प्रमाणप्रवेशे चतुर्थ आगमपरिच्छेदः ।
प्रत्यक्षेतररूपमानमखिलं व्याख्याय साभासताम्,
तस्य1 ख्यापयितुं कथञ्चिदधुना प्रारभ्यते प्रक्रमः ।
मिथ्यैकान्तमहान्धकूपपतनव्यामुग्धबुद्धेः स्फुटम्,
कः सन्मार्गनिरूपणेऽत्र कुशलः स्याद्वादभानोः परः ॥ १ ॥
अथ प्रमाणाभासत्वेन2 प्रसिद्धं विज्ञानं कथञ्चिदेव तदाभासं न सर्वथेति प्रदर्शयन्नाह–
प्रत्यक्षाभं3 कथञ्चित् स्यात् प्रमाणं तैमिरादिकम् ।
यद्यथैवाऽविसंवादि4 प्रमाणं तत्तथा मतम् ॥ २२ ॥
विवृतिः–तिमिराद्युपप्लवज्ञानं5 चन्द्रादावविसंवादकं प्रमाणं यथा तत्सङ्ख्यादौ विसंवादकत्वादप्रमाणम्, प्रमाणेतरव्यवस्थायाः तल्लक्षणत्वात् । नहि ज्ञानं यदप्यनुकरोति तत्र प्रमाणमेव समारोपव्यवच्छेदाकाङ्क्षणात् । कथमन्यथा दृष्टे प्रमाणान्तरवृत्तिः ? कृतस्य करणायोगात्, तदेकान्तहानेः कथञ्चित्करणानिष्टेः । तदस्य विसंवादोऽपि अवस्तुनिर्भासात्, चन्द्रादिवस्तुनिर्भासानामविसंवादकत्वात् ।
कारिकार्थ–
“प्रत्यक्षाभम्” इत्युपलक्षणम्, तेन परोक्षाभमपि यदेकान्तेन6 वादिनां लोकानां वा प्रसिद्धं “तत्कथञ्चित् स्याद्” भवेत् “प्रमाणम्” नैकान्तेन तदाभासम् इत्यभिप्रायः । किं तद् ? इत्यत्राह–“तैमिरादिकमिति ।” तिमिरादागतं तैमिरम् आदिर्यस्य आशुभ्रमणादिज्ञानस्य7 तत्तथोक्तम् । कुत एतद् ? इत्याह– ““यद्यथा”” इत्यादि । यतो यद्विज्ञानं8 येनैव प्रकारेण “अविसंवादि तद्”9 विज्ञानं तेनैव प्रकारेण “प्रमाणम”भिप्रेतम् । तथा च कल्पनापोढमभ्रान्तम्10 [न्यायबि॰ १ । ४] इत्यत्र, इन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारि11 [न्यायसू॰ १ । ४] इत्यत्र, सत्सम्प्रयोगे12 [जैमिनिसू॰ १ । १ । ४] इत्यादौ च यदभ्रान्तादिग्रहणं13 भ्रान्तनिवृत्त्यर्थं तद्14 यदि सर्वथा अप्रत्यक्षत्वात् तेनापसार्यते15 तदा प्रमाणविरोधः । अथ कथञ्चित्;16 तदा एकान्तहानिरित्युक्तं17 भवति ।
विवृतिव्याख्यानम्–
कारिकां व्याचष्टे ““तिमिर”” इत्यादिना । “तिमिरादीनां” कार्यभूतं यद् “उपप्लवज्ञानं” द्विचन्द्रादिविषयं तत् “चन्द्रादौ” आदिशब्देन धावल्यवर्तुलत्वादिपरिग्रहः तत्र “प्रमाणम् ।” कुत एतत् ? “अविसंवादकं” यतः तत्रांशे । अत्र दृष्टान्तमाह–“यथा” इत्यादि । “यथा तत्” तिमिराद्युपप्लवज्ञानं “सङ्ख्यादौ” द्वित्वस्थिरत्वादौ “विसंवादकत्वादप्रमाणम् ।” यदि नाम तत्तथाविधं किमेतावता प्रमाणेतररूपं भविष्यति इत्याशङ्क्य आह–““प्रमाण”” इत्यादि । “प्रमाणञ्च इतरच्च” अप्रमाणं तयोः “व्यवस्थायाः तल्लक्षणत्वात्”18 संवादविसंवादलक्षणत्वात् । ननु कथं तदेव प्रमाणमितरच्च युक्तं विरोधादिति चेत् ? अत्राह–““नहि”” इत्यादि । “हि”र्यस्मात् “न”19 ज्ञानं भवत्कल्पितं निर्विकल्पकवेदनं20 “यदपि” इत्यपिशब्दोऽभ्युपगमे, परमार्थतः अर्थाकारताया ज्ञानेऽसम्भवात्, तदसम्भवश्च प्रपञ्चतः प्रागेव21 तत्प्रतिषेधात् सिद्धः22 । अभ्यु पगम्याप्युच्यते–यथोक्तं23 ज्ञानं “यदपि” वस्त्व“नुकरोति” यदाकारं भवति “तत्र” वस्तुनि “प्रमाणमेव, “नहि”” इत्यभिसम्बन्धः, किन्तु अप्रमाणमपि इत्येवकारार्थः । कुत एतद् ? इत्याह–““समारोप””24 इत्यादि । क्षणिकेऽक्षणिकज्ञानं25 “समारोपः” तस्य “व्यवच्छेदो” निरासः तस्य “आकाङ्क्षणात् ।” तदनभ्युपगमे दूषणमाह–““कथम्”” इत्यादि । “कथमन्यथा” तदाकाङ्क्षणाभावप्रकारेण “दृष्टे” दर्शनविषयीकृते क्षणभङ्गादौ “प्रमाणान्तरस्य” अनुमानस्य “वृत्तिः” ? न कथमपि इत्यर्थः । नहि समारोपव्यच्छेदात् अन्यत्तस्य26 फलम् । अथ न समारोपनिषेधार्था तत्रास्य प्रवृत्तिः । किं तर्हि ? ग्रहणार्था, इत्यत्राह–““कृत”” इत्यादि । “कृतस्य” अनुभवेन27 अनुभूतस्य क्षणभङ्गादेः अनुमानेन “करणस्य”28 ग्रहणस्य “अयोगात्,” अन्यथा अनवस्था स्यात्, तद्गृहीतेप्यस्मिन् अनुमानान्तरेण ग्रहणप्रसङ्गात् ।
अथ अर्थदर्शनेन नीलादिकमेव गृहीतं न क्षणभङ्गादिकं तेनायमदोषः, अत्राह– ““तद्”” इत्यादि । “तदेकान्तः” कृतैका29न्तः30 एकस्यार्थस्वभावस्य31 [प्रमाणवा॰ ३ । ४२] इत्यादिवचनात् । यत्कृतं तत्कृतमेव तस्य “हानेः” हानिप्रसङ्गात् कथं प्रमाणान्तरवृत्तिः ? तद्धानिः कुतः ? इत्यत्राह–““कथञ्चिद्”” इत्यादि । “कथञ्चित्” नीलादिरूपेण न32 क्षणभङ्गादिरूपेण यत् “करणं” वस्तुनो ग्रहणं तस्याऽ“निष्टेः,” अन्यथा गृहीतेतररूपता एकस्य स्यात् । उपसंहारव्याजेन दूषणान्तरमाह–““तद्”” इत्यादि । यत एवं “तत्” तस्मात् “अस्य” अर्थाकारदर्शनस्य “विसंवादोऽपि” विप्रलम्भोपि33 न केवलं कथञ्चित् प्रामाण्यमेव । कुत एतत् ? इत्यत्राह–“अवस्तुनिर्भासात् । अवस्तुनो” भवन्मते बहिरन्तर्वाऽसत एव स्थूलाकारस्य “निर्भासाद्” अनुकरणाद् दर्शन प्रमाणं न स्यादिति भावः । व्यवहारेण प्रामाण्येऽपि न सौगतस्य इष्टतत्त्वसिद्धिः । अथ निरन्वयविनश्वरादिवस्तुस्वरूपाननुकरणेऽपि34 नीलादिसच्चेतनादिवस्तुस्वरूपानुकरणात् तत्प्रामाण्यम्, इत्याह–““चन्द्रादि”” इत्यादि । “चन्द्रादि” च तद् “वस्तु” च तस्य “निर्भासानाम्” उपप्लवज्ञानसम्बन्धिप्रतिभासानां प्रामाण्यं स्यात् ““प्रमाणम्”” इत्येतदनुवर्त्तमानं लब्धभावप्रत्ययमिह सम्बद्ध्यते । कुत एतद् ? इत्यत्राह–“अविसंवादकत्वात् ।” न खलु चन्द्रादिविप्लवज्ञानं धावल्यवर्त्तुलत्वादौ विसंवदति इति । एवं तावत् यत् परेण प्रत्यक्षाभं तैमिरिकादीन्द्रियज्ञानमुक्तं35 तदपि कथञ्चित् प्रत्यक्षमिति व्यवस्थापितम् ।
साम्प्रतं कल्पनापदेन36 यत् परेण विकल्पज्ञानं तदाभासमुक्तं तदपि प्रत्यक्षं साधयन्नाह–
स्वसंवेद्यं37 विकल्पानां विशदार्थावभासनम् ।
संहृताशेषचिन्तायां सविकल्पावभासनात् ॥ २३ ॥
विवृतिः–सर्वतः संहृत्य38 चिन्तां स्तिमितान्तरात्मना स्थितोऽपि चक्षुषा रूपं संस्थानात्मकं स्थूलात्मकमेकं सूक्ष्मानेकस्वभावं पश्यति न पुनः असाधारणैकान्तं39 स्वलक्षणम्, प्रतिसंहारव्युत्थितचित्तस्य40 तथैवास्मरणात् । तस्मादविशदमेव अविकल्पकं प्रत्यक्षाभम् । न च विशदेतरविकल्पयोः विषयभेदैकान्तः प्रत्यासन्नेतरार्थप्रत्यक्षाणाम् एकार्थविषयतोपपत्तेः ।
कारिकार्थ–
“स्वसंवेद्यं” स्वसंवेदनाध्यक्षग्राह्यम् । केषाम् ? इत्याह–“विकल्पानाम् ।” किं तद् ? इत्याह–“विशदार्थावभासनम् ।” कुत् एतत् ? इत्याह–““संहृत”” इत्यादि । “संहृता अशेषाश्चिन्ता” यस्यामवस्थायां तस्यामपि “सविकल्पकस्यैव” ज्ञानस्य “अवभासनात् ।” ततो यदुक्तं परेण–न41 विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता42 । [प्रमाणवा॰ २ । २८३] इत्यादि, प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्ध्यति43 । [प्रमाणवा॰ २ । १२३] इत्यादि च,44 तन्निरस्तम्; प्रत्यक्षबाधितत्वात् ।
इदमपर व्याख्यानम्–“स्वसंवेद्यं” स्वसंवेदनग्राह्यं यद्रूपम् । केषाम् ? “विकल्पानाम्” अनुमानादिमानसज्ञानानाम् । तत्किम् ? “विशदार्थावभासनम्” निर्विकल्पकमभ्रान्तम् इत्यर्थः । कदा ? “संहृताशेषचिन्तायाम् ।” केन रूपेण ? “स्वसंवेद्येन” इति विभक्तिपरिणामेन सम्बन्धः । कि कृत्वा ? “सविकल्पावभासनात्” तदवभासनमाश्रित्य इत्यर्थः । ततस्ते विकल्पाः कथञ्चित् प्रत्यक्षाभा इति भावः ।
विवृतिव्याख्यानम्–
कारिकां विवृण्वन्नाह–““सर्वतः”” इत्यादि । “सर्वतः” सजातीयाद् विजातीयाच्च “संहृत्य” त्यक्त्वा । काम् ? “चिन्ताम्” परामर्शबुद्धिम् । “स्थितोऽपि” प्रतिपत्ता । केन रूपेण ? इत्याह–““स्तिमितेन”” इत्यादि । “स्थिमितः” स्थिरीभूतः अपरिस्पन्दः “अन्तरात्मा” मनः तेन45 । स किं करोतीत्याह–““चक्षुपा”” इत्यादि । चक्षुर्ग्रहणमुपलक्षणं श्रोत्रादेः, तेन “रूपं पश्यति,” रूपग्रहणमपि रसादीनामुपलक्षणम् । कथम्भूतम् ? “संस्थानात्मकं” वर्त्तुलत्वादिधर्मस्वभावम् । पुनरपि कथम्भूतम् ? “स्थूलात्मकं” स्थूलस्वभाव“मेकम् ।” पुनरपि किंविशिष्टम् ? “सूक्ष्मानेकस्वभावम्,” सूक्ष्मोऽनेकः स्वभावो यस्य तत्तथोक्तम् । ननु सस्थानादिक गुणत्वाद् द्रव्यस्य न रूपस्य, अस्य गुणत्वेन निर्गुणत्वात्; इत्यप्यसमीक्षिताभिधानम्, अनेकान्ते द्रव्यगुणयोरभेदार्पणया रूपस्यापि द्रव्यधर्माऽविरोधात् । ननु चक्षुषा रूप दृश्यमानम् अन्योन्यविलक्षणानेकानंशपरमाणुस्वभावस्वलक्षणरूपमेव46 दृश्यते नतु स्थूलादिस्वरूपम्, इत्यत्राह–““न पुनः”” इत्यादि । “पुन”रिति भावनायाम्, “न स्वलक्षणं” पश्यति, कथम्भूतम् ? “असाधारणम्,”47 असाधारणः सजातीयविजातीयव्यावृत्तः48 “एको”ऽसहायः “अन्तो” धर्मो यस्य तत्तथोक्तम् । कुत एतत् ? इत्याह–““प्रतिसंहार”” इत्यादि । सहारः अशेपविकल्पाभावः, “प्रतिसंहारः” पुनर्विकल्पप्रवृत्तिः, तमाश्रित्य “व्युत्थितं” प्रतिबुद्धं “चित्तं” यस्य स तथोक्त तस्य, “तथैव” असाधारणैकान्तप्रकारेण “अस्मरणात्” स्मरणाभावात् स्वलक्षणस्य, अतो न तस्य कदाचिद् दर्शनम् स्थूलादिस्वभावस्यैव49 तु स्मरणात् सदा दर्शनमिति50 ।
““तस्मात्”” इत्यादिना उपसहारमाह–यस्मान्निर्विकल्पकं ज्ञानं परस्य प्रत्यक्षत्वेनाऽभिप्रेतं न कदाचिद् विशदस्वरूपतया प्रतिभाति “तस्माद् अविशदमेव अविकल्पकं51 प्रत्यक्षाभम् ।” ननु विशदेतरज्ञानानां विभिन्नप्रतिभासतया विभिन्नविषयत्वान्न “स्थूलादि स्वभावं रूपं पश्यति” इत्यादि युक्तम्, ययोर्विभिन्नप्रतिभासत्वं52 तयोर्विभिन्नविषयत्वं यथा रूपरसज्ञानयोः, विभिन्नप्रतिभासत्वञ्च प्रत्यक्षेतरज्ञानयोरिति । तथा च, विशदस्वभावस्य अध्यक्षस्य स्वलक्षणविषयत्वं सिद्धम्, अविशदस्वभावस्य तु विकल्पस्य स्थूलादिविषयत्वम् इत्याशङ्क्याह–““नच”” इत्यादि । “नच नैव53 विशदेतरविकल्पयोः” अवग्रहादिस्मरणाद्योः “विषयभेदैकान्तः,” “परमार्थवस्तुनि विशदविकल्पः प्रवर्त्तते, कल्पिते अविशदविकल्पः” इति, किन्तु विशदविकल्पविषय एव अविशदविकल्पस्य54 विषयः । यच्च “विभिन्नप्रतिभासत्वात्” इत्युक्तम्; तदप्यनैकान्तिकमित्युपदर्शयन्नाह–““प्रत्यासन्न””55 इत्यादि । “प्रत्यासन्नश्च इतरश्च” अप्रत्यासन्नः अर्थो येषां तानि च तानि “प्रत्यक्षाणि” तेषां विशदेतररूपप्रतिभासभेदसम्भवेऽपि “एकार्थविषयतोपपत्तेः ।” नहि दूरासन्नपुरुषाणां पादपादिप्रत्यक्षेषु प्रतिभासभेदोऽसिद्धः । नापि विषयाभेदः;56 पादपादेरेकस्यैव तद्विषयत्वात् ।
यदप्युच्यते–ऽप्रत्यक्षे57 न सन्ति कल्पना उपलब्धिलक्षणप्राप्तानामनुपलब्धेः, यद्यत्र उपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र नास्ति यथा क्वचित् प्रदेशविशेषे घटः, नोपलभ्यन्ते च प्रत्यक्षे तथाविधाः सत्यः कल्पना इति । न च उपलब्धिलक्षणप्राप्तत्वं तासामसिद्धम्; “नहि58 इमाः कल्पना अप्रतिसंविदिता एव उदयन्ते व्ययन्ते च यतः सत्योऽप्यनुपलक्षिताः59 स्युः” इति; तद्दूषयन्नाह–
प्रतिसंविदितोत्पत्तिव्ययाः60 सत्योऽपि कल्पनाः ।
प्रत्यक्षेषु न लक्ष्येरन् तत्स्वलक्षणभेदवत् ॥ २४ ॥
विवृतिः–सदृशापरापरोत्पत्तिविप्रलम्भात्61 तद्विशेषादर्शिनोऽनवधारणम् असमीक्षिताभिधानम्; सर्वथा तत्सादृश्याऽनिष्टेः । प्रतिसंहारैकान्तः सम्भवति न वेति चिन्त्यमेतत् । कथञ्च प्रत्यक्षबुद्धयः सर्वाथाऽविकल्पाः पुनर्विकल्पेरन् ?
कारिकार्थ–
“प्रति” प्राणि “संविदितौ उत्पत्तिव्ययौ” यासां ताः तथोक्ता ताः तथाविधाः “सत्योऽपि” विद्यमाना अपि न केवलमसत्यः, “प्रत्यक्षेषु,” बहुवचनं चतुर्विधस्यापि62 प्रत्यक्षस्य सङ्ग्रहार्थम् । “कल्पना न लक्ष्येरन् ।” न च सतः प्रतिसंविदिताविर्भावविनाशवतोऽनुपलक्षणं विरुद्धम्, इत्यस्यार्थस्य समर्थनार्थं तत्प्रसिद्धमेव निदर्शनं प्रदर्शयन्नाह–““तत्स्वलक्षणभेदवत्”” इति । तासां कल्पनानां स्वलक्षणं स्वस्वरूपं तस्य भेदः सजातीयाद्विजातीयाच्च63 व्यावृत्तिः स इव तद्वदिति । एतदुक्त64 भवति–यथा प्रतिसंविदितोत्पत्तिव्ययः सन्नपि कल्पनासु तद्भेदो65 न लक्ष्यते, अन्यथा क्षणक्षयानुमानमनर्थकं स्यात्, तथा प्रत्यक्षेषु कल्पनाः सत्योऽपि न लक्ष्यन्त इति ।
विवृतिव्याख्यानम्–
तद्भेदानुपलक्षणे परकीयां युक्तिं सदूषणां ““सदृश”” इत्यादिना प्रदर्श्य कारिकार्थं ““प्रतिसंहारैकान्त”” इत्यादिना दर्शयति–“सदृशस्य” समानस्य “अपरस्यापरस्य उत्पत्तिः” तया66 “विप्रलम्भः” अलातचक्रवत्67 चक्षुषो भ्रमः “तस्मात्तद्विशेषादर्शिनः” त प्रकृतं सजातीयव्यावृत्तिलक्षणविशेषम्68 अलातचक्रवन्न पश्यतीत्येवंशीलस्य सौगतस्य “अनवधारणं” यद्69 भेदानुपलक्षणम्, “तदसमीक्षिताभिधानम्,” कुत एतत् ? इत्यत्राह–““सर्वथा””70 इत्यादि । “सर्वथा” भेदाभेदोभयानुभयप्रकारेण “तासां” कल्पनानां “सादृश्यस्य71 अनिष्टेः” ततः72 तद्भेदोपलक्षणमेव स्यात् इत्यभिप्रायः । नचैतदस्ति, अतो यथा तद्भेदः सन्नपि नोपलक्ष्यते तथा प्रत्यक्षेषु सत्योऽपि कल्पना इति । ततः “प्रतिसंहारैकान्तः” प्रत्यक्षेषु सकलकल्पनाविरहैकान्तः ““सम्भवति न वा” इति चिन्त्यमेतत्” पर्यालोच्यमेतत्73 “न सभवति” इत्यर्थ । तत्स्वलक्षणभेदवत् तासां74 तत्रानुपलक्षितानां सम्भवात् । ननु यद्यपि तासां तद्भेदो न लक्ष्यते तथापि अभिलापसंसर्गयोग्यप्रतिभासो75 विद्यमानो लक्ष्येत, न च उपलक्ष्यते । अतः76 अस्याऽनुपलक्षणात्77 अभावसिद्धेः78 सिद्धः प्रतिसंहारैकान्तः, इत्यत्राह–““कथञ्च””79 इत्यादि । “कथञ्च” न कथञ्चिदपि “प्रत्यक्षबुद्धयः,” बहुवचनम् अशेषाध्यक्षबुद्धिसङ्ग्रहार्थम्, “सर्वथा” स्वरूपवद् बहिरपि “अविकल्पाः, पुनरिति” वितर्के “विकल्पेरन्” बहिर्विकल्पात्मिका भवेयुः अनेकान्तप्रसङ्गादिति मन्यते । अथवा तद्बुद्धयः “सर्वथाऽविकल्पाः” सत्यः “कथञ्च80 न पुनः” पश्चाद् “विकल्पेरन्”81 विकल्पान् कुर्युः । न हि अविकल्पादनुभवाद्82 अर्थादिव विकल्पः सम्भवतीत्युक्त सविकल्पसिद्धिप्रघट्टके83 । ततः स्थितमर्थमुपदर्शयन्नाह–
अक्षधीस्मृतिसञ्ज्ञाभिः84 चिन्तयाभिनिबोधिकैः85 ।
व्यवहाराऽविसंवादः तदाभासस्ततोऽन्यथा ॥ २५ ॥
विवृतिः–प्रत्यक्षस्मृतिप्रत्यभिज्ञानोहानुमानादिभिः अविसंवादसिद्धेः अर्थेषु तत्प्रामाण्यम्, अन्यथा तदाभासव्यस्था । तथैव श्रुतज्ञान-तदाभासव्यवस्था ।
कारिकार्थ–
“अक्षाणां” चक्षुरादीनां कार्यभूता “धी”र्बुद्धि अवग्रहाद्यात्मिका मतिः सा च “स्मृतिश्च सञ्ज्ञा” च ताभिः, “चिन्तया” तर्केण, “आभिनिबोधिकैः”86 अनुमानैः व्यक्त्यपेक्षं बहुवचनम् तैः समस्तैर्व्यस्तैश्च “व्यवहाराविसंवादः,” अतस्तेषां प्रामाण्यम्, “अन्यथा” एकान्तवादिपरिकल्पितप्रकारेण “तदाभासः” प्रमाणाभासः । नहि एकान्तवादिपरिकल्पितस्मृतिप्रत्यभिज्ञानतर्काऽप्रामाण्यप्रकारेण अविकल्पाक्षज्ञान-कार्यादिपरिगणितलिङ्गप्रभवानुमानप्रकारेण च प्रवृत्त्यादिव्यवहाराविसंवादो लोके प्रसिद्धः ।
विवृतिव्याख्यानम्–
कारिकां विवृण्वन्नाह–““प्रत्यक्ष”” इत्यादि । “प्रत्यक्षस्मृतिप्रत्यभिज्ञानोहानुमानादिभिः अविसंवादसिद्धेः” कारणाद् “अर्थेषु” घटादिषु “तेषां” प्रत्यक्षादीनां “प्रामाण्यम्, अन्यथा” एकान्तवादिकल्पितप्रकारेण “तदाभासव्यवस्था” प्रामाण्याभासव्यवस्था । एतदेव शाब्दे श्रुतेऽतिदिशन्नाह–““तथैव””87 इत्यादि । स्मरणादिना अन्यस्य88 श्रुतस्य उक्तत्वात् शाब्दं श्रुत89 श्रुतज्ञानशब्देनेह गृह्यते, “तथैव” व्यवहारसंवाद-विसंवादप्रकारेणैव90 “श्रुतज्ञानं तदाभासश्च” तयो“र्व्यवस्था ।”
ननु श्रुतज्ञानं प्रमाणमेव न भवति तत्कथं तद्व्यवस्था इत्याशङ्क्याह–
प्रमाणं91 श्रुतमर्थेषु सिद्धं द्वीपान्तरादिषु ।
अनाश्वासं न कुर्वीरन् क्वचित्तद्व्यभिचारतः ॥ २६ ॥
विवृतिः–श्रुतज्ञानं वक्त्रभिप्रायादर्थान्तरेऽपि प्रमाणम्, कथमन्यथा द्वीपदेशनदीपर्वतादिकम् अदृष्टस्वभावकार्यं दिग्विभागेन देशान्तरस्थं प्रतिपत्तुमर्हति निरारेकमविसंवादञ्च92 ?
कारिकार्थ–
“श्रुतं” धर्मि, “प्रमाणमिति” साध्यो धर्मः ““अविसंवादसिद्धेः”” इत्येतदनुवर्त्तमान साधनं तेन “अविसंवादक श्रुतं प्रमाण न सर्वम्” इत्युक्तं भवति । तदित्थम्भूत93 श्रुतं क्व प्रमाणमित्याह–“अर्थेषु,” न पुन अभिप्रायमात्रे । किंविशिष्टेषु तेषु ? इत्याह–“द्वीपान्तरादिषु सिद्धं” शास्त्रान्त94रे95 लोके वा प्रसिद्धम् । ननु अर्थाभावेऽपि शब्दानां प्रवृत्तिप्रतीतेः कथ तत्तत्र96 प्रमाणमित्याह–““अनाश्वासम्”” इत्यादि । अनाश्वासम् आश्वासाभावं “न कुर्वीरन् क्वचिद्” “अङ्गुल्यग्रे हस्तियूथशतमास्ते”97 इत्यादौ98 “तस्य”99 श्रुतस्य “व्यभिचारतो” व्यभिचारमाश्रित्य, इन्द्रियज्ञानेपि अत100 एव तद्भावापत्तेरित्यभिप्रायः101 ।
श्रुतज्ञानमनुमानादतिरिक्त प्रमाणमनभ्यु गच्छतोवैशेषिकबौद्धयो पूर्वपक्ष–
ननु श्रुतस्य अनुमानाद् व्यतिरेकाऽसिद्धितः102 तत्प्रामाण्यप्रसाधनादेव प्रमाणप्रसिद्धेः ““प्रमाणं श्रुतमर्थेषु”” इत्याद्ययुक्तम्, तथाहि–शब्दोऽनुमानान्न103 व्यतिरिच्यते तदभिन्नविषयत्वात् तदभिन्नसामग्रीसमन्वितत्वाच्च, यद् यत् तथाविध तत्तदनुमानान्न व्यतिरिच्यते यथा कुतश्चिदनुमानाद् अनुमानान्तरम्, तथाविधश्चायं शब्द इति । न चास्य तदभिन्न विषयत्वमसिद्धम्; शब्दानुमानयोरविशेषतः104 सामान्यगोचरचारित्वात् । सम्बद्धार्थप्रतिपत्तिहेतु105त्वाच्च;106 न हि शब्दः असम्बद्धमर्थं प्रतिपादयति अतिप्रसङ्गात्, सम्बद्धञ्च तं प्रतिपादयन्नसौ तल्लिङ्गतां107 नातिवर्त्तेत । नापि तदभिन्नसामग्रीसमन्वितत्वमसिद्धम्, धूमादिवत् शब्दस्य अर्थप्रतीतौ सम्बन्धस्मृत्यपेक्षत्वात् । अन्वयव्य108तिरेकवत्त्वाच्च,109 यो हि शब्दो यत्रार्थे लोके दृश्यते स तस्य वाचकः यत्र110 तु न दृश्यते न तस्य वाचकः । पक्षधर्मत्वोपेतत्वाच्च; तथाहि–विवक्षितः शब्दः अर्थवान् शब्दत्वात् पूर्वोपलब्धशब्दवत्, यथा अयं धूमोऽग्निमान् धूमत्वात् पूर्वोपलब्धधूमवत् । यथा च प्रत्यक्षतो धूमं दृष्ट्वा वह्निः प्रतीयते तथा शब्दं श्रुत्वा तदर्थोऽपि । दृष्टान्तनिरपेक्षत्वञ्च अभ्यस्तविषये द्वयोरप्यनयोरविशिष्टम्111 ।
किञ्च शब्दो112 विवक्षायामेव प्रमाणं न बाह्ये व्यभिचारात् । न हि “अङ्गुल्यग्रे हस्तियूथशतमास्ते” इत्यादि शब्दानां बाह्येऽर्थे प्रामाण्यमुपपद्यते प्रतीतिविरोधात् । तस्याञ्च113 एतस्य लिङ्गतैवेति ॥ छ ॥
तत्प्रतिविधानपुरस्सर श्रुतज्ञानस्य अनुमानादिभ्योऽतिरेकेण प्रामाण्यसमर्थनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–“श114ब्दोऽनुमानान्न115 व्यतिरिच्यते” इत्यादि, तदसमीचीनम्, अभिन्नविषयत्वस्य116 अनयोरसिद्धेः । अर्थमात्रं हि शब्दस्य विषयः, अनुमानस्य तु साध्यधर्मविशिष्टो धर्मी इति । किञ्च, अनयोर्विषयाभेदः117 सामान्यमात्रगोचरचारितया, तद्वन्मात्रविषयतया, सम्बद्धार्थप्रतिपत्तिहेतुतया वा स्यात् ? प्रथमपक्षे किमिद सामान्यं नाम–सकलव्यक्त्यनुस्यूत नित्यैकत्वादिधर्मोपेतम्, अन्यव्यावृत्तिरूप वा ? पक्षद्वयमप्येतदनुपपन्नम्, उभयरूपस्यापि118 सामान्यस्य सामान्यपरीक्षावसरे प्रतिक्षिप्तत्वात्,119 अन्यापोहमात्रविषयत्वस्य अनयोः120 प्रतिषेत्स्यमानत्वाच्च । नित्यादिस्वभावसामान्यविषयत्वे चानयोः मीमांसकमतानुप्रवेशः सौगतस्य स्यात्, स121 चानुपपन्नः, तद्विषयत्वस्याप्यग्रे122 निराकरिष्यमाणत्वात् । अथ तद्वन्मात्रविषयतया123 तयोर्विषयाभेदोऽभिप्रेतः, नन्वेवं प्रत्यक्षस्यापि अनुमानत्वप्रसङ्गः तथा124 तदभेदस्यात्राप्यविशेषात्, सकलप्रमाणानां सामान्यविशेपात्मकार्थविषयत्वप्रतिपादनात् ।
एतेन सम्बद्धार्थप्रतिपत्तिहेतुतयाप्यनुमानत्वं शब्दस्य प्रत्याख्यातम्; प्रत्यक्षस्यापि सम्बद्धार्थप्रतिपत्तिहेतुतया अनुमानत्वानुषङ्गात् । तदपि हि स्वविषये सम्बद्ध सत् तत्प्रतिपत्तिहेतुः नान्यथाऽतिप्रसङ्गात् । अथ तत्र125 सम्बद्धस्यास्य126 प्रतिपत्तिहेतुत्वाविशेषेऽपि सामग्रीभेदाद् अनुमानाद्भेदः; कथमेवं शब्दस्यापि अतो127 भेदो न स्यात् तदविशेषात्128 ? तन्न अभिन्नविषयत्वात् शब्दस्यानुमानत्वं युक्तम् ।
नापि अभिन्नसामग्रीसमन्वितत्वात्, शब्दे129 तदसम्भवात् । पक्षधर्मत्वादिरूपत्रयरूपा हि अनुमाने सामग्री, सा च शब्दे न सम्भवति । तथाहि–न तावत् शब्दस्य130 पक्षधर्मत्वं सम्भवति; धर्मिण एवात्र कस्यचिदसम्भवात् । अत्र हि धर्मी शब्दः, अर्थो वा स्यात् ? न तावत् शब्दः; तस्यैव धर्मित्वे तस्यैव च हेतुत्वे हेतोः प्रतिज्ञार्थैकदेशत्वप्रसङ्गात् । अथ शब्दत्वं हेतुरिति न प्रतिज्ञार्थैकदेशत्वम्; न; शब्दत्वस्य सामान्यस्वभावस्य भवन्मते131 परमार्थसतोऽसम्भवात् । कल्पितस्य132 तु सत्त्वेऽपि न गमकत्वम् अर्थो133 ह्यर्थं गमयति [ ] इति134 च भवद्भिरेव135 अभ्युपगमात् ।
एतेन “शब्दोऽर्थवान्” इत्याद्यनुमानं प्रत्याख्यातम् । अस्तु वा शब्दत्वं हेतुः, तथापि136 अतः शब्दस्य धर्मिणः किम् अर्थविशिष्टत्वं साध्यते, अर्थप्रत्यायनशक्तियुक्तत्वम्, अर्थप्रतीतिविशिष्टत्वं वा ? तत्र आद्यपक्षोऽनुपपन्नः; अचला137नलयोरिव138 शब्दार्थयोः139 धर्मिधर्मभावाऽसम्भवात्, आश्रितो हि धर्मो भवति, न140 चार्थः शब्दाश्रितो विभिन्नदेशत्वात् । यद् यतो विभिन्नदेशं न तत्तत्राश्रितं यथा सह्ये विन्ध्यः, शब्दाद् विभिन्नदेशश्चार्थ इति । यत्र141 च आश्रयाश्रयिभावो नास्ति न तत्र धर्मधर्मिभावः यथा चित्रकूटकश्मीरयोः, आश्रयाश्रयिभावाभावश्च शब्दार्थयोरिति । न चार्थविशिष्टं शब्दं कश्चिदवालिशो मन्यते, शब्दात् पृथगेवार्थस्य आबालं सुप्रसिद्धत्वात् ।
अथ अर्थप्रत्यायनशक्तियुक्तत्वमस्य साध्यते; तदप्यसत्; तदर्थतया142 शब्दप्रयोगाऽसम्भवात् । न हि तच्छक्तिसिद्धये शब्दः प्रयुज्यते श्रूयते वा, किन्तु अर्थसिद्धये ।
अथ अर्थप्रतीतिविशिष्टत्वं साध्यते; तदप्ययुक्तम्; सिद्धाऽसिद्धविकल्पानुपपत्तेः143 । असिद्धया हि अर्थप्रतीत्या तद्वत्त्वं शब्दस्यायुक्तम्, अतिप्रसङ्गात् । सिद्धायां त्वस्यां144 किमन्यदनुमीयताम् ? स्वसंविदितस्वभावायामस्यां विसंवादाभावात् इत्यस्यानुमानस्य वैफल्यम् । न च धूमाद्यनुमानेऽप्ययं दोषस्तुल्य145 इत्यभिधातव्यम्; तत्र कार्यकारणभावा146 भावात् । न खलु धूमेन अग्निर्जन्यते किन्तु गम्यते, शब्देन तु अर्थप्रतीतिर्जन्यते अतः अस्यामेव सिद्धासिद्धविकल्पावतारः147 । तन्न शब्दस्य धर्मित्वं घटते ।
नाप्यर्थस्य, तेन148 सह शब्दस्य भवद्भिः149 सम्बन्धानभ्युपगमात् । न हि शब्दार्थयोस्तादात्म्यलक्षणस्तदुत्पत्तिरूपो वा सम्बन्धः सौगतैरभ्युपगम्यते । न ह्यर्थे शब्दाः सन्ति तदात्मानो वा150 [ ] इत्यादिवचनविरोधानुषङ्गात् । न च अर्थेनाऽसम्बद्धोपि शब्दः तस्य धर्मः अतिप्रसङ्गात् । अथ अर्थप्रतीतिहेतुत्वात्151 तद्धर्मोऽसौ,152 न, इतरेतराश्रयानुषङ्गात्–पक्षधर्मत्वसिद्धौ153 हि शब्दस्य अर्थप्रतीतिहेतुत्वसिद्धि, तत्सिद्धौ च पक्षधर्मत्वसिद्धिरिति । तत्प्रतीतिहेतुत्वेन चास्य154 तद्धर्मत्वे चक्षुरादेरपि पक्षधर्मतासिद्धेः तत्प्रभवापि155 प्रतीतिः आनुमानिक्येव स्यात् । तन्न पक्षधर्मत्वं शब्दे सम्भवति ।
नाप्यन्वयव्यतिरेकौ,156 देशे काले च शब्दार्थयोरनुगमाभावात् । नहि यत्र देशे शब्दः तत्रार्थः मुखे हि शब्द उपलभ्यते भूमावर्थः [शाबरभा॰ १ । १ । ५] इति भवद्भिरेवाभ्युपगमात्157 । नापि व्यवहारिणां तदन्वयाध्यवसायोऽस्ति; न खलु यत्र158 यत्र पिण्डखर्जूरादिशब्दं शृण्वन्ति तत्र पिण्डखर्जूराद्यर्थास्तित्वं व्यवहारिणः प्रतिपद्यन्ते । यत्र हि धूमः तत्रावश्यं वह्निरस्तित्वेन प्रसिद्धोऽन्वेता भवति159 धूमस्य, नत्वेवं देशकृतः शब्दस्य अर्थेनाऽन्वयोऽस्ति । नापि कालकृतः, न हि यत्र काले शब्दः तत्र तदर्थोऽवश्यं सम्भवति, रावणशङ्खचक्रवर्त्यादिशब्दा हि वर्त्तमानाः तदर्थस्तु भूतो भविष्यंश्चेति कुतोऽर्थानां शब्दान्वेतृत्वम् ? अन्वयाभावे160 च व्यतिरेकस्याप्यभावः तत्पूर्वकत्वात्तस्य161 ।
यदप्युक्तम्–“यो162 हि शब्दो163 यत्रार्थे दृष्टः” इत्यादि, तदप्ययुक्तम्; एवंविधाऽन्वयव्यतिरेकाभ्यां तद्वाचकत्वस्य अस्माभिरभीष्टत्वात्164 । न चैवंविधान्वयव्यतिरेकत्वमात्रेण अस्यानुमानत्वं154 वाच्यम्, प्रत्यक्षस्यापि तत्प्रसङ्गात् तन्मात्रस्य तत्राप्यविशेषात्165 । यत्र हि घटसद्भावोऽस्ति तत्र तत् प्रत्यक्षं भवति, यत्र तु स नास्ति तत्र तन्न भवतीति ।
यदपि–“सम्बन्धस्मृत्यपेक्षत्वात्” इत्युक्तम्,166 तदप्यनुपपन्नम्, अननुमानेऽपि167 संशयोपमानादौ अस्य168 सद्भावेनाऽनैकान्तिकत्वात्, अननुमानत्वञ्च उपमानादेः प्रागेव169 प्रसाधितम् ।
यच्चान्यदुक्तम्–“शब्दो170 विवक्षायामेव प्रमाणम्” इत्यादि; तदप्यनल्पतमोविलसितम्; तत्र171 तत्प्रामाण्यस्य ““वर्णाः पदानि वाक्यानि प्राहुरर्थानवाञ्छितान्”” [लघी॰ का॰ ६४] इत्यत्र प्रपञ्चतः प्रतिषेत्स्यमानत्वात् ।
ततः शब्दो172 नानुमानं तद्विभिन्नविषयत्वात् तद्विभिन्नसामग्रीसम्बन्धित्वाच्च प्रत्यक्षवत् । इतोऽप्यननुमानमसौ पुरुषैर्यथेष्टं173 नियुज्यमानस्य अर्थप्रतीतिहेतुत्वात्, यत्षुनरनुमानं न तत्तथा यथा कृतकत्वादि, तथा च शब्दः, तस्मान्नानुमानमिति । न च साधनाऽव्यतिरेकोऽयं दृष्टान्तः इत्यभिधातव्यम्; तथा तैर्नियुज्यमानस्यास्य174 साध्यप्रतीत्यजनकत्वात् । न हि कृतकत्वं नित्यत्वसाध्येच्छया धूमत्वादिकं वा जलादिसाध्येच्छया नियुज्यमानं तत्प्रतीतिहेतुः, अन्यथा न कश्चिद् विरुद्धो हेतुः स्यात् । तथा, शब्दो नानुमानम् आप्तोक्तत्वेनैवाऽव्यभिचारिज्ञानजनकत्वात्,175 यत् पुनरनुमानं न तत्तथा तज्जनकम् यथा कृतकत्वादि, तथा176 तज्जनकश्च शब्द इति । कृतकत्वादिसाधनस्य हि साध्येऽव्यभिचारिज्ञानजनने अविनाभाव एव निमित्तं नाप्तोक्तत्वमनाप्तोक्तत्वं177 वा शब्दस्य तु आप्तोक्तत्वमेवेति ।
“शब्द विकल्पवासनामात्रजन्यत्वादर्थाऽसस्पर्शी, अत एव च न तत्प्रामाण्यम्” इति बौद्धस्य पूर्वपक्ष–
सत्यम्, अननुमानस्वभाव एवायं शब्द अप्रमाणत्वात्,178 प्रमाणत्वे हि तस्य अनुमानेऽन्तर्भावप्रयासः फलवान् । न चास्यैतदस्ति, वस्तुनि सम्बन्धाऽसम्भवात् । सम्बन्धो हि शब्दार्थयोर्भवन् तादात्म्यलक्षणः, तदुत्पत्तिस्वभावो वा भवेत् ? न तावत् तादात्म्यलक्षणः, विभिन्नदेशतया तयो प्रतीयमानत्वात्, मुखे हि शब्दः प्रतीयते भूमावर्थ इति । तत्तादात्म्ये179 च क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणप्रसङ्ग । नापि तदुत्पत्तिस्वभावः, “अङ्गुल्यग्रे हस्तियूथशतमास्ते” इत्यादि शब्दानाम् अर्थाभावेऽप्युत्पत्तिप्रतीतेः, स्थानकरणप्रयत्नप्रभवत्वाच्च । अतोऽर्थाऽसस्पर्शिन शब्दा न बाह्यार्थे प्रतीतिं जनयितुमल तत्कथं प्रामाण्यभाजो भवेयुः ? ते हि विकल्पमात्राधीनजन्मान180 स्वमहिम्ना तिरस्कृतबाह्यार्थान् प्रत्ययानुत्पादयन्ति यथा “अङ्गुल्यग्रे हस्तियूथशतमास्ते”181 इति ।
पुरुषदोषाणामेष182 महिमा न शब्दानाम्; इत्यप्ययुक्तम्;183 दोषवतोऽपि मूकादेः184 पुरुषस्य अनुच्चारितशब्दस्य ईदृशाऽसत्यप्रत्ययोत्पादनसामर्थ्याऽसम्भवात्, असत्यपि च पुरुषहृदयकालुष्ये आप्तप्रयुक्तानि अङ्गुल्यादिवाक्यानि तानुत्पादयन्त्येव185 । अतः शब्दानामेवैष स्वभावो न वक्तृदोषाणाम् । नन्वाप्ता186 नेदृंशि187 वाक्यानि प्रयुञ्जन्ते, प्रयुञ्जाना वा नाप्ताः स्युः, इत्यप्यसत्; एवमपि हि वक्तृदोषाणाम् अयथार्थज्ञानोदयकारणत्वासिद्धिः, व्यतिरेकासिद्धेः । यदि हि वक्तृदोषाभावे अमून्यपि188 वाक्यानि प्रयुज्येरन् न चायथार्थान् प्रत्ययान् कुर्युः, तदा अन्वयव्यतिरेकाभ्यां वक्तृदोषजत्वं189 शाब्दज्ञानस्य स्यात् । आप्तैस्तु तेषामप्रयोगे “किं शब्दाभावाद् अयथार्थज्ञानानुत्पत्तिः, आहोस्विद्दोषाभावात्” इति सन्दिग्धो व्यतिरेकः, शब्दे तु निश्चितः-सत्स्वपि दोषेषु शब्दानुच्चारणे मिथ्याज्ञानानुत्पत्तेः । न चाप्तत्वम्190 ईदृग्वाक्यप्रयोक्तृत्वेन विरुध्यते; तथाविधशब्दोच्चारणे सत्यपि आशयदोषाभावतोऽनाप्तत्वायोगात् । तथाहि–आप्तोऽपि191 कस्मैचिदुपदिशति न त्वयाऽननुभूतार्थवाक्यं प्रयोक्तव्यं यथा “अङ्गुल्यग्रे हस्तियूथशतमास्ते” इति । अतः शब्दस्यैवैष महिमा न वक्तृदोषाणाम् ।
किञ्च, बाधकप्रत्ययोत्पत्तावपि192 शब्दो मिथ्याज्ञानं जनयत्येव नेन्द्रियवदुदास्ते, अतोऽर्थाऽसंस्पर्शिनः शब्दा विकल्पमात्राधीनजन्मानः सिद्धाः । तदुक्तम्–
विकल्पयोनयः193 शब्दा विकल्पाः शब्दयोनयः ।
तेषामन्योन्यसम्बन्धो नार्थान् शब्दाः स्पृशन्त्यमी ॥ [ ] इति ।
तत्प्रतिविधानपुरस्सर शब्दस्य परमार्थसदर्थवाचकत्वस्य प्रथक् प्रामाण्यस्य च समर्थनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–“वस्तुनि194 सम्बन्धासभवात्” इत्यादि; तदसमीक्षिताभिधानम्, तत्र195 शब्दस्य तदभावाऽसभवात्196 । तथाहि–शब्दः अर्थेन सम्बद्ध एव त प्रकाशयति प्रतिनियततत्प्रत्ययहेतुत्वात्197 चक्षुर्वत् । शाब्दप्रत्ययो वा सम्बद्धाभ्यां शब्दार्थाभ्यां जन्यते प्रतिनियतप्रत्ययत्वात् दण्डीत्यादिप्रत्ययवत् । ननु शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धस्याऽपास्तत्वात् कथं सम्बद्धत्वम् ? इत्यप्यनुपपन्नम्;198 तदभावेऽप्य199नयोः200 योग्यतालक्षणसम्बन्धसभवात् । तदभावे सोऽपि201 कथम् ? इत्यप्यवाच्यम्; चक्षूरूपयोस्तदभावेऽपि202 तद्दर्शनात् । न खलु चक्षुपो203 घटादिरूपेण सह तादात्म्यं तदुत्पत्तिः संयोगो वा सौगतैरभ्युपगम्यते प्रतीतिविरोधानुषङ्गात्, अप्राप्यकारित्वक्षतिप्रस204ङ्गाच्च205 । नाप्यस्य206 तदभावे207 रूपप्रकाशनयोग्यतास्वभावसम्बन्धस्याप्यसम्भवः; श्रोत्रादिवत् तस्यापि208 तदप्रकाशकत्वप्रसङ्गात्209 ।
ननु योग्यतातः शब्दस्य अर्थवाचकत्वे अर्थस्यापि शब्दवाचकत्वं किन्न स्यात् ? इत्यप्यसाम्प्रतम्, प्रतिनियतशक्तित्वाद् भावानाम् । योग्यता210 हि शब्दार्थयो प्रतिपाद्यप्रतिपादकशक्तिः, ज्ञानज्ञेययोर्ज्ञाप्यज्ञापकशक्तिवत् । नच ज्ञानज्ञेययोः कार्यकारणभावात् तत्प्रतिनियमो211 न योग्यतात इत्यभिधातव्यम्; तत्कार्यकारणभावस्य212 ““अन्वयव्यतिरेकाभ्यामर्थश्चेत् कारणं विदः”” [लघी॰ का॰ ५४] इत्यत्र विस्तरतो निराकरिष्यमाणत्वात् । कथञ्चैव चक्षूरूपयोः घटप्रदीपयोश्च प्रकाश्यप्रकाशकभावप्रतिनियमः स्यात् ? योग्यतातोऽन्यस्य कार्यकारणभावादिप्रतिबन्धस्य213 तत्र214 तत्प्रतिनियमहेतोरसम्भवात्215 ।
ननु योग्यतावशात् शब्दो यद्यर्थं216 प्रतिपादयति तदा भूभवनवर्द्धितोत्थितस्यापि प्रतिपादयेत्217 विशेषाभावात्; इत्यप्यपेशलम्; सङ्केतसचिवयोग्यतावशात्तस्य154 तत्प्रतिपादकत्वाभ्युपगमात्,218 भूभवनवर्द्धितोत्थितं प्रति चास्य तथाविधत्वाभावान्न तत्प्रतिपादकत्वप्रसङ्गः । सङ्केतो219 हि “इदमस्य वाच्यम् इदं वाचकम्” इत्येवंविधो220 वाच्यवाचकयोर्विनियोगः, स यस्यास्ति221 तस्यैव शब्दः स्वार्थं प्रतिपादयति नान्यस्य, अन्यथा धूमादिसाधनमप्यस्य222 अग्न्यादिसाध्यं गमयेदविशेषात्, अविनाभावो हि साधनस्य साध्यगमकत्वे अङ्गम्, स च सर्वदा सर्वं प्रत्यस्यास्ति । येनैव223 साध्यसाधनयोरविनाभावो224 गृहीतः तं प्रत्येव साधनं साध्यस्य गमकमित्यभ्युपगमे येनैव शब्दार्थयोः सङ्केतो गृहीतः तं प्रत्येव शब्दोऽर्थस्य वाचकः इत्यभ्युपगम्यतामविशेषात् ।
ननु सङ्केतः पुरुषेच्छाकृतः, नच तदिच्छया वस्तुव्यवस्था युक्ता अतिप्रसङ्गात्, अतोऽर्थोपि225 वाचकः शब्दस्तु वाच्यः किन्न स्यात् तदिच्छाया निरङ्कुशत्वात् ? इत्यप्यसुन्दरम्, तत्सङ्केतस्य226 सहजयोग्यतानिबन्धनत्वाद् धूमाग्निवत् । यथैव हि धूमाग्न्योर्नैसर्गिक एवाविनाभावः सम्बन्धः, तद्व्युत्पत्तये227 तु भूयोदर्शनादिनिमित्तमाश्रीयते,228 तथा शब्दार्थयोः स्वभाविक एव प्रतिपाद्यप्रतिपादकशक्त्यात्मा सम्बन्धः, तद्व्युत्पत्तये229 तु सङ्केतः समाश्रीयते । सांसिद्धिकार्थशक्तिव्यतिक्रमे230 च चक्षूरूपादीनामपि प्रकाश्यप्रकाशकशक्तेर्व्यतिक्रमः स्यात् । तथा च चक्षुःप्रदीपादीनां231 प्रकाश्यत्वं घटादीनां तु प्रकाशकत्वं स्यात् । प्रतीतिविरोधोऽन्यत्रापि232 न काकैर्भक्षितः ।
ननु शब्दस्य233 स्वाभाविकी शक्तिः किमेकार्थप्रत्यायने, अनेकार्थप्रत्यायने वा ? यद्येकार्थप्रत्यायने, तदा234 सङ्केतशतैरपि ततोऽर्थान्तरे प्रतीतिर्न स्यात् धूमादनग्निप्रतीतिवत् । अथ अनेकार्थप्रत्यायने, तदा युगपत् ततोऽनेकार्थप्रतीतिप्रसङ्गात् प्रतिनियतेऽर्थे प्रवृत्तिर्न स्यात्, इत्यप्यचर्चिताभिधानम् सर्वशब्दानां235 सर्वार्थेषु प्रत्यायनशक्तिसम्भवात् । कथमन्यथा अनवगतसम्बन्धे शब्दे प्रयुक्ते सन्देह स्यात्–“कमर्थं236 प्रतिपादयितुमनेन शब्दः प्रयुक्तः” इति । नचैवं सकृत्सर्वार्थप्रतिपत्तिप्रसक्तेः प्रतिनियतेऽर्थे ततः237 प्रवृत्तिर्न स्यादित्यभिधातव्यम्; प्रतिनियतसङ्केतवशात्तेषां238 प्रतिनियतार्थप्रतिपादकत्वोपपत्तेः । एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतोऽनुभूयते,239 यथा240 मालवकादौ241 कर्कटिकाशब्दस्य फलविशेषे, गुर्जरादौ तु योन्यामिति । दृश्यते च सर्वत्र रूपप्रकाशने242 योग्यस्यापि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते, दूरतिमिरवशाच्च सन्निहिते रूपे, विशिष्टाञ्जनादिवशात् अन्धकारान्तरितेऽपि ज्ञानजनकत्वम्, काचकामलादिवशाच्च विवक्षितरूपाभावेऽपीति243 । तयो यथा अनेकरूपप्रकाशनयोग्यस्यापि चक्षुषो दूरतिमिरादिप्रतिनियतसहकारिवशात् प्रतिनियतदूररूपादिज्ञानजनकत्वं तथा अनेकार्थप्रत्यायनयोग्यस्यापि शब्दस्य प्रतिनियतसङ्केतवशात् प्रतिनियतार्थप्रतिपादकत्वमविरुद्धम् ।
अथ मतम्–चक्षुरादिवत् शब्दस्य अर्थे योग्यतालक्षणसम्बन्धसम्भवे तद्वदेव244 अतः237 सङ्केतानपेक्षा अर्थप्रतीतिः स्यात्, तदप्यसङ्गतम्; तस्य245 ज्ञापकतया तत्सापेक्षस्यैव246 अर्थ247 प्रतीत्यङ्गतोपपत्तेः । यज्ज्ञापकं तत् ज्ञाप्ये प्रतिपन्नप्रतिबन्धमेव प्रतीतिमुत्पादयति यथा धूमादि, ज्ञापकश्च शब्द इति । चक्षुरादीनां तु कारकत्वात् युक्तं स्वार्थसम्बन्धग्रहणानपेक्षाणां तदुत्पादकत्वम् । स्वयं हि प्रतीयमानम् अप्रतीतार्थप्रतीतिहेतुर्ज्ञापकमुच्यते । तद्रूपता248 च शब्दादेरेवास्ति न चक्षुरादेः, अतः249 स250 एव प्रतिपन्नप्रतिबन्धं स्वार्थं गमयति । शक्तिस्तु स्वाभाविकी यथा रूपप्रकाशने चक्षुरादेः तथा अर्थप्रकाशने शब्दस्य ।
यदप्युक्तम्–“अतोऽर्थासंस्पर्शिनः251 शब्दाः” इत्यादि, तदप्यसमीक्षिताभिधानम्; यतः252 किमाप्तप्रणीतस्य शब्दस्य अर्थासंस्पर्शित्वं प्रसाध्यते, अनाप्तप्रणीतस्य, शब्दमात्रस्य वा ? तत्राद्यपक्षे प्रत्यक्षबाधा,253 आप्तप्रणीतात् “नद्यास्तीरे फलानि सन्ति” इति वाक्यादतिरस्कृतबाह्यार्थप्रत्ययप्रतीतेः254 ततः255 प्रवृत्तस्य तदर्थप्राप्तेः । अथाऽनाप्तप्रणीतस्य; तर्हि तस्यैव अर्थाऽसंस्पर्शित्वं युक्तं नान्यस्य, अन्यथा काचादिदोषदुष्टचक्षुःप्रभवप्रत्यक्षस्य256 अर्थासंस्पर्शित्वोपलम्भात् गुणवच्चक्षुःप्रभवप्रत्यक्षस्यापि257 तत्स्यात्258 ।
एतेन तृतीयविकल्पोऽपि प्रत्याख्यातः; आप्तानाप्तप्रणीतशब्दव्यतिरिक्तस्य शब्दमात्रस्याऽसम्भवात् । नन्वाप्तप्रणीताद्259 अङ्गुल्यादिवाक्याद्260 विपर्ययज्ञानोत्पत्तिप्रतीतेः शब्दस्यैष महिमा261 न वक्तृदोषाणाम्; इत्यप्यचर्चिताभिधानम्; आप्तैरेवंविधवाक्याऽप्रयोगात्262 ।
यत्तु–“आप्तोऽपि कस्मैचिदुपदिशति” इत्याद्युक्तम्;263 तत्र264 निषेधपरत्वेनास्य265 यथार्थ तैव, वाक्यैकदेशस्यापि266 उदाहरणविवक्षायाम् इतिकरणावच्छिन्नस्य शब्दपरत्वेनोपादानात् प्रतिषेधैकवाक्यतया यथार्थतैव । अर्थपरत्वे तु निषेधेनैकवाक्यतैव न स्यात् । तस्माद् आप्तप्रणीतशब्दानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शिनः शब्दाः, किन्तु पुरुषदोषवशात् ।
नन्वाप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिरेकः “कि शब्दाभावादयथार्थज्ञानानुत्पत्तिः, वक्तृदोपाभावाद्वा”; इत्यप्यविचरितरमणीयम्; अनुच्चारितशब्दस्यापि267 दोषवतः पुरुषस्य हस्तसञ्ज्ञादिना प्रतारकत्वप्रतीतेः । न च हस्तसञ्ज्ञादि ना शब्दानुमानं ततो वितथप्रत्यय इत्यभिधातव्यम्; तथाप्रतीत्यभावात्268 । नद्यादिवाक्यादुत्पन्ने च क्वचिद्विज्ञाने तरङ्गिणीतीरमनुसरन् अनामादितफलः पुरुष पुरुषमेवाधिक्षिपति “दुरात्मनाऽनेन विप्रलब्धोऽस्मि” इति, न शब्दम् । ननु पुरुषस्य गुणवतो दोषवतो वा शब्दोच्चारणमात्र एव व्यापारः, अर्थप्रतिपत्तिस्तु शब्दनिबन्धनैवेति तद्विपर्यये269 शब्दस्यैव व्यापारो न वक्तृदोषाणाम्; इत्यप्ययुक्तम् यतो270 गुणवद्वक्तृप्रणीतात् “तरङ्गिणीतीरे फलानि सन्ति” इति वाक्यात् सत्यप्रत्ययोदयेऽप्येवं शब्दस्यैव व्यापारः स्यात् तद्वक्तुः तदुच्चारणमात्रे चरितार्थत्वात् । अतः कथमेकान्तत शब्दस्याऽर्थासस्पर्शित्वमेव271 स्वरूपं स्यात् ?
