति ।” तत्साधनमन्विष्यमाणमपि तदानीमिष्टमेव । अन्यथा तत्र प्रयत्नानुपपत्तेरिच्छापूर्वकत्वात्1032 तस्येति । “अथ संशयो विचारणेति ।” ततश्च संशयविषय इष्यमाणो जिज्ञास्यमानश्च साध्य एव भवति, न साधनादिरित्यर्थः । स्थानान्तरीयं च “भदन्तस्य” लक्षणम्, साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः ॥
इति दूषयति—“एतेनेति ।” अत्रापि हि साध्यपदादूर्ध्वं वृथाक्षरचतुष्टयमिति । तथा पक्षो यः साधयितुमिष्टः इत्यत्रापि “वसुबन्धु”लक्षणे1033 विरुद्धार्थानिराकृतग्रहणं न कर्तव्यम् । एतदुक्तं भवति—न केवलमस्माकमेतद् विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति, समानतीर्थानामपि तथा विभाति, यतस्तैर्नोपात्तमिति । “अत एवं वक्तव्यं पक्षो यः साधयितुमिष्ट” इति । यद्यप्यत्रापि प्रयोज्यप्रयोजकव्यापारयोः साधयितुमिति समानम्, तथापि तुमुना य एव साधयिता वादी स एवैषितेत्युक्तं भवति । न पुनर्वादिनो नियोक्ता साधयिता वादी चैषितेति । एषितृत्वं च वादिनो ध्रुवं कृत्वैतदुच्यते, यदा पुनरेषितृत्वमपि प्रयोजके सञ्चार्यते, तदा स्वयङ्ग्रहणेनाप्यप्रतीकार इत्यभिप्रायः । “तत्त्वभाक्तयोश्चेति ।” सिद्धः साध्यस्य प्रयोजकः कर्ता । स हि सिध्यन्तं साध्यं साधयति वादी । तस्मिन्नियं साधना समवेता । यस्तु तस्यापि प्रयोजकस्तृतीयस्थानपतितो न तस्मिन् साधना समवैतीति । यः कारयति स करोत्येवेति कथञ्चिदस्य भक्त्या कर्तृत्वम्, तच्चायुक्तं सति मुख्ये कर्तरीत्यभिप्रायः । “आञ्जसत्वं”1034 मुख्यत्वम् । पूर्वाभिप्रायस्थितमर्थमुद्धाटयति—“तुमुनश्चेति1035 ।” अत्रोक्तं “भाष्यकारी”याभ्युपगमसिद्धान्तनिराकरणावसरेऽप्रमाणकमर्थमिति । यस्तावत् शास्त्राविरुद्धोऽर्थः प्रमाणसिद्धः स शास्त्रीय एव शास्त्राभ्युपेतप्रमाणसिद्धत्वात्, तं व्युत्पादयन् न शास्त्रं बाधते । यस्तु प्रमाणीकृत“वैशेषिक”तन्त्रः शब्दनित्यत्वं साधयति सोऽनवधेयवचनः न हेत्वभिधानं यावत् परिषत्प्रतिवादिभ्यां नीयते, अपि तु प्रतिज्ञोच्चारणानन्तरमेव निगृह्यते । यस्तु “वैशेषिक” तन्त्राध्ययनमात्राद् “वैशेषिकत्व”मात्मनो दर्शयित्वा शब्दनित्यतां प्रतिजानीते नासौ प्रमाणीकृत“वैशेषिक”तन्त्र इति न निगृह्यते इति । “यश्चाप्रमाणकोऽभ्युपगम” इति । अभ्युपगम्यत इत्यभ्युपगमः । “तदभिधानं प्रतिज्ञेति वक्तव्यमिति ।” साध्यग्रहणात् तद्ग्रहणस्य लाघवादित्यर्थः । “यस्तु तत्रभवता नैयायिकेन” इति प्रकृतमुपसंहरति—“तस्मादपेतेति” ॥ ३३ ॥
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ १ । १ । ३४ ॥
अवान्तरसङ्गतिं प्रदर्शयन् प्रतिज्ञावचनस्य साधनाङ्गत्वमपि दर्शयति— “हेतोरवसरप्राप्तस्येति ।” प्रतिज्ञानन्तरं हेतुवचनस्यावसरः । तथा हि परप्रत्यायनाय वचनमुच्चारयन्ति प्रेक्षावन्तः । तदेव च परे बोधयितव्या यद् बुभुत्सन्ते । तथा सत्यनेनापेक्षिताभिधायिना1036 परो बोधितो भवति । नो खल्वाम्रान् पृष्टः कोविदारानाचक्षाणः प्रष्टुरवधेयवचनो भवति । अनवधेयवचनश्च1037 कथं “प्रतिपादको” नाम ? यथा च माठर समिधमाहरेति गुरुणा प्रेषित एषोऽहमाहरामीत्यनुक्त्वा1038 तदर्थं यदायं दात्राय1039 गृहं प्रविशति, तदास्मै कुप्यति गुरुः । आः शिष्यापसद छान्दसवचर1040 माठर मामवधीरयसीति ब्रूवाणः । एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इत्यनुक्त्वा यदेव किञ्चिदुच्यते कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा, कृतकश्च शब्द इति वा तत् सर्वमस्यानपेक्षितम् आपाततोऽसम्बद्धाभिधानबुद्ध्या,1041 तथा चानवहितो न बोद्धुमर्हतीति । यत् कृतकं तत्सर्वमनित्यं यथा घटः, कृतकश्च शब्द इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत्—न, परस्पराश्रयत्वप्रसङ्गात्1042 । अवधाने हि सति अतोऽर्थनिश्चयः । तस्माच्चावधानमिति । न च परिषत्प्रतिवादिनौ प्रमाणीकृतवादिनौ यदेतद् वचनं सम्बन्धाय प्रतीक्षेते,1043 तथा च सति न हेत्वाद्यप्यपेक्षेताम्, तद्वचनादेव तदर्थनिश्चयात् । अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्यपेक्षायां कृतकत्वादिति हेतुरुपतिष्ठते । सोऽयं पञ्चावयवप्रयोगे च तल्लक्षणे च प्रतिज्ञानन्तरकाल एवावसरो हेतोः । तदेवं हेतोरवसरप्राप्तस्य सामान्यलक्षणापदेशद्वारेण तद्विशेषलक्षण“सूत्रम्”—
“उदा—तुः ।” श्रुत्यर्थाभ्यामुभयलक्षणसूचनात् “सूत्रम् ।” अत्र1044 हेतुरिति लक्ष्यनिर्देशः । स च विभागोद्देशे वाक्यावयव इति वचनरूपः । तस्य सामान्यलक्षणं “साध्यसाधनमिति ।” साध्यतेऽनेनेति व्युत्पत्त्या यद्यपि पारार्थ्यापन्नं कृतकत्वादिकमर्थमाह, तथापि तस्य वचनात्मकहेतुसामानाधिकरण्यानुपपत्तेर्विषयि कृतकत्वा दित्यादिकं वचनमुपलक्षयति । यदि च340 वचनं हेतुरित्युच्येत तत्साध्येन समभिव्याहृतं प्रतिज्ञा स्यात् । अथ वचनमित्येतावदुच्येत, तदातिव्याप्तिः स्यात् । उपचारे तु न क्वचित् प्रसङ्गः । उपनयादपि साधनं न पराङ्गतया गम्यते, किं तु प्रातिपदिकार्थप्रधानतया स्वनिष्ठमिति न तत्रापि प्रसङ्गः । हेत्वाभासाश्च न साधनमिति साधनपदेनैव निराकृताः । न्यायवाक्यावयवत्वादेव1045 च न शब्दे1046 प्रसङ्गः । तदेव समानासमानजातीयव्यवच्छेदकत्वं सिद्धं सामान्यलक्षणस्य । इदं चार्थम् । श्रौतं तु विशेषलक्षणम् । हेतुरिति यद्यपि सामान्यपदम्, तथापि प्रकरणादन्वयव्यतिरेकिहेतुविशेषपरं1047 द्रष्टव्यम् । तेन हेतुरिति लक्ष्यनिर्देशः, परिशिष्टं तु लक्षणम् ।
तदेतद् “भाष्यकृद्” व्याचष्टे—“उदाहरणेनेति ।” साधर्म्यपदव्याख्यानं “सामान्यादिति ।” साध्यसाधनपदव्याख्यानं “साध्यस्य धर्मस्येति ।” साध्यस्येति धर्मिमात्रे बुद्धिर्मा भूदित्यत उक्तं धर्मस्येति । धर्मसहितस्य धर्मिण इत्यर्थः । एतदेव स्फुटयति—“साध्ये प्रतिसन्धायेति ।” उदाहरणसाधर्म्यात् साध्यस्येत्यनेनान्वयपक्षधर्मत्वे, अन्वयव्यतिरेकपक्षधर्मत्वानि च दर्शितानि । साध्यसाधनमित्यत्र च साध्यग्रहणेनाबाधितत्वासत्प्रतिपक्षत्वे सूचिते, तद्विपरीतस्य साधनानर्हत्वादिति ।
तदेतद् “वार्त्तिककारो” व्याचष्टे—“उदाहरणेनेति । यो धर्मो” धूमादिः “साध्ये भवति” स “तथाभूत एवोदाहरणेऽपीति ।” उदाह्रियत इत्युदाहरणं दृष्टान्तधर्मी तस्मिन्, “न पुनः स एव ।” कुतः “अन्यधर्मस्येति ।” यदि तर्हि नान्यस्य धर्मोऽन्यत्र1048 वर्तते, कथं तर्हि समानता ? सा हि तत्त्वान्यत्वविरोधिनीत्यत आह—“किं तु तत्तुल्यः स एवेत्युच्यते,”1049 यथा तानेव शालीन् उपयुङ्क्ते1050 तानेव तित्तिरीनिति । तदनेन “सामान्याद्” इति “भाष्यं” व्याख्यातम् ।
उदाहरणग्रहणप्रयोजनमाह—“यदि पुनरिति ।” साधर्म्यमात्रत्वं1051 हि विरुद्धे चासाधरणे सव्यभिचारे चास्तीति तेषामपि वचनं हेतुः स्यात् । तेषामपि यथास्वं साधारणत्वादित्यनिष्टमित्यर्थः । ननु तथापि सव्यभिचारेऽप्युदाहरणसाधर्म्यमिति कथं निवर्त्यत इत्यत आह—“उदाहरणेति ।” विशिष्टविधानस्य शेषनिषेधोऽर्थसिद्ध इत्यर्थः । पक्षान्तरमाह—“अवधारणेन वेति ।” साधर्म्यादित्यतो विशेषेण सर्वसाधर्म्यप्राप्तौ उदाहरणसाधर्म्यमपि प्राप्तमेवेति विधानानर्थक्यं परिसङ्ख्यायकं सदवधारणार्थमेव भवति । तदवद्योतनाय च एवकारः । “साधर्म्यमेवे”त्यत्र साध्यपदं योजनीयम् । तेन साध्यैकदेशासिद्धमपाकरिष्यति । पृच्छति—“कस्य पुनरिति ।” उत्तरम्— “कस्यान्यस्येति ।” अत्रैव हेतुद्वयमाह—“प्रकृतत्वात् प्रत्यासत्तेश्च ।” साध्यं खल्वत्र प्रकृतं प्रधानम्, तदुद्देशेन अवयवानां प्रवृत्तेः । साध्यसाधनमिति च पदेन सन्निधापितमिति तदेव द्वितीयमवधारणं स्फुटीकरोति—“अत्रापि चेति । साध्ये प्रतिसन्धाय” इति “भाष्या”र्थमाह—“साध्योदाहरणाभ्यामिति । द्वाविति ।” सपक्षव्यापकाव्यापकावित्यर्थः । “अनैकान्तिकस्य चेति ।” साधारणस्य असाधारणस्य चेत्यर्थः । “एवं भाव्यमानेनेति ।” परिभाव्यमानेन । “नातिप्रसक्तस्येति” परिसङ्ख्यायकं हेत्वाभासलक्षणं न विधायकमित्यर्थः ।
एतत् किल हेतुलक्षणं “भदन्तो” दूषयाम्बभूव, साधनं यदि साधर्म्यं न वाक्यांशो, न ह्यर्थः पञ्चावयववाक्यस्यावयवः । न पञ्चमी । यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेदः, उभयथापि न पञ्चमी, सामानाधिकरण्येन प्रथमाप्रसङ्गात् । अत्यन्ताभेदे चैकतरपदाप्रयोगात् । वाक्यं चेत् ततः पञ्चम्युपपद्यते । साधनं हि वाक्यरूपं साधर्म्यादर्थादुत्थितं यतः । तद्विशेष्यं स्यात् न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपीति1052 । न विशेष्यम् कुतः ? साधनत्वादसम्भवः ॥ अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गः, असाधनत्वादिति । न तत्रापि द्विधा दोषात् साक्षाद् वा साधनं पारम्पर्येण वा ? यदि पारम्पर्येण, वक्तृज्ञानं तर्हि साक्षात् साधर्म्यसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् । अथ साक्षात् साधनम्, तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्यसमुत्थं साक्षात् साधनं हेतुः स्यात् । प्रकृतत्वेऽन्यसम्भवः । यदि तु पञ्चावयववाक्यस्य प्रकृतत्वात् ज्ञानादिव्यवच्छेदः, तथाप्यन्यसम्भवः,1053 उपनयस्यापि साधर्म्यसमुत्थत्वात् ।
स्वलक्षणेन बाधा चेन्न विकल्पादिसम्भवात् ।
तस्मात् षष्ठ्यस्तु तत्रापि विशेषणमनर्थकम् ॥
साधर्म्यस्य हेतुरित्येतावन्मात्रं वक्तव्यमिति ।
तदेतद् “दिग्नाग”दूषणमुपन्यस्यति—“उदाहरणसाधर्म्याच्चेति ।” यद्यर्थात्मकं साधर्म्यमेव साधनमुच्यते तदैतद् दूषणमित्यर्थः । यदि पुनरर्थात्मकस्य साधर्म्यस्य अर्थात्मकमेव साधनं सामान्यमुच्यते, तत्राह—“अथ पुनरिति ।” तदिदमुक्तं “भदन्तेन”—न पञ्चमी ।
अन्ये त्वेतदन्यथा व्याचक्षत इत्याह—“अन्ये त्विति ।” विशेषातिरिक्तं न सामान्यं नाम किञ्चिदस्ति, तस्य कल्पनामात्रत्वाद् भेदस्य च वस्त्वधिष्ठानत्वादित्यभिप्रायः । दोषान्तरमाह—“साध्यसाधनेति ।” यदा हि साध्यसाधनं नामोदाहरणसाधर्म्यादतिरिक्तं नास्ति, किं तु शब्दमात्रमवशिष्यते, तदोदाहरणसाधर्म्यमनेनाभिधेयत्वेन विशेषणीयम् । तथा च “साध्यनिर्देशः प्रतिज्ञे”त्यनेन विरोधः । अनेन ह्यवयवः शब्दात्मकः प्रतिज्ञा लक्ष्यते, हेत्वादिसमुदायापेक्षया चावयवो भवति । न चाभिधानाभिधेयात्मकः समुदायो दृष्ट इति । तस्मात् समुदायाभावात् “नोभयेषामवयवत्वम् ।” तदिदमुक्तम्—न वाक्यांश इति । तदेतल्लक्षणं व्याचक्षाणैर“स्माभिः” परिहृतमिति न परिहारान्तरं प्रयोजयतीत्याह—“तत्र त्विति ।” उक्तं यथा हेतुपदसन्निधौ साधनपदं हेतुपदे प्रवर्तते, न चोपनयप्रसङ्गः, तस्य प्रातिपदिकार्थमात्रप्रधानत्वेन हेतुभावाप्रकाशकत्वादिति ।
अत्र चोदयति—“साधर्म्यस्येति ।” साधर्म्यस्य लिङ्गस्य कृतकत्वादिहेतुपदवाच्यस्य1054 व्यभिचारित्वादियोगादुदाहरणविशेषणयोगो1055 न पुनः साध्यसाधनपदवाच्यस्य कृतकत्वादित्यादेर्हेतुवचनस्येत्यर्थः । तदुक्तं “भदन्तेन”—तत्रापि विशेषणमनर्थकं वचनेऽपीत्यर्थः । तदेतद् दूषयति—“वचस” इति । वचनमपि दर्शनभेदेन उभयथापि भवति, यथा “मीमांसकानां” नित्यं वचनम्, “वैशेषिका”णामनित्यमिति । केषाञ्चिदमूर्तः शब्दः, केषाञ्चित् मूर्त इति । यथाहुः वायुरापद्यते शब्दताम् इति । तथा प्रातिस्विकमपि भेदं सर्वेषामेव शब्दानामितिकरणो दर्शयतीत्याह— “दृष्टश्चेति ।” स्वचरितविरोधमाह—“स्वयमिति । अनभ्युपगतेति ।” अनभ्युपगतोऽर्थान्तरं विपक्षो यस्य हेतोरनित्यवे साध्ये कृतकत्वादेः स तथोक्तः । यदभ्युपगतं “भदन्तेन” तस्मात् षष्ठ्यस्त्विति तद् दूषयति—“यदपीति । विवक्षातः कारकशब्दप्रयोगादिति ।” कारकत्वेन सम्बन्धित्वं लक्षणीयम्,1056 क्रियाकारकभावगर्भत्वात् सम्बन्धित्वस्य । न तु षष्ठी वा हेतुपञ्चमी1057 वा कारकविभक्तिरिति । अत्र “भाष्यकारेण” शुद्धं1058 हेतुवचनमुदाहृतम्—“उत्पत्तिधर्मकत्वादिति ।” तस्य चोदाहरणसाधर्म्यसमुत्थत्वज्ञापनायोदाहरणमपि दर्शितम् “उत्पत्तिधर्मकमनित्यं दृष्टमिति ।”
तत्र “भाष्यकारेण” शुद्धं हेतुवचनमुदाहृतम् । तत्प्रतिज्ञापदेन पूरयित्वा “वार्त्तिककृद्” आह—“उदाहरणमिति ।” अत्र पृच्छति—“किं पुनरिति ।” सतो विनाशो वा अनित्यत्वम्, तद्योगो वा ? तच्चोभयमयुक्तम्, न हि सदसतोः कश्चिदस्ति सम्बन्धः, असमानकालत्वात् । ततश्चानित्यः शब्द इति सामानाधिकरण्यं न स्यात्1059 । अपि च शब्दस्य भूत्वा यदभवनम्, न तदेव पिठरस्य । न ह्यभवनत्वं नामास्ति सामान्यम्, येन दृष्टान्तो न साध्यविकलः स्यात् । न च सामान्यातिरिक्तं सादृश्यं वस्त्वन्तरं दृष्टमिष्टं वा । तस्मात् मृष्टाशेयमनित्यत्वं1060 साध्यमिति भावः । गूढधिय उत्तरम्—“यस्यानित्यत्वमस्ति तदनित्यम् ।” स्वाभिप्रायेण पृच्छति—“अथेति ।” उत्तरवाद्यभिप्रायमुद्धाटयति—“उभयान्तेति ।” अपरान्तेति वक्तव्ये उभयान्तग्रहणेन पूर्वान्तनिवेशनं हेतोरुत्पत्तिमत्त्वस्यात्यन्तिकीं प्रत्यासत्तिमविनाभावोपयोगिनीं दर्शयितुमिति । अवच्छेदकत्वं चोपलक्षणत्वम्,1061 न तु विशेषणत्वम् । तच्चापरान्तस्य भिन्नकालस्य सम्बद्धस्यापि विरोधितया बुद्धिस्थस्य सम्भवति । तथा1062 च यैवापरान्तावच्छिन्नस्य सत्ता पिठरस्य सैवापरान्तावच्छिन्नस्य1063 शब्दस्यापि । एवं सतासमवायोऽपि तद्विधयोः पिठरशब्दयोः समानः । विरोधिभावः1064 पश्चाद्भावश्चाभावमात्रात् प्रध्वंसस्य विशेषः । पृच्छति—“अथोत्पत्तीति ।” न तावदुत्पन्नस्योत्पत्तिर्धर्मः, तदाप्युत्पद्यत इति प्रत्ययप्रसङ्गात् । नाप्यनुत्पन्नस्य, असतो धर्मित्वायोगादिति भावः । गूढधिय उत्तरम्—“उत्पत्तिरिति ।” उक्ताभिप्रायवान् पुनः पृच्छति—“का पुनरिय”मिति । उत्तरम्—असद्विशेषणस्य सतोऽत्यन्तमभावभावप्रतिषेधः । असदिति प्रागभावमाह, विशेषणत्वं च प्रागभावस्य उपलक्षणत्वम् । तच्च भिन्नकालस्यापि बुद्धिस्थतामात्रेणोक्तम् । तेनासद्विशेषणस्य सत इत्येतावतैव पूर्वान्तपरिच्छिन्नस्य सत्तासम्बन्धः सत्ता वा तद्विशेषणोत्पत्तिर्दर्शिता । यश्चेदृशस्तस्य गगनवत् नात्यन्तमसम्भवः,1065 नापि1066 गगनकुसुमवदत्यन्ताभाव1067 इति स्वरूपमुक्तमुत्पत्तिमुपलक्षयितुम् । उपलक्षणोपलक्ष्ययोश्चाभेदविवक्षया सामानाधिकरण्यम् । न चैवं लब्धोत्पत्तिनि वस्तुन्युत्पद्यत इति प्रत्ययप्रसङ्गः1068 । लभ्यमानोत्पत्तिनि तदवयवेषु तदुत्पादनानुकूलव्यापारावेशलब्धपूर्वापरीभावेषु तत्प्रयोगस्य लोके दर्शनात् । तस्मात् पूर्वान्तावच्छिन्नवस्तुसत्तया तत्सम्बन्धेन वा तस्यैव वस्तुनोऽपरान्तावच्छिन्ना1069 सत्ता वा तत्सम्बन्धो वा ज्ञाप्यत इति सर्वं1070 रमणीयम् ।
