०६ प्रवचनपरिच्छेदः

तृतीये प्रवचनप्रवेशे

षष्ठः प्रवचनपरिच्छेदः ।

सत्यस्वच्छजलः सुरत्ननिचयः सज्ज्ञानवीचीचयः,
युक्त्यावर्त्तहतस्वरूपकुमतप्रौढोग्रनक्रक्रमः1
स्फारागाधगभीरमूर्तिरसमध्वानो जनानन्दनः,
स्याद्वादोदधिरेष वाञ्छितफलं दद्यात समासेवितः2 ॥ १ ॥

अथ प्रमाणनयस्वरूपं निरूप्य इदानीं प्रमाणविशेषस्य आगमस्य स्वरूपं पृथक् निरूपयितुमुपक्रमते, तत्र अनेकधा विप्रतिपत्तिसद्भावात् । तदादौ च शास्त्रस्य मध्यमङ्गलभूतम् इष्टदेवताविशेषगुणस्तोत्रमाह–

प्रणिपत्य महावीरं स्याद्वादेक्षणसप्तकम्3
प्रमाणनयनिक्षेपानभिधास्ये यथागमम् ॥ ५१ ॥

नो विवृति ड़ोर् थिस् वेर्सेस्

कारिकार्थ–

“प्रणिपत्य” नत्वा । कम्4 ? “वीरम्” अन्तिमतीर्थकरं5 तीर्थकरसमुदायं वा । किंविशिष्टम् ? “स्याद्वादेक्षणसप्तकं ।” स्यादस्तीत्यादिसप्तभङ्गमयो वादः “स्याद्वादः ईक्षणसप्तकं” यस्य स तथोक्त तम् । ननु स्याद्वादस्य ईक्षणव्यपदेशः मुख्यतः, उपचारतो वा स्यात् ? न तावत् प्रथमः पक्षः; चक्षुष्येव मुख्यतः तद्व्यपदेशप्रसिद्धेः6 । द्वितीयपक्षोऽप्यनुपपन्नः, यतो रूपादिप्रतिपत्ते हेतुभूतं चक्षुः ईक्षणं लोके प्रसिद्धम् । न च भगवतः तत्प्रतिपत्तौ7 स्याद्वादो हेतुभूत, तत्कथमस्य8 उपचारतोऽपि ईक्षणव्यपदेशः ? अथ9 अपरमनेनासौ1011 बोधयतीति तत्प्रतिपत्तेर्हेतुभूतत्वात् तद्व्यपदेशः;6 तर्हि परस्यैव तदीक्षणसप्तकं12 न भगवतः, अन्यदीयात्ततो अन्यस्य प्रतिपत्तेरयोगात्; तदसमीचीनम्; अन्यथा व्याख्यानात् । “स्याद्वाद” एव “ईक्षणसप्तकं” यस्माद् भव्यानां स तथोक्तस्तम् । यदि वा, ईक्षणसप्तकमिव “ईक्षण-” “सप्तकं स्याद्वादः” तत् सप्तक यस्यासौ स तथोक्तः13 तमिति । किं पुनः तत्सप्तकेन1415 स्याद्वादस्य साधर्म्य येनैवमुच्यते इति चेत्; उपदेशाद्यनपेक्षाऽर्थज्ञानजनकत्वम् । यथैव हि ईक्षणात् परोपदेशलिङ्गान्वयव्यतिरेकनिरपेक्ष रूपादिज्ञान जायते तथा स्याद्वादाद् भगवत केवलज्ञानमिति । तमित्थम्भूतम् इष्टदेवताविशेष “प्रणिपत्य” वक्ष्यमाणलक्षणलक्षितान् “प्रमाणनयनिक्षेपान् अभिधास्ये ।” कथम् ? “यथागमम्,” आगमानतिक्रमेण । अनेन16 तत्र आत्मनः17 स्वातन्त्र्यं परिहृतम् ।

तत्र प्रमाणादीनां समासतो लक्षण प्रतिपादयन्नाह–

ज्ञानं18 प्रमाणमात्मादेः उपायो न्यास इष्यते19
नयो20 ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः ॥ ५२ ॥

विवृतिः–ज्ञानं21 प्रमाणं कारणस्याप्यचेतनस्य प्रामाण्यमनुपपन्नम् असन्निकृष्टेन्द्रियार्थवत् । विषमोऽयमुपन्यासः असन्निकृष्टस्य तदकारणत्वादिति; नैतत्सारम्; अर्थस्य तदकारणत्वात् तस्येन्द्रियानिन्द्रियनिमित्तत्वात् अर्थस्य विषयत्वात् । न22 हि तत्परिच्छेद्योऽर्थः तत्कारणतामात्मसात्कुर्यात् प्रदीपस्येव घटादिः ।

कारिकार्थ–

“ज्ञानमेव प्रमाणमेव” इत्याद्यवधारण सर्वत्र द्रष्टव्यम् । कस्य तत् । इत्याह–“आत्मादेः ।” आदिशब्देन पुद्गलादिपरिग्रहः । ननु ज्ञानार्थयोः तादात्म्यादिसम्बन्धासभवात् कथं तत्तस्य2324 इत्युच्यते25 इति चेत्, न, तदभावेऽपि विषयविषयिभावलक्षणसम्बन्धसभवात् । तदभावे26 सोऽपि27 कथम् ? इत्यपि वार्त्तम्; तादात्म्यतदुत्पत्त्योरभावेऽपि प्रदीपार्थयोः प्रकाश्यप्रकाशकभाववत् ज्ञानार्थयोः विषयविषयिभावस्य समर्थितत्वात् । ननु च आत्मादेरभावान्न किञ्चित्तस्य ज्ञानम् ? इत्यपि श्रद्धामात्रम्, तस्य28 विषयपरिच्छेदे29 प्रबन्धेन प्रसाधितत्वात् । यदि वा, “आत्मा” स्वरूपम्, “आदि”शब्देन अर्थपरिग्रहः, तेन स्वार्थयोः इत्ययमर्थ सिद्धो भवति । प्रसाधितञ्च स्वपरव्यवसायात्मकत्वं ज्ञानस्य प्रपञ्चतः स्वसंवेदनसिद्धौ30 इत्यलं पुनस्तत्प्रसाधनप्रयासेन । अथ को निक्षेपः ? इत्याह–““उपाय”” इत्यादि । “उपायः” कारणम् आत्मादिज्ञानस्य नामादि “न्यासो” निक्षेपः “इष्यते । नयो ज्ञातुरभिप्रायः,” प्रमाणविषयीकृतेऽर्थे एकांशविषयो “ज्ञातुः” प्रमातु“रभिप्रायः ।” किं फलमेतेषां स्वरूपव्यावर्णने ? इत्याह–“युक्तितः”31 प्रमाणादिलक्षणायाः “अर्थस्य परिग्रहः” स्वीकारः । उपलक्षणमेतत् तेन अनर्थपरिहारोऽपि गृह्यते ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““ज्ञानं प्रमाणम्”” इत्यादि । “प्रमाणं”32 धर्मि “ज्ञान”मिति साध्यम्, “प्रमाणत्वान्यथानुपपत्तेः” इति हेतुरत्र द्रष्टव्यः । ननु सन्निकर्षादिना33 अयं हेतुर्व्यभिचारी, तस्याऽज्ञानरूपस्यापि अव्यपदेश्याव्यभिचारिव्यवसायात्मकज्ञानजनकत्वेन प्रमाणत्वसम्भवात् इत्यत्राह–““कारणस्यापि”” इत्यादि । “कारणस्यापि” यथोक्तज्ञानजनकस्यापि34 सन्निकर्षादेर“चेतनस्य” सतः “प्रामाण्यमनुपपन्नम् ।” अत्र दृष्टान्तमाह–“असन्निकृष्टेन्द्रियार्थवत् ।” सन्निकर्षः सन्निकृष्टं तच्च इन्द्रियञ्च अर्थश्च सन्निकृष्टेन्द्रियार्थाः, विवक्षितेभ्यस्तेभ्यः अन्ये “असन्निकृष्टेन्द्रियार्थाः” तेषामिव “तद्वत् ।” यद्वा, “असन्निकृष्टौ” च तौ “इन्द्रियार्थौ” च तयोरिव “तद्वत् ।” यद्वा, प्रयोगः–विवादगोचरापन्नं सन्निकर्षादि अप्रमाणम् अचेतनत्वात्35 अविवक्षितसन्निकर्षादिवत् । यथा च अचेतनस्य सन्निकर्षादेः प्रामाण्यन्नोपपद्यते तथा प्रत्यक्षपरिच्छेदे36 प्रपञ्चतः प्रतिपादितम् ।

अत्राह परः–““विषमः”” इत्यादि । “विषमः” दार्ष्टान्तिकेन समानो न भवति “उपन्यासो” दृष्टान्तरूपः । तदेव वैषम्यं दर्शयति–““असन्निकृष्टस्य”” इत्यादिना । “असन्निकृष्टस्य” इन्द्रियार्थलक्षणस्य वस्तुनः “तदकारणत्वात्” विवक्षितज्ञानाहेतुत्वात् । एतदुक्तं भवति–यदि नैयायिकादिः चेतनत्वेन क्वचित् प्रामाण्यमभ्युपगच्छति तर्हि दृष्टान्ते चैतन्याभावे यथा प्रामाण्याभावः तथा दार्ष्टान्तिकेऽपि स्यात्, यावता ज्ञानकारणत्वेन तदभ्युपगतम्37 । तत्कारणत्वञ्च दृष्टान्ते यद्यपि नास्ति तथापि दार्ष्टान्तिके अस्ति इति सिद्धमस्य3839 प्रामाण्यमिति । अत्र दूषणमाह–““नैतत्सारम्”” इत्यादि । “एतत्” ज्ञानकारणत्वेन प्रमाणत्व “न सारम् ।” कुत एतदित्याह–““अर्थस्य”” इत्यादि । “अर्थस्य” ज्ञानविषयस्य घटादेः “तदकारणत्वात्” स्वग्राहिज्ञानाजनकत्वात् । एतदपि कुतः इत्याह–““तस्य”” इत्यादि । “तस्य” घटादिज्ञानस्य “इन्द्रियानिन्द्रियनिमित्तत्वात् ।” अर्थनिमित्तत्व कुतो नेति चेदत्राह–“अर्थस्य विषयत्वात्” परिच्छेद्यत्वात् । ननु “विषयश्च स्यात् कारणञ्च” इति कोऽनयोर्विरोधः ? इत्यत्राह–““नहि”” इत्यादि । “हि”र्यस्मात् “न तस्य” ज्ञानस्य “परिच्छेद्योऽर्थः तत्कारणतां” ज्ञानहेतुताम् “आत्मसात्कुर्यात् ।” अत्र परप्रसिद्धं दृष्टान्तमाह– “प्रदीपस्येव घटादिरिति ।” अत्रायमभिप्रायः–यथा प्रदीपप्रकाश्यो घटादिः न40 प्रदीपकारणतामात्मसात्करोति तथापि प्रदीपेन प्रकाश्यते तथा ज्ञानप्रकाश्योऽप्यसौ41 तत्कारणतामनात्मसात्कुर्वन्नपि42 तत्प्रकाश्य43 इति । अनेन परपरिकल्पितः44 नाकारण विषयः [ ] इति नियमो निरस्तः, प्रदीपं प्रत्यकारणस्यापि घटादेः तत्प्रकाशनविषयतोपलब्धेः ।

किञ्च, “नाकारण विषयः”45 इत्यभ्युपगच्छता किं46 कारणमेव47 विषय इत्यभिप्रेतम्, कारणं विषय एव इति वा ? प्रथमपक्षे विज्ञानस्वरूपसंवेदनानुपपत्तिः48 । नहि स्वरूप स्वस्यैव कारणम्, स्वात्मनि क्रियाविरोधात् । द्वितीयपक्षे तु चक्षुरादेरपि विषयत्वप्रसक्तिः कारणत्वाविशेषात् । किञ्च, अर्थस्य ज्ञान प्रति कारणत्वे सिद्धे अयं नियम परिकल्प्येत,49 असिद्धे वा ? न तावदसिद्धे, अतिप्रसङ्गात् । अथ सिद्धे, कुतस्तत्सिद्धिः– तत एव ज्ञानात्, अन्यतो वा ? न तावत् तत एव, यतः–

अयमर्थ50 इति ज्ञानं विद्यान्नोत्पत्तिमर्थतः ।
अन्यथा न विवादः स्यात् कुलालादिघटादिवत् ॥ ५३ ॥

विवृतिः-अर्थं परिच्छिन्दद्विज्ञानम् आत्मनः कारणान्तरमपरं सूचयत्येव । नहि ततः स्वभावलाभं प्रति व्याप्रियमाणस्य तत्परिच्छित्तिः अनुत्पन्नत्वात् । उत्पन्नस्यापि न कारणे व्यापारः करणादिवत् । यदि कारणकार्यभावम् आत्मार्थयोर्विज्ञानं परिच्छिन्द्यात् न कश्चिद् विप्रतिपत्तुमर्हति कर्त्तृकरणकर्मसु ।

कारिकार्थ–

घटाद्यर्थग्राहकं हि “ज्ञानं” “देशकालाकारविशिष्टो घटाद्य“र्थोऽयम्”” इत्यनेनोल्लेखेन अर्थमेव “विद्यात्, न उत्पत्तिम्” आत्मलाभ“मर्थतो” विद्यात्51 । अथ तत्23 ततः52 तां53 वेत्ति इत्युच्यते, अत्राह–““अन्यथा”” इत्यादि । “अन्यथा” अन्येन तत्परिज्ञानप्रकारेण “न विवादः स्यात् ।” यस्य यस्मादुत्पत्तिः प्रत्यक्षतः प्रतीयते न तस्य तदुत्पत्तौ कस्यचिद् विवादः यथा कुलालाद् घटस्य, विवादश्च ज्ञानस्य अर्थादुत्पत्तौ, तस्मात्54 सा55 तस्य56 प्रत्यक्षतो न प्रतीयते इति ।

अथ57 प्रमाणान्तरात्तस्य अर्थकार्यता प्रतीयते–ननु तत्किं प्रत्यक्षरूपम्, अनुमानरूपं वा स्यात् ? यदि प्रत्यक्षरूपम्, तत्किं ज्ञानविषयम्, अर्थविषयम्, उभयविषयं वा स्यात् ? तत्राद्यविकल्पद्वये तयोः58 कार्यकारणभावप्रतीतिरनुपपन्ना, एकैकविषयज्ञानग्राह्यत्वात्, ययोः एकैकविषयज्ञानग्राह्यत्वं न तयोः कार्यकारणभावप्रतीतिः यथा रूपरसयोः धूमपावकयोर्वा,59 एकैकविषयज्ञानग्राह्यत्वञ्च अर्थज्ञानयोरिति । अथ उभयविषयप्रत्यक्षात् तत्प्रतीतिः; तन्न, तथाविधप्रत्यक्षस्य60 अस्मादृशामसम्भवा61त्62

किञ्च, तदुभयविषयं प्रत्यक्षं ताभ्यामुत्पन्नं63 सत् तयोः कार्यकारणभावं प्रत्येति, अनुत्पन्नं वा ? न तावदनुत्पन्नम्, आद्यज्ञानस्यापि अर्थादनुत्पन्नस्य अर्थग्राहकत्वप्रसङ्गात्64 । अथ उत्पन्नम्; तर्हि तस्यापि तदुत्पत्तिः65 अपरस्मात् तत66 उत्पन्नाज्ज्ञानात् प्रत्येतव्या तस्याप्यन्यस्मादित्यनवस्था । आद्यात् द्वितीयस्य, द्वितीयाच्चाद्यस्य तत्प्रतीतौ67 अन्योन्याश्रयः । तन्न प्रत्यक्षरूपात्प्रमाणान्तरात् ज्ञानस्य अर्थकार्यतासिद्धिः । नापि अर्थान्वयव्यतिरेकानुविधायित्वलक्षणानुमानरूपात्; तस्य अनन्तरकारिकायां निराकरिष्यमाणत्वात् ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““अर्थम्”” इत्यादि । “अर्थं” घटादिकं “परिच्छिन्दद् विज्ञानम् आत्मनः” स्वस्य “कारणान्तरमपरं” परपरिकल्पितादर्थलक्षणकारणाद् अपरमेव चक्षुरादिलक्षणं कारणान्तरं “सूचयति ।” कुत एतदित्याह– ““नहि”” इत्यादि । “न68 हि”र्यस्मात् “ततोऽ”र्थात् “स्वभावलाभं प्रति व्याप्रियमाणस्य”69 स्वरूपलाभमर्थयमानस्य “तत्परिच्छित्तिः” अर्थपरिच्छित्तिः । कुत इत्याह–“अनुत्पन्नत्वात् ।” यदनुत्पन्नं70 सद् यदा यत71 आत्मलाभं लभते न तत्तदा72 तस्य परिच्छेदकम् यथा अलब्धात्मलाभावस्थायां पितु पुत्रः, अनुत्पन्नं सदर्थादात्मलाभं73 लभते च उत्पत्तिक्षणे74 ज्ञानमिति । अथ उत्पन्नस्य सतो ज्ञानस्य अर्थग्रहणे व्यापारो भविष्यति इत्युच्यते; अत्राह–““उत्पन्नस्यापि”” ऽइत्यादि । न केवलमनुत्पन्नस्य अपि “तु उत्पन्नस्यापि” ज्ञानस्य75 “कारणे” स्वजनके76 “न व्यापारः” तद्ग्रहणलक्षणः । अत्र दृष्टान्तमाह– “करणादिवत् । करणं” चक्षुरादि “आदि”र्यस्य अदृष्टादेः तत्रेव “तद्वदिति ।” प्रयोग–अर्थो न ज्ञानकारणम्, तेन परिच्छिद्यमानत्वात्, यत्तु तत्कारणं न तत्तेन परिच्छिद्यते यथा चक्षुरादि, परिच्छिद्यते च ज्ञानेनार्थः, अतस्तत्कारणन्न भवतीति । न च आलोकेन अनेकान्त; तत्र ज्ञानकारणत्वस्य निराकरिष्यमाणत्वात् । तर्हि पुत्रेण अनेकान्तः, पितुरुत्पन्नस्याप्यस्य77 तत्परिच्छेदकत्वात्,78 इत्यप्यसत्, पुत्रशरीरस्यैव तत79 उत्पत्तेः, न च80 तत्81 तत्परिच्छेदकं82 किन्तु ज्ञानम्, तच्च23 ततो79 नोत्पद्यते चक्षुरादित एवास्योत्पत्तेः56 । कथमेवं पूर्वप्रयोगे83 तस्य77 दृष्टान्ततोपपद्यते ? इत्यप्यचोद्यम्; शरीरतः84 तद्विशिष्टज्ञानतो वाऽलब्धात्मलाभस्य85 परिच्छेदकत्वाभावमात्रापेक्षया तस्य77 तदुपपत्तेः86 सम्भवात् ।

ननु च अर्थकार्यतया ज्ञान स्वयमेव आत्मानं प्रतिपद्यते, अतः87 तद्वाधितकर्मनिर्देशान88न्तर89 प्रयुक्तत्वेन कालात्ययापदिष्टः “परिच्छिद्यमानत्वात्”90 इति हेतुः, इत्यत्राह– ““यदि”” इत्यादि । “यदि कारणकार्यभावम् आत्मार्थयोः,” आत्मनः91 कार्यभावम् अर्थस्य कारणभावं “विज्ञानं” कर्त्तृ “परिच्छिन्द्यात्,” तदा न कश्चिद्विप्रतिपत्तुमर्हति । क्व ? इत्याह– “कर्त्तृकरणकर्मसु ।” अर्थः92 “कर्त्ता,” चक्षुरादि “करणम्,” ज्ञान “कर्म,”93 तेषु इति । यत्र कारणकार्यभावो निर्बाधायां संविदि प्रतिभासते न तत्र कर्त्रादित्रये कश्चिद् विप्रतिपद्यते यथा कुलालघटयो, विप्रतिपद्यते च अर्थज्ञानयो कर्त्रादौ जैनादिरिति ।

“ननु सर्वत्र अन्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः, तौ चात्रापि विद्येते–अर्थे सत्येव ज्ञानस्योत्पत्तेः तदभावे चाऽनुत्पत्तेः । प्रयोगः–यद्94 यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य कार्यम् यथा अग्नेर्धूमः, अन्वयव्यतिरेकावनुरोति च ज्ञानमर्थस्य” इत्याशङ्क्याह–

अन्वयव्यतिरेकाभ्याम95र्थश्चेत्96 कारणं विदः ।
संशयादिविदुत्पादः97 कौतस्कुत इतीक्ष्यताम् ॥ ५४ ॥

विवृतिः–बुद्धेरेव व्यभिचारो नार्थस्य कथमव्यभिचारिणोऽर्थस्य अन्वयव्यतिरेकावनुकुर्वती व्यभिचरेन्नाम ? ततः संशयादिज्ञानमहेतुकं स्यात् । तिमिराशुभ्रमणनौयानसङ्क्षोभादिहेतुत्वे98 कमर्थमर्थः99 पुष्णाति इति मृग्यम् । सत्यज्ञानेऽपि तिमिराद्यभावस्य इन्द्रियमनोगतस्य कारणत्वात् । ततः सुभाषितम्–“इन्द्रियमनसी100 कारणं विज्ञानस्य अर्थो विषयः” इति ।

कारिकार्थ–

अर्थसद्भावे भावोऽ“न्वयः” तदभावेऽभावो “व्यतिरेकः” ताभ्या“मर्थश्चेद्” यदि “कारणं विदो” ज्ञानस्य । अत्र दूषणमाह–““संशय”” इत्यादि । “संशयः आदि”र्यस्याः सा चासौ “वित्”101 च तस्य “उत्पाद” आत्मलाभः “कौतस्कुत इत्येवमीक्ष्यतां” पर्यालोच्यताम् ।

विवृतिव्याख्यानम्–

कारिकां व्याख्यातुमाह–““बुद्धेः”” इत्यादि । “बुद्धेरेव व्यभिचारः” अन्यदेशादिविशिष्टस्यार्थस्य102 अन्यदेशादिना ग्रहणलक्षणो “नार्थस्य, “व्यभिचारः”” इति सम्बन्धः । स हि यथार्थामयथार्थां वा अन्वयव्यतिरेकावनु कारयन्103 बुद्धिं जनयत्येव । सर्व सालम्बनं ज्ञानम्104 [ ] इत्यभ्युपगमात्105 । केशोण्डुकादिज्ञानस्यापि106 अक्षिपक्ष्मादिनिबन्धनत्वादिति107 । पूर्वार्द्धं व्याख्यातम् । उत्तरमुत्तरार्द्धं व्याचक्षाणः प्राह–““कथम्”” इत्यादि । “कथं” केन प्रकारेण “अव्यभिचारिणोऽर्थस्य अन्वयव्यतिरेकावनुकुर्वती” बुद्धिः अर्थं “व्यभिचरेन्नाम ?” नैव व्यभिचरेत् । यथैव हि व्यवस्थितोऽर्थ तथैव गृह्णीयात्, तत आत्मलाभलक्षणत्वादव्यभिचारस्य । व्यभिचरति च । अतो यथा अन्यदेशादिसम्बद्धस्य108 धर्मस्यासन एव ग्रहणं तथा धर्मिणोऽप्यसत एव ग्रहणसम्भवान्न विपरीतख्यात्यैत्येकान्त श्रेयान्, असत्ख्यातेरपि प्रसङ्गात् इत्यभिप्रायः । एतदेव दर्शयन्नाह–““ततः”” इत्यादि । “ततः” तस्माद् बुद्धेर्व्यभिचारात् “संशयादिज्ञानमहेतुकम्,” अर्थलक्षणकारणशून्य स्यात् धर्मवत् धर्मिणोऽपि असत एव प्रतिभाससम्भवात् । दृश्य109ते110 हि तावद् अक्षिपक्ष्माद्यपायेऽपि तैमिरिकस्य केशोण्डुकादिज्ञानम् ।

ननु केशोण्डुकादिज्ञानं भ्रान्तत्वाद् अर्थापायेऽपि उत्पद्यते, नान्यद् विपर्ययात् । नचान्यस्य111 व्यभिचारे अन्यस्य व्यभिचारः अतिप्रसङ्गात्, इत्यप्यसमीक्षिताभिधानम्, परनिरपेक्षतया112 हि स्वपरप्रकाशात्मकत्वं ज्ञानस्य स्वरूपं न पुनः सत्यत्वमसत्यत्व वा । तत्र च यथा सत्याभिमत ज्ञानं स्वपरप्रकाशात्मकं113 तथा केशोण्डुकादिज्ञानमपि । एतावांस्तु विशेषः–किञ्चित्114 सत्परं प्रकाशयति संवादसम्भवात्, किञ्चित्तु115 असद् विसंवादात्116 । न चैतावता117 जात्यन्तरत्वेन अनयोरन्यत्व118 व्यभिचाराभावो वा, अन्यथा “प्रयत्नानन्तरीयकः शब्दः कृतकत्वाद् घटादिवत्” इत्यादेरपि अप्रयत्नानन्तरीयकैः विद्युद्वनकुसुमा दिभिर्व्यभिचारो न स्यात्, ताल्वादिदण्डादिजनितात् शब्दघटादेः तद्विपरीतस्य विद्युदादेरन्यत्वात् । न चान्यस्य व्यभिचारे अन्यस्य व्यभिचारोऽतिप्रसङ्गात् । तथाप्यत्र व्यभिचारे प्रकृतेऽपि सोऽस्तु विशेषाभावात् ।

““तिमिर”” इत्यादिना परमतमाशङ्कते–“तिमिरा”दीनां द्वन्द्वः, पुनः “आदि”शब्देन बहुब्रीहिः । आदिशब्दश्च प्रत्येकमभिसम्बध्यते । तेन एकत्र119 आदिशब्देन कामलादिसकलेन्द्रियदोषपरिग्रहः, अन्यत्र120 दृढप्रहारादिस्वीकारः, इतरत्र121 अश्वयानाद्युपादानम्, अपरत्र122 कोद्रवाद्युपयोगग्रहणम् । “तद्धेतुत्वे” अङ्गीक्रियमाणे “कमर्थं” किं प्रयोजनम् “अर्थः पुष्णाति इति” एवं “मृग्यं” न123 कञ्चिदित्यर्थः । कुत एतदित्यत्राह–““सत्यज्ञानेऽपि”” इत्यादि । न केवलमसत्यज्ञाने अपि तु “सत्यज्ञानेऽपि तिमिराद्यभावस्य,” कथम्भूतस्य ? “इन्द्रियमनोगतस्य ।” इन्द्रियगतस्य तिमिराद्यभावस्य, मनोगतस्य सङ्क्षोभाद्यभावस्य,124 इन्द्रियमनोगतस्य आशुभ्रमणाद्यभावस्य “कारणत्वात्” इन्द्रियादिकमेव च तद्विविक्तं125 तदभाव126 इति मन्यते, भावान्तरस्वभावत्वादभावस्य । यथा च अन्यत127 एवोत्पन्नं संशयादिज्ञानम्128 असतोऽकारणस्य अर्थस्य129 ग्राहकं तथा सतः सत्यज्ञानमिति सूरेरभिप्रायः130 । उपसंहारमाह–““तत”” इत्यादि । यस्मादुक्तप्रकारेण अर्थस्य विज्ञानं प्रति कारणत्वं नोपपद्यते “ततः सुभाषितम्–इन्द्रियमनसी कारणं विज्ञानस्य अर्थो” घटादि“र्विषयः” परिच्छेद्य “इति ।”

ननु च इन्द्रियार्थयोः सतोरपि सन्निकर्षव्यतिरेकेण बुद्धेरनुत्पत्तेः तस्मिन् सत्येव उत्पत्तेः तस्यैव-त131त्र132 साधकतमत्वोपपत्तेः नेन्द्रियमनसी तत्कारणम् इत्याशङ्कापनोदार्थमाह–

सन्निधेरिन्द्रियार्थानामन्वयव्यतिरेकयोः133
कार्यकारणयोश्चापि बुद्धिरध्यवसायिनी ॥ ५५ ॥

विवृतिः–सन्निकर्षादयः कारणान्तरादुत्पन्नया बुद्ध्याऽध्यवसीयन्ते न च तैर्बुद्धिः प्रागनध्यवसायात्, अन्यथा कैमर्थक्याद्134 बुद्धेरन्वेषणम् ? आत्ममनैन्द्रियार्थानां135 कारणानामतीन्द्रियाणां सन्निकर्षो दुरवबोधः136 । कथं तस्य विज्ञानोत्पत्तावङ्गीकरणमिति चिन्त्यम् ? प्राग्विज्ञानोत्पत्तेः अर्थमनवबुद्ध्यमानाः कारणमकारणं वा कथं ब्रूयुः ? उत्पन्नं हि विज्ञानमर्थस्य परिच्छेदकं न तत्कारणतायाः137 । आलोकोऽपि138 न कारणं परिच्छेद्यत्वादर्थवत् ।

कारिकार्थ–

“कार्यकारणयोश्चापि” इत्यपिशब्दः “सन्निधेः” इत्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थो जायते–न केवलमर्थस्य किन्तु सन्निधेरपि सन्निकर्षस्यापि बुद्धिरध्यवसायिनी139 । केषां तस्य38 इत्याह–“इन्द्रियार्थानाम् ।” तथा “अन्वयव्यतिरेकयोः सन्निधे”र्भावाभावयो बुद्धिः अध्यवसायिनी140 । न केवलमनयोः अपितु “कार्यकारणयोश्च, कार्य”141 सन्निकर्षः “कारणम्” इन्द्रियादि । यदि वा, “कार्य” ज्ञानम्, “कारणं” सन्निकर्ष तयोश्च “बुद्धिरध्यवसायिनी ।” एतदुक्तं भवति–सन्निकर्षादिसद्भावेऽपि यावद् बुद्धिर्नोत्पद्यते तावत्त142स्य38 तदन्वयव्यतिरेकयोः143 तत्कार्यकारणभावस्य144 अन्यस्य वा न व्यवस्था, बुद्धिकल्पनावैफल्यप्रसङ्गात् । उत्पन्नायां तु तस्याम्132 अन्यापेक्षामन्तरेणैव तत्त्वव्यवस्थेति, अतः सैव145 साधकतमत्वात् प्रमाणं न सन्निकर्षादि ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““सन्निकर्ष”” इत्यादि । “सन्निकर्ष आदि”र्येषाम् अन्वयव्यतिरेकादीनां ते तथोक्ताः, “कारणान्तरात्” इन्द्रियमनोलक्षणाद् “उत्पन्नया बुद्ध्या अध्यवसीयन्ते । न च” नैव “तैः” सन्निकर्षादिभिर्बुद्धिः अध्यवसीयते । कुत एतदित्याह–““प्राग्”” इत्यादि । “प्राक्” बुद्ध्युत्पादात् पूर्वम् “अनध्यवसायात्” सन्निकर्षादीनां बुद्धिविषयव्यवसायरहितत्वात् । तदनभ्युपगमे दूषणमाह– ““अन्यथा”” इत्यादि । “अन्यथा” अन्येन प्रागध्यवसायप्रकारेण “कैमर्थक्याद्146 बुद्धेः अन्वेषणम् ।” बुद्धेरिव अन्यस्यापि147 सन्निकर्षादिभ्यः एव सिद्धेः । न चैवम्, अतो बुद्धेरेव सर्वत्र साधकतमत्वात्प्रामाण्यमित्यभिप्रायः । यत्पुनरेतत्–आत्मा148 मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन [न्यायमं॰ पृ॰ ७४] इति तत्राह–““आत्मन” त्ममन” इत्यादि । “आत्मनो” मनसा “मनस” इन्द्रियैः “इन्द्रियाणामर्थेन ।” कथम्भूतानाम् ? “अतीन्द्रियाणाम्” इन्द्रियातिक्रान्तानां यः “सन्निकर्षः” स “दुरवबोधः” ज्ञातुमशक्यः । अतः “कथं” केन प्रकारेण “तस्य”149 सन्निकर्षस्य “विज्ञानोत्पत्तौ अङ्गीकरणम् ? इति” एवं “चिन्त्यम् ।” यत्कुत150श्चिज्ज्ञातुन्न151 शक्यते न तत् ज्ञानोत्पत्तौ कारणत्वेन प्रेक्षावता अङ्गीकर्त्तव्यम् यथा खरविषाणम्, कुतश्चिदपि प्रमाणात् ज्ञातुन्न शक्यते च सन्निकर्षादिरिति । यथा चासौ कुतश्चिदपि प्रमाणात् ज्ञातुमशक्यः तथा प्रत्यक्षपरिच्छेदे152 प्रपञ्चतः प्रतिपादितम् । भवत्कल्पितश्च153 आत्मा मन इन्द्रियमर्थश्च निरंशादिरूपो यथा नोपपद्यते तथा विषयपरिच्छेदे सप्रपञ्चं प्रपञ्चितम् । अतः कस्य केन सन्निकर्षः स्यात् ?

एवम् ““संशयादिविदुत्पादः””154 इत्यादिना अर्थव्यतिरेके ज्ञानव्यतिरेकाभावं प्रतिपाद्य साम्प्रतम् अर्थान्वयग्रहणाभावं दर्शयितुमाह–““प्राग्”” इत्यादि । “प्राक्” पूर्व “विज्ञानोत्पत्तेः अर्थमनवबुद्ध्यमाना” नैयायिकादयः “कारणमकारण”मेव वार्थं “विज्ञानोत्पत्तेः कथम्” न कथञ्चिद् “ब्रूयुः ।” एतदुक्तं भवति–यथा अग्निदर्शनानन्तरं धूमदर्शनं तथा यदि अर्थदर्शनानन्तरं ज्ञानदर्शनं स्यात् तदा स्यादर्थकार्यं तत्,23 न चैवमस्ति । ननु तदुत्पत्तेः पूर्वं ग्राहकाभावान्न तत्र155 कारणाकारणविभागप्रतिपत्तिः तदुत्पत्तौ156 तु भविष्यति, इत्यत्राह–““उत्पन्नम्”” इत्यादि । “उत्पन्नं” लब्धात्मलाभं “हि” स्फुटं “विज्ञानम् अर्थस्य परिच्छेदकं न तत्कारणतायाः ।” अधुना आलोकस्य ज्ञानकारणतां निराकुर्वन्नाह–““आलोकोऽपि”” इत्यादि । न केवलम् अर्थादिः, किन्तु “आलोकोऽपि न कारणम् “विज्ञानोत्पत्तेः”” इति सम्बन्धः । कुत एतदित्याह–“परिच्छेद्यत्वात् ।” प्राक्157 प्रसाधितं दृष्टान्तमाह–““अर्थवत्”” इति । “अर्थ” इव “अर्थवत् ।”

ननु158 यद्यालोकः तदुत्पत्तेः कारणं न स्यात्तर्हि तदभावेऽपि159 रूपज्ञानोत्पत्तिः कुतो न स्यादित्याशङ्क्याह–

तमो160 निरोधि वीक्षन्ते161 तमसा नावृतं परम् ।
कुड्यादिकं न कुड्यादितिरोहितमिवेक्षकाः ॥ ५६ ॥

विवृतिः–नहि तमः चक्षुर्ज्ञानप्रतिषेधकं162 तमोविज्ञानाभावप्रसङ्गात् । अन्यत्र विज्ञानाभावहेतुरिति चेत्; आलोकोऽपि तमोविज्ञानाभावहेतुत्वात् तमोवदभावहेतुः स्यात् । अर्वाग्भागदर्शिनः परभागपरिच्छेदाभावात् तस्यापि ज्ञाननिरोधित्वं163 स्यात्तमोवत् । प्रत्यर्थमावरणविच्छेदापेक्षया ज्ञानस्य परिच्छेदकत्वात् । नावरणं तिमिरादि परिच्छेद्यत्वादर्थवत् ।

कारिकार्थ–

“तमः” अन्धकारं “वीक्षन्ते” विशेषेण164 अवाध्यमानतया प्रस्फुटरूपतया वा “ईक्षन्ते” पश्यन्ति जनाः । कथम्भूतं तत् ? इत्याह–“निरोधि” प्रच्छादकम् । तथा च आलोकाभावेऽप्युपजायमानं तज्ज्ञानं165 कथं तत्कार्यं166 स्यात् ? यदभावेऽपि167 यदुपजायते न168 तत् तत्कार्यम् यथा चक्षुषोऽभावेऽप्युपजायमानं रसज्ञानं न तत्कार्यम्, आलोकाभावेऽप्युपजायते च अन्धकाररूपादिज्ञानमिति । अथ मतम्–आलोकस्य तज्ज्ञानाहेतुत्वे तमसि स्थितानां घटादीनां ग्रहणं स्यात्, तदयुक्तम्, तस्य169 तन्निरोधित्वात् । एतदेवाह–““तमसा”” इत्यादि । “तमसा” अन्धकारेण “आवृतं” प्रच्छादितं “परं” घटादिकं “न” ईक्षन्ते170 । अत्र दृष्टान्तमाह–““कुङ्यादिकम्”” इत्यादि । “इव” शब्दः यथाऽर्थे । यथा कुङ्यादिकं नेक्षन्ते “ईक्षकाः ।” कथम्भूतम् ? “कुड्यादितिरोहितं” परेण कुड्यादिना व्यवहितं तथा प्रकृतमिति ।

ज्ञानानुत्पत्तिव्यतिरेकेणनास्ति तमोऽर्थान्तरमिति शालिकनाथस्य, तेजोऽमावरूप एव तम इति यौगस्य च पूर्वपक्ष–

ननु171 ज्ञानानुत्पत्ति172व्यतिरेकेण173 अपरस्य तमसोऽसम्भवात् कस्य तन्निरोधित्वं174 स्यात् ? नहि असत् कस्यचिन्निरोधकन्नाम अश्वविषाणादेरपि तत्प्रसङ्गात् ? न च तदनुत्पत्तिव्यतिरेकेण175 अन्यस्यास्य169 असम्भवोऽसिद्धः, सालोकेऽपि गर्भगृहादिप्रदेशे बहिर्देशादागतस्य प्रतिपत्तुः असत्यप्यन्धकारे ज्ञानानुत्पत्तौ तमःप्रतीत्युपलब्धेः । द्रव्यान्तरत्वे त्वस्य169 चक्षुषः तत्प्रकाशने176 आलोकानपेक्षा न स्यात् । आलोकमेव हि चक्षुः आलोकनिरपेक्षं प्रकाशयति177 न द्रव्यान्तरम् । ननु तमसो178 ऽद्रव्यान्तरत्वे छायायाश्छत्रादेरर्थान्तरभूतायाः प्रतीतिर्न स्यात् । अस्ति चास्याः179 तथाभूतायाः180 प्रतीतिः ततो बीजादट्कुरवत् ततोऽसौ181182 द्रव्यान्तरं सिद्धा । तथाभूता चासौ182 सिद्ध्यन्ती तमसो द्रव्यान्तरत्वं साधयतीति, तदसमीचीनम्; आलोकाभावरूपतया183 अस्या द्रव्यान्तरत्वासम्भवेऽपि विभ्रमवशात् तत्र184 तत्प्रतीतेरुपपत्तेः185 । तथाहि–येन186 येन प्रदेशान्तरेण छत्राद्यावारकद्रव्यप्रतिबद्धं तेजो न संयुज्यते तत्र तत्र छाया प्रतीयते, प्रतिबन्धकस्य आतपत्रादेरपाये तु स्वरूपेण आलोकः प्रतीयते, इत्यालोकाभाव एव छाया187 । द्रव्यान्तरत्वे तु तस्यास्तदपायेऽपि188 आलोकेन सहावस्थितायाः प्रतीतिः स्यात् । न हि जातु किञ्चिद्द्रव्यं द्रव्यान्तरेण सहानवस्थायि प्रतीतम् ।

एतेन “छाया द्रव्यान्तरं देशाद्देशान्तरप्राप्तिमत्त्वेन क्रियावत्त्वात्” इत्येतत् प्रत्याख्यातम्; तथाहि–यत्र189 यत्र आतपत्राद्यावारकद्रव्येण तेजसः सन्निकर्षः प्रतिषिध्यते190 तत्र तत्र अन्याऽन्या छायोपलभ्यते, न पुनः पूर्वदेशोपलब्धा अन्यत्र देशे, इति आवारकद्रव्यगतं कर्म तत्राध्यारोप्य191 प्रतिपत्ता “छाया गच्छति” इति प्रतिपद्यते, यथा अश्वाद्यारूढः स्वगतं कर्म वृक्षेऽध्यारोप्य “वृक्षः आगच्छति” इति192 । देशान्तरप्राप्तिश्चास्याः193 देशान्तरेण संयोगः, समवायो वा ? यदि194 संयोगः, अन्योन्याश्रयः–तद्द्रव्यत्वसिद्धौ हि संयोगसिद्धिः, तत्सिद्धौ च तद्द्रव्यत्वसिद्धिरिति । अथ195 समवायः, तदप्यनुपपन्नम्, एकत्र समवेतस्य द्रव्यस्य अन्यत्र समवायाऽसम्भवादिति ।

तमश्छाययो पुद्गलद्रव्यत्वसिद्धिः–

अत्र प्रतिविधीयते । यत्तावदुक्तम्–“ज्ञानानुत्पत्तिव्यतिरेकेण196 नापरं तमः” इत्यादि, तदसमीक्षिताभिधानम्, प्रतीतिविरोधात्197 । सुप्रसिद्धा हि आलोकतमसोः198 स्वस्वरूपेण अन्योन्यविलक्षणयोः प्रतिप्राणि प्रत्यक्षतो विलक्षणा प्रतीतिः । न च विषयवैलक्षण्यव्यतिरेकेण प्रतीतेर्वैलक्षण्यं युक्तम्, पुरुषाद्यद्वैतसिद्धिप्रसङ्गतो199 भेदवादोच्छेदप्रसक्तेः । तमनिच्छता प्रतीतिवैलक्षण्यं विषयवैलक्षण्यपूर्वकं प्रतिपत्तव्यम् । प्रयोगः–तत्प्रतीतिवैलक्षण्यं200 विषयवैलक्षण्यपूर्वकं तत्त्वात् घटपटादिप्रतीतिवैलक्षण्यवत् । भावाभावरूपविषयवैलक्षण्यपूर्वकत्वेन201 आलोकतमःप्रतीतेरिष्टत्वात् सिद्धसाध्यता, इत्यप्यविचारितरमणीयम्, तमसो रूपादिमत्त्वेन202 आलोकवद् अभावरूपत्वानुपत्तेः । तद्रूपत्वे203 वा रूपादिमत्त्वविरोधात् । योऽभावो204 नासौ रूपादिमान् यथा घटाद्यभावः, आलोकाभावरूपतयेष्टञ्च तम इति । न चास्य रूपादिमत्त्वमसिद्धम्, आलोकवत् तत्रापि205 तत्सद्भावप्रतीतेः । यथैव हि आलोके भासुरं206 रूपम् उष्णस्पर्शश्च लोके प्रसिद्धः तथा छायादितमसि कृष्णं रूपं शीतस्पर्श इति । ततो द्रव्यं207 तमः गुणवत्त्वात्, यद् यद् गुणवत् तत्तद् द्रव्यम् यथा आलोकादि, गुणवच्च तम इति । न केवलं छायादेर्लोक208 एव गुणवत्त्वं प्रसिद्धम्, अपि तु वैद्यकशास्त्रेऽपि । तदुक्तम्–

आतपः209 कटुको रूक्षः छाया मधुरशीतला ।
कषायमधुरा ज्योत्स्ना सर्वव्याधिहरं करं तमः ॥ [राजनि॰]

अथ मतम्–औपचारिकस्त210त्र211 माधुर्यादिगुणो मुख्ये बाधकसद्भावात् । तथाहि– रसनेन्द्रियव्यापाराद् यथा क्षीरादिषु माधुर्यप्रतिपत्तिः न तथा छायायाम् । तस्मात् “मधुरादिद्रव्यनिषेवणाद् यौ गुणदोषौ दृष्टौ छायानिषेवणादपि तावेव” इति वैद्यकशास्त्रतात्पर्यम्, अतोऽसिद्धं गुणवत्त्वं छायादेः, इत्यप्यनल्पतमोविलसितम्, तत्रास्य212 अबाधबोधाधिरूढप्रतिभासतया औपचारिकत्वानुपपत्तेः । यद्यत्र213 अबाधबोधाधिरूढतया प्रतिभासते न तत्तत्रौपचारिकम् यथा तेजसि भासुरत्वादि, अबाधबोधाधिरूढतया प्रतिभासते च छायाद्यन्धकारे शीतलत्वादिगुणसद्भाव इति । तथाविधस्याप्यस्य214215 अत्रौपचारिकत्वे211 ज्योस्नाऽऽतपयोरपि216 मुख्यतो गुणसिद्धिर्मा भूत्, कटुकत्वादिगुणानां तत्राप्यौपचारिकत्वप्रसङ्गात्, प्रागुक्तवैद्यकग्रन्थप्रक्रियायाः तत्रापि कल्पयितुं सुशकत्वात् । ततः प्रतीतिं प्रमाणयता ज्योत्स्नादिवत् छायाद्यन्धकारेऽपि अनुपचरितगुणसद्भावसिद्धिरभ्युपगन्तव्या, इति सिद्धमस्य गुणवत्त्वाद्217 द्रव्यत्वम्218

यदप्युक्तम्–“असत्यपि अन्धकारे गर्भगृहादौ ज्ञानानुत्पत्तौ तमः प्रतीयते” इत्यादि, तत्रापि सर्वथा ज्ञानानुत्पत्तिस्तत्प्रतीतिहेतुः,219 तदन्तर्वर्त्तिपदार्थेषु वा ? प्रथमपक्षे स्ववचनविरोधः220 “माता मे वन्ध्या” इत्यादिवत् । न खलु सर्वथा ज्ञानानुत्पत्तिं वदतः तमःप्रतीतिरविरुद्धा, तत्प्रतीतौ221 वा सर्वथा ज्ञानानुत्पत्तिरिति222 । द्वितीयपक्षे तु प्रचुरतरालोकोपहतदृष्टिः प्रतिपत्ता तत्रस्थानर्थान्223 यथावत्प्रतिपत्तुमसमर्थः जलरूपतया मरीचिकाचक्रमिव आलोकमेव तमोरूपतया प्रतिपद्यते । न च मिथ्यातमःप्रतिभासेन अमिथ्यातमःप्रतिभासस्य साम्यमापादयितुं युक्तम्, सत्यजलादिप्रतिभासस्यापि असत्यजलादिप्रतिभासेन साम्यापादनप्रसङ्गतो वस्तुव्यवस्थाभावप्रसङ्गात् ।

किञ्च, ज्ञानानुत्पत्तिव्यतिरेकेण अपरस्य तमसोऽनभ्युपगमे विशदज्ञानोत्पत्तिव्यतिरेकेण224 अन्यस्य आलोकस्यापि अभ्युपगमो मा भूत् । असत्यपि हि आलोके बहलान्धकारनिशीथिनीसमये नक्तञ्चराणाम् अञ्जनाभिसंस्कृतचक्षुपाञ्च225226 प्रस्फुटज्ञानोत्पत्तौ सप्रकाशं सकलं227 वस्तु प्रकाशते । लोकप्रतीतिबाधा उभयत्र तुल्या । यथैव हि “मध्याह्ने अतितीव्रालोके बहिर्गन्तुमसमर्थाः” इति लौकिकी प्रतीतिः तथा “बहलान्धकारायां रात्रौ बहिर्गन्तुं त्रस्ताः” इत्यपि । ततो निर्बाधबोधाधिरूढप्रतिभासत्वेन आलोकद्रव्यस्य वास्तवत्वाभ्युपगमे तमोद्रव्यस्यापि तदभ्युपगन्तव्यं विशेषाभावात् ।

तथा, द्रव्यं228 छायाद्यन्धकारः घटाद्यावारकत्वात् काण्डपटादिवत् । गतिमत्त्वाच्चासौ229 वाणादिवत् द्रव्यम् । न च गतिमत्त्वमसिद्धम्; “वेगेन छाया गच्छति” “शनैश्छाया गच्छति” इति प्रतिप्राणि प्रसिद्धप्रतीतितः तस्याः179 तत्प्रसिद्धेः230 । अनुमानाच्च;231 तथाहि–गतिमती छाया देशाद्देशान्तरप्राप्तिमत्त्वात् वाणादिवत् ।

यदप्यभिहितम्–“देशान्तरप्राप्तिः232 देशान्तरेण संयोगः समवायो वा” इत्यादि; तत्र233 देशान्तरेण अस्याः प्राप्तिः सम्बन्धोऽभिप्रेतः, स234 च संयोग एव पर्यवस्यति । न चैवमन्योन्याश्रयत्वम्; अतश्छायाया235 द्रव्यत्वाऽप्रसाधनात् । देशान्तरप्राप्तितो हि तस्या गतिमत्त्वं प्रसाध्यते, तस्माच्च236 द्रव्यत्वमिति237 । न238 चैवं चक्रकप्रसक्तिरित्यभिधातव्यम्; तत्प्राप्तेः प्रत्यक्षत एव प्रसिद्धस्वरूपत्वात् । यदि हि द्रव्यत्वसिद्ध्या तत्प्राप्तिः239 प्रसाध्येत240 ततश्च गतिमत्त्वं तदा स्याच्चक्रकम् । कथमन्यथा “गतिमान् आदित्यो देशान्तरप्ताप्तिमत्त्वात्” इत्यादावपि इतरेतराश्रयादिदोषानुषङ्गो न स्यात् ?

यच्चान्यदुक्तम्–“आवारकद्रव्यगतं241 कर्म छायायामध्यारोप्य “छाया गच्छति” इति प्रतिपद्यते” इत्यादि, तदप्यपेशलम्, छायाया असत्त्वे242 तत्र184 आवारकद्रव्यगताया गतेरारोपानुपपत्तेः । सत्येव हि वृक्षादौ अश्वाद्यारूढ पुरुषः243 स्वगत कर्म तत्र244 अध्यारोपयति नासति इति, अतः तदध्यारोपान्यथानुपपत्तेः245 छायाया वास्तव सत्त्व सिद्धम् । प्रयोगः– छाया246 परमार्थसती अध्यारोप्यमाणगतित्वात्, यद् अध्यारोप्यमाणगति तत् परमार्थसत् यथा वृक्षादि, अध्यारोप्यमाणगतिश्च छाया इति । तन्न ज्ञानानुत्पत्तिमात्र तमः ।

विवृतिव्याख्यानम्–

ननु सिद्धस्यापि द्रव्यान्तरभूतस्य तमसः247 चक्षुर्ज्ञानप्रतिबन्धकत्वादयुक्तमुक्तम्–248 ““तमो निरोधि वीक्षन्ते”” इत्यादि, तदसाप्रतम्, यतः तत्किं249 स्वात्मनि तत्प्रतिबन्धकम्,250 अन्यत्र वा ? तत्राद्यपक्षे–““नहि”” इत्यादिना दूषणमाह–“नहि” नैव “तमः चक्षुर्ज्ञानप्रतिषेधकं” “स्वात्मनि” इत्यध्याहारः । कुत एन्तदित्याह । “तमोविज्ञानाभावप्रसङ्गात्,” अस्ति च तज्ज्ञानम्, अतो न तत् तत्प्रतिषेधकम्251 । प्रयोगः–यद्252 यज्ज्ञानस्य विषयो न तत् स्वात्मनि तज्ज्ञानस्य प्रतिषधकम् यथा काण्डपटादि, चक्षुर्ज्ञानस्य विषयश्च तम इति । अथ “अन्यत्र” घटादौ न स्वात्मनि, तत्249 “तद्विज्ञानाभावहेतुरिति चेत्;” तर्हि “आलोकोऽपि253 तमोविज्ञानाभावहेतुत्वात् तमोवदभावहेतुः स्यात् ।” चक्षुर्विज्ञानस्य “अभावः” अनुत्पत्तिः उत्पन्नस्य वा प्रध्वंसः, तस्य “हेतुः” कारणं “स्याद्” भवेत् । तथा254 च तैजस चक्षू रूपादीना मध्ये रूपस्यैव प्रकाशकत्वाद् आलोकवत् इत्यत्र255 प्रयोगे साधनविकलो256 दृष्टान्तः । अथ आलोकः तमोविज्ञानाभावहेतुः257 स्वरूप–घटा258दिविषयज्ञानहेतुश्चेष्यते,259 तर्हि तमोऽपि घटादिविषयज्ञानाऽहेतुः स्वविषयविज्ञानहेतुश्चेष्यतामविशेषात्260 । अथ आलोके सत्येव केषाञ्चिद्261 रूपज्ञानोत्पत्तेः तदभावे चानुत्पत्तेः असौ262 तद्धेतुः,263 तर्हि तमसोऽप्यभावे केषाञ्चित्त264ज्ज्ञानानुत्पत्तेः265 तस्मिन्266 सत्येव उत्पत्तेः तदपि267 तद्धेतुः268 स्यात् । तथा269 च “रूपादीनां मध्ये रूपादीनां प्रकाशकत्वात्” इत्ययं हेतुः तमसाऽनैकान्तिकः, तस्याऽतैजसत्वेऽपि रूपप्रकाशकत्वात्270

पुनरपि तमसः271 तज्ज्ञानप्रतिषेधकत्वे272 दूषणमाह–““अर्वाग्भागदर्शिनः”” इत्यादि । “अर्वाग्भागं” पश्यतीत्येवं शीलस्य “तद्दर्शिनः परभागपरिच्छेदाभावात् तस्यापि” अर्वाग्भागस्यापि273 न केवलं तमस एव274 “ज्ञाननिरोधित्वं275 स्यात्,” प्रक्रमात् “चक्षुर्ज्ञाननिरोधित्वं स्यात्” इति मन्यते । अत्र दृष्टान्तमाह–“तमोवत् । तमस इव” तद्वदिति । तथा च तद्वद्276 अर्वाग्भागस्याप्यदर्शनप्रसङ्गाद् असर्वदर्शिनोऽन्धतैव स्यात् । यच्चक्षुर्ज्ञाननिरोधि277 न तत् तज्ज्ञानग्राह्यम्278 यथा तमः, चक्षुर्ज्ञाननिरोधी च अर्वाग्भाग इति ।

ननु मा भूत् तम आवरणं तिमिरादि तु भविष्यति इत्यत्राह–““प्रत्यर्थम्”” इत्यादि । अर्थमर्थं प्रति “प्रत्यर्थम्, आवरणस्य” ज्ञानावरणीयकर्मणो यो “विच्छेद” अभावः “तदपेक्षया ज्ञानस्य परिच्छेदकत्वात्” अर्थग्राहकत्वात् कारणात् “नावरणं” ज्ञानस्य प्रच्छादकम् । किम् ? इत्याह–“तिमिरादि । आदि”शब्देन कामलादिपरिग्रहः । ज्ञानावरणीयं कर्मैव हि नियमेन तत्प्रच्छादकम्,279 तस्मिन्280 सति ज्ञानस्य अर्थपरिच्छेदकत्वाभावात्, न तिमिरादि तस्मिन् सत्यपि सत्यस्वप्ने रूपदर्शनसद्भावात् । इतश्च न तदावरणमित्याह–“परिच्छेद्यत्वात् ।” अत्र निदर्शनमाह–““अर्थवत्”” इति । प्रयोगः– यत्परिच्छेद्यं281 न तद् आवरणम् यथा अर्थः, परिच्छेद्यञ्च तिमिरादि इति । ननु तिमिरादीनामनावरणत्वे यद्विज्ञानं स्वविषये विपर्यस्तं तत्सावरणम् यथा चक्षुर्विज्ञानं282 द्विचन्द्रादिगोचरम्, तथाविधञ्च मिथ्यादृशां ज्ञानम् [ ] इत्याचार्यीयं वचः स्वाभ्युपगमविरुद्धं स्यादिति चेत्, न, अन्यथाभिप्रायात् । तमस्तिमिरादि वा अदृष्टकारणनिरपेक्षमावरणं283 न भवति, तत्सापेक्षं तु भवत्येव इत्ययमाचार्यस्यामिप्रायः ।

ननु च आत्मनो ज्ञानस्वभावतया सवर्त्र सर्वदा284 सर्वथा285 सर्वार्थग्रहणस्वभावत्वेन अशेषज्ञत्वप्रसङ्गान्न किञ्चिदावरणकल्पनया इत्याशङ्कापनोदार्थमाह–

मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारतः286
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥ ५७ ॥

विवृतिः–यथास्वं287 कर्मक्षयोपशमापेक्षिणी करणमनसी निमित्तं विज्ञानस्य न बहिरर्थादयः । नाननुकृतान्वयव्यतिरेकं288 कारणं नाकारणं विषयः [ ] इति बालिशगीतम्; तामसखगकुलानां तमसि सति रूपदर्शनम् आवरणविच्छेदात्, तदविच्छेदात् आलोके सत्यपि संशयादिज्ञानसम्भवात् । काचाद्युपहतेन्द्रियाणां शङ्खादौ पीताद्याकारज्ञानोत्पत्तेः । मुमूर्षूणां यथासम्भवम् अर्थे सत्यपि विपरीतप्रतिपत्तिसद्भावात् नार्थादयः कारणं ज्ञानस्य इति स्थितम् ।

कारिकार्थ–

“मलैर्विद्धः” सम्बद्धो यो “मणिः” तस्य “व्यक्तिः” आविर्भावो “यथा” येन विश्रसोपयोगप्रकारेण289 “अनेकप्रकारतः” विशेदतरप्रकारम् एकदेशसाकल्यप्रकारं निकटदूरदेशवर्तिस्वप्रकाश्यप्रकाशनप्रकारम् । अन्यं वा विषयापहारादिलक्षणमाश्रित्य, “तथा” तेन प्रकारेण “कर्मभिः” ज्ञानावरणीयादिभिः “विद्धस्य”290 प्रच्छादितस्य “आत्मनो” जीवस्य “विज्ञप्तिः” अर्थप्रकाशकत्वलक्षणा “अनेकप्रकारतः” इन्द्रियाऽनिन्द्रियाऽतीन्द्रियप्रकारम्291 सकलविकलसन्निकृष्टविप्रकृष्टार्थप्रकाशनप्रकारम् स्वपररूपोद्योतनप्रकारम् प्रत्यक्षेतरत्वप्रकारं वा आश्रित्य भवति । ननु292 पूर्वोत्तरज्ञानक्षणव्यतिरिक्तः, कायाकारपरिणतभूतचतुष्टयव्यतिरिक्तो वा न कश्चिदात्माऽस्ति तत्कस्य अनेकप्रकारतो विज्ञप्तिः स्यादिति सौगत-चार्वाकौ, तौ च प्रतिपादितविस्मरणशीलौ, सन्ताननिषेधावसरे293 हि पूर्वोत्तरज्ञानक्षणव्यतिरिक्तः अनादिनिधनः प्रतिपादितः प्रमाता, चार्वाकमतपरीक्षायाञ्च29 कायाकारपरिणतभूतचतुष्टयव्यतिरिक्तः इत्यलमतिप्रसङ्गेन ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““यथास्वम्”” इत्यादि । यस्य ज्ञानस्य यद्294 आवारकं “स्वम्” आत्मीयं कर्म तस्यानतिक्रमेण “यथास्वम् । कर्मक्षयोपशमावपेक्षेते” इत्येवं शीले “तदपेक्षिणी करणमनसी” इन्द्रियानिन्द्रिये “निमित्तं विज्ञानस्य,” न बहिरर्थादयः,295 एतच्चानन्तरमेव प्रपञ्चितम् । दृष्टे च करणमनसी स्वावरणरजोनीहारादिक्षयोपशमापेक्षिणी पादपादिविज्ञानस्य निमित्तम् । दृष्टेन च अदृष्टसिद्धिः296 । ““नाननुकृत”” इत्यादिना परमतमाशङ्कते–कार्येण297 “अननुकृतावन्वयव्यतिरेकौ” यस्य तत् तथाविधं “न कारणम्” अपि तु अनुकृतान्वयव्यतिरेकमेव कारणम् । यच्च “अकारणं” तन्न “विषयो”298 ज्ञानस्य, “इति” शब्दः परमतपरिसमाप्तौ । अत्र दूषणमाह–““बालिशगीतम्”” इत्यादि । “बालिशस्य” अविवेकिनो “गीतं” भाषितम् । कुत एतदित्याह–“तामसखगकुलानां तमसि सति रूपदर्शनम् आवरणविच्छेदात्,” नालोकात् इत्यभिप्रायः । तथा “तदविच्छेदात्” तस्य आवरणस्य विच्छेदाभावात् हेतोः “आलोके सत्यपि संशयादिज्ञानसम्भवात् ।” इतश्च नालोकात् तद्दर्शनम् इत्याह–““काच”” इत्यादि । “काचः” चक्षुषो व्याधिविशेषः “आदि”र्यस्य तिमिरादेः स तथोक्तः तेन “उपहतानि इन्द्रियाणि” येषां तेषां शुक्ले “शङ्खादौ पीताद्याकारज्ञानोत्पत्तेः “सत्यपि299 आलोके बालिशगीतम्”” इति सम्बन्धः । तथा “मुमूर्षूणां”300 प्राणिनां “यथासम्भवं” सम्भवानतिक्रमेण “अर्थे सत्यपि विपरीतप्रतिपत्तिसद्भावात्” कारणात् “न अर्थादयः आदि”शब्देन आलोकादिपरिग्रहः, “कारणं विज्ञानस्य इति स्थितम् ।” पूर्वं301 नैयायिकर्मपेक्ष्योक्तम्, इदं सौगतमिति प्रविभागः302

अत्रैव दूषणान्तरमाह–

303 तज्जन्म न ताद्रूप्यं न तद्व्यवसितिः सह ।
प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् ॥ ५८ ॥

विवृतिः–नार्थः कारणं विज्ञानस्य कार्यकालमप्राप्य304 निवृत्तेः अतीततमवत् । न ज्ञानं तत्कार्यं तदभाव एव भावात् तद्भावे चाभावात् भविष्यत्तमवत् । नार्थसारूप्यभृत् विज्ञानम् अमूर्त्तत्वात् । मूर्त्ता एव हि दर्पणादयः मूर्त्तमुखादिप्रतिबिम्बधारिणो305 दृष्टाः, नामूर्त्तं306 मूर्त्तप्रतिबिम्बभृत्, अमूर्त्तं च ज्ञानं मूर्त्तिधर्माभावात् । नहि307 ज्ञाने अर्थोऽस्ति तदात्मको वा येन तस्मिन् प्रतिभासमाने प्रतिभासेत शब्दवत् । ततः तदध्यवसायो न स्यात् । कथमेतदविद्यमानं त्रितयं ज्ञानप्रामाण्यं प्रति उपकारकं स्यात् लक्षणत्वेन ?

कारिकार्थ–

तस्माद् अर्थात् जन्म “तज्जन्म न” ज्ञानस्य “प्रामाण्यं प्रति हेतुतां भजन्तीतीह”लोके,308 “न ताद्रूप्यं” तस्य अर्थस्य309 रूपमिव रूपं यस्य तस्य भाव “ताद्रूप्यं न” तत्प्रति310 तां311 “भजति”312 इति सम्बन्धः । “न तद्व्यवसितिः तस्य” अर्थस्य व्यवसितिः निर्णीतिः न तत्प्रति तां भजतीति,312 “सह” युगपत् “प्रत्येकं वा” एकमेकं313 वा एकमेकं प्रति प्रत्येकम्, ““वा”” इति समुच्चये । तत्र न तावत् प्रत्येकम्;314 तज्जन्मनः करणग्रामेण व्यभिचारात्, ताद्रूप्यस्य समानार्थसमनन्तरज्ञानेन, तद्व्यवसितेः द्विचन्द्राध्यवसायेन । नापि सह,315 शुक्ले शङ्खे पीतभ्रान्तिकारणेन पीतज्ञानेन अनेकान्तात् ।

विवृतिव्याख्यानम्–

एतत्त्रितयमसम्भवदोषेण316 दूषयन् कारिकां व्याचष्टे ““नार्थः”” इत्यादिना । सौगतस्य “नार्थः कारणं विज्ञानस्य ।” कुतः इत्याह–““कार्यकालम्”” इत्यादि । “कार्यस्य” स्वज्ञानस्य “कालमप्राप्य निवृत्तेः” विनाशात् । अत्र दृष्टान्तमाह–““अतीततमवत्”” इति । प्रयोगः–अनन्तरातीतोऽर्थः न ज्ञानकारणम्, तत्काले सर्वथाऽविद्यमानत्वात्, यस्य तत्काले सर्वथाऽविद्यमानत्वं नासौ तत्कारणम् यथा अतीततमोऽर्थः, तत्काले सर्वथाऽविद्यमानश्च अनन्तरातीतोऽर्थः इति । एतेन भाविनोऽप्यर्थस्य तत्कारणत्वं प्रत्याख्यातम् । यथा च अर्थो न तज्ज्ञानकारणं तथा “न तज्ज्ञानं तत्कार्यम् ।” कुत एतदित्याह–““तद्”” इत्यादि । “तस्य” परपरिकल्पितस्य अर्थस्य “अभावे एव317 भावात्” उत्पत्तेः तज्ज्ञानस्य “तद्भावे च अभावाद्” अनुत्पत्तेः, अन्यथा318 सन्तानोच्छेदः319 स्यात् । अत्र दृष्टान्तमाह–““भविष्यत्तमवत्”” इति । निषिद्धा च अर्थकार्यता ज्ञानस्य प्रपञ्चतः प्राग् इत्यलं पुनः प्रसङ्गेन ।

सारूप्यनिषेधार्थमाह–““नार्थः”” इत्यादि । “विज्ञानं न अर्थसारूप्यभृत् ।” कुतः ? “अमूर्त्तत्वात् ।” ननु अमूर्त्तञ्च स्यात् तद्भृच्च, को विरोधः ? इति चेदत्राह–““मूर्त्ता एव”” इत्यादि । “मूर्त्ता एव हि”र्यस्मात् “दर्पणादयो मूर्त्तमुखादिप्रतिबिम्बधारिणो दृष्टाः ।” अमूर्त्तमपि किञ्चित् दृष्टम् इति चेदत्राह–ऽ“नाऽमूर्त्तं मूर्त्तप्रतिबिम्बभृद्” दृष्टमिति । प्रयोगः–ज्ञानं नार्थप्रतिबिम्बभृत्, अमूर्त्तत्वात्, यत् पुनरर्थप्रतिबिम्बभृत् तन्नामूर्त्तम् यथा दर्षणादि, अमूर्त्तञ्च ज्ञानमिति । कुतोऽस्य अमूर्त्तत्वं सिद्धमिति चेत् ? “मूर्तिधर्माभावात्320 ।” तद्धर्मो321 हि रूपरसगन्धस्पर्शवत्त्वे सति अचेतनत्वम्, नच ज्ञाने तदस्ति । निराकृतञ्चास्य व्यासतः सारूप्यं तन्निराकारत्वसिद्धिप्रघट्टके322323 इति कृतं प्रयासेन ।

तद्व्यवसितिं निराकुर्वन्नाह–““नहि”” इत्यादि । “हि”र्यस्मात् “न ज्ञाने” अधिकरणभूते “अर्थो” घटादिः “अस्ति,” किन्तु बहिः सोऽस्ति, “तदात्मको वा” ज्ञानस्वभावो वा ““अर्थः”” इति सम्बन्ध, सारूप्यनिषेधात्, अन्यत्र324 तत्प्रतिभासनात् इति मन्यते । “येन” तत्र325 सत्त्वेन तदात्मकत्वेन326 वा “तस्मिन्” विज्ञाने “प्रतिभासमाने प्रतिभासेत, “अर्थः”” इति घटना । क इव स327 तत्र325 नास्ति तदात्मको328 वा न इति चेदत्राह–“शब्दवत्, शब्द” इव तद्वदिति । ततः कि जातम् ? इत्याह–““तत्”” इत्यादि329 । यतो ज्ञानस्वरूपे प्रतिभासमानेऽपि तदाधेय-तदात्मकतया शब्दार्थयोः प्रतिभासो नास्ति “ततः तस्या”र्थस्य “अध्यवसायो330 न स्यात् ।” अध्यवसा331यो332 हि अभिलापवती333 प्रतीतिः,334 न चासौ335 तयोरननुभवे336 घटते अतिप्रसङ्गात् । विस्तरतश्च अविकल्पकात् तदध्यवसायप्रतिषेधः सविकल्पकसिद्धौ337 प्ररूपित इत्युपरम्यते । अतः338 सिद्धं फलं ““कथम्”” इत्यादिना दर्शयन्नाह–“एतत् परेणोक्तमविद्यमानं त्रितयं” तदुत्पत्तिसारूप्याध्यवसायलक्षणं “ज्ञानप्रामाण्यं प्रतिकथमुपकारकम् ?” न कथञ्चित् । केन रूपेण उपकारकं नैतत् स्यात् ? इत्याह– “लक्षणत्वेन ।” असम्भविलक्षणमेतत्339 इत्यभिप्रायः ।

ननु ज्ञानस्य तदुत्पत्तित्रितयासम्भवे कथमर्थग्राहकत्वमतिप्रसङ्गादित्यारेकायामाह–

स्वहेतुजनितोऽप्यर्थः340 परिच्छेद्यः स्वतो यथा ।
तथा ज्ञानं स्वहेतूत्थं341 परिच्छेदात्मकं स्वतः ॥ ५९ ॥

विवृतिः–अर्थज्ञानयोः स्वकारणादात्मलाभमासादयतोरेव परिच्छेद्यपरिच्छेदकभावः नाऽलब्धात्मनोः342 कर्त्तृकर्मस्वभाववत् । ततः तदुत्पत्तिमन्तरेणापि ग्राह्यग्राहकभावसिद्धिः स्वभावतः स्यात्, अन्यथा व्यवस्थाभावप्रसङ्गात् ।

कारिकार्थ–

“स्वेन” आत्मीयेन “हेतुना जनितोऽप्यर्थः”343 घटाद्यर्थः “परिच्छेद्यः स्वतः” स्वरूपेण तत्स्वभावतयैवास्य34424 स्वहेतोरुत्पत्तेः । नहि ज्ञानेन अर्थस्तत्स्वभावो345 जन्यते, अन्योन्याश्रयानुषङ्गात्–सिद्धे हि ज्ञाने तथाविधार्थ सिद्धिः, तत्सिद्धौ च ज्ञानसिद्धिरिति । “यथा” येन योग्यताप्रकारेण “तथा ज्ञानं स्वहेतूत्थं”346 करणमनोलक्षणस्वकारणप्रभवं “परिच्छेदात्मकम्” अर्थग्रहणस्वभावं “स्वतो” न अर्थोत्पत्त्यादेः ।

विवृतिव्याख्यानम्–

कारिकां व्याख्यातुमाह–““अर्थज्ञानयोः”” इत्यादि । “स्वकारणात्” न परस्परतः “आत्मलाभमासादयतोरेव” यथासङ्ख्येन “परिच्छेद्यपरिच्छेदकभावः, न अलब्धात्मनोः” सर्वथा नित्ययोः क्षणिकयोर्वा । अत्र दृष्टान्तमाह– ““कर्त्तृकर्मस्वभाववत्”” इति । यथा स्वकारणाद् आत्मलाभमासादयतोरेव अनयोः347 कर्त्तृकर्मस्वभावः नैकान्तेन सतोः नाप्यसतोः, तथा प्रकृतोऽपि348 इति349 । उपसंहारार्थमाह– ““ततः”” इत्यादि । यत स्वकारणादुत्पन्नयोः तयोः58 तथाभावः350 सिद्धः “ततः तस्मात्” अर्थाद् “उत्पत्तिमन्तरेणापि” अर्थज्ञानयोः “ग्राह्यग्राहकभावसिद्धिः स्यात् ।” कुतः ? “स्वभावतः” स्वयोग्यतायाः । “अन्यथा” अन्येन प्रकारेण “व्यवस्थाभावप्रसङ्गात् ।”

ननु सिद्धेऽपि स्वरूपतस्तद्भावे351 तत्फलं वक्तव्यम्, तच्च “अधिगतिमात्रम्” इत्येके,352 “स्वरूपस्यैव अधिगतिः” इत्यन्ये,353 “अर्थस्यैव” इत्यपरे354 इत्याशङ्क्याह–

व्यवसायात्मकं355 ज्ञानमात्मार्थग्राहकं मतम् ।
ग्रहणं निर्णयस्तेन मुख्यं356 प्रामाण्यमश्नुते ॥ ६० ॥

विवृतिः–अनिर्णीतिफलस्य357 नाधिगमोऽस्ति विचार्यमाणायोगात् । अविसंवादकत्वञ्च निर्णयायत्तं तदभावेऽभावात्तद्भावे च भावात् । व्यवसायफलं ज्ञानं मुख्यं प्रमाणमिति व्यवस्थितम् । स्वतोऽव्यवसायस्य358 विकल्पोत्पादनं प्रत्यनङ्गत्वात् । तदुत्पत्तिं प्रत्यङ्गत्वे अभिलापसंसर्गयोग्यता न प्रतिषेध्या, अन्यथा विकल्पोत्पत्त्यभावप्रसङ्गात् । सति मुख्ये निर्णयात्मके ज्ञाने सकलव्यवहारनियामके कथमसंवेद्यमकिञ्चित्करमनुपायमनुपेयं ब्रुवाणः स्वस्थः ?

कारिकार्थ–

“व्यवसायः” स्वार्थनिश्चाय359 “आत्मा” स्वभावो यस्य तत् तदात्मकम् व्यवसायफलात्मकमित्यर्थः । अनेन “निर्विकल्पक विभिन्नाऽधिगतिमात्रफलप्रमाधकं360 प्रमाणम्” इति प्रत्याख्यातम् । तथाविधफलात्मकञ्च प्रमाण किम् ? इत्याह–“ज्ञानम् ।” अनेनापि “चक्षुरादिकमज्ञान प्रमाणम्” इति प्रतिव्यूढम्, तस्य361 तदात्मक362त्वविरोधात्363 । प्रसाधितञ्च प्रपञ्चतः प्रमाणात् स्वपरव्यवसायात्मकं फलं कथञ्चिदभिन्नम् ““पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम्”” [लघी॰ का॰ ७] इत्यत्र364 । पुनरपि कथम्भूत तत् ? इत्याह–“आत्मार्थग्राहकम्,” स्वपररूपवेदकम् । “मतम्” स्वसंवेदनाध्यक्षेण ज्ञातम् । समर्थितञ्च व्यासतो ज्ञानस्य आत्मग्राहकत्वं स्वसंवेदनसिद्धौ,365 अर्थग्राहकत्वञ्च बाह्यार्थसिद्धौ366 इत्यलमतिविस्तरेण । ततः किं सिद्धम् ? इत्याह–““ग्रहणम्”” इत्यादि । येन कारणेन “व्यवसायात्मकं ज्ञानम् आत्मार्थग्राहकं” तेन कारणेन367 “ग्रहणं” स्वार्थाधिगति “निर्णयो मुख्य”मनुपचरितं “प्रामाण्यमश्नुते,” न निर्विकल्पक चक्षुरादि वा ।

विवृतिव्याख्यानम्–

कारिकां व्यतिरेकमुखेन व्याख्यातुमाह–““अनिर्णीतिफलस्य”” इत्यादि । “अनिर्णीतिफलस्य” निश्चयफलरहितस्य अविकल्पकस्य इत्यर्थः । “नाधिगमोऽस्ति” नानुभवोस्ति, कुत एतदित्याह–“विचार्यमाणायोगात्,” यस्य विचार्यमाणस्यायोगो न तस्यानुभवो यथा अद्वैतशून्यादितत्त्वस्य, विचार्यमाणस्यायोगश्च निर्विकल्पकदर्शनस्य इति । यथा चास्य विचार्यमाणस्याऽयोगः तथा सविकल्पकसिद्धौ368 प्रपञ्चतः प्रतिपादितम् । अथ अविकल्पकस्य अविसंवादकत्वात् प्रामाण्यं प्रार्थ्यते, अत्राह–““अविसंवाद”” इत्यादि । “अविसंवादकत्वं” गृहीतार्थतथाभावः “तदायत्तं” निर्णयायत्तम् । कुत एतदित्याह–““तद्”” इत्यादि । “तस्य” निर्णयस्य “अभावे” क्षणक्षयादिदर्शने369 मरीचिकादिदर्शने वा संशयकारिणि “अभावाद” अविसंवादकत्वस्य, “तद्भावे” च निर्णयसद्भावे370 च “भावाद्” अविसंवादकत्वस्य इति । “व्यवसायफलं ज्ञानं मुख्यं प्रमाणम् इति” एव व्यवस्थितमित्युपसहारः ।

माभून्निर्विकल्पकं स्वयमव्यवसायात्मकत्वात् तत्फलं371 तज्जनकत्वात्तु372 स्यात् इति चेदत्राह–““स्वतः”” इत्यादि । “स्वतोऽव्यवसायस्य” स्वयं निर्विकल्पकस्य “विकल्पोत्पादनं प्रत्यनङ्गत्वात् ।” एतच्च373 सविकल्पकसिद्धौ368 सप्रपञ्चं प्रपञ्चितमिति नेहोच्यते । तदङ्गत्वे वा दूषणमाह–““तत्”” इत्यादि । “तस्य” विकल्पस्य “उत्पत्तिं प्रत्यङ्गत्वे स्वतोऽव्यवसायस्य अभिलापससंर्गयोग्यता न प्रतिषेध्या374 ।” अभिलप्यतेऽनेन अभिलप्यत इति वा अभिलापः शब्दजात्यादी375 तयोः “संसर्गो” वाच्यवाचकभावलक्षणः सम्बन्धः तस्मै “योग्यः” तस्य भावस्तत्ता “न प्रतिषेध्या ।” यथैव376 हि विकल्पस्य377 अर्थाकारलेशदर्शना378द्379 दर्शनस्य380 तदाकारताऽनु381मीयते382 तथा383 तस्य384 अभिलापसंसर्गयोग्यतादर्शनात् दर्शनस्यापि साऽनुमीयतामविशेषात्385 । दर्शनेऽसम्भविनी तस्य384 तद्योग्यता386 भवति नार्थाकार387 इति किङ्कृतोऽयं विभागः388 ? तन्निषेधे ““अन्यथा”” इत्यादिना दूषणमाह । “अन्यथा” तद्योग्यतानिषेधप्रकारेण “विकल्पोत्पत्त्यभावप्रसङ्गात्,”389 सा ““न निषेध्या”” इति सम्बन्धः । ननु विकल्पवासनात एव विकल्पोत्पत्तिः, दर्शनं तु केवलं तत्प्रबोधकम्390 ततोऽयमदोषः; इत्यत्राह–““सति”” इत्यादि । “सति” विद्यमाने “मुख्ये” स्वपरव्यवस्थायाम् अन्यनिरपेक्षे “निर्णयात्मके ज्ञाने ।” पुनरपि कथम्भूते इत्याह–““सकल”” इत्यादि । अर्थानुभवसंस्कारतत्प्रबोधस्मरणप्रत्यभिज्ञानतर्कानुमानप्रवृत्तिलक्षणः “सकलो व्यवहारः तन्नियामके ब्रुवाणः” सौगतः “कथं स्वस्थः ?” किं ब्रुवाण इत्याह–“ज्ञानम् ।” कथम्भूतम् ? “अकिञ्चित्करं” निर्विकल्पकं “असंवेद्य” “न संवेद्यते” इत्य“संवेद्यम्,” न विद्यते वा संवेद्यं ग्राह्यं यस्य, अत एव “अनुपायमनुपेयमिति391 ।”

एवं सामान्येन व्यवसायात्मकं ज्ञानं प्रमाणं व्यवस्थाप्य, अधुना तद्भेदं दर्शयन्नाह–

तत्प्रत्यक्षं392 परोक्षञ्च द्विधैवात्रान्यसंविदाम् ।
अन्तर्भावान्न393 युज्यन्ते नियमाः परकल्पिताः ॥ ६१ ॥

विवृतिः–इन्द्रियार्थज्ञानं स्पष्टं हिताहितप्राप्तिपरिहारसमर्थं394 प्रादेशिकं395 प्रत्यक्षम् अवग्रहेहावायधारणात्मकम् । अनिन्द्रियप्रत्यक्षं स्मृतिसञ्ज्ञाचिन्ताभिनिबोधात्मकम् । अतीन्द्रियप्रत्यक्षं396 व्यवसायात्मकं स्फुटतरमवितथमतीन्द्रियमव्यवधानं लोकोत्तरमात्मार्थविषयम् । तदस्ति397 सुनिश्चितासम्भवद्बाधकप्रमाणत्वात् सुखादिवत् । श्रुतं परोक्षं सकलप्रमाणप्रमेयेयत्तास्वरूपाभिधायि बाधारहितं प्रमाणम् । अत्र अर्थापत्त्यनुमानोपमानादीन्यन्तर्भवन्ति । परपरिकल्पितप्रमाणान्तर्भावनिराकरणमन्यत्रोक्तमिति नेहोच्यते ।

कारिकार्थ–

यद्व्यवसायात्मक ज्ञानं प्रमाणं प्रतिपादितं “तत् द्विधैव,”398 नैकविध नापि त्र्यादिविधम् इत्येवकारार्थः । कथ तद्द्विधैव ? इत्याह–“प्रत्यक्षं परोक्षञ्च ।” इतिशब्दोऽत्र द्रष्टव्य, इति एवम्, न प्रत्यक्षानुमानप्रकारेण । ननु अनुमानोपमानादेः ततोऽर्थान्तरत्वात् कथं ““द्विधैव”” इति नियमः स्यात् ? इत्याह– ““अत्र”” इत्यादि । “अत्र” प्रत्यक्षपरोक्षयो “अन्या”सां समीचीन“संविदाम्399 अन्तर्भावात् द्विधैव” इति । अन्तर्भावश्च परोक्षपरिच्छेदे चिन्तितः । अतश्च “न युज्यन्ते नियमाः परैः” सौगतादिभिः “कल्पिताः ।”

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““इन्द्रिय”” इत्यादि । “इन्द्रियाणां” चक्षुरादीनां कार्यभूतम् “अर्थस्य” घटादे ग्राहक न मरीचिकातोयादेः, “ज्ञानं400 प्रत्यक्षम् ।” किंविशिष्टम् ? “स्पष्टम्” विशदम् । निर्विकल्पकं401 परोक्षं402 ज्ञानान्तरप्रत्यक्षं403 वा तथा404 स्यात् इत्यत्राह–““हित”” इत्यादि । “हितं” सुखं तत्साधनञ्च “अहितं” दुखं तत्कारणञ्च तयोः “प्राप्तिपरिहारौ” तत्र “समर्थं” योग्यम् । नच निर्विकल्पकादेः तत्र405 सामर्थ्यम् अर्थमात्रग्रहणेऽप्यस्य406 सामर्थ्यासम्भवात् इत्युक्तम्368 सविकल्पकादिसिद्धिप्रघट्टके । ननु सविकल्पकप्रत्यक्षेण सर्वात्मना अर्थस्य गृहीतत्वात्407 तत्र155 प्रमाणान्तराप्रवृत्तिः स्यात् इत्यत्राह–“प्रादेशिकम् ।” सर्वमस्मदादिप्रत्यक्ष प्रदेश एव नियतम् । द्विचन्द्रादिदर्शनेऽपि तैमिरिकज्ञानेन एकत्वाद्यदर्शनवत्, नीलादिदर्शनेऽपि क्षणपरिणामादर्शनवद्वा । साम्प्रतमिन्द्रियज्ञानस्य408 स्वसंवेदनप्रत्यक्षं दर्शयन्नाह–““इन्द्रिय”” इत्यादि । “इन्द्रियाणां” कार्यम् “आत्मनः” संविदां स्वरूपस्य “ज्ञानं स्पष्टं हिताहितप्राप्तिपरिहारसमर्थं प्रादेशिकं प्रत्यक्षम्” इति । तदुभयमपि किं भेदम् ? इत्याह–“अवग्रहेहावायधारणात्मकम् ।” व्याख्याता अवग्रहादयः409 प्रत्यक्षपरिच्छेदे,410 ते आत्मा यस्य तत् तदात्मकम् ।

इदानीम्411 ““अनिन्द्रिय”” इत्यादिनाऽनिन्द्रियप्रत्यक्षं दर्शयति–अनिन्द्रियस्य मनसः कार्यं ज्ञानम् “अनिन्द्रियप्रत्यक्षम् ।” ननु च इन्द्रियज्ञानमपि अनिन्द्रियस्य भवत्येव कार्यं तत्कथमयं प्रविभागः412 इति चेत् ? प्रधानेतरभावात्413 । इन्द्रियज्ञाने414 हि इन्द्रियाणां प्रधानभावः, अत्र415 तु अनिन्द्रियस्य416 इति युक्तः प्रविभागः । किं रूपं तद् ? इत्याह– “स्मृतिसञ्ज्ञाचिन्ताभिनिबोधात्मकम् ।” ननु स्मृत्यादीनां परोक्षतया पूर्व417 प्रतिपादितत्वात् कथमत्र प्रत्यक्षतया प्रतिपादनं युक्तं पूर्वापरविरोधप्रसङ्गात्, इत्यप्यचर्चिताभिधानम्, यत्रांशे तेषां स्पष्टत्वं तत्रैव प्रत्यक्षत्वप्रतिपादनात्418 । स्वरूपे एव हि तेषां419 स्पष्टत्वम् अतस्तत्रैव420 प्रत्यक्षत्वम् ““आत्मज्ञानम्”” इत्यभिसम्बन्धात् । बहिरर्थे त्वस्य421 अस्पष्टत्वात् परोक्षता422 इति न कश्चिद्दोषः । अत्रापि ““हित”” इत्यादि, ““प्रादेशिकम्”” इति च सम्बध्यते । स्मृत्यादिग्रहणमुपलक्षणं तेन “सुखाद्यात्मकम्” इत्यपि गृह्यते ।

अधुना अतीन्द्रियप्रत्यक्षप्ररूपणार्थम् ““अतीन्द्रिय”” इत्याद्याह । इन्द्रियेभ्योऽतिक्रान्तम् “अतीन्द्रियं प्रत्यक्षम्,” कथम्भूतम् ? “व्यवसायात्मकम्,” अनेन साङ्ख्यसौत्रान्तिककल्पितं निर्विकल्पकं तन्निरस्तम् । “स्फुटतरम्,” अस्मदादिप्रत्यक्षात् समस्ते स्वगोचरे अतिशयेन विशदम् । “अवितथम्,” अभ्रान्तम् । अनेन भिक्षवोऽहमपि मायो पमः स्वप्नोपमः423 [ ] इति प्रत्याख्यातम् । तस्य इन्द्रियातिक्रान्तत्वं समर्थयमानः ““अतीन्द्रयम्”” इत्याद्याह424 । “अतीन्द्रियम्” इन्द्रियव्यापाराजन्यम्, कुतः ? “अव्यवधानम्” देशादिव्यवधानरहितं यतः, यत् स्वगोचरे देशादिव्यवधानरहित न तद् इन्द्रियव्यापारजन्यम् यथा सत्यस्वप्नज्ञानम्,425 स्वगोचरे देशादिव्यवधानरहितञ्च अतीन्द्रियप्रत्यक्षमिति । तथा च ईश्वरज्ञानम्426 इन्द्रियार्थसन्निकर्षजं प्रत्यक्षत्वे सति ज्ञानत्वात् इतरज्ञानवत् [ ] इति निरस्तम् । तज्ज्ञानस्य427 इन्द्रियप्रभवत्वे प्रत्यक्षपरिच्छेदे428 असर्वविषयत्वप्रतिपादनात् । “लोकोत्तरं” सकललोकोत्कृष्ट“मात्मार्थविषयम्,” “आत्मविषयम्” इत्यनेन अस्वसंविदितमीश्वराध्यक्षं निराकृतम् । तस्य आत्माऽगोचरत्वे अर्थगोचरत्वानुपपत्तिप्रतिपादनात् । “अर्थविषयम्” इत्यनेन तु नान्योऽनुभाव्यो429 बुद्ध्यास्ति [प्रमाणवा॰ २ । ३२७] इत्येतन्निरस्तम् । तदविषयत्वे430 बुद्धेः बुद्धिरूपत्वस्यैवानुपपत्तेः431 स्वपरव्यवसायस्वभावत्वात्तस्याः432 । प्रसाधितश्च बाह्योऽर्थः प्रपञ्चतो बाह्यार्थसिद्ध्यवसरे433 । ननु वन्ध्यासुतसौभाग्यव्यावर्णनप्रख्यमेतत् अतीन्द्रियप्रत्यक्षस्य सद्भावावेदकप्रमाणाभावतः खपुष्पवदसत्त्वात् इत्याशङ्क्याह–““तदस्ति”” इत्यादि । “तद्” अतीन्द्रियप्रत्यक्षम् “अस्ति सुनिश्चितासम्भवद्बाधकप्रमाणत्वात् सुखादिवत्” इति । समर्थितञ्चास्य सुनिश्चितासम्भवद्बाधकप्रमाणत्वं प्रबन्धेन सर्वज्ञसिद्धिप्रघट्टके434 इत्यलं पुनस्तत्समर्थनप्रयासेन ।

परोक्षमिदानीं व्याचष्टे ““श्रुतम्”” इत्यादिना । “श्रुतम्” अविस्पष्टतर्कणम् “तत्प्रमाणम् ।” किं सर्वम् ? न, “बाधारहितम् ।” पुनरपि कथम्भूतम् ? इत्याह–““सकल”” इत्यादि । “सकलं” यत् “प्रमाणं” यच्च “प्रमेयं” तयोः “इयत्तास्वरूपाभिधायि,” अनेन च प्रत्यक्षाऽनुमेयाऽन्यन्तपरोक्षलक्षणे स्थानत्रयेऽप्यस्य435 प्रामाण्यं दर्शयति । तथा च निराकृतमेतत्–तृतीयस्थानसङ्क्रान्तौ436 न्यय्यः437 न्याय्यः शास्त्रपरिग्रहः438 । [प्रमाणवा॰ ४ । ५१] इति । नहि प्रमाणानां सापत्न्यन्यायोऽस्ति439 येन एकविषये द्वितीयस्याप्रवृत्तिः स्यात् । अथ मतम्–अर्थापत्त्यादेः प्रमाणान्तरत्वप्रसिद्धे कथं प्रत्यक्षपरोक्षरूपतया प्रमाणद्वित्वसिद्धिः, यतो ““द्विधैव”” इति नियमः सुघटः440 स्यात् ? इत्यत्राह–““अत्र”” इत्यादि । “अत्र” परोक्षे “अर्थापत्त्यनुमानोपमानादीनि, आदि”शब्देन अविशदमन्यदपि441 प्रमाणं गृह्यते, “अन्तर्भवन्ति ।” तत्र442 तदन्तर्भावश्च परोक्षपरिच्छेदे प्रपञ्चितः । नन्वेवं सौगतादीनामपि स्वोपकल्पितप्रमाणसङ्ख्यायाम् इतरप्रमाणानामन्तर्भावो भविष्यति, इत्यत्राह– ““पर”” इत्यदि । “परैः” सौगनादिभिः “परिकल्पितस्य प्रमाणान्तर्भावस्य निराकरणम् अन्यत्र” परोक्षपरिच्छेदे “उक्तमिति नेह” प्रघट्टके पुन“रुच्यते ।”

श्रुतस्य भेदं दर्शयन्नाह–

उपयोगौ443 श्रुतस्य द्वौ स्याद्वादनयसञ्ज्ञितौ ।
स्याद्वादः444 सकलादेशो नयो विकलसङ्कथा ॥ ६२ ॥

विवृतिः–अनेकान्तात्मकार्थकथनं स्याद्वादः, यथा जीवः पुद्गलः धर्मोऽधर्मः आकाशं काल इति । तत्र जीवो ज्ञानदर्शनवीर्यसुखैः445 असाधारणैः अमूर्त्तत्वाऽसङ्ख्यातप्रदेशत्वसूक्ष्मत्वैः साधारणासाधारणैः सत्त्वप्रमेयत्वागुरुलघुत्वधर्मित्वगुणित्वादिभिः साधारणैः अनेकान्तः । तस्य जीवस्यादेशात् प्रमाणं स्याद्वादः । तथा इतरे परमागमतो योज्याः । ज्ञो जीवः सुखदुखादिवेदनात् इत्यादि विकलादेशो नयः । साकल्यम्446 अनन्तधर्मात्मकता । वैकल्यम्446 एकान्तः धर्मान्तराविवक्षातः । तत्र जीव इत्युक्ते जीवशब्दो योग्यतापेक्षोऽनादिसङ्केतः447 स्वभावभूताऽन्यापोहस्वार्थप्रतिपादनः न्यक्षेण प्रतिपक्षं निरस्य जीवमात्रमेव अभिदध्यात् ततः स्यात्पदप्रयोगात् सर्वथैकान्तत्यागात् स्वरूपादिचतुष्टयविशेषणविशिष्टो जीवः अभिधीयते इति “स्वेष्टसिद्धिः448 । नयोऽपि449 तथैव सम्यगेकान्तः । “स्याज्जीव एव” इत्युक्तेऽनेकान्तविषयः स्याच्छब्दः, “स्यादस्त्येव जीवः” इत्युक्ते एकान्तविषयः स्याच्छब्दः ।”

कारिकार्थ–

“उपयोगौ” व्यापारौ, कतिसङ्ख्यौ450 ? “द्वौ ।” कस्य ? “श्रुतस्य” श्रुताख्यप्रमाणस्य । किमाख्यौ ? “स्याद्वादनयसञ्ज्ञितौ,” स्याद्वादसञ्ज्ञितः नयसञ्ज्ञितश्च । कोऽसौ स्याद्वादः कश्च नयः इत्याह–““स्याद्वादः””451 इत्यादि । “स्याद्वादो” भवति, कोऽसौ ? “सकलादेशः” सकलस्य सम्पूर्णस्य वस्तुनः “आदेशः” कथनम् । “नयस्तु विकलसङ्कथा” वस्त्वेकदेशकथनम् ।

विवृतिव्याख्यानम्–

तत्र स्याद्वादपदं व्याचष्टे ““अनेकान्त”” इत्यादिना । “अनेकान्तात्मकस्य” अनेकधर्मस्वभावस्य “अर्थस्य” जीवादेः “कथनं स्याद्वादः ।” अत्रोदाहरणमाह– ““यथा”” इत्यादि । “यथा” इत्युदाहरणप्रदर्शने,452 “जीवः पुद्गलः धर्मोऽधर्म आकाशं काल इति” षट्द्रव्यरूपोऽर्थः, तस्य अनेकान्तात्मकत्वनिरूपणं स्याद्वादः । तत्र जीवे तावदनेकान्तात्मकत्वं ““तत्र”” इत्यादिना निरूपयति । “तत्र” तेषु जीवादिषट्पदार्थेषु मध्ये “जीव” आत्मा ““अनेकान्तः”” इति सम्बन्धः । कैर्धर्मैः इत्याह–“ज्ञानदर्शनवीर्यसुखैः ।” ननु453 दर्शनमेव पुरुषस्य स्वरूपं न ज्ञानादयः, तेषां प्रकृतिधर्मत्वात्454 तत्कथं तैरसौ455 अनेकान्तः456 ? इत्यप्ययुक्तम्, प्रकृतिधर्मतां निराकृत्य तेषां457 तद्धर्मतायाः458 प्रत्यक्षपरिच्छेदे459 प्रतिपादितत्वात् । ततः सूक्तम्–““ज्ञानादिभिः जीवोऽनेकान्तः”” इति । कथम्भूतैस्तैः इत्याह–“असाधारणैः” पुद्गलाद्यसम्भविभिः । ननु460 बुद्ध्यादयो नव आत्मनोऽसाधारणा461 गुणाः सन्ति तत्किमर्थमेते चत्वार462 एव दर्शिताः इति चेत् ? तेषामेव सहभुवां तद्गुणत्वप्रतिपादनार्थम्463 । इच्छादयो हि क्रमभाविनः पर्यायाः464 न गुणाः, अन्यथा भयहर्षशोककरुणामर्षौदासीन्यादीनामपि तद्गुणत्वप्रसक्तेः “नवैव” इति सङ्ख्यानियमो दुर्घटः स्यात् । परैरपि तदनेकान्तं465 दर्शयितुमाह–““अमूर्त्तत्व”” इत्यादि । रूपादिरहितत्वम् अमूर्त्तत्वम्, न पुनः असर्वगतद्रव्यपरिमाणाभावः,466 जीवस्य मूर्त्तत्वप्रसङ्गात् । तस्य467 असर्वगतत्वेन विषयपरिच्छेदे प्रसाधितत्वात्468 । “असङ्ख्यातप्रदेशत्वम्”469 असङ्ख्यातावयवोपेतत्वम्, “सूक्ष्मत्वं” शुद्धस्य तस्य470 केवलज्ञानादन्यतोऽसाक्षात्करणम्, तैः “अनेकान्तो “जीवः”” इति सम्बन्धः । किं विशिष्टैः “साधारणासाधारणैः, साधारणैः” गगनादावपि471 भावात्, “असाधारणैः” पुद्गलेष्वभावात् । पुनरन्यैस्तदनेकान्तं472 दर्शयन्नाह–““सत्त्व””473 इत्यादि । सुप्रसिद्धाः “सत्त्वप्रमेयत्वाऽगुरुलघुत्वधर्मित्वगुणित्वादयो धर्माः” तैः । कथम्भूतैः ? “साधारणैः” षट्स्वपि474 द्रव्येषु भावात् । “तस्य” एवंविधस्य “जीवस्य आदेशात्” कथनात् “प्रमाणं स्याद्वादः” तत्र तदविसंवादात् इति भावः । “तथा”475 तेन असाधारणोभय साधारणधर्माधिकरणत्वेन अनेकान्तप्रकारेण476 “इतरे”477 पुद्गलादयः पदार्थाः “परमागमतः” परमागममाश्रित्य “योज्याः ।”

इदानीं नयं दर्शयन्नाह–““ज्ञः”” इत्यादि । “जीव” इति धर्मिणो निर्देशः, “ज्ञः” चेतनास्वभावः इति साध्यस्य, “सुखदुःखादिवेदनादिति” हेतोः, “इति” एवं प्रयोगः “आदि”र्यस्य अनित्यशब्दादेः स तथोक्तः, स चासौ “विकलस्य” धर्मान्तरनिरपेक्षस्य धर्मस्य “आदेश”श्च “नयः” । ननु किमिदं साकल्यं वैकल्यञ्च478 आदेशस्य यतः ““स्याद्वादः सकलादेशो नयो विकलसङ्कथा”” इति स्यात् ? इत्यत्राह–““साकल्यम्”” इत्यादि । सकलस्य अनन्तधर्मात्मकस्य वस्तुनो भावः “साकल्यम् अनन्तधर्मात्मकता ।” तत्प्रतिपादकं वचनम् एवमुक्तम्,479 विषयस्य480 विषयिण्युपचारात्481 । “विकलस्य” एकदेशस्य भावो “वैकल्यम्–एकान्तः,” तदादेशः तथोक्तः । कुतः ? इत्याह–““धर्मान्तर”” इत्यादि । विवक्षितधर्माद् अन्यो “धर्मः तदन्तरं” तस्य “अविवक्षातः,”482 नान्यथा दुर्नयत्वप्रसङ्गात् । ननु44 शब्दस्य अर्थे सम्बन्धाभावतः प्रवृत्तेरेवाऽसम्भवात् न सकलविकलादेशप्ररूपणं युक्तम्, इत्यत्राह–““तत्र”” इत्यादि । “तत्र” अनन्तात्मके483 तत्त्वे स्थिते सति, यदि वा “तत्र” एवं स्याद्वादनयस्वरूपे निरूपिते सति ““जीव” इत्युक्ते जीवशब्दः” अवान्तरविशेषरहितं “जीवमात्रमेव अभिदध्यात् ।” कथम्भूतम् ? इत्याह–““योग्यता”” इत्यादि । योग्यतायाम् अपेक्षा यस्य योग्यतां वा अपेक्षते इति “योग्यतापेक्षः, अनादिः सङ्केतो” यस्य स तथोक्तः । ““योग्यता”” इत्यनेन तादात्म्यतदुत्पत्तिलक्षणसम्बन्धविरहे नित्यैकरूपसम्बन्धाऽसत्त्वेऽपि च शब्दार्थयोः वाच्यवाचकभावं दर्शयति, योग्यतास्वभावसम्बन्धसम्भवात् । एतच्च सप्रपञ्चं प्राक् प्रपञ्चितम् ।

ननु योग्यतातोऽपि शब्दस्य अर्थप्रतिपादकत्वे एकस्माच्छब्दात् युगपदनेकार्थप्रतिपत्तिः स्यात्, सर्वस्य शब्दस्य सर्वत्रार्थे प्रतिपादनयोग्यतासम्भवात्, तदनुपपन्नमिति484 ““सङ्केत”” इत्यनेन दर्शयति–सत्यामपि अनेकार्थप्रतिपादनयोग्यतायां485 विनियतसङ्केतवशाद् विनियतार्थप्रतीत्युपपत्तेः । एतच्च ““प्रमाणं श्रुतम्”” [लघी॰ का॰ २६] इत्यत्र प्ररूपितम् । ननु यदा जीवशब्दोऽर्थमभिधत्ते न तदा पूर्वसङ्केतोऽस्ति486 तत्कथं तदपेक्षस्यास्य487 नियतार्थप्रतीतिहेतुत्वमिति चेत्, न, “अस्येदं वाच्यम् इदं वाचकम्” इति चित्तस्य488 सङ्केतत्वात्, तस्य489 च तदापि भावात् । न चेदमवान्तरकल्पितम् इति “अनादि-” पदेन दर्शयति । ननु जीवमात्रमभिदध्यात् इत्ययुक्तम्, अन्यापोहस्यैव490 जातेरेव491 अन्योन्यविभिन्न492तद्द्वयस्यैव493 वा शब्दार्थत्वात्, इत्यत्राह–““स्वभाव”” इत्यादि । “स्वभावभूतः अन्य”तः सर्वतो“ऽपोहः” पररूपेण असत्त्वं यस्य स तथोक्त494 स चासौ “स्वार्थश्च” स्वाभिधेयः तस्य “प्रतिपादनः जीवशब्दः तन्मात्रमभिदध्यात् ।” किं कृत्वा ? “निरस्य ।” कम् ? “प्रतिपक्षम्,” प्रत्यनीकं मतम् अपोहादिमात्राभिधायित्वलक्षणम् । कथम् ? “न्यक्षेण” सामस्त्येन । यथा च अपोहादेः शब्दार्थता न घटते तथा ““प्रमाणं श्रुतमर्थेषु”” [लघी॰ का॰ २६] इत्यत्र प्रपञ्चतः प्रतिपादितम् । “ततः” तस्मात् न्यायात् “स्यात्पदप्रयोगात् सर्वथैकान्तस्य” “सन्नेव जीवः, असन्नेव, द्रव्यरूप एव, पर्यायरूप एव वा” इत्येवंरूपस्य “त्यागात्” निरासात्, “स्वरूपादिचतुष्टयविशेषणविशिष्टः” स्वद्रव्यक्षेत्रादिविशेषणविशिष्टः “जीवः” जीवशब्देन “अभिधीयते इति स्वेष्टस्य” अनेकान्तात्मनो जीवस्य “सिद्धिः ।”

एवं प्रमाणवाक्यमुपदर्श्य साम्प्रतं नयवाक्यं दर्शयन्नाह–““नयोऽपि”” इत्यादि । “नयोऽपि”495 नयवाक्यमपि496 न केवलं प्रमाणवाक्यम्, “तथैव” स्यात्पदप्रयोगप्रकारेणैव497 “सम्यगेकान्तः” सम्यगेकान्तविषयः स्यात्, अन्यथा498 मिथ्यैकान्तगोचरः स्यादिति । अधुना एवकारप्रयोगोपयोगं दर्शयन्नाह–““स्यात्”” इत्यादि । ““अनेकान्तः”” इत्येतदनुवर्त्तमानमिह सम्बध्यते । ततोऽयमर्थः सिद्धः–“स्यात्” कथञ्चित् “जीव एव” ज्ञानदर्शनसुखवीर्यैः धर्मैः अनेकान्तः नान्यः इति एवकारार्थः । “इत्येवमुक्ते” एवं वाक्ये प्रयुक्ते सति नैकान्तविषयः किन्तु “अनेकान्तविषयः स्याद्” भवेत् “शब्दः “स्याज्जीव एव”” इतिवाक्यम् अनेकान्तरूपस्य तस्य467 अभिधानात् । ““स्यादस्त्येव जीवः” इत्युक्ते” सति “एकान्तविषयः” सम्यगेकान्तगोचरः “स्याद्” भवेत् “शब्दः “स्यादस्त्येव”” इति वाक्यम्, प्रधानतः तदस्तित्वैकान्तप्रतिपादनात् । एवमुत्तरभङ्गेष्वपि499 वक्तव्यम् ।

ननु न सर्वत्र वाक्ये लौकिकाः स्यात्कारमेवकारञ्च प्रयुञ्जते,500 अन्यथैव तत्प्रयोगदर्शनात्, अतो न युक्तमेतदित्यारेकापनोदार्थमाह–501

अप्रयु502क्तोऽपि503 सर्वत्र स्यात्कारोऽर्थात् प्रतीयते ।
विधौ निषेधेऽप्यन्यत्र कुशलश्चेत् प्रयोजकः ॥ ६३ ॥

विवृतिः–क्वचित्स्यात्कारमनिच्छद्भिः सर्वथैकान्तोऽभ्युपगतः स्यात् । अवधारणाभावेऽपि अनेकान्तनिराकरणस्य504 अवश्यम्भावित्वात् अन्यथा प्रमाणनययोरभेदप्रसङ्गः । किं बहुना विधिनिषेधानुवादातिदेशादिवाक्येषु कारकेषु कर्त्रादिषु स्वार्थादिषु प्रातिपदिकार्थेषु साधनदूषणतदाभासवाक्येषु स्याद्वादमन्तरेण प्रस्तुताऽप्रसिद्धिः इत्याबालप्रसिद्धम् ।