किञ्च, विपर्ययज्ञानोत्पत्तेर्यावद्भिः सह तद्भावभावित्वमवगम्यते272 तावतां तत्र व्यापारः, सा273 चात्र शब्दोच्चारणे सत्यपि अनाप्तयोगिता विना न दृष्टेति शब्दवत्तदाशयस्यापि274 तत्र275 व्यापारः ।
किञ्च276,277 चक्षुरादिवदर्थप्रकाशकत्वमात्रं शब्दस्य278 स्वरूपं न पुनः यथार्थप्रकाशक279 त्वमयथार्थप्रकाशकत्वं वा, तस्य280 गुणदोषनिबन्धनत्वात् । सति हि नैर्मल्यादिगुणे चक्षुर्यथावद्वस्तु प्रकाशयति काचादिदोषे तु सति अयथावत्, एवं शब्दोऽपि वक्तृगुणदोषापेक्षः सत्येतररूपं वस्तु प्रकाशयति । अत एव अङ्गुलिशिखराधिकरणकरेणुशतवचसि281 वाध्यमानेऽपि पुनः पुनरुच्चार्यमाणे भवति भ्रान्तिः प्रकाशकत्वस्य तत्स्वरूपस्य282 बाधकशतोपनिपातेऽप्यनपायात् ।
यच्चान्यदुक्तम्–“नेन्द्रियवदुदास्ते”283 इति, तदप्युक्तिमात्रम्; बाधकप्रत्ययप्रवृत्तावपीन्द्रियस्य चन्द्रद्वयविषयमिथ्याज्ञानजनकत्वप्रतीतेः । न च तत्प्रवृत्तौ284 तत्285 तद्विषयं286 विज्ञानं नोत्पादयतीत्यभिधातव्यम्; प्रतीतिविरोधात् ।
यदप्युक्तम्–“विकल्पयोनयः287 शब्दाः” इत्यादि, तत् सविकल्पकसिद्धौ288 कृतोत्तरत्वादुपेक्षते । ततः प्रमाणं शब्दः अर्थोपलब्धिनिमित्तत्वात् प्रत्यक्षादिवत, स्वपरपक्षसाधनदूषणसमर्थत्वाच्च सम्यग्ज्ञानवत्, तथा सकलतत्त्वविप्रतिपत्तिनिवृत्तिनिमित्तत्वात् योगिज्ञानवत् । न खलु देशकालस्वभावविप्रकृष्टाऽखिलार्थानां289 शब्दादन्यतो विप्रतिपत्तिनिवृत्तिः सम्भवति तदुपायान्तराऽसम्भवात् । लिङ्गं तदुपायान्तरं290 सम्भवतीति चेत्; न; तत्प्रतिबद्धलिङ्गस्य291 कस्यचिदप्यप्रतिपत्तेः । ततो योग्यतालक्षणसम्बन्धात् शब्दस्यैव तत्र292 प्रामाण्यमभ्युपगन्तव्यमिति ॥ छ ॥
“शब्दार्थयोर्नित्यसम्बन्धसम्भवान्नास्ति पुरुषकृत सङ्केत” इति मीमासकस्य पूर्वपक्ष–
नन्वस्तु शब्दस्यार्थे सम्बन्धः, स तु अनित्य, नित्यो वा स्यात् ? तत्राद्यपक्षोऽनुपपन्नः; अनित्यस्य सम्बन्धस्य कर्त्तुमशक्यत्वात् । समयो हि क्रियमाणः प्रतिपुरुषम्,293 प्रतिशब्दम्, प्रत्यर्थ सर्गादौ सकृदेव क्रियते प्रकारान्तरासम्भवात् । उक्तञ्च–
समयः प्रतिमर्त्त्यं वा प्रत्युच्चारणमेव वा ।
क्रियते जगगदादौ वा सकृदेकेन केनचित्294 ॥
[मी॰ श्लो॰ सम्बन्धा॰ श्लो॰ १३]
प्रथमपक्षे पुरुषेण प्रतिपुरुषं सम्बन्धः क्रियमाणः किमेकः क्रियते, अनेको वा ? यद्येकः,295 कथं कृतकः296297 ? पूर्वमप्यस्य298 सद्भावतोऽकृतकत्वप्रसिद्धेः । नहि सतो वस्तुनपुरुषाज्जन्म युक्तम्, अभिव्यक्तेरेवातस्तस्योपपत्तेः299 । अथानेकः; कथमेकार्थसङ्गतिः ? यथा गोशब्दस्य सास्नादिमानर्थः केसरादिमानश्वशब्दस्येति300 ।
किञ्च, प्रतिपुरुषं301 सम्बन्धकरणे किमेकस्तत्कर्त्ता, बहवो वा ? यद्येकः; तदासौ देशान्तरव्यवस्थितानां कथ समयं विदध्यात् ? तत्र तत्र गत्वाऽसौ करोति चेत्, तर्हि पुरुषायुषेणापि तत्करणानुपपत्तिः302 तेषामनन्तत्वात्303 । अथैकः सन्निहितेषु बहुषु समयं करोति,304 ते च कृतसमया अन्येषान्तं305 करिष्यन्ति, तेऽष्यन्येषाम्, इत्येवं सर्वत्र व्यवहारः उपपत्स्यते, तन्न, तेषां306 प्रयोजनाभावतः सर्वत्र गमनानुपपत्तेः, अतो यत्रैव ते न गच्छन्ति तत्र व्यवहारो न प्राप्नोति । अथ बहवः समयस्य कर्त्तारः, तर्हि सकलदेशकालेषु एकरूपता समयस्य न प्राप्नोति, तस्यां307 निमित्ताभावात् । न च308 ते सर्वे सभूय पर्यालोच्य वा एकमेव समयं कुर्वन्ती त्यभिधातव्यम्; परस्परानपेक्षाणां स्वातन्त्र्येण समयं कुर्वतां309 तथा310 तत्करणानुपपत्तेः ।
प्रतिशब्दमपि उच्चार्य समयः क्रियेत, अनुच्चार्य वा ? न तावदनुच्चार्य;311 अस्य312 निराश्रयत्वप्रसङ्गात् । न च निराश्रयः सम्बन्धो युक्तः अतिप्रसङ्गात् । नापि उच्चार्य, पुरुषायुषेणापि तथा313 सम्बन्धस्य कर्त्तुमशक्यत्वात् ।
किञ्च, प्रतिशब्दमुच्चार्य314 अभिनवः सम्बन्धो विधीयते, प्राक्तन एव वा ? अभिनवस्य विधाने कथमस्य315 अर्थप्रत्यायनसामर्थ्यावगतिः ? तदनवगतौ316 च सम्बन्धकरणानुपपत्तिः । प्राक्तनस्य312 तु पूर्वमपि सत्त्वात् करणानुपपत्तिः317 । एकस्य हि वस्तुनो ज्ञप्तिरेव असकृदावर्त्तते318 न तूत्पत्तिः ।
नापि प्रत्यर्थं सम्बन्धः कर्त्तुं शक्यः; अर्थानामानन्त्याद् विदूरत्वाच्च319 । सर्गादा वपि320 सकृत्सम्बन्धकरणमयुक्तम्, तत्राखिलवाच्यवाकानां सकृत्सम्भवाभावात्321 । शब्दार्थव्यवहारविकलस्य322 कालस्य चाऽसम्भवात् । अतो नित्य323 एव शब्दार्थयोः सम्बन्धोऽभ्युपगन्तव्यः ।
तत्प्रतीतिश्च प्रमाणत्रयसम्पाद्या,324 तथाहि–यदैकोऽन्यस्मै प्रतिपन्नसङ्केताय प्रतिपादयति “देवदत्त गामभ्याज शुक्लां दण्डेन” इति, तदा पार्श्वस्थोऽन्योऽव्युत्पन्नसङ्केतः शब्दार्थौ प्रत्यक्षतः325 प्रतिपद्यते, श्रोतुश्च तद्विष326यक्षेपणादिचेष्टोपलम्भादनुमा327नतो328 गवादिविषयां प्रतिपत्तिं329 प्रतिपद्यते, तत्प्रतिपत्त्यन्यथानुत्पत्त्या330 च शब्दस्यैव तत्र331 वाचिकां शक्तिं परिकल्पयतीति । उक्तञ्च–
शब्दवृद्धाभिधेयानि332 प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥
यन्यथानुपपत्त्या333 तु334 वेत्ति शक्ति द्वयाश्रिताम् । [मी॰ श्लो॰ सम्बन्धा॰ १४०-४१] इति ।
तन्निरसरनपुरस्सरम् पुरुषकृताऽनित्यसङ्केतवशादेव शब्दानाम् अर्थप्रतिपादकत्वसमर्थनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–“अनित्यो335 नित्यो वा” इत्यादि, तदसमीक्षिताभिधानम्; तत्सम्बन्धस्य336 नित्यरूपतया विचार्यमाणस्यानुपपत्तितो नित्यत्वानुपपत्तेः । यद्337 यद्रूपतया विचार्यमाणं नोपपद्यते न तत् तद्रूपतयाऽभ्युपगन्तव्यम् यथा जगदद्वैतरूपतया, नित्यरूपतया विचार्यमाणो नोपपद्यते च शब्दार्थयोः सम्बन्ध इति । न चास्य तद्रूपतया338 विचार्यमाणस्यानुपपद्यमानत्वमसिद्धम्, तथाहि–तत्सम्बन्धस्य नित्यत्वं स्वभावतः,339 सम्बन्धिनित्यत्वाद्वा340 स्यात् ? यदि स्वभावत;341 तर्हि सर्वदा सर्वस्य अर्थमसौ प्रकाशयतु342 स्वरूपतस्तस्य343 प्रकाशकत्वात् । नहि प्रदीपः344 स्वरूपतो रूपप्रकाशकः सन् कञ्चित्प्रति तत्345 प्रकाशयति कञ्चिन्नेति नियमो दृष्टः । अथ सङ्केतव्यक्तोऽसौ346 तत्प्र347काशकः348 तेनायमदोषः; कथमेवमस्य343 नित्यैकरूपता, व्यक्ताव्यक्तरूपतया भेदप्रसङ्गात् ? नित्यैक रूपं हि वस्तु यदि व्यक्तं तदा सर्वदा व्यक्तमेव अभिन्नस्वभावत्वात्तस्य349 ।
किञ्च,350 सङ्केतः पुरुषाश्रयः, स351 च अतीन्द्रियार्थज्ञानविकलतया अन्यथापि वेदे सङ्केतं कुर्यात् अतो मिथ्यात्वलक्षणमस्याऽप्रामाण्यं352 स्यात् ।
किञ्च, नित्यसम्बन्धवशात्353 शब्दः एकर्थनियतः, अनेकार्थनियतो वा स्यात् ? एकार्थनियतश्चेत्; किमेकदेशेन, सर्वात्मना वा ? सर्वात्मनैकार्थनियमे अर्थान्तरे वेदात् प्रतिपत्तिर्न स्यात्, ततश्चास्या354ज्ञानलक्षणमप्रामाण्यम्352 । चौरशब्दो355 वा नित्यसम्बन्धात् तस्करे रूढः कथं दाक्षिण्यैः ओदने356 प्रयुक्तः तमभिदध्यात् । अथैकदेशेनासौ तन्नियतः;357 स किमेकदेशः अभिमतैकार्थनियतः, अनभिमतैकार्थनियतो वा ? अनभिमतैकार्थनियमे मिथ्यात्वलक्षणं वेदस्याऽप्रामाण्यं स्यात् । अथाऽभिमतैकार्थनियतः; किं पुरुषात्, स्वभावाद्वा ? प्रथमपक्षे अस्यापौरुषेयत्वसमर्थनप्रयासो358 व्यर्थः । पुरुषो हि रागाद्यन्ध त्वात्359 प्रतिक्षिप्यते तस्माच्चेद् वेदैकदेशोऽर्थनियमं प्रतिपद्येत किमपौरुषेयत्वेन ? स्वभावादभिमतैकार्थनियमे360 तु भावनाद्यर्थभेदानुपपत्ति361 । अनेकार्थनियतत्वे362 तु वेदस्य सकलार्थसाधारणत्वात् कथमिष्टव्यक्तावेव समयकारः समय कुर्यात् ?
तेनाऽग्निहोत्र जुहुयात् स्वर्गकाम363 इति श्रुतौ ।
खादेत् श्वमासमित्येष नार्थ इत्यत्र का प्रमा364 ॥ [प्रमाणवा॰ ३ । ३१८]
तन्न स्वरूपतः सम्बन्धो नित्यः ।
नापि365 सम्बन्धिनित्यत्वात्, यतः कोऽत्र नित्य366 सम्बन्धी–शब्द, अर्थः, द्वयं वा ? न तावच्छब्दः, तस्याग्रेऽनित्यत्वप्रसाधनात्367 । नाप्यर्थः, घटादेस्तदर्थस्य368 अनित्यतया प्रत्यक्षादितः प्रतीतेः । अथ सामान्यं तदर्थः,369 तच्च नित्यम्, अतस्तदाश्रितः370 सम्बन्धोऽपि नित्य इत्युच्यते, तदसत्; सामान्यस्य तदर्थत्वानुपपत्तेः, तद्वानेव371 शब्दार्थः इत्यग्रे समर्थयिष्यमाणत्वात्, परपरिकल्पितसामान्यस्य372 निषिद्धत्वा373च्च374 । उभयपक्षोऽपि उभयपक्षनिक्षिप्तदोषानुषङ्गादयुक्तः ।
अस्तु वा कुतश्चिन्नित्यः सम्बन्धः; तथाप्यसौ375 किमैन्द्रियः, अतीन्द्रियः, अनुमानगम्यो वा स्यात् ? नतावदैन्द्रियः,376 नित्यस्वभावस्य343 क्वचिदपीन्द्रियेऽप्रतिभासमानत्वात् । अथातीन्द्रियः,377 कथमर्थप्रतिपत्त्यङ्गम् अज्ञातस्य ज्ञापकत्वविरोधात् ? नाज्ञातं ज्ञापकं नाम378 [ ] इत्यभिधानात् । सन्निधिमात्रेण ज्ञापकत्वेऽपिप्रसङ्गात् । नाप्यनुमानगम्यः; सन्बन्धस्याप्रत्यक्षत्वे तत्पूर्वकत्वेनात्रा379ऽनुमानस्याऽप्रवृत्तेः380 । न ह्यगृहीतप्रतिबन्धं381 किञ्चिल्लिङ्गमनुमानमाविर्भावयत्यतिप्रसङ्गात् । अथास्याप्रत्यक्षत्वेऽपि343 अनुमानात् प्रतिबन्धग्रहो भविष्यति, ननु किमत एवाऽनुमानात्, तदन्तराद्वा382 तद्ग्रहः383 स्यात् ? यद्यत एव, अन्योन्याश्रयः–सिद्धे हि अनुमाने तद्ग्रहसिद्धिः, तत्सिद्धेश्चानुमानसिद्धिरिति । अनुमानान्तरात्तत्सिद्धौ384 अनवस्था, तत्रापि385 तद्ग्रहस्य अनुमानान्तरात् प्रसिद्धेः । न चात्र386 किञ्चिल्लिङ्गमस्ति ।
नित्यसम्बन्धस्य हि लिङ्गम्–अर्थज्ञानम्,387 अर्थः, शब्दो वा ? न तावदर्थज्ञानम्; सम्बन्धासिद्धौ तत्कार्यत्वेनास्याऽनिश्चयात्388 । नाप्यर्थः;389 तस्य298 तेन390 सम्बन्धासिद्धे, नहि सम्बन्धार्थयोस्तादात्म्यं सम्भवति घटाद्यर्थवत् सम्बन्धस्यानित्यत्वप्रसङ्गात् । नापि तदुत्पत्तिः संयोगादिर्वा, अनभ्युपगमात् । नापि शब्दो लिङ्गम्, अर्थपक्षोपक्षिप्तदोषानु षङ्गात् । ततो नित्यसम्बन्धस्य कुतश्चिदप्रसिद्धेः अनित्य एवाऽसौ अभ्युपगन्तव्यः ।
यदपि तदनित्यत्वे “प्रतिपुरुषम्” इत्यादि दूषणमुक्तम्,391 तदप्यसमीक्षिताभिधानम्; अनादित्वात् शाब्दव्यवहारस्य । नहि सर्वथा सतो जगतो निर्मूलनाशलक्षणो महाप्रलयः असतश्चात्मलाभलक्षणा सृष्टिः अस्माकं392 भव393तां394 वा प्रसिद्धा येन अपूर्वसृष्टिप्रादुर्भावाश्रयणेन “समय प्रतिमर्त्य वा” इत्याद्युक्तं शोभेत । नित्यत्वेऽपि च तत्सम्बन्धस्य अभिव्यक्तिरनित्याऽभ्युपगन्तव्या, अतस्तत्रापीदं395 दूषणं तुल्यम् । कथञ्चैवंवा396दिनोऽग्निधूमयोरपि397 सम्बन्धः सिद्ध्येत् तत्राप्युक्तविकल्पानां समानत्वात् । अथाग्निधूमत्वसामान्ययोर्नित्यस्वरूपयोः सम्बन्धित्वेन तत्सम्बन्धनित्यत्वसभवात्398 नोक्तविकल्पानां तत्रावकाशः; तदप्यपेशलम्; केवलसामान्ययोः399 सम्बन्धित्वस्य व्याप्तिविचारप्रघट्टके400 प्रतिषिद्धत्वात् । नित्यत्वञ्च सामान्यस्य प्रागेव373 प्रतिषिद्धम् । अतो यथा सादृश्यप्रधानतया सादृश्योपलक्षितानां साध्यसाधनव्यक्तिविशेषाणामनन्तानामपि401 व्याप्तिज्ञानेन क्रोडीकरण तथा वाच्यवाचकव्यक्तिविशेषाणामपि । अतः सम्बन्धस्त्रिप्रमाणकः402 [मी॰ श्लो॰ पृ॰ ६८०] यत्त्वयोच्यते,403 तत्र “शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र पश्यति” इति युक्तम् । “श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया” इत्यप्युपपन्नम्, “अन्यथानुपपत्त्या तु वेत्ति शक्तिं द्वयाश्रिताम्” इत्येतत्त्वनुपपन्नम्, नित्यशक्तौ404 सम्बन्धाख्यायामन्यथानुपपत्तेरभावात् । वह्निधूमादिशक्तिवत्405 शब्दार्थाश्रितायाः शक्तेरनित्यत्वेऽपि श्रोतुरर्थप्रतिपत्त्युपपत्तेः ।
एतेनेदमपि निरस्तम्–
नित्याः शब्दार्थसम्बन्धाः तत्राम्नाता महर्षिभिः ।
सूत्राणा सानुतन्त्राणां406 भाष्याणाञ्च प्रणेतृभि407 ॥ [वाक्यप॰ १ । २३] इति;
408 सम्बन्धस्यानित्यत्वसमर्थनात्, शब्दस्य तदर्थस्य चाग्रे409 अनित्यतया समर्थयिष्यमाणत्वाच्च, सर्वथा नित्यस्य वस्तुनः क्रमयौगपद्याभ्यामर्थक्रियाकारित्वाभावप्रतिपादनाच्च410 । कथञ्चैवंवादिनः411 कार्येर्थे412 चोदनायाः प्रामाण्यं स्यात् कार्यस्याऽनित्यत्वात्413 ? ततः सिद्धं कथञ्चिदनित्ययोग्यतालक्षणसम्बन्धवशात् श्रुतस्यार्थप्रतिपादकत्वम् । अतः सूक्तम्–““संवादकं श्रुतं प्रमाणम्”” इति ॥ छ ॥
“शब्दस्यान्यापोहमात्राभिधायकत्वम्” इति बौद्धस्य पूर्वपक्ष–
ननु श्रुतस्याविसवादित्वमसिद्धम्, अर्थाभावेऽपि शब्दानामुपलम्भात् । य एव हि शब्दाः सत्यर्थे दृष्टाः ते तदभावेऽपि414 दृश्यन्ते, अतः शब्दानां विधिद्वरेणाऽर्थाभिधायकत्वानुपपत्तेः अन्यापोहमात्राभिधायकत्वमेवोपपन्नम्415 । उक्तञ्च–अषोहः शब्दलिङ्गाभ्यां न वस्तु विधिनोध्यते416 [क्षणभङ्गाध्याय ?] इति । प्रयोगः–यद्यत्र417 प्रतिभाति तत्तस्य विषयः यथा अक्षजे सवेदने परिस्फुटप्रतिभासमानवपुरर्थात्मा नीलादिस्तद्विषयः, शब्दलिङ्गप्रभवे च प्रत्यये बहिरर्थतत्त्वरहितं418 स्वरूपमात्रमेव प्रतिभाति अतस्तदेव तस्य विषय इति । न च तत्प्रभवप्रत्यये बहिरर्थाऽसस्पर्शिस्वरूपमात्रावभासित्वमसिद्धम्; शब्दलिङ्गयोर्बहिरर्थविषयत्वायोगतस्तत्सिद्धेः । तथाहि–शब्दस्य419 बहिरर्थो विषयो भवन् स्वलक्षणस्वभावो भवेत्, सामान्यस्वरूपो वा ? तत्राद्यपक्षोऽनुपपन्नः;420 तत्र421 सङ्केताभावतः शब्दानां प्रवृत्त्यनुपपत्तेः । सङ्केतो हि सङ्केतव्यवहारकालानुयायिस्वरूपेऽर्थे विधीयते, न च स्वलक्षणस्य तथाविधं422 स्वरूपं सम्भवति देशकालाकारसङ्कुचितत्वेन423 अननुयायिस्वरूपत्वात् । यः424 सङ्केतव्यवहारकालाननुयायी न तत्र व्यवहारिभिः शब्दः सङ्केत्यते यथा उत्पन्नमात्रप्रध्वसिनि क्वचिदर्थे, नान्वेति च विवक्षितदेशादिभ्यः शावलेयादिर्देशान्तरादाविति425 ।
किञ्च, “अस्येदमभिधानम्” इति यस्मिन् ज्ञाने सम्बन्धः प्रतिभाति न तत्र ज्ञाने प्रतिनियतेन्द्रियविषययोः426 शब्दार्थस्वलक्षणयोः प्रतिभासः । न च तत्राप्रतिभासनयोः स्तयोस्तेन427428 सम्बन्धकरणं युक्तमतिप्रसङ्गात् । यौ429 अस्येदमिति सम्बन्धकारिणि ज्ञाने न प्रतिभासेते न तयोस्तेन ज्ञानेन सम्बन्धकरणं यथा गोशब्दतदर्थयोः सम्बन्धज्ञानेऽप्रतिभासमानयोः अश्वशब्दतदर्थयोः न तेन430 ज्ञानेन सम्बन्धकरणम्, न प्रतिभासेते च स्वेन्द्रियज्ञा431नप्रतिभासिनौ432 शब्दार्थस्वभावौ अस्येदमिति सम्बन्धकारिणि ज्ञाने इति । न चार्थेनाऽकृतसम्बन्धः433 शब्दस्तं प्रत्याययितुमीशः अतिप्रसङ्गादेव । यो434 येन सहाऽकृतसम्बन्धो न स तमर्थ प्रत्याययति यथा अश्वेन सहाकृतसम्बन्धो गोशब्दः, अकृतसम्बन्धश्च स्वलक्षणेन सर्वः शब्द इति । स्वलक्षणविषयत्वे च शाब्दप्रत्ययस्य इन्द्रियप्रभवप्रत्ययवत् स्पष्टप्रतिभासप्रसङ्गः, न चैवम्, प्रतीतिविरोधात् । तदुक्तम्–435
अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दरय436 गोचरः ।
शब्दात्प्रत्येति भिन्नाक्षो437 न तु प्रत्यक्षमीक्षते438439 ॥ [ ]
अन्यथैवाग्निसम्बन्धाद्440 दाह दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ [वाक्यप॰ २ । ४२५] इति ।
नचैकस्य441 वस्तुनो रूपद्वयमस्ति येन अस्पष्टं वस्तुगतमेव रूपं शाब्दप्रत्यये प्रतिभासेत, एकस्य द्वित्वविरोधात् । प्रयोगः–यत्कृते442 प्रत्यये यन्न प्रतिभासते न तत्तस्य विषयः यथा रूपप्रभवप्रत्यये443 रसः, न प्रतिभासते च शब्दप्रत्यये स्वलक्षणमिति । वस्तुविषयत्वे च शब्दानां मतभेदेन अर्थभेदाभिधायित्वानुपपत्तिः । उक्तञ्च–
परमार्थैकतानत्वे444 शब्दानामनिबन्धना ।
न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिषु445 ॥ [प्रमाणवा॰ ३ । २०६] इति ।
तन्न स्वलक्षणस्वभावः शब्दस्य विषयो घटते ।
नापि सामान्यरूपः;446 वास्तवस्य447 सामान्यस्यैवाऽसम्भवात्, तदसम्भवश्च अश्वविषाणवदनर्थक्रियाकारित्वात् सुप्रसिद्धः । न खलु नित्यैकस्वभावस्य448 क्रमयौगपद्याभ्या मर्थक्रियाकारित्वं सम्भवतीत्युक्तं सामान्यनिषेधावसरे373 । तन्नार्थगोचराः शब्दाः किन्तु अन्यापोहगोचराः ।
स चार्धपञ्च449माकारः;450 तथाहि–न जातिव्यक्तयोस्तद्गोचरत्वं451 पूर्वोक्तदोषात् । नापि ज्ञानतदाकारयोः; तयोरपि स्वेन452 रूपेण स्वलक्षणत्वात्, तस्य453 च सङ्केताविषयतया शब्दगोचरतानुपपत्तेः, किन्तु स एव ज्ञानाकारो दृश्यविकल्पावेकीकृत्य454 बहीरूपतयाऽध्यस्तोऽर्धपञ्चमाकारः अन्यापोहः । बाह्यत्वं हि तस्य अर्धाकारः ।
अपोहश्च निषेधः । स455 च द्विविधः–पर्युदासः, प्रसज्यश्च । पर्युदासोऽपि द्विविधःबुद्ध्यात्मा, अर्थात्मा च । तत्र बुद्ध्यात्मा, बुद्धिप्रतिभासोऽनुगतैकरूपत्वेन456 अर्थेष्वध्यवसितः457 । अर्थात्मा458 अर्थस्वभावो विजातीयव्यावृत्तमर्थस्वलक्षणम् । तत्र459 बुद्ध्यात्मनो विशेषलक्षणम्–स्वभावत परस्परविलक्षणानर्थानेकार्थकारितया समानहेतुत्वेनाश्रित्य यदेकप्रत्यवमर्शरूपमर्थप्रतिबिम्बस्वभावं ज्ञानमुत्पन्न तस्य “अपोह” इति सज्ञा । वस्तुभागच्छायो विकल्पेनोल्लिख्यमानो बाह्यत्वेनाऽभिमन्यमानो विकल्पाकारः स्वाकारविपरीताकारोन्मूलकोऽपोहः “अपोह्यते अनेन” इति, विकल्पान्तरवर्त्त्याकाराद्460 भेदेन स्वय प्रतिभासमानत्वात् । “अपोह्यते अन्यस्मात्” इत्यन्यापोहः, अयं हि मुख्यतयैव अन्यापोहशब्दाभिधेयः461 । त्रिभिस्तु कारणैः औपचारिकः–कारणे कार्यधर्मारोपात्, कार्ये कारणधर्मोषचाराद्वा, विजातीयव्यावृत्तस्वलक्षणेन सहैकत्वाध्यवसायाद्वा ? कार्यं हि यथोक्तान्यापोहस्य अन्यव्यावृत्तवस्तुप्राप्तिः, अतस्तत्कारणतया कार्यधर्मोऽन्यव्यावृत्तिः462 तत्राध्यारोप्यते463 । कार्ये कारणधर्मो वा, कारण हि एकप्रत्यवमर्शात्मनोऽन्यापोहस्य464 अन्याससृष्टं स्वलक्षण465 तदनुभवेन तस्य466 जनितत्वात्, अस्ति च कारणभूते स्वलक्षणे अन्यव्यावृत्ति अतस्तस्याः कार्यभूते प्रत्यवमर्शे467 उपचारः । विजातीयव्यावृत्त यत्स्वलक्षणं तेन सह प्रत्यवमर्शप्रतिभासिनो रूपस्य एकत्वेनाध्यवसितत्वाद्वा468 अन्यापोहतेति प्ररूपितः पर्युदासरूपोऽपोहः ।
प्रसज्यरूपस्तु469 “गौरयम् अगौर्न भवति” इति व्यवच्छेदमात्रपर्यवसित इति । प्ररूपितप्रकारस्य470 अन्यापोहस्यैव वाचक शब्दोऽभ्युपगन्तव्यः । वाच्यवाचकभावश्च कार्यकारणभावान्नान्यः;471 बुद्धिसम्बन्धिनो हि प्रतिबिम्बस्य शब्दजन्यत्वात् तद्वाच्यत्वं472 तज्जनकत्वाच्च शब्दस्य वाचकत्वमिति ॥ छ ॥
अपोहवादनिरसनपुरस्सरं शब्दस्य परमार्थसत्सामान्यविशेषात्मकार्थवाचकत्वसमर्थनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–“अपोहः473 शब्दलिङ्गाभ्याम्” इत्यादि; तदसमीचीनम्; यतः प्रमाणतः कुतश्चित्तत्सिद्धौ तस्य474 तद्विषयत्वं475 युक्तम्, न चासौ कुतश्चित् प्रमाणात्प्रसिद्धः; तथाहि–अपोहः476 प्रत्यक्षतः सिद्ध्येत्, अनुमानाद्वा ? न तावत्प्रत्यक्षतः; स्वलक्षणविषयत्वात्तस्य । नाप्यनुमानतः; तदविनाभाविलिङ्गाभावात्477 । नहि असन्निवृत्त्या अगोनिवृत्त्या चाविनाभूतं478 किञ्चिल्लिङ्गमस्ति । तादात्म्यतदुत्पत्तिप्रतिबन्ध प्रकारेण हि भवन्मते479 अविनाभावो व्यवस्थितः । नचान्यव्यावृत्तेः केनचित्सह तादात्म्यतदुत्पत्ती घटेते । तथाहि–अकृतकत्वव्यावृत्ति कृतकत्वम्, तत् स्वलक्षणात्मकम्, नित्यव्यावृत्तिरूपाऽनित्यत्वात्मकं वा स्यात् ? न तावत्स्वलक्षणात्मकम्; अवस्तुरूपत्वात्, यदवस्तुरूप480 न तत् स्वलक्षणात्मक यथा खरविषाणम्, अवस्तुरूपञ्च अकृतकत्वव्यावृत्तिरूपतया कृतकत्वमिति । नापि नित्यव्यावृत्तिरूपाऽनित्यत्वात्मकम्;481 उभयो482 नीरूपतया तादात्म्यसम्बन्धाभावात् । ययो483 नीरूपत्व न तयोस्तादात्म्यसम्बन्धः यथा खपुष्पवन्ध्यासुतयोः, नीरूपत्वञ्च अन्यव्यावृत्तिस्वभावयो कृतकत्वानित्यत्वयोरिति । तन्नानयोस्तादात्म्यं घटते । नापि तदुत्पत्ति, नीरूपत्वादेव । तथाहि–यन्नीरूप तन्न कस्यचिज्जन्यं जनक वा यथा खरविषाणम्, नीरूपञ्च साध्यसाधनत्वेनाऽभिप्रेत प्रकृतमन्यापोहद्वयमिति484 ।
ननु485 चार्थाभावेऽपि अर्थाकारं यत् प्रतिबिम्बमुत्पन्नं तदेवान्यापोहः, स च स्वसंवेदनप्रत्यक्षत एव सिद्ध्यति, इत्यनर्थक तत्रानुमानम्; इत्यप्यसमीक्षिताभिधानम्,486 ज्ञानेऽर्थाकारधारित्वस्य तन्निराकारत्वसिद्धौ21 प्रतिषिद्धत्वात् ।
अस्तु वा तत्,487 तथापि–अत्र कस्य प्रतिबिम्बनम्–स्वलक्षणस्य, सामान्यस्य वा ? न तावत्स्वलक्षणस्य, तस्य488 व्यावृत्ताकारत्वात् । अनुगतैकरूपञ्च प्रतिबिम्बम् अन्यापोहोऽभिप्रेतः, अतः स्वलक्षणेनापि तथाविधेनैव489 भवितव्यम्490 । तथाहि–यस्य491 हि यदाकारं प्रतिबिम्बं तत् स्वयमपि तदाकारमेव यथा मुखचन्द्रादि, अनुगतैकाकारञ्च स्वलक्षणस्य ज्ञाने प्रतिबिम्बमिति । अथ सामान्यस्य ज्ञाने प्रतिबिम्बनमिष्यते; तदप्यसत्, तस्याऽसतः492 प्रतिबिम्बनानुपपत्तेः । यदसन्न493 तत् क्वचित् प्रतिबिम्बति यथा खपुष्पम्, असच्च भवन्मते494 सामान्यमिति । तत्र495 तत्प्रतिबिम्बाभ्युपगमे496 वा प्रतिबिम्बोदयात्प्रागन्योन्यविविक्ततद्रू497पद्वयोपलम्भप्रसङ्गः498 । यत्र499 यत् प्रतिबिम्बति500 तद्द्वयं प्रतिबिम्बोदयात्प्रागन्योन्यविविक्तमुपलभ्यते यथा मुखादर्शादि, प्रतिबिम्बति501 च ज्ञाने सामान्याकार इति ।
अथ वाहदोहाद्येकार्थक्रियाकारितया स्वलक्षणमेवानुवृत्ताकारं सत् सामान्यम्, अतो नोक्तदोषावकाशः;502 तदयुक्तम्; एकार्थक्रियामकुर्वतस्तत्कारित्वाभावतः448 प्रतिबिम्बो दयाभावानुषङ्गात् । अर्थक्रियायाश्च कादाचित्कत्वात् तदुदयोऽपि कदाचिदेव स्यात् ।
किञ्च, एकार्थक्रियाकारित्वं स्वलक्षणे यद्येकमभ्युपगम्यते तदा बाह्यावभासितयोपलभ्यमानप्रतिभासबलात् तदेव प्रतिभास्यमस्तु किं प्रतिबिम्बाग्रहग्रहेण ?
किञ्च, यदि स्वप्रतिबिम्बमात्राध्यवसायित्वं शाब्दविकल्पस्य स्यात् तर्हि अतः503 कुतो बहिरर्थे प्रवृत्तिः स्यात् ? स्वप्रतिभासेऽनर्थे अर्थाध्यवसायाच्चेत्, ननु कोऽयमर्थाध्यवसायो504 नाम–बाह्यस्यार्थस्य ग्रहणम्, करणम्,505 योजनम्, समारोपो वा ? प्रथमपक्षे परमतसिद्धिः;506 शाक्यैः शाब्दप्रत्ययानां बहिरर्थग्रहणानभ्युपगमात् । द्वितीयपक्षोप्यनुपपन्नः; नहि बाह्यार्थकरणे ज्ञानानां सामर्थ्यम्, स्वसामग्रीतस्तेषामाविर्भावात्,507 अन्यथा अप्रतिहता508 सर्वस्य सर्वार्थसिद्धिः स्यात् ।
अथ स्वाकारं509 विकल्पो बाह्येनार्थेन योजयति; तदसत्; तथाप्रतीतेरसम्भवात्510 । नह्येवं कस्यचित् प्रतीतिः “योऽयमाकारो मदीयः स बाह्यार्थविशिष्टः” इति, बाह्यार्थेन सह स्वाकारस्य511 सम्बन्धाभावतो विशेषणविशेष्यभावानुपपत्तेः512 । न च परम्परया513 तदुत्पत्तिसम्बन्धोऽस्यास्तीत्यभिधातव्यम्; व्यावृत्ताकारार्थस्य514 अनुवृत्ताकारप्रतिबिम्बनहेतुत्वप्रतिषेधात् ।
अथ बाह्यमर्थं विकल्प स्वाकारे समारोपयति; तदप्यसाम्प्रतम्; समारोपो हि उभयग्रहणे सति स्यात्, असति वा ? न तावदसति; उभयग्रहणपुरस्सरत्वात्तस्य515 । यः516 समारोपः स उभयग्रहणपुरस्सर यथा गोर्वाहीके समारोपः,517 समारोपश्च विकल्पाकारे बाह्यार्थस्येति । न चेदं निदर्शनं साध्यविकलम्; येनैव हि गौरनुभूतः वाहीकश्च, स तद्धर्मान् बहुभारोद्वहनादीन् वाहीके निश्चित्य गोत्वमारोपयति “गौर्वाहीकः”518 इति । अथोभयग्रहणे सति आरोप स्यात्; ननु519 उभयोर्ग्रहण विकल्पेन, निर्विकल्पेन वा स्यात् ? न तावन्निर्विकल्पेन, अस्य520 स्वलक्षणगोचरतया अन्यापोहस्वरूपविकल्पाकारे प्रवृत्त्यनुपपत्तेः । नापि विकल्पेन; अस्य बाह्यार्थपरा521मर्शपराङ्मुखत्वात्,522 अतः कथमसौ523 स्वाकारे बाह्य तत्र524 वा स्वाकारमारोपयेत् ?
अस्तु वाऽस्योभयग्रहणम्; तथापि–पू525र्वं526 स्वप्रतिभासमनर्थमनुभूय पश्चादर्थमारोपयति, युगपदेव वा स्वप्रतिभासञ्चानुभवति527 अर्थञ्च समारोपयति, किं वा यावदेवोक्तं भवति–स्वाकारमनुभवतीति तावदेवोक्त भवति अर्थमध्यवस्यतीति528 ? न तावत्स्वरूपानुभवः पूर्वं पश्चादर्थसमारोपः, क्षणद्व्यावस्थानविकल्पत्वाज्ज्ञानानाम्, अन्यथा क्षणभङ्गभङ्गप्रसङ्गः529 । अथ युगपदेव स्वप्रतिभासमनुभवति अर्थञ्च समारोपयति, तर्हि ग्राह्यग्राहकाकारात्मके विकल्पस्वरूपे सवेद्यमाने स्वानुभवसमानकाल एवार्थः समारोप्यमाणो विकल्पस्वरूपाद् बहिरेवाऽवतिष्ठते530 तत्कथमात्मानमनर्थम्531 अर्थमारोपयेदसौ ? अथ स्वाकारानुभव एव अर्थसमारोपः, तदप्यसुन्दरम्; अनुभवितव्यविकल्पयितव्ययोर्भेदात् । शब्दससृष्टं हि स्वरूपं विकल्पयितव्यम्, अशब्दसंसृष्ट तु स्वसंवेदनेनानुभवितव्यम्, तत्कथमनयोरेकत्वम् ?
एतेन “दृश्यविकल्प्यावेकीकृत्य बहीरूषतयाऽध्यस्तः” इत्यादि532 प्रत्युक्तम्, तदेकी करणञ्च किं तेनैव ज्ञानेन, ज्ञानान्तरेण वा ? न तावत्तेनैव स्वाकारं दृश्यञ्च पृथक् प्रतिपद्यैक्यं प्रतीयते, तथा533 प्रतीत्यभावात्,534 क्षणिकत्वाच्च535 । नापि ज्ञानान्तरेण; तद्धि एकम्, अनेकं वा ? यद्यनेकम्; कथमैक्यं प्रतिपद्येत ? स्वसंवेदनेन हि ज्ञानस्वरूपं प्रतीयते दर्शनेन तु दृश्यम् । एक तु यदि द्वयं प्रत्येति, कथमैक्यम् ? अथैक्यं प्रत्येति; कथं द्वयं विरोधात् ?
किञ्च, अयमपोहो भावे भावस्य प्रतीयते, केवलो536 वा ? प्रथमपक्षे भावयोः प्रतीतिः किं शब्दादेव, प्रमाणान्तराद्वा ? न तावत् शब्दादेव; अस्य अपोहादन्यत्र प्रवृत्त्यनभ्युपगमात् । अभ्युपगमे537 वा किं भावौ प्रतीत्य अतोऽपोहः प्रतीयते, अपोहं वा प्रतीत्य भावाविति ? तत्राद्यविकल्पे नान्यापोहः शब्दार्थः, मुख्यतो538 भावयोरेव तदर्थत्वात्,539 प्रतीत्युत्तरकालं सामर्थ्यादेव540 वा अन्यव्यावृत्तेः541 प्रतीतेः । नीलञ्च प्रतीत्य अनीलव्यावृत्तिप्रतीत्यभ्युपगमे स्खलन्ती542 तत्प्रतीतिः543 स्यात् । अतो नीलस्य अनीलव्यावृत्त्यात्मकस्यैव प्रत्यक्षादिव शब्दात्प्रतीतिरभ्युपगन्तव्या । द्वितीयविकल्पे तु प्रतीतिविरोधः, न खलु केवलोऽपोहः प्रथमं शब्दात् प्रतीयते पश्चाद् भावाविति कस्यचित्स्वप्नेऽपि544 प्रतीतिरस्तीति545 । एतेन प्रमाणान्तरादपि तत्प्र546तीतिः547 प्रत्याख्याता, ततोऽपि भावयोः प्रतीतौ उक्तदोषानुषङ्गाविशेषात्548 । अस्तु वा कुतश्चिदस्य474 प्रतीतिः, तथापि–भावाभ्यां भिन्नस्यापोहस्य प्रतीतौ कथमस्य474 भावसम्बन्धिता स्यात्, भावाभावयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धासम्भवात् ?