ननु “भाष्यकृद्” अभूत्वा भवतीत्यस्य1071 वाक्यस्यार्थमुत्पत्तिं वक्ष्यति,1072 त्वं पुनरसद्विशेषणस्य सतोऽत्यन्तमभावप्रतिषेध इत्यस्य वाक्यस्यार्थमुत्पत्तिम् । अतः1073 कुतो न विरोध इत्यत आह—“वाक्यार्थेति ।” य एवार्थो “भाष्यकारेण” उत्पत्तिशब्दार्थतयाभ्यनुज्ञातोऽङ्गीकृतः, स एवास्माभिरपि । नात्यन्तमभावप्रतिषेध उत्पत्तिः,1074 अपि त्वसद्विशेषणस्य सतः सत्ता वा तत्सम्बन्धो वेत्युक्तमित्यर्थः ॥ ३४ ॥
तथा वैधर्म्यात् ॥ १ । १ । ३५ ॥
सूत्रान्तरमवतारयति—“किमेतावदिति । तथा—त् ।” अत्र यदि वैधर्म्यादित्युच्यते ततः सकलकेसरादिमत्पदार्थपक्षीकरणेनाश्वत्वं यदा विषाणित्वेन साध्यते तस्यास्ति पक्षवैधर्म्यमिति हेतुः स्यादित्यत आह—“उदाहरणेन वैधर्म्यमिति ।” विपक्षेणेत्यर्थः । तथापि यदा शरीरमात्रं पक्षीकृत्य सात्मकत्वं साध्यते प्राणादिमत्त्वेन, तदास्ति तस्योदाहरणेन वैधर्म्यमिति सोऽपि हेतुः स्यादित्यत आह—“एवेति ।” न चैतावता सपक्षे1075 सत्त्वप्रसङ्गः, सपक्षस्याभावात् । अवधारणस्य च व्याप्त्या पक्षसत्त्वेनोपपत्तेरिति । तथापि अन्वयव्यतिरेकिणो हेतोरनैकान्तिकस्य च विपक्षै कदेशव्यापिनः सङ्ग्रहः स्यात् । यथा अनित्यः शब्दः, उत्पत्तिधर्मकत्वाद् अनित्यो मूर्तत्वादित्यत आह—“वैधर्म्यमेव चोदाहरणेनेति” विपक्षोदाहरणेनेत्यर्थः । “भाष्यकारी”यमुदाहरणं निगदेनोपन्यस्यति—“अनित्यःशब्द” इति । नित्यमनुत्पत्तिधर्मकं दृष्टमिति योजना । तदेतद् दूषयति—एतच्चेति । मा भूत् प्रयोगमात्रभेदाद् भेदः, उदाहरणभेदाद् भेदो भविष्यतीत्यत आह—“उदाहरणमात्रभेदाच्चेति ।”
तदेतद् “भाष्यकारीय”मुदाहरणं दूषयित्वा स्वकीयमुदाहरणमाह—“उदाहरणं त्विति ।” प्राणादिना च स्वकारणं प्रयत्नेच्छाद्युपलक्षयति—“यदुभयपक्षसम्प्रतिपन्नं”1076 निरात्मकं घटादि1077 तत्सर्वमप्राणादिमद् दृष्टम् इति व्यत्यासेन1078 योजना । प्राणादिकारणेच्छादिकारणरहितं1079 यदित्यर्थः । “तस्मात् नेदमिति ।” नेच्छादिसमवायिकारणरहितम् । यश्चासौ इच्छादिसमवायिकारणं पृथिव्यादिविलक्षणो द्रव्याणां नवमः, स आत्मेत्युच्यते इत्यर्थः । अन्वयिव्यतिरेकिणस्तद्विवेकस्य1080 च तन्त्रान्तरप्रसिद्धेन नाम्ना तन्त्रान्तरप्रसिद्धतां1081 दर्शयति—“सोऽयमवीत” इति । विविधेन प्रकारेण इतः प्राप्तो वीतः, पक्षव्यापकत्वे सति सपक्षव्याप्त्या अव्याप्त्या च, तस्मादन्योऽवीत इति ।
गूढाभिसन्धिः पृच्छति—“कथं पुनरिति ।” गूढाभिसन्धेरुत्तरम्—“अथ योऽभ्यनुज्ञात” इति । यथा वीतस्यार्थपरिच्छेदकत्वं तथैवावीतस्येत्यर्थः । प्रष्टा स्वाभिप्रायमुद्धाटयति—“1082अन्वयादिति1083 ।” गृहीताविनाभावो हि हेतुः साध्येन तस्य परिच्छेदकः, स च दृष्टान्तधर्मिणि हेतुसाध्यधर्मयोर्दर्शने सत्यविनाभावो दृष्टो भवति । न च सात्मकत्वं क्वचिद् दृष्टम्, तत् कथं तेनाविनाभावदर्शनं प्राणादिमत्त्वस्य, दर्शने वा490 नावीतः किं तु वीत एवेत्यर्थः । उत्तरवादी प्रष्टारं पृच्छति—“अथ प्रमेयत्वमिति ।” प्रष्टा आह—“व्यभिचारादिति ।” उत्तरवाद्याह—“न तर्ह्यन्वय” इति । स एवैकग्रन्थेनाह—“यदि चेति ।” तदेवमुत्तरवादिना स्वाभिप्राय उद्धाटितः । पृच्छति— “कथम् ।” अव्यभिचारित्वं व्यतिरेकिण इति । अव्यभिचारमाह—“यावदिति ।” अत्रापि यावन्निरात्मकं तत् सर्वम् अप्राणादिमद् दृष्टमिति व्यत्यासेन योजना, साध्यविपर्ययस्य व्याप्यत्वात् । व्यापकनिवृत्तौ च व्याप्यं निवर्तते, यथा वृक्षत्वनिवृत्तौ शिंशपात्वम् आरादुपलभ्यमानादेकशिलामयादचलप्रदेशादित्यर्थः । यदि पुनरेवमुच्यते निवर्ततामप्राणादिमत्त्वं जीवच्छरीरात् प्राणादिमत्त्वस्य प्रमाणत उपलब्धेर्मा निवर्तिष्ट नैरात्म्यम्, तस्माद् व्यभिचारादहेतुरिति1084 शङ्कते—“अथ पुनरिति ।” निराकरोति—न “युक्तमेवमिति ।” किं जीवच्छरीरे साध्ये नैरात्म्यनिश्चयाद् व्यभिचार उत तत्सन्देहात् ? यदि निश्चयात् कृतं व्यभिचारेण, बाधितविषयत्वेनैव हेतोरपाकरणात् । अथ सन्देहात्, तथा सत्यन्वयिनोऽप्यहेतुत्वे सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः ।
शङ्कते—“सर्वात्मकत्वप्रसङ्ग इति चेत् ?” निराकरोति—“न, विकल्पानुपपत्तेः ।” शङ्कावाक्यं विभजते—“यदीति ।” न तावदयमात्मा नाम प्रमाणेन क्वचिदुपलब्धः, यस्य प्रतिषेधो नैरात्म्यमवगम्येत, तदुपलम्भे वा कृतमनया कुसृष्ट्या । तस्मात् कल्पयित्वात्मानमप्रामाणिकं तत्प्रतिषेधस्य घटादावप्राणादिमत्त्वेन व्याप्तिं गृहीत्वा जीवच्छरीरे व्यापकस्याप्राणादिमत्त्वस्य निवृत्त्या नैरात्म्यस्य व्याप्यस्य निवृत्तेरात्मा अवगन्तव्यः । एवं च सति कल्पनाकोषस्यापरिमेयत्वात् यद् यदेव कल्प्यते तत्तदभावस्य घटादौ सुलभत्वाद् अप्राणादिमत्त्वेन व्याप्तेर्जीवेच्छरीरेऽप्राणादिमत्त्वस्य व्यापकस्य निवृत्तेरात्मसद्भाववत् सकलकाल्पनिकडित्थादिमत्त्वप्रसङ्ग इत्यर्थः ।
निराकरणवाक्यं विभजते—“तच्च नैवम् ।” कस्मात्—विकल्पानुपपत्तेः । विकल्पयति—“किमिति ।” अयमर्थः । प्राणादयो हीच्छाद्यन्वयव्यतिरेकानुविधायिभावाभावतया इच्छादिकार्याः, अक्षणिकत्वे च व्यवस्थिते कार्यं समवायिकारणापेक्षमितीच्छादीनां समवायिकारणेन भाव्यम्,1085 कार्यत्वाद् घटादिवत्, शरीरेन्द्रियादीनां च समवायिकारणत्वनिषेधे सति यद् इच्छादीनां समवायिकारणं परिशिष्यते, तद् द्रव्यमात्मेति च क्षेत्रज्ञ इति च जीव इति चाख्यायते । तदस्य “विशेषतो”ऽनवगतस्यापीच्छादिसमवायिकारणतया सामान्यरूपेणावधारितस्य शक्यः प्राणादिरहितेषु घटादिष्वभावः प्रतिपत्तुम् । निरात्मकशब्देनापि चायमेवार्थ उच्यते । अनेन प्राणादिलक्षणकार्याभावेन घटादौ नैरात्म्यलक्षणकारणाभावस्य व्याप्तिरवधारिता । सोऽयं जीवच्छरीरे कार्यस्याभावो व्यापको निवर्तमानः स्वव्याप्यं तत्कारणाभावमादाय निवर्तते इति सिद्धं जीवच्छरीरे प्राणकारणम्, स चात्मेति । यदि च डित्थादयोऽपि तादृशः,487 तदा आत्मनो नामान्तराणि नार्थान्तराणि । नामानि च लोकतन्त्राणि, न त्विच्छातन्त्राणीति1086 । अवधारितं कार्यं प्राणाद्युपलक्षितमिच्छादि यस्य सोऽवधारितकार्यः । स एव स्वभावो यस्य स तथोक्तः । एतदुक्तं भवति । सामान्यतस्तावदिच्छादीनां कार्यत्वेनान्वयव्यतिरेकिणा हेतुना समवायिकारणावत्त्वमनुमितम् । उभयसिद्धश्च घटादाविच्छादिकारणाभावः । येऽपि हि नैरात्म्यवादिनो बुद्धिं वा भूतपरिणामभेदं वा इच्छादिकारणमाचक्षते, तेऽपि घटादौ न तदातिष्ठन्ते । तस्मादुभयसिद्धनैरात्म्या घटादयः । तेषु चेच्छादिकार्याभावेन नैरात्म्यं व्याप्तम् । सोऽयं जीवच्छरीरे कार्याभावो व्यावर्तमानः कारणाभावं व्यावर्तयति । न च कार्येणैव कारणमनुमीयतां जीवच्छरीरे, किं व्यतिरेकिणा, ऋजुमार्गेण सिध्यन्तं को नु वक्रेण साधयेत् इति वाच्यम्, कारणमात्रस्य ततः सिद्धेरित्युक्तम् । परिशेषाद् विशेषसिद्धिरिति चेत् ? स एव व्यतिरेकीत्युक्तम् ।
यदि हि पृथिव्यादिसमवायिकारणा इच्छादयो भवेयुः, घटादिष्वपि प्रसज्येरन् । तस्माद् घटादिष्विच्छादिकार्यनिवृत्त्या द्रव्याष्टकातिरिक्तकारणनिवृत्तिर्व्याप्ता दृष्टेतीच्छादयः शरीरे दृश्यमाना व्यापिकां स्वनिवृत्तिं निवर्तयन्तो व्याप्यद्रव्याष्टकातिरिक्तकारणाभावनिवृत्तिमुखेन नवमं द्रव्यं साधयन्ति । न चैषां बुद्धिरेव समवायिकारणम्, द्रव्यस्यैव समवायिकारणत्वनियमाद् बुद्धेश्चाद्रव्यत्वात् । यथा च भूतानां परिणतिभेदो न कारणं तथा “तृतीये” उपपादयिष्यते1087 । व्यतिरेकमुखेनापि प्राणादेः सात्मकत्वेनान्वयसिद्धौ न केवलव्यतिरेकीति चेत् ? न स्वाभाविकं साध्येन प्रतिबन्धमन्वयव्यतिरेकिणि व्यासेधामः, किं तु सपक्षाभावेन विधिमुखेनास्य प्रतिबन्धं निराकुर्मः । एतावतैव चान्वयिनो भिद्यते । न च पक्ष एव सपक्षः, जिज्ञासितविशेषस्य ज्ञातविशेषादन्यत्वात् । शरीरादिषु च सत्सु नैरात्म्यनिषेध एवात्मसद्भावः, असन्निषेधस्य सद्भावलक्षणत्वात् । सपक्षाभावस्तु नैरात्म्येनाप्यव्यपदेश्य इति कथं नैरात्म्यनिषेधेन व्यपदिश्यताम् असतोऽधिकरणत्वायोगादित्युक्तम् ।
एतेन “परैः” यदुक्तम्,
सपक्षाव्यतिरेकी चेद् भवेद्धेतुरतोऽन्वयी ।
नान्वय्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम्1088 ॥
इति, तदनेन निराकृतम् । एतच्चास्माभिरन्वयिहेतुसमर्थनेन स्फुटीकृतम्1089 । तस्मात् सर्वमवदातम् ॥
विपक्षव्यतिरेकिमात्रेण व्यतिरेकिणो गमकत्वं मत्वा चोदयति—“यदि तर्हीति ।” परिहरति—“न, हेत्वर्थापरिज्ञानादिति ।” न वैधर्म्यमात्रेण गमकत्वम्, अपि त्वव्यभिचारिणा । स चात्राव्यभिचारो नास्तीत्यर्थः । ननु मा भूद् गन्धवत्त्वं हेतुर्व्यतिरेकव्यभिचाराद् अनित्यादिवन्नित्यादप्यस्य व्यतिरेकात् । यस्य तु पक्ष एव केवलं न तु सपक्षविपक्षौ, न तस्य व्यतिरेकव्यभिचारोऽस्तीति स कस्मात् न हेतुरिति चोदयति—“यः पुनरिति ।” परिहरति—“सत्यमिति ।” व्यतिरेकधर्मोऽव्यभिचारो नासति व्यतिरेके सम्भवति, असतोऽधिकरणत्वायोगादित्युक्तत्वादिति1090 । प्रत्युदाहरणान्तरं दर्शयति—“एतेनेति ।” एतेन विपक्षाभावात् ततो व्यावृत्त्यभावेनेत्यर्थः । चोदयति—“यः पक्षैकदेश” इति । यदि हि पक्षैकदेशवृत्तिरपि विपक्षाभावात् न व्यतिरेकी हेतुः, तर्हि यस्य पक्षैकदेशवृत्तेरपि सतो विपक्षानिवृत्तिरस्ति1091 स हेतुः प्रसज्येत । अस्ति खल्वस्योदाहरणवैधर्म्यमेवेति व्यतिरेकिहेतुलक्षणमित्यभिप्रायः । परिहरति— “अयमपि न हेतुः,” कस्मात् ? “सूत्रार्थेनापोदितत्वात् ।” तं “सूत्र”पाठपूर्वकं दर्शयति— “सूत्रार्थ” इति । अत्र च येन पक्षैकदेशवृत्तेर्व्यतिरेक्याभासस्य निराकरणं तदवधारणं प्रथमं दर्शितम् । “उदाहरणेनैव वैधर्म्यं” नानुदाहरणेन पक्षेणापि । अस्य तु पक्षेणापीति व्यतिरेक्यपि न हेतुः, न पुनर्वैधर्म्यमेवेति “सूत्रार्थः ।” तथा सति सव्यभिचारमात्रस्य निवृत्तिः स्यात्, न तु पक्षैकदेशवृत्तेरित्यर्थः ।
सम्प्रति “वासुबन्धवं”1092 हेतुलक्षणं दूषयितुमुपन्यस्यति—“हेतुर्विपक्षाद्विशेष1093 इत्यन्ये ।” एतद् व्याचष्टे—“अन्ये त्विति । साधर्म्यमात्रनिराकरण” इति । यस्य कस्यचित् साधर्म्यस्य निराकरणे । विपक्षसाधर्म्यनिराकणे तावदिष्टस्य सङ्ग्रहः । यदा तु सपक्षादिसाधर्म्यनिराकरणम्, तदा अनिष्टस्य विरुद्धादेः सङ्ग्रहः । उपलक्षणं चैतत् । इष्टानिष्टसङ्ग्रह इति, इष्टपरित्याग इत्यपि द्रष्टव्यम् । “स चानेकभेद” इति । सपक्षादपि विशेषे सति विपक्षाद् विशेषः, पक्षादपि विशेषे सति विपक्षाद् विशेषः, विपक्षमात्राद् वा1094 विशेषः इति प्रकाराः । तत्र1095 पूर्वयोः प्रकारयोर्यथाक्रममसाधारणस्य चासिद्धस्य च हेतुत्वप्रसङ्ग इति, “तन्निवृत्त्यर्थं विपक्षादेव” इत्यवधार्यते । द्वितीयमवधारणमवतारयितुमाह—“अवधारणे चेति ।” विपक्षादेवेत्यनेनावधारणेन विशेषोऽ वधारितः, न विपक्षः । स चायं विशेषे चाविशेषे च प्रसृत इति विपक्षैकदेशवृत्तेरपि पक्षसपक्षसाधारणस्य हेतुत्वप्रसङ्गः । “तन्निवृत्त्यर्थं द्वितीयमवधारणं विशेष एवेति ।” उपसंहरति—“तदेवमिति ।”
तदेतदव्यापकत्वेन दूषयति—“सत्यमेक” इति । अत्र चोदयति—“विपक्षैकदेशवृत्तिप्रतिषेधादिति ।” विशेष एवेत्यवधारणेन विपक्षैकदेशवृत्तिः गौरयं1096 विषाणित्वादिति1097 हेतुत्वेन प्रतिषिद्धः । तस्मादेतस्मिन्नवधारणे सत्येव विपक्षादेवेत्यवधारणीयम् । तथा च विपक्षादेव यो विशेष एव स हेतुः । सपक्षात्तु “यो विशेष एव स न हेतुरित्युक्तं भवति ।” तथा च “अश्वोऽयं विषाणित्वात्”1098 इति सपक्षाद् विशेष एवेति हेतुत्वेन प्रतिषिद्धो भवति । यस्तु सपक्षैकदेशवृत्तिः “प्रयत्ननान्तरीयकत्वादिः” स सपक्षाद् “विशेष एव न भवति, अपि तु सामान्यमपीति ।” न1099 तस्याहेतुत्वमवधारितमिति हेतुरेवासावित्यर्थः । परिहरति—“यद्येवमिति ।” यदि सपक्षादपि यो विशेषः स सपक्षैकदेशवृत्तिः प्रयत्नानन्तरीयकत्वादिर्हेतुः, एवं सति1100 विपक्षादेवेति “अवधारणं बाधितं भवति ।” शङ्कते—“अथेति ।” न विपक्षादेवेत्येतन्मात्रमवधार्यते, येन सपक्षैकदेशवृत्तिः प्रयत्नानन्तरीयकत्वादिर्न हेतुः स्यात्, अपि तु यो विशेष एव स हेतुरिति प्राप्ते विपक्षादेवेति नियम्यते, तेन सावधारणस्य1101 विशेषस्य विपक्षवृत्तेर्हेतुत्वं प्रतिषिद्धं भवति यथा अश्वोऽयं विषाणीत्वादिति । यः पुनर्विशेषश्चाविशेषश्च सपक्षे हेतुः, तस्य हेतुत्वेऽपि न विपक्षादेवेति बाधितं भवति । यद्यपि चैवं सत्यपि631 सपक्षैकदेशवृत्तेर्हेतुत्वं न श्रुतम्, तथापि विपक्षादेवेत्यनेनावधारणेनानिषिद्धमित्यनुमतमेव । तेन चाश्रुतेनार्थेनार्थवती अवधारणे इत्यर्थः ।