कारिकार्थ–

“अप्रयुक्तोऽपि”505 न केवलं प्रयुक्तः “सर्वत्र” वाक्ये “स्यात्कारः,” उपलक्षणमेतत्506 तेन एवकारोऽपि “प्रतीयते ।” कुत इत्याह–“अर्थात्” सामर्थ्यात् । तथाहि–“पानीयमानय” इत्युक्ते यदि पानीयस्य अन्यस्य चानयनं507 लौकिकानामभिप्रेतं स्यात्तदा पानीयपदोपादानमनर्थकं स्यात् । अथाप्यनानयनमभिप्रेतम्, आनयनग्रहणं व्यर्थम् । अस्ति च तदुभयग्रहणम्, अतः एवकारप्रतीतिः इति । क्व ? “विधौ निषेधेऽपि,” भिन्नप्रक्रमः अपिशब्दः ““अन्यत्र”” इत्यस्यानन्तरं द्रष्टव्यः508 । “अन्यत्रापि”509 अनुवाद-अतिदेशादावपि । अथ यदि सर्वत्र सः प्रतीयते अङ्गुल्यग्रे हस्तियूथशतमास्ते [ ] इत्यादावपि510 प्रतीयेत । तथा च सर्वस्योभयरूपत्वे [प्रमाणवा॰ ३ । १८१] इत्यादिदोषानुषङ्गः511 स्यात् इत्यत्राह–““कुशलः”” इत्यादि । यथा योऽर्थः प्रमाणतः प्रतिपन्नः तथैव तस्य प्रतिपादकः “प्रयोजकः कुशलो” भवेत् नान्यथा, स “चेत् यदि प्रयोजकः” शब्दानामिति ।

विवृतिव्याख्यानम्–

व्यतिरेकमुखेन कारिकां विवृण्वन्नाह–““क्वचिद्”” इत्यादि । “क्वचिद्” विध्यादिवाक्ये “स्यात्कारमनिच्छद्भिः” एकान्तवादिभिः “सर्वथा” धर्मापेक्षया इव धर्म्यपेक्षयाऽपि,512 यद्वा यथा धर्म्यपेक्षया तथा धर्मापेक्षयापि “एकान्तः सर्वथैकान्तः” सोऽ“भ्युपगतः स्यात्” तत्र च प्रमाणविरोधः इत्यभिप्रायः । अतस्तद्विरोधं परिहर्त्तुमिच्छता सर्वत्र स्यात्कारोऽभ्युपगन्तव्यः । एवं व्यतिरेकमुखेन513 सर्वत्र स्यात्कारं प्रसाध्य इदानीं तथैव एवकारं प्रसाधयन्नाह–““अवधारण”” इत्यादि । “अवधारणस्य” एवकारस्य “अभावेऽपि”514 न केवलं स्यात्काराभावे ““सर्वथैकान्तोऽभ्युपगतः स्यात्”” इति सम्बन्धः । कुत एतदित्यत्राह–“अनेकान्तनिराकरणस्य515 अवश्यम्भावित्वादिति ।” तथाहि–“ज्ञानदर्शनोपयोगलक्षणो जीव एव” इति अन्ययोगव्यवच्छेदेन516 जीवस्यैव एतल्लक्षणलक्षितस्य517518 अनेकान्तानभ्युपगमे अजीवोऽपि तल्लक्षणः519 स्यादिति बहिरर्थव्यवस्थाविलोपः, तद्विलोपे च सकलप्रमाणप्रमेयादिव्यवहारापहारः520 । “तल्लक्षण521 एव सः” इति अयोगव्यवच्छेदानभ्युपगमे522 च रूपादिरप्येतल्लक्ष523णं524 स्यात् इति जीवेतरविभागाभावः स्यात् । “भवत्येव”525 इत्यवधारणाभावे अत्यन्तायोगाव्यवच्छेदः526 स्यात् ।

ननु साक्षात्प्रयुक्तस्य सामर्थ्यगम्यस्य वा एवकारस्यैव प्रतीतिर्युक्ता तत्साध्य527स्य528 अयोगादिव्यवच्छेदफलस्य सर्वत्र वाक्ये सम्भवान्न पुनः स्यात्कारस्य निष्फलत्वात् । उक्तञ्च–

अयोगमपरैर्योगमत्यन्तायोगमेव529 च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ [प्रमाणवा॰ ४ । १९०]

निपात530 एवकारः व्यतिरेचकः निवर्त्तकः । तत्र “चैत्रो धनुर्धर एव” इत्यत्र अयोगव्यवच्छेदः,531 तथाहि–परप्रतिपत्तये वाक्यं प्रयुज्यमानं यदेव परेण व्यामोहादाशङ्कितम् तदेव व्यवच्छिनत्ति, चैत्रश्च लोके धनुर्धरो न प्रतीतः, ततश्चैत्रस्य अधनुर्धरत्वशङ्काव्यवच्छेदेन धनुर्धरत्वविधानार्थं “चैत्रो धनुर्धर एव” इति वाक्यं प्रयुज्यते । “पार्थ एव धनुर्धरः” इत्यत्र532 अन्ययोगव्यवच्छेदः533 । नहि पार्थे534 अधनुर्धरत्वाशङ्का कस्यचिदस्ति धनुर्धरत्वेन अखिलजनप्रसिद्धत्वात्तस्य । तस्मात् यदतिशयवद्धनुर्धरत्वं तत् पुरुषान्तरसाधारणमाशङ्कितमिति तद्व्यवच्छेदाय “पार्थ एव धनुर्धरः” इति वाक्यं प्रयुज्यते । “नीलं सरोजं भवत्येव” इत्यत्र तु अत्यन्तायोगव्यवच्छेदः,535 यदा हि सरोजं नीलवर्णविविक्तं प्रसिद्धमिति नीलत्वमस्य नास्तीति आशङ्कितं भवति तदा तद्व्यवच्छेदाय “नीलं सरोजं भवत्येव” इति वाक्यं प्रयुज्यते इति ।

तदसमीक्षिताभिधानम्,536 स्यात्कारमन्तरेण इष्टानिष्टयोर्विधिनिषेधानुपपत्तेः, तथाहि-“पार्थ एव धनुर्धरः” इत्युक्ते सर्वत्र सर्वदा सर्वेषामन्यपुरुषाणां धानुर्धर्याभावः प्रतीयते, तत्र च प्रत्यक्षादिविरोधः । अथ विशिष्टं537 तदन्यपुरुषेषु प्रतिनियतदेशकालापेक्षया प्रतिषेद्धुमिष्टं न धनुर्धरत्वमात्र ततोऽयमदोषः, ननु538 अयमर्थः स्यात्कारप्रसादादेव प्रत्येतुं शक्य इति, एतत्प्रयोजनत्वात् कथसौ539 निष्फलः यतः साक्षात्प्रयुक्तस्य सामर्थ्यगम्य540स्य541 वा अस्य सर्वत्र वाक्ये प्रतीतिर्न स्यात् ? तथा “चैत्रो धनुर्धर एव” “नीलं सरोजं भवत्येव” इत्यत्र अयोगाऽत्य542न्तायोगयोः543 सर्वथा व्यवच्छेदे544 चैत्र–धानुर्धर्ययोः नीलसरोजयोश्च अन्यतरदेव स्यात् । अथ545 स्वस्वरूपापरित्यागेनैव अनयोः अयोगाऽत्यन्ताऽयोगव्यवच्छेदः नतु अन्योन्यस्वरूपस्वीकारेण अतोऽयमदोषः, तन्न; स्यात्कारमन्तरेण अस्यार्थस्य प्रत्येतुमशक्यत्वात् ।

किञ्च, “चैत्रो धनुर्धरः” इत्यादिवाक्येषु धनुर्धरत्वादिभिः अयोगादिव्यवच्छेद कुर्वता एवकारेण अधनुर्धरत्वादीनामशब्दवाच्यानामपि ततोऽन्यत्वान्निवृत्तिर्यदि546 विधीयते,547 तर्हि शूरत्वोदारत्वादिधर्माणामपि विधीयतां548 शब्दवाच्येभ्यो धनुर्धरत्वादिभ्योऽन्यत्वाविशेषात् । अथ यो धर्मो यत्र नियम्यते549 तद्विरोधिन एव तत्र निवृत्तिः चैत्रे च धनुर्धरत्वनियमे अधनुर्धरत्वं विरुद्धम्, पार्थे च असाधारणधनुर्धरत्वविधौ सकलजगत्साधारणं तद्550 विरुद्धम्, सरोजे च नीलत्वसम्भवविधौ तदसम्भवमात्रं551 विरुद्धम्, अतः तस्यैवाऽतो552 निवृत्तिः553 नतु554 शूरत्वादिधर्माणाम् तेषां तदन्यत्वेऽप्यविरुद्धत्वा555त्556 इति; तदेतदन्धसर्पविलप्रवेशन्यायमनुसरति, एवंविधप्रविभागस्य स्याद्वादानभ्युपगमे अनुपपत्तेः । ननु तदभ्युपगमेऽपि शब्दानभिधेयत्वाविशेषे कथं विरोधिन एव निवृत्तिः नतु सर्वस्य इति चेत्, तथा सामर्थ्यात् । स्वार्थप्रतिपादनाय हि शब्दप्रयोगो न व्यसनितया । स्वार्थश्च557 भावाभावात्मकः558 प्रत्यक्षवत् शब्देऽपि प्रतिभासते । भावाभावव्यवहारश्च स्वरूपप्रतियोग्यपेक्षानिबन्धनः559 । नच अविरुद्धस्य प्रतियोगित्वं युक्तम्, अतः कथं सर्वस्य निवृत्तेः560 शङ्कापि इति ? ततः स्थितम् ““अवधारण”” इत्यादि ।

ननु “जीवोऽस्ति” इत्युक्ते तत्र अस्तित्वम्, “नास्ति”561 इत्युक्ते नास्तित्वम्, उभयवचनेन उभयं प्रतीयते अतो न युक्तम् ““अवधारण”” इत्यादि, इत्यत्राह–““अन्यथा”” इत्यादि । अनेकान्तनिरासस्य562 अवश्यम्भावित्वाभावप्रकारेण “अन्यथा प्रमाणनययोरभेदप्रसङ्गात्” कारणात् ““सर्वथैकान्तोऽभ्युपगतः स्यात्”” इति सम्बन्धः । अवधारणाभावे धर्मिवत् धर्मेऽपि563 अनेकान्तप्रसङ्गात् । अपरमपि स्याद्वादमन्तरेण नश्यति इति दर्शयन्नाह–““किं बहुना”” इत्यादि । “किम्” ? न किञ्चित् “बहुना” “उक्तेन” इत्यध्याहारः । “विधिनिषेधानुवादातिदेशादिवाक्येषु, आदि”शब्देन नियमादिवाक्यपरिग्रहः, “कारकेषु कर्त्रादिषु, स्वार्थादिषु आदि”शब्देन लिङ्गादिपरिग्रहः, “प्रातिपदिकार्थेषु साधनदूषणतदाभासवाक्येषु,” चशब्दः अत्र समुच्चायार्थो द्रष्टव्यः । “स्याद्वादमन्तरेण “प्रस्तुताऽप्रसिद्धिः”” इति सम्बन्धः । इति एवम् “आबालप्रसिद्धम्” न564 स्वेच्छया कल्पितमिति यावत् ।

ननु565 शब्दः सर्वोऽपि विवक्षाप्रतिबद्धत्वात् तामेव गमयति नार्थम्, अतोऽयुक्तमुक्तम्–““तत्र जीव इत्युक्ते”” इत्याद्याशङ्क्याह–

वर्णाः566 पदानि वाक्यानि प्राहुरर्थानवाञ्छितान् ।
वाञ्छितांश्च क्वचिन्नेति प्रसिद्धिरियमीदृशी ॥ ६४ ॥

स्वेच्छया तामतिक्रम्य वदतामेव युज्यते ।
वक्त्रभिप्रेतमात्रस्य567 सूचकं वचनं त्विति568 ॥ ६५ ॥

विवृतिः–वर्णपदवाक्यानां वाचकत्वं यथास्वम् आगमात् प्रतिपत्तव्यम् । वक्त्रभिप्रायाद् भिन्नस्यार्थस्य वाचकाः शब्दाः सत्यानृतव्यवस्थाऽन्यथानुपपत्तेः । अयं च प्रसङ्गोऽन्यत्र विस्तरेणोक्तः इति नेह प्रतन्यते । शब्दानामर्थव्यभिचारित्वे अभिप्रेतव्यभिचारित्वं कुतोऽपनीयते569 सुषुप्तादौ वाग्वृत्तेर्दर्शनात् । अनिच्छतामपि अपशब्दादिभाषणसद्भावात् वाञ्छतामपि570 मन्दबुद्धीनां शास्त्रवक्तृत्वाभावात् । उभयत्र व्यभिचारान्न कस्यचिद्वाचकाः शब्दा इति अलौकिकप्रतिभानम् । लोको571 हि अर्थस्याप्त्यनाप्तिषु572 सत्यानृतव्यवस्थामातिष्ठेत शब्दस्य नाभिप्रायमात्रे तत्र573 शब्दव्यवहारबाहुल्याभावात् । अबाधितां574 तत्प्रतीतिमतिक्रम्य स्वेच्छया प्रमाणप्रमेयस्वरूपमातिष्ठमानानां युक्तम्–अभिप्रेतमात्रसूचकत्वं शब्दानाम् ।

कारिकार्थ–

“वर्णपदवाक्यानि प्राहुः,” कान् ? “अर्थान्” घटादीन् । किंविशिष्टान् ? “अवाञ्छितान्” वाञ्छयाऽविषयीकृतान् “वाञ्छितांश्च” तद्विषयीकृतांश्च शास्त्रव्याख्यानाद्यर्थान् “क्वचित्” मन्दबुद्धिप्राणिषु “न” प्राहुः “इति” एवं575 “प्रसिद्धिः” लोकप्रतीति“रियं” सकलजनसाक्षिकी । “ईदृशी” विचित्रा । तदनभ्युपगमे दूषणमाह–““स्वेच्छया”” इत्यादि । स्वेच्छया स्वाभिप्रेतप्रक्रियामात्रेण “तां” प्रसिद्धि“मतिक्रम्यैव वदतां” सौगतानां “युज्यते” । किं तद् ? इत्याह–“वक्त्रभिप्रेतमात्रस्य सूचकं वचनं त्विति576 ।”

शब्दनित्यत्ववादिना मीमासकाना पूर्वपक्ष–

ननु वर्णादयोऽर्थानवाञ्छितान् किमनित्याः577 सन्तः प्रतिपादयन्ति, नित्या वा578 ? तत्राद्यः पक्षोऽनुपपन्नः; अनित्यत्वे तेषाम् उत्पन्नमात्रप्रध्वंसित्वेन सङ्केतव्यवहारकालाननुयायित्वतः तत्प्रतिपादकत्वानुपपत्तेः579 । द्वितीयपक्षस्तु उपपन्नः, नित्यानां580 तेषां तदनुयायित्वेन581 तत्प्रतिपादकत्वोपपत्तेः । प्रमाणतः तन्नित्यत्वस्यैव प्रसिद्धेश्च । तथाहि–“स एवाऽयं गकारः” इत्यादि प्रत्यभिज्ञा582 ख्यप्रत्यक्षत एव तावच्छब्दानां नित्यत्वं प्रतीयते । न चास्य583 अज्ञानलक्षणमप्रामाण्यम्; प्रतिप्राणि संवेद्यमानत्वात् । नापि संशयरूपम्, एकांशावलम्बित्वात् । उभयांशावलम्बी हि प्रत्ययः सशय, न चेदं तथा । नापि मिथ्यास्वत्व584 रूपम्, अबाध्यमानत्वात् । यदेव हि ज्ञानं बाध्यते तदेव मिथ्या प्रसिद्धं यथा शुक्तिकायां रजतज्ञानम्, न चेद585 देशकालनरान्तरेष्वपि बाध्यते । न च दुष्टकारणप्रभवत्वादस्याप्रामाण्यम्, तत्कारणानां586 दुष्टत्वानिश्चयात् । नापि अधिगताधिगन्तृत्वात्, स्मर्यमाणानुभूयमानविशेषणावच्छिन्नस्य587 गकारादेः पूर्वसवेदनाविषयत्वात्588 । तदुक्तम्–

यः589 पूर्वावगतोऽशोऽत्र स न नाम प्रतीयते ।
इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ॥

[मी॰ श्लो॰ प्रत्यक्ष॰ श्लो॰ २३३-३४] इति ।

प्रत्यक्षत्वञ्चास्य590 श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात् सुप्रसिद्धम् । न च स्मृतिपूर्वकत्वादस्य591 अप्रत्यक्षत्व युक्तम्; तत्पूर्वकत्वेऽप्यस्य सत्स592म्प्रयोगजत्वेन593 प्रत्यक्षत्वोपपत्ते । उक्तञ्च–

नहि594 स्मरणतो यत् प्राक् तत्प्रत्यक्षमितीदृशम्595 । वचनं राजकीयं596 वा लौकिकं वापि विद्यते ॥ १ ॥
न चापि स्मरणात् पश्चादिन्द्रियस्य प्रवर्त्तनम् । वार्यते केनचिन्नापि तत्तदानीं प्रदुष्यति ॥ २ ॥
तेनेन्द्रियार्थसम्बन्धात् प्रागूर्ध्वञ्चापि597 यत्स्मृतेः । विज्ञानं जायते सर्वं प्रत्यक्षमिति गम्यताम् ॥ ३ ॥

[मी॰ श्लो॰ प्रत्यक्ष॰ श्लो॰ २३४–३७] इति ।

एवमतः598 शब्दस्य नित्यत्वे सिद्धे इदानीमिव अन्यदापि यच्छब्दस्योच्चारणं न तत्तस्य599 जनकं किन्तु अभिव्यञ्जकम् । अत इदमुच्यते–अन्यदापि600601 यत् शब्दस्य उच्चारणं तदस्याभिव्यञ्जकम् उच्चारणत्वात्, यद् यद् उच्चारणं तत्तदभिव्यञ्जकम् यथा एतत्कालोपलक्षितमुच्चारणम्, तथा च प्रकृतम्,602 तस्मादिदमपि तथा ।

तथा, विवादाध्यासितो वा कालः गादिसम्बद्धः कालत्वात् प्रतिपादितशब्दसम्बद्धकालवत् । अतः सिद्धमस्य अनुमानतोऽपि नित्यत्वम् । इतोऽप्यनुमानात्603 तत्सिद्धम्–नित्यः शब्दः, श्रावणत्वात्, यद् यदेवं तत्तथा यथा शब्दत्वम्, तथा चाऽयम्, तस्मादयमपि तथा । तथा, देशकालादिभिन्ना604 गोशब्दव्यक्तिबुद्धयः एकगोशब्दविषया न चानेकार्थगोचरा गौरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोशब्दबुद्धिवत् । “गोशब्दव्यक्तिबुद्धयः” इत्युच्यमाने सिद्धसाध्यता स्यात्, एकगोशब्दव्यक्तिबुद्धेः एकविषयत्वाभ्युपगमात्, तन्निवृत्त्यर्थं बहुवचनम् । तथा “सामान्ये गोशब्दनिबन्धनाः समाना एवं धियः प्रभवन्ति” इति तन्निरासार्थं व्यक्तिग्रहणम् । एकस्मिन् देशे काले वा बहूनां प्रमातॄणां गोशब्दज्ञानानि एकगोशब्दव्यक्तिगोचराणि इति सिद्धसाध्यताप्रसङ्गव्यवच्छेदार्थं “देशकालादिभिन्नाः” इत्युक्तम् । ह्यस्तनो605 वा गोशब्दः अद्याप्यनुवर्त्तते गौरिति ज्ञायमानत्वात् अद्योच्चारितगोशब्दवत् । अद्यतनो606 वा गोशब्दः ह्योऽपि607 आसीत् गौरिति ज्ञायमानत्वात् ह्य उच्चारितगोशब्दवत् । शब्दो608 वा609 वाचकः दीर्घकालावस्थायी सम्बन्धबलेन610 अर्थमतिजनकत्वात् धूमसामान्यवत् । यस्तु611 अस्थिरः स सम्बन्धबलेन नार्थं बोधयति612 तादात्विकनिमित्तत्वात्613 प्रदीपविद्युत्प्रकाशवत् । तदेवम्–

कञ्चित् कालं स्थिरः शब्दः सर्वकालमपि स्थिरः ।
विनाशहेतुशून्यत्वात्614 सामान्याकाशकालवत् ॥ [ ]

तथा, विवादाध्यासितः615 कालः गादिशब्दशून्यो न भवति कालत्वात् इदानीन्तनकालवत् ।

तथा, अर्थापत्तितोप्यस्य616 नित्यत्वं617 सिद्धम्, तथाहि–नित्यः शब्दः ततोऽर्थप्रतिपत्त्यन्यथानुपपत्तेः । न चेयम्618 अन्यथापि619 अन्यथैव620 वा उपपद्यते; शब्दस्यानित्यत्वे सर्वथानुपपद्यमानत्वात् । प्रतिपन्नप्रतिबन्धाद्धि शब्दादर्थप्रतिपत्तिः स्यात्, नान्यथा अतिप्रसङ्गात् । न चाऽनित्यत्वे शब्दस्य प्रतिपन्नप्रतिबन्धस्य उत्तरकालमनुवृत्तिः सम्भवति; तस्य621 तदैव विनाशात् । तदुक्तम्–

अर्थापत्तिरियं622 चोक्ता पक्षधर्मादिवर्जिता623 । यदि624 नाशिनिनित्ये625 वा विनाशिन्येव वा भवेत् ॥ १ ॥
शब्दे वाचकसामर्थ्य तदा626 दूषणमुच्यताम् । फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता627 ॥ २ ॥
निष्फल628त्वेन629 शब्दस्य योग्यत्वादवगम्यते630 । परीक्ष्यमाणस्तेनास्य599 युक्त्या नित्य-विनाशयोः ॥ ३ ॥
स धर्मोभ्युपगन्तव्यो यः प्रधान631 न बाधते । नहि अङ्गाङ्ग्यनु632रोधेन633 प्रधानफलबाधनम्634 ॥ ४ ॥
युज्यते, नाशिपक्षे च तदेकान्तात् प्रसज्यते । नहि अदृष्टार्थसम्बन्धः शब्दो भवति वाचकः ॥ ५ ॥
तथा च स्यादपूर्वोऽपि सर्वः सर्व प्रकाशयेत् । सम्बन्धदर्शनञ्चास्य नाऽनित्यस्योपपद्यते ॥ ६ ॥
सम्बन्धज्ञानसिद्धिश्चेद्635 ध्रुवं कालान्तरस्थितिः । अन्यम्मिन्636 ज्ञातसम्बन्धे न चान्यो वाचको भवेत् ॥ ७ ॥
गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ।

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ २३७–४४] इति637 । आथ638 सदृशतया शब्दस्य अर्थप्रतिपत्तिहेतुत्वोपपत्तेः639 नार्थापत्तितोऽस्य नित्यत्वसिद्धिः, तदयुक्तम्,640 तत्सादृश्यस्य विचार्यमाणस्यानुपपत्तितः641 तथा642 तस्य599 तद्धेतुत्वानुपपत्तेः643 । उक्तञ्च–

सदृशत्वात्प्रतीतिश्चेत्644 तद्द्वारेणाप्यवाचकः645 । कस्य चैकस्य सादृश्यात् कल्प्यतां वाचकोऽपरः646
अदृष्टसङ्गतित्वेन सर्वेषां तुल्यता यदा । अर्थवान् पूर्वदृष्टश्चेत्647 तस्य तावान्648 क्षणः कुतः ॥
द्विस्तावानुपलब्धो649 हि अर्थवान् सम्प्रतीयते650 । [मी॰ श्लो॰ शब्दनि॰ श्लो॰ २४८–५०]

तथा भिन्नमभिन्नं वा सादृश्यं व्यक्तितो भवेत् । एवमेकमनेकं वा नित्यं वाऽनित्यमेव वा ॥
भिन्ने651 चैकत्वनित्यत्वे जातिरेव प्रकल्पिता । व्यक्त्यनन्यदथैकं652 च सादृश्यं नित्यमिष्यते ॥
व्यक्तिनित्यत्वमापन्नं तथा सत्यस्मदीहितम्653

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ २७१–७३] इति ॥ छ ॥ तत्प्रतिविधान पुरस्सरं शब्दस्य अनित्यत्वप्रसाधनम्–

अत्र प्रतिविधीयते । यत्तावदुक्तम्–“स654 एवायं655 गकारः” इत्यादि, तदसमीक्षिताभिधानम्, अस्य656 प्रत्यभिज्ञानस्य सादृश्यनिबन्धनतया एकत्वाऽप्रसाधकत्वात् प्रदीपादिप्रत्यभिज्ञानवत् । न खलु “स एवायं प्रदीपः, अङ्गहारः,657 लूनपुनर्जातनखकेशादिर्वा” इत्यादि प्रत्यभिज्ञानं प्रदीपादीनामेकत्वं प्रसाधयति । अथाऽत्र658 एकत्वाभावात्तस्य583 तदप्रसाधकत्वं659 तदन्यत्रापि समानम् । ननु तैलादिकारणस्य उत्तरत्र क्षयोपलम्भतः660 प्रदीपादेः प्रतिक्षणमन्यत्वप्रसिद्धेः युक्तमेकत्वासत्त्वं न शब्दस्य विपर्ययात्, इत्यप्यनुपपन्नम्, अस्यापि661 ताल्वादिसंयोगविभागलक्षणकारणस्य उत्तरत्र प्रक्षयप्रतीतितः प्रतिसमयमन्यत्वसिद्धेः एकत्वासत्त्वोपपत्तेः । तत्संयोगविभागयोः662 तदभिव्यञ्जकवायूत्पादे663 कारणत्वं न शब्दे इत्यभ्युपगमे वर्त्तिकामुखतैलानलसंयोगादेरपि664 प्रदीपाद्यभिव्यञ्जकवायूत्पादे कारणत्वं न तदुत्पादे665 इत्यप्यभ्युपगम्यतामविशेषात् । प्रतीतिविरोधः अन्यत्रापि न काकैर्भक्षितः ।

यदपि प्रत्यभिज्ञानस्य प्रत्यक्षत्वमुक्तम्,666 तदप्ययुक्तम्, प्रत्यक्षपरिच्छेदे विशदस्वभावस्यैव ज्ञानस्य प्रत्यक्षत्वप्रतिपादनात् । न चेदं667 तत्स्वभावम्, अतः कथमस्य प्रत्यक्षताशङ्कापि ? अक्षान्वयव्यतिरेकानुविधायित्वात्तस्य583 तद्रूपता, इत्यप्यसत्, तस्य तदन्वयव्यतिरेकानुविधायित्वाभावात्, दर्शनस्मरणान्वयव्यतिरेकानुविधायितया तस्य668 प्रत्यभिज्ञापरीक्षाप्रघट्टके प्ररूपितत्वात्669 । प्रत्यक्षत्वे चास्य583 अतीतकालपरिगतत्वेन670 शब्दग्राहकत्वानुपपत्तिः, सम्बद्धवर्त्तमानार्थगोचरचारित्वात्तस्य671 । तद्ग्राहकत्वे672 वा कथं योगिप्रत्यक्षस्य प्रतिक्षेषः673 प्रत्यक्षत्वेऽप्यस्य674 तद्वद्675 अतीताद्यर्थग्राहकत्वाविरोधात् ?

अस्तु वा यथाकथञ्चित् तत्प्रत्यक्षम्,585 तथापि न तत्676 शब्दस्यैकत्वप्रसाधकम्, तदुत्पादविनाशग्राहिणा प्रमाणान्तरेण677 बाध्यमानत्वात्, यत् प्रमाणान्तरेण बाध्यते न तत् स्वविषयव्यवस्थापकम्678 यथा शुक्तिशकले रजतग्राहिप्रत्यक्षं शुक्तिस्वरूपग्राहिप्रत्यक्षान्तरेण, बाध्यते च तदुत्पादविनाशग्राहिणा679 तेन तदेकत्वग्राहिप्रत्यभिज्ञानमिति । न चेदमसिद्धम्, प्रत्यक्षस्यैव680 तावत् तदुत्पादविनाशग्राहकत्वेन तद्वाधकत्वसम्भवात्681 । तथाहि–“उत्पन्नः शब्दः विनष्टः” इति प्रतीतिः इन्द्रियव्यापारानन्तरं प्रतिप्राणि संवेद्यमानोपजायते । न चेयं मिथ्या, देशकालनरान्तरेषु अबाध्यमानत्वात् “उत्पन्नो घटः विनष्टो घटः” इति प्रतीतिवत् । अथ प्रत्यभिज्ञानेनैव इयं682 कस्मान्न बाध्यते ? तन्न, अस्य683 सादृश्यनिबन्धनतया तन्नित्यत्वाप्रसाधकत्वात् ।

ननु एकज्ञानसंसर्गिपदार्थान्तरोपलम्भात्684 क्वचिद्685 घटाद्यभावप्रतीतिर्युक्ता, नतु शब्दाभावप्रतीतिः, तत्रैकज्ञानसंसर्गिणः686 कस्यचिदप्यसम्भवात्, इत्यप्यचोद्यम्; विवक्षितशब्दाभावप्रतीतौ687 शब्दान्तरस्यैव एकज्ञानसंसर्गिणः सम्भवात् । निःशब्दप्रदेशे सर्वशब्दाभावप्रतीतौ तर्हि तदसम्भव इति चेत्, न, तत्रापि आत्मस्वरूपसंवेदनस्य688 तदेकज्ञानसंसर्गिणः सम्भवात् । यथैव हि घटभूदेशादीनाम्689 एकत्र ज्ञाने संसर्गः तथा स्वपररूपयोरपि, अखिलज्ञानानां स्वपररूपावभासिस्वभावत्वात् । न चैवं शब्दाभाववत् रूपाद्यभावोऽपि अतोऽनुषज्यते,690 तेषां691 प्रतिनियतेन्द्रियग्राह्यतया तदभावस्यापि प्रतिनियतादेव इन्द्रियात्692 प्रसिद्धेः । यो हि यदिन्द्रियग्राह्यः693 तदभावोऽपि तदिन्द्रियादेव व्यवस्थाप्यते । यदिन्द्रियोपयुक्तो ह्यात्मा यत्र यदा यद्विषयमुपलब्धिलक्षणप्राप्तं नोपलभते तत्र तदा तस्याभावमधिगच्छतीति ।

नित्यत्वे च शब्दस्य प्रागुच्चारणादनुपलम्भः कुतः स्यात्–इन्द्रियाभावात्, शब्दस्यासन्निहितत्वात्, आवृतत्वाद्वा ? न तावदिन्द्रियाभावात्; उच्चारणानन्तरं शब्दो पलम्भात् । न694 च प्रागसतः तदैव इन्द्रियस्य प्रादुर्भावः, प्रतीतिविरोधात् । नापि शब्दस्यासन्निहितत्वात्, नित्यव्यापितया695 सर्वत्र सर्वदा तस्य599 सन्निहितत्वात् । नाप्यावृतत्वात्, नित्यैकस्वभावत्वेन696 तस्य आवृतत्वानुपपत्तेः । न खलु दृश्यस्वभावपरित्यागेन अदृश्यस्वरूपाऽस्वीकारे शब्दस्य आवृतत्वं घटते अतिप्रसङ्गात् । यद्697 यदा यत्स्वरूपं न परित्यजति न तस्य तदा तत्प्रत्यनीकस्वरूपसम्भवः यथा अनावृतावस्थायां दृश्यस्वरूपमपरित्यजतो नादृश्यस्वरूपसम्भवः, न परित्यजति च आवृतावस्थायां698 दृश्यस्वरूपं शब्द इति । तदा699 तत्स्वरूपपरित्यागे वा सिद्धमस्य अनित्यत्वम्, स्वरूपभेदस्वभावत्वात्तस्य700 । ननु घटादीनां स्वरूपाभेदेऽपि701 अन्धकारादिना आवृतत्वं दृश्यते, इत्यप्ययुक्तम्,702 तत्रापि स्वरूपभेदे703 सत्येव आवृतत्वोपपत्तेः । स्वरूपमखण्डयतः कस्यचिदावरणत्वानुपपत्तेः ।

किञ्च, व्यञ्जकव्यापारात्704 पूर्वं शब्दस्य कुतश्चित् प्रमाणात् सिद्धे सद्भावे आवरणं सिद्ध्येत्, स्पार्शनप्रत्यक्षप्रतिपन्ने घटे अन्धकारादिवत्, न चासौ705 सिद्धः । “प्रत्यभिज्ञानात्तत्सिद्धिः” इत्यपि मनोरथमात्रम्, तस्य एकत्वाप्रसाधकत्वप्रतिपादनात् ।

अस्तु वा706 यथाकथञ्चित्तेपामावरणम्,707 तथापि708 तत् दृश्यम्, अदृश्यम्, नित्यम्, अनित्यम्, व्यापकम्, अव्यापकम्, एकम्, अनेकं वा स्यात् ? न तावद् दृश्यम्; प्रत्यक्षप्रमाणतः तत्प्रतीत्य709भावात्710 । ततस्तत्प्रतीतौ711 वा विप्रतिपत्त्यभावः । नहि नीले नीलतया712 प्रतीयमाने कश्चिद्विप्रतिपद्यते । अथादृश्यम्; कथं तदस्ति713 अतिप्रसङ्गात् ? ननु नित्यस्य सतः शब्दस्य उच्चारणात् प्रागनुपलब्धौ निमित्तान्तरासम्भवात् तन्निमित्तमदृश्यमप्यावरणं714 कल्प्यते; इत्यप्यसाधीयः; अन्योन्याश्रयानुषङ्गात्–सिद्धे हि शब्दस्य आवरणे नित्यस्य सतोऽस्य599 उच्चारणात् प्रागनुपलब्धिसिद्धिः, तस्याञ्च सत्यां तदावरणसिद्धिरिति । ननु प्रत्यभिज्ञानात् शब्दस्य715 नित्यत्वसिद्धेः उच्चारणात् प्राक् तदनुपलब्धौ नावरणादन्यन्निमित्तम्, इत्यपि श्रद्धामात्रम्; प्रत्यभिज्ञानस्य तन्नित्यत्वप्रसाधकत्वप्रतिषेधात् ।

नित्यत्वे च आवरणस्य सदा शब्दस्यानुपलब्धिः स्यात् । अनित्यत्वे त्वस्य716 प्रध्वस्तस्य पुनरुत्पादे कारणाभावात् सर्वदा717 सर्वस्य उपलम्भप्रसङ्गः । नहि प्रतिनियतावरणोत्पादे718 प्रतिनियतं किञ्चित्कारणमुपलभ्यते ।

व्यापकत्वञ्चास्य अतीव दुर्घटम्; बाधकप्रमाणसद्भावात्719 । तथाहि–आवरणत्वेनाभिमतो720 वायुरव्यापकः स्पर्शवद्द्रव्यत्वात्721 लोष्टवत् । व्यापकत्वे चास्य722 उभयोरपि आवार्यावारकयोः723 सर्वगतत्वात् किं कस्य आवारकं स्यात् ? न हि आकाशमात्मादी724 नामावारकं प्रतीतम् । अव्यापकत्वे त्वस्य725 नितरां तेन726 शब्दस्य आवार्यत्वानुपपत्तिः, तन्मध्ये727 तद्देशे पार्श्वे च विद्यमानत्वात्,728 प्रत्युत शब्द एवास्य725 आवारकः स्यात्, अन्यथा729 सर्षपोऽपि घटस्य आवारको भवेत् । ननु भूम्यादिना आकाशस्य तथाविधस्यापि730 आव्रियमाणत्वोपलम्भाददोषोऽयम्, इत्यप्यसत्, तत्प्रदेशस्यैव731 तेन732 आव्रियमाणत्वाभ्युपगमात्733 । शब्दप्रदेशस्यापि वायुना आव्रियमाणत्वाभ्युपगमे शब्दस्य सावयवत्वमनित्यत्वञ्च स्यात् ।

तथा निखिलशब्दानां यदि एकमेवावरणं कल्प्यते,734 तदा एकोपलम्भे735 सर्वेषामुपलम्भप्रसङ्गः,736 तदावरणापगमे737 तद्वत्738 सर्वेषामनावृतत्वात् । तदनुपलम्भे739 वा विवक्षितशब्दस्यापि तद्वदनुपलम्भः740 स्यादविशेषात्741 । अथ विभिन्नम्; तन्न; सर्वशब्दानां742 व्यापितया समानदेशत्वे समानेन्द्रियग्राह्यत्वे च आवरणभेदस्य743 व्यञ्जकभेदस्य चानुपपत्तेः । तथाहि– शब्दाः प्रतिनियतावरणावार्याः प्रतिनियतव्यञ्जकव्यङ्ग्या744 वा न भवन्ति, अभिन्नदेशत्वे सति एकेन्द्रियग्राह्यत्वात्, यदित्थं तत्तथा यथा एकघटवृत्तिसामान्य-सङ्ख्या-रूप-परिमाणकर्मादि, तथा चैते शब्दाः, तस्मात्तथेति । “अभिन्नदेशत्वात्” इत्युच्यमाने रूपरसादिभिर्व्यभिचारः, तेषामेकद्रव्यवृत्तित्वेऽपि प्रतिनियतव्यञ्जकप्रतीतेः, अतः “एकेन्द्रियग्राह्यत्वात्” इत्युक्तम् । तस्मिंश्चोच्यमाने भिन्नदेशव्यवस्थितघटादिनिष्ठैः सामान्यादिभिः अनेकान्तः, तन्निवृत्त्यर्थम् “अभिन्नदेशत्वात्” इत्यभिहितम् । तदतोऽनुमानात् शब्दानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वाऽव्यवस्थितेः अयुक्तमुक्तम्–

अन्यार्थं745 प्रेरितो वायुः यथान्यं न करोतिः746 वः747 । तथान्यवर्णसंस्कारशक्तो748 नान्यं करिष्यति ॥ १ ॥
[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ८० ।] इत्यादि ।

यदि च ताल्वादयो749 ध्वनयो750 वा शब्दानां व्यञ्जकाः; तर्हि तद्व्यापारे नियमेन उपलब्धिर्न स्यात् । कारक751व्यापारो752 ह्येषः–स्वसन्निधाने नियमेन कार्यसन्निधापनं नाम, न व्यञ्जकव्यापारः । न खलु यत्र यत्र व्यञ्जकः प्रदीपादिः तत्र तत्र व्यङ्ग्यस्य घटादेः सन्निधानमुपलब्धिर्वा नियमतोऽस्ति कारक-व्यञ्जकयोरविशेषप्रसङ्गात्, चक्रादिव्यापारवैय753र्थ्यानुषङ्गाच्च754 । अथ घटादेरसर्वगतत्वान्न व्यञ्जकसन्निधाने नियमतः सन्निधान मुपलम्भो वा, शब्दस्य तु भवति विपर्ययात्; तदप्यचर्चिताभिधानम्;755 तत्सर्वगतत्वासिद्धेः । तथाहि–शब्दः सर्वगतो न भवति सामान्यविशेषवत्त्वे756 सति बाह्येन्द्रियप्रत्यक्षत्वात् घटादिवत्757 । ततो घटादिभ्यः शब्दस्य विशेषाभावाद् उभयोः कार्यत्वं व्यङ्ग्यत्वं वाऽविशेषतोऽभ्युपगन्तव्यम् ।

किञ्च, एते758 ध्वनयः कुतः प्रतिपन्नाः येन तदधीना शब्दश्रुतिः स्यात्–प्रत्यक्षेण, अनुमानेन, अर्थापत्त्या वा ? प्रत्यक्षेण चेत्; किं श्रौत्रेण,759 स्पार्शनेन760 वा ? न तावत् श्रौत्रेण; तथा प्रतीत्यभावात् । नहि शब्दवत्761 श्रोत्रे ध्वनयः प्रतिभासन्ते, विप्रतिपत्त्यभावप्रसङ्गात् । तत्र762 तत्प्रतिभासाभ्युपगमे च अपरशब्दकल्पनावैयर्थ्यम्, ध्वनीनामेव763 श्रावणस्वभावतया शब्दत्वप्रसङ्गात् । अथ स्पार्शनप्रत्यक्षेण ध्वनयः प्रतीयन्ते, स्वकरपिहितवदनो हि वदन् स्वकरसंस्पर्शनेन तान्764 प्रतिपद्यते, इत्यप्यसाम्प्रतम्; वायुवत्765 ताल्वादिव्यापारानन्तरं विप्रुषामुपलम्भतः766 शब्दाभिव्यञ्जकत्वप्रसङ्गात्767 । वक्तृमुखप्रदेश एव तासां768769 प्रक्षयतः770 श्रोतृश्रोत्रप्रदेशे गमनाभावान्न तद्,771 इत्यन्यत्रापि772 समानम् । न खलु वायवोऽपि तत्र773 गच्छन्तः प्रत्यक्षत प्रतीयन्ते । शब्दप्रतिपत्त्यन्यथानुपपत्त्या तु प्रतीतिः उभयत्र774 तुल्या । यथा च स्तिमितभापिणो न विप्रुषामुपलम्भः775 तथा वायूपलम्भोपि नास्ति । स्तिमितस्य776 कल्पनमुभयत्र तुल्यम् । एतेन वदतो मुखाग्रस्थिततूलादेः प्रेरणोपलम्भात् अनुमानतो ध्वनीन्777 प्रतिपद्यते; इत्यपि प्रत्युक्तम्; तद्वद् विप्रुषामपि778 अतः779 प्रतिपत्तिप्रसङ्गात्780

अथ अर्थापत्त्या781 ध्वनयः प्रतीयन्ते; तथाहि–शब्दस्तावत् नित्यत्वात् नोत्पद्यते, सस्कृतिरेव तु क्रियते, सा च विशिष्टा नोपपद्येत यदि ध्वनयो न स्युः । उक्तञ्च–

शब्दोत्पत्तेर्निषिद्धत्वात् अन्यथानुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीय782ते783
[मी॰ श्लो॰ शब्दनि॰ श्लो॰ १२६-२७ ।] इति ।

तदप्यचारु;784 यतः केयं विशिष्टा संस्कृतिर्नाम–शब्दसंस्कारः,785 श्रोत्रसंस्कारः, उभयसंस्कारो वा ? त्रिविधो हि संस्कारो मीमांसकैरिष्टः ।

स्याच्छब्दस्य786 हि संस्कारादिन्द्रियस्योभयस्य787 वा ।

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ५२ ।] स्थिरवाय्वपनीत्या788 च संस्कारोऽस्य भवन् भवेत् ।

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ६२ ।] इत्यभिधानात् । तत्राद्यपक्षे कोऽयं शब्दसंस्कारो789 नाम–शब्दस्योपलब्धिः, आत्मभूतः कश्चिद तिशयः, अनतिशयव्यावृत्तिः, स्वरूपपरिपोष, व्यक्तिसमवायः, तद्ग्रहणापेक्षग्रहणता, व्यञ्जकसन्निधिमात्रम्, आवरणविगमो वा ? यदि शब्दस्य उपलब्धिः; कथमसौ ध्वनीनां गमिका शब्दश्रोत्रमात्रभावित्वात्तस्याः790 ? तथाप्यन्यनिमित्तकल्पने791 हेतूनामनवस्थितिः । आत्मभूतः कश्चिदतिशयः792 अनतिशयव्यावृत्तिर्वा, इत्यत्रापि अतिशयः–793 दृश्यस्वभाव794 एव, अनतिशयव्यावृत्तिश्च795 अदृश्यस्वभावखण्डनमेव । ते796797 च ततो798 भिन्ने, अभिन्ने वा विधीयेते ? यदि भिन्ने;799 तदा तत्करणे800 शब्दस्य न किञ्चित्कृतमिति तदवस्था अस्य801 अश्रुतिः स्यात् । अथ अभिन्ने,802 तर्हि शब्दस्यापि तद्वत्803 कार्यतानुपङ्गादनित्यत्वप्रसक्तिः804 । यो805 हि यस्मादभिन्नस्वभावः तत्करणे806 तस्यापि करणम् यथा अतिशयानतिशयव्यावृत्तिस्वरूपस्य, ताभ्यामभिन्नस्वभावश्च शब्द इति ।

किञ्च, श्रोत्रप्रदेश एव807 अस्य599 ध्वनिभिः सस्कारः क्रियेत,808 सर्वत्रापि वा ? प्रथमपक्षे809 तावन्मात्रक एव शब्दः स्यात् न सर्वगतः । तस्यैव599 अन्यत्र810 तद्विपर्ययरूपतया811 अवस्थाने दृश्यादृश्यत्वप्रसङ्गान्निरंशताव्याघातः812 । दृश्येतररूपता चैकस्य ब्रह्मवाद समर्थयते, चेतनेतररूपतयापि एकस्य तद्वदवस्थित्यविरोधात्813 । घटादेरपि चैवं सर्वगतत्वानुषङ्गः, सोऽपि हि दृश्यप्रदेशे814 दृश्यः अन्यत्र चादृश्य इति वदतो न वक्त्रं वक्रीभवेत् । सर्वत्र चास्य599 सस्कारे सर्वत्र सर्वदा उपलब्धिः स्यात्, न वा क्वचित् कदाचिदविशेषात्815

स्वरूपपरिपोपोऽप्यनुपपन्न, नित्यस्य816 स्वभावाऽन्यथाकरणासम्भवात् । करणे वा अतिशयपक्षभाविदोपानुषङ्गः । नापि व्यक्तिसमवायः;817 अनभ्युपगमात्, अन्यथा818 शब्दस्य सामान्यादिरू819पताप्रसङ्गः820 । अत821 एव न तद्ग्रहणापेक्षग्रहणता822 । नापि व्यञ्जकसन्निधिमात्रम्; सर्वत्र सर्वदा सर्वप्रतिपत्तृभिः सर्वशब्दानां ग्रहणप्रसङ्गात् । आवरणविगमरूपे तु तत्संस्कारे823 युगपन्निखिलशब्दानामुपलब्धिः स्यात् । प्रतिनियतव्यञ्जकव्यङ्ग्यत्वादयमदोषः; इत्यपि मनोरथमात्रम्; तेषां तद्व्यङ्ग्यत्वस्यापास्तत्वात् ।

मा भूत्तर्हि शब्दसंस्कारोऽभिव्यक्तिः,824 इन्द्रियसंस्कारस्तु भविष्यति । तदुक्तम्– अथापीन्द्रियसंस्कारः825 सोप्यधिष्ठानदेशतः826 । शब्दं827 न श्रोष्यति श्रोत्रं तेनासंस्कृतशष्कुलि ॥ १ ॥
अप्राप्तकर्णदेशत्वात्828 ध्वनेर्न श्रोत्रसंस्क्रिया । अतोऽधिष्ठानभेदेन संस्कारनियमः829 स्थितः ॥ २ ॥

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ६९–७१] इति; तदप्यविचारितरमणीयम्, इन्द्रियसंस्कारपक्षेऽपि830 सकृत् संस्कृतस्य श्रोत्रस्य युगपन्निखिलशब्दप्रकाशकत्वप्रसङ्गात् । नहि अञ्जनादिना संस्कृतं चक्षुः सन्निहितं स्वविषयं नीलधवलादिकं कञ्चित् पश्यति कञ्चिन्नेति, बलौतलादिना831 संस्कृतं श्रोत्रं वा कांश्चेदव गकारादिवर्णान् शृणोति832 कांश्चिन्नेति नियमो दृष्टः, येनात्रापि तथा कल्पना स्यात् । ततोऽयुक्तमेतत्–
यथा833 घटादेर्दीपादिरभिव्यञ्जक इष्यते । चक्षुषोऽनुग्रहादेवं ध्वनिः स्यात् श्रोत्रसंस्कृतेः834
न च पर्यनुयोगोऽत्र केनाकारेण सस्कृतिः । उत्पत्तावपि तुल्यत्वात् शक्तिस्तत्राप्यतीन्द्रिया ॥

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ४२–४३] इति, प्रदीपाद्यनुगृहीतचक्षुषा युगपद् घटाद्यनेकार्थग्रहणवत् ध्वन्यनुगृहीतश्रोत्रेण एकदा अनेकशब्दग्रहणप्रसङ्गात् । प्रयोगः–श्रोत्रम्835 एकेन्द्रियग्राह्याऽभिन्नदेशस्थितार्थग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति इन्द्रियत्वात् चक्षुर्वत् । तन्न श्रोत्रसस्कारोऽप्यभिव्यक्तिर्घटते ।

अस्तु तर्हि उभयसंस्कारोऽभिव्यक्तिः, तत्र उक्तदोषासम्भवात् । तदुक्तम्– द्वयसस्कारपक्षे836 तु वृथा837 दोषद्वये वचः । येनान्यतरवैकल्यात्838 सर्वैः सर्वो न गृह्यते ॥

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ८६-८७ ।] इति; तदप्ययुक्तम्; उक्तदोषानुषङ्गादेव;839 तथाहि–यदा एकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं संस्कृत वर्णं प्रतिपद्यते तदा तत्रत्यसर्ववर्णानपि840 प्रतिपद्येत, सस्कृतञ्च वर्णं सर्वत्र सर्वदा841 स्थितत्वेन, अन्यथा842 तत्प्रतीतिरेव न स्यात् तदात्मकत्वात्तस्य843

ततो नित्यैकरूपत्वे शब्दस्य आवार्यावारकभावस्य व्यङ्ग्यव्यञ्जकभावस्य वाऽनुपपत्तेः844 नावरणकृता प्रागुच्चारणादस्याऽनुपलब्धिः845 । अतः ताल्वादिव्यापारान न्तरमस्योपलम्भात् तदभावे चानुपलम्भात् तत्कार्यत्वमेव846 अभ्युपगन्तव्यम् । ननुखननाद्यनन्तरं व्योम उपलभ्यते तदभावे च नोपलभ्यते, नच847 तत्तत्का848र्यम्,849 अतोऽनैकान्तिकत्वमस्य850 । उक्तञ्च– अनैकान्तिकता851 तावाद्धेतूनामिह कथ्यते । प्रयत्नानन्तरं852 दृष्टिर्नित्येऽपि853 न विरुद्ध्यते ॥

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ १९]
आकाशमपि नित्यं सद् यदा भूमिजलावृतम् । व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥
प्रयत्नानन्तरं ज्ञानं854 तदा तत्रापि विद्यते855 । तेनाऽनैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम्856
अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते857 । शब्दोऽपि प्रत्यभिज्ञानात् प्रागस्तीत्यवगम्यते858

[मी॰ श्लो॰ शब्दनि॰ श्लो॰ ३०–३३] इति;859 तदप्यसुन्दरम्; एकस्वभा860वत्वस्य861 आकाशेऽप्यसिद्धत्वात् । तद्धि862 तत्स्वभावं सत् स्वविपयज्ञानजननैकस्वरूपम्, तद्विपरीतं वा स्यात् ? यदि तज्जननैकस्वरूपम्; तदा तस्य न खननाद्यनन्तरमेव उपलब्धिः, किन्तु पूर्वमपि स्यात् । तद्विपरीतस्वरूपत्वे तु न कदाचनाप्युपलब्धिः स्याद्विशेषाभावात् । विशेषे863 वा तदेकरूपताव्याघातः864 । प्रत्यभिज्ञानाच्छब्दे प्राक्सत्त्वसिद्धिश्च लूनपुनर्जातनखकेशादावपि सामाना । कथञ्चैवं ध्वनीनामपि प्राक्सत्त्वसिद्धिर्न865 स्यात् ? य एव पूर्वमकारस्य व्यञ्जको ध्वनिः स एव पश्चादपि इति प्रतीतेः । तथा च व्यङ्ग्यवद्866 व्यञ्जकस्यापि सर्वत्र सद्भावसिद्धेः ताल्वादिव्यापारवैयर्थ्यम्,867 सर्वत्र सर्वदा व्यङ्ग्यप्रतीतिश्च स्यात् ।

एतेनेदमपि प्रत्युक्तम्–“अन्यदापि यत् शब्दस्योच्चारणं तदस्याभिव्यञ्जकम् उच्चा रणत्वात्” इत्यादि,868 ध्वनावप्यस्य समानत्वात् । तथाहि–अन्यदापि यद् ध्वनेरुच्चारणं तत्तस्याभिव्यञ्जकम्869 उच्चारणत्वात् इदानीं तदुच्चारणवत्870

एतेन तावत्कालं स्थिरञ्चैनं कः पश्चान्नाशयिष्यति871 । [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ३६६] इत्येतदपि872 प्रत्युक्तम्, ध्वनेरपि प्रत्यभिज्ञानात् पूर्वोत्तरकालद्वयावस्थायिनः प्रसिद्धस्य पश्चात् केनचिन्नाशानुपपत्तेः ।

यदप्यभिहितम्–“विवादाध्यासितः873 कालो गादिसम्बद्धः कालत्वात्” इत्यादि; तदप्यभिधानमात्रम्, गादेः874 उपलब्धिलक्षणप्राप्तस्य कालान्तरेऽनुपलम्भतोऽभावसिद्धेः, तत्र875 तत्सद्भावावेदकानुमानस्य बाधितपक्षतया कालात्ययापदिष्टहेतुतया च अगमकत्वात् । विद्युदादेरपि चैवं नित्यत्व स्यात्, तथाहि–विवादाध्यासितः कालो विद्युदादिसम्बद्धः, कालत्वात् विद्युदादिसम्बद्धकालवत् । प्रतीतिविरोधोऽन्यत्राप्यविशिष्टः876 । अत एव “नित्यः शब्दः श्रावणत्वात्” इत्याद्यप्ययुक्तम्;877 उदात्तादिभिर्ध्वनिधर्मैः878 अनैकान्तिकत्वाच्च,879 तेहि श्रावणत्वेऽपि अनित्या भवद्भि प्रतिज्ञाताः । तेषामश्रावणत्वे880 श्रोत्रेण शब्दगतधर्मतया उपलम्भो न स्यात्, यदश्रावणस्वरूपं न तस्य शब्दधर्मतया881 श्रोत्रेणोपलम्भः यथा नीलत्वादेः, अश्रावणस्वरूपाश्च882 उदात्तादयो ध्वनिधर्मा इति । तथा वीणादिशब्दैश्च अनैकान्तिकत्वम्, तेषामप्यनित्यत्वेऽपि श्रावणत्वात् ।

यच्चान्यदुक्तम्–“देशकालादिभिन्ना883 गोशब्दव्यक्तिबुद्धयः” इत्यादि; तदपि न साधीयः; गोशब्दलिपिबुद्ध्या884 हेतोरनैकान्तिकत्वात्, सा हि “गौः”885 इत्युत्पद्यते न च सम्प्रत्युत्पन्नगोशब्दबुद्ध्येकविषया886 इति । नचैवं विषयभेदः क्वापि प्रसिद्ध्यति, सकलबुद्धीनामभिन्नविषयत्वप्रसङ्गात्887 । तथाहि–देशकालभिन्नवस्तुबुद्धयः888 एकविषया नवाऽनेकविषया889 वस्तुबुद्धित्वात् सम्प्रत्युत्पन्नघटबुद्धिवत् । ततश्च अखिलवस्तुबुद्धीनाम् एकघटलक्षणवस्तुविषयत्वे घटबुद्धित्वमेव स्यात् न गोशब्दबुद्धित्वम् । अतः कथं देशादिभिन्नगोशब्दव्यक्तिबुद्धीनां धर्मित्वम्, कथं वा गोशब्दबुद्धित्वं हेतुः, सम्प्रत्युत्पन्नगोशब्दबुद्धिवदिति दृष्टान्तो वा सिद्ध्येत् यतोऽनुमानं स्यात् ? अथ गवाश्वादिवस्तुभेदस्य प्रत्यक्षसिद्धत्वात् तद्बुद्धीनामेकघटविषयत्वे साध्ये “वस्तुबुद्धित्वात्” इत्यस्य कालात्ययापदिष्टत्वम् अग्नेरनुष्णत्वे द्रव्यत्ववदित्युच्यते, यद्येवम्,890 उदात्तादिधर्मभेदेन गोशब्दव्यक्तिभेदस्यापि प्रत्यक्षसिद्धत्वात् तद्बुद्धीनामपि एकविषयत्वे साध्ये “गोरित्युत्पद्यमानत्वात्” इत्यस्यापि कालात्ययापदिष्टत्वं स्यात् ।

यदप्यभिहितम्–“ह्यस्तनो891 गोशब्दोऽद्याप्यनुवर्त्तते” इत्यादि, तदप्यभिधानमात्रम्; ह्यस्तनाऽद्यतनगोशब्दयोर्भेदस्य892 प्रत्यक्षप्रसिद्धत्वेन893 तदभेदप्रसाधनस्य कालात्ययापदिष्टत्वात् । कथमन्यथा ह्यस्तनाऽद्यतनविद्युत्प्रकाशयोरपि एकत्वन्न स्यात् । शक्यं हि वक्तुं ह्यस्तनो विद्युत्प्रकाशोऽद्याप्यनुवर्त्तते विद्युत्प्रकाशत्वात् अद्यतनविद्युत्प्रकाशवदिति । अथ तीव्रा विद्युत्894 तीव्रतरा तीव्रतमेति प्रत्यक्षतः तीव्रादिधर्मात्मकतया विद्युत्प्रकाशस्य विभिन्नस्वभावस्य प्रतीतेः न तदैक्यप्रसाधकमनुमानं गमकम्; तदन्यत्रापि समानम्–गोशब्दस्यापि तीव्रादिधर्मोपेतस्य श्रोत्रप्र895त्यक्षे896 प्रतिभासनात् । तद्धर्मस्य897 अत्रौपाधिकत्वे898 विद्युत्यपि अस्य899 तदस्तु विशेषाभावात् । अथ शुद्धायाः900 विद्युतः कदाचिदप्यसंवेदनात् न तत्रास्यौपाधिकत्वम्;901 तदेतत् शब्देऽप्यविशिष्टम्, नहि तद्धर्मशून्यः902903 सोपि904 स्वप्नेऽपि प्रतिभासते । एतेन “अद्यतनो वा गोशब्दः ह्योऽप्यासीत्” इत्यादि905 प्रतिव्यूढम्; न्यायस्य समानत्वात् ।

यदप्युक्तम्–“शब्दो906 वाचको दीर्घकालावस्थायी” इत्यादि; तदपि चेष्टया907 अनैकान्तिकम्, तस्याः सम्बन्धबलेन अर्थमतिहेतुत्वेऽपि दीर्घकालावस्थायित्वाभावात् ।

एतेन “यस्त्वस्थिरः स सम्बन्धबलेन नार्थं बोधयति”908 इत्यादि909 प्रत्याख्यातम्, चेष्टायाः सम्बन्धबलेन अर्थबोधकत्वेऽपि तादात्विकनिमित्तत्वसम्भवात् । ततोऽयुक्तमेतत्– कञ्चित्कालं स्थिरः शब्दः सर्वकालमपि910 स्थिरः ।
विनाशहेतुशून्यत्वात् सामान्याकाशकालवत् ॥

[ ] इति, यतः कञ्चित्कालावस्थायित्व किम् उपलम्भकालावस्थायित्वमभिप्रेतम्,911 अतीतवर्त्तमानकालावस्थायित्वं वा ? प्रथमपक्षे चेष्टाया विद्युदादेश्च सर्वकालमपि स्थायित्वप्रसङ्गः, तथाविधकियत्कालस्थिरत्वस्य तत्राप्यविशेषात् । अतीतवर्त्तमानकालावस्थायित्वञ्चास्य599 न कुतश्चित् सिद्ध्यति इत्युक्त प्रागेव । हेतुश्चात्रासिद्ध, शब्दस्य912 कादाचित्कतया विनाशहेतुशून्यत्वानुपपत्तेः । यत् कादाचित्कं न तत् विनाशहेतुशून्यम् यथा विद्युदादि, कादाचित्कश्च शब्द इति ।

यदपि–“विवादाध्यासितः कालो गादिशब्दशून्यो न भवति” इत्याद्युक्तम्913;914 तदपि915 विद्युदादौ समानत्वादयुक्तम् । तथाहि–विवादाध्यासितः कालो विद्युदादिशून्यो न भवति कालत्वात् तत्सत्त्वोपेतकालवत् । प्रत्यक्षबाधनम् उभयत्र916 तुल्यम् ।

यदप्युक्तम्–“नित्यः917 शब्दः ततोऽर्थप्रतिपत्त्यन्यथानुपपत्तेः” इत्यादि, तदप्यविचारितरमणीयम्, धूमादिवदनित्यस्याप्यस्य918 सादृश्यतोऽर्थप्रतिपादकत्वोपपत्तेः । न खलु “य एव सङ्केतकाले दृष्टः तेनैव अर्थप्रतीतिः कर्त्तव्या” इति नियमोऽस्ति, महानसदृष्टधूमसदृशादपि पर्वतधूमाद् वह्निप्रतिपत्तिप्रतीतेः । न च पर्वतमहानसप्रदेशवर्तिन्योः धूमव्यक्त्योरैक्यं सम्भवति, प्रतीतिविरोधात्, सर्वस्य919 सर्वगतत्वानुषङ्गाच्च । अथ धूमसामान्यस्य अत्र गमकत्वम्, शब्दसामान्यस्य अन्यत्र वाचकत्वं किन्न स्यात् ? ननु शब्दसामान्यस्य वाचकत्वे शब्दस्य किमायातम् ? तर्हि धूमसामान्यस्याप्यनुमापकत्वे धूमस्य किमायातम् ? अथ धूमात्तस्याऽभेदात्920 तदनुमापकत्वे धूमस्याप्यनुमापकत्वम्, तर्हि शब्दात् तत्सामान्यस्याप्यभेदात्921 तद्वाचकत्वे तस्यापि वाचकत्वमस्तु अविशेषात् । अथ शब्दे922 सामान्यमेव नास्ति तत्कथमस्य वाचकत्वमुच्यते, धूमेऽपि923 तर्हि तन्नास्ति तत्कस्य गमकत्वमुच्येत ? अथ924 तद्भेदस्य प्रमाणसिद्धत्वात् “धूमो धूमः” इत्यसन्दिग्धाऽबाध्यमानाऽनुगतप्रतीतिदर्शनात् अस्ति तत्र तत्,925 तदेतदन्यत्रापि समानम् । ननु शब्दव्यक्तीनां प्रत्यक्षतो भेदप्रसिद्धेः926 तत्र इष्टमेव शब्दत्वसामान्यम्, गादीनां तु एकैकव्यक्तिकत्वेन927 भेदाभावान्न तत्र गत्वादिसामान्यं सम्भवतीति तत्र928 तस्यं वाचकत्वाभावः, तदप्यसाम्प्रतम्, तेषामपि929 उदात्तादिभेदतो नानाव्यक्तिकत्वसम्भवाद् गत्वादिसामान्यसद्भावोपपत्तेः । “ध्वनिधर्मा एव उदात्तादयः” इति च मनोरथमात्रम्, तेषां880 तद्धर्मत्वस्य प्रागेव कृतोत्तरत्वात् । ततोऽनित्यपक्षेऽपि इत्थं शब्दादर्थप्रतिपत्तेरुपपत्तेः नार्थापत्तितोऽपि तन्नित्यत्वसिद्धिः । अतोऽयुक्तमुक्तम्–अर्थापत्तिरियं चोक्ता [मी॰ श्लो॰] इत्यादि । प्रसाधितञ्च नित्यसम्बन्धपरीक्षावसरे अनित्यत्व एव शब्दस्य वाचकत्वमित्यलमतिप्रसङ्गेन ।

यच्चान्यदुक्तम्–“सादृश्यस्य930 विचार्यमाणस्यानुपपत्तेः” इत्यादि; तदप्यनल्पतमोविलसितम्; तस्य आबालमबाधप्रतीतिगोचरचारितया अपह्नोतुमशक्यत्वात् । एकस्य931 हि स्वसामग्रीतो यादृशः परिणामः तादृश एवापरस्य सादृश्यं यमलकवत् । तच्च व्यक्तिभ्यो भिन्नमभिन्नञ्च सामान्यपरीक्षाप्रघट्टके सप्रपञ्चं प्रपञ्चितमिति932 कृतं पुनः प्रसङ्गेन । ततो यद् यद्रूपतया कुतश्चिदपि प्रमाणान्न प्रतीयते न तत्तद्रूपतयाऽभ्युपगन्तव्यम् यथा933 जगद् अद्वैतरूपतया, सर्वथा नित्यस्वभा934वतया935 न प्रतीयते च कुतश्चित्प्रमाणात्936 शब्द इति । तदनित्यस्वभावतायां तु प्रमाणसद्भावात् तद्रूपतयाऽसौ अभ्युपगन्तव्यः ।

तच्च प्रमाणम्–अनित्यः937 शब्दः कृतकत्वात्, यत्कृतकं तदनित्यं938 दृष्टं यथा घटः, कृतकश्चायमिति । न चेदमसिद्धम्; तथाहि–कृतकः शब्दः, कारणान्वयव्यतिरेकानु विधायित्वात्, यदित्थं तदित्थं यथा घटः, तथा939 च शब्दः, तस्मात्तथेति । नचेदमप्यसिद्धम्, ताल्वादिकारणव्यापारे सत्येव अस्यात्मलाभोपलम्भात्599 तदभावे चानुपलम्भात् मृद्दण्डादिकारणव्यापारभावाभावयोः घटस्य आत्मलाभाऽलाभोपलम्भवत् । न च तद्व्यापारे940 तदभिव्यक्तेरेव आत्मलाभो न शब्दस्य इत्यभिधातव्यम्, तस्याः प्रागेव प्रपञ्चतोऽपास्तत्वादिति ॥ छ ॥

तदेव वर्णानां पौरुषेयत्वप्रसिद्धौ पदवाक्यानामनायासतः तत्प्रसिद्ध्यति तदात्मकत्वात्तेषाम्941 । नन्वस्तु लौकिकानां तेषां942 तत्सिद्धिः943 न वैदिकानामिति चेत्, न; तदत्यन्तवैलक्षण्याप्रतीतेः944 । य एव हि लौकिका शब्दाः त एव वैदिकाः [शाबरभा॰ १ । ३ । ३०] इत्यभ्युपगमव्याघातप्रसङ्गाच्च945 । तदपौरुषेयत्वप्रसाधकप्रमाणाभावाच्च; न च तदभावोऽसिद्धः, यतः तत्प्रसाधक प्रमाण प्रत्यक्षम्, अन्यद्वा भवेत् ? न तावत्प्रत्यक्षम्; तस्य शब्दस्वरूपमात्रग्रहणे चरितार्थत्वेन तत्पौरुषेयत्वाऽपौरुषेयत्वग्राहकत्वाऽसम्भवात् ।

किञ्च, अनादिसत्त्वस्वरूपमपौरुषेयत्वम्,946 तत्कथम् अक्षप्रभवप्रत्यक्षपरिच्छेद्यम् ? अक्षाणां प्रतिनियतरूपादिगोचरचारितया अनादिकालेनाऽसम्बन्धात् तत्कालसम्बद्धसत्त्वेनाप्यसम्बन्धतः947 तज्ज्ञा948नाऽहेतुत्वात्949

वेदस्य अपौरुषेयत्वमुररीकुर्वता मीमासकाना पूर्वपक्ष–

ननु मा भूत् प्रत्यक्षतस्तदपौरुषेयत्वसिद्धिः, अनुमानात्तु सा भविष्यति । तच्चानुमानम्–अपौरुषेयो950 वेदः कर्त्तुः स्मरणयोग्यत्वे सति अस्मर्यमाणकर्त्तृकत्वाद् व्योमवत् । न चायमसिद्धः; वेदकर्त्तुः कदाचित्951 केनचित् स्मरणाभावात् । सतश्चास्य952 तदर्थानुष्ठानसमये953 अनुष्ठातॄणामनिश्चितप्रामाण्यानां तत्प्रामाण्यप्रसिद्धये स्मरणं स्यात् । ये हि यदर्थानुष्ठाने प्रवर्त्तन्ते ते अवश्यं तच्छास्त्रकर्त्तारमनुस्मरन्ति यथा अष्टकाद्यर्थानुष्ठानार्थिन954 तत्प्रणेतारं मनुम्, वेदविहितार्थानुष्ठाने बहुवित्तव्ययायाससाध्याऽग्निष्टोमादिकर्मलक्षणे प्रवर्त्तन्ते च प्रेक्षापूर्वकारिणः, अतस्तेषां महती तत्कर्त्तृस्मरणापेक्षा । तेहि अदृष्टफलेषु कर्मसु एवं निःसशयाः प्रवर्त्तेरन् यदि तेषां तद्विषयः सत्यतानिश्चयः स्यात् । न चासौ तदुपदेष्टुः स्मरणाभावे घटते पित्राद्युपदेशवत् । यथैव हि पित्रादिकमुपदेष्टार स्मृत्वा स्वयमदृष्टफलेष्वषि कर्मसु तदुपदेशात् “पित्रादिभिरेतदुपदिष्ट तेनाऽनुष्ठीयते” इति, एवं वैदिकेष्वपि कर्मसु अनुष्ठीयमानेषु कर्त्तुः स्मरणं स्यात् । न चाभियुक्तानामपि वेदार्थानुष्ठातॄणां त्रैवर्णिकानां तत्स्मरणमस्ति, अतोऽसौ तत्र नास्तीति निश्चीयते ।

छिन्नमूलत्वाच्च तत्र955 कर्त्तृस्मरणाभावः । स्मरणस्य हि अनुभवो मूलम्, न चासौ956 वेदे कर्त्तृविषयत्वेन विद्यते तत्कथं तत्स्मरणसम्भावनाशङ्काऽपि ? न च रचनावत्त्वेन अत्र भारतादिवत् कर्त्तृसद्भावप्रसिद्धेर्नास्य छिन्नमूलत्वमित्यभिधातव्यम्; वेदरचनाया957 कर्त्तृपूर्वकरचनाविलक्षणत्वात् । न च रचनामात्रस्यात्रोपलम्भात्958 कर्त्रनुमानं युक्तम्, जगतो बुद्धिमद्धेतुकत्वानुमानानुषङ्गतोऽनिष्टसिद्धिप्रसङ्गात् । अतो यादृशी रचना कर्त्रन्वयव्यतिरेकानुविधायिनी प्रतिपन्ना तादृश्येव परिदृश्यमाना कर्त्तारमनुमापयति इत्यभ्युपगन्तव्यम् । तत्कथ वेदे ततः959 कर्त्रनुमानशङ्काऽपि सम्भाव्यते ? अतो वैदिकी रचना अपौरुषेयी दृष्टकर्त्तृकरचनाविलक्षणत्वात् आकाशवदिति । तथा– वेदाध्ययन960 सर्व गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥

[मी॰ श्लो॰ वाक्याधि॰ श्लो॰ ३६६]
अतीतानागतौ कालौ वेदकारविवर्जितौ961
कालत्वात्तद्यथा962 कालो वर्त्तमानः समीक्षक्ष्यते ॥ [ ]

इत्यतोप्यस्य अपौरुषेयत्वसिद्धिः963 । ✢नन्वा964प्तप्रणीतत्वाभावे965 कथमस्य966 प्रामाण्यं स्यादिति चेत् ? “अपौरुपेयत्वादेव” इति व्रूमः । वचनस्य967 पुरुषदोषानुप्रवेशेनैव अप्रामाण्यप्रसिद्धेः✢ । तदुक्तम्–

शब्दे968 दोषोद्भवस्तावद् वक्त्रधीन इति969 स्थितम् । तदभावः क्वचित्तावद् गुणवद्वक्तृकत्वतः970
तद्गुणैरपकृष्टानां शब्दे971 सङ्क्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥

[मी॰ श्लो॰ चोदना॰ श्लो॰ २६, ६३] न च आप्तगुणसङ्क्रान्त्यैव शब्दस्य प्रामाव्यम्, वेदे च आप्तप्रणीतत्वाभावतः तत्सङ्क्रान्त्यसम्भवान्न प्रामाण्यमित्यभिधातव्यम्; यतो नात्र972973 आप्तगुणसङ्क्रान्त्या प्रामाण्यम् शब्दोच्चारणमात्रे तस्य974 व्यापारात्, शब्दस्तु स्वमहिम्नैव अवितथामर्थप्रतिपत्तिं कुर्वाणः प्रमाणम् । न चैवमनाप्तस्यापि तदुच्चारणमात्रे व्यापारात् शब्दः स्वमहिम्नैवासत्यप्रतीति कुर्वाणः अप्रमाणमित्यभिधातव्यम्; अनाप्तप्रणीतत्वादिदोषाणाम् अप्रामाण्योत्पादनादन्यप्रयोजनाभावात्, आप्तप्रणीतत्वादिगुणानां975 तु दोषापसारणे व्यापारात् स्वतः प्रामाण्यं वेदे आप्तानाप्तप्रणीतत्वाभावान्न प्रामाण्यमप्रामाण्यं वा; इत्यप्यसुन्दरम्; यत्र976 हि पुरुषकृता पदानुपूर्वी तत्र तदपेक्षं प्रामाण्यमप्रामाण्यं वा स्यात्, वेदानुपूर्व्यास्तु नित्यत्वात् स्वसामर्थ्येनैवार्थावबोधकत्वा977त्978 तन्निरपेक्षं979 प्रामाण्यम् । नहि तादृशीमानुपूर्वी कश्चित् कर्त्तुं क्षमः अन्यत्राऽभिव्यक्तेः980 । पूर्वसिद्धानुऽपूर्वीतोऽपू981र्वानुपूर्वीकरणे982 च कस्यचित् स्वातन्त्र्यासम्भवात् । कुर्वाणो वा तां983 तदध्येतृभिः अन्यैर्वा984 निवार्येत । उक्तञ्च–

अन्यथाकरणे चास्य बहुभ्यः985 स्यान्निवारणा986 । [मी॰ श्लो॰ चोदनासू॰ श्लो॰ १५०] इति ।

वेदाऽपौरुषयेत्वस्य प्रतिविधानम्–

अत्र प्रतिविधीयते । यत्तावदुक्तम्–“कर्त्तुः987 स्मरणयोग्यत्वे सति अस्मर्यमाणकर्तृकत्वात्” इत्यादि, तदसमीचीनम्, यतः988 किमिदम् अस्मर्यमाणकर्त्तृकत्वन्नाम– किं कर्त्तृस्मरणाभावः, अकर्त्तृकत्वं वा ? प्रथमपक्षे व्यधिकरणासिद्धो989 हेतु, कर्त्तृस्मरणाभावो हि आत्मनि वर्त्तते अपौरुषेयत्वं तु वेदे इति । अज्ञातासिद्धश्च,990 तद्ग्राहकप्रमाणावात् । नहि प्रत्यक्ष तद्ग्राहकम्; प्रतिनियतरूपादिगोचरचारितया अभावे तस्य प्रवृत्त्यसभवात् । सम्भवे वा अभावप्रमाणकल्पनाऽनर्थक्यम् तत्साध्यस्य991 अध्यक्षादित एव प्रसिद्धेः । अभावप्रमाणात्तत्सिद्धौ992 तु तत्र तदुत्पत्तौ993 कारणं वाच्यम्, निष्कारणस्य994 कार्यस्योदयानुपपत्तेः । गृहीत्वा995 वस्तुसद्भाव स्मृत्वा च प्रतियोगिनम् ।
मानस नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ [मी॰ श्लो॰ अभाव॰ श्लो॰ २७]

इति तत्कारणमस्तीति चेत्; ननु अत प्रादुर्भूतमभावप्रमाणं तदभावं996 निराश्रयम्, साश्रयं वा प्रसाधयेत् ? न तावन्निराश्रयम्; “गृहीत्वा वस्तुसद्भावम्” इत्यभिधानात् । अनेन997 हि निषेध्याधारवस्तुग्रहणमभिदधता भट्टेन निषेध्या998भावाश्रयः999 सूचित एव, अन्यथा प्रतिनियतवृत्तितया कर्त्तृस्मरणाभावसिद्धिः ततोऽतिदुर्लभा1000 । यन्निराश्रयं न तत् प्रतिनियतवृत्ति यथा आकाशम्, निराश्रयश्च भवद्भिरभिप्रेतोऽभावप्रमाणात्प्रसिद्ध्यन् कर्त्तृस्मरणाभाव इति ।

अथ साश्रयोऽसौ प्रसाध्यते; ननु कोऽस्य1001 आश्रयः–स्वात्मा, सर्वप्रमातारो वा ? यदि स्वात्मा “अमुष्मिन्मदीय आत्मनि वेदकर्त्तृस्मरणं नास्ति” इति; किमेतावता सिद्धम् ? पदार्थजातस्य अनेकस्य अत्र1002 स्मरणं नास्ति, न चैतावता तस्याभावः सिद्ध्यति । ममानुष्ठातुरवश्यं1003 स्मर्त्तव्योऽसौ,1004 यदा स्मृतिपथप्रस्थायी न भवति तदाऽसन्; इत्यप्यसारम्; भवत्स्मरणाभावमात्रेण अर्थाभावाऽसिद्धेः1005 । तस्य1006 स्वयं निहितेऽवश्यं स्मर्त्तव्ये क्वचिद् द्रव्यादौ विद्यमानेऽपि सद्भावेन अनेकान्तात् । तथा व्याधितेन उपयुज्यमानमौषधं स्वयं धृतं महत्यामप्यर्थितायां न स्मर्यते, नचैतावता तस्याऽभाव1007 इत्यनेन चाऽनेकान्तः1008 । अथ सर्वप्रमातारः; ननु1009 “त्रैलोक्योदरवर्त्तिनः प्रमातारो वेदकर्त्तारं न स्मरन्ति” इत्यसर्वविदो वेदनानुपपत्तिः । उपपत्तौ वा सर्ववेदित्वप्रसङ्गः ।

किञ्च,1010 सर्वप्रमातृदेशान्1011 गत्वा तांश्च1012 पृष्ट्वा तत्र1013 स्मरणाभावः प्रतीयेत,1014 अन्यथा वा ? न तावदन्यथा, गत्वा1015 गत्वा तु तान् देशान् [मी॰ श्लो॰ अर्था॰ श्लो॰ ३८] इत्यस्य विरोधानुषङ्गात् । गत्वा चेत्; ननु तत्र1016 तेषु1017 पृष्टेषु “न स्मरामः” इति प्रतिवचनञ्च व्रुवाणेष्वपि कः समाश्वासः पुरुषवचसामप्रामाण्येन अर्थतथाभावानुपपत्तेः ? न च सर्वेषामाप्तताप्रतिपत्तिरस्ति, यतः तद्गुणसङ्क्रान्त्या तत्र1018 प्रामाण्यं स्यात्; तत्प्रतिपत्तेरेव असर्वविदो युगपत्क्रमेण वाऽसम्भवात् ।

किञ्च, अभावप्रमाणस्य तत्र प्रवृत्तिः यत्र वस्तुसत्तावबोधकं प्रमाणपञ्चकं न प्रवर्त्तते । प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्त्वावबोधार्थं1019 तत्राभावप्रमाणता1020 ॥ [मी॰ श्लो॰ अभाव॰ श्लो॰ १]

इत्यभिधानात् । वेदे च आत्मनः1021 कर्त्तृसद्भावावेदके सति कथं तत्प्रवृत्तिः1022 ? स हि रुद्र वेदकर्त्तारम् । [ ]

यो ब्रह्माण विदधाति पूर्व वेदांश्च प्राहिणोति । [श्वेताश्व॰ ६ । १८]

तथा प्रजापतिः सोम राजानमन्वसृजत, ततः त्रयो वेदा अन्वसृज्यन्त । [ ]

इत्यादिको1023 वेदः कर्त्तृसद्भावावेदकः अनेकधा श्रूयते । स्वरूपासिद्धश्चायं1024 हेतुः, पौराणिका हि वेदस्य ब्रह्मकर्त्तृत्वं स्मरन्ति– प्रतिमन्वन्तरञ्चैव1025 श्रुतिरन्या विधीयते । [मत्स्यपु॰ १४५ । ५८]

अनन्तरं तु वक्त्रेम्यो वेदास्तस्य विनिःसृताः । [ ]

इत्यभिधानात् । यौगा रुद्रकर्त्तृकत्वम्,1026 जैनाः कालासुरकर्त्तृकत्वम्1027

स्मृतिपुराणादिवच्च ऋषिनामाङ्किताः1028 काण्व-माध्यन्दिन-तैत्तिरीयादयः शाखाभेदाः कथमस्मर्थमाणकर्त्तृकाः ? तथाहि–एताः1029 तत्कृतत्वात् तन्नामभिरङ्किताः, तद्दृष्टत्वात्, तत्प्रकाशितत्वाद्वा ? तत्राद्यपक्षे कथमासामपौरुषेयत्वम् अस्मर्यमाणकर्त्तृकत्वं वा स्यात् ? उत्तरपक्षद्वये यदि तावदुत्स1030न्ना1031 शाखा कण्वादिना दृष्टा प्रकाशिता वा तदा कथमस्याः1032 सम्प्रदायाविच्छेदः अतीन्द्रियार्थदर्शिनः प्रतिक्षेपश्च स्यात् ? अथ अनवच्छिन्नैव सा सम्प्रदायेन दृष्टा प्रकाशिता वा; तर्हि यावद्भिरुपाध्यायैः1033 सा दृष्टा प्रकाशिता वा तावतां नामभिः तस्याः किन्नाङ्कितत्वं स्यादविशेषात् ?

अथोच्यते–अस्ति1034 यौगादीनां1035 वेदे कर्त्तृस्मरणं किन्तु सविगानं1036 तत्कर्तृविशेषे10371038 विप्रतिपत्तेः अतोऽप्रमाणमिति; तदप्युक्तिमात्रम्; यतः1039 कर्तृविशेषे विप्रतिपत्तेः तद्विशेषस्मरणमेवाप्रमाणं स्यान्न कर्तृमात्रस्मरणम्, अन्यथा कादम्बर्यादीनामपि कर्तृविशेषे विप्रतिपत्तेः §कर्त्तृमात्रस्मरणस्याप्रमाणत्वेन1040 अस्मर्यमाणकर्त्तृक✢त्वस्य964 तदापि तत्रापि1041 गतत्वादनेकान्तः । अथ10421043 वेदे कर्त्तृ✢विशेषे विप्रतिपत्तिवत् कर्त्तृमात्रेऽपि विप्रतिपत्तेः तन्मात्रस्मरणमप्यप्रमाणं कादम्बर्यादीनां तु कर्त्तृविशेषे एव विप्रतिपत्तेः तत्प्रमाण1044मित्यतो1045 नानेकान्तः, ननु1046 वेदे सौगतादयः कर्तारं स्मरन्ति न मीमांसकाः इत्येवं कर्त्तृमात्रे विप्रतिपत्तेः§ यदि तदप्रमाणम्,1044 तर्हि तद्वत्1047 तदस्मरणमप्यप्रमाणं1048 किन्न स्यात् विप्रतिपत्तेरविषेशात् । तथा चायमसिद्धो1049 हेतुः ।

विरुद्धश्च, स्मर्यमाणकर्त्तृकत्वाऽस्मर्यमाणकर्त्तृकत्वयोः कार्यधर्मतया विपक्ष1050 एव वर्त्तमानत्वात् । कार्यमेव हि किञ्चित् स्मर्यमाणकर्त्तृकं दृष्टं घटादि, किञ्चिदस्मर्यमाणकर्त्तृकं जीर्णकूपादि । ततश्च कृतको वेदः अस्मर्यमाणकर्त्तृकत्वात् जीर्णकूपादिवत् । नहि1051 नित्यं वस्तु स्मर्यमाणकर्त्तृकमस्मर्यमाणकर्तृकं वा प्रतिपन्नम्, किन्तु अकर्त्तृकमेव । कालात्ययापदिष्टश्च, श्रुतिस्मृतिबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वात् । तन्न कर्त्तृस्मरणाभावलक्षणमस्मर्यमाणकर्त्तृकत्वं घटते ।

नापि अकर्त्तृकत्वलक्षणम्, अशब्दार्थत्वात् । नहि अस्मर्यमाणकर्त्तृत्वशब्दस्य1052 अकर्त्तृकत्वमर्थो लोके शास्त्रे वा प्रसिद्धः । प्रसिद्धौ वा साध्याविशिष्टत्वम्1053 । अस्तु वाऽविचारितमणीयमस्मर्यमाणकर्त्तृकत्वम्, तथापि तद्1054 वादिनः, प्रतिवादिनः, सर्वस्य वा सम्बन्धि हेतुः स्यात् ? यदि वादिनः, तदनैकान्तिकम्,1055 वटे वटे वैश्रवणः [ ] इत्यादिषु विद्यमानकर्त्तृकेष्वपि प्रयोजनाभावात् मीमांसकैरस्मर्यमाणकर्त्तृकेषु अस्य सद्भावात् । ननु वेदे कर्त्रभावपूर्वकमस्मर्यमाणकर्त्तृत्वं1056 हेतुः, तच्चात्र1057 नास्ति कर्त्रनुपलम्भमात्रपूर्वकत्वात्तत्र1058 तस्य1059 तत्कथमनैकान्तिकत्वम् ? इत्यपि मनोरथमात्रम्, यतः कुतोऽत्र1060 कर्त्रभावसिद्धिः–प्रमाणान्तरात्, अत एव वा ? यदि प्रमाणान्तरात्, तदाऽस्य1061 आनर्थक्यम् । अत एव चेत्, अन्योन्याश्रयः–अतो हि अनुमानात् तदभावसिद्धौ1062 तत्पूर्वकमस्मर्यमाणकर्त्तृकत्वं सिद्ध्यति, तत्सिद्धौ1063 च अतोऽनुमानात्तदभावसिद्धिरिति । अथ प्रतिवादिनः सम्बन्धि तत्1064 हेतुत्वेन विवक्षितम्, तदसिद्धम्, तत्र हि प्रतिवादी स्मरत्येव कर्त्तारम् । एतेन सर्वस्याऽस्मरणं प्रत्याख्यातम्, सर्वात्मज्ञानविज्ञानरहितो1065 वा कथं सर्वस्य तत्र1066 कर्त्रस्मरणमवैति ? अतोऽस्य अज्ञातासिद्धत्वम्,1067 सतोऽप्यस्य1068 असर्वविदा ज्ञातुमशक्यत्वात् ।

यदप्युक्तम्–“ये1069 हि यदर्थानुष्ठाने प्रवर्त्तन्ते तेऽवश्यं तच्छास्त्रकर्त्तारमनुस्मरन्ति” इत्यादि, तदप्यनल्पतमोविलसितम्, नियमाभावात्1070 । न हि “यो धर्मशीलः” [ ] इत्यादिवाक्येभ्यः तदर्थानुष्ठाने प्रवर्त्तमानानामनुष्ठातॄणां तत्कर्त्तृस्मरणमस्ति,1071 तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थोपयोगिन्यैहिकपारत्रिकभयाऽभावहेतौ1072 प्रवृत्तिप्रतीतेः ।

यच्चान्यदुक्तम्–“छिन्नमूलत्वाच्च”1073 इत्यादि, तदप्यसुन्दरम्, यतः अध्यक्षेणानुभावाभावात्1074 तत्र1075 तच्छिन्नमूलम्,1076 प्रमाणान्तरेण वा ? अध्यक्षेण चेत्; किं भवत्सम्बन्धिना,1077 सर्वसम्बन्धिना वा ? यदि भवत्सम्बन्धिना, तर्हि आगमान्तरेऽपि कर्त्तृसद्भावग्राहकत्वेन भवत्प्रत्यक्षस्याऽप्रवृत्तेः तत्क1078र्त्तृस्मरणस्य1079 छिन्नमूलत्वेन अस्मर्यमाणकर्त्तृकत्वस्य भावाद् व्यभिचारी हेतुः । अथ1080 तत्र1081 तद्ग्राहकत्वेन अस्मत्प्रत्यक्षस्याप्रवृत्तावपि परैः कर्त्तृसद्भावाभ्युपगमान्न व्यभिचारः, तन्न, परकीयाभ्युपगमस्य भवतोऽप्रमाणत्वात्,1082 अन्यथा वेदेऽपि परैस्त1083त्सद्भावाभ्युपगमात्1084 अस्मर्यमाणकर्त्तृकत्वादित्यसिद्धो हेतुः स्यात् । सर्वसम्बन्धिना चेत्; सोऽसिद्धः, अर्वाग्दृशा तस्यावसातुमशक्यत्वात् । अथ प्रमाणान्तरेण अनुभवाभावः, तन्न, आगमस्य1085 तत्र कर्त्तृसद्भावावेदकस्य प्रतिपादितत्वात् । रचनावत्त्वाद्यनुमानस्य च तत्प्रसाधकस्य सद्भावात् । तथाहि-पौरुषेयो वेदः रचनावत्त्वात्1086 भारतादिवत्, पदवाक्यात्मकत्वाद्वा1087 तद्वत् । तथा प्रमाणान्तरविषयभाञ्जि वैदिकानि वाक्यानि आप्तोक्तानि, वाक्यत्वे सति प्रमाणत्वात्, यदित्थं तत्तथा यथा पित्रादिवाक्यम्, तथा चामूनि, तस्मात्तथेति ।

यदप्यभिहितम्–“वेदरचनायाः1088 कर्त्तृपूर्वकरचनाविलक्षणत्वात्” इत्यादि, तत्र किमिदं तस्याः तद्वैलक्षण्यं नाम–दुर्भणत्वम्,1089 दुःश्रवणत्वम्, लोकव्याकरणप्रसिद्धशब्दवैलक्षण्येन शब्दविनिवेशः, अपूर्वछन्दोनिबद्धत्वम्, अतीन्द्रियार्थप्रतिषादकत्वम्, महाप्रभावोपेतमन्त्रयुक्तत्वं वा ? सर्वमेतत् पुरुषाणां न दुष्करम्, विज्ञानकरणपाटवाधीनत्वाद् वाचोवृत्तेः । मन्त्राणाञ्च1090 महाप्रभावोपेतत्वं पुरुषप्रणीतत्वेनैवोपपन्नम्, निरतिशयप्रभाववता हि पुरुषेण “अमुष्मान्मन्त्रादस्येदं फलं भवतु”1091 इत्यनुसन्धाय यदा यया1092 कयाचित् भाषया प्रयुज्यन्ते मन्त्राः तदा1093 तेषां तत्कर्त्तृप्रभावादेव तथाविधार्थक्रियाकरणसामर्थ्य सम्भाव्यते । दृश्यते हि साम्प्रतमपि महाप्रभाववतो मन्त्रवादिन आज्ञाप्रदानात् ज्वराद्युच्चाटनं निर्विषीकरणादि च ।

किञ्च, अत्र1094 विशिष्टा रचना दृश्यमाना1095 तत्करणासमर्थमेव कर्त्तारं प्रतिक्षिपति नतु554 कर्त्तृमात्रम् । न हि जीर्णकूपप्रासादादौ विशिष्टा रचनोपलभ्यमाना तन्मात्रं1096 प्रतिक्षिपन्ती प्रतीता, तत्करणासमर्थस्यैव शिल्पिनः तया10971098 प्रतिक्षेपात् । नहि कर्त्रन्वयव्यतिरेकानुविधायिनो धर्माः कर्त्तारमन्तरेण उपपद्यन्ते । अतः “वैदिकी रचनाऽपौरुषेयी” इत्याद्यनुमानमनुपपन्नम्; दृष्टकर्त्तृकरचनाविलक्षणत्वस्य उक्तप्रकारेण तत्राऽसम्भवात्1075 । सम्भवे वा कर्त्तृमात्रानिषेधकत्वात् । ततोऽयुक्तमुक्तम्–“रचनामात्रात्कर्त्रनुमाने1099 जगतो बुद्धिमद्धेतुकत्वानुमानानुषङ्गः”1100 इत्यादि, वेदरचनायाः कर्त्तृपूर्वकरचनाविलक्षणत्वाव्यवस्थितेः, जगद्रचनायास्तु तत्स्थितेः1101 । तत्स्थितिश्च ईश्वरनिराकरणप्रघट्टके1102 सप्रपञ्चं प्रपञ्चिता ।

यदप्युक्तम्–“वेदाध्ययनं1103 सर्वं गुर्वध्ययनपूर्वकम्”इत्यादि, तत्र1104 निर्विशेषणमध्ययनशब्दवाच्यत्वम् अपौरुषेयत्वं प्रतिपादयेत्, सविशेषणं वा ? तत्र आद्यविकल्पेऽनैकान्तिकत्वम्,1105 निश्चितकर्त्तृकेषु भारतादिष्वष्यस्य1106 भावात्1107 । द्वितीयपक्षे तु किं तस्य1108 विशेषणम् ? वेदश्चेत्,1109 ननु वेदविशिष्टमप्यध्ययनं किं तावन्मात्रेण हेतुः, अपरविशेषणवि शिष्टत्वेन वा ? यदि तावन्मात्रेण, तदाऽनैकान्तिकम्,1110 विपक्षेऽप्यस्य11111112 अविरुद्धतया सद्भावसम्भवात् । विपक्षेण विरुद्धं हि विशेषणं ततो1113 हेतुं व्यावर्त्तयति नान्यद् अतिप्रसङ्गात् । नच वेदविशेषणं कर्त्तृपूर्वकत्व1114लक्षणविपक्षेण1115 विरुद्धम् भारताध्ययनवद् वेदाध्ययनस्यापि सकर्त्तृकत्वेऽप्यविरोधात् ।

किञ्च, यथाभूतानां1116 पुरुषाणामध्ययनम् अध्ययनपू1117र्वकं1118 दृष्टं तथाभूतानामेव तत्तथा11191120 साध्यते, अन्यथाभूतानां1121 वा ? यदि तथाभूतानाम्,1122 तदा सिद्धसाधनम् । अथ अन्यथाभूतानाम्, तर्हि जगतो बुद्धिमद्धेतुकत्वे सन्निवेशादिवदप्रयोजको1123 हेतुः । अथ तथाभूतानामेव1124 तत्तथा11251126 साध्यते, नच सिद्धसाधनम्,1127 सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येन अतीन्द्रियार्थप्रतिपादकप्रेरणाप्रणेतृत्वाऽसामर्थ्येन ईदृशत्वात्,1128 तदप्यसुन्दरम्, प्रेरणायाः966 तथाभूतार्थप्रतिपादने1129 प्रामाण्याप्रसिद्धेः । तदप्रसिद्धिश्च गुणवतो1130 वक्तुरभावे तद्गुणैरनिराकृतैर्दोषैः1131 तस्या1132पोहित्वात्1133 सुप्रसिद्धा । तथाभूताञ्च1134 प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोऽपि कर्त्तुं समर्था इति कुतः तथाभूतप्रेरणाप्रणेतृत्वाऽसामर्थ्येन अशेषपुरुषाणामीदृशत्वसिद्धिर्यतः सिद्धसाधनं न स्यात् । अथ न गुणवद्वक्तृकत्वेनैव शब्देऽप्रामाण्यनिवृत्तिः अपौरुषेयत्वेनाप्यस्याः1135 सम्भवात् ततोऽयमदोषः, तदप्यसाम्प्रतम्; यतोऽपौरुषेयत्वमस्याः1136 किमन्यतः प्रमाणात् प्रसिद्धम्, अत एव वा ? यदि अन्यतः; तदा अस्य वैयर्थ्यम् । अत एव चेत्; अन्योन्याश्रयः–अतो हि अनुमानादपौरुषेयत्वसिद्धौ प्रेरणायाः प्रामाण्यसिद्धिः, तत्सिद्धौ च तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदृशत्वसिद्धिरिति1137 । तन्न वेदाध्ययनमात्रं हेतुः ।

अथ अपरविशेषणविशिष्टम्; किं पुनस्तत्र1138 विशेषणम्–कर्त्रस्मरणम्, सम्प्रदायाव्यवच्छेदो वा ? न तावत् कर्त्रस्मरणम्; तस्य असिद्धाद्यनेकदोषदुष्टत्वप्रतिपादनात् । सम्प्रदायाव्यवच्छेदोऽपि1139 आत्मगतः, सर्वलोकगतो वा ? न तावदात्मगतः; भारतादिवत् पौरुपेयत्वेऽप्यस्य सम्भवात् । नापि सर्वलोकगतः,1140 असर्वविदा तस्य सतोऽपि ज्ञातुमशक्यत्वात्, वटे वटे वैश्रवणः [ ] इत्यादिवत् पौरुषेयत्वेऽप्यस्याऽविरोधाच्च1141

किञ्च, प्रमाणादर्थव्यवस्था भवति । सम्प्रदायाव्यवच्छेदश्च कि स्वतन्त्रं प्रमाणम्, प्रत्यक्षाद्यन्यतमत्, तदन्तर्भूतं वा ? न तावत् स्वतन्त्रम्, पट्प्रमाणसङ्ख्याव्याघातप्रसङ्गात् । नापि प्रत्यक्षाद्यन्यतमत्, तस्य1141 तत्सामग्रीतो विलक्षणसामग्रीप्रभवत्वात्, आज्ञापारम्पर्यवत् । अत1142 एव न तदन्तर्भूतम्1143 । ततो1144 वटे यक्षपारम्पर्यवत् संशयजनकमेवैत1145त्1146 नार्थतत्त्वव्यस्थापनप्रवणम् । अव्यवच्छेदश्चास्य1147 श्रद्धामात्रगम्यः; नैपथ्यव्यव 1148 हारवालक्रीडादीनाम् आदिमतामपि1149 निर्मूलोच्छेदोपलम्भेन अनादौ वेदे अव्यवच्छेदस्य श्रद्धामात्रादन्यतः सम्भावयितुमशक्यत्वात् ।

यदप्युक्तम्–“अतीतानागतौ1150 कालौ” इत्यादि, तदप्यसमीक्षिताभिधानम्, आगमान्तरेऽप्यस्याविशेषात्1151 । किञ्च,1152 इदानीं यथाभूतो वेदकरणाऽसमर्थपुरुषयुक्तः1153 तत्कर्तृपुरुषरहितो1154 वा कालः प्रतीतः अतीतोऽनागतो वा तथाभूतः1155 कालत्वात्1156 साध्येत, अन्यथाभूतो1157 वा ? यदि तथाभूतः, तदा सिद्धसाधनम्1158 । अथ अन्यथाभूतः,1159 तदा सन्निपेशादिवदप्रयोजको हेतुः । अथ तथाभूतस्यैव1160 तस्य1161 तद्रहितत्वं1162 साध्यते, नच सिद्धसाधनम्1163 अन्यथाभूतस्य1164 कालस्यैवाऽसम्भवात्, ननु1165 “अन्यथाभूतः कालो नास्ति” इत्येतत् कुतः प्रमाणात् प्रतिपन्नम्–अत एव, अन्यतो वा ? यदि अत1166 एव, इतरेतराश्रयः–अन्यथाभूतकालाभावसिद्धौ1167 हि अतोऽनुमानात्तद्रहितत्वसिद्धिः,1168 तत्सिद्धेश्च अन्यथाभूतकालाभावसिद्धिरिति । अन्यतः तत्सिद्धौ1169 चास्यानर्थक्यम्1170 अपौरुषेयत्वस्यापि तत एव प्रसिद्धेः । ततो वेदे अपौरुषेयत्वप्रसाधकस्य कस्यचिदपि प्रमाणस्यासभवात् कथमसौ अपौरुषेयः स्यात् ।

अस्तु वा, तथाप्यसौ1171 व्याख्यातः, अव्याख्यातो वा स्वार्थे प्रतीतिं कुर्यात् ? न तावदव्याख्यातः, अतिप्रसङ्गात् । अथ व्याख्यातः,1172 कुतस्तद्व्याख्यानम्–स्वतः, पुरुषाद्वा न तावत् स्वत1173 एव, “अयमेव मदीयपदवाक्यानामर्थः नायम्” इति स्वयं वेदेनाऽप्रतिपा दनात्, अन्यथा व्याख्याभेदो न स्यात् । पुरुषाच्चेत्;1174 कथं तद्व्याख्यानात् पौरुषेयादर्थप्रतिपत्तौ दोषाशङ्कानिवृत्तिः स्यात् ? पुरुषा हि रागादिमन्तो विपरीतमप्यर्थ व्याचक्षाणा दृश्यन्ते । संवादेन प्रामाण्याभ्युपगमे च अपौरुषेयत्वकल्पनानर्थक्यम्, पौरुषेयत्वेऽपि वेदस्य संवादादेव प्रामाण्योपपत्तेः । नच व्याख्यानानां1175 संवादोऽस्ति, परस्परविरुद्धभावनानियोगादिव्याख्यानानामन्योन्यं1176 विसंवादोपलम्भात् ।

किञ्च,1175 असौ तद्व्याख्याता अतीन्द्रियार्थद्रष्टा, तद्विपरीतो वा ? प्रथमपक्षे अतीन्द्रियार्थदर्शिनः1177 प्रतिषेधविरोधः । धर्मादौ च अस्य1178 प्रामाण्योपपत्तेः धर्मे चोदनैव प्रमाणम्1179 [ ] इत्यवधारणानुपपत्तिश्च । अथ तद्विपरीतः; कथं तर्हि तद्व्याख्यानाद् यथार्थप्रतिपत्तिः, अयथार्थाभिधानाशङ्कया तदनुपपत्तेः1180 ?

नच मन्वादीनां सातिशयप्रज्ञत्वात् तद्व्याख्यानाद् यथार्थप्रतिपत्तिः; तेषां1181 सातिशयप्रज्ञत्वासिद्धेः । तेषां हि प्रज्ञातिशयः स्वतः, वेदार्थाभ्यासात्, अदृष्टात्,1182 ब्रह्मणो वा स्यात् ? स्वतश्चेत्, सर्वस्य स्यादविशेषात् । वेदार्थाभ्यासाच्चेत्, ननु वेदार्थस्य ज्ञातस्य, अज्ञातस्य वा अभ्यासः स्यात् ? न तावदज्ञातस्य; अतिप्रसङ्गात् । अथ ज्ञातस्य; कुतस्तज्ज्ञप्तिः–स्वतः,1183 अन्यतो वा ? स्वतश्चेत्; अन्योन्याश्रयः–सति हि वेदार्थाभ्यासे स्वतस्तत्परिज्ञानम्, तस्मिंश्च सति तदर्थाभ्यास इति । अथ अन्यतः; तर्हि तस्यापि तत्परिज्ञानमन्यतः इति अतीन्द्रियार्थदर्शिनोऽनभ्युपगमे1184 अन्धपरम्परातो यथार्थनिर्णयानुपपत्तिः । अदृष्टमपि न प्रज्ञातिशयप्रसाधकम्, तस्य आत्मान्तरेऽपि सद्भावात् । न तथाविधमदृष्टमन्यत्र मन्वादावेव अस्य सम्भवादिति चेत्; कुतस्तत्रैवास्य1185 सम्भवः ? वेदार्थानुष्ठानविशेषाच्चेत्, स1186 तर्हि ज्ञातस्य अज्ञातस्य वा वेदार्थस्य अनुष्ठाता स्यात् ? अज्ञातस्य चेद्, अतिप्रसङ्गः । ज्ञातस्य चेत्, चक्रकप्रसङ्गः–सिद्धे हि वेदार्थज्ञानातिशये तदर्थानुष्ठानविशेषसिद्धिः, तत्सिद्धौ च अदृष्टविशेषसिद्धिः, ततस्तज्ज्ञानातिशयसिद्धिरिति । ब्रह्मणोऽपि वेदार्थज्ञाने सिद्धे सति अतो1187 मन्वादेस्तदर्थपरिज्ञानातिशयः सिद्ध्येत् । तच्चास्य1187 कुतः सिद्धम् ? धर्मविशेषाच्चेत्, स एव चक्रकप्रसङ्गः–सिद्धे हि वेदार्थपरिज्ञानातिशये तत्पूर्वकानुष्ठानविशेषः सिद्ध्येत्, ततः तज्जनितधर्मविशेषः सिद्ध्येत्, तत्सिद्धौ1188 च वेदार्थपरिज्ञानातिशयः सिद्ध्येदिति । ततोऽतीन्द्रियार्थदर्शिनोऽनभ्युपगमे वेदार्थप्रतिपत्तेरनुपपत्तिरेव ।

ननु व्याकरणाद्यभ्यासात् लौकिकपदवाक्यार्थप्रतिपत्तौ तदविशिष्टवैदिकपदवा क्यार्थप्रतिपत्तेरपि प्रसिद्धिः अश्रुतकाव्यादिवत्, अतो न वेदार्थप्रतिपत्तौ अतीन्द्रियार्थदर्शिना किञ्चित् प्रयोजनम्, इत्यप्यपेशलम्, लौकिकवैदिकपदानामेकत्वेऽपि1189 अनेकार्थत्वव्यवस्थितेः अन्यपरिहारेण व्याचिख्यासितार्थस्य नियमयितुमशक्तेः । न च प्रकरणादिभ्यस्त1190न्नियमः;1191 तेषानमप्यनेकधा1192 प्रवृत्तेः त्रिसन्धानादिवत् । यदि च लौकिकेन अग्न्यादिशब्देन अविशिष्टत्वाद् वैदिकस्य अग्न्यादिशब्दस्य अर्थप्रतिपत्तिः;1193 तर्हि पौरुपेयेणा1194पि1195 तेन1196 अविशिष्टत्वात् पौरुषेयोऽप्यसौकथन्न1197 स्यात् ? लौकिकस्य हि अग्न्यादिशब्दस्य अर्थवत्त्व पौरुषेयत्वेन व्याप्तम्, तत्र अयं वैदिकोऽग्न्यादिशब्दः कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति ? उभयमपि1198 गृह्णीयात् जह्याद्वा । न1199 च लौकिकवैदिकशब्दयोः1200 स्वरूपाऽविशेषे सङ्केतग्रहणसव्यपेक्षत्वेन अर्थप्रतिपादकत्वे अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे समाने अन्यो विशेषोऽस्ति, यतो वैदिका अपौरुषेयाः शब्दा लौकिकास्तु1201 पौरुषेयाः स्युः । ततो1202 ये नररचितरचनाऽविशिष्टाः ते पौरुषेयाः यथा अभिनवकूपप्रासादादिरचनाऽविशिष्टा जीर्णकूपप्रासादादयः, नररचितवचनरचनाऽविशिष्टञ्च1203 वैदिकं पदवाक्यादिकमिति ॥ छ ॥

पदवाक्ययोर्लक्षणम्–

किं पुनः पदं वाक्यञ्च इति चेत् ? उच्यते–वर्णानामन्योन्यापेक्षाणां निरपेक्षः समुदायः पदम्1204 । पदानां तु परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यमिति1205 । नन्वेवं1206 कथमिदं साधनवाक्यं घटते–“यत् सत् तत्सर्वं परिणामि यथा घटः संश्च शब्दः” इति, “तस्मात्परिणामि” इत्याकाङ्क्षणात्, साकाङ्क्षस्य वाक्यत्वानिष्टेः ? इत्यचोद्यम्; कस्यचित्1207 प्रतिपत्तुः तदनाकाङ्क्षत्वोपपत्तेः । यस्य हि प्रतिपत्तुः “तस्मात् परिणामि” इत्यत्र आकाङ्क्षाक्षयः तदपेक्षया1208 तद् वाक्यं भवति उक्तवाक्यलक्षणसद्भावात् नान्यापेक्षया1209 । निराकाङ्क्षत्वं हि प्रतिपतृधर्मः1210 वाक्येष्वध्यारोप्यते, न पुनः शब्दधर्मः तस्याऽचेतनत्वात् । स चेत् प्रतिपत्ता तावता अर्थं प्रत्येति किमित्यपरमाकाङ्क्षेत् ? पक्षधर्मोपसंहारपर्यन्तसाधनवाक्यादर्थप्रतिपत्तावपि1211 निगमनवचनापेक्षायां निगमनान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गात्1212 न क्वचिन्निराकाङ्क्षत्वसिद्धिः स्यात् । तथा1213 च वाक्याभावात् न क्वचिद् वाक्यार्थप्रतिपत्तिः कस्यचित् स्यात् । तामिच्छता यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकाङ्क्षत्वं तस्य तावत्सु वाक्यत्वसिद्धिः प्रतिपत्तव्या । एतेन1214 प्रकरणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकाङ्क्षस्य सत्यभामादिपदवत् वाक्यत्वं1215 प्रतिपादितं1216 प्रतिपत्तव्यम् ।

एतेन यत्कैश्चित्1217 वाक्यस्य1218 लक्षणान्तरमुक्तम्– आख्यातशब्दः1219 सङ्घातो जातिः सङ्घातवर्त्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतीतिः1220
पदमाद्यं1221 पदञ्चान्त्यं पदं सापेक्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवेदिनाम्1222

[वाक्यप॰ २ । १–२] इति; तत्प्रत्याख्यातम्; यस्मादाख्यातशब्दः1223 पदान्तरनिरपेक्षः, सापेक्षो वा वाक्यं स्यात् ? तत्राद्यपक्षोऽनुपपन्नः; पदान्तरनिरपेक्षस्यास्य पदत्वेन वाक्यत्वानुपपत्तेः, अन्यथा आख्यातपदाभावः स्यात् । द्वितीयपक्षेऽपि क्वचित् निरपेक्षोऽसौ, न वा ? प्रथमपक्षे अस्मन्मतसिद्धिः,1224 अस्मदुक्तस्यैव वाक्यलक्षणस्य इत्थमभ्युपगात् । द्वितीयपक्षस्त्वयुक्तः; पदान्तरसापेक्षस्याप्यस्य1225 क्वचिन्निरपेक्षत्वाभावे प्रकृतार्थापरिसमाप्त्या वाक्यत्वायोगाद् अर्द्धवाक्यवत् ।

“सङ्घातो1226 वाक्यम्” इत्यत्रापि1227 वर्णानाम्, पदानां वा सङ्घातो वाक्यं स्यात् ? प्रथमपक्षे पदाय दत्तो जलाञ्जलिः । द्वितीयपक्षे तु देशकृतः,1228 कालकृतो वा पदानां सङ्घातः स्यात् ? तत्राद्यः पक्षोऽयुक्तः, क्रमोत्पन्नप्रव्वंसिनां तेषामेकस्मिन्1229 देशे सकृदवस्थित्यभावतो देशकृतसङ्घातासम्भवात्1230 । द्वितीयपक्षे1231 तु पदेभ्योऽसौ भिन्नः, अभिन्नो वा ? न तावद्भिन्नोऽनंशः, तथाविधस्यास्याप्रतीतेः,1232 वर्णान्तरवत् सङ्घातविरोधाच्च । अथ तेभ्योऽभिन्नोऽसौ, किं सर्वथा, कथञ्चिद्वा ? यदि सर्वथा; कथमसौ सङ्घातः सङ्घातिस्वरूपवत् ? अन्यथा प्रतिपदं सङ्घातप्रसङ्गः । न चैकं पदं सङ्घातो नाम अतिप्रसङ्गात् । अथ कथञ्चित्, तदा जैनमतप्रसङ्गः, परस्परापेक्षाऽनाकाङ्क्षपदसमूहरूपतामापन्नवर्णानां कालप्रत्यासत्तिरूपसङ्घातस्य कथञ्चिद्वर्णेभ्यो1233 भिन्नस्य जैनोक्तवाक्यलक्षणानतिक्रमात् । साकाङ्क्षाऽन्योन्यानपेक्षाणां तु तेषां1234 वाक्यत्वे प्राक्प्रतिपादितदोषानुषङ्गः1235

एतेन “जातिः1236 सङ्घातवर्त्तिनी वाक्यम्” इत्यपि नोत्सृष्टम्, निराकाङ्क्षाऽन्योन्या1237 पेक्षपदसङ्घातवर्तिन्याः सदृशपरिणामलक्षणायाः कथञ्चित्ततोऽभिन्नायाः1238 जातेर्वाक्यत्वघटनात्, अन्यथा सङ्घातवाक्यपक्षोक्ताऽशेषदोषानुषङ्गः ।

“एकोऽनवयवः1239 शब्दो वाक्यम्” इत्यपि मनोरथमात्रम्, तस्य अप्रमाणकत्वात्1240 । तदप्रमाणकत्वञ्च शब्दस्फोटग्राहकप्रमाणानां निषेत्स्यमानत्वात् सुप्रसिद्धम् ।

“क्रमो1241 वाक्यम्” इत्येतत्तु1242 सङ्घातवाक्यपक्षान्नातिशेते इति तद्दोषेणैव दुष्टं1243 द्रष्टव्यम् ।

“बुद्धिर्वाक्यम्”1244 इत्यत्रापि1245 भाववाक्यम्, द्रव्यवाक्यं वा सा स्यात् ? प्रथमकल्पनायां सिद्धसाध्यता, पूर्वपूर्ववर्णज्ञानाहितसंस्कारस्यात्मनो वाक्यार्थग्रहणपरिणतस्य अन्त्यवर्णश्रवणानन्तरं वाक्यार्थावबोधहेतोर्बुद्ध्यात्मनो भाववाक्यस्य अस्माभिरपीष्टत्वात् । द्रव्यवाक्यरूपतां तु बुद्धेः कः सुधीः श्रद्दधीत1246 प्रतीतिविरोधात् ?