“केवलोऽपोहः प्रतीयते” इत्ययमपि पक्षोऽनेनैव प्रतिव्यूढः, यदि च केवलोऽपोहः शब्दाल्लिङ्गाद्वा प्रतीयेत, तर्हि सर्वशब्दानां549 पर्यायता स्याद् अपोहमात्रस्याऽविशिष्टस्याशेषशब्दैः प्रतिपादनात् । एवञ्च550 विशेषणविशेष्यभेदः551 अतीतादिकालभेदः स्त्रीपुन्नपुंसक552 लिङ्गभेदः एकद्विबहुवचनादिभेदश्च दुर्लभः । लिङ्गलिङ्गिभेदश्च दूरोत्सारित एव स्यात्, यदेव हि लिङ्गशब्दवाच्यमपोहमात्रं तदेव लिङ्गिशब्दस्यापि ।
अथापोहस्य553 भेदाभ्युपगमान्नायं दोषः; तदयुक्तम्, तस्य474 भेदाऽसिद्धेः । तस्य हि भेदः अपोह्यभेदाद्, वासनाभेदात्, विभिन्नसामग्रीप्रभवत्वात्,554 विभिन्नकार्यकारित्वात्, आश्रयभेदात्, स्वरूपभेदाद्वा स्यात् ? न तावदपोह्यभेदात्;555 सर्व-प्रमेयादिशब्दानामपोह्यभेदाभावतः पर्यायताप्रसङ्गात् । न हि असर्वं सर्वराशेर्व्यतिरिक्तम्, अप्रमेयं वा किञ्चिदस्ति यदपोहेन सर्वादिकं सिद्ध्येत् । कथ वा सत्त्व-कृतकत्वादिहेतोः556 सिद्धिः ? न हि असदकृतकं वा जगति किञ्चिदस्ति यदपोहेन सत्त्वादिसाधन सिद्ध्येत् । अपोह्यभेदादपोहभेदे557 चान्योन्याश्रयः–सिद्धे558 ह्यपोह्यभेदे अपोहभेदसिद्धि, तत्सिद्धौ चापोह्यभेदसिद्धिरिति । तन्नापोह्यभेदादपोहस्य भेदः । नापि वासनाभेदात्,559 तद्भेदस्या560प्यनुपपत्तेः561 । अनुभवभेदनिबन्धनो हि वासनाभेद, अपोहस्य चैकरूपत्वे562 अनुभवभेदो दुर्घट । नापि विभिन्नसामग्रीप्रभवत्वादपोहभेदः,563 अस्य474 कल्पितरूपतया सामग्रीविशेषतः प्रादुर्भावस्यैवाऽनुपपत्तेः564 । यत्565 कल्पितरूप तन्न कुतश्चित्प्रादुर्भवति यथा तुरङ्गमोत्तमाङ्गे शृङ्गम्, कल्पितरूपश्च भवन्मते131 अपोह इति । ततस्तदुत्पत्तौ566 वा कल्पितरूपत्वव्याघातः । यत्567 कुतश्चिदुत्पद्यते तन्न कल्पितरूपं यथा स्वलक्षणम्, उत्पद्यते च सामग्रीविशेषतोऽपोह इति ।
एतेन विभिन्नकार्यकारित्वात्तद्भेदः568 प्रत्याख्यातः; अपरमार्थसतो विभिन्नकार्यकारित्वानुपपत्तेः खपुष्पवत् । तत्कारित्वे569 वाऽपरमार्थसत्त्वाऽसम्भवात्570 स्वलक्षणवत् । कुतश्च कार्यकारणयोर्भेदः सिद्धो यतः तद्भेदादपोहस्य571 भेदः सिद्ध्येत्–अपोहभेदात्, स्वरूपतो वा ? अपोहभेदाच्चेद्; अन्योन्याश्रयः–सिद्धे हि कारणभेदे कार्यभेदे च तत्प्रभवतया572 तत्का573रितया574 च अपोहभेदसिद्धिः, तत्सिद्धौ च कार्यकारणयोर्भेदसिद्धिरिति । स्वरूपतस्तद्भेदसिद्धौ575 च576 अपोहकल्पनाऽनर्थक्यम् ।
अथाश्रयभेदादपोहभेदः;577 तन्न; अवस्तुरूपस्यास्य क्वचिदाश्रितत्वानुपपत्तेः । यदवस्तुरूपं578 न तत् क्वचिदाश्रितम् यथा गगननलिनम्, अवस्तुरूपश्चापोह इति । आश्रितत्वे वा किमसौ579 प्रतिव्यक्ति भिन्नः, अभिन्नो वा स्यात् ? यदि भिन्नः; तदा द्रव्यगुणकर्मणां580 मध्ये अन्यतमरूपतैवास्याभ्युपगता474 स्यात्, प्रतिव्यक्त्यन्यस्य आश्रितत्वानुपपत्तेः । अथाभिन्नः; तदा सामान्यरूपतैव नामान्तरेणोक्ता स्यात् इत्युभयथाप्यन्यापोहरूपतानुपपत्तिः ।
अथ स्वरूपभेदादपोहस्य भेदः; तन्न; अपरमार्थसत्त्वेऽस्य474 स्वरूपभेदानुपपत्तेः । यदपरमार्थसन्न581 तस्य स्वरूपभेदः यथा खपुष्पखरविषाणादेः, अपरमार्थसंश्चापोह इति । स्वरूपभेदे वाऽस्य582583 स्वलक्षणवत् परमार्थसत्त्वप्रसङ्गः ।
किञ्च, पर्युदासरूपः,584 प्रसज्यरूपो वाऽपोहः स्वरूपतो भिन्नः शब्दैरभिधीयेत585 ? यदि पर्युदासरूपः; तदास्य भावान्तररूपताभ्युपगन्तव्या586 । भावान्तरञ्च “विशेषः, सामान्यम्, तदुपलक्षितो वा विशेषः, तत्समुदायो वा स्यात्” इति पक्षचतुष्टयेऽपि विधिरेव शब्दार्थः स्यात् नाऽपोहः । अथ प्रसज्यरूपः; तदा निषेधमात्रमेव587 शब्दैरभिहितं स्यात्, तच्चायुक्तं तथाप्रतीत्यभावात् । परप्रतिपादनार्थो हि शब्दप्रयोगः, परश्च नीलार्थी न अनीलनिषेधमात्रं जिज्ञासते,588 अजिज्ञासितञ्च प्रतिपादयतः प्रतिपादकस्याऽप्रेक्षापूर्वकारित्वप्रसङ्गः ।
निषेधमात्राभिधायित्वे च नीलोत्पलशब्दयोः सामानाधिकरण्यन्न589 प्राप्नोति, नीलशब्दो ह्यनीलव्यवच्छेदमात्रे चरितार्थः, उत्पलशब्दोऽपि अनुत्पलव्यवच्छेदमात्रे । न चैतौ व्यवच्छेदौ एकस्मिन् धर्मिणि सम्बद्धौ, भावाभावयोस्तादात्म्यादिसम्बन्धासभवात्590 । नपि तौ शब्दौ591 एकधर्मिविषयौ;592 घटपटशब्दयोरिवाऽनयोः एकधर्मिविषयत्वानभ्युपगमात्593 ।
किञ्च, नञेव पर्युदासवृत्तिः प्रसज्यवृत्तिर्वा भवति, गौरिति च नायं नञ्, अतः कथमगोपर्युदासेन गोशब्दवृत्तिः594 ? गौरयमिति विधिरूपेणैवास्य595 प्रवर्त्तमानत्वात् । ततः सामान्यविशेषवानर्थः शब्दस्य विषयोऽभ्युपगन्तव्यः अल प्रतीत्यपलापेन । तस्य596 च सङ्केतव्यवहारकालानुयायित्वप्रसिद्धेः नेत्थम्भूते597 स्वलक्षणे सङ्केतकरणवैफल्यम्598 । भवत्कल्पितस्य599 तु स्वलक्षणस्य सुगतमतपरीक्षायां प्रपञ्चत प्रतिक्षिप्तत्वात्600 तत्र601 तत्करणं602 विफलमेव । अतो यः “सङ्केतव्यवहारकालाननुयायी” इत्यादि603 सिद्धसाधनत्वादुपेक्षणीयम् ।
सम्बन्धश्च वाच्यवाचकयोः ऊहाख्यप्रमाणेन प्रतीयते, सर्वत्र सम्बन्धप्रतीतेस्तदधीनत्वात्604 । अतः “अस्येदमभिधानमिति सम्बन्धकारिणि ज्ञाने प्रतिनियतेन्द्रियविषययो शब्दार्थयोर्न प्रतिभासः” इत्याद्यप्ययुक्तमुक्तम्,605 सामान्यविशेषात्मनोरेव शब्दार्थयोः प्रतिनियतेन्द्रियविषयतोपपत्तेः, अत कथ तयोः तत्कारिणि606 ज्ञाने प्रतिभासाभावः ?
ननु चातीतानागतार्थशब्दानां “नद्यास्तीरे मोदकराशयः सन्ति” इत्यादिशब्दानाञ्च अर्थाभावेऽपि प्रवृत्तिप्रतीतेः कथमर्थे प्रतिबन्धसिद्धिस्तेषा607म्238 ? इत्यप्यसमीक्षिताभिधानम्, यतो न वयं608 सर्वशब्दानामर्थनान्तरीयकत्वं609 प्रतिपन्नाः । किन्तर्हि ? सुनिश्चिताप्तप्रणेतृकाणामेव । न च केषाञ्चिच्छब्दानामर्थव्यभिचारित्वदर्शनात्610 सर्वेषां तद्व्यभिचारित्वं युक्तम्; मरीचिकादौ जलाद्यवभासिनोऽध्यक्षस्य अप्रामाण्योपलम्मात् सत्यजलाद्यवभासिनोप्यस्याऽप्रामाण्यप्रसङ्गात्611 । मरीचिकादौ जलाद्यवभासिन एवास्याऽप्रामाण्य वाधकसद्भावान्नेतरस्य इत्यन्यत्रापि समानम् । तन्न प्रत्यक्षशब्दयोः परमार्थविषयत्वे कश्चिद्विशेषः ।
अतो निराकृतमेतत्–“अन्यदेवेन्द्रियग्राह्यम्” इत्यादि । नहि प्रतिभासभेदो विषयभेदं प्रसाधयति, अभिन्नेऽप्यर्थे612 स्वसामग्रीविशेषात्तद्भेदस्योपपद्यमानत्वात्613 दूरासन्नार्थोपनिबद्धदृष्टिप्रेक्षकजनवत् । यथैव हि दूरासन्नदेशादिसामग्रीविशेषवशात् पादपादेरभिन्नस्यापि विभिन्नप्रतिभासविषयत्वं तथा शाब्द-प्रत्यक्षप्रत्यययोरभिन्नविषयत्वेऽपि शब्देन्द्रियादिसामग्रीभेदाद् अस्पष्टेतरप्रतिभासभेदो न विरोधमध्यास्ते । अतः अन्धस्य चक्षुष्मतश्च अभिन्नेऽपि विषये सामग्रीभेदात् प्रतिभासभेदोपपत्तेः अयुक्तमुक्तम्–614 “शब्दात्प्रत्येति भिन्नाक्षो नतु प्रत्यक्षमीक्षते ।” इति ।
यच्चान्यदुक्तम्–“वाच्यवाचकभावश्च615 कार्यकारणभावान्नान्यः” इत्यादि, तदप्यचारु; यतः सति बुद्धिसम्बन्धिनि प्रतिबिम्बे अस्य616 शब्दजन्यत्वात् तद्वाच्यत्वं617 स्यात् शब्दस्य च तज्जनकत्वाद् वाचकत्वम्, न च तदस्ति,618 प्रागेवास्य प्रपञ्चतः प्रतिषेधात् । यदि च कार्यकारणभाव एव वाच्यवाचकभावः स्यात्; तदा श्रोत्रज्ञाने619 प्रतिभासमानोऽपि शब्दः620 स्वप्रतिभासस्य भवत्येव कारणम् अतस्तस्याप्यसौ621 वाचक622 स्यात् । यथा च विकल्पस्य शब्दः कारणम् एव पारम्पर्येण623 स्वलक्षणमपि, अतस्तदपि624 वाचकं स्यात् । अत625 प्रतिनियतवाच्यवाचकभावव्यवस्थाविलोप स्यात् । ततो यद्यत्र626 यथा निर्बाधबोधे प्रतिभासते तत्तत्र तथैवाऽभ्युपगन्तव्यम् यथा अन्त सुखमाह्लादनाकारतया, प्रतिभासते च अबाधे शाब्दे627 प्रत्यये सामान्यविशेषात्मकतया628 वहिर्घटादिकं वस्त्विति ॥ छ ॥
शब्दस्य सामान्यमात्रवाचकत्वमिति मीमासकस्य पूर्वपक्ष–
ननु सामान्यविशेषात्मकतया शाब्दप्रत्यये बहिर्घटादिवस्तुनः प्रतिभासमानत्वमसिद्धम्, शब्दानां सामान्यमात्रगोचरचारितया629 तत्प्रभवप्रत्ययस्य630 तत्मात्रविषयताया631 एवोपपत्तेः । सामान्यमात्रमेव हि शब्दानां गोचरः, तस्य632633 क्वचित्634 प्रतिपन्नस्य एकरूपतया सर्वत्र635 सङ्केतविषय636 तोपपत्तेः, न पुनर्विशेषाः637 तेषामानन्त्यतः638 कार्त्स्न्येनोपलब्धुमशक्यतया तद्विषयतानुपपत्तेः639 । अथ यावतामुपलम्भः तावत्स्वेव सङ्केतक्रियोपगम्यते; तर्हि विशेषान्तरेषु सङ्केताऽसम्भवात् शाब्दव्यवहारानुपपत्तिः । न चाऽयोगिनः प्रतिपत्तुः प्रत्येकमशेषविशेषोपलम्भः सकृत्640 क्रमेण वा सम्भवति, अयोगित्वविरोधानुषङ्गात्641 । योगिनस्तु विवादापन्नत्वात्642 तदुपलम्भो643 दूरोत्सारित एव । न चानुपलब्धेषु तेषु644 “इदमस्य वाचकम्, इदञ्च वाच्यम्”645 इत्यभिधानाभिधेयप्रतिपत्तिनियमलक्षणः सङ्केतः सभवति, तदसम्भवे646 च शब्दश्रवणादर्थप्रतिपत्त्यनुपपत्तेः सिद्धः शाब्दव्यवहारोच्छेदः । ततस्तद्व्यवहारमिच्छता647 सामान्यमात्रे सङ्केतोऽभ्युपगन्तव्यः अतस्तदेव648 शब्दार्थः649 सिद्धः ।
किञ्च, जातिमद्विशेषशब्दार्थवादिनां किं जातिमभिधाय शब्दो व्यक्तिमभिवत्ते, अनभिधाय वा ? न तावदभिधाय; जातिलक्षणविशेषणविशेषप्रतिपत्तावेव650 उपक्षीणशक्तिकत्वेनास्य विशेष्याप्रतिपादकत्वप्रसङ्गात् । उक्तञ्च–651
विशेष्य नाभिधा652 गच्छेत् क्षीणशक्तिर्विशेषणे । [ ] इति ।
नाप्यनभिधाय, विशेषमात्रप्रतिपादकत्वेन जातिमद्वाचकत्वाभावानुषङ्गात् । न च सामान्यमात्रस्य अभिधानैरभिधाने653 विशेषाणामनभिधानात् प्रयोजनार्थिनः शब्दात्प्रवृत्तिर्न प्राप्नोति, प्रतिपन्नस्यापि ततः654 तन्मात्रस्य655 प्रयोजनाप्रसाधकत्वादित्यभिधातव्यम्, तत्प्रतिपत्त्यन्यथानुपपत्त्या656 विशेषाणामपि प्रतिपत्तिसम्भवात् । प्रथमतो हि शब्दात्सा मान्यमात्र प्रतीयते, पश्चात्तदन्यथानुपपत्त्या पिण्डविशेषो लक्षणया657658 प्रतीयते निराधारस्य सामान्यस्य अश्वविपाणवदसभवात् । उक्तञ्च–659
स्वाभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते660 । [तन्त्रवा॰ १ । ४ । २३] इति ।
तल्लक्षितगोपिण्डादिविशेषप्रतीत्यन्यथानुपपत्त्या661 तु बाहदोहादिप्रयोजनविशेषप्रतीति लक्षितलक्षणेति662 ॥ छ ॥
तन्निरसनपुरस्सर शब्दस्य वस्तुभूतसामान्यविशेषात्मकार्थवाचकत्वसमर्थनम्–
अत्र प्रतिविधीयते । यत्तावदुक्तम्–सामान्यमात्रमेव663 हि शब्दानां गोचर इत्यादि; तदसमीक्षिताभिधानम्; सङ्केतानुसारेण शब्दस्य वाचकत्वोपपत्तेः । सङ्केतश्चास्य तद्वत्येव664 प्रतिपन्नो665 न पुन सामान्यमात्रे,666 प्रवृत्त्याद्यगोचरतया वाहदोहाद्यर्थक्रियाकारित्वविकलतया667 च केवलेऽस्मिन् शाब्दव्यवहारासम्भवतः सङ्केतप्रतिपत्तेर्निष्फलत्वात् । “एवंविधाद्धि शब्दादेवविधोऽर्थ त्वया प्रतिपत्तव्य, एवञ्जातीय के चार्थे शब्दोऽप्येवञ्जातीयकः प्रयोक्तव्यः” इति सदृशपरिणामापन्नयोरेव वाच्यवाचकयोः सङ्केतयित्रा सङ्केतं प्रतिपाद्यो ग्राहित ।
यदपि “विशेषाणामभिधेयत्वे आनन्त्यतः कार्त्स्न्येनोपलब्धुमशक्यतया” इत्याद्युक्तम्,668 तदप्यसाम्प्रतम्, साध्यसाधनव्यक्तिवत् सदृशपरिणामापन्नानां वाच्यवाचकव्यक्तीनामानन्त्येऽपि ऊहज्ञानेन कार्त्स्न्यत प्रतिपत्तुं शक्यत्वात् । एतच्च शब्दार्थयो र्नित्यसम्बन्धनिषेधे669 अपोहप्रतिषेधे च670 प्रपञ्चितमित्युपरम्यते671 । तथा च “न चायोगिनः प्रतिपत्तुः प्रत्येकमशेषविशेषोपलम्भः सकृत् क्रमेण वा सम्भवति” इत्यादि672 प्रत्युक्तम्; अयोगिनोपि अशेषविशेषाणामुक्तविधिनोपलम्भसम्भवप्रतिपादनात्673 ।
यदप्युक्तम्–“किं674 जातिमभिधाय शब्दो व्यक्तिमभिधत्ते” इत्यादि, तदप्यसाम्प्रतम्; जातितद्वतोर्युगपदेव675 एकत्र ज्ञाने प्रतिभाससम्भवात् । नचैकज्ञानविषयत्वे विशेषणविशेष्यभावप्रतिनियमो न स्याद्, विपर्ययो वा स्यात्-विशेषणस्यापि विशेष्यरूपतानुषङ्गादित्यभिधातव्यम्, दण्डपुरुषयोर्युगपदेकत्रापि ज्ञाने प्रतिभासमानयोः विशेषणविशेष्यभावप्रतिनियमप्रतीतेः676 । तत्प्रतिभासाविशेषेऽपि677 हि येन विशिष्टं यत् प्रतीयते तद्विशेषणम् इतरद् विशेष्यम् । न खलु दण्डादेः पुरुषे विशिष्टप्रतीतिजननादन्यद्678 विशेषणत्वं सभवति । यथा च चाक्षुषे ज्ञाने दण्डपुरुषयोः विशेषणविशेष्यभावापन्नयोर्युगपत्प्रतिभासमानत्वात् तत्प्रतिनियमाविरोधः तथा दण्डीतिशब्देऽपि । नह्यत्र679 दण्डमात्रं पुरुषमात्रं वा प्रतिभासते, विशेषणविशेष्यभावापन्नस्य युगपदुभयस्य680 प्रतिपादनात् । अतो दण्डिशब्दात् दण्डविशिष्टः पुरुषो यथा प्रतिभासते तथा गोशब्दात् गोत्वविशिष्टः पिण्डः इति प्रतिपत्तव्यम् । अथ681 गोशब्दश्रवणात् शाबलेयादिविशेषाऽप्रतीतेर्न विशेषः शब्दार्थः; तन्न; तद्विशेषाप्रतीतावपि682 सामान्ययुक्तः ककुदादिमान् विशेषो गोशब्दात् प्रतीयत एव शाबलेयादिविशेषास्तु683 तद्युक्ताः684 शाबलेयादिशब्देभ्यः प्रतीयन्ते । नचैतावता सामान्यमेव शब्दार्थो युक्तः, प्रधानोपसजर्नभावेन685 उभयोः प्रतिभासनात् । “गामानय” इत्यादि प्रयागेषु686 सामान्यवतोऽर्थस्य आनयनादिक्रियाभिसम्बन्धप्रतीतेश्च तद्वानेव687 शब्दार्थः ।
यच्चान्यदुक्तम्–“विशेष्यं688 नाभिधा गच्छेत्”689 इत्यादि, तदप्यपेशलम्, “विशेषणं प्राक् प्रतिपाद्य पुनर्विशेष्यं शब्दः प्रतिपादयति” इति विरम्य690 व्यापारानभ्युपगमात्, युगपदेवास्य154 विशेषणविशेष्यप्रतिपादनव्यापारप्रदर्शनात् । क्षीणशक्तित्वञ्चास्याऽनुपपन्नम्,691 शक्तेः कार्यानुमेयत्वात्, विशेषणविशेष्यप्रतिपत्तिलक्षण हि कार्यमुपलभ्यमान तत्रास्य692154 शक्तिमनुमापयति । भिन्नज्ञानालम्बनयोश्च विशेषणविशेष्यत्वे इद चोद्यं स्यात्, न त्वेकज्ञानालम्बनयोः । भवतोऽपि693 चैतच्चोद्य समानम्–उपलब्धस्य हि शब्दस्य अर्थप्रतिपादकत्वं स्यात्, अतः स्वात्मप्रतिपत्तावेवास्य154 क्षीणशक्तित्वात् सामान्यलक्षणाऽर्थप्रतिपादकमपि न स्यादिति लाभमिच्छतो मूलोच्छेदः स्यात् ।
अथ सामान्यप्रतिपत्तेर्दृष्टत्वान्न तत्रास्य694 शक्तेः प्रक्षयः, तर्हि विशेषणविशेष्यप्रतिपत्तेरप्यतो237 दृष्टत्वात् कथ तत्राप्यस्य154 तत्प्रक्षयः695 स्यात् ।
यदप्यभिहितम्–“तत्प्रतिपत्त्यन्यथानुपपत्त्या”696 इत्यादि; तदप्यभिधानमात्रम्; यतो697 यदि शब्दात्सामान्यमेव698 प्रतीयते तर्हि व्यक्तेः किमायात येन तत्तां699 लक्षयति ? अथ व्यक्त्या सह तस्य448 सम्बन्धसद्भावात् ततस्तत्प्रतीयमानं700 तां लक्षयति; कः पुनस्तस्यास्तेन701 सम्बन्धो नाम–संयोगः, समवायः, तदुत्पत्तिः, तादात्म्यं वा ? न तावत्संयोगः, अद्रव्यत्वात्702 । नापि समवायः, अपसिद्धान्तप्रसङ्गात्703 । तदुत्पत्तिरपि अत704 एवानुपपन्ना । तादात्म्याभ्युपगमे तु सामान्यविशेषयोः705 तादात्म्यापन्नयोः706 एकस्मादेव गवादिशब्दात् विशेषणविशेष्यरूपतया प्रतीयमानयोः कथमेकस्यैव शब्दार्थत्वं वक्तु युक्तम्, अप्रामाणिकत्वप्रसङ्गात् ?
किञ्च, अनयोस्तल्लक्षणः707 सम्बन्धः शब्दप्रयोगकाल एव प्रतिपन्नः, पूर्व वा ? न तावत्तत्काल एव; व्यक्तेः शब्दोच्चारणकालेऽप्रतीतेः, प्रतीतौ वा किं लक्षणया ? तत्काले708 तत्प्रतीतिश्च709 कि प्रत्यक्षतः, अनुमानात्, शब्दादेव वा स्यात् ? न तावत्प्रत्यक्षतः; देशकालस्वभावविप्रकृष्टायाः व्यक्तेः इन्द्रियसम्बन्धाभावतस्तत्प्रभवप्रत्यक्षेण710 प्रत्येतुमशक्यत्वात् । नाप्यनुमानतः; तत्प्रतिबद्धलिङ्गाऽदर्शनात् । शब्दादेव तत्प्रतीतौ711 तु सिद्धं व्यक्तेरपि शब्दार्थत्वम्712 । अथ पूर्वं जातिव्यक्त्योस्तादात्म्यलक्षणः सम्बन्धः प्रतिपन्नः, यदि नाम तदा713 तयोरसौ दृष्टो नैतावता714 सर्वत्र सर्वदा तयोस्तेन715 भाव्यम्, अन्यथा पटस्य शुक्लरूपेण क्वचित्716 कदाचित्तादात्म्यदर्शनात् सर्वत्र सर्वदा717 तथाभाव718 स्यात् ।
अथ जातेरिदमेव स्वरूपं यद् व्यक्तिनिष्ठता; ननु किं सर्वसर्वगतायास्तस्यास्तद्रूपं स्यात्, व्यक्तिसर्वगताया वा ? तत्राद्यपक्षोऽनुपपन्नः; व्यक्त्यन्तराले तदभाव719प्रसङ्गात्720 तत्र721 तद्रूपस्या722सम्भ723वात्724 । व्यक्तिसर्वगतायास्तु तस्याः725 तद्रूपोपगमे726 व्यक्तिवज्जातेरप्यनेकत्वप्रसिद्धेः उभयोरविशेषतः शब्दार्थत्वं स्यात्, न वा कस्यचित् । अस्तु वा अविचारितस्वरूपायास्तस्यास्तन्निष्ठ725स्वभावता;727 तथाप्यसौ728 “सर्वत्र सर्वदा व्यक्तिनिष्ठा” इति प्रत्यक्षतः प्रतीयेत, अनुमानतो वा ? प्रत्यक्षतश्चेत्; किं युगपत्, क्रमेण वा ? तत्राद्यपक्षोऽनुपपन्नः; निखिलव्यक्तीनां युगपदप्रतिपत्तौ जातेस्तन्निष्ठतया युगपत्प्रतिपत्त्यनुपपत्तेः । द्वितीयपक्षे तु निरवधेर्व्यक्तिपरम्पराया729 युगसहस्रेणापि क्रमेण प्रतिपत्त्यभावतः तस्यास्तन्निष्ठतावसायसम्भवोऽतीव725 दुर्घट । तन्न प्रत्यक्षतः तस्यास्तन्निष्ठताधिगमो युक्तः । नाप्यनुमानतः; प्रत्यक्षपूर्वकत्वेनास्य भवताऽभ्युपगमतस्तदभा730वे731 तस्यापि732 तत्राऽप्रवृत्तेः,733 तस्यास्तन्निष्ठतयाऽविनाभाविलिङ्गासम्भवाच्च725734 । ततः शब्दस्य सामान्यवाचकत्वे व्यक्तिवाचकत्वानुपपत्तिरेव ।
किञ्च, सामान्ये सङ्केतितः शब्दः तदभिवत्ते, असङ्केतितो वा ? न तावदसङ्केतितः; अतिप्रसङ्गात् । अथ सङ्केतितः, किं प्रतिपन्ने सामान्ये तत्सङ्केत स्यात्, अप्रतिपन्ने वा ? यद्यप्रतिपन्ने, अतिप्रसङ्गः । अथ प्रतिपन्ने, कुतस्तत्प्रतिपत्ति ? न तावत् प्रत्यक्षानुमानाभ्याम्; नित्यादिस्वभावसामान्यग्राहकत्वेन अनयोः735 सामान्यपरीक्षावसरे प्रतिक्षिप्तत्वात्373 । शब्दैकप्रामाणसमधिगम्यत्वे तु अनवस्थेतरेतराश्रयदोषानुषङ्गः । तथाहि–यदि य एव शब्दः सामान्ये सङ्केत्यते तत एव तत्प्रतिपत्तिः, तदा इतरेतराश्रयः– प्रतिपन्ने हि सामान्ये तत्रास्य154 सङ्केतसिद्धिः, तत्सिद्धौ च तत सामान्यप्रतिपत्तिरिति । शब्दान्तरात्तु736 तत्सिद्धौ737 अनवस्था, तस्यापि हि शब्दान्तरस्य प्रतिपन्ने सामान्ये सङ्केतो भविष्यति, तत्प्रतिपत्तिश्च अन्यस्माच्छब्दान्तरादिति । यदि च शब्दात्सामान्यमेव प्रतीयते, तदा शाब्दमप्रमाणमेव स्याद् गृहीतग्राहित्वात्, शब्दार्थयोः सम्बन्धग्राहिणैव हि प्रमाणेन738 सामान्यं739 गृहीतमिति ।
किञ्च, शब्दान्निर्विशिष्ट सामान्यं प्रतीयमान पुरुषं प्रवर्त्तयति, विशिष्टं वा ? न तावन्निर्विशिष्टम्, अतिप्रसङ्गात् । अथ विशिष्टम्, किङ्कृतमस्य448 वैशिष्ट्यम्–विशिष्टव्यक्तितादात्म्यकृतम्, तत्रैव740 तत्प्रवृत्तिहेतुत्वकृतम्, अस्येदमिति प्रतीतिकृत वा ? तत्राद्यपक्षोऽनुपपन्नः, तस्य448 स्वकीयसकलव्यक्तिभिः सह तादात्म्यसद्भावतो विशिष्टव्यक्तावेव तादात्म्यानुपपत्तेः । अथ स्वकीयाखिलविशिष्टव्यक्तितादात्म्यकृतमेव अस्य वैशिष्ट्यमुच्यते, नन्वेव सर्वत्र तद्व्यक्तौ पुरुषस्य प्रवृत्तिप्रसङ्गात् प्रतिनियतद्व्यक्तौ प्रवृत्त्यभाव स्यात् । न च गोशब्दाद् गोत्वमात्रप्रतीतौ क्वापि व्यक्तौ प्रवृत्तिरुपपद्यते, तस्याः741 सर्वथाऽप्रतिपन्नत्वात्742 । यस्मिन्743 प्रतीयमाने यत् सर्वथा न प्रतीयते न तत्प्रतीतितस्तत्र प्रवृत्तिः यथा जलप्रतीतितोऽनले, गोशब्दाद् गोत्वमात्रप्रतीतौ न प्रतीयन्ते च खण्डादयो व्यक्तिविशेषा इति ।
अथ गोशब्दाद् गोत्वं प्रतीयमानं गोव्यक्तिसम्बद्धमेव प्रतीयते; कथमेवं सामान्यमेव शब्दार्थः स्यात् ? विशेषणविशेष्यभावापन्नयोः सामान्यविशेषयोः ततः237 प्रतीतेः । ननु गोशब्दात्साक्षाद् गोत्वमेव प्रतीयते,744 व्यक्तिस्तु तदन्यथानुपपत्त्यैव प्रतीयते इति, तदप्यसुन्दरम्; एवं जातेरेव शब्दार्थत्वमायातं व्यक्तेस्तु प्रमाणान्तरगम्यता,745 तथा च शब्दस्य लक्षणया746 विशेषप्रतिपादकत्वं दुर्घटम् । अथ शब्दस्यैव अयमान्तरो व्यापारः यत् सामान्यं प्रतिपाद्य तत्प्रतिपत्तिस747हकारी748 व्यक्तिमपि गमयति लक्षणयेति; तदसाम्प्रतम्;749 यतो यत्रैव सम्बन्धस्मरणसहकारी750 शब्दः प्रवर्त्तते स एव तस्यार्थो न पुनस्तदर्थाविनाभावित्वेन यद्यत्प्रमाणान्तरतः751 प्रतीयते तत्तत्सर्वं शब्दोदरे प्रक्षेप्तव्यम्,752 अन्यथा प्रत्यक्षसिद्धधूमान्यथानुपपत्त्या सिद्धो वह्निः प्रत्यक्षसिद्ध एव स्यात् । तन्न विशिष्टव्यक्तितादात्म्यकृतमस्य448 वैशिष्ट्यं घटते ।
नापि तत्रैव753 तत्प्रवृत्तिहेतुत्वकृतम्; अन्योन्याश्रयानुषङ्गात् । तथाहि–सामान्यस्य विशिष्टत्वसिद्धौ सत्यां विशिष्टविशेषेष्वेव प्रवृत्तिहेतुत्वसिद्धिः,754 तस्याञ्च755 सत्यां सामान्यस्य विशिष्टत्वसिद्धिरिति ।
तृतीयपक्षे756 तु चक्रकमासज्यते–सिद्धे हि सामान्यस्य वैशिष्ट्ये विशिष्टविशेषेषु प्रतीतिहेतुत्वसिद्धिः, तस्यां सत्याम् “अस्येदम्” इति प्रतीतिसिद्धिः, तस्याञ्च सत्यां तस्य वैशिष्ट्यसिद्धिरिति । ततः प्रमाणतो वस्तुव्यवस्थामिच्छता यद् यथा यतः प्रतिभासते तत् तस्य सदृशेतररूपतया विषयोऽभ्युपगन्तव्यम् यथा चक्षुरादिप्रत्ययस्य नीलादिरूपतया प्रतिभासमानं रूपादि, गवादिशब्दात् प्रतिभासते च गवादिकं वस्तु, तस्मात्तदेव तच्छब्दानां विषयः, न पुनः सामान्यमात्रमिति ॥ छ ॥
विधिवादे विविधपूर्वपक्षा–
एतेन विधिरेव वाक्यार्थः इति विधिवादिमतमप्यपास्तम्757 । ते हि ब्रुवते–विधिरेव वाक्यार्थः अप्रवृत्तप्रवर्त्तनस्वभावत्वात्तस्य758 । तदुक्तम्–759विधेर्लक्षिणमेतावदप्रवृत्तप्रव760र्त्तनम्761 । [ ] इति । तल्लक्षणे च विधौ वादिनां विप्रतिपत्तिः; तथाहि–वाक्यरूपः शब्द एव प्रवर्त्तकत्वाद् विधिरित्येके । तद्व्यापारो भावनाऽपरपर्यायो विधिरित्यन्ये762 । नियोगरित्यपरे763 । प्रैषादयः764 इत्येके । तिरस्कृततदुपाधिप्रवर्त्तनामात्रम्765 इत्यन्ये । प्रवर्त्तकत्वात् फलमेव इत्यपरे । फलाभिलाष एव इत्येके । कर्मैव इत्यन्ये । आत्मनोऽप्राप्तकियासम्बन्धावगम इत्यपरे । श्रेयःसाधनत्वाख्यधर्मः इत्येके । उपदेशः इत्यन्ये । कर्त्तव्यताप्रतिपत्तिरेव इत्यपरे । प्रतिभैव इत्येके766 । भक्तिरेव इत्यन्ये । इच्छैव इत्यपरे767 । प्रयत्न एव इत्येके इति ।
तत्र शब्दविधिवादिनो ब्रुवते–अन्वयव्यतिरेकाभ्यां प्रवर्त्तकत्वमवधार्यते,768 तौ च अनन्यथासिद्धौ शब्दस्यैव प्रवर्त्तकत्वमवगमयतः, अतः स एव विधिः । अर्थस्य विधित्वे क्रियायाः769 प्रवर्त्तक वचनम् [शाबरभा॰ १ । १ । २] इति विरुध्यते । प्रवर्त्तकार्थप्रतिपादनद्वारेण वचनस्य प्रवर्त्तकत्वे च औपचारिक प्रवर्त्तकत्वमस्य154 स्यात्, मुख्यञ्च वस्तुवृत्त्या तत्र770 तद्व्यवस्थितम्771 इत्यर्थनिरपेक्षमेवास्य154 तत्प्रतिपत्तव्यम्771 । व्यापारातिशयप्रवर्त्तकत्वपक्षेऽपि772 न शब्दस्य मुख्यप्रवर्त्तकत्वक्षतिः, व्यापारातिशयसमाश्रयणेनैव सर्वस्य साध्यवस्तुसम्पादकत्वात्773 । न खलु काष्ठादीनां ज्वालाद्यवान्तरव्यपारावलम्बनेऽपि पाके मुख्यं कारकत्वाभिधानं विरुध्यते । प्रवर्त्तकत्वञ्च यद्यपि सामान्येन शब्दस्योच्यते तथापि लि774ङ्लोट्775तव्यप्रत्ययान्तस्यैव776 तद् युक्तं शब्दान्तराणां प्रवृत्तिहेतुत्वाऽदृष्टेः ।
अत्रान्ये777 शब्दस्य विधित्वमसहमानाः “प्रमाणत्वात्, अनियमात्प्रवृत्तेः, सविदाश्रयणात्”778 इत्यादियुक्तिविरोधं दर्शयन्ति । तथाहि–प्रमाणत्वं779 तावत् प्रवर्त्तकाऽर्थाऽवबोध कत्वं विना स्वतः प्रवृत्तिकारकत्वे अस्य दुर्घटं वाय्वादिवत्, कारकहेतोः प्रमाणत्वानुपपत्तेः, बोधकस्यैव तत्सम्भवात् । अथोच्यते–वाय्वादिजनितभूतप्रवृत्तिविलक्षणैवेयम् इच्छादिसमानरूपा चिद्रूपात्मप्रवृत्तिः विषयावबोधापेक्षिणी लिङादिभिः780 क्रियते; तन्न; प्रवृत्तिकारकत्वांशे781 परकारकाणामिव782 प्रामाण्यानुपपत्तेः । बोधकत्वमात्रेणापि783 प्रामाण्ये वर्त्तमानाद्यपदेशकालप्रवर्त्तकलडा784दियुक्तेष्वपि785 वाक्येषु786 तत्प्रसङ्गात्787 तेन प्रवर्त्तक वाक्यं शास्त्रेऽस्मिश्चोदनोच्यते । [मी॰ श्लो॰ चोदनासू॰ श्लो॰ ३ ।] इत्यस्य विरोधः । तस्मात् साध्यस्वभावयागादिव्यापारलक्षणविषयावबोधकत्वेनैव लिङाद्यन्तस्य788 शब्दस्य789 प्रमाणत्वोपपत्तेः न शब्दस्य स्वरूपेणैव विधित्वम् ।
तथा, अनियमात्प्रवृत्तेः;790 शब्दस्य हि विषयावबोधनिरपेक्षस्य स्वरूपेणैव विधित्वे चेतनात्मकस्यापि पुरुषस्य अभिप्रायतिरस्कारेण मन्त्रादिजन्यविक्षोभस्येव791 विवशस्य बलात्कारेण शब्दात्प्रवृत्तिरुद्भवन्ती न वाय्वादिजनितप्रवृत्तिवैलक्ष यमश्नुवीत । तथा चास्यां792 हठादेव793 भवन्त्यां794 पुरुषस्वातन्त्र्याश्रितविहिताऽकरणापराधनिबन्धनप्रायश्चित्तप्रतिपा795दन796स्य797 निर्विषयत्वप्रसक्तेः अयुक्तमुक्तम्–
अकुर्वन्798 विहित कर्म निन्दितञ्च समाचरन् ।
प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ [मनुस्मृ॰ ११ । ४४] इति ।
तथा, संविदाश्रयणान्न799 शब्दः प्रवृत्तेः कारकः । नहि बीजादीनां800 संवेदनसापेक्षाणां स्वकार्यकर्तृत्व दृष्टम्, ज्ञापकस्यैव धूमादेस्तदपेक्षाप्रतीतेः801 ।
किञ्च, अश्रुतफलेषु802 विश्वजिदादिषु803 वाक्येषु फलस्य स्वर्गादेः अधिकारिणश्च स्वर्गकामादेः अध्याहार, अग्निष्टोमादिषु च स्वर्गकामादौ अन्यपदार्थोपसर्जनीभूतस्वर्गादिपदार्थानां804 फलत्वाध्यवसाय एवमाद्यर्थाभिसम्बन्धो व्यर्थः, वाय्वादिवत्805 फलादिसम्बन्धानपेक्षस्यैव शब्दस्य प्रवृत्तिहेतुत्वप्रसङ्गात् । तन्न शब्दो विधिः ॥ छ ॥
शब्दव्यापारविधिवादिनस्तु806 ब्रुवते–लिङादिलिङादिशब्दश्रवणानन्तरं वृद्धव्यवहारे प्रवृत्त्याख्यकार्यदर्शनात् तत्कारणत्वेन कल्पितस्य शब्दव्यापारस्य मन्त्रपव807नादिवैलक्षण्येन808 प्रवृत्तिहेतो सभवान्न809 पूर्वोक्तदोषानुषङ्गः । तदुक्तम्–
अभिधाभावनामाहुरन्यामेव810 लिङादयः । [तन्त्रवा॰ २ । १ । १]
अभिधायाः शब्दस्य लिङादेर्यासौ भावना पुरुषप्रवृत्त्युत्पत्ति प्रति स्वकीयप्रयोजकव्यापारः तस्य अभिधायका लिङादयः । भाव्यनिष्ठश्च811 भावकव्यापारो भावना812 । शब्द813 भावनायाश्च भाव्या पुरुषप्रवृत्ति,814 प्रवृत्तिमान्815 वा पुरुषः । प्राशस्त्याभिधानञ्च816 विना विधिशक्तिर्निमित्तत्वमुपगतापि817 प्रवर्त्तनायां818 न समर्था भवति । न हि “इमां गां क्रीणीष्व” इति शतकृत्वोप्युक्त कश्चित् क्रेतुं प्रवर्त्तते यावत् “घटोध्नी819 सम्पन्नक्षीरा” इत्यादि प्राशस्त्य820ज्ञानं821 न प्रवर्त्तते । अत822 अर्थवादोपजनितप्राशस्त्यज्ञानसचिवा शब्दभावना प्रवर्त्तनाङ्गम् । सा च त्र्यंशपरिपूर्णा823 भवति–“किम्, केन, कथम्” इति । किं भावयेत् ? स्वर्गम् । केन ? दर्शपौर्णमासाभ्याम्824 । कथम्825 इति ? इतिकर्त्तव्यतां दर्शयति प्रयाजादिव्यापाररूपाम्826 । सेत्थं त्र्यंशपरिपूर्णा शब्दभावना फलभावनायां827 पुरुष प्रवर्त्तयति । यद्यपि चेच्छास्मृत्यादयः828 पुरुषप्रवृत्तिहेतवः तथापि न तेषां829 मुख्यः प्रवर्त्तनाव्यपदेशः, शब्दभावनायास्तु साध्यावगतिकारित्वेन मूलभूतत्वात् मुख्यः830 । “शब्दभावना” इति शब्दशब्देन शब्दधर्मतया व्यपदेशात्, यथा ग्रामादिदाने831 राज्ञो दातृत्वव्यपदेशो मुख्यः लाकुटिकादीनां832 तु राजादेशानुसारेण प्रवृत्तानामौपचारिकः एवमत्रापि । तदुक्तम्–
साध्यत्वे833 हेतुव्यापारः834 कथ्यते शब्दभावना ।
शब्दधर्मतयाख्यातः कार्यसंसूचितस्थितिः835 ॥ [ ]
तथा च शब्दभावनासद्भावे किं प्रमाणमिति पर्यनुयोगोऽनुपपन्नः; यथैव हि अर्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दस्य अभिधात्मको836 व्यापारः परिकल्प कल्प्य ते तथा प्रवृत्त्यन्यथानुपपत्त्या लिङादेः प्रवर्त्तनात्मकोऽपीति । तत्र “यजेत स्वर्गकामः” इत्यत्र द्वे भावने प्रतीयेते शब्दात्मिका पुरुषप्रेरणारूपा अर्थात्मिका च पुरुषव्यापाररूपा इति । तत्र लकारसामान्यस्यार्थः837 अर्थभावना838 । उक्तञ्च–
इयं839 त्वन्यैव सर्वार्था सर्वाख्यातेषु विद्यते । [तन्त्रवा॰ २ । १ । १] इति ।
पुरुषव्यापारस्य हि सर्वत्रार्थे840 विद्यमानत्वात् सर्वार्था अर्थभावना, “यजते, अयजत, अयष्ट” इत्यादि सर्वाख्यातेषु च विद्यते । न हि तत्र841 पुरुषप्रेरणारूपा शब्दभावनाऽनुभूयते सिद्धस्य842 आत्मव्यापारस्य अर्थभावनापरपर्यायस्य अनुभवात् । लिङादिविषये तु “यजेत” इत्यादौ द्वयमनुभूयते–स्वार्थं लिप्समानो हि पुरुष स्वव्यापारे यागविधानलक्षणे प्रवर्त्तते इति अर्थभावना, तमयं लिङ्प्रवर्त्तयतीति शब्दभावना चेति ॥ छ ॥
तदेतद्भावनावादिनो मतमयुक्तम्,843 यतः शब्दस्य भावना, शब्द एव वा भावना शब्दभावना स्यात् ? प्रथमपक्षे शब्दस्य भावना प्रेरकत्वम्, तच्च प्रेषणाध्येषणरूपम्,844 तस्य चेतनात्मकपुरुषधर्मत्वात्845 कथं शब्देऽनुपचरितस्य846 सभवः ? तद्धर्माध्यासितपुरुषप्रयुक्ताद्847 वाक्यादेव हि848 शब्दे तत्सभाव्यते849 न मुख्यत ।
किञ्च, प्रेर्यप्रेरकयोर्न850 निष्फला प्रवृत्तिः । किञ्चिद्धि स्वात्मनि परत्र वा अर्थानर्थप्राप्तिपरिहारादिप्रयोजनमभिसन्धाय कश्चित् प्रेरकः प्रेर्यश्च प्रसिद्ध । न851 चाचेतने शब्दे तदभिसन्धान852 सम्भवति तत्कथं तस्य154 प्रेरकत्वम् ? बलवत्प्रभञ्जनादेरिवास्य853154 अनभिप्रायस्यापि प्रेरकत्वे शब्दविधिपक्षनिक्षिप्ताऽशेषदोषोपनिपातः854 स्यात् ।
किञ्च, अस्याः855856 सद्भावे प्रमाणम् लिङादिश्रवणानन्तरभाविनी प्रवृत्ति, लिङादिशब्द एव वा ? न तावत्प्रवृत्तिः; तस्यास्त857न्निबन्धनत्वेन858 क्वचिदन्यत्राऽदृष्टत्वात् । यन्निबन्धना हि प्रवृत्तिर्लोके दृष्टा तदेव तां दृष्ट्वाऽनुमातुं859 युक्तम्, न पुनः860 अप्रतिपन्नपूर्वः शब्दव्यापारविशेषः861 अप्रामाणिकत्वप्रसङ्गात् । नापि862 लिङादिशब्द863 एव तत्र प्रमाणम्, अगृहीतसम्बन्धस्य शब्दस्य अवाचकत्वात् । तदग्रहश्च864 तद्व्यापारविशेषलक्षणस्य सम्बन्धिनोऽनवधारणात् सिद्धः । नहि अनवधारिते सम्बन्धिनि सम्बन्धबोधः सम्भवति; अतिप्रसङ्गात् ।
किञ्च, शब्दः865 स्वव्यापारं866 विधिज्ञानसव्यपेक्षो जनयति, अनपेक्षो वा ? न तावदनपेक्षः, विधिज्ञानस्य पुरुषप्रेरणायां करणत्वाभ्युपगमात्867 । अणानुगृहीत868 प्रेरणारूप स्वव्यापारमारभत इति न करणत्वाभावः क्रियानिष्पत्तावेव करणत्वात्, तदिदमलौकिकम्, न हि कस्यचिद्वस्तुनः स्वज्ञानमुत्पादहेतु प्रतीतम् । – [प्रक॰ पृ॰ प॰ १७३ ।] )+++थ शब्दो विधिज्ञानं जनयित्वा तत्करणानुगृहीतस्त869त्प्रेर870णारूपं871 स्वव्यापारमारभते, तदिदमलौकिकम्; न हि कस्यचिद्वस्तुनः स्वज्ञानम् उत्पादहेतुः लोके प्रतीतम् । यदि872 च शब्दः स्वव्यापारं करोति अभिधत्ते च, तदा उत्पाद्य पश्चात्तमभिधत्ते, युगपद्वा उत्पादयति अभिधत्ते च ? तत्र प्रथमपक्षोऽनुपपन्नः; न873 खलु शब्दः स्वव्यापारमुत्पाद्य पश्चात्तमभिदधातीति श्राद्धिकादन्यः प्रतिपद्यते । द्वितीयपक्षोऽप्यप्रातीतिकः, नहि “सकृदुच्चरितः शब्दः स्वव्यापारस्य कर्त्ता वक्ता च भवति” इति प्रामाणिकः प्रतिपद्यते । सिद्धे हि वस्तुनि प्रतिबन्धावगमपूर्विका874 वचनस्य प्रवृत्तिः प्रतीयते ।
ननु लिङादिशब्दश्रवणानन्तरं प्रवृत्त्याख्यकार्यस्य प्रवर्त्तितोऽहमिति प्रतिपत्तितः प्रतीतेः कथं तत्र770 तत्कर्त्तृत्वा875प्रतिपत्तिरिति876 चेत् ? तदयुक्तम्; यतो द्विविधा प्रवृत्तिः प्रती यते–एका परवशस्य, अन्या तु प्रेक्षापूर्वकारिण । तत्राद्यपक्षे हठाद् यागादिकर्मणि बौद्धादेरपि प्रवृत्ति शब्देन क्रियतां पुरुषस्वातन्त्र्याभावात् । न खलु बलवज्जलप्रभञ्जनप्रेरितस्य स्वातन्त्र्याभावे हठात्प्रवृत्तिर्न दृष्टा “अनिच्छन्नप्यह प्रभञ्जनादिना प्रेरितः प्रवर्त्ते” इति प्रतीतेः । द्वितीयपक्षे तु “येनाहं शब्देन प्रवर्त्तितः स किं प्रवर्त्तनायोग्यो न वा” इति यावन्न प्रेक्षापूर्वकारी विमृशति तावन्न प्रवृत्तिं विदधाति । नहि “शब्देनाह प्रवर्त्तितः” इति “अवश्यं प्रवर्त्ते” इत्यसौ877 शब्दमात्रे समाश्वसिति तत्कारित्वविरोधानुषङ्गात्878 । अतोऽपौरुषेयात् काकवासितप्रख्यात् शब्दात् कथं कस्यचित् प्रवृत्तिः स्यात् ? पौरुषेयस्यैव शब्दस्य प्रवर्त्तनायोग्यत्वोपपत्तेः । तत्प्रणेतुः कुतश्चिदाप्ततामवसाय प्रेक्षापूर्वकारिणः सद्वैद्याद्युपदेशादिव निःशङ्क प्रवृत्तिसभवात् । तस्मादपौरुषेयत्वे879 शब्दस्य पुरुषप्रवृत्तेरनङ्गत्वान्न “शब्दस्य भावना–प्रवर्त्तकत्व शब्दभावना” इति पक्षो घटते ।
अथ शब्द880 एव भावना; तदप्यसाम्प्रतम्, शब्दस्वरूपमात्रस्य भावनास्वभावत्वे घटादिशब्देष्वपि भावनाप्रसङ्गात् तन्मात्रस्य881 अत्राप्यविशिष्टत्वात् । तथा च लिङ्लोट्तव्यप्रत्ययप्रत्याय्यो882 विधिः । [ ] इति वचो विरुध्यते । तदेवं शब्दभावनास्वरूपस्य विचार्यमाणस्याऽव्यवस्थितेः कथं तया883 अर्थभावना भाव्येत ? यतो “भाव्यनिष्ठो भावकव्यापारो भावना” इति सुव्यवस्थितं स्यात् । द्वैविध्योपवर्णनञ्चास्याः खपुष्पसौरभव्यावर्णनान्न विशिष्यते । तन्न भावनारू884पोऽपि885 विधिर्घटते ॥ छ ॥
अपरे886 पुन नियोग887 एव प्रवृत्तिहेतुत्वाद् विधिः इत्याचक्षते । तत्र चानेकधा विप्रतिपत्तिः–केचित्888 लिङादिप्रत्ययार्थो नियोगः इत्यातिष्ठन्ते ।
प्रत्ययार्थो नियोगश्च यतः शुद्धः प्रतीयते ।
कार्यरूपश्च889 तेनात्र शुद्धं कार्यमसौ890 मतः ॥ [प्रमाणवार्तिकाल॰ पृ॰ २९ ।]
इत्यभिधानात् । अन्ये891 तु प्रेरकत्वमेव नियोगः इति ब्रुवते ।
प्रेरणैव नियोगोऽत्र शुद्धा सर्वत्र गम्यते ।
नाप्रेरितो यतः कश्चिन्नियुक्तं स्वं892 प्रपद्यते ॥ [प्रमाणवार्तिकाल॰ पृ २९ ।]
प्रेरणासहितं कार्यं नियोगः इति चापरे मन्यन्ते ।
ममेदं893 कार्यमित्येवं894 ज्ञातं895 पूर्वं896 यदा भवेत् ।
स्वसिद्धौ प्रेरकं तत्स्यादन्यथा तन्न सिद्ध्यति897 ॥ [प्रमाणवार्तिकालं॰ पृ॰ ३० ।]
कार्यसहिता प्रेरणा नियोग इति चान्ये ।
प्रेर्यते898 पुरुषो नैव कार्येणेह विना क्वचित् ।
ततश्च प्रेरणा प्रोक्ता नियोगः कार्यसङ्गता ॥ [प्रमाणवार्तिकाल॰ पृ॰ ३०]
कार्यस्यैव उपचारत प्रवर्त्तकत्वं नियोग इत्यपरे ।
प्रेरणाविषयः कार्य न899 च तत्प्रेरक स्वतः ।
व्यापारस्तु900 प्रमाणस्य प्रमेय उपचर्यते ॥ [प्रमाणवार्तिकाल॰ पृ॰ ३०]
कार्यप्रेरणयोः सम्बन्धो नियोग इत्यन्ये ।
प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् ।
कार्य901 वा प्रेरणायोगः नियोगस्तेन902 सम्मतः ॥ [प्रमाणवार्तिकाल॰ पृ॰ ३०]
तत्समुदायो नियोगः इत्येके ।
परस्पराविनाभूत द्वयमेतत् प्रतीयते ।
नियोगः समुदायोऽस्मात् कार्यप्रेरणणयोयोर्मतः ॥ [प्रमाणवार्तिकाल पृ॰ ३०]
तदुभयस्वभावविर्निमुक्तः903 परमात्मस्वभावो नियोग इति केचित् ।
सिद्धमेकं यतो ब्रह्म904 गतमाम्नायतः905 सदा ।
सिद्धत्वैन न तत्कार्य प्रेरक कुत एव तत् ॥ [प्रमाणवार्तिकाल॰ पृ॰ ३०]
यन्त्रारूढो906 नियोग इत्यपरे ।
कामी यत्रैव य कश्चिन्नियोगे सति तत्र सः ।
विषयारूढमात्मान मन्यमानः प्रवर्त्तते ॥ [प्रमाणवार्तिकाल॰ पृ॰ ३०]
भोग्यरूपो नियोगः इत्यपरे907 ।
ममेदं भोग्यमित्येव भोग्यरूप प्रतीयते । ममत्वेन च विज्ञान भोक्तर्येव व्यवस्थितम् ॥
स्वामित्वेनाभिमानो हि भोक्तुर्यत्र भवेदयम् । भोग्य तदेव विज्ञेय तदेव908 स्व909 निरुच्यते910 ॥
साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं स्व व्यपदिश्यते ॥
सिद्धरूप हि यद् भोग्यं न नियोग स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता911 ॥
[प्रमाणवार्तिकाल॰ पृ॰ ३० ।] पुरुष एव नियोग इति चापरे ।
ममेदं कार्यमित्येवं मन्यते पुरुष सदा ।
पुसः कार्यविशिष्टत्वं नि912योगोऽस्य913 च वाच्यता ॥ [प्रमाणवार्तिकाल॰ पृ॰ ३० ।] इति ।
तदप्यविचारितरमणीयम्; यतो नियोज्यप्रेरणानिरपेक्षस्य कार्यस्य नियोगरूपतोपगम्यते, तत्सापेक्षस्य वा ? तत्राद्यविकल्पोऽनुपपन्नः,914 तन्निरपेक्षस्य915 कार्यमात्रस्य अप्रवृत्तिहेतुतया नियोगत्वानुपपत्तेः । तत्सापेक्षस्य तु नियोगत्वे कथं कार्यस्यैव नियोगरूपता ? त्रितयस्यापि916 प्रवृत्तिहेतुतया तद्रूपताप्रसङ्गात्917 “प्रेरणा नियोगः” इत्यप्यनेनापास्तम्, नियोज्यादिनिरपेक्षा918याः919 प्रेरणायाः प्रलापमात्रतया नियोगरूपतानुपपत्तेः । प्रेरणासहितं कार्यं नियोगः; इत्यप्ययुक्तम्, नियोज्याभावे920 नियोगस्यैवानुपपत्तेः । कार्यसहिता प्रेरणा नियोगः इत्यप्यनेन921 निरस्तम् । कार्यस्यैवोपचारतः प्रवर्त्तकत्वं नियोगः; इत्यप्यसारम्, नियोज्यादिनिरपेक्षस्यास्य922 प्रवर्त्तकत्वोपचारायोगात् । कार्यप्रेरणयोः सम्बन्धोऽपि923 सम्बन्धिभ्योऽर्थान्तरभूतः सन्, अनर्थान्तरभूतो वा नियोगरूपतां प्रतिपद्यते ? न तावदर्थान्तरभूतः; तथाभूतस्य924 सम्बन्धस्यैवाऽसम्भवतो नियोगरूपतानुपपत्तेः । सम्बन्ध्यात्मनोऽपि सम्बन्धस्य प्रेर्यमाणपुरुषनिरपेक्षस्य नियोगरूपतानुपपत्तिरेव । समुदायनियोगवादोऽप्यनेनैव प्रतिव्यूढः । कार्यप्रेरणाविनिर्मुक्तस्तु नियोगो ब्रह्माद्वैतमवलम्बते, तच्च प्रागेव925 कृतोत्तरम् । यत्पुनः “स्वर्गकामः पुरुषोऽग्निहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयमारूढमात्मानं मन्यमानः प्रवर्त्तते” इति यन्त्रारूढनियोगाभिधानम्; तदप्यचारु;926 अपौरुषेयवाक्ये नियोक्तृत्वस्य निराकृतत्वान्निराकरिष्यमाणत्वाच्च । भोग्यरूपस्तु नियोगः फलस्वभावविधिनिरासेनैव निरस्तः । पुरुषस्वभावत्वे तु नियोगस्य शाश्वतिकत्वप्रसङ्गः तस्य शाश्वतिकत्वात् ।
किञ्च, किमयं नियुङ्क्ते इति नियोगः, किं वा नियुक्तिः, नियुज्यतेऽनेन इति वा ? तत्र प्रथमपक्षोऽनुपपन्नः, नियुक्तिक्रियायां कर्त्तृत्वस्य प्रेक्षावर्द्धमतया कार्यादिस्वभावे नियोगे सम्भवाभावात् । नहि “अमुष्मै प्रयोजनाय अमुमहं नियोक्ष्ये” इति यस्य नास्ति परामर्श तस्य नियोक्तृतोपपन्ना,927 स्वाम्यादौ तत्परार्शवत्येव अस्याः928 प्रतीतेः । सलिलसमीरणन्यायेन929 नियोक्तृत्वे च प्रागुक्तदोपानुषङ्गः930 । नहि नियोक्तृमात्रसद्भावत कश्चित् प्रवर्त्तते, यावत् तदनुविधेयतामात्मनो न प्रतिपद्येत931 । “नियुक्तिर्नियोगः नियुज्यतेऽनेनेतिवा”932 इत्यप्यनुपपन्नम्, भावकरणयोः कर्तृकर्मापेक्षत्वात्,933 तयोश्चासम्भवे भावकरणयोरप्यसम्भवात् । न ह्यत्र कश्चिन्नियोक्ता विद्यते । शब्दस्य च नियोक्तृत्वं प्रागेव प्रतिपिद्धम् ।
किञ्च, अयं934 नियोग शब्दव्यापाररूपः, पुरुषव्यापाररूपः, उभयरूपः, अनुभयरूपो वा ? प्रथमपक्षे शब्दभावनापक्षनिक्षिप्तदोपानुषङ्गः, शब्दव्यापारस्य शब्दभावनारूपत्वात् । द्वितीयपक्षे तु अर्थभावनापक्षोक्तदूषणप्रसङ्ग935 पुरुषव्यापारस्य अर्थभावनास्वभावत्वात् । उभयपक्षेऽपि उभयपक्षोपक्षिप्तदोषानुषङ्गः936 ।
अनुभयपक्षेप्यसौ विषयस्वभावः,937 फलस्वभावः, नि स्वभावो वा स्यात् ? यदि विषयस्वभावः; तदाऽसौ यागादिर्विषयः अग्निष्टोमेन यजेत स्वर्गकामः [ ] इत्यादिनियोक्तृवाक्यकाले अस्ति, न वा ? यदि नास्ति, तदा938 तत्स्वभावो939 नियोगोऽपि नास्तीति कथमसौ खपुष्पवद् वाक्यार्थः स्यात् ? बुद्ध्यारूढस्य भाविनस्तस्य940 वाक्यार्थत्वे सौगतमतानुसरणप्रसङ्गः941 । अथ तत्काले942 सोऽस्ति; एवमपि न नियोगो वाक्यार्थः, तस्य943 यागादिनिष्पादनार्थत्वात् । न चानयोस्तादात्म्ये944 स्वात्मैव स्वात्मनो निष्पादको युक्तो विरोधात्, निष्पन्नस्य यागादेः पुरुषादिवन्निष्पादनविरोधाच्च । अथ945 तस्य946 किञ्चिदनिष्पन्नं रूपमस्ति तन्निष्पादनार्थो नियोगः; तर्हि तत्स्वभावो नियोगोप्यनिष्पन्न इति कथं वाक्यार्थः ? कल्पनारूढस्य वाक्यार्थत्वे स एव सौगतमतानुप्रवेशः । फलस्वभावो नियोगः, इत्यप्ययुक्तम्; नहि947 स्वर्गादिफलं नियोगो घटते फलान्तरपरिकल्पनप्रसङ्गात्, निष्फलस्य नियोगस्यानुपपत्तेः । फलान्तरस्य च फलस्वभावनियोगवादिनां नियोगत्वापत्तौ तदन्यफलकल्पने अनवस्थाप्रसङ्गः । फलस्य च वाक्यकालेऽसन्निहितत्वात् तत्स्वभावो नियोगोऽप्यसन्निहित एवेति कथं वाक्यार्थः ? बुद्ध्यारूढस्य वाक्यार्थत्वे परमतप्रवेशप्रसङ्गः948 । “निःस्वभावो नियोगः” इत्यप्यनेन949 प्रत्युक्तम्, निःस्वभावस्यास्य अन्यापोहत्वानतिक्रमात् ।
किञ्च,950 अयं नियोगः प्रवर्त्तकस्वभाव, अप्रवर्त्तकस्वभावो वा ? प्रथमपक्षे951 प्रभाकरवत् ताथागतादीनामपि952 प्रवर्त्तकः स्यात् तस्य943 सर्वथा प्रवर्त्तकस्वभावत्वात्953 । तेषां954 विपर्यासादप्रवर्तकः इति चेत्, न; “भवतामपि955 विपर्यासात् प्रवर्तकः” इत्यपि956 वक्तुं सुशकत्वात् । अथाप्रवर्त्तकस्वभावोऽसौ; तर्हि सिद्धस्तस्य प्रवृत्तिहेतुत्वाभावः, स च वाक्यार्थत्वाभावं साधयति । न च अग्निष्टोमादिवाक्ये विषयादिपदार्थवाचकपदव्यतिरेकेण विषयफलयोः मध्यवर्त्तिन तटस्थस्य वा नियोगस्य वाचकं किञ्चित्पदमस्ति, यतः सोपि विषयादिवत् पदार्थतां प्रतिपद्येत । न चापदार्थो957 वाक्यार्थो भवितुमर्हति; अन्यो न्यसापेक्षपदान्तरनिरपेक्षपदार्थसमुदायलक्षणत्वाद् वाक्यार्थस्य । तन्न नियोगोऽपि वाक्यार्थो घटते ॥ छ ॥
येऽपि प्रेपणाध्येपणाभ्यनुज्ञा958लक्षणः959 प्रयोक्तृधर्मः प्रवृत्तिहेतुत्वेन प्रसिद्धो विधि इत्यामनन्ति,960 तेप्यतत्त्वज्ञाः; पुरुषसम्बन्धशून्येषु961 वेदवाक्येषु पुरुषधर्मतया प्रसिद्धानां प्रेपणादीनाम् अत्यन्तासम्भवतो विधित्वकल्पनानुपपत्तेः । तत्र962 तेषां963 कल्पने वा पौरुषेयत्वानुषङ्गाद् अपौरुपेयत्वकल्पनानुपपत्तिरिति एकं सन्धित्सोरन्यत्प्रच्यवते । असत्कारपूर्विका964 हि व्यापारणा प्रेपणा उच्यते, सत्कारपूर्विका तु अध्येपणा, परेष्टस्य अप्रतिकूलवृत्तिरभ्यनुज्ञेति सर्वे एते प्रेपणादयः पुरुषगताशयविशेषस्वभावत्वाद् अपौरुपेयेषु वेदवाक्येषु न मनागपि सङ्गच्छन्ते इति ॥ छ ॥
अन्ये965 तु प्रैपादीनां966 प्रत्येकं व्यभिचारात् अनेकशक्तिकल्पनादोपाच्च सर्वत्राऽव्यभिचारिणः प्रवर्त्तनामात्रस्यैकस्य विधित्वमिति प्रतिपन्नाः, तेप्यसमीक्षिततत्त्वा, निर्विशे967 षस्य सामान्यस्यैवाऽसम्भवात्968 । यथैव हि खण्डादिविशेषशून्यं गोत्वादि न सम्भवति, एवं परित्यक्तप्रैषादिविशेषं प्रवर्त्तनामात्रमपि । वेदस्य चाऽपौरुषेयत्वाभ्युपगमे पुरुषगताशयविशेषस्वभावानां प्रैषादिविशेषाणामसम्भवात् का प्रवर्त्तनामात्रस्य सम्भावनापि ?