निराकरोति—“एवं चेति ।” यथा तत्तुल्यैकदेशवृत्तेरविहितमपि हेतुत्वमनिषेधादनुमतम् एवं पक्षैकदेशवृत्तेरपीति सोऽपि हेतुः स्यादित्यर्थः । पुनः प्रत्यवतिष्ठते—“नैष दोष” इति । पक्षधर्मत्वे सति विशेष एव विपक्षादेवेति1102 नियमे कुतः पक्षैकदेशवृत्तेः प्राप्तिः, अपक्षधर्मत्वात् तस्येत्यर्थः । परिहरति—“यो धर्मः पक्षस्येत्यनेनेति । पर” आह—“न कर्तव्य” इति । दूषयतिमवधारणं विकल्पयति—“किं पुनरिति ।” प्रथमं कल्पं गृह्णाति—“अस्तु तावदिति ।” एतमपि दूषयितुं विकल्पयति—“किं पुनरस्येति । सामर्थ्यं” प्रयोजनाभिसम्बन्धः सम्भवज्ञापनपक्षेऽज्ञापननिवृतिः प्रयोजनम् । असम्भवनिवृत्तिपक्षे तु अत्यन्तायोगव्यावृत्तिः फलम् । यथा नीलं सरोजं भवत्ये वेति । विकल्प्य दूषयति—“उभयथापीति ।” युक्त्यन्तरमाह—“न चेति ।” अत्यन्तायोगो निषिद्धो भवति, न त्वयोग इत्यर्थः । शङ्कते—“अथेति ।” विशेषणसङ्गतो ह्येवकारोऽयोगं व्यवच्छिनत्ति, यथा चैत्रो धनुर्धर एवेति । हेतुविशेषणं चेत् अपक्षधर्म एवेति । तस्मात् सिद्धं पक्षैकदेशे वृत्तेर्निराकरणमित्यर्थः । निराकरोति— “सत्यमिति ।” शेषमनुमान“सूत्रे” व्याख्यातप्रायमिति नेह व्याख्यातम् ।
“हेतुर्विपक्षाद् विशेष इति च यदा सौत्रान्तिकपक्षमिति ।” यदा त्वनित्यत्वहेतौ लक्ष्ये लक्षणं विचार्यते इति विपक्षशब्दार्थो वाच्यः1103 । ननु च नित्यो विपक्ष इत्यत आह—“न ह्यसतीति ।” न हि निरुपाख्यमाख्यायत इत्यर्थः । न चास्यापादानत्वं नाप्यधिकरणत्वं येन पञ्चमी वा सप्तमी वा प्रयुज्येतेति1104 आह—“न चासतीति ।” न चासतो विपक्षाद् व्यावृत्त्यभावेन विशेषोऽपीत्याह—“विपक्षासम्भवे चेति । पक्षस्यैवेति ।” अत्र चैवकारास्त्रय पदान्तरानपेक्षत्वं सूचयन्ति । पक्षस्यैव धर्म इति हेतुलक्षणे असाधारण एव हेतुः स्यात् । “समान एव सिद्ध” इति तु हेतुलक्षणे अश्वस्य1105 विषाणित्वे साध्ये गोत्वादिर्हेतुः1106 स्यात् । “विपक्ष एव नास्ती”त्युच्यमाने अनित्यः शब्दः प्रमेयत्वादित्ययं1107 हेतुः स्यात् । तस्मात् त्रयः पक्षाः हेयाः तथा च पक्षस्य धर्मः “समाने च सिद्धः” इत्यत्र सव्यभिचारो हेतुः स्यात् । “पक्षस्य धर्मो विपक्षे च नास्ती”त्यत्रासाधारणो735 हेतुः स्यात् । “समाने च सिद्धो विपक्षे च नास्ती”त्यत्र अनित्यः परमाणुः कृतकत्वादिति हेतुः स्यादिति त्रयः । सप्तममभिमतं पक्षमाह—“पक्षस्येति ।” शेषं सुबोधम् ।
अत्र “दिग्नागेन”
सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधा ।
प्रत्येकमसपक्षे च सदसद्द्विविधत्वतः ॥
इति नव पक्षधर्मान् हेतुतदाभासान् दर्शयित्वा
तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये ।
स हेतुर्विपरीतोऽस्माद् विरुद्धोऽन्यत्वनिश्चितः ॥
इत्यनेन1108 हेतुतदाभासविवेको दर्शितः । तस्यार्थः । यः पक्षधर्मः स सपक्षे सन् असन् द्वेधा इति त्रिविधः,1109 स पुनरसपक्षे सदसद्द्विविधत्वतः प्रत्येकं त्रिधा भवतीति । पक्षधर्मः सपक्षे सन् विपक्षे सदसद्द्विविधत्वतस्त्रिधा । पक्षधर्मः सपक्षेऽसन्1110 विपक्षे सदसद्द्विविधत्वतस्त्रिधा, पक्षधर्मः सपक्षे द्वेधा विपक्षे सदसद्द्विविधत्वतस्त्रिधेति1111 । अत्रोदाहरणम्,
प्रमेयकृतकानित्यकृतश्रावणयत्नजाः ।
अनित्ययत्नजास्पर्शानित्यत्वादिषु ते नव ॥
नित्यत्वादिषु साध्येषु प्रमेयत्वादयो नव हेतुतदाभासाः । तेषां यथासङ्ख्यं नित्यत्वादीनि1112 साध्यान्युदाहरन्ति
नित्यानित्यप्रयत्नोत्थमध्यमत्रिकशाश्वताः ।
अयत्नानित्यनित्याश्च प्रमेयत्वादिसाधनाः ॥
तदेतेषु हेतुतदाभासेषु हेतुर्निर्धारितो येन तदुपन्यस्य “वार्त्तिककारो” व्याचष्टे— “तत्र य” इति । तदेतद् दूषयति—“यथाश्रुतीति ।”
तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये इत्येतावन्मात्रात् न लभ्यते इत्यर्थः । चोदयति—“ननु चोक्तमिति ।” उक्तं “दिग्नागेन,” साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा ।
इति । तदेतत् परिहरति—“उक्तमेतदिति ।” न पुनः पक्षधर्म एवेत्यर्थः, अवधारणमबुद्ध्वा शङ्कते—“अथापीति ।” अवधारणार्थालाभेनोत्तरमाह—“सत्यमर्थादिति ।” ननु अपक्षधर्मत्वनिवृत्त्यैव पक्षव्यापकत्त्वं1113 गम्यते, न ह्यव्यापको भवत्यपक्षधर्मत्वनिवृत्तिमानित्यत आह—“अपक्षधर्मनिवृत्तिमात्रत्वेन चेति ।” अत्यन्तनिवृत्तिनिषेधेन वृत्तिमात्रं स्यात् नैकान्तिकी वृत्तिरित्यर्थः । चोदयति—“न प्राप्त” इति । परिहरति— “नावधारणस्येति ।” हेतुहेत्वाभासावेव पक्षधर्मौ नान्य इति नियमज्ञापनार्थमवधारणमिष्टं भवद्भिरित्यर्थः ।
शङ्कते—“अथोभयेति ।” निराकरोति—“तथापि सन् सजातीय” इति । तदेतत् पूर्वमेव व्याख्यातप्रायम् । “द्वेधा चेति सर्वथा न वक्तव्यमिति ।” सन् सजातीय इत्यस्योपादानेऽनुपादाने चेत्यर्थः । सन् सजातीय इति नोपादातव्यमिति यदुक्तम्, तत्र शङ्कते—“अथ मन्येतेति ।” निराकरोति—“अवधारणेति ।” यद्यवधारणं युज्येत, अवधारणार्थो युक्त आरम्भः स्यात्, तदेव त्वयुक्तमित्यर्थः । “आद्ये पद” इति । पक्षस्य धर्म एव इत्येतस्मिन् पद इत्यर्थः । “अन्यपदे” इति । अन्ये पदे ययोः पक्षधर्मत्वविपक्षासत्त्वयोस्ते तथोक्ते । तत्र द्वैविध्यं निराक्रियत इति । “सन् सजातीयेति सर्वथेति” सजातीये द्वेधा चेति पदोपादाने चानुपादाने चेत्यर्थः । “सजातीय एव द्विधेत्यनेनैवेति” हेतुतदाभासयोरौत्सर्गिके पक्षधर्मत्वे स्थित इत्यर्थः । शङ्कते—“अथ मा भूदिति” सजातीय एव द्विधेति नावधारणमित्यर्थः । निराकरोति—“तथापीति ।” सन् सजातीये द्विधेति मध्यमपदे इत्यर्थः । तदेवं सजातीये एव द्विधेत्यवधारणं दूषितम् । सम्प्रति द्वितीयमवधारणं शङ्कते—“अथ पुनरिति ।” निराकरोति—“तथापीति ।” तथापि पक्षैकदेशवृत्तिरपि हेतुः प्रसक्तः । यदि च तदत्यय एवेति नावधार्येत ततोऽनैकान्तिकोऽपि हेतुः स्यादिति दोषः ।
“दिग्नाग”स्यैव प्रदेशान्तरहेतुलक्षणम्—“ग्राह्यधर्मः” पक्षधर्मः, “तदंशेन” तस्यैव पक्षस्यांशेन साध्यधर्मसामान्येन, व्याप्तो हेतुरिति । तदेतद्धेतुलक्षणमुपन्यस्यास्मिन्1114 पूर्वोक्तं दोषमतिदिशति—“एतेनेति ।” अतिदेशमेव स्फुटयति—“अव्यापकादिरिति ।” यथाश्रुतलक्षणे1115 पक्षाव्यापकस्य हेतुत्वम्, तदंशेन व्याप्त1116 इत्यस्य विवरणालोचनेन सपक्षे सत्त्वं विपक्षाच्च व्यावृत्तिरित्यर्थः । तथा च पूर्वोक्तदोषानुषङ्ग1117 इत्यर्थः । सिंहावलोकितन्यायेन दूषयति—“असंस्तदत्यय” इतीति ।
अन्येषां हेतुलक्षणं दूषयितुमुपन्यस्यति—“तादृगिति ।” तदेतद्व्याचष्टे— “तादृशेति ।” किलकारोऽरुचौ । पक्षधर्म इति च हेतोरभिधानम् । तेन त्रिलक्षणप्रविभावितात्मा1118 हेतुरित्यर्थः । दूषयति—“यत् तावदिति । श्रावणत्वाद्यपीति ।” तदुक्तोऽसाधारण इत्यर्थः । यस्तु तादृगविनाभावीति1119 विपक्षे सत्ताप्रतिषेधात् सपक्षे1120 सत्त्वं गम्यते एव,713 विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति मन्येत, तं प्रत्याह—“भवतु तावदिति ।” एकदेशाभ्यनुज्ञानेऽपि विशेषनिषेधस्योपपत्तेर्न समस्ताशेषाभ्यनुज्ञाने प्रमाणमस्तीत्यभिप्रायः । चोदयति—“ननूपदर्शनग्रहणादिति ।” परिहरति—“न तल्लभ्यत” इति । “न हि चाक्षुषत्वमिति । बौद्धानां” रूपत्वादिजातेर्नित्याया अभावाद् न चाक्षुषत्वमनित्यत्वेन विना भवतीत्यर्थः । यस्तु मन्येत विशेषनिषेधस्य शेषमात्राभ्यनुज्ञाहेतुत्वेनागृह्यमाणविशेषत्वात् पक्षसत्ताभ्यनुज्ञानम्, तथा चोपदर्शनपदेन पक्षे हेतोः सत्तोपदर्शनं भवतीति तं प्रत्युपेत्याह—“उपेत्य1121 वेति ।” सुबोधम् ।
तदेवं लक्षणं दूषयित्वा तदुदाहरणं दूषयति—“यत्त्विदमिति ।” एतस्मिन् हेतुलक्षणे इत्यर्थः । “प्रयत्ननान्तरीयकत्वं” प्रयत्नकारणकत्वं तत् साक्षात् पारम्पर्येण वा ? तत्र प्रथमे कल्पे दूषणमाह—“प्रयत्नानन्तरीयकत्वस्येति ।” द्वितीयकल्पमाशङ्क्य दूषयति—“अथेति ।” प्रयत्नग्रहणमपार्थकमित्यर्थः । भावप्रत्ययवाच्यं विकल्प्य दूषयति—“यच्चेदमिति । एवमप्युपलब्धेरेवेति ।” न हि “बौद्ध”राद्धान्ते किञ्चिदुपलभ्यमानं नित्यमस्ति, येनोपलब्धिर्विशेष्येत इत्यभिप्रायः691 । “प्रयत्नानन्तरमन्यथा चेति ।” यत् तावदुपलब्धिकर्म1122 तत्सर्वं प्रयत्नादेव पुरुषव्यापारादेवोपलभ्यते नान्यथेत्यर्थः । शङ्कते—“अथेति ।” अस्माकं1123 “नैयायिकानामिति” भावः । उत्तरम्— “त्वयैवेति ।” अस्मद्दर्शनं चेदास्थाय त्वया “बौद्धे”नोच्यते, ततः प्रयत्नग्रहणेनाप्यनैकान्तिकत्वं तदवस्थमेवेत्यर्थः । “अव्यापकं चेति ।” न हि दवदहनाभिघात प्रस्फुटद्वेणुदलविभागजन्मा ठात्कारोऽस्मदादिप्रयत्नकार्य1124 इत्यर्थः । शङ्कते—“अथेति ।” वर्णात्मकमित्यर्थः । निराकरोति—“तत्रापीति ।” पारम्पर्येणापि प्रथम एव वर्णः प्रयत्नानन्तरीयकः, न द्वितीयादयः । अतिपारम्पर्याश्रयणे त्वतिप्रसङ्गः, प्रायेण तस्य तत्र तत्र सुलभत्वादिति भावः1125 । शङ्कते—“अथ य” इति । विशेषः प्रयत्नानन्तरीयकत्वं धर्मिविशेषणम्, प्रयत्नानन्तरीयकत्वं सामान्यं च हेतुरित्यर्थः । निराकरोति— “तथाप्यन्य” इति । न हि भवतामस्माकमिव विशेषातिरिक्तमस्ति सामान्यं वस्तु सद्1126 यो हेतुः स्यात् । न च कल्पनारोपितं हेतुः सम्यग्ज्ञानस्य भवितुमर्हति, न चात्यन्तासतः कल्पनापि सम्भवतीति भावः ।
तदेवमुदाहरणं दूषयित्वा प्रसङ्गेन परेषामुदाहरणविचारं दूषयति— “यदप्युक्तमिति ।” यत् खल्वसत्1127 सर्वसामर्थ्यरहितं तदाश्रितानाश्रितभावाभावधर्मवन्न भवतीत्यर्थः । “नित्यं तु किञ्चिद् भवतीति ।” तस्य धर्मयोगः सम्भवत्येव, न त्वस्याप्यप्रयत्नानन्तरीयकत्वं त्वप्रत्ययाभिधेयं हि जन्म, तत्818 प्रयत्नेन प्रयत्नादन्येन वा विशेषणीयम्, यस्य तु जन्मैव नास्ति तस्य तद्विशेषणं दूरोत्सारितमित्यर्थः । “एतेनाभाव” इति । “नैयायिका”भिमतोऽप्यभावो व्याख्यातः । तस्यापि हि प्रागसतः स्वकारणे न1128 समवाय इति जन्म नास्तीति न तद्विशेषणयोग इत्यर्थः । प्रकृतमुपसंहरति—“तदेवमिति” ॥ ३५ ॥
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ १ । १ । ३६ ॥
हेतावुक्ते नाव्याप्तोऽसौ साध्यधर्मेण हेतुभावे व्यवतिष्ठते, न च व्याप्तिप्रदर्शनमुदाहरणमन्तरेणेति हेतुलक्षणानन्तरं क्रमप्राप्तमुदाहरणलक्षणमाह—“साध्यरणम् । सूत्र”मित्युदाहरणसामान्यलक्षणमप्यनेन सूचितमिति1129 दर्शितम् । अस्य तात्पर्यमाह—“अस्येति ।” दृष्टान्तोऽर्थरूपो नोदाहरणस्य वचनात्मकस्य स्वरूपतो लक्षणं सम्भवति । तस्मात् स्वाभिधायकवचनोपलक्षकत्वेन लक्षणत्वं सामानाधिकरण्यं च भजत इत्यभिसन्धिनोक्तम्—“उदाहरणोपलक्षणमिति ।” अनेन च समानजातीयेभ्यः प्रतिज्ञादिभ्यः असमानजातीयेभ्यश्च प्रमाणादिभ्य उदाहरणं व्यवच्छिन्नं भवति । “साध्येन साधर्म्यम्” इत्यादि “भाष्यम् ।” तस्यार्थः । साध्येन धर्मिणा शब्देन, साधर्म्यं दृष्टान्तस्य स्थाल्यादेः कृतकत्वं हेतुः । तद्ध्यनित्यत्वेन1130 साध्ये च शब्दे दृष्टान्ते च स्थाल्पादौ समानम् । तस्मात् “कारणात्” प्रयोजकात्, “तद्धर्मभावी” तस्यैव साध्यस्य शब्दस्य यो धर्मो धर्मान्तरम्, येन विशिष्टः शब्दः सिषाधयिषितोऽनित्यत्वेन, तदनित्यत्वं तद्धर्मः । स एव भावस्तद्भावः1131 । सोऽस्यास्तीति तद्धर्मभावी स्थाल्यादिरनित्यत्वधर्मवानिति1132 यावत् । तेन तादृशा दृष्टान्तेनोपलक्षितं तद्विषयं वचनमुदाहरणमिति ।
तत्र “वार्त्तिककारः सूत्र”पदं व्याचक्षाण एव फलतो “भाष्यं” व्याचष्टे— “साध्येति ।” उदाहरणसाधर्म्यादित्यस्य व्याख्यानं साध्यसाधर्म्यादित्यत्रापि योजयति—“अत्रापीति ।” साध्यशब्देनैव कृतकत्वं साधर्म्यं दृष्टान्तस्य, नासाध्येन विपक्षेणाकाशादिना नित्येन, ततो हि कृतकत्वं व्यावृत्तमिति । तथा च सव्यभिचारो व्यवच्छिन्नो भवति । “साधर्म्यमेवेति” भागासिद्धो व्यवच्छिन्नः । “यस्मात् साध्यसाधर्म्यात् तद्धर्मभावी भवति,”1133 सोऽयं दृष्टान्त उदाहरणमिति यावद् वाक्यं न समाप्यते, तावदर्धोक्त एव पृच्छति—“किं कुतश्चिदिति ।” अवधारणद्वययोगिनः साध्यसाधर्म्याद् दृष्टान्तोऽवश्यमेव तद्धर्मभावी भवतीति गतार्थं तद्धर्मभावीत्येतदिति भावः । उत्तरम्—“न भवत्यपीति । यथा” नित्ये शब्दे साध्ये “अमूर्तत्वादेः” साध्येन शब्देन “कर्मणः” साधर्म्यात् कर्म न तद्धर्मभावि भवति, नित्यं न1134 भवतीत्यर्थः । साध्येनैवेत्यवधारणेनैव एतदुदाहरणं प्रत्युक्तमिति । शिष्योपाध्यायश्यामत्वमैत्र तनयत्वादयोऽत्रौपाधिकसम्बन्धा उदाहार्याः । हेतुलक्षणे तु सामान्यलक्षणापेक्षं विशेषलक्षणमिति नातिव्याप्तिः । अत्र च साध्यसाधर्म्यग्रहणेन साधनविकलमनुदाहरणं भवतीत्युक्तं भवति । यथा नित्यः शब्दोऽमूर्तत्वात् परमाणुवदिति तद्धर्मभावीत्यनेन च820 साध्यविकलं परास्तम् । यथा नित्यः शब्दो मूर्तत्वात् कर्मवदिति । एतेनोभयविकलमपि पराकृतम्1135 । यथा नित्यः शब्दोऽमूर्तत्वाद् घटवदिति । पञ्चम्युपादानेन च साध्यसाधर्म्यप्रयुक्तं तद्धर्मभावित्वं यत्र वचने प्रदर्श्यते तदेवोदाहरणं नान्यदिति दर्शितं भवति । प्रयोजकत्वं च साध्यसाधर्म्यस्य हेतोः स्वाभाविकः सम्बन्धो व्याप्यत्वमिति यावत् । प्रयोज्यत्वं च340 साध्यसाधर्म्यस्य व्यापकत्वमेव1136 । तेनाप्रदर्शितान्वयविपरीतप्रदर्शितान्वययोरनुदाहरणत्वमुक्तं भवतीति । तद्यथा अनित्यः शब्दः उत्पत्तिमत्त्वात्, पटवदिति । यो योऽनित्यः, स सर्व1137 उत्पत्तिमान् यथा घट इति1138 । समाख्यानिर्वचनसामर्थ्यात् सामान्यलक्षणमप्यनेन सूचितमित्याशयवता “भाष्यकृता” समाख्याया निरुक्तिः कृता1139 । तां “वार्त्तिककारो” दर्शयति— “उदाह्रियतेऽनेनेति ।”