एतेन “अनुसंहृतिर्वाक्यम्”1247 इत्यपि चिन्तितम्, यथोक्तपदानुसंहृतिरूपस्य1248 चेतसि1249 परिस्फुरतो भाववाक्यस्य परामर्शात्मनोऽभीष्टत्वात् ।

“आद्यं1250 पदमन्त्यमन्यद्वा पदान्तरापेक्षं वाक्यम्” इत्यपि1251 नोक्तवाक्याद् भिद्यते, परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वप्रसिद्धेः, अन्यथा पदस्य1252 वार्त्ताप्युच्छिद्येत1253

येऽपि1254 मन्यन्ते–पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यन्ते–
पदार्थानां1255 तु मूलत्वमिष्टं तद्भावभावतः1256 । [मी॰ श्लो॰ वाक्या॰ श्लो॰ १११]

पदार्थपूर्वकस्तस्माद् वाक्यार्थोऽयमवस्थितः । [मी॰ श्लो॰ वाक्या॰ श्लो॰ ३३६]

इत्यभिधानात्; तैरपि विवक्षितपदानामन्योन्यापेक्षाणां पदान्तरानाकाङ्क्षाणां वाक्यार्थप्रतिपत्तिहेतुत्वमुच्यते, तद्विपरीतानां वा ? तत्र उत्तरपक्षे अतिप्रसङ्गः1257 । प्रथमपक्षे तु अन्धसर्पबिलप्रवेशन्यायेन1258 अस्मदुक्तवाक्यलक्षणानुसरणमेव ।

किञ्च, वाक्यार्थः1259 पदार्थादन्यः, अनन्यो वा ? यदि अनन्यः, तदा पदार्थ एवासौ न वाक्यार्थः । तत्रैव “वाक्यार्थः” इति नामकरणे स्वकम्बलस्य1260 “कूर्दालिका” इति नामकृतं स्यात् । अथान्योऽसौ क्रियाकारकसंसर्गरूपः; ननु तथाभूतोऽसौ किं नित्यः, अनित्यो वा ? यद्यनित्यः, किं विवक्षितपदार्थैर्जन्यते, पदार्थान्तरैर्वा ? पदार्थान्तरोत्पाद्यत्वे स्वसिद्धान्तविरोधः । विवक्षितपदार्थोत्पाद्यत्वे1261 त एव उत्पादकाः त एव ज्ञापकाः स्युः, तत्र च किं पूर्व ज्ञापयन्ति पश्चादुत्पादयन्ति, किं वा पूर्वमुत्पादयन्ति तदनु ज्ञापयन्ति ? प्रथमकल्पनायाम् असति वाक्यार्थे मेये क्व1262 तेज्ञानमुत्पादयेयुः1263 ? उत्पादयतां वा, तेषां न तज्ज्ञानं प्रमाणम् अविद्यमानविषयत्वात् केशोण्डुकादिज्ञानवत् । अथ असन्तमपि तं1264 कर्त्तव्यतया ते प्रतिपादयन्ति तेनायमदोषः; ननु किंस्वरूपेयं1265 तत्कर्त्तव्यता नाम–भावरूपा,1266 अभावरूपा, उभयरूपा, अनुभयरूपा व ? यदि भावरूपा, तदा12671268 विद्य मानरूपार्थगोचरा चोदना प्राप्ता । न च तत्रास्याः12691270 प्रामाण्यमिष्टम्; अनिष्टसिद्धिप्रसङ्गात्1271 । विद्यमानस्य कर्त्तव्यता च स्ववचनविरुद्धा । अभावरूपतायामपि एतदेव1272 दूषणम्, अस्यापि1273 स्वरूपेणाविद्यमानत्वात् । तद्रूपस्य1274 खरविषाणवत् कर्त्तव्यताविरोधात् । अभावे चोदनायाः प्रामाण्यानभ्युपगमाच्च । उभयरूपतापि अनेनैव प्रत्युक्ता । अनुभयरूपतायां तु चोदनायां निर्विषयत्वादप्रामाण्यमेव स्यात् । न च अनुभयरूपता एकस्यैकदोपपन्ना; विधिप्रतिपेधधर्मयोरेकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वात् । अथ पूर्वमुत्पादयन्ति तदनु ज्ञापयन्ति; तर्हि1275 विद्यमानविषयत्वात् तत्रास्याः प्रामाण्यानुपपत्तिः । एतेन नित्यवाक्यार्थपक्षः1276 प्रत्युक्तः; विद्यमानार्थविषयतया अप्रामाण्यानुषङ्गाविशेषात्1277

किञ्च, प्रसिद्धे पदे वाक्ये वा पदार्थैवाक्यार्थाभिव्यक्तिर्वक्तुं युक्ता, नच तत् प्रसिद्धम् । तद्धि वर्णेम्यो भिन्नम्, अभिन्नं वा स्यात् ? यद्यभिन्नम्; तदा वर्णा एव, पदवाक्यद्वयमेव वा । भेदेऽपि तद्1278 दृश्यम्, अदृश्यं वा ? अदृश्यत्वे ततोऽर्थप्रतीतिर्न स्यात् । अज्ञाताज्ञा1279 ताज्ज्ञा पकादर्थप्रतीता1280वतिप्रस1281ङ्गात्,1282 प्रतीत्यनुपरमानुपङ्गाच्च1283 । नापि दृश्यम्; वर्णव्यतिरिक्तस्य तस्यानुपलम्भात्1284 । नहि देवदत्तादिवर्णेषु तद्व्यतिरिक्तं निरंशमेकं पदं1285 वाक्यं वोपलभामहे1286

किञ्च, तत् पदं वाक्यं वा स्वातन्त्र्येण प्रतीयते,1287 वर्णद्वारेण वा ? न तावत् स्वातन्त्र्येण; वर्णाऽश्राविणोऽपि पदवाक्यप्रतीतिप्रसङ्गात् । वर्णद्वारेणापि सावयवस्यास्य1288 प्रतीतिः स्यात्, निरवयवस्य वा ? सावयवत्वे प्रागुक्तमेव पदवाक्यलक्षणमङ्गीकृतं स्यात्, अन्योन्यापेक्षाणां वर्ण-पदान्तरानपेक्षणां कालप्रत्यासत्तिलक्षणस्य समूहस्यैव सावयवपदवाक्यरूपतोपपत्तेः । अथ निरवयवम्; तत्किं समस्तेम्यो वर्णपदेभ्यः प्रतीयते, व्यस्तेभ्यो वा ? न तावत्समस्तेभ्यः, उच्चरितप्रध्वंसिनां तेषां1289 सामस्त्यासम्भवात् । नापि व्यस्तेभ्यः; प्रथमवर्णपदश्रवणकालेपि सकलपदवाक्यप्रतीतिप्रसङ्गतः शेषवर्णपदोच्चा रणवैयर्थ्यप्रसक्तेः । अथ सकलवर्णसङ्कारवत्या अन्त्यवर्णबुद्ध्या1290 वाक्यावधारणमिष्यते; नन्वसौ बुद्धिः किं स्मरणम्, उत अध्यक्षम् ? न तावत् स्मरणम्; अगृहीताऽन्त्यवर्णग्राहकत्वात्1291 । नापि प्रत्यक्षम्; अविद्यमानपूर्ववर्णविषयत्वात्1292 । अथ पूर्ववर्णस्मरणअन्त्यवर्णग्रहणाभ्यामेकं1293 विकल्पज्ञानं जन्यते, तेनावधारणम्;1294 नन्वेतत् प्रमाणम्, न वा ? प्रमाणञ्चेत्; किं प्रत्यक्षाद्यन्यतमत्,1295 प्रमाणान्तरं वा ? न तावत् तदन्तरम्; प्रमाणसङ्ख्याव्याघातप्रसङ्गात् । नापि प्रत्यक्षाद्यन्यतमत्,1296 तत्र1297 तदन्यतमरूपतायाः1298 प्रत्यभिज्ञानविचारावसरे प्रतिव्यूढत्वात्1299 । अथ कल्पनाज्ञानमेवेदं1300 न प्रमाणम्; कथमतस्तत्त्वसिद्धिः अतिप्रसङ्गात् ? वाक्यस्य वा काल्पनिकत्वानुषङ्गाद् वास्तवत्वानुपपत्तिः । ततो यथोक्तलक्षणमेव पदं वाक्यं वा अभ्युपगन्तव्यम् तस्यैव प्रसाधितप्रामाण्ये प्रत्यभिज्ञाने1301 प्रतिभासनादिति ।

स्फोट एवार्थप्रतिपादको न तु वर्णा इति वैयाकरणादीना पूर्वपक्षः–

ननु वर्णपदवाक्यानामर्थप्रतिपादकत्वाभावात्1302 तल्लक्षणप्रणयनमनुपपन्नम्; स्फोट1303 एव हि अर्थप्रतिपादको न वर्णाः । ते1304 हि समस्ताः, व्यस्ता वा तत्प्रतिपादकाः स्युः ? यदि व्यस्ताः, तदा एकेनापि वर्णेन गवाद्यर्थप्रतिपत्तेः उत्पादितत्वात् द्वितीयादिवर्णोच्चारणानर्थक्यम् । अथ समस्ताः; तन्न, क्रमोत्पन्नप्रध्वंसिनां तेषां सामस्त्यासम्भवात् । न च युगषदुत्पन्नानां तेषां समुदायकल्पना युक्ता; एकपुरुषापेक्षया युगपत्तदुत्पत्तेरेवाऽसम्भवात्, प्रतिनियतस्थानकरणप्रयत्नप्रभवत्वात्तेपाम्1289 । न च विभिन्नपुरुषप्रयुक्तगकारौकारविसर्जनीयानां समुदायेऽपि अर्थप्रतिपादकत्वं प्रतीयते, प्रतिनियतवर्णक्रमप्रतिपत्त्युत्तरकालभावित्वेन शाब्दप्रतिपत्तेः1305 प्रतिभासनात् ।

न च अन्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णानां क्रमोत्पादे सति अर्थप्रतिपादक, पूर्ववर्णानाम् अन्त्यवर्णं प्रति अनुग्राहकत्वानुपपत्तेः । तद्धि1306 अन्त्यवर्ण प्रति जनकत्वं तेषां1307 स्यात्, अर्थज्ञानोत्पत्तौ सहकारित्वं वा ? न तावज्जनकत्वम्, वर्णाद् वर्णोत्पत्तेरभावात् प्रतिनियतस्थानकरणादिसाध्यत्वात्तस्याः,1308 वर्णाभावेऽपि आद्यवर्णोत्पत्तिप्रतीतेश्च । नापि अर्थज्ञानोत्पत्तौ सहकारित्वं तेषामन्त्यवर्णानुग्राहकत्वम्;1309 असतां1310 सहकारित्वस्यैवासम्भवात् । यथा च अन्त्यवर्णं प्रति पूर्ववर्णाः सहकारित्वं न प्रतिपद्यन्ते तथा तज्जनित1311 संवेदनान्यपि तत्प्रभवसंस्काराश्च;1312 तेषा1313मपि1314 तत्कालेऽसत्त्वाऽविशेषात्1315

किञ्च, संवेदनप्रभवसंस्काराः1316 स्वोत्पादकसंवेदनविषये स्मृतिहेतवः न तु अर्थान्तरे ज्ञानमुत्पादयितुं समर्थाः । न खलु घटज्ञानप्रभवः1317 संस्कारः पटे स्मृतिं विदधत् दृष्टः । न च तत्संस्कारप्रभवस्मृतीनां तत्सहायता युक्ता; तासां1318 युगपदुत्पत्त्यभावात्, अयुगपदुत्पन्नानाञ्च1319 अवस्थित्यसम्भवात् । न च अखिलसंस्कारप्रभवैका स्मृतिः सम्भवति; अन्योन्यविरुद्धानेकार्थानु1320भवप्रभवसंस्काराणामपि1321 एकस्मृतिजनकत्वप्रसङ्गात् । न1322 च अन्यवर्णानपेक्ष एव “गौः” इत्यत्र अन्त्यो वर्णः अर्थप्रतिपादकः; पूर्ववर्णोच्चारणवैयर्थ्यानुपङ्गात्, घटशब्दान्त्यव्यवस्थितस्याप्यस्य13231324 ककुदादिमर्थप्रतिपादकत्वप्रसङ्गाच्च । तन्न वर्णाः समस्ता व्यस्ता वा अर्थप्रतिपादकाः सम्भवन्ति । अस्ति च गवादिशब्देभ्योऽर्थप्रतीतिः, अतस्तदन्यथानुपपत्त्या वर्णव्यतिरिक्तः अर्थप्रतीतिहेतुः स्फोटोऽभ्युप गन्तव्यः, प्रत्यक्षतः1325 तस्यैव अवभासमानत्वात् । विभिन्नतनुषु हि वर्णेषु अभिन्नाकारं श्रोत्रान्वयव्यतिरेकानुविधाय्यध्यक्षं स्फोटसद्भावमेव अवभासयति । नहि1326 तद् वर्णविषयम्, वर्णानामन्योन्यव्यावृत्तरूपतया अभिन्नाकारावभासिप्रत्यक्षोत्पादनसामर्थ्यासम्भवात् । नापि सामान्यविषयम्; गकारौकारविसर्जनीयेषु वर्णत्वव्यतिरेकेण अपरसामान्यस्याऽसम्भवात् । वर्णत्वस्य च प्रतिनियतककुदादिमदर्थप्रतिपादकत्वानुपपत्तेः । न चेदं भ्रान्तम्; अबाध्यमानत्वात् । न चाबाध्यमानप्रत्ययगोचरस्यापि स्फोटस्य असत्त्वं युक्तम्; अवयविद्रव्यादेरपि असत्त्वप्रसङ्गात् ।

नित्यश्चासौ1327 अभ्युपगन्तव्यः । अनित्यत्वे सङ्केतकालानुभूतस्य तदैव ध्वस्तत्वात् कालान्तरे देशान्तरे च गोशब्दश्रवणात् ककुदादिमदर्थप्रतीतिर्न स्यात् । असङ्केतिताच्छब्दात् अर्थप्रतीतरेसम्भवात् । सम्भवे वा द्वीपान्तरादागतस्य गोशब्दाद् गवार्थप्रतिपत्तिप्रसङ्गात् सङ्केतकरणवैयर्थ्यं1328 स्यात् । ननु “देवदत्त गामभ्याज” इत्यादि वाक्यस्फोट अन्तरालेष्वपि शब्दप्रतिपत्तयः संवेद्यन्ते अतस्तत्रापि तावद्दाद्धास्फोटः1329 कल्पनीयः तथा च स्वमतव्याधातः, तस्याऽखण्डस्यैकस्य तत्र प्रसिद्धेः, इत्यप्यचोद्यम्, अन्तरालप्रत्ययानां1330 स्फोटाभिव्यक्तिहेतुतया विभिन्नस्फोटायोग्यत्वात् । यथैव हि पुनः पुन रुच्चार्यमाणोऽनुवाक1331ग्रन्थः1332 श्लोको वा आवृत्या सुखेनैव अवधारयितुं शक्यते1333 न तु सकृदुच्चरितः प्रतिगताऽऽवृत्तिः, तथैवायं स्फोटलक्षणः शब्दः अन्तरालप्रत्ययैः सत्यप्रतिभासकल्पैः तद्ग्रहणानुगुणोपायभूतैः अभिव्यज्यते । अन्त्येन1334 हि ध्वनिना सह पूर्वभाविभिर्नादैः आहितसंस्कारायां बुद्धौ अंयं स्फुरन्नेव अवधार्यते । उक्तञ्च–

यथाऽनुवाकः1335 श्लोको वा सोढत्वमुपगच्छति1336 । आवृत्त्या नतु1337 स ग्रन्थः प्रत्यावृत्तिर्निरूप्यते1338
प्रत्ययैरनुपाख्येयैर्ग्रह1339णानुगुणैस्तथा1340 । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥
नादेना1341हितबीजायामन्त्येन1342 ध्वनिना सह । आवृत्तित्तपरिपाकायां1343 बुद्धौ शब्दोऽवभासते1344

[वाक्यय॰ १ । ८३–८५] इति ॥ छ ॥ स्फोटनिरसनपुरस्सरं वर्णानामेव अर्थप्रतिपादकत्वप्रतिपादनम्–

अत्र प्रतिविधीयते । यत्तावदुक्तम्–“स्फोट1345 एव” इत्यादि; तदसमीक्षिताभिधानम्; पूर्ववर्णध्वंसविशिष्टाद्1346 अन्त्यवर्णादर्थप्रतिपत्तेरुपपत्तितः स्फोटस्य अर्थप्रतिपादकत्वानुपपत्तेः । न च अभावस्य सहकारित्वं न दृष्टम्; वृन्तफलसंयोगाभावस्य अप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने तद्दर्शनात्,1347 तथा प्राक्तनसयोगाभावविशिष्टं कर्म उत्तरसंयोगं कुर्वत् प्रतीतम्, परमाण्वग्निसंयोगश्च परमाणौ तद्गतपूर्वरूपप्रध्वंससहकृतो1348 रक्ततामुत्पादयन् दृष्टः । यद्वा पूर्ववर्णविज्ञानाभावविशिष्टः1349 तज्ज्ञानजनितसंस्कारसव्यपेक्षो1350 वा अन्त्यो वर्णः अर्थप्रतीत्युत्पादकः । ननु संस्कारस्य कथं विषयान्तरे1351 ज्ञानजनकत्वम् ? इत्यप्यचोद्यम्; इत्थमेव वाक्यार्थप्रतीतेरुपलब्धेः1352 । पूर्ववर्णविज्ञानप्रभवसंस्कारश्च प्रणालिकया1353 अन्त्यवर्णसहायतां प्रतिपद्यते, तथाहि–प्रथमवर्णे1354 तावद्विज्ञानम्, तेन च संस्कारो जन्यते, ततो द्वितीयवर्णविज्ञानम्, तेन1355 च पूर्ववर्णज्ञानाहितसंस्कारसहितेन विशिष्टः संस्कारो जन्यते, एवं तृतीयादावपि योजनीयम्, यावदन्त्यः1356 संस्कारः अर्थप्रतीतिजनकान्त्यवर्णसहायः । अथवा, शब्दार्थोपलब्धिनिमित्तादृष्टप्रतिनियमाद्1357 अविनष्टा एव पूर्वसंविदः तत्संस्काराश्च अन्त्यवर्णसंस्कारं विदधति । तथाभूतसंस्कारप्रभवस्मृतिसव्यपेक्षो1358 वा अन्त्यो वर्णः पदार्थप्रतिपत्तिहेतुः । वाक्यार्थप्रतिपत्तावपि अयमेव न्यायो1359 द्रष्टव्यः । वर्णाद्1360 वर्णोत्पत्त्यभावप्रतिपादनञ्च सिद्धसाधनमेव । तदेवं यथोक्तसहकारिकारणसव्यपेक्षादन्त्यवर्णाद् अर्थप्रतिपत्तेः अन्वयव्यतिरेकाभ्यां निश्चयात् स्फोटपरिकल्पनाऽनर्थिकैव, तदभावेऽपि अर्थप्रतिपत्तेः उक्तप्रकारेण सम्भवे अन्यथानुपपत्तेः प्रक्षयात् । न खलु दृष्टादेव कारणात् कार्योत्पत्तौ अदृष्टतदन्तरपरिकल्पना युक्तिसङ्गता1361 अतिप्रसङ्गात् ।

किञ्च, यदि उपलभ्यमाना वर्णा व्यस्ताः समस्ता वा नार्थप्रतिप्रत्तिजननसमर्थाः, तदा1362 स्फोटाभिव्यक्तावपि1363 न समर्थाः स्यु । तथाहि–न समस्तास्ते स्फोटमभिव्यञ्जयन्ति उक्तप्रकारेण तेषां1289 सामस्त्यासम्भवात् । नापि व्यस्ताः, वणान्तरोच्चारणानर्थक्यप्रसङ्गात्, एकेनैव वर्णेन स्फोटाभिव्यक्तेः कृतत्वात् । न च पदार्थान्तरप्रतिपत्तिव्यवच्छेदार्थं तदुच्चारणम् इत्यभिधातव्यम्, तदुच्चारणेऽपि1364 तत्प्रतिपत्तिप्रसक्तेरवश्यम्भावित्वात् । यथाहि1365 गौरिति पदस्यार्थो गकारोच्चारणात् प्रतीयते तथा1366 औकारोच्चारणाद् औशनस इति पदार्थोऽपि, तथा च गौरिति पदादेव “गौः” “औशनसः” इत्यर्थद्वयं प्रतीयेत1367 । संशयो वा स्यात्–किं पदान्तरस्फोटव्यवच्छेदेन एकपद§स्फोटाभिव्यक्तये1368 गवाद्यनेकवर्णोच्चारणम्, किवा अनेकपदस्फोटाभिव्यक्तये अनेकाद्यवर्णोच्चारणम् इति । नच पूर्ववर्णैः §स्फोटस्य संस्कारे अन्त्यो वर्णस्तस्य व्यञ्जकः इति न वर्णान्तरोच्चारणवैयर्थ्यमित्यभिधातव्यम्; अभिव्यक्तिव्यतिरिक्तस्य1369 संस्कारस्यैव तत्रानुपपत्तेः । न खलु वेगाख्यः तत्र1370 तैः1371 संस्कारो विधीयते; मूर्त्तेष्वेव अस्य सम्भवात् । नापि वासनारूपः; अचेतनत्वात्1372 । स्फोटस्य तच्चैतन्याभ्युपगमे वा स्वशास्त्रविरोधः । नापि स्थितस्थापकरूपः; अस्यापि मूर्त्तद्रव्यवृत्तित्वात्, स्फोटस्य च अमूर्त्तत्वाभ्युपगमात् ।

किञ्च, असौ संस्कारः1373 स्फोट एव, तद्धर्मो1374 वा ? तत्र आद्यविकल्पोऽयुक्तः; स्फोटस्य वर्णोत्पाद्यत्वानुषङ्गात् । द्वितीयविकल्पोऽप्यसम्भाव्यः, व्यतिरिक्ताव्यतिरिक्तविकल्पानुपपत्तेः । स्फोटाद्धि1375 तस्य1376 अव्यतिरेके तत्करणे स्फोट एव कृतो भवेत्, तथा चास्य1377 अनित्यत्वानुषङ्गात् स्वाभ्युपगमक्षतिः । व्यतिरेके तु सम्बन्धानुपपत्तिः1378 अनुपकारकत्वात्, तस्य1379 तदुपकारकत्वे1380 वा तदुपकारस्यापि1381 ततो1382 व्यतिरिक्ताऽव्यतिरिक्तविकल्पप्रसङ्गः, तत्रापि पूर्वोक्तदोषोऽनवस्थाकारी1383 प्रसज्येत । नच व्यतिरिक्तधर्मसद्भावेऽपि स्फोटस्य अनभिव्यक्तस्वरूपापरित्यागे पूर्ववदर्थप्रतिपत्तिहेतुत्वं घटते अतिप्रसङ्गात्, तत्त्यागे1384 वाऽनित्यत्वप्रसक्तिः1385

किञ्च, वर्णैः1386 संस्कारः स्फोटस्य क्रियमाणः किमेकदेशेन क्रियेत, सर्वात्मना वा ? यदि एकदेशेन; तदा तद्देशानामपि अतोऽर्थान्तरानर्थान्तरपक्षयोः1382 पूर्वोक्तदोषानुषङ्गः । सर्वात्मना संस्कारे तु सर्वत्र सर्वदा सर्वेषां ततोऽर्थप्रतीतिः स्यात् ।

किञ्च, स्फोटसंस्कारः1387 स्फोटविषयसंवेदनम्, आवरणापनयनं वा ? यदि आवर णापनयनम्, तदा एकत्रैकदा आवरणापगमे सर्वदेशावस्थितैः सर्वदोपलभ्येत नित्यत्वव्यापित्वाभ्यामपगतावरणस्यास्य1377 सर्वत्र सर्वदोपलभ्यस्वभावत्वात् । अनुपलभ्यस्वभावत्वे वा न क्वचित् कदाचित्1388 केनचिदुपलभ्येत । अथ एकदेशेन आवरणापगमः क्रियते, नन्वेवम्1389 आवृतानावृतत्वेनास्य सावयवत्वसम्भवात् कार्यत्वाऽनित्यत्वे स्याताम् । अथ अविनिर्भागत्वेन एकत्राऽनावृतोऽसौ1390 सर्वत्राऽनावृतोऽभ्युपगभ्यते, तर्हि तदवस्थः अशेषदेशावस्थितैरुपलब्धिप्रसङ्गः । यथा च निरवयवत्वात् एकत्राऽनावृतः सर्वत्राऽनावृतः, तथा एकत्र आवृतः सर्वत्राप्यावृत इति मनागपि नोपलभ्येत । अथ स्फोटविषयसंवेदनोत्पादस्तत्संस्कारः; सोऽप्ययुक्तः, वर्णानामर्थप्रतिपत्तिजननवत् स्फोटप्रतिपत्तिजननेऽपि सामर्थ्यासम्भवात्, न्यायस्य समानत्वात् ।

अथ मतम्–पूर्ववर्णश्रवणज्ञानाहितसंस्कारस्य आत्मनः अन्त्यवर्णश्रवणज्ञानानन्तरं1391 पदादिस्फोटस्य अभिव्यक्तेरयमदोषः, तदप्यपेशलम्, पदार्थप्रतिपत्तेरप्येवं1392 प्रसिद्धेः स्फोटकल्पनानर्थक्यात्1393 । चिदात्मव्यतिरेकेण तत्त्वान्तरस्यास्य अर्थप्रकाशनसामर्थ्यासम्भवाच्च । स एव हि चिदात्मा विशिष्टशक्तिः स्फोटोऽस्तु, स्फुटति13941395 प्रकटीभवति अर्थोऽस्मिन्निति स्फोटः चिदात्मा । पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टः पदस्फोटः, वाक्यार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टस्तु वाक्यफोटः, इति भावतः श्रुतज्ञानपरिणतस्य आत्मनस्तथाभिधानाविरोधात्1396

“वायवः स्फोटाभिव्यञ्जकाः” इत्यप्यसुन्दरम्, शब्दाभिव्यक्तिवत्1397 स्फोटाभिव्यक्तेः तेभ्योऽनुप§पत्तेः1398 । तेषां तद्व्यञ्जकत्वे च वर्णकल्पनावैफल्यम्, स्फोटाभिव्यक्तौ अर्थप्रति§पत्तौ च अमीषामनुपयोगात्1289

एतेन “नादेनाहितबीजायाम्” इत्यादि1399 प्रत्याख्यातम्,1400 नित्यत्वमन्तरेणापि च अर्थप्रतिपत्तिर्यथा भवति तथा प्रतिपादितमेव ।

किञ्च,1401 सिद्धे वर्णोत्पादात् वायूत्पादाद्वा पूर्वं1402 स्फोटसद्भावे वर्णानां वायूनां वा तद्व्यञ्जकत्वं युक्तम्, न चास्य सद्भावः कुतश्चित् प्रमाणात् सिद्धः ।

यदप्युक्तम्–“प्रत्यक्षतः1403 तस्यैवावभासमानत्वात्” इत्यादि; तदपि श्रद्धामात्रम्; घटादिशब्देषु1404 परस्परव्यावृत्तकालप्रत्यासत्तिविशिष्टवर्णव्यतिरेकेण स्फोटात्मनोऽर्थप्रकाशकस्य अध्यक्षगोचरचारितयाऽ प्रतीतेः । न चाभिन्नप्रतिभासमात्रादर्थव्यवस्था युक्ता; अन्यथा दूरान्निविडतरुनिकरे अभेदप्रतिभासादेकत्वव्यवस्था स्यात् । अथास्य1405 बाध्यमानत्वान्नैकत्वव्यवस्थापकत्वम्; तदन्यत्रापि समानम्, स्फोटप्रतिभासेऽपि अनेकधा बाधकप्रदर्शनात् ।

यच्चान्यदुक्तम्–“यथानुवाकः1406 श्लोको वा” इत्यादि; तदप्युक्तिमात्रम्; दृष्टान्तदार्ष्टान्तिकयोः वैषम्यात्1407 । अनुवाक्कग्रन्थादौ हि प्रत्यक्षतः प्रतीतिः, पुनः1408 पुनरुच्चार्यमाणे चास्मिन् आवृत्या अप्रयासेनैवाऽवधारणमनुभूयते, अतस्तत्र तथा14091410 तत्कल्पनं युक्तम्, स्फोटस्तु स्वप्नेऽपि न प्रतीयते,1411 अतः कथं तस्य अन्तरालप्रत्ययैर्व्यङ्ग्यत्वकल्पना ज्यायसी ।

किञ्च, वर्णैः तद्बुद्धिभिर्वा व्यङ्ग्यो यदि शब्दस्फोटोऽभ्युपगम्यते, तदा प्रदीपादिना तद्बुद्ध्या वा व्यङ्ग्यः प्रदीपादिस्फोटोऽप्यभ्युपगम्यतामविशेषात्1412 । प्रत्यक्षादिविरोधात् तदनभ्युपगमे शब्दस्फोटोऽप्यत एव नाभ्युपगन्तव्यः । बाधकानुमानसद्भावाच्च, तथाहि–न1413 वर्णाः स्फोटं व्यञ्जयन्ति व्यञ्जकत्वात् । अर्थबुद्धिर्वा1414 वर्णपदवाक्यप्रभवा तद्भावभावित्वात् धूमादेर्धूमध्वजबुद्धिवत् ।

यदि च अर्थप्रतीत्यर्थो वर्णादिव्यतिरिक्तः शब्दस्फोटोऽभ्युपगम्यते तर्हि गन्धादिस्फोटोऽप्यभ्युपगन्तव्यः1415 । यथैव हि शब्दः कृतसङ्केतस्य क्वचिदर्थे प्रतिपत्तिहेतुः तथा गन्धादिरपि, “एवंविधं गन्धमाघ्राय स्पर्शञ्च संस्पृश्य रसञ्चास्वाद्य रूपञ्चावलोक्य1416 त्वया एवंविधोऽर्थः प्रतिपत्तव्यः” इति समयग्राहिणां पुनः क्वचित्तादृशगन्धाद्युपलम्भात् तथाविधार्थप्रतिपत्तिप्रसिद्धेः गन्धादिविशेषव्यङ्ग्यः गन्धादिस्फोटोऽस्तु वर्णविशेपव्यङ्ग्यपदादिस्फोटवत् ।

एतेन हस्त-पाद-करण-मा1417त्रितृका-अ1418ङ्गाहारादिस्फोटोऽपि1419 आपादितो द्रष्टव्यः । नच1420 पदादिस्फोट एव, नतु स्वावयवक्रियाविशेषव्यङ्ग्यो हंसपक्ष्मादिः1421 हस्तस्फोटः, विकुट्टितादिलक्षणः पादस्फोटः, हस्तपादसमायोगलक्षणः करणस्फोटः, करणद्वयरूपः मात्रितृकास्फोटः, मात्रितृकासमूहलक्षणः अङ्गहारस्फोटो वा इति वक्तुं युक्तम्, तस्यापि स्वस्वावयवाभिव्यङ्ग्यस्य1422 स्वाभिनेयार्थप्रतीतिहेतोरशक्यनिराकरणत्वात् । तन्निराकरणे वा शब्दस्फोटाग्रहाभिनिवेशो दूरतः परित्याज्यः, आक्षेपसमाधानानामुभयत्र समानत्वात् । ततः स्फोटस्वरूपस्य विचार्यमाणस्य अनुपपद्यमानत्वात्1423 नासौ पदार्थप्रतिपत्तिनिबन्धनं प्रेक्षादक्षैः प्रतिपत्तव्य, किन्तु गवादिशब्दास्तन्निबन्धनं प्रतिपत्तव्या इति ।

संस्कृतशब्दा एव साधवोऽर्थवाचकाश्च न तु अपभ्रंशादय इति मीमासक-वैयाकरणादीना पूर्वपक्षः–

नन्वस्तु तेषां तन्निबन्धनत्वम्; किन्तु संस्कृतानामेव1424 न प्राकृतानाम्, तेषामसाधुत्वात् । व्याकरणसिद्धा एव हि गवादयः शब्दाः साधवः,1425 अतस्तेषामेव अर्थवाचकत्वमुपपन्नं न पुनः गव्यादीनाम1426,1427 तेषां तदभावात् । वृद्धव्यवहारे हि अनन्यथासिद्धाभ्यामन्वयव्यतिरेकाभ्यां वाच्यवाचकभावोऽवधार्यते, तौ च यदि एकस्य गोशब्दस्य एकत्र गोत्वलक्ष णेऽर्थे शक्तिं1428 कल्पयित्वा उपपन्नौ तदा न द्वितीयस्य गावीशब्दस्य तत्रार्थे तौ1429 शक्तिं कल्पयतः । अनुप§1430पत्त्या1368 हि तयोः कल्पकत्वम्, यश्च येन विना आत्मानं न लभते स तेन विनाऽनुपपन्नः स्वोपपत्तये तं कल्पयति, यत्पुनः येन विनाप्युप§पद्यते1431 न तत् तं कल्पयति अनुपपत्तेः कल्पिकायाः क्षीणत्वात् ।

न च गावीशब्दादपि अन्वयव्यतिरेकाभ्यामर्थप्रतीतिसम्भवात् कथन्न वाचकत्वमित्यभिधातव्यम्, अन्वयव्यतिरेकयोस्तत्र1432 अन्यथासिद्धत्वात् । अवाचकस्यापि हि गावीशब्दस्य वाचकगोशब्दस्मृतिद्वारेण1433 अर्थप्रतिपत्तौ अन्वयव्यतिरेकौ घटेते । दृश्यते च असाधुशब्दप्रयोगे साधुशब्दस्मरणादर्थप्रतिपत्तिः, यथा1434 आमन्त्रणे “अम्ब” इति विवक्षायां स्थानकरणप्रयत्नवैकल्यात् प्रमादाद्वा तमुच्चारयितुमसमर्थः अम्बिति1435 बालोऽपभाषते । अम्बा च तच्छब्दश्रवणानन्तरं प्रवर्त्तमाना एवं मन्यते–अनेन बालेन “अम्ब” इति शब्दविवक्षायाम् अम्बिति तत्स्थाने1436 समुच्चारितमिति अम्बितिशब्दादसाधुभूताद् “अम्ब” इति मूलशब्दं साधुभूतं स्मृत्वा प्रवर्त्तते । तथा, खण्डषण्ढशब्दे समुच्चारयितव्ये विवक्षिते प्राच्यानां सण्ढशब्दोच्चारणं दृश्यते । व्यवहर्त्ता तद्वाक्यश्रवणानन्तरं प्रवर्त्तमानः अनेन मूलशब्दोच्चिचारयिषया अशक्त्या प्रमादेन वा अयं सण्ढशब्दः समुच्चारितः इति सण्ढशब्दात् षण्ढशब्दं स्मृत्वा ततोऽर्थ प्रतिपद्य प्रवर्त्तते । एवं गावीशब्दादसाधुरूपात् मूलभूतं साधुरूपं गोशब्दं स्मृत्वा व्यवहर्त्ता ततोऽर्थं प्रतिपद्यते इति, अन्वयव्यतिरेकयोरत्र अन्यथासिद्धत्वात् न वाचकत्वावधारणक्षमत्वम् । यत्रैव हि निश्चितौ तौ तत्रैव वाचकत्वनियममवबोधयतः । न च गावीशब्दस्य उक्तप्रकारेण तौ निश्चितौ, अतो न तन्नियममवबोधयतः । गोशब्दस्य तु उभयवादिसम्प्रतिपन्नत्वेन तौ निश्चितौ, अतोऽस्यैव गोत्वप्रतिपत्तौ1437 वाचकत्वनियमोऽवकल्प्यते1438 । सर्वदेशकालपुरुषपुराणवेदादिषु1439 गोशब्दस्य एकरूपतया व्यवहारकारकत्वेन प्रतीयमानत्वाच्च अस्यैव व्याकरणस्मृत्यनुगृहीतस्य वाचकत्वनियमो युक्तः न तु गावीशब्दस्य, अस्य नियतदेशादावेव व्यवहारहेतुतया प्रतीयमानत्वात् । न खलु ये देशान्तरादिप्रभवा गाव्यादिशब्देष्वगृहीतसम्बन्धा तेषां1440 तेव्यवहारं1441 प्रसाधयन्ति । अतः अवगतप्रमाणभावेन व्याकरणेन ये अनुशिष्टा गवादयः शब्दाः त एव साधवः सिद्धा न1442 तु गाव्यादयः1443

तत्रैव वाचकत्वनियमावगतेश्च गवादिशब्दानामेव साधुत्वम्; तथाहि– “गामानय” इत्युक्ते सास्नादिमत्त्वविशिष्टार्थानयनप्रतिपत्तिर्भवति1444 । तत्र च यथा “गोशब्दस्य सास्नादिमानर्थो वाच्यः” इत्यवधार्यते, तथा “गोशब्दस्यैव अयमर्थः” इति नियमोऽप्यवधार्यते । अवगतश्च नियमः अन्यस्य वाचकत्वं बाधते ।

अस्तु1445 वा नाम गवादीनामेव वाचकत्वावधारणम्; तथापि वृद्धव्यवहारादेव तेषां तद्1446 भविष्यति, अतस्तत्साधुत्वसमर्थनाय व्याकरणारम्भो व्यर्थः; इत्यसमीचीनम्; व्याकरणनिरपेक्षाद्1447 वृद्धव्यवहारादेव सकलशब्दानां वाचकत्वस्य अवधारयितुमशक्यत्वात् । अनन्तो हि शब्दराशिः, तस्य अनन्तेनापि कालेन प्रतिपदं वृद्धव्यवहाराद् वाचकत्वं गृहीतुमशक्यम् । व्याकरणेन1448 तु सामान्यविशेषवता लक्षणेन उपलक्षितानां स्वल्पप्रयत्नेन सर्वेषामपि शब्दानां वाचकत्वमवबोद्धुं शक्यमेव । अतो व्याकरणादेव तेषां साधुत्वावगमः । तथाहि–कर्मण्यण् [पाणिनि॰ ३ । २ । १] इत्येकेनैव सूत्रेण कुम्भकार-काण्डलाव-वेदाध्यायादय1449 शब्दाः1450 बहवः साधुत्वेन लक्ष्यन्ते । अतो व्याकरणानुगृहीतलोकव्यवहारात्1451 सुखेनैव साधुत्वमवधारयितु शक्यते इत्यस्ति व्याकरणस्योपयोगः । ननु चास्याप्रमाणत्वात्1452 कथं ततः केषाञ्चिच्छब्दानां साधुत्वमवधारयितुमुचितम्, इत्यष्यसाम्प्रतम्; तदप्रामाण्ये कर्मकर्त्रादिकारकाणां सम्प्लवप्रसङ्गात् । न खलु व्याकरणमन्तरेण1453 प्रकृति-प्रत्ययविभागद्वारेण कर्मकर्त्रादिकारकाणां नैयत्येन प्रतिपत्तिर्घटते, तन्नैयत्यहेतोरन्यस्याऽसभवात् । अतस्तन्नैयत्यमुपलभ्यमान स्वव्यवस्थानिमित्तं व्याकरणमेव व्यवस्थापयति ।

तथा व्याकरणाप्रामाण्ये लोकशास्त्रविरोधः । तत्र लोकविरोधस्तावत्–सकल1454शिष्टानां1455 तत्प्रामाण्यस्य अभीष्टत्वात् । शास्त्रविरोधोऽपि तदप्रामाण्ये सकलशास्त्रोच्छेदप्रसङ्गात् । सकलान्यपि हि शास्त्राणि नियतभाषात्मकानि, नियमस्य च व्याकरणाधीनत्वात् कथ तदप्रामाण्ये तदुपपत्तिः ? शास्त्रप्रामाण्यमनभ्युपगच्छताऽपि परप्रत्यायनाय साधनदूषणप्रयोगः तत्प्रामाण्यप्रसाधनोऽवश्याभ्युपगन्तव्य । तदनभ्युपगमे स्वपरपक्षसाधनदूषणप्रपञ्चप्रत्यस्तमयप्रसङ्गात्, केवलैर्मनोविकल्पैः अङ्गसञ्ज्ञाभिर्वा परप्रत्यायनानुपपत्तेः । तस्मादुक्तदोष परिजिहीर्षता न व्याकरणप्रामाण्यमपह्नवनीयम्, इति सिद्धं तत्साधुत्वप्रसाधनायास्य1456 प्रामाण्यम् ।

ननु साधुत्वस्य शब्दानां कुतश्चित् प्रमाणादप्रसिद्धेः कथं तत्प्रसाधनाय व्याक रणस्य प्रामाण्यम् ? इत्यप्यसमीक्षिताभिधानम्; प्रत्यक्षत1457 एव तत्साधुत्वप्रसिद्धेः । तथाहि–व्याकरणसंस्कृतमतेः श्रौत्रप्रत्यक्षे1458 वर्णस्वरूपवत्1459 तत्साधुत्वमवभासते, व्याकरणानुशिष्टेषु1460 शब्देषु उच्चार्यमाणेषु “साधुभिरयं भाषते” इति प्रतीतिसद्भावात्, अन्यथा चोच्चार्यमाणेषु “असाधुभिरयं भाषते पापः अपशब्दान्1461 करोति” इति प्रत्ययप्रतीतेः प्रत्यक्षत एव साधुत्वासाधुत्वविभागोऽवसीयते । अथोच्यते–यदि वर्णस्वरूपातिरिक्तं साधुत्वं स्यात् तर्हि व्याकरणसंस्कारात्पूर्व वर्णस्वरूपवत् तदपि प्रतिभासेत, तत्प्रतिभासकारणस्य श्रोत्रसम्बन्धस्य प्रागपि सद्भावात्; तदप्युक्तिमात्रम्; व्याकरणसंस्कारापेक्षस्य श्रोत्रस्य पूर्वमभावात्,1462 कारणाभावे च कार्याभावस्य उपपन्नत्वात् । वर्णस्वरूपग्रहणे हि श्रोत्रस्य केवलस्यापि सामर्थ्यम्, साधुत्वग्रहणे तु व्याकरणसहकृतस्यैव । यथा रत्नादिभेदानां1463 तच्छास्त्रसंस्कारसहायं चक्षुः ग्रहणे समर्थम् न तद्रहितम् ।

ननु शब्दराशेरपर्यन्ततया प्रत्यक्षागोचरत्वात् कथं ततः तत्साधुत्वसिद्धिः ? इत्यप्यसुन्दरम्; तदगोच1464रस्यास्य1465 अनुमानात्1466 साधुत्वप्रसिद्धेः,1467 तथाहि–अदृश्यमानप्रयोगाः शब्दाः साधवः व्याकरणानुशिष्टत्वात् परिदृश्यमानगवादिशब्दवत् । तथा साधुभिर्भाषितव्यम्1468 [ ] तस्मादेषा1469 संस्कृता वागुद्यते [तैत्ति॰ ६ । ४ । ७ ?] इत्येवमादिना आगमेनापि साधुत्वं प्रसाध्यते । तथा उपमानेनापि साधुत्वमवगम्यते; तथाहिसूत्रकार-भाष्यकार-वार्तिककारादिभिः1470 प्रयुक्ता यथा साधवः शब्दाः तथा तत्प्रायैरन्यैरपि प्रयुक्ताः साधव एवेति । तथा अर्थापत्त्यापि;1471 अनाद्यनन्ताऽनन्यथासिद्धान्वयव्यतिरेकतोऽर्थप्रतीतिसाधनत्वान्यथानुपपत्तिलक्षणया शब्दानां साधुत्वमवसीयते इति ॥ छ ॥

अपभ्रशप्राकृतादिभाषाशब्दाना साधुत्वसमर्थनेन वाचकत्वप्रसाधनम्–

अत्र प्रतिविधीयते । यत्तावदुक्तम्–“गवादय1472 शब्दा एव साधवः, तेषामेव वाचकत्वोपपत्तेः” इत्यादि; तदविचारितरमणीयम्, यतो लोकव्यवहारसमधिगम्यो1473 हि वाच्यवाचकभाव । लोकश्च गाव्यादिशब्दैरेव व्यवहरन् प्रतीयते । संस्कृतवेदिनो हि संस्कृतान् शब्दान् परित्यज्य व्यवहारकाले गाव्यादिशब्दैरेव व्यवहरन्तः प्रतीयन्ते । अतः1474 संस्कृतेतरवेदिनां व्यवहारस्य गाव्यादिशब्दैरेव दृष्टत्वात्तेषामेव1475 अन्वयव्यतिरेकाभ्यां वाचकत्वमवधार्यते । नच गाव्यादिशब्दानां गवादिस्मृतिसापेक्षमर्थावबोधकत्वं स्वप्नेऽपि प्रतीतं येन अर्थप्रतिपत्तेरन्यथाप्युपपद्यमानत्वात्1476 तेषामवाचकत्व स्यात् । न खलु प्राकृतशब्देभ्यः “प्रथमं1477 संस्कृतशब्दस्मरण ततोऽर्थप्रतीतिः” इति व्यवधानेन अर्थप्रत्ययोऽनुभूयते, संस्कृतशब्दवत् तेभ्योऽपि1478 साक्षादेव अर्थप्रत्ययप्रतीतेः, अन्यथा यत्र संस्कृतज्ञा1479 न सन्ति तत्र भाषाशब्देभ्योऽर्थप्रत्ययो न स्यात् । ततो गवादिशब्दवत् शब्दान्तरस्मृतिनिरपेक्षतयैव सदा तेषामर्थावबोधकत्वप्रतीतेः वाचकत्वमेवोपपन्नम् । यथैव1480 हि गवादिशब्दस्य अन्वयव्यतिरेकाभ्यां गाव्यादिशब्दस्मृतिनिरपेक्षं गोत्वाद्यर्थाभिधायकत्वं प्रतीयते तथा गवादिशब्दस्मृतिनिरपेक्षं गाव्यादीनामपि । एवञ्च अन्वयव्यतिरेकाभ्यां तुल्येऽर्थप्रतिपादकत्वे1481 यद्येकस्यैव वाचकत्वं कल्प्यते तद्वरं गाव्यादिशब्दस्यैव कल्प्यताम्, निखिलजनानां व्यवहारस्य तद्द्वारेणैव1482 प्रतीतेः ।

किञ्च, स्मरणं मूलानुभवे सति प्रमाण भवति अनुभवानुसारित्वात्तस्य । न च गवादिशब्दानां गोव्यवहारे प्रथमत1483 एव स्वरसवृत्त्या वाचकत्वमनुभूतम्, गाव्यादिशब्दानामेव तदा तदनुभवात्1484 । अतो येषां1485 वाचकत्वमनुभूतपूर्वं तन्निबन्धने व्यवहारे1486 अननुभूतवाचकत्वाः1487 स्मर्यन्ते इति महन्न्यायकौशलम् ।

यदप्युक्तम्–“गोशब्दे1488 समुच्चारयितव्ये अशक्त्या प्रमादेन वा बालेन गावीशब्दः समुच्चारितः” इति;1489 तदप्यसाम्प्रतम्; यतो यदि गोशब्दसमुच्चिचारयिषया बालः अशक्तिप्रमादाभ्यां गावीशब्दं समुच्चारयेत्, तर्हि परित्यक्तबालभावः प्रबुद्धः सन् “मया अशक्त्या प्रमादेन वाऽयं1490 प्रयुक्तः” इति ज्ञात्वा तं परित्यज्य गोशब्देनैव व्यवहारं कुर्यात् । न च पटुकरणोऽपि गावीशब्दं परित्यज्य गोशब्देनैव व्यवहरति । ननु च असंस्कृतमतिभिः सह संस्कृतशब्देन गवादिना व्यवहारः कर्त्तुं न शक्यते, लक्षणपरिज्ञानाभावतस्तेषां14911492 संस्कृतशब्दपरिज्ञानानुपपत्तेः, अतः बहुत्वादसंस्कृतमतीनाम् अशक्तिप्रमादप्रभवोऽपि अपभ्रष्टव्यवहारः परां रूढिमागतः, येन शक्तो विज्ञातशब्दस्वरूपोऽपि जनः तेनैव व्यवहरति; इत्यप्येतेनैव प्रत्याख्यातम्; प्रमादाऽशक्तिप्रभवत्वे गाव्यादिशब्दव्यवहारस्य उक्तदोषानुषङ्गात् ।

अपभ्रष्टत्वञ्चास्य पुरुषार्थाऽप्रसाधकत्वात्, व्याकरणस्मृत्यनुगृहीतस्य सर्वत्र सर्वदाऽनवच्छिन्नस्य1493 एकत्वेन प्रतीत्यभावात्, सङ्केतेन अर्थाभिधायित्वाद्वा स्यात् ? तत्र आद्यः पक्षोऽनुपपन्नः; सकलस्य धर्मार्थादेः पुरुषार्थस्य प्राकृतशब्दव्यवहारादेव प्रसिद्धेः । नहि कश्चित्तादृशः पुरुषार्थोऽस्ति यत्र साक्षात् परम्परया वा तद्व्य1494वहारो1495 न स्यात् । तत्प्रतिपिपादयिषया1496 प्रयुक्तानामपि संस्कृतशब्दानामर्थः सुस्पष्टः प्राकृतशब्दैरेव प्रदर्श्यते इति कथं तद्व्यवहारस्य पुरुषार्थाऽप्रसाधकत्वं यतोऽपभ्रष्टत्वं1497 स्यात् ? द्वितीयपक्षे तु ठकागमस्य सधनं ब्राह्मणं हन्याद् भूतिकामः [ ] इत्यादेः साधुत्वप्रसङ्गः, व्याकरणस्मृत्यनुगृहीतस्य सर्वत्र सर्वदानवच्छिन्नस्यैकत्वेन अस्यापि प्रतीत्यविशेषात् । शिष्टैरस्वीकृतत्वात् तत्रास्य विच्छेदः पशुवधाद्यागमेऽपि समानः । नहि श्वेतमजमालभेत [ ] इत्यागमः परीक्षाप्रधानैः कृपार्द्रीकृतचेतोवृत्तिभिः1498 आद्रियते । तृतीयपक्षोप्ययुक्तः; प्राकृतशब्दवत् संस्कृतशब्दानामपि सङ्केतसहायानामेव अर्थप्रतिपादनसामर्थ्यसम्भवात् । असङ्केतिताऽनभिताभिधाने अतिप्रसङ्गात् । तदेवं संस्कृतेतरशब्दानां विशेषासम्भवात् उभयेषां साधुत्वमसाधुत्वं वा अविशेषतः प्रतिपत्तव्यम् ।

किञ्च, स्वरूपतः प्रसिद्धे साधुत्वे क्वचिद् विधानं निषेधो वा युक्तः । न च स्वरूपत तत्1499 प्रसिद्धम् । तत्स्वरूपं हि वाचकत्वम्, अनादिप्रयोगिता, धर्मसाधनत्वम्, विशिष्टपुरुषप्रणीतत्वम्, विशिष्टार्थाभिधायित्वम्, बाधारहितत्वम्, प्रमाणान्तरानुगृहीतत्वम्,1500 अनुपहतेन्द्रियग्राह्यत्वम्, अनावृतत्वम्, व्याकरणसिद्धस्वरूपत्वं1501 वा स्यात् ? यदि वाचकत्वम्, तद् गवादिशब्दवत्1502 गाव्यादिशब्दानामस्त्येव, अन्वयव्यतिरेकाभ्यां तद्वत् तेषामप्यर्थप्रतिपादकत्वप्रतिपादनात् ।

अनादिप्रयोगितापि प्रवाहापेक्षया, नित्यत्वापेक्षया वा उच्येत ? प्रथमपक्षे गोगावीशब्दयोरविशेषः, द्वयोरपि अनादिप्रयोगिताया तथा सम्भवाद् उभयोरपि साधुत्वमसाधुत्वं वाऽविशेषतः स्यात् । अनादिप्रयोगितया1503 च साधुत्वे प्राकृतस्यैव गाव्यादेः साधुत्व स्यात्, तस्यैव तत्सम्भवात्1504 । प्रकृतिरेव1505 हि प्राकृतम्, प्रकृतिश्च स्वभावः, अतः प्रकृतिभूतस्य अर्थस्वरूपावेदकस्य अनादिप्रयोगार्हस्य गाव्यादेरेव साधुत्वं युक्तं न1506 तु संस्कृतस्य गवादेः, तस्य अनादिप्रयोगितानुपपत्तेः । सतो हि वस्तुनो गुणान्तरारोपः संस्कारः, स च आदिमानेव, अतः संस्कृतव्यपदेशादेव संस्कारात् पूर्वं विद्यमानं प्रकृतिभूतमन्यत्किञ्चिदस्तीत्यवसीयते । तच्च प्राकृतमेव, इत्यस्यैव अनादिप्रयोगितया साधुत्वमायातम् ।

अथोच्यते–न प्रकृतिरेव प्राकृतम्, किं तर्हि ? प्रकृतेर्भवम्15071508 । ननु केयं प्रकृतिर्नाम–यतो भव प्राकृतम् इत्युच्येत1509 ? किं स्वभावः, धातुगणः, संस्कृतशब्दस्वरूपं वा ? प्रथमविकल्पे “प्रकृतिरेव प्राकृतम्” इत्ययमेव पक्षोऽङ्गीकृतः स्यात्, प्रकृतेः स्वभावात् लब्धात्मलाभैर्गाव्यादिशब्दैः निखिललोकानां व्यवहारप्रसिद्धेः । द्वितीयविकल्पे तु गवादिशब्दानामपि प्राकृतत्वप्रसङ्गः, धातुगणात्1510 तत्स्वरूपसिद्धेरविशेषात्, इति संस्कृतव्यवहाराय दत्तो जलाञ्जलिः स्यात् । संस्कृतशब्दस्वरूपस्य तु प्रकृतित्वमनुपपन्नम्, विकारत्वात्1511 । सतो हि वस्तुनो गुणान्तराधानं संस्कार स विकाररूपतया कथं प्रकृतित्वं प्रतिपद्येत ?

किञ्च, पूर्वापरकालभावित्वे सति प्रकृति-विकृतिभावो दृष्टः । न चात्र1512 तदस्ति, वैपरीत्यप्रतीतेः–“आदिमद्धि संस्कृतम् अनादिमच्च प्राकृतम्” इति ।

अथ मतम्–न गुणान्तराधानं संस्कारः, किं तर्हि ? अभिन्नस्वरूपस्य शब्दस्य सम्यगनधिगतार्थस्य प्रकृति-प्रत्ययादिविभागद्वारेण तदन्तर्गतोऽर्थः प्रकाश्यते इत्येवं रूपः शब्दस्य संस्कार इति; तदप्यसङ्गतम्, प्रकृतिप्रत्ययादिविभागद्वारेण अर्थकथनस्य व्याख्यानरूपतया संस्कारत्वानुपपत्तेः । नहि वस्त्रादौ तथाविधः संस्कारः कदाचिद्1513 दृष्टः । किं तर्हि ? गुणान्तराधानलक्षणः1514 । तथाप्यस्य संस्कारत्वाभिधाने स्वकम्बलस्य “कूर्दालिका” इति नाम कृतं स्यात् ।

एतेन “व्यवहर्त्तृशक्तिद्वारेण1515 अपभ्रश्यतः शब्दस्य रक्षाद्वारेण1516 अविचलितस्वरूपस्यैवावस्थापनं संस्कारः” इति मतान्तरमपि अपास्तम्; अविचलितरूपतयावस्थापनस्यापि संस्कारत्वेन क्वचिदप्यप्रतीतेः । अविचलितरूपतया1517 अवस्थापनञ्च शब्दानां सादृश्यापेक्षया, नित्यैकरूपापेक्षया1518 वा स्यात् ? यदि सादृश्यापेक्षया; तर्हि गाव्यादिशब्दस्यापि संस्कृतत्वप्रसङ्गः1519 तदविशेषात् । अथ नित्यैकरूपापेक्षया; तदयुक्तम्, शब्दानां नित्यैकरूपतायाः प्राक्1520 प्रबन्धेन प्रतिषेधात् । तन्न प्रवाहापेक्षया अनादिप्रयोगितातः शब्दानां साधुत्वं सिद्ध्यति । तया1521 तत्साधुत्वाभ्युपगमे1522 च “पितरि स्वर्गं गते ज्येष्ठेन पुत्रेण माता वोढव्या” इत्यादिम्लेच्छव्यवहाराणामपि1523 साधुत्वप्रसक्तिः; प्रवाहेण अनादिप्रयोगितायाः तत्राप्यविशेषात् । अथ नित्यत्वापेक्षया1524 अनादिप्रयोगितातः तत्साधुत्वसिद्धिः इत्युच्यते; तदप्युक्तिमात्रम्; शब्दानां नित्यत्वस्य प्रमाणानुपन्नत्वात् । तदनुपपन्नत्वञ्चैषां शब्दानित्यत्वसिद्धौ प्रपञ्चतः प्ररूपितमित्यलमतिप्रसङ्गेन । तन्न अनादिप्रयोगितापि तत्साधुत्वलक्षणम् ।

नापि धर्मसाधनत्वम्,1525 तद्धि तेषां साक्षात्; परम्परया वा स्यात् ? न तावत् साक्षात्; व्रतानुष्ठानादेः1526 तदर्थस्य आनर्थक्यानुषङ्गात् । परम्परया1527 तत्साधनत्वं तु संस्कृत शब्दवत् प्राकृतशब्दानामप्यविशिष्टम् ।

विशिष्टपुरुषप्रणीतत्वं1528 विशिष्टार्थाभिधायित्वं1529 बाधारहितत्वं प्रमाणान्तरानुगृहीतत्वम् अनुपहतेन्द्रियग्राह्यत्वञ्च उभयत्राप्यविशिष्टमेव । अनावृतत्वमपि आवृतत्वपूर्वकं न शब्दे सङ्गच्छते, स्थायित्वाभावात् । स्थायिन एव हि पदार्थस्य आवृतत्वानावृतत्वे1530 घटेते । शब्दे च स्थायित्वं प्रागेव प्रतिषिद्धम् ।

व्याकरणसिद्धस्वरूपत्वञ्च संस्कृतशब्दवत् प्राकृतशब्दानामप्यस्त्येव1531 । यथैव हि संस्कृतव्याकरणेन प्रकृतिप्रत्ययविभागेन शब्दा व्युत्पाद्यन्ते तथा प्राकृतेनापि । अस्याऽव्याकरणत्वे1532 अन्यत्र कः सामाश्वासः ?

यच्चान्यदुक्तम्–“सस्कृता1533 वागुद्यते”1534 इत्यादि; तत्राप्यसौ कदा वक्तव्या–कर्मकाले,1535 अध्ययनकाले वा ? अध्ययनकाले चेत्, कस्य अध्ययनकाले प्राकृतस्य, संस्कृतस्य वा ? न तावत् प्राकृतस्य, तदा1536 संस्कृतवाचोऽनभिधानात्, अन्यथा तदध्ययनानुपपत्तिः । अथ संस्कृतस्य, कथं तदध्ययनकाले अनधीयमानत्वात्1537 प्राकृतवाचोऽसाधुत्वम् ? अन्यस्याध्ययनकाले अन्यस्याऽप्रयोगादसाधुत्वे1538 तु पुराणाध्ययनकाले वेदवाचामप्यप्रयोगादसाधुत्वं स्यात् । अथ कर्मकाले; कुतस्तदा प्राकृता1539 न वक्तव्याः–अर्थाप्रतिपादकत्वात्, अपशब्दत्वात्, अधर्महेतुत्वाद्वा ? तत्राद्यपक्षोऽयुक्तः, गाव्यादिशब्देभ्यः संस्कृतेतरवेदिनां सुस्पष्टार्थप्र1540तिपत्तिप्रतीतेः1541

अपशब्दत्वञ्च गाव्यादिशब्दानां स्वरूपमात्रात्, व्याकरणादनिष्पत्तेर्वा ? यदि स्वरूपमात्रात्; तर्हि गोशब्दस्यापि अपशब्दत्वप्रसङ्गः तदविशेषात् । व्याकरणादनिष्पत्तिरपि संस्कृतात्, प्राकृताद्वा स्यात् ? न तावत् प्राकृतात्, तत्र1542 तेषां स्वरूपनिष्पत्तिप्रतीतेः । संस्कृतव्याकरणतोऽपि गावीशब्दस्य स्वरूपमात्रेणाऽनिष्पत्तिः, अर्थविशेषे वा ? न तावत् स्वरूपमात्रेण, यत्त्ये1543 तदादि गुः1544 [जैनेन्द्र॰ १ । २ । ११४] इति गुसज्ञायां1545 सत्यां गोरियं गावी प्रक्रिया इति स्वरूपमात्रेण तन्निष्पत्तिप्रसिद्धेः । अथ अर्थविशेषे गोत्वलक्षणे गावीशब्दस्व अतोऽनिष्पत्तेः अपशब्दत्वमुच्यते, तदप्यसुन्दरम्, तत्र1546 तस्याऽव्युत्पादकत्वात्1547 । प्राकृतव्याकरणमेव हि गोत्वलक्षणेऽर्थे गावीशब्दं व्युत्पादयति नान्यत् । अव्युत्पादकादनिष्पत्तेश्चास्य1548 अपशब्दत्वे गोशब्दस्याप्यपशब्दत्वप्रसङ्गः, प्राकृतव्याकरणात्तस्याप्यनिष्पत्तेरविशेषात् । अतः संस्कृतेतरव्याकरणप्रसिद्धयोः गोगावीशब्दयोः गोत्वलक्षणार्थाभिधायित्वेन1549 प्रवृत्तेः कुतोऽयं नियमः “गोशब्द एव गोत्वस्य वाचको न गावीशब्दः शब्दः तथा” । यथैव1550 हि तुल्यप्रमाणावधारितवाचकत्वा1551 वृक्षतरुपादपादयः पर्यायश ब्दाः तथा गोगाव्यादयोऽपि । तथाहि–गो-गावी-गौणी-1552गोपोतलिकेत्यादयः1553 शब्दाः गोत्वस्य वाचकाः वृद्धैस्तत्र अविगानेन प्रयुज्यमानत्वात्गौः1554 उश्रास्राइत्यादिवत् । तथा, गाव्यादयः शब्दाः गोत्वे अनादिप्रयोगाः अनवगम्यमानाऽवधित्वात् गौरुश्रास्राइत्यादिवत्1555

अथ अधर्महेतुत्वादसाधुत्वमस्याः, ननु कदा तस्या अधर्महेतुत्वम्–सर्वदा, यागादिकर्मकाले वा ? यदि सर्वदा; न कदाचिद् धर्मस्यावसरः स्यात्, नित्य-नैमित्तिकानुष्ठानसमयेऽपि प्राकृतशब्दानां घृतसमिदाद्यभिधायिनां गोभूम्यादिदानाभिधायिनाञ्च प्रयुक्तानामधर्मस्यैव हेतुत्वप्रसङ्गात् । अथ यागादिकर्मकाले; महत् तत्कर्मणो माहात्म्यं येनान्यदा अधर्मस्याजनकमपि आत्मसत्ताकालेऽधर्मजनकं करोति इति ।

किञ्च, प्राकृतवचसामधर्महेतुत्वनियमः तदा सिद्ध्येत् यदा संस्कृतानां तेषां धर्महेतुत्वनियमः स्यात् । तन्नियमाभ्युपगमे च नटभटवरुट1556चर्मकारादीनां1557 संस्कृतवेदवचोऽभिधायिनां प्राकृतवक्तृमासोपवासिन्यादिभ्यः अतीवाधिकधर्मोत्पत्तिः स्यात् । अथ ब्राह्मणस्यैव तदभिधायिनो धर्मः नान्यस्येति चेत्, न; ब्राह्मण्यस्य कुतश्चिदपि प्रमाणादप्रतीतेः ॥ छ ॥

नित्यनिरंशैकत्वादिधर्मोपेता योनिनिबन्धना ब्राह्मण्यजातिरिति मीमासकादीना पूर्वपक्ष–

ननु प्रत्यक्षेणैव ब्राह्मण्यं प्रतीयते; विस्फारिताक्षस्य पुरोव्यवस्थितेषु क्षत्रियादिसङ्घेषु तद्वैलक्षण्येन “ब्राह्मणोऽयं ब्राह्मणोऽयम्” इत्यनुगतैकाकारप्रत्ययविषयतया ब्राह्मणसङ्घे मनुष्यत्वाद्यतिरिक्तस्य अनुगतैकाकारस्य ब्राह्मणण्यस्य प्रतिभासप्रतीतेः । न चायं1558 प्रत्ययः सन्दिग्धः; उभयकोटिसंस्पर्शित्वाभावात् । नापि विपर्यस्तः, दोषरहितैः कारणैरारब्धत्वात् बाधकप्रत्ययरहितत्वाच्च । यदि1559 च ब्राह्मण्यं प्रत्यक्ष न स्यात् तदा “ब्राह्मणोऽयं पुरुषः” §इति1368 विशिष्टप्रतिभासो न स्यात् । अत्र हि ब्राह्मणत्वानुरागविशिष्टः पुरुषः प्रतिभासते, न1560 पुनः प्रतिभासते तच्छून्यं1561 पुरुषमात्रम् । तत्प्रतिभासे1562 हि “पुरुषोऽयम्” इति प्रतिभासः स्यात् नतु “ब्राह्मणोऽयम्” § इति, पुरुषातिरेकित्वाद् ब्राह्मण्यस्य1563 । न च अप्रतिपन्ने विशेषणे विशिष्टः प्रत्ययो युक्तः, अतिप्रसङ्गात् । न च तथाभूतस्य ब्राह्मण्यस्य1563 अर्थेषु सम्भवे प्रथमदर्शनेऽपि प्रतिभासप्रसङ्गः, यतः स्वविशेषव्यङ्ग्या जातिः, विशेषाश्च इतरजातिपरिहारेण1564 अवभासमाना जात्यन्तरपरिहारेण स्वजातीर्व्यञ्जयन्ति यथा गवाश्वादयः, अतः तत्र1565 प्रतिभाताऽपि1566 जातिः व्यञ्जकभेदाग्रहणान्नोल्लिखति । व्यञ्जकभेदाग्रहणञ्च अत्यन्तसुसदृशावयवत्वादुपपन्नम् अत्यन्तसुसदृशगोगवयवत् । दृश्यते च द्रव्यपरीक्षकाणां कूटाकूटविवेके मणिपरीक्षकाणाञ्च मणिकाचादिविवेके अवधानवतां नैसर्गिकाभ्यासिकप्रतिभाससामग्रीसद्भाव1567 एव कूटाकूटविवेको मणिकाचादिविवेकश्च, एवमत्रापि “अविप्लुतेन ब्राह्मणेन अविप्लुतायां ब्राह्मण्यामुत्पन्नः ब्राह्मणः” इत्याद्यौपदेशिकमातापितृब्राह्मण्यज्ञानलक्षणसा1568मग्रीसद्भाव1569 एव “ब्राह्मणोऽयम्” इति विवेकेन प्रतिभासाविर्भावो भवति । यदि वा, तद्ब्राह्मण्यज्ञाननिरपेक्षः1570 “ब्राह्मणोऽयम्” इत्युपदेशसहकृतेन इन्द्रियेण “ब्राह्मणोऽयम्” इति ब्राह्मण्यजातिग्राही प्रत्ययो जन्यते । न च सामग्र्यभावात् यन्न प्रतिभासते तन्नास्तीति वक्तुं युक्तम्, अतिप्रसङ्गात् । अविप्लुतत्वञ्ज मातापित्रोः प्रवादाभावान्निश्चीयते1571 । व्यभिचारो हि प्रवादेन व्याप्तः, अतः प्रवादो निवर्त्तमानः व्यभिचारं1572 निवर्त्तयति, व्यापकनिवृत्तौ व्याप्यस्याऽनिवृत्तिविरोधात् ।

यदि च ब्राह्मणशब्दस्य ब्राह्मण्यजातिरर्थो न स्यात् तदाऽयमनर्थकः1573 स्यात्, न चैतद् युक्तम्, एतदुच्चारणानन्तरभाविनोऽर्थप्रत्ययस्य उपलभ्यमानत्वात् । तन्निबन्धनव्यवहारस्य च “ब्राह्मणं भोजय” इत्यादिरूपस्य असन्दिग्धाबाधितस्य1574 सुप्रतीतत्वात् । पाशुपतादिलिङ्गिनामपि1575 ब्राह्मणत्वादिजात्यनुरूपो नामचिह्नाचारोपदेशादिव्यवहारो दृश्यते, अतः सुदृढव्यवहारदर्शनाद्1576 व्यक्तिभ्योऽर्थान्तरभूता प्रत्यक्षतः प्रसिद्धा ब्राह्मण्यजातिः ।

तथा अनुमानतोऽपि; तथाहि–असति1577 प्रतिबन्धके यो यदाकारः प्रत्ययः सं तदाकारविषयनिमित्तकः यथा नीलादिप्रत्ययः, असति प्रतिबन्धके भवति च “ब्राह्मणोऽयं ब्राह्मणोऽयम्” इत्यनुगतैकाकारः प्रत्ययः, तस्मात् पिण्डव्यतिरिक्त-अनुगतैकाकारब्राह्मण्यनिमित्तक इति । यदाकारो हि प्रत्ययः विषयेणापि तदाकारेणैव भवितव्यम्, अन्यथा नीलादिप्रत्ययस्य अनीलादिविषयत्वप्रसङ्गात् प्रतिनियतवस्तुव्यवस्थाविलोपानुषङ्गः ।

तथा, ब्राह्मणपदं व्यक्तिव्यतिरिक्तैकनिमित्ताऽभिधेयसम्बद्धम् पदत्वात् पटादिपदवत् । न चायमसिद्धो हेतुः; धर्मिणि विद्यमानत्वात् । नापि विरुद्धः; विपक्ष एवाऽवृत्तेः । नाप्यनैकान्तिकः, पक्षसपक्षवद् विपक्षेऽप्यप्रवृत्तेः । नापि साधनविकलो दृष्टान्तः; पटादिपदेषु पदत्वस्य विद्यमानत्वात् । नापि साध्यविकलः; तेषु1578 व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वाभावे1579 व्यक्तीनामानन्त्येन अनन्तेनापि कालेन सम्बन्धग्रहणानुपपत्तेः ।

तथा वर्णविशेषाध्ययनाचारयज्ञोपवीतादिव्यतिरिक्तनिमित्तनिबन्धनं “ब्राह्मण” इति ज्ञानं तन्निमित्तबुद्धिविलक्षणत्वात् गवाश्वादिज्ञानवदिति ।

तथा ब्राह्मणेन यष्टव्य ब्राह्मणो भोजयितव्यः [ ] इत्याद्यागमादपि ब्राह्मण्यजातिः प्रसिद्धा । तथा वेदेतिहासपुराणप्रसिद्धा1580 चासौ आदौ ब्रह्मा मुखतो ब्राह्मण ससर्ज, बाहुभ्यां क्षत्रियम्, ऊरुभ्यां वैश्यम् पद्भ्यां शूद्रम् [ ] इत्यादि1581 वचसां1582 भूयसां तत्र तत्प्रतिपादकानां श्रवणादिति ।

सदृशपरिणामरूप एव ब्राह्मण्यम्, नतु योनिनिबन्धनमिति समर्थनम्–

अत्र प्रतिविधीयते । यत्तावदुक्तम्–“प्रत्यक्षेणैव1583 ब्राह्मण्यं प्रतीते” इत्यादि; तदसमीचीनम्, यतः किं केवलेन्द्रियजनितेन तेन तत्प्रतीयेत, अन्यसहकृतेन्द्रियजनितेन वा ? प्रथमपक्षे1584 किं निर्विकल्पकेन, सविकल्पकेन वा1585 तज्जनितेन1586 तेन तत्प्रतीयेत ? न तावन्निर्विकल्पकेन, तत्र1587 जात्यादिप्रतिभासाभावात्, भावे वा निर्विकल्पकत्वविरोधः कथमन्यथेदं शोभेत–

अस्ति1588 ह्यालोचनाज्ञान प्रथमं निर्विकल्पकम् । वालमूकादिविज्ञानसदृश शुद्धवस्तुजम् ॥
ततः1589 पर पुनर्वस्तुधर्मैर्जात्यादिभिर्यया । बुद्ध्यावसायते सापि प्रत्यक्षत्वेन सम्मता ॥

[मी॰ श्लो॰ प्रत्यक्ष॰ श्लो॰ ११२, १२०] इति । नापि सविकल्पकेन, अस्य निर्विकल्पकाविषये प्रवृत्त्यनुपपत्तेः । उपपत्तौ वाऽतिप्रसक्तेः1590 । न1591 च विस्फारिताक्षस्य पुरोवर्त्तिखण्डमुण्डकर्कादिव्यक्तिषु गवाश्वादिजातिवत् शुक्लत्वादिगुणवद्वा मनुष्यव्यक्तिषु मनुष्यत्वपुंस्त्वा1592द्यतिरिक्तस्य1593 ब्राह्मण्यस्यैकस्य1594 अखिलस्वव्यक्तिष्वनुगतस्य प्रतिभासोऽस्ति । कथमेवं क्वचिद् ब्राह्मणत्वानुरक्तोऽनुगतप्रत्ययः1595 स्यादिति चेत् ? सङ्केतवशात्, यथैव हि परस्परविलक्षणेषु गोवज्रादिषु एकगोत्वरूपसामान्याभावेऽपि “गौः गौः” इत्यनुगताकारैकप्रत्ययः तथा अन्योन्यविलक्षणेष्वपि मनुष्यव्यक्तिविशेषेषु1596 “ब्राह्मणोऽयं ब्राह्मणोऽयम्” इत्यनुगताकारैकप्रत्ययो भविष्यति । वस्तुसामर्थ्यप्रभवत्वे तु अगृहीतसङ्केतास्वपि व्यक्तिषु तन्मात्रोपलम्भेनैव1597 अव्यभिचारिगोप्रत्ययवत्15981599 स्यात्, न चैवम् । न खलु यथा महिषादिसङ्घे1600 गवां गोजातिः वैलक्षण्येन प्रतिभासते स्वसङ्घे1601 च गुणः क्रिया वा, तथा ब्राह्मण्यमपि । नहि हस्तपादाद्याकारव्यङ्ग्यमनुष्यत्वा1602द्1603 व्यतिरिच्यमानपुंस्त्वादिसामान्यवत् ब्राह्मणत्वं वैविक्त्येन जातु1604 प्रतिभासते । अन्यसहकृतेन्द्रियजनितेनापि तेन1605 निर्विकल्पकेन, सविकल्पकेन वा तत्1606 प्रतीयेत ? उभयत्र उक्तदोषानुषङ्गः ।

किञ्च, इन्द्रियाणां तद्विषयं प्रत्यक्षमुपजनयतां किं तदन्यत् सहकारित्वेन अभिप्रेतम्–ब्राह्मणभूतपितृ1607जन्यत्वम्,1608 पित्रोरविप्लुतत्वोपदेशः, आचारविशेषः, संस्कारविशेषः, वेदाध्ययनम्, यज्ञोपवीतादिकम्, ब्रह्मप्रभवत्वं वा ? तत्राद्यः1609 पक्षोऽनुपपन्नः;1610 यतः पित्रोर्ब्राह्मण्ये सिद्धे तज्जन्यत्वेन पुत्रस्य ब्राह्मण्यं सिद्ध्येत्, तच्चानयोः1611 ब्राह्मणभूतपितृजन्यत्वात्1612 सिद्ध्येत्, तथाभूतपुत्रजनकत्वाद्वा ? प्रथमपक्षे अनवस्था । बीजाङ्कुरवदनादित्वात् तत्कार्यकारणप्रवाहस्य अतो नानवस्था दोषाय; इत्यप्ययुक्तम्; यतो बीजाङ्कुरयोः कार्यकारणभावः पूर्ववीजाङ्कुरकार्यकारणभावग्रहणनिरपेक्षः प्रमाणतः प्रतीयते, अत्र तु पूर्वपूर्वब्राह्मण्यप्रतिपत्त्यभावे1613 परापरब्राह्मण्यप्रतिपत्तेः कर्त्तुमशक्यत्वान्न दृष्टान्त-दार्ष्टान्तिकयोः मनागपि साम्यम् । द्वितीयपक्षे तु अन्योन्याश्रयः–सिद्धे हि पितृब्राह्मण्ये ब्राह्मणभूतपितृजन्यत्वेन पुत्रब्राह्मण्यसिद्धिः;1614 तत्सिद्धौ च ब्राह्मणभूतपुत्रजनकत्वात् पितृब्राह्मण्यसिद्धिरिति ।

“अविप्लुतेन ब्राह्मणेन अविप्लुतायां ब्राह्मण्यामुत्पन्नो ब्राह्मणः” इत्यविप्लुतमातापित्रुपदेशस्तत्सहकारी, इत्यपि श्रद्धामात्रम्,1615 प्रमाणतोऽप्रतिपन्नेऽर्थे वास्तवोपदेशासम्भवात् । यन्न1616 कुतश्चित् प्रमाणात् प्रतीयते न तत्रोपदेशो वास्तवः यथा सकलशून्यतायाम्, कुतश्चिदपि प्रमाणान्न प्रतीयते च भवत्कल्पितं ब्राह्मण्यमिति । अथ प्रत्यक्षत एव ब्राह्मण्यं प्रतीत्य यथोक्तोपदेशो विधीयते, तदसत्, परस्पराश्रयप्रसङ्गात्–सिद्धे1617 हि ब्राह्मण्यप्रत्यक्षत्वे प्रमाणभूतयथोक्तोपदेशसिद्धिः, तत्सिद्धौ च तथाभूतोपदेशसहकृतेन इन्द्रियेण ब्राह्मण्यप्रत्यक्षतासिद्धिरिति ।

अविप्लुतत्वञ्च1618 विवक्षितपित्रपेक्षया, अनादिकालपितृप्रवाहापेक्षया वा अभिप्रेतम् ? यदि विवक्षितपित्रपेक्षया, तत्रापि अनयोः तज्जन्मनि1619 अविप्लुतत्वमभिप्रेतम्, अनादिकाले वा ? तज्जन्मनि चेत्, केन तत्तत्र तयोः प्रतीयेत–पुत्रेण, अन्यैर्वा ? न तावत् पुत्रेण, स्वजन्मकालेऽपि तस्य तद्विवेचनासामर्थ्यात् । नाप्यन्यैः, तद्धि1620 तैः प्रत्यक्षतः प्रतीयेत, अनुमानात्, आगमाद्वा ? न तावत् प्रत्यक्षतः, “अयमेतस्मादेव एतस्यामुत्पन्नः” इत्येवंरूपस्यार्थस्य अर्वाग्दृशा प्रत्यक्षीकर्त्तुमशक्यत्वात् । नाप्यनुमानात्; प्रत्यक्षाविषये भवता अनुमानाऽनभ्युपगमात् । लिङ्गाच्च अनुमानमुदयमासादयति । न च1621 पित्रविप्लुतत्वे1622 किञ्चिल्लिङ्गमस्ति । तत्र हि लिङ्गम्-पित्रोः संवृताकारादिविशेषः, अपत्येष्वविलक्षणता वा ? तत्राद्यपक्षोऽयुक्तः, दुश्चारिणाम् अतीव संवृताकारदर्शनात् । द्वितीयपक्षोऽप्यपेशल; यतो1623 यदि-विप्लुतेतरपितृप्रभवाऽपत्येषु1624 विलक्षणाकारता सिद्ध्येत् तदा अवि लक्षणाकाराऽपत्योपलम्भात् पित्रोरविप्लुतत्वं निश्चीयते, न चासौ1625 सिद्धा । न खलु वडवायां गर्दभाश्वप्रभवाऽपत्येष्विव ब्राह्मण्यां ब्राह्मणशूद्रप्रभवापत्येष्वपि वैलक्षण्यं स्वप्नेऽपि प्रतीयते । आगमतोऽपि1626 अपौरुषेयात्, पौरुषेयाद्वा1627 तयोरविप्लुतत्वप्रतिपत्तिः स्यात् ? न तावदपौरुषेयात्; तत्प्रतिपादकस्य अपौरुषेयस्य आगमस्यैवाऽसम्भवात् । पौरुषेयोप्यागमः तत्प्रणेत्रा1628 प्रमाणान्तरेणानयोरविप्लुतत्वे प्रतिपन्ने सति प्रवर्त्तमानः प्रमाणतां भजते,1629 “न तत्प्रतिपत्तिः1630 कुतश्चिदस्ति” इत्युक्तम् । तन्न तज्जन्मनि अनयोरविप्लुतत्वं कुतश्चित् प्रत्येतुं शक्यम् ।

एतेन अनादिकाले तयोस्तत्प्रतिपत्तिः1631 प्रत्याख्याता; ययोर्हि तज्जन्मन्यष्यविप्लुतत्वं प्रत्येतुं न शक्यते तयोः अनादिकाले तत् प्रतीयते इति महच्चित्रम् !

एतेन अनादिकालपितृप्रवाहापेक्षया अविप्लुतत्वप्रतिज्ञा प्रतिव्यूढा ।

किञ्च, सदैव1632 अबलानां कामातुरतया इह जन्मन्यपि व्यभिचारोपलम्भात् अनादौ काले ताः कदा किं कुर्वन्तीति ब्रह्मणापि ज्ञातुमशक्यम् । तथा च “व्यभिचारो हि प्रवादेन व्याप्तः”1633 इत्याद्ययुक्तम्; अत्यन्तप्रच्छन्नकामुकानां1634 प्रवादाभावेऽपि व्यभिचारसम्भवतः तस्य तेन व्याप्त्यनुपपत्तेः । अतः पित्रोरविप्लुतत्वस्य कुतश्चिदप्रसिद्धेः न तदुपदेशो ब्राह्मण्यप्रत्यक्षताप्रादुर्भावे चक्षुषः सहकारित्वं प्रतिपद्यते ।

नापि आचारविशेषः;1635 स हि ब्राह्मणस्याऽसाधारणो याजनाऽध्यापनप्रतिग्रह ग्रहादिः, स च तत्प्रत्यक्षतानिमित्तं न1636 भवति अव्याप्तेरतिव्याप्तेश्चानुषङ्गात्, याजनादिरहितेषु हि ब्राह्मणेष्वपि तद्व्यवहाराभावप्रसङ्गादव्याप्तिः, शूद्रेष्वपि अखिलस्य याजनाद्याचारस्योपलब्धितो ब्राह्मण्यानुषङ्गाच्चातिव्याप्तिः । अथ मिथ्याऽसौ आचारविशेषस्तत्र1637,1638 अन्यत्र कुतः सत्यः ? ब्राह्मण्यसिद्धेश्चेत्, अन्योन्याश्रयः–सिद्धे हि आचारसत्यत्वे ब्राह्मण्यसिद्धिः, तत्सिद्धौ च आचारसत्यत्वसिद्धिरिति ।

किञ्च, आचाराद् ब्राह्मण्यसिद्ध्यभ्युपगमे ब्रतबन्धात् पूर्वमब्राह्मण्यप्रसङ्गः । तन्न आचारोऽपि तत्प्रत्यक्षतां1639 प्रत्यङ्गम् ।

एतेन1640 संस्कारविशेषस्यापि तदङ्गता प्रत्याख्याता, अव्याप्त्यतिव्याप्त्योरत्राप्यविशेषात्1641 । तत्र अव्याप्तिः–संस्कारविशेषात् पूर्वं ब्राह्मणस्यापि अब्राह्मण्यप्रसक्तेः स्यात् । अतिव्याप्तिः पुनः अब्राह्मणस्यापि तथाविधसंस्कृतस्य ब्राह्मणत्वापत्तेः1642 स्यादिति । एतेन वेदाध्ययनस्य यज्ञोपवीतादेश्च तदङ्गता प्रतिव्यूढा । ब्रह्मप्रभवत्वस्य1643 च तदङ्गत्वे1644 अतिप्रसङ्ग1645 एव, सकलप्राणिनां तत्प्रभवतया1646 ब्राह्मण्यप्रसङ्गात् ।

किञ्च, ब्रह्मणो1647 ब्राह्मण्यमस्ति, न वा ? यदि नास्ति; कथमतो1648 ब्राह्मणोत्पत्तिः ? न हि अमनुष्यात् मनुष्योत्पत्तिः1649 प्रतीता । अथ अस्ति, किं सर्वत्र, मुखप्रदेशे एव वा ? यदि सर्वत्र,1650 स एव प्राणिनां भेदाभावानुषङ्गः । अथ मुखप्रदेश एव, तदाऽन्यत्रास्य16511187 शूद्रत्वानुषङ्गात् न विप्राणां तत्पादादयो वन्द्याः स्युः ।

किञ्च, ब्राह्मण1652 एव तन्मुखाज्जायते, तन्मुखादेव1653 वासौ जायते ? विकल्पद्वयेपि अन्योन्याश्रयः–सिद्धे हि ब्राह्मणत्वे तस्यैव1654 तन्मुखाज्जन्मसिद्धिः,296 तत्सिद्धौ च ब्राह्मणत्वसिद्धिरिति । न च ब्रह्मप्रभवत्वं विशेषणं ब्राह्मण्यप्रत्यक्षताकाले केनचित् प्रतीयते । न च अप्रतिपन्नं विशेषणं विशेष्ये प्रतिपत्तिमाधातुं समर्थमतिप्रसङ्गात् । यद् विशेषणं तत् प्रतिपन्नमेव विशेष्ये प्रतिपत्तिमाधत्ते यथा दण्डादि, विशेषणञ्च ब्राह्मण्यप्रतिपत्तौ ब्रह्मप्रभवत्वमिति ।

एतेन “असति प्रतिबन्धके यो यदाकारः प्रत्ययः” इत्याद्यनुमानं1655 ब्राह्मण्यसद्भावप्रसाधकं प्रत्याख्यातम्; अनेकधा प्रतिबन्धकसद्भावप्रतिपादनात् ।

यदपि–“ब्राह्मणपदम्” इत्याद्यनुमानमुक्तम्,1656 तदप्ययुक्तम्; पक्षस्य1657 अध्यक्षबाधितत्वात्, कठकलापादिब्राह्मणव्यक्तिषु हि ब्राह्मणपदं व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बन्धशून्यमेव अध्यक्षतः प्रतीयते अश्रावणत्वविविक्तशब्दवत् । अप्रसिद्धविशेषणश्च1658 पक्षः, न खलु व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वं मीमांसकस्य अस्माकं1659 वा क्वापि प्रसिद्धम् व्यतिरिक्ताव्यतिरिक्तस्य16601661 सामान्यस्योभाभ्या1662मभ्युपगमात्1663 । हेतुश्चानैकान्तिकः; सत्ताऽऽकाशकालपदे अद्वैतादिपदे वा व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वाभावेऽपि पदत्वस्य भावात् । अत्रापि तत्सम्बद्धत्वकल्पनायां1664 सामान्यस्य1665 निःसामान्यत्वमनेकव्यक्तिवृत्तित्वञ्च व्याहन्येत । अद्वैताखिलशून्यत्वादेश्च सामान्यवत्त्वेन परमार्थसत्त्वानुपङ्गात्1666 कुतोऽप्रतिपक्षा पक्षसिद्धिश्च स्यात् ? दृष्टान्तोऽपि साध्यविकलः; पटादिपदे व्यक्तिव्यतिरिक्तैकनिमित्तत्वासिद्धेः । नित्यैकरूपसामान्यमन्तरेणापि अनन्तानां वाच्यवाचकव्यक्तीनां सम्बन्धो यथा सिद्ध्यति तथा नित्यसम्बन्धनिषेधावसरे प्ररूपितम्1667

एतेन वर्णविशेषेत्याद्यनुमानं1668 प्रत्युक्तम्, उक्तदोषाणामत्राप्यविशेषात् । नगरा1669 दिज्ञानेन अनेकान्ताच्च, तत्र व्यक्तिव्यतिरिक्तनिमित्तनिबन्धनत्वाभावेऽपि1670 वर्णविशेषादिनिमित्तबुद्धिविलक्षणत्वस्योपलम्भात् । न खलु “नगरं सेना वनम्” इत्यादिज्ञाने व्यक्तिव्यतिरिक्तम् अनुवृत्तप्रत्ययनिबन्धनं किञ्चिदस्ति । तद्धि द्रव्यम्, सत्ता, प्रत्यासत्तिविशेषो वा स्यात् ? प्रथमपक्षे नगरादिकमेव तत्र द्रव्यम्, अन्यद्वा ? न तावत् नगरादिकमेव, तस्य द्रव्यत्वाऽसम्भवात् । नहि नगरं सेनादिकं वा द्रव्यं सम्भवति; गृहादिभिरसंयुक्तैः विजातीयैश्च तस्य आरम्भाऽसम्भवात् । कतिपयगृहाणामस्ति संयोग इति चेत्; न, तेषां1671 स्वयं संयोगरूपतया सयोगानाश्रयत्वात्1672 । गुणरूपतया च तेषां1671 द्रव्यानारम्भकत्वम्, गुणैर्द्रव्यारम्भाऽसम्भवात्1673

“सत्ता नगरादिकम्” इत्यत्रापि असौ1674 गृहादिविशेषिता, केवला वा तत्प्रत्ययमुत्पादयेत्1675 ? न तावत् केवला; गृहादिविविक्तेऽपि प्रदेशे ततः1676 तत्प्रत्ययप्रसङ्गात् । अथ गृहादिविशेषिता; न, कूटस्थनित्याया1677 विशेष्यत्वासम्भवात्, अकिञ्चित्करस्य1678 अविशेषणत्वाच्च1679 । किञ्चित्करत्वे वा1680 तत्कूटस्थताक्षतिः1681 । कथञ्चैवं “षण्णगरी” इत्यत्र समुदायोपपत्तिः सत्ताया एकरूपतया समुदायतानुपपत्ते ?

प्रत्यासत्तिविशेषोऽपि कस्य केन सह नगरादिव्यपदेशमर्हेत् ? गृहादीनां गृहाद्यन्तरैः इति चेत्, कः पुनरसौ–तेषां तैः सह समवायः, सयोगो वा ? न तावत्समवायः, तेषां1682 युतसिद्धतया अनाधार्याधारभूततया च तदसभवात् । नापि संयोगः; गृहादीनां संयोगरूपतया सयोगानाश्रयत्वात् । न च नगरादिशब्दात् संयुक्तसयोगाल्पीयस्त्वलक्ष1683णे1684 प्रत्यासत्तिविशेषे एकस्मिन् कस्यचित्1685 प्रतिपत्ति-प्रवृत्ति-प्राप्तयोऽनुभूयन्ते, किन्तु गृहादावनेकत्र । नगरशब्दाद्धि गृहादौ, सेनाशब्दाद् अश्वादौ, वनशब्दाच्च धवादावनेकत्रार्थे ताः1686 प्रतीयन्ते इति । यत्र1687 हि शब्दादुच्चरितात्1688 प्रतिपत्त्यादयः प्रतीयन्ते स शब्दस्यार्थः तथा वृद्धव्यवहारात् । “देशादिप्रत्यासत्तिविशिष्टा गृहादयो नगरादिव्यपदेशभाजः” इत्यप्यनेनाऽपास्तम्, देशादौ हि प्रत्यासत्तिः–तेषां समवायः, संयोगो वा ? तत्र च उक्तदोषोऽविशिष्टः । भवतामपि1659 कथमेवं नगरादिव्यपदेशः स्यात् ? इत्यप्यचोद्यम्; देशप्रत्यासत्तिविशिष्टे1689 प्रासादादौ तद्व्यपदेशस्य1690 अस्माभिरभ्युपगमात् । देशप्रत्यासत्तिश्चात्र संयोगलक्षणा प्रतिपत्तव्या, प्रासादादेरवयवित्वेन अस्माकमिष्टत्वात्1659 । विजातीयैः काष्ठेष्टिकादिभिः तस्य1691 आरम्भासम्भवात् कथमवयवित्वम् ? इत्यप्यनुपपन्नम्; विजातीयैरपि पृथिव्यादिभिः शरीराद्यवयविनः आरम्भोपलम्भात् । सजातीयानाम् आरम्भनियमस्य षट्पदार्थपरीक्षायां1692 पृथिव्यादीनां तत्त्वान्तरत्वनिषेधावसरे निषिद्धत्वात् । ततो भवन्मते1693 नगरादिज्ञाने व्यक्तिव्यतिरिक्तनिमित्तनिबन्धनत्वाभावात्,1694 सिद्धमनेनानैकान्तिकत्वम् । न चान्यत् किञ्चिद् ब्राह्मण्ये लिङ्गमस्ति यतः तत्सिद्धिः स्यात् ।

अस्तु वा किञ्चित्तत्र1695 लिङ्गम्, तथापि अगृहीतप्रतिबन्धं तत्1696 न तत्प्रतिपत्तेरङ्गम्, अतिप्रसङ्गात् । प्रतिबन्धग्रहश्च अप्रतिपन्ने ब्राह्मण्ये न सम्भवति, अतिप्रसङ्गात् । तत्प्रतिपत्तिश्च1697 प्रत्यक्षतः प्रतिषिद्धा । अनुमानतः तत्प्रतिपत्तौ चक्रकप्रसङ्गः–सिद्धे हि अनुमानतो ब्राह्मण्ये तेन लिङ्गस्य प्रतिबन्धसिद्धिः, तत्सिद्धौ च अनुमानसिद्धिः, ततश्च ब्राह्मण्यसिद्धिरिति ।

आगमतोपि1698 अपौरुषेयात्, पौरुषेयाद्वा तत्प्रतिपत्तिः स्यात् ? न तावदपौरुषेयात्; तस्य कार्ये1699 एवार्थे प्रामाण्यात्, ब्राह्मणत्वस्य च नित्यतयेष्टितोऽकार्यत्वात् । नापि पौरुषेयात् ततः1700 तत्प्रतिपत्तिः; तस्य प्रमाणान्तरसापेक्षत्वात्,1701 तस्य1702 चात्राऽसम्भवात् ।

नाप्युपमानात् तत्प्रतिपत्तिः, तस्य सादृश्यालम्बनत्वात् । अप्रतिपन्ने च प्रमाणान्तरेण ब्राह्मण्ये कथं तेन सादृश्यं कस्यचित् प्रतीयेत यतः तद्दर्शनाद्1703 ब्राह्मण्यं प्रतीयेत ?