यच्चोक्तम्–“प्रैषादीनां969 व्यभिचारात्”970 इत्यादि; तदयुक्तम्;971 यथासम्भवं यथास्वरूपञ्च प्रवर्त्तकत्वाभ्युपगमात् । यदा हि प्रेपणातः प्रवर्त्तते तदा तस्याः प्रवर्तकत्वम्, यदा तु अध्येषणातस्तदा तस्या इति । नहि “कदाचिद्दीर्घाः शुक्लादिस्वरूपास्तन्तवः पटस्य जनकाः कदाचित्तु ह्रस्वा रक्तादिस्वभावा वा” इत्येतावता तन्तुव्यतिरिक्तस्यान्यस्यैव कस्यचित्पटोत्पत्तिं प्रति उपादानकारणत्वं युक्तं प्रतीतिविरोधात् ॥ छ ॥
अन्ये त्वाहुः–फलं972 प्रवर्त्तकम्, तद्व्यापारः प्रवर्त्तना । सर्वोऽपि हि प्रेक्षापूर्वकारी फलोद्देशेन प्रवर्त्तते, अतः फलस्य प्रवर्त्तकत्वम् । प्रीत्यात्मकता तस्य प्रवृत्तौ व्यापारः स एव च प्रवर्त्तना विधिरिति; तदप्यसङ्गतम्; फलस्य973 प्रवृत्तिहेतुत्वानुपपत्तेः । नहि अवगतमपि फलम् अर्थितां विना प्रवृत्तिहेतुः । सर्वस्य सर्वत्र प्रवृत्तिप्रसङ्गात् । अर्थिता च न फलस्य व्यापारः, किन्तु प्रतिपत्तुरिच्छारूपतया974 तद्धर्मत्वात्975 । अर्थ976 फलस्य प्रीत्यात्मकत्वमन्तरेण इच्छाया एवानुत्पत्तेः तदुत्पादनद्वारेण977 फलधर्मस्य प्रीत्यात्मकत्वस्य प्रवृत्तिहेतुत्वम्; नन्वेवमपि978 प्रीत्यात्मकत्वस्य फले एवाऽवस्थानात् तत्रैव979 आत्मनः प्रवृत्तिः स्यात् न कर्मणि । अतोऽर्थान्तरत्वात्तस्य980981 । नह्यन्यदभिलषितम्982 अन्यत्र983 प्रवृत्तिः अतिप्रसङ्गात् । अथाऽभिप्रेतफलसाधनत्वात्984 कर्मण्येव प्रवृत्तेर्नातिप्रसङ्गः, न खलु प्रेक्षापूर्वकारिणः उपायं परित्यज्य अनुपायेऽसाधने वा साध्ये प्रवर्त्तन्ते, कथमेवं फलस्य प्रवर्त्तकता तत्साधनस्यैव985 तत्प्रसङ्गात् ।
ननु986 नियतकर्मसा987ध्यतायाः988 फलसमवेतायाः प्रवृत्तिहेतुत्वात् फलस्य प्रवर्त्तकत्वम्, नियते च उपायभूते कर्मणि प्रवृत्तिरविरुद्धा, ननु केयं तत्साध्यता-फलस्य989 स्वरूपम्, शक्तिभेदो990 वा ? यदि स्वरूपम्, तदा तस्य991 सर्वत्राविशेषात् नियतकर्मणीवं992 अर्थान्तरेऽपि993 प्रवृत्तिः स्यात् । नहि994 तृप्तिः भुज्यपेक्षयैव तृप्तिर्भवति नाग्न्यपेक्षया इति, तृप्त्यर्थिना अग्नावपि प्रवर्त्तितव्यम् । शक्तिभेदोऽपि995 फलस्य स्वसत्त्वकाले,996 अभावकाले वा स्यात् ? तत्राद्यविकल्पोऽयुक्तः,997 यतः प्रतिनियतादेव कर्मणः प्रतिनियतस्य फलस्योत्पत्त्यर्थं तच्छक्तिभेदः परिकल्प्यते । न चोत्पन्नस्य सम्बन्धिनी शक्तिः उत्पादनियमे समुपयुज्यते । न खलु उत्पन्नं शक्तिवशादुत्पद्यते विरोधात्998 । द्वितीयविकल्पोप्यसुन्दरः, नहि999 फलमविद्यमानं खपुष्पप्रख्यं साध्यताख्यशक्तिभेदाश्रयो1000 भवितुमर्हति । तदा1001श्रयत्वे1002 वा तस्याऽसत्त्वविरोधः1003,1004 असतः सकलशक्तिविरहलक्षणत्वात् ।
किञ्च, इदं फलं विद्यमानं सत्1005 पुरुषं प्रेरयति, अविद्यमानं वा ? यदि विद्य मानम्, किमर्थं प्रेरयति ? फलार्थी हि पुरुषः प्रवर्त्तते, तच्चेद्1006 विद्यते; अलं प्रवृत्त्या । नहि लोके यस्य यदस्ति स तदर्थं पुनः प्रवर्त्तते इति प्रतीतम् प्रवृत्त्यनुपरमप्रसङ्गात्1007 । सतोऽपि फलस्य आत्मसम्बन्धितां कर्त्तु प्रवर्त्तते, इत्यप्ययुक्तम्, यतः फलं सुखम्, दुखाभावश्च, तदुभयमप्युपजायमानम् आत्मसम्बद्धमेवोपजायते । अथ स्वर्गकामः पुरुषः स्वर्गादेः फलस्य विद्यमानस्यैव आत्मसम्बद्धतां कर्त्तुं प्रवर्त्तते, नन्वेवं पुत्रकामादौ1008 का वार्त्ता ? नहि पुत्रादिफलस्य तदा विद्यमानता सम्भवति प्रतीतिविरोधात् ।
किञ्च, इदं फलं सत्तामात्रेण प्रवृत्तिहेतुः, साध्यताविशिष्टं वा ? प्रथमपक्षे सिद्धेपि फले पुरुषप्रवृत्तिहेतुत्वं स्यात्, सत्तामात्रस्य तत्राप्यविशेषात् । न च सिद्धस्य सिद्धये प्रेक्षावतां प्रवृत्तिर्युक्ता तदनुपरमप्रसङ्गात्1009 । अथ साध्यतावच्छिन्नं फलं प्रवृत्तिहेतुर्न केवलम्;1010 तदप्यनुपपन्नम्; अनर्थिनोऽप्यतः10111012 प्रवृत्तिप्रसङ्गात् । फलं हि साध्यतया विशिष्टं प्रतीयमानं यदि प्रतिपत्तारं प्रवर्त्तयति तदा अनर्थिनमपि1013 प्रवर्त्तयेत्तदविशेषात्1014 । तन्न विद्यमानस्यास्य1015 प्रेरकत्वं युक्तम् । नाप्यविद्यमानस्य, अस्याऽस1016तः1017 कारकत्वानुपपत्तेः, “असच्च प्रेरकञ्च”–इति विप्रतिषेधात्1018 ॥ छ ॥
येऽपि ऽफलाभिलाष एव प्रेर्यगतः1019 प्रेरकत्वाद् विधिः, अनर्थिनः प्रवृत्त्यप्रतीतेः, स हि शब्दमन्तरेणापि क्वचिदभिलषिते वस्तुनि अर्थिनं पुरुषं प्रवर्त्तयति इत्याचक्षते, तेऽप्यसमीक्षितवाचः, अभिलाषस्य अव्यापकतया प्रवृत्त्यङ्गतानुपपत्तेः । तदव्यापकता च बालकप्रवृत्तौ तदसम्भवात्सुप्रसिद्धा । तथाहि–कश्चिदाचार्यप्रेरितो बालकः कार्य किमपि कुर्वन् केनचित् प्रयोजनं पृष्टः सन्नुत्तरमाह–“न वेद्मि करणे अस्य किमपि प्रयोजनम्, केवलमाचार्यप्रेरितः करोमि” इति । ततः फलाभिलाषमन्तरेणापि पुरुषप्रवृत्तिप्रतीतेः अव्यापकः सर्वप्रवर्त्तनानां फलाभिलाषः ॥ छ ॥
अन्ये तु “कर्मैव अभिप्रेतार्थप्रसाधकत्वाद् विधिः” इति प्रतिपन्नाः, तन्मतमप्यसङ्गतम्, कर्मणो1020 विधिविषयतया विधिस्वभावत्वानुपपत्तेः1021 । विधेर्विषयो1022 हि कर्म लोके प्रसिद्धं न तत्स्वभावम्,1023 अतोऽन्येनात्र1024 प्रवर्त्तकेन1025 हि भवितव्यम् । नहि स्वस्यैव स्वात्मसिद्ध्यर्थं प्रवर्त्तकत्वं युक्तं विरोधात् ।
किञ्च, उत्पन्नं कर्म आत्मसिद्ध्यर्थं पुरुषं प्रवर्त्तयति, अनुत्पन्नं वा ? तत्र उत्पन्नस्य स्वरूपसिद्धेर्जातत्वात् पुरुषप्रेरणा व्यर्था । अनुत्पन्नस्य तु प्रेरकत्वानुपपत्तिः । सदेव हि किञ्चित् कस्यचित्प्रेरकं नासत् खरविषाणादिकम्, तथाविधस्य1026 कारकत्वायोगात् । असता चानेन1027 सह1028 अपौरुषेयवचसः सम्बन्धासम्भवात् कथं तद् वेदवाक्यैः प्रतिपाद्येत यतः पुरुषप्रवृत्तिहेतुत्वात् तद् वाक्यार्थः स्यात् । अथ सामान्याकारेण1029 सत् कर्म विशेषाकारसम्पादनाय1030 पुरुषं प्रेरयति, तन्न, येनांशेन तत् सन्न तेनांशेन1031 पुरुषसाध्यम्, येन चांशेन1032 साध्यं न तेन तदभिधेयं1033 सम्बन्धासम्भवात् । नहि सम्बन्धाऽभिधेयाभिधानानां1034 नित्यत्वाभ्युपगमे अनित्ये कर्मविशेषे नित्यस्य सम्बन्धस्य सम्भावनापि सम्भवति । लक्षणया1035 तत्प्रतिपत्तिः,1036 इत्यप्ययुक्तम्, तस्यास्त1037द्वत्1038 शब्दार्थनिरूपणावसरे1039 निरस्तत्वात् ॥ छ ॥
अथ आत्मनोऽप्राप्तक्रियासम्बन्धप्रतिपत्तिः1040 प्रवर्त्तकत्वाद् विधिः, “तवेदं1041 कर्म” इत्युक्ते हि क्रियासम्बन्धमात्मन्यवगम्य प्रवर्त्तमानाः प्रतीयन्ते लौकिका इति, तदप्ययुक्तम्, नहि1042 क्रियासम्बन्धप्रतिपत्तिमात्रेण प्रवृत्तिर्लोके प्रतीयते, अपि तु तदनुरोधित1043या,1044 अन्यथा सर्वस्यैव “तवेदं1045 कर्म” इति कर्मसम्बन्धप्रतिपत्तिमात्रेण प्रवृत्तिः प्रसज्येत, अतस्तदनुरोधितापि प्रवर्त्तकत्वाद् विधिः प्रसज्येत । सापि वा न प्राप्नोति, स्वामिवाक्यवद् वेदवाक्ये तस्याः1046 सत्त्वाऽसम्भवात् । “इदं कुरु” इति वाक्याद्धि स्वामिनोऽभिप्रायं विदित्वा तदिच्छानतिक्रमेण तदनुरोधितया प्रवर्त्तते । न चैतद् वेदवाक्ये सम्भवति वक्तुरसत्त्वात् ॥ छ ॥
येऽपि1047 स्वर्गादिफलसाधनत्वेन धात्वर्थं प्रतीत्य पुरुषार्थसाधनत्वादस्मिन्न्1048 प्रवर्त्तामहे इति श्रेयःसाधनत्वाख्यधर्मावगमः प्रवृत्तिहेतुत्वाद् विधिःऽ इत्याचक्षते, तेऽप्यशब्दार्थविदः; श्रेयःसाधनातायाः विधित्वेन लोकेऽप्रसिद्धेः, प्रैषादीनामेव तत्र1049 तत्त्वेन1050 प्रसिद्धेः । लिङादिशब्दवाच्यो हि विधिः । न च श्रेयःसाधनता तच्छब्दवाच्यतया लोके प्रसिद्धा, येनास्या1051 विधित्वं स्यात्, लोकानुसारेण च पदार्थव्यवस्था । य एव लौकिकाः शब्दाः त एव वैदिकाः1052 [शाबरभा॰ १ । ३ । ३०] इत्यादिवचनात् ।
किञ्च, कस्येयं श्रेयःसाधनता–भावनायाः, धात्वर्थस्य वा ? न तावद् भावनायाः,1053 तस्याः प्रागुक्तप्रकारेण असिद्धस्वरूपत्वात् । नापि धात्वर्थस्य; यागादेः पशुवधप्रधानस्य श्रेयःसाधनत्वानुपपत्तेः । न खलु हिंसा श्रेयःसाधनम्; ब्राह्मणवधादेरपि तत्प्रसङ्गात्1054 । विहितानुष्ठानत्वात्त1055त्साधनत्वे1056 “सधनं ब्राह्मणं हन्यात्” इत्यादेरपि विहितानुष्ठानत्वात्1057 श्रेयःसाधनत्वानुषङ्गः । अप्रामाण्यञ्च ठकशास्त्रवद् वेदेऽप्यविशिष्टम् ।
अन्ये तु “उपदेशो1058 विधिः” इत्यामनन्ति । उपदेशशब्देन1059 च1060 विषयो लिङादिः अभिधा चोच्यते । तत्र उपदिश्यते प्रत्याय्यते इत्युपदेशो विषयो यागादिः, उपदिश्यतेऽनेन इत्युपदेशो लिङादिः, उपदेशनमुपदेशः अभिधा उच्चारणमुच्यते,1061 तदप्यसङ्गतम्, ठकोपदेशस्यापि विधित्वप्रसङ्गात् । भवत्परिकल्पितप्रक्रियायाः अग्निष्टोमेन यजेत स्वर्गकामः [ ] इत्यादिवत् “सधनं ब्राह्मणं हन्याद्भूतिकामः” इत्यादावपि1062 तुल्यत्वात् ।
किञ्च, परानुग्रहप्रवृत्तस्य आप्तस्य वचनम् उपदेशः प्रसिद्धः । न च वेदे तथाविधः1063 कश्चित् पुरुषोऽस्ति अपौरुषेयत्वाभावप्रसङ्गात्, तत्कथमस्य1064 उपदेशतापि ? न खलु उपदेष्टॄव्यतिरेकेण उपदेशः कदाचित्प्रतिपन्नः । गुरुवैद्याद्युपदेष्टॄसद्भावे सत्येव “भैक्षं चर, ध्यानाध्ययने कुरु, ज्वरित1065 औपधं पिवेत्, पथ्यमश्नीयात्” इत्याद्युपदेशस्य1066 प्रतीतेः । न च शब्द1067 एव उपदेष्टा इत्यभिधातव्यम्; अव्युत्पन्नस्याप्यतोऽर्थप्रतिपत्तिप्रसङ्गात् । अथ शब्दार्थसम्बन्धव्युत्पत्तिसव्यपेक्ष एवासौ तत्त्वमुपदिशति;1068 ननु कुतस्तद्व्युत्पत्तिः ? विशिष्टपुरुषाच्चेत्, स एव उपदेष्टाऽस्तु किमनया परम्परया ? प्रतिषेत्स्यते च अपौरुषेयत्वमस्य352 अग्रे इत्यलमतिप्रसङ्गेन ॥ छ ॥
येपि विषयस्य यासौ कर्त्तव्यताप्रतीतिः1069 सैव प्रवर्त्तकत्वाद्विधिः इति प्रतिजानते; नहि “इदं मे कर्त्तव्यम्” इत्यप्रतिपद्यमानः कश्चित्प्रवर्त्तते इति; तेऽप्यसमीक्षितवचसः; यतः किं कर्त्तव्यताप्रतिपत्तिः निर्विशिष्टा प्रवृत्तिहेतुः, श्रेयःसाधनताविशिष्टा वा ? तत्राद्यपक्षोऽयुक्तः1070,1071 सर्वस्य सर्वत्र कर्त्तव्यताप्रतिपत्तिमात्रेण प्रवृत्तिप्रसङ्गात्,1072 तथा च ब्राह्मणादिवधकर्त्तव्यताप्रतिपत्तिमात्रेण भवतस्तद्वधादावपि1073 प्रवृत्तिः स्यात् । अथ श्रेयःसाधनताविशिष्टा सा1074 प्रवृत्तिहेतुः; तर्हि श्रेयःसाधनतैव प्रवृत्तिहेतुत्वाद् विधिः स्यान्न कर्त्तव्यता तस्यास्ता1075मन्तरेणाऽप्रवर्त्तकत्वात्1076 । नचैतदप्युपपन्नम्,1077 श्रेयःसाधनतायां1078 विधित्वस्य प्रागेव प्रत्याख्यातत्वात् ॥ छ ॥
अपरेषां1079 मतं प्रतिभैव प्रवर्त्तकत्वाद् विधिः । नहि प्रतिभाव्यतिरेकेण लिङा दिव्यापारोऽपि बलवत्सलिलसमीरणन्यायेन पुरुषं प्रवर्त्तयति सर्वस्य प्रवृत्तिप्रसङ्गात् । नापि विषयप्रतिपत्तिमात्रम्, अत1080 एव । अतो या काचित् प्रवृत्तिः सा सर्वा प्रतिभासमानाकारनिर्णयरूपप्रतिभापूर्विकैव1081 । नहि1082 प्रतिभातेऽप्यर्थे यावत् सुखसाधनमिदमिति प्रतिभा नोत्पद्यते तावत् कश्चित् प्रवर्त्तते । अतः साधनविशेषे1083 पुरस्कृते1084 क्रियाविशेषपरिस्फुरणं1085 प्रतिभा । उक्तञ्च–विशिष्टसाधनाव्यवच्छिन्नक्रियाप्रतीत्यनुकूला प्रज्ञा प्रतिभा1086 [विधिवि॰ पृ॰ २४६] इति, तदप्यसारम्, यतः सिद्धे1087 प्रतिभास्वरूपे विधिरूपता स्यात् । न च भवत्प्रतिपादितं प्रतिभायाः स्वरूपं युक्तम् । इन्द्रियादिबाह्यसामग्रीनिरपेक्षं हि मनोमात्रसामग्रीप्रभवम् अर्थतथाभावप्रकाशं ज्ञानं प्रतिभेति प्रसिद्धम्–“श्वो1088 मे भ्राता आगन्ता” इत्यादिवत्, न पुनः प्रतिभासमानाकारनिर्णयरूपतामात्रम्, निर्विकल्पकाध्यक्षोत्तरकालभाविनः1089 सविकल्पकप्रत्यक्षस्यापि तद्रूपतया1090 प्रतिभात्वानुषङ्गात्, तथा च सविकल्पकप्रत्यक्षवार्त्तोच्छेदः स्यात् ।
यदपि साधनविशेषे क्रियाविशेषपरिस्फुरणम्, तत्किं पूर्वाहितसंस्कारवशात्, प्रत्यक्षादिप्रमाणव्यापारानुसारतः, चोदनातः, श्वो मे भ्रातेत्यादिवत् मनोमात्रतो वा स्यात् ? तत्राऽन्त्यविकल्पोऽयुक्तः, अश्रुतचोदनावाक्यस्य1091 यागादिसाधने क्रियाविशे षस्य स्वप्नेऽप्यस्फुरणात्1092 । प्राक्तनविकल्पत्रये तु प्रतिभात्वं विरुद्ध्येत, अन्यथा संस्कारादिभ्यः1093 समुत्पन्नानां स्मृत्यादीनामपि1094 प्रतिभात्वानुषङ्गात् तदेवैकं1095 प्रमाणं स्यात् ॥ छ ॥
केचिद्10961097 भक्तिरेव1098 प्रवर्त्तकत्वाद् विधिः इत्याचक्षते । न खलु श्रद्धापरपर्यायां भक्तिं विना परमात्मश्रवणानुमननध्यानादौ यागादौ वा प्रवृत्तिः सम्भवति । तदुक्तम्–
अनवच्छिन्नपूर्णत्वस्पर्शो नो भक्तितो विना । [ ]
भक्त्यंशानुप्रेवेशेनैव च शास्त्रस्यापि राजशासनाद्भेदः । तद्धि1099 अन्तर्भक्तिशून्यं राजभयादीनामेव अन्तःपरिस्फुरणात् । उक्तञ्च–
तया1100 शून्यं भवेत् पुंसां शास्त्रं शासनमात्रकृत् ।
भक्त्यंशेन1101 च तद्भिन्नं1102 लोके राजानुशासनात् ॥ [ ] इति ।
तदप्यसम्यक्; यस्मादुत्पन्ना सती भक्तिः प्रवृत्तिनिमित्तं1103 स्यात्, उत्पत्तिश्चास्याः शब्दात्, निग्रहानुग्रहसमर्थपुरुषविशेषाद्वा ? न तावच्छब्दादेव, द्रष्टव्योरेयमात्मा1104 [वृहदा॰ ४ । ५ । ६] इत्यादिशब्दश्राविणोऽशेषस्यापि प्रतिपत्तुः आत्मादौ भक्त्युत्पत्तिप्रसङ्गात् तद्दर्शनादौ1105 प्रवृत्तिः स्यात् । तच्छब्दश्रवणाविशेषेऽपि1106 अशेषस्य तदनुत्पत्तौ नासौ1107 तन्मात्रहेतुका1108 । यदविशेषेऽपि1109 यन्नोत्पद्यते न तत् तन्मात्रहेतुकम् यथा अविशिष्टेऽपि बीजे अनुत्पद्यमानोऽङ्कुरः, नोत्पद्यते च अविशिष्टेऽपि शब्दे तच्छब्दश्राविणोऽशेषस्य आत्मादौ भक्तिरिति । अथ निग्रहानुग्रहसमर्थात् पुरुषाविशेषादभिमतं1110 फलं वाञ्छतां सोत्पद्यते; युक्तमेतत्; तस्या11111112 एव भक्तिशब्दवाच्यत्वप्रसिद्धेः1113 । अपौरुषेयत्वं तु वेदस्याऽयुक्तम्, तस्येत्थं पौरुषेयत्वप्रसिद्धेः1114 । अनवच्छिन्नपूर्णत्वधर्मोपेतस्य1115 चात्मनः ब्रह्माद्वैतप्रघट्टके1116 प्रत्याख्यातत्वात्कथं कस्यचित्तत्र1117 तथाविधपुरुषादन्यतो11181119 वा खरविषाणादिव1120 भक्तिः स्यात् ॥ छ ॥
इच्छाप्रयत्नप्रभृत1121योऽपि1122 विधिप्रकाराः प्रागुक्तप्रकारेणैव प्रत्याख्येयाः,1123 विषयफ1124लादिनिरपेक्षाणां1006 तेषामपि1125 पुरुषप्रवृत्तिहेतुत्वाभावतो विधिरूपतानुपपत्तेः । तत्सापेक्षाणां1126 तु1127 प्रवृत्तिहेतुत्वे कथं तेषामेव1128 विधित्वं स्यात् विषयादीनामपि तत्प्रसङ्गात्1129 ? ततः परपरिकल्पितस्वरूपस्य विधेर्विचार्यमाणस्यानुपपत्तेः न तस्यापि शब्दार्थता घटते । अतः तद्वानेव1130 शब्दार्थोऽभ्युपगन्तव्यः । इति सूक्तम्–““प्रमाणं श्रुतमर्थेषु”” इत्यादि ।
विवृतिव्याख्यानम्–
““श्रुतज्ञानम्”” इत्यादिना कारिकां व्याचष्टे–“श्रुतज्ञानं”1131 शब्दज्ञानं “वक्त्रभिप्रायादर्थान्तरेऽपि” बहिरर्थेऽपि न केवलं तदभिप्राय एव “प्रमाणम् ।” तदनभ्युपगमे दूषणमाह–““कथम्”” इत्यादि । “कथम् ?” न कथञ्चिद् “अन्यथा” बहिरर्थे तत्प्रामाण्याभावप्रकारेण “प्रतिपत्तुमर्हति” सौगतोऽन्यो वा । किमित्याह– “द्वीपदेशनदीपर्वतादिकम् ।” कथम्भूतम् ? “अदृष्टस्वभावकार्यम्,” अप्रत्यक्षाऽननुमेयस्वरूपमित्यर्थः । पुनरपि कथम्भूतम् ? “देशान्तरस्थम् ।” केन प्रकारेण ? “दिग्विभागेन1132 ।” यथा दक्षिणदिग्विभागे सिंहलद्वीप उत्तरदिग्विभागे हिमवानिति । तमित्थम्भूतमर्थं दिग्विभागेन कथन्न प्रतिपत्तुमर्हति ? इत्याह–“निरारेकमविसंवादञ्च” यथा भवति तथेति ।
ननु चार्थाभावेऽपि श्रुतेः प्रायः प्रवृत्तिदर्शनान्न क्वचिदप्यसौ1133 प्रमाणमित्याशङ्क्याह–
प्रायः1134 श्रुतेर्विसंवादात् प्रतिबन्धमपश्यताम् ।
सर्वत्र चेदनाश्वासः सोऽक्षलिङ्गधियां समः ॥ २७ ॥
विवृतिः–नहीन्द्रियज्ञानम् अभ्रान्तमव्यभिचा1135रीति1136 वा विशेषणमन्तरेण प्रमाणमतिप्रसङ्गात् । तथाविशेषणे1137 श्रुतज्ञाने कोऽपरितोषः ? यथा कृत्तिकादेः शकटादिज्ञानं स्वभावप्रतिबन्धमन्तरेण तथैव अदृष्टप्रतिबन्धार्थाभिधा1138नं1139 ज्ञानमविसंवादकम् । न1140 हि दृष्टेऽनुपपन्नं नाम । क्वचिद्व्यभिचारात् साकल्येनानाश्वासे वक्त्रभिप्रायेऽपि1141 वाचः कथमनाश्वासो न स्यात् तत्रापि व्यभिचारसम्भवात् ? तथानिच्छतः श्रुतिकल्पनादुष्टादेः1142 उच्चारणात् ।
कारिकाव्याख्यानम्–
“प्रायो” बाहुल्येन “श्रुतेः” शब्दस्य1143 तज्ज्ञानस्य वा “विसंवादात् सर्वत्र” सत्यश्रुतावपि “चेद्” यदि “अनाश्वासः ।” केषाम् ? “अपश्यतां” सौगतानाम् । किम् ? इत्याह–“प्रतिबन्धम्,”1144 सम्बन्धं सन्तमपि योग्यतारूपमविनाभावम्, “सः” सर्वत्रानाश्वासः1145 “अक्षलिङ्गधियां समः” तासामपि प्रायो विसंवाददर्शनादित्यभिप्रायः ।
विवृतिव्याख्यानम्–
व्यतिरेकमुखेन कारिकां व्याचष्टे ““नहि”” इत्यादिना । “नहि” नैव “इन्द्रियज्ञानं प्रमाणम् ।” केन विनेत्याह–“अभ्रान्तमव्यभिचारीति1146 वा विशेषणमन्तरेण,” तद्विशेषणे सत्येव तत्प्रमाणमिति । कुत एतदित्याह “–अतिप्रसङ्गात्,” द्विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गात् । नहि निर्विशेषणस्य ज्ञानमात्रस्य प्रामाण्याभ्युपमे द्विचन्द्रादिज्ञानस्य प्रामाण्यव्यवच्छेदः कर्त्तुं शक्यः । अथ तद्विशेषणे1147 सत्येव तत्प्रमाणं1148 तेनायमदोषः; अत्राह–““तथा”” इत्यादि । “तथा” अभ्रान्ताऽव्यभिचारिप्रकारेण “विशेषणे” इन्द्रियज्ञानस्य1149 अङ्गीक्रियमाणे “श्रुतज्ञाने कोऽपरितोषः ?” तस्यापि तद्विशेषणविशिष्टस्यैव1150 प्रामाण्यमस्तु । ननु इन्द्रियज्ञानस्य अर्थकार्यत्वात् युक्तम् अभ्रान्तत्वमव्यभिचारित्वं वा न पुनः श्रुतज्ञानस्य विषर्ययात्;1151 इत्यत्राह–““यथा”” इत्यादि । “यथा” येन योग्यताप्रकारेण “कृत्तिकादेः” सकाशात्1152 यत् “शकटादिज्ञानं” तत् “स्वभावप्रतिबन्धमन्तरेण,” स्वभावप्रतिबन्धशब्देन1153 तादात्म्यप्रतिबन्धस्तदुत्पत्तिसम्बन्धश्च1154 गृह्यते “स्वो भावः कारणम्” इति व्युत्पत्तेः, तमन्तरेण “अविसंवादकं1155 तथैव” तेनैव प्रकारेण “अदृष्टप्रतिबन्धार्थाभिधानज्ञानम्” अदृष्टः तादात्म्यादिप्रतिबन्धो यस्मिन् अर्था भिधानज्ञाने तत्तथोक्तम्, तदित्थम्भूतं1156 “ज्ञानमविसंवादकम् ।” कुत एतदित्याह–““नहि”” इत्यादि । हिर्यस्मात् “न दृष्टे” ग्रहोपरागादौ श्रुताविसंवादकत्वे “अनुपपन्नं नाम ।” इन्द्रियज्ञानाविसवादकत्वेऽपि अनुपपन्नत्वप्रसङ्गात् । बहिरर्थे अस्य1157 प्रायो व्यभिचारदर्शनात् सर्वत्रानाश्वासे च वक्त्रभिप्रायेऽपि1158 प्रामाण्यन्न स्यादिति दर्शयन्नाह–““क्वचिद्”” इत्यादि । “क्वचित्” नियते विषये “व्यभिचारात् साकल्येनाऽनाश्वासे” श्रुतेरङ्गीक्रियमाणे “वक्त्रभिप्रायेऽपि” न केवलं बहिरर्थे “वाचः कथमनाश्वासः” साकल्येन “न स्यात् ?” अपि तुस्यादेव । कुत एतदित्याह–““तत्रापि”” इत्यादि । “तत्रापि” वक्त्रभिप्रायेऽपि व्यभिचारसम्भवात् । एतदेव दर्शयन्नाह–““तथा””1159 इत्यादि । येन हि “या1160 भवतः प्रिया” इत्यादिप्रकारेण “परं प्रहृत्य विश्रान्तः पुरुषो वीर्यवान्” इत्यादिप्रकारेण1161 च श्रुतिदुष्टं1162 कल्पनादुष्टञ्चोक्तं1163 “तथा” तेन प्रकारेण “अनिच्छतः” तथाभिप्रायरहितस्यापि “श्रुतिकल्पनादुष्टादेः”1164 आदिशब्देन गोत्रस्खलनादिपरिग्रहः1165 “उच्चारणात्” भाषणात् । किञ्च–
आप्तोक्तेर्हेतुवादाच्च बहिरर्थाविनिश्चये ।
सत्येतरव्यवस्था1166 का साधनेतरता कुतः ॥ २८ ॥
विवृतिः–नहि पुरुषार्थाभिसन्धयः सर्वेऽर्थान्1167 व्यभिचरन्ति, अन्यथा वागर्थव्यभिचारैकान्तसम्भवात् । वाचोऽभिप्रायविसंवादे कुतस्तदनुमानम् ? सुगतेतरयोः आप्तेतरव्यवस्थां कुतश्चित् साधनासाधनाङ्गव्यवस्थां वा स्वयमुपजीवन् वक्तुरभिप्रेतं1168 तु वाचः सूचयन्ति अविशेषेण नार्थतत्त्वमपि [ ] इति कथमविक्लवः ? 1169 कारिकाव्याख्यानम्–
यो यस्याऽवञ्चकः स तस्य “आप्तः1170 तदुक्तेः” तद्वचनात् “हेतुवादाच्च” लिङ्गादिवचनाच्च “बहिरर्थाविनिश्चये” अङ्गीक्रियमाणे “सत्यं” सुगतवचनम् “इतरद”सत्यं कपिलादिवचनम् तयोः “व्यवस्था का ?” न काचित्, सर्वमसत्यमेव स्यात् । अतः सुगतवचनादपि न क्वचित्प्रवृत्तिः स्यात् । तथा “साधनेतरता कुतः” ? पक्षादिवचनानि साधनम्,1171 इतरत् तद्दूषणवचनं1172 तयोर्भावस्तत्ता सापि कुतः ? नैव स्यात् । तथा च “यत् सत्तत् सर्व क्षणिकम्” इत्यादेरसाधनाङ्गतया निग्रहस्थानता स्यादित्यभिप्रायः ।
विवृतिव्याख्यानम्–
व्यतिरेकद्वारेण कारिकार्थमाह–““नहि”” इत्यादिना । “न” खलु “पुरुषाभिसन्धयः” पुरुषाभिप्रायाः “सर्वे अर्थान् व्यभिचरन्ति” । कुत एतदित्याह–““अन्यथा”” इत्यादि । “अन्यथा” तेषां तद्व्यभिचारप्रकारेण “वागर्थव्यभिचारैकान्तसम्भवात्,” वाचामर्थस्य बाह्यस्य अन्यस्य वा यो व्यभिचारैकान्तः तस्य सम्भवात् । “वाचोऽभिप्रायविसंवादे” सति “कुतः” न कुतश्चित् “तस्य” अभिप्रायस्य “अनुमानम्” । अथेदानीं परस्योन्मत्तचेष्टितं ““सुगत”” इत्यादिना दर्शयन्नाह–“सुगतस्य हि” आप्तत्वव्यवस्थां1173 कुतश्चिद् अनुपदेशाऽलिङ्गाविसंवादिच1174तुरार्यसत्योपदेशात्1175 कपिलादेस्तु अनाप्तत्वव्यवस्थां विसंवादिप्रधानादितत्त्वोपदेशात् “स्वयम्” आत्मना “उपजीवन्, साधनासाधनाङ्गव्यवस्थां वा,”1176 त्रिरूपहेतुवचनस्य1177 हि स्वसाध्यसिद्ध्यङ्गव्यवस्था पक्षादिवचनस्य तु तदसिद्ध्यङ्गव्यवस्था1178 तां वा “उपजीवन् “वक्तुरभिप्रेतं तु वाचः सूचयन्ति अविशेषेण नार्थतत्त्वमपि [ ] ” इति” एवं ब्रुवाणो धर्मकीर्त्यादिः “कथमविक्लवः” स्वस्थः ? अत्राह सौगतः–वक्त्रभिप्रायेऽपि यदि वचनस्य प्रामाण्यन्नास्ति, मा भूत्, किन्नष्टं प्रमाणद्वयवादिनः ? व्यवहारिजनानुरोधादेव तत्र1179 तस्य154 प्रामाण्याभ्युपगमादित्याशङ्क्याह–
पुंसश्चित्राभिसन्धेश्चेद्1180 वागर्थव्यभिचारिणी ।
कार्य1181 दृष्टं विजातीयाच्छक्यं कारणभेदि किम् ? ॥ २९ ॥
विवृतिः–श्रुतेर्बहुलं बहिरर्थाविसंवादेऽपि तदर्थप्रतिबन्धासिद्धेः वक्त्रभिप्रायानुविधायिन्याः सर्वत्र तदर्थानाश्वासः इति चेदुक्तमत्र–“तादात्म्यतदुत्पत्तिभ्यां विनापि परोक्षार्थप्रतिपत्तेरविसंवादः” इति । अपि च वृक्षोऽय शिंशपात्वात् अग्निरत्र धूमादिति वा कथमाश्वासः ? क्वचिल्लताचूतादेरुपलब्धेः शिंशपायाः स्वयमवृक्षत्वेऽप्यविरोधात्, काष्ठजन्मनो1182 मण्यादिसामग्रीप्रभवस्य अशनिजन्मनः तदर्थान्तरजन्मनश्च साकल्येन अग्निस्वभावाविरोधे पुनः अग्निजन्मैव धूमः नार्थान्तरजन्मा इति कुतोऽयं नियमः ? यतः कार्यहेतोरव्यभिचारात् “धूमादग्निरत्र” इत्याश्वासः । कस्यचिदन्यथानुपपत्त्या परोक्षार्थप्रतिपत्तौ श्रुतज्ञानस्य स्वयमदृष्टतादात्म्यतदुत्पत्तेः क्वचिदविसंवादस्य अन्यथानुपपत्तेः सिद्धं प्रामाण्यमिति ।
कारिकाव्याख्यानम्–
“पुंसो यः चित्रोऽभिसन्धिः” सरागा अपि वीतरागवच्चेष्टन्ते1183 [ ] इत्यभिधानात्, तस्मात् “वाक् चेद्” यदि “अर्थव्यभिचारिणी कार्य दृष्टं विजातीयाद्” अभिमतकारणजातिपरिहारेण जात्यन्तरादपि । ततः कि जातमित्यत्राह–““शक्यम्”” इत्यादि । “शक्यं” शक्तं “कारणभेदि” कारणविशेषं गमयितुं “किम् ?” नैव शक्तमित्यर्थः । कार्यग्रहणमुपलक्षणं स्वभावस्य, अतोऽनुमानस्याप्यभावः इत्यभिप्रायः ।
विवृतिविवरणम्–
कारिकां विवृण्वन्नाह–““श्रुतेः”” इत्यादि । “श्रुतेः” शब्दस्य “बहुलं” प्राचुर्येण “बहिरर्थाविसंवादेऽपि” न केवलं तदभावे,1184 “तदर्थेन”1185 बहिरर्थेन “प्रतिबन्धस्य” तादात्म्यतदुत्पत्तिलक्षणस्य “असिद्धेः” कारणात् । कथम्भूतायाः श्रुतेः इत्याह– “वक्त्रभिप्रायानुविधायिन्याः ।” क्व1186 किमित्याह–“सर्वत्र तदर्थानाश्वासः” बहिरर्थानाश्वास “इति” एवं “चेत्” अत्राह–““उक्तम्”” इत्यादि । अत्र पूर्वपक्षे उक्तमुत्तरम्1187 । कि तदित्याह–“तादात्म्यतदुत्पत्तिभ्यां विनापि परोक्षार्थप्रतिपत्तेः” कारणात् “अविसंवादः” श्रुतेः “इति” एतत् । ““अपि च”” इत्यादिना परपक्षेपि तद्दूपणं योजयति । “अपि च” किञ्च ““अयं” दृश्यमानो भावः “वृक्षः शिंशपात्वात्””, ““अत्र” पर्वते “अग्निः धूमात्”” “इति वा” यदनुमानं तत्र “कथं” नैव “आश्वासः ?” कुत एतदित्याह–““क्वचिद्”” इत्यादि । “क्वचिद्” देशविशेषे “लताचूतादेः,” आदिशब्देन लताबदर्यादिपरिग्रहः तस्या “उपलब्धेः” कार णात् । तथा च “शिंशपायाः स्वयम्” आत्मना “अवृक्षत्वेऽप्यविरोधात्”1188 कथमाश्वासः ? “काष्ठजन्मनः” पावकस्य “मण्यादिसामग्रीप्रभवस्य”1189 तथा“ऽशनिजन्मनः” तस्मादशनिभावात् काष्ठाद्यर्थः “तदन्तरं तज्जन्मनश्च साकल्येन” अनवयवेन “अग्निस्वभावाविरोधे पुनः” अङ्गीक्रियमाणे ““अग्निजन्मैव धूमो नार्थान्तरजन्मा”” इति “कुतोऽयं नियमः यतो” नियमात् “कार्यहेतोरव्यभिचारात् “धूमादग्निरत्र” इत्यादौ आश्वासः” स्यात् । अथ सुविवेचित1190 कार्य कारणन्न व्यभिचरति [ ] इत्युच्यते । अत्राह–““कस्यचिद्”” इत्यादि । “कस्यचित्” स्वभावकार्यविशेषस्य या “अन्यथा” साध्याभावप्रकारेण “अनुपपत्तिः” तया “परोक्षार्थप्रतिपत्तौ” अङ्गीक्रियमाणायां “श्रुतस्य स्वयम्” आत्मना “अदृष्टतादात्म्यतदुत्पत्तेः” भादौ1191 वोक्तपुस्क पुवत् [जैनेन्द्रव्या॰ ५ । १ । ५३] इत्यतो1192 नपुंसकत्वाभावः । “क्वचिद्” द्वीपादौ यः तस्य1193 “अविसंवादः” तस्य “अन्यथानुपपत्तेः सिद्धं प्रामाण्यमिति ॥ छ ॥”
प्रमाणं साभासं विषयफलसङ्ख्यादित इह,1194
प्रसन्नैर्गम्भीरैः कतिपयपदैर्येन1195 गदितम् ।
स जीयाद् दुस्तर्कः प्रतिमिररविः न्यायजलधिः,
जगज्जन्तुस्वान्तप्रवरकुमुदेन्दुर्जिन1196पतिः1197 ॥ छ ॥
इत्थं समस्तमतवादिकरीन्द्रदर्पमुन्मूलयन्नमलमानदृढप्रहारैः ।
स्याद्वादकेसरसटाशततीव्रमूर्त्तिः पञ्चाननो भुवि जयत्यकलङ्कदेवः ॥ छ ॥
इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे चतुर्थः1198 परिच्छेदः समाप्तः ।
एवमन्तर्भूतप्रत्यक्षादिपरिच्छेदचतुष्टयः1199 प्रमाणप्रवेशः1200 परिच्छेदः समाप्तः ॥ छ ॥
ग्रन्थप्रमाणं ११३० ॥ छ ॥
-
मानस्य ↩︎
-
“–त्वेन सिद्धविज्ञा–” [ब॰] । ↩︎
-
स्याद् भवेत् । किम् ? प्रत्यक्षाभ प्रत्यक्षप्रमाणाभासमित्यर्थ । अक्षमिन्द्रियानिन्द्रिय प्रति नियत प्रत्यक्ष ज्ञानमात्रम् तदिवाभातीति व्युत्पत्ते । किं विशिष्टम् ? तैमिरादिक तिमिरादागत तैमिर तदादिर्यस्य आशुभ्रमणादे तथोक्तम् । तत् किं स्यात् ? प्रमाण भवति । कथम् ? कथञ्चित् भावप्रमेयापेक्षया द्रव्यापेक्षया वा, न सर्वथा प्रमाणाभासमेव, बहिरर्थाकारविषय एव ज्ञानस्य विसवादात् स्वरूपापेक्षया तस्याविसवादात् । अत्राविनाभाव दर्शयति यदित्यादि । यज्ज्ञान यथैव यावद्विषयावबोधनप्रकारेण अविसवादि, विसंवादो गृहीतार्थव्यभिचार तद्रहितमविसवादि, तज्ज्ञान तथा तावद्विषयावबोधन- प्रकारेण प्रमाण मतमिष्ट परीक्षकैरिति । तथाहि–सर्व मशयादिक प्रमाणाभास स्वरूपापेक्षया द्रव्यापेक्षया वा प्रमाण भवति तत्रविसवादित्वात्, यद्यप्राविसवादि तत्तत्र प्रमाण यथा रसे रसज्ञानम्, अविसवादि च सशयादिक स्वरूपे द्रव्यरूपादौ वा, ततस्तत्र कथञ्चित्प्रमाणमिति । विसवाद एव खल्वप्रामाण्यनिबन्धनम् अविसवादश्च प्रामाण्यनिबन्धनमिति न्यायम्य सकलवादिसम्मतत्वात् सर्वथा प्रमाणाभासस्य न्यायशून्यत्वात् । “बहि प्रमेयापेक्षाया प्रमाण तत्रिभञ्च ते” [आप्तमी॰ श्लो॰ ८३] इति वचनात् । न हि ज्ञान स्वरूपे विसवादि तस्याहम्प्रत्ययसिद्धत्वात् । प्रसिद्धे च विषये प्रवर्तमान कथमप्रमाण स्यादिति । – [लघी॰ ता॰ पृ॰ ४२ ।] अस्या कारिकाया यद्दिग्नानादिना तैमिरादिक प्रत्यक्षाभासमुक्तम्, तस्य कथञ्चिदेव प्रत्यक्षाभासता दर्शयति । दिग्नागादे प्रत्यक्षाभस्वरूपप्रदर्शका ग्रन्थास्त्वित्यम्–भ्रान्तिस्मवृतिसज्ज्ञानमनुमानानुमानिकम् । स्मरणञ्चाभिलापश्चेत्यक्षाभास सतैमिरम् ॥ अथ मरीचिकादिषु जलादिकल्पनात् भ्रमज्ञान प्रत्यक्षाभासम् । सवृतिसत्य हि स्वस्मिन् अर्थान्तरमारोप्य तत्स्वरूपकल्पनात् प्रत्यक्षाभासम् । अनुमान तत्फलञ्च पूर्वानुभवकल्पनान्न प्रत्यक्षम् । – [प्रमाणमसु॰, वृ॰ १ । ८ ।] त्रिविध कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् । अविकल्पकमेकञ्च प्रत्यक्षाभ चतुर्विधम् ॥ त्रिविध कल्पनाज्ञान प्रत्यक्षाभम्–मरीचिकाया जलाध्यवसायि भ्रान्तिज्ञानम् । सवृती विसवादिव्यवसायसावृतज्ञानम्, पूर्वदृष्टैकत्वकल्पनाप्रवृत्त लिङ्गानुमेयादिज्ञानम् । अविकल्पकञ्चैक प्रत्यक्षाभासम्, कीदृशम् ? आश्रयस्य इन्द्रियस्य उपप्लवस्तिमिराद्युपघात तस्माद्भवो यस्य तत्तथा । एवञ्च चतुर्विधं प्रत्यक्षाभासम् । नन्वविकल्पक प्रत्यक्षम्, ततस्वयमपीद सविकल्पकत्वादेक प्रत्यक्षाभास । तत्किम् ? भ्रान्तिज्ञान मृगतृष्णिकाया जलावसायि । सवृतिमतो द्रव्यादेर्ज्ञानम् । अनुमान लिङ्गज्ञानम्, आनुमानिक लिङ्गिज्ञानम् । स्मार्तम् स्मृति । आभिलापिकञ्चेति विकल्पप्रभेद आचार्यदिग्नागेनोक्त । – [प्रमाणवा॰ मनोरथ॰ २ । २८८ ।] तुलना–पीतशस्वादिषु विज्ञान तु न प्रमाणमेव तथार्थक्रियाव्याप्नेरभावात्, सस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञान प्रमाणममुमानम्, ततोऽनुमान मस्थाने सशय परवेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणञ्च । – [प्रमाणवार्तिकाल॰ प्रथमपरि॰ ।] ↩︎
-
तुलना–यथा यत्र विशद तथा तत्र प्रत्यक्षम् । यथा यत्राविसवाद तथा तत्र प्रमाणता ॥ [पृ॰ ६५ब्] तथा च सर्व स्वभावे परभावे वा कथञ्चिदेव प्रमाण न सर्वथा । – [ सिद्धिवि॰, टी॰ पृ॰ ८६अ ।] यथा यथाविसवादस्तथा तत्र प्रमाणता । – [तत्त्वार्थश्लो॰ पृ॰ १७० । सिद्धिवि॰ टी॰ पृ॰ ६९ब्। ।] यथा यथाविसवादस्तथा तत्र प्रमाणतेत्यकलङ्कदेवैरप्युक्तत्वात् । – [अष्टसह॰ पृ॰ १६३ ।] यद्यथैवासवादि प्रमाण तत्तथा मतम् । विसवाद्यप्रमाणञ्च तदध्यक्षपरोक्षयो ॥ – [सन्मति॰ टी॰ पृ॰ ५९५ ।] ↩︎
-
तुलना–येनाकारेण तत्त्वपरिच्छेद तदपेक्षया प्रामाण्यमिति । तेन प्रत्यक्षतदाभासयोरपि प्रायश सङ्कीर्णप्रामाण्येतरस्थितिरुन्नेतव्या । प्रसिद्धानुपहतदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात् । तथोपहताक्षादेरपि सख्यादिविसवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्पापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् । – [अष्टश॰, अष्टसह॰ पृ॰ २७७ ।] अनुपप्लुतदृष्टीना चन्द्रादिपरिवेदनम् । तत्सख्यादिषु सवादि न प्रत्यासन्नतादिषु ॥ – [तत्त्वार्थश्लो॰ पृ॰ १७० ।] उद्धृतेय समग्रा विवृति – [सन्मति॰ टी॰ पृ॰ ५९५ ।] ↩︎
-
“यदेकान्तवादिनां” [श्र॰] । ↩︎
-
तिमिरमक्ष्णोर्विप्लव, इन्द्रियगतमिद विभ्रमकारणम् । आशुभ्रमणमलातादे, मन्दं हि भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते, तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम्, एतच्च विषयगत विभ्रमकारणम् । सक्षोभो वातपित्तश्लेष्मणाम्, वातादिषु हि क्षोभ गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते, एतच्चाध्यात्मगत विभ्रमकारणम् । सवैरेव च विभ्रमकारणै इन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्त्तव्यम् । अविकृत इन्द्रिय इन्द्रियभ्रान्त्ययोगात् । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विषयस्था । आशुनयनानयने हि कार्यमाणेऽलातादावग्निवर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्था गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते । – [न्यायबि॰ टी॰ पृ १६–१७ ।] ↩︎