चोदयति—“ननु चेति ।” परिहरति—“नैष दोष” इति । वचनस्य विशेषणत्वेनोपलक्षणत्वेनेत्यर्थः । “अभिधीयमान” इति चाभिधानोपलक्षणपरम्, नाभिधेयपरम्, असामानाधिकरण्यदोषस्य तादवस्थ्यात् । “तद्धर्मभावीति सूत्रा”वयवव्याख्यानपरं “भाष्यम्—तस्य धर्म” इत्यादि । अत्र चोत्तरमिति गूढाभिप्रायम्1140 । तदेतद् “भाष्य”मनुभाष्यव्याचष्टे—“तस्य धर्म” इति । तस्य धर्मस्तद्धर्म इति हि धर्मस्य सम्बन्धित्वेन पृथग्वचनम् । न च धर्म एव धर्मस्य, नापि धर्मान्तरं धर्मस्य, किं तु धर्मिण इत्यर्थः । “भाष्यकारी”यामनुपपत्तिमुक्त्वा “वार्त्तिककारः” स्वकीयामप्याह—“धर्मे च साध्य” इति । अनेन हेतूदाहरणोपनयलक्षणैर्व्याघात1141 उक्तः । “भाष्यम् । साध्यसाधर्म्याद् उत्पत्तिधर्मकत्वादिति,” तद्व्याचष्टे—“तस्य धर्मिण” इति1142 । “तद्धर्मभावी भवतीति,” तदनुपपन्नं; न हि कृतकत्वात् स्थाल्यादेरनित्यत्वं भवति,1143 जायते बीजादिवाङ्कुर इत्यत उक्तम्—“भवति विद्यते” ॥ ३६ ॥
तद्विपर्ययाद्वा विपरीतम् ॥ १ । १ । ३७ ॥
वैधर्म्योदाहरणस्य लक्षणम्—“तद्वि—तम् ।” अनुवृत्तेन पूरयित्वा सव्याख्यानं “सूत्रं” पठति—साध्यवैधर्म्यादतद्धर्मभावी च दृष्टान्त उदाहरणमिति । सात्मकतया साध्येन जीवच्छरीरेण वैधर्म्याद् घटादेर्दृष्टान्तस्य सात्मकत्वसाधर्म्यविरहादिति यावत् । तस्य साध्यस्य जीवच्छरीरस्य धर्मः प्राणादिमत्त्वं तद्धर्मः । स एव भावस्तद्धर्मभावः । सोऽस्यास्तीति तद्धर्मभावी । न तद्धर्मभावी अतद्धर्मभावी प्राणादिरहितो घटादिरिति यावत् । एतदुक्तं भवति, यत्र घटादौ साध्यधर्माभावप्रयुक्तः साधनधर्माभावः, स घटादिवैधर्म्यदृष्टान्तः । तद्विषयः शब्द उदाहरणमिति । “सूत्र”स्थश्च वाशब्दः समुच्चये वेदितव्यः, व्यतिरेकविषयत्वाद् वैधर्म्योदाहरणस्येति । अत्र “भाष्यकारेणा”न्वयव्यतिरेकी पूर्व“सूत्रो”दाहृतोऽत्राप्युदाहृतः । साधनधर्माभावप्रयुक्तत्वं च साध्यधर्माभावस्योक्तम्, तच्चायुक्तम् । अन्वयव्यतिरेकिणि हेतौ सत्यपि वैधर्म्ये साधर्म्योदाहरणमेवोचितम्, तत्र तत्पूर्वकत्वाद् वैधर्म्यप्रतीतेः, ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगात् । व्याप्यव्यापकभावश्च यादृशो भावयोः, तदभावयोस्तद्विपरीतो बोद्धव्यः1144 । अन्यथा सपक्षैकदेशवर्ती न हेतुः स्यादिति मन्यमानो “वार्त्तिककार” आह—“उदाहरणमवीतहेताविति ।” तच्चास्माभिः “सूत्रं” योजयद्भिरुक्तमिति ।
अत्र “आचार्यदेशीयानाम्” अनार्ष“सूत्र”पाठदूषणं नास्माकमार्षसूत्रपाठेऽस्तीति प्रतिपिपादयिषुराचार्यदेशीयानां पाठमभिप्रायं चाह—“अन्ये त्विति ।” आर्षे हि पाठे सामानाधिकरण्याद् दृष्टान्तस्यार्थरूपस्य शब्दरुपेणोदाहरणेनैक्यं स्यात् । यदा तु दृष्टान्तस्योदाहरणमिति पाठः, तदा नायं दोषः । दूषणं चापरेषाम्, यथा न दृष्टान्तस्योदाहरणेन सामानाधिकरण्यम्, एवं तद्धर्मभावित्वस्याप्यर्थरूपस्य,1145 स्वविषयवचनोपलक्षणत्वेन तु सामानाधिकरण्यं दृष्टान्तेऽपि तुल्यम् । तस्मादार्षमेवास्त्विति । आर्षेऽपि पाठे परोक्तं दूषणमुपन्यस्यति—“एतस्मिन्नपीति ।” उपहासे “किल”कारः । ण्यन्ताद् भवतेस्ताच्छील्ये णिनिना भावीति व्युत्पन्नम् । तथा च तद्धर्मकारित्वमर्थः । न च ज्ञापनादन्या क्रिया सम्भवतीति गमकत्वम् । तच्च सर्वेषामवयवानामभिन्नमिति साधारणत्वात् न वक्तव्यमित्यर्थः । तदेतदभ्युपगमेनैव परिहरति—“नायमिति ।”
“अन्ये” तु तद्धर्मभावीत्येतद् विकल्प्य दूषयन्तीत्याह—“अन्ये त्विति ।” तत्र प्रथमकल्पे दूषणमाहुः—“तद् यदीति ।” नायं “सूत्रार्थः” सर्वावयवसाधारण्यादिति । तस्मात् न किञ्चिदेतत् तद्धर्मं भावयितुं शीलमस्येति । द्वितीयकल्पे दूषणमाहुः— “दण्डिन्यायस्तु” इति ।
सम्भवे व्यभिचारे च स्याद् विशेषणमर्थवत्,
न सम्भवमात्रे इत्यर्थः । तदिदं परेषां दूषणं दण्डिन्यायमालम्ब्य परिहरति—“न वक्तव्यमिति ।” सम्भवव्यभिचाराभ्यां समर्थं विशेषणमित्यर्थः । “न बहुव्रीहाविति ।” अन्यपदार्थविवक्षयैवेनिराश्रीयते । सा च बहुव्रीहिणैव लभ्यत इति कृतमत्रेनिनेत्यर्थः । सुहृद्भावेन चेद् अत एवाह—“अथावश्यमिति ।” प्रयोजनान्तरं भाविग्रहणस्यान्वाचिनोति—“सन्तीति ।”
अत्र च “वसुबन्धुना”1146 प्रतिज्ञादयस्त्रयोऽवयवा दुर्विहिता “अक्षपाद”लक्षणेनेत्युक्तम्, तद् दूषयति—“तदेतस्मिन्निति ।”
तदेवमुदाहरणलक्षणमुपपाद्य परेषां लक्षणं दूषयितुमुपन्यस्य व्याचष्टे—“तथा सिद्ध” इति । “यथा च स एव साध्यो विशिष्टः प्रत्ययभेदभेदित्वेनेति,” प्रत्ययः कारणम्, तदेतत् साध्यसाधनवत्त्वं दृष्टान्तस्य “बौद्ध”राद्धान्तेऽव्यापकम्, स्थाल्यादौ दृष्टान्ते कृतकत्वानित्यत्वरूपसाध्यसाधनवत्त्ववैकल्यात् । प्रागभावो हि स्थाल्याः कृतकत्वं प्रध्वंसाभावश्चानित्यता राद्धान्ते “बौद्धानाम् ।” न चैवमुभयं स्थाल्यामस्ति, तस्याः स्वाभावविरोधित्वादिति दूषयति—“अत्र विस्फूर्जतापीति । एतेनेति,” अव्यापकत्वेन । निदर्श्यतेऽस्मिन्ननेन चेति निदर्शनम् । साध्येनानुगमो हेतोः साध्याभावे च नास्तिता ।
इति च प्रत्युक्तम् कृतकत्वानित्यत्वयोः स्थाल्यामसम्भवदर्शनादव्यापकत्वेन । अस्मद्राद्धान्ते तु यथा तयोः स्थाल्यादौ सम्भवः तथोक्तं हेतुलक्षण“सूत्र” इति । “भाष्ये पण्डितरूपवेदनीयमिति” प्रशस्तपण्डितवेदनीयमित्यर्थः ॥ ३७ ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥ १ । १ । ३८ ॥
स्वप्रतिपत्तौ व्याप्तिस्मरणानन्तरं तथा चायं न तथेति वा परामर्शज्ञानोत्पादादुदाहरणवचनस्य च व्याप्तिप्रतिपादकत्वात् परामर्शज्ञाने1147 हेतोरुपनयस्योदाहरणपूर्वकत्वनियमात् उदाहरणानन्तरमुपनयं लक्षयति—“उदा—यः ।” अपेक्षापदं “भाष्यकृद्” व्याचष्टे—“उदाहरणतन्त्र” इति । “उदाहरणवशः ।” वश्यत इति वशः, वशिन उदाहरणस्य वश्य इत्यर्थः । एतदेव कर्मणो भावं निष्कृष्य विवृणोत्ति—“वशः सामर्थ्यम् ।” वश्येन उदाहरणस्य फलेन उपनयेनाभिसम्बन्ध इत्यर्थः । तथात्वातथात्वयोर्विषयं विभजते—साध्यसाधर्म्ययुक्त इति । ननु हेतोरुपसंहार उपनयो न साध्यस्य । तथा चानुपपन्नः साध्यस्योपसंहार इत्यत उक्तम्—“साध्यस्य शब्दस्योत्पत्ति धर्मकत्वमिति ।” उदाहरणसिद्धव्याप्तिकहेतुमत्तया साध्यमुपसंह्नियते न स्वरूपेणेत्यर्थः । अत्राप्युदाहरणापेक्ष उपसंहार उपनय इति सामान्यलक्षणम् । तथा न तथेति1148 सामान्यलक्षणापेक्षे विशेषलक्षणे इति बोध्यव्यम् ।
अत्र “केचित्” आहुः हेतुवचनादेव सोदाहरणात् साध्यसिद्धेरसाधनाङ्गमुपनय इति । तन्निराकर्तुमाह “वार्त्तिककारः—यथा तथेति1149 प्रतिबिम्बनार्थम् ।” तदेतत् प्रश्नपूर्वकं विभजते—“किं पुनरिति ।” तदनेन व्युत्पन्नाव्युत्पन्नतया परेषामनियतप्रतिपत्तिसाधनत्वात्1150 स्वप्रतिपत्त्यनुसारेण परे बोधयितव्याः । व्याप्तिस्मरणानन्तरोत्पन्नलिङ्गपरामर्शपूर्वकश्च स्वयमनुमेयार्थप्रत्यय इति तथैव परे बोध्यन्ते । तथा च परामर्शज्ञानहेतोरुपनयस्य सिद्धमर्थवत्त्वम् । न च यथा लिङ्गपरामर्शज्ञानान्वयव्यतिरेकानुविधानम् अनुमेयज्ञानस्य, तथा दधिभक्षणाद्यनुविधानमपि, येनातिप्रसङ्गश्चोद्येतेति । प्रयोजनान्तरम् उपनयस्याह—“साध्ये वा सम्भव इति ।” चोदयति—“ननु चेति ।” यद्यपि साधनतया कृतकत्वमुक्तम्, प्रतिज्ञानन्तरं प्रतिपत्त्रा साधनस्यैवापेक्षितत्वम्, तथापि तन्नासिद्धं तत्र साधनत्वेन व्यवतिष्ठत इति स्वसिद्धिमाक्षिपति सामर्थ्यादिति भावः । परिहरति—“नोक्त” इति । यत्परः शब्द स शब्दार्थ इति “शाब्दाः ।” साधनत्वपरश्च “कृतकत्वादिति” सामर्थ्यात् । आक्षेपे तूदाहरणमपि न प्रयोक्तव्यम् । अस्यापि1151 साधनसामर्थ्यादाक्षेपात् अव्याप्तस्य साधनत्वायोगात् तद्विधस्यापि प्रमेयत्वादेः शब्दनित्यत्वादौ साधनत्वभ्रमेण प्रयोगोऽसिद्धेऽपि1152 तुल्य इति व्याप्तिप्रदर्शनार्थोदाहरणप्रयोगवद्धेतोः सिद्धत्वप्रतिपादनाय उपनयस्यापि प्रयोग इति रमणीयम् ॥ ३८ ॥
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ १ । १ । ३९ ॥
निगमनलक्षणावतारपरं “भाष्यं द्विविधस्य पुनरिति ।” साधर्म्येण वैधर्म्येण द्विविधानामपि हेतूदाहरणोपनयानां “समानं” निगमनलक्षणमित्यर्थः । “हेत्व—नम् । तस्मादिति ।” हेत्वपदेशात् तद्धेतुकम् “अनित्यः शब्द” इति प्रतिज्ञाया पुनर्वचनम् । यद्यपि च सिद्धनिर्देशो निगमनम्, साध्यनिर्देशश्च प्रतिज्ञा तथापि यस्यैव प्रतिज्ञायां साध्यत्वमासीत्, तस्यैव निगमने सिद्धत्वमित्यवस्थावन्तमेकमाश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्युपचर्यते । तथा च पुनर्वचनमप्युपपन्नम् । तदेतद् “भाष्यकारो” व्याचष्टे—“साधर्म्योक्त” इति । व्युत्पादयति—“निगम्यन्ते” इति । साधर्म्यवैधर्म्ययोः प्रतिज्ञातः प्रभृति निगमनान्तं प्रयोगमाह—“तत्रेति ।” अत्र1153 प्रथम“सूत्र”वदेव यथास्वमवयवेषु प्रमाणानां परमन्यायं स्तोतुं सम्भवमाह— “अवयवसमुदाये चेति । आप्तोपदेशस्येति ।” सदेव सोम्येदमग्र आसीत्1154 ।
इत्यादेराप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानात् । ननु कस्मात् प्रतिज्ञैवाप्तोपदैशो न भवति, कृतमस्या आगमान्तरविषयत्वेनेत्यत आह—“अनृषेश्चेति । अनुमानं हेतुः ।” स्यादेतत् । द्वितीयं लिङ्गदर्शनं हेतुः । न च तदनुमानम् । तृतीयस्योपनयविषयस्य लिङ्गदर्शनस्य तथाभावादित्यत आह—“उदाहरण” इति । उदाहरणे दृष्टान्तधर्मिणि । साध्यसाधनयोः प्रतिबन्धं सन्दृश्य1155 सम्यग् दृष्टा लिङ्गस्य प्रतीतेः ।
एतदुक्तं भवति—यद्यपि त्रयाणामपि लिङ्गदर्शनानां सस्मृतीनामनुमानत्वम्, तथापि तदेकदेशे मध्यमेऽपि लिङ्गदर्शने समुदायोपचारादनुमानव्यपदेश इति । “प्रत्यक्षविषयमुदाहरणम् ।” कस्मात् ? “दृष्टेन” उदाहरणे प्रतिबन्धेन “अदृष्टस्य”1156 साध्यधर्मिण्यनुमेयस्य “सिद्धेः ।” यदि पुनर्न मूलं प्रत्यक्षमास्थीयेत, अव्यवस्थाया नादृष्टं सिध्येदिति भावः । निगमनप्रयोजनं प्रतिपादयति—“सर्वेषामिति ।” प्रतिज्ञादीनामुपनयान्तानामेकोऽर्थः स्वभावप्रतिबद्धं लिङ्गं वा अनुमेयं वा, तस्य प्रतिपत्तिः, तस्यां “सामर्थ्यप्रदर्शनं निगमनमिति ।” तदनेनैकार्थत्वं दर्शितम् । द्विविधं च1157 प्रयोजनम् । तत्रावान्तरं स्वभावप्रतिबद्धलिङ्गप्रतीतिः । परमं च साध्यप्रतीतिरिति ।
सम्प्रति विभागे साकाङ्क्षक्षत्वं दर्शयति—“इतरेतराभिसम्बन्ध” इति । अभिसम्बन्धेन फलेनाकाङ्क्षामुपलक्षयति—“असत्यामिति ।” प्रधानं हि प्रतिज्ञापदम् । तदुत्तरकालं हि साधनाकाङ्क्षायां प्रतिज्ञामाश्रित्य हेतुपदं प्रवर्तते । न पुनः प्रथममेव हेत्वपेक्षेति हेतुलक्षणेऽस्माभिरुपपादितमिति1158 । हेतुपदविरहे आकाङ्क्षां दर्शयति— “असति हेताविति ।” उदाहरणाभावेऽपेक्षामाह—“असत्युदाहरण” इति । उपनयाभावेऽपि अपेक्षामाह—“उपनयं चान्तरेणेति ।” निगमनाभावेऽप्यपेक्षामाह—“निगमनाभावे चेति ।” अवयवानां प्रातिस्विकं प्रयोजनमुक्तमपि शिष्यहिततया “भाष्यकारः” प्रतिपादयति—“अथेति ।” पञ्चावयवप्रतिपादनप्रयत्नस्य1159 प्रयोजनं दर्शयति—“न चैतस्यामिति ।” कथं पुनः प्रक्रमत इत्यत आह—“अव्यवस्थाप्येति ।” व्यवस्थापिते तु495 न जातेरवसर इत्याह—“व्यवस्थिते हीति ।”
अत्र “केचिदा”हुः निगमनमसाधनाङ्गम् । कथम् ? प्रतिज्ञया गतार्थत्वादिति । तन्मतमपाकर्तुं “वार्त्तिककारः” सप्रयोजनं निगमनं दर्शयति “प्रतिज्ञाविषयस्यार्थस्येति ।” चतुर्भिः खल्ववयवैर्हेतोस्त्रीणि रूपाणि द्वे वा प्रतिपादिते, न त्वबाधितविषयत्वासत्प्रतिपक्षितत्वे । पञ्चसु वा चतुर्षु वा रूपेषु हेतोरविनाभावः परिसमाप्यते । तस्मादबाधितविषयत्वासत्प्रतिपक्षितत्वरूपद्वयसंसूचनाय1160 निगमनम् । तदिदमुक्तम्—“विपरीतप्रसङ्गप्रतिषेधार्थमिति ।” बाधने प्रतिपक्षे वा साध्यविपरीतप्रसङ्गः स्यादिति । सोऽयं प्रतिज्ञाविषयार्थस्य अशेषप्रमाणमूलावयवोपपत्तौ सत्यां प्रतिज्ञेयस्यार्थस्य सिद्धतया पुनर्वचनेन निगमनेन प्रतिषिध्यते । न च प्रतिज्ञावचनादेव तत्सिद्धिः, तस्य साध्यपरत्वात् । न चान्यपरादप्याक्षेपात् सिद्धिः हेत्वादिपदाप्रयोगवैयर्थ्यप्रसङ्गात्,1161 प्रतिज्ञात एव सर्वाक्षेपसम्भवात्1162 । तस्माद् रूपद्वयप्रतिपादनार्थं निगमनम् । यथा च त्रैरूप्यातिरिक्तमेतद्रूपद्वयं तथोपपादितमस्माभिः प्रथम“सूत्रे ।” हेत्वाभासेषु च शेषं दर्शयिष्यत इति । एतस्मिन् “सूत्रा”र्थे परस्य प्रतिज्ञायां निगमनं गतार्थं मन्यमानस्य अवकाशो नास्तीति ।
यस्तु मन्येत न हेतोरविनाभावसिद्धिमन्तरेण सिद्धनिर्देशो निगमनं भवति, न च पाञ्चरूप्यं विना अविनाभावसिद्धिः । निगमनात्तु तत्सिद्धौ न सिद्धनिर्देशो निगमनम्, अपि तु साध्यनिर्देश एवेति, तं प्रत्युपेत्य तद्दोषनिराचिकीर्षया परेषां वाक्यमुपक्षिप्यते । परेषां वाक्यं पठति—“उपनयनिगमने त्विति ।” दूषयति—“इदं तावदिति ।” यथाश्रुति हि निगमनोपनययोरभेदं साधयति, अर्थगतं चाविशेषं हेतुमाह—तच्चैतदालोकतमसोरैक्यं काकस्य कार्ष्ण्यादिवदापतितम् । शङ्कते—“अथ हेतूपनयाविति ।” उपलक्षणं चैतत् प्रतिज्ञानिगमने इत्यपि द्रष्टव्यम् । अर्थाविशेषादिति चाविशिष्टार्थत्वादित्युन्नेतव्यम् । तथा च सम्बन्ध इति शङ्कितुरभिप्रायः । अत्रापि दोषमाह—“स विपक्षेति ।” पुनः शङ्कते—“अथैकप्रयोजनत्वेनेति ।” निराकरोति— “तथापीति ।” सिद्ध्यत्येकप्रयोजनत्वे साध्ये हेतोरविरोधः, हेतुस्तु न प्रतिज्ञार्थादतिरिच्यते इत्यर्थः । “तद्वर्णितमिति ।” अन्यश्च हेत्वर्थोऽन्यश्चोपनयार्थ इत्येतद् वर्णितमित्यर्थः । एतेनोपनयनिगमनप्रयोजनाभिधानेन ये त्र्यवयवं वाक्यमाहुः, तन्मतमपि परास्तमित्याह—“पक्षर्मत्वेति ।”