नाप्यर्थापत्तेस्तत्प्रतिपत्तिः; ब्राह्मण्यजातिव्यतिरेकेणानुपपद्यमानस्य प्रमाणषट्कविज्ञातस्य कस्यचिदष्यर्थस्य अप्रतीयमानत्वात् । अतः सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततया अभावप्रमाणकवलीकृतत्वात् नभोऽम्भोजवत् नास्ति ब्राह्मण्यम् । अतो ब्राह्मण्यजातेः सत्त्वस्यैवाऽसम्भवात् “प्रथमदर्शने प्रतिभातापि जातिः व्यञ्जकभेदाग्रहणान्नोल्लिखति” इत्यादि1704 प्रत्याख्यातम् ।

यदप्युक्तम्–“द्रव्यपरीक्षकाणाम्”1705 इत्यादि; तदप्यसाम्प्रतम्, यतो1706 न पीततामात्रं सुवर्णम्, विचित्ररेखारचितपरिणतिमात्रं वा द्रव्यम्, वृत्तसंस्थानमात्रं वा मणिः, अतिप्रसङ्गात् । किं तर्हि ? तद्विशेषः । स च न प्रत्यक्षः, दाहच्छेदादेः तुषाम्बुसम्प्रक्षालनादेः1707 परप्रश्नादेश्च1708 वैयर्थ्थप्रसङ्गात् । तस्यापि1709 तत्प्रतिपत्तौ1710 सहायत्वे तज्जातौ किञ्चित्तथाविधं सहायं वाच्यम् । तच्च1711 ब्राह्मणभूतपितृजन्यत्वादिकम्, आकारविशेषो वा स्यात् ? सर्वमेतत् प्रागेव कृतोत्तरत्वान्न तत्प्रतिपत्तौ1712 सहायतां प्रतिपद्यते । अतोऽयुक्तमुक्तम्–“न1713 च सामग्र्यभावाद् यन्न प्रतिभासते तन्नास्ति” इत्यादि, तत्प्रतिभाससामग्र्याः प्रागेव अशेपविशेषतो1714 निरस्तत्वात् ।

ननु ब्राह्मणत्वादिसामान्यानभ्युपगमे कथं भवतां17151659 वर्णाश्रमव्यवस्था तन्निबन्धनो वा तपोदानादिव्यवहारः स्यात् ? इत्यप्यचोद्यम्; कियाविशेषयज्ञोपवीतादिचिह्रोपलक्षिते1716 व्यक्तिविशेषे तद्व्यवस्थायाः तद्व्यवहारस्य च उपपत्तेः । तन्न1717 भवत्कल्पितं नित्यादिस्वभावं ब्राह्मण्यं कुतश्चिदपि प्रमाणात् प्रसिद्ध्यतीति क्रियाविशेषनिबन्धन1718 एवायं ब्राह्म णादिव्यवहारो1719 युक्तः । कथमन्यथा1720 वेश्यापाटकादिप्रविष्टानां ब्राह्मणीनां1721 व्राह्मण्याभावो निन्दा च स्यात्, जातिर्यतः पवित्रता हेतुः ? सा1722 च भवन्मतेन1723 नित्यैकरूपतया तदवस्थैव, अन्यथा1724 गोत्वजातेरपि ब्राह्मण्यं निकृष्टं स्यात् । गवादीनां हि चाण्डालादिगृहे1725 चिरोषितानामपि इष्टं शिष्टैरादानं न तु ब्राह्मणीनाम् । अथ क्रियाभ्रंशात्तासां1726 निन्द्यता अनादानञ्चेष्यते, तर्हि किमनेन अन्तर्गडुना1727 ब्राह्मण्येन कल्पितेन ? कल्पयित्वापि तत्1606 क्रियाविशेषवशादेव वन्द्यताया ब्राह्मणव्यवहारस्य1728 चाभ्युपगमनीयत्वात् ।

किञ्च, क्रियानिवृत्तौ1729 ब्राह्मण्यजातेर्निवृत्तिः स्यात्, यदि सा1730 तस्याः1731 कारणं व्यापकं वा स्यात्, नान्यथा अतिप्रसङ्गात् । न चास्याः कारणं व्यापकं वा किञ्चिदिष्टम् । नापि क्रियाभ्रंशात् तस्या1731 विकारोऽस्ति भिन्नेष्वभिन्ना नित्या निरवयवा च जातिः1732 [ ] इत्यभिधानात् । न चाऽविकृतायाः निवृत्तिः सम्भवति अतिप्रसङ्गादिति । तदेवं भवत्कल्पितब्राह्मण्यस्य आकाशकुशेशयवदप्रसिद्धस्वरूपत्वान्न ब्राह्मणस्यैव संस्कृतशब्दप्रयोगात् धर्मो युक्तः, किन्तु सर्वेषामविशेषेणैव अतोऽ1733सौ1734 स्यात्, न चैवम् । अतोऽवितथार्थाभिधायित्वमेव शब्दस्य साधुत्वमभ्युपगन्तव्यम् नान्यत्, उक्तदोषानुषङ्गात् । तथाविधञ्च तत्1735 संस्कृतशब्दस्येव प्राकृतशब्दस्याप्यविशिष्टम्, अतो द्वयोरप्यनयोः साधुत्वम् । ततः साधूक्तम्–““वर्णाः पदानि वाक्यानि प्राहुरर्थानवाञ्छितान्”” इत्यादि ।

विवृतिव्याख्यानम्–

कारिकाद्वयं विवृण्वन्नाह–““वर्ण”” इत्यादि । “वर्णपदवाक्यानां वाचकत्वम्” अर्थप्रतिपादकत्वम्, “यथास्वं” स्वस्यार्थस्य अनतिक्रमेण “आगमात् प्रतिपत्तव्यम् ।” तत्रास्य प्रत्येकं प्रपञ्चतः प्ररूपितत्वात् । कुतः पुनः विवक्षातोऽन्यस्य वाचकाः शब्दाः ? इत्याह–““वक्त्रभिप्रायात्”” इत्यादि1736 । “वक्त्रभिप्रायाद् भिन्नस्य” बहिर्भूतस्य “अर्थस्य” घटादेः “वाचकाः शब्दाः1737 ।” कुत एतत् ? इत्याह– “सत्यानृतव्यवस्थान्यथानुपपत्तेः ।” यत्र सत्यानृतव्यवस्था तद् वक्त्रभिप्रायाद् भिन्नार्थविषयं यथा प्रत्यक्षादि, सत्यानृतव्यवस्था च शब्देष्विति । “अयञ्च प्रसङ्गः” बहिरर्थ विषयतामन्तरेण सत्यानृतव्यवस्थानुपपत्तिलक्षणः “अन्यत्र “प्रमाणं श्रुतमर्थेषु”” [लघी॰ का॰ २६] इत्यादौ “विस्तरेणोक्तः इति नेह” प्रघट्टके पुनः “प्रतन्यते ।” नन्वर्थाभावेपि शब्दानां प्रवृत्तिदर्शनात् कथं तद्वाचकत्वम्1738 इत्यत्राह–““शब्दानाम्””1739 इत्यादि । “शब्दानाम् अर्थव्यभिचारित्वेऽ”भ्युपगम्यमाने “अभिप्रेतव्यभिचारित्वं कुतः” प्रमाणात् न कुतश्चित् “अपनीयते” निराक्रियते । कुत एतत् ? इत्यत्राह–““सुषुप्तादौ””1740 इत्यादि, “आदि”शब्देन मत्तादिपरिग्रहः “वाग्वृत्तेर्दर्शनात् ।”

ननु विवक्षाप्रभवाच्छब्दादन्य एव शब्दः, यः तदभावे1741 तत्र जायते । न चान्यस्य व्यभिचारे अन्यस्य1742 व्यभिचारोऽतिप्रसङ्गात् । “सुविवेचितं हि कार्यं कारणं न व्यभिचरति” इति, तदेतदत् अर्थविशेषसद्भावासद्भावप्रतिबद्धात्मलाभेष्वपि शब्देषु समानम् । साम्येऽपि तेषां विवक्षेतरप्रभवाः शब्दाः वैलक्षण्येनाऽवसीयन्ते नतु अर्थविशेषसद्भावाऽसद्भावप्रतिबद्धात्मलाभा1743 इति स्वदर्शनानुरागमात्रम् । विवक्षामात्रगोचरत्वे च अमीषां बहिरर्थे प्रवृत्त्यादिहेतुत्वानुपपत्तिः, तदविषयत्वाद्,1744 यद् यद्विषयं न भवति न तत् तत्र प्रवृत्त्यादिहेतुः यथा रूपज्ञानं रसाविषयं न रसे, न भवन्ति च बहिरर्थविषया भवन्मते शब्दा इति । नचैतद् युक्तम् प्रतीतिविरोधात् । सुप्रसिद्धा हि शब्देभ्यो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीतिः आबालं प्रत्यक्षवत् । अतः तद्विषयत्वमेव अमीषां युक्तम् । यद्1745 यत्र प्रवृत्यादिहेतुः1746 तत्तद्विषयम् यथा रसज्ञान रसे प्रवृत्त्यादिहेतू रसविषयम्, बहिरर्थे प्रवृत्त्यादिहेनवश्च शब्दा इति । नचायमसिद्धो हेतुः; प्रत्यक्षवत्1747 शब्देभ्यः तत्र प्रवृत्त्यादिप्रतीतेः । यथैव हि प्रत्यक्षात् प्रतिपत्तृप्रणिधानादिसामग्रीसापेक्षात् प्रत्यक्षार्थे प्रतिपत्त्यादिप्रतीति सकलजनप्रसिद्धा, तथा सङ्केतादिसामग्रीसापेक्षात् शब्दात् शब्दार्थेऽपि इति । न च अर्थे अर्थिनोऽर्थित्वादेव प्रवृत्तेः शब्दोऽप्रवर्त्तक इत्यभिधातव्यम्, प्रत्यक्षादेरप्येवमप्रवर्त्तकत्वप्रसङ्गात्, तदर्थेऽपि1748 अर्थित्वादेव प्रवृत्तिप्रतीतेः । परम्परयाऽत्र1749 प्रवर्त्तकत्वे1750 शब्देऽपि तथा1751 तदस्तु अविशेषात् ।

का1752 चेयं विवक्षा नाम–शब्दोच्चारणेच्छामात्रम्, अनेन शब्देन अमुमर्थं प्रति पादयामि इत्यभिप्रायो वा ? प्रथमपक्षे वक्तृश्रोत्रोः शास्त्रश्रवणप्रणयनादौ1753 प्रवृत्तिर्न प्राप्नोति । न खलु कश्चिदनुन्मत्तः शब्दनिमित्तेच्छामात्रप्रतिपत्त्यर्थं शास्त्रं वाक्यान्तरं वा प्रणेतुं श्रोतुं वा प्रवर्त्तते । दशदाडिमादिवाक्यैः सह सर्ववाक्यानामविशेषप्रसङ्गश्च, सर्वेषां स्वप्रभवेच्छामात्रानुमापकत्वाऽविशेषात् । अथ अनेन शब्देनामुमर्थं प्रतिपादयामीत्यभिप्रायो विवक्षा, तत्सूचकत्वेन अखिलशब्दानां विवक्षानुमापकत्वम्; तदष्यनुपपन्नम्; व्यभिचारात् । नहि शुकशारिकोन्मत्तादयः तथाभिप्रायेण वाक्यमुच्चारयन्ति ।

किञ्च, समयानपेक्षः1754 शब्दः तादृशमभिप्रायं गमयेत्, तत्सापेक्षो वा ? आद्यविकल्पे न कश्चित् क्वचिद्भाषानभिज्ञः स्यात्, सर्वेषामविशेषतः शब्दार्थप्रतिपत्तिप्रसङ्गात् । समयापेक्षस्तु शब्दः अर्थमेव किन्न गमयेत् ? नह्ययम् अर्थाद् विभेति येन तत्र साक्षान्न वर्त्तेत । अशक्यसमयत्वान्न शब्दोऽर्थं गमयति; इत्यप्यसमीक्षिताभिधानम्; अभिप्रायेऽपि तदगमकत्वानुषङ्गात्, तत्रापि तस्य अशक्यसमयत्वाविशेषात् । असिद्धञ्चास्य अशक्यसमयत्वम्; ““प्रमाणं श्रुतमर्थेषु”” [लघी॰ का॰ २६] इत्यत्र तच्छक्यसमयत्वस्य प्रपञ्चतः प्रतिपादितत्वात् ।

न केवलं सुषुप्तादौ1755 वाग्वृत्तेर्दर्शनादभिप्रेतव्यभिचारित्वं कुतोऽपनीयते1756 इति, अपि तु इतश्च । कुतस्तदपनीयते इत्याह–““अनिच्छताम्”” इत्यादि । अनिच्छतामपि अपशब्दाद्युच्चारणविवक्षाविकलानामपि1757 “अपशब्दादिभाषणसद्भावात्, आदि”शब्देन श्रुतिदुष्टादिपरिग्रहः । तथा वाञ्छतामपि मन्दबुद्धीनां शास्त्रवक्तृत्वाभावात् तत्कुतोऽपनीयते ? अत्राह परः–““उभयत्र”” इत्यादि । “उभयत्र” अर्थेऽभिप्राये च “व्यभिचारात्” शब्दानाम् “न कस्यचि”दर्थस्य अभिप्रायस्य वा “वाचकाः शब्दाः, इति”शब्दः परमतसमाप्त्यर्थः । अत्र दूषणमाह–““अलौकिकं प्रतिभानमिति”” प्रतिभोत्तरप्रतीतिः इत्यर्थः, “अलौकिकञ्च” तत् “प्रतिभानञ्च,” लोकबाधितम् इत्यर्थः । कुत एतत् ? इत्यत्राह– ““लोको हि”” इत्यादि । “हि”यस्मात् “लोकः अर्थाप्त्यनाप्तिषु सत्यानृतव्यवस्थाम् आतिष्ठेत ।” कस्य ? “शब्दस्य ।” यदि हि न कस्यचिद्वाचकाः शब्दाः स्युः तर्हितेभ्यो घटाद्यर्थस्य स्वप्नेऽप्यप्रतीतेः न तत्प्राप्त्या केषाञ्चिच्छब्दानां सत्यत्वम् अन्येषां तु अनृतत्वं विपर्ययात् इत्येवं लोको वचसां तद्व्यवस्थामातिष्ठेत इत्यभिप्रायः । ननु1758 अभिप्रायमात्रप्रतिपादनेऽपि तद्व्यवस्थामास्थास्यत इत्यत्राह–““न”” इत्यादि । “अभिप्रायमात्रे” शब्दार्थे ““न लोकः तद्व्यवस्थामातिष्ठेत”” इति सम्बन्धः । कुत एतत् ? इत्यत्राह–1759 ““तत्र”” इत्यादि । ““तत्र”” तन्मात्रे “शब्दव्यवहारबाहुल्याभावात्,” क्वचित्1760 तत्र1761 तद्व्यव हारेपि बहुलं बहिः1762 तद्व्यवहारोपलम्भात् इति भावः ।

ननु प्रतीयते शब्दादर्थः स तु विचार्यमाणो न सङ्गच्छते, तत्र1763 तस्य599 सम्बन्धाभावतः प्रत्यायकत्वायोगात्, इत्यत्राह–““अबाधिताम्”” इत्यादि । अत्रायमभिप्रायः-यादृशेऽर्थे1764 सङ्केतितः यादृशः शब्द देशान्तरे कालान्तरे1765 च योग्यतालक्षणसम्बन्धवशात् तादृशस्य तादृशो वाचकः, न तत्र किञ्चिद्वाधकम् इत्युक्तम्–““योग्यतापेक्षानादिसङ्केतः””1766 [लघी॰ स्ववृ॰ का॰ ६२] इत्यत्र । अतः “अबाधितां” शब्दादुपजायमानां सामान्यविशेषात्मकार्थविषयां तत्प्रतीति“मतिक्रम्य स्वेच्छया” प्रतीत्यनाश्रयणेन “प्रमाणस्वरूपम्”–“प्रत्यक्षानुमानलक्षणमेव प्रमाणं नागमादि” इति, “प्रमेयस्वरूपम्” प्रत्यक्षस्य पूर्वापरकोटिविच्छिन्नं स्वलक्षणमेव “प्रमेयम्” “अनुमानस्य तु अन्यव्यावृत्तिमात्रम्” “इत्यातिष्ठमानानां” सौगतानां “युक्तम्” उपपन्नम् किं तत् ? “अभिप्रेतमात्रसूचकत्वम् ।” केषाम् ? “शब्दानाम्” इति ।

व्याख्यातं मूलकारिकायाम् ““ज्ञानं प्रमाणमात्मादेः”” इत्येतत् । साम्प्रतं ““नयो ज्ञातुरभिप्रायः”” इत्येतद्व्याख्यातुकाम आह–

श्रुतभेदा1767 नयाः सप्त1768 नैगमादिप्रभेदतः ।
द्रव्यपर्यायमूलास्ते द्रव्यमेकान्वयानुगम् ॥ ६६ ॥

निश्चयात्मकमन्योऽपि व्यतिरेकपृथक्त्वगः1769
निश्चयव्यवहारौ तु द्रव्यपर्यायमाश्रितौ ॥ ६७ ॥

विवृतिः–नहि मतिभेदा नयाः त्रिकालगोचरानेकद्रव्यपर्यायविषयत्वात्, मतेः1770 साम्प्रतिकार्थग्राहित्वात् । मनोमतेरपि स्मृतिप्रत्यभिज्ञानचिन्ताभिनिबोधात्मिकायाः कारणमतिपरिच्छिन्नार्थविषयत्वात्1771 । तत्र मूलनयौ द्रव्यपर्यायार्थिकौ । द्रव्यम् एकान्वयात्मकम् । एकत्वं तदतत्परिणामित्वात्, सदृशपरिणामलक्षणसामान्यात्मकत्वाद् अन्वयि । पुरुषत्वादेरपेक्षातः सत्यपि समानेतरपरिणामातिशये नानैकसन्तानात्मनां तथाभावसङ्करव्यतिकरव्यतिरेकाद् अन्वयिनोरस्खलत्समानैकप्रत्ययविषयत्वमनुमिमीमहे । तथाहि–स्कन्धः स्वगुणपर्यायाणामेकत्वं न समानपरिणामः पुरुषश्च । समानपरिणामोऽपि सकलपदार्थगोऽनेकत्वम् । निश्चयनयादेको जीवः कर्मनिर्मुक्तः व्यवहारनयात् सकर्मकः । पर्यायः पृथक्त्वम् व्यतिरेकश्च । पृथक्त्वम् एकत्र द्रव्ये गुणकर्मसामान्यविशेषाणाम् । व्यतिरेकः1772 सन्तानान्तरगतो विसदृशपरिणामः । व्यवहारपर्यायाः क्रोधादयः जीवस्य संसारिणः, निश्चयपर्यायाः शुद्धस्य ज्ञानादयः प्रतिक्षणम् आत्मसात्कृतानन्तभेदाः । निश्चयनयात् पुद्गलद्रव्यमेकम्, पृथिव्यादिभेदेऽपि रूपरसगन्धस्पर्शवत्त्वम् आविर्भूतानाविर्भूतस्वरूपमजहत् स्कन्धपरमाणुपर्यायभेदेपि रूपादिमत्त्वमपरिजहत् । नहि अवस्थादेशकालसंस्काराः मूर्त्तत्वमत्यन्तं1773 भिन्दन्ति अमूर्त्तभेदप्रसङ्गात्, सत्ताभेदाश्च जीवादयः सत्ताम् इत्युक्तप्रायं नेहोच्यते । भेदवादिनोऽपि ज्ञानमेकम् एकस्मिन् क्षणे स्वयमनेकाकारमात्मसात्कुर्वत् कथं निराकुर्युः ? ततः1774 तीर्थकरवचनसङ्ग्रहविशेषप्रस्तावमूलव्याकारिणौ द्रव्यार्थिकपर्यायार्थिकौ निश्चेतव्यौ । नहि तृतीयं प्रकारान्तरमस्ति; तस्य प्रमाण एवाऽन्तर्भावात् । न नैगमस्य प्रमाणतातादात्म्यविवक्षाभावात्1775

कारिकार्थ–

“श्रुतस्य” आगमस्य “भेदाः” विशेषाः न पुनर्मतिज्ञानस्य । के ? “नयाः,” प्रतिपत्रभिप्रायाः,1776 कियन्तः ? “सप्त ।” कुत ? “नैगमादिप्रभेदतः ।” किम्मूलास्ते ? इत्याह–““द्रव्य”” इत्यादि । “द्रव्यपर्यायौ मूलम्” आश्रयो येषां “ते” तथोक्ताः । किं स्वरूपं द्रव्यम् ? इत्याह–““द्रव्यम्”” इत्यादि । “एक”शब्दोऽयं भावप्रधानः, एकत्वञ्च “अन्वयश्च” सदृशपरिणामः ताभ्यां यथासङ्ख्येन स्वपर्यायान् द्रव्यान्तराणि च अनुगच्छति अनुयाति इति “त्तदनुगम् ।” “एकत्वानुगम्” इत्यनेन भेदैकान्तनिषेध, “अन्वयानुगम्” इत्यनेन तु सर्वद्रव्यैकत्वनिरासः । तदेवविध द्रव्यं प्रमाणापरिच्छेद्यं भविष्यति इत्यत्राह–““निश्चयात्मकम्”” इति । सशयादिव्यवच्छेदलक्षणा प्रमेयस्था गृहीतिक्रिया “निश्चयः,” स “आत्मा” स्वभावो यस्य तत् तथोक्तम् । न केवलं द्रव्यमेव निश्चयात्मकम्,1777 किन्तु “अन्योऽपि” पर्यायोऽपि, निश्चयात्मकः इति लिङ्गपरिणामेन सम्बन्ध । पुनरपि कथम्भूतः ? इत्याह–“व्यतिरेकपृथक्त्वगः ।” स्वद्रव्यपर्यायान्तरापेक्षया “व्यतिरेकं” परस्परव्यावृत्तिम् एकद्रव्यापरित्यागेन गच्छतीति “व्यतिरेकगः,” द्रव्यान्तरपर्यायापेक्षया “पृथक्त्वं” पृथग्द्रव्यवृत्तित्व गच्छतीति “पृथक्त्वगः ।” ननु यदि नैगमादयो नया द्रव्यपर्यायमूलाः तर्हि द्रव्यार्थिकपर्यायार्थिकलक्षणौ मूलनयौ किम्मूलौ ? इत्याह–““निश्चय”” इत्यादि । चेतनस्य अचेतनस्य वा यः सन् स्वभावः न कदाचिद्विनश्यति तदवलम्बी नयो “निश्चयः” द्रव्यार्थिकनयः इत्यर्थ । यो विनश्यति स्वभावःतदवलम्बी “व्यवहारः” पर्यायार्थिक इति यावत् तौ । “तु” शब्दः अपिशब्दार्थे, “द्रव्यपर्यायमाश्रितौ ।” वक्ष्यति च ““तत्र मूलनयौ द्रव्यपर्यायार्थिकौ”” इत्यादि ।

विवृतिव्याख्यानम्–

तत्र प्रथमकारिकायाः प्रथमभागं व्यतिरेकमुखेन विवृण्वन्नाह–““नहि”” इत्यादि । “नहि” नैव “मतिभेदाः” किन्तु श्रुतभेदाः, के ते ? “नयाः ।” कुत एतत् ? इत्याह–““त्रिकाल”” इत्यादि । “त्रयः काला गोचरो” येषाम् “अनेकद्रव्यपर्यायाणां” ते “विषयो” येषां तेषां भावात् “तत्त्वात् ।” “नयानाम्” इति विभक्तिपरिणामेन सम्बन्ध । मतिरपि तथा भविष्यति ? इत्यत्राह–““मतेः”” इत्यादि । “मतेः” इन्द्रियजनितायाः “साम्प्रतिकार्थग्राहित्वात्” वर्त्तमानकालगोचरद्रव्यपर्यायात्मकार्थग्राहकत्वात् ““न मतिभेदा नयाः”” इति सम्बन्धः । अनिन्द्रियजनितायास्तस्याः1778 ते तर्हि भेदाः भवन्तु तस्या त्रिकालगोचरद्रव्यादिविषयत्वात् इत्यत्राह–““मनोमतेः”” इत्यादि । न केवलम् इन्द्रियमतेः अपि तु “मनोमतेरपि “नहि भेदाः नयाः”” इति सम्बन्धः । किंविशिष्टायाः ? इत्याह–“स्मृतिप्रत्यभिज्ञानचिन्ताभिनिबोधात्मिकायाः ।” कुत एतत् ? इत्यत्राह–1779 ““कारण”” इत्यादि । विशदाऽवितथा मतिः1780 मनोमतेः कारणत्वात् ““कारणमतिः”” इत्युच्यते, तया “परिच्छिन्नो योऽर्थः तद्विषयत्वान्मनोमतेः ।” तस्यैव1781 कथञ्चिदधिकतया1782 तया1783 ग्रहणात् एवमुक्तम् ।

नयभेदं दर्शयन्नाह–““तत्र”” इत्यादि । “तत्रैवं”1784 श्रुतभेदत्वे नयानां व्यवस्थिते “मूलनयौ” कारणनयौ नैगमादीनाम् । कौ ? इत्याह–“द्रव्यपर्यायार्थिकौ, द्रव्यञ्च पर्याय”श्च तावेव “अर्थौ” तौ यथासङ्ख्येन विद्येते ययोः तौ तथोक्तौ । तत्र द्रव्यपदं व्याचष्टे ““द्रव्यम्”” इत्यादिना । “एकत्वान्वयौ” व्याख्यातौ, तौ आत्मा यस्य तत् तदात्मकम् । एतदेव समर्थयमानः प्राह–““एकत्वम्”” इत्यादि । ““द्रव्यम्””1785 इत्यनुवर्त्तते । तस्य एकत्वं कुतः ? इत्याह–““तद्”” इत्यादि । स च विवक्षितः असश्च अविवक्षितः “तदतौ,” तौ च तौ “परिणामौ” च तौ यस्य स्तः तत् “तदतत्परिणामि,” यदि वा, तयोः परिणमत इत्येवं शीलं “तदतत्परिणामि,” तस्य भावात् तत्त्वात् । साम्प्रतम् ““अन्वयात्मकं तत्”” इत्येतत् समर्थयते–“अन्वयि” द्रव्यान्तरेण अनुगमवद् ““द्रव्यम्”” इति सम्बन्धः । कुतः ? इत्याह–““तद्””1786 इत्यादि । “सदृशपरिणामलक्षणसामान्यात्मकत्वात् ।” अत्राह सौगतः–असमानानपेक्ष्य समानपरिणामाः अनुपादानोपादेयानपेक्ष्य1787 एकपरिणामाः केचन भावाः कल्प्यन्ते न परमार्थतः, अपेक्षाकृतस्य धर्मस्याऽतात्त्विकत्वात्; इत्यत्राह–““पुरुष”” इत्यादि । अस्यायमर्थः–“नानैकसन्तानात्मनाम्” नानासन्तानस्वभावानाम् एकसन्तानस्वभावानाञ्च1788 युगपत्क्रमभाविनां क्षणानाम् इत्यर्थः । तेषां “यदपेक्षातः” यथोक्तायाः अपेक्षायाः सकाशात् कल्पितं “पुरुषत्वं” तिर्यक्सामान्यम्, “आदि”शब्देन द्रव्यविशेषपरिग्रहः, तस्मात् “सत्यपि” विद्यमानेऽपि “समानेतरपरिणामातिशये” समानपरिणामातिशये1789 तत्प्रकर्षे इतरपरिणामातिशये एकत्वपरिणामप्रकर्षे । ननु इतरशब्दस्य उक्तविपरीतार्थाभिधायित्वात् समानपरिणामाद् इतरो विसदृशपरिणाम एव लभ्यते, न एकत्वपरिणामातिशय इति चेत्, एवमेतत्, तथापि–इह समानैकत्वपरिणामातिशययोः प्रकृतत्वात् समानपरिणामात् इतरः एकत्वपरिणाम एव उच्यते । तस्मिन् “सत्यपि एकत्वं तदतत्परिणामित्वात् ।” सदृशपरिणामलक्षणसामान्यात्मकत्वाद् ““अन्वयि”” इति सम्बन्धः । नहि तथाऽपरिणतम्1790 अपेक्षातः तद् भवति विप्रतिषेधात्, अन्यथा स्वयममूर्त्तमपि ज्ञानं ज्ञानान्तरात् अमूर्त्तात् व्यवर्त्तमान मूर्त्तं स्यात् । ननु च विचार्यमाणस्य तदतत्परिणामिनः सदृशपरिणामलक्षणसामान्यस्य चानुपपत्तेः अभिमतरूपवद् अनभिमतरूपेणापि1791 प्रसङ्गाच्च अयुक्तम्–“एकत्व”मित्यादि, इति चेदत्राह–““तथा”” इत्यादि । “तथा” तदतिशयप्रकारेण यौ “सङ्कर-व्यतिकरौ” तयोः “व्यतिरेकाद्” अभावाद् “अन्वयिनोः” तदतत्परिणामिसामान्ययोः “अस्खलत्समानैकप्रत्ययविषयत्वम्” साकल्येन नानैकसन्तानात्मस्वभावम् “अनुमिमीमहे” अनुमानेन प्रतिपद्यामहे “अनुमाननिमित्तस्य उक्ततर्कस्य प्रविजृम्भणात्” इत्यभिप्रायः ।

यदि वा वैशेषिकादिराह–पुरुषत्वमपेक्ष्य समानपरिणामातिशयो नानात्मसु, बुद्ध्यादिगुणसमवायित्वमपेक्ष्य1792 एकात्मनि एकत्वपरिणामातिशयो न परमार्थतः इति; तत्राह–““पुरुषत्वादेः”” इत्यादि । “पुरुषत्वम् आदि”र्यस्य बुद्ध्यादिसमवायित्व-त्रिगुणसंयोगित्वादेः स तथोक्तः तस्य या “अपेक्षा” ततः “सत्यपि समानेतरपरिणामातिशये ।” केषाम् ? इत्याह–“नानैकसन्तानात्मनाम्1793 ।” नाना एकसन्तानाश्च ते आत्मानश्च तेषाम् इति, शेषं पूर्ववत् । ननु1794 भवतु आत्मना समानैकत्वपरिणामः न घटादीनां तत्र समानपरिणामस्यैव सम्भवात् इत्याशङ्क्याह–““तथाहि”” इत्यादि । “तथाहि”1795 तेन अस्खलत्समानैकप्रत्ययविषयत्वप्रकारेण च “स्कन्धो” घटाद्यवयवी, स किम् ? इत्याह–“एकत्वम् ।” केषाम् ? इत्याह–““स्व”” इत्यादि । “स्व”शब्देन स्कन्धः परामृश्यते तस्य ये “गुणा” रूपादयः ये च “पर्याया” नवपुराणादयः तेषाम् “एकत्वम्” न समानपरिणामः “अस्खलदेकप्रत्ययविषयत्वात्” इति भावः । ननु भिन्नसन्तानात्मनामिव एकसन्तानात्मनामपि1796 समानपरिणाम एवास्तु इति सौगतः । तत्राह–““पुरुषश्च”” इति । न केवलं स्कन्धः किन्तु “पुरुषोऽपि “स्वगुणपर्यायाणामेकत्वम्”” इति सम्बन्धः । ननु1797 यथा क्रमभाविनां सुखादीनामेकत्वं पुरुषः तथा युगपद्भाविनामात्मनाम् एकत्वं सोऽस्तु1798 इति चेदत्राह–““समान”” इत्यादि । “अपि”शब्द एवकारार्थः । “समानपरिणाम” एव “सकलपदार्थगः1799 नैकत्वं” सकलपदार्थगम् “पुरुषस्य” इति विभक्तिपरिणामेन सम्बन्धः । अनेन ““तथाभाव”” इत्यादि समर्थितम्, ““द्रव्यमेकान्वयानुगम्””1800 इति कारिकापादश्च व्याख्यातः । “निश्चयनयाद्”1801 द्रव्यार्थिकनयाद् “एकः” अभिन्नः “जीवः” सर्वोऽपि सर्वसाधारणचेतनापरिणामापेक्षया । स एव द्विविधो व्यहारनयात् इति दर्शयन्नाह–““कर्म”” इत्यादि । “कर्मणा” ज्ञानावरणीयादिना “निर्मुक्तो” रहितो जीवः, “सकर्मकश्च ।” कुतः ? “व्यवहारनयात्” पर्यायार्थिकनयात् । एवमेकेन्द्रियादिभेदोऽपि1802 चिन्त्यः । अनेन द्वितीयकारिकाया उत्तरार्द्धं व्याख्यातम् ।

पर्यायं कथयन्नाह–““पर्यायः”” इत्यादि । “पर्यायः”1803 कः ? इत्याह–“पृथक्त्वं व्यतिरेकश्च ।” तत्र पृथक्त्वपदं व्याचष्टे–“पृथक्त्वम्, एकत्र” एकस्मिन् “द्रव्ये गुणकर्मसामान्यविशेषाणां” परस्परपरिहारेण कथञ्चित्1804 अवस्थानम् इत्यर्थः । व्यतिरेकपदं विवृणोति–“व्यतिरेको” व्यावृत्तिः । कः ? इत्याह–“सन्तानान्तरगतो विसदृशपरिणामः” गोमहिष्यादिपरिणामः1805 । तत्र जीवगतपर्यायान् दर्शयन्नाह–““व्यवहार”” इत्यादि । “व्यवहारपर्यायाः” पर्यायार्थिकनयपर्यायाः इत्यर्थः । के ? “क्रोधादयः” कादाचित्कत्वात् । किंविशिष्टस्य “जीवस्य” ते पर्यायाः ? इत्याह–“संसारिणः ।” मुक्तस्य के पर्यायाः ? इत्याह–““निश्चय”” इत्यादि । “निश्चयपर्यायाः” द्रव्यार्थिकगोचराः पर्यायाः “शुद्धस्य “जीवस्य”” इति सम्बन्धः । के ते ? “ज्ञानादयः” अकादाचित्कत्वात् । कथम्भूतास्ते ? ““ते च”” इत्याह इत्याह “ते च” “प्रतिक्षणम् आत्मसात्कृतानन्तभेदाः ।” न केवलं द्रव्यार्थिकनयाज्जीवस्यैव अभेदः अपि तु पुद्गलद्रव्यस्यापि इत्याह–““निश्चय”” इत्यादि । “निश्चयनयात्” द्रव्यार्थिकनयात् “पुद्गलद्रव्यम् एकम्” अभिन्नम् । कस्मिन् सत्यपि ? इत्याह– “पृथिव्यादिभेदेऽपि ।” किं कुर्वत्तदेकम् ? इत्याह–““रूप”” इत्यादि । “अजहत्” अपरित्यजत्, किम् ? इत्याह–“रूपरसगन्धस्पर्शवत्त्वम्” रूपरसगन्धस्पर्शवन्तः पुद्गलाः1806 [तत्त्वार्थसू॰ ५ । २३] इत्यभिधानात् । कथम्भूतं तत् ? इत्याह–“आविर्भूतानाविर्भूतस्वरूपम् ।” पृथिव्यां तद्1807 आविर्भूतस्वरूपं जलादौ अनाविर्भूतस्वरूपम्, जले गन्धस्य अनले गन्धरसयोः अनिले रूपरसगन्धानामनाविर्भावात् ।

ननु1808 जलादौ गन्धादिसद्भावे प्रमाणतः सिद्धे अनाविर्भावो युक्तः, अन्यथा सर्वस्य सर्वत्राऽनाविर्भावप्रसङ्गात् साङ्ख्यदर्शनप्रतिप्रसङ्गः स्यात् इति चेत्; उच्यते–जलादयो1809 गन्धादिमन्तः, स्पर्शवत्त्वात्, यदित्थं तदित्थं यथा पृथिवी, स्पर्शादिमन्तश्चैते, तस्माद्गन्धादिमन्त इति । यत् पुनः गन्धादिमन्न भवति न तत् स्पर्शवत् यथा आत्मादि, इत्यादि षट्पदार्थपरीक्षायां पृथिव्यादीनामतत्त्वान्तरभावसमर्थनावसरे1810 प्रपञ्चतः प्ररूपितमिहावगन्तव्यम् । पुनरपि किं कुर्वत् ? इत्यत्राह–““स्कन्ध”” इत्यादि । “स्कन्धा”श्च घटादयः “परमाणवः” अत्यन्तसूक्ष्माः पुद्गलाः त एव “पर्यायाः” परस्परतः प्रादुर्भावात्, परमाणुभ्यो हि स्कन्धाः प्रादुर्भवन्ति तेभ्यश्च परमाणव इति, तेषां “भेदेपि रूपादिमत्त्वमपरित्यजदेकं ।” दृष्टान्तार्थमेतत्, ततो यथा तत् परमाणुरूपं स्कन्धीभवत् स्कन्धस्वभावं वा परमाणुरूपतामादधत् रूपादिमत्त्वमपरित्यजत् एकं तथा प्रकृतमपि इति । एतदेव दर्शयन्नाह–““नहि”” इत्यादि । “हि”र्यस्मात् “न अवस्था” च “देशश्च कालश्च संस्कारश्च” ते “मूर्त्तत्वं” रूपादिमत्त्वम् रूपादिमयी मूर्त्तिः1811 [ ] इत्यभिधानात् । “अत्यन्तं” सुष्ठु “भिन्दन्ति” “पृथिव्यादिभेदस्य स्कन्धपरमाणुपर्यायभेदस्य च”1812 इति सम्बन्धः । कुत एतत् ? इत्याह–““अमूर्त्त”” इत्यादि । “अमूर्त्तो” रूपादिरहितो यो “भेदः” व्यक्तिविशेषः तस्य “प्रसङ्गात्” । यथा च अवस्थादयो न रूपादिमत्त्वमत्यन्तं भिन्दन्ति, तथा “सत्ताभेदाश्च” 1813 जीवादयः सत्ताम् ““अत्यन्त न भिन्दन्ति”” इति सम्बन्धः । असद्भेदप्रसङ्गात्1814 इत्युक्तप्रायं ““जीवाजीवप्रभेदा यदन्तर्लीनाः”” [लघी॰ का॰ ३१] इत्यत्र, “नेह” पुनरुच्यते । ननु44 जीवादिद्रव्यस्य सत्तादिसामान्यस्य वा कस्यचिदसम्भवात् ““निश्चयनयादेको जीवः”” इत्याद्ययुक्तम्, तत्सम्भवे1815 च अवस्थादिभेदेन विरुद्धधर्माध्यासतः प्रतिक्षणं भेदप्रसङ्गान्न तदेकत्वम् इत्याशङ्क्याह–““भेद”” इत्यादि । ये विरुद्धधर्माध्यासतः सर्वथा वस्तुनो “भेदं वदन्ति” सौगताः तेऽपि “कथं” नैव “निराकुर्युः” ? किं तत् ? “ज्ञानम्,”1816 कथम्भूतम् ? “एकम् ।” किं कुर्वत् ? “स्वयम्” आत्मनोऽ“नेकाकारं” नीलपीतादिविचित्राकारं ग्राह्यग्राहकाकारविविक्तेतररूपतया प्रत्यक्षपरोक्षाकारं वा “आत्मसात्कुर्वत् ।” कदा ? “एकस्मिन् क्षणे ।” तन्निराकरणे सकलशून्यता स्यात् । सा1817 च प्रत्यक्षपरिच्छेदे1818 प्रपञ्चतः प्रतिक्षिप्ता इत्यलं पुन प्रसङ्गेन । ततो यथा विरुद्धधर्माध्यासेऽपि एकमेकदा ज्ञानमविरुद्धं तथा क्रमेण1819 जीवादिद्रव्यमपि इति ।

उक्तार्थोपसंहारमाह–““तत”” इत्यादि । यत उक्तप्रकारेण जीवादि सुखादिपर्यायात्मक व्यवस्थितं “ततः तीर्थकरस्य” भवावतोऽर्हतो “वचनं” स्याद्वादप्रवचनं1820 तस्य विषयभूताः, श्रुतभेदत्वात् नयानाम्, ये “सङ्ग्रहविशेषाः” सङ्ग्रहश्च विशेषाश्च व्यवहारादिनयभेदाः तेषा “प्रस्तारस्य”1821 प्रपञ्चप्ररूपणस्य “मूलव्याकारिणौ” आद्यौ उत्पादकौ “निश्चेतव्यौ ।” कौ ? इत्याह–“द्रव्यार्थिक-पर्यायार्थिकौ ।” अन्यः कुतो नेति चेत् ? अत्राह–““नहि”” इत्यादि । “हि”र्यस्मात् “न तृतीयं प्रकारान्तरं” नयान्तर“मस्ति” । कुत एतत् ? इत्यत्राह– ““तस्य”” इत्यादि । “तस्य” तदन्तरस्य “प्रमाणे एव” न नये “अन्तर्भावात् “न तदस्ति”” इति सम्बन्धः । प्रधानभूतान्योन्यात्मकसामान्यविशेषविषयाभिस1822न्धेः1823 प्रमाणत्वात् । नैगमोऽपि तर्हि प्रमाण स्यात् इति1824 चेदत्राह–““न”” इत्यादि । “न प्रमाणता,” कस्य ? “नैगमस्य ।” कुत एतत् ? इत्याह–““तादात्म्य”” इत्यादि । “तादात्म्येन” प्रमाणस्वभावत्वेन विवक्षायाः अभावात्, नयत्वेन विवक्षासद्भावात् इत्यर्थः । एतदपि कुतः इत्यत्राह–

गुणप्रधानभावेन1825 धर्मयोरेकधर्मिणि ।
विवक्षा नैगमोऽत्यन्तभेदोक्तिः स्यात्तदाकृतिः ॥ ६८ ॥

विवृतिः–जीवः सन्नमूर्त्तः कर्त्ता सूक्ष्मो ज्ञाता द्रष्टाऽसङ्ख्यातप्रदेशो भोक्ता परिणामी1826 नित्यः पृथिव्यादिभूतविलक्षणः1827 इति प्रधानवृत्त्या जीवस्वत्तत्त्वनिरूपणायां गुणीभूताः सुखादयः । सुखादिस्वरूपनिरूपणायां वा आत्मा । तदत्यन्तभेदाभिसन्धिः नैगमाभासः । गुणगुणिनाम् अवयव्यवयवानां क्रियाकारकाणां जातितद्वतां चेत्यादि तादात्म्यमविवक्षित्वा गुणगुणिनोः धर्मिधर्मयोर्वा गुणप्रधानभावेन विवक्षा नैगमे,1828 सङ्ग्रहादौ एकविवक्षेति भेदः ।

कारिकाव्याख्या–

“गुणप्रधानभावेन” मुख्यामुख्यरूपता “धर्मयोः एकस्मिन् धर्मिणि विवक्षा” प्रतिपत्तुरभिसन्धिः1829 “नैगमः” स कथं प्रधानभूतोभयधर्मस्वभावधर्मिविषयप्रमाणरूपतां1830 प्रतिपद्येत1831 ? तदाभासमाह–“अत्यन्तभेदोक्तिः “धर्मयोः एकधर्मिणि”” इति सम्बन्धः, “स्यात् तदाकृतिः” नैगमाभासो भवेत् ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–“जीवः सन्नमूर्त्तः सूक्ष्मो ज्ञाता द्रष्टा कर्त्ताऽसङ्ख्यातप्रदेशी भोक्ता परिणामी नित्यः पृथिव्यादिभूतविलक्षणः” एवं प्रधानवृत्त्या “जीवस्वतत्त्वनिरूपणायां” जीवस्वरूपप्ररूपणायां क्रियमाणायां “गुणीभूताः सुखादयो धर्माः ।” आह्लादनाकारं1832 सुखं तद्विपरीतस्वरूपं दुःखं स्वार्थग्रहणस्वभावं ज्ञानम् इत्येवं मुख्यतः “सुखादिस्वरूपनिरूपणायां वा1833 आत्मा” “गुणीभूतः” इति सम्बन्धः । नैगमाभासं प्ररूपयन्नाह–““तद्”” इत्यादि । “तयोः” सुखाद्यात्मनोः “अत्यन्तभेदाभिसन्धिः1834 नैगमाभासः ।” उदाहरणमाह–“गुणगुणिनाम् अवयवावयविनां जातितद्वतां चेत्यादि1835 । “अत्यन्तभेदाभिसन्धिर्नैगमाभासः”” इति सम्बन्धः । अनेन कापिलीयोऽपि चैतन्यसुखाद्योरत्यन्तभेदाभिसन्धिः चिन्तितः । कुतोऽसौ नैगमाभासः ? इत्यत्राह–““तादात्म्यम्”” इत्यादि । यतोऽसौ धर्मधर्मिणोस्तदात्म्यं सदपि अविवक्षित्वा स्वदुरागमवासनाविपर्यासितमतेः प्रतिपत्तुः प्रवर्त्तते ततोऽसौ नैगमाभासः इति । “धर्मधर्मिणोः” इत्युपलक्षणार्थमेतत्, तेन अवयवावयविनोः क्रियाकारकयोः जातितद्वतोश्च ग्रहणम् । धर्मयोर्वा “गुणप्रधानभावेन विवक्षा नैगमे”1836 यतः ततोऽत्यन्तभेदविवक्षा तदाभास इत्यभिप्रायः । सङ्ग्रहादेरतः कुतो भेदः ? इत्यत्राह–““सङ्ग्रह”” इत्यादि । “सङ्ग्रहः आदिर्”यस्य व्यवहारादेः स तथोक्तः तत्र “एकस्य” गुणादेः गुण्यादेर्वा “विवक्षा इति” हेतोः “भेदः नैगमात्” सङ्ग्रहादेः इति ।

तत्र सङ्ग्रहस्वरूपं सप्रतिपक्षं दर्शयन्नाह–

सदभेदात्1837 समस्तैक्यसङ्ग्रहात् सङ्ग्रहो नयः ।
दुर्नयो ब्रह्मवादः स्यात् तत्स्वरूपानवाप्तितः ॥ ६९ ॥

विवृतिः-सर्वमेकं सदविशेषात् इति सङ्ग्रहो नयः । तदाभासो ब्रह्मवादः तदभ्युपगमोपायाभावात् । नापि तस्योपेयत्वं1838 खरविषाणवत् ।

कारिकार्थ–

“समस्तस्य” जीवाजीवविशेषप्रपञ्चस्य “ऐक्येन1839 सङ्ग्रहात्” कारणात् “सङ्ग्रहो नयः” “प्रवर्त्तते” इत्युपस्कारः । कुतः समस्तैक्यसङ्ग्रहः इत्याह–“सदभेदात् ।” ब्रह्मवादोऽपि सदभेदमाश्रित्य समस्तैक्यं सङ्गृहाति इति सोऽपि सङ्ग्रहः स्यादित्यत्राह–““दुर्नय””1840 इत्यादि । “दुर्नयः” सङ्ग्रहाभासो “ब्रह्मवादः स्यात् ।” कुत एतत् ? इत्यत्राह–““तद्”” इत्यादि । “तस्य” ब्रह्मणः “यत्स्वरूपं” निराकृतसकलभेदप्रपञ्चं सत्तामात्रं तस्य “अनवाप्तितः” प्राप्तेरभावात् ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““सर्वम्”” इत्यादि “सर्वं” चेतनाचेतनरूपं वस्तुजातम् “एकं सदविशेषात् इति” एवं “सङ्ग्रहनयः” प्रवर्त्तते । “तदाभासः” सङ्ग्रहाभासः “ब्रह्मवादः ।” कुत एतत् ? इत्यात्राह–““तत्”” इत्यादि । “तदभ्युपगमस्य” ब्रह्मवादस्वीकारस्य “उपायाभावात्” प्रमाणाभावात् । प्रमाणमूलो हि अभ्युपगमः सत्यः इत्यभिप्रायः । दोषान्तरमाह–““नापि”” इत्यादि । “नापि तस्य” ब्रह्मणः “उपेयत्वं” स्वीकरणीयत्वम् ““उपायाभावात्”” इत्यभिसम्बन्धः । यस्य उपायामावो न तदुषेयम् यथा “खरविषाणम्,” उपायाभावश्च ब्रह्मणः इति । यथा चास्य न कश्चिदुपायो घटते तथा ब्रह्माद्वैतनिषेधावसरे1841 व्यासतः चिन्तितम् ।

व्यवहारनयं दर्शयन्नाह–

व्यवहारानुकूल्यात्तु1842 प्रमाणानां प्रमाणता ।
नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसङ्गतः ॥ ७० ॥

विवृतिः–प्रमाणानां प्रामाण्यं व्यवहाराविसंवादात् इति आकुमारं प्रसिद्धम्, अन्यथा संशयविपर्यासस्वप्नज्ञानादीनामपि प्रामाण्यमनिवार्यं स्यात् । प्रत्यक्षं सविकल्पकं प्रमाणं व्यवहाराविसंवादात् । उत्पादविगमध्रौव्यलणं सत् गुणपर्ययवद्द्रव्यम् जीवश्चैतन्यस्वभावः इत्यादि श्रुतज्ञानस्य1843 प्रमाणान्तराबाधन-पूर्वापराविरोधलक्षणसंवादसम्भवात् प्रामाण्यम्, अर्थाभिधानप्रत्ययात्मकव्यवहारानुकूल्याच्च1844 । बहिरर्थविज्ञप्तिमात्रशून्यवचसां1845 व्यवहारविरोधित्वात् दुर्नयत्वम् ।

कारिकार्थ–

“प्रमाणानाम्” अध्यक्षादीनां या “प्रमाणता” सौगतादिभिरिष्यते सा “व्यवहारानुकूल्या”देव उपपन्ना “नान्यथा, अन्यथा”1846 व्यवहारप्रातिकूल्यप्रकारेण “न,” कुत एतत् ? इत्यत्राह–““बाध्यमान”” इत्यादि । “बाध्यमानानां” व्यवहारानधिरूढप्रातीतिकद्विचन्द्रसकलशून्यताद्यर्थविषय“ज्ञानानां तत्प्रसङ्गतः” प्रमाणताप्रसङ्गतः ।

विवृतिव्याख्यानम्–

कारिकां व्याख्यातुमाह–““प्रमाणानाम्”” इत्यादि । “प्रमाणानां” प्रत्यक्षादीनां “प्रामाण्यम्” अमिथ्यात्वम् इष्टानिष्टप्राप्तिपरिहारलक्षण“व्यवहाराविसंवादात्, इत्ये”तत् “आकुमारम्”1847 आबालं “प्रसिद्धम् । अन्यथा” व्यवहाराविसंवादाभावप्रकारेण तत्प्रामाण्ये “संशयविपर्यासस्वप्नज्ञानादीनामपि प्रामाण्यमनिवार्यं स्यात् ।” तदविसंवादाच्च1848 तत्प्रामाण्ये यत् परेषां1849 निर्विकल्पकं प्रत्यक्षं तदप्रमाणं व्यवहाराविसंवादाभावात् इति मन्यमानः प्राहः–““प्रत्यक्षम्”” इत्यादि । “प्रत्यक्षं सविकल्पकम् प्रमाणं “स्यात्”” इत्यनेन सम्बन्धः । कुत एतत् ? इत्यत्राह–“व्यवहाराविसंवादात्1850 ।” न पुनः निर्विकल्पकं तद्विपर्ययात् इति भावः । साम्प्रतं श्रुतस्य तत एव प्रामाण्यं दर्शयन्नाह–““उत्पाद”” इत्यादि । “उत्पादविगमध्रौव्याणि1851 लक्षणं” स्वरूपं यस्य तदेतल्लक्षणं जीवादिवस्तु “सद्” भवति, “गुणपर्ययवद्रव्यं1852 जीवश्चैतन्यस्वभावः इत्येवमादिश्रुतज्ञानस्य” अस्पष्टतर्कणस्य ““प्रामाण्यं स्यात्”” इति गतेन सम्बन्धः । कुत एतत् ? इत्यत्राह–““प्रमाणान्तर”” इत्यादि । श्रुतात् अन्यत् प्रत्यक्षादि “प्रमाणान्तरं” तेन “अबाधनञ्च पूर्वापरयोः” श्रुतवाक्ययोः “अविरोध”श्च लक्षणं यस्य “संवादस्य”1853 तस्य तत्र “सम्भवात् ।” अत्रैवार्थे हेत्वन्तरमाह–““अर्थ”” इत्यादि । “अर्थो” जीवादिः “अभिधानं” जीवादिशब्दः “प्रत्ययः” तद्विषयो ज्ञानं ते “आत्मा” यस्य “व्यवहारस्य” तस्या“नुकूल्याच्च” हेतोः श्रुतज्ञानस्य ““प्रामाण्यम्”” इति सम्बन्धः । व्यवहारदुर्नयं दर्शयन्नाह–““बहिरर्थ”” इत्यादि । “बहिरर्थश्च विज्ञप्तिमात्रञ्च” ताभ्यां “शून्यं” तत्प्रतिपादक“वचसां दुर्नयत्वम् ।” बहिरर्थशून्यवचसां विज्ञप्तिमात्राद्यद्वैतप्रतिपादकवचसां तन्मात्रशून्यवचसां सकलशून्यताप्रतिपादकवचसामिति । कुतः तेषां दुर्नयत्वम् ? इत्यत्राह–““व्यवहारविरोधित्वात्”” इति । नहि तद्वचस्सु इष्टानिष्टप्राप्तिपरिहारादिलक्षणव्यवहारस्य अविरोधो युक्तः प्रमाणप्रमेयसद्भावे सत्येव अस्याऽविरोधात्1854 । ऋजुसूत्रनयं दर्शयन्नाह–

भेदं1855 प्राधान्यतोऽन्विच्छन् ऋजुसूत्रनयो मतः ।
सर्वथैकत्वविक्षेपी तदाभासस्त्वलौकिकः ॥ ७१ ॥

विवृतिः–बहिरणवः सञ्चिताः1856 स्थूलमेकाकारप्रत्ययमभूतं यथा दर्शयन्ति तद्वत् संवित्परमाणवोऽपि चित्राकारमेकम् । ततो नैकमनेकरूपं तत्त्वमक्रमं यत् सक्रमं साधयेत् भेदस्याभेदविरोधात्, अन्यथा क्वचिन्नानात्मेव न स्यात् । सापेक्षो नयः निरपेक्षो दुर्नयः । प्रतिभासभेदात् स्वभावभेदं व्यवस्थापयन् तदभेदादभेदं प्रतिपद्यत एव विशेषाभावात्, तदन्यतरापाये अर्थस्याऽनुपपत्तेः ।

कारिकार्यः–

सर्वस्य सर्वतो “भेदं प्राधान्यतोऽन्विच्छन्” ऋजु1857 प्राञ्जल वर्त्तमानपर्यायमात्रं सूत्रयति प्ररूपयति इति “ऋजुसूत्रः नयो मतः ।” प्रधानशब्दस्य1858 च सम्बन्धिशब्दत्वात् द्रव्यं तस्य अप्रधानम् । तदाभासमाह– ““सर्वथा”” इत्यादि । “सर्वथा” गुणप्रधानभावाभावप्रकारेण “एकत्वविक्षेपी” एकत्वनिराकारकः “तदाभासः” ऋजुसूत्राभासः । “तुः” यस्मादर्थे, यस्माद“लौकिकः” लोकव्यवहारातिक्रान्तोऽयमीदृशो भेदाभ्युपगमः1859 । न खलु सर्वथैकत्वप्रतिक्षेपेण स्थासकोशकुशूलादौ बालकुमारादौ वा भेदव्यवहारो लोके प्रसिद्धः ।

विवृतिव्याख्यानम्–

कारिकां विवृण्वन्नाह–““बहिः”” इत्यादि । “बहिरणवः दर्शयन्ति” जनयन्ति1860 “स्थूलमेकाकारप्रत्ययम्,” किंविशिष्टम् ? “अभूतम्” अपरमार्थविषयम् । कथम्भूतास्ते ? “सञ्चिताः” पुञ्जीभूताः । एवविधास्ते “यथा” येन प्रकारेण तथा विधं1861 प्रत्ययं दर्शयन्ति “तद्वत् संवित्परमाणवोऽपि,” कथम्भूतम् ? “चित्राकारम्,” नीलादिग्राह्याद्यनेकाकार“मेकम्” अत एव “अभूतम् ।” उपसंहारमाह–““ततः”” इत्यादि । यस्मादेकाकारप्रत्ययस्य अपरमार्थविषयत्वं “ततो नैकम”भिन्नस्वभावं “तत्त्वं” जीवादिवस्तु “अक्रमं” युगपद् “अनेकरूपम्” “युक्तम्” इत्युपस्कारः । “यत् सक्रमं” क्रमवत् सुखादिभेदभिन्नम् आत्मानं “साधयेत् । “यत्”” इत्याक्षेपे वा नैव साधयेत् । कुत एतत् ? इत्यत्राह–““भेदस्य”” इत्यादि । “भेदस्य” नानात्वस्य “अभेदेन” एकत्वेन “विरोधात् ।” विपक्षे बाधकमाह–““अन्यथा”” इत्यादि । “अन्यथा” अन्येन तदविरोधप्रकारेण “क्वचिद्” घटपटादौ “नानात्वमेव न स्यात्” इति । अस्याभिसन्धेर्नयत्वं दुर्नयत्वञ्च दर्शयन्नाह–““सापेक्ष”” इत्यादि । सह प्रत्यनीकधर्मापेक्षया वर्त्तते इति “सापेक्षः नयः ।” अपेक्षातो निष्क्रान्तः निरस्ता वा अपेक्षा येनासौ “निरपेक्षः दुर्नयः ।” ननु प्रमाणाभावेन अभेदस्य क्वचिदनुपपत्तेः कथं तदपेक्षो नयः स्यात् ? इत्यत्राह–““प्रतिभास”” इत्यादि । “प्रतिभासस्य” प्रत्यक्षादिसंवेदनाकारस्य “भेदात्1862 स्वभावभेदं” चेतनेतरस्वरूपनानात्वं “व्यवस्थापयन्”1863 सौगतः “तदभेदात्” प्रतिभासाभेदात्1864 “अभेदं प्रतिपद्यत एव” विशेषाभावात् । एतच्च ““अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः”” [लघी॰ का॰ ८] इत्यत्र सप्रपञ्चं प्रपञ्चितम् । अत्रैवार्थे समर्थनान्तरमाह–““तद्”” इत्यादि । “तयोः” भेदाभेदयोर्मध्ये “अन्यतरस्य” भेदस्य अभेदस्य वा “अपाये अर्थस्य” उत्तरकार्यस्य संवेदनस्य1865 “वाऽनुपपत्तेः, सापेक्षो नयः निरपेक्षो दुर्नय” इति ।

अथ सप्तनयेषु मध्ये के अर्थप्रधानाः के च शब्दप्रधानाः ? इत्याह–

चत्त्वारोऽर्थनया1866 ह्येते जीवाद्यर्थव्यपाश्रयात् ।
त्रयः शब्दनयाः सत्यपदविद्यां1867 समाश्रिताः ॥ ७२ ॥

विवृतिः–कालकारकलिङ्गभेदात् शब्दः अर्थभेदकृत् अभूत् भवति भवि ष्यति, करोति क्रियते, देवदत्तो देवदत्ता इति । पर्यायभेदाद् अभिरूढोऽर्थभेदकृत् इन्द्रः शक्रः पुरन्दर इति । क्रियाश्रयः एवम्भूतः । कुर्वत एव कारकत्वम् । यदा न करोति तदा कर्त्तृत्वस्य अयोगात् इति । कथं पुनः शब्दज्ञानं विवक्षव्यतिरिक्तमर्थं प्रत्येति ? कथं च न ? तदप्रतिबन्धात् । “नहि बुद्धेरकारणं विषयः” इत्येतत् प्रतिव्यूढम्; विज्ञानस्य अनागतनिर्णयात् । कृत्तिकोदयदर्शने शकटोदयो भविष्यति बुद्धिरविसंवादिनी, आदित्यः श्व उदेता, सूर्याचन्द्रमसोः ग्रहणं भविष्यति, तन्तवः पटो भविष्यन्ति, मृत्पिण्डो घटो भविष्यति, तन्दुला भविष्यन्त्योदनम्, ब्रीहयः तन्दुला भविष्यन्ति, इत्याद्यनागतविषयाणाम् अविसंवादिनाम् आनन्त्यात् । ततः शब्दज्ञानमपि विवक्षाव्यतिरिक्तार्थग्राहि सिद्धं प्रतिबन्धमन्तरेणापि तत्प्रतिपादनस्वाभाव्यात् विज्ञानवदिति । वर्त्तनालक्षणः कालः, क्रियाविष्टं द्रव्यं कारकम्, स्त्यान-प्रसव-तदुभयाभावसामान्यलक्षणं लिङ्गम्, कथञ्चिद् वस्तुस्वभावभेदकं तथाप्रतीतेः । पर्यायोऽपि अर्थभेदकृत् । क्रियाभेदात् एकोऽपि शब्दः क्रियानिमित्तकव्युत्पत्तिः तदभावात् तदर्थं नाचष्टे इति परमैश्वर्यमनुभवन्नेव इन्द्रः नान्यदा, ततः सिद्धः क्रियाभेदः पाचकपाठकादिवत् । नहि वर्णपदवाक्यानां व्युत्पादकं शास्त्रं वितथम् परमार्थशब्दप्राप्त्युपायकृत् ज्ञातुरभिप्रायात्मकनयवत् । व्यावहारिकप्रकृत्यादिप्रक्रियार्प्रविभागेन1868 यथा पारमार्थिकादनेकान्तात्मकादर्थादपोद्धृत्य तदंशमेकान्तं व्यावहारिकं तत्प्रतिपत्त्युपायं प्रकाशयन् नयः न मिथ्यात्वमनुभवेत्, निरपेक्षस्यैव मिथ्यात्वात् । अनेकान्तनिराकृतेः निरपेक्षत्वम् तदनिराकृतेः सापेक्षत्वं नान्यथा नयानां सम्यक्त्वमिथ्यात्वे इति स्थितम् ।

कारिकार्थ–

“चत्त्वार एते” नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्राख्या व्याख्यातस्वरूपा “हि” स्फुटम् “अर्थनया” एव अर्थप्रधाननया “अर्थनयाः” । कुतः ? इत्याह– “जीवाद्यर्थव्यपाश्रयात्” जीवाद्यर्थसमाश्रयणात्1869 । “त्रयः” शब्दसमभिरूढैवम्भूताः “शब्दनयाः” शब्दप्रधाना नयाः “शब्दनयाः1870 ।” कुतस्ते तथाविधाः ? इत्याह–““सत्य”” इत्यादि । “सत्यानि” अवितथानि अपशब्दस्वरूपरहितानि यानि “पदानि” कालकारकादिभेदवाचीनि तेषां “विद्या” व्याकरणं यत्र तानि व्युत्पाद्यन्ते तां “समाश्रिताः” यतः ततः ते शब्दप्रधानाः ।

विवृतिव्याख्यानम्–

कारिकापूर्वार्द्धस्य अनन्तरमेव व्याख्यातत्वात् उत्तरार्द्धं विवृण्वन्नाह–““काल”” इत्यादि । “शब्दः” शब्दनय “अर्थभेदकृत् ।” कुतः ? “कालकारकलिङ्गभेदात् । “यथा”” इत्यादिना एतदेव दर्शयति । तत्र कालभेदाद् “अभूत् भवति भविष्यति ।” कारकभेदात् “करोति क्रियते ।” लिङ्गभेदात् “देवदत्तो देवदत्ता इति । पर्यायभेदादभिरूढोऽर्थभेदकृत् इन्द्रः शक्रः पुरन्दर” इति । “क्रिया श्रयः एवम्भूतः ।” कुत एतत् ? इत्याह–““कुर्वतः”” इत्यादि । शचीपतेः इन्दनादिक्रियां “कुर्वत एव कारकत्वम्, यदा न करोति तदा कर्त्तृत्वस्याऽयोगात्” इति । परः44 प्राह– ““कथम्”” इत्यादि । “कथम्” ? न कथञ्चित्, ““पुनः”” इत्याक्षेपे, “शब्दज्ञानं” शब्दस्य कार्य यदर्थज्ञानं तत् “विवक्षाव्यतिरिक्तमर्थं” बहिःस्वलक्षणं “प्रत्येति” विषयीकरोति । सूरिः परं पृच्छति–““कथञ्च न”” इति । स पृष्टः प्राह–“तदप्रतिबन्धात् । तस्मिन्” अर्थे “अप्रतिबन्धात्” तादात्म्यत्तदुत्पत्तिलक्षणसम्बन्धासम्भवात् शब्दज्ञानस्य । तदप्रतिबन्धेऽपि तत्18711872 तमवेवैति1873 इति चेदत्राह–““नहि”” इत्यादि । “हि”र्यस्मात् “न बुद्धेः अकारणं” किन्तु1874 कारणं “विषयः इत्येतत् प्रतिव्यूढम् ।” कुत एतत् ? इत्यत्राह–“विज्ञानस्य अनागतनिर्णयात् । अनागतस्य” अलब्धात्मलाभतया अकारणभूतस्य अर्थस्य “निर्णयात्” निर्णयसम्भवात् । तथाहि–“कृत्तिकोदयदर्शने शकटोदयो1875 भविष्यति बुद्धिरविसंवादिनी,” एवम् “आदित्यः श्व उदेता, सूर्याचन्द्रमसोर्ग्रहणं भविष्यति, तन्तवः पटो भविष्यन्ति, मृत्पिण्डो घटो भविष्यति, तन्दुलाः भविष्यन्त्योदनः, ब्रीहयः तन्दुला भविष्यन्ति इत्याद्यनागतविषयाणामविसंवादिनां ज्ञानानामानन्त्यात् । “ततः”” इत्यादिना प्रकृतमर्थमुपसंहरन्नाह–यतः अनागतविषयत्वं ज्ञानस्य सिद्धं “ततः शब्दज्ञानमपि” न केवलं प्रत्यक्षानुमानज्ञानम् “विवक्षाव्यतिरिक्तार्थग्राहि सिद्धम् ।” ननु शब्दस्य अर्थप्रतिबन्धाभावात्1876 कथं तज्ज्ञानम्1872 अर्थग्राहि ? इत्यत्राह–““प्रतिबन्ध”” इत्यादि । “प्रतिबन्धमन्तरेणापि” तादात्म्यतदुत्पत्तिसम्बन्धं विनापि “तस्य” शब्दस्य यत् “प्रतिपादकं स्वाभाव्यं” योग्यतालक्षणं स्वरूपं तस्मात् तत्1872 तद्ग्राहि सिद्धम् । अत्र दृष्टान्तमाह–““विज्ञानवत्”” इति । शब्दज्ञानस्य दार्ष्टान्तिकत्वात् इह विज्ञानग्रहणेन यत् प्राग् अर्थाजन्यतया समर्थितं प्रत्यक्षं1877 तदेव गृह्यते, तदिव तद्वदिति ।

ननु कालादिभेदात् शब्दनयस्य अर्थभेदकत्वं प्रतिपादितम्, कालादीनां तु लक्षणं नोक्तम्, नचालक्षितरूपाणाम्1878 अर्थभेदप्रतीतिहेतुत्वं1879 युक्तम् अतिप्रसङ्गात् इत्याशङ्क्य तेषां लक्षणं प्ररूपयन्नाह–““वर्त्तना”” इत्यादि । सकलपदार्थानां वृत्तिहेतुत्वं “वर्त्तना” सा “लक्षणं” यस्य असौ तल्लक्षणः “कालः । क्रियया1880 आविष्टं” युक्तं “द्रव्यं कारकम्,” क्रियां कुर्वद्द्रव्यं कारकमित्यर्थः । लिङ्गं त्रिविधम् स्त्रीपुन्नपुंसकभेदात् । तत्र “स्त्यान-” सामान्यलक्षणं स्त्रीलिङ्गम् । “प्रसव”सामान्यलक्षणम् अपत्यजनकत्वमात्रलक्षणं पुल्लिङ्गम् । “तदुभयाभावसामान्यलक्षणं”1881 स्त्यानप्रसवोभयाभावमात्रलक्षणं नपुंसकलिङ्गमिति । तदे तदुक्तलक्षणं कालादि कथञ्चिद् वस्तुस्वभावभेदकम् तथाप्रतीतेः प्रतिपत्तव्यम् ।

ननु ““पर्यायभेदादभिरूढोऽर्थभेदकृत्”” इत्ययुक्तमुक्तम्, पर्यायस्यार्थाऽभेदकत्वात् इत्याशङ्क्याह–““पर्याय”” इत्यादि । न केवलं कालादयः किन्तु “पर्यायोऽपि” “इन्द्रः, शक्रः, पुरन्दरः” इत्यादिरूपः “अर्थस्य” शचीपत्यादेः “भेदकः” कथञ्चिद् वैलक्षण्यापादकः ““तथाप्रतीतेः”” इत्यनन्तरेणाभिसम्बन्धात् । यदपि ““क्रियाश्रय एवभ्भूतः”” इत्युक्तम्, तत्रापि कुतोऽस्य एकत्रापि पर्याये क्रियाभेदाद् भेदहेतुत्वम् ? इत्यत्राह–““क्रिया”” इत्यादि । “क्रियाभेदाद्” इन्दनादिभेदात् “एकोऽपि शब्दः” इन्द्रादिपर्यायरूपः “क्रियानिमित्तकव्युत्पत्तिः तदभावात्” तन्निमित्तकव्युत्पत्तेरभावात् “तदर्थम्” इन्द्राद्यर्थं “नाचष्टे1882 इति” हेतोः “परमैश्वर्यम्” इन्दनक्रियां “अनुभवन्नेव” इन्द्रः “नान्यदा”1883 अभिपेचनादिकाले । एवं शकनकाल एव शक्रः पूर्दारणसमय एव पुरन्दरः नान्यदा ““तथाप्रतीतेः”” इति गतेन सम्बन्धः । यतो यत्क्रियापरिणतः पदार्थः तत्क्रियानिमत्तव्युत्पत्तिकैः शब्दैः तत्काल एवाभिधीयते नान्यदा । “ततः सिद्धः क्रियाभेदो” भेदको भावानां “पाचकपा1884ठकादिवत्1885 ।”

ननु क्रियामाश्रित्य शब्दा व्याकरणेन व्युत्पाद्यन्ते, तच्च मिथ्या इत्येके, वर्णा एव पदमेव वाक्यमेव वा सत्यमित्यन्ये, तन्मतमपाकर्त्तुमाह–““नहि”” इत्यादि । “नहि” न खलु “वर्णपदवाक्यानां व्युत्पादकं शास्त्रं” व्याकरणलक्षणं “वितथम् परमार्थशब्दप्राप्त्युपायत्वात् ।” नहि व्याकरणासत्यत्वे अपशब्दव्युदासेन सम्यक्शब्दप्रतीत्युपायः कश्चित् सम्भवति । ननु वृद्धव्यवहारपरम्परात1886 एव शब्दाऽपशब्दविवेको भविष्यति अतस्तदर्थ1887 व्याकरणसमाश्रयणमयुक्तम्, इत्यप्यविचारितरमणीयम्; व्याकरणानपेक्षाद् वृद्धव्यवहारादेव आनन्त्येनाऽखिलशब्दानां प्रतिपदं1888 तद्विवेकस्य कर्त्तुमशक्यत्वात् । व्याकरणाश्रयणेन1889 तु सामान्यविशेषवता1890 लक्षणेन उपलक्षितानां स्वल्पप्रयत्नेनापि तेषां तद्विवेकः कर्त्तुं सुशकः । तथाहि–कर्मण्यण् [पाणिनि॰ ३ । २ । १] इत्येकेनैव सूत्रेण कुम्भकार-काण्डलाव-शास्त्राध्यायादयो1891 बहवः शब्दाः सल्लक्ष्यन्ते, अतः1892 व्याकरणानुगृहीतात् लोकव्यवहारात् सुखेनैव शब्दापशब्दविभागस्य कर्त्तुं शक्यत्वात् अस्ति व्याकरणस्योपयोगः । न चास्याऽप्रमाणत्वात् तद्विभागे नोपयोगः इत्यभिधातव्यम्; तदप्रामाण्ये कर्त्रादिकारकप्रपञ्चस्य सम्प्लवप्रसङ्गात् । न च तत्सम्प्लवः अस्ति । अतः अयमेव तदसम्प्लवः1893 स्वसिद्धये व्याकरणं प्रमाणयति, अन्यतः तद्व्यवस्थानुपपत्तेः । व्याकरणत एव हि प्रकृतिप्रत्ययविभागद्वारेण अन्योन्यविभक्तस्य कर्मकर्त्रादिकारकप्रपञ्चस्य प्रतिपत्तिर्युक्ता नान्यतः, तथाप्रतिपत्तिहेतोस्ततोऽन्यस्याऽसम्भवात् । ननु वर्णपदवाक्यानां निरंशत्वात् किं तेन1894 प्रकृत्यादि प्रविभागमाश्रित्य व्युत्पाद्येत1895 ? निरंशानामपि तेषां1896 तत्प्रविभागं परिकल्प्य व्युत्पादने तच्छास्त्रं वितथमेव स्यात् तत्स्व1897रूपाऽसंस्पर्शित्वात्1898 इत्यत्राह–““व्यावहारिक””1899 इत्यादि । “व्यवहारे” व्यवहारनयभेदप्ररूपके वैयाकरणव्यवहारे वा भवा या “प्रकृत्यादिप्रक्रिया” तस्याः “प्रविभागो” भेदः तेन “परमार्थः” वास्तवो यः “शब्दः” वर्णपदवाक्यरूपः । वर्णो हि उदात्तादिभेदेन भिन्नः व्यवहारे वास्तवः प्रसिद्धः, पदं तु सुप्तिडन्तभेदेन, वाक्यमपि अन्योन्यापेक्षाणां पदानां निरपेक्षः समुदायः इत्यादिभेदेन इति । यथा च नित्यनिरंशादिरूपाणां वर्णपदवाक्यानामनुपपत्तिः तथा ““वर्णाः पदानि वाक्यानि प्राहुरर्थानवाञ्छितान्”” [लघी॰ का॰ ६४] इत्यत्र प्रपञ्चतः प्ररूपितम् । तस्य “प्राप्त्युपायत्वात्” स्वरूपावगतिहेतुत्वात् । ““नहि तद्व्युत्पादकं शास्त्रं वितथम्”” इति सम्बन्धः । प्रयोगः–यः परमार्थभूतस्य प्राप्त्युपायो नासौ वितथः यथा ज्ञातुरभिप्रायात्मको नयः, परमार्थभूतस्य शब्दस्य1900 प्राप्त्युपायश्च वर्णपदवाक्यानां व्युत्पादकं शास्त्रमिति । तत्र ““ज्ञातुरभिप्रायात्मकनयवत्”” इत्यमुं दृष्टान्तं ““यथा”” इत्यादिना व्याचष्टे–“यथा” येन प्रकारेण “न मिथ्यात्वमनुभवेत्,” कोऽसौ ? “नयः ज्ञातुरभिप्रायः ।” किं कुर्वन् ? “प्रकाशयन्,” किं1901 तत् ? “एकान्तम् ।” कथम्भूतम्1902 ? “तदंशम्” अनेकान्तात्मकार्थैकदेशम् । पुनरपि कथम्भूतम् ? “व्यावहारिकम्”1899 व्यवहारप्रयोजनम् । पुनरपि किंविशिष्टम् ? “तत्प्राप्त्युपायं1903 तस्य” अनेकान्तात्मकार्थस्य “प्राप्तिः” तस्या “उपायः” सा वा उपायो यस्य । कथं तं प्रकाशयन् ? “अपोद्धृत्य” पृथक्कृत्य1904 । कस्मात् ? “अर्थात् ।” कथम्भूतात् ? “अनेकान्तात्मकात् ।” किं कल्पनातः तथाविधात्तस्मात् ? इत्यत्राह–“पारमार्थिकात् ।” परमार्थोऽकल्पितं रूपं तेन सम्भवात्1905 । कुतोऽयमित्थम्भूतो न मिथ्यात्वमनुभवेत् ? इत्याह–““निरपेक्षस्य”” इत्यादि । प्रत्यनीकधर्मे1906 निष्क्रान्ता अपेक्षा यस्यासौ “निरपेक्षः” तस्यैव नोक्तप्रकारस्य1907 “मिथ्यात्वात्1908 ।” अथ कस्य निरपेक्षत्वं कस्य च सापेक्षत्वम् ? इत्याह–“अनेकान्तनिराकृतेः निरपेक्षत्वं तदनिराकृतेः सापेक्षत्वम् ।” एवंविधसापेक्षानपेक्षत्वप्रकारेणैव “नयानां सम्यक्त्व-मिथ्यात्वे नान्यथा इति स्थितम् ।”

युक्तिस्वच्छजलं सुबोधकमलं सद्भङ्गवीचीचयम्,
गम्भीरं निखिलार्थपालिकलितं1909 सत्साधुहंसाकुलम् ।
प्रज्ञाधीशपटिष्ठपाठकखगध्वानप्रतानान्वितम्,
जीयाद् दुर्गतितापतृड्िवहननं1910 जैनागमाख्यं सरः ॥ छ ॥

इति1911 प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे षष्ठः1912 परिच्छेदः समाप्तः ॥ छ ॥


  1. “–वक्रक्रमः” [श्र॰] । ↩︎

  2. “तदा सेवित” [ब॰] , [श्र॰] । ↩︎

  3. स्यादस्तीत्यादिसप्तभगमयो वाद स्याद्वाद ईक्षणाना सप्तकम् ईक्षणसप्तकम् स्याद्वाद एवेक्षणसप्तक यस्माद्विनेयाना भवत्यसौ तथोक्तस्तम् । न खलु निरुपकार प्रेक्षावता प्रणामार्होऽतिप्रसङ्गात् । – [लघी॰ ता॰ पृ॰ ७४ ।] ↩︎

  4. “क वीरं” [आ॰] । ↩︎

  5. “अन्तिमतीर्थकरसमुदय वा” [आ॰] । ↩︎

  6. ईक्षणव्यपदेश । ↩︎ ↩︎

  7. रूपादिप्रतीतौ । ↩︎

  8. स्याद्वादस्य । ↩︎

  9. “–अथ रमनेना–” [आ॰] , “अथ परमतेना–” [ब॰] । ↩︎

  10. स्याद्वादेन । ↩︎

  11. भगवान् । ↩︎

  12. स्याद्वाद । ↩︎

  13. “–क्तमिति” [ब॰] । ↩︎

  14. ईक्षणसप्तकेन । ↩︎

  15. “–केन स्यासा–” [आ॰] । ↩︎

  16. “अनेन आत्म–” [श्र॰] । ↩︎

  17. ग्रन्थकर्तु । ↩︎

  18. इष्यते अभ्युपगम्यते सकलविप्रतिपत्तीना प्रागेव निरस्तत्वात् । किम् ? प्रमाणम् । किविशिष्टम् ? ज्ञान जानाति ज्ञायतेऽनेन ज्ञप्तिमात्र वा ज्ञानमित्युच्यते, द्रव्यपर्याययो भेदाभेदविवक्षाया कर्त्रादिसाधनोपपत्ते । कस्य ? आत्मादे आत्मा स्वरूपमादिर्यस्य बाह्यार्थस्य स आत्मादि तस्य स्वार्थस्य ग्राहकमित्यर्थ । अथवा आत्मा चिद्द्रव्यमादिशब्देन आवरणाना क्षयोपशम क्षयश्चान्तरङ्ग बहिरङ्ग पुनरिन्द्रियानिन्द्रिय गृह्यते, तस्मादुपजायमानमित्यध्याहार । तथा इष्यते । क ? नय । किं रूप ? अभिप्राय विवक्षा । कस्य ? ज्ञातु श्रुतज्ञानिन । तथा इष्यते । क ? न्यासो निक्षेप । किंविशिष्ट ? उपाय अधिगमहेतु नामादिरूप । अर्थस्य स्वत सिद्धत्वात् किमेतै प्रमाणादिभिरित्याशक्याह–युक्तीत्यादि । युक्तित प्रमाणनयनिक्षेपैरेवार्थस्य जीवादे परिग्रह प्रमितिर्न स्वत इति । – [लघी॰ ता॰ पृ॰ ७५ ।] तुलना–ज्ञान प्रमाणमित्याहुर्नयो ज्ञातुर्मत मत । – [सिद्धिवि॰, टी॰ पृ॰ ५१८अ । प्रमाणस॰ पृ॰ १२७ ।] उद्धृतोयम्– “ज्ञान प्रमाणमित्याहु” – [घवलाटी॰ पृ॰ १७ ।] ↩︎

  19. “उच्यते” [ज॰ वि॰] । ↩︎

  20. तुलना–ज्ञातॄणामभिसन्धय खलु नयास्ते द्रव्यपर्यायत, तत्र द्रव्यमनन्तपर्ययपद भेदात्मका पर्यया । – [सिद्धिवि॰, टी॰ ५१७अ ।] ↩︎

  21. तुलना– ज्ञान प्रमाण नाज्ञानमिन्द्रियार्थसन्निकर्षादि – [प्रमाणवा॰ मनोरथ॰ पृ॰ ३ । लघी॰ टि॰ पृ॰ १३२ ।] ज्ञानमेवेत्यवधारणात् सन्निकर्षादेरसविदितात्मनो व्युदास । – [सिद्धिवि॰, टी॰ पृ॰ ५१८अ ।] ↩︎

  22. तुलना–नार्थालोकौ कारण परिच्छद्यत्वात्तमोवत् । – [परीक्षामु॰ २ । ६ । प्रमाणमी॰ १ । १ । २५ ।] ↩︎

  23. ज्ञानम् । ↩︎ ↩︎ ↩︎ ↩︎

  24. अर्थस्य । ↩︎ ↩︎

  25. “–च्येतेति” [ब॰] । ↩︎

  26. तादात्म्यादिसम्बन्धाभावे । ↩︎

  27. विषयविषयिभावोऽपि । ↩︎

  28. आत्मादे । ↩︎

  29. [पृ॰ ३४३ ।] ↩︎ ↩︎

  30. [पृ॰ १७६ ।] ↩︎

  31. तुलना–एत्थ किमट्ठ णयपरूवणमिदि ? प्रमाणनयनिक्षेपैर्योऽर्थो नाभिसमीक्ष्यते । युक्तञ्चायुक्तवद् भाति तस्यायुक्तञ्च युक्तवत् ॥ – [ धवलाटी॰ पृ॰ १६ ।] ↩︎

  32. तुलना–सम्यग्ज्ञान प्रमाण प्रमाणत्वान्यथानुपपत्ते । – [प्रमाणप॰ पृ॰ ५१ । प्रमेयक॰ पृ॰ ७ । स्या॰ र॰ पृ॰ ४१ । प्रमेयर॰ १ । १ । प्रमाणमी॰ पृ॰ २ ।] ↩︎

  33. “–दीनामयं” [ब॰] । ↩︎

  34. “–ज्ञानकस्यापि” [आ॰] । ↩︎

  35. तुलना–न ह्यचेतनोऽर्थः स्वप्रमितौ करण घटादिवत् । – [प्रमाणप॰ पृ॰ ५१ ।] ↩︎

  36. [पृ॰ २९ ।] ↩︎

  37. प्रामाण्य स्वीकृत न चेतनत्वेन नाप्यचेतनत्वेनेति भाव । ↩︎

  38. सन्निकर्षस्य । ↩︎ ↩︎ ↩︎

  39. “–स्याप्रामा–” [श्र॰] । ↩︎

  40. “न दीप–” [आ॰] , [श्र॰] । ↩︎

  41. घटाद्यर्थ । ↩︎

  42. ज्ञान प्रति हेतुताम् । ↩︎

  43. ज्ञानेन प्रकाश्यो भवतु । ↩︎

  44. सौगत । ↩︎ ↩︎ ↩︎ ↩︎

  45. कारणीभावो हि विषयीभाव उच्यतेऽस्माभिर्न सम्बन्ध । तथाहि–रूपादिविंषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारिता प्रतिपद्यमानो विषयीभवतीत्युच्यते । द्विविधश्च सहकारार्थ परस्परोपकारको वा यथा एकार्थक्रिया वा यथोन्मिषितमात्रेण रूप गृह्णत । उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते । – [तत्त्वसं पं॰ पृ॰ ६८३ ।] ↩︎

  46. तुलना–तथाहि–किं कारण विषय एव, उत कारणमेव विषय ? प्रथमपक्षे रूपादिसविदा चक्षुराद्यपि विषयो भवेत् द्वितीयपक्षेपि भविष्यति रोहिण्युदय कृत्तिकोदयादतीतक्षपायामिव इत्यस्यानुमानस्य भावी रोहिण्युदयोऽकारणत्वाद्विषयो न स्यात् – [सन्मति॰ टी॰ पृ॰ ५१० ।] ↩︎

  47. “कारणहेतव विषय” [श्र॰] । ↩︎

  48. विज्ञानस्वरूपसवेदन हि तदा स्याद् यदा विज्ञानस्य स्वरूप स्वसवेदन प्रति कारण स्यात् । न चैतदस्ति । ↩︎

  49. “परिकल्पेत” [आ॰] , [ब॰] । ↩︎

  50. विद्यात् जानीयात् । किम् ? ज्ञानम् । कथम् ? अयमर्थ इति । पुनर्न विद्यात्, काम् ? उत्पत्तिम् अहमस्मादुत्पन्नमिति स्वजन्म । कस्मात् ? अर्थत घटादे सकाशात् । इदञ्च प्रमेय प्रतीतिसिद्धमेव, अन्यथा यद्यर्थात् स्वोत्पत्तिं ज्ञान विद्यात् तदा वादिप्रतिवादिनोर्विवादो ज्ञानमर्थादुत्पन्न न वेति विप्रतिपत्तिः, किंवत् ? कुलालादिघटादिवत्, यथा कुलालादेः सकाशाद् घटादेर्जन्मनि प्रतीतिसिद्धे कस्यापि न विवादोऽस्ति तथाऽर्थात् ज्ञानजन्मन्यपि विवादो मा भूत्, अस्ति चाय विवाद स्याद्वादिनां ज्ञानजन्मनीति । – [लघी॰ ता॰ पृ॰ ७६ ।] ↩︎

  51. “विन्द्यात् अथ” [श्र॰] । ↩︎

  52. अर्थात् । ↩︎

  53. उत्पत्तिम् । ↩︎

  54. “–स्मात्तस्य” [श्र॰] । ↩︎

  55. उत्पत्ति । ↩︎

  56. ज्ञानस्य । ↩︎ ↩︎

  57. तुलना–किञ्चार्थकार्यतया ज्ञान प्रत्यक्षत प्रतीयते प्रमाणान्तराद्वा ? प्रत्यक्षतश्चेत्, किं तत एव प्रत्यक्षान्तराद्वा ? अथ प्रमाणान्तरात्तस्यार्थकार्यता प्रतीयते, तत्किं ज्ञानविषयमर्थविषयमुभयविषय वा स्यात् ? – [प्रमेयक॰ पृ॰ २३२ ।] ↩︎

  58. ज्ञानार्थयो । ↩︎ ↩︎

  59. “–पाचकयोर्वा” [आ॰] । ↩︎

  60. ज्ञानार्थोभयग्राहि । ↩︎

  61. “–मभावात्” [श्र॰] । ↩︎

  62. “–वात्तदुभय–” [ब॰] । ↩︎

  63. उभयाभ्या ज्ञानार्थाभ्याम् । ↩︎

  64. “–ङ्गात्तस्यापि” [श्र॰] । ↩︎

  65. ताभ्यामर्थज्ञानाभ्यामुत्पत्ति । ↩︎

  66. उभयात् । ↩︎

  67. तदुत्पत्तिप्रतीतौ । ↩︎

  68. “न हि यस्मात्” [आ॰] , [ब॰] । ↩︎

  69. “–स्यरूपला–” [ब॰] । ↩︎

  70. ज्ञान नार्थस्य परिच्छेदकम् अनुत्पन्न सदर्थाल्लब्धात्मलाभत्वात् । ↩︎

  71. “यत्त” [ब॰] । ↩︎

  72. उत्पत्तिक्षणे । ↩︎

  73. “सदर्थात्मलाभ” [आ॰] , [श्र॰] । ↩︎

  74. “–त्तिलक्षणे” [श्र॰] । ↩︎

  75. “परिज्ञानस्य” [ब॰] । ↩︎

  76. “–केवलनव्यापा–” [श्र॰] । ↩︎

  77. पुत्रस्य । ↩︎ ↩︎ ↩︎

  78. पितृपरिच्छेदकत्वात् । ↩︎

  79. पितु । ↩︎ ↩︎

  80. “च तत्परि–” [श्र॰] , [ब॰] । ↩︎

  81. पुत्रशरीरम् । ↩︎

  82. पितृपरिच्छेदकम् । ↩︎

  83. यदनुत्पन्न सदित्यादिप्रयोगे । ↩︎

  84. शरीररूपेण । ↩︎

  85. शरीरविशिष्टज्ञानरूपेण वाऽनुत्पन्नस्य । ↩︎

  86. दृष्टान्ततोपपत्ते, यथा हि शरीररूपेण विशिष्टज्ञानात्मकतया वाऽनिष्पन्न पुत्र न पितृपरिच्छेदक तथैव ज्ञानमनुत्पन्न सन्नार्थस्य परिच्छेदकम् । ↩︎

  87. “अतस्तदाधि–” [आ॰] । ↩︎

  88. स्वसवेदनप्रत्यक्षबाधितसाध्यप्रयोगानन्तरम् । ↩︎

  89. “–नन्तरप्रयु–” [आ॰] , [ब॰] । ↩︎

  90. “परिच्छेद्य–” [ब॰] । ↩︎

  91. स्वस्य–ज्ञानस्य । ↩︎

  92. ज्ञानस्योत्पादकत्वादर्थ कर्त्ता । ↩︎

  93. अर्थाज्जायमानत्वाज्ज्ञान कर्म । ↩︎

  94. ज्ञानमर्थकार्यम् अर्थान्वयव्यतिरेकानुविधायित्वात् । ↩︎

  95. चेद्यदि कारण कथ्यते । क ? अर्थो विषय । कस्याः ? विदो ज्ञानस्य । काभ्याम् ? अन्वयव्यतिरेकाभ्याम्, सति भवनमन्वय असत्यभवनं व्यतिरेकः ताभ्याम् । तथाहि–ज्ञानमर्थकारणकं तदन्वयव्यतिरेकानुविधानादिति । तदा कौतस्कुत स्यात्, कुतस्कुत आगतः कौतस्कुत । क ? सशयादिविदुत्पाद सशयविपर्यासज्ञानोत्पत्ति । इत्येवमीक्ष्यता तद्वादिभि स्वमनसि पर्यालोच्यताम् अर्थाभावेऽपि संशयाद्युत्पत्ते । न हि स्थाणुपुरुषात्मक केशोण्डुकस्वभावो वार्थस्तज्ज्ञानोत्पत्तौ व्याप्रियते, ततो भागासिद्धमर्थान्वव्यतिरेकानुविधानं ज्ञानस्येति । – [लघी॰ ता॰ पृ॰ ७६ ।] ↩︎

  96. अत्रायं पूर्वपक्ष–अर्थस्य च ज्ञानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते । यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम् । तत्रासन्निहित चैन गत्वापि न स पश्यति ॥ क्षणान्तरे स आयान्त देवदत्त निरीक्षते । तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धिय ॥ अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्नमिति तद्भावभावित्वात्तज्जन्यत्व तदवसीयते । – [न्यायम॰ पृ॰ ५४४ ।] ↩︎

  97. “–दिचिदुत्पा–” [आ॰] । ↩︎

  98. तिमिरमक्ष्णोर्विप्लव, इन्द्रियगतमिद विभ्रमकारणम् । आशुभ्रमणमलातादे, मन्द हि भ्राम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगत विभ्रमकारणम् । नावा गमन नौयानम् । गच्छन्त्या नावि स्थितस्य गच्छद्वृक्षादिभ्रान्तिरुत्पद्यते इति यानग्रहणम् । एतच्च बाह्याश्रयस्थित विभ्रमकारणम् । सङ्क्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभ गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते । एतच्चाध्यात्मगत विभ्रमकारणम् । – [न्यायबि॰ टी॰ पृ॰ १६ ।] ↩︎

  99. “किमर्थमर्थ” [ज॰ वि॰] । ↩︎

  100. उद्धृतमिदम्–इन्द्रियनसी विज्ञानकारणमिति वचनात् । – [न्यायवि॰ वि॰ पृ॰ ३२ अ। ।] तस्मादिन्द्रियमनसी विज्ञानस्य कारण नार्थोऽपीत्यकलकैरपि – [तत्त्वार्थश्लो॰ पृ॰ ३३० ।] ↩︎

  101. “चित्” [आ॰] । ↩︎

  102. “–शिष्टस्यान्यदे–” [ब॰] । ↩︎

  103. “–यत्” [ब॰] । ↩︎

  104. ““ज्ञानम्”” नास्ति [श्र॰] । ↩︎

  105. “इत्युप–” [ब॰] । ↩︎

  106. यथा चिरकालीनाध्ययनादिखिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्ट केशोण्ड्रकाख्य कश्चिन्नयनाग्रे परिस्फुटति, अथवा करसमृदितलोचनरश्मिषु येय केशपिण्डावस्था स केशोण्ड्रक ।– [शास्त्रदी॰ युक्ति॰ पृ॰ ९९ ।] केशोण्डुका नाम पक्षिण ये केशमूलान्युत्पाटयन्ति – [शिक्षासमु॰ पृ॰ ७० ।] तैमिरिकाणामिव केशोण्डुकाद्याभास विनाप्यर्थसत्त्वादिति । – [मध्यान्तवि॰ पृ॰ १५ ।] केशोण्डुक यथा मिथ्या गृह्यन्ते तैमिरैर्जनै । – [लङ्कावतार॰ पृ॰ २७४ ।] ↩︎

  107. “–पक्षादि–” [श्र॰] । ↩︎

  108. “–सम्बन्धस्य” [श्र॰] । ↩︎

  109. “दृश्यते हि लोचनपक्ष्माद्यपायेऽपि” [ब॰] । ↩︎

  110. तुलना–कामलाद्युपहतचक्षुषो हि न केशोण्डुकज्ञानेऽर्थ कारणत्वेन व्याप्रियते–तत्र हि केशोण्डुकस्य व्यापारो नयनपक्ष्मादेर्वा कामलादेर्वा गत्यन्तराभावात् ? न तावदाद्यविकल्प, न खलु तज्ज्ञान केशोण्डुकलक्षणेऽर्थे सत्येव भवति भ्रमाभावप्रसङ्गात् । नयनपक्ष्मादेस्तत्कारणत्वे तस्यैव प्रतिभासप्रसङ्गात् गगनतलावलम्बितया पुर स्थतया केशोण्डुकाकारतया च प्रतिभासो न स्यात् । न ह्यन्यदन्यत्रान्यथा प्रत्येतु शक्यम् । अथ नयनकेशा एव तत्र तथाऽसन्तोऽपि प्रतिभासन्ते तर्हि तद्रहितस्य कामलिनोऽपि तत्प्रतिभासाभाव । – [प्रमेयक॰ पृ॰ २३३ ।] ↩︎

  111. “नचान्यस्यस्य व्यभिचारोऽति–” [ब॰] । ↩︎

  112. स्वपरग्रहणलक्षण हि ज्ञानम्, तत्र च यथा सत्याभिमतज्ञान स्वपरग्राहक तथा केशोण्डुकादिज्ञानमपि । एतावाँस्तु विशेष किञ्चित्सत्पर गृह्णाति सवादसद्भावात्, किञ्चिदसद्विसवादात् । – [ प्रमेयक॰ पृ॰ २३५ ।] ↩︎

  113. “स्वरूपपरप्रका–” [श्र॰] । ↩︎

  114. सत्यज्ञानम् । ↩︎

  115. असत्यज्ञानम् । ↩︎

  116. “विसवादसम्भवात्” [श्र॰] । ↩︎

  117. सत्परत्व-असत्परत्वग्रहणमात्रेण । ↩︎

  118. सत्याऽसत्यज्ञानयो । ↩︎

  119. तिमिरे । ↩︎

  120. आशुभ्रमणे । ↩︎

  121. नौयाने । ↩︎

  122. सक्षोभे । ↩︎

  123. “न किञ्चिदि–” [आ॰] , [श्र॰] । ↩︎

  124. “सङ्क्षेपाद्यभा–” [श्र॰] । ↩︎

  125. तिमिरादिरहितम् । ↩︎

  126. तिमिराद्यभाव । ↩︎

  127. इन्द्रियादिदोषात् । ↩︎

  128. तुलना–अनेन केशोण्डुकज्ञानेन व्यभिचारात् सशयज्ञानेन च । न हि तदर्थे सत्येव भवति अभ्रान्तत्वानुषङ्गात्, तद्विषयभूतस्य स्थाणुपुरुषलक्षणार्थद्वयस्यैकत्र सद्भावासम्भवाच्च । – [प्रमेयक॰ पृ॰ २३४ ।] ↩︎

  129. “अर्थग्राह–” [श्र॰] । ↩︎

  130. अकलङ्कदेवस्य । ↩︎

  131. सन्निकर्षस्यैव । ↩︎

  132. बुद्धौ । ↩︎ ↩︎

  133. अध्यवसायिनी निश्चायिका । का ? बुद्धिर्ज्ञानमेव । कस्य ? सन्निधेरपि सन्निकर्षस्यापि न केवलमर्थस्येत्यपिशब्दार्थ । केषाम् ? इन्द्रियार्थानाम्, इन्द्रियाणि चक्षुरादीनि अर्थाश्च रूपादय तेषाम् । न केवल सन्निधेरपि तु अन्वयव्यतिरेकयोश्च सन्निकर्षस्य भावाभावयोश्च । तथा कार्यकारणयोश्च । कार्यं सन्निकर्षः कारणमिन्द्रियादिः तयोश्च बुद्धिरेवाध्यवसायिनी । ततः सैव प्रमाणं न सन्निकर्षादि तस्य प्रमेयत्वात् । – [लघी॰ ता॰ पृ॰ ७७ ।] ↩︎

  134. “–क्या बुद्धे–” [ज॰ वि॰] । ↩︎

  135. “आत्मनो मनसा करणानामतीन्द्रियाणाम्” [ई॰ वि॰] । ↩︎

  136. “दुरवबोध प्राग्विज्ञानोत्पत्तेरर्थमनवबुद्ध्यमना कारणमकारण वा कथं ब्रूयु । कथ तस्य विज्ञानोत्पत्तावगीकरणमिति वित्यासाधिज्ञानोत्पत्तेरर्थमवबुद्ध्यमानाः कारणमकारण वा कथ ब्रूयुः ? उत्पन्न” [ज॰ वि॰] । ↩︎

  137. “तत्कारणतया” [ई॰ वि॰] । ↩︎

  138. तुलना–आलोकेनापि जन्यत्वे नालम्बनतया भिद विद । किन्त्विन्द्रियबलाधानमात्रत्वेनानुमन्यते ॥ – [तत्त्वार्थश्लो॰ पृ॰ २१८ ।] नार्थालोकौ कारण परिच्छेद्यत्त्वात्तमोवत् । तदन्वयव्यतिरेकानुविधानाभावात्केशोण्डुकज्ञानवन्नक्तञ्चरज्ञानवच्च । – [परीक्षामु॰ २ । ६, ७ ।] नार्थालोकौ कारणमव्यतिरेकात् । – [प्रमाणमी॰ १ । १ । २५ ।] ↩︎

  139. “–रव्यवसा–” [श्र॰] । ↩︎

  140. “अव्यव–” [श्र॰] । ↩︎

  141. “कार्य” [आ॰] , [श्र॰] । ↩︎

  142. “तावन्न तस्य” [श्र॰] । ↩︎

  143. सन्निकर्षबुद्ध्योरन्वयव्यतिरेकयो । ↩︎

  144. इन्द्रियसन्निकर्षयो सन्निकर्षज्ञानयोर्वा कार्यकारणभावस्य । ↩︎

  145. बुद्धि । ↩︎

  146. यदि बुद्ध्युत्पादमन्तरेणापि सन्निकर्षादि अर्थपरिच्छेदक स्यात्तदा । ↩︎

  147. “अन्यपि” [आ॰] । ↩︎

  148. तच्चेद प्रत्यक्ष चतुष्टयत्रयद्वयसन्निकर्षात्प्रवर्तते । तत्र बाह्ये रूपादौ विषये चतुष्टयसन्निकर्षाज्ज्ञानमुत्पद्यते आत्मा मनसा सयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति । सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षुरादिव्यापाराभावात् । आत्मनि तु योगिनो द्वयोरात्ममनसोरेव सयोगाज्ज्ञानमुपजायते तृतीयस्य ग्राह्यस्य ग्राहकस्य तत्राभावात् । – [न्यायम पृ॰ ७४ ।] उद्धृतमिदम्– [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ १४० ।] ↩︎

  149. “एतस्य” [ब॰] । ↩︎

  150. “य कुत–” [ब॰] । ↩︎

  151. सन्निकर्षादि न ज्ञानोत्पत्तिकारणं कुतश्चिदपि प्रमाणाज्ज्ञातुमशक्यत्वात् । ↩︎

  152. [पृ॰ २० ।] ↩︎

  153. नैयायिककल्पित । ↩︎

  154. “–चिदुत्पा–” [श्र॰] , [ब॰] । ↩︎

  155. अर्थे । ↩︎ ↩︎

  156. ग्राहकभूतज्ञानस्योत्पत्तौ । ↩︎

  157. “प्राक्साधि–” [आ॰] । ↩︎

  158. आलोकका रणतावादी बौद्ध, तथा च तद्ग्रन्थ–यथा इन्द्रियालोकमनस्काराः आत्मेन्द्रियमनस्कारा वा रूपज्ञानमेक जनयन्ति – [प्रमाणवा॰ स्ववृ॰ १ । ७५ ।] ↩︎

  159. आलोकाभावेऽपि । ↩︎

  160. वीक्षन्ते विशेषेण नीलादिरूपतया पश्यन्ति । के ? ईक्षका चक्षुष्मन्तो जना । किम् ? तमोऽन्धकार पुद्गलपर्यायम् । किंविशिष्टम् ? निरोधि प्रमेयान्तरतिरोधायकम् । पुनर्न वीक्षन्ते । किम् ? पर घटादिकम् । कथम्भूतम् ? वृतम् आच्छादितम् । केन ? तमसा । तत कथमालोको ज्ञानकारण तदभावेऽपि तदुत्पत्तेरिति । अस्मिन्नर्थे दृष्टान्तमाह–इव यथा कुड्यादिकमीक्षन्ते ईक्षका कुड्यादितिरोहित पुनर्घटादिक नेक्षन्ते तथा तमो वीक्षन्ते तदावृत तु पर नेक्षन्ते इति । – [लघी॰ ता॰ पृ॰ ७७ ।] उद्धृतोऽयम् – [सिद्धिवि॰ टी॰ पृ॰ १८७ब् ।] तमोनिरोधेघटादिक। – [सन्मति॰ टी॰ पृ॰ ५४४ ।] ↩︎

  161. “वीक्ष्यन्ते” [आ॰] । ↩︎

  162. “–ज्ञाने प्रति–” [ज॰ वि॰] । ↩︎

  163. “ज्ञानविरो–” [ई॰ वि॰] । ↩︎

  164. “विशेषाबाध्य–” [श्र॰] । ↩︎

  165. तमोज्ञानम् । ↩︎

  166. आलोककार्यम् । ↩︎

  167. तमोज्ञान नालोककार्यम् आलोकाभावेप्युपजायमानत्वात् । ↩︎

  168. “न तत्का–” [ब॰] । ↩︎

  169. तमस । ↩︎ ↩︎ ↩︎

  170. “–न्ते कुङ्यादि–” [श्र॰] । ↩︎

  171. शालिकनाथ । ↩︎

  172. य पुनर्निशि नीलिमेवावलोक्यते नासौ नभसः । कस्य तर्हि ? न कस्यचित् । कथ पुनर्गुणो न कस्यचित् ? सत्यम्, गुण एवायमप्रसिद्ध । ननु प्रतीतिबलेन सिद्ध एव । सिद्ध्येद्यदि प्रसिद्धिरेव सिद्ध्येत्, सा तु कारणाभावान्न सिद्धा । ननु चक्षुरेव कारणम्, न, आलोकोपकारानपेक्षस्य चक्षुषोऽप्रकाशकत्वात्, तेन अप्रतीतावेवाय प्रतीतिभ्रमो मन्दानाम् । अत एव दिवानुपलम्भ, अन्यथा सौरीभि भाभिरनुगृहीत चक्षुः स्फुटतर व्योम्नि नीलिमान प्रकाशयेत् । तमसो निष्पत्त्यनवकॢप्ते, रूपवत्त्वेन हि तमो द्रव्य स्यात्, तच्चानेकद्रव्यारब्ध सच्चाक्षुष भवेत । न च द्रव्याणि सन्ति, सन्ति चेद्दिवाप्यारभेरन् । अन्धानामिव नीलिमाभिमानो नभस एवेत्युक्तम् । – [प्रक॰ प॰ पृ॰ १४३ ।] तमो नाम द्रव्यान्तर न भवति, अन्धानामिव केवल नीलिमाभिमान । – [तन्त्ररह॰ पृ॰ २१ ।] ↩︎

  173. “–त्तिपरेण” [ब॰] । ↩︎

  174. घटादितिरोधायकत्वम् । ↩︎

  175. ज्ञानानुत्पत्ति । ↩︎

  176. तम प्रकाशने । ↩︎

  177. “ति तद्द्रव्या–” [श्र॰] । ↩︎

  178. त्रुटिताया पू॰ प्रतौ “तमसोऽद्रव्या–” अयमेव पाठो भाति । ↩︎

  179. छायायाः । ↩︎ ↩︎

  180. छत्राद् भिन्नाया । ↩︎

  181. छत्रात् । ↩︎

  182. छाया । ↩︎ ↩︎

  183. यच्चेदमुच्यते छायैव तम सा चलत्वाचलत्वमहत्त्वामहत्त्वदूरत्वासन्नत्वादिगुणयोगिनी वस्तुभूतेति; तदिदमप्यसारम्; अनवकॢप्तेरेव । यच्चलाचलत्वादिकमुपन्यस्त तदपि स्थूलदर्शितया । तथाहि–आलोकेऽपवारिते छायाप्यपेयते । ततोऽपवारितालोकभूभागादिभावव्यतिरेकिणी न रूपावन्तरवच्छाया दृश्यते । तेन मन्यामहे व्यपवारितालोकभूभागादिकमेव छायेति । – [प्रक॰ प॰ पृ॰ १४४ ।] अपवारितालोक केवल भूभागादिकमेव छाया । – [तन्त्ररह॰ पृ॰ २१ ।] आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः । – [सर्वद॰ पृ॰ २२९ ।] ↩︎

  184. छायायाम् । ↩︎ ↩︎

  185. छत्रादर्थान्तरत्वप्रतीते । ↩︎

  186. “हि येन प्रदे–” [ब॰] । ↩︎

  187. द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तम । – [वैशे॰ सू॰ ५ । २ । १९ ।] उद्भूतरूपवद्यावत्तेज ससर्गाभावस्तम् । – [वैशे॰ उप॰ ५ । २ । २० ।] ↩︎

  188. छत्राद्यपायेऽपि । ↩︎

  189. तेजसो द्रव्यान्तरेणावरणाच्च । – [वैशे॰ सू॰ ५ । २ । २० ।] द्रव्य छाया गतिमत्त्वादिति हेतुः साध्येनाविशिष्टसाध्य तावदेतत्–किं पुरुषवच्छायापि गच्छति, आहोस्वित् आवारकदव्ये ससर्पति आवरणसन्तानादसन्निधिसन्तानोऽय तेजसो गृह्यते इति ? सर्पता खलु द्रव्येण यस्तेजोभाग आव्रियते तस्य तस्यासन्निधिरेवावच्छिन्नो गृह्यते इति । – [न्यायभा॰ १ । २ । ८ ।] आबारके द्रव्ये प्रसर्पति तेजसोऽसन्निधिविशिष्ट द्रव्यं यदुपलभ्यते तत्तु छायेत्युच्यते । – [न्यायवा॰ १ । २ । ८ ।] भासामभावरूपत्वाच्छायाया । – [ प्रश॰ व्यो॰ पृ॰ ४६ ।] न तावच्छाया सामान्यविशेषसमवायान्तर्भूता; अनित्यत्वात्तस्या । नापि कर्म, सयोगविभागासमवायिकारणत्वाभावात् । न गुणो द्रव्यासमवायात् । न मनोदिक्कालगुण, तद्गुणानामप्रत्यक्षत्वात् । नाप्यात्मगुण, बाह्येन्द्रियप्रत्यक्षत्वात् । नापि नभोनभस्वतोः, तद्गुणानामचाक्षुषत्वात् । नापि तेजसः, तद्विरोधित्वात् तत्सहचरितगुणान्तरानुपलब्धेश्च । अत एव न पृथिवीपाथसोरपि । अपि च तद्गुणश्चाक्षुषो नालोकमन्तरेण शक्यग्रह, छाया तु तमन्तरेण गृह्यते तस्मिस्तु सति न गृह्यत इति दुर्घटम् । नापि द्रव्यम्, तद्धि पृथिव्यादीनामन्यतममेव भवेदन्यद्वा दशमम् । न तावदन्यतमम्, तद्गुणानामनुपलब्धे । नाप्यन्यद्रूपवदिति युज्यते । तस्याद्रव्यस्य प्रत्यक्षत्वानुपपत्ते, अस्पर्शवत्त्वादनारम्भकत्वेनानेकद्रव्यत्वाभावात् । तस्मादभाव एव छाया न तु सतीति सिद्धम् । – [न्यायवा॰ ता॰ पृ॰ ३४५ । प्रश॰ किर॰ पृ॰ १९ ।] श्रीधरस्तु आरोपितरूपविशेषात्मकं तम स्वीकरोति । तस्माद्रूपविशेषोऽयमत्यन्त तेजोऽभावे सति सर्वत समारोपितस्तम इति प्रतीयते । दिवा चोर्ध्व नयनगोलकस्य नीलिमावभास इति वक्ष्याम । यदा तु नियतदेशाधिकरणो भासामभावस्तदा तद्देशसमारोपिते नीलिम्नि छायेत्यवगम । अत एव दीर्घा ह्रस्वा महती अल्पीयसी छायेत्यभिमान तद्देशव्यापिन नीलिम्न प्रतीते । – [प्रश॰ कन्द॰ पृ॰ ९ ।] तथाहि–यत्र यत्र वारकद्रव्येण तेजस सन्निधिर्निषिध्यते तत्र तत्र छायेति व्यवहार । वारकद्रव्यगताञ्च क्रियाम् आतपाभावे समारोप्य प्रतिपद्यते छाया गच्छतीति, अन्यथा वारकद्रव्यगत क्रियापेक्षित्वं न स्यात् । – [प्रश॰ व्यो॰ पृ॰ ४७ ।] यत्तु तेज प्रतिरोधि द्रव्य तद्यथा यथा सञ्चरति तथा तथाऽऽलोक प्रतिमुच्यते प्रतिरुध्यते चेति चलतीव छाया प्रतिभाति, अन्यथा शरीरेऽपि चलति किमिति छायाऽपि चलेत् हेत्वभावात् । – [प्रक॰ प॰ पृ॰ १४४ ।] ↩︎

  190. “प्रतिषेध्यते” [आ॰] । ↩︎

  191. तेजोऽभावे । ↩︎

  192. प्रतिपद्यते इति शेष । ↩︎

  193. छायाया । ↩︎

  194. यच्चेद देशान्तरप्राप्तिमत्त्व तत्कि देशान्तरेण सयोग, तस्यापि साध्यत्वात् । तथाहि–द्रव्यत्वसिद्धौ सयोग सिद्ध्यति, सयोगात् द्रव्यत्वमिति इतरेतराश्रयत्व स्यात् । – [प्रश॰ व्यो॰ पृ॰ ४७ ।] ↩︎

  195. अथ देशान्तरप्राप्ति समवाय, सोऽप्यसिद्ध । न ह्येकत्र समेवत अन्यत्र समवैति । छाया त्वेकत्र सम्बद्धोपलब्धा पुनर्देशान्तरेप्युपलभ्यते । न च क्रियावत्त्व देशान्तरसमवायात् सिद्ध्यति तस्याप्ययुतसिद्धेष्वेव भावादिति । – [ प्रश॰ व्यो॰ पृ॰ ४७ ।] ↩︎

  196. [पृ॰ ६६६ प॰ १६ ।] ↩︎

  197. तुलना–अत एव नालोकज्ञानाभाव; अभावस्य प्रतियोगिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात् । – [सर्वद॰ पृ॰ २३० ।] न चाप्रतीतावेव प्रतीतिभ्रम, तद्व्यवहारस्य तत्प्रतीतिमन्तरेणानुपपत्तेः । – [चित्सु॰ पृ॰ २९ ।] ↩︎