-
“यदि ज्ञानं” [आ॰] । ↩︎
-
“–तज्ञानं” [आ॰] । ↩︎
-
“प्रत्यक्षम्” इति शेष । ↩︎
-
इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मक प्रत्यक्षम् । – [न्यायसू॰ १ । १ । ४ ।] ↩︎
-
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणा बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्यमानोपलम्भनत्वात् । – [जैमिनिसू॰ १ । १ । ४ ।] ↩︎
-
आदिपदेन अव्यभिचारिसत्सम्प्रयोगजयो परिग्रहः । ↩︎
-
भ्रान्तम् – [आ॰ टि॰] । ↩︎
-
अभ्रान्तादिग्रहणेन । ↩︎
-
अप्रत्यक्षत्वात्तेनापसार्यते इति सम्बन्ध । ↩︎
-
“एकांशत हानि” [श्र॰] । ↩︎
-
सवादविसवादलक्षणत्वात् – [आ॰ टि॰] । ↩︎
-
“न तज्जाज्ञानं” [ब॰] । ↩︎
-
“–कसंवेदनम्” [श्र॰] । ↩︎
-
“सिद्ध अतोऽभ्युप–” [ब॰] , [श्र॰] । ↩︎
-
“तथोक्त” [श्र॰] । ↩︎
-
“इत्यत्राह” [श्र॰] , [ब॰] । ↩︎
-
क्षणिकादेरग्रहणादप्रमाण निर्विकल्पकम्, यदि हि क्षणभगादि निर्विकल्पकप्रत्यक्षेणैव गृहीत स्यात्तदा तत्साधनार्थमनुमान किमर्थं प्रयुज्यत इति हृदयम् – [आ॰ टि॰] । ↩︎
-
अनुमानस्य । ↩︎
-
निर्विकल्पकप्रत्यक्षेण । ↩︎
-
“करणस्यायोगात्” [ब॰] । ↩︎
-
“क्षणैकान्त” [ब॰] । ↩︎
-
यद्धि वस्तु तत्सर्वात्मना कृत गृहीत निर्विकल्पेन इत्येकान्त कृतैकान्त । ↩︎
-
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सत स्वयम् । कोऽन्यो भागो न दृष्ट स्यात् य प्रमाणै परीक्ष्यते ॥ – [प्रमाणवा॰ ।] उद्धृतश्चायम् – [न्यायम॰ पृ॰ ९३ । अभि॰ आलोक॰ पृ॰ १५२ । सिद्धिबि॰ टी॰ पृ॰ ७१अ। । तत्त्वार्थश्लो॰ पृ॰ ४०५ । प्रमेयक॰ पृ॰ २३६ । सन्मति॰ टी॰ पृ॰ ५०७ । न्यायवि॰ वि॰ पृ॰ ४९६ब् । स्या॰ र॰ पृ॰ ५३४ । शास्त्रवा॰ यशो॰ पृ॰ १५८ब् ।] ↩︎
-
“न च क्षण–” [श्र॰] । ↩︎
-
““विप्रलम्भोऽपि”” नास्ति [ब॰] । ↩︎
-
अग्रहणेऽपि – [आ॰ टि ।] ↩︎
-
“तैमिरादीन्द्रि–” [श्र॰] , [ब॰] । ↩︎
-
द्रष्टव्यम् – [पृ॰ ५२१ टि॰ ४ ।] ↩︎
-
भवति । किम् ? स्वसंवेद्यम् स्वेन तत्त्वज्ञानात्मना संवेद्यं ग्राह्यम् स्वसवेद्यं ज्ञानस्वरूपमित्यर्थः । वेद्यवेदकाकारद्वयाविरोधात् ज्ञानस्य अन्यथा अवस्तुत्वापत्तेः । किं विशिष्टम् ? विशदार्थावभासनम् अर्थस्य परमार्थसतोऽवभासनमवबोधनमर्थावभासनम् विशद स्पष्ट तच्च तदर्थाबभासन च तत्तथोक्तम् । केषाम् ? विकल्पानाम्, घटोऽय गौरय शुक्लोऽयं गायकोऽयमित्यादिनिश्चयज्ञानानाम् । कुत ? सविकल्पाबभासनात्, विकल्पो जात्याद्याकारावबोध सह विकल्पेनेति सविकल्पक तस्यावभासनादनुभवात् । कदा ? सहृताशेषचिन्तायाम्, सहृता नष्टा अशेषा स्मृत्यादयश्चिन्ता विकल्पा यस्यामवस्थाया सा तथोक्ता तस्याम् । चक्षुरादिबुद्धौ जात्याद्याकारविशेषस्य अवबोधनस्य अप्रतिहतत्वात्, ततो विकल्पज्ञानस्य प्रत्यक्षाभासत्वमयुक्तमित्यर्थ । – [लघी॰ ता॰ पृ॰ ४३ ।] ↩︎
-
धर्मकीर्तिनोक्त यत्–शान्तचेतस्कतया चक्षुषा यद्रूपदर्शनं भवति तन्निर्विकल्पकम् । तस्मिश्च रूपस्वलक्षण क्षणिक-परमाण्वात्मकं प्रतिभासते । तथाहि–सहृत्य सर्वतश्चिन्ता स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साऽक्षजा मति ॥ – [प्रमाणवा॰ २ । १२४] ग्रन्थकृता तत्प्रतिविहितम्– यत्तदवस्थायामपि सविकल्पकमेव ज्ञान स्थिरस्थूलाद्यर्थग्राह्यनुभूयते । तुलना–सहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपं स्वञ्च स्पष्ट व्यवस्यति । – [तत्त्वार्थश्लो॰ पृ॰ १८६ ।] ↩︎
-
तुलना–न हि जातुचिदसहायमाकारं पश्यामो यथा व्यावर्ण्यते तथैवानिर्णयात्, नानावयवरूपाद्यात्मनो घटादेः बहि सम्प्रतिपत्तेः न परमाणुसञ्चयरूपस्य । – [सिद्धिवि॰, टी॰ पृ॰ ३६ब्। ।] ↩︎
-
“प्रतिसंहारं व्यु–” [ई॰ वि॰] । ↩︎
-
“अविकल्पानु–” [श्र॰] । ↩︎
-
न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता । न विकल्पेनानुबद्धस्य सस्तुतस्य ज्ञानस्य स्फुटार्थावभासिताऽस्ति । – [प्रमाणवा॰ मनोरथ॰ २ । २८३ ।] उद्धृतोऽयम् – [तत्त्वोप॰ पृ॰ ३४ । सिद्धिवि॰ टी॰ पृ॰ २८ब्।, ९५अ। । तत्त्वार्थश्लो॰ पृ॰ १२० । सन्मति॰ टी॰ पृ॰ ५०२ । न्यायवि॰ बि॰ पृ॰ ७७अ ।] “न विकल्पानुबन्धस्य” – [शास्त्रवा॰ यशो॰ पृ॰ १५७ब्। ।] “निर्विकल्पानुबद्धस्य स्पष्टार्थ प्रतिभासते” – [न्यायबि॰ टी॰ टि॰ पृ॰ ३५ ।] ↩︎
-
प्रत्यक्षं कल्पनापोढ प्रत्यक्षेणैव सिद्ध्यति । प्रत्यात्मवेद्य सर्वेषा विकल्पो नामसश्रय ॥ यत्तत्प्रत्यक्षमिति प्रसिद्ध तत्कल्पनाया अपोढ द्रष्टव्य कल्पनार्थरहितमित्यर्थ । तच्चैतदीदृश प्रत्यक्षेणैव स्वसवेदनेनैव सिद्ध्यति । कल्पनारहितस्यार्थस्य रूपस्य सवेदनस्यापरोक्षत्वात् । यदि तु कल्पनास्वभावत्वमस्य स्यात्तथैव प्रकाशेत विकल्पस्यापरोक्षत्वात् । तथाहि –प्रत्यात्मवेद्य सर्वेषा प्राणिना विकल्पो नामसश्रय शब्दससर्गवान् । स यदि स्यादुपलभ्य एव भवेत् । – [प्रमाणवा॰ मनोरथ॰ २ । १२३ ।] उद्धृतोऽयम् – [अनेकान्तजय॰ पृ॰ २०७ । न्यायवा॰ ता॰ पृ॰ १५४ । सिद्धिवि॰ टी॰ पृ॰ १७अ।, ३१अ । प्रमेयक॰ पृ॰ ३२ । सन्मति॰ टी पृ॰ ५०३ । न्यायवि॰ वि॰ पृ॰ ४५अ, ८३ब्, ४९५अ । स्या॰ र॰ पृ॰ ८२ । शास्त्रवा॰ यशो॰ पृ॰ १५७ब्] ↩︎
-
““च”” नास्ति [ब॰] । ↩︎
-
“तेन किं” [श्र॰] । ↩︎
-
“–स्वभावलक्षणरूपमेव” [श्र॰] । ↩︎
-
““असाधारणम्”” नास्ति [आ॰] , [ब॰] । ↩︎
-
“–व्यावृत्त य एको–” [ब॰] । ↩︎
-
“–वस्यैवानुस्म–” [ब॰] । ↩︎
-
“–मिति यस्मा–” [ब॰] । ↩︎
-
“अविकल्प प्र–” श्रे॰ । ↩︎
-
प्रत्यक्षेतरज्ञाने विभिन्नविषये विभिन्नप्रतिभासत्वात् । ↩︎
-
“नैवं” [ब॰] । ↩︎
-
“–विकल्पकस्य” [आ॰] । ↩︎
-
““प्रत्यासन्नेत्यादि”” नास्ति [आ॰] , [श्र॰] । ↩︎
-
अ सिद्ध इत्यत्रापि योज्यम् – [आ॰ टि॰] । ↩︎
-
“प्रत्यक्षेण सन्ति” [श्र॰] , [ब॰] । ↩︎
-
यदाह–न चेमा कल्पना अप्रतिसविदिता एवोदयन्ते व्ययन्ते चेति । नापि तत्प्रतिपत्तौ लिङ्गानुसरणेन तदाकारसमारोपसशय शक्यते कल्पयितुम् – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । ५० ।] ↩︎
-
“सतोऽप्यनु–” [आ॰] । ↩︎
-
न लक्ष्येरन् विविच्येरन् । का ? कल्पना विकल्पा । केषु ? प्रत्यक्षेषु स्वसवेदनादिषु । किं विशिष्टा अपि ? सत्योऽपि विद्यमाना अपि । पुन कथम्भूता ? प्रतिसविदितोत्पत्तिव्यया, उत्पत्ति स्वरूपलाभ व्ययोऽभावप्रत्यय, प्रतिसविदितौ प्रतिप्राणि समुपलब्धौ उत्पत्तिव्ययौ यासा तास्तथोक्ता । न खुल सत्त्वं विना उत्पादव्ययवत्त्वमनुभूयते, अन्यथाऽतिप्रसङ्गात् । ननु सता विकल्पाना प्रत्यक्षबुद्धावनुपलक्षणे किं कारणमिति चेत्; प्रतिपत्तुरशक्तिरप्रणिधानञ्चेति ब्रूम । अत्र निदर्शनमाह–तदित्यादि । तेषा विकल्पानां स्वलक्षण स्वरूप तस्य भेद सजातीयविजातीयव्यावृत्ति स इव तद्वत् । अयमर्थ–यथा प्रतीतोत्पादव्यया सत्यपि स्वलक्षणव्यावृत्ति कल्पनासु न लक्ष्यते अनुमानत एव तत्सिद्धे तथा प्रत्यक्षेषु कल्पना अपि न लक्ष्यन्त इति । तर्हि कथमलक्षिताना तासा तत्रास्तित्वसिद्धिरिति चेत् ? न, पुनस्तद्विषयस्मरणान्यथानुपपत्त्या तत्सिद्धे । सहृतसकलविकल्पावस्था हि अश्व विकल्पयतो गोदर्शनावस्था, तत्रापि गोदर्शन निश्चयात्मकमेव पुनस्तद्विषयस्मरणान्यथानुपपत्ते । – [लघी॰ ता॰ पृ॰ ४४ ।] तुलना– न हि सवित्ते बहुबहुविधप्रभृत्याकृतय स्वयमसविदिता एवोदयन्ते अत्ययन्ते वा यत सत्योऽष्यनुपलक्षिता स्यु कल्पनावत् । – [सिद्धिवि॰, टी॰ पृ॰ ९८अ ।] ↩︎
-
स्वहेतोरेव तथोत्पत्ते क्षणस्थितिधर्मता तत्स्वभाव पश्यन्नपि मन्दबुद्धि सत्तोपलम्भेन सर्वदा तथाभावस्य शङ्कया सदृशापरापरोत्पत्तिविप्रलब्धो वा न व्यवस्यति । – [प्रमाणवा॰ स्ववृ॰ १ । ३४ ।] ता पुनरनित्यता पश्यन्नपि मन्दबुद्धि नाध्यवस्यति सत्तोपलम्भेन सर्वदा तद्भावशङ्काविप्रलब्ध सदृशापरापरोत्पत्तिविप्रलब्धो वा । – [प्रमाणवार्तिकालं॰ लि॰ पृ॰ २३७ ।] ↩︎
-
इन्द्रियमन स्वमवेदनयोगिलक्षणस्य । ↩︎
-
“सजातीयाच्च व्या–” [आ॰] । ↩︎
-
“तदुक्त” [ब॰] । ↩︎
-
क्षणभङ्गित्वम्, स्वरूपभेदश्च । ↩︎
-
“तथा” [आ॰] । ↩︎
-
उबाड? – [आ॰ टि॰] । ↩︎
-
भेदम् । ↩︎
-
“तद्” [श्र॰] । ↩︎
-
““सर्वथेत्यादि”” नास्ति [श्र॰] । ↩︎
-
“सादृश्यानिष्टेः” [ब॰] । ↩︎
-
“ततस्तदभेदोष–” [आ॰] । ↩︎
-
““पर्यालोच्यमेतत्”” नास्ति [आ॰] । ↩︎
-
कल्पनानाम् । ↩︎
-
कल्पनाया लक्षणमिदम्, तथाहि–अभिलापससर्गयोग्यप्रतिभासप्रतीति कल्पना – [न्यायवि॰ पृ॰ १४ ।] ↩︎
-
“तत” [ब॰] । ↩︎
-
अभिलापससर्गयोग्यप्रतिभासस्य । ↩︎
-
“–सिद्धेः प्रति–” [श्र॰] । ↩︎
-
“कथञ्चेदित्यादि” [ब॰] । ↩︎
-
“कथञ्च पुन” [आ॰] । ↩︎
-
“विकल्पेनैव विक–” [श्र॰] । ↩︎
-
यथाहि अभिलाप-अभिलप्यमानजातिगुणक्रियादिरहितात् क्षणिकार्थात् न शब्दसंसर्गी विकल्पो जायते तथैव निर्विकल्पानुभवादपि शब्दशून्यात् न शब्दात्मको विकल्प समुत्पद्येत । ↩︎
-
[पृ॰ ५१ ।] ↩︎
-
प्रमाणमित्यनुवर्तते । तेनाभिसम्बन्धाद् अक्षध्यादीना प्रथमान्तत्वम् “अर्थवशाद्विभक्तिविपरिणाम” इति न्यायात् तत एव व्याख्यायते–अक्षधीस्मृतिसज्ञाभि चिन्तयाऽऽभिनिबोधकैश्च व्यवहारे हानोपादानरूपे अविसंवादादव्यभिचार सकलव्यवहारिणा प्रतीतिसिद्ध ततस्तानि प्रमाणानि भवन्तीत्यर्थ । – [लघी॰ ता॰ प॰ ४५ ।] ↩︎
-
“–निबोधकैः” [ब॰] । ↩︎
-
“अभिनिबोधिकैः” [ब॰] , [श्र॰] । ↩︎
-
“यथैव” [आ॰] । ↩︎
-
परोक्षस्य – [आ॰ टि॰] । ↩︎
-
परोक्षम् – [आ॰ टि॰] । ↩︎
-
“–सवादप्रकारे–” [श्र॰] । ↩︎
-
व्यवहाराविसवाद इत्यनुवर्तते । आप्तवचनादिनिबन्धन मतिपूर्वमर्थज्ञान श्रुत तच्च प्रमाण सिद्धमेव । केन सिद्धमिति चेत् ? व्यवहाराविसवादादित्युच्यते प्रत्यक्षादिवत् । केषु ? अर्थेषु प्रमेयेषु । कीदृक्षु ? द्वीपान्तरादिष, प्रकृतो जम्बूद्वीप तस्मादन्ये धातकीखण्डादयो द्वीपान्तराणि तान्यादिर्येषा कालस्वभावव्यवहिताना ते तथोक्ता तेषु देशकालाकारविप्रकृष्टेष्वित्यर्थ । न हि श्रुतादर्थ परिच्छिद्य प्रवर्तमानो रसायनादिक्रियाया विसवाद्यते ग्रहणादौ वा मलयादिप्राप्तौ वा । ततोऽनाश्वासमविश्वास न कुर्वीरन् परीक्षका । कुत ? क्वचित्तद्व्यभिचारत । क्वचिन्नदीतीरे मोदकादिप्रतिपादने तस्य श्रुतस्य व्यभिचारो विसवादः तस्मात् । नहि क्वचिद्विसवादादप्रामाण्ये ज्ञानस्य सर्वत्राप्रामाण्य शङ्कनीय प्रत्यक्षादिष्वपि तथात्वप्रसङ्गात् सकलव्यवहारविलोपापत्ते । – [लघी॰ ता॰ पृ॰ ४६ ।] ↩︎
-
““च”” नास्ति [ई॰ वि॰] , [ज॰ वि॰] । ↩︎
-
“–म्भूतं क्व” [आ॰] । ↩︎
-
“शास्त्रे लोके” [श्र॰] । ↩︎
-
तत्त्वार्थश्लोकवार्तिकादौ, नैयायिक-मीमासकादिग्रन्थे वा । ↩︎
-
श्रुतमर्थे । ↩︎
-
तुलना– एतत्साख्यपशो कोऽन्य सलज्जो वक्तुमीहते । अदृष्टपूर्वमस्तीति तृणाग्रे करिणा शतम् । – [प्रमाणवा॰ १ । १६७ । प्रश॰ व्यो॰ पृ॰ ५८१ ।] अङ्गल्यग्रे हस्तियूथशतमास्त इति च – [परीक्षामु॰ ६ । ५३ ।] ↩︎
-
“इत्याधारस्य श्रुतस्य” [श्र॰] । ↩︎
-
“तस्य व्यभि–” [ब॰] । ↩︎
-
क्वचिद् द्विचन्द्रादिज्ञाने चाक्षुषप्रत्यक्षस्य व्यभिचारोपलम्भात् एकचन्द्रविज्ञानेऽपि अविश्वासप्रसङ्गात् । ↩︎
-
अनाश्वासापत्तेः । ↩︎
-
“–काप्रसि–” [श्र॰] , [ब॰] । ↩︎
-
शब्दादीनामप्यनुमानेऽन्तर्भाव समानविधित्वात् । यथा प्रसिद्धसमयस्य असन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेव शब्दादिभ्योऽपीति । श्रुतिस्मृतिलक्षणोप्याम्नायो वक्तृप्रामाण्यापेक्ष – [प्रश॰ भा॰ पृ॰ ५७६ ।] अन्तर्भावव्यवहारे च समानवि धित्वात् समानलक्षणयोगित्वादिति हेतूपन्यासः – [प्रश॰ व्यो॰ पृ॰ ५७७ ।] प्रसिद्धः समयोऽविना- भावो यस्य पुरुषस्य तस्य लिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्या लिङ्गदर्शन यत्र धूमस्तत्राग्निरित्येवम्भूताया प्रसिद्धेरनुस्मरणञ्च ताभ्या यथाऽतीन्द्रियेऽर्थे भवत्यनुमान तथा शब्दादिभ्योऽपीति । तावद्धि शब्दो नार्थ प्रतिपादयति यावदयमस्याव्यभिचारीत्येव नावगम्यते, ज्ञाते त्वव्यभिचारे प्रतिपादयन् धूम इव लिङ्गं स्यात् – [प्रश॰ कन्द॰ पृ॰ २१४ ।] अत्र हेतुमाह–समानविधित्वात् । समानप्रवृत्तिकारणत्वात् विजातीयलक्षणानाक्रान्तत्वादिति यावत् । अप्रतिबन्धकत्वे अप्रामाण्यमेव, साक्षात्प्रतिबन्धकत्वे प्रत्यक्षान्तर्भाव, परम्पराप्रतिबन्धकत्वे चानुमान एवान्तर्भाव – [प्रश॰ किर॰ पृ॰ ३०९ ।] ↩︎
-
तुलना–परोक्षविषयत्व हि तुल्य तावद् द्वयोरपि । सामान्यविषयत्व च सम्बन्धापेक्षणाद् द्वयोः ॥ – [न्यायमं॰ पृ॰ १५२ ।] ↩︎
-
यद्यप्येते पदार्था मिथः ससर्गबन्तो वाक्यत्वादिति व्यधिकरणम्, पदार्थत्वादिति चानैकान्तिकम्, पदै स्मारितार्थससर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभाव, तथापि आकाङ्क्षादिमद्भि पदै स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् । – [प्रश॰ किर॰ पृ॰ ३०९ । वैशे॰ उप॰ पृ॰ ३३१ ।] पदानि स्मारितार्थविज्ञप्तिपूर्वकाणि योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात् गामभ्याजेति परत्वात् गामभ्याजेति पदकदम्बवदित्यनुमानादेव साध्यसिद्धे । – [न्यायली॰ पृ॰ ५५ ।] ↩︎
-
“–हेतुत्वान्नहि” [ब॰] । ↩︎
-
“तत्र लिङ्गतां” [आ॰] , [श्र॰] । ↩︎
-
तुलना–अन्वयव्यतिरेकौ च भवतोऽत्रापि लिङ्गवत् । यो यत्र दृश्यते सब्द स तस्यार्थस्य वाचक ॥ – [न्यायम॰ पृ॰ १५२ ।] ↩︎
-
“–व्यतिरेकत्वाच्च” [आ॰] , [ब॰] । ↩︎
-
“यत्र तन्न” [श्र॰] । ↩︎
-
लिङ्गशब्दयो । ↩︎
-
वचोभ्यो निखिलेभ्योऽपि विवक्षैषाऽनुमीयते । प्रत्यक्षानुपलम्भाभ्या तद्धेतु सा हि निश्चिता ॥ १५१५ ॥ विवक्षायाञ्च गम्याया विस्पष्टैव त्रिरूपता । पुसि धर्मिणि सा साध्या कार्येण वचसा यत ॥ १५२१ ॥ पादपार्थविवक्षावान् पुरुषोऽय प्रतीयते । वृक्षशब्दप्रयोक्तृत्वात् पूर्वावस्थास्वह यथा ॥ १५२२ ॥ – [तत्त्वसं॰ पृ॰ ४४१-४३ ।] प्रथम गोशब्दादुच्चरिताद्वक्तु ककुदादिमदर्थविवक्षा गम्यते स्वसन्ताने गोशब्दोच्चारणस्य तदर्थविवक्षापूर्वकत्वोपलम्भात्, तदर्थविवक्षया चार्थानुमानम् । अयञ्चात्र प्रयोग–पुरुषो धर्मी ककुदादिमदर्थविवक्षावान् गोशब्दोच्चारणकर्तृत्वात् अहमिवेति । – [प्रश॰ कन्द॰ पृ॰ २१५ ।] ↩︎
-
विवक्षायाम् । विवक्षाकाशाधिगमे लिङ्गत्वात् । यथाहि आकाशाधिगमे सर्व शब्दोऽनुमानम्, विवक्षाकार्यस्तु विवक्षाधिगमेऽपि इति । – [प्रश॰ व्यो॰ पृ॰ ५७८ ।] ↩︎
-
[पृ॰ ५३० प॰ १३ ।] तुलना–विषयोऽन्यादृशस्तावद् दृश्यते लिङ्गशब्दयो । सामान्यविषयत्वञ्च पदस्य स्थापयिष्यति । धर्मी धर्मविशिष्टश्च लिङ्गीत्येतच्च साधितम् । न तावदनुमान हि यावत्तद्विषय न तत् ॥ – [मी॰ श्लो॰ शब्दपरि॰ श्लो॰ ५५–५६ ।] अर्थमात्र हि शब्दस्य गोचरोऽनुमानस्य तु साध्यधर्मविशिष्टो धर्मीति । – [स्या॰ र॰ पृ॰ ६२० ।] विषयस्तावद्विसदृश एव पदलिङ्गयो । तद्वन्मात्र पदस्यार्थ इति स्थापयिष्यते । अनुमान तु वाक्यार्थविषयम् अत्राग्निरग्निमान् पर्वत इति प्रतिपत्ते । – [न्यायम॰ पृ॰ १५३ ।] ↩︎
-
“शब्दानुमा–” [ब॰] । ↩︎
-
इन् थे [प्रिन्त् एदितिओन्] थेरे इस् अ ड़ोओत्नोते रेड़ेरेन्चे बुत् नो ड़ोओत्नोते । ↩︎
-
अनुमानशब्दयो । तुलना–अपि चानयोर्गोचराभेद सामान्यमात्रविषयतया तद्वन्मात्रगोचरतया वा भवेत् ? – [स्या॰ र॰ पृ॰ ६२० ।] ↩︎
-
“–रूपस्यापि सामान्यपरी–” [ब॰] । ↩︎
-
[पृ॰ २८५, पृ॰ २८९ ।] ↩︎
-
शब्दानुमानयो । ↩︎
-
मीमासकमतानुप्रवेश ↩︎
-
नित्यादिस्वभावसामान्यविषयत्वस्यापि । ↩︎
-
सामान्यबदर्थविषयतया । ↩︎
-
सामान्यवदर्थविषयत्वेन विषयाभेदस्य । ↩︎
-
स्वविषये । ↩︎
-
प्रत्यक्षस्य । ↩︎
-
अनुमानात् । ↩︎
-
सामग्रीभेदस्य समानत्वात् । ↩︎
-
तुलना–तस्मादननुमानत्व शब्दे प्रत्यक्षवद् भवेत् । त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ – [मी॰ श्लो॰ शब्दपरि॰ श्लो॰ ९८ । स्या॰ र॰ पृ॰ ६२० ।] ↩︎
-
तुलना–अथ शब्दोऽर्थवत्त्वेन पक्ष कस्मान्न कल्प्यते । प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र प्रसज्यते । पक्षे धूमविशेषे च सामान्य हेतुरिष्यते । शब्दत्व गमकन्नात्र गोशब्दत्व निषेत्स्यते । व्यक्तिरेव विशेष्याऽतो हेतुश्चैका प्रसज्यते ॥ – [मी॰ श्लो॰ शब्दपरि॰ श्लो॰ ६२-६४ ।] ननूक्त यथानुमाने धर्मविशिष्टो धर्मी साध्य एवमिहार्थविशिष्ट शब्द साध्यो भवतु; मैवम्; शब्दस्य हेतुत्वात् । न च हेतुरेव पक्षो भवितुमर्हति । – [न्यायमं पृ॰ १५३ । स्या॰ र॰ पृ॰ ६२० ।] ↩︎
-
अन्यापोहरूपस्य । ↩︎
-
तुलना–अर्थो ह्यर्थं गमयतीति भवद्भिरेव स्वीकरणात् । – [स्या॰ र॰ पृ॰ ६२० ।] ↩︎
-
“इति भव–” [श्र॰] , [ब॰] । ↩︎
-
सौगतैरेव । ↩︎
-
तुलना–शब्दस्य धर्मिण किमर्थविशिष्टत्व वा साध्यते, प्रत्यायनशक्तिविशिष्टत्व वा, अर्थप्रतीतिविशिष्टत्व वा ? – [न्यायम॰ पृ॰ १५३ । स्या॰ र॰ पृ॰ ६२० ।] ↩︎
-
“अचलानिल–” [आ॰] । ↩︎
-
तुलना–शैलज्वलनयोरिव शब्दार्थयो धर्मधर्मिभावाभावात् । – [न्यायमं॰ पृ॰ १५३ ।] पर्वतपावकयोरिव शब्दार्थयो धर्मधर्मिभावासम्भवात् । – [स्या॰ र॰ पृ॰ ६२१ ।] ↩︎
-
“शब्दार्थयोर्धर्मभा–” [ब॰] । ↩︎
-
“नैवार्थः” [ब॰] । ↩︎
-
शब्दार्थयो धर्मधर्मिभावो नास्ति आश्रयाश्रयिभावाभावात् । ↩︎
-
अर्थप्रत्यायनशक्तिप्रतीत्यर्थम् । तुलना–न शक्तिसिद्धये शब्दः कथ्यते श्रूयतेऽपि वा । अर्थगत्यर्थमेवामु शृण्वन्ति च वदन्ति च । – [न्यायमं॰ पृ॰ १५४ । स्या॰ र॰ पृ॰ ६२१ ।] ↩︎
-
तुलना–सिद्ध्यसिद्धिविकल्पानुपपत्ते । असिद्ध्याऽपि तद्वत्त्व शब्दस्यार्थधिया कथम् । सिद्धाया तत्प्रतीतौ वा किमन्यदनुमीयते । – [न्यायमं॰ पृ॰ १५४ ।] नन्वर्थप्रतीति शब्दोत्थाऽन्योत्था वा भवेत् । – [स्या॰ र॰ पृ॰ ६२१ ।] ↩︎
-
अर्थप्रतीतौ । ↩︎
-
“दोष इत्य–” [आ॰] । ↩︎
-
तुलना– न हि तत्र अग्निर्धूमेन जन्यते अपि तु गम्यते । इय त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धत्वविकल्पावसर । – [न्यायमं॰ पृ॰ १५४ ।] ↩︎
-
“सिद्धविक–” [आ॰] । ↩︎
-
अर्थेन स्वलक्षणात्मकेन । ↩︎
-
बौद्धै । ↩︎
-
उक्तञ्च–न ह्यर्थे शब्दा तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्नित्यादि । – [न्यायप्र॰ बृ॰ पृ॰ ३५ ।] यथाहि वह्नौ धूमो जन्यजनकसम्बन्धसम्बद्ध उत्तरभावेन भवति एव नार्थे जन्यजनकसम्बन्धसम्बद्धा शब्दा उत्तरभावेन सन्ति । एतेन तदुत्पत्तिसम्बन्ध समर्थ शब्दार्थ योर्नास्ति इत्याचष्टे । स एवार्थ आत्मा येषा शब्दाना ते तदात्मानः, अनेन तादात्म्यसम्बन्धोऽपि नास्तीत्याह तस्मिन्निति । अर्थे प्रतिभासमाने प्रत्यक्षेण परिच्छिद्यमाने प्रतिभासेरन् प्रदीप्येरन् शब्दा इति । अयमभिप्राय–द्विविधो हि सम्बन्ध मौगताना तादात्म्यलक्षणस्दुत्पत्तिलक्षणश्च । तत्र तादात्म्यलक्षणो वृक्षत्वर्शिशपात्वयोरिव तदुत्पत्तिलक्षणस्त्वग्निधूमयोरिव । शब्दार्थयोर्द्विविधोऽपि सम्बन्धोऽपि न घटते । तथाहि–न तावत्तादात्म्यलक्षण । तादात्म्ये हि शब्दार्थयो शब्दो वा स्यादर्थो वा न द्वयम् । तथा शब्दार्थयोस्तादात्म्ये क्षुरिकामोदकादिशब्दोच्चारणे मुखपाटनपूरणादिप्रसङ्ग, न च दृश्यते । तदुत्पत्तिलक्षणोऽपि न घटते । यत केय तदुत्पत्तिर्नाम ? किं शब्दादर्थोत्पत्तिरर्थाद्वा शब्दोत्पत्ति ? यदि शब्दादर्थोत्पत्ति स्यात्तदा विश्वमदरिद्र स्यात् हिरण्यादिशब्दोच्चारणादेव तदुत्पत्ते । नाप्यर्थाच्छब्दोत्पत्ति, ताल्वादिकारणकलापात्तदुत्पत्तिदर्शनात् । – [न्यायप्र॰ वृ॰ प॰ पृ॰ ७६ ।] उक्तञ्च धर्मकीर्तिना–न ह्यर्थे शब्दा सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासेरन् । – [अनेकान्तजय॰ पृ॰ ११९ ।] उद्धृतमिदम् – [अष्टसह॰ पृ॰ ११८ । सिद्धिवि॰ टी॰ पृ॰ ७५ब् । स्या॰ र॰ पृ॰ ६२१ । षड्द॰ बृह॰ पृ॰ १६ ।] न ह्यर्थे शब्दा सन्ति तदात्मानो वा तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहार स्यादित्युक्तम् । – [न्यायवा॰ ता॰ पृ॰ १३३ ।] ↩︎
-
“–त्वाद्धर्मोऽसौ” [आ॰] । ↩︎
-
अर्थघर्मोऽसौ शब्द । ↩︎
-
तुलना–गमकत्वाच्च धर्मत्व घर्मत्वाद् गमको यदि । स्यादन्योन्याश्रयत्व हि तस्मान्नैषापि कल्पना ॥ – [मी॰ श्लो॰ शब्दपरि॰ श्लो॰ ७७ ।] प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानाया पूर्ववदितरेतराश्रत्वम् । पक्षधर्मादिबलेन प्रतीति, प्रतीतौ च सत्या पक्षधर्मादिरूपलाभ इति । – [न्यायम॰ पृ॰ १५४ । स्या॰ र॰ पृ॰ ६२१ ।] ↩︎
-
चक्षुरादिजन्या । ↩︎
-
तुलना–अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते ॥ व्यापारेण हि सर्वेषामत्वेतृत्व प्रतीयते । यत्र धूमोऽस्ति तत्राग्निरस्तित्वेनान्वय स्फुट । न त्वेन यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चय । न तावत्तत्र देशेऽसौ तत्काले वाऽवगम्यते । – [मी॰ श्लो॰ शब्दपरि॰ श्लो॰ ८५-८६ ।] अन्वयव्यतिरेकावपि तस्य दुरुपपादौ, देशे काले च शब्दार्थयोरनुगमाभावात् । नहि यत्र देशे शब्द तत्रार्थ । यथोक्तं श्रोत्रियै–मुखे हि शब्दमुपलभामहे भूमावर्थमिति । – [न्यायमं॰ पृ॰ १५५ । स्या॰ र॰ पृ॰ ६१२ ।] ↩︎
-
बौद्धादिभि । ↩︎
-
“यत्र पिण्ड–” [ब॰] । ↩︎
-
“–ति नापिदे–” [ब॰] । ↩︎
-
“–भावे व्यति–” [ब॰] । ↩︎
-
व्यतिरेकस्य । ↩︎
-
[पृ॰ ५३१ पं॰ ५ ।] ↩︎
-
“शब्दो दृष्टार्थे शब्द इत्यादि” [श्र॰] । ↩︎
-
जैनै । ↩︎
-
प्रत्यक्षेऽपि । तुलना–अन्वयव्यतिरेकोपपत्ति प्रत्यक्षेऽपि, यथा यत्र घटस्तत्र घटज्ञानम्, यत्र नास्ति तत्र तदभाव इति । – [न्यायवा॰ पृ॰ २६१ ।] ↩︎
-
[पृ॰ ५३१ पं॰ ४ ।] ↩︎
-
तुलना–यत्तावत्स्मृत्यपेक्षत्वादनुमान शब्द इति, तन्न, अनेकान्तात् । अनु अननु मानेऽपि स्मृत्यपेक्षित्वमस्ति, यथा सशये यथा तर्के यथोपमान इति । – [न्यायवा॰ पृ॰ २६० ।] ↩︎
-
सम्बन्धस्मृत्यपेक्षत्वस्य । ↩︎
-
[पृ॰ ४९५ ।] ↩︎
-
[पृ॰ ५३२ पं॰ १० ।] ↩︎
-
विवक्षायाम् । ↩︎
-
तुलना–एवविधविषयभेदात् सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम् । – [न्यायम॰ पृ॰ १५५ ।] ↩︎
-
तुलना–सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य । जातिविशेषे चानियमात् । ऋष्यार्यम्लेच्छाना यथाकाम शब्दप्रयोगोऽर्थप्रत्यायनाय प्रवर्तते – [न्यायभा॰ २ । १ । ५५-५६ ।] यथेष्टविनियोगैन प्रतीतिर्यापि शब्दत । न धूमादेरिति – [मी॰ श्लो॰ शब्दपरि॰ श्लो॰ १९ ।] ↩︎
-
कृतकत्वादेर्हेतो । ↩︎
-
तुलना–आप्तोपदेशसामर्थ्याच्छब्दादर्थे सम्प्रत्यय । २ । १ । ५२ । स्वर्ग अप्सरस उत्तरा कुरव सप्त द्वीपा समुद्रो लोकसन्निवेश इत्येवमादेरप्रत्यक्षस्यार्थस्य न शब्दमात्रात् प्रत्यय । किन्तर्हि ? आप्तैरयमुक्त शब्द इत्यत सम्प्रत्यय, विपर्ययेण सम्प्रत्ययाभावात् नत्वेवमनुमानमिति । – [न्यायभा॰, न्यायवा॰, २ । १ । ५२ ।] ↩︎
-
“तथा तज्जनकश्च” [श्र॰] । ↩︎
-
“नाप्तोक्तत्व वा” [श्र॰] । ↩︎
-
नान्तरीयकताभावाच्छब्दाना वस्तुभिस्सह । नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचका ॥ अधुना नैव बाह्येऽर्थेऽस्य प्रामाण्यमित्याह–अपि चेत्यादि । वस्तुभि स्वलक्षणै सह शब्दनान्तरीयकताया अविनाभावस्याभावात् तेभ्य शब्देभ्यो नार्थसिद्धिर्न बाह्यवस्तुनिश्चय, यस्मात्ते वक्त्रभिप्रायसूचका । – [प्रमाणवा॰ स्ववृ॰ टी॰ ३ । २१२ ।] वचसा प्रतिबन्धो वा को बाह्येष्वपि वस्तुषु । प्रतिपादयता तानि येनैषा स्यात्प्रमाणता ॥ भिन्नाक्षग्रहणादिभ्यो नैकात्म्य न तदुद्भव । व्यभिचारान्न चान्यस्य युज्यते व्यभिचारिता ॥ न हि वाच्यै वस्तुभि सह कश्चित्तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा प्रतिबन्धो वचसामस्ति येन तानि वस्तूनि प्रतिपादयतामेषा वचसा प्रामाण्य स्यात् । तत्र तावन्न तादात्म्यलक्षणप्रतिबन्धोऽस्ति भिन्नाक्षग्रहणादिभ्यो हेतुभ्य । तत्र भिन्नाक्षग्रहण भिन्नेन्द्रियेण ग्रहणम् । तथाहि–श्रोत्रेन्द्रियेण शब्दो गृह्यते अर्थस्तु चक्षुरादिना । आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते – [तत्त्वस॰ पृ॰ ४४० । न्यायप्र॰ वृ॰ पं॰ पृ॰ ७६ ।] तुलना–मुखे हि शब्दमुपलभामहे भूमावर्थमिति । – [शाबरभा॰ १ । १ । ५ ।] ↩︎
-
तुलना–पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभाव । – [न्यायसू॰ २ । १ । ५३ ।] स्याच्चेदर्थेन सम्बन्ध क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम् । – [शाबरभा॰ १ । १ । ५ । शास्त्रवा॰ श्लो॰ ६४५ । अनेकान्तजय॰ पृ॰ ४२अ । न्यायकु॰ पृ॰ १४४ टि॰ ३ ।] ↩︎
-
विकल्पवासनोद्भूताः समारोपितगोचरा । जायन्ते बुद्धयस्तत्र केवल नार्थगोचरा । अनादि समानजातीयो यो विकल्पस्तेन आहिता या वासनाशक्तिस्तत उद्भूता उत्पन्ना यथागम समारोपिता य आकाशाद्याकारा तद्गोचरा त त्प्रतिभासिन्य एव केवल गता तत्र बाह्यत्वेन कल्पितेषु आकाशादिषु जायन्ते । न तु ता बुद्धयोऽर्थगोचरा नाकाशादिस्वलक्षणविषया । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २८८ ।] ↩︎
-
“–यूथमास्ते” [ब॰] । ↩︎
-
तुलना–इहापि पुरुषदोषाणामेष महिमा न शब्दानामिति चेत्, मैवम्, दोषवतोऽपि पुरुषस्य मूकादेरनुच्चारितशब्दस्येदृशविप्लवोत्पादनपाटवाभावात् । असत्यपि च पुरुषहृदयकालुष्ये यथा प्रयुज्यमानानि अङ्गुल्यग्रादिवाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावो न वक्तृदोषाणाम् । – [न्यायमं॰ पृ॰ १५७ । स्या॰ र॰ पृ॰ ७०० ।] ↩︎
-
“इत्ययु–” [आ॰] । ↩︎
-
“प्रतारकादेः” [आ॰] , [श्र॰] । ↩︎
-
बाह्यार्थशून्यान् मिथ्याप्रत्ययान् । ↩︎
-
तुलना– न चाप्ता नेदृशानि वाक्यानि प्रयुञ्जते प्रयुञ्जाना वा नाप्ता स्युरिति चेत्; एतदप्यसुन्दरम्, एवमपि हि वक्तृदोषाणामयथार्थज्ञानोदयकारणत्वासिद्धि, व्यतिरेकासिद्धेः – [स्या॰ र॰ पृ॰ ७०१ ।] ↩︎
-
“नेदृशवा–” [श्र॰] । ↩︎
-
अङ्गुल्यग्रे हस्तियूथशतमास्ते इत्यादीनि । ↩︎
-
“चक्षुदोष–” [ब॰] । ↩︎
-
“चासत्त्वम्” [श्र॰] । ↩︎
-
तुलना–उक्तञ्चैतदुम्बेकेन–यदाप्तोऽपि कस्मैश्चिदुपदिशति न त्वयाऽननुभूतार्थविषय वाक्य प्रयोक्तव्य यथाऽङ्गुल्यग्रे हस्तियूथशतमास्त इति तत्रार्थव्यभिचार स्फुट इति । – [चित्सु॰ पृ॰ २६५ ।] ↩︎
-
तुलना–अपि च न चक्षुरादि बाधकज्ञानोदये सति न विरमति, विपरीतवेदनजन्मन शुक्तिकारजतादिबुद्धिषु विभ्रमस्यापायदर्शनात् । शब्दस्तु शतकृत्वोऽपि वाध्यमानो यथैवोच्चरित करशाखादिशिखरे करेणुशतमास्त इति तदैव तथाभूत भूयोऽपि विकल्पमयथार्थमुत्पादयत्येवेति विकल्पाधीनजन्मत्वाच्छब्दानामेवेद रूप यदर्थासंस्पर्शित्व नामेति । – [न्यायमं॰ पृ॰ १५८ ।] ↩︎
-
“तेषामन्योन्यसम्बन्धे” – [न्यायमं॰ पृ॰ १५८ ।] “तेषामत्यन्तसम्बन्धो” – [नयचक्रवृ॰ लि॰ पृ॰ १६७अ ।] “तेषामन्योन्यसम्बन्धात्” – [सिद्धिबि॰ टी॰ पृ॰ ३६५ब्, ४८४ब् ।] “कार्यकारणता तेषा नार्थ शब्दा स्पृशन्त्यपि” – [न्यायावता॰ टी॰ पृ॰ ४४ । रत्नाकराव॰ पृ॰ ९ । स्या॰ म॰ पृ॰ १७५ ।] प्रकृतपाठ – [स्या॰ र॰ प॰ ७०१ ।] पूर्वार्द्धम् – [अनेकान्तजय॰ पृ॰ ३७ । अनेकान्तवाद॰ पृ॰ ४७ । सिद्धिबि॰ टी॰ पृ॰ २६०ब् । शास्त्रवा॰ यशो॰ पृ॰ ४०२अ ।] ↩︎
-
[पृ॰ ५३६ प॰ ६ ।] ↩︎
-
वस्तुनि । ↩︎
-
सम्बन्धाभाव । ↩︎
-
अर्थ । ↩︎
-
“इत्यन्–” [आ॰] । ↩︎
-
तादात्म्यतदुत्पत्तिसम्बन्धाभावे – [आ॰ टि॰ ।] तुलना–सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य । – [न्यायसू॰ २ । १ । ५५ ।] स च वाच्यवाचकावलम्बन सङ्केतज्ञानमेव । – [प्रश॰ व्यो॰ पृ॰ ५८५ ।] तादृशो वाचक शब्द सकेतो यत्र वर्तते । – [न्यायवि॰ का॰ ४३२ ।] अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षण । अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितस्तत ॥ – [शास्त्रवा॰ श्लो॰ ६५२ ।] सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतव । – [परीक्षामु॰ ३ । १०० ।] स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धन शब्द इति । – [प्रमाणनय॰ ४ । ११ ।] ↩︎
-
शब्दार्थयो । ↩︎
-
योग्यतालक्षणोऽपि । ↩︎
-
तादात्म्यतदुत्पत्त्यभावेऽपि । तुलना–नयनरूपयो क्वचित्तदभावेऽपि तदुपलभ्यात् । – [स्या॰ र॰ पृ॰ ७०२ ।] ↩︎
-
“चक्षुषा” [ब॰] , [श्र॰] । ↩︎
-
चक्षूरूपयो संयोगाभ्युपगमे । ↩︎
-
“–ङ्गात् ना–” [ब॰] । ↩︎
-
चक्षुष – [आ॰ टि॰] । ↩︎
-
तादात्म्यतदुत्पत्त्यभावे – [आ॰ टि॰] । ↩︎
-
चक्षुप – [आ॰ टि॰] । ↩︎
-
रूपस्य – [आ॰ टि॰] । ↩︎
-
तुलना–सहजा स्वाभाविकी योग्यता शब्दार्थयो प्रतिपाद्यप्रतिपादकशक्ति ज्ञानज्ञेययोर्ज्ञाप्यज्ञापकशक्तिवत् । – [प्रमेयक॰ पृ॰ ४२८ । स्या॰ र॰ पृ॰ ७०२ ।] ↩︎
-
ज्ञाप्यज्ञापकप्रतिनियम । ↩︎
-
ज्ञानार्थयो कार्यकारणभावस्य । ↩︎
-
“–स्य तत्प्रति–” [ब॰] । ↩︎
-
चक्षूरूपयो घटप्रदीपयोश्च । तुलना–इतरथा ज्ञानमेव प्रकाशक ज्ञेयमेव च प्रकाश्य नपुनर्ज्ञानमिति नियमस्याघटनात् । – [स्या॰ र॰ प॰ ७०२ ।] ↩︎
-
प्रकाश्यप्रकाशकप्रतिनियम । ↩︎
-
“यथार्थ” [ब॰] । ↩︎
-
“प्रतिपादयतु” [ब॰] । ↩︎
-
अर्थवाचकत्वस्वीकारात् । ↩︎
-
तुलना–क पुनरय समय ? अस्य शब्दस्येदमर्थजातमभिधेयमित्यभिधानाभिधेयनियमनियोग, तस्मिन्नुपयुक्ते शब्दार्थसप्रत्ययो भवति । – [न्यायभा॰ २ । १ । ५५ ।] अभिधानाभिधेयनियमनियोग समय उच्यते । – [न्यायमं॰ पृ॰ २४१ ।] अस्यार्थस्याय वाचक इत्यर्थकथन समय – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३० ।] इद पदममुमर्थ बोधयतु इति अस्मात्पदादयमर्थो बोद्धव्य इति वेच्छा । – [तत्त्वचि॰ शब्दपरि॰ । स्या॰ र॰ पृ॰ ७०२ ।] ↩︎
-
“–विधावाच्यवाच–” [आ॰] । ↩︎
-
पुरुषस्य । ↩︎
-
भूभवनसवर्द्धितोत्थितस्य । ↩︎
-
पुरुषेण । ↩︎
-
“साध्यसाधनं साध्यस्य” [ब॰] । ↩︎
-
अतिप्रसङ्गमेव स्पष्टयति । ↩︎
-
तुलना–स हि पुरुषकृत सङ्केत न च पुरुषेच्छया वस्तुनियमोऽवकल्प्यते, तदिच्छाया अव्याहतप्रसरत्वात् । अर्थोऽपि किमिति वाचको न भवति । न चैवमस्ति, न हि दहनमनिच्छन्नपि पुरुषो धूमान्न तत्प्रत्येति जल वा तत इच्छन्नपि प्रतिपद्यते । तत्र यथा धूमाग्न्यो नैसर्गिक एवाविनाभावो नाम सम्बन्ध ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एव शब्दार्थयो सासिद्धिक एव शक्त्यात्मा सम्बन्ध तद्व्युत्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम् । – [न्यायमं॰ पृ॰ २४१ ।] सङ्केतस्य सहजयोग्यतानिबन्धनत्वात् । यथैव हि धूमपावकयो स्वाभाविक एवाविनाभावः – [स्या॰ र॰ पृ॰ ७०३ ।] ↩︎
-
अविनाभावग्रहणाय । ↩︎
-
आदिपदेन तर्को ग्राह्य । ↩︎
-
“–त्पत्तये स–” [आ॰] , [ब॰] । ↩︎
-
“–क्रमे चक्षू–” [श्र॰] । ↩︎
-
“–प्रदीपानां” [आ॰] । ↩︎
-