यच्च “परैः” उपनये दूषणं विकल्प्याभ्यधायि तत् तावदुपन्यस्यति—“यदपि यथा तथेति ।” सर्वसामान्ययोगे हि तदेव स्यात् न तु तथेति । “अन्यथा शब्दस्य कृतकत्वादिति ।” न हि यथा घटः कृतकः, तथा शब्दोऽपि कृतकः, घटशब्दयोरभेदप्रसङ्गादित्यर्थः । तस्मात् सामान्यप्रतिषेधे विशेषप्रतिषेधे च कृत कत्वं सामान्यं परिशिष्यते । तस्य च यथातथाभावयोरभावात् कृतकत्वादित्येव स्यात् । तथा च न हेतोर्व्यतिरेक उपनयः स्यादित्याह—“परिशेषादिति ।” तदेतत् परेषां दूषणं निराकरोति—“तदप्ययुक्तमिति ।” यथा तथेति वाक्यमुपमानैकदेशमुपमानमुपचारात् । उपमानमर्थो यस्य सोऽयमुपमानार्थ उपनयः । तस्य भावस्तत्त्वं तस्मात् । तच्चोपमानं न सर्वथा साध्यसाधनभावमाश्रित्य प्रवर्तते । साध्ये शब्दे साधनस्य कृतकत्वस्य स्थालीगतस्य यः सर्वथाभावः स्थालीत्वाद्येकार्थसमवायः तमाश्रित्य न प्रवर्तते । तथा च शब्दस्थाल्योरभेदप्रसङ्गाद् यथा तथेत्येव न स्यात् । तस्मात् स्थालीस्थप्रकारान्तरव्युदासेन कृतकत्वसामान्यमात्रसाधारण्येन यथा तथेत्युपमानोपपत्तिरित्यर्थः । नन्वेवमपि कृतकत्वसामान्यमात्रं शब्दे स्यात्, न तु यथातथाभावः । तथा च न हेतोरतिरेक इत्युक्तमित्यत आह—“कृतकत्वसामान्यं त्विति ।” न हि जातु शावलेयसन्निधौ गोत्वसामान्यमात्रं भवति, अपि तु विशेषसहितम् । तथा च यथातथाभाव1163 उपपन्न इत्यर्थः ।
एतेन यत् “परै”रुपनयस्य दृष्टान्तादभिन्नत्वं वर्णितम्, तदपि परास्तमित्याह— “गतार्थत्वादिति । अनेनो”पमानसमानत्ववर्णनेन एतदेव विभजते—“यदप्युक्तमिति ।” व्याप्तिप्रदर्शनविषयो दृष्टान्तः, दृष्टव्याप्तिकस्य हेतोः साध्यधर्मिण्युपसंहार उपनय इति महान् भेद इत्यर्थः । “एतेन निगमनं” प्रतिज्ञायाः समानाभिधेयत्वेऽपि प्रतिज्ञात्वेन प्रत्युक्तम् । प्रतिज्ञायाः साध्यपरत्वात् निगमनस्य च1164 विपरीतशङ्कानिवृत्तिपरत्वादिति । प्रयोजनभेदसामान्यमात्रविवक्षया एतेनेत्युक्तम् । अत्र “भाष्यकारेण” एकस्मिन्नन्वयव्यतिरेकिण्येव वीतावीतवाक्ये पञ्चावयवे उदाहृते । तत्र कदाचिद् भ्रान्तिः स्यादेकोदाहरणतया द्वे अपि वाक्ये परस्परापेक्षे एवेति, तन्निराकरणायाह—“ते एते” इति । न “पुनरन्वयि व्यतिरेकि” चेत्येकं वाक्यमित्यर्थः ॥ ३९ ॥
॥ इति न्यायलक्षणप्रकरणम् ॥
न्यायोत्तराङ्गलक्षणप्रकरणम्
अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ १ । १ । ४० ॥
अत्र “भाष्यं” तर्कलक्षणावतारपरम्—“अत ऊर्द्ध्वमिति ।” उद्देशक्रमानुसारेण । “अवि—तर्कः ।” तर्कप्रवृत्तिक्रममाह—“अविज्ञायमानतत्त्वेऽर्थे” इति । यद्यपि संशयस्य पश्चादेव जिज्ञासा भवति, तथापि जिज्ञासायाः परस्तादपि संशयो भवति । स चात्र विवक्षितः, तर्क प्रवृत्त्यङ्गत्वात् । तर्केण हि प्रसङ्गापरनाम्ना द्वयोः पक्षयोरेकतरनिषेधेनैकतरः प्रमाणविषयतया अभ्यनुज्ञातव्य इति विषयप्रत्यासत्त्या तर्कप्रवृत्तिं प्रत्यङ्गता संशयस्येति । कारणोपपत्त्येति व्याचष्टे—“सम्भवत्यस्मिन् कारणं प्रमाणमिति ।” अत्र च कारणमित्यस्य व्याख्यानं “प्रमाणमिति ।” उपपत्तिव्याख्यानं “सम्भवतीति ।” अनुज्ञाव्याख्यानम्—“एवमेतत्, नेतरदिति ।” एतदुक्तं भवति, यस्मिन् विषये प्रमाणं प्रवर्तितुमुद्यतं तद्विपर्ययाशङ्कायां न तावत् प्रमाणं1165 प्रवर्तते । न यावदनिष्टापत्त्या विपर्ययाशङ्का अपनीयते । तदपनय एव च स्वविषये प्रमाणसम्भव इति चोपपत्तिरिति व्याख्यायते1166 । तया प्रमाणस्योपपत्त्या इतिकर्तव्यतया प्रमाणविषयमभ्यनुजानत्या1167 विशोधिते विषये प्रमाणमप्रत्यूहं प्रवर्तते । न चोपपत्तिरेवास्तु निश्चयहेतुः कृतं प्रमाणेनेति वक्तव्यम् । उपपत्तेः स्वतन्त्राया आश्रयासिद्धतया स्वतो निश्चयायोगात् । तदुपपादितं प्रथमसूत्रे1168 इति ।
उदाहरणमाह—“निदर्शनमिति । स्वकृतस्य कर्मण” इत्यादिना “पूर्वस्य कारणमि”त्यन्तेन संसारो दर्शितः । “उत्तरे”त्यादिना “अपवर्ग” इत्यन्तेनापवर्गः । तेन संसारापवर्गाविच्छन्तौ वादिप्रतिवादिनौ प्रति आत्मनित्यत्वविषयं प्रमाणं प्रवर्तमानमनेन तर्केणानुगृह्यत इति प्रमाणविषयविपर्ययाननुज्ञैव च प्रमाणविषयाभ्यनुज्ञा । अनिष्टप्रसक्त्या विपर्ययस्यैव1169 साक्षात् निवर्तनात् । अत एवान्ते “भाष्यकार” उपसञ्जहार—“यत्र1170 कारणमनुपपद्यमानं पश्यति, तत् नानुजानातीति ।”
ननु यदि तर्क एवमेतत्, नेतरदित्येवमाकारः, कथं पुनरयं तत्त्वज्ञानार्थो न तु तत्त्वज्ञानमेवेति देशयति—“कथं पुनरिति ।” परिहरति—“अनवधारणादिति ।” पर्यायैर्निश्चयादत्यन्तभेद उक्तः । “भावितात्” चिन्तितात्, अत एव “प्रसन्नात्” निर्मलादिति । “प्रमाणसामर्थ्यादिति” तर्कस्य स्वातन्त्र्यमपाकरोति । स्यादेतत्—यदि न तर्कस्तत्त्वनिश्चयसाधनमपि तु प्रमाणमेव, हन्त भोः किमर्थं तर्हि वादे प्रमाणतर्कसाधनेत्युक्तमित्यत आह—“सोऽयं तर्क” इति । व्यक्त्यभिप्रायेण “प्रमाणानीति ।” प्रमाणविषयविपर्ययशङ्काविघटितानि प्रमाणानि “प्रतिसन्दधान” इत्यर्थः ।
“वार्त्तिककारः सूत्र”तात्पर्यमाह—“अस्येति ।” समानजातीयात् संशयादेरसमानजातीयात् चेच्छादेर्व्यवच्छिद्यते । यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वेऽर्थे प्रवर्तेते, तथापि न कारणोपपत्तित इति तयोर्व्यवच्छेद इति । तत्त्वं व्याचष्टे—“यथेति ।” समानासमानजातीयव्यवच्छिन्नमविपरीतं रूपं तत्त्वमित्यर्थः । चोदयति—“कुतः पुनरिति ।” न हि सामान्यज्ञानविधायकं पदमत्रास्तीत्यर्थः । परिहरति—“अविज्ञातेति ।” विशेषनिषेधः शेषाभ्यनुज्ञाहेतुरित्यर्थः । विमृशति—“अविज्ञाततत्त्व इति समासोऽयमिति ।” अवधारयति—“षष्ठीविग्रहेणेति । युक्तम्” उपपन्नम् । तृतीयाविग्रहेण त्वनुपपन्नमित्यर्थः । संशयवाद्याह—“विशेषहेत्वभावादिति ।” युक्तमिति प्रतिज्ञामात्रेणोच्यते, न त्वत्र हेतुरभिधीयत इति भावः691 । युक्तत्वे हेतुमाह—“युक्तमर्थग्रहणसामर्थ्यादिति ।” अन्यश्चोदयति—“अर्थग्रहणमन्तरेणापीति ।” ज्ञेयेन हि ज्ञानं निरूप्यते न ज्ञात्रा, तस्य साधारण्यादिति सामर्थ्यमित्यर्थः । निगूढाभिसन्धिः परिहरति—“एवमपीति ।” तस्याभिसन्धिभेदमुररीकृत्य चोदयति—“मा भूत् समास” इति । उत्तरवाद्याह— “भवत्येवमिति ।” नाद्याप्यनेन स्वाभिप्रायो दर्शित इति मत्त्वा पुनश्चोदयति— “अनुक्तेऽपीति ।” उक्तपरिहारपूर्वं स्वाभिप्रायमुद्धाटयति—“अत्रोक्तमिति । समस्तानभिधानप्रसङ्गाच्चेति” स्वाभिप्रायोद्धाटनम् । एतदुक्तं भवति, सामर्थ्यप्राप्तस्यानभिधानेऽतिप्रसङ्ग इति न सामर्थ्यमाश्रित्य लक्षणे संशयो निराकरणीय इति तन्निराकरणार्थमर्थग्रहणं कर्तव्यमिति ।
अत्र चोदयति—“अविज्ञाततत्त्व इति न वक्तव्यमिति ।” न हि तत्त्वे ज्ञाते तत्त्वज्ञानार्थिता भवति । तस्माद् गम्यते अविज्ञाततत्त्व इति भावः । गूढाभिसन्धिरुक्तं परिहारं स्मारयति—“अत्र तावदुक्तमिति ।” अविदिताभिप्रायश्चोदक आह—“मा भूदिति ।” अस्तूहस्तर्क इत्येतावदेवेत्यर्थः । उत्तरवादी स्वाभिप्रायमुद्धाटयति—“न बुद्धिधर्मेति ।” यद्यपि नास्माकं राद्धान्ते शुश्रूषादयो बुद्धिधर्मा1171 बुद्धिमत्त्वस्यैवाभावात्, तथाप्यात्मगुणा अपि “साङ्ख्या”भिप्रायेण बुद्धिगुणा उक्ताः । एतदुक्तं भवति, यद्यूहस्तर्क इत्येतावदुच्येत, यदि वा तत्त्वज्ञानार्थमूहस्तर्क इत्येतावन्मात्रम्, ततो विज्ञातेऽपि तत्त्वे1172 य ऊहः पूर्वानुभूतपरिच्छेदात्मा जायते पुनस्तत्त्वज्ञानार्थं सोऽपि तर्कः स्यात् । तस्मादविज्ञाततत्त्व इति वक्तव्यमित्यर्थः । यद्यपि कारणोपपत्तित इत्येतस्मादयमर्थोऽपि गम्यत एव, तथापि कारणोपपत्तिरेवैवंरूपत्वं नाविज्ञाततत्त्वग्रहणमन्तरेण भवति । तथा हि अधिगतपरिच्छेदात्माप्यूहः कारणस्योपपत्त्या सम्भवेन जायते,1173 कारणासम्भवे कार्यस्याभावात्1174 । न त्वसावविज्ञाततत्त्व इति ततो व्यवच्छेदः । तथा च सति प्रमाणमपि तर्कः स्यात् । अत उक्तं “कारणोपपत्तित” इति । उक्ते सति प्रयोजनानुसरणम्, न त्विह लाघवादरः “सूत्रकारस्येति” मन्तव्यम् ।
चोदयति—“षष्ठ्यभिधानमिति ।” परिहरति—“न विभक्तिव्यत्ययादिति । यथान्यत्र कणभुजः सूत्रे ।” विप्रतिपन्नः पृच्छति—“कस्मात् ?” प्रष्टैवैकग्रन्थेनाह—“यदि व्यत्ययेनेति ।” परिहरति—“न न युक्त इति ।” सामान्येनाधिगतस्य विशेषेण ज्ञापनार्थम् । नित्यत्वादयो विशेषाः समवायिनो वह्न्यादयश्च धूमादिसंयोगिन इति । शेषं सुगमम् ।
देशयति—“ऊहः संशयनिर्णयाभ्यामिति । केचित्” सिद्धान्तैकदेशिनः अनुमानं तर्क इत्याहुः । “अन्ये त्वनुमानमेव युक्त्यपेक्षं” विपर्ययेऽनिष्टप्रसङ्गापेक्षं तर्क इति वर्णयन्ति । तत्र प्रथमचोदकं प्रत्याह—“यत् तावदिति । आक्षिप्त” आक्षिप्तहृदयः, न तु तर्कप्रत्ययस्वरूपं चेतयत इत्यर्थः । “विशेषदर्शनादिति” विशेषदर्शनात् निश्चयः प्रमाणेन भवति न तर्केण, तदनुज्ञानमात्रत्वात् तर्कस्येत्यर्थः । चोदकं निराकृत्य “सिद्धान्तैकदेशिनं” निराकरोति—“एतेनेति ।” यदि संशयात् प्रच्युतो निर्णयं चाप्राप्तः, तर्हि तस्य स्वरूपं वक्तव्यमिति पृच्छति—“किं पुनरिति ।” उत्तरम्—“भवेदिति,” प्रमाणविषयाभ्यनुज्ञेत्यर्थः । द्वितीय“मेकदेशिनं” निराकरोति—“यैरपीति ।” युक्तिरिह1175 प्रमाणोपपत्तिः । तज्जन्मा च प्रत्ययस्तर्क एव । स चानुमानमिति त्वयोच्यते । “अस्मा”भिस्तु तर्क इति सञ्ज्ञाभेदमात्रमित्यर्थः । शङ्कते—“अथेति ।” निराकरोति— “अनुमानमिति ।” प्रसङ्गोपपत्त्यतिरिक्ताया1176 युक्तेरनिरूपणाद् अपेक्षार्थो1177 वक्तव्यः । न ह्यपेक्षणीयमन्तरेणापेक्षा शक्या निरूपयितुमिति भावः । ननु यदेव किञ्चित् स्वविषयाधिगमे अनुमानमपेक्षते सैवापेक्षणीया युक्तिरनुमानस्य भविष्यति इत्यत आह—“स्वविषयाधिगमे चेति ।”
शङ्कते—“अथेति ।” निराकरोति—“एवमपीति ।” यद्युत्पत्तौ प्रत्यक्षागमापेक्षमनुमानम् न वक्तव्यं युक्त्यपेक्षमिति, सर्वस्यानुमानस्य तथा भावेनाव्यभिचारेण विशेषणायोगादिति भावः । पुनः शङ्कते—“अथानुमानस्येति ।” निराकरोति—“तत्रापीति ।” एवमपि तर्को नार्थान्तरं स्यात् । अनुमानभेदस्य चेदृशस्य प्रमाण एवान्तर्भाव इति भावः । उक्तमर्थं प्रमाणयति—“भवेदिति ।” भवेदिति प्रत्ययोऽवधारणप्रत्ययश्चेत्यर्थः । चोदयति—“अनुमानमिति ।” विपर्ययोऽनिष्टप्रसङ्गो व्यतिरेकि लिङ्गम् । तच्चागृहीतसम्बन्धं लिङ्गिनि न प्रवर्तत इति लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षत्वादप्राणादिमत्त्वप्रसङ्गादितिवदनुमानमेवेत्यर्थः । परिहरति—“न तर्केति ।” युक्तं व्यतिरेकिणि जीवच्छरीरे धर्मिणि प्राणादिमत्त्वस्य साधनधर्मस्य दर्शनात्, न तु यद्युत्पत्तिमान् आत्मा अभविष्यत् न संसारापवर्गावुपपत्स्येतामित्यत्रात्मनि धर्मिणि साधनधर्म उत्पत्तिरस्ति यद्दर्शनतः1178 संस्कारोद्बोधे सति लिङ्गलिङ्गिसम्बन्धस्मृतिर्भवेदित्यर्थः । न केवलं प्रसङ्गसाधनं साध्यधर्मिण्यसिद्धम्, अपि त्वन्यगतमेव1179 प्रसङ्गहेतुः । न त्वनुमानमन्यगताद् धर्मात् प्रवर्तते, तस्मादनुमानादस्य स्फुटो भेद इत्याह—“अनुमानं चेति । भाष्य”व्याख्यानं “सोऽयमिति” ॥ ४० ॥
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ १ । १ । ४१ ॥
नैतन्निर्णयमात्रस्य लक्षणम्, अपि तु परीक्षाप्रयोजनस्य । स च निर्णयभेदो1180 विमर्शानन्तरोत्पन्नतर्कसहायप्रमाणनिबन्धनस्तर्कविषय एवेति निर्णयभेदलक्षणमिति नाव्यापकं तत्र तल्लक्षणमिति दर्शयितुं “भाष्यकारो” निर्णयलक्षणमवतारयति— “एतस्मिंश्च तर्कविषये ।”
“विमृ—यः ।” अत्र पक्षप्रतिपक्षयोः कर्मतया न निर्णयसाधनत्वमित्यनुपपत्त्या साधनोपालम्भौ वाद“सूत्र”गतौ लक्षणीयाविति तावेव तावद् “भाष्यकृद्” विभजते—“स्थापना साधनम्, प्रतिषेधः” साधनस्य “उपालम्भः ।” लक्षणानिबन्धनं सम्बन्धमाह—“तौ साधनोपालम्भाविति ।” यद्यप्युपालम्भो न प्रतिपक्षाश्रितः, तथापि तदुद्देशेन प्रवृत्तस्तदाश्रित इत्युच्यते । मुख्यपदोपादानोल्लङ्घनेन1181 लाक्षणिकपदो पादानलभ्यं प्रयोजनमाह—“व्यतिषक्ताविति1182 ।” अर्थग्रहणसामर्थ्यलभ्यमेकतरनिर्णयावसानत्वमाह—“अनुबन्धेन प्रवर्तमानाविति ।” एतच्च “वार्त्तिके” स्फुटीभविष्यति । तमेव साधनोपालम्भयोः परस्परानुबन्धं दर्शयति—“तयोरन्यतरस्येति ।” यस्य साधनस्य वा उपालम्भस्य वावस्थानम्, तस्य साधनस्य वा उपालम्भस्य वा योऽर्थः पक्षः प्रतिपक्षो वा तस्यावधारणमित्यर्थः ।
अत्र पक्षप्रतिपक्षप्रयोगाद् वादे संशयोऽस्तीति वादभ्रान्त्या1183 चोदयति—“नेदमिति । एक” इति वादी । “प्रतिज्ञातमर्थं हेतुतः स्थापयति । द्वितीयस्य” प्रतिवादिनः “प्रतिषिद्धं” प्रतिषेधं वाद्युक्तस्य हेतोर्दूषणमिति यावत् । “उद्धरति” दूषणाभासीकरोति । “द्वितीयेन तु प्रतिवादिना” वाद्युक्तस्य हेतोः स्थापनाहेतुत्वं प्रतिषिध्यते । “तस्यैव” वादिनः प्रतिवाद्युक्तदूषणप्रतिषेधहेतुश्च प्रतिवादिनैवोद्ध्रियते । “स” वादिनो वा प्रतिवादिनो वा हेतुर्वोपालम्भो वा1184 “निवर्तते ।” तस्मिन् निवृत्ते “योऽवतिष्ठते” एकः, तेनार्थनिर्णयः, न द्वाभ्याम् । तस्मादयुक्तं पक्षप्रतिपक्षाभ्यामिति । न तावत् संशयविषये निर्णये वादिप्रतिवादिनौ स्तः, तयोर्निश्चितयोरेव प्रवृत्तेः ।
अभ्युपेत्य तु495 परिहरति—“उभाभ्यामिति ।” वादिनः साधनस्य “सम्भवः” प्रतिवादिन उपालम्भस्य “असम्भवः ।” एवं प्रतिवादिनः साधनस्य सम्भवो वादिन उपालम्भस्यासम्भव इति । “विमृश्येति विमर्शं कृत्वेति ।” अनुपादेयोऽपि विमर्शः कार्यत्वात् कृतिव्याप्य उक्तः । विमृश्येति पदोपादानस्य प्रयोजनमाह—“सोऽयम्” इति । “अवद्योत्य” नियमेन विषयीकृत्येत्यर्थः । एकधर्मिस्थयोरित्यस्य व्यतिरेकमाह—“यथा क्रियावदिति ।” विरुद्धयोरित्यस्य कालभेदेन व्यतिरेकमाह— “एकधर्मिस्थयोश्चेति ।” न निर्णयमात्रस्येदं लक्षणमपि तु परीक्षाविषयस्येत्याह—“न चायं निर्णय” इति । अर्थावधारणं निर्णय इत्येतावन्मात्रं लक्षणमिन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षे भवतीति योजना । हृदि व्यवस्थितमभ्युपगममुद्धाटयति—“शास्त्रे वादे चेति ।” न हि ज्योतिष्टोमादीनां स्वर्गादिसम्बन्धनिर्णये आगमेन कर्तव्ये विमर्शोऽस्ति, नापि वादजल्पवितण्डासु विमर्शः, निश्चितयोरेव वादिप्रतिवादिनोस्तत्र1185 प्रवृत्तेरित्यर्थः ।