  198. “–सो स्वरू–” [आ॰] । ↩︎

  199. “पुरुषाद्वैत–” [ब॰] । ↩︎

  200. आलोकतमसो प्रतिभासभेद । ↩︎

  201. नैयायिकवैशेषिकादय । ↩︎

  202. कृष्णरूपशीतस्पर्शचलनादिक्रियाशालित्वेन । ↩︎

  203. अभावरूपत्वे वा । ↩︎

  204. तमो न रूपादिमत् अभावरूपत्वात् । ↩︎

  205. तमस्यपि । ↩︎

  206. “भासुररूपं” [श्र॰] । ↩︎

  207. जैना हि तमः पुद्गलद्रव्यात्मक स्वीकुर्वन्ति, तथाहि–गोयमा दिया सुभा पोग्गला सुभे पोग्गलपरिणामे, रातिं असुभा पोग्गला असुभ पोग्गलपरिणामे । – [भगवतीसू॰ ५ । ९ । २२४ ।] सद्दधयारौज्जोओ पहा छायातवे इ वा । वण्णरसगधफासा पुग्गलाण तु लक्खणम् ॥ – [उत्तरा॰ २८ । १२ । नवतत्त्व॰ गा॰ ९ ।] शब्दबन्धसौक्ष्म्यस्थौल्यसस्थानभेदतमश्छायातपोद्योतवन्तश्च । – [तत्त्वार्थसू॰ ५ । २४ ।] सद्दो बन्धो सुहुमो थूलो सठाण भेद तम छाया । उज्जोदादवसहिया पुग्गलदव्वस्स पज्जाया । – [द्रव्यसं॰ गा॰ १६ ।] वैयाकरणास्तम अणुरूप स्वीकुर्वन्ति–अणवः सर्वशक्तित्वाद् भेदससर्गवृत्तय । छायातपतमशब्दभावेन परिणामिन । – [वाक्यप॰ १ । १११ ।] अन्यान्यपि तमसो द्रव्यरूपतामुररीकुर्वन्ति मतान्तराणि–तमोदर्शन तु भूच्छायादर्शनम् । कतमत्पुनर्द्रव्यादीना तम ? ननु द्रव्यमेव कालिमगुणशालित्वात् स्पन्दवत्त्वाच्च । तथाहि–कालिमैवास्य रूपमुपलभ्यते अप्तेजसोरिव श्वेतिमा । एवं सङ्ख्याप्येकत्वादिका, परिमाण तच्चतुर्विध पृथिव्याद्यणूनामिव तमोऽणूनामप्यनुमानात्, पृथक्त्वसयोगविभागपरत्वापरत्वसस्काराश्च । पञ्चविधमपि कर्म अध्यक्षमीक्षते । यथाहात्र भवान्वार्तिककार–ननु नाभावमात्रस्य तमस्त्वं वृद्धसम्मतम् । छायाया कार्ष्ण्यमित्येव पुराणे भूगुणश्रुतेः ॥ भूगुणस्य कार्ष्ण्यस्य छायाया द्रव्यान्तरश्रुतेरित्यर्थ । दूरासन्नप्रदीपादिदेहचेष्टानुसारिणी । आसन्नदूरदीपादिमहदल्पचलाऽचला । देहानुवर्तिनी छाया न वस्तुत्वाद्विना भवेत् ॥ इति । न च पृथिव्यादीमनान्यतमम्तस्मात्प्रत्यक्षसिद्धमसति बाधके द्रव्यान्तरमेकादश तमो नवगुण चेति सिद्धम् । नादृष्टौ दर्शन छाया नचाऽभावोऽस्मृतौ गते । रूपादुपायसद्भावात् द्रव्य द्रव्यान्तरानुगम् । – [विधिवि॰ टी॰ पृ॰ ७६–७९ ।] किमिद तमो नाम ? द्रव्यगुणकर्मनिष्पत्तिवैधर्म्याद् भाभावस्तम इति काश्यपीयाः, तथा तु नीलबुद्धिर्निर्निमित्ता स्यात् अभावस्य नीलिमाभावात् । न चासतो नीलिम्न किञ्चिद् ग्राहक स्मारक वाऽस्ति । आलोकादर्शनमात्रेण तु तद्भ्रमो भवस्तच्छून्यभागेऽपि स्यात्, अतो द्रव्यान्तरमिद वायुबन्नीलिमगुणम्, वायुस्वरूप स्पर्शवान् इदञ्चाऽस्पर्शं रूपवदित्येतावान्विशेष । अथवा, य एते पार्थिवास्त्रसरेणवो वातायनविवरेषु दृश्यमाना सर्वतो भ्रमन्ति तेषा ये नीलगुणका तद्गतमिद नीलरूप गृह्यमाण गुणान्तराणा द्रव्यान्तराणाञ्च तदन्तरालस्य च अग्रहणाद् व्याप्ताखिलब्रह्माण्डवच्चकास्ति । नीलरूपग्रहणे चालोकापेक्षा नास्तीति दर्शनबलादभ्युपगम्यते । – [मी॰ श्लो॰ न्यायर॰ पृ॰ ७४० ।] तमालश्यामलज्ञाने निर्बाधे जाग्रति स्फुटे । द्रव्यान्तर तम कस्मादकस्मादपलप्यते ॥ – [चित्सु॰ पृ॰ २८ ।] अस्पर्शवत्त्वे सति रूपवत्तम । तच्च नेत्रेन्द्रियमात्रग्राह्यमालोकाभावप्रकाश्य कृष्णरूपम् । कलायकोमलच्छाय दर्शनीय भृश दृशाम् । तमः कृष्ण विजानीयादागमप्रतिपादितम् ॥ गुणकर्मादिसद्भावादस्तीति प्रतिभासत । प्रतियोग्यस्मृतेश्चैव भावरूप ध्रुव तम । – [मानमेयो॰ पृ॰ १५९ ।] ↩︎

  208. “छायादौ लोक” [आ॰] । ↩︎

  209. आतप कटुको रूक्षः स्वेदमूर्च्छातृषावह । दाहवैवर्ण्यजननो नेत्ररोगप्रकोपन ॥ छाया दाहश्रमस्वेदहरा मधुरशीतला । ज्योत्स्ना कषायमधुरा दाहासृक्पित्तनाशिनी । तमो भयावह तिक्त दृष्टितेजोविरोधनम् । – [राजव॰ ५ । २२ ।] आतप त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकर तम – [राजनिघ॰ ।] उद्धृतोऽयम्–आतप कटुको रूक्ष छाया मधुरशीतला । – [प्रश॰ व्यो॰ पृ॰ ४६ । स्या॰ र॰ पृ॰ ८५५ ।] छाया मधुरशीतला – [सन्मति॰ टी॰ पृ॰ ६७२ ।] ↩︎

  210. यच्चेदमागमात् माधुर्यं शैत्य वा छायाया, तदप्युपचारात् । ये हि मधुरद्रव्यस्य शीतद्रव्यस्य वा गुणा ते छायाससेवनाद् भवन्तीति तत्कार्यकर्तृत्वेन तथोक्त । – [प्रश॰ व्यो॰ पृ॰ ४७ ।] ↩︎

  211. छायादौ । ↩︎ ↩︎

  212. छायादौ माधुर्यादे । तुलना–छायापि शिशिरत्वादाप्यायकत्वाज्जलवातादिवत् । – [तत्त्वार्थभा॰ व्या॰ पृ॰ ३६३ ।] मुख्यार्थबाधायामुपचारप्रवृत्ते, न चेयमत्रास्ति । – [स्या॰ पृ॰ ८५६ ।] ↩︎

  213. छायादौ माधुर्यादि नौपचारिकम् अबाधबोधाधिरूढप्रतिभासत्वात् । ↩︎

  214. अबाधितप्रतिभासविषयत्वेऽपि । ↩︎

  215. माधुर्यादे । ↩︎

  216. तुलना–तत्तेजस्यपि समानम् । – [सन्मति॰ टी॰ पृ॰ ६७२ । स्या॰ र॰ पृ॰ ८५६ ।] ↩︎

  217. “गुणत्वाद्” [ब॰] । ↩︎

  218. तुलना–न च तमस पौदगलिकत्वमसिद्धम्, चाक्षुषत्वाऽन्यथानुपपत्ते प्रदीपालोकवत् । रूपवत्त्वाच्च स्पर्शवत्त्वमपि प्रतीयते शीतस्पर्शप्रत्ययजनकत्वात् । – [स्या॰ मं॰ का॰ ५ ।] तम स्पर्शवत् रूपवत्त्वात् पृथिवीवत् । न च रूपवत्त्वमसिद्धम्, अन्धकार कृष्णोऽयमिति कृष्णाकारप्रतिभासात् । – [रत्नाकराव॰ पृ॰ ६९ ।] ↩︎

  219. तम प्रतीतिकारणम् । ↩︎

  220. तुलना–किं पुनरन्धकारावस्थाया ज्ञान नास्ति ? तथा चेत्, कथमन्धकारप्रतीति तदन्तरेणापि प्रतीतौ अन्यत्रापि ज्ञानकल्पनानर्थक्यम् । प्रतीयते ज्ञानं नास्तीति च स्ववचनविरोध प्रतीतेरेव ज्ञानत्वात् । – [प्रमेयक॰ पृ॰ २३८ ।] ↩︎

  221. तम प्रतीतौ । ↩︎

  222. अविरुद्धा इति शेष । ↩︎

  223. अन्धकान्तर्वर्तिपटाद्यर्थान् । ↩︎

  224. यद्येबमालोकस्याप्यभाव स्यात् विशदज्ञानव्यतिरेकेणान्यस्य अस्याप्यप्रतीते । तद्व्यबहारस्तु लोके विशदज्ञानोत्पत्तिमात्रः । – [प्रमेयक॰ पृ॰ २३८ ।] ↩︎

  225. “–नादिसस्कृ–” [ब॰] । ↩︎

  226. पुरुषाणान् । ↩︎

  227. “सकलवस्तु” [श्र॰] । ↩︎

  228. तुलना– तमस्तावत्पुद्गलपरिणाम दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवत्, आवारकत्वात् पटादिवत् । – [तत्वार्थभा॰ व्या॰ पृ॰ ३६३ ।] तमो भावरूप घटाद्यावारकत्वात् काण्डपटादिवत् । नचास्य घटाद्यावारकत्वमसिद्धम्, विषयाभिमुखप्रवर्तमाननयनव्यापारनिरोधित्वात्तद्वदेवेत्यतस्तत्सिद्धेः । – [स्या॰ र॰ पृ॰ ८५१ ।] ↩︎

  229. छाया द्रव्यं क्रियावत्त्वात् कुभ्भवत् । – [स्या॰ र॰ पृ॰ ८५३ ।] ↩︎

  230. गतिमत्त्व । ↩︎

  231. अनुमानावसेयमपि तथाहि–गतिमती छाया देशाद्देशान्तरप्राप्तिमत्त्वान्मैत्रवदिति । – [स्या॰ र॰ पृ॰ ८५३ ।] ↩︎

  232. [पृ॰ ६६८ प॰ ३ ।] ↩︎

  233. यतोऽत्र छायाया देशान्तरेण प्राप्ति सयोगोऽभिधीयते । यत्र वास्येतरेतराश्रयोद्भावन तदनुसन्धानशून्यतावशात् । न हि देशान्तरप्राप्तिमत्त्वाद् द्रव्यत्व प्रसाधयितुमुद्यता स्म, किन्तु गतिमत्त्व तस्मात्तु द्रव्यत्वमिति । – [स्या॰ र॰ पृ॰ ८५४ ।] ↩︎

  234. सम्बन्ध । ↩︎

  235. देशान्तरप्राप्तिरूपसयोगात् । ↩︎

  236. गतिमत्त्वाच्च । ↩︎

  237. “द्रव्यमिति” [ब॰] । ↩︎

  238. नन्वेवमपि महत्तरे चक्रकसकटे यूय पतिता । तथाहि–देशान्तरसयोगात् क्रियावत्त्वम्, क्रियावत्त्वात् द्रव्यत्वम्, द्रव्यत्वात् देशान्तरसयोगवत्त्वमिति; उत्स्वप्नायितमेतत्, देशान्तरप्राप्ते प्रत्यक्ष एव छायाया प्रसिद्धस्वरूपत्वात् । यदि हि द्रव्यत्वसिद्ध्या देशान्तरप्राप्ति प्रसाध्येन तदा स्यात्तद्दूपणम् । प्रत्यक्षेणेति सिद्धेन देशान्तरप्राप्तिमत्त्वेन सिद्धात् क्रियावत्त्वात्सिद्ध छायाया द्रव्यत्वम् । – [स्या॰ र॰ पृ॰ ८५५ ।] ↩︎

  239. देशान्तरप्राप्ति । ↩︎

  240. “प्रसाध्यते” [आ॰] । ↩︎

  241. [पृ॰ ६६८ प॰ २ ।] ↩︎

  242. “असत्यत्वे” [ब॰] । ↩︎

  243. “–ष कर्म” [आ॰] , [ब॰] । ↩︎

  244. वृक्षादौ । ↩︎

  245. आवारकद्रव्यगतगत्यारोपान्यथानुपपत्तेः । ↩︎

  246. भावरूपा छाया अध्यारोप्यमाणगतित्वात् वृक्षवत् । – [स्या॰ र॰ पृ॰ ८५४ ।] ↩︎

  247. तमो दृष्टिप्रतिबन्धिकारणं प्रकाशविरोधि । – [सर्वार्थसि॰, राजवा॰, तत्त्वार्थभा॰ व्या॰ ५ । २४ ।] ↩︎

  248. “–ज्ञानाप्रति–” [श्र॰] । ↩︎

  249. तम । ↩︎ ↩︎

  250. ज्ञानप्रतिबन्धकम् । ↩︎

  251. स्वात्मनि ज्ञानप्रतिषेधकम् । ↩︎

  252. तमो न स्वचाक्षुषज्ञानप्रतिरोधकम् चाक्षुषज्ञानविषयत्वात् । ↩︎

  253. “आलोकेऽपि” [श्र॰] । ↩︎

  254. तुलना–प्रदीपस्य च घटरूपव्यवधायकतमोऽपनेतृत्वे ऽतैजसं चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवदिति साधनविकलत्वात् दृष्टान्तस्य निरस्तं द्रष्टव्यम् । – [सन्मति॰ टी॰ पृ॰ ५४४ ।] ↩︎

  255. [न्यायकु॰ पृ॰ ७६ टि॰ २ ।] ↩︎

  256. आलोको हि न तमसो रूपस्य प्रकाशक अत स “रूपादीना मध्ये रूपस्यैव प्रकाशकत्वात्” इति साधनशून्य । ↩︎

  257. “तमोज्ञाना–” [आ॰] । ↩︎

  258. स्वस्य आलोकस्य रूपम् भासुराख्यम् । ↩︎

  259. “घटादिज्ञानाहेतु” [आ॰] , [ब॰] । ↩︎

  260. तमोविषयक । ↩︎

  261. अस्मदादीनाम् । ↩︎

  262. आलोक । ↩︎

  263. रूपज्ञानहेतु । ↩︎

  264. “केषाञ्चिज्ज्ञा–” [आ॰] , [ब॰] । ↩︎

  265. तमोज्ञान । ↩︎

  266. तमसि । ↩︎

  267. तमोऽपि । ↩︎

  268. रूपज्ञानहेतुः । ↩︎

  269. “तथा रूपा–” [श्र॰] । ↩︎

  270. स्वगतकृष्णरूप । ↩︎

  271. “–सः स्वज्ञान–” [ब॰] । ↩︎

  272. चक्षुर्ज्ञान । ↩︎

  273. “अवाग्भाग–” [श्र॰] । ↩︎

  274. “एव विज्ञान–” [ब॰] । ↩︎

  275. “– नविरो–” [आ॰] । ↩︎

  276. परभागवत्, तमोवद्वा । ↩︎

  277. अर्वाग्भागो न चक्षुरिन्द्रियग्राह्यः चक्षुर्ज्ञाननिरोधित्वात् । ↩︎

  278. “तद्दर्शनग्राह्यं” [ब॰] । ↩︎

  279. ज्ञानप्रच्छादकम् । ↩︎

  280. ज्ञानावरणकर्मोदये सत्येव । ↩︎

  281. तिमिरादि नावरणं परिच्छेद्यत्वात् । ↩︎

  282. “चक्षुर्ज्ञानं” [ब॰] , [श्र॰] । ↩︎

  283. ज्ञानावरणकर्मोदय अदृष्टपदेन ग्राह्य । ↩︎

  284. “सर्वदा सर्वार्थ–” [श्र॰] । ↩︎

  285. “सर्वथाग्रहणस्व–” [ब॰] । ↩︎

  286. यथा स्यात् । का ? मलविद्धमणिव्यक्ति मलै कालिमरेखादिभि विद्ध स चासौ मणिश्च पद्मरागादि तस्य व्यक्ति तेज प्रादुर्भावः । कथम् ? अनेकप्रकारत अनेके बहवः प्रकारा विशदाविशददूरादूरप्रकाश्यप्रकाशनविशेषाः तानाश्रित्य । तथा स्यात् । का ? कर्मविद्धात्मविज्ञप्ति कर्माणि ज्ञानावरणादीनि तैराविद्ध सम्बद्धः स चासावात्मा च तस्य विज्ञप्तिरर्थोपलब्धि । कथम् ? अनेकप्रकारत अनेके नानारूपा प्रत्यक्षेतरदूरासन्नार्थप्रतिभासनविशेषा क्षयोपशमविशेषाश्च तानाश्रित्येत्यर्थ । तदावरणविशेषनिरासे तु सकलार्थविज्ञप्तिरात्मन उपपद्यते एव ज्ञानस्वभावत्वात्तस्येति । – [लघी॰ ता॰ पृ॰ ७८ ।] उद्धृतोऽयम् – [सिद्धिवि॰ टी॰ १९३अ । आव॰ नि॰ मलय॰ पृ॰ १७ । नन्दि॰ मलय॰ पृ॰ ६६ । इष्टोप॰ टी॰ पृ॰ ३० । कर्मग्र॰ टी॰ पृ॰ ८ ।] तुलना–मलावृतमणेर्व्यक्तिर्यथाऽनेकविधेक्ष्यते । कर्मावृतात्मनस्तद्वद्योग्यता विविधा न किम् । – [तत्त्वार्थश्लो॰ पृ॰ १९१ ।] ↩︎

  287. “–स्वकर्म–” [ज॰ वि॰] । ↩︎

  288. द्रष्टव्यम् – [पृ॰ ६४० टि॰ २ ।] ↩︎

  289. “विषमोषयोग–” [ब॰] , “विश्लेषोपयोग–” [श्र॰] । ↩︎

  290. “विरुद्धस्य” [आ॰] । ↩︎

  291. “–न्द्रियायप्रका–” [श्र॰] । ↩︎

  292. सौगतचार्वाकौ । ↩︎

  293. [पृ॰ ९ ।] ↩︎

  294. “यथावारकं” [आ॰] । ↩︎

  295. “–यः तच्चा–” [आ॰] । ↩︎

  296. “–सिद्धेः” [श्र॰] । ↩︎ ↩︎

  297. सौगतमतम् । ↩︎

  298. “–यो विज्ञानस्य” [श्र॰] , [ब॰] । ↩︎

  299. “सत्यालोके” [श्र॰] । ↩︎

  300. “मुमूक्षूणां” [ब॰] । ↩︎

  301. [पृ॰ ६६३ ।] ↩︎

  302. “प्रतिभाग” [आ॰] । ↩︎

  303. इहज्ञाने । प्रामाण्य प्रति प्रमाणत्वमुद्दिश्य । हेतुता निमित्तभाव न भजन्ति । किन्त इत्याह–तज्जन्म तस्मादर्थाज्जन्म उत्पत्ति, तस्य करणग्रामेण व्यभिचारात् । न च ताद्रूप्य तस्यार्थस्य रूपमिव रूपमाकारो यस्य तत्तद्रूप तस्य भावस्ताद्रूप्यम्, तस्य समानार्थसमनन्तरज्ञानेन व्यभिचारात् । नापि तद्व्यवसिति तत्रार्थे व्यवसितिर्व्यवसायो निश्चय, तस्य द्विचन्द्रादिव्यवसायेन व्यभिचारात् । कथम् ? प्रत्येकम् एकमेक प्रतिनियतमेकैकमित्यर्थ । सह मिलित्वा वा तानि प्रामाण्यहेतुता न भजन्ति । तत्त्रितयस्यापि शुक्ले शखे पीताकारज्ञानजनकेन समनन्तरप्रत्ययेन व्यभिचारात् ।" – [लघी॰ ता॰ पृ॰ ७९ ।] तज्जन्मादित्रयस्य प्रामाण्यहेतुतानिरूपका बौद्धग्रन्था–विषयाकार एवास्य प्रमाण तेन मीयते । – [प्रमाणसमु॰ १ । १० ।] तस्माच्चक्षुश्च रूपञ्च प्रतीत्योदेति नेत्रधी । [३ । १९० ।] भिन्नकालं कथ ग्राह्यमिति चेद् ग्राह्यता विदु । हेतुत्वमेव युक्तिञ्ज्ञास्तदाकारापणक्षमम् ॥ कार्यं ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् । तत्तेनाप्यत्र तद्रूप गृहीतमिति चोच्यते ॥ [३ । २४७ । ४८ ।] अर्थेन घटयत्येना न हि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगते साधन मेयरूपता ॥ – [प्रमाणवा॰ ३ । ३०५ ।] तदाकरं हि सवेदनमर्थं व्यवस्थापयति नीलमिति पीतञ्चेति । – [प्रमाणवार्त्तिकालं॰ पृ॰ २ ।] किमर्थं तर्हि सारूप्यमिष्यते प्रमाणम् ? क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम्सारूप्यतोऽन्यथा न भवति नीलस्य कर्मण सवित्ति पीतस्य वेति क्रियाकर्मप्रतिनियमार्थमिष्यते । – [प्रमाणवार्त्तिकालं॰ पृ॰ ११९ ।] अनुकूलविकल्पोत्पत्तिरेव अध्यवसाय, तथाहि–अविकल्पमपि प्रत्यक्षं विकपोत्पत्तिशक्तिमत् । नि शेषव्यवहाराङ्ग तद्द्वारेण भवत्यत । – [तत्त्वसं॰ का॰ १३०६ ।] ↩︎

  304. तुलना–कार्यकालमप्राप्नुवत कारणत्वानुपपत्तेश्चिरतरातीतवत् । – [अष्टश॰, अष्टसह॰ पृ॰ ८९ ।] ↩︎

  305. “–कारिणो” [ई॰ वि॰] । ↩︎

  306. “–मूर्त्तमूर्त्तप्र–” [ज॰ वि॰] । ↩︎

  307. तुलना–यथैवाक्षविषयेऽभिधानं नास्ति तथाऽक्षज्ञाने विषयोऽपि नैवास्ति ततस्तत्र प्रतिभासमानेऽपि न प्रतिभासेत । – [अष्टश॰, अष्टसह॰ पृ॰ ११८ ।] ↩︎

  308. त्रु॰ पू॰ प्रतौ “भजतीह” इत्येव पाठ । “तज्जन्म” इति कर्त्रनुरोधात् भजतीति पाठ एव समुचित । ↩︎

  309. ““अर्थस्य”” नास्ति [आ॰] । ↩︎

  310. प्रामाण्य प्रति । ↩︎

  311. हेतुताम् । ↩︎

  312. “भजन्तीति” [श्र॰] । ↩︎ ↩︎

  313. ““एकमेकं वा”” नास्ति [ब॰] , [श्र॰] । ↩︎

  314. तज्जन्मादय प्रत्येक प्रामाण्य प्रति हेतुता न भजन्ति । तुलना–तदर्थवेदन केन ? ताद्रूप्यात्, व्यभिचारि तत् । तदर्थसारूप्य व्यभिचारि, द्विचन्द्रकेशोण्डुकज्ञानाद्याकारस्य अर्थमन्तरेणापि भावात् । यच्चार्थसारूप्यमनुभवनिबन्धनमुक्त तदप्यसम्भवि इति दर्शयन्नाह–सरूपयन्ति तत्केन स्थूलाभासञ्च तेऽणव ॥ ३२१ ॥ तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणी । तत्सवेदनभावस्य न समर्था प्रसाधने ॥ ३२२ ॥ तस्मात्तुल्यज्ञानस्य नार्थरूपताऽस्ति । सत्या वाऽर्थरूपताया व्यभिचारिणी सा द्विचन्द्रज्ञानादिषु । ततश्च तत्मवेदनभावस्य अर्थसवेदनत्वस्य प्रसाधनेषु साऽर्थरूपता न समर्था । न केवलादर्थसारूप्यादर्थसवेदनत्व येन व्यभिचार स्यात् । किं तर्हि ? सारूप्यतदुत्पत्तिभ्या ते च द्विचन्द्रज्ञानादीना न स्तः चन्द्रद्वयस्याभावात् तदुत्पत्तेरयोगात् । एतदेवाह–तत्सारूप्यतदुत्पत्ती यदि सवेद्यलक्षणम् । सवेद्यं स्यात् समानार्थ विज्ञान समनन्तरम् ॥ ३२३ ॥ तेन ग्राह्येण सारूप्य तस्मादुत्पत्ति स्वसवेद्यस्य लक्षण यदि सम्मतम्, तदापि समनन्तर ज्ञानमुत्तरज्ञानेन समानार्थं समानग्राह्य सवेद्य स्यात् तत्सरूपतदुत्पत्त्यो सभवात् । – [प्रमाणवा॰, मनोरथ॰ २ । ३२०–२३ ।] किञ्च यदाकार यतश्च संवेदनमुत्पद्यते यदि तदालम्बन तर्हि धारावाहिकविज्ञानाना पूर्वपूर्वमालम्बनमुत्तरोत्तरस्य स्यात् उत्पादकत्वात् सरूपत्वाच्च – [बृहतीप॰ पृ॰ ७९ ।] तत्पुन तज्जन्मसारूप्यादिलक्षण समानार्थनानैकसन्तानेषु सभवात् व्यभिचरति तदध्यवसायहेतुत्वञ्च । – [सिद्धिवि॰, टी॰ पृ॰ ५६६ ।] न केवल विषयवलाद् दृष्टेरुत्पत्तिरपि तु चक्षुरादिशक्तेश्च । विषयाकारानुकरणाद्दर्शनस्य तत्र विषय प्रतिभासते न पुन करणम् तदाकारानुकरणादिति चेत्तर्हि तदर्थवत्करणमनुकर्त्तुमर्हति न चार्थं विशेषाभावात्, दर्शनस्य तज्जन्मरूपाविशेषेऽपि तदध्यवसार्यानयमाद् वहिरर्थविषयत्वमित्यसारम्; वर्णादाविव उपादानेऽप्यध्यवसायप्रसङ्गात् । – [अष्टश॰, अष्टसह॰ पृ॰ ११८ । प्रमेयक॰ पृ॰ १०८ । सन्मति॰ टी॰ पृ॰ ५१० । प्रमेयर॰ २ । ९ ।] अपि च व्यस्ते समस्ते वैते ग्रहणकारण स्याताम् ? यदि व्यस्ते; तदा कपालाद्यक्षणो घटान्त्यक्षणस्य जलचन्द्रो वा नभश्चन्द्रस्य ग्राहक प्राप्नोति तदुत्पत्तेस्तदाकारत्वाच्च । अथ समस्ते, तर्हि घटोत्तरक्षण पूर्वघटक्षणस्य ग्राहकः प्रसजति । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत्, तर्हि समानजातीयज्ञानस्य समन्तरपूर्वज्ञानग्राहकत्व प्रसज्येत । – [प्रमाणमी॰ पृ॰ २० । प्रमाणनय॰ ४ । ४७ । रत्नाकरा॰ ४ । ४७ ।] ↩︎

  315. तज्जन्मादय सह मिलित्वाऽपि प्रामाण्यं प्रति हेतुता न भजन्ति । ↩︎

  316. तज्जन्मादित्रयम् । ↩︎

  317. “एव तदुत्पत्तेः” [श्र॰] । ↩︎

  318. यदि कारणभूतस्य अर्यस्य काले एव कार्यभूत ज्ञान समुत्पद्येत तदा कार्यकारणयो समकालत्वापत्त्या कारणभूतस्यार्थस्यापि स्वकारणकालता तस्यापि स्वकारणकालतेत्येव सकलोत्तरक्षणानामाद्यक्षणवृत्तिता द्वितीये च क्षणे नाश इति सकलसन्तानोच्छेदप्रसङ्गः इति भाव । तुलना–सत्येव कारणे यदि कार्यं त्रैलोक्यमेकक्षणवर्ति स्यात्, कारणक्षणकाल एव सर्वस्य उत्तरोत्तरक्षणसन्तानस्य भावात् तत सन्तानाभावात् । – [अष्टश॰, अष्टसह॰ पृ॰ १८७ ।] ↩︎

  319. “सज्ज्ञानोच्छे–” [ब॰] । ↩︎

  320. “मूर्त्तधर्मा–” [ब॰] । ↩︎

  321. मूर्तिधर्मो हि । ↩︎

  322. “–कारसिद्धि–” [आ॰] । ↩︎

  323. [पृ॰ १६७ ।] ↩︎

  324. बहिर्देशे भूतलादौ अर्थस्य प्रतिभासनात् । ↩︎

  325. ज्ञाने । ↩︎ ↩︎

  326. ज्ञानात्मकत्वेन वा हेतुना । ↩︎

  327. अर्थ । ↩︎

  328. ज्ञानात्मक । ↩︎

  329. “–दिनादर्शयतो ज्ञान–” [श्र॰] । ↩︎

  330. “–यो हि न” [आ॰] । ↩︎

  331. विकल्प । ↩︎

  332. “योपि अभिलाषवतीति न” [आ॰] । ↩︎

  333. “–लापप्रतीति” [ब॰] । ↩︎

  334. तुलना – [पृ॰ ४६ टि॰ २ ।] ↩︎

  335. शाब्दी प्रतीति । ↩︎

  336. शब्दार्थयो । ↩︎

  337. [पृ॰ ४८ ।] ↩︎

  338. “अत्रसि–” [श्र॰] । ↩︎

  339. “असभवति लक्ष–” [श्र॰] । ↩︎

  340. यथा स्यात् । क ? घटादि । किं विशिष्ट स्यात् ? परिच्छेद्यो ज्ञेय । कथम् ? स्वत स्वभावादेव न ज्ञानादुत्पत्त्यादे । किम्भूतोऽपि स्वहेतुजनितोऽपि स्वस्य हेतुर्मृदादिसामग्री तेन जनितोऽपि निष्पादितोऽपि । तथा ज्ञान परिच्छेदात्मकमर्थग्रहणात्मक स्यात् । कुत ? स्वभावादेव नार्थादुत्पत्त्यादे । किविशिष्टमपि ? स्वहेतूत्थमपि, स्वस्य हेतुरन्तरङ्ग आवरणक्षयोपशमलक्षण बहिरङ्ग पुनरिन्द्रियानिन्द्रियरूप तस्मादुत्था उत्पत्तिर्यस्य तत्तथोक्त तादृशमपीत्यर्थ । – [लघी॰ ता॰ पृ॰ ८० ।] उद्धृतेय कारिका निम्नग्रन्थेषु – [सिद्धि॰ टी॰ पृ॰ १०ब्। । न्यायवि॰ वि॰ पृ॰ ३३अ ।] ↩︎

  341. “–हेतुत्वं” [ज॰ वि॰] । ↩︎

  342. “–ब्धात्माकर्त्त-” [ई॰ वि॰] । ↩︎

  343. “जनितोपि घटा–” [ब॰] । ↩︎

  344. परिच्छेद्यस्वभावेन । ↩︎

  345. “अर्थस्वभावो” [आ॰] , “अर्थ स्वतः स्वभावो” [ब॰] । ↩︎

  346. “स्वरूप हेतूत्थं” [श्र॰] । ↩︎

  347. ज्ञानार्थयो । “ज्ञान घट जानाति” इत्यत्र ज्ञानस्य कर्तृता घटस्य च कर्मत्वमिति । ↩︎

  348. ग्राह्यग्राहकभावोऽपि । ↩︎

  349. ““इति”” नास्ति [श्र॰] । ↩︎

  350. कर्तृकर्मभाव । ↩︎

  351. ग्राह्यग्राहकभावे । ↩︎

  352. बौद्धाचार्याः । उभयत्र तदेव ज्ञान फलमधिगममरूपत्वात् । – [न्यायप्र॰ पृ॰ ७ ।] तदेव च प्रत्यक्ष ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् । – [न्यायवि॰ पृ॰ २५ । तत्त्वस॰ का॰ १३४३ ।] ↩︎

  353. स्वसवित्ति फलञ्चास्य। – [प्रमाणस॰ १ । १० ।] फलं स्ववित् । – [प्रमाणवा॰ ३ । ३६६ ।] ↩︎

  354. नैयायिकादय । प्रमितिर्द्रव्यादिविषयं ज्ञानम् । – [प्रश॰ भा॰ पृ॰ १८७ ।] ↩︎

  355. मतमिष्ट ज्ञातञ्च । किम् ? ज्ञानम् । किं स्वरूपम् व्यवसायात्मक विशेषस्य जात्याद्याकारस्य अवसायो निश्चिय स एवात्मा स्वरूपं यस्य तत्तथोक्तम् । अनेन प्रत्यक्ष कल्पनापोढमित्येतन्निरस्तम् । पुन किंविशिष्टम् ? आत्मार्थग्राहकम्, आत्मस्वरूपमर्थो बाह्यो घटादिस्तौ गृह्णाति निर्णयतीत्यात्मार्थग्राहकम् अनेन ज्ञानमर्थग्राहकमेव न स्वरूपग्राहकम् स्वग्राहकमेव नार्थग्राहकमित्येकान्तद्वय निराकृतम् । तेन कारणेन अश्नुते भजति किम् ? ग्रहणं ज्ञान कर्तृ । किं रूपम् ? निर्णय स्वार्थव्यवसायस्तद्रूपमित्यर्थ । किं कर्मतापन्नम् ? प्रामाण्यम् प्रमाणभावम् । किंविशिष्टम् ? मुख्यमनुमचरितम् ज्ञानकारणत्वादुपचारेणैव इन्द्रियलिङ्गादे प्रमाणत्वात् । – [लघी॰ ता॰ पृ॰ ८१ ।] ↩︎

  356. “मुख्यप्रामा–” [ज॰ वि॰] । ↩︎

  357. “–फलस्याधिग–” [ई॰ वि॰] । ↩︎

  358. “स्वतोप्यवसा–” [ई॰ वि॰] । ↩︎

  359. “–निर्णय” [ब॰] । ↩︎

  360. “–फलसाध–” [ब॰] , [श्र॰] । ↩︎

  361. चक्षुरादे । ↩︎

  362. व्यवसायफलात्मकत्व । ↩︎

  363. “–कत्वावि–” [ब॰] । ↩︎

  364. [पृ॰ २०९ ।] ↩︎

  365. [पृ॰ १७६–।] ↩︎

  366. [पृ॰ ११९–।] ↩︎

  367. “–णेन यद्ग्रहण” [ब॰] । ↩︎

  368. [पृ॰ ४७ ।] ↩︎ ↩︎ ↩︎

  369. “–क्षयादिदर्शने वा संशय–” [ब॰] । ↩︎

  370. ““निर्णयसद्भावे च”” नास्ति [ब॰] । ↩︎

  371. प्रमाणफलम् । ↩︎

  372. व्यवसायात्मकविकल्पोत्पादकत्वात् । पूर्वपक्ष– तस्मादध्यवसाय कुर्वदेव प्रत्यक्ष प्रमाण भवति, अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापित भवति विज्ञानम् । – [न्यायवि॰ टी॰ पृ॰ २७ । तत्त्वस॰ का॰ १३०६ ।] तुलना–अदोषोऽय प्रत्यक्षस्याध्यवसायहेतुत्वादित्यनिरूपिताभिधान सौगतस्य, तत्राभिलापाभावात् । – [अष्टश॰ अष्टसह॰ पृ॰ ११८ ।] ↩︎

  373. “तच्च” [श्र॰] । ↩︎

  374. बौद्धा हि प्रत्यक्षं निर्विकल्पकात्मकमुररीकुर्वन्ति अतस्तैः शब्दसंसर्गयोग्यता प्रत्यक्षस्य निषिध्यते । तथा चोक्तम्–अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना, तया रहितम् । – [ न्यायबि॰ पृ॰ १३ ।] ↩︎

  375. “–त्यादि तयोः” [श्र॰] । ↩︎

  376. “–व विक–” [श्र॰] । ↩︎

  377. नीलमिदमित्याकारकविकल्पस्य । ↩︎

  378. नीलाकारतादर्शनात् । ↩︎

  379. “–नादर्शनस्य” [श्र॰] । ↩︎

  380. निर्विकल्पकप्रत्यक्षस्य । ↩︎

  381. नीलाकारता । ↩︎

  382. निर्विकल्पकं नीलाकारं तत उत्पन्ने विकल्पे नीलाकारत्वाऽन्यथानुपपत्तेः । ↩︎

  383. “तथा सत्यभि–” [श्र॰] । ↩︎

  384. विकल्पस्य । ↩︎ ↩︎

  385. अभिलापसंसर्गयोग्यता । निर्विकल्पके अभिलापसंसर्गयोग्यताऽस्ति तत उत्पन्ने विकल्पे अभिलापसंसर्गयोग्यताऽन्यथानुपपत्तेः । ↩︎

  386. अभिलापसंसर्गयोग्यता । ↩︎

  387. यदि दर्शनेऽसम्भविनी अभिलापसंसर्गयोग्यता विकल्पे घटेत तर्हि दर्शनेऽसम्भबन्नपि नीलाकारः विकल्पे स्यात् तथा च नीलविकल्पस्य साक्षान्नीलस्वलक्षणविषयताप्राप्तेः “विकल्पोऽवस्तुनिर्भासः” इति सिद्धान्तविरोधः इति भावः । ↩︎

  388. तुलना–यथैव हि वर्णादावभिलापाभावः तथा प्रत्यक्षेऽपि तस्य अभिलापकल्पनातोऽपोढत्वात् अनभिलापात्मकार्थसामर्थ्येनोत्पत्तेः । प्रत्यक्षस्य तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किन्नाध्यवस्येत् स्वलक्षणं स्वयमभिलापशून्यमपि । प्रत्यक्षमध्यवसायस्य हेतुर्न पुना रूपादिरिति कथं सुनिरूपिताभिधानम् ? यदि पुनरविकल्पकादपि प्रत्यक्षाद्विकल्पात्मनोऽध्यवसायस्योत्पत्तिः प्रदीपादेः कज्जलादिवत् विजातीयादपि कारणात् कार्यस्योत्पत्तिदर्शनादिति मतम्; तदा तादृशोऽर्थाद्विकल्पात्मनः प्रत्यक्षस्योत्पत्तिरस्तु तत एव तद्वदिति । जातिद्रव्यगुणक्रियापरिभाषाकल्पनारहितादर्थात् कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्यादिति चेत्; प्रत्यक्षात्तद्रहिताद्विकल्पः कथं जात्यादिकल्पनात्मकः स्यादिति समः पर्यनुयोगः । – [अष्टश॰ अष्टसह॰ पृ॰ ११८ ।] ↩︎

  389. “विकलोत्प–” [श्र॰] । ↩︎

  390. विकल्पवासना । ↩︎

  391. “अनुमेयमिति” [ब॰] । ↩︎

  392. यत्सम्यग्ज्ञानात्मक प्रमाण तत् द्विधैव द्विप्रकारमेव । तावेव प्रकाराबह–प्रत्यक्ष परोक्ष चेति । नन्वनुमानादिप्रमाणभेदसख्यापि सभाव्यत इत्याह–अत्रेत्यादि । न युज्यन्ते न सभवन्ति । के ? नियमाः द्वित्र्यादिसख्याप्रतिज्ञाः । किंविशिष्टाः ? परपरिकल्पिता परै सौगतादिभि कल्पिता रचिताः । कुतो न युज्यन्ते ? अन्तर्भावात् सग्रहात् । कासाम् ? अन्यसविदाम् अनुमानादिज्ञानानाम् । क्व ? अत्रैव प्रत्यक्षपरोक्षसग्रह एव… ।" – [लघी॰ ता॰ पृ॰ ८१ ।] ↩︎

  393. “–न्नु यु–” [ज॰ वि॰] । ↩︎

  394. तुलना–ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम्, हेयस्य हानमनुष्ठानमुपादेयस्य चोपादानम् । ततो हेयोपादेययो हानोपादानलक्षणा नु सिद्धिरित्युच्येत । – [न्यायबि॰ टी॰ पृ॰ ८ ।] हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाण ततो ज्ञानमेव तत् ।– [परीक्षामु॰ १ । २ । प्रमाणनय॰ १ । ३ ।] ↩︎

  395. साव्यवहारिक प्रत्यक्षम् । तुलना – [लघी॰ टि॰ पृ॰ १३२ प॰ १० ।] ↩︎

  396. लक्षण सममेतावान् विशेषोऽशेषगोचरम् । अक्रम करणातीतमकलङ्क महीयसाम् ॥ – [न्यायवि॰ का॰ १६८ । प्रमाणस॰ का॰ ९ ।] तुलना – [न्यायवि॰ टि॰ पृ॰ १६२ प॰ २५ । न्यायकुमु॰ पृ॰ २५ टि॰ २ ।] ↩︎

  397. तुलना–अस्ति सर्वज्ञ सुनिश्चितासभवद्बाधकप्रमाणत्वात् सुखादिवत् । – [ सिद्धिबि॰, टी॰ पृ॰ ४२१ब् । अष्टश॰, अष्टसह॰ पृ॰ ४४ । आप्तप॰ पृ॰ ५६ । तत्त्वार्थश्लो॰ पृ॰ १८५ । प्रमाणनि॰ पृ॰ २९ । प्रमाणमी॰ पृ॰ १४ । षड्द॰ बृह॰ पृ॰ ५३ ।] ↩︎

  398. “द्विविधैव” [ब॰] । ↩︎

  399. “–चीनविदाम्” [ब॰] । ↩︎

  400. “ज्ञानं कर्तृ प्रत्यक्षम्” [ब॰] । ↩︎

  401. सौगताभिमतम् । ↩︎

  402. मीमासाकाद्यभिमतम् । ↩︎

  403. नैयायिकाभिमतम् । ↩︎

  404. प्रत्यक्षम्, अर्थग्राहक वा । ↩︎

  405. हितप्राप्तौ अहितपरिहारे वा । ↩︎

  406. निर्विकल्पादे । ↩︎

  407. “–त्वात्तत्प्रमा–” [श्र॰] । ↩︎

  408. “ज्ञानं स्व–” [आ॰] । ↩︎

  409. “अवग्रहेहादय” [ब॰] । ↩︎

  410. [पृ॰ ११६ ।] ↩︎

  411. “इदानीमनिन्द्रियप्रत्यक्षं दर्श–” [ब॰] । ↩︎

  412. “प्रतिभागः” [श्र॰] । ↩︎

  413. “प्राधान्येतर–” [श्र॰] । ↩︎

  414. तुलना–इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातमिन्द्रियप्रत्यक्षम् अनिन्द्रियादेव विशुद्धिसव्यपेक्षादुपजायमानमनिन्द्रियप्रत्यक्षम् । – [प्रमेयर॰ २ । ४ । प्रमाणमी॰ पृ॰ १६ ।] ↩︎

  415. अनिन्द्रियप्रत्यक्षे । ↩︎

  416. अनिन्द्रियस्यैव इत्यवधारण द्रष्टव्यम् । ↩︎

  417. [पृ॰ ४०३ ।] ↩︎

  418. “–प्रत्यक्षप्रति–” [आ॰] । ↩︎

  419. स्मृत्यादीनाम् । ↩︎

  420. स्वरूप एव । ↩︎

  421. स्मृत्यादे । ↩︎

  422. “परोक्षत्वमिति” [श्र॰] ।इत्याह [ब॰] । ↩︎

  423. तुलना–मायास्वप्नोपम जगत् मायास्वप्नोपम लोकम्– [लङ्कावतार॰ पृ॰ ३२९, ३३४ ।] मायास्वप्नोपम सर्व सस्कार सर्वदेहिनाम् । – [नैरात्म्य॰ पृ॰ २१ ।] न हि तथागता कदाचिदप्यात्मन स्कन्धाना वाऽस्तित्व प्रज्ञपयन्ति । यथोक्त भगवत्याम्–बुद्धोष्यायुष्मान् सुभूते मायोपम स्वप्नोपम, बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपमा स्वप्नोपमा इति । तथा–धर्मस्वभाव तु शून्यविविक्तो बोधिस्वभाव तु शून्यविविक्तो । यो हि चरेत्स पि शून्यस्वभावो ज्ञानवतो न तु बालजनस्य इति । यथोक्त भगवता– शून्या सर्वधर्मा नि स्वभावयोगेन । निर्निमित्ता सर्वधर्मा निर्निमित्ततामुपादाय यथोक्त सूत्रे–मायोपम जगदिद भवता नटरङ्गस्वप्नसदृश विहित । नात्मा न सत्त्व न च जीवगतो धर्मा मरीचिदकचन्द्रसमा । – [माध्यमिकवृ॰ पृ॰ ४४२-४५ ।] तस्मान्मायास्वप्नादिस्वभावा सर्वधर्मा इति निश्चितमेतत् । स्यादेतत्–यदि सर्वव्यापिनी मायोपमस्वभावता बुद्धोऽपि तर्हि मायोपम स्वप्नोपम स्यात् । उक्तञ्चैतत् भगवत्याम्–एवमुक्ते सुभूतिस्तान् देवपुत्रानेतदवोचत्–मायोपमास्ते देवपुत्रा सत्त्वा स्वप्नोपमास्ते देवपुत्रा सत्त्वा इति हि माया च सत्त्वाश्चाद्वयमेतदद्वैधीकारम् । सर्वधर्मा अपि देवपुत्रा मायोपमा स्वप्नोपमा । स्रोत आपन्नोऽपि मायोपम स्वप्नोपम स्रोत आपत्तिफलमपि मायोपम स्वप्नोपमम् । एव सकृदागाम्यपि, सकृदागामिफलमपि । अनागाम्यपि अनागामिफलमपि । अर्हन्नपि अर्हत्त्वमपि मायोपम स्वप्नोपमय्, सम्यक्सबुद्धोऽपि मायोपम स्वप्नोपम । सम्यक्सबुद्धत्वमपि मायोपम स्वप्नोपम यावन्निर्वाणमपि मायोपम स्वप्नोपमम्, स चेन्निर्वाणदपि कश्चिद्धर्मो विशिष्टतर स्यात्तमप्यह मायोपम स्वप्नोपम वदामि । – [बोधिचर्या॰ पृ॰ ३७९ ।] आर्यललितविस्तरेप्युक्तम् [पृ॰ २०९-११] सस्कार प्रदीप अर्चिवत् क्षिप्रमुत्पत्तिनिरोधधर्मका । अनबस्थितमारुतोपमा फेनपिण्डेव असारदुर्बला ॥ सस्कार निरीहशून्यका, कदलीस्कन्धसमा निरीक्षते । मायोपमचित्तमोहना बाल उल्लापनरिक्तमुष्टिवत् ॥ – [बोधिचर्या॰ पृ॰ ५३२ ।] मायास्वप्नमरीचिबिम्बसदृशा प्रोद्भासश्रुत्कोपमा । विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्या पुन । – [महायानसू॰ पृ॰ ६२ ।] उद्धृतमिदम्– [सन्मति॰ टी॰ पृ॰ ३७१, ३७७ । शास्त्रवा॰ यशो॰ पृ॰ २१५अ ।] ↩︎

  424. “इन्द्रियज्ञान” [ब॰] । ↩︎

  425. तुलना–स्वयप्रभुरलङ्घनार्ह स्वार्थालोकपरिस्फुटमवभासते सत्यस्वप्नवत् । – [प्रमाणस॰ पृ॰ ९९ । प्रमाणम॰ टि॰ पृ॰ १७२ प॰ २३ ।] ↩︎

  426. इन् थे [प्रिन्त् एदितिओन्] थेरे इस् अ ड़ोओत्नोते रेड़ेरेन्चे बुत् नो ड़ोओत्नोते । ↩︎

  427. ईश्वरज्ञानस्य । ↩︎

  428. [पृ॰ १०८ ।] ↩︎

  429. नान्योनुभाव्यस्तेनास्ति तस्य नानुभवोऽपर । तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥ यथा च स्वरूपादन्यो बुद्ध्या अनुभाव्यो नास्ति तथा तस्य ज्ञानस्य चाऽपरोऽनुभवो नास्ति । तस्य ज्ञानग्रहणस्यापि तुल्यार्थचोद्यत्वात्, स ह्यन्यत्वनिबन्धनो ग्राह्यग्राहकभाव, तच्चानुपपन्नमित्युक्तम् । तस्मात्तज्ज्ञानमपरोक्षतया उत्पन्न स्वय प्रकाशते नान्येन प्रकाश्यते । – [प्रमाणवा॰ मनोरथ॰ २ । ३२७ ।] उद्धृतोऽयम् – [प्रश॰ व्यो॰ पृ॰ ५२५ । अष्टसह॰ पृ॰ ११० । सिद्धिवि॰ टी॰ पृ॰ १६६अ। । शास्त्रदी॰ पृ॰ १९५ । स्या॰ र॰ पृ॰ १५० । शास्त्रवा॰ यशो॰ प॰ १७४ब्, २१५ ब्। । न्यायकुमु॰ पृ॰ १३३ टि॰ ४ ।] ↩︎

  430. अर्थाविषयत्वे । ↩︎

  431. “–रूपस्यैवा–” [श्र॰] । ↩︎

  432. बुद्धे । ↩︎

  433. [पृ॰ ११९ ।] ↩︎

  434. [पृ॰ ८९ ।] ↩︎

  435. श्रुतस्य । तुलना–स्थानत्रयाऽविसवादि श्रुतज्ञान हि वक्ष्यते । तेनाधिगम्यमानत्व सिद्ध सर्वत्र वस्तुनि ॥ १२ ॥ – [तत्त्वार्थ॰ श्लो॰ पृ॰ १३ ।] ↩︎

  436. “–य संस्था–” [श्र॰] । ↩︎

  437. “न्याय” [ब॰] , [श्र॰] । ↩︎

  438. तद्विरोधेन चिन्तायाः तत्सिद्धार्थेष्वयोगत । तृतीयस्थानसङ्कान्तौ न्याय्य शास्त्रपरिग्रह ॥ तस्य शास्त्रस्य विरोधेन तत्सिद्धेष्वर्थेषु लिङ्गादिष्वसिद्धकल्पेषु गमकचिन्ताया अयोगत । यस्मात् प्रत्यक्षपरोक्षार्थयोर्नागमाधिकार तस्मात् तृतीयस्थाने अतीन्द्रिये विषये विचारसङ्कान्ते शास्त्रपरिग्रहो न्याय्य प्रकारान्तरासभवात् । – [प्रमाणवा॰ मनोरथ॰ ४ । ५१ ।] ↩︎

  439. यथा यदैका सपत्नी पतिसमीपे समुपतिष्ठति तदा द्वितीया ईर्ष्याबलिप्ता अनवकाशतया पत्युपकण्ठ नोपसर्पति न तथा प्रमाणाना सापत्न्यभावो इर्ष्यावलिप्तता अनवकाशता वा समस्ति इति भाव । ↩︎

  440. “सङ्घटः” [श्र॰] । ↩︎

  441. सभवैतिह्यादिकम् । ↩︎

  442. परोक्षे । ↩︎

  443. भवत । कौ ? उपयोगौ व्यापारौ । कस्य ? श्रुतस्य, श्रूयते इति श्रुतमाप्तवचन वर्णपदवाक्यात्मकं द्रव्यरूप तस्य, भावश्रुतस्य वा श्रवण श्रुतमिति निरुक्ते । कति ? द्वौ । किन्नामानौ ? स्याद्वादनयसज्ञितौ, स्यात्कथञ्चित् प्रतिपक्षापेक्षया वचन स्याद्वाद, नयन वस्तुनो विवक्षितधर्मप्रापण नय, स्याद्वादश्च नयश्च स्याद्वादनयौ, इत्थ सज्ञे व्यपदेशौ ययोस्तौ तथोक्तौ । तौ लक्षणतो निर्दिशति– स्याद्वाद उच्यते । क ? सकलादेश सकलस्य अनेकधर्मणो वस्तुन आदेश कथनम्, यथा जीवपुद्गलधर्माधर्माकाशकाला षडर्था । पुनर्नयो भवति । का ? विकलसकथा, विकलस्य विवक्षितैकधर्मस्य सम्यक् प्रतिपक्षापेक्षया कथा प्रतिपादन यथा जीवो ज्ञातैव द्रष्टैव इत्यादि । – [लघी॰ ता॰ पृ॰ ८३ ।] तुलना–तदुक्तम्–उपयोगौ श्रुतस्य द्वौ प्रमाणनयभेदत । – [सिद्धिवि॰ टी॰ पृ॰ ४अ। ।] ↩︎

  444. निर्दिश्यमानधर्मव्यतिरिक्ताऽशेषधर्मान्तरससूचकेन स्याता युक्तो वादोऽभिप्रेतधर्मवचन स्याद्वाद । – [न्यायाव॰ ता॰ टी॰ पृ॰ ९३ । न्यायकु॰ पृ॰ ३ टि॰ १० ।] ↩︎

  445. तुलना–स्यात्पदप्रयोगात्तु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्त्तत्वासख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्माधर्माधर्मगगनास्तिकायपुद्गलै साधारणा येऽपि च सत्त्वप्रमेयत्वधर्मित्वगुणित्वादय सर्वपदार्थै साधारणास्तेऽपि च प्रतीयन्ते । – [आव॰ नि॰ मलय॰ पृ॰ १७०अ ।] ↩︎

  446. सकलादेशविकलादेशयो स्वरूपे प्राय सर्वेषामैकमत्येऽपि केचिदकलङ्काद्याचार्या सप्तसु भगेषु सर्वानपि भङ्गान् एकधर्ममुखेन अशेषधर्मात्मकवस्तुप्रतिपादनकाले सकलादेशरूपान् एकधर्म प्रधानतया अन्यधर्माश्च गौणतयाऽभिधानसमये विकलादेशात्मकान् स्वीकुर्वन्ति । केचिच्च सिद्धसेनगणिप्रभृतय सदसदवक्तव्यरूप भङ्गत्रय सकलादेशत्वेन शिष्टाश्च चतुरो भगान् विकलादेशरूपेण मन्यन्ते । “अकलङ्कादीना ग्रन्था–” तथा चोक्तम्–सकलादेश प्रमाणाधीनो विकलादेशो नयाधीन इति । – [सर्वार्थसि॰ १ । ६ ।] यत्र यदा यौगपद्य तदा सकलादेश । एकगुणमुखेनाशेषवस्तुरूपसग्रहात् सकलादेश । तत्रादेशवशात् सप्तभगी प्रतिपदम् । यदा तु क्रम तदा विकलादेश [पृ॰ १८०] निरशस्यापि गुणभेदादशकल्पना विकलादेश । तत्रापि तथा सप्तभगी । – [राजवा॰ पृ॰ १८१ । नयचक॰ पृ॰ ३४८ब् ।] सकलादेशो हि यौगपद्येनाशेषधर्मात्मक वस्तु कालादिभिरभेदवृत्त्या प्रतिपादयति अभेदोपचारेण वा, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारेण भेदप्राधान्येन वा । – [तत्त्वार्थश्लो॰ पृ॰ १३६ । प्रमेयक॰ पृ॰ ६८२ । सप्तभगित॰ पृ॰ ३२ । प्रमाणनय॰ ४ । ४४, ४५ । जैनतर्कभा॰ पृ॰ २० ।] इय सप्तभङ्गी प्रतिभङ्ग सकलादेशस्वभावा विकलादेशस्वभावा च । – [प्रमाणनय॰ ४ । ४३ । गुणतत्त्ववि॰ पृ॰ १५अ । शास्त्रवा॰ टी॰ पृ॰ २५४ अ ।] यदा मध्यस्थभावेनार्थित्ववशात् किञ्चिद्धर्मं प्रतिपादयिपव शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाच प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत् सम्मुग्धाकारतयाचक्षते–यदुत जीवोऽस्ति कर्त्ता प्रमाता भोक्तेत्यादि, अत सम्पूर्णवस्तुप्रतिपादनाभावात् विकलादेशोऽभिधीयते नयमतेन सभवद्धर्माणा दर्शनमात्रमित्यर्थ । यदा तु प्रमाणव्यापारमविकल परामश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति “स्यादस्त्येव जीव” इत्यादिकया, अतोऽय स्याच्छब्दससूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्या प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसभवस्य वस्तुन सन्दर्शकत्वात् सकलादेश इत्युच्यते । प्रमाणप्रतिपन्नसम्पूर्णार्थकथनमिति यावत् । तदुक्तम्–सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र । सकलग्राहि तु मान विकलग्राही नयो ज्ञेय । – [न्यायावता॰ टी॰ पृ॰ ९२ । सिद्धसेनगणिप्रभृतीनां ग्रन्थाः–] एवेमेते त्रय सकलादेशा भाष्येणैव विभाविता सग्रहव्यवहारानुसारिण आत्मद्रव्ये । सम्प्रति विकलादेशाश्चत्त्वार पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकार–देशादेशेन विकल्पयितव्यमिति विवक्षायत्ता च वचस सकलादेशता विकलादेशता च द्रष्टव्या । द्रव्यार्थजात्यभेदात्तु सर्वद्रव्यार्थभेदानेवैक द्रव्यार्थं मन्यते, यदा पर्यायजात्यभेदाश्चैक पर्यायार्थं सर्वपर्यायभेदान् प्रतिपद्यते, तदा त्वविवक्षितस्वजातिभेदत्वात् सकल वस्तु एकद्रव्यार्थाभिन्नम् एकपर्यायार्थाभेदोपचरित तद्विशेषैकाभेदोपचरित वा तन्मात्रमेकमद्वितीयाश ब्रुवन् सकलादेश स्यान्नित्य इत्यादिस्त्रिविधोऽपि नित्यत्वानित्यत्वयुगपद्भावैकत्वरूपैकार्थाभिधायी । यदा तु द्रव्यपर्यायसामान्याभ्या तद्विशेषाभ्या वा वस्तुनः एकत्व तदतदात्मक समुच्चयाश्रय चतुर्थविकल्पे, स्वाशयुगपद्वृत्तं क्रमवृत्तञ्च पञ्चमषष्ठसप्तमेषूच्यते तथाविवक्षावशात् तदा तु तथा प्रतिपादयन् विकलादेश । – [तत्त्वार्थभा॰ टी॰ पृ॰ ४१५ ।] तत्र विवक्षाकृतप्रधानभावसदाद्येकधर्मात्मकस्यापेक्षितापराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यात् प्रतीतेः स्यादस्ति घट स्यान्नास्ति घट स्यादवक्तव्यो घट इत्येते त्रयो भङ्गा सकलादेशाः विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदससूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य प्रतिपत्ते चत्वारो वक्ष्यमाणका विकलादेशा–स्यादस्ति च नास्ति घट इति प्रथमो विकलादेश, स्यादस्ति चावक्तव्यश्च घट इति द्वितीयः, स्यान्नास्ति चावक्तव्यश्च घट इति तृतीय, स्यादस्ति च नास्ति चावक्तव्यश्च घट इति चतुर्थ । – [सन्मति॰ टी॰ पृ॰ ४४६ । उ॰ यशोविजयैः] यद्यपि [शास्त्रवा॰ टी॰ जैनतर्कभा॰-गुरुतत्त्वविनिश्चयादौ] सप्तानामपि भङ्गाना अकलङ्कोपज्ञाता सकलविकलादेशोभयरूपता सिद्धान्तीकृता तथापि “तैः अष्टसहस्त्रीविवरणे” “आद्यास्त्रयो भङ्गा सकलादेशा शिष्टाश्च चत्वारो विकलादेशा” इत्यपि तत्त्वार्थभाष्यससूचितं सिद्धसेनगणिव्यावर्णित कृतान्तीकृतम् । तथाहि–किन्तु आद्यभङ्गद्वयघटकनिजपररूपयो शृङ्गग्राहिकया व्यवस्थापन एव नयभेदो मतभेदो वा युज्यते तृतीयभङ्गस्तु अवक्तव्यलक्षण ताभ्या युगपदादिष्टाभ्या तद्भेदादनेकभेद, इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपा, सदसत्त्व-सदवक्तव्यादयश्चत्त्वारस्तु चरमा सावयवद्रव्यविषयत्वाद्विकलादेशरूपा, देशभेद विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वान्नोदेति इति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् । – [अष्टसह॰ विव॰ पृ॰ २०८ब् ।] अयमेव सिद्धान्त “शास्त्रवार्तासमुच्चयटीकायाम्” “केचित्तु” इति कृत्वा निर्दिष्ट । तथाहि–केचित्तु अनन्तधर्मात्मकवस्तुप्रतिपादकत्वाविशेषेऽपि आद्यास्त्रय एव भगा निरवयवप्रतिपत्तिद्वारा सकलादेशा अग्निमास्तु चत्त्वारः सावयवप्रतिपत्तिद्वारा विकलादेशा, इति प्रतिपन्नवन्त । – [शास्त्रवा॰ टी॰ पृ॰ २५४ब् ।] ↩︎ ↩︎

  447. “–पेक्षाऽनादि–” [ज॰ वि॰] । ↩︎

  448. “स्वेष्टविसिद्धि” [ज॰ वि॰] । ↩︎

  449. “मलयगिर्याचार्याः” स्यात्पदप्रयोग प्रमाणवाक्ये एव उररीकुर्वन्ति । एतन्मतानुसारेण सर्वेषा नयना मिथ्यारूपत्वात् । अतस्तै “स्यात्पदलाञ्छितो नय सम्यग्” इत्यकलङ्कमतस्य समालोचना कृता । प्रत्यालीचिता च सा उ॰ यशोविजयैरिति । तदेव समन्तभद्रसिद्धसेनदिवाकरादिभिरुपज्ञातम् अकलङ्कदेवै विवृतमेत मत हेमचन्द्रादय समर्थयन्ति । “मलयगिरिकृता” समालोचना इत्यम्–नयचिन्तायामपि च ते दिगम्बरा स्यात्पदप्रयोगमिच्छन्ति तथा चाकलङ्क एव प्राह–“नयोऽपि तथैव सम्यगेकान्तविषय स्यात्” इति । अत्र टीकाकारेण व्याख्या कृता–नयोऽपि नयप्रतिपादकमपि वाक्य न केवल प्रमाणवाक्यमित्यपिशब्दार्थ, तथैव स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषय स्यात्, यथा स्यादस्त्येव जीव इति । स्यात्पदप्रयोगाभावे तु मिथ्यैकान्तगोचरतया दुर्नय एव स्यादिति ।ऽ तदेतदयुक्तम्, प्रमाणनयविभागाभावप्रसक्ते, तथाहि–“स्याज्जीव एव” इति किल प्रमाणवाक्यम् “स्यादस्त्येव जीव” इति नयवाक्यम् । एतच्च द्वयमपि लघीयस्त्रय्यलङ्कारे साक्षादकलङ्केनोदाहृतम्, अत्र चोभयत्राप्यविशेष, तथाहि–स्याज्जीव एवेत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यताप्रतिपत्ति, अस्तीत्यनेनोद्भताकारशब्दप्रयोगादजीवशब्दवाच्यतानिषेध, स्याच्छब्दप्रयोगतोऽसाधारणसाधारणधर्माक्षेप । “स्यादस्त्येव जीव” इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्ति, अस्तीत्यनेनोद्भूतविवक्षितास्तित्वावगति, एवकारप्रयोगात्तु यदाशकित सकलेऽपि जगति जीवस्य नास्तित्व तद्व्यवच्छेद, स्यात्प्रयोगात् साधारणासाधारणप्रतिपत्तिरित्युभयत्राप्यविशेष एव । – [आव॰ नि॰ मलय॰ पृ॰ ३७१अ। । उ॰ यशोविजयै] एतन्मलयगिरिकृतम् आकलङ्कमतालोचन पर्वपक्षीकृत्य इत्थं समाहितम्–अत्रेदमवधेयम्– यो नाम नयो नयान्तरापेक्ष तस्य प्रमाणान्तर्भावे व्यवहारनय प्रमाण स्यात् तस्य तप सयमप्रवचनग्राहकत्वेन संयमग्राहिनिश्चयविषयकत्वेन तत्सापेक्षत्वात् । शब्दनयानाञ्च निक्षेपचतुष्टयाभ्युपगन्तॄणा भावाभ्युपगन्तृशब्दनयविषयकत्वेन तत्सापेक्षत्वात्प्रमाणत्वापत्ति । नयान्तरवाक्यसयोगेन सापेक्षत्वे च ग्राह्ये स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छेदकस्यैव लाभात तेनाऽनन्तधर्मात्मकत्वापरार्श । न चेदेव तदाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्ति अवच्छेदकभेद विना सप्रतिपक्षविषयसमावेशस्य दुर्बचत्वात्, इष्यते चायम् । स्यात्पदमवच्छेदकभेदप्रदर्शकतयैव विवृतम् । अत एव स्यादित्यव्ययमनेकान्तद्योतकमेव तान्त्रिकैरुच्यते । सम्यगनेकान्तसाधकस्य अनेकान्ताक्षेपकत्वात् न त्वनन्तधर्मपरामर्शकम्, अतो न स्यात्पदप्रयोगमात्राधीनमादेशसाकल्य येन प्रमाणनयवाक्ययोर्भेदो न स्यात्, किन्तु स्वार्थोपस्थित्यनन्तरमशेषधर्माभेदोपस्थापकविधेयपदवृत्त्यधीनम् । सा च विवक्षाधीनेत्यादेशसाकत्यमपि तथेति नयप्रमाणवाक्ययोरित्य भेद एव । मलयगिरिपादवचन तु अप्रतिपक्षधर्माभिधानस्थले अवच्छेदकभेदाभिधानानुपयुक्तेन स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात्, तत्र प्रमाणनयभेदानभ्युपगन्तृदुर्विदग्धदिगम्बरनिराकरणाभिप्रायेण योजनीयम् । – [गुरुतत्त्ववि॰ पृ॰ १७ब्। ।] ↩︎

  450. “किसङ्ख्यौ” [ब॰] , [श्र॰] । ↩︎

  451. “इत्याद्याह” [ब॰] ↩︎

  452. “इत्याद्युदा–” [ब॰] , [श्र॰] । ↩︎

  453. साख्य । द्रष्टा दृशिमात्र शुद्धोऽपि प्रत्ययानुपश्य । – [योगसू॰ २ । २० ।] ↩︎

  454. प्रकृतेर्महानुत्पद्यते । महान् बुद्धिर्धृतिर्ब्रह्मा पूर्तिः ख्यातिरीश्वरो विखर इति पर्यायाआह–उक्त प्रधानाद्वुद्धिरुत्पद्यते इति ? तत्र वक्तव्य किं लक्षणा पुनर्बुद्धिरित्युच्यते–अध्यवसायो बुद्धिर्धर्मो ज्ञान विराग ऐश्वर्यम् । सात्त्विकमेतद्रूप तामसमस्माद्विपर्यस्तम् ॥ – [साङ्ख्यका॰ युक्तिदी॰ पृ॰ १०८ ।] ↩︎

  455. जीव । ↩︎

  456. अनेकधर्मात्मक । ↩︎

  457. ज्ञानादीनाम् । ↩︎

  458. जीवधर्मताया । ↩︎

  459. [पृ॰ १९१ ।] ↩︎

  460. वैशेषिका । नवानामात्मगुणाना बुद्धिसुखदुःखेच्छाप्रयत्नधर्माधर्मसस्काराणाम् – [न्यायमं॰ पृ॰ ५०८ ।] ↩︎

  461. “–धारणगुणा” [ब॰] । ↩︎

  462. ज्ञानदर्शनवीर्यसुखाख्या । ↩︎

  463. आत्मगुणत्व । ↩︎

  464. “–यान् गुणा” [ब॰] । ↩︎

  465. जीवस्य अनेकधर्मात्मकत्वम् । ↩︎

  466. इयत्तावच्छिन्नपरिमाणयोगित्व मूर्त्तत्व तदभावोऽमूर्त्तत्वम् । – [सप्तप॰ पृ॰ ७२ ।] असर्वगतद्रव्यपरिमाणं मूर्तिरिति हि पदार्थविद । – [तत्त्वबि॰ पृ॰ १५८ ।] ↩︎

  467. जीवस्य । ↩︎ ↩︎

  468. [पृ॰ २६१ ।] ↩︎

  469. “–तदेश–” [श्र॰] । ↩︎

  470. आत्मन । ↩︎

  471. “–पि भवात्” [ब॰] । ↩︎

  472. “पुनरप्यन्यै” [श्र॰] । ↩︎

  473. “–ह सुप्रसि–” [श्र॰] । ↩︎

  474. “खट्स्वपि द्रव्येषु” [आ॰] । ↩︎

  475. “तथा तथा तेन” [श्र॰] । ↩︎

  476. “–कान्तेन प्रका–” [ब॰] । ↩︎

  477. “इतरेषु पु–” [श्र॰] । ↩︎

  478. “–कल्य वादेश–” [श्र॰] । ↩︎

  479. साकल्यशब्देन । ↩︎

  480. अनन्तधर्मात्मकत्वरूपसाकल्यस्य वाच्यस्य । ↩︎

  481. वाचके स्याद्वादे सकलादेशे । ↩︎

  482. न तु घर्मान्तिरस्य प्रतिक्षेपः । ↩︎

  483. “अनन्तात्मकत्वे तत्त्वे” [ब॰] । ↩︎

  484. सर्वशब्दस्य सर्वार्थप्रतिपादनमनुपपन्नम् । ↩︎

  485. “–यां नियत–” [श्र॰] । ↩︎

  486. “पूर्वः सकेतो–” [ब॰] , [श्र॰] । ↩︎

  487. अनादिसङ्केतापेक्षस्य जीवशब्दस्य । ↩︎

  488. “चेत्तस्य सकेतस्यात्” [ब॰] । ↩︎

  489. चित्तस्य । ↩︎

  490. बौद्धा । ↩︎

  491. मीमासका । ↩︎

  492. यौगा । ↩︎

  493. “–न्नद्वय–” [आ॰] , [श्र॰] । ↩︎

  494. “तथो स” [आ॰] । ↩︎

  495. ““नयोऽपि”” नास्ति [ब॰] । ↩︎

  496. ““नयवाक्यमपि”” नास्ति [आ॰] । ↩︎

  497. “–पदयोग–” [श्र॰] । ↩︎

  498. स्यात्पदप्रयोगाभावे । ↩︎

  499. स्यान्नास्त्येवेत्यादिषु । ↩︎

  500. “प्रयुञ्जते” [आ॰] । ↩︎

  501. स्यात्पदप्रयोगनियमः । ↩︎

  502. प्रतीयतेऽधिगम्यते । क ? स्यात्कार स्यादिति पदमव्ययम्, क्व ? सर्वत्र शास्त्रे लोके वा । कस्मिन् विषये ? विधौ सत्त्वादौ साध्ये । न केवल विधौ किन्तु निषेधेऽपि असत्त्वादावपि साध्ये । अन्यत्रापि अन्यस्मिन् अनुवादातिदेशादावपि । किविशिष्टोऽपि अप्रयुक्तोऽपि स्यादस्ति जीव इत्यनुक्तोऽपि । तर्हि कुत प्रतीयते इति चेदत्राह–अर्थात् सामर्थ्यात् ।चेद्यदि कुशल स्यात् व्यवहारे प्रबुद्ध स्यात् । क ? प्रयोजक प्रतिपादक । – [लघी॰ ता॰ पृ॰ ८६ ।] उद्धृतोऽयम्– “विधौ निषेधेन्यत्रापि” – [आव॰ नि॰ मलय पृ॰ ३६९ब्। । गुरुतत्त्वबि॰ पृ॰ १६अ। ।] तुलना– विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽय प्रतीयते ॥ व्यवच्छेदफलं वाक्य यथा चैत्रो धनुर्धर । पार्थो धनुर्धरो नील सरोजमिति वा यथा । – [प्रमाणवा॰ ४ । १९१-९२ ।] सामर्थ्याच्चाप्रयोगेऽर्थो गम्य स्यादेवकारयो । – [सिद्धिवि॰, टी॰ पृ॰ ५०७ब् । न्यायवि॰ का॰ ४५३ ।] सोऽप्रयुक्तोपि वा तज्ज्ञै सर्वत्रार्यात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥ – [तत्त्वार्थश्लो॰ पृ॰ १३७ । स्या॰ रत्ना॰ पृ॰ ७१८ । रत्नाकरावता॰ पृ॰ ६१ । सप्तभगित॰ पृ॰ ३१ । स्या॰ म॰ पृ॰ २७९ । नयप्रदीप॰ पृ॰ ९६अ ।] ↩︎

  503. “–युक्तेऽपि” मु॰ लघी॰ । ↩︎

  504. “–निराकाराभ्युपगमस्यावश्यं–” [ई॰ वि॰] । ↩︎

  505. “–युक्तो न” [ब॰] । ↩︎

  506. “–णमेतेन एव–” [ब॰] । ↩︎

  507. “वानयनं” [ब॰] , [श्र॰] । ↩︎

  508. “द्रष्टव्यम्” [ब॰] । ↩︎

  509. तुलना–अत्रान्यत्रापि इति–अनुवादातिदेशादिवाक्येषु। – [आव॰ नि॰ मलय॰ पृ॰ ३६९ब्। ।] ↩︎

  510. [पृ॰ ५३० टि॰ ३ ।] ↩︎

  511. [पृ॰ ६२० टि॰ ५ ।] ↩︎

  512. “–पेक्षया तथा धर्मापेक्षयाप्येकान्तः” [श्र॰] । ↩︎

  513. “–मुखेण” [आ॰] । ↩︎

  514. “अभावे न के–” [ब॰] । ↩︎

  515. “–दित्याह” [ब॰] । ↩︎

  516. विशेष्यसङ्गतैवकारोऽन्ययोगव्यवच्छेदबोधक, यथा पार्थ एव धनुर्धर । अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नतादात्म्यादिव्यवच्छेद । तत्र एवकारेण पार्थान्यतादात्म्याभावो धनुर्धरे बोध्यते । तथा च पार्थान्यतादात्म्याभाववद्धनुर्धराभिन्नः पार्थ इति बोध । – [सप्तभङ्गि॰ पृ॰ २६ ।] तत्र विशेष्यगतैवस्थले पार्थ एव धनुर्धर इत्यादौ अन्यतादात्म्यव्यवच्छेदोऽर्थ । अन्यत्वञ्च समभिव्याहृतपदार्थापेक्षिकम् । तथा च पार्थान्यतादात्म्याभाववद्धनुर्धराभिन्न पार्थ इति बोध । – [वैयाकरणभू॰ द॰ पृ॰ ३७० ।] यद्वा पार्थान्यस्मिन् प्रशस्तधनुर्धरत्व व्यवच्छिद्यते । – [वाच॰ । न्यायको॰ पृ॰ १९१ ।] ↩︎

  517. ज्ञानदर्शनोपयोग । ↩︎

  518. “–स्यानभ्यु–” [आ॰] । ↩︎

  519. एवकाराभावे अजीवोऽपि ज्ञानादिमान् स्यात्तथा च सर्वस्य चेतनात्मकत्वप्राप्त्या बाह्यद्रव्यस्य अचेतनस्य सर्वथाऽभाव स्यादिति भाव । ↩︎

  520. बाह्यार्थापलापे हि प्रमाणादिव्यवस्थाऽभाव, बाह्यार्थापेक्षयैव हि ज्ञाने प्रमाणतदाभास व्यवहारो भवति बहि प्रमेयापेक्षाया प्रमाण तन्निभञ्च ते [आप्तमी॰ का॰ ८३] इत्यभिधानात् । ↩︎

  521. तानि ज्ञानदर्शनादीनि लक्षणानि यस्य जीवस्य असौ तल्लक्षण । ↩︎

  522. विशेषणसङ्गतैवकारोऽयोगव्यवच्छेदबोधक, यथा शङ्ख पाण्डुर एवेति । अयोगव्यवच्छेदो नाम उद्देश्यतावच्छेदकसमानाधिकरणाभावाऽप्रतियोगित्वम् । – [सप्तभगि॰ पृ॰ २५ ।] विशेषणसङ्गतैवस्थले अयोगव्यवच्छेद “शङ्ख पाण्डुर एव” इत्यादौ शङ्खत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधनात् । – [वैयाकरणभू॰ द॰ पृ॰ ३७० ।] अत्र शङ्खत्वावच्छेदेन पाण्डुरत्वायोगव्यवच्छेदो बुध्यते । अथवा विशेष्ये शङ्खे पाण्डुरत्वायोगव्यवच्छेदो बोध्यते । – [म॰ प्र॰ १ पृ॰ ७] – [न्यायको॰ पृ॰ १९१ ।] ↩︎

  523. एतस्य जीवस्य लक्षण स्यात् । ↩︎

  524. “–क्षण स्यात्” [आ॰] । ↩︎

  525. जीव ज्ञानदर्शनोपयोगलक्षणो भवत्येव । ↩︎

  526. क्रियासङ्गतैवकारोऽत्यन्तायोगव्यवच्छेदबोधक यथा नील सरोजं भवत्येव । – [सप्तभङ्गि॰ पृ॰ २६ । वैयाकरणभू॰ द॰ पृ॰ ३७० ।] सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते । – [वाच॰ । न्यायको॰ पृ॰ १९२ ।] ↩︎

  527. एवकारसाध्यस्य । ↩︎

  528. “–ध्य योगादि–” [ब॰] । ↩︎

  529. अयोग योगमपरैरत्यनिपात एवकारो व्यतिरेचक नियामक क्वचिद् धर्मस्य विशेषणस्य अयोग व्यवच्छिनत्ति । क्वचिदपरै विशेष्यादन्यै योग व्यवच्छिनत्ति क्वचिदत्यन्तायोग व्यवच्छिनत्ति । ननु निपातो न स्वय वाचक किन्तु द्योतक तदस्य कथमयमर्थप्रभेद इत्याह–विशेषणविशेष्याभ्या क्रियया च सहोदित । द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्यवच्छेदक । विशेष्येण सहोक्तोऽन्ययोगस्य, क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेषणादिपदवाच्य एव अयोगव्यवच्छेदादि तत्सहोक्तनिपातद्योत्य इत्यर्थः । – [प्रमाणवा॰ मनोरथ॰ ४ । १९० ।] तुलना – [सिद्धिवि॰, टी॰ पृ॰ ५०७अ। ।] यद्विनिश्चयः –अयोग योगमपरै – [षङ्द॰ बृह॰ पृ॰ १४ । न्यायाव॰ टी॰ टि॰ पृ॰ १७ ।] यदुक्तम्–अयोगमन्ययोगञ्च अत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिधा मत ॥ – [काव्यप्र॰ टी॰ पृ॰ ८८ ।] ↩︎

  530. ““निपात एवकारो व्यतिरेचक”” नास्ति [ब॰] । ↩︎

  531. यत्र धर्मिणि धर्मसद्भाव सन्दिह्यते तत्राऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात् । अत्र दृष्टान्तो यथा चैत्रो धनुर्धर इति । चैत्रे हि धनुर्धरत्व सन्दिह्यते किमस्ति नास्तीति । ततश्चैत्रो धनृर्धर इत्युक्ते पक्षान्तरमधनुर्धरत्व श्रोतुराकाङ्क्षोपस्थापित निराकरोति अयोगव्यवच्छेदोऽत्र न्यायप्राप्त । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ १५ ।] चैत्रे धनुर्धरत्वसन्देहात् विशेषणेन अयोगमात्र व्यवच्छिद्यते । – [प्रमाणवा॰ मनोरथ॰ ४ । १९२ ।] ↩︎

  532. “इत्यन्ययो–” [आ॰] । ↩︎

  533. यथा पार्थो धनुर्धर इति सामान्यशब्दोऽप्यय धनुर्धरशब्दः प्रकरणसामर्थ्यादिना प्रकृष्टगुणवृत्तिरिह पार्थे हि धनुर्धरत्व सिद्धमेवेति नाऽयोगाशङ्का । तादृशन्तु सातिशय किमन्यत्राप्यस्ति नास्ति इत्यन्ययोगशङ्काया श्रोतुर्यदा पार्थो धनुर्धर इत्युच्यते तदा सातिशय पार्थ एव धनुर्धरो नान्य इति प्रतीयते । तेनात्र अन्ययोगव्यवच्छेदो न्यायप्राप्तः । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ १५ ।] पार्थे धनुर्धरत्व प्रसिद्धमेव किन्तु तादृशमन्यस्यापि किमस्तीति सन्देहे अन्ययोगव्यवच्छेदफल विशेषणम् । – [प्रमाणवा॰ मनोरथ॰ ४ । १९२ ।] ↩︎

  534. अर्जुने । ↩︎

  535. न खलु सर्वमेव नील सरोज येनायोगव्यवच्छेद स्यात्, नापि सरोजमेव नीलं येन अन्ययोगव्यवच्छेदो भवेत् । किन्तु “नील सरोज सभवति न वा” इत्यत्यन्तायोगसन्देहे विशेषणेन स एव व्यवच्छिद्यते । – [प्रमाणवा॰ मनोरथ॰ ४ । १९२ ।] ↩︎

  536. “तदेतदसमी–” [ब॰] , [श्र॰] । ↩︎

  537. यादृश धनुर्धरत्व पार्थे न तादृगन्यत्र इति । ↩︎

  538. तुलना–यत्रापि अन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषी व्यवच्छिद्यते न योगसामान्यम्, यादृग् पार्थे धनुर्धरता तादृगन्यत्र नास्तीति । – [तत्त्वार्थभा॰ व्या॰ पृ॰ ४०९ ।] ↩︎

  539. स्यात्कार । ↩︎

  540. “–र्थ्यधर्म्यस्य” [श्र॰] । ↩︎

  541. “–म्यस्य सर्वत्र” [ब॰] । ↩︎

  542. तुलना–अयोगव्यवच्छेदेन हि अस्तिना योग इष्यते । स च योग किं सामान्यरूपेण अस्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति सर्वथा प्राक्तनदोषप्रसङ्ग । व्यवच्छेदोऽपि अस्तित्वसामान्यायोगस्य वा अस्तित्वविशेषायोगस्य वा उभयायोगस्य वा ? – [तत्त्वार्थभा॰ व्या॰ पृ॰ ४०९ ।] चैत्रस्य धनुषा अयोगे व्यवच्छिन्ने योग प्रतिपादितो भवेत् इतरथा चैत्रो धनुर्धर एवेति प्रयोगानुपपत्ति । सैव सर्वथा कथञ्चिद्वा स्यात् ? आद्ये पद्ये चैत्रस्य घनुषाऽयोगे व्यवच्छिन्ने सति न चैत्रता सिद्ध्येत् धनुर्भाव सिद्ध्येत् । केषामित्याह–स्याद्वादविद्विषाम् एकान्तवादिनामित्यर्थः । – [सिद्धिवि॰ टी॰ पृ॰ ५०८ब्। ।] ↩︎

  543. अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगो नास्ति योग एव सर्वथा, अथवा कदाचिदस्ति कदाचिन्नास्तीत्येव च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्य । – [तत्त्वार्थभा॰ व्या॰ पृ॰ ४०९ ।] यच्चान्यदुक्त क्रियया सहोदितोऽत्यन्तायोगमेव च व्यच्छिनत्ति निपातो व्यतिरेचक इति, तत्र दूषणमाह–प्राप्तमित्यादि । नीलं सरोज भवत्येवेति चेत् यदि तर्हि समन्तात् नित्य सर्वदा नीलं सरोजैकरूप व्यक्तं यथा भवति तथेदं जगत् प्राप्तम् । अयमभिप्राय–सर्वथा कथञ्चिद्वा नील सरोज भवत्येव ? प्रथमपक्षेऽय दोष, अन्यत्र अनेकान्त इति । – [सिद्धिवि॰ टी॰ पृ॰ ५१०अ ।] ↩︎

  544. “व्यवच्छेदाच्चैत्र–” [ब॰] । ↩︎

  545. “अथ स्वरूपा–” [ब॰] । ↩︎

  546. धनुर्धरत्वात् । ↩︎

  547. “विधीयेत” [श्र॰] । ↩︎

  548. निवृत्तिर्विधीयताम् । ↩︎

  549. “–यस्यते” [आ॰] । ↩︎

  550. धनुर्धरत्वम् । ↩︎

  551. नीलत्वासभवमात्रम । ↩︎

  552. एवकारात् । ↩︎

  553. “–वृत्तेः” [श्र॰] । ↩︎

  554. “ननु” [आ॰] । ↩︎ ↩︎

  555. धनुर्धरत्वाद्भिन्नत्वेऽपि । ↩︎

  556. धनुर्धरोऽपि स्यात् शूरश्च उदारश्च इति न कोऽपि विरोध । ↩︎

  557. “स्वार्थस्वभावात्मक” [ब॰] । ↩︎

  558. “–त्मकं प्र–” [श्र॰] । ↩︎

  559. स्वरूपस्य प्रतियोगिनश्चापेक्षा, स्वरूपापेक्षो भावव्यवहार प्रतियोग्यपेक्षोऽभावव्यवहार – [आ॰ टि॰] । ↩︎

  560. “निवृत्ते शकोपि” [आ॰] । ↩︎

  561. ““नास्तीत्युक्ते”” नास्ति [आ॰] । ↩︎

  562. अनेकान्तनिरासोऽवश्य भवतीति न – [आ॰ टि॰] । ↩︎

  563. स्याज्जीव सन्नेवेति हि नयवाक्यम्, अत्र चेदवधारण न क्रियते तदा यथा धर्मिणि जीवे अवधारणरहिते अनेकान्तोऽस्ति तथा धर्मेऽपि अस्तित्वाख्ये स प्राप्नोति, नयरूपञ्चेदम्, धर्मिण्यनेकान्त धर्मे एकान्त – [आ॰ टि॰] । ↩︎

  564. “नत्वेच्छया” [ब॰] । ↩︎

  565. बौद्ध । ↩︎

  566. प्राहुरभिदधति । के ? वर्णा अक्षराणि गकारादीनि । तथा पदानि गवादीनि तथा वाक्यानि च गामानयेत्यादीनि । कान् ? अर्थान् अभिधेयान् । किं विशिष्टान् ? अवाञ्छितान्, अविवक्षितान् भूम्यादीन्, वाञ्छिताश्च विवक्षितानपि सास्नादिमदादीन् । क्वचित् मन्दबुद्धिषु प्रतिपाद्येषु न प्राहु तेषा ततोऽर्थाधिगमाभावात् इत्येव प्रकारा सर्वजनप्रतीता प्रसिद्धि रूढि । ईदृशी विचित्रा व्यवहारिभिरभ्युपगन्तव्या तथैवार्थक्रियोपपत्ते । ता प्रसिद्धिमतिक्रम्यैव उल्लघ्यैव । स्वेच्छया स्वैरभावेन वदता कथयता सौगताना युज्यते युक्त भवतीति, अधिक्षेपवचनम् । कथम् ? शब्द सूचकं वाचकम् । कस्य ? वक्त्रभिप्रेतमात्रस्य वक्तु प्रयोजकस्याभिप्रेतमभिप्रायो विवक्षा तावन्मात्रस्यैव न बहिरर्थस्येति । नु अहो आश्चर्यमित्याक्षेपो गम्यते, सामान्यविशेषात्मनो बहिरर्थस्य शब्दप्रयोगात्प्रतीतेस्तस्यैव तदर्थत्वात् अभिप्रायस्य तत स्वप्नेप्यप्रतीते । – [लघी॰ ता॰ पृ ८७ ।] ↩︎

  567. तुलना–तदुक्तम्–विवक्षाप्रभवा हि शब्दास्तामेव ससूचयेयु । – [तत्त्वोप॰ पृ॰ १२० ।] ↩︎

  568. “न्विति” [आ॰] , मु॰ लघी॰ । ↩︎

  569. “कुतोऽप्रतीयते” [ज॰ वि॰] । ↩︎

  570. तुलना–विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीक्ष्यते । वाञ्छन्तो वा न वक्तारः शास्त्राणा मन्दबुद्धय ॥ – [न्यायवि॰ का॰ ३५४ ।] विज्ञानगुणदोषाभ्या वाग्वृत्तेर्गुणदोषता । वाञ्छन्तो वा न वक्तार शास्त्राणा मन्दबुद्धय । – [प्रमाणसं॰ का॰ १६ । प्रमाणसं॰ टि॰ पृ॰ १७३ पं॰ २३ ।] ↩︎

  571. तुलना–बुद्धिशब्दप्रमाणत्व बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु ॥ – [आप्तमी॰ का॰ ८७ ।] ↩︎

  572. “अर्थस्यानाप्ति–” [ज॰ वि॰] । ↩︎

  573. “तत्र शब्दव्यवहारस्थितिमप्रतिक्रम्य स्वेच्छ–” [ई॰ वि॰] । ↩︎

  574. “अबाधितमतिक्रम्य” [ज॰ वि॰] । ↩︎

  575. “–वं सिद्धिः” [श्र॰] । ↩︎

  576. “न्विति” [आ॰] । ↩︎

  577. “–त्या प्रति–” [ब॰] । ↩︎

  578. ““वा”” नास्ति [श्र॰] । ↩︎

  579. अर्थप्रतिपादकत्वाऽनुपपत्ते । यदा हि क्षणिक शब्दो न शक्तोऽर्थावधारणे । न हि क्षणिकस्य सम्बन्धग्रहण सम्भवति – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ३, न्यायर॰ ।] ↩︎

  580. कुमारिलमते हि शब्दो नित्य द्रव्यरूपश्च । श्रोत्रमात्रेन्द्रियग्राह्यःशब्द शब्दत्वजातिमान् । द्रव्य सर्वगतो नित्य कुमारिलमते मत ॥ – [मानमेयो॰ पृ॰ २१८ ।] प्रभाकरमते च शब्दो नित्योऽपि आकाशस्य गुणो न तु स्वतन्त्र द्रव्यम् । द्रष्टव्यम्–आकाशश्च शब्दवानिति, स एव श्रोत्र तद्गुणश्च शब्द – [प्रक॰ प॰ न्यायशुद्धिप्रकरणम् ।] ↩︎

  581. सङ्केतव्यवहारकालव्यापकतया । ↩︎

  582. वय तावत्प्रत्यभिजानीमो न न करणदौर्बल्यम्, एवमन्येऽपि प्रत्यभिजानन्ति, स एवायमिति प्रत्यभिजानाना प्रत्यभिजानन्ति चेद्वयमिवान्येऽपि नान्य इति वक्तुमर्हन्ति । – [शाबरभा॰ १ । १ । २० ।] प्रत्यभिज्ञयैव कालान्तरावस्थायिता सिद्ध्यति, कालान्तरावस्थितिश्च सप्रत्यभिज्ञप्रत्यक्षगम्येत्युक्तम् । – [बृहती॰ १ । १ । १८ ।] शब्दोऽपि प्रत्यभिज्ञानात् प्रागस्तीत्यवगम्यते । – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ३३ । भाट्टचि॰ पृ॰ २६ ।] एतदुक्त भवति–प्रत्यभिज्ञाख्यविशेषप्रत्ययबलेन ह्यस्तनाद्यतनगकारयोरेकत्वावगमान्नित्यत्वमाश्रीयते अतो गत्वादिसामान्यनिबन्धनेय प्रत्यभिज्ञा सिद्ध्यति । एव सति व्यक्तिभेदे सामान्य तदभावात्तु नास्ति सामान्यमित्येव वक्तव्यम्, अत सिद्ध प्रत्यभिज्ञया शब्दस्य नित्यत्वम् । – [शास्त्रदी॰ पृ॰ ५४०, ५६८ । तन्त्ररह॰ पृ॰ २६ ।] ↩︎

  583. प्रत्यभिज्ञानस्य । ↩︎ ↩︎ ↩︎ ↩︎

  584. प्रत्यभिज्ञानस्य मिथ्यात्वरूपमप्रामाण्यम् । ↩︎

  585. प्रत्यभिज्ञानम् । ↩︎ ↩︎

  586. प्रत्यभिज्ञानकारणानामिन्द्रियादीनाम् । प्रमाण प्रत्यभिज्ञान दृढेन्द्रियतयोच्यते । – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ३७२ ।] ↩︎

  587. स एवायम्–आ॰ टि॰ । ↩︎

  588. पूर्वप्रत्यक्ष । ↩︎

  589. ननु गृहीतमपि गृह्यते इति कथ प्रामाण्यमत आह य इति । तस्मिन्नशे मा भूत्प्रामाण्यम् अगृहीतकालान्तरसम्बन्धापेक्षमेव तु प्रामाण्यमिति । – [न्यायर॰ ।] ननु न केवलमधिक गम्यते किन्तु प्रागवगतमपि इति कथ प्रामाण्यमत आह य पूर्वेति । सविकल्पके हि शब्दार्थस्वरूपसम्बन्धकालसम्बन्धा प्रथन्ते तत्र शब्दादिरशोऽस्मृतिविषय इति मा नाम प्रमाणविषयो भवतु इदानीन्तनी तु वस्तुसत्ता न पूर्वमवधृतेत्यस्ति तत्र प्रमाणावसर इति स्थित प्रामाण्यम् । इन्द्रियव्यापारानुविधानाच्च प्रत्यक्षत्वमिति । एकञ्चेद पूर्वविज्ञानजनितसस्कारप्रत्युत्पन्नेन्द्रियादिकारणक वेदितव्यम् । – [काशिका ।] “पूर्वमवगतोऽश स न नाम”– प्रमेयक॰ पृ॰ ३३९ । “पूर्वमवगतो नाश स च नाम” – [सन्मति॰ टी॰ ३१९ ।] “य पूर्वावगतोऽशोऽत्र स नो नाम” – [स्या॰ र॰ पृ॰ ६७५ ।] उत्तरार्धम् – [तत्त्वोप॰ पृ॰ २७ । प्रमाणवा॰ स्व॰ टी॰ पृ॰ ७७ । तत्त्वसं॰ पृ॰ १५९ ।] ↩︎

  590. स एवाय शब्द इति प्रत्यभिज्ञानस्य । ↩︎

  591. प्रत्यभिज्ञानस्य । तत्र शब्दार्थसम्बन्ध प्रमातु स्मरतोऽपि या । बुद्धि पूर्वगृहीतार्थसन्धानादुपजायते ॥ चक्षुषा सन्निकृष्टेऽर्थे नाऽप्रत्यक्षमसौ भवेत् ॥ – [मी॰ श्लो॰ प्रत्यक्ष॰ श्लो॰ २२९–३० ।] ↩︎

  592. “सत्सयोग–” [श्र॰] । ↩︎

  593. सश्चासी सम्प्रयोगश्चेति कर्मधारय तथा च इन्द्रियाणामर्थेन साक सम्बन्धे विद्यमाने सतीत्यर्थ । तुलना–किं पुनरिद प्रत्यभिज्ञास्य प्रमाणम् ? प्रत्यक्षमिति ब्रूम । पूर्वानुभवजनितमस्कारसध्रीचीनेन्द्रियजन्यत्वात् ग्रहणस्मरणरूपमिदमेक ज्ञानम् । – [शास्त्रदी॰ पृ॰ ५६८ ।] ↩︎

  594. नन्विदं भवत्यधिकविषयं स्मरणोत्तरकाले भवत् कथ प्रत्यक्षम् ? न हि निर्विकल्पकस्य प्रत्यक्षस्यैष धर्मो दृष्ट अत आह–नहीति । न हि स्मरणात् प्राग्भाविता प्रत्यक्षलक्षणम्, अपि तर्हि इन्द्रियजत्वम्, तच्चात्राप्यविशिष्टमिति भाव । यदि स्मरणेनेन्द्रियप्रवृत्तिरेव वार्यते तदा दूष्यते, ततस्तदुत्तरकालं जायमान सविकल्पक प्रत्यक्षं भवेदपि, न त्वेतदस्ति इत्याह न चेति । यतः स्मृत्या नेन्द्रिय विरुध्यते न वा दूष्यते, तेन प्रागूर्ध्वं वा स्मृतेर्यदिन्द्रियार्थसम्बन्धाद् ज्ञान जायते सर्वं तत्प्रत्यक्षमभ्युपगन्तव्यमित्याह–तेनेति । – [काशिका ।] ↩︎

  595. अर्थात् यच्च स्मरणादूर्ध्वं तदप्रत्यक्षम् – [आ॰ टि॰ ।] ↩︎

  596. “राजकीय वा वैदिक वापि” [मी॰ श्लो॰ ।] “राजकीय वा लौकिक नापि” – [सन्मति॰ टी॰ पृ॰ ३१९ ।] उद्धृता इमे– [प्रमेयक॰ पृ॰ ३३९ । सन्मति॰ टी॰ पृ॰ ३१९ । स्या॰ र॰ ४९९ ।] ↩︎

  597. “प्रागूवापि” [आ॰] । ↩︎

  598. प्रत्यभिज्ञानात् । ↩︎

  599. शब्दस्य । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  600. यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्व वक्तु शक्ष्यामः ततो नित्यप्रत्ययसामर्थ्यात् प्रयत्नेनाभिव्यज्यते इति भविष्यतीति । – [शाबरभा॰ १ । १ । १२ ।] शब्दस्य प्रयत्न एव कारणतया सभावितः । स च प्रत्यभिज्ञाबलेन द्वितीयादिदर्शनेष्वभिव्यञ्जकतामापादित इति प्रथमदर्शनेप्यसौ अभिव्यञ्जक एव अत कारणरहितत्वेन सत्त्वान्नित्य शब्द गगनादेरिव नास्याऽनित्यतेति । – [प्रक॰ पं॰ पृ॰ १७० । भाट्टचि॰ पृ॰ २६ ।] एवञ्चोच्चारणं शब्दस्य न कारण किन्तु अभिव्यञ्जकमिति सिद्धम् । न चोच्चारणादन्यत्कारण सभवतीत्यकार्यत्वम्, अत एवाविनाशान्नित्यत्वसिद्धि । – [ शास्त्रदी॰ पृ॰ ५९० ।] शब्द प्रयत्नाभिव्यङ्ग्य यथा तदनुत्पाद्यत्वे सति तदनन्तरमुपलब्धे, यो यदनुत्पाद्यत्वे सति यदनन्तरमुपलभ्यते स तदभिव्यङ्ग्यः यथा प्रदीपानन्तरमुपलभ्यमानो घट । – [ तन्त्ररह॰ पृ॰ २६ । मानमेयो॰ पृ॰ २२१ ।] ↩︎

  601. “–पि शब्दस्य” [श्र॰] । ↩︎

  602. “प्रकृतत्वं” त– [श्र॰] । ↩︎

  603. श्रौत्रता चेय हेतु शब्दत्ववत्कृत । यद्वा श्रोत्रप्रत्यक्षत्वमत्र हेतु, तद्धि शब्दत्वदृष्टान्तेन शक्नोति नित्यत्व साधयितुमित्याह श्रौत्रेति । – [मी॰ श्लो॰, न्यायर॰ शब्दनि॰ श्लो॰ ३९३ ।] प्रयोगश्चैव भवति नित्य शब्द श्रावणत्वाच्छब्दत्ववत् । – [शस्त्रदी॰ पृ॰ ५८५ ।] ↩︎

  604. “देशकालादिभिन्ना वा समस्ता गोत्वबुद्धय । एकगोशब्दजन्या स्युर्गोधीत्वादेकबुद्धिवत् ॥ गोशब्दबुद्धयोऽप्येवमेकगोशब्दगोचराः ॥ गोशब्दविषयत्वेन कल्प्यतामेकबुद्धिवत् ॥…गोशब्दबुद्ध्या ह्यस्तन्या गोशब्दोऽय प्रकाशितः । गोशब्दविषयत्वेन यथैवाद्यप्रसूतया ॥ इय वा त विजानाति तद्धेतोः पूर्वबुद्धिवत् । उभे वाप्येकविषये भवेतामेकबुद्धिवत् । – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ४१८–२१ ।] तुलना–देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धय । समानविषया सर्वा न वा नानार्थगोचरा ॥ गौरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नबुद्धिवत् । गोशब्दव्यक्तिषु या बुद्ध्यो देशकालद्रुतमध्यबिलम्बितादिप्रतिभेदभासभिन्नास्ता एकार्थविषया नानार्थविषया न वा भवन्ति गौरित्याकारोपग्रहेणोत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोबुद्धिवत् । अथवा या या गोशब्दविषया बुद्धि साऽद्यतनगोशब्दविषया गोशब्दविषयत्वात् अद्यप्रसूतगोशब्दबुद्धिवत् । गोशब्दविषया च ह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतु । अथवा अह्यस्तनी गोशब्दबुद्धिर्धर्मिणी ह्यस्तनगोशब्दविषयत्व साव्यधर्मः गोशब्दविषयत्वादिति हेतु ह्यस्तनी गोशब्दबुद्धिर्दृष्टान्त अथवा, उभे ह्यस्तन्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत् । अथवा, समस्ता गोत्वबुद्धय देशादिभेदभिन्ना एकगोशब्दजन्या गोधीत्वादेकगोबुद्धिवत् । पूर्व गोशब्दविषया बुद्धय धर्मिण्य एकविषयत्वञ्च साध्यम्, इदानीञ्च गोत्वजातिविषया बुद्धयो धर्मिण्य एकगोशब्दजन्यत्व साध्यमिति विशेष । – [तत्त्वस॰ पं॰ पृ॰ ५९२ । स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  605. नित्ये तु सति गोशब्दे बहुकृत्व उच्चरित श्रुतपूर्वश्चान्यासु गोव्यक्तिषु अन्वयव्यतिरेकाभ्यामाकृतिवचनमवगमयिष्यति, तस्मादपि नित्य । – [शाबरभा॰ १ । १ । १९ ।] ह्यस्तनोच्चारितस्तस्माद्गोशब्दोऽद्यापि विद्यते । गोशब्दज्ञानगम्यत्वाद्यथोक्तोऽद्यैष गौरिति ॥ – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ४१६ ।] ↩︎

  606. ह्यो वाऽऽसीदेष गोशब्द पूर्वोक्तेनैव हेतुना । यद्वा गोत्वाभिधायित्व वाच्यो हेतुर्द्वयोरपि ॥ – [ मी॰ श्लो॰ शब्दनि॰ श्लो॰ ४१७ ।] तुलना–गौरिति श्रूयमाणोऽद्य ह्योऽपि शब्दो मया श्रुतः । हेतो पूर्वोदितादेव ह्य उच्चारितशब्दवत् ॥ – [तत्त्वस॰ पृ॰ ५९२ । स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  607. “ह्यापि” [ब॰] । ↩︎

  608. “गोशब्दो वा” [श्र॰] । ↩︎

  609. अत्रोच्यते स्थिर शब्दो धूमगोत्वादिजातिवत् । सम्बन्धानुभवापेक्षसामान्यार्थावबोधनात् ॥ – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ३११ ।] तुलना–शब्दो वा वाचको यावान् स्थिरोऽसौ दीर्घकालभाक् । सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्तनात् । य ईदृक् स स्थिरो दृष्ट धूमसामान्यभागवत् ॥ – [तत्त्वस॰ पृ॰ ५९२ । स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  610. वाच्यवाचकभावेन – [आ॰ टि॰] । ↩︎

  611. तुलना–अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधक । तादात्विकनिमित्तत्वाद् दीपविद्युत्प्रकाशवत् ॥ – [तत्त्वस॰ पृ॰ ५९२ । स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  612. “चोदयति” [श्र॰] । ↩︎

  613. न हि प्रदीपादिप्रकाशस्य नियतेन घटादिना सम्बन्धोऽस्ति, तादात्विकनिमित्तत्वात्, यत्र यत्र याति तत्र तत्र प्रकाशयति । सम्बन्धे हि स्मृत्यपेक्षा भवति, न च घटप्रदीपादयस्तथा – [आ॰ टि॰] । तादात्विक तावत्कालिक व्यवहारकालानुयायि निमित्त सम्बन्धो यस्य स तथोक्त तद्भावस्तत्त्वम् । – [तत्त्वस॰ प॰ पृ॰ ५९३ । स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  614. अनपेक्षत्वात् १ । १ । २१ । येषामनवगतोत्पत्तीना द्रव्याणा भाव एव लक्ष्यते तेषामपि केषाञ्चिदनित्यता गम्यते येषा विनाशकारणमुपलभ्यते, यथा अभिनव पट दृष्ट्वा । न चैन क्रियमाणमुपलब्धवान् अथ चानित्यत्वमवगच्छति रूपमेव दृष्ट्वा । तन्तुव्यतिषङ्गजनितोऽय तन्तुव्यतिषङ्गविनाशात्तन्तुविनाशाद्वा विनश्यतीत्यवगच्छति । नैव शब्दस्य किञ्चित्कारणमवगम्यते यद्विनाशाद्विनङ्क्ष्यति इत्यवगम्यते । – [जैमिनिसू॰, शाबरभा॰ १ । १ । २१ ।] एव स्थितस्य शब्दस्य श्रुतिकालात्क्षणान्तरे । सम्भाव्यते विनाशित्व न भूयोऽन्येन हेतुना ॥ यथा शस्त्रादिभिर्भेदाज्जरया वा पटादय । नङ्क्ष्यतीत्यवगम्यन्ते नैव शब्देऽस्ति कारणम् ॥ – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ ४४२–४३ ।] उद्धृतोऽयम् – [स्या॰ र॰ पृ॰ ६७६ ।] अस्यार्थ–शब्द सर्वकाल स्थिर विनाशहेतुशून्यत्वात् । विनाशहेतुशून्यत्वञ्च कञ्चित्काल स्थिरत्वात्सिद्धम् । स हि सम्बन्धकरणकालं यावदनुपद्रुत पश्चादपि केनापनीयतामिति । – [स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  615. तुलना – [स्या॰ र॰ पृ॰ ६७६ ।] ↩︎

  616. नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् । नित्य शब्दो भवितुमर्हति । कुत ? दर्शनस्य परार्थत्वात् । दर्शनमुच्चारण तत्परार्थं परमर्थं प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे नचाऽन्योऽन्यानर्थ प्रत्याययितु शक्नुयात्, अतो न परार्थमुच्चार्येत । अथ न विनष्टस्ततो बहुश उपलब्धत्वादर्थावगम इति युक्तम् । – [जैमिनिसू॰, शाबरभा॰ १ । १ । १८ ।] अर्थप्रतिपत्त्यन्थानुपपत्त्या तु नित्यत्वमेव युक्तम् । न हि प्रत्युच्चारणमन्यस्यान्यस्य क्रियमाणस्यार्थप्रत्यायकत्व सभवति सम्बन्धग्रहणासभवात्, अगृहीतसम्बन्धस्य चाऽप्रत्यायकत्वात् । न चान्यस्मिन् गृहीतसम्बन्धेऽन्यस्य प्रत्यायकत्व सभवति । न हि गोशब्दे गृहीतसम्बन्धेऽश्वशब्द प्रत्याययति । – [शास्त्रदी॰ पृ॰ ५५९ ।] शब्दो नित्य परार्थदर्शनसम्बन्धित्वात् धूमादिवदिति । – [नयवि॰ पृ॰ २४२ ।] ↩︎

  617. “–त्वं तथा–” [श्र॰] । ↩︎

  618. अर्थप्रतिपत्ति । ↩︎

  619. नित्ये च अनित्ये च – [आ॰ टि॰ ।] ↩︎

  620. अनित्ये एव – [आ॰ टि॰] । ↩︎

  621. अनित्यशब्दस्य । ↩︎

  622. शब्दो नित्य दर्शनस्य परार्थत्वाऽन्यथानुपपत्ते, परार्थवाक्योच्चारणान्यथानुपपत्ते, अर्थप्रतीत्यन्यथानुपपत्तेर्वा । ↩︎