शब्दार्थयोरपि वाच्यवाचकचोदने । ↩︎
-
तुलना–गिरामेकार्थनियमे न स्यादर्थान्तरे गति । अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसभवः ॥ – [प्रमाणवा॰ ३ । २२८ ।] ↩︎
-
“तथा” [ब॰] । ↩︎
-
तुलना–सर्वाकारपरिच्छेद्यशक्तेऽर्थे वाचकेऽपि वा । सर्वाकारार्थविज्ञानसमर्थे नियम कृत ॥ – [मी॰ श्लो॰ पृ॰ २०२ ।] सर्वशब्दाना सर्वार्थप्रत्यायनशक्तियुक्तत्वात् क्वचिद्देशे केनचिदर्थेन व्यवहार । अत एव चानधिगतसम्बन्धे श्रुते सति सन्देहो भवति कमर्थं प्रत्याययितुमनेन शब्द प्रयुक्तः स्यादिति । – [न्यायम॰ पृ॰ २४२ ।] समयापेक्षण चेह तत्क्षयोपशम विना । तत्कर्तृत्वेन सफल योगिना तु न विद्यते ॥ सर्ववाचकभावत्वाच्छब्दाना चित्रशक्तित । वाच्यस्य च तथाऽन्यत्र नागोऽस्य समयेऽपि हि ॥ – [शास्त्रवा॰ श्लो॰ ६६३-६४ ।] तथा च सर्वे शब्दा प्राय सर्वार्थवाचकशक्तिमन्त सर्वे चार्था सर्वशब्दवाच्यशक्तियुक्ता इति विचित्रक्षयोपशमादिसहकारियोगत तथा तथा प्रवर्तन्ते इति न काचिद्वाधा – [अनेकान्तजय॰ पृ॰ ३६अ ।] सर्वस्य शब्दस्य सर्वार्थप्रतिपादनशक्तिवैचित्र्यसिद्धे । पदार्थस्य च सर्वस्य सर्वशब्दवाच्यत्वशक्तिनानात्वात् । – [अष्टसह॰ पृ॰ १४३ ।] शब्दस्यानेकार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात् प्रतिनियतार्थप्रतिपादकत्वोपपत्ते । – [स्या॰ र॰ पृ॰ ७०३ ।] ↩︎
-
“कथमर्थ” [श्र॰] । ↩︎
-
तुलना–तथाहि–यवशब्द आर्यैर्दीर्घशूके पदार्थे प्रयुज्यते, ते हि यवशब्दात् दीर्घशूक पदार्थं प्रतिपद्यन्ते म्लेच्छास्तु प्रियङ्ग प्रतिपद्यते । एव त्रिवृत्शब्दमृषय स्तोत्रीयानवके प्रयुञ्जते, आर्यास्तु लताविशेषे । – [न्यायवा॰ ता॰ पृ॰ ४२० ।] एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियत सङ्केतोऽनुभूयते, यथा गुर्जरादौ चोरशब्दस्य तस्करे द्राबिडादौ पुनरोदन इति । दृश्यते च सर्वत्र रूपप्रकाशने योग्यस्यापि चक्षुष प्रत्यासन्नतिमिरवशादसन्निहिते दूरतिमिरसामर्थ्याच्च सन्निहिते रूपे विशिष्टाञ्जनादिवशादन्धकारान्तरितेऽपि ज्ञानजनकत्वम्, काचकामलादिदूषणबलाच्च विवक्षितरूपाभावेऽपीति । – [स्या॰ र॰ पृ॰ ७०३ ।] ↩︎
-
एव कर्कटीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेया । – [स्या॰ मं॰ पृ॰ १७८ ।] ↩︎
-
“मालवादौ” [ब॰] , [श्र॰] । ↩︎
-
“–शनयोग्य–” [श्र॰] । ↩︎
-
पीतरूपाभावेऽपि शखे पीतज्ञानजनकत्वम् । ↩︎
-
चक्षुर्वदेव । ↩︎
-
शब्दस्य । तुलना–वाच्यवाचकलक्षणो हि शब्दार्थयो प्रतिबन्ध, तथाहि वाच्यस्वभावा अर्था वाचकस्वभावाश्च शब्दा इति तज्ज्ञप्तिवाद । यदैवं कथन्न सङ्केतमन्तरेणैव ततस्तदवगति ? उच्यते–तथाविधक्षयोपशमाभावात् । न हि रूपप्रकाशनस्वभावोऽपि दीपोऽसति चक्षुषि तत्प्रकाशयति, चक्षु कल्पश्च क्षयोपशम, स च सङ्केततपश्चरणभावनादिजन्यस्तथोपलब्धे । – [अनेकान्तजय॰ पृ॰ ३६अ। ।] शब्दस्य ज्ञापकत्वात् । ज्ञापकस्य धूमादेरेतद्रूप यत्सम्बन्धग्रहणापेक्ष स्वज्ञाप्यज्ञापकत्वम् । तद्योग्यतादयस्तु प्रत्यक्षसामग्र्यन्तर्गतत्वान्न व्युत्पत्त्यपेक्षा भवन्ति । शक्तिस्तु नैसर्गिकी यथा रूपप्रकाशिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने । – [न्यायमं॰ पृ॰ २४१ ।] ↩︎
-
सङ्केतग्रहणसहितस्य । ↩︎
-
“अर्थस्य प्रती–” [श्र॰] । ↩︎
-
ज्ञापकरूपता । ↩︎
-
“अतस्तदेव” [श्र॰] , [ब॰] । ↩︎
-
शब्दादि । ↩︎
-
[पृ॰ ५३६ पं॰ १२ ।] ↩︎
-
तुलना–यत किमाप्तनिगदितशब्दस्यार्थासस्पर्शित्व – [स्या॰ र॰ पृ॰ ७०३ ।] ↩︎
-
तुलना–भवेदेतदेवं यदि न कदाचिदपि यथार्थं शब्द प्रत्ययमुपजनयेत् । अर्थसस्पर्शित्वमेवास्य स्वभाव इत्यवगम्यते । भवति तु गुणवत्पुरुषभाषितान्नद्यास्तीरे फलानि सन्तीति वाक्यादतिरस्कृतबाह्यार्थो यथार्थप्रत्यय तत प्रवृत्तस्य तदर्थप्राप्तेः । – [न्यायमं॰ पृ॰ १५८ ।] ↩︎
-
“–र्थप्रतीतेः प्रवृत्तस्य” [आ॰] । ↩︎
-
आप्तोक्तशब्दात् । ↩︎
-
शुक्ले शखे पीताकारावभासिन । ↩︎
-
शुक्ले शखे शुक्लत्वावभासकस्यापि । ↩︎
-
अर्थासस्पर्शित्वमतश्च मिथ्यात्व स्यादिति भाव । ↩︎
-
“–प्रयुक्ताद्” [ब॰] , [श्र॰] । ↩︎
-
अङ्गल्यग्रे हस्तियूथशतमास्ते इत्यादिवाक्यात् । ↩︎
-
यत् तिरस्कृतबाह्यार्थप्रत्ययोत्पादकत्वम् । ↩︎
-
तुलना–गुणवतामेवविधवाक्योच्चारणचापलाभावात् । – [न्यायमं॰ पृ॰ १५८ ।] आप्तैरेवविधवाक्यस्याप्रयुक्ते – [स्या॰ र॰ पृ॰ ७०४ ।] ↩︎
-
[पृ॰ ५३७ प॰ ११ ।] ↩︎
-
तुलना–यत्तु आप्तोऽपि कचिदनुशास्ति मा भवानभूतार्थ वाक्यं वादी अङ्गलिकोटौ करिघटाशतमास्तेऽ इति, तत्र इतिकरणावच्छिन्नस्य दृष्टान्ततया शब्दपरत्वेनोपादानात् प्रतिषेधैकवाक्यतया यथार्थत्वमेव । अर्थपरत्वे तु निषेधैकवाक्यतैव न स्यादिति । तस्मादाप्तवाक्यानामयथार्थत्वाभावान्न स्वतोऽर्थासस्पर्शिन शब्दाः पुरुषदोषानुषङ्गकृत एवाय विप्लव । – [न्यायम॰ पृ॰ १५८ । स्या॰ र॰ पृ॰ ७०४ ।] ↩︎
-
अङ्गुल्यादिवाक्यप्रयोगनिषेधकस्य आप्तोपदेशस्य । ↩︎
-
अङ्गल्यग्रे हस्तियूथशतमास्ते इति वाक्यस्य एकदेश “अङ्गत्यगे” इत्यादिरूप । ↩︎
-
तुलना– अनुच्चरितशब्दोऽपि पुरुषो विप्रलम्भक । हस्तसज्ञाद्युपायेन जनयत्येव विप्लवम् ॥ – [न्यायम॰ पृ॰ १५८ । स्या॰ र॰ पृ॰ ७०४ ।] ↩︎
-
तुलना–इत्थमप्रतीते । उत्पन्ने च क्वचिन्नद्यादिवाक्याद्विज्ञाने तरङ्गिणीतीरमनुसरन्ननासादितफल प्रवृत्तवाधकप्रत्यय पुरुषमेवाधिक्षिपति “धिग् हा तेन दुरात्मना विप्रलब्धोऽस्मि” इति न शब्दम्, प्राप्तफलश्च पुसामेव श्लाघते साधु साधुना तेनोपदिष्टमित्यत पुरुषदोषान्वयानुविधानात्तदभावकृत एव आप्तेषु तूष्णीमासीनेषु विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेक । पुरुषदोषकृत एव शब्दाद्विप्लवो न स्वरूपनिबन्धन । – [न्यायम॰ पृ॰ १५८ । स्या॰ र॰ पृ॰ ७०४ ।] ↩︎
-
अर्थप्रतीतिविषर्यये । ↩︎
-
तुलना–हन्त तर्हि वक्तरि गुणवति सति सरितस्तीरे फलानि सन्तीति सम्यक्प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्य उच्चारणमात्रे चरितार्थत्वान्नैकान्तत शब्दस्यार्थासस्पर्शित्वमेव स्वभाव । – [न्यायम॰ पृ॰ १५९ ।] ↩︎
-
“–मेव रूप” [श्र॰] । ↩︎
-
कार्यकारणभाव । ↩︎
-
विपर्ययज्ञानोत्पत्ति । ↩︎
-
अनाप्ताभिप्रायस्य । ↩︎
-
विपर्ययज्ञानोत्पत्तौ व्यापार । तुलना – [स्या॰ र॰ पृ॰ ४०७ ।] ↩︎
-
“किञ्चक्षुरा–” [ब॰] । ↩︎
-
तुलना–युक्तञ्चैदेव यत् दीपवत् प्रकाशत्वमावमेव शब्दस्य स्वरूप न यथार्थत्वमयथार्थत्व वा, विपरीतेऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्ते । अय तु विशेष–प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशकत्व शब्दे तु व्युत्पत्त्यपेक्षमिति । प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थेतरत्वे । अत एव अङ्गलिशिखराधिकरणकरेणुशतवचसि बाधितेऽपि पुन पुनरुच्चर्यमाणे भवति विभ्रम प्रकाशकत्वतद्रूपानपायात्, न त्वेप शब्दस्य दोष । पदार्थाना तु ससर्गमसमीक्ष्य प्रजल्पत । वक्तुरेव प्रमादोऽय न शब्दोऽत्रापराध्यति । – [न्यायम॰ पृ॰ १५९ । स्या॰ र॰ पृ॰ ७०४ ।] ↩︎
-
“शब्दस्वरूप” [श्र॰] । ↩︎
-
“यथार्थाप्रकाश–” [आ॰] । ↩︎
-
यथार्थायथार्थप्रकाशकत्वस्य । ↩︎
-
अङ्गुल्यग्रे हस्तिशतमास्ते इतिवचने । ↩︎
-
शब्दस्वरूपस्य । ↩︎
-
[पृ॰ ५३७ पं॰ १४ ।] ↩︎
-
बाधकप्रत्ययप्रवृत्तौ । ↩︎
-
इन्द्रियम् – [आ॰ टि॰] । ↩︎
-
चन्द्रविषयम् – [आ॰ टि॰] । ↩︎
-
[पृ॰ ५३७ पं॰ १६ ।] ↩︎
-
[पृ॰ ४७ ।] ↩︎
-
मेरूपर्वतरामरावणादिपरमाण्वादीनाम् । ↩︎
-
विप्रकृष्टार्थप्रतिपत्तिसाधनम् । ↩︎
-
देशकालस्वभावविप्रकृष्टार्थ – [आ॰ टि॰ ।] ↩︎
-
विप्रकृष्टार्थे । ↩︎
-
एतावताऽत्र भग्या क्रम उक्त – [आ॰ टि॰] । ↩︎
-
व्याग्या– इयमस्य सञ्ज्ञेति समय, स प्रत्यर्थ प्रतिपुरुष वा क्रियेत, प्रतिपुरुषमेव प्रत्युच्चारण प्रतिप्रयोगं वा । अथवा जगदादौ जगत सृष्टिकाले केनचित् ईश्वरादिना धात्रा सकृत् एकयैव हेलया क्रियतेति त्रयो विकल्पा । – [तत्त्वस॰ पं॰ पृ॰ ६२२ ।] उद्धृतोयम् – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३० । तत्त्वस॰ पृ॰ ६२२ । जैनतर्कवा॰ पृ॰ ३१ ।] ↩︎
-
प्रत्येक वाऽपि सम्बन्धो भिद्येतैकोऽथवा भवेत् । एकत्वे कृतको न स्यात् भिन्नश्चेद्भेदधीर्भवेत् ॥ एकत्वे तावत्कृततैव न स्यात्, न हि एकस्य बहुभि क्रिया सम्भवतीत्याह एकत्व इति । – [मी॰ श्लो॰ न्याय॰ र॰ सम्बन्धा॰ श्लो॰ १४ ।] एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात्कृतको न स्यात्, नित्य एव स्यादिति यावत् । – [तत्त्वसं॰ प॰ पृ॰ ६२२ ।] ↩︎
-
“कृतः” [श्र॰] । ↩︎
-
गगनैकपरमाण्वादीनामेकत्वस्य नित्यत्वाविनाभूतत्वात्, एकत्व ह्येकरूपत्वम्, तच्च क्रियमाणत्वे विनश्यति – [आ॰ टि॰] । ↩︎
-
पुरुषव्यापारात् । ↩︎
-
“केशरा–” [आ॰] । ↩︎
-
यथाऽस्मिन्देशे सास्नादिमति गोशब्द एव सर्वेषु दुर्गमेष्वपि । बहव सम्बन्धार कथ सगस्यन्ते ? एको न शक्नुयात् । अतो नास्ति सम्बन्धस्य कर्त्ता । – [शाबरभा॰ १ । १ । ५ ।] ↩︎
-
सङ्केतकरणानुपपत्ति । ↩︎
-
देशान्तराणाम् । ↩︎
-
“करोतीति ते च” [आ॰] । ↩︎
-
समयम् । ↩︎
-
अन्यपुरुषाणाम् । ↩︎
-
सङ्कतस्य एकरूपतायाम् । बहुभि कृतसम्बन्धे न चैको गमको भवेत् । – [मी॰ श्लो॰ पृ॰ ६४४ ।] ↩︎
-
समुच्चयोऽपि नैतेषा व्यवहारेऽवगम्यते । – [मी॰ श्लो॰ सम्बन्धा॰ श्लो॰ १७ ।] ↩︎
-
पुरुषाणाम् । ↩︎
-
मिलित्वा सङ्केतकरणे प्रयोजनाभावात् । ↩︎
-
“–च्चार्यनिरा–” [श्र॰] । ↩︎
-
प्रतिशब्दमुच्चार्य उच्चार्य । ↩︎
-
तुलना–प्रत्यूच्चारण प्राक्तन एव क्रियते, नूतनो वा ? नवस्य तावत्क्रियमाणस्य कथमर्थप्रत्यायनसामर्थ्यमवगम्यते तदवगतौ वा किं तत्करणेन ? पूर्वकृतस्य तदकृतत्वादेव पुन करणमनुपपन्नम् । एकस्य बस्तुनो ज्ञप्तिरसकृदावर्तते नोत्पत्ति । – [न्यायम॰ पृ॰ २४२ ।] प्रत्युच्चारणनिर्वृत्तिर्न युक्ता व्यवहारत । – [तत्त्वसं॰ का॰ २२७४ ।] ↩︎
-
नूतनसङ्केतस्य । ↩︎
-
अभिनवसङ्केतस्य अर्थप्रत्यायनशक्तिपरिज्ञानाभावे । ↩︎
-
“कारणानुप–” [आ॰] । ↩︎
-
पुन पुनः । ↩︎
-
विप्रकृष्टदेशवर्तित्वात् । ↩︎
-
न हि सम्बन्धव्यतिरिक्त कश्चित्कालोऽस्ति, यस्मिन्न कश्चिदपि शब्द केनचिदर्थेन सम्बद्ध आसीत् । – [शावरभा॰ १ । १ । ५ ।] सर्गादौ हि क्रिया नास्ति तादृक्कालो हि नेष्यते । – [मी॰ श्लो॰ सम्बन्धा॰ श्लो॰ ४२ । शास्त्रदी॰ पृ॰ ४१८ । तत्त्वस॰ पृ॰ ६२७ । न्यायमं॰ पृ॰ २४२ ।] ↩︎
-
“सकृत्सम्भवाभावाभावात्” [आ॰] , “सकृत्सम्भवात्” [ब॰] । ↩︎
-
“–विकल्पस्य च का–” [आ॰] । ↩︎
-
औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः – [जैमिनिसू॰ १ । १ । ५ ।] औत्पत्तिक इति नित्यं ब्रूम । उत्पत्तिर्हि भाव उच्यते लक्षणया । अवियुक्त शब्दार्थयोर्भाव सम्बन्ध । – [शावरभा॰ १ । १ । ५ ।] अपौरुषेय शब्दस्यार्थेन सम्बन्ध – [शावरभा॰ १ । १ । ५ । पृ॰ ४१ ।] अपौरुषेये सम्बन्धे शब्द प्रामाण्यमृच्छति । – [प्रक॰ पं॰ पृ॰ १६१ ।] नित्या शब्दार्थसम्बन्धा – [वाक्यप॰ १ । २३ ।] ↩︎
-
प्रत्यक्षानुमानार्थापत्तिरूप प्रमाणत्रयम् । ↩︎
-
शब्द श्रावणप्रत्यक्षेण अर्थञ्च चाक्षुषाध्यक्षेण प्रतिपद्यते । ↩︎
-
“तद्विषयपक्षेणा–” [श्र॰] । ↩︎
-
गवादिविषय । ↩︎
-
देवदत्तस्य श्रोतु देवदत्त गामभ्याजेति वाक्यात् गोक्षेपणविषयिणी प्रतीतिर्जाता तद्वाक्यश्रवणानन्तरमेव गोक्षेपणचेष्टाऽन्यथानुपपत्ते । ↩︎
-
“प्रतिपत्त्युत्पद्यते” [ब॰] । ↩︎
-
देवदत्त गामभ्याजेति वाक्ये गवादिविषयकक्षेपणार्थवाचिका शक्तिरस्ति ततस्तत्प्रतीत्यन्यथानुपपत्ते । ↩︎
-
गोविषयकक्षेपणार्थे । ↩︎
-
“शब्दवृद्धाभिधेयाश्च” – [मी॰ श्लो॰, प्रमाणवा॰ स्ववृ॰ टी॰ १ । २२८ । न्यायमं पृ॰ २४५ ।] “प्रत्यक्षेणैव” – [स्या॰ र॰ पृ॰ ६७७ ।] ↩︎
-
अन्यथानुपपत्त्या च बुद्ध्येच्छक्तिं द्वयाश्रिताम् । अर्थापत्त्याऽवबुद्ध्यन्ते सम्बन्ध त्रिप्रमाणकम् ॥ – [मी॰ श्लो॰ पृ॰ ६८० । प्रमाणवा॰ स्ववृ॰ टी॰ १ । २२८ ।] “वेत्ति शक्तिं द्वयात्मिकाम्” – [न्यायम॰ पृ॰ २४५ ।] व्याख्या–शब्दवृद्वाभिधेयानिसम्बन्धप्रतिपत्तेरय न्याय कुमारिलेन वर्णित–यस्मात् प्रथमं तावत् प्रत्यक्षेण शब्द वृद्ध च शब्दस्याख्यातारम् अभिधेयञ्च वाच्य वस्तु पश्यति, तत पश्चादनुमानेन चेष्टालक्षणेन लिङ्गेन श्रोतु प्रतिपन्नत्व पश्यति अवधारयतीत्यर्थ । करण कारकं कृत्वा चेष्टाया अनुमानत्वमुक्तम् । ततश्च पश्चादर्थापत्त्या द्व्याश्रिता शब्दार्थाश्रितां शक्तिं वेत्ति । अर्थापत्त्या तु साक्षादवबुद्ध्यन्त इत्यतोऽर्थापत्त्यावबुद्ध्यन्त इत्युक्तम् । – [तत्त्वसं॰ प॰ पृ॰ ७०९ ।] वृद्धाना स्वार्थे सव्यवहरमाणानामुपशृण्वन्तो बाला प्रत्यक्षमर्थ प्रतिपद्यमाना दृश्यन्ते । – [शावरभा॰ १ । १ । ५ । पृ॰ ५६ ।] किञ्चान्त्युपायो बालानाम्, नावश्य सम्बन्धकथनवाक्येनैव वृद्धेभ्यो बाला सम्बन्धं प्रतिपद्यन्ते किन्तु यदा वृद्धा प्रसिद्धसम्बन्धा स्वकार्यार्थेन व्यवहरन्ति तदा तेषामुपशृण्वन्तो बालाः सम्बन्धं प्रतिपद्यन्ते । यदा हि केनचित् “गामानयं” इत्युक्त कश्चित् सास्नादिमन्तमानयति तदा समीपस्यो वालोऽवगच्छति–यस्मादय- मेतस्माद्वाक्यादयमर्थ प्रत्यायित इत्येव सम्मुग्धरूपेणावगत प्रत्यायकत्व पश्चाद्वहुषु प्रयोगेषु अन्वयव्यतिरेकाभ्या वाक्यभागाना पदानां पदभागानाञ्च प्रकृतिप्रत्ययाना वाक्यार्थभागेषु पदार्थेषु विविच्यते तस्मान्न पौरुषेय सम्बन्धः – [शास्त्रदी॰ पृ॰ ४६३ ।] “तु बुद्धे शक्तिं” – [स्या॰ र॰ पृ॰ ६७७ ।] ↩︎
-
“नु” [आ॰] , [ब॰] । ↩︎
-
[पृ॰ ५४२ प॰ १६ ।] ↩︎
-
शब्दार्थसम्बन्धस्य । तुलना–शब्दवदर्थवच्च तृतीयस्य तस्यप्रत्यक्षादिना प्रमाणेनाप्रतीयमानत्वात् । – [न्यायम॰ पृ॰ २४३ ।] ↩︎
-
न शब्दार्थसम्बन्धो नित्य नित्यरूपतया विचार्यमाणस्यानुपपद्यमानत्वात् । ↩︎
-
नित्यरूपतया । ↩︎
-
“स्वभावात्” [ब॰] । “सभवस्वभावतः” [श्र॰] । ↩︎
-
सम्बन्धिनो शब्दार्थयो नित्यत्वाद्वा । तुलना–असौ नित्यः सन् स्वभावतोऽर्थं प्रकाशयेत्, सङ्केताभिव्यक्तेर्वा – [स्या॰ र॰ पृ॰ ७०१ ।] ↩︎
-
तुलना–सम्बन्धापौरुषैयत्वे स्यात्प्रतीतिरसविद । सम्बन्धापौरुषेयत्वेपीष्यमाणे स्यादर्थाना प्रतीतिरसंविदोऽविद्यमानसङ्केतप्रतीते पुस । न चेच्छब्दार्थयोः साङ्केतिको वाच्यवाचकता सम्बन्धः किन्तु स्वाभाविक, तदाऽगृहीतसङ्केतोऽपि श्रुताच्छब्दादर्थं प्रतिपद्येतेति । – [प्रमाणवा॰ मनोरथ॰ ३ । २२७ ।] यद्यर्थप्रतिपादने शब्दस्य स्वभावेन शक्ति स्यात्; एवन्तर्हि सन्देहलक्षणमस्याप्रामाण्य स्यात् इष्टेऽनिष्टे चार्थे प्रकाशनशक्तिसभवात् । यदि चास्य स्वभावत एव सा शक्ति किं सङ्केतेन ? – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २२९ ।] अर्थद्योतनशक्तेश्च सर्वदैव व्यवस्थिते । तद्धेतुरर्थबोधोऽपि सर्वेषा सर्वदा भवेत् ॥ – [तत्त्वसं॰ पृ॰ ७१० ।] सासिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तादन्यतो वा यत कुतश्चिदभिनवादपि दीपादिव शब्दादर्थप्रतिपत्ति स्यात् । – [न्यायम॰ पृ॰ २४३ ।] ↩︎
-
“प्रकाशयेत्” [श्र॰] । ↩︎
-
“–पस्तत्स्वरूपतोत्तत्प्रकाशकः” [ब॰] । ↩︎
-
रूपम् । ↩︎
-
सम्बन्धः । ↩︎
-
शब्दार्थप्रकाशक । तुलना–सङ्केतात्तदभिव्यक्तावसदर्थान्यकल्पना । न वै सम्बन्धो विद्यमानोऽप्यनभिव्यक्तोऽर्थप्रतीतिहेतु । सङ्केत खल्वेनमभिव्यक्तिमे ति तर्हि सिद्धोपस्थायी किमकारण पोष्यते ? – [प्रमाणवा॰ स्ववृ॰ १ । २२९ ।] यथा दीपस्यार्थप्रकाशने शक्तस्येन्द्रियापेक्षा तथा शब्दस्येन्द्रियापेक्षा तथा शब्दस्यापि सङ्केतापेक्षेति चेत्, न, प्रदीपेन्द्रिययो प्रत्येकमभावेऽप्यर्थप्रकाशकत्वाभावात् तत्रान्योन्यापेक्षत्व युक्तं नैव शब्दशक्तिसङ्केतयो, सङ्केतमात्रेणैवार्थप्रतीतेरुत्पत्ते तस्मान्न स्वभावत शब्दोऽर्थप्रतिपादनसमर्थ इत्युत्पत्तिलक्षणमप्रामाण्यम् । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २२९ । प्रमाणवा॰ मनोरथ॰ ३ । २२७ ।] तस्मिन् सङ्केतसापेक्षा शक्तिश्चेत्परिकल्प्यते । ननूपकार्यपेक्ष्येत नोपकार्या च साऽचला ॥ – [तत्त्वस॰ पृ॰ ७१० ।] अथ सङ्केताभिव्यक्ते, कथमस्य नित्यैकरूपत्वमुपपन्न व्यक्ताव्यक्तरूपतया भेदप्रसक्ते । – [स्या॰ र॰ पृ॰ ७०९ ।] ↩︎
-
“प्रकाशक क–” [ब॰] । ↩︎
-
नित्यैकरूपस्य सम्बन्धस्य । ↩︎
-
तुलना–अर्थज्ञापनहेतुर्हि सङ्केत पुरुषाश्रय । गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसभव ॥ किं ह्यस्यापौरुषेयतया ? यतो हि समयादर्थप्रतिपत्ति, स पौरुषेयः वितथोऽपि स्यात्, शील साधन स्वर्गवचनम्, अन्यथा समयेन विपर्यासयेत् तेनायथार्थमपि प्रकाशनसम्भवात् । – [प्रमाणवा॰ स्ववृ॰ १ । २२८ ।] सङ्केतमन्तरेणापौरुषेयादपि वाक्यादर्थप्रतीतेरभावात् । अर्थज्ञापनहेतुरिह सङ्केत स्वीकर्त्तव्य, स च पुरुषकृतत्वात्पुरुषाश्रय । अत सङ्केतस्य पुरुषाश्रयत्वात् गिरामपौरुषेयत्वेऽपि मिथ्यात्वस्य सम्भवः । सङ्केतवशेन वाचोऽर्थं ब्रुवते । स च दोषाश्रयेण पुरुषेण क्रियत इति तासा न विसवादशङ्कानिरास पौरुषेयवाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनम् । – [प्रमाणवा॰ मनोरथ॰ ३ । २२६ ।] अर्थद्योतनहेतोश्च सङ्केतस्य नराश्रयात् । शक्तावितरजन्यायामपि मिथ्यात्वसभव ॥– [तत्त्वसं॰ पृ॰ ७१० । प्रमेयक॰ पृ॰ ४३० ।] ↩︎
-
पुरुष । ↩︎
-
तुलना–किञ्च वाचा किमेकेनार्थेन सह वाच्यवाचकसम्बध, अथानेकै ? गिरामेकार्थनियमे न स्यादर्थान्तरे गति । अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसभव ॥ गिरामेकस्मिन्नर्थे वाचकतया नियमे सति सकेतवशादन्यत्रार्थे न स्याद् गति, दृश्यते च विवक्षातोऽनेकार्थाभिधानम् । अनेकैरर्थैर्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्ते प्रतीते सभव स्यात् । अग्निष्टोम स्वर्गस्य साधनमिति विषर्ययोप्यवसीयेत । ततश्चाप्रवृत्तिरेव स्यात् स्वर्गार्थिन । – [प्रमाणवा॰ मनोरथ॰ ३ । २२८ ।] सा शक्तिरेकार्थनियता वा भवेन्नानार्थनियता वा ।– [तत्त्वसं पं॰ पृ॰ ७१० । प्रमेयक॰ पृ॰ ४३० ।] यदि पुन शब्दस्य वस्तुनि स्वत एव योग्यत्व को दोषो येन सङ्केतस्तत्रापेक्ष्यते ? इति चेदुच्यते–तत्सर्वविषय नियतविषयं वा ? पूर्वविकल्पे ततो युगपत्सर्वार्थप्रतीतिप्रसङ्गात् तथा च न ततो नियतविषयप्रवृत्त्यादिरिति व्यवहारविलोप । तत आह “–न सर्वयोग्यता साध्वी सङ्केतान्नियमो यदि ।” द्वितीयविकल्पे दोषमाह “–सम्बन्धनियमेऽन्यत्र सङ्केतेऽपि न वर्तताम् ॥” – न्यायवि॰ का॰ ४३१ । ↩︎
-
“ततश्चाज्ञानल–” [आ॰] । ↩︎
-
चोरशब्दो यथा लोके भक्ष्यार्थं प्रतिपादयेत् । केषाञ्चिच्चोरमेवाहु तन्त्रेप्येव पदास्तथा ॥ – [ज्ञानसि॰ पृ॰ ७५ ।] यथा चौरशब्दस्तस्करवचन ओदने दाक्षिणात्यै प्रयुज्यते । – [न्यायमं॰ पृ॰ २४२ । प्रश॰ कन्द॰ पृ॰ २१५ ।] ↩︎
-
“उदने” [आ॰] । ↩︎
-
एकदेशार्थनियत । तुलना–य एवार्थो वस्तुस्थित्या स्वर्गसाधन किन्तत्रैव समयकारेणग्निहोत्रादिशब्दोऽभिव्यक्त किम्बाऽन्यस्मिन्नेव स्वर्गसाधनविरुद्धे बुद्धिमान्द्यादिति सन्देह एव । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३० ।] ↩︎
-
वेदस्य । तुलना–स इति शब्द सर्वस्मिन् वाचकत्वेनानियत नियम क्वचिदर्थे पुरुषात् पुरुषसङ्केतात् प्रतिपद्यते । स च पुरुषो विरुद्धेप्यर्थे सङ्केत कुर्यात् । तथा च न केवल विरुद्धव्यक्तिसम्भव । यापीयमपौरुषेयता वेदस्येष्टा तस्या व्यर्था स्यात् परिकल्पना । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३० ।] अथानेका- र्थाभिधाय्यपि शब्द पुरुषेण सङ्केतादभिमतार्थाभिधायित्वेन नियम्यते तदा–अपौरुषेयतायाञ्च व्यर्था स्यात्परिकल्पना । वाच्यश्च हेतुर्भिन्नाना सम्बन्धस्य व्यवस्थिते ॥ – [प्रमाणवा॰ मनोरथ॰ ३ । २२९ ।] ↩︎
-
तुलना–असस्कार्यतया पुभि सर्वथा स्यान्निरर्थता । सस्कारोपगमे मुख्य गजस्नानमिद भवेत् ॥ – [प्रमाणवा॰ ३ । २३० । प्रमेयक॰ पृ॰ ४३० ।] ↩︎
-
तुलना–प्रकृत्यैव स्वभावेनैव वैदिका शब्दा नियता अभिमतेऽर्थे ततो न पुरुषसस्कारकृतो दोष इति चेत्, एव सत्यर्थप्रकाशने नोपदेशमपेक्षेरन्, अपेक्षन्ते च, स्वतस्तेभ्योऽर्थप्रतीतेरभावात । यदि च ते स्वभावत एव प्रतिनियता स्यु तदा यत्र क्वचिदर्थे एकदा समिता पुन कथञ्चित् ततोऽन्यथा सङ्केतेनार्थान्तर न प्रकाशयेयु, प्रकाशयन्ति च ततो न प्रकृत्यैकार्थनियता इति । स्वभावतश्चैकार्थनियमे योऽय वैदिकेषु वाक्येषु व्याख्यातॄणा व्याख्याविकल्पश्च अपरापरव्याख्याभेदश्च न स्यात् एकार्थप्रतिनियमात्, भवति च, तस्मात् पौरुषेयवाक्यवन्नैकार्थनियता वैदिका शब्दा इति । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३० ।] ↩︎
-
भावनाविधिनियोगरूपेण भाट्टवेदान्तिप्राभाकाराणा वेदार्थविषये व्याख्याभेदो न स्यादिति भाव । ↩︎
-
तुलना–सर्वत्र योग्यस्यैकार्थद्योतने नियम कुत । – [प्रमाणवा॰ ३ । ३२६ ।] नानार्थद्योतने शक्तिर्भवत्येकस्य हि ध्वने । नाग्निहोत्रादयस्त्वर्था सर्वे सर्वोपयोगिन । तदिष्टविपरीतार्थद्योतनस्यापि सभवात् । नित्यशब्दार्थसम्बन्धकल्पना वो निरर्थिका ॥ – [तत्त्वस॰ पृ॰ ७११ ।] ↩︎
-
अग्निहोत्र जुहुयात् – [मैत्र्यु॰ ६ । ३६ ।] ↩︎
-
व्याख्या तेनेति अपरिज्ञातार्थत्वेन अग्निहोत्र जुहुयात् स्वर्गकाम इति श्रुतौ वेदवाक्ये खादेच्छ्वमासमित्येष नार्थ किन्त्वन्योऽभिमतोऽर्थं इत्यत्र का प्रमा ? नैव किञ्चित्प्रमाणम् । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । ३२० ।] अग्नि हन्तीति अग्निह श्वा तस्योत्र मास जुहुयात् खादेत् । अथवा अगति गच्छतीत्यग्नि श्वा हूयतेऽद्यते यत्तत् होत्र मासम् अग्नेर्होत्रमित्यग्निहोत्र श्वमास तज्जुहुयात् खादेत् स्वर्गकाम पुमान् द्विज । – [प्रमेयरत्नमा॰ टि॰ पृ॰ १३४ ।] उद्धृतोऽयम् – [शास्त्रवा॰ श्लो॰ ६०५ । न्यायमं॰ पृ॰ ४०५ । नन्दिमलय॰ पृ॰ १९ ।] ↩︎
-
तुलना–सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता । – [प्रमाणवा॰ ३ । २३१ ।] ↩︎
-
“नित्यसम्बन्धी” [आ॰] । ↩︎
-
शब्दस्य ↩︎
-
सम्बन्धविषयभूतस्य अर्थस्य । ↩︎
-
शब्दार्थ – [आ॰ टि॰] । ↩︎
-
सामान्याश्रितः । ↩︎
-
सामान्यवानेव । ↩︎
-
मीमासकनैयायिकादि । ↩︎
-
“–त्वात् उभ–” [ब॰] । ↩︎
-
तुलना–किञ्चासौ सम्बन्ध ऐन्द्रिय अतीन्द्रिय अनुमानगम्यो वा स्यात् । – [प्रमेयक॰ पृ॰ ४३० ।] ↩︎
-
तुलना–न च नित्य सम्बन्ध शब्दार्थयो प्रमाणेनावसीयते, प्रत्यक्षेण तस्याननुभवात्, तदभावे नानुमानेनापि, तस्य तत्पूर्वकत्वाभ्युपगमात् । – [सन्मति॰ टी॰ पृ॰ ४३६ ।] ↩︎
-
तुलना–नातीन्द्रिय सम्बन्ध, ततोऽतीन्द्रियात् सम्बन्धात् अर्थस्याप्रतिपत्तिप्रसङ्गात् । किं कारणम् ? अप्रसिद्धस्य स्वेन रूपेण अनिश्चितस्य अज्ञापकत्वात् । न हि येन सह यस्य सम्बन्धो न गृह्यते तद्द्वारेण तस्य प्रतीतिर्युक्ता । अथाज्ञात एव सम्बन्धोऽर्थं ज्ञापयतीन्द्रियवदित्याह–सन्निधिमात्रेणेत्यादि । सम्बन्धस्य सन्निधिमात्रेण सत्तामात्रेणार्थज्ञापनेऽभ्युपगम्यमाने शब्दार्थसम्बन्ध प्रत्यव्युत्पन्नानामपि अर्थस्याय वाचक इति प्रतिपत्ति स्यात् । – [प्रमाणवा॰ स्ववृ॰ १ । २३८ । तत्त्वसं॰ पृ॰ ७१२ । प्रमेयक॰ पृ॰ ४३० ।] ↩︎
-
उद्धृतमिदम् – [प्रमेयक॰ पृ॰ १२४, २०६ ।] ↩︎
-
प्रत्यक्षपूर्वकत्वेन । ↩︎
-
शब्दार्थसम्बन्धे । ↩︎
-
प्रतिबन्धोऽविनाभावसम्बन्ध । ↩︎
-
अनुमानान्तरात् । ↩︎
-
अविनाभावग्रह । ↩︎
-
अविनाभावग्रहणे । ↩︎
-
अनुमानान्तरेऽपि । ↩︎
-
शब्दार्थसम्बन्धाधिगमे । तुलना–नानुमानात् प्रतिपत्ति सम्बन्धस्य । कुत ? लिङ्गाभावात् । नहि सम्बन्धसाधन किञ्चिर्ल्लिगमस्ति । अर्थप्रतीतिरपि न लिङ्ग दृष्टान्तासिद्धे । न हि क्वचिद् दृष्टान्ते सम्बन्धकार्या अर्थप्रतीति प्रतिपन्ना । किङ्कारणम् ? तत्रापि दृष्टान्तत्वेनोपनीते सम्बन्धस्यातीन्द्रियत्वेन कारणेन साधनापेक्षणात् । न चास्ति साधनं तत्रापि दृष्टान्तासिद्धे । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३८ ।] ↩︎
-
तस्य हि लिङ्ग ज्ञानमर्थ शब्दो वा ? – [प्रमेयक॰ पृ॰ ४३० ।] ↩︎
-
प्रतिपन्ने हि सम्बन्धे तस्य कार्यमर्थज्ञान निश्चीयते, स चाद्यापि न सिद्ध – [आ॰ टि॰] । ↩︎
-
तुलना–शब्दार्थौ लिङ्गमिति चेदाह– नहीत्यादि । न हि तत्र सम्बन्धविशेषे शब्दरूपमर्थो वा लिङ्गम् । किङ्कारणम् ? तयो शब्दार्थयो सर्वत्र योग्यत्वात् । सर्वस्य शब्दस्य सर्वस्मिन्नर्थे वाचकत्वेन योग्यत्वात् सर्वस्य चार्थस्य सर्वस्मिन् शब्दे वाच्यत्वेन योग्यत्वात् । अर्थविशेषप्रतीतेश्च कारण सम्बन्धविशेषः, तस्य च अर्थविशेषप्रतीतिसमाश्रयस्य सम्बन्धस्य अनियताभ्या शब्दार्थाभ्यामप्रत्यायनात् । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २३८ ।] ↩︎
-
अर्थेन । ↩︎
-
[पृ॰ ५४३ पं॰ १३ ।] ↩︎
-
जैनानाम् । ↩︎
-
“भवतो वा” [श्र॰] । ↩︎
-
मीमासकानाम् – [आ॰ टि॰] । तस्मादद्यवदेवात्र सर्गप्रलयकल्पना । समस्तक्षयजन्मभ्या न सिद्ध्यत्यप्रमाणिका । – [मी॰ श्लो॰ सम्बन्धा॰ श्लो॰ ११३ ।] ↩︎
-
अभिव्यक्तावपि । ↩︎
-
“–वादिनो धूमाग्न्योरपि” [श्र॰] । ↩︎
-
शब्दार्थयो नित्यसम्बन्धवादिनः । ↩︎
-
अग्निधूमसम्बन्ध । ↩︎
-
नाग्नित्वधूमत्वयोरविनाभावो गृह्यते किन्तु अग्नित्वविशिष्टाग्निना सह धूमत्वविशिष्टधूमस्याविनाभाव गृह्यते इति भाव । ↩︎
-
[पृ॰ ४२३ ।] ↩︎
-
साध्यसाधनव्यक्तीनामानन्त्येऽपि सादृश्याद् व्याप्तिज्ञानेन क्रोडीकृति एव वाच्यवाचकव्यक्तीनामपि सादृश्यवशात्तेन क्रोडीकरणम्, अस्ति ह्यत्रापि सादृश्यम्, घटशब्दवाच्योऽय पृथुबुध्नोदराद्याकारत्वात् पूर्वोपलब्धघटान्तरवत् । – [आ॰ टि॰ ।] ↩︎
-
तुलना–अतएव च सम्बन्धस्त्रिप्रमाणक इति यत्त्वयोच्यते तदस्माभिर्न मृष्यते । शब्दवृद्धाभिधेयाश्च प्रत्यक्षेणात्र पश्यतीति सत्य श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टयेत्येतदपि सत्यम् । अन्यथानुपपत्त्या तु वेत्ति शक्तिं द्वयाश्रितामित्येतत्तु न सत्यम्, अन्यथाप्युपपत्तेरित्युक्तत्वात् । – [न्यायम॰ पृ॰ २४५ ।] ↩︎
-
मीमासकेन कुमारिलभट्टेन । ↩︎
-
ज्ञाप्यज्ञापकशक्ति – [आ॰ टि॰] । ↩︎
-
यथाहि वह्निधूमयो ज्ञाप्यज्ञापकशक्तिरनित्याऽपि अनुमेयार्थप्रतिपत्तिप्रयोजिका तथैव शब्दार्थयो वाच्यवाचकशक्तिरपि । ↩︎
-
सवृत्तिकाणा नाम् – [आ॰ टि॰] । अनुतन्त्र वार्त्तिकम् – [वाक्यप॰ पृ॰ टी॰ ।] ↩︎
-
सिद्धे शब्दार्थसम्बन्धे । सिद्धे शब्देऽर्थे सम्बन्धे चेति । – [पा॰ महाभा॰ पृ॰ ५५ ।] नित्य शब्द नित्योऽर्थ नित्य सम्बन्ध इत्येषा शास्त्रव्यवस्था । तत्राम्नाता महर्षिभि सूत्रादीना प्रणेतृभि । व्याकरण एव ये सूत्रादीना प्रणेतारस्ते व्यपदिश्यन्ते । तत्र सूत्राणामारम्भादेव शब्दाना नित्यत्वमभिमतम् । न ह्यनित्यत्वे शब्दादीना शास्त्रारम्भे किञ्चिदपि प्रयोजनमस्ति । व्यवहारमात्र ह्येतदनर्थक न महान्त शिष्टा समनुगन्तुमर्हन्तीति तस्माद् व्यवस्थितसाधुत्वेषु शब्देषु स्मृतिशास्त्र प्रवृत्तमिति । – [ वाक्यप॰ हरि॰ १ । २३ ।] उद्धृतोऽयम् – [सिद्धिवि॰ टी॰ पृ॰ ५०५ । प्रमेयक॰ पृ॰ ४२९ ।] ↩︎
-
“–विद्ध यथा” [श्र॰] । ↩︎
-
“वाग्रे” [ब॰] । ↩︎
-
[पृ॰ ३७२ ।] ↩︎
-
नित्यससम्बन्धवादिन – [आ॰ टि॰] । ↩︎
-
आम्नायस्य क्रियार्थत्वात् – [ जैमिनिसू॰ १ । २ । १ ।] चोदनेति क्रियाया प्रवर्तकं वचनमाहु । – [शाबरभा॰ १ । १ । २ ।] ↩︎
-
अग्निष्टोमादियज्ञरूपकर्मण । ↩︎
-
अतीताजातयोर्वापि न च स्यादनृतार्थता । वाच कस्याश्चिदित्येषा बौद्धार्थविषया मता । – [प्रमाणवा॰ ३ । २०७ ।] ↩︎
-
विकल्पप्रतिबिम्बेषु तन्निप्ठेषु निबध्यते । ततोऽन्यापोहनिष्ठत्वादुक्ताऽन्यापोहकृच्छ्रुतिः ॥ विकल्पाना प्रतिविम्बेष्वाकारेषु तन्निष्ठेषु तद्व्यावृत्तिवस्तुत्वेन व्यवस्थाविषयतया तद्व्यवहारव्यवस्थितिषु सङ्केतकाले निबद्ध्यते ततो विकल्पप्रतिबिम्बाना बाह्यव्यावृत्तात्मत्वेन व्यवहारविषयत्वात् अन्यापोहनिष्ठत्वात् कारणात् उक्ता श्रुतिरन्यापोहकृत् । अन्यव्यावृत्ताकारविकल्पजननात् अन्यव्यावृत्तेषु प्रवर्तनाच्च शब्दोऽन्यापोहकृदुक्त । ननु शाब्दे ज्ञाने ग्राह्यं बाह्यतयैव प्रतीयते न ज्ञानाकारतया इत्याह–व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । शब्दात्तदपि नार्थात्मा भ्रान्ति सा वासनोद्भवा ॥ यथा तैमिरिकदृष्टेषु केशेषु बाह्यभ्रम एव विकल्पाकारेऽपि वाह्यव्यवहारोऽविद्यावशादित्यर्थः । – [प्रमाणवा॰ मनोरथ॰ २ । १६४-६५ ।] तत्र यत्तदारोपित विकल्पधिया अर्थेष्वभिन्नं रूप तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयञ्च अन्यव्यावृत्ततया प्रख्यानाद् भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वात् अन्यापोढपदार्थाधिगतिफलत्वाच्चान्यापोढ इत्युच्यते । तेनापोहः शब्दार्थ इति प्रसिद्धम् । – [तत्त्वसं॰ पं॰ पृ॰ २७४ ।] अपोहो बाह्यतया आरोपित आकारोऽपोह्यतेऽनेनेति कृत्वायद्वा अपोह्यतेऽस्मिन्नत्यपोह स्वलक्षणम् तस्मान्न विकल्पाना स्वरूपेण बाह्यो ग्राह्योपि तु स्वाकारेण सहैकीकृत एव वाह्यो विषय, स चासत्योऽपोह्यतेऽन्यदनेनेति अपोह उच्यते । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । ४८ ।] ननु कोऽयमोपोहो नाम ? यथाव्यवसायं बाह्य एव घटादिरर्थोऽपोह इत्यभिधीयते अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा । यथाप्रतिभास बुद्ध्याकारोऽपोहः अपोह्यते पृथक्क्रियतेऽस्मिन् बुद्ध्याकारे विजातीयमिति कृत्वा । यथातत्त्व निवृत्तिमात्र प्रसह्यरूपोऽपोह अपोहनममोह इति कृत्वा । – [तर्कभा॰ मो॰ प॰ २६ ।] ↩︎
-
उद्धृतोऽयम् – [अष्टसह॰ पृ॰ १४० । स्यामं॰ पृ॰ १८० ।] तुलना–कथ स एव व्यवच्छेद शब्दलिङ्गाभ्या विधिना प्रतिपाद्यते न वस्तुरूपमिति गम्यते ? – [प्रमाणवा॰ स्ववृ॰ १ । ४४ ।] अन्यापोहविषया आचार्येण प्रोक्ता “अपोह शब्दलिङ्गाभ्या प्रतिपाद्यते” इति ब्रुवता । – [प्रमाणवा॰ मनोरथ॰ ३ । १३३ ।] ↩︎
-
शब्दलिङ्गप्रभवप्रत्यययो बहिरर्थरहित स्वरूपमात्रमेव विषय तत्र स्वरूपमात्रस्यैव प्रतिभातत्वात् । उच्यते विषयोऽमीपा धीव्वनीना न कश्चन । अन्तर्मात्रानिविष्ट तु बीजमेपा निबन्धनम् । तथाहि–अस्माभिरिष्यत एवैपामन्तर्जल्पवासनाप्रबोधो निमित्तम्, न तु विषयभूत भ्रान्तत्वेन पूर्वस्य शब्दप्रत्ययस्य निर्विषयत्वात् । अन्तर्मात्रानिविष्टमिति विज्ञानसन्निविष्ट वासनेति यावत् । एतदेवागमेन सस्पदयन्नाह यस्य यस्येत्यादि–यस्य यस्य हि शब्दस्य यो यो विषय उच्यते । स स सविद्यते नैव वस्तूना सा हि धर्मता ॥ – [तत्त्वस॰, प॰ पृ॰ २७५ ।] ↩︎
-
“–रहितस्वरूप–” [आ॰] । ↩︎
-
यत स्वलक्षण जातिस्तद्योगो जातिमास्तथा । बुद्ध्याकारो न शब्दार्थे घटामञ्चति तत्त्वत । – [तत्त्वम॰ पृ॰ २७६ ।] ↩︎
-
“तत्राद्य पक्षो–” [ब॰] । ↩︎
-