“वार्त्तिकम्—सम्बन्धोऽर्थश्च पूर्ववत् ।” सम्बन्ध उद्देशक्रमेण तर्कानन्तर्यलक्षणः । अर्थश्च प्रयोजनम् । समानासमानजातीयव्यावृत्तिरित्यर्थः । शेषं “भाष्य”व्याख्यानेन गतम् । ननु भवतु पक्षशब्दलक्षितस्य साधनस्य निर्णयं प्रति करणत्वम्,1186 प्रतिपक्षलक्षितस्य तु तद्दूषणस्य न साक्षात्साधकत्वमित्यत आह— “प्रतिपक्षाच्चेति” हेतुत्वं पारम्पर्येणेत्यर्थः । “पक्षप्रतिपक्षाभ्यामिति ।” साधनदूषणाभ्यामित्यर्थः ।
लक्षणमाचिक्षिप्सुर्विकल्पयति—“क्व पुनरयमिति ।” अत्र “पक्षप्रतिपक्षाभ्याम् एवेति” प्रथमः कल्पः, तदा हि यत एवकारः1187 ततोऽन्यत्रावधारणमिति निर्णये नियमो भवेत् । “निर्णय एवेति” द्वितीयः कल्पः । तदा हि पक्षप्रतिपक्षाभ्यामित्यत्र नियमः । “विमृश्यैवेति” च तृतीयः । तदापि निर्णये नियमः । तत्र प्रथमं कल्पमाक्षिपति—“यदि विमृश्येति ।” एतस्मिन् विकल्पे1188 निर्णयः पक्षप्रतिपक्षविमर्शातिलङ्घनेनान्यत्र न प्रवर्तत इति प्रत्यक्षं प्रमाणं निर्णयफलं न स्यात् । न हि तत्र पक्षप्रतिपक्षौ, नापि विमर्श इति प्रत्यक्षलक्षणं बाध्यते1189 इत्यर्थः । तृतीयकल्पमाक्षिपति—“एतेनेति ।” व्याघातेनेत्यर्थः । द्वितीये कल्पे दूषणमाह—“अथ पक्षेति ।” तदा निर्णयस्यानियमात् पक्षप्रतिपक्षौ च तदभावश्चेति तदुभयम्, तदाश्रयः “निर्णयः प्राप्नोति ।” तथा चाव्यापकं लक्षणमित्यर्थः । प्रथमं कल्पमालम्ब्य समाधत्ते— “तर्कविषय” इति । न निर्णयमात्रस्येदं लक्षणम्, अपि तु निर्णयविशेषस्येत्यर्थः । “न निर्णय” इति न निर्णयमात्र इत्यर्थः । “अथ निर्णयस्य किमिति” निर्णयमात्रस्ये1190 त्यर्थः । “एकशश्च प्रमाणैरिति” प्रत्यक्षादिभिः । “संहत्य च प्रमाणैरिति” साधनदूषणसमाधानैरित्यर्थः । पक्षप्रतिपक्षाभ्यामेव वादे निर्णयो न तु विमर्शः । शास्त्रे तु निर्णय एव न तु तत्र951 शास्त्रातिरिक्तं साधनान्तरमाश्रीयत इत्यर्थः ।
“पक्षप्रतिपक्षाभ्यामिति ।” लक्षणायां हि येन यत्1191 लक्ष्यते तदवच्छेदकतया तदपि बुद्धौ सन्निधीयते । ततश्च तेन नियमो भवति लक्ष्यमाणस्य, यथा गङ्गायां घोष इति । गङ्गासम्बन्ध्येव तीरं धोषेणान्वीयते, न त्वकूपारतीरमपीति । चोदयति—“अर्थेति ।” परिहरति—“न नेति ।” अर्थग्रहणे क्रियमाणे काल्पनिकत्वं प्रतिषिध्यते, न चाकल्पितं विरुद्धधर्मवदित्येकतरनिर्णयः । “नेदं पक्षप्रतिपक्षाभ्यामित्यादि” चोद्य“भाष्यं” व्याचष्टे—“पक्षप्रतिपक्षाभ्यामिति । उभाभ्यामित्यादि” परिहार“भाष्यं” व्याचष्टे— “उभाभ्यामेवेत्याहेति ।” पृच्छति—“एतस्मिन्निति । प्रथमं” साधनम्, “द्वितीयं” दूषणम्, “तृतीयं” समाधानम् । उत्तरम्—“सर्वत्र ।” कदाचित् प्रथमे कदाचिद् द्वितीये कदाचित् तृतीय इत्यर्थः । अवश्यं तु तृतीय इत्याह—“अथ वेति ।” उभयत्र कल्पे प्रश्नः— “कथमिति ।” उत्तरम्—“एकस्तावदिति ।” तं1192 निवर्त्य वादिनः साधनं दूषणेन निवर्त्य प्रतिवादी स्वपक्षे “साधनं ब्रवीति । प्रथम” इति वादी ।
“निर्णयोऽनुमानमेवेति केचित् ।” तथा हि तृतीयलिङ्गदर्शनं प्रत्यक्षफलं निर्णयः । तदेव चानुमानमतो निर्णयो नानुमानादतिरिच्यते इत्यर्थः । परिहरति—“न लिङ्गलिङ्गीति ।” यदि निर्णयमात्रमनुमानमुच्येत, तदा न तस्य सर्वस्य लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षत्वमिति । यदि तु लिङ्गपरामर्शो निर्णयः, तस्य चास्ति लिङ्गलिङ्गिसम्बन्धापेक्षेति1193 । तत्राह—“प्रमाणफलत्वात् ।” सामान्यव्याप्तो विशेषः सामान्यनिवृत्त्या1194 निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्त्या1194 । न च फले प्रमितिरूपे निर्णये प्रमाकरणत्वं फलत्वे1195 नास्तीति नानुमानत्वं तद्विशेष इत्यर्थः । इतश्चानुमानात् निर्णयो भिद्यते इत्याह—“निर्णयः स्वविषय एवेति ।” न हि निर्णयो निर्णयत्वेन प्रतिपत्त्यनुबन्धिभूताद्1196 विषयादन्यत्र, अनुमानं तु तत्र चान्यत्र1197 च । यदानुमेयोऽग्निरेव1198 हेयत्वादिभिः परिच्छिद्यतेऽग्निज्ञानेनानुमानेन, यदा तु धूमज्ञानेनाग्निरनुमीयते तदान्यत्र चेति1199 गमयितव्यम् । शेषमतिरोहितम् ॥ ४१ ॥
॥ इति न्यायोत्तराङ्गलक्षणप्रकरणम् ॥
॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्याये प्रथमाह्निकम् ॥
-
“प्रतिपादिते” [ज्] ↩︎
-
“रोक्तप्रयो” [च्] ↩︎
-
“स्वेति नास्ति” [ज्] ↩︎
-
“हि मुनिः” [च्] ↩︎
-
“ग्रन्थे” [च्] ↩︎
-
“सूत्रं वाक्यम्” [च्] ↩︎
-
“तत्त्वं ज्ञायते…तत्त्वज्ञानम्” [च्] ↩︎
-
“स्वान्वयमा°” [च्] ↩︎
-
“उपदि°” [च्] ↩︎
-
“चकारो नास्ति” [च्] ↩︎
-
यत् [च्] [ज्] अत्र पदार्थकः पच्छब्दोऽभिप्रेतः । ↩︎
-
“°सन्देहात्” [च्] ↩︎
-
“°संशयाभावे°” [च्] ↩︎
-
“नानर्थकम्” [च्] ↩︎
-
“°वित्यादि” [च्] ↩︎
-
“रत्नाहरणोपवाक्यम्” [च्] ↩︎
-
“°ज्ञानद्वा°” [च्] ↩︎
-
“चार्थाव्य°” [च्] ↩︎
-
“°कालान्तरावस्था°” [च्] ↩︎
-
“°श्रेयोऽभि°” [च्] ↩︎
-
“तदशक्यानुष्ठानोपायोपदेशतया” [ज्] ↩︎
-
“°नुष्ठानताऽप°” [च्] ↩︎
-
“°ष्टैकार्थप्रत्ययैककार्या°” [च्] ↩︎
-
“°प्रसव” [ज्] ↩︎
-
“°माणाभावे” [च्] ↩︎
-
“सम्भाविनः पुरुषान्” [च्] ↩︎
-
“°त्यन्तिकत्वानात्यन्तिकत्वे तद्” [च्] ↩︎
-
“सुखे दुःखत्वोपचारे” [च्] ↩︎
-
“°माचिनोति” [च्] ↩︎
-
“°भवन्तः पतञ्जलिपादाः” [च्] तत्तु न सम्यक् योगसूत्रेष्वस्य सन्दर्भस्यादर्शनात् तु° व्यासभाष्ये [४। १०] ↩︎
-
“°षङ्गान्मार°” [च्] ↩︎
-
“°दुपभुञ्जते” [च्] ↩︎
-
“°भोगिफणा…च्छायाप्र°” [ज्] ↩︎
-
“पुरुषे” [च्] ↩︎
-
“°मिरचनां करोति” [ज्] ↩︎
-
“°णमित्य°” [च्] ↩︎
-
“°सम्पन्नाप्र” [ज्] ↩︎
-
“तज्जातीयस्य” [ज्] ↩︎
-
“°हेतुतयाऽसकृदुपलभ्यमान°” [च्] ↩︎
-
“°सहिता विनिश्चितिः” [च्] ↩︎
-
“च श्रेयो°” [च्] ↩︎
-
“°रपेक्षितानु°” [च्] ↩︎
-
“°देव” [ज्] ↩︎
-
“प्रवृत्तिः” [च्] ↩︎
-
“°ज्जातीयस्यादृष्टा°” [च्] ↩︎
-
द्रः २.१.६८ ↩︎
-
“°धनं त्वेते” [ज्] ↩︎
-
“°नावधारितव्य°” [च्] ↩︎
-
“°प्रमाणत्वात्” [च्] ↩︎
-
“°मित्यर्थः । प्रतिपत्ति°” [च्] ↩︎
-
“विनेति । अत°” [च्] ↩︎
-
“°र्थमवग°” [च्] ↩︎
-
“ग्राहिणश्च मानस° तादृशादृष्ट°” [ज्] ↩︎
-
“°दन्यत्प्रा°” [च्] ↩︎
-
“°पन्नात् प्रवृत्तौ प्रमाणतो°” [च्] ↩︎
-
“र्थ्यानन्तर°” [च्] ↩︎
-
“ततः तत्स्म°” [ज्] ↩︎
-
“तात्पर्यं च” [च्] ↩︎
-
“तात्पर्यमाह” [च्] ↩︎
-
“°न्तवर्तिनां” [च्] ↩︎
-
“प्रवृत्तिभिः” [च्] ↩︎
-
“°यसप्राप्तेः कारणत्वात्” [च्] ↩︎
-
“न्यायो” [च्] ↩︎
-
“न त्व°” [च्] ↩︎
-
“चार्थ्यमान°” [च्] ↩︎
-
“ततः” [ज्] ↩︎
-
“कस्मात्” [च्] ↩︎
-
“तत्रावयवेषु” [च्] ↩︎
-
“निमित्तपञ्चमीति पतितम्” [च्] ↩︎
-
“°देव परमा°” [च्] ↩︎
-
“परमार्थत्वम्” [च्] ↩︎
-
“स्वमनुमा°” [च्] ↩︎
-
“°त्तिरूपम्” [ज्] ↩︎
-
“घटोऽस्ति नास्ति” [च्] ↩︎
-
“स्यात्” [ज्] ↩︎
-
“स्वलक्षणगोचरत्वम्” [ज्] ↩︎
-
“विभजते” [च्] ↩︎
-
“यज्जनित°” [च्] ↩︎
-
“°कारणलब्धजन्मा°” [च्] ↩︎
-
“प्रत्यक्षका°” [च्] ↩︎
-
“अन्यथा प्रत्य°” [ज्] ↩︎
-
“तदर्थं° चक्षुस्त्वक् चाभ्युपेते” [च्] ↩︎
-
“अत्र चेति नास्ति” [च्] ↩︎
-
मीमांसकाः ↩︎
-
“°तार्थबोधनं°” [ज्] ↩︎
-
सौत्रान्तिकाः ↩︎
-
वैभाषिकादयः ↩︎
-
नैयायिकादयः । ↩︎
-
“वा” [ज्] ↩︎
-
“वेति नास्ति” [च्] ↩︎
-
“°र्षादिना” [च्] ↩︎
-
“व्रश्चनः । यथा वा यज°” [च्] ↩︎
-
“चायमिति नास्ति” [च्] ↩︎
-
“प्रमेये” [च्] ↩︎
-
“चैतत्तथा” [च्] ↩︎
-
“°पमेव” [च्] ↩︎
-
“क्रियायां कारणम्” [च्] ↩︎
-
“°भावो हि फलं प्रधानं” [च्] ↩︎
-
“°निपातने” [च्] ↩︎
-
“°स्पन्दजन्मनावयवविभागं” [च्] ↩︎
-
“°वान्तरव्या°” [च्] ↩︎
-
“°कारिसमव°” [ज्] ↩︎
-
“°वे प्रवृ°” [च्] ↩︎
-
“°रित्यप्र°” [च्] ↩︎
-
“°तमे सम्प्र°” [ज्] ↩︎
-
“°मप्यप्र°” [च्] ↩︎
-
“सह प्रमो° शयः ।” [च्] ↩︎
-
“इतिक°” [च्] ↩︎
-
“कारणादि°” [च्] ↩︎
-
“°ष्वसाधार°” [च्] ↩︎
-
“क्षित इति” [ज्] ↩︎
-
“संयोगः सर्व°” [च्] ↩︎
-
“°नार्थ्यं” [ज्] ↩︎
-
“समर्थस्यापि” [च्] ↩︎
-
“°वत्त्वं प्रमापयति” [च्] ↩︎
-
“°माण ग्रहणस्येत्याद्यर्थप्रतिपत्तेरित्यन्तो भागो भ्रष्टः” [ज्] ↩︎
-
“°दर्यमाण°” [ज्] ↩︎
-
“जायमान°” [च्] ↩︎
-
“वृत्तिसा°” [च्] ↩︎
-
“पदेन सर्व°” [च्] ↩︎
-
“°राभावात्” [ज्] ↩︎
-
“नार्यते” [ज्] ↩︎
-
“अनुसन्धिवाक्यं” [च्] ↩︎
-
“°दिति हेतुः” [च्] ↩︎
-
“°मस्मद्व्या°” [च्] ↩︎
-
न्या° सू° ३.२.१०-७ ↩︎
-
“भावानां इति नास्ति” [च्] ↩︎
-
“°स्यैवार्थ उच्यते” [च्] ↩︎
-
“यत्” [च्] ↩︎
-
“°र्धारितमेक°” [ज्] ↩︎
-
“परिहाराय” [च्] ↩︎
-
“°पत्त्यव्यभि°” [च्] ↩︎
-
“सामान्याद्” [च्] ↩︎
-
“त्रिवर्गव्यभि°” [च्] ↩︎
-
“तत्रास्य” [च्] ↩︎
-
“प्रमातृत्वोप°” [च्] ↩︎
-
“पूर्वभाव्यु°” [ज्] ↩︎
-
“कृत्वोत्तर°” [च्] ↩︎
-
“°जन्यसुखादि” [च्] ↩︎
-
“ऋत्विक्षु सूपकारादिषु” [ज्] ↩︎
-
“°चारात्” [च्] ↩︎
-
“तत्सर्वं” [च्] ↩︎
-
“°क्रियाया इति” [च्] ↩︎
-
“वेति नास्ति” [ज्] ↩︎
-
“दृष्टे कुत°” [च्] ↩︎
-
“इति” [च्] ↩︎
-
“चत्वारीत्या°” [ज्] ↩︎
-
“°कृतम्” [च्] ↩︎
-
“तत्रैव” [च्] , १.१.९ सूत्रं दृष्टव्यम् ↩︎
-
“तदिति नास्ति” [च्] ↩︎
-
“°प्रतिपादयिष्यता” [च्] ↩︎
-
“°वरकं” [च्] ↩︎
-
“°गोपालम्” [च्] ↩︎
-
“°योग्यं” [च्] ↩︎
-
“भावद्वयात्” [च्] ↩︎
-
“°वगम्यते” [ज्] ↩︎
-
“°ष्वपि तत्र” [च्] ↩︎
-
“स्पष्टावधारणे” [च्] ↩︎
-
“सन्तः” [च्] ↩︎
-
“षोडशधा लक्षिता” [च्] ↩︎
-
“°स्योत्तरपदा°” [ज्] ↩︎
-
“रिति हि°” [च्] ↩︎
-
“अभेदेपीषु°” [ज्] ↩︎
-
“°षेधयोर्भावो” [च्] ↩︎
-
“प्रसज्यते” [च्] ↩︎
-
“प्रवृत्त्य°” [च्] ↩︎
-
३।२।१०-१७ ↩︎
-
“°भिमतं” [ज्] ↩︎
-
“न पदार्थ°” [च्] ↩︎
-
“तदतेत्” [च्] ↩︎
-
“साक्षात्” [च्] ↩︎
-
“°विधं” [च्] ↩︎
-
“तद्व्या°” [ज्] ↩︎
-
“°स्याश्च यो” [च्] ↩︎
-
“°तोयमनि°” [च्] ↩︎
-
“प्रत्यक्षेण करिणि” [च्] ↩︎
-
“विषयेण प्रत्यय°” [च्] ↩︎
-
“फलज्ञानस्य” [च्] ↩︎
-
“°तयेति सु°” [ज्] ↩︎
-
“°जने” [च्] ↩︎
-
“°तत् प्रयो°” [ज्] ↩︎
-
“प्रत्यया च प्रत्य°” [ज्] ↩︎
-
“तत्प्रदर्श°” [च्] ↩︎
-
“°मेव दर्शनं प्रतिरूपयति दर्शनमिव” [च्] ↩︎
-
“°मानः न प्रत्ययाय प्रा°” [च्] ↩︎
-
“°विरोधोदा°” [च्] ↩︎
-
“°भासत्वमिति” [च्] ↩︎
-
“पक्ष्यमाणत्वेन” [च्] ↩︎
-
“°साध्यधर्मविरुद्धस्य” [च्] ↩︎
-
“°र्मस्य पक्षधर्मत्वं न चैकान्तिकम्” [च्] ↩︎
-
“वक्ष्यते” [च्] ↩︎
-
“°चर्ये इवाध्ययन°” [ज्] ↩︎
-
“उष्ण इति नास्ति” [च्] ↩︎
-
“तस्य” [च्] ↩︎
-
गौतमधर्मसूत्रे १। ९। ४ ↩︎
-
“निषेधार्थः” [च्] ↩︎
-
अध्याय इत्यर्थः ↩︎
-
“°मानसहा°” [ज्] ↩︎
-
“तदा स्वागमार्थतात्पर्यावस्थानात्” [च्] ↩︎
-
“शाक्यमिल्लका°” [च्] ↩︎
-
“°षेधात्” [ज्] ↩︎
-
“शेषे प्रतिषेधविषयम्” [च्] ↩︎
-
“°तीति न वामे°” [ज्] ↩︎
-
“त्वया वक्त°” [च्] ↩︎
-
“बाधकौ न त्वनु°” [च्] ↩︎
-
“तद्बलवत् पश्चादनु°” [च्] ↩︎
-
“घटवदित्यस्यानु°” [च्] ↩︎
-
“°कारालीकादिरिति” [च्] ↩︎
-
“निषिध्यता श्रवणमिन्द्रियं तत्” [च्] ↩︎
-
“°सम्पन्नयोः” [च्] ↩︎
-
“तत्स्मृत्य°” [च्] ↩︎
-
“वाच्यत्वे” [च्] ↩︎
-
“नोपमानं न” [च्] ↩︎
-
“°गमयोर्विरोधाभिधाना°” [च्] ↩︎
-
“न खलु स्थाप्य°” [च्] ↩︎
-
“तन्मात्रेण” [ज्] ↩︎
-
“°नास्य स्वप°” [च्] ↩︎
-
“सहते” [ज्] ↩︎
-
“पक्षोऽनवस्थापनात्” [च्] ↩︎
-
“°पातिदूष्य°” [च्] ↩︎
-
“अहो वैतण्डिको जाने अनेन पञ्चावयववाक्येन°” [च्] ↩︎
-
“°नान्तरीयकं स्वदूषणमपि प्रति°” [च्] ↩︎
-
“प्रमेयपक्षपा°” [च्] ↩︎
-
“क्वचिल्लौकिकानां क्व°” [च्] ↩︎
-
“°प्रसङ्ग इति” [च्] ↩︎
-
“दृष्टान्तः सं°” [च्] ↩︎
-
“शब्दार्थ°” [च्] ↩︎
-
“°पयतीत्यभिप्रायः” [च्] ↩︎
-
“°तव्ये, एवमेक…विवक्षितार्थे” [च्] ↩︎
-
“तदनेन” [ज्] ↩︎
-
“पदश्रवणे” [च्] ↩︎
-
“पूर्वपूर्वानु°” [च्] ↩︎
-
“स्वजातेन” [च्] ↩︎
-
“°बोधन” [ज्] ↩︎
-
“°बोधने°” [ज्] ↩︎
-
“°तासन्निधानम्” [च्] ↩︎
-
“°देन पदा°” [च्] ↩︎
-
“पृच्छति” [च्] ↩︎
-
“पदार्थसं°” [च्] ↩︎
-
“चागमानुसन्धानेन” [च्] ↩︎
-
“°रूढेन धर्मधर्मिन्यायेनेति” [ज्] ↩︎
-
“खलु हेतुवचनमनुमानप्रतिपादकं विषय°” [च्] ↩︎
-
“°प्रत्ययहेतुः” [ज्] ↩︎
-
“स सुगम एव हेतुरित्यु°” [ज्] ↩︎
-
“यत्तु” [च्] ↩︎
-
“कः पुन…क इत्यर्थ इति पतितम्” [ज्] ↩︎
-
“वास्तीति” [च्] ↩︎
-
“°वयवस्य” [ज्] ↩︎
-
“एकशः” [ज्] ↩︎
-
“°मेकशोऽपि” [ज्] ↩︎
-
“यदि प्रमाणान्तरमिति । समाधत्ते इति भागो भ्रष्टः” [ज्] ↩︎
-
“किमिति” [च्] ↩︎
-
“धर्मविशिष्टो धर्मी” [ज्] ↩︎
-
“°देनेवा°” [ज्] ↩︎
-
“तद्दर्शयति” [च्] ↩︎
-
“प्रयुक्तम्” [च्] ↩︎
-
“°निश्चयाय कल्पते” [ज्] ↩︎
-
“तेन तर्केण” [च्] ↩︎
-
“साध्यो न युक्तः” [ज्] ↩︎
-
“प्रवर्तमानं” [च्] ↩︎
-
“स तर्कः” [ज्] ↩︎
-
“वेदाद् भेदः” [च्] ↩︎
-
“°ष्टाभिः शरीरे°” [ज्] ↩︎
-
“सर्वदैव दुःखिना भाव्यमिति” [च्] ↩︎
-
“तद्व्यवस्थानं न नित्य°” [च्] ↩︎
-
“स्थातव्यं याव°” [च्] ↩︎
-
“सर्वसम°” [ज्] ↩︎
-
“मा भूत्, पृथिव्यादिगतं” [च्] ↩︎
-
“यद्येवमापात°” [ज्] ↩︎
-
“निर्णयः फलमिति” [च्] ↩︎
-
“गोचरेण निर्णयेन” [ज्] ↩︎
-
“°योत्पत्तेः” [ज्] ↩︎
-
“प्रतिपाद°” [च्] ↩︎
-
“°भेदाद्वेति” [च्] ↩︎
-
“कुतः” [च्] ↩︎
-
“देशनीयत्वा°” [च्] ↩︎
-
“°दिस्यपि” [च्] ↩︎
-
“वाक्यमिदं भ्रष्टम्” [च्] ↩︎
-
“देशनीया” [च्] ↩︎
-
भाष्यकार इति शेषः । ↩︎
-
“तथा चापृ°” [च्] ↩︎
-
“°धर्मसमा°” [ज्] ↩︎
-
“तावन्मा°” [च्] ↩︎
-
“तस्य सङ्ग्र°” [च्] ↩︎
-
“°र्थ इति भाष्यावयवार्थं” [च्] ↩︎
-
“°र्थमपि” [च्] ↩︎
-
“प्रयोजनयुक्तः” [च्] ↩︎
-
“कुत इति नास्ति” [ज्] ↩︎
-
“अथ तत्वे” [च्] ↩︎
-
“°मृगयादि°” [च्] ↩︎
-