  623. अनुमानत्वाद्यभाव – [आ॰ टि॰] । ↩︎

  624. अर्थापत्तौ हि द्वावेव दोषौ अन्यथाप्युपपत्तिरन्यथैवोपपत्तिश्च । तदिहापि यद्यनित्यत्वेऽप्यर्थप्रत्यायकत्वमुपपद्येत अनित्यत्व एव वा ततो दूषण स्यात् नतु तदस्तीत्याह यदीति । – [न्यायर॰ पृ॰ ७९० ।] यदि शब्दे नाशिनि नित्ये वा वाचकसामर्थ्यमित्यनेन सशय उक्त विनाशिन्येव वा शब्दे वाचकसामर्थ्यमित्यनेन तु विपर्यय उपदर्शित तदा दूषणमुच्यतामिति । यदैव शब्दे वाचकसामर्थ्यं सन्दिग्ध विपर्यस्तञ्च स्यात्तदा दूषणावसर एतच्चात्रोभयमपि नास्तीति भाव । – [स्या॰ र॰ पृ॰ ६७८ ।] ↩︎

  625. नाशिनि नित्ये वेति निरबधारणात्वात् मिलितमेव “अन्यथापि” इत्यस्य व्याख्यानम्, विनाशिन्येव इति तु “अन्यथैव” इत्यस्य – [आ॰ टि॰] । ↩︎

  626. “ततो दू–” [ब॰] । ↩︎

  627. ननु माभूदर्थप्रत्यायन तथापि किमित्यनित्यता न भवति ? अत आह–फलवदिति । फलबतो गवानयनादिव्यापारस्य अङ्गभूतोऽर्थप्रत्यय तत्फलत्वेनैव फलवान्, शब्दस्योच्चारणसस्कारभाज स्वयमफलस्य फलवत्प्रत्ययाङ्गताऽवगम्यत इति । तत किमित्याह–परीक्षमाण इति । अर्थप्रत्ययाङ्गस्य शब्दस्य स एव धर्मः स्वाङ्गत्वेन ग्रहीतव्यो यश्च प्रधानमर्थप्रत्यय न बाधत इति । कारणाह–नहीति । अर्थप्रत्ययाङ्गभूतस्य शब्दस्य यदङ्गमनित्यत्व तदनुरोधेन यत्तत्प्रधान शब्द तत्फलस्य अर्थप्रत्ययस्य बाधनमयुक्तमिति । तथापि कथ नानित्यत्वमत्राह–नाशीति । कथमित्याह–नहीति । किमित्यवाचकः ? अत आह–तथा चेदिति । सम्बन्धज्ञानञ्च न क्षणिकस्य सभवतीत्याह–सम्बन्धेति । – [न्यायर॰ पृ॰ ७९० ।] ↩︎

  628. “निःफल–” [श्र॰] , [ब॰] । ↩︎

  629. अर्थप्रत्ययाकरत्वे – [आ॰ टि॰] । ↩︎

  630. “दवधार्यते” – [मी॰ श्लो॰ ।] ↩︎

  631. प्रधान व्यवहाराख्य फलम् – [आ॰ टि॰] । ↩︎

  632. “अङ्गाङ्गानुरोधेन” – [मी॰ श्लो॰ ।] अर्थप्रत्यय – [आ॰ टि॰] । ↩︎

  633. शब्द – [आ॰ टि॰] । ↩︎

  634. व्यवहारः – [आ॰ टि॰] । ↩︎

  635. ननु कियन्त चित्कालमवतिष्ठन्ता शब्दा, यावत्सम्बन्धदर्शन तस्य व्यवहारश्च सभवति, नैनावता नित्यत्वसिद्धिरत आह–सम्बन्धेति । नन्वन्यस्यैव गोशब्दस्य सम्बन्ध गृहीत्वा अन्यस्मादर्थं प्रत्येष्यामो नावश्यमेकस्यैव स्थायित्वमत आह–अन्यस्मिन्निति, एव ह्यव्यवस्था स्यादिति । – [न्यायर॰ पृ॰ ७९१ ।] ↩︎

  636. यस्य हि सम्बन्धो ज्ञात सोऽन्य यश्च वाचक सोऽन्य विनाशित्वात् – [आ॰ टि॰] । ↩︎

  637. उद्धृता इमे – [प्रमेयक॰ पृ॰ ४०५-६ ।] द्वितीयतृतीयचतुर्थश्लोकान् विना – [स्या॰ र॰ पृ॰ ६७८ ।] पञ्चमषष्ठसप्तमश्लोका किञ्चित्पाठभेदेन – [तत्त्वसं॰ पृ॰ ६१७ ।] ↩︎

  638. “असदृशतया” [श्र॰] । ↩︎

  639. “–त्वोपपन्नार्थाप–” [श्र॰] । ↩︎

  640. अर्थत्वसादृश्यादर्थावगम इति चेत्, न कश्चिदर्थवान् सर्वेषा नवत्वात् । कस्यचित्पूर्वस्य कृत्रिमसम्बन्धो भविष्यतीति चेत्, तदुक्तम्, सदृश इति चावगते व्यामोहात्प्रत्ययो व्यावर्तेत शालाशब्दान्मालाप्रत्यय इव । – [शाबरभा॰ १ । १ । १८ ।] ननु तत्तुल्योपादानमभेदमुपादाय सिध्यति पारार्थ्यं दर्शनस्य; सत्यम्; सिध्यति, किन्तु नेत्थम्भूतत्वे प्रमाणमस्ति । न कस्यचिदप्याससार जन्तो पूर्वोक्तसदृशमुच्चारयामि तत्सदृश एवायमिमिति ज्ञानोत्पादो दृष्ट । अत एव चाविपरीत प्रतिपद्यन्ते । अन्यथा मालाशब्दप्रत्ययस्येव शालाशब्दसवेदनादविपर्यय स्यात् । – [बृहती॰ १ । १ । १८ । शास्त्रदी॰ पृ॰ ५६० । नयवि॰ पृ॰ २४ ।] ↩︎

  641. “–पत्तेस्तथा” [ब॰] । ↩︎

  642. सादृश्यद्वारेण । ↩︎

  643. अर्थापत्ति अर्थप्रतीति हेतुत्वानुपपत्ते – [आ॰ टि॰] । ↩︎

  644. शब्दस्तु न तथा बालानामपि प्रतीतिप्रसङ्गादित्यर्थवत्सादृश्यादर्थावगम इति भाष्यम्, तस्यार्थमाह–सदृशत्वादिति । शब्दान्तरे गृहीतसम्बन्धेऽर्थवति शब्दान्तर तत्सादृश्यात् तत्त्वेन भ्रान्त्यवगत तदर्थं प्रत्याययतीति । परिहरति तद्द्वारेणेति । कारणमाह–कस्येति । च शब्दो हेतौ । इदञ्च न हि कश्चिदर्थवानित्यनेन भाष्येणोक्तमिति एतदेवोपपादयति–अदृष्टेति । शङ्कते–अर्थवानिति । निराकरोति तस्येति । अवसराभावमेव दर्शयति–द्विस्त्रिरिति । – [न्यायर॰ पृ॰ ७९३ ।] ↩︎

  645. सादृश्येन – [आ॰ टि॰] । ↩︎

  646. किन्तु वैसदृश्यम् – [आ॰ टि॰] । ↩︎

  647. वाचक – [आ॰ टि॰] । ↩︎

  648. वाच्योपलम्भकालं यावत – [आ॰ टि॰] । “तावान् कुत क्षण” [मी॰ श्लो॰ ।] ↩︎

  649. द्विस्त्रिर्वाऽनुपलब्धो हि नार्थवान् सम्प्रतीयते । – [मी॰ श्लो॰ । तत्त्वस॰ पृ॰ ६१९ ।] ↩︎

  650. उद्धृता इमे – [प्रमेयक॰ पृ॰ ४१० । तत्त्वसं॰ पृ॰ ६१९ ।] ↩︎

  651. भिन्नत्वैकत्वनित्यत्वे जातिरेव प्रकल्प्यते । अभेदाऽनित्यनानात्वे पूर्वोक्तेनैव तुल्यता । – [मी॰ श्लो॰ शब्दनि॰ श्लो॰ २७२ ।] ↩︎

  652. “व्यक्त्यनन्यत्तथैकञ्च” – [मी॰ श्लो॰ ।] ↩︎

  653. उद्धृता इमे – [प्रमेयक॰ पृ॰ ४११ ।] ↩︎

  654. [पृ॰ ६९७ प॰ १८ ।] ↩︎

  655. “–य गौर इत्या–” [श्र॰] । ↩︎

  656. तुलना–किमिद प्रत्यभिज्ञानम् ? तत्प्रत्ययविषयत्वम् ? तत्प्रत्ययविषयत्वमन्यत्वेपीत्यनेकान्त – [न्यायवा॰ २ । २ । ३३ ।] अनित्यत्वेऽपि सादृश्यवशात्प्रत्यभिज्ञानमुत्पद्यत एवेति । विवादगोचरापन्न शब्दोऽभिव्यक्त प्रत्यभिज्ञानकाल यावन्नावतिष्ठते शब्दप्रत्ययविषयत्वात् पूर्वानुभूतशब्दवत् । – [प्रश॰ व्यो॰ पृ॰ ६४७ ।] नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम् । विशेष प्रत्यभिज्ञाने न पश्यामो मनागपि ॥ उच्यते प्रत्यभिज्ञानमन्यथाप्युपपद्यते । गत्वादिजातिविषय यद्वा सादृश्यहेतुकम् ॥ – [न्यायमं॰ पृ॰ २२३-२४ ।] तथा ह्यनित्येऽपि प्रदीपादौ प्रत्यभिज्ञान दृष्टं तस्मादनैकान्तिकमेतत्, यथा क्षणिकेऽपि कर्मणि प्रयोगे दृश्यते – [ प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३७९ ।] सादृश्यान्नैकरूपत्वात्स एवायमिति स्थिति ॥ यदि चैवविधो नित्यो नित्यास्ते विद्युदादय । प्रत्यभिज्ञाऽप्रमाण स्याद् युगपद् भिन्नदेशयो । – [न्यायवि॰ का॰ ४२५-२६ ।] सादृशापरग्रहणेनापि तत्त्वसम्भवात् क्षणिकेष्वपि करणाङ्गहारादिषु प्रत्यभिज्ञानाद्विरुद्धो हेतु । तत्क्रियैकत्वेपि किमिदानीमनेकं स्यात् । – [अष्टश॰, अष्टसह॰ पृ॰ १०६ । तत्त्वार्थश्लो॰ पृ॰ ५ ।] गाद्येकत्वग्राहिकाया लूनपुनर्जातकेशनखादिष्विव तस्या भ्रान्तत्वात् । – [सन्मति॰ टी॰ पृ॰ ३४ । स्या॰ र॰ पृ॰ ६८० । रत्नाकराव॰ ४ । ९ । शास्त्रवा॰ टी॰ पृ॰ ३७६अ। ।] ↩︎

  657. नृत्यक्रियाविशेष, वृश्चिकगमनादिभेदेन द्वाविंशतिविधः । ↩︎

  658. प्रदीपादौ । ↩︎

  659. एकत्वाप्रसाधकत्वम् । ↩︎

  660. “–क्षयोपलभः प्र–” [श्र॰] । ↩︎

  661. तुलना–शब्दस्य ताल्वादिसयोगविभागलक्षणकदम्बकस्य उत्तरत्र क्षयप्रतीतित प्रतिक्षणमन्यत्वसिद्धेरेकत्वासत्त्वोपपत्ते । – [स्या॰ र॰ पृ॰ ६८१ ।] ↩︎

  662. ताल्वादि – [आ॰ टि॰] । ↩︎

  663. शब्दाभिञ्जक । ↩︎

  664. “–लानिल–” [आ॰] । ↩︎

  665. प्रदीप – [आ॰ टि॰] । ↩︎

  666. [पृ॰ ६९८ प॰ ११ ।] ↩︎

  667. प्रत्यभिज्ञानम् । तुलना–एवम्मन्यते –प्रथमे क्षणे शब्दग्रहण द्वितीयक्षणे पूर्वगृहीतशब्दाहितसस्कारप्रबोध ततोऽन्यस्मिन् क्षणे शब्दस्मरणम्, ततश्चतुर्थे क्षणे तिरोहिते तस्मिन् स एवाय घटशब्द इति प्रत्यभिज्ञान कथ प्रत्यक्ष स्यादसन्निहितविषयत्वात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३७८ ।] ↩︎

  668. प्रत्यभिज्ञानस्य ↩︎

  669. पृ॰ ४१५ । ↩︎

  670. “स” इति – [आ॰ टि॰] । ↩︎

  671. प्रत्यक्षस्य । तुलना– पूर्वकालसम्बन्धित्वस्येदानीमसन्निहितत्वेनाऽग्रहणात् । ग्रहणे वा श्रोत्रज्ञानवत् स्पष्टप्रतिभास स्यात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३५२ ।] ↩︎

  672. अतीतग्राहकत्वे – [आ॰ टि॰] । ↩︎

  673. प्रतिक्षिपन्ति हि मीमासका सर्वज्ञम् – [आ॰ टि॰] । ↩︎

  674. योगिप्रत्यक्षस्य । ↩︎

  675. प्रत्यभिज्ञानवत् – [आ॰ टि॰ ।] ↩︎

  676. तुलना–शब्दे विनाशविज्ञानात्तु न सा नित्यत्वसाधिका । – [ न्यायम॰ पृ॰ २२४ ।] ↩︎

  677. प्रत्यक्षेण – [आ॰ टि॰] । ↩︎

  678. “–व्यवस्थाग्राहकम्” [आ॰] । ↩︎

  679. शब्दोत्पादविनाश । ↩︎

  680. “–व तावदुत्पाद–” [ब॰] , “–व तदुत्पाद–” [श्र॰] । ↩︎

  681. स एवाय शब्द इति प्रत्यभिज्ञानबाधकत्वसभवात् । ↩︎

  682. उत्पन्न शब्द विनष्ट शब्द इति प्रतीति । तुलना–प्रत्यभिज्ञा हि सापेक्षा निरपेक्षा त्वभावधी । तेनैवमादौ विषये प्रत्यभिज्ञैव बाध्यते ॥ शब्दाभावस्य ग्रहणात् प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् । अपि च प्रत्यभिज्ञा व्यभिचरति कर्मादिषु गृह्यते । तेनास्या शब्देप्यभावप्रत्ययोपहतवपुषि क समाश्वास ? न चैवं प्रत्यक्षेप्यनैकान्तिकत्वोद्भावनमपि तु विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देऽपि न साधयितु प्रभवति – [न्यायमं॰ पृ॰ २२४ । स्या॰ र॰ पृ॰ ६८१ ।] ↩︎

  683. भ्रान्तिवशाद्भवत स एवाय शब्द इति प्रत्यभिज्ञानस्य । ↩︎

  684. भूतल – [आ॰ टि॰] । ↩︎

  685. भूतलादौ । ↩︎

  686. शब्दाभावप्रत्यये । ↩︎

  687. तुलना–विवक्षितशब्दाभावप्रतीतौ शब्दान्तरस्यैकज्ञानससर्गिण सम्भवात् । – [स्या॰ र॰ पृ॰ ६८२ ।] ↩︎

  688. तुलना–तत्राप्यात्मस्वरूपस्य तदेकज्ञानससर्गिण सम्भवात् । स्वपररूपावभासकस्वभावस्य ह्यात्मन परस्मिन् योग्यदेशावस्थिते वस्तुनि न केवलमात्मस्वरूपसवेदनं भवेत् यावन्ति खलु वस्तूनि प्रतिषेध्यत्वसम्मतवस्तुना साकं योग्यदेशावस्थितानि सन्त्यवश्य प्रतिभासन्ते, तानि सर्वाण्येकज्ञानससर्गीणि । तत्र कुम्भादौ प्रतिषेध्यो भूतलादि आत्मस्वरूपञ्चैकज्ञानससर्गि । शब्दे तु प्रतिषेध्ये सशब्दके प्रदेशे शब्दान्तरमात्मस्वरूपञ्च, नि शब्दके तु केवलमात्मस्वरूपम् । अथवा मा भवत्वेकज्ञानससर्गिपदार्थान्तर प्रमाणान्तरगृहीत तु भविष्यति । यथा स्मृतिगोचरे चैत्यकुलादौ क्वचिदभावप्रमाणेन भवतामभावग्रहणे चैत्यकुलादि । – [स्या॰ र॰ पृ॰ ६८२ ।] ↩︎

  689. “–भूप्रदेशादीनाम्” [ब॰] , [श्र॰] । ↩︎

  690. परत्वाविशेषात् यथा शब्दाभावो ज्ञात तथा रूपाभावोऽपि ज्ञायतामित्यर्थ – [आ॰ टि॰] । स्वपररूपग्राहिणः कस्माच्चिदपि ज्ञानात् । ↩︎

  691. रूपादीनाम् । ↩︎

  692. यद्ग्रहे यदपेक्ष चक्षु तदभावग्रहेऽपि तदपेक्षते इति किरणावलीवचनात् यद्भावो यावत्या सामग्र्या गृह्यते तदभावोऽपि तावत्यैव – [आ॰ टि॰ ।] ↩︎

  693. येनेन्द्रियेण यद्गृह्यते तेन तन्निष्ठा जातिस्तदभावश्च गृह्यते इति नियमात् । ↩︎

  694. उच्चारणात् प्राक् तद्ग्राहक श्रोवमिन्द्रिय नासीत् उच्चारणकाल एव शब्देन सहोत्पद्यते इत्युक्ते सत्याह न चेति । ↩︎

  695. नित्यतया व्यापितया च – [आ॰ टि॰] । ↩︎

  696. “–वत्वे तस्य” [ब॰] । ↩︎

  697. शब्दस्य आवृतावस्थाया न अदृश्यस्वरूपसभव अपरित्यक्तपूर्वस्वरूपत्वात् । तुलना–यद्यदा यत्स्वरूप न परित्यजति – [स्या॰ र॰ पृ॰ ६८२ ।] ↩︎

  698. “आवृतत्वावस्थायां” [आ॰] , [ब॰] । ↩︎

  699. आवृतावस्थाया दृश्यस्वरूपत्यागे । तुलना–तदयं ताल्वादिव्यापारजनितश्रावणस्वभाव परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेन्न किञ्चिदनित्यम् । – [अष्टश॰, अष्टसह॰ पृ॰ १०७ ।] ↩︎

  700. अनित्यत्वस्य । ↩︎

  701. स्वरूपभेदाभावेऽपि । तुलना– स्यान्मत यथा घटादेरात्मानमखण्डयत्तमस्तस्यावरण तथा शब्दस्यापीति, तदसत्; तस्यापि तेन आत्मखण्डनोपगमात्, दृश्यस्वभावस्य खण्डनात् तमसस्तदावरणत्वसिद्धे सर्वस्य परिणामित्वसाधनात् । तमसाऽपि घटादेरखण्डने पूर्ववदुपलब्धि किन्न भवितुमर्हति, तस्य तेन उपलभ्यतयाऽप्यखण्डनात् । – [अष्टश॰, अष्टसह॰ पृ॰ १०५ । प्रमेयक॰ पृ॰ ४२१ । स्या॰ र॰ पृ॰ ६८२ ।] स्तिमितेन वायुनावरणान्नित्य नोपलभ्यत इति चेदाह–नापीत्यादि । तस्य बाह्यस्य उपलभ्यात्मनो दृश्यस्य किञ्चिदुपलम्भावरण सम्भवति । तत्सिद्धौ प्रमाणाभावात् । सतोऽपि वा विद्यमानस्यापि चावरणस्य तदात्मानमखण्डयतो नित्यशब्दात्मानमप्रच्यावयत सामर्थ्यतिरस्कारायोगात् ज्ञानजननशक्त्यभिभवायोगात् । यस्मान्न हि तत्र शब्दात्मन्यतिशयमनुत्पादयन्नावरणाभिमत किञ्चित्करो नाम । अकिञ्चित्करश्चार्थ क कस्यावरण ज्ञानविवन्धकमन्यद्वेति प्रकारान्तरेणोपघातक नैवेति यावत् ।अकिञ्चित्करस्य आवरणत्व दृष्टमिति कथयन्नाह पर–कुड्यादय इत्यादि । कुड्यादयो घटादीना कमतिशयमुत्पादयन्ति कम्बा सामर्थ्यातिशय खण्डयन्ति येनावरणमिष्यन्ते । तस्माद् यथा तेऽतिशयमनुत्पादयन्तो घटादीनामावरणमिष्यन्ते तथा नित्यस्यापि शब्दस्य किञ्चिदावरण भविष्यतीत्यभिप्राय । न ब्रूम इत्यादिना परिहरति । ते कुड्यादय किञ्चिद् घटादिकमतिशाययन्ति विशिष्ट स्वभाव कुर्वन्तीति न ब्रूम । कथन्तर्ह्यावरणमुच्यन्त इत्याह–अपि तु न सर्व इत्यादि । न सर्वघटक्षणा सर्वस्य पुरुषस्य इन्द्रियज्ञानहेतव किन्तर्हि परस्परसहितास्तु विषयेन्द्रियालोकाः परस्परतो विशिष्टक्षणान्तरोत्पादात् कारणाद् विज्ञानहेतवः ते च विषयेन्द्रियादय तेन प्रतिघातिना कुड्यादिनाऽव्यवहिता यदा भवन्ति तदाऽन्योन्यस्योपकारिण सति च व्यवधायके कुड्ये अन्यस्योत्पित्सो समर्थस्य क्षणस्य यथोक्तकारणाभावेनानुत्पत्तेर्ज्ञानकारणवैकल्यमत कारणवैकल्यात् घटादिषु कुड्यादिव्यवहितेषु ज्ञानानुत्पत्तिरिति कृत्वा कुड्यादय आवरणमुच्यते न पुन प्राग्विज्ञानजननयोग्यस्य घटादे प्रतिबन्धात् – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३६१-६२ ।] ↩︎

  702. “इत्ययु–” [श्र॰] , [ब॰] । ↩︎

  703. उपलम्भानुपलम्भरूपेण । ↩︎

  704. तुलना–स्वज्ञानेनान्यधीहेतु सिद्धेऽर्थे व्यञ्जको मत । यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् ॥ स्वप्नतिपत्तिद्वारेण अन्यप्रतिपत्तिहेतुर्लोके व्यञ्जक सिद्धो दीपादिवत्, स चेत्प्राक्सिद्ध स्यात् । समानजातीयोपादानलक्षणसिद्धेन तस्यैवातिशयस्य ज्ञानहेतोः तस्य तत्सामग्रीत्वात् । ये पुन असिद्धोपलम्भना कारका एव कुलालादिवद् घटादौ । स्वज्ञानेन कारणेन अन्यधीहेतुरर्थो व्यञ्जको मत । कदा ? सिद्धेऽर्थे । यद्यसौ व्यङ्ग्य प्रागसिद्ध स्यात्तदा को विशेषोऽस्य व्यञ्जकस्य कारकाद्धेतोः । – [ प्रमाणवा॰ स्ववृ॰ टी॰ १ । २६४ ।] यत प्रमाणान्तरेण शब्दसद्भावे सिद्धे तस्यावरण सिद्धयेत् स्पार्शनप्रत्यक्षप्रतिपन्ने घटेऽन्धकारादिवत् । – [प्रमेयक॰ पृ॰ ४२१ ।] ↩︎

  705. सद्भाव – [आ॰ टि॰] । ↩︎

  706. “वा कर्थाञ्च–” [श्र॰] । ↩︎

  707. शब्दानाम् – [आ॰ टि॰] । ↩︎

  708. तुलना–तथापि तदावरणं दृश्यदृश्य वा नित्यमनित्य वा व्यापकमव्यापक वा एकमनेक वेत्यष्टौ विकल्पा । – [स्या॰ र॰ पृ॰ ६८३ ।] ↩︎

  709. आवरणप्रतीत्यभावात् । ↩︎

  710. “–त्यसम्भवात्” [श्र॰] । ↩︎

  711. प्रत्यक्षत । ↩︎

  712. “नीलतायाः प्र–” [श्र॰] । ↩︎

  713. आवरणम् । ↩︎

  714. अनुपलब्धि – [आ॰ टि॰] । ↩︎

  715. “शब्दनित्य–” [आ॰] , [श्र॰] । ↩︎

  716. आवरणस्य । ↩︎

  717. “–दा शब्दस्य” [ब॰] , [श्र॰] । ↩︎

  718. एकैकवर्णस्य एकैकमावरणम् – [आ॰ टि॰] । ↩︎

  719. “–णभावात्” [आ॰] । ↩︎

  720. तुलना–आवरणत्वेनाभिमेत प्रभञ्जन न व्यापक स्पर्शवद्द्रव्यत्वादुपलशकलवत् । – [स्या॰ र॰ पृ॰ ६८३ ।] ↩︎

  721. “स्पर्शनद्रव्य–” [श्र॰] । ↩︎

  722. आवरणस्य । तुलना–तद्वत्तदावारकमपि सर्वगतमिति चेत्, न तर्ह्याबारकम्, न ह्याकाशमात्मादीनामावारकम् । – [प्रमेयक॰ पृ॰ ४२१ । स्या॰ र॰ पृ॰ ६८३ ।] ↩︎

  723. शब्दस्तिमितवाय्वो । ↩︎

  724. पराभिसन्धिना – [आ॰ टि॰] । ↩︎

  725. वायो – [आ॰ टि॰] । ↩︎ ↩︎

  726. वायुना – [आ॰ टि॰] । ↩︎

  727. आवरणात्मकवायुमध्ये । ↩︎

  728. व्यापित्वेन – [आ॰ टि॰] । ↩︎

  729. यद्यल्पपरिमाणमपि वस्तु महत आवारक स्यात् तदा । ↩︎

  730. व्यापिनोऽपि – [आ॰ टि॰] । ↩︎

  731. आकाशप्रदेशस्यैव । ↩︎

  732. भूमिना । ↩︎

  733. जैनै आकाशस्य अनन्तप्रदेशित्वप्रतिज्ञानात् । ↩︎

  734. “कल्प्येत” [ब॰] , [श्र॰] । ↩︎

  735. आवरणापाये कस्यचिदेकस्य शब्दस्य उपलब्धिकाले । तुलना–यथा जबनिकापायप्राप्तप्रसरमीक्षणम् । रङ्गभूमिषु तद्देशमशेष वस्तु पश्यति ॥ तथा प्रसरसरोधिसमीरोत्सारणे सति । श्रोत्र तद्देशनि शेषशब्दग्राहि भविष्यति । – [न्यायम॰ पृ॰ २२१ ।] क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भ स्यात् निरावरणस्य व्यापकत्वाविशेषात् । – [प्रश॰ व्यो॰ पृ॰ ६८४ ।] ↩︎

  736. शब्दानाम् । ↩︎

  737. विवक्षितशब्दस्य आवरणस्य विनाशे । ↩︎

  738. एकशब्दवत् – [आ॰ टि॰] । ↩︎

  739. सर्वशब्दानुपलब्धौ । ↩︎

  740. सर्वशब्दवत् । ↩︎

  741. अनावृतत्वाविशेषात् । ↩︎

  742. तुलना–नियमश्च न स्यात्, यदि चानेके शब्दा युगपदाकाशे वर्तन्ते इति, एवञ्च यत्किञ्चिद् व्यञ्जकमुपात्त समानदेशान् सर्वानभिव्यनक्तीति यदा वीणा बाद्यते तदा रासभध्वनिरपि श्रूयेत । न हि समानेन्द्रियग्राह्याणा समानदेशाना व्यञ्जकेषु नियमो दृष्ट । यद्यस्य व्यञ्जक तेन तस्य व्यक्तिरिति चेत्, तन्न, अदृष्टत्वात् । अथ मन्यसे अनेकशब्दसन्निपाते सति व्यञ्जकानि भिद्यन्ते व्यञ्जकभेदानुविधायिन्यो व्यक्तय प्रतिशब्दमुपजायन्त इति; तन्न, अदृष्टत्वात् । न हि प्रदीप एकेन्द्रियग्राह्यमनेकमर्थं युगपत्सन्निपतित न प्रकाशयति । – [न्यायवा॰ पृ॰ २८८ । न्यायवा॰ ता॰ पृ॰ ४४६ ।] न च गोशब्दाभिव्यक्त्यर्थं प्रेरितो वायुर्नाश्वशब्द व्यनक्तीति वाच्यम्, व्यञ्जकेषु नियमानुपलब्धे । यथा घटाभिव्यक्त्यर्थमुत्पादित प्रदीप समानेन्द्रियग्राह्यसमानदेशावस्थितपदार्थव्यञ्जक इति । तथाहि–न श्रोत्र प्रतिनियतसस्कारकसस्कार्यं समानेन्द्रियग्राह्यसमानदेशावस्थितवस्तुप्रकाशकत्वात् चक्षुर्वत् । शब्दा वा विवादविषया प्रतिनियतव्यञ्जकव्यग्या न भवन्ति समानेन्द्रियग्राह्यसमानदेशावस्थितत्वात् घटादिवत् । – [प्रश॰ व्यो॰ पृ ६४८ ।] न च समानकरणाना समानेन्द्रियग्राह्याणाञ्च भावाना प्रतिनियतव्यञ्जकव्यग्यत्वमुपलब्धम् । गृहे दधिघटी द्रष्टुमानीतो गृहमेधिना । अपूपानपि तद्देशान् प्रकाशयति दीपक ॥ – [न्यायम॰ पृ॰ २१२ ।] श्रोत्र तावत्समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नार्थाना ग्रहणाय प्रतिनियतसस्कारकसस्कार्यं न भवति इन्द्रियत्वाच्चक्षुर्वत् । शब्दा वा प्रतिनियतसस्कारकसस्कार्या न भवन्ति समानेन्द्रियग्राह्यसमानधर्मापन्नत्वे सति युगपदिन्द्रियसम्बद्धत्वात् घटादिवत् । – [न्यायसा॰ पृ॰ ३० ।] ननु नियतव्यञ्जककृता नियतश्रुतिरित्यत्राह–नहीत्यादि । न हिर्यस्मात् समानदेशानाम् समानाक्षविषयाणामेतत् नियतव्यञ्जकत्व न्याय्यम् । – [सिद्धिवि॰, टी॰ पृ॰ ५५४ब् ।] समानकरणाना तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषा सकुला श्रुति स्यात् । – [अष्टश॰, अष्टसह॰ पृ॰ १०५ । प्रमेयक॰ पृ॰ ४२३ । सन्मति॰ टी॰ पृ॰ ३६ । स्या॰ र॰ पृ॰ ६८३ । प्रमेयर॰ ३ । १०० । शास्त्रवा टी॰ पृ॰ ३७८अ ।] ↩︎

  743. “–णस्य भेदस्य” [ब॰] । ↩︎

  744. “–व्यञ्जनव्य–” [आ॰] । ↩︎

  745. अन्यार्थमिति अन्यवर्णनिष्पत्त्यर्थम् । अन्यवर्णसंस्कारशक्त इति अन्यवर्णप्रतीत्यर्थः सस्कारो यः श्रोत्रस्य सोऽन्यवर्णसंस्कारशब्देनोक्त न तु वर्णसस्कार एव श्रोत्रसस्कारस्य प्रकृतत्वात् । नान्यं करिष्यति इति नान्यं वर्णं श्रोत्रसस्कारद्वारेण संस्करिष्यतीत्यर्थ । – [तत्त्वसं॰ पं॰ पृ॰ ६०८ ।] ↩︎

  746. “करोति च” – [स्या॰ र॰ पृ॰ ६८४ ।] “करोति स” – [तत्त्वसं॰ पृ॰ ६०८ ।] प्रकृतपाठ – [प्रमेयक॰ पृ॰ ४२३ । सन्मति॰ टी॰ पृ॰ ३६ ।] ↩︎

  747. भो जैना – [आ॰ टि॰] । ↩︎

  748. “एकोपलम्भे सर्वेषामुपलम्भप्रसङ्ग” इत्युपालम्भस्य समाधानमिद मीमासकेन प्रोक्तम् – [आ॰ टि॰] । ↩︎

  749. तुलना–कारणाना समग्राणा व्यापारादुपलब्धितः । नियमेन च कार्यत्व व्यञ्जके तदसम्भवात् । नहि कदाचिद् व्यापृतेषु करणेषु शब्दानुपलब्धि, न चावश्यं व्यञ्जकव्यापारोऽर्थमुपलम्भयति क्वचित् प्रकाशेऽपि घटानुपलब्धे । सेय नियमेनोपलब्धि तद्व्यापाराच्छब्दस्य तदुद्भवे स्यात् । अकर्तुर्व्यापारेऽपि तत्सिद्ध्ययोगात् । किञ्च करणाना समग्राणा व्यापारात् परिस्पन्दादिलक्षणात् नियमेन शब्दस्य उपलब्धितः कारणात् कार्यत्व प्राप्तम् । किं कारणम् ? व्यञ्जके हेतौ तदसम्भवात् नियमेन व्यङ्ग्यस्योपलम्भासम्भवात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २६५ ।] व्यञ्जकव्यापृतौ न स्याद् व्यङ्ग्यस्य नियमाद् गति नावश्यम्भावनियम स्याच्छ्रु तेरुच्चारणात्तत । – [सिद्धिवि॰, टी॰ पृ॰ ५५५अ ।] न कश्चिद्विशेषहेतुः ताल्वादयो व्यञ्जका न पुनश्चक्रादयोऽपि इति । ते वा घटादेः कारका न पुन शब्दस्य ताल्वादयोऽपीति । न हि व्यञ्जकव्यापृतिर्नियमेन व्यङ्ग्यं सन्निधापयति । सन्निधापयति च ताल्वादिव्यापृतिर्नियमेन शब्द ततो नासौ ताल्वादीना व्यङ्ग्यः चक्रादीना घटादिवत् । – [अष्टश॰, अष्टसह॰ पृ॰ १०३ ।] यदि च ताल्वादयो ध्वनयो वास्य – [प्रमेयक॰ पृ॰ ४१५ । स्या॰ र॰ पृ॰ ६८४ ।] ↩︎

  750. वायव – [आ॰ टि॰] । ↩︎

  751. “कारकस्य व्या–” [श्र॰] । ↩︎

  752. प्राक् सतः स्वरूपसस्कारक हि व्यञ्जकम्, असतः स्वरूपनिर्वर्तक कारकम् । – [प्रमेयक॰ पृ॰ ११६ ।] ↩︎

  753. घटाद्युत्पादने । ↩︎

  754. प्रदीपादिनैव साध्यसिद्धे – [आ॰ टि॰] । ↩︎

  755. तुलना–व्यापिन शब्दा नित्याश्च, ततो व्यापिनित्यत्वाच्छब्दाना व्यञ्जकस्य करणस्य व्यापारात् सर्वत्रोपलब्धि घटादयस्तु न व्यापिन नापि नित्या तेन ते व्यञ्जकव्यापारेण नावश्यमुपलभ्यन्त इति, यद्येव क इदानी घटादिषु समाश्वास निश्चय, यथा ते न नित्या नापि व्यापिन इति यावता तेऽपि नित्या व्यापिनश्च भवन्तु । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३८५ ।] नैष दोष सर्वगतत्वाद्वर्णानामित्यपि वार्तम्; प्रमाणवलायातत्वाभावात् अन्यत्रापि तथाभावानुषङ्गात् । – [अष्टश॰, अष्टसह॰ पृ॰ १०३ । स्या॰ र॰ पृ॰ ६८४ ।] ↩︎

  756. सामान्यनिरासार्थ विशेषणमुक्तम् – [आ॰ टि॰] । तुलना– तदुक्त न च सर्वगताऽमूर्तनित्यैकात्माऽत्र युज्यते । वर्णो वाह्येन्द्रियग्राह्यस्वभावत्वाद् घटादिवत् ॥ – [पत्रप॰ पृ॰ ११ ।] न सर्वगत शब्द सामान्यविशेषवत्त्वे सति वाह्यैकेन्द्रियप्रत्यक्षत्वात् घटादिवत् । – [प्रमेयक॰ पृ॰ ४१५ ।] सामान्यविशेषवत्त्वे सति वाह्येन्द्रियप्रत्यक्षत्वात् । – [स्या॰ र॰ पृ॰ ६८४ ।] ↩︎

  757. ““घटादिवत्”” नास्ति [आ॰] । ↩︎

  758. तुलना – [प्रमेयक॰ पृ॰ ४१८ । स्या॰ र॰ पृ॰ ६८४ ।] ↩︎

  759. “श्रोत्रेण” [श्र॰] , [ब॰] । ↩︎

  760. “स्पर्शनेन” [श्र॰] । ↩︎

  761. “शब्दवत्तत्र ध्वनय” [श्र॰] [ब॰] । ↩︎

  762. श्रोत्रे । ↩︎

  763. तुलना–ध्वनय एव हि विशिष्टा वर्णरूपा वाचका । तेभ्यो भिन्नोऽर्थान्तर वाचक शब्दरूपमस्तीत्येतत्सत्ताग्राहकप्रमाणाभावात् अतिबह्वियं श्रद्धेयम् । किं कारणम् ? यतो न वयमवाचक ध्वनिं शब्दञ्च वाचक पूयग्रूपमिति ध्वनिभ्यो भिन्नस्वभावमुपलक्षयाम तस्मात् ध्वनिविशेष एवाकारादिरूपेण स्थित वर्णास्य – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३६८ ।] यतो ध्वनिविशेष एव वर्ण उच्यते । तेन द्रुतोच्चारितो ध्वनिविशेष द्रुता गव्यक्तिरुच्यते, मध्योच्चारितो मध्यगव्यक्ति, बिलम्बितोच्चारिता ध्वनिविशेषो बिलम्बिता गव्यक्ति न तु व्यञ्जकेभ्यो ध्वनिभ्योऽन्यो गकार प्रतिभासते – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३८२ ।] ↩︎

  764. ध्वनीन् । ↩︎

  765. तुलना– वायुवत्ताल्वादिव्यापारानन्तर कफाशानामप्युपलम्भेन शब्दाभिव्यञ्जकत्वप्रसङ्गात् । – [प्रमेयक॰ पृ॰ ४१८ । स्या॰ र॰ पृ॰ ६८४ ।] ↩︎

  766. “विप्रुषाणामु–” [आ॰] । ↩︎

  767. यद्यत्ताल्वादिव्यापारानन्तरमुपलभ्यते तत्तच्छदाभिव्यञ्जकं यथा वायु तथा च विप्रुष इति – [आ॰ टि॰] । ↩︎

  768. “तेषा” [आ॰] । ↩︎

  769. विप्रुषाम् कफकणानाम् । ↩︎

  770. “प्रत्यक्षतः प्रक्षयतः” [ब॰] । ↩︎

  771. शब्दाभिव्यञ्जकत्वम् । ↩︎

  772. ध्वनावपि । ↩︎

  773. श्रोतृश्रोत्रप्रदेशे । ↩︎

  774. वायुवत् कफाशेष्वपि समाना । ↩︎

  775. “विप्रुषोपलम्भः” [आ॰] । ↩︎

  776. “स्तिमितकल्प–” [आ॰] । ↩︎

  777. वायून् – [आ॰ टि॰] । ↩︎

  778. “विप्रुषाणामपि” [आ॰] । ↩︎

  779. “मुखाद्विप्रुषो निःसरन्ति मुखाग्रस्थितवस्त्रे आर्द्रतादर्शनात्” इत्यनुमानात् । ↩︎

  780. विप्रुषो हि मुखाग्रस्थवस्त्रादौ दृश्यन्ते – [आ॰ टि॰] । ↩︎

  781. ध्वनयः सन्ति विशिष्टसंस्कृत्यन्यथानुपत्ते । तथा हि सन्ति शब्दव्यञ्जका ध्वनय शब्दप्रतिपत्त्यन्यथानुपपत्तेः । – [स्या॰ र॰ पृ॰ ६०५ ।] ↩︎

  782. “–भ्योऽवसी–” [श्र॰] । ↩︎

  783. नन्वेवमविशेषे किमिति सस्कारविशेषोत्पत्तिरेवाङ्गीक्रियते न शब्दविशेषोत्पत्तिरत आह–शब्देति । प्रागनुपजातपश्चादुपजातशब्दोपलम्भानुपपत्त्याऽवश्य कल्पनीये कस्मिश्चित् प्रत्यक्षतया शब्दोत्पत्तेर्निषेधात् सस्कारकल्पनैव युक्तेति । – [न्यायर॰ ।] “ध्वनिभ्यो व्यवसीयते” – [प्रमेयक॰ पृ॰ ४१८ ।] प्रकृतपाठ – [तत्त्वसं॰ पृ॰ ६११ ।] ↩︎

  784. “एतदप्य–” [आ॰] । ↩︎

  785. इन्द्रियस्यैव संस्कार शब्दस्यैवोभयस्य वा । क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥ – [वाक्यप॰ १ । ७९ ।] ↩︎

  786. “सा हि स्याच्छब्द” – [मी॰ श्लो॰ । तत्त्वसं॰ पृ॰ ५९८ ।] अनेनैव रूपेण उद्धृतोऽयम् – [प्रमेयक॰ पृ॰ ४१९ ।] साऽभिव्यक्ति शब्दस्य भवन्ती वायवीयै सयोगविभागैः शब्दसंस्काराद्वा भवेत् इन्द्रियसंस्काराद्वा उभयस्य वा शब्दस्येन्द्रियस्य च सस्कारात् । – [तत्त्वसं॰ पं॰ पृ॰ ५९९ ।] ↩︎

  787. “संस्कार इन्द्रि–” [श्र॰] । ↩︎

  788. द्विविधो हि वायु स्थिरोऽस्थिरश्च । तत्र य स्थिर सधनान्धकारवत् शब्दमावृत्यास्ते तस्य च वक्तृप्रयत्नसमुत्थेन वायुना सयोगविभागा उत्पद्यन्ते । तैश्च सयोगविभागै तस्य स्थिरस्य वायोरपनय क्रियते स एव च शब्दस्य सस्कारो नान्य स्वलक्षणपुष्ट्यादि तस्य नित्यत्वेनैकरूपत्वात् । – [तत्त्वसं॰ पं॰ पृ॰ ६०१ ।] ↩︎

  789. तुलना–भवन्ती वा कारणेभ्योऽतिशयवत्ता वा शब्दस्य व्यक्ति आवरणविगमो विज्ञानं वा गत्यन्तराभावात् । यत एवन्तस्मात् न व्यक्ति शब्दस्य कारणेभ्य किन्तूत्पत्तिरेव । भवन्ती वा कारणेभ्यः सकाशाद् व्यक्तिस्त्रिधा भवेत्–पूर्वावस्थापरित्यागेन अतिशयवत्ता वा शब्दस्य व्यक्तिर्भवेत्, उपलम्भावरणविगमो वा, शब्दालम्बन विज्ञान वा व्यक्ति, प्रकारत्रयव्यतिरेकेण गत्यन्तराभावात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३८६ ।] इमे सर्वे विकल्पा – [प्रमेयक॰ पृ॰ ४१९ ।] क एष शब्दसस्कार–किमतिशयाधानमनतिशयव्यावर्तनमावरणापगमो वा – [स्या॰ र॰ पृ॰ ६८५ । रत्नाकराव॰ ४ । ९ ।] ↩︎

  790. शब्दोपलब्धे । ↩︎

  791. शब्दश्रोत्रव्यतिरिक्त – [आ॰ टि॰] । ↩︎

  792. तुलना–तत्र नातिशयोत्पत्ति अनित्यताप्रसङ्गात् तस्या पूर्वापररूपहान्युपजननलक्षणत्वात् । – [प्रमाणवा॰ स्ववृ॰ १ । २६५ ।] विशेषाधानमप्यस्य नाभिव्यक्तिर्विभाव्यते । नित्यस्यातिशयोत्पत्तिविरोधात्स्वात्मनाशवत् ॥ – [तत्त्वार्थश्लो॰ पृ॰ २३८ ।] ↩︎

  793. अतिशयो दृश्यस्वभाव एव अनतिशयव्यावृत्तिस्त्वदृश्यस्वभावखण्डनमेव, ते चेत्ततोऽन्ये, तत्करणेऽपि शब्दस्य न किञ्चित्कृतमिति तदवस्थाऽस्याऽश्रुति । अथानन्ये, तदा शब्दस्यापि कार्यतया अनित्यत्वानुपङ्ग । – [प्रमेयक॰ पृ॰ ४१९ । स्या॰ र॰ पृ॰ ६८५ ।] ↩︎

  794. अदृश्य सन् अतिशये जाते दृश्यो जात – [आ॰ टि॰] । ↩︎

  795. “–वृत्तिस्तु” [ब॰] , [श्र॰] । ↩︎

  796. “–तौ च ततो भिन्नौ अभिन्नौ वा” [आ॰] । ↩︎

  797. अतिशय-अनतिशयव्यावृत्ती । ↩︎

  798. शब्दात – [आ॰ टि॰] । तुलना–विशिष्टसस्कृति सा हि न शब्दव्यतिरेकिणी । शब्दस्याज्ञेयताप्राप्ते तत शब्दोऽपि जायते ॥ – [तत्त्वस॰ का॰ २५७० ।] ↩︎

  799. “भिन्नौ” [आ॰] । ↩︎

  800. अतिशयोत्पादने अनतिशयव्यावृत्तौ वा । ↩︎

  801. शब्दस्य – [आ॰ टि॰] । ↩︎

  802. “अभिन्नौ” [आ॰] । ↩︎

  803. अतिशय-अनतिशयव्यावृत्तिवत् । ↩︎

  804. “–क्तेः” [श्र॰] । ↩︎

  805. शब्द कार्य कार्यरूपाभ्यामतिशय-अनतिशयव्यावृत्तिभ्यामभिन्नस्वभावत्वात् । ↩︎

  806. “तत्कारणे” [श्र॰] । ↩︎

  807. “एवध्व–” [श्र॰] । ↩︎

  808. “क्रियते” [आ॰] । ↩︎

  809. श्रोत्रप्रदेश एव चास्य सस्कारे तावन्मात्रक एव शब्द न सर्वगत स्यात् । – [प्रमेयक॰ पृ॰ ४१९ ।] ↩︎

  810. श्रोत्रदेशादन्यत्र ↩︎

  811. अदृश्यरूपतया अशब्दरूपतया वा । ↩︎

  812. “–त स्यात दृ–” [श्र॰] । ↩︎

  813. शब्दस्य दृश्यादृश्यत्ववत् । ↩︎

  814. “दृष्टप्र–” [श्र॰] । ↩︎

  815. “–चित् स्वरूप–” [श्र॰] । ↩︎

  816. तुलना–सर्वेषामुपलम्भ स्याद् युगपद्व्यापिता यदि ॥ सस्कृतस्योपलम्भे च क सस्कर्ताऽविकारिण । – [प्रमाणवा॰ ३ । १५३-५४ ।] ↩︎

  817. शब्दोऽपि व्यक्तिषु समवैति – [आ॰ टि॰] । ↩︎

  818. यदि शब्द व्यक्तिषु समवेयात् तदा । ↩︎

  819. सामान्य हि व्यक्तिषु समवैति – [आ॰ टि॰] । ↩︎

  820. आदिपदेन संयोगादयोऽनेकस्था पदार्था ग्राह्या । ↩︎

  821. सामान्यरूपादिप्रसङ्गादेव – [आ॰ टि॰] । ↩︎

  822. व्यक्तिग्रहणापेक्षया स्वज्ञानजनकता । ↩︎

  823. शब्दसस्कारे । तुलना–तद्रूपावरणानाञ्च व्यक्तिस्ते विगमो यदि । अभावे करणग्रामसामर्थ्यं किन्न तद्भवेत् ॥ – [प्रमाणवा॰ १ । २६६ ।] ↩︎

  824. “–रो भक्तिः” [श्र॰] । ↩︎

  825. अधिष्ठानम्–कर्णशष्कुली । तत्सस्कारद्वारेण श्रोत्रस्य संस्कारो न केवलस्य । तेनासस्कृताधिष्ठानत्वाच्च विदूरस्थान्यचित्तसुप्तमूर्च्छिताना श्रोत्र न शूणोति । असस्कृता कर्णशष्कुली यस्य तत्तथोक्तम् । अधिष्ठानदेशत इति सप्तम्यर्थे तसि ।यद्यप्यधिष्ठानसस्कारकारिणो नादास्तद्देशेन्द्रियसस्कारका वा, तथापि प्राप्ता एव सन्त सस्कारभाजि पदार्थे सस्कारं कुर्वन्ति नाप्राप्ता इत्यतो न सर्वपुरुषाधिष्ठानादिसस्कार – [तत्त्वसं॰ पं॰ पृ॰ ६०६ ।] ↩︎

  826. सप्तमी – [आ॰ टि॰] । सप्तम्यर्थे पञ्चमीविभक्तिरित्यर्थ । ↩︎

  827. “अतो न श्रोष्यति” – [स्या॰ र॰ पृ॰ ६८५ ।] ↩︎

  828. यस्यैव कर्णदेश ध्वनि प्राप्त तस्यैव श्रोत्रसस्कारः – [आ॰ टि॰] । “अप्राप्तकर्णदेशत्वात् ध्वनिना श्रोत्रसस्क्रिया” – [स्या॰ र॰ पृ॰ ६८६ ।] ↩︎

  829. “सस्कारनियमस्थिति” – [मी॰ श्लो॰ । प्रमेयक॰ पृ॰ ४२४ ।] “सस्कारनियम स्थित” – [तत्त्वसं॰ पृ॰ ६०६ । स्या॰ र॰ पृ॰ ६८६ ।] ↩︎

  830. तुलना–इन्द्रियस्य स्यात्संस्कार शृणुयान्निखिलञ्च तत् । सस्कारभेदभिन्नत्वादेकार्थनियमो यदि ॥ अनेकशब्दसघाते श्रुतिः कलकले कथम् । – [प्रमाणवा॰ ३ । २५५-५६ ।] तेषामपि श्रोत्रस्यावारकापनयन सस्कारः शब्दग्रहणयोग्यतोत्पत्तिर्वा । – [तत्त्वार्थश्लो॰ पृ॰ ५ ।] इन्द्रियसस्कारस्योन्मीलनालोकादे सकृदिन्द्रियसम्बन्धयोग्यसर्वार्थोपलब्ध्यनुकूलसस्कारजनकत्व दृष्टं तद्वद्वायुरपि सकृदेव सर्वशब्दोपलब्ध्यनुकूलं श्रोत्रे सस्कारमादध्यात् तथा च सर्वशब्दोपलब्धि स्यात् । – [तत्त्वचि॰ शब्द॰ पृ॰ ४०५ ।] नन्वेवमपि अशेषशब्दोपलम्भप्रसङ्गः, सस्कृते हि श्रोत्रे सर्वेषा सान्निध्यात् । – [प्रश॰ व्यो॰ पृ॰ ६४८ ।] ↩︎

  831. वलातैलादिना सस्कृत श्रोत्रं वा काश्चिदेव गकारादीन् शृणोति काश्चिन्नेति नियमो दृष्ट । – [ प्रमेयक॰ पृ॰ ४२४ । सन्मति॰ टी॰ पृ॰ ३६ । स्या॰ र॰ पृ॰ ६८६ । शास्त्रवा॰ टी॰ पृ॰ ३७७ब्। ।] ↩︎

  832. “शृणोतीति नियमो” [आ॰] , [ब॰] । ↩︎

  833. कीदृश पुनर्ध्वनीनामभिव्यञ्जकत्वम् ? तद्दर्शयति यथेति । तेजसश्चाक्षुषस्य आप्यायनानुग्रह कुर्वन् प्रदीपो यथा चाक्षुषाणा घटादीना व्यञ्जको भवति तथा ध्वनयोऽपि श्रोत्रसस्कार कुर्वन्त शब्दस्याभिव्यञ्जका भविष्यन्तीति । – [न्यायर॰ ।] उद्धृताविमौ – [प्रमेयक॰ पृ॰ ४२४ । तत्त्वस॰ पृ॰ ६०२ ।] ↩︎

  834. श्रोत्रसस्कृतेरनुग्रहाद् ध्वनि शब्दस्य व्यञ्जक – [आ॰ टि॰] । ↩︎

  835. द्रष्टव्यम् – [पृ॰ ७०८ टि॰ १८ ।] ↩︎

  836. श्रोत्रसस्कारवैकल्यान्न सर्वै पुरुषै श्रूयते, शब्दसस्कारवैकल्याच्च न सर्व शब्द, समुच्चितयोर्द्वयो कारणत्वात् । प्रत्येककारणत्वे हि दोषद्वयं स्यादिति । – [न्यायर॰ ।] सस्कारद्वयपक्षे तु वृथा दोषद्वय हि तत् । येनान्यतरवैकल्यात् सर्वै शब्दो न गम्यते । अन्यतरस्य श्रोत्रसस्कारस्य अर्थसस्कारस्य वा वैकल्यात् न शब्दो गम्यते । तथाहि–सत्यपि शब्दसस्कारे बधिरस्य श्रोत्रसस्कारवैकल्यान्न शब्दग्रहणम्, अबधिरस्याप्यनभिव्यक्ते शब्दस्याग्रहणम् । क्वचित्पाठो मृषा दोषद्वये वच इति । – [तत्त्वस॰ पं॰ पृ॰ ६१२ ।] ↩︎

  837. “मृषा दोषद्वये वच” – [मी॰ श्लो॰ । स्या॰ र॰ पृ॰ ६८७ ।] प्रकृतपाठ – [तत्त्वसं॰ पृ॰ ६११ । प्रमेयक॰ पृ॰ ४२४ ।] ↩︎

  838. शब्दसस्कार श्रोत्रसस्कार – [आ॰ टि॰] । ↩︎

  839. तुलना–तथाहि सस्कृता श्रोत्रवर्णा यद्व्यञ्जकै पुरा । न नष्टास्ते च्युतिप्राप्ते सर्वै सर्वश्रुतिस्तत । – [तत्त्वस॰ का॰ २५७३ ।] यदैकवर्णग्राहकत्वेन सस्कृत श्रोत्र सस्कृत वर्णं प्रतिपद्यते तदा तत्रत्यसर्ववर्णान् प्रतिपद्येत । – [प्रमेयक॰ पृ॰ ४२५ । स्या॰ र॰ पृ॰ ६८७ ।] ↩︎

  840. तदाकाशदेशे सर्वेषामपि वर्णाना व्यापितया नित्यतया च विद्यमानत्वात् । ↩︎

  841. “सर्वदा च स्थि–” [श्र॰] । ↩︎

  842. यदि सस्कृत वर्णं सर्वत्र सर्वदाऽवस्थितत्वेन न जानाति तदा । ↩︎

  843. नित्यव्यापिरूपत्वात् । ↩︎

  844. “चानु–” [ब॰] , [श्र॰] । ↩︎

  845. तुलना–प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥ प्रागुच्चारणान्नास्ति शब्द । कस्मात् ? अनुपलब्धे । सतोऽनुपलब्धिरावरणादिभ्य । एतन्नोपपद्यते, कस्माद् ? आवरणादीनामनुपलब्धिकारणानामग्रहणात् । अनेन आवृत शब्दो नोपलभ्यते असन्निकृष्टेन्द्रियव्यवधानादित्येवमादि अनुपलब्धिकारण न गृह्यते इति सोऽयमनुच्चारितो नास्तीति ।… तस्मान्न व्यञ्जकाभावादग्रहणमपि त्वभावादेवेति । सोऽयमुच्चार्यमाण श्रूयते श्रूयमाणश्चाऽभूत्वा भवतीत्यनुमीयते । ऊर्ध्वञ्चोच्चारणान्न श्रूयते स भूत्वा न भवति अभावान्न श्रूयते इति । कथम् ? आवरणाद्यनुपलब्धेरित्युक्तम् । तस्मादुत्पत्तितिरोभावधर्मक शब्द इति । – [न्यायभा॰ २ । २ । १८ ।] ↩︎

  846. ताल्वादिव्यापाररूपोच्चारणकार्यत्वम् । शब्द अनित्यः ताल्वादिव्यापाररूप्रयत्नानन्तरीयकत्वादिति । ↩︎

  847. “न च तत्का–” [ब॰] । ↩︎

  848. व्योम । ↩︎

  849. खननकार्यम् । ↩︎

  850. प्रयत्नानन्तरीयकत्वादित्यस्य हेतो । ↩︎

  851. तावच्छब्देनासिद्धतापि वक्ष्यत इति प्रयत्नानन्तरदर्शनादित्यस्य तावदनैकान्तिकत्व दर्शयति–प्रयत्नेति । दर्शन हि तत्र सत्ता गमयति न कालान्तरे निषेधति, तेन विपक्षेऽपि कालान्तरे सत्त्वसभवात्तत्र दर्शनमनैकान्तिकमिति । – [न्यायर॰ ।] ↩︎

  852. “प्रयत्नानन्तरा दृष्टिः” – [मी॰ श्लो॰ ।] ↩︎

  853. उपलब्धि – [आ॰ टि॰ ।] ↩︎

  854. व्योमज्ञानम् – [आ॰ टि॰] । ↩︎

  855. “दृश्यते” – [मी॰ श्लो॰ ।] ↩︎

  856. दर्शनम्–प्रयत्नानन्तरज्ञानम् – [तत्त्वसं॰ प॰ पृ॰ ६४० ।] “दर्शनात्” – [मी॰ श्लो॰, तत्त्वसं॰ ।] ↩︎

  857. भूम्याद्यावृतमपि आकाशम् । ↩︎

  858. उच्चारणात् प्राक् । ↩︎

  859. उद्धृता इमे श्लोका – [प्रमेयक॰ पृ॰ ४२२ । स्या॰ र॰ पृ॰ ६८९ ।] द्वितीयतृतीयौ – [तत्त्वसं॰ पृ॰ ६४० ।] ↩︎

  860. तुलना–एकरूपता चाकाशस्याप्यसिद्धा – [ प्रमेयक॰ पृ॰ ४२२ । स्या॰ र॰ पृ॰ ६८९ ।] ↩︎

  861. “–भावस्य आका–” [श्र॰] । ↩︎

  862. आकाशं नित्यैकस्वभावम् । ↩︎

  863. खननात् प्रागनुपलब्धिसमये स्वविषयज्ञानाऽजननस्वभावत्वे खननान्तरञ्च स्वविषयज्ञानजननात्मकत्वे । ↩︎

  864. आकाशस्य नित्यैकरूपता न स्यादिति भाव । ↩︎

  865. “प्राच्यत्वसि–” [ब॰] । ↩︎

  866. शब्दवत् । ↩︎

  867. ध्वन्युत्पत्तावेव ताल्वादीनामुपयोग ते च सर्वदा सन्तीति । ↩︎

  868. [पृ॰ ६९९ प॰ ५ ।] ↩︎

  869. ध्वनेरभिव्यञ्जकम् । ↩︎

  870. “तदनुच्चा–” [ब॰] । ↩︎

  871. उद्धृतोऽयम् – [न्यायवा॰ ता॰ पृ॰ २५४ ।] ↩︎

  872. तुलना – [तत्त्वस॰ पृ॰ ९५५ । तत्त्वचि॰ पृ॰ ३७९ ।] ↩︎

  873. [पृ॰ ६९९ पं॰ ९ ।] ↩︎

  874. तुलना–गादेरुच्चारणादनन्तर विनाशस्य प्रत्यक्षप्रतिपन्नत्वेन प्रतिपादनात् – [स्या॰ र॰ पृ॰ ६८९ ।] ↩︎

  875. कालान्तरेउच्चारणानन्तरम् । ↩︎

  876. शब्देऽपि । ↩︎

  877. [पृ॰ ६९९ पं॰ ११ ।] ↩︎

  878. तुलना–उदात्तादिभिर्धर्मेरनैकान्तिकत्वात् । ते हि श्रवणग्राह्यत्वेऽपि न नित्या भवद्भिरङ्गीकृता । तेषामश्रावणत्वे तु नीलादीनामिव श्रोत्रेणोपलम्भो न भवेत् । वीणादिशब्दैश्चानैकान्तिकत्वम्, तेषा श्रावणत्वेऽप्यनित्यत्वात् । – [स्या॰ र॰ पृ॰ ६९० ।] ↩︎

  879. चशब्देन प्रतीतिविरोध समुच्चीयते । ↩︎

  880. उदात्तादीनाम् । ↩︎ ↩︎

  881. “–तयो श्रावणोप–” [ब॰] , “तयोपलम्भो” [आ॰] । ↩︎

  882. भवन्मते – [आ॰ टि॰] । ↩︎

  883. [पृ॰ ६९९ पं॰ १२ ।] ↩︎

  884. तुलना–गोशब्दलिपिबुद्ध्या हेतोरनैकान्तिकत्वात् । सा हि गौरित्युल्लेखेनोत्पद्यते न चैकगोशब्दबिषया देशकालादिभिन्नत्वाद् गोशब्दलिपीनाम् । – [स्या॰ र॰ पृ॰ ६९० ।] ↩︎

  885. “गोरित्यु–” [ब॰] । ↩︎

  886. अन्या हि लिपिबुद्धि अन्या हि गोशब्दबुद्धि – [आ॰ टि॰] । ↩︎

  887. तुलना–अन्यथा सर्वबुद्धीनामेकालम्बनता भवेत् । क्रमभावविरोधश्च शक्तकारणसन्निधे ॥ – [ तत्त्वस॰ का॰ २४६६ । स्या॰ र॰ पृ॰ ६९० ।] ↩︎

  888. “–भिन्ना वस्तु–” [श्र॰] । ↩︎

  889. “नचानेक–” [श्र॰] । ↩︎

  890. “यदेवम्” [श्र॰] । ↩︎

  891. [पृ॰ ७०० पं॰ ६ ।] ↩︎

  892. तुलना–ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे । नैकार्था क्रमसम्भूते रूपगन्धादिबुद्धिवत् ॥ – [तत्त्वसं॰ का॰ २४६५ । स्या॰ र॰ पृ॰ ६९० ।] ↩︎

  893. “–क्षसि–” [श्र॰] , [ब॰] । ↩︎

  894. “विद्युत्तीव्रतमेति” [श्र॰] । ↩︎

  895. “श्रोत्रप्रत्यक्षप्र–” [श्र॰] , “श्रोत्रप्रत्यक्षेण प्र–” [ब॰] । ↩︎

  896. तुलना– स्वाभाविकत्वावधारणन्यायस्य यत्र तत्र प्रसिद्धस्य अत्रापि तुल्यत्वात् । न हि पयसि शैत्यद्रवत्वे तेजसि वा भास्वरत्वोष्णत्वे स्वाभाविके इत्यत्रान्यत्प्रमाण प्रत्यक्षात् – [स्या॰ र॰ पृ॰ ६९० ।] ↩︎

  897. उदात्तादिधर्मस्य । ↩︎

  898. शब्दे । ↩︎

  899. तीव्रतीव्रतरादिधर्मस्य । ↩︎

  900. तीव्रतीव्रतरादिसर्वधर्मशून्याया । ↩︎

  901. विद्युति । ↩︎

  902. उदात्तानुदात्तादिधर्मरहित शुद्ध । ↩︎

  903. “–न्यः स्वापे स्वप्नेपि” [श्र॰] । ↩︎

  904. शब्दोऽपि । ↩︎

  905. [पृ॰ ७०० पं॰ ७ ।] ↩︎

  906. [पृ॰ ७०० पं॰ ८ ।] ↩︎

  907. आह्वानादौ अङ्गुल्यादिकृतया – [आ॰ टि॰ ।] तुलना–चेष्टयाऽनैकान्तिकत्वात् – [स्या॰ र॰ पृ॰ ६९२ ।] ↩︎

  908. “चोदयति” [ब॰] । ↩︎

  909. [पृ॰ ७०० पं॰ ९ ।] ↩︎

  910. “पूर्वकाल–” [श्र॰] । ↩︎

  911. उच्चारणानन्तर यदुपलभ्यते स उपलम्भकाल – [आ॰ टि॰] । ↩︎

  912. तुलना– कादाचित्कत्वाच्च शब्दे तदसिद्धम् – [स्या॰ र॰ पृ॰ ६९२ ।] ↩︎

  913. “इत्युक्त” [ब॰] , [श्र॰] । ↩︎

  914. [पृ॰ ७०१ प॰ ३ ।] ↩︎

  915. तुलना– तदपि विद्युदादौ तुल्यत्वादयुक्तम् – [स्या॰ र॰ पृ॰ ६९२ ।] ↩︎

  916. शब्दे विद्युदादौ च । ↩︎

  917. [पृ॰ ७०१ प॰ ४ ।] ↩︎

  918. तुलना–अनित्यत्वेऽपि सादृश्योपादाने सत्यर्थप्रतिपत्तेर्भावात् । तत्र यत्र गकारौकारविसर्जनीयानामित्थम्भूतानुपूर्वीमुपलभसे तत्र तत्र गोत्वविशिष्टोऽर्थ प्रतिपत्तव्य प्रतिपादयितव्यश्चेति सङ्केतग्रहे सति तथाविध शब्दमुपलभमान तमर्थं प्रतिपद्यते प्रतिपादयति चेति । – [प्रश॰ व्यो॰ पृ॰ ६४९ ।] धूमादिवदनित्यस्यापि शब्दस्य अवगतसम्बन्धस्य सादृश्यतोऽर्थप्रतिपादकत्वसभवात् । – [ प्रमेयक॰ पृ॰ ४०९ । सन्मति॰ टी॰ पृ॰ ३३ । स्या॰ र॰ पृ॰ ६९२ । प्रमेयर॰ ३ । १०० ।] ↩︎

  919. यदि महानसोपलब्धैब धूमव्यक्ति पर्वतेऽपि स्यात्तदा । ↩︎

  920. धूमसामान्यस्य । ↩︎

  921. शब्दसामान्यस्य शब्दत्वस्य । ↩︎

  922. “शब्दसामा–” [आ॰] । ↩︎

  923. “धूमोऽपि” [श्र॰] । ↩︎

  924. महानसीयपर्वतीयादिभेदेन धूमव्यक्तीनामनेकत्वादस्ति तत्रानुगतं धूमत्वाख्य सामान्यम्, गादिशब्दस्तु एक अत कथ तत्र शब्दत्वम् व्यक्तेरभेदस्य जातिबाधकत्वादित्याशयेन शङ्कते अथेति । ↩︎

  925. धूमत्वाख्यं सामान्यम् । ↩︎

  926. “भेदसिद्धेः” [श्र॰] । ↩︎

  927. “–कत्वे भेदा–” [आ॰] । ↩︎

  928. गत्वादौ । ↩︎

  929. गादीव्यक्तीनामपि । ↩︎

  930. [पृ॰ ७०२ पं ९ ।] ↩︎

  931. तुलना–स्वहेतोरेकस्य हि यादृश परिणाम तादृश एवापरस्य सादृश्य न तु स एव । स च व्यक्तिभ्यो भिन्नोऽभिन्नश्च । – [प्रमेयक॰ पृ॰ ४११ ।] ↩︎

  932. [पृ॰ २८९ ।] ↩︎

  933. “यथा च जगद्” [श्र॰] । ↩︎

  934. “नित्यत्वस्व–” [श्र॰] । ↩︎

  935. तुलना–नित्यत्वेऽपि शब्दाना सर्त्रेषा स्यात् सकृच्छ्रति । समाक्षग्रहयोग्यत्वात् व्यापिना समवस्थिते ॥ तत्कृतमुपकारमात्मसात्कुर्वत तद्देशवृत्तिनियमात् कूटस्थस्य न सभवति । सर्वगतत्वेऽपि विवक्षितैकशब्दश्रुतिर्न स्यात् । – [ सिद्धिवि॰ पृ॰ ५५४ ।] स्वतन्त्रत्वे तु शब्दाना प्रयासोऽनर्थको भवेत् । व्यक्त्यावरणविच्छेदसस्कारादिविरोधत ॥ वशादिस्वरधाराया सकुलं प्रतिपत्तित । क्रमेणाशुग्रहेऽयुक्त सकृद्ग्रहणविभ्रम । ताल्वादिसन्निधानेन शब्दोऽय यदि जायते । को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥ – [न्यायवि॰ का॰ ४२२२४ ।] ↩︎

  936. “कुतश्चेतिप्रमा–” [श्र॰] । ↩︎

  937. तुलना–अनित्य शब्दः इत्युत्तरम् । कथम् ? ऽआदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥ आदिर्योनिः कारणम् आदीयते अस्मादिति । कारणवदनित्य दृष्टम् । सयोगविभागजश्च शब्द कारणवत्त्वादनित्य इति । का पुनरियमर्थदेशना कारणवत्त्वादिति ? उत्पत्तिधर्मकत्वादनित्य शब्द इति, भूत्वा न भवति विनाशधर्मक इति । साशयिकमेतत्–किमुत्पत्तिकारण सयोगविभागौ शब्दस्य आहोस्विदभिव्य- क्तिकारणमित्यत आह–ऐन्द्रियकत्वात् इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः । किमय व्यज्जकेन समानदेशोऽभिव्यज्यते रूपादिवत्, अथ सयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यत इति ? सयोगनिवृत्तौ शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणम् । दारुव्रश्चने दारुपरशुसयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते, न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति तस्मान्न व्यञ्जक सयोगः…इतश्च शब्द उत्पद्यते नाभिव्यज्यते कृतकवदुपचारात् । तीव्र मन्दमिति कृतकमुपचर्यते तीव्र सुख मन्द सुख तीव्र दुःख मन्द दुःखमिति, उपचर्यते च तीव्र शब्दो मन्द शब्द इति । – [न्यायसू॰, भा॰ २ । २ । १३ ।] अनित्य शब्द तीव्रमन्दविषयत्वात् दुःखवदिति कृतकवदुपचारादित्यनेन सूत्रेण सर्वानित्यत्वसाधनवर्गसग्रह कृतकत्वग्रहणस्य उदाहरणार्थत्वात् । यथा सामान्यविशेषवतोऽस्मदादिबाह्यकरणप्रत्यक्षत्वात्, उपलभ्यस्य अनुपलब्धिकारणाभावे सत्यनुपलब्धे, गुणस्य सतोऽस्मदादिबाह्यकरणप्रत्यक्षत्वात् इत्येवमादि । – [न्यायवा॰ पृ॰ २९० ।] तदेवन्तीव्रादिभेदभिन्नत्वात्सुखादिवदनित्यत्व शब्दानाम् । व्यञ्जकानुपलब्धौ चाभूत्वा भवनस्योपलब्धे कार्यत्वादनित्यत्व घटादिवत् । तथा परमात्मगुणान्यत्वे सति व्यापकविशेषगुणत्वात् सुखादिवत् । – [प्रश॰ व्यो॰ पृ॰ ६४९ ।] अतो यत्नजनितवर्णाद्यात्मा श्रवणमध्यस्वभाव प्राक् पश्चादपि पुद्गलाना नास्तीति तावानेव ध्वनिपरिणाम । – [अष्टश॰, अष्टसह॰ पृ॰ १०८ ।] परिणामी शब्द वस्तुत्वान्यथानुपपत्ते । – [तत्त्वार्थश्लो॰ पृ॰ ६ ।] अनित्य शब्द तीव्रमन्दतादिधर्मोपेतत्वात् सुखदुःखादिवत् – [रत्नाकराव॰ ४ । ९ ।] तस्माद्वर्णो न नित्योऽनित्यो वा सत्त्वे सत्युत्पत्तिमत्त्वात्, अस्मदादिवहिरिन्द्रियग्राह्यत्वे सति जातिमत्त्वात्, अस्मदादिप्रत्यक्षगुणत्वाद्वा, आत्मैकत्वप्रत्यक्षत्वपक्षे प्रत्यक्षविशेषगुणत्वात्, व्यापकसमवेतप्रत्यक्षविशेषगुणत्वात्, अनात्मप्रत्यक्षगुणत्वात्, अव्याप्यवृत्तित्वात्, वहिरिन्द्रियव्यवस्थाहेतुगुणत्वात्, भूतप्रत्यक्षगुणत्वात्, उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्तजातिमत्त्वाद्वेत्यादि । – [तत्त्वचि॰ शब्द॰ पृ॰ ४६० ।] ↩︎

  938. “–त्यं यथा” [ब॰] । ↩︎

  939. “तथा शब्द” [श्र॰] । ↩︎

  940. ताल्वादिव्यापारे । ↩︎

  941. वर्णात्मकत्वात्पदवाक्यानाम् । तुलना–यदा च वर्णा एव न नित्यास्तदा कैव कया पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमूहरूपाणा पदाना कुतस्तराञ्च तत्समूहरूपस्य वाक्यस्य कुतस्तमाञ्च तत्समूहस्य वेदस्येति – [तत्त्वचि॰ शब्द॰ पृ॰ ४६४ ।] ↩︎

  942. पदवाक्यानाम् । ↩︎

  943. पौरुषेयत्वसिद्धि । ↩︎

  944. तयो लौकिकवैदिकपदवाक्ययो । ↩︎

  945. उद्धृतमिदम् – [सन्मति॰ टी॰ पृ॰ ३९ । तौतातित॰ पृ॰ १३४ । भाट्टचि॰ पृ॰ ४१ ।] ↩︎

  946. तुलना–अनादिसत्त्वरूपञ्च अपौरुषेयत्व कथमक्षप्रभवप्रत्यक्षपरिच्छेद्यम् – [प्रमेयक॰ पृ॰ ३९१ ।] ↩︎

  947. अनादिकाल । ↩︎

  948. “तत्र ज्ञाना–” [आ॰] , [ब॰] । ↩︎

  949. अनादिसत्त्वरूपाऽपौरुषेयत्वज्ञानाकारणत्वात् । ↩︎

  950. अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति । कथ पुनरिदमवगम्यत अपौरुषेय एव सम्बन्ध इति ? पुरुषस्य सम्बन्धुरभावात् । कथ सम्बन्धा नास्ति ? प्रत्यक्षस्य प्रमाणस्याभावात् तत्पूर्वकत्वाच्चेतरेषाम् । ननु चिरवृत्तत्वात्प्रत्यक्षस्याविषयो भवेदिदानीन्तनानाम् । न हि चिरवृत्तः सन्न स्मर्येत । न च हिमवदादिषु कूपारामादिवदस्मरण भवितुमर्हति, पुरुषवियोगो हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा । न च शब्दार्थवियोगः पुरुषाणामस्ति । स्यादेतत्–सम्बन्धमात्रव्यवहारिणो निष्प्रयोजन कर्तृस्मरणमनाद्रियमाणा विस्मरेयुरिति, तन्न; यदि हि पुरुष कृत्वा सम्बन्ध व्यवहारयेत् व्यवहारकाले अवश्य स्मर्तव्यो भवति । सप्रतिपत्तौ हि कर्तृव्यवहर्त्रोरर्थ सिद्ध्यति न विप्रतिपत्तौ । न हि वृद्धिशब्देन अपाणिनेर्व्यवहरत आदैच प्रतीयेरन् पाणिनिकृतिमननुमन्यमानस्य वा । तथा मकारेण अपिङ्गलस्य न सर्वगुरुस्त्रिक प्रतीयेत पिङ्गलकृतिमननुमन्यमानस्य वा । तेन कर्तृव्यवहर्त्तारौ सम्प्रतिपद्येते । तेन वेदे व्यवहरद्भिरवश्यं स्मरणीय सम्बन्धस्य कर्त्ता स्यात् व्यवहारस्य च । तस्मात् कारणादवगच्छामो न कृत्वा सम्बन्ध व्यवहारार्थं केनचिद्वेदा प्रणीता इति ।तस्मादपौरुषेय शब्दस्य अर्थेन सम्बन्ध । – [शाबरभा॰ १ । १ । ५ । पृ॰ ५३ । बृहती॰ पृ॰ १७७ ।] यदा चाप्तप्रणीतत्वाच्छब्दोऽर्थ प्रतिपादयेत् । न स्वशक्त्या तदाप्तत्व मितौ न स्मर्यते कथम् ॥ यदा हि कश्चित् पदपदार्थसम्बन्ध कृत्वा धर्माधर्मप्रतिपादनाय बेदवाक्यानि कृतवान् तदाऽवश्यमसौ सम्बन्धस्य कर्ता, स एव च तै पदैः वेदवाक्यरचनात्मक व्यवहारं करोतीति समयव्यवहारयोरेककर्तृत्व प्रतिपतृभि स्मर्तव्यम्, तथा च वाक्यादर्थ प्रतिपद्यमानानामवश्य वाक्यकर्तुराप्तत्व प्रतिपतृभि स्मतर्व्यम्, तदधीनत्वादर्थनिश्चयस्य, न वेदादर्थ प्रतिपद्यमाना समयकर्तार तेन सह वेदकर्तुरेकत्व तस्य चाप्तत्व स्मरन्तो दृश्यन्त इति ।दृष्टे भवतु मा वाभूत् कर्तृसप्रतिपन्नता । वैदिको व्यवहारस्तु न कर्तृस्मरणादृते ॥ एवं गामानयेत्येवमादिषु मा नाम समयकर्तु व्यवहारकर्तुश्च सम्प्रतिपत्तिर्भूत्, वेदेऽपि प्रतिपत्तिमात्र विनाऽपि सम्प्रतिपत्त्या सिद्ध्यतु नाम । व्यवहारस्तु योऽग्निहोत्राद्यनुष्ठानात्मक सोऽदृष्टार्थो वाक्यैकप्रमाणको नाऽसति वाक्यकाराप्तस्मरणे सिद्ध्येत्, तदवश्यस्मर्तव्यस्य वेदाना सम्बन्धानाञ्च कर्तुरस्मरणात् योग्यानुपलम्भनादभावेऽवधारिते सिद्ध वेदाना सम्बन्धानाञ्च नित्यत्वमित्याह–दृष्ट इति । – [मी॰ श्लो॰ न्यायर॰, सम्बन्धा॰ श्लो॰ १२३, १३० ।] कथं पुनरपौरुषेयत्वं वेदानाम् ? पुरुषस्य कर्तुरस्मणात् । – [प्रक॰ पं॰ पृ॰ १४० ।] कर्तुरस्मरणाच्चापौरुषेयत्वम् – [भाट्टदी॰ पृ॰ ३३ । नयवि॰ पृ॰ २७९ ।] स्मर्तव्यत्वे सत्यस्मरणाद् योग्यानुपलब्धिनिरस्तस्य कर्तुरनुमानासभवात् समाख्यायाश्च प्रवचननिमित्तत्वादपौरुषेया वेदा इति । – [शास्त्रदी॰ पृ॰ ६९, ६१६ ।] ↩︎

  951. “कदाचित्कत्वेन चित्” [श्र॰] । ↩︎

  952. वेदकर्तु । ↩︎

  953. अग्निष्टोमादियज्ञानुष्ठानकाले । ↩︎

  954. कर्त्तार । आग्रहायण्या ऊर्ध्वं कृष्णाष्टमीषु तिसृषु क्रियमाण पितृश्राद्धविशेष । तथा च मनुवचनम्–पितृश्चैबाष्टकास्वर्चेत् – [मनुस्मृति॰ ४ । १५० ।] ↩︎

  955. “तत्कर्त्त स्मरणा–” [ब॰] । ↩︎

  956. अनुभव । ↩︎

  957. विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्यय, न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणमस्ति । ननु सामान्यतो दृष्ट पौरुष वचन वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते, न, अन्यत्वात् । न ह्यन्यस्य वितथभावे अन्यस्य वैतथ्य भवितुमर्हति अन्यत्वादेव । न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्व भवितुमर्हति । – [शावरभा॰ १ । १ । २ ।] वाक्यत्वात् पौरुषेयत्व दृश्यादर्शनवाधितम् । प्रतिहेतुविरुद्धश्च हेतु तस्मादकृत्रिमा ॥ – [शास्त्रदी॰ पृ॰ ६१५ ।] प्रकृष्ट हि वचन कस्यचिदेव कुत्रचिदेव तावत्सघात्मकत्व न पौरुषेयतामनुमापयितुमलम् वेदार्थविषयवाक्यरचनासामर्थ्यानुपपत्ते य एव हि पदसघाता पौरुषेयै विरचयितु शक्यन्ते तत्रैव पौरुषेयत्व दृष्टमित्यशक्यविरचनेषु पौरुषेयत्वानुमान न क्रमते । न च पौरुषेयत्व विना पदसधातात्मकतैव नोपपद्यते, उच्चारणवशेन हि पदानि सहततामापद्यन्ते । – [प्रक॰ प॰ पृ॰ ९८–९९ । तन्त्ररह॰ पृ॰ ४३ ।] ↩︎

  958. “–त्तत्कर्त्रनु–” [श्र॰] । ↩︎

  959. रचनामात्रात् । ↩︎

  960. उक्त तु शब्दपूर्वत्वम् । उक्तमस्माभि शब्दपूर्वत्वमध्येतॄणाम् । – [जैमिनिसू॰, शावरभा॰ १ । १ । ३० ।] वेदस्य कर्तुरस्मरणम्, वेदार्थस्यातीन्द्रियत्वमित्येवमादिहेतुभिरव्येतॄणामनादिप्रवृत्ताना शब्दपूर्वं उच्चारणान्तरपूर्वो वेदो न केनचिच्चिन्तयित्वा प्रवर्तित इति अकृतकत्वहेतोरुक्तत्वात् – [मीमासाभा॰ प॰ पृ॰ ७८ ।] सप्रतिसाधनश्च वाक्यत्वात् इति । विवादाध्यासितं वेदाध्ययन गर्वध्ययनपूर्वक वेदाध्ययनत्वादद्यतनाव्ययनवदिति । तदिदमाह सूत्रकार–“उक्त तु शब्दपूर्व- त्वम्” इति । शब्दशब्देनात्र शब्दजन्यमध्ययनम् । तदयमर्थ–सर्वपुसामध्ययनमध्ययनान्तरपूर्वकम्, सर्वे हि यथैव गुरुणाऽधीत तथैवाधिजिगासन्ते न पुनः स्वातन्त्र्येण कश्चिदपि प्रथमोऽध्येता वेदानामस्ति य कर्ता स्यात् तस्मादपौरुषेया वेदा । – [शास्त्रदी॰ पृ॰ ६१७ ।] विमत वेदाध्ययन परतन्त्राध्येतृकं वेदाध्ययनत्वात् सम्प्रतिपन्नाध्ययनवत्, आत्मत्व वेदकर्तृव्यक्तिसमवेत न भवति जातित्वात् गोत्ववदिति प्रतिहेतुविरुद्धञ्च वाक्यत्वम् । – [मानमेयो॰ पृ॰ १७३ ।] उद्धृतोऽयम् – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३३८ । न्यायम॰ पृ॰ २३३ ।] “तदध्ययनपूर्वकम्” – [अष्टसह॰ पृ॰ २३७ । तत्त्वस॰ पृ॰ ६४३ । प्रमेयक॰ पृ॰ ३९६ । सन्मति॰ टी॰ पृ॰ १३७ । स्या॰ र॰ पृ॰ ६२७ । विश्वतत्त्वप्र॰ पृ॰ ३३ ।] “तदध्ययनपूर्वकम्” – [प्रमेयर॰ ३ । ९९ । रत्नाकराव॰ ४ । ९ ।] ↩︎

  961. “वेदकारवियोगिनौ । कालत्वात्तद्यथा” – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३३८ । तत्त्वस॰ पृ॰ ६४३ ।] “वेदकारविवर्जितौ” – [प्रमेयक॰ पृ॰ ३९८ । सन्मति॰ टी॰ पृ॰ ३१ । स्या॰ र॰ पृ॰ ६२७ । विश्वतत्त्वप्र॰ पृ॰ ३४ । प्रमेयर॰ ३ । ९९ । रत्नाकराव॰ ४ । ९ ।] ↩︎

  962. “–त्वा यथा” [आ॰] , [श्र॰] । ↩︎

  963. “–त्वमिति नन्वा–” [ब॰] । ↩︎

  964. ✢ एतदन्तर्गत पाठो नास्ति [आ॰] । ↩︎ ↩︎

  965. “न चाप्तप्रणीतत्कालाभावे–” [ब॰] । ↩︎

  966. वेदस्य । ↩︎ ↩︎

  967. विप्लवते हि खल्वपि कश्चित्पुरुषकृताद्वचनात् प्रत्यय, न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणमस्ति । – [ शावरभा॰ पृ॰ १७ ।] ↩︎

  968. “शब्दो” [आ॰] । ↩︎

  969. “इति स्थिति” – [मी॰ श्लो॰ । स्या॰ र॰ पृ॰ ६२७ । रत्नाकराव॰ ४ । ९ ।] प्रकृतपाठ – [न्यायमं॰ पृ॰ १६७ । प्रमाणप॰ पृ॰ ७८ । सिद्धिवि॰ टी॰ पृ॰ ४०६अ। । प्रमेयक॰ पृ॰ ३९७ । सन्मति॰ टी॰ पृ॰ १९ । प्रमेयर॰ ३ । ९९ ।] ↩︎

  970. “–क्तृतत्वतः” [श्र॰] । ↩︎

  971. “शब्दसङ्क्रा–” [श्र॰] । ↩︎

  972. “नाप्तगुण–” [ब॰] । ↩︎

  973. शाब्दे प्रत्यये । ↩︎

  974. आप्तस्य । ↩︎

  975. तस्माद् गुणेभ्यो दोषाणामभावस्तदभावत । अप्रामाण्यद्वयासत्त्वं तेनोत्सर्गोऽनपोदित ॥ तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लधीयसी । वेदे तेनाप्रमाणत्व नाशङ्कामपि गच्छति । अतो वक्त्रनधीनत्वात्प्रामाण्ये तदुपासनम् । न युक्तम्, अप्रमाणत्वे कल्प्ये तत्प्रार्थना भवेत् । ततश्चाप्ताऽप्रणीतत्वं न दोषायात्र जायते । – [मी॰ श्लो॰ चोदना॰ श्लो॰ ६५-७० ।] ↩︎

  976. पौस्षेये तु वचने प्रमाणान्तरमूलता । तदभावे हि तद् दुष्येदितरन्न कदाचन ॥ – [मी॰ श्लो॰ चोदना॰ श्लो॰ ७१ ।] ↩︎

  977. “–नैवावबोध–” [ब॰] । ↩︎

  978. “–त्वान्निरपे–” [ब॰] । ↩︎

  979. पुरुषगुणनिरपेक्षम् । ↩︎

  980. “–त्रापि व्यक्ते” [आ॰] । ↩︎

  981. “पूर्वं सि–” [ब॰] । ↩︎

  982. पूर्वानुपूर्वीतो विलक्षणा आनुपूर्वी । ↩︎

  983. विलक्षणा शब्दानुपूर्वीम् । ↩︎

  984. “अन्यैर्निवा–” [आ॰] । ↩︎

  985. “बहुभिः” [श्र॰] । ↩︎

  986. “निवारणम्” – [मी॰ श्लो॰ ।] प्रकृतपाठ – [स्या॰ र॰ पृ॰ ६२८ ।] ↩︎

  987. [पृ॰ ७२१ प॰ ५ ।] ↩︎

  988. तुलना–किमिद कर्तृरस्मरण नाम कर्तृस्मरणाभाव अस्मर्यमाणकर्तृकत्व वा ? – [प्रमेयक॰ पृ॰ ३९२ ।] ↩︎

  989. अपौस्षेयो वेद कर्त्रस्मरणात् इत्येव प्रयोगे हेतोर्व्यधिकरणत्वदोषात् । – [सन्मति॰ टी॰ पृ॰ ४१ ।] ↩︎

  990. तत्रास्मर्यमाणकर्तृकत्वमसिद्धम्, तद्ग्राहकप्रमाणाभावात् । – [ स्या॰ र॰ पृ॰ ६२९ ।] ↩︎

  991. अभावप्रमाणेन क्रियमाणस्य अभावज्ञानस्य । ↩︎

  992. कर्तृस्मरणाभावसिद्धौ । ↩︎

  993. अभावप्रमाणोत्पत्तौ । ↩︎

  994. “नि का–” [आ॰] । ↩︎

  995. द्रष्टव्यम् – [पृ॰ ४६४ टि॰ १ ।] ↩︎

  996. कर्तृस्मरणाभावम् । नन्वत प्रादुर्भूतमभावप्रमाण तदभाव साश्रयमेव प्रसाधयेत् गृहीत्वा वस्तुसद्भावमित्यभिधानात् । – [ स्या॰ र॰ पृ॰ ६२९ ।] ↩︎

  997. गृहीत्वा वस्तुसद्भावमिति श्लोकाशेन । ↩︎

  998. “निषेध्याश्रयः” [ब॰] । ↩︎

  999. निषेध्यस्य य अभाव तस्य आश्रय । ↩︎

  1000. अभावप्रमाणात् । ↩︎

  1001. कर्तृस्मरणाभावस्य । अपि च किमशेषजनस्मरणनिवृत्तिरिह हेतुत्वेन विवक्षिता, आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्ति । तद्यदि सकलजनस्मरणविनिवृत्ति, तदाऽसिद्धा; अवधारयितुमशक्यत्वाच्चार्वाग्भागविद्भि । अवधारणे वा त एव सर्वज्ञा स्यु अर्वाग्भागविदो न भवेयु । अथ कतिपयपुरुषापेक्षया; तदाऽनैकान्तिको हेतु, विद्यमानकर्तृकेष्वपि कर्ता न स्मर्यते कैश्चित् । – [तत्त्वोप॰ पृ॰ ११७ ।] आश्रयश्चास्य स्वात्मा सर्वेप्रमातारो वा – [स्या॰ र॰ पृ॰ ६२९ ।] ↩︎

  1002. मदीय आत्मनि । ↩︎

  1003. ममानुष्ठाने स्मर्तव्योऽसौ – [स्या॰ र॰ पृ॰ ६२९ ।] ↩︎

  1004. वेदकर्ता । ↩︎

  1005. एव तर्हि पितामहस्य पितर मातामहीमातरम्, तन्मातापितरौ च न स्मरति तत्तेषामभावो भवेत् । – [स्या॰ र॰ पृ॰ ६२९ ।] ↩︎

  1006. भवत्स्मरणाभावस्य ↩︎

  1007. स्वय धृतौषधादिद्रव्यस्य । ↩︎

  1008. “वाने–” [आ॰] । ↩︎

  1009. ननु इति निश्चयार्थे । तुलना– सर्वे पुमास कर्तार वेदस्य न स्मरन्ति इति कथ जानाति भवान् । न हि तव सकललोकहृदयानि प्रत्यक्षाणि सर्वज्ञत्वप्रसङ्गात् । न च यत् त्व न जानाति तदन्योऽपि न जानातीति युक्तमतिप्रसङ्गात् । – [न्यायमं॰ पृ॰ २३७ । स्या॰ र॰ पृ॰ ६३० ।] ↩︎

  1010. तुलना–अपि च सर्वप्रमातृदेशान् गत्वा ताश्च पृष्ट्वा तत्र कर्तृस्मरणाभाव प्रतीयेतान्यथा वा ? – [स्या॰ र॰ पृ॰ ६३० ।] ↩︎

  1011. “सर्वत्रप्रमा–” [श्र॰] । ↩︎

  1012. सर्वप्रमातॄन् । ↩︎

  1013. “तत्र स्मर न स्मरन्तीत्यसर्वविदो वेदनानु गत्वा गत्वा” [आ॰] । ↩︎

  1014. “प्रतीयते” [ब॰] । ↩︎

  1015. गत्वा गत्वा तु तान्देशान् यद्यर्थो नोपलभ्यते । ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥ – [मी॰ श्लो॰ ।] उद्धृतोऽयम् – [प्रमेयक॰ पृ॰ २२ । सन्मति॰ टी॰ पृ॰ २३, ३२१ ।] ↩︎

  1016. देशान्तरे । ↩︎

  1017. सर्वप्रमातृषु । ↩︎

  1018. तैरुक्ते “न स्मराम” इति प्रतिवचने । ↩︎

  1019. “सद्भाव–” [ब॰] । ↩︎

  1020. द्रष्टव्यम् – [पृ॰ ४६४ टि॰ ४ ।] ↩︎

  1021. स्वयमेव वेदस्य । ↩︎

  1022. अभावप्रमाणप्रवृत्ति । ↩︎

  1023. उद्धृतोऽयम् – [स्या॰ र॰ पृ॰ ६३० । रत्नाकराव॰ ४ । ९ ।] ↩︎

  1024. अपौरुषेयतापीष्टा कर्तॄणामस्मृते किल । सन्त्यस्याप्यनुवक्तार इति धिग् व्यापक तम ॥ यस्मादिद साधनमसिद्धमनैकान्तिकञ्च तत्रासिद्धमधिकृत्याह–तथाहीत्यादि । स्मरन्ति सौगता वेदस्य कर्तॄनष्टकादीन्, आदिशब्दाद् वामकवामदेवविश्वामित्रप्रभृतीन् । हिरण्यगर्भं ब्रह्माण वेदस्य कर्तार स्मरन्ति काणादा वैशेषिका ततश्चासिद्ध कर्तुरस्मरणम् । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २६९ । मनोरथ॰ ३ । २६९ ।] असिद्धोप्यय हेतु यस्मात्स्मरन्ति एव कर्त्तार काणादा । तथा लौकिका अपि बहुल वक्तारो भवन्ति ब्रह्मणा वेदा प्रणीता इति । – [तत्त्वोप॰ पृ॰ ११७ ।] नैव सर्वनॄणा कर्तु स्मृतेरप्रसिद्धित । तत्कारण हि काणादा स्मरन्ति चतुराननम् । जैना कालासुर बौद्धास्त्वष्टकान् सकला सदा ॥ – [तत्त्वार्थश्लो॰ पृ॰ २३८ । अष्टसह॰ पृ॰ २३७ । प्रमेयक॰ पृ॰ ३९३ । सन्मति॰ टी॰ पृ॰ ४० । स्या॰ र॰ पृ॰ ६३० ।] यच्चेदमस्मर्यमाणकर्तृकत्वादिति तदसिद्धम्, प्रजापतिर्वा इदमेक आसीन्नाहरासीन्न रात्रिरासीत् स तपोऽतप्यत तस्मात्तपसश्चत्वारो वेदा अजायन्त इत्याम्नायेनैव कर्तृस्मरणात्, जीर्णकूपादिभिर्व्यभिचाराच्च । – [प्रश॰ कन्द॰ पृ॰ २१६ ।] कपिलकणादगौतमैतच्छिष्यैश्चाद्यपर्यन्त वेदे सकर्तृकत्वस्मरणस्य प्रतीयमानत्वात् । – [तत्त्वचि॰ शब्द॰ पृ॰ ३७१ ।] ↩︎

  1025. उद्धृतोऽयम् – [न्यायम॰ पृ॰ २३६ । प्रेमयक॰ पृ॰ ३९२ । स्या॰ र॰ पृ॰ ६३० । न्यायपरि॰ पृ॰ ३८३ । तत्त्वचि॰ शब्द॰ पृ॰ ३७३ ।] ↩︎

  1026. “कर्त्तृत्वम–” [ब॰] , [श्र॰] । ↩︎

  1027. “–कर्तृत्वम्” [ब॰] , [श्र॰] । ↩︎

  1028. तुलना–सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसहतिप्रतिनियमसन्दर्शनात् । फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनाम्, श्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुति ॥ – [पात्रके॰ श्लो॰ १४ । प्रमेयक॰ पृ॰ ३९२ । स्या॰ र॰ पृ॰ ६३० । प्रमेयर॰ ३ । ९९ ।] ↩︎

  1029. काण्वमाध्यन्दिनतैत्तिरीयादय शाखा । तुलना–एतास्तत्कृतत्वात्तन्नामभिरङ्कितास्तद्दृष्टत्वात् तत्प्रकाशितत्वाद्वा । – [प्रमेयक॰ पृ॰ ३९२ । स्या॰ र॰ पृ॰ ६३० । रत्नाकराव॰ ४ । ९ ।] ↩︎

  1030. “–वदुच्छिन्ना” [आ॰] । ↩︎

  1031. विशीर्णा विस्मता वा । ↩︎

  1032. शाखाया । ↩︎

  1033. समाख्यापि च शाखाना नाद्यप्रवचनादृते ।काठकं कालापकमित्यादयो हि समाख्याविशेषा शाखाविशेषाणामनुस्मर्यन्ते । ते च न प्रवचनमात्रनिबन्धना प्रवक्तॄणामनन्तत्वात् । नापि प्रकृष्टवचननिमित्ता, उपाध्यायेभ्योपि प्रकर्षे प्रत्युतान्यथाकरणदोषात्, तत्पाठानुकरणे च प्रकर्षाभावात् । कति चानादौ ससारे प्रकृष्टाः प्रवक्तार इति को नियामक इति । – [न्यायकुसु॰ ५ । १७ ।] ↩︎

  1034. येऽपि हि पौरुषेयता मन्यन्ते तेऽपि नैव परम्परया तत्र कर्तृविशेषस्मरण शक्नुवन्ति वदितुम्, सामान्यतोदृष्टेन कर्तारमनुमाय स्वाभिमत कर्तार तत्र निक्षिपन्ति–केचिदीश्वरम्, अन्ये हिरण्यगर्भम्, अपरे प्रजापतिम् । न चाय नानाविधो विवादः परम्परया कर्तरि मन्वादिवत् स्मर्यमाणे कथञ्चिदवकल्पते । नहि मानवे भारते शाक्यग्रन्थे वा कर्तृविशेष प्रति कश्चिद्विवदते । तस्मात् स्मर्तव्यत्वे सत्यस्मरणाद् दृश्यादर्शनवाधित सामान्यतोदृष्ट न शक्नोति कर्तारमवसाययितुम् । – [शास्त्रदी॰ पृ॰ ६१७ ।] ↩︎

  1035. “–नां कर्त्तृ–” [ब॰] । ↩︎

  1036. सविवादम् । ↩︎

  1037. रुद्रे – [आ॰ टि॰] । ↩︎

  1038. “–षेपि विप्र–” [श्र॰] । ↩︎

  1039. तुलना–नन्वेव कर्तृविशेषे विप्रतिपत्तेस्तद्विशेषस्मरणमेवाप्रमाणं स्यात् न कर्तृमात्रस्मरणम् । – [प्रमेयक॰ पृ॰ ३९३ । सन्मति॰ टी॰ पृ॰ ४२ । स्या॰ र॰ पृ॰ ६३० । शास्त्रवा॰ यशो॰ पृ॰ ३८४अ ।] ↩︎

  1040. एतदन्तर्गत पाठो नास्ति [श्र॰] । ↩︎

  1041. कादम्बर्य्यादावपि । ↩︎

  1042. “अथ कर्त्तृविशेषे विप्रतिपत्ति कर्तृमात्रमपि विप्रतिपत्ते” [ब॰] । ↩︎

  1043. तुलना–अथ वेदे कर्तृविशेषे विप्रतिपत्तिवत् कर्तृमात्रेऽपि विप्रतिपत्तेस्तत्स्मरणमप्यप्रमाणम् – [प्रमेयक॰ पृ॰ ३९३ । सन्मति॰ टी॰ पृ॰ ४२ । स्या॰ र॰ पृ॰ ६३० ।] ↩︎

  1044. कर्तृमात्रस्मरणम् । ↩︎ ↩︎

  1045. “–णमतो” [ब॰] । ↩︎

  1046. तुलना–ननु वेदे सौगतादय कर्तृमात्र स्मरन्ति न मीमासका इत्येव कर्तृमात्रेऽपि विप्रतिपत्तेः यदि कर्तस्मरण मिथ्या तदा कर्तृस्मरणत् अस्मर्यमाणकर्तृकत्वमपि असत्य स्याद्विप्रतिपत्तेरविशेषात् तथा च पुनरप्यसिद्धो हेतु । – [सन्मति॰ टी॰ पृ॰ ४२ । प्रमेयक॰ पृ॰ ३९३ । स्या॰ र॰ पृ॰ ६३१ ।] ↩︎

  1047. कर्तृस्मरणवत् । ↩︎

  1048. कर्त्रस्मरण । ↩︎

  1049. अस्मर्यमाणकर्तृकत्वात् । ↩︎

  1050. पौरुषेये अनित्ये । ↩︎

  1051. तुलना–नित्यं हि वस्तु न स्मर्यमाणकर्तृक नाप्यस्मर्यमाणकर्तृक प्रतिपन्न किन्त्वकर्तृकमेव । – [प्रमेयक॰ पृ॰ ३९२ ।] ↩︎

  1052. “–णकर्त्तृकत्व शब्दस्य” [ब॰] , “–णकर्त्तृत्व शब्दस्य” [आ॰] । ↩︎

  1053. साध्य हि अपौरुपेयत्व तदेव च अकर्तृकत्वमिति, साध्यावशिष्टत्वाद् असिद्धो हेत्वाभासो लक्ष्यते साध्यस्य असिद्धत्वादिति । ↩︎

  1054. तुलना–किञ्च अस्मर्यमाणकर्तृकत्व वादिन प्रतिवादिन सर्वस्य वा स्यात् । – [प्रमेयक॰ पृ॰ ३९५ । सन्मति॰ टी॰ पृ॰ ३० । स्या॰ र॰ पृ॰ ६३१ । प्रमेयर॰ ३ । ९९ ।] अपि च किमशेषजनस्मरणविनिवृत्तिरिह हेतुत्वेन विवक्षिता, आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्ति । – [तत्त्वोप॰ पृ॰ ११७ ।] ↩︎

  1055. तुलना–अनैकान्तिकत्वमप्याह–दृश्यन्ते चेत्यादि । उपदेशपारम्पर्यं सम्प्रदाय विछिन्न क्रियासभ्प्रदाय पुरुषकृतत्वसम्प्रदायो येषा वटे वटे वैश्रवणादिशब्दाना ते तथा । अनेन अस्मर्यमाणकर्तृत्वमाह । कृतकाश्च पौरुषेयाश्च । तत पौरुषेयेऽपि वाक्ये कर्तुरस्मरण वर्तत इत्यनैकान्तिको हेतु । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २४२ । स्या॰ र॰ पृ॰ ६३१ ।] वादिनश्चेत्तदनैकान्तिकम्, सा ते भवतु सुप्रीतेत्यादौ विद्यमानकर्तृकेष्यस्य भावात् । – [प्रमेयक॰ पृ॰ ३९५ ।] ↩︎

  1056. “कर्त्तृत्वभाव–” [श्र॰] । ↩︎

  1057. “वटे वटे श्रवण” इत्यादिवाक्येषु । ↩︎

  1058. “–त्वात्तस्य” [ब॰] । ↩︎

  1059. अस्मर्यमाणकर्तृकत्वस्य । ↩︎

  1060. वेदे । तुलना–यत कुतोऽत्र कर्त्रभावसिद्धि प्रमाणान्तरादत एव वा ? – [स्या॰ र॰ पृ॰ ६३१ ।] ↩︎

  1061. अस्मर्यमाणकर्तृकत्वस्य हेतो । ↩︎

  1062. वेदे कर्त्रभावसिद्धौ । ↩︎

  1063. अस्मर्यमाणकर्तृकत्वसिद्धौ च । ↩︎

  1064. अस्मर्यमाणकर्तृकत्वम् । ↩︎

  1065. तुलना–तद्यदि सकलजनस्मरणनिवृत्ति तदाऽसिद्धा अवधारयितुमशक्यत्वाच्च अर्वाग्भागविद्भि । अवधारणे वा त एव सर्वज्ञा स्यु अर्वाग्भागविदो न भवेयु । – [ तत्त्वोप॰ पृ॰ ११७ । न्यायम॰ पृ॰ २३७ । प्रमेयक॰ पृ॰ ३९५ । स्या॰ र॰ पृ॰ ६३१ ।] ↩︎

  1066. वेदविषये । ↩︎

  1067. “अज्ञानासि–” [श्र॰] । ↩︎

  1068. सर्वसम्बन्धिकर्त्रस्मरणस्य । ↩︎

  1069. [प॰ ७२१ प॰ ८ ।] ↩︎

  1070. न चाय नियमोऽनुष्ठानसमये तत्कर्तारमनुस्मृत्यैव प्रवर्तन्ते – [ प्रमेयक॰ पृ॰ ३९५ । सन्मति॰ टी॰ पृ॰ ४३ । शास्त्रवा॰ यशो॰ पृ॰ २८४ब्। ।] न हि यो धर्मशील इत्यादिवाक्येभ्यस्तदर्थानुष्ठाने प्रवर्तमानानामनुष्ठातॄणा तत्कर्तृस्मरणमस्ति । तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थोपयोगिन्यैहिकपारत्रिकभयाभावहेतौ प्रवृत्तिप्रतीते । – [स्या॰ र॰ पृ॰ ६३१ ।] ↩︎

  1071. “–णमिति” [ब॰] । ↩︎

  1072. “–त्रिकमयाद्वारहेतौ” [ब॰] । “–त्रिकतयाभावहेतौ” [आ॰] । ↩︎

  1073. [पृ॰ ७२२ पं॰ ९ ।] ↩︎

  1074. यतोऽव्यक्षेण तदनुभवाभावात्तत्र तच्छिन्नमूल प्रमाणान्तरेण वा । – [प्रमेयक॰ पृ॰ ३९३ । सन्मति॰ टी॰ पृ॰ ४२ । स्या॰ र॰ पृ॰ ६३१ ।] ↩︎

  1075. वेदे । ↩︎ ↩︎

  1076. कर्तृस्मरणम् । ↩︎

  1077. तुलना–सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी । विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वत ॥ – [तत्त्वसं॰ पृ॰ ६५ । न्यायवि॰ टि॰ पृ॰ १६७ पं॰ ३ । न्यायली॰ पृ॰ २२ ।] ↩︎

  1078. “तत्रकर्त्तृ–” [ब॰] । ↩︎

  1079. आगमान्तरकर्तृस्मरणस्य । ↩︎

  1080. “अयतद्प्रा–” [ब॰] । ↩︎

  1081. आगमान्तरे । ↩︎

  1082. मीमासकस्य । ↩︎

  1083. जैनादिभि । ↩︎

  1084. कर्तृसद्भाव । ↩︎

  1085. वेदस्मृतिरूपस्य । ↩︎

  1086. तुलना–बुद्धिपूर्वा वाक्यकृतिर्वेदे–वाक्यकृतिर्वाक्यरचना सा बुद्धिपूर्वा वक्तृयथार्थवाक्यार्थज्ञानपूर्वा वाक्यरचनात्वात्, नदीतीरे पञ्च फलानि सन्तीत्यस्मदादिवाक्यरचनावत् । – [वैशे॰ सू॰, उप॰ ६ । १ । १ ।] बुद्धिपूर्वा वाक्यकृतिर्वाक्यरचना वेदे तद्रचनात्वात् उभयाभिमतवाक्यरचनावत् । – [प्रश॰ व्यो॰ पृ॰ ५८१ । प्रश॰ कन्द॰ पृ॰ २१७ ।] तथा च वैदिक्यो रचना कर्तृपूर्विकाः रचनात्वाल्लौकिकरचनावत् । – [न्यायमं॰ पृ॰ २३२ । स्या॰ र॰ पृ॰ ६३२ ।] ततो ये नररचितवचनरचनाऽविशिष्टास्ते पीरुषेया यथाऽभिनवकूपप्रासादादिरचनाऽविशिष्टा जीर्णकूपप्रासादादय, नररचितवचनरचनाऽविशिष्टञ्च वैदिक वचनमिति । – [प्रमेयक॰ पृ॰ ४०२ । सन्मति॰ टी॰ पृ॰ ३९ ।] ↩︎