शब्दा सङ्केतित प्राहुर्व्यवहाराय स स्मृत । तदा स्वलक्षण नास्ति सङ्केतस्तेन तत्र न ॥ – [प्रमाणवा॰ ३ । ९१ ।] तदा व्यवहारकाले तत्स्वलक्षण नास्ति यत्र सङ्केत कृत । एकस्यापि स्वलक्षणस्य क्षणिकत्वात् कालान्तरे तेनैव रूपेणानुगमो नास्ति, अक्षणिकत्वे वा सङ्केतज्ञानाभावादेव तद्विषयत्वस्य कालान्तरेऽनुगमो नास्ति किमुत देशकालभिन्नेषु स्वलक्षणेषु, तेन कारणेन तत्र स्वलक्षणेषु सकतो न क्रियते । – [प्रमाणवा॰ स्ववृ॰ टी॰ ।] तत्र स्वलक्षण तावन्न शब्दै प्रतिपाद्यते । सङ्केतव्यवहाराप्तकालव्याप्तिवियोगत ॥ एतदुक्त भवति– समयो हि व्यवहारार्थ क्रियते न व्यसनितया, तेन यस्यैव सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति तत्रैव समयो व्यहर्तॄणा युक्तो नान्यत्र । न च स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति । तस्मान्न तत्र समय इति । व्यक्त्यात्मानोनुयन्त्येते न परस्पररूपत । देशकालक्रियाशक्तिप्रतिभासादिभेदत ॥ तस्मात्सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते । नचागृहीतसङ्केतो बोद्ध्येतान्य इव ध्वने ॥ – [तत्त्वस॰, प॰ पृ॰ २०७ ।] ↩︎
-
“–विधस्वरूपं” [ब॰] । ↩︎
-
एकपरमाण्वाकारतया एकक्षणस्यायितया निरशतया च न देशकालाकारान्तरव्याप्ति स्वलक्षणस्येति भाव । तस्य देशकालभेदेष्वनास्कन्दनात्, तस्येति सङ्केतकालदृष्टस्य व्यवहारावस्थानादिषु देशकालभेदेषु अनास्कन्दनात् अननुगमात् । न हि एकत्र दृष्टो भेदोऽन्यत्र सभवति । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । ९४ ।] ↩︎
-
स्वलक्षणे नास्ति सङ्केत सङ्केतव्यवहारकालाननुयायित्वात् । ↩︎
-
यो हि विवक्षितदेशे सोऽन्य यश्च देशान्तर याति सोऽन्य क्षणिकत्वात् – [आ॰ टि॰] । ↩︎
-
श्रोत्रचक्षुषी । ↩︎
-
शब्दार्थस्वलक्षणयो – [आ॰ टि॰] । ↩︎
-
ज्ञानेन – [आ॰ टि॰] । ↩︎
-
शब्दार्थौ – [आ॰ टि॰] । सम्बन्धग्राहिज्ञानेन न शब्दार्थस्वलक्षणयो सम्बन्धग्रहणम् सम्बन्धग्राहिज्ञानेऽप्रतिभासमानत्वात् । ↩︎
-
गोशब्दार्थसम्बन्धग्राहिणा । ↩︎
-
“स्वेन्द्रियविज्ञान–” [श्र॰] । ↩︎
-
चक्षुर्ज्ञानेऽर्थस्वलक्षण श्रोत्रज्ञाने शब्द प्रतिभाति – [आ॰ टि॰] । ↩︎
-
एतदुक्तं भवति–यद्यगृहीतसङ्केतमर्थ शब्द प्रतिपादयेत्तदा गोशब्दोऽप्यश्व प्रतिपादयेत्, सङ्केतकरणानर्थक्यञ्च स्यात्, तस्मादतिप्रसङ्गापत्ति बाधकम् । – [तत्त्वस॰ पं॰ पृ॰ २७७ ।] ↩︎
-
शब्द न स्वलक्षण प्रतिपादयति तस्मिन्नकृतसङ्केतत्वात् । प्रयोग–ये यत्र भावत कृतसमया न भवन्ति न ते परमार्थतस्तमभिदधति यथा सास्नादिमति पिण्डेऽश्वशब्दोऽकृतसमय, न भवन्ति च भावत कृतसमया सर्वस्मिन्वस्तुनि सर्वे ध्वन्य इति व्यापकानुपलब्धे कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात् । – [तत्त्वसं॰ प॰ पृ॰ २७६ ।] ↩︎
-
“उक्तञ्च” [ब॰] । ↩︎
-
व्याख्या–अन्यदेव रूपादिस्वलक्षणमिन्द्रियग्राह्यम्, तस्मादन्य शब्दस्य गोचरो विषय इति गृह्यताम् । शब्दात्प्रत्येति भिन्नाक्षः प्रध्वस्तनयन, न तु प्रत्यक्ष यथा भवति तथेक्षते । समानविषयत्वे वाऽनन्धस्येवान्धस्यापि शब्दादपरोक्षैव प्रतिपत्तिः स्यात् । तथात्वे इन्द्रियाग्निसम्बन्धादिवद् दाहशब्दादपि दाहार्थप्रतिपत्तिः स्यादित्याह–अन्यथैव – [प्रश॰ व्यो॰ पृ॰ ५८४ ।] अन्यदेवेन्द्रियग्राह्य स्वलक्षणम्, अन्यच्छब्दस्य गोचर सामान्यलक्षणम्, कुत ? शब्दान्प्रत्येति भिन्नाक्ष अन्वोऽपि घटादि, न तु प्रत्यक्षमीक्षते चक्षुष्मानिव । एतदेव भावयति–अन्यथा स्पष्टानुभवेन दाहसम्बन्धात् इन्द्रियार्थयोगेन दाह स्वगत दग्धोऽभिमन्यते, एव पुमान्न जानाति, अन्यथा स्वस्पष्टाननुभवत दाहशब्देन तेन दाहार्थ सप्रतीयते श्रोत्रा । – [शास्त्रवा॰ टी॰ श्लो॰ ६६६–६७ ।] ↩︎
-
स्फाटितनेत्र – [आ॰ टि॰] । ↩︎
-
“–क्षते ॥ इति ।” [ब॰] । ↩︎
-
उद्धृतोऽयम्–“अन्य शब्दस्य” – [प्रश॰ व्यो॰ पृ॰ ३८४ । न्यायमं॰ पृ॰ ३१ । शास्त्रवा॰ श्लो॰ ६६६ । अनेकान्तजय॰ पृ॰ ४५ । प्रमेयक॰ पृ॰ ४४६ । सन्मति॰ टी॰ पृ॰ २६० । धर्मसं॰ वृ॰ पृ॰ १४९ । स्या॰ र॰ पृ॰ ७१० ।] ↩︎
-
व्याख्या–दाहाद्यर्थ प्रतीयते–यदि शब्देन यथावद्वाह्योऽर्थः प्रत्याय्येत तदा शब्दसन्निघापितोऽसौ तामार्थक्रिया कथन्न कुर्यात् यतश्चाग्निसम्बन्धादृग्धो दाहमन्यथाऽनुभवति दाहशब्देन च दाहमन्यथाऽवगच्छतीति शब्दार्थयोर्नास्ति कश्चिद्वास्तव समन्वय इति बोद्धव्यम् । – [वाक्यप॰ पु॰ टी॰ ।] उद्धृतोऽयम् – [प्रश॰ व्यो॰ पृ॰ ५८४ । न्यायमं॰ पृ॰ ३१ । शास्त्रवा॰ श्लो॰ ६६७ । अनेकान्तजय॰ पृ॰ ४५ । नयचक्रवृ॰ लि॰ पृ॰ ४४ब्। ।] “सप्रकाश्यते” – [तत्त्वसं॰ प॰ पृ॰ २८० । प्रमेयक॰ पृ॰ ४४७ । सन्मति॰ टी॰ पृ॰ १७७, २६० । स्या॰ र॰ पृ॰ ७१० ।] तुलना–उष्णादिप्रतिपत्तिर्या नामादिध्वनिभाविनी । विस्पष्टा भासते नैपा तदर्थेन्द्रियबुद्धिवत् ॥ यथा ह्युष्णाद्यर्थविषयेन्द्रियबुद्धि स्फुटप्रतिभासा वेद्यते न तथोष्णादिशब्दभाविनी । न ह्युपहतनयनरसनध्राणादयो मातुलिङ्गादिशब्दश्रवणात्तद्रूपरसाद्यनुभाविनो भवन्ति यथाऽनुपहतनयनादय इन्द्रियधियाऽनुभवन्त । – [तत्त्वसं॰, प॰ पृ॰ २८० ।] ↩︎
-
न चैकस्य वस्तुनो रूपद्वयमस्ति स्पष्टास्पष्टम् । येनास्पष्ट वस्तुगतमेव रूप शब्दैरभिधीयते इति स्यात्, एकस्य द्वित्वविरोधात् । – [तत्त्वस॰ प॰ पृ॰ २८१ ।] न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्धे एकस्य वस्तुन स्त यत एकेनेन्द्रियबुद्धौ प्रतिभासेत अन्येन विकल्पे । तथा सति वस्तुन एव भेदप्राप्ते । – [अपोहसि॰ पृ॰ ७ ।] ↩︎
-
स्वलक्षण न शब्दप्रत्ययविषय शब्दप्रत्ययेऽप्रतिभासमानत्वात् । न स तस्य च शब्दस्य युक्तो योगो न तत्कृते । प्रत्यये सति भात्यर्थो रूपबोधे यथा रस ॥ प्रयोग–यो हि तत्कृते प्रत्यये न प्रतिभासते न स तस्यार्थ यथा रूपजनिते प्रत्यये रस, न प्रतिभासते च शब्दे प्रत्यये स्वलक्षणमिति व्यापकानुपलब्धि – [तत्त्वस॰ प॰ पृ॰ २८० ।] ↩︎
-
“रूपप्रत्यये” [श्र॰] । ↩︎
-
व्याख्या–परमार्थ स्वलक्षणम् तस्मिन् एकस्थान एकस्तान प्रवृत्तिर्येषा तद्भावस्तत्त्व तस्मिन् सति शब्दानामनिवन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् दर्शनान्तरभिन्नेष्वर्थेषु सिद्धान्तभेदभिन्नेषु । – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । २०९ ।] परमार्थैकतानत्वे परमार्थैकपरत्वे शब्दानामर्थेषु दर्शनान्तरभेदिषु प्रतिदर्शन भिन्नाभ्युपगमेन नित्यत्वानित्यत्वत्रिगुणीमयत्वादिकल्पितभेदेषु अनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् । न हि परस्परविरुद्धा बहवो धर्मा एकत्र सन्ति । – [प्रमाणवा॰ मनोरथ॰ ३ । २०६ ।] ↩︎
-
“दर्शनान्तरभेदिषु” – [प्रमाणवा॰ । शास्त्रवा॰ श्लो॰ ६४७ । अनेकान्तजय॰ पृ॰ ३५अ ।] प्रकृतपाठ – [अष्टसह॰ पृ॰ १६८ । सिद्धिवि॰ टी॰ पृ॰ २६८अ ।] “तस्मात्प्रवृत्तिरर्थेषु समयान्तरभेदिषु” – [स्या॰ र॰ पृ॰ ७१० ।] ↩︎
-
“सामान्यस्वरूप” [श्र॰] , [ब॰] । ↩︎
-
अपि प्रवर्तेत पुमान् विज्ञायार्थक्रियाक्षमान् । तत्साधनायेत्यर्थेषु सयोज्यन्तेऽभिधायका ॥ तत्रानर्थक्रियायोग्या जाति । न खलु लोकोऽसकेतयन् शब्दानप्रयुञ्जानो वा दु खित स्यात् । व्यसनापन्न अथ किमिति चेत्, सर्व एवाधेय आरम्भ फलार्थ । निष्फलारम्भस्य उपेक्षणीयत्वात् । तदय क्वचिच्छब्द नियुञ्जान किञ्चित्फलभेवेहितु युक्तः । तच्चेत् सर्वम् इष्टानिष्टाप्तित्यागलक्षणम् । तेनायमिष्टानिष्टसाधनासाधन कृत्वा तत्र प्रवृत्तिं निवृत्तिं वा कुर्यां कारयेय वेति नियोग आद्रियेत शब्दान् वा नियुञ्जीत अन्यथोपेक्षणीयत्वात् । तत्र जातिरनर्थक्रियायोग्या । नहि जातिर्वाहदोहादौ क्वचिदपि प्रत्युपस्थिता । न वा तादृशप्रकरणाभावे लोकव्यवहारेषु शब्दप्रयोगः । – [प्रमाणवा॰ स्ववृ॰ १ । ९५ ।] ↩︎
-
“चार्थपञ्च–” [ब॰] , “चार्थसच–” [श्र॰] । ↩︎
-
जातिव्यक्तिज्ञानतदाकारा एते सत्या, अर्धपञ्चमाकार अर्धत्व तु दृश्यस्य सत्यत्वात् विकल्पस्यासत्यत्वात् – [आ॰ टि॰] । ↩︎
-
शब्दविषयत्वम् । ↩︎
-
ज्ञानरूपेण । ↩︎
-
ज्ञानस्वलक्षणस्य । ↩︎
-
व्याख्यातार एव विवेचयन्ति न हि व्यवहर्त्तार । ते तु स्वालम्बनमेव अर्थक्रियायोग्य मन्यमाना दृश्यविकल्प्यार्थावेकीकृत्य प्रवर्तन्ते । ते हि यथावस्थित वस्तु व्यवस्थापयन्तः एवं विवेचयन्ति । अन्यो विकल्पबुद्धिप्रतिभास अन्यत्स्वलक्षणमिति, न व्यवहर्त्तार एव विवेचयन्ति । ते तु व्यवहर्त्तार स्वालम्बनमेवेति विकल्पप्रतिभासमेवार्थक्रियायोग्य बाह्यस्वलक्षणरूप मन्यमाना । एतदेव स्पष्टयति–दृश्योऽर्थ स्वलक्षणम् विकल्प्योऽर्थ सामान्यप्रतिभास तावेकीकृत्य स्वलक्षणमेवेद विकल्पबुद्ध्या विषयीक्रियते शब्देन चोद्यते इत्येवमधिमुच्यार्थक्रियाकारिण्यर्थे प्रवर्तन्ते, तदभिप्रायवशाद् व्यवहर्तॄणामभिप्रायवशादेवमुच्यते विवेकिषु भावेषु विकल्पबुद्धिर्भवतीति । दृश्यविकल्प्यावेकीकृत्य प्रवृत्तेरिति वदता न स्वाकारे बाह्यारोप इत्युक्त भवति अन्यथा स्वाकार एव प्रवृत्तिप्रसगात् मरीचिकाया जलारोपादिव । नापि बाह्ये स्वाकारारोप; आरोप्यमाणफलार्थित्वेनैव प्रवृत्तिप्रसगात् जलार्थिन इव जलभ्रान्ती । अर्थानुभवे सति तत्सस्कारप्रबोधेन तदाकार उत्पद्यमानो विकल्प स्वाकारं बाह्याभिन्नमध्यवस्यति न त्वभिन्न करोति । तेन विकल्पविषयस्य दृश्यात्मतयाध्यवसायाद् दृश्यविकल्प्ययोरेकीकरणमुच्यते । – [प्रमाणवा॰ स्ववृ॰, टी॰ १ । ७२ ।] ↩︎
-
तथाहि द्विविधोऽपोह पर्युदासनिषेधत । द्विविध पर्युदासोऽपि बुद्ध्यात्माऽर्थात्मभेदत ॥ तत्रबुद्ध्यात्मा बुद्धिप्रतिभास, अर्थेष्वनुगतैकरूपत्वेनाध्यवसित । अर्थात्मा अर्थस्वभाव विजातीव्यावृत्तमर्थस्वलक्षणमित्यर्थ । – [तत्त्वस॰, पं॰ पृ॰ ३१६ ।] तुलना–त्रिविधो हि वोपोह–एकस्तावद् व्यावृत्त स्वलक्षणमेव अन्योऽपोह्यतेऽस्मिन्निति कृत्वा, यदधिकृत्याह–स्वभावपरभावाभ्या यस्माद् व्यावृत्तिभागिन इतिव्यवच्छेदमात्रं द्वितीय अन्यापोहनमन्यापोह इति कृत्वा, विकल्पबुद्धिप्रतिभासस्तु तृतीय अपोह्यतेऽनेनेति कृत्वा, अयञ्च शब्दस्य निबन्धनतयाऽभ्युपगम्यते । – [अनेकान्तजय॰ पृ॰ ३७अ। ।] ↩︎
-
“–भासानु–” [ब॰] । ↩︎
-
“–ष्वव्यवस्थित” [श्र॰] । ↩︎
-
“अथात्मा” [ब॰] । ↩︎
-
तत्र बुद्ध्यात्मन स्वरूप दर्शयन्नाह–एकेत्यादि । एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा । अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः ॥ तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । कल्पकेऽर्थात्मताऽभावेप्यर्था इत्येव निश्चितम् ॥ यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यमेक ज्वरादिशमनलक्षण कार्य कुर्वन्ति तथा शाबलेयादयोऽप्यर्थाः सत्यपि भेदे प्रकृत्या एकाकारप्रत्यवमर्शस्य हेतवो भविष्यन्तीत्यन्तरेणापि वस्तुभूत सामान्यमिति । अभयादिसमा इति–हरीतक्यादितुल्या एकार्थकारितया साम्यम् । तानुपाश्रित्य इति–तानभयादिसमानर्थानाश्रित्य हेतूकृत्य तदनुभवबलेन यदुत्पन्न विकल्पक ज्ञान तत्र यदर्थाकारतयाऽर्थप्रतिबिम्बकमर्था- भासो भाति तादात्म्येन तत्रान्यापोह इत्येषा सज्ञा उक्तेति सम्बन्ध । कल्पक इति–विकल्पके सविकल्प इति यावत् । एतच्च ज्ञान इत्यनेन समानाधिकरणम् । अर्थात्मताभावेऽपि इति । बाह्यार्थात्मताया अभावेऽपि । निश्चितमिति अध्यवसितम् । – [तत्त्वस॰, प॰ पृ॰ ३१७ ।] ↩︎
-
अश्वादिविकल्पादन्यो गवादिविकल्प – [आ॰ टि॰] । ↩︎
-
अथ कथ तस्यापोह इत्येष व्यपदेश इत्याह–प्रतिभासान्तरादित्यादि । प्रतिभासान्तराद् भेदादन्यव्यावृत्तवस्तुनः । प्राप्तिहेतुतयाऽश्लिष्टवस्तुद्वारागतेरपि ॥ विजातीयपरावृत्त तत्फल यत्स्वलक्षणम् । तस्मिन्नध्यवसायाद्वा तादात्म्येनास्य विप्लुतै । तत्रान्याणेह इत्येषा सज्ञोक्ता सनिबन्धना । चतुर्भिर्निमित्तैरपोह इति तस्याख्या । विकल्पान्तरारोपितप्रतिभासान्तराद् भेदेन स्वयं प्रतिभासनात् मुख्यत, अपोह्यत इत्यपोह, अन्यस्मादपोहोऽन्यापोह इति व्युत्पत्ते । उपचारात्तु त्रिभि । १–कारणे कार्यधर्मारोपाद्वा, यदाह अन्यव्यावृत्तवस्तुन प्राप्तिहेतुतयेति । २–कार्ये वा कारणधर्मोषचारात्, तद्दर्शयति–अश्लिष्टवस्तुद्वारा गतेरपीति । अश्लिष्टम् अन्यासम्बद्धम् अन्यतो व्यावृत्तमिति यावत्, तदेव वस्तु द्वारमुषाय, तदनुभवबलेन तथाविधविकल्पोत्पत्ते । ३–विजातीयापोहपदार्थेन सहैक्येन भ्रान्तै प्रतिपतृभिरध्यवसितत्वाच्चेति चतुर्थं कारणम् । तद्दर्शयति–विजातीयेत्यादि । अस्येति । विकल्पबुद्ध्यारूढस्य अर्थप्रतिबिम्बस्य सनिबन्धनेति । सह निबन्धनेन प्रतिभासान्तराद् भेदादिनोक्तेन चतुर्विधेन वर्तत इति सनिबन्धना । – [तत्त्वस॰, प॰ पृ॰ ३१७ ।] ↩︎
-
अन्यापोह कारणम् अन्यव्यावृत्तवस्तुप्राप्ति कार्यम् – [आ॰ टि॰] । ↩︎
-
अपोहे कारणे – [आ॰ टि॰] । ↩︎
-
एतत्कार्यम् । ↩︎
-
एतत्कारणम् – [आ॰ टि॰] । ↩︎
-
अन्यापोहस्य – [आ॰ टि॰ ।] ↩︎
-
अन्यापोहस्वरूपे – [आ॰ टि॰] । ↩︎
-
“–नाव्यवस्थितत्वाद्वा” [आ॰] । ↩︎
-
प्रसज्यप्रतिषेधश्च गौरगौर्न भवत्ययम् । अतिविस्पष्ट एवायमन्यापोहोऽवगम्यते ॥ – [तत्त्वस॰ पृ॰ ३१८ ।] ↩︎
-
तदेव त्रिविधमपोह प्रतिपाद्य प्रकृते शब्दार्थत्वे योजयन्नाह–तत्रायमित्यादि । तत्राय प्रथम शब्दैरपोह प्रतिपद्यते । बाह्यार्थाध्यवसायिन्या बुद्धे शब्दात्समुद्भवात् ॥ प्रथम इति यथोक्तार्थप्रतिबिम्बात्मा । तत्र कारणमाह–बाह्यार्थाध्य- वसायिन्या इत्यादि । यदेव हि शाब्दे ज्ञाने प्रतिभासते स एव शब्दार्थो युक्तः । न चात्र प्रसज्यप्रतिषेधाध्यवसायोऽस्ति, न चापीन्द्रियज्ञानवत् स्वलक्षणप्रतिभासः । किं तर्हि ? बाह्यार्थाध्यवसायिनी केवलं शाब्दी बुद्धिरुपजायते । तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षात्तदात्मतया प्रतिभासनाच्छदार्थो युक्तो नान्य इति भावः ।एवं तावत्प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरुपजन्यमानत्वान्मुख्यः शब्दार्थ इति दर्शितम् । शेषयोरप्यपोहयोः गौणं शब्दार्थत्वमुपवर्ण्यमानमविरुद्धमेवेति दर्शयन्नाह–साक्षादाकार एतस्मिन्नेवञ्च प्रतिपादिते । प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते ॥ न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः ॥ व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥ तेनायमपि शब्दस्य स्वार्थे इत्युपचर्य्यते । न तु साक्षादयं शाब्दो द्विविधोऽपोह उच्यते ॥ एवञ्चेति । जन्यत्वेन । कस्मात्पुनः सामर्थ्येन प्रसज्यप्रतिषेधः प्रतीयत इति दर्शयन्नाह–न तदात्मेति । तस्य गवादिप्रतिबिम्बस्यात्मा यः परस्य अश्वादिप्रतिबिम्बस्यात्मा स्वभावो न भवतीति कृत्वा । एवं प्रसज्यलक्षणापोहस्य नान्तरीयकतया प्रतीतेर्गौणं शब्दार्थत्वं प्रतिपाद्य स्वलक्षणस्यापि प्रतिपादयन्नाह–सम्बन्धे सतीत्यादि । तत्र सम्बन्धः शब्दस्य वस्तुनि पारम्पर्येण कार्यकारणभावलक्षणः प्रतिबन्धः । प्रथमं यथावस्थितवस्त्वनुभवः ततो विवक्षा ततः ताल्वादिपरिस्पन्दः ततः शब्द इत्येवं परम्परया शब्दस्य वस्तुभिः बाह्यैरग्न्यादिभिः सम्बन्धः स्यात्तदा तस्मिन् सम्बन्धे सति विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगमो भवति । अतो द्विविधोऽपि प्रसज्यप्रतिषेधः अन्यव्यावृत्तवस्त्वात्मा चापोहः शब्दार्थ इत्युपचर्यते । अयमिति स्वलक्षणात्मा, अपिशब्दात् प्रसज्यात्मा च । – [तत्त्वसं॰, पं॰ पृ॰ ३१८–१९ ।] ↩︎
-
ननु सौगतैस्तादात्म्यतदुत्पत्तिरूप एव सम्बन्ध इष्यते तत्किमत्र वाच्यवाचकभावोऽपीष्यते इत्याह – [आ॰ टि॰] । यश्चापि शब्दस्यार्थेन स वाच्यवाचकभावलक्षणः सम्बन्धः प्रसिद्धः नासौ कार्यकारणभावादन्योऽवतिष्ठते, अपि तु कार्यकारणभावात्मक एवेति दर्शयति–तद्रूपप्रतिबिम्बस्येत्यादि । तद्रूपप्रतिबिम्बस्य धियः शब्दाच्च जन्मति । वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः ॥शब्दः प्रतिबिम्बस्य जनकत्वाद्वाचक उच्यते, तच्च प्रतिबिम्बं शब्देन जन्यमानत्वाद्वाच्यम् । – [तत्त्वसं॰ पं॰ पृ॰ ३१८– १९ ।] ↩︎
-
तेन शब्देन तत्प्रतिबिम्बस्य वाच्यत्वम् – [आ॰ टि॰] । ↩︎
-
[पृ॰ ५५१ पं॰ ९ ।] ↩︎
-
शब्दलिङ्गगोचरत्वम् । ↩︎
-
तुलना–इन्द्रियैर्नाप्यगोपोहः प्रथमं व्यवसीयते । नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम् ॥ ७८ ॥ पूर्वोक्तेन प्रबन्धेन नानुमाप्यत्र विद्यते । सम्बन्धानुभवोऽप्यस्य तेन नैवोपपद्यते ॥ ७१ ॥ नागृहीतश्च गमकः शब्दापोहः कथञ्चन । प्रत्यक्षं न च तच्छक्तं न च स्तो लिङ्गवाचकौ ॥ १०६ ॥ यतः स्याद् ग्रहणं तस्य, लिङ्गादीनाञ्च कल्पने । न व्यवस्थेति वाच्यैवं विना प्रत्यक्षमूलतः ॥ १०७ ॥ – [मी॰ श्लो॰ अपोह॰ ७८–७९, १०६-७ । प्रमेयक॰ पृ॰ ४३५ ।] प्रमेयर॰ ३ । १०१ । ↩︎
-
अपोहाविनाभावि । ↩︎
-
“वाविनाभूतं” [ब॰] । ↩︎
-
सौगतसिद्धान्ते । ↩︎
-
अकृतकत्वव्यावृत्तिरूप कृतकत्व न स्वलक्षणात्मकम् अवस्तुरूपत्वात् । ↩︎
-
“–क तयो” [श्र॰] । ↩︎
-
अकृतकत्वव्यावृत्तिरूपकृतकत्व-नित्यत्वव्यावृत्तिरूपाऽनित्यत्वयोश्च । ↩︎
-
अन्यव्यावृत्तिरूपयो कृतकत्वानित्यत्वयो तादात्म्य न भवति नीरूपत्वात् । ↩︎
-
कृतकत्वमनित्यत्वञ्च – [आ॰ टि॰] । ↩︎
-
“ननु चार्थाकारं” [आ॰] । ↩︎
-
“इत्यसमी–” [श्र॰] । ↩︎
-
प्रतिबिम्बम् । ↩︎
-
““तस्य”” नास्ति [आ॰] । ↩︎
-
अनुगतैकरूपेण । ↩︎
-
“–तव्य यस्य यस्य हि” [आ॰] , [श्र॰] । ↩︎
-
स्वलक्षणमनुगतैकाकारम् अनुगतैकाकाररूपेण प्रतिबिम्बितत्वात् । ↩︎
-
सामान्यस्य अन्यापोहात्मकत्वेन अर्थक्रियाकारित्वाभावेन चासत । ↩︎
-
न समान्य ज्ञाने प्रतिबिम्बति असत्त्वात् । ↩︎
-
बौद्धमते । ↩︎
-
ज्ञाने । ↩︎
-
सामान्य । ↩︎
-
“–विविक्तस्तद्रूप–” [ब॰] । ↩︎
-
प्रतिबिम्बाधारस्य ज्ञानस्य प्रतिबिम्ब्यस्य च सामान्यस्य विविक्त स्वरूपद्वय प्रतिभासेत इति भाव । ↩︎
-
ज्ञान सामान्यञ्च विभिन्नतया उपलभ्येताम् तत्र प्रतिबिम्ब्यमानत्वात् । ↩︎
-
“–बिम्बते” भ्र॰ । ↩︎
-
“–बिम्बते च” [श्र॰] । ↩︎
-
प्रतिबिम्बाभावलक्षणो दोष । ↩︎
-
तथापि विकल्पाद्वाह्याभिमुखप्रवृत्तिस्तदर्थिना न स्यात् । – [न्यायवा॰ पृ॰ ४८५ ।] इत्थमपि ततो वस्तुनि प्रवृत्त्यनुपपत्तेः । – [अनेकान्तजय॰ पृ॰ ३५ब् ।] अन्यापोहे प्रतीते च कथमर्थे प्रवर्तनम् । शब्दात्सिद्ध्येज्जनस्यास्य सर्वथाऽतिप्रसङ्गत ॥ – [तत्त्वार्थश्लो॰ पृ॰ १०९ । प्रमेयक॰ पृ॰ ४३१ । रत्नाकराव॰ ४ । ११ ।] ↩︎
-
तुलना–न, तदेकीकरणासिद्धे, दृश्यविकल्प्ययोरत्यन्तभिन्नत्वात्, साधर्म्यायोगात्, एकस्योभयानुभवितुरभावात् तदा द्वयदर्शनादर्शनविकल्पानुपपत्ते । – [अनेकान्तजय॰ पृ॰ ३५ब्। ।] स्वाकारमवाह्य बाह्यमध्यवस्यन् विकल्प स्वाकारबाह्यविषय इति चेत्, यथाह–स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ कोऽयमध्यवसाय–किं ग्रहणमाहोस्वित् करणम् उत योजना अथ समारोपः ? तत्र स्वप्रतिभासमनर्थमर्थ कथ गृह्णीयात् कुर्याद्वा विकल्प । न हि पीत नील शक्य ग्रहीतु वा शिल्पिशतेनापि । नप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्प । न च स्वलक्षण विकल्पगोचर इति चोपपादितम् । – [न्यायवा॰ ता॰ पृ॰ ४८५ ।] ↩︎
-
“धारणम्” [ब॰] । ↩︎
-
जैनमत । ↩︎
-
अर्थानाम् – [आ॰ टि॰] । ↩︎
-
ज्ञानमात्रेणैव यद्यर्थस्य समुत्पत्ति स्यात्तदा असङ्ख्यरूप्यकपरिज्ञानादेव असख्यरूप्यकोत्पत्तौ विश्वमदरिद्र स्यात् । ↩︎
-
“स्वाकारविक–” [श्र॰] । ↩︎
-
“–रभावात्” [ब॰] , [श्र॰] । ↩︎
-
विकल्पाकारस्य – [आ॰ टि॰] । ↩︎
-
स्वाकार–बाह्यार्थयो । ↩︎
-
स्वलक्षणरूपो बाह्योर्थः ततो निर्विकल्पकमिति ततो निर्विकल्पक तस्माच्च सविकल्पकमिति पारम्पर्येण विकल्पार्ययोस्तदुत्पत्तिसम्बन्ध – [आ॰ टि॰] । ↩︎
-
न हि व्यावृत्ताकारादनुवृत्ताकारं जायते – [आ॰ टि॰] । ↩︎
-
एकस्य अन्यत्र समारोपस्य । ↩︎
-
विकल्पाकारे बाह्यार्थसमारोपः उभयग्रहणपूर्वक समारोपत्वात् । ↩︎
-
““समारोप”” नास्ति [श्र॰] । ↩︎
-
जर्तिका नाम वाहीकास्तेषा वृत्त सुनिन्दितम् । – [महाभार॰ कर्णपर्व अ॰ २०० ।] “जाट” इति भाषायाम् । यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थो वाहीकः । – [महाभा॰ प्र॰ १ । १ । १५ ।] ↩︎
-
तुलना–क खलु विकल्पमेव दृश्यमित्यध्यवस्यति । विकल्प एवेति चेत्, न, तत्र सामान्यावभासात् अन्यथा विकल्पत्वायोगात् । अन्य इति चेत्, न, आत्मवादापत्तेः तत्तथाध्यवसायनिमित्ताभावाच्च । – [अनेकान्तजय॰ पृ॰ ३५ब् ।] नैकत्वाध्यवसायोऽपि दृश्य स्पृशति जातुचित् । विकल्पस्यान्यथा सिद्ध्येत् दृश्यस्पर्शित्वमञ्जसा । – [तत्त्वार्थश्लो॰ पृ॰ १०९ ।] तदेकत्व हि दर्शनमध्यवस्यति तत्पृष्ठजो व्यवसायो ज्ञानान्तर वा । – [प्रमाणप॰ पृ॰ ५३ । प्रमेयक॰ पृ॰ ३१ । सन्मति॰ टी॰ पृ॰ ५०० । स्या॰ र॰ पृ॰ ८२ ।] ↩︎
-
निर्विकल्पस्य । ↩︎
-
अवस्तुविषयत्वात् – [आ॰ टि॰] । ↩︎
-
“–परामर्शप्राङ्मुखत्वात्” [श्र॰] । ↩︎
-
विकल्प । ↩︎
-
बाह्येऽर्थे । ↩︎
-
तुलना–न च स्वाकारमनर्थमर्थ आरोपयति । न तावदगृहीत स्वाकार शक्य आरोपयितुमिति तद्ग्रहमेषितव्यम् । तत्किं गृहीत्वा आरोपयति, अथ यदैव गृह्णाति तदैवारोपयति । न तावत्पूर्व पक्ष, न हि विकल्पज्ञान क्षणिक क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति । उत्तरस्मिस्तु पक्षे विकल्पस्वसवेदनप्रत्यक्षाद्विकल्पाकारादहङ्कारास्पदाद् अनहङ्कारास्पद समारोप्यमाणो विकल्पो नास्वगोचरो न शक्योऽभिन्न प्रतिपत्तुम् । नापि बाह्यस्वलक्षणैकत्वेन शक्य प्रतिपत्तु विकल्पज्ञानेन स्वलक्षणस्य बाह्यस्याप्रतिभासनात् । – [न्यायवा॰ ता॰ पृ॰ ४८५ ।] ↩︎
-
“पूर्वं प्रतिभासमानार्थमन्–” [श्र॰] । ↩︎
-
“–भासं वानूभ–” [ब॰] । ↩︎
-
स्वाकारानुभवनमेव अर्थाध्यवसाय इति भाव । ↩︎
-
“–भङ्गभङ्गताप्रसङ्ग” [ब॰] । ↩︎
-
यदि यदैव विकल्पाकार स्वप्रतिभासमनर्थमनुभवति तदैवार्थे समारोपयति, तदा विकल्पस्य स्वानुभवव्यापृतत्वादर्थोऽवकाशमलभमान तत्स्वरूपाद् बहिरेवास्ते विकल्पे न सङ्क्रामति, तत्कथमात्मनि अनर्थभूते अर्थ विकल्पाकार आरोपयतीति तात्पर्यम् । – [आ॰ टि॰] । ↩︎
-
आत्मनि अनर्थे इत्यर्थ । ↩︎
-
[पृ॰ ५५५ पं॰ ५ ।] ↩︎
-
तुलना–नैतद् दृश्यविकल्प्यार्थैकीकरणेन भेदत । एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः । – [शास्त्रवा॰ ११ । १० ।] अतीते तदात्मकतया अभावसमारोपानुपपत्ते । – [प्रश॰ कन्द॰ पृ॰ ३२० ।] ↩︎
-
“प्रमित्यभा–” [ब॰] । ↩︎
-
““क्षणिकत्वाच्च”” नास्ति [ब॰] । ↩︎
-
तुलना–यश्चायमन्यापोह अगौर्न भवतीति गोशब्दस्यार्थ स किं भावोऽथ अभाव इति ? – [न्यायवा॰ पृ॰ ३२९ ।] इति प्रसज्य – [आ॰ टि॰] । ↩︎
-
शब्दस्य अपोहादतिरिक्ते भावे प्रवृत्तौ । ↩︎
-
“मुख्यतया भा–” [श्र॰] । ↩︎
-
शब्दार्थत्वात् – [आ॰ टि॰] । ↩︎
-
भावस्य प्रतिनियतमसाधारण स्वरूपं हि अन्यव्यावृत्त्यात्मक भवत्येव । ↩︎
-
“अन्यव्यावृत्तिप्रती” – [आ॰] । ↩︎
-
सापेक्षत्वात् – [आ॰ टि॰] । ↩︎
-
अनीलव्यावृत्तिप्रतीतिः । ↩︎
-
व्यवहारिण पुरुषस्य । ↩︎
-
“प्रतीतिरिति” [ब॰] , “प्रतीतिरस्ति” [श्र॰] । ↩︎
-
भावयो प्रतीतिः । ↩︎
-
“–तिः किं प्रत्या–” [ब॰] । ↩︎
-
“–नुषङ्गाविरोधात्” [ब॰] । ↩︎
-
तुलना–भिन्नसामान्यवचना विशेषवचनाश्च ये । सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ ४२ । न्यायम॰ पृ॰ ३०४ ।] अपि च ये विभिन्नसामान्यशब्दा गवादयो ये च विशेषशब्दा शाबलेयादयस्ते भवदभिप्रायेण पर्यायाः प्राप्नुवन्ति अर्थभेदाभावात् वृक्षपादपादिशब्दवत् । – [प्रमेयक॰ पृ॰ ४३३ । प्रमेयर॰ ३ । १०१ ।] ↩︎
-
“एवं विशे–” [ब॰] , [श्र॰] । ↩︎
-
तुलना–अपोहमात्रवाच्यत्व यदि चाभ्युपगम्यते । नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु ॥ विशेषणविशेष्यत्वसामानाधिकरण्ययो । न सिद्धिर्न ह्यनीलत्वव्युदासेऽनुत्पलच्युति ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ ११५–१६ । प्रमेयक॰ पृ॰ ४३६ ।] ↩︎
-
तुलना–लिङ्गसङ्ख्यादिमम्बन्धो न वाऽपोहस्य विद्यते । व्यक्तेरव्यपदेश्यत्वात्तद्द्वारेणापि नास्त्यसौ ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ १३५ ।] ↩︎
-
तुलना–ननु भेदादपोहाना प्रसङ्गोऽय न युज्यते । सामान्यापोहकॢप्त्या चेद्वस्तुमात्रे सम तव ॥ भिद्यन्ते मम वस्तुत्वात्सामान्यानि परस्परम् । असङ्कीर्णस्वभावानि न चैकत्व वितन्वते । ससृष्टैकत्वनानात्वविकल्परहितात्मनाम् । अवस्तुत्वादपोहाना तव स्याद् भिन्नता कथम् ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ ४३–४५ ।] ↩︎
-
““विभिन्नसामग्रीप्रभवत्वात्”” नास्ति [श्र॰] । ↩︎
-
तुलना–अन्यापोहश्च शब्दार्थ इत्ययुक्तम्, अव्यापकत्वात् । यत्र द्वैराश्य भवति तत्रेतरप्रतिषेधादितर प्रतीयते यथा गौरिति पदे गौ प्रतीयमान अगौ प्रतिषिध्यमान । न पुन सर्वपद एतदस्ति, न ह्यसर्व नाम किञ्चिदस्ति यत्सर्वपदेन निवर्त्येत । – [न्यायवा॰ पृ॰ ३२९ ।] ननु चापोह्यभेदेन भेदोऽपोहस्य सेत्स्यति । न विशेष स्वतस्तस्य परतश्चौपचारिक ॥ ४७ ॥ प्रमेयज्ञेयशब्दादेरपोह्य कुत एव तु । – [मी॰ श्लो॰ अपोह॰ श्लो॰ ४७, १४४ । प्रमेयक॰ पृ॰ ४३४ । प्रमेयर॰ ३ । १०१ ।] ↩︎
-
तुलना–यद्यप्यन्येषु शब्देषु वस्तुन स्यादपोह्यता । सच्छब्दस्य त्वभावाख्यान्नाऽपोह्य भिन्नमिष्यते ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ ९८ ।] ↩︎
-
“–भेदे वान्यो–” [ब॰] , [श्र॰] । ↩︎
-
तुलना– अपोह्यभेदकॢप्तिश्च नाभावाऽभेदतो भवेत् । तद्भदोऽपोहभेदाच्चेत् प्राप्तमन्योन्यसश्रयम् ॥ गोसामान्यस्य भिन्नत्वादगौरित्येष भिद्यते । अगौरित्यस्य च भेदेन गोसामान्य च भिद्यते ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ ६५–६६ । न्यायमं॰ पृ॰ ३०४ ।] ↩︎
-
तुलना–नचापि वासनाभेदाद् भेद सद्रूपतापि वा । अपोहाना प्रकल्प्येत न ह्यवस्तुनि वासना ॥ स्मृतिं मुक्त्वा नचास्त्यस्या शक्तियोग क्रियान्तरे । तस्मान्नान्यादृशे साऽर्थे करोत्यन्यादृशी मतिम् ॥ भवद्भि शब्दभेदोऽपि तन्निमित्तो न लभ्यते । – [मी॰ श्लो॰ अपोह॰ श्लो॰ १००–२ । प्रमेयक॰ पृ॰ ४३९ ।] ↩︎
-
“तद्भेदस्याप्यनुभव –” [आ॰] । ↩︎
-
वासनाभेदस्य । ↩︎
-
अभावरूपतया तुच्छैकस्वभावत्वे । ↩︎
-
“–त्वादपोहभेदस्य कल्पि–” [ब॰] । ↩︎
-
“प्रादुर्भावानुप–” [श्र॰] । ↩︎
-
अपोहो न कुतश्चित्प्रादुर्भवति कल्पितरूपत्वात् । ↩︎
-
कारणसामग्रीत अपोहोत्पत्तौ । ↩︎
-
अपोहो न कल्पित कारणादुत्पद्यमानत्वात् । ↩︎
-
अपोहभेद । ↩︎
-
अर्थक्रियाकारित्वे । ↩︎
-
“चापर–” [ब॰] । ↩︎
-
कार्यभेदात् । ↩︎
-
भिन्नकारणप्रभवतया । ↩︎
-
“तत्कार्यतया” [ब॰] । ↩︎
-
भिन्नकार्यकारितया । ↩︎
-
कार्यकारणयो भेदसिद्धौ । ↩︎
-
“वा” [श्र॰] । ↩︎
-
तुलना–तेनैवाधारभेदेनाप्यस्य भेदो न युज्यते । न हि सम्बन्धिभेदेन भेदो वस्तुन्यपीप्यते । किमुतावस्त्वससृष्टमन्यतश्चानिवर्तितम् । अनवाप्तविशेषाश यत्किमप्यनिरूपितम् । – [मी॰ श्लो॰ अपोह॰ श्लो॰ ४८–४९ ।] ↩︎
-
अपोहो न क्वचिदाश्रितः अवस्तुरूपत्वात् । ↩︎
-
अपोह । ↩︎
-
अपोहरूपस्य सामान्यस्य आश्रयभूतानि द्रव्यगुणकर्माण्येव भवितुमर्हन्ति, सामान्यस्य द्रव्यादित्रयवृत्तित्वात् । ↩︎
-
नापोहस्य स्वरूपभेद अपरमार्थसत्त्वात् । ↩︎
-
“चास्य” [ब॰] । ↩︎
-
अपोहस्य । तुलना–यद्वा भिद्यमानत्वाद्वस्त्वसाधारणाशवत् । अवस्तुत्वे त्वनानात्वात् – [मी॰ श्लो॰ अपोह॰ श्लो॰ ४६ । न्यायमं पृ॰ ३०४ ।] ↩︎
-
किञ्चापोहाख्य सामान्य वाच्यत्वेनाभिधीयमान पर्युदासलक्षनञ्चाभिधीयेत, प्रसज्यलक्षण वा ? – [प्रमेयक॰ पृ॰ ४३२ । प्रमेयर॰ ३ । १०१ ।] ↩︎
-
“–भिधीयते” [ब॰] , [श्र॰] । ↩︎
-
यथा घट पटात् स्वरूपतो भिन्न सन् भावान्तर – [आ॰ टि॰] । तुलना–अगोनिवृत्ति सामान्य वाच्यं यै परिकल्पितम् । गोत्व वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ १ । प्रमेयक॰ पृ॰ ४३२ ।] ↩︎
-
तुलना–नन्वन्यापोहकृच्छब्दो युष्मत्पक्षेऽनुवर्णित । निषेधमात्र नैवेह प्रतिभासेऽवगम्यते ॥ किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दत । विधिरूपावसायेन मति शाब्दी प्रवर्तते ॥ पूर्वपक्षे – [तत्त्वसं॰ का॰ ९१०–११ । प्रमेयक॰ पृ॰ ४३२ ।] ↩︎
-
“जिज्ञासति” [ब॰] । ↩︎
-
भिन्ननिमित्तयो शब्दयोरेकस्मिन्नधिकरणे वृत्ति सामानाधिकरण्यम् – [प्रमाणवा॰ स्ववृ॰ टी॰ १ । ६४ ।] तुलना–यस्य चान्यापोहः शब्दार्थस्तेनानीलानुत्पलव्युदासौ कथ समानाधिकरणाविति वक्तव्यम् । यस्य पुनर्विधीयमान शब्दार्थस्तस्य जातिगुणविशिष्ट नीलोत्पलशब्दाभ्या द्रव्यमभिधीयते, जातिगुणौ द्रव्ये वर्तेते न पुनरनीलानुत्पलव्युदासौ, तस्मात् समानाधिकरणार्थो नास्तीति । – [न्यायवा॰ पृ॰ ३३१ । न्यायम॰ पृ॰ ३०५ ।] सामानाधिकरण्यञ्च न भिन्नत्वादपोहयोः । अर्थतश्चैतदिष्येत कीदृश्याधेयता तयो ॥ न चासाधारण वस्तु गम्यतेऽन्यच्च नास्ति ते । अगम्यमानमेकार्थ्य शब्दयो क्वोपयुज्यते ॥ – [मी॰ श्लो॰ अपोह॰ श्लो॰ ११८–१९ । अनेकान्तजय॰ पृ॰ ४० । प्रमेयक॰ पृ॰ ४३६ ।] ↩︎
-
धर्मी भावात्मक, अभावात्मकौ च अनीलानुत्पलव्यवच्छेदौ । ↩︎
-
नीलमुत्पलमिति शब्दौ । ↩︎
-
“–विषयो घट–” [आ॰] । ↩︎
-
सामानाधिकरण्य हि भिन्नप्रवृत्तिनिमित्तयो शब्दयो एकत्रार्थे वृत्ति – [आ॰ टि॰] । ↩︎
-
“–शब्दप्रवृत्तिः” [ब॰] , [श्र॰] । ↩︎
-
“–वास्य वर्त्त–” [आ॰] । ↩︎
-
सामान्यविशेषात्मनोऽर्थस्य । ↩︎
-
सामान्यविशेषात्मके । ↩︎
-
“सकेतवैफ–” [श्र॰] । ↩︎
-
सौगतकल्पितस्य । ↩︎
-
[पृ॰ ३७९ ।] ↩︎
-
क्षणिकस्वलक्षणे । ↩︎
-
सङ्केतकरणम् । ↩︎
-
[पृ॰ ५५२ प॰ ९ ।] ↩︎
-
ऊहाख्यप्रमाणायत्तत्वात् । ↩︎
-
[पृ॰ ५५३ प॰ ४ ।] ↩︎
-
सङ्केतकारिणि । ↩︎
-
“प्रतिबन्धस्तेषा–” [श्र॰] । ↩︎
-
जैना । तुलना–न हि वयं सर्वशब्दाना प्रामाण्यं प्रतिपद्येमहि किं तर्हि सुनिश्चिताप्तप्रणेतृकाणामेव । तन्न प्रामाण्य प्रति प्रत्यक्षशब्दयोर्विशेषमुपलभामहे । – [न्यायावता॰ टी॰ पृ॰ ६ ।] ↩︎
-
अर्थाविनाभावित्वम् । ↩︎
-
अनाप्तप्रणेतृकाणाम् । ↩︎
-
जलज्ञानस्य । ↩︎
-
तुलना– न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदात् विषयस्वभावाभेदाभाव, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् । यथा हि सकृदेकस्मिन्नर्थ पादपादौ उपनिबद्धदर्शनयो प्रत्यासन्नविप्रकृष्टपुरुषयोर्ज्ञानाभ्या विषयीकृते स्पष्टास्पष्टप्रतिभासभेदान्न स्वभावभेद पादपस्य तस्यैकत्वाव्यतिक्रमात्, तथैव ग्राहकयोः प्रत्यक्षस्मृतिप्रतिभासयोः भेदेऽपि स्पष्टमन्दतया न तद्विषयस्य भेद स्वलक्षणस्यैकस्वभावत्वाभ्युपगमात् । – [अष्टश॰, अष्टसह॰ पृ॰ १२४ ।] करणभेदेन प्रतिपत्त्योर्भेदात् । अन्धस्य हि शब्दाद्रूपविषय विज्ञानमुत्पद्यते न तु चाक्षुषमिति । यस्य चापरोक्ष चाक्षुष विज्ञानमस्ति असावनन्ध । – [प्रश॰ व्यो॰ पृ॰ ५८६ ।] स्पष्टास्पष्टाकारतयाऽर्थप्रतिभासभेदश्च सामग्रीभेदान्न विरुद्ध्यते दूरासन्नार्थोपनिबद्धेन्द्रियप्रतिभासवत् । – [प्रमेयक॰ पृ॰ ४४६ । सन्मति॰ टी॰ पृ॰ २५९ । स्या॰ र॰ पृ॰ ७१५ ।] ↩︎