“°रप्यवग°” [च्] ↩︎
-
“यस्मात्” [च्] ↩︎
-
“यथास्वं” [च्] ↩︎
-
“°गम्या एव वार्ता°” [च्] ↩︎
-
“°गम्येत” [च्] ↩︎
-
“गम्येत” [च्] ↩︎
-
“कुर्वन्तीति” [च्] ↩︎
-
“उपयुज्यते” [ज्] ↩︎
-
“तथाप्यात्माप्यसाधारणात्मादिरूप°” [च्] ↩︎
-
“क्रमप्राप्ताङ्ग°” [च्] ↩︎
-
“अनुपहतम्” [ज्] ↩︎
-
“तदितरेषां पार°” [च्] ↩︎
-
“°नादिहेतुत्वं” [च्] ↩︎
-
“वर्तिष्यते” [ज्] ↩︎
-
“°रवकाशः” [च्] ↩︎
-
“°दयथार्थदर्श°” [च्] ↩︎
-
“प्रयोजनानभि°” [ज्] ↩︎
-
“वातपुत्रीयं वा शास्त्रं स्यात्” [च्] ↩︎
-
“°श्रेयसाधिगम इति” [च्] ↩︎
-
“°भिसन्धिः” [च्] ↩︎
-
“परीक्षा न्यायेनैवावस्था°” [च्] ↩︎
-
“°वर्गज्ञापनेना°” [ज्] ↩︎
-
“ज्ञापनस्यो°” [ज्] ↩︎
-
“विपर्याससं°” [ज्] ↩︎
-
“साक्षात्कारं” [ज्] ↩︎
-
“विपर्यासवास°” [ज्] ↩︎
-
“प्रमाम्” [च्] ↩︎
-
“ध्यानार्चितादि°” [च्] ↩︎
-
“तज्जा या प्रती°” [च्] ↩︎
-
“वाभुक्तस्य वाक्षीयमाणत्वात्” [च्] ↩︎
-
“वाभुक्त°” [च्] ↩︎
-
“°वधित्वप्रदर्शकम्” [च्] ↩︎
-
“°च्चानियतनियतफला°” [च्] ↩︎
-
“°न्त्यप्रभावत्वात्” [च्] ↩︎
-
“क्षेष्यतीति” [ज्] ↩︎
-
“समाधिप्र°” [च्] ↩︎
-
“तावद प्र°” [च्] ↩︎
-
“मुत्पत्तेः” [च्] ↩︎
-
“°द्विषंश्च” [च्] ↩︎
-
“अनुमन्यते” [च्] ↩︎
-
“तृष्यति” [ज्] ↩︎
-
“खलु इत्यत्र” [च्] ↩︎
-
“प्रयत्नश्च” [च्] ↩︎
-
“°राभावादप°” [ज्] ↩︎
-
“तमेतं” [च्] ↩︎
-
“सूत्रकारेण” [च्] ↩︎
-
“°नीय एवं वरं” [च्] ↩︎
-
“°धानेन” [च्] ↩︎
-
“°सम्बन्धिनं” [च्] ↩︎
-
“वृत्तिशब्दार्थः” [च्] ↩︎
-
“विषयशब्दार्थः” [च्] ↩︎
-
“°भवन्नसम्बन्धा°” [ज्] ↩︎
-
“पित्तस्य तिक्तत्वमनु°” [च्] ↩︎
-
“तिक्तम°” [च्] ↩︎
-
“°तिप्रसङ्ग°” [ज्] ↩︎
-
“सादृश्य°” [ज्] ↩︎
-
“ह्ययं” [च्] ↩︎
-
“°र्हितत्वादात्म…वुपयुज्यते” [च्] ↩︎
-
“तत” [च्] ↩︎
-
“विपर्यास°” [ज्] ↩︎
-
आत्मख्यातिवादिनो योगाचाराः ↩︎
-
“स्वाकारं बाह्य°” [च्] ↩︎
-
असत्ख्यातिवादिनो माध्यमिकाः ↩︎
-
अनिर्वचनीयख्यातिवादिनोवेदान्तिनः ↩︎
-
अख्यातिवादिनः प्राभाकराः ↩︎
-
“°ख्यातिरिति तु” [च्] ↩︎
-
नैयायिकाः । ↩︎
-
“वैज्ञानिक°” [च्] ↩︎
-
“°चयतु भवान” [च्] ↩︎
-
“बाधकस्य” [ज्] ↩︎
-
“न त्वस्या तन्नि°” [च्] ↩︎
-
“त्वनुपलब्ध°” [च्] ↩︎
-
४.२.३५ ↩︎
-
“°नीयत्वं” [च्] ↩︎
-
“°मुच्यते” [ज्] ↩︎
-
“°रात्मना” [च्] ↩︎
-
“पक्षः” [ज्] ↩︎
-
“°मसदाल°” [च्] ↩︎
-
“इतः पत्राणि खण्डितानि” [ज्] ↩︎
-
“सामान्यादिबुद्धिर्नो न बहिः” [ज्] ↩︎
-
“तद्बाधश्च° °ष्यते” [च्] द्रः ४.२.३३-५ ↩︎
-
“°धतीति” [ज्] ↩︎
-
“दुष्टं” [ज्] ↩︎
-
“कुटजबीजं कुटज°” [च्] ↩︎
-
“दोषात्” [च्] ↩︎
-
“बहिर्निर्गच्छन्न°” [च्] ↩︎
-
“°हारव्यवधानाच्च” [च्] ↩︎
-
“°तयाऽगृह्णन्” [ज्] ↩︎
-
“तत्र पुरोवर्तिनि” [च्] ↩︎
-
“°दभेदज्ञान°” [च्] ↩︎
-
“ग्रहस्य” [ज्] ↩︎
-
अत्र खण्डितपत्रे जपुस्तके पाठभेदः—विवेकाग्रहवदविवेकाग्रहोऽपि तत्परिपन्थी विद्यत इति कुतोऽन्यतरनि…ग्रह उपयुज्यते । न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः । तत् सिद्धम् ↩︎
-
“तथा चैतद् न तथा चैतत्” [च्] ↩︎
-
“शुक्तिका नालम्ब°” [च्] ↩︎
-
“°स्मिन् सिद्ध°” [ज्] ↩︎
-
“°भासमानत्वम°” [च्] ↩︎
-
“°पदर्शितम्” [च्] ↩︎
-
“उपपादितम्” [च्] ↩︎
-
“तापपर्यन्तेन” [ज्] ↩︎
-
“विषयः । ते न” [च्] ↩︎
-
“गतं” [ज्] ↩︎
-
“°मदर्शय°” [च्] ↩︎
-
“चोदयति” [ज्] ↩︎
-
“जायते” [च्] ↩︎
-
“पूर्वमुत्पन्नं भवतीति पूर्वं बाधते” [च्] ↩︎
-
“°तीयते” [ज्] ↩︎
-
“°गमजेन” [च्] ↩︎
-
“तत्त्वे चेत°” [ज्] ↩︎
-
“स्फुटतरार°” [च्] ↩︎
-
“तु तत्त्वध्यान°” [ज्] ↩︎
-
“तद्वासनया शक्या” [च्] ↩︎
-
“°स्कारजाः, न यावत् तत्त्वविवेचनया यावद्भूतमर्थं” [च्] ↩︎
-
“निरुपद्रवभू°” [च्] ↩︎
-
“°सम्प्रतिपत्तिम्” [च्] ↩︎
-
“विभिद्योपा°” [च्] ↩︎
-
द्रः महाभाष्ये १।१।३९; ४।१।१; ६।१।१३ ↩︎
-
“°योः परस्परस्याविना°” [ज्] ↩︎
-
“न तु पेक्षयेति भ्रष्टम्” [च्] ↩︎
-
“°दिति च” [ज्] ↩︎
-
“प्रमाणादयस्तत्त्वतो” [ज्] ↩︎
-
“°ज्ञाननिवृत्ति°” [च्] ↩︎
-
“°विधतयैव” [च्] ↩︎
-
“विभिद्य लक्षणं” [च्] ↩︎
-
“तदेव” [च्] ↩︎
-
“°न्यत्तदुप°” [च्] ↩︎
-
“प्रमाणलक्षण°” [ज्] ↩︎
-
“तत् स्थले” [च्] ↩︎
-
“विभक्तानां प्रतिपादनम् न च” [च्] ↩︎
-
“उद्दिष्टविभा°” [च्] ↩︎
-
“°र्भावात्” [च्] ↩︎
-
“तदेव चापे°” [च्] ↩︎
-
“अयं च सूत्रविवक्षायामिति” [च्] ↩︎
-
“°पन्नालं गति°” [ज्] ↩︎
-
“°प्रयत्नेन” [च्] ↩︎
-
“°कारिज्ञानं” [च्] ↩︎
-
“तत्तोया°” [च्] ↩︎
-
“अथ च तज्जातीये” [च्] ↩︎
-
“अनुमिमानः स्वरूपं तथा°” [च्] ↩︎
-
“°पादित्सुः समीहमानः” [च्] ↩︎
-
“तत्तत्कार्यसा°” [च्] ↩︎
-
“°रस्माभिरभ्यु°” [च्] ↩︎
-
“°समुत्पादव्यञ्ज°” [च्] ↩︎
-
“°रूपमात्रदर्शनात्” [च्] ↩︎
-
“°नुमानम् ।” [च्] ↩︎
-
“व्युत्पत्तिं दर्शयति” [च्] ↩︎
-
“°त्पत्तिपरं भाष्यं” [च्] ↩︎
-
“°तिर्विभिन्ना” [च्] ↩︎
-
“°तेरितरत्वेन” [ज्] ↩︎
-
“निरस्ता” [च्] ↩︎
-
“शब्दे°” [च्] ↩︎
-
“इति । धर्मिणः” [च्] ↩︎
-
“अर्यत” [ज्] ↩︎
-
“°णार्यते” [ज्] ↩︎
-
“°क्षमास्थी” [च्] ↩︎
-
“तत्रैव तस्य प्रामाण्यात् । अथ प्र°” [च्] ↩︎
-
“तत्” [च्] ↩︎
-
“तज्ज्ञानस्य” [च्] ↩︎
-
“यदा वाक्यार्थ” [ज्] ↩︎
-
“°नुमानपूर्व°” [च्] ↩︎
-
“तदेक°” [ज्] ↩︎
-
“क्लिष्टोऽपि शक्तो” [च्] ↩︎
-
“°मित्तां” [च्] ↩︎
-
“सहेतुमाह” [च्] ↩︎
-
“अभिम°” [च्] ↩︎
-
“°वतारयति” [च्] ↩︎
-
“हेतुमा°” [च्] ↩︎
-
“°तीतिरूपं” [च्] ↩︎
-
“सत्तया” [च्] ↩︎
-
“रूपमुपलभ्यते” [च्] ↩︎
-
“भवतीति धूमा°” [ज्] ↩︎
-
“°स्थाया” [च्] ↩︎
-
“चिन्त्यत” [च्] ↩︎
-
“°ण्यमते°” [च्] ↩︎
-
“अर्यमाणतया” [ज्] ↩︎
-
“ब्रूयात्” [च्] ↩︎
-
सू। २।२।३५ ↩︎
-
“येनान्य°” [च्] ↩︎
-
“प्रतीयेते” [च्] ↩︎
-
“यदिन्द्रियसम्बद्धं” [च्] ↩︎
-
“परित्यागेन” [ज्] ↩︎
-
“°ज्ञान°”ओम् [ज्] ↩︎
-
“°करण°”ओम् [च्] ↩︎
-
“कारणं”ओम् [च्] ↩︎
-
द्रः मनसश्चेन्द्रियभावात्-भाष्ये १। १। ४। ↩︎
-
“°पीन्द्रियेण” [च्] ↩︎
-
“यत्र चा°” [ज्] ↩︎
-
“विशिष्टं” [ज्] ↩︎
-
“°णोक्तम्” [च्] ↩︎
-
“यत” [ज्] ↩︎
-
“रूपं चक्षाणः चक्षु°” [च्] ↩︎
-
“कुर्वन्ति” [च्] ↩︎
-
“क्षिप्रतायामविशेषः” [च्] ↩︎
-
“तत्र चिकित्सादिप्रयोगात्” [च्] ↩︎
-
“विविक्ता° तेजोऽवयविद्रव्या°” [च्] ↩︎
-
“अयम्”ओम् [ज्] ↩︎
-
“शक्यम्” [ज्] ↩︎
-
“बोधोऽव°”ओम् [च्] ↩︎
-
“स स्यात्” [च्] ↩︎
-
“सत्”ओम् [ज्] ↩︎
-
“मणिम्” [च्] ↩︎
-
“पुनः”ओम् [च्] ↩︎
-
“°भावेन न भवतीति” [च्] ↩︎
-
“आवेदित°” [च्] ↩︎
-
“तदधिष्ठानानु°” [च्] ↩︎
-
“हि निर्गताप्य°” [च्] ↩︎
-
“चक्षुःसन्ततिः” [च्] ↩︎
-
“वात्र” [च्] ↩︎
-
“°दित्युक्त°” [च्] ↩︎
-
“°कारणत्वे” [च्] ↩︎
-
पदार्थधर्मसङ्ग्रहे प्रशस्तपादीये सुखलक्षणम् ↩︎
-
“वृक्षादि°” [च्] ↩︎
-
“कथयति” [च्] ↩︎
-
“°वर्तिसामानाधि°” [च्] ↩︎
-
“अयं”ओम् [च्] ↩︎
-
“वाच्यपरो न स्वपरः” [च्] ↩︎
-
“शब्द°”ओम् [च्] ↩︎
-
“°र्थस्य” [च्] ↩︎
-
“तस्मान्न” [च्] ↩︎
-
“तन्निराकरणा°” [च्] ↩︎
-
“परोक्षस्योप°” [च्] ↩︎
-
“तावत्”ओम् [ज्] ↩︎
-
“इत्यतः” [च्] ↩︎
-
“°मापयितुम्” [च्] ↩︎
-
“°धर्मतं” [ज्] ↩︎
-
“वानु°” [च्] ↩︎
-
“°पक्षं” [ज्] ↩︎
-
“चरतीति” [च्] ↩︎
-
“च ” ड़ोर् “एव” [च्] ↩︎
-
“°चारेण” [च्] ↩︎
-
“परास्तम्” [च्] ↩︎
-
“°प्रत्यक्षतया करणम्” [च्] ↩︎
-
“°तिस्फुटतरत्वात्” [ज्] ↩︎
-
“यथामानं” [च्] ↩︎
-
“अर्थजन्मा°” [च्] ↩︎
-
“प्रसङ्गसाधनं विरु°” [ज्] ↩︎
-
“य एव तर्हि कृत°” [च्] ↩︎
-
“°सतो विज्ञानस्य” [च्] ↩︎
-
“अलीकत्वात्”ओम् [ज्] ↩︎
-
“°पलब्धे च न सं°” [च्] ↩︎
-
“°हुर्निरुक्तकाराः” [च्] ↩︎
-
“तथा तथा” [च्] ↩︎
-
“उत्तरस्य”ओम् [च्] ↩︎
-
“द्रव्येण जात्यादीनामुप°” [च्] ↩︎
-
“द्रव्यत्वादावपि” [च्] ↩︎
-
प्र। वा। ३। ५२ ↩︎
-
द्रः प्र। वा। ३। ५४ ↩︎
-
“°न्नदृष्टेऽपि” [च्] ↩︎
-
“गाहते” [च्] ↩︎
-
“प्रवर्तयितुम्” [च्] ↩︎
-
प्र। वा। २। १४५ ↩︎
-
“गुणक्रिया°” [च्] ↩︎
-
“°भासने” [च्] ↩︎
-
“°दवत् तद्वेदने°” [च्] ↩︎
-
“विकल्पक°” [ज्] ↩︎
-
“ष्यते च” [च्] ↩︎
-
“°ज्ञानग्राह्यता” [च्] ↩︎
-
“सङ्केतसमय°” [च्] ↩︎
-
“सञ्ज्ञिनः सा तटस्था हि” [च्] ↩︎
-
“एकस्याः” [च्] ↩︎
-
द्रः ३। २। १०-७ ↩︎
-
“गन्धबुद्ध्यन°” [च्] ↩︎
-
“रूपविज्ञानं तत्र” [च्] ↩︎
-
“न न त्वि” [च्] ↩︎
-
“नन्वसम्बन्धे” [च्] ↩︎
-
“तेन तावद्” [ज्] ↩︎
-
“परोक्षम्” [च्] ↩︎
-
“यदि न…द्येत भावो पुनः”ओम् [ज्] ↩︎
-
“एष” [ज्] “पुस्तकपाठः”, [च्] “पुस्तके तु° त्म्यं नानुपलभ्यं तेन इति । अस्याधारभूते खपुस्तके” [ज्] पुस्तकसंवादः । ↩︎ ↩︎
-
“च” [ज्] ↩︎
-
“पूर्वापरावमर्शा°” [ज्] ↩︎
-
“वृत्तयः” [च्] ↩︎
-
“नाना” [च्] ↩︎
-
“°ज्ञानयोः” [च्] ↩︎
-
द्रः ३। २। १० प्रभृतिटीका ↩︎
-
“विषयकं न” [च्] ↩︎
-
“°ष्याकारः” [च्] ↩︎
-
“बोद्धावगम्यते” [च्] ↩︎
-
“कल्पयेत्” [च्] ↩︎
-
द्रः ३।२।१७ टी ↩︎
-
“°करणे” [च्] ↩︎
-
“यत्तत्राव°” [च्] ↩︎
-
“सामान्य°” [च्] ↩︎
-
“°वाचकः…संशयज्ञान°”ओम् [च्] ↩︎
-
“°न्द्रियार्थव्या°” [च्] ↩︎
-
“तत्पूर्वव्यव°” [ज्] ↩︎
-
“°शेषाभ्यनु°” [च्] ↩︎
-
“तन्नास्तीति” [च्] ↩︎
-
“तत् सिंहावलोकितेन” [च्] ↩︎
-
“वक्तुं”ओम् [च्] ↩︎
-
“°कारणं” [च्] ↩︎
-
“°शक्यं तज्ज्ञानं” [च्] ↩︎
-
“मानान्तर°” [च्] ↩︎
-
“°मेव स्याद्” [च्] ↩︎
-
“°जं ज्ञानं यन्निवा° °पदम् । कैश्चिदुक्तम्” [च्] ↩︎
-
“व्यवसायात्मकपदेन…तदवरोधार्थेन”ओम् [च्] ↩︎
-
“व्यपदेश्यमानं शुक्तिज्ञानं न प्रत्यक्षं व्यपदेशा°” [च्] ↩︎
-
“शुक्तिरूपाज्जायमानं रजतेन” [च्] ↩︎
-
“°देशकादनुत्पत्तेः” [ज्] ↩︎
-
“विशेषणं च तत इति”ओम् [च्] ↩︎
-
“°प्यस्ति दोषः” [च्] ↩︎
-
“च्छेदे तदर्थे हि” [च्] ↩︎
-
“°द्विपक्षाच्च” [ज्] ↩︎
-
“सम्प्रति सतो” [च्] ↩︎
-
“कारणत्वाभावात्” [च्] ↩︎
-
“तन्निवारणार्थं” [च्] ↩︎
-
“संवृत्ति°” [च्] ↩︎
-
“प्रमितिः” [च्] ↩︎
-
“तद्युक्तम्” [च्] ↩︎
-
“°विरहलक्षणा” [ज्] ↩︎
-
“चेत्” [च्] ↩︎
-
“द्रव्येण ज्ञानत्वं दण्डीति” [च्] ↩︎
-
“कल्पनाहितत्व°” [च्] ↩︎
-
“अथ नेति”ओम् [ज्] ↩︎
-
“ततो”ओम् [च्] ↩︎
-
“यदिदं चेति” [च्] ↩︎
-
२.१.३७ ↩︎
-
“अथ”ओम् [च्] ↩︎
-
“°व्यापनात्” [च्] ↩︎
-
“तत्तु” [च्] ↩︎
-
“यदेतत्तद°” [च्] ↩︎
-
“तु घटयिष्यतीति” [च्] ↩︎
-
“बुभुत्सावतो…इत्युक्तम्”ओम् [च्] ↩︎
-
“न दर्शनादर्शनमात्रात्” [ज्] ↩︎
-
प्र। वा। ३। ३० ↩︎
-
“तत्रापि संवा°” [च्] ↩︎
-
“च शङ्कायामभावात्” [च्] ↩︎
-
“निमित्तं” [च्] ↩︎
-
“न” [च्] ↩︎
-
“तथा हि वह्न्य°” [ज्] ↩︎
-
“नास्ति”ओम् [ज्] ↩︎
-
“नैव°”ओन्ल्य् [च्] , “कार्यावधारणं” [ज्] ↩︎
-
प्र। वा। ३। ३४। ↩︎
-
“तथाग्रे” [च्] ↩︎
-
प्र। वा। ३। ८ ↩︎
-
एतावताप्यस्य [क्] ↩︎
-
“कार्यं हेतोः” [च्] ↩︎
-
“सा…मिति” [च्] ↩︎
-
“प्रागप्यनु°” [च्] ↩︎
-
“मभूदिति” [च्] ↩︎
-
“प्रवृत्ति°” [च्] ↩︎
-
स्वलक्षण° च्क् ↩︎
-
श्लो। वा। प्रत्यक्ष° १३३ ↩︎
-
“°युक्तं यथा हि” [च्] ↩︎
-
“सर्वमात्राव°” [च्] ↩︎
-
द्रः वै। सू। ३। १। १२ ↩︎
-
तदेव, ३।१।११ ↩︎
-
तदेव, ३।१।१३ ↩︎
-
तदेव, ३।१।१४ ↩︎
-
द्रः व्याप्तिनिर्णयः पृः १०९ ↩︎
-
“सम्बन्धस्य”ओम् [च्] ↩︎
-
“नियामकाभावादिति” [च्] ↩︎
-
“लौकिक°” [ज्] ↩︎
-
“उत्तरम—अथा°” [ज्] ↩︎
-
“स्वभावाननु°” [ज्] ↩︎
-
“तद्विभजते”ओम् [च्] ↩︎
-
“°न्धितया °पाद्यतया” [च्] ↩︎
-
“प्रमाणस्येति तद्विवेकः” [च्] ↩︎
-
“°व्यापारत्वे न तन्निमित्तात् कारकत्वादन्य°” [ज्] ↩︎
-
“प्रथमं ज्ञानं” [च्] ↩︎
-
“°रेकात् तत्रभवतो न न्याया°” [च्] ↩︎
-
“निर्णयास्त्विति” [ज्] ↩︎
-
“गौरवात्” [च्] ↩︎
-
“अपि रूपे” [च्] ↩︎
-
“पक्षज्ञानमन्तरेण” [ज्] ↩︎
-
“पक्षधर्मता” [ज्] ↩︎
-
“सामान्यविशेषे घटत्वादौ” [च्] ↩︎
-
“बाह्यप्र°” [च्] ↩︎
-
पृः २८। ५ ↩︎
-
“तर्हि”ओम् [च्] ↩︎
-
“अवृत्ति°” [च्] ↩︎
-
“व्यतिरेको निषिध्यते विधीयते वा” [च्] ↩︎
-
“ननु च निरुपाख्ये च” [ज्] ↩︎
-
“वा हेतुं वा” [ज्] ↩︎
-
“कल्पनाज्ञानगो°” [ज्] ↩︎
-
द्र। १। १। २ ↩︎
-
“हेतु…वा”ओम् [च्] ↩︎
-
“घटादि°” [ज्] ↩︎
-
१।१।३५ ↩︎
-
“दर्शयिष्य°” [च्] ↩︎
-
“°स्थेनाबाधितत्त्व°” [च्] ↩︎
-
“वह्निमत्तां” [च्] ↩︎
-
“अविरले° अत्यन्तावनु°” [ज्] ↩︎
-
“स्वकारणाभिघातादेव स्व°” [च्] ↩︎
-
“तेन” [ज्] ↩︎
-
“सामान्यतोऽत्र” [च्] ↩︎
-
“लक्षितम्” [च्] ↩︎
-
“°दिभिर्व्यभि°” [च्] ↩︎
-
“परावृत्त्य” [च्] ↩︎
-
“°न्यस्य दूषयति” [च्] ↩︎
-
“अनाकालित ? द्र।” [च्] ↩︎
-
“देशान्तर इति” [च्] ↩︎
-
“लिङ्गसम्बन्धः” [च्] ↩︎
-
“भेदानामान°” [च्] ↩︎
-
“भाष्यव्याख्यान” [च्] ↩︎
-
“अन्यतरदर्शनेन” [ज्] ↩︎
-
“अनुगृहीत°” [च्] ↩︎
-
“प्रमीयते” [च्] ↩︎
-
“दृश्यते” [च्] ↩︎
-
“साध्यो” [च्] ↩︎
-
“लिम्पन्नभोमण्डल°” [ज्] ↩︎
-
“°ल्योपहितं” [ज्] ↩︎
-
“°दावसत्त्वात्” [ज्] ↩︎
-
“लब्धधर्मवत्तायां” [च्] ↩︎
-
“सन्दिहते” [ज्] ↩︎
-
“तत्रात्मा” [च्] ↩︎
-
“सामान्यदर्शनम्” [च्] ↩︎
-
“प्रत्ययकारणत्वमात्मनि” [च्] ↩︎
-
“°कर्त्तव्यतां तर्कम्” [च्] ↩︎
-
“प्रमाणसत्त्वात् प्राप्तसम°” [च्] ↩︎
-
“°मिति ।” [च्] ↩︎
-
“तथा चान°” [ज्] ↩︎
-
“°मानश्च” [च्] ↩︎
-
“विधिविषयप्रमाणविषयत्वं” [ज्] ↩︎
-
“°रनित्यत्वनान्तरीयककृत°” [च्] ↩︎
-
“परेषां मते” [च्] ↩︎
-
“त्रिविधलिङ्गदर्शनसि°” [च्] ↩︎
-
“यदवबोधाय” [च्] ↩︎
-
“°मेयस्य सद्भावे” [ज्] ↩︎
-
“गम्यते”ओम् [च्] ↩︎
-
“न तुल्ये” [च्] ↩︎
-
“स्फोरयति—इति ते” [च्] ↩︎
-