  1087. तुलना–इतश्च वर्णवत्त्वात्, वर्णवन्ति लौकिकवाक्यानि अनित्यानि तथा च वेदवाक्यानि, तस्मात्तान्यप्यनित्यानि । इतश्च सामान्यविशेषवत्त्वे सति श्रोत्रग्राह्यत्वात् लौकिकवाक्यवत् । इतश्च पदवत्त्वात् लौकिकवाक्यवत् । – [न्यायवा॰ पृ॰ २७२ ।] अनित्यानि वेदवाक्यानि वाक्यत्वादुभयाभिमतवाक्यवत् । – [प्रश॰ व्यो॰ ५८१ ।] न चाक्षरराशेरपौरुषेयत्वं येन स्वत प्रमाण वेद स्यात्, शास्त्रान्तरस्यापि तदनुषङ्गात् विशेषाभावाच्च । – [सिद्धिवि॰, टी॰ पृ॰ ४०६ब्। ।] वेदपदवाक्यानि पौरुषेयाणि पदवाक्यत्वाद् भारतादिपदवाक्यवत् । – [प्रमेयक॰ पृ॰ ३९१ ।] श्रुति पौरुषेयी वर्णाद्यात्मकत्वात् कुमारसभवादिवत् । – [रत्नाकराव॰ ४ । ९ ।] ↩︎

  1088. [पृ॰ ७२२ प॰ ११ ।] ↩︎

  1089. तुलना–दुर्भणत्वानुदात्तत्वक्लिष्टत्वाऽश्रव्यतादय । वेदधर्मा हि दृश्यन्ते नास्तिकादिवचस्स्वपि ॥ विषापगमभूत्यादि यच्च किञ्चित्समीक्ष्यते । सत्य तद्वैनतेयादिमन्त्रवादेऽपि दृश्यते । दुर्भणत्व दुरभिधानम्, अनुदात्तत्व मनोज्ञत्वम् क्लिष्ट व्यवहितम्, अश्रव्यता श्रुतिदुर्भगता । आदिशब्देन पदविच्छेदप्लुतोदात्तादिपरिग्रह । विषापगमे भूति सामर्थ्यं प्रभाव इति यावत् । अथवा विषापगमश्च भूतिश्चेति समास, भूतिर्विभूतिरैश्वर्यमिति यावत् । आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्यन्ते । सत्यमिति अविसवादि । वैनतेयादीत्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रह । – [तत्त्वस॰, प॰ पृ॰ ७३९ ।] सर्वेषा दुर्भणत्वादीना मन्त्रादिसामर्थ्यानाञ्च साधारणत्वात् । – [प्रमाणवा॰ मनोरथ॰ ३ । २४२ ।] दुर्भणनदु श्रवणादीनामस्मदाद्युपलभ्याना तदतिशयान्तराणा शक्यक्रियत्वादितरत्रापि । – [अष्टश॰, अष्टसह॰ पृ॰ २३७ । स्या॰ र॰ पृ॰ ६३२ । रत्नाकराव॰ ४ । ९ ।] ↩︎

  1090. तुलना–“अपि चेद मन्त्रा अपौरुषेयाश्चेति व्याहत पश्याम । तथाहि –समयत्वे हि मन्त्राणा कस्यचित् कार्यसाधनम् । युक्त यद्येते मन्त्राः कस्यचित्समयो यथा मत्प्रणीतमेतदभिमतार्थोपनिबन्धन वाक्यमेव नियुञ्जानमनेनार्थेन योजयामीति, परार्थपरतानुरोधेन अन्यतो वा कुतश्चिद्धेतो स्यात् तदा मन्त्रप्रयोगात् कदाचिदर्थनिष्पत्तिर्युक्ता कविसमयादिव पाठकानाम् । – [प्रमाणवा॰ स्ववृ॰ १ । २९४ ।] अपि च न मन्त्रो नामान्यदेव किञ्चित् । किं तर्हि ? सत्येत्यादि । यथाभूताख्यान सत्यम्, इन्द्रियमनसोर्दमन तप तयो प्रभावो विषस्तम्भनादिसामर्थ्यं स विद्यते येषा पुसा ते तथा तेषा सत्यतप प्रभाववता पुसा समीहितार्थस्य साधन तदेव मन्त्र । तद्वचन मन्त्रलक्षणमद्यत्वेऽपि पुरुषेषु दृश्यत एव । किं कारणम् ? यथास्व सत्याधिष्ठानबलाद् विषदहनादेः स्तम्भनस्य सामर्थ्योपधातस्य दर्शनात् । तथा शबराणा केषाञ्चित् स्वनियमस्थानामद्यापि विषापनयनशक्तियुक्तस्य कारणात् शक्नुवन्त्येव पुरुषा मन्त्रान् कर्तुम् । अवैदिकानाञ्च–वेदादन्येषा बौद्धादीनामिति, आदिशब्दाद् आर्हतगारुडमाहेश्वरादीना मन्त्रकल्पाना मन्त्राणा मन्त्रकल्पानाञ्च दर्शनात् । विद्याक्षराणि मन्त्रा, तत्साधनविधानोपदेशा मन्त्रकल्पा तेषाञ्च बौद्धादीनाम्मन्त्रकल्पाना पुरुषकृते पुरुषै करणात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३४२ ।] येऽपि मन्त्रविद केचिन्मन्त्रान् काश्चन कुर्वते । प्रभो प्रभावस्तेषा स तदुक्तन्यायवृत्तित ॥ कृतका पौरुषेयाश्च मन्त्रा वाच्या फलेप्सुना । अशक्तिसाधन पुसामनेनैव निराकृतम् । – [प्रमाणवा॰ ३ । ३०९–१० ।] परोक्षाया मन्त्रशक्तेरपि दर्शनात् । न ह्याथर्वणानामेव मन्त्राणा शक्तिरुपलभ्यते न पुनः सौगतादिमन्त्राणामिति शक्य वक्तु प्रमाणबाधनात् । – [अष्टश॰ अष्टसह॰ पृ॰ २३७ । स्या॰ र॰ पृ॰ ६३३ ।] मन्त्रादीनाञ्च सामर्थ्यं शाबरणामपि स्फुटम् । प्रतीत सर्वलोकेऽपि न चाप्यव्यभिचारि तत् ॥ – [शास्त्रवा॰ १० । ४४ ।] ↩︎

  1091. “भवति” [ब॰] । ↩︎

  1092. सकृतरूपया प्राकृतस्वरूपया पालिरूपया वा भाषया । ↩︎

  1093. ““तदा”” नास्ति [आ॰] । ↩︎

  1094. वेदे । तुलना–अपि च यद्विलक्षणेय रचना तद्विलक्षण एव कर्ता अनुमीयता न पुनस्तदपलापो युक्त इत्यप्युक्तम् । – [न्यायमं॰ पृ॰ २३६ ।] अपि चात्र विशिष्टा रचना दृश्यमाना तत्करणासमर्थमेव कर्तार निराकुरुते न पुनः कर्तृमात्रमपि । – [स्या॰ र॰ पृ॰ ६३४ ।] ↩︎

  1095. “–मानतत्करण–” [श्र॰] । ↩︎

  1096. कर्तृमात्रम् । ↩︎

  1097. “तथा” [आ॰] । ↩︎

  1098. विशिष्टरचनया । ↩︎

  1099. [पृ॰ ७२२ पं॰ १२ ।] ↩︎

  1100. “–द्धेतुत्वानु–” [आ॰] । ↩︎

  1101. कर्तृपूर्वकरचनाविलक्षणत्वस्थिते, यतो हि विद्यमानकर्तृकेषु अक्रियादर्शिनोऽपि कृतबुद्धिरुपजायते नतु क्षित्यादौ । ↩︎

  1102. [पृ॰ १०२ ।] ↩︎

  1103. [पृ॰ ७२२ पं॰ १७ ।] ↩︎

  1104. तुलना–किञ्चात्र निर्विशेषणमध्ययनशब्दवाच्यत्वमपौरुषेयत्व प्रतिपादयेत् कर्त्रस्मरणविशिष्ट वा ? – [प्रमेयक॰ पृ॰ ३६९ । सन्मति॰ टी॰ पृ॰ ४१ । स्या॰ र॰ पृ॰ ६३४ ।] ↩︎

  1105. तुलना–यत एवन्तस्मादध्ययनमध्ययनान्तरवद् अध्ययनान्तरपूर्वकमिति साध्ये अध्ययनादिति लिङ्ग व्यभिचारि, भारताद्यध्ययने पौरुषेयत्वाध्ययनत्वस्य भावात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३४५ ।] न हि तच्छब्दवाच्यत्वकृतमनादित्वमुपपद्यते । अनैकान्तिकश्चाय हेतु, भारतेप्येवमभिधातु शक्यत्वात् । भारताध्ययनं सर्वं गुर्वध्ययनपूर्वक भारताध्ययनवाच्यत्वादिदानीन्तनभारताध्ययनवदिति । – [न्यायमं॰ पृ॰ २३३ । प्रमेयक॰ पृ॰ ३६९ । सन्मति॰ टी॰ पृ॰ ४१ । स्या॰ र॰ पृ॰ ६३४ ।] पिटकत्रयादावपि तत एव वक्त्रभावप्रसङ्गात् । वेदाध्ययनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रकॢप्तौ न वक्त्रं बक्रीभवति, यतो विद्यमानवक्तृकेऽपि भावादध्ययनवाच्यत्वस्यानैकान्तिकत्व न स्यात् । – [अष्टश॰ अष्टसह॰ पृ॰ २३७ ।] भारताध्ययन सर्वं गुर्वध्ययनपूर्वकम् । तदध्ययनवाच्यत्वादधुनाध्ययन यथा ॥ – [प्रमेयर॰ ३ । ९९ ।] ↩︎

  1106. “भारतेष्वप्यस्य” [ब॰] । ↩︎

  1107. “सद्भावात्” [ब॰] , [श्र॰] । ↩︎

  1108. अध्ययनशब्दवाच्यत्वादिति हेतो । ↩︎

  1109. “वेदश्चेन्नतुनु” [श्र॰] । ↩︎

  1110. तुलना–वेदेन विशेषणाददोष, अध्ययनमात्रस्य हि व्यभिचारो न वेदेन विशिष्टस्याध्ययनस्येत्यभिप्राय । क पुनरित्यादि सिद्धान्तवादी । कोऽतिशयो वेदाध्ययनस्य येन तद्वेदाध्ययनमन्यथेति स्वय कृत्वाऽध्येतु न शक्यते । नैव कश्चिदतिशय । ततो वेदाध्ययनञ्च स्यान्न च अध्ययनपूर्वकमिति विरोधाभावात् स एव व्यभिचार । यस्मान्नहि विशेषण वेदत्वम् अविरुद्ध विपक्षेण अनध्ययनान्तरपूर्वकत्वेन सह, अस्माद् विपक्षाद् हेतु निवर्तयति । किं कारणम् ? अविरुद्धयो वेदत्व-अध्ययनान्तरपूर्वकत्वयोरेकत्र वेदवाक्ये सम्भवात् । को ह्यत्र विरोधो यद् वेदाध्ययनञ्च स्यान्न च अध्ययनान्तरपूर्वकमिति । तस्माद्वेदत्व विशेषणमध्ययनस्य हेतोरतिशयभाग् न भवति विशेषाधायकन्न भवति, विपक्षविरोधाभावेन विपक्षादव्यावर्तनात् उपात्तमपि विशेषणमनुपात्तसमम् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३४५ । प्रमेयक॰ पृ॰ ३९७ । स्या॰ पृ॰ ६३४ ।] ↩︎

  1111. अनध्ययनपूर्वकाध्ययने सकर्तृके ↩︎

  1112. वेदविशेषणस्य अध्ययनशब्दवाच्यत्वस्य । ↩︎

  1113. विपक्षात् । ↩︎

  1114. “कर्त्तृत्वलक्षण–” [ब॰] । ↩︎

  1115. “–त्वविलक्ष–” [श्र॰] । ↩︎

  1116. अस्मदादीनाम् अर्वाग्दृशाम् । तुलना–किञ्च यथाभूताना पुरुषाणामध्ययनमध्ययनपूर्वक दृष्ट तथाभूतानामेव अध्ययनशब्दवाच्यत्वमध्ययनपूर्वकत्व साधयत्यन्यथाभूताना वा ? – [प्रमेयक॰ पृ॰ ३९८ । सन्मति॰ टी॰ पृ॰ ४१ । स्या॰ र॰ पृ॰ ६३४ ।] ↩︎

  1117. गुर्वध्ययनपूर्वकम् । ↩︎

  1118. “–पूर्व दृष्टं” [आ॰] , [ब॰] । ↩︎

  1119. वेदाध्ययनम् । ↩︎

  1120. वेदाध्ययनपूर्वकम् । ↩︎

  1121. अतीन्द्रियार्थदर्शनशालिना पुरुषाणा वा । ↩︎

  1122. अस्मदादीनाम् । तुलना–यादृश त्वध्ययन स्वयङ्कर्तुमशक्तस्य तन्निमित्तम् अध्ययनान्तरनिमित्त दृष्ट तत्तथेति अव्ययनान्तरपूर्वकमेवेति स्यात् तन्निमित्ततया शक्तिनिमित्ततया दृष्टेऽवगते विशेषे स्वय कृत्वाऽध्ययनलक्षणे तत्त्यागेन तस्य विशेषस्य त्यागेन वेदाध्ययनत्वसामान्यस्य ग्रहण शक्तस्याशक्तस्य वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वक वेदाध्ययनत्वसामान्यादिति क्रियमाण व्यभिचार्येव । किमिव ? हुताशनसिद्धौ अग्निसिद्धौ पाण्डुद्रव्यत्ववत् – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३४६ ।] ↩︎

  1123. यादृश सन्निवेशादि घटादिषु यदक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादक दृष्ट तादृशमेव जीर्णकूपादौ बुद्धिमद्धेतुकत्वमनुमापयति नतु तद्विलक्षणम्–अक्रियादर्शिन कृतबुद्ध्यनुत्पादकमिति स्थिति, तथापि सन्निवेशसामान्यात् पृथिव्यादावपि बुद्धिमद्धेतुकत्वानुमाने मृद्विकारत्वहेतुना वल्मीकस्यापि कुम्भकारकृतत्व स्यात्, ततो यथा जगतो बुद्धिमद्धेतुके सन्निवेशादिसामान्यमकिञ्चित्कर तथैव यादृशानामस्मदादिपुरुषाणामध्ययनमध्यनान्तरपूर्वक दृष्ट तादृशानामेव देशान्तरादौ अध्ययनपूर्वकत्व साधयितुमुचित न तु अन्यादृशानामतीन्द्रियार्थद्रष्टॄणाम्, तत्र अध्ययनशब्दवाच्यत्वस्य अप्रयोजकत्वादिति भाव । ↩︎

  1124. अस्मदादीनामर्वाग्दृशाम् । ↩︎

  1125. अध्ययनम् । ↩︎

  1126. अध्ययनपूर्वकम् । ↩︎

  1127. अन्यथाभूताऽतीन्द्रियपुरुषासभावनया । ↩︎

  1128. अस्मदादिवदेव अर्वाग्दर्शित्वात् । ↩︎

  1129. अतीन्द्रियार्थ । ↩︎

  1130. तुलना–गिरा सत्यत्वहेतूना गुणाना पुरुषाश्रयात् । अपौरुषेयं मिथ्यार्थं किन्नेत्यन्ये प्रचक्षते ॥ – [प्रमाणवा॰ ३ । २२५ ।] यावता गुणवद्वक्त्रभावे तद्गुणैरनिराकृतैर्दोषैरपोहितत्वात् तत्र सापवाद प्रामाण्यम् । – [प्रमेयक॰ पृ॰ ३९७ । सन्मति॰ टी॰ पृ॰ ४१ । स्या॰ र॰ पृ॰ ६३४ ।] ↩︎

  1131. वक्तृगुणै । ↩︎

  1132. प्रामाण्यस्य निराकृतत्वात् । ↩︎

  1133. “–पोदित–” [आ॰] । ↩︎

  1134. अप्रमाणभूताम् । ↩︎

  1135. अप्रामाण्यनिवृत्ते । ↩︎

  1136. चोदनाया । यतोऽपौरुषेयत्वमस्या किमन्यत प्रमाणात् प्रतिपन्नमत एव वा ? – [प्रमेयक॰ पृ॰ ३९७ । सन्मति॰ टी॰ पृ॰ ४१ । स्या॰ र॰ पृ॰ ६३५ ।] ↩︎

  1137. अस्मदादिवदर्वाग्दर्शित्वसिद्धि । ↩︎

  1138. वेदाध्ययनवाच्यत्वाख्ये हेतौ । किं तत्र विशेषणम्–कर्त्रस्मरण सम्प्रदायाव्यवच्छेदो वा ? – [स्या॰ र॰ पृ॰ ६३५ ।] ↩︎

  1139. सम्प्रदायाव्यवच्छेदोऽपि आत्मगतः, सर्वलोकगतो वा ? – [स्या॰ र॰ पृ॰ ६३५ ।] ↩︎

  1140. “सर्वगतो” [ब॰] , [श्र॰] । ↩︎

  1141. सम्प्रदायाव्यवच्छेदस्य । ↩︎ ↩︎

  1142. विलक्षणसामग्रीप्रभवत्वादेव । ↩︎

  1143. प्रत्यक्षाद्यन्तर्गतम् । ↩︎

  1144. “ततो दृष्टयकृपारम्पर्यवत् संशयज्ञवक्तुमेवेतदर्थत्वव्यवस्था भवति सम्प्रदायाध्ययनप्रवणम्” [ब॰] । ↩︎

  1145. “–जननमेव तन्नार्थ–” [आ॰] । ↩︎

  1146. सम्प्रदायाव्यवच्छेदात्मक प्रमाणम् । ↩︎

  1147. वेदस्य । तुलना–अपि च आदिमतोऽपि शास्त्रग्रामस्य सम्प्रदायव्यवच्छेदोऽस्ति वेदस्य पुनरनादेरसौ नास्तीति क श्राद्धिको भवतोऽपर प्रतिपद्येत । – [स्या॰ र॰ पृ॰ ६३५ ।] ↩︎

  1148. “–पादित–” [श्र॰] । ↩︎

  1149. “अधिमता–” [श्र॰] । ↩︎

  1150. [पृ॰ ७२३ प॰ १ ।] ↩︎

  1151. तुलना–कालत्वपुरुषत्वादौ सन्दिग्धव्यतिरेकिता । पूर्ववत्करणाशक्ते नराणामप्रसाधनात् ॥ – [तत्त्वस॰ का॰ २७९९ ।] ↩︎

  1152. तुलना–किञ्चेदानी यथाभूतो वेदाकरणसमर्थपुरुषयुक्त तत्कर्तृपुरुषरहितो वा काल प्रतीत, अतीतानागतो वा तथाभूत कालत्वात्साध्येत अन्यथाभूतो वा ? – [प्रमेयक॰ पृ॰ ३९९ । सन्मति॰ टी॰ पृ॰ ३१ । स्या॰ र॰ पृ॰ ६३५ ।] ↩︎

  1153. “वेदाकरणसमर्थ–” [ब॰] । ↩︎

  1154. “तददृष्टपुरु–” [ब॰] । ““तत्कर्त्तृपुरुषरहितो”” इति नास्ति [आ॰] । ↩︎

  1155. वेदकर्तृपुरुषरहित । ↩︎

  1156. हेतो वेदकारविवर्जित इति शेष । ↩︎

  1157. वेदकर्तृपुरुषसहित । ↩︎

  1158. वेदकर्तृपुरुषरहितकालस्य वेदकारविवर्जितत्वमिष्टमेव । ↩︎

  1159. वेदकरणसमर्थपुरुषयुक्त तत्कर्तृपुरुषसहितो वा । ↩︎

  1160. वेदकर्तृपुरुषरहितस्यैव । ↩︎

  1161. कालस्य । ↩︎

  1162. वेदकाररहितत्वम् । ↩︎

  1163. वेदकर्तृपुरुषसहितकालसम्भावनया । ↩︎

  1164. वेदकर्तृपुरुषसहितस्य । ↩︎

  1165. तुलना–नन्वन्यथाभूत कालो नास्तीत्येत्कुत प्रमाणात् प्रतिपन्नम् ? – [प्रमेयक॰ पृ॰ ३९९ । सन्मति॰ टी॰ पृ॰ ३१ । स्या॰ र॰ पृ॰ ६३५ ।] ↩︎

  1166. कालत्वात् हेतो । ↩︎

  1167. वेदकर्तृसहित । ↩︎

  1168. वेदकारविवर्जितत्व । ↩︎

  1169. अन्यथाभूतकालाभावसिद्धौ । ↩︎

  1170. कालत्वादिति हेतो । ↩︎

  1171. तुलना–सहि वेद केनचिद् व्याख्यात धर्मस्य प्रतिपादक स्यादव्याख्यातो वा ? – [आप्तप॰ का॰ ११० । प्रमेयक॰ पृ॰ ४०० । स्प॰ र॰ पृ॰ ६३६ । प्रमेयर॰ ३ । ९९ ।] ↩︎

  1172. तुलना–न हि तावत्स्थितोप्येष ज्ञान वेद करोति न । यावन्न पुरुषैरेव दीपभूतै प्रकाशित ॥ ततश्चापौरुषेयत्व भूतार्थज्ञानकारणम् । न कल्प्यं ज्ञानमेतद्धि पुव्याख्यानात्प्रवर्त्तते ॥ सत्यप्येषा निरर्थाऽतो वेदस्यापौरुषेयता । यदिष्ट फलमस्या हि ज्ञान नत्पुरुषाश्रितम् ॥ स्वतन्त्रा पुरुषाश्चेह वेदे व्याख्या यथारुचि । कुर्वाणा प्रतिबद्धु ते शक्यन्ते नैव केनचित् ॥ मोहमानादिभिर्दोषैरतोऽमी विप्लुताः श्रुते । विपरीतामपि व्याख्या कुर्युरित्यभिशङ्क्यते ॥ – [तत्त्वस॰ का॰ २३६६–७१ ।] ↩︎

  1173. तुलना–अर्थोऽय नायमर्थ इति शब्दा वदन्ति न । कल्प्यो- ऽयमर्थ पुरुषै ते च रागादिसंयुता ॥ – [प्रमाणवा॰ ३ । ३१२ ।] वेदो नर निराशसो ब्रूतेऽर्थं न सदा स्वत । अन्धात्तयष्टितुल्या तु पुव्याख्या समपेक्षते ॥ स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत् । ततो नालोकवद्वेदश्चक्षुर्भूतश्च युज्यते । – [तत्त्वसं॰ का॰ २३७४–७५ । प्रमेयक॰ पृ॰ ४०० । स्या॰ र॰ पृ॰ ६३६ । प्रमेयर॰ ३ । ९९ ।] अथवा न तावदय वेद स्वस्यार्थ स्वयमाचष्टे सर्वेषामपि तदवगमप्रसङ्गात् । – [धवलाटी॰ पृ॰ १९५ ।] ↩︎

  1174. तुलना–व्याख्याप्यपौरुषेय्यस्य मानाभावान्न सङ्गता । मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चिते ॥ – [शास्त्रवा॰ १० । ३१ ।] ↩︎

  1175. तुलना–अथान्ये व्याचक्षते; तेषा तदर्थविषयपरिज्ञानमस्ति वा न वा । प्रथमविकल्पेऽसौ सर्वज्ञो वा स्यादसर्वज्ञो वा ? – [धवलाटी॰ पृ॰ १५९ ।] व्याख्याता रागादिमान् विरागो वा ? – [आप्तप॰ का॰ ११० । तत्त्वार्थश्लो॰ पृ॰ ८ । प्रमेयक॰ पृ॰ ४०१ । स्या॰ र॰ पृ॰ ६३६ । प्रमेयर॰ ३ । ९९ ।] ↩︎ ↩︎

  1176. “–न्योन्यवि–” [आ॰] । ↩︎

  1177. तुलना–यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भव । अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमत भवेत् ॥ यद्यत्यन्तपरोक्षेऽर्थे स्वर्गसम्बन्धादौ जैमिन्यादेरनागमस्य आगमनिरपेक्षस्य ज्ञानस्य सम्भव तदा अतीन्द्रियार्थदर्शी कश्चिदस्तीत्यभिमत भवेत् ततस्तत्प्रतिक्षेपो न युक्त । यदि तु न कश्चिदतीन्द्रियार्थदर्शी तदा–स्वय रागादिमान्नार्थ वेत्ति वेदस्य नान्यत । न वेदयति वेदोऽपि वेदार्थस्य कुतो गति ॥ – [प्रमाणवा॰, मनोरथ॰ ३ । ३१६–१७ ।] ↩︎

  1178. अतीन्द्रियार्थद्रष्टु । ↩︎

  1179. चोदनालक्षणोऽर्थो धर्म । – [जैमिनिसू॰ १ । १ । २ ।] चोदनैव प्रमाणञ्चेत्येतद् धर्मेऽवधारितम् । – [मी॰ श्लो॰ चोदना॰ श्लो॰ ४ ।] यो धर्मः स चोदनालक्षण, चोदनैव तस्य लक्षणम् । – [शास्त्रदी॰ १ । १ । २ ।] उद्धृतमिदम् – [आप्तप॰ पृ॰ ५७ । तत्त्वार्थश्लो॰ पृ॰ १२ । प्रमेयक॰ पृ॰ ४०१ । स्या॰ र॰ पृ॰ ६३६ ।] ↩︎

  1180. यथार्थप्रतीत्यनुपपत्तेः । तुलना–अपि च वेदस्तद्व्याख्यान वा पुरुषेण पुरुषायोपदिश्यमानमनष्टसम्प्रदायमेवानुवर्तते इत्यत्रापि शपथ शरणम् । आगमभ्रशकारिणामाहोपुरुषिकया तद्दर्शनविद्वेषेण वा तत्प्रतिपन्नखलीकरणाय धूर्तव्यसनेन अन्यतो वा कुतश्चित् कारणादन्यथारचनासभवात् । अपि चात्र भवान् स्वमेव मुखवर्णं स्ववादानुरागान्नून विस्मृतवान् “पुरुषो रागादिभिरुपप्लुतोऽनृतमपि ब्रूयादिति नास्य वचन प्रमाणम्” इति । तदिहापि किन्न प्रत्यवेक्ष्यते सभवति न वेति । स एवोपदिशन्नुपप्लवात् वेदवेदार्थ वाऽन्यथाप्युपदिशेदिति । श्रूयन्ते हि कैश्चित् पुरुषैरुत्सन्नोद्धृतानि शाखान्तराणि इदानीमपि कानिचिद् विरलाध्येतृकाणि । तद्वत् प्रचुराध्येतृकाणामपि कस्मिश्चित्काले कथञ्चित्सहारसभवात् । पुन सभावितपुरुषप्रत्ययात् प्रचुरतोपगमनसभावनासभवाच्च । तेषाञ्च पुन प्रतानयितॄणा पुरुषाणा कदाचिदधीतविस्मृताध्ययनानामन्येषा सम्भावनाभ्रंशभयादिनाऽन्यथोपदेशसभवात् । तत्प्रत्ययाच्च तद्भक्तानामविचारेण प्रतिपत्ते बहुष्वप्यध्येतृषु सभावितात् पुरुषाद् बहुल प्रतिपत्तिदर्शनात् । ततोऽपि कथञ्चिद् विप्रलम्भसभवात् । किञ्च, परिमितव्याख्यानृपुरुषपरम्परामेव चात्र भवतामपि शृणुम । तत्र कश्चिद् द्विष्टाज्ञधूर्तानामन्यतमः स्यादपीति अनाश्वास । – [प्रमाणवा॰ स्ववृ॰ १ । ३२२ ।] ↩︎

  1181. तु॰–कुतस्तस्य तादृश प्रज्ञातिशय ? श्रुत्यर्थस्मृत्यतिशयादिति चेत्, सोऽपि कुत ? पूर्वजन्मनि श्रुत्यभ्यासादिति चेत्, स तस्य स्वतोऽन्यतो वा ? स्वतश्चेत्, सर्वस्य स्यात । तस्यादृष्टवशाद् वेदाभ्यास स्वतो युक्तो न सर्वस्य तदभावादिति चेत्; कुतस्तस्यैव अदृष्टविशेष तादृग् ? वेदार्थानुष्ठानाच्चेत्, तर्हि स वेदार्थस्य स्वय ज्ञातस्यानुष्ठाता स्यादज्ञातस्य वापि ? न तावदुत्तर पक्ष, अतिप्रङ्गात् । स्वय ज्ञातस्य चेत्, परस्पराश्रय । मन्वादेर्वेदाभ्यासोऽन्यत एवेति चेत्, स कोऽन्य ? ब्रह्मेति चेत्, तस्य कुतो वेदार्थज्ञानम् ? धर्मविशेषादिति चेत्, स एवान्योन्याश्रय । – [तत्त्वार्थश्लो॰ पृ॰ ९ । प्रमेयक॰ पृ॰ ४०१ । स्या॰ र॰ पृ॰ ६३६ ।] ↩︎

  1182. “अदृष्टत्वात्” [श्र॰] । ↩︎

  1183. “–प्ति स्वतश्चेदन्यो–” [आ॰] । ↩︎

  1184. तुलना–यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रियदृङ्मत । अनादि कल्पिताप्येषा तस्मादन्धपरम्परा ॥ अन्धेनान्ध समाकृष्ट सम्यग्वर्त्म प्रपद्यते । ध्रुव नैव तथाप्यस्या विफलाऽनादिकल्पना । – [तत्त्वस॰ का॰ २३७९–८० ।] अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा । तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् । – [न्यायवि॰ का॰ ४१७ । अष्टश॰ अष्टसह॰ पृ॰ २३९ । प्रमेयक॰ पृ॰ ४०१ । स्या॰ र॰ पृ॰ ६३७ । तत्त्वचि॰ शब्द॰ पृ॰ ३६९ ।] ↩︎

  1185. प्रज्ञातिशयप्रयोजकस्य अदृष्टस्य । ↩︎

  1186. मन्वादि । ↩︎

  1187. ब्रह्मण । ↩︎ ↩︎ ↩︎

  1188. धर्मविशेषसिद्धौ । ↩︎

  1189. तुलना–उत्पादिता प्रसिद्ध्यैव शङ्का शब्दार्थनिश्चये । यस्मान्नानार्थवृत्तित्व शब्दाना तत्र दृश्यते ॥ अन्यथासभवाभावान्नानाशक्ते स्वय ध्वने । अवश्य शङ्कया भाव्य नियामकमपश्यताम् ॥ सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः । ज्ञाता वाऽतीन्द्रिया केन विवक्षावचनादृते ॥ – [ प्रमाणवा॰ ३ । ३२३, २४, २६ । प्रमेयक॰ पृ॰ ४०२ । स्या॰ र॰ पृ॰ ६३७ ।] ↩︎

  1190. आदिपदेन संसर्गादयो गाह्या । तथा चोक्तम्–संसर्गो विप्रयोगश्च साहचर्यं विरोधिता । अर्थ प्रकरण लिङ्गं शब्दस्यान्यस्य सन्निधि ॥ सामर्थ्यमीचिती देश कालो व्यक्तिः स्वरादय । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव । – [वाक्यप॰ २ । ३१७–१८ ।] ↩︎

  1191. इष्टार्थनियम । ↩︎

  1192. प्रकरणादीनामपि । तुलना–तेषामप्यनेकधा प्रवृत्तेः द्विसन्धानादिवत् । – [प्रमेयक॰ पृ॰ ४०२ ।] तेषामप्यनेकताप्रवृत्तेस्त्रिसन्धानादिवत् । – [स्या॰ र॰ पृ॰ ६३७ ।] ↩︎

  1193. “–त्ते” [आ॰] । ↩︎

  1194. “पौरुषेयत्वस्यापि ततोऽवशि–” [ब॰] । ↩︎

  1195. पौरुषेयत्वदृष्ट्यापि । ↩︎

  1196. लौकिकशब्देन । ↩︎

  1197. वैदिकशब्द । ↩︎

  1198. तात्पर्यम् पौरुषेयत्वञ्च । ↩︎

  1199. “न लौकि–” [आ॰] , [ब॰] । ↩︎

  1200. अथ स्यादस्त्येव तयो स्वभावभेद इत्याह–न चात्रेत्यादि । अत्र जगति लौकिकवैदिकयोर्वाक्ययोः स्वभावनानात्वनच पश्यामः । असति तस्मिन् स्यरूपभेदे तयो लौकिकवैदिकवाक्ययो सामान्यस्यैव तुल्यरूपस्यैव वर्णानुक्रमलक्षणस्य दर्शनाद् एकस्य लौकिकवैदिकस्य कचिद् धर्मं विवेचयन् पौरुषेयत्वमपौरुषेयत्व वा विभागेन व्यवस्थापयन् पुरुष आशक्यव्यभिचारवाद क्रियते । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३४१ ।] नच लौकिकवैदिकशब्दयो शब्दरूपाविशेषे सकेतग्रहणसव्यपेक्षत्वेनार्थप्रतिपादकत्वे अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे समाने अन्यो विशेषो विद्यते यतो वैदिका अपौरुषेया स्यु । – [प्रमेयक॰ पृ॰ ४०२ । सन्मति॰ टी॰ पृ॰ ३९ । स्या॰ र॰ पृ॰ ६३७ ।] ↩︎

  1201. “–काश्च पौरु–” [ब॰] । ↩︎

  1202. दृष्टव्यम् – [पृ॰ ७२९ टि॰ १४ ।] ↩︎

  1203. “–तरचना–” [आ॰] , [ब॰] । ↩︎

  1204. तुलना–सुप्तिडन्त पदम् – [पाणिनिव्या॰ १ । ४ । १४ ।] ते विभक्त्यन्ता पदम् – [न्यायसू॰ २ । २ । ५९ । नाट्यशा॰ १४ । ३९ ।] पदं पुनर्वर्ण- समूहः – [न्यायवा॰ पृ॰ १ । न्यायमं॰ पृ॰ ३६७ ।] शक्तं पदम् । – [मुक्ता॰ का॰ ८१ ।] वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः – [ता॰ द॰ २ । ५ ।] व्याकरणस्मृतिनिर्णीतः शब्दः निरुक्तनिघण्ट्वादिभिः निर्दिष्टस्तदभिधेयोऽर्थः तौ पदम् । – [काव्यमी॰ पृ॰ २१ ।] वर्णानां परस्परापेक्षाणां निरपेक्षः समुदायः पदम् । – [प्रमेयक॰ पृ॰ ४५८ ।] वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यमिति । – [प्रमाणनय॰ ४ । १० ।] ↩︎

  1205. तुलना–आख्यातं साव्ययं सकारकं सकारकविशेषणं वाक्यसञ्ज्ञं भवतीति वक्तव्यम्–अपरं आह–आख्यातं सविशेषणमित्येव । सर्वाणि ह्येतानि विशेषणानि ।एकतिङ्, एकतिङ् वाक्यसञ्ज्ञं भवतीति वक्तव्यम् । – [पात॰ महाभा॰ २ । १ । १ ।] तिङ्सुबन्तचयो वाक्यम् क्रिया वा कारकान्विता । – [अमरको॰ ।] पूर्वपदस्मृत्यपेक्षः अन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानः विशेषप्रतिपत्तिहेतुर्वाक्यम् । – [न्यायवा॰ पृ॰ १६ ।] यावद्भिः पदैरर्थपरिसमाप्तिः तदेकं वाक्यम् । – [वादन्याय पृ॰ १०८ ।] पदसमूहो वाक्यमिति । – [न्यायमं॰ पृ॰ ६३७ । न्यायवा॰ ता॰ पृ॰ ४३४ ।] अथात्र प्रसङ्गान्मीमांसकवाक्यलक्षणमर्थद्वारेण प्रदर्शयितुमाह–साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवदेकार्थं वाक्यमिष्यते ॥ – [वाक्यप॰ २ । ४ ।] पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् । – [अष्टश॰, अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४५८ । प्रमाणनय॰ ४ । १० ।] मिथः साकाङ्क्षशब्दस्य व्यूहो वाक्यं चतुर्विधम् । सुप्तिङन्तचयो नैवमतिव्याप्त्यादिदोषतः ॥ यादृशशब्दानां यादृशार्थविषयताकान्वयबोधं प्रत्यनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तोम एव तथाविधार्थे वाक्यम् । – [शब्दश॰ श्लो॰ १३ ।] वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः । – [सा॰ द॰ २ । १ ।] पदानामभिधित्सितार्थग्रन्थनाकारः सन्दर्भो वाक्यम् । – [काव्यमी॰ पृ॰ २२ ।] वाक्यं विशिष्टपदसमुदायः । यदाह–पदानां संहतिर्वाक्यं सापेक्षाणां परस्परम् । साख्याताः कल्पनास्तत्र पश्चात्सन्तु यथायथम् । – [न्यायाव॰ टी॰ टि॰ पृ॰ ८ ।] ↩︎

  1206. ननु यदि निराकाङ्क्षः परस्परापेक्षपदसमुदायो वाक्यं न तर्हि तदानीमिदं भवति, यथा यत्सत्तत्सर्व परिणामि यथा घटः संश्च शब्द इति साधनवाक्यम्; तस्मात्परिणामीत्याकाङ्क्षणात्, साकाङ्क्षस्य वाक्यत्वानिष्टेरिति न शङ्कनीयम्; कस्यचित्प्रतिपत्तुस्तदनाकाङ्क्षत्वोपपत्तेः, निराकाङ्क्षत्वं हि नाम प्रतिपत्तृर्धर्मोऽयं वाक्येष्वध्यारोप्यते न पुनः शब्दस्य धर्मः तस्याचेतनत्वात् । स चेत्प्रतिपत्ता ताक्ताऽर्थं प्रत्येति किमिति शेषमाकाङ्क्षति ? – [अष्टश॰, अष्टसह॰ पृ॰ ८५ । प्रमेयक॰ पृ॰ ४५८ । स्या॰ र॰ पृ॰ ६४१ ।] ↩︎

  1207. सौगतस्य । ↩︎

  1208. सौगतापेक्षया । ↩︎

  1209. पञ्चावयववादिनैयायिकापेक्षया । ↩︎

  1210. “–पत्तर्धर्मः” [श्र॰] । ↩︎

  1211. उपनय । ↩︎

  1212. षष्ठावयवापेक्षा । ↩︎

  1213. क्वचिदाकाङ्क्षापरिसमाप्त्यभावे न वाक्यपरिनिष्ठितिः । ↩︎

  1214. प्रकरणादिना वाक्यकल्पेनाप्यर्थप्रतिपत्तौ न वा प्राथमकल्पिकवाक्यलक्षणपरिहारः, प्रकरणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकाङ्क्षस्य सत्यभामादिपद् वाक्यत्वसिद्धेः । – [ अष्टश॰ अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४५८ । स्या॰ र॰ पृ॰ ६४२ ।] ↩︎

  1215. “तद्वाक्यत्वं” [ब॰] । ↩︎

  1216. ““प्रतिपादितं”” नास्ति [आ॰] । ↩︎

  1217. वैयाकरणैः भर्तृहरिप्रभृतिभिः । ↩︎

  1218. “वाक्यलक्षणा–” [श्र॰] । ↩︎

  1219. व्याख्या–एतेऽष्टौ वाक्यविकल्पा आचार्याणाम् । तत्राखण्डपक्षे जातिः सङ्घातवतिन्येकोऽनवयवः शब्दो बुद्ध्यनुसंहृतिरिति त्रीणि लक्षणानि । खण्डपक्षे तु आख्यातशब्दः क्रमः सङ्घातः पदमाद्यं पृथक् सर्वपदं साकाङ्क्षमिति पञ्च लक्षणानि । अत्रापि सङ्घातः क्रमः इत्याभिहितान्वयपक्षे लक्षणद्वयम् । आख्यातशब्दः पदमाद्यं पृथक्सर्वपदं साकाङ्क्षमित्यन्विताभिधानपक्षे लक्षणत्रयम् इति विभागःइत्थमष्टावेव वाक्यविकल्पाः । मतभेदेन सम्पद्यन्त इति बोद्धव्यम् । – [वाक्यप॰ टी॰ २ । १-२ ।] “आख्यातं शब्दसङ्घातो” – [मी॰ श्लो॰ न्यायर॰ पृ॰ ८६० ।] ↩︎

  1220. “बुद्ध्यनुसंहृतिः” – [वाक्यप॰, मी॰ श्लो॰ न्यायर॰ पृ॰ ८६० । स्या॰ र॰ पृ॰ ६४७ ।] प्रकृतपाठः – [अष्टतह॰ पृ॰ २८४ । तत्त्वार्थश्लो॰ पृ॰ ४२७ । प्रमेयक॰ पृ॰ ४५९ । नयच॰ बृ॰ पृ॰ १६८अ। ।] ↩︎

  1221. “पदमाद्यं पृथक्सर्वपदं साकाङ्क्षमित्यपि” – [वाक्यप॰ ।] “पदमाद्यं पृथक्सर्वपदं सापेक्षमित्यपि” [मी॰ श्लो॰ न्यायर॰ पृ॰ ८६० । स्या॰ र॰ पृ॰ ६४७ ।] प्रकृतपाठः – [अष्टसह॰ पृ॰ २८४ । तत्त्वार्थश्लो॰ पृ॰ ४२७ । प्रमेयक॰ पृ॰ ४५९ ।] ↩︎

  1222. “न्यायवादिनाम्” – [वाक्यप॰ ।] “न्यायदर्शिनाम्” [मी॰ श्लो॰ न्यायर॰, स्या॰ र॰ ।] “न्यायवेदिनाम्” – [ अष्टतह॰, तत्त्वार्थश्लो॰, प्रमेयक॰ ।] ↩︎

  1223. आख्यातात्मकवाक्यस्य स्वरूपम्–आख्यातशब्दे नियतं साधनं यत्र गम्यते । तदप्येकं समासार्थं वाक्यमित्यभिधीयते ॥ –यथा वर्षतीत्युक्ते देबो जलमिति कर्तृकर्माक्षेपात् परिपूर्णार्थत्वे वर्षति देवो जलमिति यथा वाक्यमेवं तदप्येकं पदं समासार्थं परिपूर्णार्थं वाक्यमेवाभिधीयते । – [वाक्यप॰ टी॰ २ । ३१७ ।] तस्य पदान्तरनिरपेक्षस्य पदत्वाद् अन्यथा आख्यातपदाभावप्रसङ्गात् । पदान्तरसापेक्षस्यापि क्वचिन्निरपेक्षत्वाभावे वाक्यत्वविरोधात् प्रकृतार्थापरिसमाप्तेः । निराकाङ्क्षस्य तु वाक्यलक्षणयोगादुपपन्नं वाक्यत्वम् । – [अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४५९ ।] ↩︎

  1224. जैनमत । ↩︎

  1225. आख्यातपदस्य । ↩︎

  1226. सघातस्य स्वरूपम्–केवलेन पदेनार्थो यावानेवाभिधीयते । वाक्यस्थ तावतोऽर्थस्य तदाहुरभिधायकम् ॥ सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते । वाक्यार्थमेव त प्राहुरनेकपदसश्रयम् ॥ केवल पद यस्यैवार्थस्य वाचकम् वाक्यस्थमपि तमेवाभिदधाति । तत समुदये पदानां परस्परान्वये पदार्थवशाद् यदाधिक्य ससर्ग स वाक्यार्थः । उक्तञ्च–यदत्राधिक्य वाक्यार्थ स इति । अनेकपदसंश्रयमित्यनेन सघातो वाक्यमिति दर्शितम् । – [वाक्यप॰ टी॰ २ । ४२ ।] यथा सावयवा वर्णा विना वाच्येन केनचित् । अर्थवन्त समुदिता वाक्यमप्येवमिष्यते ॥ – [वाक्यप॰ २ । ५५ ।] ↩︎

  1227. तुलना– सघातो वाक्यमित्यत्रापि परस्परापेक्षाणा पदानामनपेक्षाणा वा ? प्रथमपक्षे निराकाङ्क्षत्वे अस्मत्पक्षसिद्धि साकाङ्क्षत्वे वाक्यत्वविरोध । द्वितीयविकल्पे अतिप्रसङ्ग । – [अष्टसह॰ पृ॰ २८५ । स्या॰ र॰ पृ॰ ६४४ ।] ↩︎

  1228. देशकृत कालकृतो वा वर्णाना सघात स्यात् । – [प्रमेयक॰ पृ॰ ४५९ ।] ↩︎

  1229. पदनाम् । ↩︎

  1230. “–कृतकमासम्भ–” [आ॰] , [ब॰] । ↩︎

  1231. न वर्णेभ्यो भिन्न सघातोऽनश प्रतीतिमार्गावतारी सघातत्वविरोधाद् वर्णान्तरवत् । नापि ततोऽनर्थान्तरमेव सघात, प्रतिवर्णसघातप्रसङ्गात् । न चैको वर्ण सघातो भवेत् – [तत्त्वार्थश्लो॰ पृ॰ ४२६ ।] [प्रमेयक॰ पृ॰ ४५९ ।] ↩︎

  1232. “–घस्याप्रती–” [आ॰] । ↩︎

  1233. “कथञ्चिद्धर्मेभ्यो” [ब॰] । ↩︎

  1234. पदानाम् । ↩︎

  1235. पदान्तरसाकाङ्क्षत्वे वाक्याऽपरिसमाप्ति, अन्योऽन्यानपेक्षत्वे तु पदत्वमेव स्यान्न वाक्यत्वमिति । ↩︎

  1236. अथ जाति सघातवर्तिनीत्युद्दिष्टस्य जातिस्फोटस्यापि दृष्टान्तप्रदर्शनद्वारेण स्फुटीकरणायाह–यथा क्षेपविशेषेऽपि कर्मभेदो न गृह्यते । आवृत्तौ व्यज्यते जाति कर्मभिर्भ्रमणादिभि ॥ वर्णवाक्यपदेष्वेव तुल्योपव्यञ्जना श्रुति । अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ इह भ्रमणलक्षणा कर्मजातिर्यथा विशिष्टप्रयत्नजनितेन क्षेपविशेषेणाभिव्यक्ता प्रत्येकपरिसमाप्तत्वात् । न च पार्श्वस्थेन सा विज्ञायते । भ्रमणानामावृत्तौ तु भ्रमण भ्रमण प्रति प्रतिपत्रा सा गृह्यते । एव वर्णपदवाक्येषु श्रुतिरभिव्यञ्जको ध्वनिरत्यन्तभेदे तत्त्वस्य वर्णपदवाक्यस्फोटलक्षणस्य साऽभिव्यञ्जिका सरूपेव प्रतीयते, परमार्थतो भिन्नापि सती । कीदृशी ? तुल्योपव्यञ्जनेति । तुल्य सदृश उपव्यञ्जन स्थानकरणाभिघातलक्षणो यस्या सा तथेति । तेन भिन्नप्रयत्नोदीरितध्यन्यभिव्यक्तोऽय जातिस्फोटो विलक्षण एवेति बोद्धव्यम् । युक्तञ्चैतत् । यथा निरंशस्यास्य स्फोटस्य पूर्वापरभाव उपाधिकृतो न स्वतो नित्यत्वादिति । – [वाक्यप॰, टी॰ २ । २०, २१ ।] ↩︎

  1237. तुलना–निराकाङ्क्षपरस्परापेक्षपदसघातवर्तिन्या सदृशपरिणामलक्षणाया जातेर्वाक्यत्वघटनात् । – [अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४६० ।] ↩︎

  1238. सङ्घातात् । ↩︎

  1239. स्फोटश्च द्विविध–बाह्य आभ्यन्तरश्चेति । बाह्योऽपि जातिव्यक्तिभेदेन द्विविध । तत्र जातिलक्षणस्य जाति सघातवर्तिनीति, व्यक्तिलक्षणस्यैकोऽनवयव शब्द इति । आभ्यन्तरस्य तु बुद्ध्यनुसहृतिरित्यनेनोद्देश । – [वाक्यप॰ टी॰ २ । २ ।] टीकाकारश्चामुमेव पक्ष सूत्रकाराभिप्रायसमाश्रयणेन युक्तियुक्त मन्यमानो बहीरूप आन्तरो वा निर्विभागः शब्दार्थमयो बोधस्वभावः शब्दः स्फोटलक्षण एव वाक्यमिति क्रमेण व्याजिहीर्षु चित्रज्ञानचित्ररूपदृष्टान्तप्रदर्शन पूर्वमुपक्रमते । तत्र चित्रबुद्धिदृष्टान्तप्रदर्शनार्थमह–यथैक एव सर्वार्थप्रत्यय प्रविभज्यते । दृश्यभेदानुकारेण वाक्यार्थानुगमस्तथा ॥ चित्रम्यैकस्वरूपस्य यथा भेदनिदर्शनै । नीलादिभि समाख्यान क्रियते भिन्नलक्षणै ॥ तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः । शब्दान्तरै समाख्यान साकाङ्क्षैरनुगम्यते ॥ शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति । विभागै प्रक्रियाभेदमविद्वान् प्रतिपद्यते ॥ – [वाक्यप॰ २ । ७-९, १३ ।] नित्यत्वे समुदायाना जातेर्वा परिकल्पने । एकस्यैवार्थतामाहु वाक्यस्याव्यभिचारिणीम् ॥ – [वाक्यप॰ २५७ ।] ↩︎

  1240. श्रोत्रबुद्धौ तदप्रतिभासनात् तत्प्रतिबद्धलिङ्गाभावात् – [अष्टसह॰ पृ॰ २८५ ।] ↩︎

  1241. क्रमपक्ष व्याख्यातुमाह–सन्त एव विशेषा ये पदार्थेषु व्यवस्थिता । ते क्रमादनुगम्यते न वाक्यमभिधायकम् ॥ क्रमव्यतिरेकेण न शब्दात्मकं न वाक्यमभिधायकमस्तीत्युच्यते । शब्दाना क्रममात्रे च नान्य शब्दोऽस्ति वाचकः । क्रमो हि धर्म कालस्य तेन वाक्यं न विद्यते ॥ वर्णाना च पदानाञ्च क्रममात्रनिवेशिनी । पदाख्या वाक्यसज्ञा च शब्दत्व नेष्यते तयो ॥ अनर्थकान्युपायत्वात्पदार्थेनार्थबन्ति वा । क्रमेणोच्चारितान्याहुर्वावयार्थं भिन्नलक्षणम् ॥ – [वाक्यप॰ २ । ५०-५२, ५६ ।] ↩︎

  1242. तुलना–वार्य पदक्रमो वाक्य यथा वर्णक्रम पदम् । – [मी॰ श्लो॰ वाक्या॰ श्लो॰ ५३ ।] वर्णमात्रक्रमस्य वाक्यत्वप्रसङ्गात् पदरूपतामापन्नाना वर्णविशेषाणा क्रमो वाक्यमिति चेत्, स यदि परस्परापेक्षाणा निराकाङ्क्षस्तदा समुदाय एव, क्रमभुवा कालप्रत्यासत्तेरेव समुदायत्वात्, सहभुवामेव देशप्रत्यासत्ते समुदायत्वव्यवस्थिते । अथ साकाङ्क्ष; तदा न वाक्यमर्धवाक्यवत् । परस्परनिरपेक्षाणा तु क्रमस्य वाक्यत्वेऽतिप्रसङ्ग एव । – [अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४६० । स्या॰ र॰ पृ॰ ६४४ ।] ↩︎

  1243. “तद्दुष्टं” [श्र॰] , [ब॰] । ↩︎

  1244. इदानीमन्तरे वाऽनवयव बोधस्वभाव शब्दार्थमयं निर्विभाग शब्दतत्त्वमिति यद्गीत तदेव नादैर्वहि प्रकाशित वाक्यमाहुराचार्या इत्यनतर बुद्ध्यनुसहृतिरित्युद्दिष्ट व्याख्यातुमाह–यदन्त शब्दतत्त्व तु नादैरेक प्रकाशितम् । तदाहुरपरे शब्द तस्य वाक्ये तथैकता ॥ अर्थभागैस्तथा तेषामान्तरोऽर्थः प्रकाश्यते । एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥ प्रकाशकप्रकाश्यत्व कार्यकारणरूपता । अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा ॥ – [वाक्यप॰ २ । ३०-३२ ।] ↩︎

  1245. तुलना–बुद्ध्या न चोपसहर्तु क्रमो निष्कृष्य शक्यते । पदान्येव हि तद्वन्ति वर्तन्ते श्रोत्रबुद्धिवत् । तावत्स्वेव पदेष्वन्य क्रमोऽन्यश्च प्रतीयते । तत्र यावत्क्रम भेदो वाक्यार्थस्य प्रसज्यते । किञ्च, वर्णक्रमस्य पदत्व युज्येतापि, स ह्यर्थप्रतीत्यौपयिक क्रमान्तरे अर्थप्रतीत्यभावात् । पदक्रमस्य तु वाक्यार्थप्रत्ययानौपयिकस्य कथं वाक्यत्वम् ? औपयिकत्वे वा क्रमभेदे वाक्यार्थभेद स्यादित्याह तावत्सु इति । – [मी॰ श्लो॰ न्यायर॰ वाक्या॰ श्लो॰ ५३-५५ ।] बुद्धिर्वाक्यमित्यत्रापि भाववाक्य द्रव्यवाक्य वा ? – [अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४६० ।] ↩︎

  1246. “–धीति विरो–” [ब॰] । ↩︎

  1247. सहृतसकलक्रमस्यैकस्यादेशप्रदेशत्वेऽप्यन्तरात्माऽन्तर्यामीत्येवमाख्यायमानस्य प्रतिप्राणिवृत्ते शब्दतत्त्वस्याक्षरचिह्नादिभिरिवाऽतथाभूतैः क्रमवद्भिर्भागैर्योऽय बुद्धेरनुसहार क्रमश पूर्वपूर्वभागग्राहिणीभि बुद्धिभिर्जनितो य सस्कारस्त उपन्नस्य स्मरणस्य बलादन्त्यवर्णभागग्रहणतुल्यकाल स वाक्यमिति । – [स्या॰ र॰ पृ॰ ६४६ ।] ↩︎

  1248. तुलना–भाववाक्यस्य यथोक्तपदानुसहृतिरूपस्य चेतसि परिस्फुरतोऽभीष्टत्वात् । – [अष्टसह॰ पृ॰ २८५ । प्रमेयक॰ पृ॰ ४६० ।] ↩︎

  1249. “चैतस्य परि–” [श्र॰] । ↩︎

  1250. नियत साधने साध्य क्रिया नियतसाधना । स सन्निधानमात्रेण नियम सन् प्रकाशते ॥–साधन साध्यञ्च परस्पर नियतमेव, केवलमाकाङ्क्षादिवशादितरपदार्थसन्निधाने सति नियमः सन्नेव प्रकाशते इत्याक्षिप्तपदान्तराणि पदान्येव वाक्यम्, पदार्थाश्च वाक्यार्थ इति अव्यतिरिक्त सङ्घातपक्षोऽयम् । गुणभावेन साकाङ्क्ष तत्र नाम प्रवर्तते । साध्यत्वेन निमित्तानि कियापदमपेक्षते ॥ – [वाक्यप॰ २ । ४८४९ ।] ↩︎

  1251. तुलना–एवमाद्यन्तसर्वेषा पृथक् सघातकल्पने । अन्योऽन्यानुग्रहाभावात् पदाना नास्ति वाक्यता ॥ आद्य यदि पद सर्वै सस्क्रियेत विशेषत । ततस्तदेव वाक्य स्यादन्यश्च द्योतको गुण ॥ एवमन्त्येषु सर्वेषु पृथग्भूतेष्वस्थितम् । स्वतन्त्रेषु हि वाक्यत्व कथञ्चिन्नोपलक्षितम् ॥ – [मी॰ श्लो॰ वाक्या॰ श्लो॰ ४९-५१ ।] इत्यपि नाकलङ्कोक्तवाक्याद् भिद्यते, तथा परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वसिद्धे । – [अष्टसह॰ पृ॰ ३८५ । प्रमेयक॰ पृ॰ ४६० । स्या॰ र॰ पृ॰ ६४६ ।] ↩︎

  1252. “पदवार्त्ता–” [श्र॰] । ↩︎

  1253. “–द्यते” [आ॰] । ↩︎

  1254. मीमासका । नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यमर्थान्तरप्रसिद्धम् । कुत ? प्रमाणाभावात् । न च किञ्चन प्रमाणमस्ति येन प्रमिमीमहे । न ह्यनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसस्काररहितस्य शक्तिरस्ति पदार्थेभ्योर्थान्तरे वर्तितुमिति । पदानि हि स्व स्व पदार्थमभिधाय निवृत्तव्यापाराणि । अथेदानी पदार्था अवगता सन्त वाक्यार्थं गमयन्ति । कथम् ? यत्र हि शुक्ल इति वा कृष्ण इति गुण प्रतीतो भवति, भवति खल्वसावल गुणवति प्रत्ययमाधातुम् । तेन गुणवति प्रत्ययमिच्छन्त केवल गुणवचनमुच्चारयन्ति । सम्पत्स्यत एषा यथा सकल्पितोऽभिप्राय, भवष्यति विशिष्टार्थसप्रत्ययः । विशिष्टार्थसप्रत्ययश्च वाक्यार्थ । – [शाबरभा॰ १ । १ । २५ ।] साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषा प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठाना पदार्थप्रतिपादनम् ॥ – [मी॰ श्लो॰ वाक्या॰ श्लो॰ ३४२–४३ ।] तस्मात्पदाभिहितैः पदार्थै लक्षणया वाक्यार्थ प्रतिपाद्यते । – [शास्त्रदी॰ पृ॰ ६०४ ।] तस्मान्न वाक्य न पदानि साक्षात् वाक्यार्थबुद्धिं जनयन्ति किन्तु । पदस्वरूपाभिहितै पदार्थै सल्लक्ष्यतेऽसाविति सिद्धमेतत् ॥ – [ न्याय॰ मा॰ पृ॰ १०२ ।] ↩︎

  1255. सिद्धान्तमाह–अत्राभिधीयते यद्यप्यस्ति मूलान्तरं न न । पदार्थाना तु मूलत्व दृष्ट तद्भावभावत । सत्य न वाचक वाक्यं वाक्यार्थस्योपपद्यते ॥ यद्यपि प्रत्येक पद संहतानि वा साक्षान्न मूल तथा जाति सम्बन्धज्ञानं सावयवनिरवयवाक्यानि तथापि पदार्था पदै प्रत्यायिताः प्रत्यासत्त्यपेक्षया योग्यत्वसनाथा मूलं भविष्यन्ति, तद्भावे वाक्यार्थप्रत्ययस्य भावादिति । – [मी॰ श्लो॰ न्यायर॰ वाक्या॰ श्लो॰ ११०–११ ।] उद्धृतोऽयम् – [सन्मति॰ टी॰ पृ॰ ७४३ ।] “तद्भावनावतः” – [प्रमेयक॰ पृ॰ ४६१ ।] ↩︎

  1256. “तद्भावतः” [श्र॰] । ↩︎

  1257. अन्योन्यानपेक्षत्वे पदत्वमेव स्यान्न वाक्यत्वम्, पदान्तराकाङ्क्षत्वे वाक्याऽपरिसमाप्तिः । ↩︎

  1258. तेप्यन्धसर्पबिलप्रवेश – [प्रमेयक॰ पृ॰ ४६१ ।] ↩︎

  1259. तुलना–यद्यसौ पदार्थादभिन्न तदा पदार्थ एव स्यान्न वाक्यार्थ तथा च कुत पदार्थगम्यता ? अथ क्रियाकारकससर्गरूप पदार्थादर्थान्तरं वाक्यार्थ, नन्वसावपि यद्यनित्य तदा कारकसपाद्य, पदार्थसपाद्यो वा ? – [सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1260. स्वकम्बलस्य कूर्दालिकेति नामान्तरकरणमात्र स्यात् । – [अष्टसह॰ पृ॰ ९ ।] ↩︎

  1261. पदार्थोत्पाद्यत्वेऽपि य एव पदार्थास्तस्योत्पादकास्त एव यदि ज्ञापकाः, तदा पूर्वं कि ज्ञापका उत उत्पादका इति वक्तव्यम् । – [सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1262. “कृते” [श्र॰] । ↩︎

  1263. विवक्षितपदार्था । ↩︎

  1264. क्रियाकारकससर्गम् । भावनैव हि वाक्यार्थ सर्वत्राख्यातवतया । अनेकगुणजात्यादिकारकार्थानुरञ्जिता । पदार्थाहितसस्कारचित्रपिण्डप्रसूतया । पदार्थपदबुद्धीना संसर्गस्तदपेक्षया ॥ – [मी॰ श्लो॰ वाक्य॰ श्लो॰ ३३०–३३ ।] ↩︎

  1265. “–किरूपेयं” [ब॰] , [श्र॰] । ↩︎

  1266. कर्तव्यतया ते तं ज्ञापयन्तीति चेन्न; तस्यामपि भावाभावोभयानुभयविकल्पानतिक्रमात् । – [सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1267. आद्यविकल्पे तत्कर्तव्यताया भावस्वभावतया विद्यमानवाक्यार्थविषया चोदना स्यात्, तथा च विद्यनोपलम्भनत्व-सत्सम्प्रयोगजत्वोपपत्तेः अध्यक्षवन्न भावना अर्थविषया स्यात् । – [ सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1268. “तदा विद्यमानार्थ–” [श्र॰] , “तथा विद्यमानार्थ–” [ब॰] । ↩︎

  1269. विद्यमानार्थे । ↩︎

  1270. चोदनायाः । ↩︎

  1271. विद्यमानोपलम्भनत्वेन सत्सम्प्रयोगजत्वापत्त्या प्रत्यक्षत्वमेव स्यात् । ↩︎

  1272. अभावस्य तुच्छतया कर्तुमदाक्तेः अतुच्छत्वेऽपि स्वेन रूपेण विद्यमानत्वात् कर्तव्यताऽसम्भवात् । नचाभावविषयं चोदनायाः परैः प्रामाण्यमभ्युपगम्यते, अभावप्रमाणविषयत्वाच्च अभावस्य, तद्विषयत्वे चोदनाया अनुवादकत्वात् अप्रामाण्यप्रसङ्गश्च । – [सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1273. अभावस्यापि । ↩︎

  1274. अविद्यमानस्य । ↩︎

  1275. विद्यमानार्थविषयत्वेन चोदनायाः प्रत्यक्षाद्यबगतार्थगोचरत्वात् अप्रामाण्यप्रसक्तेः । – [सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1276. अथ नित्यो वाक्यार्थः पदार्थैः प्रतिपाद्यते; नन्वेवं विद्यमानार्थगोचरत्वं चोदनायाः स्यात्, तथा च त्रिकालशून्यकार्यरूपार्थविषयविज्ञानोत्पादिका चोदनेत्यभ्युपगमव्याघातः । – [सन्मति॰ टी॰ पृ॰ ७४२ ।] ↩︎

  1277. प्रत्यक्षाद्यन्तर्गतत्वात् अपूर्वार्थबोधकत्वाभावतः प्रामाण्यानुपपत्तिरिति भावः । ↩︎

  1278. पदम् । ↩︎

  1279. “अतान्यातान् ज्ञापका–” [आ॰] , “अज्ञावापका–” [श्र॰] । ↩︎

  1280. “–दर्थे प्र–” [ब॰] । ↩︎

  1281. “–तावप्यतिप्र–” [ब॰] , [श्र॰] । ↩︎

  1282. अज्ञातपदस्य सुप्तमूर्च्छितादेश्चार्थप्रतीतिः स्यात् । ↩︎

  1283. अज्ञातज्ञापकादर्थप्रतीतौ हि सत्यामपि एकपदार्थप्रतीतौ अन्यस्मादज्ञातपदात् पुनरर्थप्रतीतिप्रसङ्ग इति प्रतीत्यनुपरमः । ↩︎

  1284. पदस्य । ↩︎

  1285. “पदवाक्यं” [श्र॰] । ↩︎

  1286. “चोपलम्भा–” [ब॰] , “वोपलम्भा–” [श्र॰] । ↩︎

  1287. “–तीयेत” [ब॰] । ↩︎

  1288. पदस्य वाक्यस्य वा । ↩︎

  1289. वर्णानाम् । ↩︎ ↩︎ ↩︎ ↩︎

  1290. “अन्त्यबुद्ध्या” [आ॰] । ↩︎

  1291. पूर्ववर्णबुद्ध्यगृहीतस्य अन्त्यवर्णस्य ग्राहकत्वान्नास्य स्मृतिरूपता, पूर्वानुभवानुसारित्वात्स्मृते । ↩︎

  1292. प्रत्यक्षस्य च विद्यमानार्थग्राहकत्वात् । ↩︎

  1293. प्रत्यक्ष । ↩︎

  1294. विकल्पज्ञानेन । ↩︎

  1295. “–तमं प्र–” [ब॰] । ↩︎

  1296. “–तमं तत्र” [ब॰] । ↩︎

  1297. प्रत्यक्षस्मरणजनितविकल्पज्ञाने प्रत्यभिज्ञानरूपे । ↩︎

  1298. प्रत्यक्षाद्यन्यतरूपताया । ↩︎

  1299. [पृ॰ ४१६ ।] ↩︎

  1300. “–वेदमप्र–” [श्र॰] । ↩︎

  1301. पूर्ववर्णस्मरण-अन्त्यवर्णप्रत्यक्षजनिते । ↩︎

  1302. “–वाल्लक्ष–” [ब॰] । ↩︎

  1303. पद पुनर्नादानुसहारबुद्धिनिर्ग्राह्यमिति, वर्णा एकसमयासभवित्वात्परस्परनिरनुग्रहात्मान ते पदमसस्पृश्यानवस्थाप्य आविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते । वर्ण पुनरकैक पदात्मा सर्वाभिधानशक्तिप्रचित सहकारिवर्णान्तरप्रतियोगित्वाद् वैश्वरूप्यमिवापन्न पूर्वश्चोत्तरेण उत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येव बहवो वर्णा क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृत्ता गकारौगारविसर्जनीया सास्नादिमन्तमर्थं द्योतयन्तीति, तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसहृतध्वनिक्रमाणा य एको बुद्धिनिर्भासः तत्पद वाचक वाच्यस्य सकेत्यते । तदेक पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्णं बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापित परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानै श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्सप्रतिपत्त्या प्रतीयते । – [योगभा॰ ३ । १७ । तत्त्ववै॰, भास्वती, योगवा॰ ३ । १७ ।] नानेकावयव वाक्य पद वा स्फोटवादिनाम् । निरस्तभेद पदतत्त्वमेतत् । – [स्फोटसि॰ का॰ २९, ३६ ।] एकाकारधिया तावद्वर्णेभ्योऽभ्यधिक पदम् । – [स्फोट॰ भा॰ पृ॰ १ ।] गौरित्यादिषु विज्ञानमेक पदमिति स्फुटम् । – [स्फोट॰ न्या॰ पृ॰ १ ।] तत्त्वतस्तु वाक्यमेवाखण्डमयूराण्डकललवदविभाग भिन्नार्थप्रतीतिहेतुभूत स्फोटाख्यमभ्युपगन्तव्यम् । – [स्फोटप्र॰ ।] इत्यनवयव प्रत्यस्तमितवर्णपदविभागो वाक्यस्फोट एव श्रेयान् । – [स्फोटतत्त्वम् ।] तस्मादेकवर्णात्मकोऽखण्डवाक्यस्फोटो वाचक इति सिद्धम् । – [स्फोटच॰ ।] वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्य शब्द स्फोट इति तद्विदो वदन्ति । अत एव स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्य, स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहु । – [सर्वद॰ पृ॰ ३०० ।] वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थिति । यद्यपि वर्णस्फोट पदस्फोट वाक्यस्फोट अखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोटाः इत्यष्टौ पक्षा सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थक दुरर्थकञ्च, तथापि वाक्यस्फोटातिरिक्तानामन्येपामप्यवास्तत्वबोधनाय तदुपादनमत एवाह– अतिनिष्कर्ष इति । – [वैयाकरणभू॰ पृ॰ २९४ । परमलधु॰ पृ॰ २ ।] तादृशमध्यमानादव्यङ्ग्य शब्द स्फोटात्मको ब्रह्मरूप नित्यश्च । – [परमलघु॰ पृ॰ २८ ।] ↩︎

  1304. प्रत्येकमप्रत्यायकत्वात् साहित्याभावात् नियतक्रमवर्तिनामयौगपद्येन सम्भूयकारित्वानुपपत्ते, नानावक्तृप्रयुक्तेभ्यश्च प्रत्ययादर्शनात् क्रमविपर्यये यौगपद्ये च । तस्माद् वर्णव्यतिरेकी वर्णेभ्योऽसम्भवन्नर्थप्रत्यय स्वनिमित्तमुपकल्पयति । – [स्फोटसि॰ पृ॰ २८ ।] ते खल्वमी वर्णा प्रत्येक वाच्यविषया धियमादधीरन् नागदन्तका इव शिक्यावलम्बनम्, सहता वा ग्रावाण इव पिठरधारणम् ? न तावत्प्रथम कल्प, एकस्मादर्थप्रतीतेरनुत्पत्ते उत्पत्तौ वा द्वितीयादीनामनुच्चारणप्रसङ्ग । वर्णाना तु यौगपद्याभावोऽत परस्परमनुग्राह्यानुग्राहकत्वायोगात् सभूयापि नार्थधियमादधते । – [योगभा॰ तत्त्ववै॰ १ । १७ ।] वर्णाना प्रत्येक वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे यौगपद्येनोत्पत्त्यभावात् । अभिव्यक्तिपक्षे तु क्रमेणौवाभिव्यक्त्या समुदायाभावात् एकस्मृत्युपारूढाना वाचकत्वे सरो रस इत्यादौ अर्थप्रतिपत्त्यविशेषप्रसङ्गात् तद्व्यतिरिक्त स्फोटो नादाभिव्यङ्ग्यो वाचक । – [महाभा॰ प्र॰ पृ॰ १६ ।] तत्र तावद् गकारादेरेकैकस्मान्न वाच्यधी । उदेति यदि चेदस्ति प्रथमेनैव गादिना ॥ वर्णेनोच्चरितेनेह गवाद्यर्थाभिधानत । उच्चारण द्वितीयादिवर्णाना स्यान्निरर्थकम् ॥ तदुच्चारणसामर्थ्यं नैकैकस्मात्ततोऽर्थधी । समुदायोऽपि वर्णेषु क्रमज्ञातेष्वसम्भवी । नानावक्तृप्रयुक्तेभ्यो नच सा दृश्यतेऽर्थधी । यौगपद्येऽपि वर्णेभ्यो नापि क्रमविपर्यये । – [स्फोट॰ न्या॰ पृ॰ २ । सर्वद॰ पृ॰ २९९ ।] ↩︎

  1305. “शब्दप्रति–” [ब॰] । ↩︎

  1306. अनुग्राहकत्वम् । ↩︎

  1307. पूर्ववर्णानाम् । ↩︎

  1308. वर्णोत्पत्ते । ↩︎

  1309. पूर्ववर्णा नाम् । ↩︎

  1310. क्व पुनरिय सहायता, यदा न विसर्जनीयसमये वर्णान्तरोपलब्धिरस्ति ? कार्ये खलु व्यापारत सहायता, न चासतस्तदानी व्यापृतिरस्ति । स्वकालेऽपि च व्यापारस्तदानीमेव प्रध्वसान्नेदानीन्तनकार्योपजनननिमित्तम् । – [स्फोटसि॰ पृ॰ ३३ ।] असता पूर्ववर्णाना तदानी व्यापृति कथम् । असतामपि साहाय्य वर्णाना यदि विद्यते ॥ केवलान्त्यप्रयोगेऽपि भवेदेवाभिधेयधी । – [स्फोट॰ न्या॰ पृ॰ ४ ।] ↩︎

  1311. पूर्ववर्णजनितज्ञानानि । ↩︎

  1312. पूर्ववर्णजनितसंवेदनप्रभवसंस्काराः । अर्थधीकृन्न संस्कारो न तच्छक्तिर्न तज्जधीः । न तस्यापूर्वकल्पस्य कल्पकं जनकं फलम् ॥ – [स्फोटसि॰ भा॰ पृ॰ १८ ।] ↩︎

  1313. “तेषां तत्का–” [आ॰] । ↩︎

  1314. पूर्ववर्णजनितज्ञानानां तत्प्रभवसंस्काराणाञ्च । ↩︎

  1315. अन्त्यवर्णकाले । ↩︎

  1316. संस्काराः खलु यद्वस्तुरूपप्रख्याप्रभाविताः । विज्ञानहेतवस्तत्र ततोऽर्थे धीर्न कल्प्यते ॥ संस्कारा खलु यद्वस्तूपलम्भसम्भावितात्मानः तत्रैव नियतनिमित्तलब्धप्रतिबोधा धियमाबिर्भावयन्ति नार्थान्तरे । न हि जातु गवावग्रहप्रत्ययप्रभावितः संस्कारोऽश्वस्मरणमुपकल्पयति । – [स्फोटसि॰ पृ॰ ४४ ।] स्मृतिफलप्रसवानुमितस्तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययमाधातुमुत्सहते, अन्यथा यत्किञ्चिदेवैकमनुभूय सर्वः सर्वं जानीयादिति । – [योगसू॰ तत्त्ववै॰ ३ । १७ ।] पूर्ववर्णग्रहणजसंस्कारसंहितादन्त्यवर्णात्तदर्थघीरिति चेत्; तदपि न; वस्त्वन्तरग्रहणजस्य संस्कारस्य वस्त्वन्तरज्ञानजनकत्वादर्शनात् । – [स्फोटसि॰ भा॰ पृ॰ १६ ।] ↩︎

  1317. “घटप्रभवः” [श्र॰] । ↩︎

  1318. नचैकस्मृत्युपारोहात् समुदायस्य सम्भवः । वर्णेषु क्रमबुद्धेषु युगपत्स्मृत्यसम्भवात् । सम्भवेऽपि च तेष्वेव विपरीतक्रमेष्वपि गकारादिषु विज्ञानं गौरित्येकं प्रसज्यते । – [स्फोट॰ न्या॰ पृ॰ १ ।] अन्यैस्तु सकलवर्णोपलब्धिनिबन्धननिखिलभावनावीजजन्मा युगपदखिलवर्णरूपपरामर्शी चरमवर्णप्रत्यक्षोपलब्धिसमनन्तरः स्मरणैकरूपः सङ्गीर्यते; क्रमसमधिगतात्मसु न युगपदनुस्मरणमित्यपि मिथ्या । – [स्फोटसि॰ पृ॰ ६१ ।] ↩︎

  1319. “–न्नानां वा स्थित्य–” [श्र॰] । ↩︎

  1320. न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्मस्मृतिदर्षणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति साम्प्रतम्; क्रमाक्रमविपरीतक्रमानुभूतानां तत्राविशेषेणार्थधीजननप्रसङ्गात् । – [ योगसू॰ तत्त्ववै॰ पृ॰ ३२२ ।] पूर्वोपलब्धिभेदेऽपि भवेदर्थस्य दर्शनम् । एकोपलब्धौ नैतेषां भेदः कश्चन लक्ष्यते ॥ पूर्वोपलब्धयो हि क्रमविशेषवत्यः परिगृहीताभिमतविपरीतानुपूर्व्या अक्रमाश्चैकवक्तृप्रयुक्तवर्णविषया विपरीताश्च न पश्चाद् भाविन्यां समस्तवर्णावभासिन्यामुपलब्धावनुविपरिवर्तमानान् वर्णात्मनो भिन्दन्ति । – [स्फोटसि॰ पृ॰ ६५ ।] एवं तर्हि सर्वसंस्कारजा सकलवर्णग्राहिण्येका स्मृतिरर्थधीहेतुः; तदपि न; क्रमप्रत्यस्तमयेन जराराजेत्यादावर्थाविशेषप्रसङ्गात् । – [स्फोटसि॰ भा॰ पृ॰ १८ ।] तुल्यत्वाद् यौगपद्यस्य तदा नार्थधियो भिदा । सरोरसनदीदीनजराराजादिषु स्फुरेत् ॥ – [स्फोट॰ न्या॰ पृ॰ १० ।] ↩︎

  1321. “–नुभवसंस्का–” [ब॰] । ↩︎

  1322. न चान्त्यवर्णमात्रस्य पुरःसम्बन्धवेदनम् । अक्षवर्त्मातिवृत्तत्वात् संस्कारस्य न तद्वतः ॥ विदितसङ्गतयो हि शब्दा यथास्वमर्थान् प्रकाशयन्ति । नचान्त्यवर्णमात्रमर्थसम्बन्धितया प्रतिपद्यन्ते पुरस्तात् । – [स्फोटति॰ पृ॰ १०५ ।] ↩︎

  1323. गौरश्व इति वा केवलोच्चारणे वा को विसर्जनीयस्य भेदः यत्कृतोऽर्थभेदः प्रत्ययभावाभावौ च । – [स्फोटसि॰ पृ॰ ३३ ।] ↩︎

  1324. विसर्जनीयस्य । ↩︎

  1325. तत्र प्रत्यक्ष तावत्प्रसिद्धमेव, गौरित्युच्चारणे सत्येकमेवेद पदमित्येकाकारविज्ञानोदयात् । न चेदं वर्णमात्रविषय भवितुमर्हति, तेषा भिन्नानामभ्रान्तैकाकारज्ञानविषयत्वायोगात् । न चेद भ्रान्तम्, भ्रान्तिनिमित्ताभावात् । – [स्फोटसि॰ भा॰ पृ॰ १ ।] प्रत्यक्षज्ञाननियता व्यक्ताव्यक्तावभासिता । मानान्तरेषु ग्रहणमथवा नैव हि ग्रह ॥ इन्द्रिय हि व्यक्तावभासिनोऽव्यक्तावभासिनश्च प्रत्ययस्य हेतु यथा दूराद् ग्रहणे सूक्ष्मार्थनिरूपणायाञ्च । लिङ्गशब्दादयस्तु निश्चितात्मान प्रत्ययमुपजनयन्त्येकरूप नैव वा तत्र व्यक्ताव्यक्तग्रहणबुद्धिभेद । अर्थश्च शाब्दप्रत्ययावसेय, स्फोटात्मा तु प्रत्यक्षवेदनीय इति निरवद्यम् । – [स्फोटसि॰ पृ॰ १६९ ।] ↩︎

  1326. न च समुच्चयज्ञानोपारोहिवर्णनिबन्धनार्थबोधाभिप्राय “शब्दादर्थं प्रतिपद्यामहे” इति, नापि शब्दजात्यभिप्रायम् । तथाहि–नेक्षिता जातिशब्दाना समुदायानुपातिता । जातिमाचक्षते ते हि व्यक्तिर्वा जातिसङ्गता ॥ न तावदिद शब्दजात्यभिप्रायम् । न शब्दजातितोऽर्थप्रतीति, गवाश्वादिपदेषु तदविशेषादभिधेयाविशेषप्रसङ्गात् । नापि शब्दव्यक्त्यभिप्रायम्, तद्भेदात् गोशब्दादित्येकवचनानुपपत्ते । – [स्फोटसि॰ पृ॰ ७३ ।] ↩︎

  1327. अनादिनिधन शब्दब्रह्मतत्त्व यदक्षरम् । – [वाक्यप॰ १ । १ ।] ↩︎

  1328. “–यर्थ्यञ्च स्यात्” [श्र॰] । ↩︎

  1329. “तावद्वास्फो–” [श्र॰] , “तावस्फो–” [आ॰] । ↩︎

  1330. यत प्रत्येकमपि तेऽविकल स्फोटात्मानमभिव्यञ्जयन्ति । न चेतरनादवैयर्थ्यम्, अभिव्यक्तिभेदात् । तथाहि–पूर्वे ध्वनय अनुपजातभावनाविशेषमनसः प्रतिपत्तु अव्यक्तरूपोपग्राहिणी उत्तरव्यक्तपरिच्छेदोत्पादानुगुणभावनाबीजवापिनी प्रख्या प्रादुर्भावयन्ति, पश्चिमस्तु पुरस्तनध्वनिनिबन्धनाव्यक्तपरिच्छेदप्रभावितसकलभावनाबीजसहकारि स्फुटतरविनिविष्टस्फोटबिम्बमिव प्रत्ययमतिव्यक्ततरमुद्भावयन्ति । यथा रत्नपरीक्षिण परीक्षमाणस्य प्रथमसमयाधिगमानुपाख्यातमनुपाख्येयरूपप्रत्ययोपाहितसस्काररूपाहितविशेषाया बुद्धौ क्रमेण चरमे चेतसि चकास्ति रत्नतत्त्वम् । – [स्फोटसि॰ पृ॰ १२९ । स्फोट॰ न्या॰ पृ॰ २० । स्फोटसि॰ भा॰ पृ॰ २१ ।] अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्फोटमस्फुटमभिव्यनक्ति, उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुट स्फुटतर स्फुटतमम् । यथा स्वाध्याय सकृत् पठ्यमानो नावधार्यते, अभ्यासेन तु स्फुटावसाय, यथा वा रत्नतत्त्व प्रथमप्रतीतौ स्फुट न चकास्ति चरमे चेतसि यथावदभिव्यज्यते । – [सर्वद॰ पृ॰ ३०३ ।] ↩︎

  1331. “–वादकग्र–” [आ॰] । ↩︎

  1332. ऋग्यजु सामसमूह–इत्यमरः । वेदविशेष इति सूभूतिः – [शब्दकल्पद्रुमः ।] ↩︎

  1333. “शक्योच्यते” [श्र॰] । ↩︎

  1334. “अन्येन” [ब॰] , [श्र॰] । ↩︎

  1335. व्याख्या–सोढत्वमेकबुद्धिविषयत्वम्, एवं वर्णपदवाक्यविषया प्रयत्नविशेषसाध्या ध्वनयो वर्णपदवाक्याख्यान् स्फोटान् पुन पुनराविर्भावयन्तो बुद्धिष्वध्यारोपयन्ति नत्वेतावता आनन्त्य स्फोटानाम्, यथावृत्तौ न श्लोकाद्यानन्त्यम् । तदेवाह–न तु प्रत्यावृत्त्या स ग्रन्थ श्लोकसमुदायात्मको भेदेन निरूप्यत इत्यर्थ । तत्रान्त्यया ध्वनिना सम्यग्बुद्धौ निवेश । यच्चानुपगृहीतविशेष बुद्धावसन्निविष्टं तावदनुपलब्धमेव । नहि तेन कश्चिदपि व्यवहार प्रकल्प्यते । – [वाक्यप॰ पु॰ टी॰ । वाक्यप॰ वृ॰ ।] अनुबाक इति वैदिकं वाक्यम्, सोढत्वमिति सोढु शक्यत्व बुद्ध्याक्रमणीयता स्वीकार्यत्वम्, येन स्वेच्छयाऽसौ पठनीयो भवति । आवृत्येति जातावेकवचनम्, आवृत्तिरेकैकापि उपयुज्यते उत्तरोत्तरविशेषाधानाय, अन्यथा एकावृत्त्यैव सोढता स्यादिति । यथा ह्यनुवाकः श्लोको वा पुन पुनरावृत्त्या सुखेनावधारयितु शक्यते । न च प्रत्यावृत्तिस्तत्र ईदृशी बुद्धिरुपजायते यथेदं गृहीतमिद नेति । अथ चानेकावृत्तौ श्लोकाद्यवभासः स्पष्टः सवेद्यते तथैवायमपि शब्दात्मा पुन पुनरभिव्यक्तस्फोटरूपोऽवधार्यते, न च प्रत्यभिव्यक्तिस्तत्रेदृशी बुद्धिरुपजायते इद गृहीतमिदं नेति । अथवाऽनेकाभिव्यक्तौ स्फोटावभास स्पष्ट सवेद्यते । – [स्या॰ र॰ पृ॰ ६५० ।] अनुवाको वैदिक श्लोकस्तु लौकिक, सोढत्व जितत्वं वशतामिति यावत् – [स्फोटसि॰ टी॰ पृ॰ १३२ ।] ↩︎

  1336. “स्फोटत्व–” [आ॰] , [ब॰] , [श्र॰] । ↩︎

  1337. “ननु” [आ॰] , [ब॰] । ↩︎

  1338. “प्रत्यावृत्त्या” – [वाक्यप॰,] “प्रत्यावृत्ति नि” – [ वाक्यप॰ ब्र॰, स्फोटसि॰ ।] प्रकृतपाठ – [स्या॰ र॰ । न्यायवि॰ बि॰ पृ॰ ५७६ब्। ।] “प्रत्यावृत्तिर्निरुच्यते” – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३५९ ।] ↩︎

  1339. यथा श्लोक एकदा प्रकाशितोऽनवधारितोऽन्यदा प्रकाशने त्ववधारणसहो भवति पुन पुन प्रकाशने त्ववधार्यते । तथा वाक्यं पूर्वध्वनिभावानभिव्यक्तमपि नावधारितम्, तेन पूर्वपूर्ववाक्याभिव्यक्त्याहितैस्तु सस्कारैर्वाक्यावधारणं प्रति प्रत्ययभूतैरन्त्यवर्णश्रवणकाले तदवधार्यते, तस्माद्वर्णेनानुक्रमवताऽक्रमस्य वाक्यव्यक्तिर्युज्यत एव । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ ३५९ ।] व्यक्तरूपग्रहणानुगुणा अनुपाख्येयाकारा इद तदिति तस्य बुद्ध्यारूढस्याख्यातुमशक्यत्वात् बहव उपायभूता प्रत्यया ध्वनिभि प्रकाश्यमाने शब्दे समुत्पद्यमाना शब्दस्वरूपावग्रहहेतवो भवन्ति । – [वाक्यप॰ वृ॰ ।] ↩︎

  1340. “ग्रहणानुग्रहै” – [ध्वन्या॰ टी॰ १ । १६ ।] प्रकृतपाठ – [स्फोटसि॰, प्रमाणवा॰ स्ववृ॰ टी॰, स्या॰ र॰, न्यायवि॰ वि॰ ।] ↩︎

  1341. “इति नाहित–” [श्र॰] । ↩︎

  1342. नादै शब्दात्मानमवद्योतयद्भि यथोत्तरोत्कर्षेणाधीयन्ते व्यक्तपरिच्छेदानुगुणसस्कारभावनाबीजानि, ततश्चान्त्यो ध्वनिविशेष परिच्छेदसंस्कारभावनाबीजवृत्तिलाभप्राप्तयोग्यतापरिपाकाया बुद्धौ उपग्रहेण शब्दस्वरूपाकार सन्निवेशयति । – [वाक्यप॰ वृ॰ । वाक्यप॰ पु॰ टी॰ ।] “नादैराहित” – [वाक्यप॰, स्फोटसि॰, प्रमाणवा॰ स्ववृ॰ टी॰, स्या॰ र॰, न्यायवि॰ वि॰, सर्वद॰ ।] प्रकृतपाठ – [तत्त्वसं॰ पृ॰ ७२२, पं॰ पृ॰ ६३६ । प्रमेयक॰ पृ॰ ४५६ ।] ↩︎

  1343. आवृत्त परिपाको यस्या इति, परिपाकः कार्योत्पादनं प्रति विशिष्टं आत्मलाभः – [वाक्यप॰ बृ॰ टी॰ ।] आवृत्तोऽभ्यस्तः परिपाको यस्याः सा तथोक्ता, प्रथमेन ध्वनिना किञ्चिद्भावनाबीजमाहितम्, तेन च कश्चित्परिपाकः कार्यजननशक्तिविशेषः एवं द्वितीयेनेति । यद्यपि परिपाका भिन्नाः तथापि जातिमाश्रित्यावृत्तवाचोयुक्तिः अष्टकृत्वो ब्राह्मणा भुक्तवन्त इतिवत् । आवृत्तेत्यस्यान्या व्याख्या–आवृत्तेन वावृत्त्या कषायपरिपाको यस्यामिति । क्वचित्तु आवृत्तीति पाठः । बुद्धावन्तःकरणे शब्दोऽवधार्यते अन्त्येन ध्वनिना सह, यदा अन्त्यो ध्वनिरवधार्यते तदा गौरित्येवं शब्दोऽप्यवधार्यत इत्यर्थः । – [स्फोटसि॰ टी॰ पृ॰ १३२ ।] “आवृत्तपरि” – [वाक्यप॰, स्फोटसि॰, प्रमाणवा॰ स्ववृ॰ टी॰, तत्त्वसं॰ पृ॰ ७२२ । सन्मति॰ टी॰ पृ॰ ४३५ । स्फोटत॰ पृ॰ ९ ।] “आवृत्तिपरि” – [तत्त्वसं॰ पं॰ पृ॰ ६३६ । प्रमेयक॰ पृ॰ ४५६ । स्या॰ र॰ पृ॰ ६५० । न्यायवि॰ वि॰ पृ॰ ५७६ब्। ।] ↩︎

  1344. “शब्दोऽवधार्यते” – [वाक्यप॰ । स्फोटसि॰ । प्रमाणवा॰ स्ववृ॰ टी॰ । तत्त्वसं॰ पं॰ । स्या॰ र॰ । सर्वद॰ ।] प्रकृतपाठः – [तत्त्वसं॰ पृ॰ ७२२ । प्रमेयक॰ । सन्मति॰ टी॰ । न्यायवि॰ वि॰ ।] ↩︎

  1345. [पृ॰ ७४५ पं॰ ११ ।] ↩︎

  1346. तुलना–अन्ये तु पूर्ववर्णानां तज्ज्ञानानाञ्च अतीतानामप्यन्त्यवर्णसहकारित्वमन्वयव्यतिरेकोपपत्तेः । तथाहि–वर्तमानस्य कारणत्वमन्वयव्यतिरेकाभ्यां विज्ञातम् एवमतीतस्यापि । यदि वा पूर्ववर्णविनाशास्तज्ज्ञानप्रध्वंसाश्च समीपवर्तिनोऽन्त्यवर्णसहकारिणः । – [प्रश॰ व्यो॰ पृ॰ ५९५ । प्रमेयक॰ पृ॰ ४५३ ।] तत्र पूर्वे वर्णाः अतीता अप्युपकरिष्यन्ति, चरमवर्णस्तु वर्त्तमान इतीदृश एवायं काल्पनिकः क्रियाक्षणसमूह इव वर्णसमूहोऽर्थप्रत्यायकः । – [न्यायमं॰ पृ॰ ३७६ ।] अर्थप्रतिपत्तिस्तु उपलभ्यमानात् पूर्ववर्णध्वंसविशिष्टादन्त्यवर्णात् । न चाभावस्य सहकारित्वं विरुद्धम्; वृन्तफलसंयोगाभावस्येवाप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने, दृष्टञ्चोत्तरसंयोगं विदधत् प्राक्तनसंयोगाभावविशष्टं कर्म, परमाण्वग्निसंयोगश्च परमाणौ तद्गतपूर्वरूपप्रध्वंसविशिष्टो रक्ततामुत्पादयन् । – [सन्मति॰ टी॰ पृ॰ ४३३ ।] ↩︎

  1347. सहकारित्व । ↩︎

  1348. परमाणुगतश्यामरूप । ↩︎

  1349. यद्वा उपलभ्यमानोऽन्त्यवर्णः पूर्ववर्णविज्ञानाभावविशिष्टः पदरूपतामासादयन् पदार्थे प्रतिपत्तिं जनयति । – [ सन्मति॰ टी॰ पृ॰ ४३३ । प्रमेयक॰ पृ॰ ४५३ ।] ↩︎

  1350. पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः प्रत्यायकः । – [शाबरभा॰ १ । १ । ५ ।] वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं भवति, श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्याति । पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते, पदसमूहप्रतिसन्धानाच्च वाक्यं व्यवस्यति, सम्बद्धांश्च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते । – [न्यायभा॰ ३ । २ । ६० ।] अन्त्यवर्णप्रत्ययात् पूर्ववर्णप्रतिसन्धानप्रत्ययापेक्षादर्थप्रत्ययः । – [ न्यायवा॰ पृ॰ ३१०–१६ ।] पूर्ववर्णानुगृहीतस्यान्त्यवर्णस्य स्वानुभवसहकारिणोऽर्थप्रतिपादकत्वात् । – [ प्रश॰ व्यो॰ पृ॰ ५९५ ।] यद्वा पूर्ववर्णसंस्कारस्मरणयोरन्यतरसापेक्षोऽन्त्यो वर्णः प्रत्यायकः । – [प्रश॰ कन्द॰ पृ॰ २७० । प्रमेयक॰ पृ॰ ४५३ ।] प्राक्तनवर्णसंवित्प्रभवसंस्कारसव्यपेक्षो वा – [सन्मति॰ टी॰ पृ॰ ४३३ ।] तत्तद्वर्णसंस्कारसहितचरमवर्णोपलम्भेन तद्व्यञ्जकेनैवोपपत्तेरिति । – [मक्ता॰ शब्दख॰ ।] ↩︎

  1351. अर्थप्रतीतो । यद्विषयको हि सस्कार तद्विषयामेव स्मृतिं विदघातीति नियमात् । शब्दविषयकश्च सस्कारः शब्दस्मृतिमेव विदधीत नतु अर्थप्रतीतिमिति भावः । तुलना–यद्यपि स्मृतिहेतुत्व सस्कारस्य व्यवस्थितम् । कार्यान्तरेषु सामर्थ्यं न तस्य प्रतिषिध्यते ॥ ननु हेतो कथ कार्यान्तरे सामर्थ्यमत आह–यद्यपि इति । सभवति ह्येकस्याप्यनेकत्र सामर्थ्य कर्मवत्सयोगविभागयोरिति । – [मी॰ श्लो॰ न्यायर॰ पृ॰ ५३६ ।] यत पदार्थे प्रतीत्यनुगुणतया प्रत्येकमनुभवैराधीयमाना वर्णविषया संस्कारा स्मृतिहेतुसंस्कारविलक्षणशक्तय एवाधीयन्ते, तथाभूतानामेव तेषा कार्येणाधिगमात् – [प्रश॰ कन्द॰ पृ॰ २७१ ।] ↩︎

  1352. “–व्ये ज्ञानाहितसस्कारश्च” [आ॰] । ↩︎

  1353. तुलना–तथा चैकस्मिन् वर्णे ज्ञाते तेन क्रियते सस्कार, पुनर्द्वितीयवर्णे ज्ञानम्, तेनापि पूर्ववर्णसस्कारसहकारिणा सस्कार इति क्रमेणान्त्यवर्णज्ञानम्, तस्मात् पूर्वसस्काराभिव्यक्तावशेषवर्णानुस्मरणे सत्यन्त्यवर्णादर्थप्रतिपत्ति । – [प्रश॰ व्यो॰ पृ॰ ५९५ । प्रमेयक॰ पृ॰ ४५३ । सन्मति॰ टी॰ पृ॰ ४३३ ।] स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति । तत्र चेय कल्पना वर्णक्रमेण तावत् प्रथमपदज्ञान तत सकेतस्मरणं सस्कारश्च युगपद् भवतः । ज्ञानयोर्हि यौगपद्य शास्त्रे प्रतिपिद्ध न सस्कारज्ञानयो । तत पदार्थज्ञान तेनापि सस्कार, पुनर्वर्णक्रमेण द्वितीयपदज्ञान तत सकेतस्मरण पूर्वसंस्कारसहितेन च तेन पटुतर सस्कार पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञान सकेतस्मरण पूर्वसस्कारापेक्ष पटुतर सस्कारः, पुन पूर्ववर्णक्रमेण तृतीयपदज्ञानं सकेतस्मरणं पूर्वसस्कारापेक्ष पटुतर सस्कार इत्येवं पदज्ञानजनिते पीवरे सस्कारे पदार्थज्ञानजनिते च तादृशि सस्कारे स्थिते अन्त्यपदार्थज्ञानानन्तर पदसस्कारात् सर्वपदविषयस्मृति, पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति सस्कारक्रमात् क्रमेण द्वे स्मृती भवत । तत्रैकस्या स्मृतावुपारूढः पदसमूहो वाक्यमितरस्यामुपारूढ पदार्थसमूहो वाक्यार्थ । अथवा कृत स्मरणकल्पनया अन्त्यपदार्थज्ञानानन्तरं सकलपदपदार्थविषयो मानसोऽनुव्यवसाय शतादिप्रत्ययस्थानीयो भविष्यति । तदुपारूढानि पदानि वाक्य तदुपारूढश्च पदार्थो वाक्यार्थ । – [न्यायमं॰ पृ॰ ३९४–९५ ।] ↩︎

  1354. “–वर्णेन ता–” [आ॰] । ↩︎

  1355. “तेन च पूर्ववर्णविज्ञानं तेन विशिष्ट संस्कारो” [ब॰] । ↩︎

  1356. “यावदन्त्यसंस्का–” [आ॰] । ↩︎

  1357. तुलना–अन्ये तु शब्दार्थोपभोगप्रापकादृष्टनियमिता पूर्ववर्णानुभवजनितसस्कारा पूर्ववर्णेष्वेक स्मरणमारभन्ते तत्सहकारी चान्त्यो वर्ण पदम् । यदि वा सस्कारमेक विचित्रमारभन्ते तस्माच्च पूर्ववर्णेष्वेक स्मरणमिति । – [प्रश॰ व्यो॰ पृ॰ ५९५ । प्रमेयक॰ पृ॰ ४५३ । सन्मति॰ टी॰ पृ॰ ४३३ ।] ↩︎

  1358. तुलना–यद्वा प्रत्यक्षत पूर्व क्रमज्ञातेषु यत्परम् । समस्तवर्णविज्ञान तदर्थज्ञानकारणम् ॥ अन्त्यवर्णेऽपि विज्ञाते पूर्वसस्कारकारितम् । स्मरण यौगपद्येन सर्वेष्वन्ये प्रचक्षते ॥ सर्वेषु चैवमर्थेषु मानस सर्ववादिनाम् । इष्ट समुच्चयज्ञानं क्रमज्ञानेषु सत्स्वपि ॥ न चेत्तदाऽभ्युपेयेत क्रमदृष्टेषु नैव हि । शतादिरूप जायेत तत्समुच्चयदर्शनम् ॥ तेन श्रोत्रमनोभ्या स्यात् क्रमाद्वर्णेषु यद्यपि । पूर्वज्ञान परस्तात्तु युगपत्स्मरण भवेत् ॥ तदारूढास्ततो वर्णा न दूरेऽर्थावबोधनात् । शब्दादर्थमतिस्तेन लौकिकैरभिधीयते । – [मी॰ श्लो॰ स्फो॰ श्लो॰ १०९, ११२–११६ । तत्त्वसं॰ का॰ २७२०–२५ ।] तथाभूतसस्कारप्रभवस्मृतिसव्यपेक्षो वाऽन्त्यो वर्ण पदार्थप्रतिपत्तिहेतु । – [प्रमेयक॰ पृ॰ ४५४ ।] तस्मात्पूर्ववर्णेषु स्मृतिस्पजाता अन्त्यवर्णेनोपलम्यमानेन सहार्थप्रतिपत्तिमुत्पादयति । – [सन्मति॰ टी॰ पृ॰ ४३३ । द्रष्टव्यम्–पृ॰ ७५० टि॰ ६ ।] ↩︎

  1359. क्रमोषलब्धेष्वपि वर्णेषु मानसमनुव्यवसायरूपमखिलवर्णविषय सङ्कलनाज्ञान यदुपजायते तदर्थप्रत्ययनाङ्ग भविष्यति । – [न्यायमं॰ पृ॰ ३७६ ।] सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिका पङ्क्तिबुद्धिमारोहन्ति एव क्रमानुरोधिन एव वर्णा पदबुद्धिमारोक्ष्यन्ति । तत्र वर्णानामविशेषेऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते । वृद्धव्यवहारे चेमे वर्णा क्रमाद्यनुगृहीता गृहीतार्थविशेषसम्बन्धा सन्त स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तर समस्तप्रत्यवमर्शिन्या बुद्धौ तादृशा एव प्रत्यवभासमानास्त तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना । – [ ब्रह्म॰ शां॰ भा॰ १ । ३ । २८ ।] ते हि पूर्वमनुभूता प्रत्येकमनुभूतताक्रमोषसृष्टा एकबुद्धिसमारोहिण शक्नुवन्त्यर्थधियमाधातुम् । – [न्यायवा॰ ता॰ पृ॰ ४७० ।] ↩︎

  1360. तुलना–वर्णाद्वर्णोत्पत्त्यभावप्रतिपादनञ्च सिद्धसाधनमेव । तदेव यथोक्तसहकारिकारणसव्यपेक्षादन्त्याद्वर्णादर्थप्रतिपत्ति अन्वयव्यतिरेकाभ्यामुपजायमानत्वेन निश्चीयमाना स्फोटपरिकल्पना निरस्यति तदभावेऽप्यर्थप्रतिपत्तेरुक्तप्रकारेण सभवेऽन्यथानुपपत्ते प्रक्षयात् । नहि दृष्टादेव कारणात् कार्योत्पत्तावदृष्टतदन्तरपरिकल्पना युक्तिसङ्गता अतिप्रसङ्गात् । – [सन्मति॰ टी॰ पृ॰ ४३३ । प्रमेयक॰ पृ॰ ४५४ ।] ↩︎

  1361. “बुद्धिः सगता” [ब॰] , “युक्ति सगता” [आ॰] । ↩︎

  1362. “तथा” [आ॰] , [ब॰] । ↩︎

  1363. यस्यानवयव स्फोटो व्यज्यते वर्णबुद्धिभि । सोऽपि पर्यनुयोगेन नैवैतेन विमुच्यते ॥ तत्रापि प्रतिवर्णं पदस्फोटो न गम्यते । नचावयवशो व्यक्तिस्तदभावान्न चात्र घी ॥ प्रत्येकञ्चाप्यशक्ताना समुदायेप्यशक्तता । – [मी॰ श्लो॰ स्फो॰ श्लो॰ ९१–९३ ।] न समस्तैरभिव्यज्यते; समुदायानभ्युपगमात् । न व्यस्तै, एकेनैवाभि व्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात् । – [प्रश॰ व्यो॰ पृ॰ ५९५ ।] पदस्फोटो नित्यो निरश सर्वगतोऽमूर्त किमनभिव्यक्त एवार्थप्रतिपत्तिहेतुरभिव्यक्तो वा ? प्रथमपक्षे वर्णोच्चारणानर्थक्यम् । द्वितीयपक्षे तु पदस्फोटोऽभिव्यज्यमान प्रत्येक वर्णेनाभिव्यज्यते वर्णसमूहेन वा ? – [युक्त्यनु॰ टी॰ पृ॰ ९६ । तत्त्वार्थश्लो॰ पृ॰ ४२६ । प्रमेयक॰ पृ॰ ४५४ । सन्मति॰ टी॰ पृ॰ ४३३ ।] ↩︎

  1364. वर्णान्तरोच्चारणादपि पदार्थान्तरप्रतिपत्तेरेवानुषङ्गात् । यथाहि गौरिति पदस्यार्थो गकारोच्चारणात् प्रतीयेत तथा औकारोच्चारणाद् औशनस इति पदस्यार्थ प्रतिपद्येत । आद्येन गकारेण गौरिति पदस्येव प्रथमौकारेण औशनस इति पदस्य स्फोटस्य अभिव्यक्ते । तथा च गौरिति पदादेव गौरौशनस इति वाक्यार्थप्रतिपत्ति प्रसज्येत । संशयो वा स्यात् – [युक्त्यनु॰ टी॰ पृ॰ ९६ । प्रमेयक॰ पृ॰ ४५४ ।] ↩︎

  1365. “यथा गौ–” [श्र॰] । ↩︎

  1366. “तदा” [श्र॰] । ↩︎

  1367. “प्रतीयते” [आ॰] । ↩︎

  1368. एतदन्तर्गत पाठो नास्ति [आ॰] । ↩︎ ↩︎ ↩︎

  1369. तुलना–अभिव्यक्तिव्यतिरिक्तसस्कारस्वरूपानधारणात् । तथाहि न तावत्तत्र तैर्वेगाख्य सस्कारो निर्वर्त्यते तस्य मूर्त्तेष्वेव भावात् । नापि वासनारूप, अचेतनत्वात् – [सन्मति॰ टी॰ पृ॰ ४३३ । प्रमेयक॰ पृ॰ ४५४ ।] ↩︎

  1370. स्फोटे । ↩︎

  1371. वर्णे । ↩︎

  1372. स्फोटस्य अचेतनत्वात् । ↩︎

  1373. किञ्चासौ संस्कार स्फोटस्वरूपस्तद्धर्मो वा ? – [प्रमेयक॰ पृ॰ ४५५ । सन्मति॰ टी॰ पृ॰ ४३४ ।] ↩︎

  1374. “धर्मो वा” [श्र॰] । ↩︎

  1375. “स्फोटाद्वैतस्य” [ब॰] । ↩︎

  1376. सस्कारस्य । तुलना–अपि च साऽभिव्यक्ति स्फोटादव्यतिरिक्ता व्यतिरिक्ता वा ध्वनिभि क्रियेत ? – [स्या॰ र॰ पृ॰ ६६२ ।] ↩︎

  1377. स्फोटस्य । ↩︎ ↩︎

  1378. स्फोटस्याय सस्कार इति । ↩︎

  1379. सस्कारस्य । ↩︎

  1380. स्फोटोपकारकत्वे । ↩︎

  1381. सस्कारकृतोपकारस्यापि । ↩︎

  1382. स्फोटात् । ↩︎ ↩︎

  1383. “–दोषानवस्था–” [श्र॰] । ↩︎

  1384. अनभिव्यक्तस्वरूपपरित्यागे । ↩︎

  1385. “वानि–” [ब॰] । ↩︎

  1386. तुलना–किञ्च, आद्यो वर्णध्वनि शब्दात्मा सकलस्य वा व्यञ्जक स्यादेकदेशस्य वा ? यदि सकलस्य, इतरेषा ध्वनीनामानर्थक्य स्यात् । अथैकदेशस्य, निरवयवत्वमस्य हीयते । – [राजवा॰ ५ । २४ । प्रमेयक॰ पृ॰ ४५५ । सन्मति॰ टी॰ पृ॰ ४३४ ।] ↩︎