“यत्नादिति” [च्] ↩︎
-
“पूर्ववद्” [च्] ↩︎
-
पृ। १३९ ↩︎
-
“यस्य…त्युच्यमाने” [ज्] , ड़्न्। इन् [च्] ↩︎
-
“तत्तुल्यहीनो” [च्] ↩︎
-
“°संयोगप्रतिबध्य°” [च्] ↩︎
-
“न पतन्त्यव°” [च्] ↩︎
-
“नामार्था” [च्] ↩︎
-
“साध्य”ओम् [ज्] ↩︎
-
“°साधने सुख° साधने घटे” [च्] ↩︎
-
“कारकत्वलाभः” [च्] ↩︎
-
“°प्रतिपत्तिं” [ज्] ↩︎
-
“°पदेन” [च्] ↩︎
-
“श्रुतिमयी” [च्] ↩︎
-
“गवयः समा°” [ज्] ↩︎
-
“कस्तत्र”ओम् [च्] ↩︎
-
“महिष्यादि°” [ज्] ↩︎
-
“कञ्चित्” [च्] ↩︎
-
“गवयपिण्डमसौ [च्] , गोसदृशे पिण्डेऽयमसौ” [च्] वर् ↩︎
-
“इत्यवैति” [च्] ↩︎
-
“अपवादवाक्ये” [च्] ↩︎
-
“गवयशब्दवाच्यत्वं” [च्] ↩︎
-
“प्रमाणान्तरम्” [च्] ↩︎
-
“पदमवधारयति” [च्] ↩︎
-
“सञ्ज्ञिनो” [ज्] ↩︎
-
“°अवगमः” [च्] ↩︎
-
“वाक्या° त्वात्”ओम् [च्] ↩︎
-
“च्यः न चादृष्टगो°” [च्] ↩︎
-
“°न्यव्यक्तं” [च्] ↩︎
-
“वा अलसतया…दृष्टस्येति मत्सरितया”इन् [ज्] ओन्ल्य्। ↩︎
-
“अकृपाभ्यासकारिते” [च्] ↩︎
-
“चोक्तस्वरूप°” [च्] ↩︎
-
“करतला…वत्”ओम् [च्] ↩︎
-
“प्रतिपथ°” [च्] ↩︎
-
“आप्तं” [च्] ↩︎
-
“तस्मादिति”ओम् [च्] ↩︎
-
२। १। ६८ ↩︎
-
“असाधारणम्” [च्] ↩︎
-
“वक्ष्यमाणेन…स्वाभिप्रायेण”इन् [ज्] अलोने। ↩︎
-
“भेदेन तद् दृष्टम्” [च्] ↩︎
-
“यद् भेददर्शनमिव” [च्] ↩︎
-
“अपूर्वं” [ज्] ↩︎
-
“क्वचित्” [च्] ↩︎
-
“सत्या” [च्] ↩︎
-
“इत्युपदेशोऽर्थ उच्यते इति आप्त्युपदेशो यस्मात्” [च्] ↩︎
-
“प्रतिपत्तिरागमार्थः” [च्] ↩︎
-
“चागमस्यार्थं प्रत्याययित्वा स्वस्याव्यभिचारित्वम्” [च्] ↩︎
-
“तस्मिंश्चासति” [च्] ↩︎
-
“स्ववक्तुर्ज्ञा°” [च्] ↩︎
-
“विषयस्वर्गयागादि” [च्] ↩︎
-
न्या। द। ३-४ अध्यायौ ↩︎
-
“त एते” [च्] ↩︎
-
“पश्य” [ज्] ↩︎
-
“स्मिन्नर्थे” [च्] ↩︎
-
“केवलेन” [च्] ↩︎
-
“चेत्यनुकर्षणात्” [च्] ↩︎
-
“इत्येवम्” [च्] ↩︎
-
“°भासनं न” [च्] ↩︎
-
“°मद्राक्षं तं पश्यामीति” [च्] ↩︎
-
“ज्ञातरि”ओम् [ज्] ↩︎
-
“न हि रूपेति” [च्] ↩︎
-
“तदेतद्” [च्] ↩︎
-
“सुखहेतुचन्दन°” [च्] ↩︎
-
“°संहतिः” [च्] ↩︎
-
“स्मरामीति” [च्] ↩︎
-
“°दाह तथा° [च्] , बलादाहरति” [ज्] ↩︎
-
“असत् कार्यम्” [च्] ↩︎
-
“भावात्” [च्] ↩︎
-
“तु” [ज्] ↩︎
-
“उभाभ्यां” [च्] ↩︎
-
“नाभ्यां” ओम् [च्] ↩︎
-
“न” ओम् [च्] ↩︎
-
“त्वियं” [च्] ↩︎
-
“न तथा” [च्] ↩︎
-
“°निरासार्थं” [च्] ↩︎
-
“येन प्रागनुभूता” [च्] ↩︎
-
“मम” [च्] ↩︎
-
“परमार्थतः” [ज्] ↩︎
-
तत्वसङ्ग्रहः पृः ८६ ↩︎
-
“स्वगोचरो विकल्पोत्पादन°” [च्] ↩︎
-
“एतत्”ओम् [च्] ↩︎
-
“पारतन्त्र्यं द्रव्येण” [च्] ↩︎
-
“विवेचयति” [च्] ↩︎
-
“°त्वहेतुकानु°” [च्] ↩︎
-
“किं तु” [ज्] ↩︎
-
“शरीरे” [च्] ↩︎
-
“°दित्यादि°” [च्] ↩︎
-
“सा तु” [च्] ↩︎
-
वा° पृः…… ↩︎
-
“वर्णयन्ति” [च्] ↩︎
-
“°मपाकरोति” [च्] ↩︎
-
“°त्वादत” [च्] ↩︎
-
“सत् कारक°” [च्] ↩︎
-
“°साधनत्वे” [ज्] ↩︎
-
“°सम्बन्ध°”ओम् [च्] ↩︎
-
“घ्राणेति” [च्] ↩︎
-
“°व्याख्यान°”ओम् [च्] ↩︎
-
“न घ्राणादिना”ओम् [च्] ↩︎
-
“°वेमादि°”ओम् [च्] ↩︎
-
“घटादिवत्”ओम् [च्] ↩︎
-
“अब्वाय्वादिभ्यः” [च्] ↩︎
-
“व्याख्यातः” [च्] ↩︎
-
“निमित्तानां” ओम् [च्] ↩︎
-
“नेति” ओम् [च्] ↩︎
-
“°समासो न” [च्] ↩︎
-
“निर्वेदायोप°” [च्] ↩︎
-
“इत्यर्थः”ओम् [ज्] ↩︎
-
“ज्ञानेन”ओम् [च्] ↩︎
-
“°विवक्षितम्” [च्] ↩︎
-
“अर्थाः”ओम् [ज्] ↩︎
-
“°भासमानाः” [च्] ↩︎
-
“°मिथ्याप्रत्ययजन्मा” ओम् [ज्] ↩︎
-
“रूपादिव्यतिरेके” [च्] ↩︎
-
“परस्तदव्यति°” [ज्] ↩︎
-
“तेषामष्ट°” [च्] ↩︎
-
“सिद्धिरिति ना°” [ज्] ↩︎
-
“तन्न”ओम् [ज्] ↩︎
-
“तदेतत्तदग्रहे” [ज्] ↩︎
-
“°म्रष्टव्याः” [ज्] ↩︎
-
“°गतविभक्तिः” [च्] ↩︎
-
“बहुत्व”ओम् [ज्] ↩︎
-
“°स्य निवृत्तेः” [च्] ↩︎
-
“°ण्यमपि” [च्] ↩︎
-
द्रः ३.२.९ वा° ↩︎
-
“संयुक्तानां” [च्] ↩︎
-
“अतः”ओम् [च्] ↩︎
-
“सम्बन्धभेदः” [च्] ↩︎
-
“परः”ओम् [ज्] ↩︎
-
“तेनाधि°” [च्] ↩︎
-
“वि°”ओम् [ज्] ↩︎
-
द्रः टीका १। १। ४ ↩︎
-
“°स्य व्यपदेश्यस्य” [च्] ↩︎
-
“°मात्रनिमित्ता” [ज्] ↩︎
-
“तत्”ओम् [ज्] ↩︎
-
“पुष्पयोगगुणयोग°” [ज्] ↩︎
-
“°अपचय°”ओम् [ज्] ↩︎
-
“यावत्सं°” [च्] ↩︎
-
“तस्य च” [च्] ↩︎
-
“°कीलका°” [च्] ↩︎
-
“°स्यासिद्धत्वेन” [च्] ↩︎
-
“°णमात्राभावात्” [ज्] ↩︎
-
“विशेषहेतुः” [च्] ↩︎
-
“इतः” [च्] ↩︎
-
“°ग्रहणमित्य°” [च्] ↩︎
-
“°चेतना” [ज्] ↩︎
-
“इवोपलब्धिः” [च्] ↩︎
-
“°बिम्बमिव” [ज्] ↩︎
-
“°मण्डल°” ओम् [ज्] ↩︎
-
वा। पृः ↩︎
-
“°दिव्यावृ°” [च्] ↩︎
-
“भूदत उक्तम्” [च्] ↩︎
-
“यथा” ओम् [च्] ↩︎
-
“पन्थानं वीक्षते” [ज्] ↩︎
-
“इति ।” [च्] ↩︎
-
“°नावत्त्वम्” [च्] ↩︎
-
१। १। २ ↩︎
-
३। १। १९ ↩︎
-
“°दुःखभोग°” [च्] ↩︎
-
“हृष्यति” [च्] ↩︎
-
“महा°”ओम् [च्] ↩︎
-
“न पुनः” [च्] ↩︎
-
“स्वय° न्ते”ओम् [च्] ↩︎
-
“दुःखं” [च्] ↩︎
-
“°प्यधिकोत्कर्षशालित्वादिफलानां” [च्] ↩︎
-
“उक्तम्” [ज्] ↩︎
-
“°ष्यते” [च्] ↩︎
-
“दुःखमेकं” [च्] ↩︎
-
“°ष्यं व्याचष्टे” [च्] ↩︎
-
टी १। १। १४ ↩︎
-
“भविष्यतीति” [च्] ↩︎
-
“°कत्वेन” [च्] ↩︎
-
“°मित्युक्तम्” [च्] ↩︎
-
°र्थे निवेदयिष्यते; द्रः वा° ४। २। ३४ ↩︎
-
“नित्य° ”ओम् [ज्] “नित्यं” [च्] ↩︎
-
“शरीरादिति” [च्] ↩︎
-
“°रणजनितेयं” [च्] ↩︎
-
“प्रतिकूलं” [च्] ↩︎
-
“दुःख°”ओम् [च्] ↩︎
-
“बोद्ध°” [च्] ↩︎
-
“प्रसक्तस्य” [च्] ↩︎
-
“°न्तरमेव” [च्] ↩︎
-
“°नासत्त्वात्ततः” [च्] ↩︎
-
“°दिति भावः” [च्] ↩︎
-
“°स्यैवोप°” [च्] ↩︎
-
टी ३.२.१०-७ ↩︎
-
“तत्र च” [च्] ↩︎
-
“विमर्श°”ओम् [ज्] ↩︎
-
टी ३२.१३ ↩︎
-
“तु” [च्] ↩︎
-
“°योगि” [च्] ↩︎
-
“उपपत्ति°” [च्] ↩︎
-
“°न्यवद्धर्म°” [च्] ↩︎
-
“पुरोवर्तिनोस्तु” [च्] ↩︎
-
“°न्यज्ञानमभ्य°” [च्] ↩︎
-
“कथं” [च्] ↩︎
-
“हि” [च्] ↩︎
-
“नित्यत्वसं°” [च्] ↩︎
-
“तस्माद°” [च्] ↩︎
-
“°भावोऽव्यव°” [ज्] ↩︎
-
“प्रमाणानां च” [च्] ↩︎
-
“इति च” [च्] ↩︎
-
“आलोक्याथ” [च्] ↩︎
-
“वा। १। १। २३” [च्] ↩︎
-
“तदनेन” [च्] ↩︎
-
“तदेतस्या°” [च्] ↩︎
-
“अभेदप्रत्ययहेतुः” [च्] ↩︎
-
“हेतुर्धर्मोऽनेकधर्मो भेदप्रत्ययहेतुर्वि°” [च्] ↩︎
-
“निर्विभजति” [च्] ↩︎
-
“°त्रयविशेषे सं°” [च्] ↩︎
-
वै। सू। १। १। ८ ↩︎
-
“°कुट्मलेषु” [च्] ↩︎
-
“°दलयोरपि” [च्] ↩︎
-
“विभागविषययौ°” [च्] ↩︎
-
“°निश्चयक्रम°” [च्] ↩︎
-
“°कार्यकारणैकार्थ°” [ज्] ↩︎
-
“°जन्यत्वात्” [च्] ↩︎
-
“तेन साह°” [च्] ↩︎
-
“°मात्रे इत्यर्थः” [ज्] ↩︎
-
“सत्यं सपक्षा°” [च्] ↩︎
-
श्लोक वा° शब्दनित्यताधिकरणम् ३६६ ↩︎
-
“कृतकत्वं प्र°” [च्] ↩︎
-
“सर्वमनुमानमेवमिति” [च्] ↩︎
-
“समावेशाभा°” [च्] ↩︎
-
वा २.२.२२ ↩︎
-
“°प्रमाणसद्भावे” [ज्] ↩︎
-
“°हेतुद्वयसमावेश°” [च्] ↩︎
-
“°संशयहेतुत्वे” [ज्] ↩︎
-
“°स्थायाः” [च्] ↩︎
-
“संशयः” [च्] ↩︎
-
“शब्दो हि” [च्] ↩︎
-
“विजातीयव्यावर्तनाय” [च्] ↩︎
-
“आत्मनः” [च्] ↩︎
-
“°विशेषेण” [च्] ↩︎
-
“°रूप एवो°” [ज्] ↩︎
-
“प्रतिपाद्यत” [च्] ↩︎
-
“°पन्नताऽनवस्था” [च्] ↩︎
-
२.१.१८ ↩︎
-
“प्रवृत्तौ” [ज्] ↩︎
-
“°मिति किं तु” [ज्] ↩︎
-
“युक्तम्” [ज्] ↩︎
-
“अर्थ्यते” [च्] ↩︎
-
“दृष्टान्त°” ओम् [ज्] ↩︎
-
“अपठित्वावतार्य” [ज्] ↩︎
-
“तेन सामा°” [ज्] ↩︎
-
“तयोरपि” [च्] ↩︎
-
“°त्वादौ” [च्] ↩︎
-
“देहादिषु”ओम् [च्] ↩︎
-
“°त्वायोगात्” [च्] ↩︎
-
“°भावेन ज्ञायन्ते” [च्] ↩︎
-
“तेन” [च्] ↩︎
-
“यथा”ओम् [च्] ↩︎
-
“भवति” [ज्] ↩︎
-
“इत्यस्य” [च्] ↩︎
-
२.२.६ ↩︎
-
“परस्परासम्प्र°” [च्] ↩︎
-
“अस्य” [च्] ↩︎
-
विषयगता [क्] ↩︎
-
“तत्त्वं”ओम् [ज्] ↩︎
-
“ह्यनेन” [च्] ↩︎
-
“प्रमाणेति°” [च्] ↩︎
-
“प्राप्यते”ओम् [च्] ↩︎
-
“स्वशब्द°” [च्] ↩︎
-
“°प्रतिषेधं” [च्] ↩︎
-
“°लक्षणे नियमे” [ज्] ↩︎
-
“हि प्रति°” [च्] ↩︎
-
“संशये” [च्] ↩︎
-
“एवकारः” [ज्] ↩︎
-
“°मित्यत्र” [च्] ↩︎
-
“प्रतिक्षेपः” [च्] ↩︎
-
“विशेष ”ड़ोर्“अर्थ” [ज्] ↩︎
-
“°र्यतया” [च्] ↩︎
-
“एते” [च्] ↩︎
-
“°हारान्तरम्” [ज्] ↩︎
-
“°दिपर्यालो°” [च्] ↩︎
-
“बहुवचनः” [च्] ↩︎
-
“पठ्य°” [च्] ↩︎
-
“कर्म°”ओम् [च्] ↩︎
-
पृः ५१.१५ ↩︎
-
वै। सू। २। २। ३४ ↩︎
-
“विकारादेः” [च्] ↩︎
-
“विधत्ते” [च्] ↩︎
-
वै। सू। २। २। ३५ ↩︎
-
“पुनरनुप°” [ज्] ↩︎
-
“चन्द्रशब्द°” [ज्] ↩︎
-
“एव”ओम् [ज्] ↩︎
-
“प्रयुक्त° ”ओम् [ज्] , “वाक्यार्थान्वा°” [च्] ↩︎
-
“परार्थमात्रम°” [च्] ↩︎
-
“प्रतिज्ञा° गम्यते”ओम् [च्] ↩︎
-
“वचनार्थः ? कथमसौ”ओम् [च्] ↩︎
-
“°नुत्पत्ते°” [च्] ↩︎
-
“च सुबन्धु°” [च्] ↩︎
-
“आञ्जस्यं” [च्] ↩︎
-
“अर्थम्”ओम् [च्] ↩︎
-
“°धानात्” [च्] ↩︎
-
“°वचनस्य” [च्] ↩︎
-
“एवमाच°” [ज्] ↩︎
-
“दात्राय”ओम् [च्] ↩︎
-
“°वत्तर” [च्] ↩︎
-
“°धानम्” [च्] ↩︎
-
“°श्रयत्वात्” [ज्] ↩︎
-
“वचनमनुसन्धाय प्रयतिष्येते” [च्] ↩︎
-
“अत्र च” [च्] ↩︎
-
“°त्वेन” [च्] ↩︎
-
“नान्यशब्दे” [च्] ↩︎
-
“°विशेष°”ओम् [च्] ↩︎
-
“नान्यस्य धर्मोऽन्यत्र” [च्] ↩︎
-
“एवोच्यते” [च्] ↩︎
-
“°भुञ्ज्माहे” [च्] ↩︎
-
“°त्रं हि” [च्] ↩︎
-
“विपक्षा°” [च्] वर् ↩︎
-
“°प्यन्यस्य तथा सम्भवः” [ज्] ↩︎
-
“°दित्यादिहेतु°” [च्] ↩︎
-
“व्यभिचार्यव्यभि° [च्] ; आदि” ओम् [च्] ↩︎
-
“उपलक्षितम्” [च्] ↩︎
-
“°हेतु°” ओम् [च्] ↩︎
-
“शुद्धं” ओम् [ज्] ↩︎
-
“°दिति” [च्] ↩︎
-
“मृषाशेषम°” [च्] ↩︎
-
“°त्वं उपलक्षकत्वम्” [ज्] ↩︎
-
“तथा च”ओम् [ज्] ↩︎
-
“°न्तपरिच्छिन्नस्य” [ज्] ↩︎
-
“°भावे” [ज्] ↩︎
-
“न्तं भावः” [ज्] ↩︎
-
“नापि”ओम् [च्] ↩︎
-
“°वद्वा नात्य°” [च्] ↩︎
-
“प्रत्यय°”ओम् [च्] ↩︎
-
“°न्नता तत्सं°” [च्] ↩︎
-
“सर्वं”ओम् [ज्] ↩︎
-
“°भावित्वमि°” [च्] ↩︎
-
न्या। भा। ५। १। ३७ ↩︎
-
“तत्” [च्] ↩︎
-
“°स्योत्पत्तिः” [च्] ↩︎
-
“सपक्षत्वप्र°” [च्] ↩︎
-
“प्रयत्नाद्यु°” [च्] ↩︎
-
“घटादि”ओम् [च्] ↩︎
-
“विपर्ययेण” [च्] ↩︎
-
“°च्छारहितं” [च्] ↩︎
-
“तद्व्यतिरेकिणश्च” [च्] ↩︎
-
“°न्तरसिद्धान्तं” [च्] ↩︎
-
“°प्रायमाविष्करोति” [च्] ↩︎
-
“वीतोऽन्व°” [च्] ↩︎
-
“°तुत्वमित्याश°” [ज्] ↩︎
-
“भवितव्यमिति” [ज्] ↩︎
-
“न °णीति”ओम् [च्] ↩︎
-
न्या। सू। ३.२.३८ ↩︎
-
प्र। वा। ४। २४४ ↩︎
-
टी १.१.५ ↩︎
-
“°क्तमिति” [च्] ↩︎
-
विपक्षानि° ज्क् ↩︎
-
“वासुबन्धवं”ओम् [च्] ↩︎
-
“उपन्यस्य दूषयति” [च्] ↩︎
-
“वा”ओम् [च्] ↩︎
-
“अत्र” [च्] ↩︎
-
“गौरियं” [च्] ↩︎
-
द्रः वै। सू। ३। १। १७ ↩︎
-
द्रः वै। सू। ३। १। १६ ↩︎
-
“तस्य हेतुत्वमवधारितम्” [च्] ↩︎
-
“सति”ओम् [च्] ↩︎
-
“साधारणस्य” [च्] ↩︎
-
“विपक्षादेव”ओम् [च्] ↩︎
-
“वक्तव्यः” [ज्] ↩︎
-
“प्रसज्येत” [च्] ↩︎
-
“नरस्य” [ज्] ↩︎
-
“°दिति हेतुः” [ज्] ↩︎
-
“अप्रमेयत्वादित्ययं” [ज्] ↩︎
-
“अनेन”ओम् [च्] ↩︎
-
“त्रिविधः”ओम् [च्] ↩︎
-
“द्वेधा ”ड़ोर्“असन्” [च्] ↩︎
-
“°धापक्षधर्मः…त्वतः त्रि°”ओम् [च्] ↩︎
-
“°दीति” [च्] ↩︎
-
“ननु पक्ष°…पक्षाव्यापकत्वं” [च्] ↩︎
-
“तदेव तद्धे°” [च्] ↩︎
-
“°ग्रहणे” [ज्] ↩︎
-
“°शेऽतिव्याप्तम्” [च्] ↩︎
-
“दोषप्रसङ्गः” [च्] ↩︎
-
“°प्रविभागात्मा” [च्] ↩︎
-
“तादृशा विना न भवतीति” [च्] ↩︎
-
“पक्षे” [च्] ↩︎
-
“प्रत्याह” [च्] ↩︎
-
“यावत्” [च्] ↩︎
-
“युष्माकं” [च्] ↩︎
-
“°प्रयत्नसाध्यः” [च्] ↩︎
-
“भावः”ओम् [च्] ↩︎
-
“अस्ति वस्तु सामान्यं सद्” [च्] ↩︎
-
“असत्”ओम् [च्] ↩︎
-
“कारणे” [ज्] ↩︎
-
“सूच्यत इति” [ज्] ↩︎
-
“°त्वम्, तद्वति नित्य°” [च्] ↩︎
-
“तद्भावः”ओम् [ज्] ↩︎
-
“°धर्म°”ओम् [ज्] ↩︎
-
“भवतीत्येतत्” [च्] ↩︎
-
भवति नित्यं न ओम् [क्] ↩︎
-
“परिहृतम्” [च्] ↩︎
-
“°मिति यावत्” [च्] ↩︎
-
“सः” [च्] ↩︎
-
“इति चेति” [ज्] ↩︎
-
न्या° भा। १ । १ । ३६ ↩︎
-
गूढाभि° [क्] “पाठाभि°” [च्] [ज्] ↩︎
-
“लक्षणसूत्रैः” [ज्] ↩︎
-
“उत्पत्तिधर्मकत्वादिति तद्व्याचष्टे—तस्य धर्मिण इति” ओम् [ज्] ↩︎
-
भवति औम् ञ् ↩︎
-
द्रः श्लो। वा। अनुमान, १२१-२ ↩︎
-
“तद्धर्म°” ओम् [च्] ↩︎
-
“सुबन्धुना” [च्] ↩︎
-
“परामर्शज्ञानहे°” [ज्] ↩︎
-
“तथेति चेति” [च्] ↩︎
-
तथा न तथेति [क्] ↩︎
-
“°प्रतिसाध°” [च्] ↩︎
-
“अत्रापि” [च्] ↩︎
-
“असिद्धोऽपि” [च्] ↩︎
-
“तच्च ”ड़ोर्“अत्र” [च्] ↩︎
-
छान्दोग्योप° ६.२.१ ↩︎
-
“सादृश्यं” [च्] ↩︎
-
“अदृष्टे” [च्] ↩︎
-
“हि” [च्] ↩︎
-
“प्रतिपा°” [च्] ↩︎
-
“°व्युत्पादन°” [ज्] ↩︎
-
“°विषय°”ओम् [च्] ↩︎
-
“हेत्वादिप्रयोगवैयर्थ्यप्र°” [च्] ↩︎
-
“सर्वाक्षेपात्” [ज्] ↩︎
-
“यथाभावः” [च्] ↩︎
-
“च” ओम् [च्] ↩︎
-
“प्रमाणं”ओम् [च्] ↩︎
-
“चाख्या°” [ज्] ↩︎
-
“प्रमाणस्याभ्यनुज्ञातस्य” [च्] ↩︎
-
टी। पृः ५० ↩︎
-
“°प्रसज्यविप°” [च्] ↩︎
-
“°एव भाष्ये उपसंहारः” [च्] ↩︎
-
“बुद्धिगुणा बुद्धितत्त्व°” [च्] ↩︎
-
“विज्ञाततत्त्वेऽपि” [च्] ↩︎
-
“ज्ञायते” [च्] ↩︎
-
“°स्यासत्त्वात्” [च्] ↩︎
-
“युक्तिर्हि” [च्] ↩︎
-
“प्रमाणोप°” [च्] ↩︎
-
“युक्त्यर्थो” [च्] ↩︎
-
“यद्दर्शनं वा” [ज्] ↩︎
-
“°गत एव” [च्] ↩︎
-
“निर्णयो” [च्] ↩︎
-
“°दानातिल°” [ज्] ↩︎
-
“अर्थमाह” [ज्] ↩︎
-
“वाद°”ओम् [च्] ↩︎
-
“हेतुश्चोपलम्भश्च” [च्] ↩︎
-
“वादिप्रति°”ओम् [च्] ↩︎
-
“कारणत्वम्” [च्] ↩︎
-
“°कारकरणं” [च्] ↩︎
-
“किल कल्पे” [च्] ↩︎
-
“बाधते” [ज्] ↩︎
-
“निर्णयसामान्यस्ये°” [च्] ↩︎
-
“यत्”ओम् [च्] ↩︎
-
“तं निवर्त्य…प्रथम इति वादी ”ओन्ल्य् इन् [ज्] ↩︎
-
“°पेक्षित्वमिति” [च्] ↩︎
-
“फले” [च्] ↩︎
-
“°बधीभूताद्” [ज्] ↩︎
-
“चान्यत्र” ओम् [ज्] ↩︎
-
“यथा” [च्] ↩︎
-
“°त्रेति” [च्] ↩︎