  1387. किञ्च, स्फोटसस्कार स्फोटविषयसंवेदनोत्पादनम्, आवरणापनयन वा ? – [प्रमेयक॰ पृ॰ ४५५ । सन्मति॰ टी॰ पृ॰ ४३४ ।] ↩︎

  1388. ““कदाचित्”” नास्ति [आ॰] , [श्र॰] । ↩︎

  1389. “नत्वेव” [आ॰] , [ब॰] । ↩︎

  1390. स्फोट । ↩︎

  1391. “अन्यवर्ण–” [श्र॰] । ↩︎

  1392. तथैव पदार्थप्रतिपत्तिसिद्धे स्फोटपरिकल्पनानर्थक्यात् । चिदात्मव्यतिरेकेण तत्त्वान्तरस्य स्फोटस्यार्थप्रकाशनसामर्थ्यानुपपत्तेः । स एव चिदात्मा विशिष्टशक्ति स्फोटोऽस्तु । स्फोटति प्रकटीभवत्यर्थोऽस्मिन्निति स्फोटश्चिदात्मा । पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्ट पदस्फोट, वाक्यार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टो वाक्यस्फोट इति । प्रकरणाह्निकाध्यायशास्त्रादिरङ्गप्रविष्टाङ्गबाह्यविकल्प स्फोट प्रसिद्धो भवति, भावश्रुतज्ञानपरिणतस्यात्मनस्तथाभिधानाविरोधात् । – [युक्त्यनु॰ टी॰ पृ॰ ९७ । तत्त्वार्थश्लो॰ पृ॰ ४२७ । प्रमेयक॰ पृ॰ ४५६ ।] ↩︎

  1393. तुलना–स्फोटवादिनस्तु दृष्टहानिरदृष्टकल्पना च । वर्णाश्चेमे क्रमेण गृह्यमाणा स्फोट व्यञ्जयन्ति, स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात् । – [ब्रह्म॰ शां॰ भा॰ १ । ३ । २८ ।] ↩︎

  1394. “स्फोटति” [श्र॰] । ↩︎

  1395. स्फुटत्यर्थोऽस्मिन् प्रकाशते इति स्फोट – [तत्त्वार्थश्लो॰ पृ॰ ४२६ ।] ↩︎

  1396. पदवाक्यादिस्फोटरूपेण । ↩︎

  1397. वायुनाञ्च व्यञ्जकत्वपरिकल्पने वर्णवैफल्यप्रसक्ति । – [सन्मति॰ टी॰ पृ॰ ४३४ । प्रमेयक॰ पृ॰ ४४६ ।] न च स्फोटमभिव्यञ्जन्ति ध्वनय अचाक्षुषप्रत्यक्षत्वात् गन्धवत् । – [तत्त्वार्थभा॰ व्या॰ ५ । २४ ।] ↩︎

  1398. एतदन्तर्गतः पाठो नास्ति [आ॰] । ↩︎

  1399. [पृ॰ ७४९ पं॰ ७ ।] ↩︎

  1400. तुलना–समस्तवर्णसस्कारवत्याऽन्त्यया बुद्ध्या बाक्याबधारणमित्यपि मिथ्या, तस्यावर्णरूपसस्पर्शिन कस्यचित्कदाचिदप्रतिपत्ते । वर्णानाञ्चाक्रमेणाऽप्रतिपत्ते कुतोऽक्रममेकबुद्धिग्राह्य नाम । नचान्त्यवर्णप्रतिपत्तेरूर्ध्वमन्यमशकल शब्दात्मानमुपलक्षयाम । – [ प्रमाणवा॰ स्ववृ॰ १ । २५३ ।] ↩︎

  1401. स्थिते च स्फोटस्य वर्णोच्चारणात् प्राक् सद्भावे वर्णाना वायूनां वा व्यञ्जकत्वं परिकल्प्येत । नच तत्सद्भावः कुतश्चित्प्रमाणादवगत । – [सन्मति॰ टी॰ पृ॰ ४३४ । प्रमेयक॰ पृ॰ ४५६ ।] ↩︎

  1402. “पूर्वस्फोट–” [आ॰] , [ब॰] । ↩︎

  1403. [पृ॰ ७४८ पं॰ १ ।] ↩︎

  1404. घटादिशब्देषु परस्परव्यावृत्तानेकवर्णव्यतिरिक्तस्य स्फोटात्मनोऽर्थप्रत्यायकस्यैकस्य अध्यक्षप्रतिपत्तिविषयत्वेनाप्रतिभासनात् – [सन्मति॰ टी॰ पृ॰ ४३५ । प्रमेयक॰ पृ॰ ४५७ ।] ↩︎

  1405. तुलना–दूरदेशावस्थितस्य हि विरलपदार्थस्य घनरूपताप्रतीति उत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन बाध्यत इति तत्र घनत्वप्रतीतिवशाद् व्यवस्थाप्यमान घनत्वमस्त्ववास्तव क किमाह । वर्णाद्यवयवाभासस्य तु नोत्तरकालिक बाधक किञ्चिच्चेतयाम । [स्या॰ र॰ पृ॰ ६५८ ।] ↩︎

  1406. [पृ॰ ७४९ पं॰ ५ ।] ↩︎

  1407. तुलना–यतोऽनुवाकश्लोकौ सावयवौ वा स्याता निरवयवौ वा ? प्रथमपक्षे वैषम्यम् । अनुवाकादौ हि सावयवत्वात् स्फुटोऽस्फुटश्चावभासो युज्यते स्फोटे तु निरवयवत्वान्न तौ सम्भवत इति । अपसिद्धान्तप्रसङ्गश्चास्मिन् पक्षे वैषम्यम्–श्लोकानुवाकयोरपि स्फोटरूपत्वेनाभ्युपगतयोर्भवच्छास्त्रे निरवयवत्वेनाभ्युपगतत्वात् । द्वितीयविकल्पे तु देवदत्त गामभ्याजेति वाक्यस्फोटवत् एतावपि पूर्वपूर्वध्वनिजनिताभिव्यक्तिकृतसस्कारविशेषावन्त्यध्वनिबुद्धौ प्रथमावृत्तावपि स्फुटर प्रतिभासेयाताम् । – [स्या॰ र॰ पृ॰ ६६० ।] योऽपि द्वितीयो दृष्टान्त उदाहारि-यथानुवाक श्लोको वा प्रथमसस्थया गृहीतोऽपि संस्थानान्तराभ्यासै स्फुटतरपरिच्छिन्नो भवति तथा स्फोटोऽपि प्रथमवर्णव्यक्तो वर्णान्तरैरतिशयिताभिव्यक्तिर्भविष्यतीति, सोऽपि न सदृशो दृष्टान्त श्लोकानुवाकयोरनशत्वानुपपत्ते । केचिदवयवा वर्णात्मान पदात्मानो वा प्रथमाया बुद्धावपरिस्फुरन्त सस्थाभ्यासलब्धातिशयाया तस्या प्रकटीभवन्ति, स्फोटस्तु एकवर्ण इव निरश इति तत्र को बुद्धेरतिशययोग तस्मादयमपि न सङ्गतो दृष्टान्त । – [न्यायमं॰ पृ॰ ३०९ ।] ↩︎

  1408. ““पुन”” नास्ति [आ॰] । ↩︎

  1409. “तथावत्कल्प–” [आ॰] , “तदात्मनत्कल्प–” [श्र॰] । ↩︎

  1410. स्फुटतरतमादिरूपेणाभिव्यक्तिकल्पनम् । ↩︎

  1411. “प्रतीतोऽत” [ब॰] , [श्र॰] । ↩︎

  1412. “–स्फोटोऽभ्यु–” [ब॰] । ↩︎

  1413. वर्णा वा ध्वनयो वापि स्फोट न पदवाक्ययो । व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादय ॥ सत्त्वात् घटादिवच्चेति साधनानि यथारुचि । लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥ नार्थस्य वाचक स्फोट वर्णेभ्यो व्यतिरेकत । घटादिवत्, न दृष्टेन विरोधो धर्म्यसिद्धित ॥ – [मी॰ श्लो॰ स्फो॰ श्लो॰ १३१–३३ ।] ↩︎

  1414. वर्णोत्था वाऽर्थधीरेषा तज्ज्ञानानन्तरोद्भवा । येदृशी सा तदुत्था हि धूमादेरिव वह्निधी ॥ – [मी॰ श्लो॰ स्फो॰ श्लो॰ १३५ । तत्त्वस॰ का॰ २७३१ ।] ↩︎

  1415. गन्धादिस्फोटस्य तथाभ्युपगमार्हत्वात् । यथैव शब्द वक्तृसकेतस्य क्वचिदर्थप्रतिपत्तिहेतु तथा गन्धादिरपि विशेषाभावात् । एवविधमेव गन्ध समाघ्राय इत्थमेवविधोऽर्थ प्रतिपत्तव्य स्पर्शं स्पृश्य रस वास्वाद्य रूप वालोक्येत्थम्भूतमीदृशो भावः प्रत्येतव्य इति समयग्राहिणा पुन क्वचित्तादृशगन्धाद्युपलम्भात् तथाविधार्थनिर्णयप्रसिद्धे गन्धादिज्ञानाहितसस्कारस्यात्मन तद्वाक्यार्थपतिपत्तिहेतो गन्धादिपदस्फोटतोपपत्ते पूर्वगन्धादिविशेषज्ञानाहितसस्कारस्यात्मन अन्त्यगन्धादिविशेषोपलम्भानन्तर गन्धादिविशेषसमुदायगम्यार्थप्रतिपत्तिहेतोर्गन्धादिवाक्यस्फोटत्वघटनात् । – [तत्त्वार्थश्लो॰ पृ॰ ४२७ । प्रमेयक॰ पृ॰ ४५७ ।] ↩︎

  1416. “–ञ्चालोक्य” [ब॰] , [श्र॰] । ↩︎

  1417. हस्तपादसमायोगो नृत्यस्य करण भवेत् । – [नाट्यशा॰ ४ । ३० ।] ↩︎

  1418. द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । नृत्तस्य अङ्गहारस्यात्मनो मातृका उत्पत्तिकारणम् । – [नाट्यशा॰ ४ । ३१ ।] ↩︎

  1419. अङ्गाना देशान्तरे समुचिते प्रापणप्रकारोऽङ्गहार हरस्य चाय हार प्रयोग, अङ्गनिर्वर्त्यो हार अङ्गहार । स्थिरहस्तादिभेदेन द्वात्रिंशद्विध । द्वाभ्या त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभि ॥ त्रिभि कलापक चैव चतुभिर्मण्डक भवेत् ॥ पञ्चैव करणानि स्यु सङ्घातक इति स्मृतः ॥ षङ्भिर्वा सप्तभिर्वापि अष्टभि नवभिस्तथा । करणैरिह सयुक्ता अङ्गहारा प्रकीर्तिता ॥ – [नाट्यशा॰ ४ । ३१-३३ ।] ↩︎

  1420. पदादिस्फोट एव घटते न पुन स्वावयवक्रियाविशेषाभिव्यङ्ग्य हसपक्ष्मादिर्हस्तस्फोट स्वाभिधेयार्थप्रतिपत्तिहेतुरिति स्वल्पमतिसन्दर्शनमात्रम् । एतेन वित्कुट्टितादि पादस्फोट हस्तपादसमायोगलक्षण करणस्फोट करणद्वयरूमात्रिकासहस्रलक्षण अङ्गहारादिस्फोटश्च न घटते इति वदन्ननभिधेयवचन प्रतिपादितो बोद्धव्य, तस्यापि स्वस्वावयवाभिव्यङ्ग्यस्य स्वाभिधेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणात् । – [तत्त्वार्थश्लो॰ पृ॰ ४२७ ।] ↩︎

  1421. “–पक्षादिः” [श्र॰] । ↩︎

  1422. “खल्वावयवाभि–” [ब॰] , “स्वसावयवाभि–” [आ॰] । ↩︎

  1423. अथ पुनरेकमेवानवयवं वाक्यम्; तत्र–एकत्वेऽपि ह्यभिन्नस्म क्रमशो गत्यसम्भवात् । कालभेद एव न युज्यते । न ह्येकस्य क्रमेण प्रतिपत्तिर्युक्ता; गृहीतागृहीतयोरभेदात् । क्रमेण च वाक्यप्रतिपत्तिर्दृष्टा, सर्ववाक्याध्याहारश्रवणस्मरणकालस्यानेकक्षणनिमेषानुक्रमपरिसमाप्ते वर्णरूपासस्पर्शिनश्चैकबुद्धिप्रतिभासिन शब्दात्मनोऽप्रतिभासनात् वर्णानुक्रमप्रतीते । तदविशेषेप्यनुक्रमकृतत्वाद्वाक्यस्य अनुक्रमवती वाक्यप्रतीति, वर्णानुक्रमोषकारानपेक्षणे तैर्यथाकथञ्चित्प्रयुक्तैरपि यत्किञ्चिद्वाक्य प्रतीयेत विनापि वा वर्णे । तैरनुक्रमवद्भिरक्रमस्योपकारायोगात् । अक्रमेण च व्यवहर्तुमशक्यत्वात् । गत्यन्तराभावाच्च । – [प्रमाणवा॰ स्ववृ॰ १ । २५३ ।] ↩︎

  1424. एकः शब्द सम्यग्ज्ञात शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति । – [पात॰ महाभा॰ ६ । १ । ८४ ।] तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष अपशब्द । – [पात॰ महाभा॰ पस्पशा॰ ।] ↩︎

  1425. यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपदिष्टे गम्यत एतद् गाव्यादयोऽपशब्दा इति । – [पात॰ महा॰ पस्पशा॰ ।] तस्माद् यमभियुक्ता उपदिशन्त्येष एव साधुरिति साधुरित्यवगन्तव्य । – [शाबरभा॰ १ । ३ । २७ ।] शिष्टेभ्य आगमात्सिद्धा साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधव । – [वाक्यप॰ १ । २७ ।] शब्दस्य तत्त्वमवैकल्यमनपगतसस्कार साधुस्वरूम् । अन्ये तु तत्प्रयुयुक्षया प्रयुज्यमाना विकला स्युरपभ्रशा । – [वाक्यप॰ स्ववृ॰ १ । १३ ।] स साधुर्यस्य व्याकरणावगतः सस्कारोऽविकल । ताद्विकलास्त्वपभ्रशा इति । – [वाक्यप॰ पु॰ टी॰ १ । १३ ।] तस्मान्न लोकवेदाभ्या कश्चिद् व्याकरणादृते । वाचकाननपभ्रष्टान् यथावज्ज्ञातुमर्हति । – [तन्त्रवा॰ पृ॰ २७८ ।] तथा व्याकरणाख्येन साधुरूप नियम्यते । अविशेषेण सिद्धि स्याद्विना व्याकरणस्मृते ॥ – [तन्त्रवा॰ पृ॰ २८७ ।] व्याकरणलक्षणानुगमविशेषित्व वाचकत्व साधुत्वम् । – [न्यायमं॰ पृ॰ ४२३ ।] अभियुक्ततमैरिन्द्रपाणिनिप्रभृतिभि साधुत्वेनाविगानत स्मर्यते स साधुरितरोऽसाधुरिति निश्चीयते । – [न्यायवा॰ पृ॰ ७१४ ।] साधुत्व नाम क्वचिदर्थविशेषे स्वाभाविकप्रतिपादनशक्तियोगिन शब्दस्य विलक्षणं रूपम् । तञ्च प्रकृतिप्रत्ययादिद्वारेण व्याकरणस्मृत्या यस्य प्रतिपाद्यते तस्यैव व्याकरणस्मृतिसहकृतेन श्रोत्रप्रत्येक्षण असाधुशब्दव्यावृत्तं साधुत्वरूप स्फुटतरमद्यतनैस्तावत्प्रतीयत एव । – [तौता॰ पृ॰ १२८ ।] गवादय एव साधवो न गाव्यादय इति साधुस्वरूपनियम । – [शास्त्रदी॰ १ । ३ । २७ ।] साधूनेव प्रयुञ्जीत गवाद्या एव साधवः । इत्यस्ति नियम पूर्वपूर्वव्याकृतिमूलत ॥ – [जैमिनिन्या॰ १ । ३ । २७ ।] इत्थञ्च संस्कृते एव शक्तिसिद्धौ शक्यसम्बन्धरूपवृत्तेरपि तत्रैव भावात्तत्त्व साधुत्वम् । वस्तुतो वृत्तिमत्त्व न साधुत्वङ्किन्तु व्याकरणनिष्पाद्यत्वम् । यत्र य शब्दो व्याकरणे व्युत्पादित स तत्र साधु । – [वैयाकरणभू॰ पृ॰ २४९ ।] अनपभ्रष्टतानादिर्यद्वाऽभ्युदययोग्यता । व्याक्रिया व्यञ्जनीया वा जाति कापीह साधुतेति । – [शब्दकउ पृ॰ २५ ।] ↩︎

  1426. “गव्यादी–” [आ॰] , [ब॰] । ↩︎

  1427. गौरित्यस्य शब्दस्य गावीगोणीगोतागोपोतलिकेत्येवमादय अपभ्रशा । – [पात॰ महा॰ पस्पशा॰ ।] ↩︎

  1428. सामर्थ्यं सर्वभावानामर्थापत्त्यावगम्यते । एकसामर्थ्यसिद्धेऽर्थे नानेक तच्च लभ्यते ॥ नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते । तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥ – [तन्त्रवा॰ पृ॰ १ । ३ । २६ ।] किञ्च, वाचकशक्तिर्नाम सूक्ष्मा परमार्थापत्तिमात्रशरणावगमा न तन्मन्दतायामन्यत कुतश्चिदवगन्तु पार्यते । सा चेयमन्यथाप्युपपद्यमाना गवादिभ्योऽर्थप्रत्ययादिव्यवहारे मन्दीभवति तेषु शक्तिकल्पनायामर्थापत्ति एव गवादय एव वाचकशक्तेराश्रयः न गाव्यादय । – [न्यायम॰ पृ॰ ४२१ ।] अत्र च संस्कृतस्य सर्वदेशे एकत्वात्तत्रैव शक्ति, भाषाणाञ्च प्रतिदेश भिन्नत्वात् सस्कृतैः सह पर्यायतापत्तेश्च न शक्ति । – [वैयाकरणभू॰ पृ॰ २४८ ।] एकत्र शक्त्याप्यन्यत्र तदारोपात्तदर्थप्रतीत्युपपत्तावेकत्रैव शक्तिर्लाघवात्, अनन्यलभ्यस्यैव शब्दार्थत्वात् । सा च शक्ति संस्कृत एव सर्वदेशे तस्यैकत्वात् । – [तत्त्वचि॰ शब्द॰ पृ॰ ६४१ ।] ↩︎

  1429. अन्वयव्यतिरेकौ । ↩︎

  1430. “अनुपपन्ना हि” [ब॰] । ↩︎

  1431. “विनोपप–” [ब॰] । ↩︎

  1432. गावीशब्दे । ↩︎

  1433. अथ यदुक्तम्– अर्योऽवगम्यते गाव्यादिभ्य, अत एषामप्यनादिरर्थेन सम्बन्ध इति । तदशक्तिरेषा गम्यते । गोशब्दमुच्चारयितुकामेन केनचिदशक्त्या गावीत्युच्चारितम्, अपरेण ज्ञात सास्नादिमानस्य विवक्षितस्तदथ गौरित्युच्चारयितुकामो गावीत्युच्चारयति । तत शिक्षित्वाऽपरेऽपि सास्नादिमति विवक्षिते गावीत्युच्चारयन्ति । तेन गाव्यादिभ्य सास्नादिमानवगम्यते । अनुरूपो हि गाव्यादिर्गोशब्दस्य । एव गाव्यादिदर्शनाद् गोशब्दस्मरण तत सास्नादिमानवगम्यते । – [शाबरभा॰ १ । ३ । २८–२९ ।] यथा गौरित्यस्य पदस्यार्थे गावीति प्रयुज्यमान पद ककुदादिमन्तर्थं प्रतिपादयतीति । न च शब्दान्वाख्यान व्यर्थम्, अनेन शब्देन गोशब्दमेवादौ प्रतिपद्यते गोशब्दात् ककुदादिमन्तमर्थम् । – [न्यायवा॰ पृ॰ ५५६ ।] ते तु वर्णसारूप्यच्छायया गवादिशब्दस्मृतिमादघानाः तदर्थप्रतिपत्तिहेतुतामुपगच्छन्ति । – [न्यायमं॰ पृ॰ ४२१ । न्यायवा॰ ता॰ पृ॰ ७१४ । तत्त्वचि॰ शब्द॰ पृ॰ ६४३ ।] न चापभ्रशानामचाचकतया कथमर्थावबोध इति वाच्यम्, शक्तिभ्रमवता बाधकाभावात् । विशेषदर्शिनस्तु द्विविधा–तत्तद्वाचकसस्कृतविशेषज्ञानवन्त तद्विकलाश्च । तत्र आद्याना साधुस्मरणद्वारा अर्थबोध । द्वितीयाना तु बोध्यार्थसम्बद्धार्थान्तरवाचकस्य स्मृतौ सत्या ततो लक्षणया बोध । सर्वनामस्मृतेर्वा, तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा, अर्थाध्याहारपक्षाश्रयणाद्वा यथायथ बोध्यम् । – [शब्दकउ पृ॰ ३२ ।] ↩︎

  1434. अस्वगोण्यादय शब्दा साधवो विषयान्तरे । निमित्तभेदात्सर्वत्र साधुत्वञ्च व्यवस्थितम् ॥ ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतव । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशक ॥ न शिष्टैरनुगम्यन्ते पर्याया इव साधव । ते यत स्मृतिशास्त्रेण तस्मात्साक्षादवाचक ॥ अम्बाम्बेति यथा बाल शिक्षमाण प्रभाषते । अव्यक्त तद्विदा तेन व्यक्ते भवति निश्चय ॥ एव साधौ प्रयोक्तव्ये योऽपभ्रश प्रयुज्यते । तेन साधुव्यवहित कश्चिदर्थोऽभिधीयते ॥ – [ वाक्यप॰ १ । १४९–५३ ।] गाव्यादिशब्दाना पुनरुच्चारणासामर्थ्यतो मूलशब्दादपभ्रशाना विवक्षितेषु मूलशब्दानुसारेणार्थप्रतिपादकत्वम्, अविवक्षितेषु तु वाचकभ्रान्त्यैवेति । – [तौता॰ पृ॰ १३० । भाट्टचि॰ पृ॰ ९५ ।] ↩︎

  1435. “अन्विति” [आ॰] । ↩︎

  1436. “तत्र स्थाने” [ब॰] । ↩︎

  1437. “गोशब्दत्वप्रति–” [श्र॰] । ↩︎

  1438. “–ल्पते” [आ॰] , [ब॰] । ↩︎

  1439. सर्वे देशान्तरे । सर्वे खलु एते शब्दा देशान्तरेषु प्रयुज्यन्ते । – [पात॰ महा॰ पस्पशा॰ ।] ↩︎

  1440. पुरुषाणाम् । ↩︎

  1441. गाव्यादयः शब्दा । ↩︎

  1442. “ना तु” [आ॰] । ↩︎

  1443. “गव्या–” [ब॰] । ↩︎

  1444. “–तीति तत्र” [श्र॰] । ↩︎

  1445. “अस्तु नाम” [ब॰] , [श्र॰] । ↩︎

  1446. वाचकत्वावधारणम् । ↩︎

  1447. “–निरपेक्षे वृ–” [श्र॰] । ↩︎

  1448. रक्षोहागमलघ्वसन्देहा प्रयोजनम् लघ्वर्थं चाध्येय व्याकरणम् ब्राह्मणेनावश्य शब्दा ज्ञेया इति । न चान्तरेण व्याकरण लघुनोपायेन शब्दा शक्या ज्ञातुम् । किञ्चित्सामान्यविशेषवल्लक्षण प्रवर्त्यम्, येनाल्पेन प्रयत्नेन महतो महत शब्दौघान् प्रतिपद्येरन् । किं पुनस्तत् ? उत्सर्गापवादौ । कश्चिदुत्सर्ग कर्त्तव्य कश्चिदपवाद । सामान्येनोत्सर्ग कर्त्तव्य तद्यथा कर्मण्यण् । तस्य विशेषेणापवाद, तद्यथा आतोऽनुपसर्गे क । – [पात॰ महा॰ पस्पशा॰ ।] प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेन ॥ – [काशिका॰ पृ॰ १ ।] तत्र सामान्यवता लक्षणेन प्रकृत्यादिविभागपरिकल्पनया कुम्भकार काण्डलाव शरलाव इत्येवमादिक महान्त शब्दौध प्रतिपद्यते । विशेषवता तु पार्ष्णित्रो गोद कम्बलद इत्येवमादिकम् । – [न्यास॰ पृ॰ ६ । सर्वद॰ पाणिनि॰ ।] ↩︎

  1449. “–घ्याय इत्यादय” [श्र॰] । ↩︎

  1450. “शब्दबहुगाधुत्वेन” [श्र॰] । ↩︎

  1451. लोकव्याकरणाभ्या हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति । – [तन्त्रवा॰ १ । ३ । २७ ।] ↩︎

  1452. व्याकरणस्य । ↩︎

  1453. नचान्तरेण व्याकरण कृतस्तद्धिता वा शक्या विज्ञातुम् । – [पात॰ महा॰ पस्पशा॰ ।] तत्त्वावबोध शब्दाना नास्ति व्याकरणादृते । – [वाक्यप॰ १ । १३ ।] ↩︎

  1454. सर्वपार्षदत्वाच्च शब्दानुशासनस्य । – [हैमश॰ बृह॰ पृ॰ २ ।] ↩︎

  1455. “–लविशिष्टानां” [श्र॰] । ↩︎

  1456. साधुत्वज्ञानविषया सैषा व्याकरणस्मृति । अविच्छेदेन शिष्टानामिद स्मृतिनिबन्धनम् ॥ – [ वाक्यप॰ १ । १४३ ।] ↩︎

  1457. साधुत्वमिन्द्रियग्राह्य लिङ्गमस्य च विद्यते । शास्त्रस्य विषयोऽप्येष प्रयोगोऽप्यस्त्यसकरः ॥वैयाकरणोपदेशसाहाय्यकोपकृतश्रोत्रेन्द्रियग्राह्यत्वाभ्युपगमात् । यथा ब्राह्मणत्वादिजातिरुपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति ।व्याकरणकोविदोपदेशसचिवश्रवणेन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिवर्तेते । – [न्यायमं॰ पृ॰ ४२२ । तौता॰ पृ॰ १२८ ।] ↩︎

  1458. “श्रौत्रप्र–” [आ॰] , [ब॰] । ↩︎

  1459. “–वत्साधृ–” [ब॰] , [आ॰] । ↩︎

  1460. “–शिष्टेषूच्चार्य–” [आ॰] , “–शिष्टेषु शब्दोच्चार्य –” [ब॰] । ↩︎

  1461. “–ब्दानुकरोति” [आ॰] । ↩︎

  1462. “पूर्व भावा–” [आ॰] , “पूर्वसद्भा–” [ब॰] । ↩︎

  1463. यथा च पद्मरागादीन् काचस्फटिकमिश्रितान् । परीक्षका विजानन्ति साधुत्वमपरे तथा ॥ यथा रत्नपरीक्षाया साध्वसाधुत्वलक्षणम् । तथा व्याकरणात्सिद्धं साधुशब्दनिरूपणम् ॥ – [तन्त्रवा॰ १ । ३ । २७ ।] ↩︎

  1464. प्रत्यक्षागोचरस्यापि शब्दराशे । ↩︎

  1465. “–रस्यानु–” [आ॰] । ↩︎

  1466. विशिष्टशब्दश्रवणोत्तरकालप्रवृत्तव्यवहारावगतार्थप्रतिपत्तिसहित शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्गमव्यभिचारि तत्स्वरूपावधारणे कारणं भविष्यति ।– [न्यायमं॰ पृ॰ ४२३ । तन्त्रवा॰ १ । ३ । २७ ।] ↩︎

  1467. “–त्वसिद्धेः” [आ॰] । ↩︎

  1468. उद्धृतोऽयम् – [न्यायमं॰ पृ॰ ४२३ । न्यायवा॰ ता॰ पृ॰ ७१४ । वैयाकरणभू॰ पृ॰ २५२ । तत्त्वचि॰ शब्द॰ पृ॰ ६४० ।] साधूना साधुभिस्तस्माद्वाच्यमभ्युदयार्थिभि । – [वाक्यप॰ १ । १४१ ।] ↩︎

  1469. “तस्मादेषा व्याकृता” – [तन्त्रवा॰ १ । ३ । २७ । भाट्टचि॰ पृ॰ ९८ ।] ↩︎

  1470. “सूत्रकारवार्त्तिक–” [श्र॰] । ↩︎

  1471. तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेक साधुत्वनिश्चय । – [तन्त्रवा॰ १ । ३ । २७ ।] ↩︎

  1472. [पृ॰ ७५७ प॰ ६ ।] ↩︎

  1473. वृद्धिद्धप्रसिद्धितस्त्वेष व्यवहार प्रवर्तते । सस्कृतैरिति सर्वापि शब्दै भाषास्वनैरिव । – [तत्त्वार्थ श्लो॰ पृ॰ २९० ।] ↩︎

  1474. “असस्कृते–” [आ॰] । ↩︎

  1475. गाव्यादिशब्दानामेव । ↩︎

  1476. “–थोपपद्य–” [ब॰] । ↩︎

  1477. “प्रथमस–” [श्र॰] । ↩︎

  1478. प्राकृतशब्देभ्योऽपि । तुलना–व्युत्क्रमादर्थनिर्णीतिरपशब्दादिवेत्यपि । वक्तु शक्तेस्तथा दृष्टे सर्वथाप्यविशेषत ॥ – [तत्त्वार्थश्लो॰ पृ॰ २९० । प्रमेयक॰ पृ॰ ६६८ ।] ↩︎

  1479. तुलना–स्त्रीशूद्राणामुभयप्रतीतेरभावात् । य खलूभय वेत्ति शब्दमपशब्दञ्च स एव प्रतिपद्यते । यस्तु नक्कमुक्कशब्दमेव वा वेत्ति न नासाशब्द स कथमपशब्दाच्छब्द प्रतिपद्येत ततोऽर्थं प्रतिपद्येत ? दृष्टा चानुभयवेदिनोऽपि प्रतीतिरिति । – [वादन्या॰ पृ॰ १०३ ।] म्लेच्छादीना साधुशब्दपरिज्ञानाभावात्कथ तद्विषया स्मृति । तदभावे न गोऽर्थप्रतिपत्ति स्यात् । – [तत्त्वो॰ पृ॰ १२४ ।] ↩︎

  1480. “–व गवादि–” [ब॰] । ↩︎

  1481. “तुल्यार्थप्रति–” [ब॰] । ↩︎

  1482. गाव्यादिशब्दद्वारेणैव । तुलना–विपर्ययदर्शनाच्च । शब्दादर्थमप्रतिपद्यमाना अपशब्दैरेव ज्ञान व्युत्पद्यमाना लोके दृश्यन्ते इति व्यर्थं शब्दानुशासनम् । तथाहि वृक्षोऽग्निरुत्पलमित्युक्तेऽव्युत्पन्नधियो बाला प्रश्नोपक्रम सन्तिष्ठन्ते कोऽय वृक्ष इत्यादिना । ते चान्यस्य व्युत्पादनोपायस्याभावादपशब्दैरेव व्युत्पाद्यन्ते रुक्ख अग्गी उप्पलमिति । तदेवमत्रासाधव एव वाचका न साधव सन्तोऽपि इति विपर्ययो दृश्यते । – [वादन्या॰, टी॰ पृ॰ १०५ ।] ↩︎

  1483. “–प्रथमं त एव स्वरस्य वृत्ता वा–” [आ॰] । ↩︎

  1484. वाचकत्वानुभवात् ↩︎

  1485. गाव्यादीनाम् । ↩︎

  1486. “–रे न खलु वाचकत्वाः” [ब॰] । ↩︎

  1487. गवादय शब्दा । ↩︎

  1488. [पृ॰ ७५९ पं॰ ६ ।] ↩︎

  1489. “इत्यादि तद–” [श्र॰] , [ब॰] । ↩︎

  1490. “चायं” [श्र॰] । ↩︎

  1491. व्याकरणसूत्र । ↩︎

  1492. असस्कृतमतीनाम् । ↩︎

  1493. “–नवस्थितस्य” [ब॰] । ↩︎

  1494. “तद्व्यापारव्यवहारो न” [आ॰] , [श्र॰] । ↩︎

  1495. प्राकृतादिभाषाशब्दव्यवहार । ↩︎

  1496. पुरुषार्थबोधनाय । ↩︎

  1497. “–ष्टव्यत्व” [श्र॰] । ↩︎

  1498. जैनबौद्धवैष्णवादिभि । ↩︎

  1499. साधुत्वम् । ↩︎

  1500. “–नुगृहीतमनु–” [आ॰] , [ब॰] । ↩︎

  1501. “–रूपं वा” [ब॰] । ↩︎

  1502. अथ गावीशब्दस्य वाचकत्व नोपपद्यते, तदयुक्तम्, गावीशब्देन बहुल व्याहरन्ति प्रमातार । – [तत्त्वो॰ पृ॰ १२४ ।] ↩︎

  1503. “–तया साधु–” [श्र॰] । ↩︎

  1504. अनादिप्रयोगितासभवात् । ↩︎

  1505. प्राकृतेति–सकलजगज्जन्तूना व्याकरणादिभिरनाहितसस्कार सहजो वचनव्यापार प्रकृति, तत्र भव सैव वा प्राकृतम् । “आरिसवयणे सिद्ध देवाण अद्धमग्गहा वाणी” इत्यादि वचनाद्वा प्राक् पूर्व कृत प्राक्कृत बालमहिलादिसकलभापानिबन्धनभूत वचनमुच्यते । मेघनिर्मुक्तजलमिवैकस्वरूप वदेव च देशविशेषात् सस्कारकरणाच्च समासादितविशेष सत् सस्कृताद्युत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निदिष्ट तदनु सस्कृतादीनि । पाणिन्यादिव्याकरणोदितशब्दलक्षणेन सस्करणात् सस्कृतमुच्यते । – [काव्या॰ रुद्र॰ नमि॰ २ । १२ ।] ↩︎

  1506. “न च” [श्र॰] । ↩︎

  1507. “प्रकृतौ भवम्” [आ॰] । ↩︎

  1508. तुलना–प्रकृति सस्कृत तत्र भव तत आगत वा प्राकृतम् । – [हेम॰ प्राकृ॰, प्राकृतसर्व॰, प्राकृतच॰, वाग्भट्टा॰ टी॰ २ । २ ।] एतदेव विपर्यस्त सस्कारगुणवर्जितम् । विज्ञेय प्राकृत पाठ्य नानावस्थान्तरात्मकम् ॥ – [नाट्यशा॰ १७ । २ ।] प्रकृते सस्कृतायास्तु विकृति प्राकृती मता । – [षङ्भा॰ ।] प्राकृ तस्य तु सर्वमेव संस्कृतं योनि । – [प्राकृतस॰ ।] प्रकृते सस्कृतात् साध्यमानात्सिद्धाच्च यद्भवेत् । प्राकृतस्यास्य लक्ष्यानुरोधि लक्ष्म प्रचक्ष्महे ॥ – [बि॰ प्रा॰ पृ॰ १ ।] ↩︎

  1509. “इत्युच्यते” [ब॰] । ↩︎

  1510. “धातुगणोस्वरूपसिद्धे” [ब॰] । ↩︎

  1511. “विकारित्वात्” श्र । ↩︎

  1512. संस्कृतप्राकृतयो । ↩︎

  1513. “–चिद्दृष्टम्” [श्र॰] । ↩︎

  1514. नन्वेव वयं गुणातिशयमपश्यन्त सस्कार केषाञ्चिच्छब्दानामनुमन्यामहे – [ वादन्या॰ पृ॰ १०७ ।] ↩︎

  1515. “व्यवहारार्त्तश–” [श्र॰] । ↩︎

  1516. रक्षार्थं वेदानामध्येय व्याकरणम् । लोपागमवर्णविकारज्ञो हि सम्यग् वेदान् परिपालयिष्यतीति । – [पात॰ महा॰ पस्पशा॰ ।] ↩︎

  1517. “–लितस्वरूप–” [ब॰] , [श्र॰] । ↩︎

  1518. “–रूपतापेक्षया” [ब॰] , [श्र॰] । ↩︎

  1519. “–प्रसङ्गतस्तद–” [ब॰] । ↩︎

  1520. [पृ॰ ७०३ ।] ↩︎

  1521. अनादिप्रयोगितया । ↩︎

  1522. “–पगमेपि च” [श्र॰] । ↩︎

  1523. तुलना–म्लेच्छव्यवहारा अपि केचित् मातृविवाहादयो मदनोत्सवादयश्चानादय नास्तिक्यवचासि च अपूर्वपरलोकाद्यपवादीनि । – [प्रमाणवा॰ स्ववृ॰ १ । २४७ ।] ↩︎

  1524. “–पेक्षस्यनादि–” [ब॰] । ↩︎

  1525. लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम । शब्देनैवार्थोऽभिधेयो नापशब्देनेति । एव क्रियमाणमभ्युदयस्तत्तुल्य वेदशब्देन । – [पात॰ महा॰ पस्पशा॰ ।] साधवो धर्मसाधनम् – [वाक्यप॰ १ । २७ ।] ↩︎

  1526. तुलना– न धर्मसाधनता, मिथ्यावृत्तिचोदनेभ्योप्यधर्मोत्पत्तिः, अन्येभ्योऽपि विपर्यये धर्मोत्पत्ते । शब्दस्य सुप्रयोगादेव स्वर्गमोदनधोषणा वचनमात्रम् । नचैवविधानागमानाद्रियन्ते युक्तिज्ञा । नच दानादिधर्मसाधनचोदनाशून्यकेवलशब्दसुप्रयोगान्नगपात इति ब्रुवाणस्य कस्यचिन्मुख वक्रीभवति । – [वादन्या॰ पृ॰ १०६ ।] तथा च सस्कृताच्छब्दात्सत्याद् धर्मस्तथाऽन्यत । स्यादसत्य यदा सत्याद्यदाऽ धर्मः क नियम पुण्यपापयोः । – [तत्त्वार्थश्लो॰ पृ॰ २९० । प्रमेयक॰ पृ॰ ६६८ ।] ↩︎

  1527. शब्दादनुष्ठेयार्थ- बोधस्ततोऽनुष्ठान ततो धर्मोत्पत्तिरिति । ↩︎

  1528. तुलना–न ह्येषा प्रज्ञाबाहुश्रुत्यादिक सस्कार पश्यामो नाप्येषामेकान्तेन श्रव्यता । नाप्यर्थप्रत्यायने कश्चिदतिशय । शिष्टप्रयोग सस्कार इति चेत्, के शिष्टा ? ये वेद्यतादिगुणयुक्ता । क पुनरेषा गुणोत्कर्पानपेक्षोऽलीकनिर्बन्धो यत्तेऽमूनेव शब्दान् प्रयुञ्जते नापरान् – [वादन्या॰ पृ॰ १०७ ।] ↩︎

  1529. “–ष्टाभिधा–” [ब॰] । ↩︎

  1530. “–नावृतत्व घटते” [ब॰] । ↩︎

  1531. “–मस्त्येव” [ब॰] । ↩︎

  1532. प्राकृतव्याकरणस्य । ↩︎

  1533. [पृ॰ ७६१ प॰ १४ ।] ↩︎

  1534. “वागुत्पद्यते” [आ॰] । ↩︎

  1535. “–ले वा अध्य–।” ↩︎

  1536. प्राकृताध्ययनकाले । ↩︎

  1537. “अनभिधीय–” [श्र॰] । ↩︎

  1538. “–त्वे प्राकृ–” [आ॰] । ↩︎

  1539. “प्राकृताऽसौ न” [श्र॰] । ↩︎

  1540. “सस्पष्टार्थ –” [श्र॰] । ↩︎

  1541. “–प्रतिप्रतीते” [आ॰] , [ब॰] । ↩︎

  1542. प्राकृतव्याकरणे । ↩︎

  1543. “त्येतदा–” [श्र॰] । ↩︎

  1544. यस्य त्य यत्त्य तस्मिन् परत तदादि शब्दरूप गुसज्ञ भवति । – [शब्दार्ण॰ ।] ↩︎

  1545. “गु” इति सज्ञा “अङ्ग”सज्ञास्थानीया । ↩︎

  1546. गोत्वलक्षणेऽर्थे । ↩︎

  1547. सस्कृतव्याकरणस्य । ↩︎

  1548. गावीशब्दस्य । ↩︎

  1549. “–भिधायकत्वेन” [ब॰] , [श्र॰] । ↩︎

  1550. तुलना–तस्मात्पर्यायशब्दत्वात् गाव्यादेत्तरुवृक्षवत् । आचारेण प्रयोज्यत्व न शास्त्रस्थैर्निवारितम् ॥ – [तन्त्रवा॰ १ । ३ । २४ ।] ↩︎

  1551. “–त्वात् वृक्ष–” [ब॰] । ↩︎

  1552. तुलना–गावीगोण्यादय शब्दाः सर्वे गोत्वस्य वाचका । वृद्धैस्तत्र प्रयुक्तत्वाद् गोस्स्रेत्येवमादिवत् ॥ – [तन्त्रवा॰ १ । ३ । २४ ।] ↩︎

  1553. “–गौणातलि–” [श्र॰] । ↩︎

  1554. “गोरूपत्वेत्या–” [ब॰] , “गोरुक्षेत्या–” [श्र॰] । ↩︎

  1555. “गोरूपत्वेत्या–” [ब॰] । ↩︎

  1556. “–चरुट–” [आ॰] , [ब॰] । ↩︎

  1557. म्लेच्छजातिविशेष । पुलिन्दा नाहला निष्ट्या शवरा वरुटा भटा । माला भिल्ला किराताश्च सर्वेऽपि म्लेच्छजातय ॥ – [हैम ।] ↩︎

  1558. ब्राह्मणोऽय ब्राह्मणोऽयमित्यनुगतप्रत्ययः । ↩︎

  1559. “यदि ब्राह्म–” [आ॰] । ↩︎

  1560. “–न पुनः पुरुषमात्रं” [श्र॰] । ↩︎

  1561. ब्राह्मणत्वरहितम् । ↩︎

  1562. ब्राह्मणत्वशून्यपुरुषमात्रप्रतिभासे । ↩︎

  1563. “ब्राह्मणस्य” [ब॰] , [श्र॰] । ↩︎ ↩︎

  1564. “इतरज्ञाति–” [आ॰] । ↩︎

  1565. पुरुषेषु । ↩︎

  1566. “प्रतिज्ञातापि” [आ॰] , [श्र॰] । ↩︎

  1567. “–सामग्र्यासद्भा–” [ब॰] । ↩︎

  1568. “इत्यौपदेशि–” [ब॰] , “इत्यापदे–” [श्र॰] । ↩︎

  1569. ब्राह्मण्या ब्राह्मणाज्जातो ब्राह्मण स्यान्न सशय । क्षत्रियाया तथैव स्याद् वैश्यायामपि चैव हि ॥ – [महाभा॰ अनु॰ ४७ । २८ ।] सुवर्णं व्यज्यते रूपात्ताम्रत्वादेरसशयम् । तैलाद् घृत विलीनञ्च गन्धेन च रसेन च ॥ भस्मप्रच्छादितो वह्नि स्पर्शनेनोपलभ्यते । अश्वत्वादौ च दूरस्थे निश्चयो जायते स्वनै । सस्थानेन घटत्वादि ब्राह्मणत्वादि योनित । क्वचिदाचारतश्चापि सम्यग्राजानुपालितात् ॥ – [मी॰ श्लो॰ वन॰ श्लो॰ २७–२९ ।] कथ पुनरिद लोकस्य प्रसिद्धम् ? प्रत्यक्षेणेति ब्रूम । कस्मात्पुन मातापितृसम्बन्धानभिज्ञा चक्षु सन्निकृष्टेषु मनुष्येष्वनाख्यात न प्रतिपद्यन्ते ? शक्त्यभावात् यथा वृक्षत्व प्रागभिधानव्युत्पत्ते । तेन यथैवालोकेन्द्रियानेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसन्निकर्षाकारविशेषादयोऽन्यजातिग्रहणे कारण तथैवात्र उत्पादकजातिस्मरणम् । अयञ्चोत्पाद्योत्पादकसम्बन्धो मातुरेव प्रत्यक्षोऽन्येषा तु अनुमानाप्तोपदेशावगत कारणम् । नच तप आदीनां समुदायो ब्राह्मण्यम्, न तज्जनित सस्कार, न तदभिव्यङ्ग्या जाति । किं तर्हि ? मातापितृजातिज्ञानाभिव्यङ्ग्या प्रत्यक्षसमधिगम्या । – [तन्त्रवा॰ १ । २ । २ ।] तस्मात्समानाकारेष्वपि पिण्डेषु विलक्षणब्राह्मणप्रत्ययवेद्यब्राह्मण्यादिजातिंर्नापह्नोतु शक्यते । – [तन्त्रवा॰ न्यायसु॰ पृ॰ १०–१५ ।] यथा ब्राह्मणत्वादिजातिरुपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति यथा च ब्राह्मणत्वादिजातिप्रतीतौ कारणान्तरमुक्तं क्वचिदाचारतश्चापि सम्यग्राजानुपालितादिति मन्वादिदर्शितानवद्यवर्त्मानुसरणनिपुणनरपतिपरिपाल्यमानवर्णाश्रमाणा शङ्कितकपटकृतकार्यवेशदृष्टशूद्रव्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति । – [न्यायमं॰ पृ॰ ४२२ ।] ↩︎

  1570. मातापितृब्राह्मण्यज्ञान । ↩︎

  1571. स्त्र्यपराधात्तु दुर्ज्ञानोऽय सम्बन्ध इति स्वयमेव वक्ष्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यद्गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षम् । न च स्त्रीणा क्वचिद् व्यभिचारदर्शनात् सर्वत्रैव कल्पना युक्ता । लोकविरुद्धानुमानासभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीना परिरक्षन्त्यात्मानम्, अनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहा- दिपारम्पर्याविस्मरणार्थं समूहलेख्यानि प्रवर्तितानि । तथा च प्रतिकूलगुणदोषस्मरणात्तदनुरूपा प्रवृत्तिनिवृत्तयो दृश्यन्ते । – [तन्त्रवा॰ १ । २ । २ ।] स्त्रीत्वस्य व्यभिचाराप्रयोजकत्वसूचनार्थोऽनुमाने कल्पनाशब्द । न च निर्मूलकत्वेन लोकस्याप्रामाण्यम्, प्रयत्नेन रक्षणे योग्यानुपलब्धेर्मूलत्वसभवादिति दर्शयितुमाह–विशिष्टेन हीति । महाकुलीनाना पुरुषाणां स्त्रीरक्षणमेव आत्मरक्षणम्, जायाया रक्ष्यमाणायामात्मा भवति रक्षित इति स्मरणात् । यद्वा दुष्कुलप्रसूतत्वं व्यभिचारशीलत्वे प्रयोजक न स्त्रीत्वमिति दर्शयितु महाकुलीनत्व स्त्रीणामुक्तम् । व्यभिचाराभावनिश्चयमेव अभियुक्तवृद्धव्यवहारेण द्रढयति अनेनैवेति । व्यभिचाराभावानिश्चये हि निर्मूलत्वात् पितृपितामहादिपरम्परालेखनात्मकसमूहलेख्य व्यर्थं स्यादिति भाव । कुलपरीक्षापूर्वकेदानीन्तनपुरुषगतविवाहादिव्यवहारेणापि तमेव द्रढयति तथा चेति । – [तन्त्रवा॰ न्यायसु॰ पृ॰ १२ ।] यत्र यावदुपलब्धिसामग्री तावत्या सत्यामपि यासा व्यभिचारो न दृश्यते तासा नास्त्येव व्यभिचार इति लोकप्रमाणकमेतत् । अपि च अप्रमत्तै स्त्रियो रक्षणीया, तासु नास्त्येव व्यभिचारसभावनावकाशो यासु त्वस्ति मा भूत् तदपत्येषु तत्सन्ततिप्रभवत्वनिश्चय । न चैतावता यत्रापि निश्चय शक्यस्तत्रापि अनिश्चय इति युक्तमिति । – [प्रक॰ पं॰ पृ॰ ३१ ।] ↩︎

  1572. “–चारं विनि–” [ब॰] । ↩︎

  1573. ब्राह्मणशब्दप्रयोग । ↩︎

  1574. “–तस्य प्रती–” [ब॰] । ↩︎

  1575. शैवादिभेदानाम् । ↩︎

  1576. “सुदृढं व्यव–” [श्र॰] । ↩︎

  1577. ब्राह्मणोऽयमिति प्रत्यय पिण्डव्यतिरिक्तब्राह्मण्यनिबन्धन असति प्रतिबन्धके ब्राह्मणोऽयमित्याकरतया समुत्पद्यमानत्वात् । ↩︎

  1578. पटादिपदेषु । ↩︎

  1579. पटव्यक्तितो व्यतरिक्तमेकं निमित्त पटत्वाख्यम् । ↩︎

  1580. ब्राह्मणोस्य मुखमासीद् बाहू राजन्य कृत । ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रोऽजायत ॥ – [ ऋग्॰ पुरुष॰ १२ ।] अस्य प्रजापते ब्राह्मणत्वजातिविशिष्ट पुरुष मुखमासीत् सुखादुत्पन्न इत्यर्थ । योऽय राजन्य क्षत्रियत्वजातिविशिष्ट स बाहू कृतो बाहुत्वेन निष्पादितो बाहुभ्यामुत्पादित इत्यर्थ । तत्तदानीमस्य प्रजापतेर्यद्याबूरू तद्रूपो वैश्य सम्पन्नः ऊरुभ्यामुत्पादित इत्यर्थ । तथास्य पद्भ्यां पादाभ्या शूद्र शूद्रत्वजातिमान् पुरुषोऽजायत । इयञ्च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजु सहिताया [३१ । ११] सप्तमकाण्डे “स मुखतस्त्रिवृत निरमिमीत” इत्यादौ विस्पष्टमाम्नाता । – [सायणभा॰ ।] ↩︎

  1581. “इति वचसां” [ब॰] । ↩︎

  1582. “वचसां तत्र” [श्र॰] । ↩︎

  1583. [पृ॰ ७६८ प॰ १८ ।] ↩︎

  1584. तुलना–तत्र किं निर्विकल्पकात् विकल्पकाद्वा ततस्तत्प्रतिपत्ति स्यात् । – [प्रमेयक॰ पृ॰ ४८२ । स्या॰ र॰ पृ॰ ९५८ ।] ↩︎

  1585. “–वा तत्प्र–” [ब॰] । ↩︎

  1586. इन्द्रियजनितेन प्रत्यक्षेण । ↩︎

  1587. निविकल्पके । ↩︎

  1588. व्याख्या– यस्त्वपिशब्दमसहमान सर्वमेव ज्ञान शब्दानुविद्धत्वात् सविकल्पकमेव न किञ्चिन्निर्विकल्पकमस्तीति मन्यते तं प्रत्याह–अस्तीति । बालानामिव अव्युत्पन्नानामस्माकमपि चक्षु सन्निपातानन्तर सविकल्पकात् प्रथममस्ति निर्विकल्पक प्रतीतिसिद्धमालोचनविज्ञान शुद्धवस्तुविषयम्, तदभावे हि निर्निमित्त शब्दस्मरण स्यात् । अस्मृतशब्दस्य च न शब्दानुविद्धो विकल्प सभवतीति । शुद्धवस्तुजमित्येतद्विवृणोति–न विशेषो न सामान्य तदानीमनुभूयते । तयोराधारभूता तु व्यक्तिरेवावसीयते ॥ महासामान्यमन्यैस्तु द्रव्य सदिति चोच्यते । – [मी॰ श्लो॰ न्यायर॰ ।] उद्धृतोऽयम्–“ज्ञानमाद्य चेन्निर्विकल्पकम्” – [तत्त्वस॰ पृ॰ ३८५ । प्रमेयक॰ पृ॰ ४८२ । प्रमेयर॰ पृ॰ ७४ । स्या॰ र॰ पृ॰ ९५८ । स्या॰ मं॰ श्लो॰ १३ ।] “ह्यालोचन ज्ञान” – [षङ्द॰ बृह॰ पृ॰ ११ ।] ↩︎

  1589. ततो निर्विकल्पकादुत्तरकाल जात्यादिभिर्विकल्प्य वस्तु यया बुद्ध्या गृहते साऽपि प्रत्यक्षमेवेति । – [मी॰ श्लो॰ न्यायर॰ ।] उद्धृतोऽयम् – [तत्त्वसं॰ पृ॰ ३८५ । प्रमेयक॰ पृ॰ ४८२ । स्या॰ र॰ ९५८ ।] ↩︎

  1590. मनोराज्यादिविकल्पादपि वस्तुसिद्धिप्रसङ्गात् । ↩︎

  1591. तुलना–विस्फारिताक्षस्य पुरोवर्तिखण्डमुण्डकर्कादिव्यक्तिषु गबाश्वादिजातिवत् मनुष्यव्यक्तिषु मनुष्यत्वपुस्त्वाद्यतिरिक्तब्राह्मणस्य कस्यचिदप्रतिभासात् । – [स्या॰ र॰ पृ॰ ९५८ ।] ↩︎

  1592. “मनुष्यपुस्त्वा–” [आ॰] , [ब॰] । ↩︎

  1593. “–स्त्वाद् व्यति–” [श्र॰] । ↩︎

  1594. “ब्राह्मणस्यै–” [आ॰] , [श्र॰] । ↩︎

  1595. “–गत प्रत्य–” [ब॰] । ↩︎

  1596. “–व्यक्तिषु मनुष्यत्वपुस्त्वादव्यतिरिक्तस्य ब्राह्मणोऽयं” [श्र॰] । ↩︎

  1597. वस्तुमात्रोपलभ्भेनैव । ↩︎

  1598. “–चारी गोप्रत्य–” [आ॰] , [ब॰] । ↩︎

  1599. ब्राह्मणोऽय ब्राह्मणोऽयमिति प्रत्यय । ↩︎

  1600. “महिष्यादि–” [श्र॰] । ↩︎

  1601. “स्वस्वसङ्घे” [ब॰] । ↩︎

  1602. मनुष्यत्व हि स्त्रीषु पुरुषेषु च व्याप्तम्, पुरुषत्वं तु पुरुषमात्र एव । ↩︎

  1603. “–त्वाद्यतिरि–” [ब॰] , [आ॰] । ↩︎

  1604. “जातिः प्रति–” [श्र॰] । ↩︎

  1605. प्रत्यक्षेण । ↩︎

  1606. ब्राह्मण्यम् । ↩︎ ↩︎

  1607. ननु किमिदमिन्द्रियसहकारित्वेनात्रेष्टम्–ब्राह्मणभूतस्वपितृजन्यत्वम्, पितृगोचरोऽविप्लुतत्वोपदेशः, आचारविशेष, संस्कारविशेष, वेदाध्ययनम्, यज्ञोपवीतादिकम्, ब्रह्मप्रभवत्वं वा ? – [स्या॰ र॰ पृ॰ ९५८ ।] ↩︎

  1608. “–जन्मत्वं” [ब॰] । ↩︎

  1609. “तत्राद्यप–” [ब॰] । ↩︎

  1610. तुलना–यत पित्रादिब्राह्मण्यज्ञान प्रमाणमप्रमाण वा ? – [प्रमेयक॰ पृ॰ ४८३ ।] ↩︎

  1611. तच्चानयो ब्राह्मणभूतपितृजन्यत्वात् सिद्ध्येत् तथाभूतपुत्रजनकत्वाद्वा ? – [स्या॰ र॰ पृ॰ ९५९ ।] ↩︎

  1612. “ब्राह्मण्यभूत–” [श्र॰] । ↩︎

  1613. “–ह्मण्यभावेपरा–” [श्र॰] । ↩︎

  1614. “पुत्रब्राह्मण्यसिद्धिः तत्सिद्धौ च ब्राह्मण्यसिद्धिः तत्सिद्धौ च ब्राह्मण–” [आ॰] । ↩︎

  1615. तुलना–न खलु द्विजादिभाव प्रमाणगोचरचारी । स हि जातियोगलक्षण गोत्रलक्षण क्रियासामर्थ्यातिशययोगो वा ? परोपदेशप्रामाण्य प्रत्यक्षार्थे न युक्तिमत् । उपदेशो हि लोकानामन्यथापि प्रवर्तते । – [प्रमाणवार्तिकाल॰ पृ॰ २२ ।] नचोपदेशसहायाध्यक्षगम्य तत्, अध्यक्षविषये उपदेशापेक्षायोगात् । तद्योगे वा उपदेशस्यैव केवलस्य व्यापार इति उपदेशमात्रव्यङ्ग्यतैव । – [सन्मति॰ टी॰ पृ॰ ६९७ ।] ↩︎

  1616. ब्राह्मण्ये नोपदेशो वास्तव प्रमाणतोऽप्रतीयमानत्वात् । ↩︎

  1617. किञ्च, ब्राह्मण्यजातेः प्रत्यक्षतासिद्धौ यथोक्तोपदेशस्य प्रत्यक्षहेतुतासिद्धि, तत्सिद्धौ च तत्प्रत्यक्षतासिद्धिरित्यन्योन्याश्रय । – [प्रमेयक॰ पृ॰ ४८३ । स्या॰ र॰ पृ॰ ९५९ ।] ↩︎

  1618. तुलना–शुद्धिर्वंशद्वयीशुद्धौ पित्रो पित्रोर्यदेकश । तदानन्तकुलादोषाददोषा जातिरस्ति का । कामिनीवर्गससर्गैर्न क सङ्क्रान्तपातकः । – [नैषध॰ १७ । ४०–४१ ।] अविप्लुतत्वञ्च विवक्षितपित्रपेक्षया अनादिकालपितृप्रवाहापेक्षया वाऽभिप्रेतम् ? यदि विम्बक्षितपित्रपेक्षया; तत्राप्यनयोस्तज्जन्मन्यविप्लुतत्वमभिमतमनादिकाले वा ? तज्जन्मनि चेत्, तर्हि केन तत्र तयो प्रतीयेत पुत्रेण अन्यैर्वा ? – [स्या॰ र॰ पृ॰ ९५९ ।] ↩︎

  1619. “तज्जन्यविप्लुत–” [श्र॰] । ↩︎

  1620. विवक्षितपित्रपेक्षया तज्जन्मन्यविप्लुतत्वम् । ↩︎

  1621. नच पित्रोरविप्लुतत्वे किञ्चिल्लिङ्गमस्ति, तद्वि द्धि सवृताकारादिविशेष अपत्येष्वविलक्षणता वा ? – [स्या॰ र॰ पृ॰ ९५९ ।] ↩︎

  1622. “पितृविप्लु–” [आ॰] , [ब॰] । ↩︎

  1623. तुलना– नच विप्लुतेतरपित्रपत्येषु वैलक्षण्य लक्ष्यते । न खलु वडवाया गर्दभाश्वप्रभवापत्येष्विव ब्राह्मण्या ब्राह्मणशूद्रप्रभवापत्येष्वपि वैलक्षण्य लक्ष्यते । – [प्रमेयक॰ पृ॰ ४८३ । स्या॰ र॰ पृ॰ ९५९ ।] न च जात्यन्तरस्थेन पुरुषेण स्त्रिया क्वचित् । क्रियते गर्भसभूतिर्विप्रादीना तु जायते ॥ अश्वाया रासभेनास्ति सभवोऽस्येति चेन्न स । नितन्तमन्यजातिस्थः शफादितनुसाम्यतः ॥ यदि वा तद्वदेव स्याद् द्वयोर्विसदृश सुत । नात्र दृष्ट तथा तस्माद्गुणैर्वर्णव्यवस्थितिः ॥ – [पद्मपु॰ ११ । १९६-९८ ।] वर्णाकृत्यादिभेदाना देहेस्मिन्न च दर्शनात् । ब्राह्मण्यादिषु शूद्राद्यैर्गर्भाधानप्रवर्तनात् ॥ नास्ति जातिकृतो भेदो मनुष्याणा गवाश्ववत् । आकृतिग्रहणात्तस्मादन्यथा परिकल्प्यते ॥ – [उत्तरपु॰ ७४ । ४९१–९२ ।] ↩︎

  1624. “–पितृभवा–” [ब॰] । ↩︎

  1625. विप्लुतेतरप्रभवापत्येषु विलक्षणाकारता । ↩︎

  1626. तुलना–न च वेदवच किञ्चित् द्विजातित्वप्रसाधकम् । व्यक्ते सामान्यवचनमनुक्तसममेव तत् ॥ – [प्रमाणवार्तिकालं॰ पृ॰ २५ ।] ↩︎

  1627. “–द्वानयो” [ब॰] । ↩︎

  1628. आगमप्रतिपादकेन । ↩︎

  1629. “भजते तन्न” [श्र॰] । ↩︎

  1630. अविप्लुतत्वप्रतिपत्तिः । ↩︎

  1631. पित्रोरविप्लुतत्वप्रतीति । ↩︎

  1632. तुलना– यदाहु–अनादाविह ससारे दुर्वारे मकरध्वजे । कुले च कामिनीमूले का जातिपरिकल्पना ॥ – [नैषध॰ टी॰ १७ । ४० ।] अनादिगोत्रपद्धत्यामस्या न स्खलन स्त्रिया । इति ज्ञान कथन्नाम कामार्ता हि सदा स्त्रिय ॥ ब्राह्मणत्वे स्थिते पूर्वं तद्गोत्रत्वस्य सभव । तदाऽस्थिते कथं गोत्र सेयमन्धपरम्परा ॥ – [प्रमाणवार्तिकाल॰ पृ॰ २५ ।] अतीतश्च महान् कालो योषिताञ्चातिचापलम् । तद् भवत्यपि निश्चेतु ब्राह्मणत्व न शक्यते ॥ अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति व । त्वदन्वयविशुद्धिञ्च नित्यो वेदोऽपि नोक्तवान् ॥ – [तत्त्वसं॰ का॰ ३५७९–८० ।] प्रायेण प्रमादाना कामातुरतया इहजन्मन्यपि व्यभिचारोपलम्भात्कुतो योनिनिबन्धनो वाह्मण्यनिश्चयः । – [प्रमेयक॰ पृ॰ ४८२ ।] अनादिगोत्रपद्धतौ च कामार्तत्वात् सर्वदा प्रमदाना कस्याश्चिद् व्यभिचारसभवात् कुतो योनिनिबन्धनब्राह्मण्यनिश्चयात् सस्कारस्य अध्ययनादेश्च अविपर्यस्तत्वनिश्चय । – [सन्मति॰ टी॰ पृ॰ ६९८ । स्या॰ र॰ पृ॰ ९६० ।] न विप्राविप्रयोरस्ति सर्वदा शुद्धशीलता । कालेनानादिना गोत्रे स्खलन क्व न जायते ॥ – [धर्मप॰ १७ । २८ ।] ↩︎

  1633. “व्याप्य इ–” [श्र॰] । ↩︎

  1634. “–प्रवृत्तकाप्रकाशानां” [ब॰] । ↩︎

  1635. अध्यापनमध्ययन यजन याजनं तथा । दानं प्रतिग्रहञ्चैव ब्राह्मणानामकल्पयत् ॥ – [मनुस्मृ॰ १ । ८८ ।] ↩︎

  1636. तुलना–अथाध्ययनादिना क्रियाविशेषेण ज्ञायते नोपदेशमात्रात्; तदप्यसत्, द्विजातित्वे क्रिया साध्या न क्रियार्तो द्विजातिता । वचनादपि नैवास्या प्रतीतिरविरोधिनी ॥ – [प्रमाणवार्तिकाल॰ पृ॰ २३ ।] जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत् । आचारा सावृतास्ते हि कृत्रिमेष्वपि भाविन ॥ – [तत्त्वस॰ का॰ ३५७८ ।] अत एवाध्ययन क्रियाविशेषो वा तत्सहायता न प्रतिपद्यते । दृश्यते हि शूद्रोऽपि स्वजातिविलोपाद्देशान्तरे ब्राह्मणो भूत्वा वेदाध्ययन तत्प्रणीताञ्च क्रिया कुर्वाण । – [प्रमेयक॰ पृ॰ ४८५ ।] अव्याप्तेरतिव्याप्तेश्चानुषङ्गात् – [स्या॰ र॰ पृ॰ ९६० ।] ↩︎

  1637. “आचारस्तत्र” [ब॰] , [आ॰] । ↩︎

  1638. शूद्रादिषु । ↩︎

  1639. ब्राह्मण्यप्रत्यक्षताम् । ↩︎

  1640. तुलना–एतेन सस्कारविशेषस्य वेदाध्ययनस्य यज्ञोपवीतादेश्च चक्षु सहकारिता प्रत्युक्ता, अव्याप्त्यतिव्याप्त्योरत्राप्यविशेषात् । – [स्या॰ र॰ पृ॰ ९६१ ।] ↩︎

  1641. “–व्याप्त्योस्तत्रा–” [श्र॰] । ↩︎

  1642. “–त्वानुपपत्ते” [श्र॰] । ↩︎

  1643. “–वत्त्वसाधनत्वं गत्वे” [ब॰] । ↩︎

  1644. ब्राह्मण्यप्रत्यक्षतानिबन्धनत्वे । ↩︎

  1645. तुलना–ब्रह्मणोऽपत्यतामात्रात् ब्राह्मण्येति प्रसज्यते । न कश्चिदब्रह्मतनोरुत्पन्न क्वचिदिष्यते ॥ अन्तरा जातिभेदश्चेन्निर्निमित्त कथं भवेत् । अन्तराले क्रियाभेदात् गोत्रेणार्थो न कस्यचित् ॥ अथ द्विजादिगोत्राणामनादिर्भेद इष्यते । ज्ञायता स कथन्नाम प्रमाणस्याप्रवृत्तित ॥ क्रिया तदपरिज्ञानादक्रियैव प्रसज्यते । अविच्छेदश्च गोत्रस्य प्रत्येतु शक्यते न च ॥ सूतमागधचाण्डाला कथ सभविनोऽन्यथा । ज्ञायन्त एव ते तज्ज्ञैरिति चेन्नियमो न हि ॥ – [ प्रमाणवार्तिकाल॰ पृ॰ २४ ।] ↩︎

  1646. ब्रह्मप्रभवतया । ↩︎

  1647. तुलना–किञ्च, ब्रह्मणो ब्राह्मण्यमस्ति वा न वा ? नास्ति चेत्, कथमतो ब्राह्मणोत्पत्ति ? अस्ति चेत्; किं सर्वत्र मुखप्रदेश एव वा ? – [प्रमेयक॰ पृ॰ ४८४ । स्या॰ र॰ ९६१ ।] ↩︎

  1648. अब्राह्मणाद् ब्रह्मण । ↩︎

  1649. “–त्तिः प्रतीयते” [ब॰] , “–त्तिता प्रतीता” [श्र॰] । ↩︎

  1650. सर्वत्र शरीरावयवेषु मुखादिपादान्तेषु । ↩︎

  1651. पादादिषु । ↩︎

  1652. तुलना–किञ्च, ब्राह्मण एव तन्मुखाज्जायते तन्मुखादेवासौ जायेत ? – [प्रमेयक॰ पृ॰ ४८४ ।] ↩︎

  1653. “–देव चासौ” [आ॰] , [ब॰] । ↩︎

  1654. ब्राह्मणस्यैव । ↩︎

  1655. [पृ॰ ७६९ पं॰ ८ ।] ↩︎

  1656. [पृ॰ ७६९ प॰ १३ ।] ↩︎

  1657. तुलना–यतो यदि व्यक्त्यादिभ्यो व्यतिरिवत निमित्तमात्रमस्य ज्ञानस्य विषयत्वेन साध्यते तदा सिद्धसाध्यता, तत्समुदायस्य समुदायिभ्य कथञ्चिदव्यतिरिक्तस्य तद्विषयत्वेन स्वीकारात् । अथ प्रतिव्यक्ति परिसमाप्तमेकान्तव्यतिरिक्तमभिधीयते; तदा पक्षस्य प्रतिपक्षबाधितत्वम्, कठकलापादिब्राह्मणव्यक्तिषु हि ब्राह्मणज्ञानं व्यक्त्यादिव्यतिरिक्तसामान्यनिमित्तरहितमेवाध्यक्षत प्रतीयते अश्रावणत्वविविक्तशब्दवत् । – [स्या॰ र॰ पृ॰ ९६१ । प्रमेयक॰ पृ॰ ४ । ८५ ।] ↩︎

  1658. “अथप्रसिद्ध–” [श्र॰] । ↩︎

  1659. जैनानाम् । ↩︎ ↩︎ ↩︎ ↩︎

  1660. “व्यतिरिक्तस्य सामान्यस्योभामभ्यु–” [आ॰] । ↩︎

  1661. व्यक्तिभ्यो कथञ्चिद् भिन्नाभिन्नस्य । ↩︎

  1662. “–भाभ्याभ्युप–” [श्र॰] । ↩︎

  1663. मीमासकजैनाभ्याम् । ↩︎

  1664. व्यक्तिभ्यो भिन्नाना सत्तात्त्व-आकाशत्व-कालत्वअद्वैतन्वादीना सम्बन्धस्वीकारे । ↩︎

  1665. “सामान्यनि सा–” [आ॰] । ↩︎

  1666. अद्वैतस्य सकलशून्यतायाश्च सिद्धिप्रसङ्गात् । ↩︎

  1667. [पृ॰ ५४६ ।] ↩︎

  1668. [पृ॰ ७६९ प॰ १८ ।] ↩︎

  1669. तुलना–नगरादिज्ञानवत् व्यतिरिक्तनिबन्धनाभावेऽपि तथाभूतज्ञानस्य कथञ्चिदुपपत्ते । न हि नगरादिज्ञानेऽपि व्यतिरिक्त द्रव्यान्तरमस्ति यदेकाकारज्ञाननिबन्धन भवेत्, काष्ठादीनामेव प्रत्यासत्त्या कयाचित् प्रासादादिव्यवहारनिबन्धनाना नगरादिव्यवहारनिबन्धनत्वोपपत्ते, अन्यथा षण्णगरीत्यादिष्वपि वस्त्वन्तरकल्पनाप्रसक्ते । – [सन्मति॰ टी॰ पृ॰ ६९७ । प्रमेयक॰ पृ॰ ४८५ । स्या॰ र॰ पृ॰ ९६१ ।] ↩︎

  1670. “–निबन्धनाभावेपि” [आ॰] , [श्र॰] । ↩︎

  1671. गृहाणाम् । ↩︎ ↩︎

  1672. सयोगस्य गुणत्वेन द्रव्याश्रितत्वात् । ↩︎

  1673. द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् [वैशे॰ सू॰ १ । १ । १०] इति नियमात् । ↩︎

  1674. सत्ता । ↩︎

  1675. नगरमिति प्रत्ययम् । ↩︎

  1676. सत्तात । ↩︎

  1677. सत्ताया । ↩︎

  1678. गृहादे । ↩︎

  1679. “–त्वात् कि–” [ब॰] । ↩︎

  1680. यदि गृहादय सत्ताया कञ्चिदतिशयमुत्पादयन्ति तदा । ↩︎

  1681. सत्ताया नित्यैकरूपताव्याघात । ↩︎

  1682. गृहादीनाम् । ↩︎

  1683. एकेन गृहेण सयुक्तमपर गृह तेन चापरमिति सयुक्तसयोगाद् यदल्पीयस्त्वम् अल्पदेशावगाहित्व तत्र । ↩︎

  1684. “–णप्रत्यासत्ति–” [ब॰] । ↩︎

  1685. पुरुषस्य । ↩︎

  1686. प्रतिपत्तिप्रवृत्तिप्राप्तय । ↩︎

  1687. तुलना–सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्तिसिद्धे, वनशब्दाच्च धवखदिरपलाशादावनेकत्रार्थे । यत्र हि शब्दात् प्रतीतिप्रवृत्तिप्राप्तय समधिगम्यन्ते स शब्दस्यार्थ प्रसिद्धस्तथा बृद्धव्यवहारात् । न च सेनावनादिशब्दात् प्रत्यासत्तिविशेषे प्रतीतिप्रवृत्तिप्राप्तयोऽनुभूयन्ते येन स तस्यार्थ स्यात् । – [आप्तप॰ का॰ ४ ।] ↩︎

  1688. “–तात्तत्प्रतिपत्त्या–” [आ॰] । ↩︎

  1689. “–विशिष्टप्रासा–” [श्र॰] । ↩︎

  1690. नगरादिव्यपदेशस्य । प्रासादतोरणपुरुषादीना समुदायो नगरम् । – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ १२७ ।] ↩︎

  1691. अवयविद्रव्यस्य । ↩︎

  1692. [पृ॰ २३९ ।] ↩︎

  1693. नैयायिकादिमते । ↩︎

  1694. “–क्तनिबन्ध–” [आ॰] । ↩︎

  1695. ब्राह्मण्ये । ↩︎

  1696. लिङ्गम् । ↩︎

  1697. ब्राह्मण्यप्रतीति । ↩︎

  1698. नाप्यागमतः, यतोऽसौ पौरुषेयो वा स्यादपौरुषेय – [स्या॰ र॰ पृ॰ ९६२ । सन्मति॰ टी॰ पृ॰ ६९८ ।] ↩︎

  1699. आम्नायस्य क्रियार्थत्वात्–क्रिया कथमनुष्ठेयेति ता वदितु समाम्नातारो वाक्यानि समामनन्ति । – [जैमिनिसू॰, शाबरभा॰ १ । २ । १ ।] ↩︎

  1700. आगमात् । ↩︎

  1701. वक्तु प्रतिपाद्यविषयज्ञानस्य प्रमाणत्वे सिद्ध एव तत्प्रणीतागमस्य प्रामाण्यम् । ↩︎

  1702. ““तस्य चात्रासम्भवात्”” नास्ति [आ॰] । ↩︎

  1703. ब्राह्मण्यसदृशवस्तुदर्शनात् । ↩︎

  1704. [पृ॰ ७६८ पं॰ ६ ।] ↩︎

  1705. [पृ॰ ७६८ प॰ ७ ।] ↩︎

  1706. तुलना–काञ्चनाद्युपदेशस्य हि यदाऽसत्यताशङ्का तदा प्रत्यक्षदर्शनादसौ निवर्तते नैव जात्याद्युपदेशस्यासत्यताशकाया प्रत्यक्षात् सत्यता जातिस्वरूपग्रहणाकारात् । सुवर्णादौ हि रूपविशेषसद्भावात् एवम्भूतमेव सुवर्णं भवतीति व्यवहारस्य परिसमाप्तेर्दृष्टस्य न काचित्क्षति, अत्र तु पुनरेवविधमेव ब्राह्मण्यमिति न पादप्रसारणमात्रं त्राणम् । – [प्रमाणवार्तिकाल॰ पृ॰ २२ ।] यतो न पीततामात्र सुवर्णम् – [प्रमेयक॰ पृ॰ ४८४ ।] ↩︎

  1707. “तुषटुसप्रक्षा–” [आ॰] , “तुषबुसप्रक्षा–” [श्र॰] । ↩︎

  1708. “परपक्षादेश्च” [ब॰] । ↩︎

  1709. दाहच्छेदतुषाम्बुप्रक्षालनादेः । ↩︎

  1710. सुवर्णादिप्रतिपत्तौ । ↩︎

  1711. तच्चाकारविशेषो वा स्यादध्यनादिक वा ? – [प्रमेयक॰ पृ॰ ४८४ ।] ↩︎

  1712. ब्राह्मण्यप्रतिपत्तौ । ↩︎

  1713. [पृ॰ ७६८ प॰ १३ ।] ↩︎

  1714. “अशेषतो” [ब॰] । ↩︎

  1715. “भगवता” [श्र॰] । ↩︎

  1716. तुलना–न जटाहि न गोत्तेहि न जच्चा होति ब्राह्मणो । यम्हि सच्चञ्च धम्मो च सो सुची सो च ब्राह्मणो ॥ न चाह ब्राह्मण ब्रूमि योनिज मत्तिसभव । “भो वादि” नाम सो होति स वे होति सकिञ्चनो । अकिञ्चन अनादान तमह ब्रूमि ब्राह्मण ॥ – [धम्मप॰ गा॰ ३९३, ३९६ ।] कम्मुणा बभणो होइ कम्मुणा होइ खत्तिओ । वईसो कम्मुणा होइ सुद्दो हवै कम्मुणा ॥ – [उत्तरा॰ २५ । ३३ ।] तस्माद् गुणैर्वर्णव्यवस्थिति । ऋषिशृगादिकाना च मानवाना प्रकीर्त्यते । ब्राह्मण्य गुणयोगेन न तु तद्योनिसभवात् ॥ चातुर्वर्ण्यं यथान्यच्च चाण्डालादिविशेषणम् । सर्वमाचारभेदेन प्रसिद्धि भुवने गतम् ॥ – [पद्मपु॰ ११ । १९८–२०५ ।] मनुष्यजातिरेकैव जातिनामोदयोद्भवा । वृत्तिभेदाहिताद् भेदाच्चातुर्विध्यमिहाश्नुते ॥ ब्राह्मणा ब्रतसस्कारात् क्षत्रिया शस्त्रधारणात् । वणिजोऽर्थार्जनान्न्याय्यात् शूद्रा न्यग्वृत्तिसश्रयात् ॥ – [आदिपु॰ ३८ । ४५–४६ ।] आचारमात्रभेदेन जातीना भेदकल्पनम् । न जातिर्ब्राह्मणीयास्ति नियता क्वापि तात्त्विकी ॥ ब्राह्मणक्षत्रियादीना चतुर्णामपि तत्त्वत । एकैव मानुषी जातिराचारेण विभिद्यते । गुणै सम्पद्यते जातिर्गुणध्वसाद्विपद्यते । – [धर्मप॰ १७ । २४–३२ ।] महाभाष्येऽपि “गुणवाचिन ब्राह्मणादिशब्दा” इति पक्षोप्युपन्यस्त । तथाहि–अथवा सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते ब्राह्मण क्षत्रियो वैश्य शूद्र इति । – [पात॰ महाभा॰ २ । २ । ६ ।] क्रियाविशेषयज्ञोपवीतादिचिह्नोपलक्षिते व्यवितविशेषे तद्व्यवस्थायास्तद्व्यवहारस्य चोपपत्ते । तत क्रियाविशेषादिनिबन्धन एवाय ब्राह्मणादिव्यवहार । – [प्रमेयक॰ पृ॰ ४८६ । स्या॰ र॰ पृ॰ ९६२ ।] ↩︎

  1717. “तन्न तवकल्पि–” [ब॰] । ↩︎

  1718. “क्रियानिबन्धन” [ब॰] । ↩︎

  1719. तुलना–तत संव्यवहारमात्रप्रसिद्ध ब्राह्मण्यम् । – [प्रमाणवार्तिकालं पृ॰ २६ ।] ↩︎

  1720. यदि क्रियाविशेषनिबन्धनो ब्राह्मण्यादिव्यवहारो न स्यात्तदा । तुलना–कथमन्यथा वेश्यापाटकादिप्रविष्टाना ब्राह्मणीना ब्राह्मण्याभावो भवेत् – [स्या॰ र॰ पृ॰ ९६२ । प्रमेयक॰ पृ॰ ४८६ ।] ↩︎

  1721. “ब्राह्मणानां” [ब॰] । ↩︎

  1722. जाति । ↩︎

  1723. मीमासकनैयायिकमतेन । ↩︎

  1724. अन्यथा गोत्वादपि ब्राह्मण्य निकृष्टं स्यात् । – [प्रमेयक॰ पृ॰ ४८६ ।] ↩︎

  1725. “चाण्डालादीनां गृहे” [श्र॰] । ↩︎

  1726. ब्राह्मणीनाम् । ↩︎

  1727. घटामस्तकयोरन्तरालवर्ती मासपिपडोऽन्तर्गडु – [प्रमाणवा॰ स्ववृ॰ टी॰ पृ॰ १६८ ।] ↩︎

  1728. “ब्राह्मण्यव्य–” [आ॰] , [श्र॰] । ↩︎

  1729. तुलना–किञ्च क्रियानिवृत्तौ – [प्रमेयक॰ पृ॰ ४८७ ।] ↩︎

  1730. क्रित्या । ↩︎

  1731. ब्राह्मण्यजाते । ↩︎ ↩︎

  1732. उद्धृतमिदम् – [प्रमेयक॰ पृ॰ ४८७ ।] ↩︎

  1733. सस्कृतशब्दोच्चारणात् । ↩︎

  1734. धर्म । ↩︎

  1735. अवितथार्थाभिधायित्वलक्षणं साधुत्वम् । ↩︎

  1736. “इति” [आ॰] । ↩︎

  1737. ““शब्दाः”” नास्ति [आ॰] । ↩︎

  1738. “तद्वाचकमि–” [श्र॰] । ↩︎

  1739. “इत्याह” [ब॰] । ↩︎

  1740. “सुषुप्तादीनामि–” [श्र॰] , “सुषुप्त्यादौ इ–” [ब॰] । ↩︎

  1741. विवक्षाभावे । ↩︎

  1742. “अपरस्य” [ब॰] । ↩︎

  1743. “–त्मलाभ इति” [आ॰] , [ब॰] । ↩︎

  1744. बहिरर्थाविषयत्वात् । ↩︎

  1745. शब्दो बहिरर्थविषय बहिरर्थे प्रवृत्त्यादिहेतुत्वात् । ↩︎

  1746. “–तुस्तद्वि–” [आ॰] । ↩︎

  1747. तुलना–प्रत्यक्षादिव शब्दाद् बहिरर्थप्रतीतिसिद्धे । यथैव हि प्रत्यक्षात् प्रतिपत्तृप्रणिधानसामग्रीसव्यपेक्षात् प्रत्यक्षार्थप्रतिपत्ति तथा सङ्केतसामग्रीसापेक्षादेव शब्दाच्छब्दार्थप्रतिपत्ति सकलजनप्रसिद्धा, अन्यथा ततो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्त्ययोगात् । न चार्थवेदनादेव अर्थे पुरुषस्यार्थिन स्वयमेव प्रवृत्ते शब्दोऽप्रवर्त्तक इत्येव वक्तु युक्तम्, प्रत्यक्षादेरप्येवमप्रवर्तकत्वप्रसङ्गात्, तदर्थेऽपि सर्वस्याभिलाषादेव प्रवृत्ते । – [अष्टसह॰ पृ॰ २१ । प्रमेयक॰ पृ॰ ४४९ ।] ↩︎

  1748. प्रत्यक्षविषयीभूतेऽप्यर्थे । ↩︎

  1749. प्रत्यक्षे । ↩︎

  1750. प्रवर्त्तकत्वव्यपदेशे । ↩︎

  1751. परम्परया प्रवर्तकत्वम् । ↩︎

  1752. का चेय विवक्षा नाम–किं शब्दोच्चारणेच्छामात्रम् – [प्रमेयक॰ पृ॰ ४५० ।] ↩︎

  1753. “–श्रवणयनादौ” [आ॰] । ↩︎

  1754. तुलना–किञ्च, समयानपेक्षं वाक्यं तादृशमभिप्रायं गमयेत् तत्सापेक्षं वा ? – [प्रमेयक॰ पृ॰ ४५० ।] ↩︎

  1755. “तुषुप्त्यादौ” [ब॰] । ↩︎

  1756. “–पनीत” [ब॰] । ↩︎

  1757. “अशब्दाद्युच्चा–” [श्र॰] । ↩︎

  1758. “न तु अभि–” [आ॰] , [ब॰] । ↩︎

  1759. “इत्याह तत्र तन्मात्रे” [ब॰] , “इत्यत्राह तत्र तन्मात्रे” [आ॰] । ↩︎

  1760. “चित्तत्तत्र” [श्र॰] । ↩︎

  1761. अभिप्रायमात्रे । ↩︎

  1762. “बहिश्छद्मस्थव्य–” [ब॰] । ↩︎

  1763. बहिरर्थे । ↩︎

  1764. “यादृशोऽर्थे सकेतित तादृश शब्द” [आ॰] । ↩︎

  1765. ““कालान्तरे च”” नास्ति [ब॰] , [श्र॰] । ↩︎

  1766. “–क्षोऽनादि–” [ब॰] । ↩︎

  1767. व्याख्या–ते प्रागुक्तलक्षणा नया भवन्ति । के ? ते । श्रुतस्य सकलादेशस्य आगमस्य भेदा विकल्पा विकलादेशा । कति ? सप्त । कुत नैगमादिप्रभेदत ? किं विशिष्टा ? द्रव्यपर्यायमूला । तत्र द्रव्यस्य स्वरूपमाह–द्रव्य सामान्य भवति । किं विशिष्टम् ? एकान्वयानुगम्, एकञ्चान्वयश्च एकान्वयौ तावनुगच्छति व्याप्नोतीत्येकान्वयानुगम् । तत्रैकानुगम् अर्थता ऊर्ध्वता सामान्य पूर्वापरव्यापकम्, सदृशपरिणामलक्षण तिर्यक्सामान्यमन्वयानुगम् । पुन किं विशिष्टम् ? निश्चयात्मकम्, निर्गतश्चयः पर्यायान्तरसङ्करो यस्मादसौ निश्चय पर्याय स आत्मा यस्य तत्तथोक्तम् । अपि पुनरन्य पर्यायो विशेषो भवति । किं विशिष्ट ? व्यतिरेकपृथक्त्वग, व्यतिरेकश्च पृथक्त्वञ्च ते गच्छति तादात्म्येन परिणमतीति स तथोक्त । तत्र व्यतिरेक एकस्मिन् द्रव्ये क्रमभाविपर्याय । पृथक्त्वग पुनरर्थान्तरगतो विसदृशपरिणाम । तु पुनर्निश्चयव्यवहारौ मूलनयौ आश्रितौ आलम्बितवन्तौ । किम् ? द्रव्यपर्यायम् । द्रव्य श्रितो निश्चयनय द्रव्यार्थिक इत्यर्थ । पर्यायाश्रितो व्यवहारनय पर्यायार्थिक इत्यर्थ । – [लघी॰ ता॰ पृ॰ ८८ ।] ↩︎

  1768. तुलना–सत्त मूलणया पण्णत्ता । तं जहा णेगमे, सङ्गहे, ववहारे, उज्जुसुए, सद्दे, समभिरूढे, एवभूए । – [ स्या॰ ७ । १९ । अनुयोग॰ १३६ ।] नैगमसग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नया । – [तत्त्वार्थ॰ १ । ३४ ।] नेगमसङ्गहबबहारुज्जुसुए होइ बोधव्वे । सद्दे य सममिरूढे एवभूए य मूलनया । – [आव॰ नि॰ गा॰ ७५४ ।] नैगमसग्रहव्यवहारर्जुसूत्रशब्दा नया । आद्यशब्दौ द्वित्रिभेदौ । – [तत्त्वार्थाधि॰ १ । ३४, ३५ ।] सिद्धसेनदिवाकरास्तु षङ् नयान् स्वीकुर्वन्ति, तन्मतानुसारेण नैगमस्य सग्रहव्यवहारयोरन्तर्भावात् । द्रष्टव्यम् – [सन्मति॰ १ । ४, ५ ।] ↩︎

  1769. “–रेकापृथ–” मु॰ लघी॰ । ↩︎

  1770. तुलना–उत्पन्नाविनष्टार्थग्राहक साम्प्रतकालविषय मतिज्ञान श्रुतज्ञानं तु त्रिकालविषयम् उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् । – [तत्त्वार्थाधि॰ भा॰ १ । २० ।] ↩︎

  1771. “–मतिभिन्नार्थवि–” [ई॰ वि॰] । ↩︎

  1772. तुलना–अर्थान्तरगतो विसदृशपरिणामो व्यतिरेक गोमहिषदिवत । – [परीक्षामृ॰ ४ । ९ ।] ↩︎

  1773. “–मूर्त्तित्व–” [ज॰ वि॰] । ↩︎

  1774. तुलना–तित्थयरवयणसगह विसेसपत्थारमूलवागरणी । दव्वट्ठिओ य पज्जवणओ य सेसा वियप्पासिं ॥ – [सन्मति॰ १ । ३ ।] ↩︎

  1775. तुलना– प्रमाणात्मक एवायमुभयग्राहकत्वत । इत्ययुक्तमिह ज्ञप्ते पधानगुणभावत ॥ प्राधान्येनोभयात्मानमर्थं गृह्णद्धि वेदनम । प्रमाणं नान्यदित्येतत्प्रपञ्चेन निवेदितम् ॥ – [तत्वार्थश्लो॰ पृ॰ २६९ ।] ↩︎

  1776. “–वक्त्रभि–” [ब॰] [श्र॰] । ↩︎

  1777. “–त्मकं पृथग्द्रव्यमेय निश्चयात्मक किन्तु” [श्र॰] । ↩︎

  1778. मते । ↩︎

  1779. “इत्याह–” [ब॰] । ↩︎

  1780. इन्द्रियजनिता मति । ↩︎

  1781. इन्द्रियमतिविषयभूतस्य अर्थस्यैव । ↩︎

  1782. अर्थादर्थान्तरानुगमरूपेण, विचारात्मकत्वान्मनोमते । ↩︎

  1783. मनोमत्या । ↩︎

  1784. “तत्रैव श्रुतभेदत्वेन व्यव–” [ब॰] । ↩︎

  1785. “द्रव्यमित्यादि द्रव्यमित्यनुवर्त्तते” [ब॰] , “द्रव्यमित्यादि इत्यनुवर्त्तते” [श्र॰] । ↩︎

  1786. “–ह सदृश–” [आ॰] , [ब॰] । ↩︎

  1787. “–पेक्ष एक–” [ब॰] । ↩︎

  1788. “–ञ्च युगपत्क्रमभाविनाञ्च युगपत्क्रमभाविनां क्ष–” [आ॰] । ↩︎

  1789. ““समानपरिणामातिशये”” नास्ति [श्र॰] , “समानपरिणामप्रकर्षे” [ब॰] । ↩︎

  1790. न हि अग्नित्वेनापरिणत अपेक्षात अनग्निव्यावृत्त्यपेक्षया अग्निर्भवति, जलादावपि अनग्निव्यावृत्त्या अग्नित्वप्रसङ्गस्य दुर्वारत्वात् इति भाव । ↩︎

  1791. “–रूपेणातिप्र–” [श्र॰] । ↩︎

  1792. “बुद्ध्यादिसम–” [आ॰] । ↩︎

  1793. ““नानैकसन्तानात्मनाम्”” नास्ति [श्र॰] । ↩︎

  1794. सौगतः । ↩︎

  1795. “तथा च तेन” [ब॰] , “तथा तेन” [आ॰] । ↩︎

  1796. “–सन्तानानामपि” [ब॰] । ↩︎

  1797. अद्वैतवादी । ↩︎

  1798. पुरुषः ब्रह्मरूपो भवतु । ↩︎

  1799. “–गः अनेकत्वं” [आ॰] , [श्र॰] । ↩︎

  1800. “तद्द्रव्यमे–” [श्र॰] । ↩︎

  1801. “निश्चयाद्” [आ॰] , [ब॰] । ↩︎

  1802. “–केन्द्रियभेदोपि” [ब॰] । ↩︎

  1803. “पर्याया क इ–” [ब॰] । ↩︎

  1804. “–दनवस्था–” [श्र॰] । ↩︎

  1805. “गोमहिषादि–” [श्र॰] [ब॰] । ↩︎

  1806. स्पर्शरसगन्धवर्णवन्त पुद्गला । – [तत्त्वार्थसू॰ ।] ↩︎

  1807. रूपरसगन्धादि । ↩︎

  1808. वैशेषिक । ↩︎

  1809. तुलना – [पृ॰ २३८ टि॰ ४ ।] ↩︎

  1810. [पृ॰ २३८ ।] ↩︎

  1811. तुलना–रूप मूर्तिरित्यर्थः । मूर्तिः ? रूपादिसस्थानपरिणामो मूर्ति । – [सर्वार्थसि॰ राजवा॰ ५ । ५ ।] ↩︎

  1812. “वा” [श्र॰] । ↩︎

  1813. “प्रतिप्रसवः स्यात्” [आ॰] , [श्र॰] । ↩︎

  1814. असश्चासौ भेद विशेष तस्य प्रसङ्गात् असद्रूपत्वप्रसङ्गादित्यर्थ । ↩︎

  1815. “तत्सभवे वानस्या–” [श्र॰] । ↩︎

  1816. चित्रज्ञानम्, ग्राह्यग्राहकाद्यनेकाकार सवेदनम् ग्राह्याद्याकारराहित्य-सवेदनापेक्षया प्रत्यक्षपरोक्षात्मक सवेदन वा । ↩︎

  1817. सकलशून्यता । ↩︎

  1818. [पृ॰ १३३ ।] ↩︎

  1819. सुखाद्यनेकाकारम् । ↩︎

  1820. “स्याद्वादवचनं” [आ॰] । ↩︎

  1821. “प्रसारस्य” [श्र॰] । ↩︎

  1822. “प्रकारभूता–” [श्र॰] । ↩︎

  1823. अभिप्रायवतो ज्ञानस्य । ↩︎

  1824. “–भिसम्बन्धे प्र–” [आ॰] , [श्र॰] । ↩︎

  1825. व्याख्या–स्यात् । क ? नैगमो नय । का ? विवक्षा अभिप्राय । कयो ? धर्मयो एकत्वानेकत्वयो । केन ? गुणप्रधानभावेन । क्व ? एकधर्मिणि एकोऽभिन्नो धर्मी द्रव्यं तस्मिन् । तदाकृति तस्य नैगमस्य आकृतिराभास स्यात् । का ? अत्यन्तभेदोक्ति अत्यन्तो निरपेक्ष भेदो नानात्व तस्योक्तिर्वचन नैयायिकाद्यभिप्रायो नैगमाभास इत्यर्थ । – [लघी॰ ता॰ पृ॰ ९० ।] ↩︎

  1826. “–णामं” [ज॰ वि॰] । ↩︎

  1827. “–भूतावि–” [ज॰ वि॰] । ↩︎

  1828. “निगमे” [ज॰ वि॰] । ↩︎

  1829. “–भिसम्बन्धिः” [आ॰] । ↩︎

  1830. विषय यत्प्रमाण तद्रूपताम् । ↩︎

  1831. “–पद्यते” [आ॰] , [श्र॰] । ↩︎

  1832. सुखमाह्लादनाकार विज्ञान मेयबोधनम् – [न्यायवि॰ ।] द्रष्टव्यम् – [अकलङ्कग्र॰ परि॰ पृ॰ ५८ ।] ↩︎

  1833. “चात्मा” [ब॰] । ↩︎

  1834. “–सम्बन्धिः” [श्र॰] । ↩︎

  1835. “वेत्यादि” [आ॰] । ↩︎

  1836. “नैगमो यतः” [ब॰] , [श्र॰] । ↩︎

  1837. व्याख्या–समस्तस्य जीवाजीवविशेषस्य ऐक्येन ऐकत्वेन सग्रहात् सक्षिष्य ग्रहणात् । कथमनेकस्य सक्षेपणमित्याशङ्क्याह–सदभेदात्, सत् सत्त्वसामान्य सच्चासावभेदश्च तमाश्रित्य । नहि सत्त्वात् किञ्चिद् भिन्नमस्तीति वक्तु युक्त विरोधात् । दुर्नय सङ्ग्रहाभास स्यात् । क ? ब्रह्मवाद सत्ताद्वैतम् । कुत ? तत्स्वरूपानवाप्तित, तस्य परपरिकल्पितब्रह्मण स्वरूप भेदप्रपञ्चशून्य सन्मात्र तस्यानवाप्ति प्रमाणादप्राप्तिस्तत, न खलु तत् प्रत्यक्षादिप्रमाणात् प्राप्यते तथाऽप्रतीते । – [लघी॰ ता॰ पृ॰ ९० ।] ↩︎

  1838. “तस्यौपेयत्वं” [ज॰ वि॰] । ↩︎

  1839. “एकेन” [आ॰] , [ब॰] । ↩︎

  1840. “–दित्याह” [श्र॰] । ↩︎

  1841. [पृ॰ १५० ।] ↩︎

  1842. व्यवहारानुकूल्यात्तु, सग्रहभेदको व्यवहारः तस्यानुकूल्यमविसवाद तस्मादेव । बाध्यमानाना सशयादीना विसवादिना ज्ञानानाम् । तत्र प्रमाणेतरव्यवस्थानिबन्धनत्वात् व्यवहारो नय, अन्यथा तदाभास इत्यर्थ । – [लघी॰ ता॰ पृ॰ ९१ ।] उद्धृतोऽयम्–व्यवहारानुकूल्येन प्रमाणाना प्रमाणता । नान्यथा बाध्यमानाना तेषाञ्च तत्प्रसङ्गत । – [तत्त्वार्थश्लो॰ पृ॰ २७१ ।] तुलना– प्रामाण्य व्यवहारेण – [प्रमाणवा॰ ३ । ५ ।] ↩︎

  1843. “श्रतज्ञानेन” [ज॰ वि॰] । ↩︎

  1844. तुलना–त्रय पदार्थाः अर्थाभिधानप्रत्ययभेदात् – [राजवा॰ पृ॰ १७ । अष्टसह॰ पृ॰ २५१ ।] ↩︎

  1845. “–मात्रे शून्य–” [ज॰ वि॰] । ↩︎

  1846. ““अन्यथा”” नास्ति [आ॰] , [ब॰] । ↩︎

  1847. “–मारबाल” [श्र॰] । ↩︎

  1848. व्यवहाराविसवादात् । ↩︎

  1849. सौगतानाम् । ↩︎

  1850. “इत्याह” [ब॰] , [श्र॰] । ↩︎

  1851. द्रष्टव्यम् – [पृ॰ ६०५ टि॰ ७ ।] ↩︎

  1852. तुलना– गुणाणमासओ दव्व एकदव्वस्सिआ गुणा । लक्खण पज्जवाण तु उभओ अस्सिआ भवे ॥ – [उत्तरा॰ २८ । ६ ।] दव्व सल्लक्खणिय उप्पादव्वयधुवत्तसजुत्त । गुणपज्जयासय वा ज त भण्णन्ति सव्वण्हू ॥ – [ पचास्ति॰ गा॰ १० ।] गुणपर्ययवद्द्रव्यम् – [तत्त्वार्थसू॰ ५ । ३८ । न्यायवि॰ का॰ १११ ।] त परियाण हु दव्वु तुहुँ जं गुणपज्जयजुत्तु । सहभुव जाणहि ताहँ गुण कमभुव पज्जौ उत्तु ॥ – [परमात्मप्र॰ गा॰ ५७ ।] ↩︎

  1853. “संवादस्य तत्र” [आ॰] , [ब॰] । ↩︎

  1854. व्यवहारस्य । ↩︎

  1855. प्राधान्यत मुख्यत्वेन, अनेन गौणत्वेन द्रव्यमप्यपेक्षत इत्यर्थ । तु पुनस्तदाभासो भवति । किं विशिष्ट ? एकत्वविक्षेपी, एकत्व द्रव्य विक्षिपति निराकरोत्येवशील एकत्वविक्षेपी । कथम् ? सर्वथा प्राधान्यतोऽप्राधान्यतश्च, पुन किं विशिष्ट ? अलौकिक लोको व्यवहारस्तत्प्रयोजनो लौकिक तद्विपर्ययोऽलौकिक अलौकिकादित्यर्थ । न हि परस्पर सजातीयविजातीयव्यावृत्ता प्रतिक्षणविशरारव परमाणवो व्यवह्रियन्ते परीक्षकै यतस्तिद्वषयो नयाभासो न स्यात् । – [लघी॰ ता॰ पृ॰ ९१ ।] ↩︎

  1856. सौगतमते पुञ्जीभूता परमाणव एव स्थूलाकारप्रत्यहेतव; तथाहि–अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे । उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मन ॥ – [प्रमाणवा॰ ३ । १९५ ।] ↩︎

  1857. ऋजु प्रगुण सूत्रयति तन्त्रयत इति ऋजुसूत्र । – [सर्वार्थसि॰, राजवा॰ १ । ३३ ।] ↩︎

  1858. “–स्य सम्ब–” [आ॰] । ↩︎

  1859. सर्वथा क्षणिकत्वस्वीकार । ↩︎

  1860. ““जनयन्ति”” नास्ति [श्र॰] । ↩︎

  1861. “–विधप्रत्य–” [श्र॰] , [ब॰] । ↩︎

  1862. “भेदनात्” [श्र॰] । ↩︎

  1863. “व्यवस्थापयेत् सौ–” [आ॰] । ↩︎

  1864. ““प्रतिभासाभेदात्”” नास्ति [श्र॰] । ↩︎

  1865. “–स्य चानुप–” [आ॰] । ↩︎

  1866. व्याख्या–एते । के ? नैगमादय प्रागुक्ता चत्वारोऽर्थनया अर्थप्रधाना नयाः । कुत ? जीवाद्यर्थव्यपाश्रयात्, जीवाजीवादीनामर्थाना व्यपाश्रयाद् आलम्बनात् । त्रयः शेषा शब्दसमभिरूढैवम्भूताः शब्दनया शब्दप्रधाना नया । किं विशिष्टा ? सत्यपदविद्या समाश्रिता, सत्यानि प्रमाणान्तराबाधितानि पदानि कालकारकादिभेदवाचीनि तेषा विद्या व्याकरणशास्त्र तामाश्रिता आलविनाः व्याकरणाश्रितत्वादित्यर्थ । – [लघी॰ ता॰ पृ॰ ९२ ।] तुलना–चत्वारोऽर्थाश्रयाः शेषास्त्रय शब्दत । – [सिद्धिवि॰, टी॰ पृ॰ ५१७ब्। ।] तत्र सग्रहव्यवहारर्जुसूत्रा अर्थनयाः शेषा शब्दनया – [राजवा॰ पृ॰ १८६ ।] अत्थप्पवर सद्दोवसज्जण वत्थुमुज्जुसुत्तन्ता । सद्दप्पहाणमत्थोवसज्जण सेसया विन्ति । – [ विशेषा॰ गा॰ २७५३ ।] तत्रर्जुसूत्रपर्यन्ताश्चत्त्वारोऽर्थनया मताः । त्रय शब्दनयाः शेषा शब्दवाच्यार्थगोचराः ॥ – [तत्त्वार्थश्लो॰ पृ॰ २७४ । नयविव॰ पृ॰ २६२ ।] एषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः शेषास्तु त्रय शब्दवाच्यगोचरतया शब्दनयाः । – [प्रमाणनय॰ ७ । ४४, ४५ । जैनतर्कभा॰ पृ॰ २३ । नयप्रदीप पृ॰ १०४ब्। ।] उद्धृतोऽयम्–जीवाद्यर्थविनिश्चयात् । – [आव॰ नि॰ मलय॰ पृ॰ ३८१ब्। । सूत्रकृताग॰ टी॰ पृ॰ ४२६अ। ।] ↩︎

  1867. “–विन्यासमाश्रि–” [ज॰ वि॰] । ↩︎

  1868. “–प्रतिभागेन” [ज॰ वि॰] । ↩︎

  1869. ““जीवाद्यर्थसमाश्रयणात्”” नास्ति [श्र॰] । ↩︎

  1870. ““शब्दनयाः”” नास्ति [आ॰] । ↩︎

  1871. “तत्तत्त्वमवेति” [ब॰] , “तत्तत्रमद्येवेति” [श्र॰] । ↩︎

  1872. शब्दज्ञानम् । ↩︎ ↩︎ ↩︎

  1873. अर्थम् । ↩︎

  1874. ““किन्तु कारण”” नास्ति [श्र॰] । ↩︎

  1875. “शकटोदये भवि–” [आ॰] , “शकटोदये च भवि–” [श्र॰] । ↩︎

  1876. “अर्थे प्रति–” [ब॰] , [श्र॰] । ↩︎

  1877. ““प्रत्यक्षं”” नास्ति [श्र॰] । ↩︎

  1878. “न चालक्षणलक्षितरूपा–” [ब॰] । ↩︎

  1879. “अर्थे भेद–” [ब॰] । ↩︎

  1880. “क्रियाया अविशिष्टं” [श्र॰] । ↩︎

  1881. “–क्षणं स्त्यानप्रसवोभयाभावसामान्यलक्षणं स्त्यानप्रस–” [आ॰] । ↩︎

  1882. “व्याचष्टे” [आ॰] । ↩︎

  1883. “नान्यथा” [श्र॰] । ↩︎

  1884. “पावकपाचकपाठकादि–” [आ॰] , “पावकपाठकादि–” [ब॰] । ↩︎

  1885. “–पाठादि–” [श्र॰] । ↩︎

  1886. “–परम्परया त एव” [श्र॰] । ↩︎

  1887. शब्दापशब्दविवेकार्थम् । ↩︎

  1888. “प्रतिपाद” [श्र॰] । ↩︎

  1889. द्रष्टव्यम् – [पृ॰ ७६० टि॰ १ ।] ↩︎

  1890. “–विशेषवल्लक्ष–” [आ॰] । ↩︎

  1891. “–शास्त्रष्याया–” [श्र॰] । ↩︎

  1892. “ततः” [श्र॰] । ↩︎

  1893. कर्त्रादिकारकनैयत्यम् । ↩︎

  1894. व्याकरणशास्त्रेण । ↩︎

  1895. “–द्यते” [ब॰] , “–द्येत्” [आ॰] । ↩︎

  1896. वर्णपदवाक्यानाम् । ↩︎

  1897. वर्णपदवाक्यस्वरूपानवगाहनात् । ↩︎

  1898. “–रूपत्वासं–” [श्र॰] । ↩︎

  1899. “व्यवहा–” [श्र॰] । ↩︎ ↩︎

  1900. “शब्दप्रा–” [आ॰] , ““शब्दस्य”” नास्ति [श्र॰] । ↩︎

  1901. ““किं तत्”” नास्ति [श्र॰] । ↩︎

  1902. ““कथम्भूतं”” नास्ति [श्र॰] । ↩︎

  1903. “–पायत्वं त–” [श्र॰] । ↩︎

  1904. ““पृथककृत्य”” नास्ति [श्र॰] , [ब॰] । ↩︎

  1905. “भावात्” [श्र॰] । ↩︎

  1906. “–धर्मो नि–” [श्र॰] । ↩︎

  1907. सापेक्षस्य । ↩︎

  1908. “–त्वम्” [ब॰] , [श्र॰] । ↩︎

  1909. “पारिकलि–” [आ॰] । ↩︎

  1910. “तापवृद्धिहनन” [श्र॰] , [ब॰] । ↩︎

  1911. “इति श्रीमत्प्रभाचन्द्राचार्यवि–” [ब॰] । ↩︎

  1912. “षष्ठमः” [ब॰] । ↩︎