-
प्रतिभासभेदस्य । ↩︎
-
[पृ॰ ५५३ पं॰ १० ।] ↩︎
-
[पृ॰ ५५६ प॰ १५ ।] ↩︎
-
बुद्धिगतप्रतिबिम्बस्य । ↩︎
-
इयता कार्य वाच्यं कारण वाचकमिति सिद्धम् – [आ॰ टि॰] । ↩︎
-
बुद्धौ प्रतिबिम्बम् । ↩︎
-
“–ज्ञानप्रतिभा–” [श्र॰] , [ब॰] । ↩︎
-
शब्द निर्विकल्पकप्रत्यक्षस्य कारणम्, “नाकारण विषय” इत्यभ्युपगमात् । तुलना–यतो यदि कार्यकारणभाव एव वाच्यवाचकभाव स्यात्, तदा श्रोत्रज्ञाने प्रतिभासमान शब्द स्वप्रतिभासस्य भवत्येव कारणमिति तस्याप्यसौ वाचकः स्यात् । यथा च विकल्पस्य शब्द कारणम् एव परम्परया स्वलक्षणमपि अतस्तदपि वाचकं स्यात् – [रत्नाकराव॰ ४ । ११ ।] ↩︎
-
स्वप्रतिभासस्य – [आ॰ टि॰] । ↩︎
-
कारण यतो भवन्मतेन वाचकम् । ↩︎
-
शब्दस्वलक्षणाच्छब्दग्राहिनिर्विकल्पक तस्माच्च सविकल्पकम्, अथवा स्वलक्षणान्निर्विकल्पक तस्माच्च सबिकल्पकमिति । ↩︎
-
स्वलक्षणमपि कारणत्वाद्वाचक स्यात् । ↩︎
-
स्वलक्षणस्यावाचकत्वे प्रसक्ते । ↩︎
-
शाब्दे बोधे सामान्यविशेषात्मकतयैव अर्थ प्रतिभाति तत्र तथैव निर्बाधबोधप्रतीतिविषयत्वात् । ↩︎
-
“शब्दप्रत्यये” [श्र॰] , [ब॰] । ↩︎
-
तुलना–अनेकमेकञ्च पदस्य वाच्यम् – [बृहत्स्व॰ श्लो॰ ४४ ।] अनेकमेकात्मकमेव वाच्य द्वयात्मक वाचकमप्यवश्यम् । – [अन्ययो॰ श्लो॰ १४ ।] ↩︎
-
आकृतिस्तु क्रियार्थत्वात् – [जैमिनिसू॰ १ । ३ । ३३ ।–] तु शब्द पक्षान्तर व्यावर्त्तयति । आकृति शब्दार्थ – [शाबरभा॰ १ । ३ । ३३ ।] आकृतिशब्देन जातिरेवाभिप्रेता मीमासकै, तथाहि–जातिमेवाकृतिं प्राहु व्यक्तिराक्रियते यया । सामान्य तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥ ३ ॥ तन्निमित्तञ्च यत्किञ्चित्सामान्य शब्दगोचरम् ॥ ४ ॥ सामान्यमाकृतिर्जाति शक्तिर्वा सोऽभिधीयताम् ॥ १८ ॥ यद्येकमेव वस्त्वनेकाकार तत्तर्हि तादृगेव शब्दोऽभिदधत् सामान्यमात्राभिधायी न स्यादत आह–न चेति । न च तत्तादृश कश्चिच्छब्द शक्नोति भाषितुम् ॥ ६३ ॥ सामान्याशानपोद्धृत्य पद सर्वं प्रवर्तते । – [मी॰ श्लो॰ आकृति॰ श्लो॰ ३-४, १८, ६३ ।] पूर्वं सामान्यविज्ञानात् चित्रबुद्धेरनुद्भवात् । गामानयेति वाक्याच्च यथारुचि परिग्रहात् ॥ गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्य प्रतीयते, तदाकारज्ञानोत्पत्ते पश्चाद् व्यक्तय प्रतीयन्ते, अतश्चाकृतिप्रत्ययस्य निमित्तान्तराभावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वात् आकृति शब्दार्थ इति विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुस्ततस्तासा चित्रखण्डमुण्डादिविशेषस्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तु उत्पद्यते । तेनाप्याकृतिः शब्दार्थ इति निश्चीयते । गामानयेति चोदिते अर्थप्रकरणाभावे या काञ्चित् सामान्ययुक्ता व्यक्तिमानयति न सर्वा न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्व ततः सर्वासा युगपदभिहितत्वादशेषानयन स्यात् । या वाऽभिधेया सैवैका आनीयेत, यतस्त्वविशेषण जातिमात्रयुक्ता आनीयते तेनापि सामान्यस्य पदार्थत्व विज्ञायते । – [तन्त्रवा॰ १ । ३ । ३३ ।] आनन्न्यव्यभिचाराभ्या शक्त्यनेकत्वदोषत । सन्देहाच्चरमज्ञानाच्चित्रबुद्धेरभावत ॥ अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतित । आकृते प्रथमज्ञानात्तस्या एवाभिधेयता ॥ व्यक्त्याकृत्योरभेदाच्च व्यवहारोपयोगिता । लिङ्गसख्यादिसम्बन्ध सामानाधिकरण्यधी ॥ सर्वं समञ्जस ह्येतद्वस्त्वनेकान्तवादिन । – [शास्त्रदी॰ १ । ३ । ३५ ।] सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्या सर्वे शब्दा व्यवस्थिता ॥– [वाक्यप॰ ३ । ३३ ।] ↩︎
-
शब्दप्रभव – [आ॰ टि॰] । ↩︎
-
“–विषयतया” [ब॰] । ↩︎
-
“तस्य प्रति–” [आ॰] । ↩︎
-
सामान्यस्य – [आ॰ टि॰] । ↩︎
-
व्यक्तिविशेषे । ↩︎
-
यावदनन्तास्वपि व्यक्तिषु । ↩︎
-
“–यतोपपद्यते” [ब॰] । ↩︎
-
शब्दविषया इति सम्बन्ध । ↩︎
-
न ह्यनन्तासु व्यक्तिषु सज्ञित्व शक्यतेऽवगन्तुम् ।– शास्त्रदी॰ १ । ३ । ३५ । ↩︎
-
सङ्केत – [आ॰ टि॰] । ↩︎
-
“सह क्रमेण” [ब॰] । ↩︎
-
अशेषव्यक्त्युपलम्भे हि सर्वज्ञत्वमेव स्यादिति भाव । ↩︎
-
मीमासको हि सर्वज्ञं न मनुते – [आ॰ टि॰] । ↩︎
-
तस्य व्यक्तीनामुपलम्भ । ↩︎
-
विशेषेषु – [आ॰ टि॰] । ↩︎
-
“–च्यमभिधा–” [श्र॰] । ↩︎
-
अभिधानाभिधेयप्रतिपत्तिनियमलक्षणसङ्केताभावे – [आ॰ टि॰] । ↩︎
-
शाब्दव्यवहार – [आ॰ टि॰] । ↩︎
-
सामान्यमेव – [आ॰ टि॰] । ↩︎
-
“शब्दार्थः प्रसिद्ध” [श्र॰] । ↩︎
-
“–लक्षणप्रतिप–” [ब॰] । “–लक्षणविशेषणप्र–” [श्र॰] । ↩︎
-
उद्धृतोऽयम् – [प्रश॰ व्यो॰ पृ॰ १९१ । काव्यप्र॰ पृ॰ ४४ । मुक्ताव॰ दिन॰ पृ॰ ३७३ । काव्यानु॰ प॰ २५ ।] अभिधा पदशक्तिः, विशेष्य न गच्छेत् न प्राप्नोति । कुत इत्याशङ्कायामाह–क्षीणेति । क्षीणशक्तिर्विशेषण इत्यनन्तरं सदिति पूरणीयम् । तथा च यतो विशेषण प्राप्य पदशक्ति क्षीणशक्ति क्षीणसामर्थ्या भवत्यतो विशेष्य नाभिधा गच्छेत् न प्राप्नुयादिति पर्यवसितार्थ । – [रामरु॰ पृ॰ ३७३ ।] ↩︎
-
स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते । – [काव्यप्र॰ पृ॰ ३९ ।] ↩︎
-
“–रभिधानं वि–” [ब॰] । ↩︎
-
शब्दात् – [आ॰ टि॰] । ↩︎
-
सामान्यमात्रस्य – [आ॰ टि॰] । ↩︎
-
सामान्यप्रतिपत्त्यन्यथानुपपत्त्या । न ह्यनमिधाय गोत्वमुपलक्षण गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते । तच्चेदभिहितं सिद्धमाकृतिशब्दार्थत्वमिति । – [तन्त्रवा॰ १ । ३ । ३३ ।] न ह्यनभिधाय जातिं तज्जातीयत्वेन रूपेण व्यक्तिरभिधातु शक्यते । ततश्च विशिष्टाभिधानमेव वाचोयुक्त्यन्तरेणापन्नं न शुद्धाभिधानम् । विशिष्टाभिधाने च पूर्वतर विशेषणमभिधातव्यम् । तदभिधाने च तत एव अत्यन्ताविनाभूतव्यक्तिप्रतिपत्तिसिद्धे न तत्र अभिधानशक्तिकल्पनावसरः । – [शास्त्रदी॰ १ । ३ । ३५ ।] ↩︎
-
“लक्षणाया” [श्र॰] । ↩︎
-
आह च–तेन तल्लक्षितव्यक्ते क्रियासम्बन्धचोदना । जातिव्यक्त्योरभेदो वा वाक्यार्थेषु विवक्षित । – [शास्त्रदी॰ १ । ३ । ३५ ।] “लक्षणाया स्वरूपम्–मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणाऽऽरोपिता क्रिया ॥ – [काव्यप्र॰ पृ॰ ४० । सा॰ द॰ १ । ९ ।] वाच्यस्यार्थस्य वाक्यार्थे सम्बन्धानुपपत्तित । तत्सम्बन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते ॥ – [प्रक॰ वाक्यार्थ॰ पृ॰ १३ ।] ↩︎
-
“तदुक्तम्” [ब॰] , [श्र॰] । ↩︎
-
अभिधेयाविनाभूते प्रवृत्तिर्लक्षणेप्यते – [तन्त्रवा॰ १ । ४ । २३ ।] उद्धृतोऽयम्– “अभिधेयाविना” – [काव्यप्र॰ पृ॰ ५० ।] “प्रवृत्तिर्लक्षणोच्यते” – [तीता॰ पृ॰ २०४ । पदार्थदी॰ पृ॰ ३१ ।] ↩︎
-
सामान्यलक्षित । ↩︎
-
यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा सा लक्षितलक्षणेत्युच्यते । यथा द्विरेफादिपदे रेफद्वयसम्बन्धो भ्रमरपदे ज्ञायते, भ्रमरपदस्य च सम्बन्धो भ्रमरे ज्ञायते तत्र लक्षितलक्षणा । – [मुक्ता॰ पृ॰ ३८९ ।] ↩︎
-
[पृ॰ ५६६ प॰ ७ ।] ↩︎
-
सामान्यवति विशेषे – [आ॰ टि॰] । ↩︎
-
“प्रतिपन्ने न” [ब॰] । ↩︎
-
जातिमात्रे हि सङ्केताद् व्यक्तेर्भान सुदुष्करम् । – [शब्दश॰ का॰ १९ ।] ↩︎
-
तुलना–तत्र जातिरनर्थक्रियायोग्या । नहि जातिर्वाहदोहादौ क्वचिदपि प्रत्युपस्थिता । न वा तादृशप्रकरणाभावे लोकव्यवहारेषु शब्दप्रयोग । न जातिर्वाहदोहादिक कर्तुं समर्था । ततश्च बाहदोहाद्यर्थिनो जातिचोदना निष्फलेति न तदर्थ शब्दप्रयोग । यापि स्वप्रतिपत्तिलक्षणाऽर्थक्रिया जातेरुपवर्ण्यते, न तदर्थम्पुरुष प्रवर्तते शब्दप्रयोगादेव तस्या सिद्धत्वात् । जातिमात्रप्रतिपत्त्यर्थं शब्दप्रयोगो भविष्यतीति चेदत आह–नवेत्यादि । तादृशमिति वाहदोहादिप्रकरण निष्फलस्य शब्दप्रयोगस्योपेक्षणीयत्वादित्युक्तत्वात् । जातौ च वाच्याया सत्या गामानयेत्यत्र वाक्ये न वाक्यार्थप्रतीति स्यात् गोत्वस्य क्रियात्वेऽन्वयाभावात् । – [प्रमाणवा॰ स्ववृ॰, टी॰ १ । ९५ ।] न खलु सर्वात्मना सामान्य वाच्य तत्प्रतिपत्ते अर्थक्रिया प्रत्यनुपयोगात् । न हि गोत्व वाहदोहादावुपयुज्यते । – [अष्टश॰, अष्टसह॰ पृ॰ १३९ । तत्त्वार्थश्लो॰ पृ॰ १०२ ।] ↩︎
-
[पृ॰ ५६७ प॰ १ ।] ↩︎
-
[पृ॰ ५५० पं॰ ११ ।] ↩︎
-
[पृ॰ ५६४ प॰ । १४] ↩︎
-
“–मित्युच्यते” [ब॰] । ↩︎
-
[पृ॰ ५६७ पं॰ ३ ।] ↩︎
-
उक्तविधिना उक्तप्रमाणेन ऊहाख्येन – [आ॰ टि॰] । ↩︎
-
[पृ॰ ५६७ प॰ ९ ।] ↩︎
-
तुलना–प्रत्यक्षे तावद् द्वयोरपि विशेषणविशेष्ययोरिन्द्रियविषयत्व सामान्ये हि सयुक्तसमवायादिन्द्रिय प्रवर्तमान विशेषणवद्विशेष्यमपि विषयीकरोति । न हि सामान्य प्रत्यक्ष विशेषोऽनुमेय इति व्यवहारः । एव गुणत्वग्राहिणीन्द्रिये गुणिनोऽनुमेयत्व स्यात्, नचैवमस्ति । तस्माद् विशेषपर्यन्त प्रत्यक्ष तथा पदमपि तत्तुल्यविषय न तु सामान्यमात्रनिष्ठमिति युक्तम् यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते । तथैव व्यक्तिपर्यन्त पदव्यापार इष्यताम् । – [न्यायमं॰ पृ॰ ३२४–२५ ।] ↩︎
-
दण्ड एव विशेषण पुरुष एव च विशेष्यमिति । ↩︎
-
एकत्र ज्ञाने प्रतिभासमानेऽपि । ↩︎
-
दण्डयुक्तोऽयमिति । ↩︎
-
शाब्दे ज्ञाने । ↩︎
-
“युगपत्तदुभयस्य” [ब॰] , [श्र॰] । ↩︎
-
तुलना– अथ गोशब्दश्रवणाच्छाबलेयादिविशेषाप्रतिपत्तेर्न विशेष शब्दार्थ, सत्यम्, किं तर्हि ? सामान्ययुक्तोऽर्थ प्रतीयते न शाबलेयादिबिशेष, स च शाबलेयादिशब्देभ्य एव प्रतीयत इति, न चैतावता सामान्यमेव शब्दार्थ, प्रधानोपसर्जनभावेनोभयोः प्रतिभासनात् । तथा गामानयेत्यादिप्रयोगेषु सामान्यवतोऽर्थस्य आनयनादिकृत्या सम्बन्धात् । – [प्रश॰ व्यो॰ पृ॰ १९२ ।] ↩︎
-
शाबलेयादिरूपस्य विशेषस्य अप्रतिभासनेऽपि । ↩︎
-
“अशाबले–” [श्र॰] । ↩︎
-
गोत्वविशिष्टा । ↩︎
-
तुलना–व्यक्त्याकृतिजातयस्तु पदार्थ । तुशब्दो विशेषणार्थ कि विशिष्यते । प्रधानाङ्गभावस्यानियमेन पदार्थत्वमिति । यदा हि भेदविवक्षा विशेषावगतिश्च तदा व्यक्तिः प्रधानम् अङ्ग तु जात्याकृती, यदा तु भदोऽविवक्षित सामान्यगतिश्च तदा जाति प्रधानम् अङ्ग तु व्यक्त्याकृती । तदेतद् बहुल प्रयोगेषु । आकृतेस्तु प्रधानभाव उत्प्रेक्षितव्य । – [न्यायभा॰ २ । २ ६७ । न्यायवा॰ पृ॰ ३२९ । न्यायम॰ पृ॰ ३२५ ।] ↩︎
-
तुलना–अन्येषु तु प्रयोगेषु गा देहीत्येवमादिषु । तद्वतोऽर्थक्रियायोगात्तस्यैबाहु पदार्थताम् ॥ – [न्यायम॰ पृ॰ ३२३ ।] ↩︎
-
सामान्यविशेषवान् – [आ॰ टि॰] । ↩︎
-
[पृ॰ ५६७ प॰ १२ ।] ↩︎
-
“गच्छेदि तदप्य–” [आ॰] । ↩︎
-
तुलना–प्रथम जातिमात्रमवबोद्ध्यापर्यवसानादनन्तर विशेषमवबोधन्ति, किं वाऽन्तर्भावितविशेषामेव जातिम् ? नाद्य, पदबुद्ध्यो विरम्य व्यापाराभावात् । – [चित्सु॰ पृ॰ २६३ ।] शब्दबुद्धिकर्मणा विरम्य व्यापाराभाव इति वादिभिरेव । – [सा॰ द॰ परि॰ ५ ।] ↩︎
-
शब्दस्य । तुलना–ननूक्त क्षीणशक्तिर्विशेषणेति विशेष्य नाभिदध्यात् इति, तावच्छक्ते कार्यविषयत्वात् । कार्यञ्च विशेषणप्रतिपत्तिवत् विशेष्यप्रतिपत्तिलक्षणमुपलभ्यमान शक्तेर्व्यवस्थापकम् । अथ कार्यस्यैवाभाव ब्रूयात्, स चैव ब्रुवाण स्वसवेदनमपि बाधते, विशेष्यप्रतिपत्ते सवेदनात् । – [प्रश॰ व्यो॰ पृ॰ १९२ ।] ↩︎
-
विशेषणविशेष्योभयप्रतिपत्तौ । ↩︎
-
मीमासकस्यापि । तुलना– समानञ्चैतद् उपलभ्यमानस्य शब्दस्य अर्थप्रतिपादकत्वाभ्युपगमात्, स्वात्मप्रतिपत्तौ च क्षीणत्वात् सामान्यप्रतिपादकत्व न स्यात् । – [प्रश॰ व्यो॰ पृ॰ १९२ ।] ↩︎
-
सामान्यप्रतिपत्तौ शब्दस्य । ↩︎
-
शक्तिप्रक्षय । ↩︎
-
[पृ॰ ५६७ पं॰ १६ ।] ↩︎
-
तुलना–व्यक्तेरशक्यचोदनत्वात् लक्षितलक्षणया जातिरुच्यते इति चेत्, अशब्दचोदिते सम्बन्धे सत्यपि कथ प्रवर्तेत ? न हि कश्चित् दण्ड छिन्धीत्युक्ते दण्डिन छिनत्ति । लक्षितलक्षणेत्यादि पर । सत्य न सामान्यमर्थक्रियाकारि किन्तु व्यक्तिरेव, केवल व्यक्तेरशक्यचोदनत्वात् कारणात् सामान्ये नियुक्त शब्द सामान्य लक्षयति । तेन सामान्येन शब्दलक्षितेन सम्बन्धाद् व्यक्तिरपि लक्ष्यत इति, न हि गोशब्दादुच्चरिताद् गोत्व प्रतीयते अपि तु गौरेवावसीयते । न नामैव तथाप्युच्यते । अशब्दचोदितेत्यादि । यदि नाम जातितद्वतोस्सम्बन्ध तथापि अशब्दचोदिते व्यक्तिविशेषे कथ प्रवर्तते ? नैव । दण्डदण्डिनोस्सत्यपि सम्बन्धे न हि कश्चित्प्रेक्षापूर्वकारी दण्ड छिन्धि इत्युक्ते दण्डिन छिनत्ति अशब्दचोदितन्वात् । तथा जातौ चोदिताया व्यक्तौ प्रवृत्तिर्न युक्तेत्यर्थ । – [प्रमाणवा॰ स्ववृ॰, टी॰ १ । ९५ ।] लक्षितलक्षणया वृत्तिरतादात्म्ये न भवेत् सम्बन्धान्तरासिद्धे कार्मुकादिवत् । – [अष्टश॰, अष्टसह॰ पृ॰ १३९ । तत्त्वार्थश्लो॰ पृ॰ १०२ ।] किञ्च यदि नाम शब्दाज्जाति प्रतिपन्ना व्यक्ते किमायात येनासौ ता गमयति । – [प्रमेयक॰ पृ॰ ४१२ ।] ↩︎
-
“शब्दसामा–” [ब॰] । ↩︎
-
सामान्य ता व्यक्तिम् । ↩︎
-
शबदात् । ↩︎
-
व्यक्ते । ↩︎
-
द्रव्ययोरेव संयोगात्, सयोगस्य गुणत्वेन द्रव्याश्रितत्वात् । ↩︎
-
न हि मीमासका समवायं स्वीकुर्वन्ति । ↩︎
-
अपसिद्धान्तप्रसङ्गादेव, नहि शब्दार्थयो परस्परमुत्पाद्योत्पादकभाव । ↩︎
-
“–विषयोस्ता–” [आ॰] । ↩︎
-
“तादात्म्यापन्नविशेषयोः” [श्र॰] । ↩︎
-
सामान्यव्यक्त्यो । तुलना–सम्बन्धस्तयोस्तदा प्रतीयते पूर्वं वा ? – [प्रमेयक॰ पृ॰ ४१२ ।] ↩︎
-
शब्दोच्चारणसमये । ↩︎
-
तादात्म्यलक्षणसम्बन्धप्रतीति । ↩︎
-
इन्द्रियार्थसन्निकर्षोत्पन्न । ↩︎
-
सामान्यव्यक्त्योस्तादात्म्यस्य प्रतीतौ । ↩︎
-
न हि व्यक्त्यनधिगतावपि तन्निष्ठ सम्बन्धो ग्रहीतुं शक्य इति । ↩︎
-
पूर्वम् । ↩︎
-
“–तावता सर्वदा” [श्र॰] । ↩︎
-
सम्बन्धेन । ↩︎
-
“क्वचित्कतादा–” [आ॰] । ↩︎
-
“सर्वदा भाव” [ब॰] । ↩︎
-
शुक्लतादात्म्यम् । ↩︎
-
“तद्भावप्र–” [आ॰] , [श्र॰] । ↩︎
-
जाते यद् व्यक्तिनिष्ठताख्य स्वरूपमुक्तं तस्य अभावप्रसगात् । ↩︎
-
व्यक्त्यन्तराले । ↩︎
-
व्यक्तिनिष्ठताख्यस्य स्वरूपस्य असभाव्यमानत्वात् । व्यक्त्यभावे हि न व्यक्तिनिष्ठताख्य स्वरूपं सिद्ध्यति, अतश्च स्वरूपाभावात् स्वरूपवत सामान्यस्याप्यभाव । ↩︎
-
“–स्य सभवात्” [श्र॰] । ↩︎
-
“–सम्भवन्” [आ॰] । ↩︎
-
व्यक्तिनिष्ठताख्यस्वरूपस्वीकारे । ↩︎
-
व्यक्तिनिष्ठ । ↩︎
-
जाति – [आ॰ टि॰] । तुलना–किञ्च, सर्वदा जातिर्व्यक्तिनिष्ठेति प्रत्यक्षेण प्रतीयते अनुमानेन वा ? – [प्रमेयक॰ पृ॰ ४१२ ।] ↩︎
-
अनन्ताया । ↩︎
-
मीमासकादिना । ↩︎
-
प्रत्यक्षाभावे । ↩︎
-
अनुमानस्यापि । ↩︎
-
जातेर्व्यक्तिनिष्ठत्वबोधने । ↩︎
-
“–वात् तत” [ब॰] । ↩︎
-
प्रत्यक्षानुमानयो । ↩︎
-
“–रात्तसिद्धी” [आ॰] । ↩︎
-
सामान्यसिद्धौ । ↩︎
-
भूयोदर्शनादिना । ↩︎
-
यदेव हि शब्दार्थसम्बन्धग्रहणकाले सामान्यं गृहीत तदेव शब्दोच्चारणकालेऽपि – [आ॰ टि॰] । ↩︎
-
विशिष्टव्यक्तावेव । ↩︎
-
व्यक्ते – [आ॰ टि॰] । ↩︎
-
गोत्वसामान्यमात्रस्यैव प्रतिपन्नत्वात् – [आ॰ टि॰] । ↩︎
-
शब्दाद् गोत्वप्रतीतावपि न शावलेयादिषु प्रवृत्ति तत्प्रतीतावपि तेषा सर्वथाऽप्रतिपन्नत्वात् । ↩︎
-
“प्रतीयत एव व्य–” [श्र॰] । ↩︎
-
अर्थापत्ति – [आ॰ टि॰] । ↩︎
-
शब्देन हि सामान्यं गृहीत विशेषस्त्वर्थापत्त्या, किं लक्षणया ? – [आ॰ टि॰] । ↩︎
-
सामान्यप्रतिपत्ति । ↩︎
-
“–सहकारि व्य–” [ब॰] , [श्र॰] । ↩︎
-
“तदप्यसा–” [श्र॰] , [ब॰] । ↩︎
-
सङ्केतस्मरण । ↩︎
-
अर्थापत्तेरनुमानाद्वा । ↩︎
-
“प्रतिक्षेप्तव्यम्” [ब॰] , [श्र॰] । ↩︎
-
“तत्रैव प्रवृ–” [ब॰] , [श्र॰] । ↩︎
-
“–हेतुत्वसिद्धिरिति तृतीय–” [ब॰] । ↩︎
-
“तस्याञ्च सत्यां तत्रैव तस्य प्रवृत्तिहेतुत्वसिद्धिरिति” [आ॰] । ↩︎
-
“अस्येदमिति प्रतीतिकृतं वा” इति तृतीये विकल्पे । ↩︎
-
“–मतमपास्तम्” [ब॰] । ↩︎
-
विधे । ↩︎
-
अनुष्ठेये हि विषये विधि पुसा प्रवर्त्तक । – [मी॰ श्लो॰ वाक्या॰ श्लो॰ २७४ ।] तत्राज्ञातार्थज्ञापको वेदभागो विधि । – [अर्थसं॰ पृ॰ २९ ।] प्रवर्तकचिकीर्षाया हेतुधीविषयो विधि । – [शब्दश॰ का॰ १०१ ।] यो हि विध्यर्थेन लिङा लोटा कृत्यैर्वाऽपूर्वोपदेश कियते स विधि । – [युक्तिदी॰ पृ॰ २० ।] ↩︎
-
“विधिर्लक्ष–” [ब॰] । ↩︎
-
ननु चाहु विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधि ॥ – [न्यायमं॰ पृ॰ ३४० ।] ↩︎
-
भाट्टा । ↩︎
-
प्राभाकरा । ↩︎
-
“प्रेषणादय” [श्र॰] । ↩︎
-
परित्यक्तपुरुषादिविशेष – [आ॰ टि॰] । ↩︎
-
“इत्यपरे” [ब॰] । ↩︎
-
“इत्येके तत्र” [श्र॰] [ब॰] । ↩︎
-
“–वधारयति तौ” [श्र॰] । ↩︎
-
“क्रिययो प्र–” [ब॰] । ↩︎
-
“–पक्षोपि” [ब॰] । ↩︎
-
“साध्वस्तु–” [आ॰] । ↩︎
-
पचमी – [आ॰ टि॰] । पञ्चमो लकार इत्यर्थ । ↩︎
-
“लिट्लोट् तव्य–” [आ॰] , [ब॰] । ↩︎
-
लोट् सप्तमी – [आ॰ टि॰] । सप्तमो लकार इत्यर्थ । ↩︎
-
मण्डनमिश्रादय । ↩︎
-
प्रमाणत्वादनियमात्प्रवृत्ते सविदाश्रयात् । समभिव्याहृते शब्दो न विधि कार्यकल्पनात् ॥ – [विधिवि॰ पृ॰ ५ ।] तत्र शब्द स्वरूपेण वायुवच्चेत्प्रवर्त्तक । प्रमाणत्व विहन्येत नियमाच्च प्रवर्तयेत् ॥ – [न्यायसु॰ पृ॰ २६ ।] ↩︎
-
प्रमाण हि शब्द प्रतिज्ञायते, बोधकञ्च प्रमाणम्, तत्र प्रवृत्तिहेतु कञ्चनार्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणतामश्नुते, स्वयमेव तु प्रवृत्त कारकस्ता प्रमाणतामपजह्यात् । न हि कारको हेतु प्रमाणमपि तु ज्ञापक ।–प्रमाण हि शब्द प्रतिज्ञायते चोदनालक्षणोऽर्थो धर्म इति । बोधकञ्च प्रमाणम् अबाधितानधिगतासन्दिग्धार्थप्रमाजनकम् ।स्वयमेव तु प्रवृत्तेरप्रमाया कारक ता प्रमाणतामप्रजह्यात् । नन्वप्रमाया अपि प्रवृत्ते कारक कस्मान्न प्रमाणमत आह–नहि कारको हेतु प्रमाणम् । माभूद् बीजादीनामङ्कुरादिकारकाणा प्रामाण्यम् । किं तर्हि प्रमाणमित्याह–अपि तु ज्ञापक, इन्द्रियादौ तथा भावात् । – [विधिवि॰, टी॰ पृ॰ ५ ।] अत एव शब्दोपि न स्वरूपमात्रेण प्रवर्त्तक वाय्वादितुल्यत्वप्रसङ्गात् । यदि पवन इव पिशाच इव कुनृप इव शब्द प्रवर्त्तको भवेत् अनवगतशब्दार्थसम्बन्धोऽपि श्रवणपरवश प्रवर्त्तेत, न चैवमस्ति । तस्मादर्थप्रतीतिमुपजनयत शब्दस्य प्रवर्त्तकत्वम् । न च नाम लिङादिरेव शब्द प्रवर्तकाभिधानद्वारेण प्रवर्तको भवितुमर्हति । शब्दस्य च ज्ञापकत्वाच्चक्षुरादिकारकवैलक्षण्ये सत्यपि प्रतीतिजन्मनि कारणत्वमपरिहार्यम् । कारण च कारकम्, कारकञ्च न निर्व्यापार स्वकार्यनिर्वृतिक्षममिति व्यापारस्तस्यावश्यम्भावी – [न्यायम॰ पृ॰ ३४२ ।] ↩︎
-
“लिङादि–” [आ॰] , [ब॰] । ↩︎
-
प्रवृत्तिकारकाशेऽप्रामाण्यम्, बोधकारकाशे प्रामाण्यमिति– [आ॰ टि॰] । ↩︎
-
“परकारणा–” [आ॰] , [श्र॰] । ↩︎
-
किन्तु विशिष्टबोधकत्वेनैव प्रामाण्यम् – [आ॰ टि॰] । विषयावबोधनान्न दोष इति चेन्न, तन्मात्रस्यान्यत्रापि तुल्यत्वात्; चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमानर्थक्यात् । निराकरोति, नेति । कुत ? तन्मात्रस्य अन्यत्रापि वर्तमानापदेशेऽपि चैत्र पचतीत्यादौ तुल्यत्वात् । न हि तत्र भावना नावगम्यते । अस्तु तुल्यता, का नो हानिरित्यत आह–चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमानर्थक्यात् । प्रवर्त्तकत्व चोदनात्व प्रवृत्तिहेतु कञ्चनार्थातिशयमवगमयन् अनेन रूपेण प्रामाण्यमश्नुते न भावनामात्रवचनत्वेन तस्य अन्यत्रापि तुल्यत्वात् । तस्माद्येन रूपेण प्रामाण्य न तेन चोदना, येन चोदना न तेन प्रामाण्य तस्य प्रवृत्तिं प्रति कारकत्वात् । – [विधिवि॰, टी॰ पृ॰ ६ ।] ↩︎
-
“–कलिङादि–” [ब॰] । ↩︎
-
वर्त्तमान – [आ॰ टि॰] । ↩︎
-
चैत्र पचतीत्यादिषु । ↩︎
-
प्रामाण्यप्राप्तेः । ↩︎
-
“लिङाद्यन्त–” [आ॰] , [ब॰] । ↩︎
-
अग्निहोत्र जुहुयादित्यादे । ↩︎
-
शब्दस्वातन्त्र्ये च नियोगतोऽवश्यं प्रवृत्ति स्यात्, तथा च अकुर्वन् विहित कर्मेति निर्विषय स्यात् । न हि तदानी बलवदनिलसलिलौघनुद्यमानस्येवेच्छापि तन्त्रं प्रवृत्तिं प्रति पुरुषस्य । – [विधिवि॰ पृ॰ ६ ।] ↩︎
-
“–विक्षोभस्यैव” [ब॰] , [श्र॰] , । ↩︎
-
शब्दवशादनिच्छापूर्विकाया प्रवृत्तौ । ↩︎
-
“हठादिव” [श्र॰] । ↩︎
-
“भवत्यां” [ब॰] , [श्र॰] । ↩︎
-
“–बन्धनं प्रा–” [ब॰] । ↩︎
-
पुरुषस्वातन्त्र्ये सत्येव विहितस्य सन्ध्यादे अकरणात् प्रायश्चित्त भवेत्, यदा तु पुरुषस्य प्रवृत्तौ स्वतन्त्र्यमेव नास्ति तदा कथं तदकरणेन प्रायश्चित्तभाक्त्वम् । ↩︎
-
“–नस्यानि–” [श्र॰] । ↩︎
-
व्याख्या– प्रसक्तश्चेन्द्रियार्थेषुनित्य यद्विहित सन्ध्योपासनादि नैमित्तिकञ्च शवस्पर्शादौ स्नानादि तदकुर्वन्, तथा प्रतिषिद्ध हिंसाद्यनुतिष्ठन् अविहितनिषिद्धेष्वत्यन्तासक्ति कुर्वन्नरो मनुष्यजातिमात्र प्रायश्चित्तमर्हति । – [मनुस्मृ॰ मन्वर्थ॰ ११ । ४४ ।] ↩︎
-
ज्ञापकश्च स्वरूपकर्मसन्बन्धविषयज्ञानमपेक्षते लिङादिस्वरूपञ्च प्रवृत्ते कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्धविषयसविदोऽपि पुस प्रवृत्तिप्रसङ्ग । – [विधिवि॰ पृ॰ ७ ।] ↩︎
-
“बीजाना” [आ॰] । ↩︎
-
स्वसवेदनापेक्षा । ↩︎
-
विश्वजिदादियज्ञेषु स्वर्गादिफल न श्रुतौ कण्ठोक्तमत तत्र सामान्यरूपेण स्वर्गरूपस्य फलस्य अध्याहार क्रियते । तथा चोक्त “जैमिनिन्यायमालायाम्–” [४ । ३५] नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुते । भाव्यापेक्षाद्विधे कल्प्य फल पुस प्रवृत्तये । द्रष्टव्यम् – [शाबरभा॰, शास्त्रदी॰ ४ । ३ । १०–१७ ।] अपि चाश्रुतफलेषु फलाध्याहार क्वचित्क्रतूपकारकल्पना, श्रुतानामपि स्वर्गादीना फलत्वाध्यवसाय इति सर्व एव महिमा विधे । स शब्दस्य तद्भावेऽनुपपन्न–अपि चाश्रुतफलेषु पिण्डपितृयज्ञादिषु स्वर्गादिफलाध्याहार क्वचित् क्रतूपकारकल्पना समिदादौ, श्रुतानामपि पुरुषविशेषणतया स्वर्गादीना फलत्वाध्यवसाय इति सर्व एष महिमा विधे । स शब्दस्य तद्भावे विधिभावेऽनुपपन्न । – [विधिवि॰, टी॰ पृ॰ १४ ।] ↩︎
-
“–जिदादिषु फलस्य” [आ॰] , [ब॰] । ↩︎
-
अव हि श्रुतिवाक्यविषय अधिकारी चोक्तो न तु फलम्, तच्च स्वर्गकामाख्याधिकारिलक्षणे पदार्थे स्वर्गकामोऽस्येति समासे पूर्वपदतया उपसर्जनीभूत स्वर्ग फलतयाऽध्यवसीयते – [आ॰ टि॰ ।] ↩︎
-
प्रवर्त्तकस्येति चेन्न, तस्यापि पवनादिवर्तिन इवोपपत्ते फलरूप कारक विना । तस्मान्न विधि शब्दस्तद्व्यापारो वा । शकते–प्रवर्तकस्येति चेत्, लिङादय खलु पुसा प्रवर्त्तकाः, न चैते निष्फले प्रवर्तयितु पुरुषमीशते इति तदन्यथानुपपत्त्या फलकल्पनेत्यर्थ । निराकरोति, न । तस्यापि प्रवर्त्तकत्वस्य पवनादिवर्तिन इवोपपत्तेः । नहि यो य प्रवर्तयति स सर्व फलमपेक्षते, पवनादीना प्रवर्तयतामपि तदनपेक्षत्वदर्शनादित्यर्थ । – [विधिवि॰, टी॰ पृ॰ १४ ।] ↩︎
-
भट्टकुमारिलादय । भावनैव च वाक्यार्थ सर्वत्राख्यातवत्तया । अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥ एकयैव तु बुद्ध्यासौ गृह्यते चित्ररूपया । – [मी॰ श्लो॰ पृ॰ १३९ ।] तत्रार्थात्मिकाया भावनाया लिङादिशब्दाना यः पुरुष प्रति प्रयोजकव्यापार सा द्वितीया शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते । – [तन्त्रवा॰ २ । १ । १ ।] ↩︎
-
“मत्रपवचनादि–” [आ॰] , “मत्रपठनादि–” [ब॰] । ↩︎
-
यथा कश्चिन्मत्रेण अभिचारिकादिना पारवश्य नीतोऽनिच्छयापि प्रवर्त्तते – [आ॰ टि॰] । ↩︎
-
“–वान्नत्पूर्वो–” [आ॰] । ↩︎
-
व्याख्या–कर्त्तृव्युत्पत्त्या करणव्युत्पत्त्या वा अभिधाशब्दस्य शब्दपरत्वमङ्गीकृत्य अभिधाया शब्दस्य आत्मनो भावना व्यापार प्रवर्तनासामान्यव्यक्तिभूत लिङादयः प्रवर्तनासामान्यमभिदघाना निर्विशेषसामान्यायोगात् प्रैषादौ च लोकदृष्टस्य विशेषस्य पुरुषधर्मत्वेन अपौरुषेयवेदेऽसम्भवात् प्रवर्तनासामान्यस्य च प्रैषादिप्रवर्तकव्यापारवर्तित्वदर्शनात लिङादेरेव च वेदे प्रवर्तक- न्वावधारणात् लक्षणया गमयन्तीत्यर्थ । – [न्यायसु॰ प॰ ५५९ । जैमिनिन्या॰ पृ॰ ७५ । तन्त्ररह॰ पृ॰ ४७ । मानमेयो॰ पृ॰ २७२ । वैयाकरणभू॰ द॰ पृ॰ १५६ । मुक्ता॰ दिन॰ पृ॰ ५१५ ।] अभिधीयत इति अभिधा प्रवर्तना कर्त्तव्यता वा, सैव च पुरुषप्रवृत्तिं भावयतीति भावना तामाहुरिति । अथवा अभिधाया शब्दस्य भावना अभिधाभावना सैव प्रवर्तना परसमवेतापि शब्देन पुरुष प्रवर्तयता तत्सिद्धये अभिधीयमाना शब्दव्यापारत्वेनोच्यते तामाहरिति । अथवा इष्टसाधनताभिधानममिधा सैव विधान विधिरिति व्युत्पत्त्या विधिरित्यच्यते । सैव च भतिकर्तृत्वं प्रतिपद्यमानाया पुरुषप्रवृत्ते प्रयोजकस्य शब्दस्य व्यापारो भावना तामाहुः । – [न्यायरत्नमा॰ पृ॰ ५३ । मीमांसान्याय॰ पृ॰ १८१ ।] उद्धृतोयम्–“शब्दात्मभावनामाहु” – [अष्टसह॰ पृ॰ १९ । तत्त्वार्थश्लो॰ पृ॰ २६२ । विधिवि॰ पृ॰ १५ । न्यायम॰ पृ॰ ३४३ । बृहदा॰ भा॰ बा॰ टी॰ पृ॰ ५९० ।] “अभिधा भावना” – [न्यायकु॰ प्र॰ ५ । १३ । मीमांसार्थप्र॰ पृ॰ ८ । मीमासान्याय॰ पृ॰ १८१ । शास्त्रदी॰ २ । १ । १ । न्यायरत्नमा॰ पृ॰ ४७ । मीमांसाबाल॰ पृ॰ ७५ ।] ↩︎
-
“भावनि–” [ब॰] । ↩︎
-
तेन भूतिषु कर्तृत्व प्रतिपन्नस्य वस्तुन । प्रयोजकक्रियामाहु भावना भावनाविद ॥– [तन्त्रवा॰ २ । १ । १ ।] इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने गम्येते । शब्दात्मिका च अर्थात्मिका च । तत्र लिङादीना प्रयोजककर्तृत्व पुरुष प्रयोज्य, तेन किमित्यपेक्षाया पुरुषप्रवर्तनमिति सम्बध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते प्रवर्तयेदिति तत किमित्यपेक्षिते पुरुषमित्येव सम्बध्यते । अथ केनेत्यपेक्षिते पूर्वसम्बन्धानुभवापेक्षेण विधिज्ञानेनेति सम्बध्यते । कथमिति प्राशस्त्यज्ञानानुगृहीतेनेति । कुत एतत् ? बुद्धिपूर्वकारिणो हि पुरुषा यावत् प्रशस्तोऽयमिति नावबुध्यन्ते तावन्न प्रवर्तन्ते, तत्र विधिविभक्तिरवसीदति ता प्राशस्त्यज्ञानमुत्तभ्नाति । तच्च पुरुषार्थात्मके फलाशे सर्वस्य स्वयमेवानुष्ठान भवतीति प्रसिद्धत्वान्न वेदादुत्पद्यमानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्तु अप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्यप्रतिपादनायाकाङ्क्ष्यते । – [तन्त्रवा॰ १ । २ । १ । न्यायमु॰ पृ॰ ३२–।] भाव्यभावनसमर्थो हि व्यापारो भावना । – [भावनावि॰ पृ॰ ६ ।] भाव्योत्पादानुकूलस्य व्यापारस्य भावनात्वप्रसिद्धे । – [न्यायसु॰ पृ॰ ३१ ।] भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेष ।– [अर्थस॰ पृ॰ ११ ।] भवितुर्भवनानुकूलो भावकव्यापारविशेष । – [मीमासान्याय॰ पृ॰ २ ।] तत्र प्रवृत्त्यनुकूलो व्यापारोऽभिधा, फलानुकूलो व्यापारो भावनेति विवेक । – [मीमासार्थप्र॰ पृ॰ ८ ।] भाव्यनिष्ठो भावकव्यापारो भावना । भाव्य हि स्वर्गादिफल साध्यमानत्वात् तन्निष्ठस्तदुत्पादकश्च पुरुषव्यापारो यस्स भावना ण्यन्तेन भवतिनोच्यते । प्रकृत्यर्थस्य भवतेः कर्ता य स्वर्गादि स एव ण्यन्तस्य कर्मता प्रतिपद्यते । कर्त्ता त्वस्य प्रयोजक पुरुष, णेश्चार्थ णिज्वाच्य प्रयोजकव्यापार, पुरुषो हि भवन्त स्वर्गादिमर्थ स्वव्यापारेण भावयति सम्पादयति, स तत्मपादको व्यापारो भावनेत्युच्यते । – [न्यायम॰ पृ॰ ३३५ ।] भावनात्व नाम भवितु प्रयोजकव्यापारवत्त्वम् । तत्रार्थभावनाया भवितुर्जायमानस्य स्वर्गादे प्रयोजकव्यापारत्वात् लक्षणसगति शब्दभावनायामपि पुरुषप्रवृत्तिरूपस्य भवितु प्रयोजकव्यापारत्वाल्लक्षणसङ्गति – [मी॰ परि॰ पृ॰ २० ।] ↩︎
-
तस्मादस्ति पुरुषप्रवृत्तिकर्मिका विधिज्ञानकरणिका अर्थवादोत्पादितविषयप्राशस्त्यज्ञानेतिकर्त्तव्यतोपेता लिङादिव्यापार प्रेरणात्मिका शब्दभावना अभिधानलक्षणोऽपि च देवदत्तादेरिव व्यापार शब्दभावना । – [भावनावि॰ टी॰ पृ॰ ९४ ।] तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुर्व्यापारविशेष शाब्दी भावना । सा च लिङ्श्रवणेऽव मा प्रवर्तयति, सत्प्रवृत्त्यनुकूलव्यापारवानिति नियमेन प्रतीते । यद्यस्माच्छब्दान्नियमत प्रतीयते नत्तस्य वाच्यम् यथा गामानयेत्यस्मिन् वाक्ये गोशब्दस्य गोत्वम्, स च व्यापारविशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेष, वैदिकवाक्ये तु पुरुषाभावाल्लिङादिनिष्ठ एव । अत एव शाब्दी भावनेति व्यवह्रियते । – [अर्थस॰ पृ॰ ११–१३ । मीमांसान्याय॰ पृ॰ ३, १७८ । मीमासार्थप्र॰ पृ॰ ८ ।] ↩︎
-
“–प्रवृत्तिमान्वा” [ब॰] । ↩︎
-
“–मान् पुरु–” [श्र॰] । ↩︎
-
एतावता अर्थवादवाक्याना माभूत्प्रामाण्यमिति – [आ॰ टि॰] । ↩︎
-
“–त्वमुपाग–” [आ॰] । ↩︎
-
प्रवृत्तिहेतु धर्मञ्च प्रवदन्ति प्रवर्तनाम् – [विधिवि॰ पृ॰ २४३ ।] प्रवृत्तिहेतुभूत प्रवर्तयितुर्धर्म प्रवर्तना । – [मीमासाबाल॰ पृ॰ ७५ । मीमासान्याय॰ पृ॰ १८० ।] ↩︎
-
“–घटेध्विस–” [ब॰] , “–घटादिस” – [श्र॰] । ↩︎
-
“प्रशस्तज्ञान” [श्र॰] । ↩︎
-
तुलना–लौकिकानि वाक्यानि भवन्तो विदाङ्कुर्वन्तु । तद्यथाय गौ क्रेतव्या देवदत्तीया । एषा हि बहुक्षीरा स्त्र्यपत्या अनष्टप्रजा चेति । – [शाबरभा॰ १ । २ । २० ।] ↩︎
-
“तत” [श्र॰] । ↩︎
-
सा च भावनाशत्रयमपेक्षते साध्य साधनमितिकर्तव्यताञ्च, किं भावयेत् केन भावयेत् कथ भावयेदिति । तत्र साध्याकाङ्क्षाया बक्ष्यमाणाशत्रयोपेता आर्थीभावना साध्यत्वेनान्वेति एकप्रत्ययगम्यत्वेन समानाभिधानश्रुते । सख्यादीनामेकप्रत्ययगम्यत्वेऽपि अयोग्यत्वान्न साध्यत्वेनान्वय । साधनाकाङ्क्षाया लिङादिज्ञान करणत्वेनान्वेति, तस्य च करणत्व न भावनोत्पादकत्वेन तत्पूर्वमपि तस्या शब्दे सत्त्वात्, किन्तु भावनाज्ञापकत्वेन शब्दभावनाभाव्यनिर्वर्तकत्वेन वा । इतिकर्तव्यताकाङ्क्षायाम् अर्थवादज्ञाप्यप्राशस्त्यमितिकर्तव्यतात्वेन अन्वेति । – [अर्थस॰ पृ॰ १६–१८ । मीमासाम्याय॰ पृ॰ ३ ।] करणाशो विधिज्ञान किमश पुँस्प्रवर्तनम् । इतिकर्तव्यता चात्र ह्यर्थवादप्रशसनम् । – [बृहदा॰ भा॰ बा॰ पृ॰ ५९० ।] प्रवृत्तिफलिकायाञ्च अभिधायामपि साध्यसाधनेतिकर्तव्यतारूपमशत्रयमपेक्षितम्, अन्यथा तस्य स्वरूपत फलतश्चाज्ञानादप्रवृत्तिप्रसङ्गात् । तत्र लिङादिविधिज्ञान करणत्वेनान्वेति याग इव अर्थभावनायाम् । प्रवृत्तिरेव च साध्यत्वेन स्वर्ग इव अर्थभावनायाम् । अर्थवादादिजन्य प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन प्रयाजाद्यङ्गजातमिव अर्थभावनायाम् । तदुक्तम्–लिङाभिधा सैव च शब्दभावना भाव्य च तस्या पुरुषप्रवृत्ति । सम्बन्धबोध करण तदीय प्ररोचना चाङ्गतयोपयुज्यते । – [मीमासार्थ॰ पृ॰ ९ ।] प्ररोच्यतेऽनयेति प्ररोचना प्राशस्त्यज्ञान तच्चाङ्ग फलोपकारिप्रयाजादिवत् – [मीमांसाबाल॰ पृ॰ ८१ । मीमांसापरि॰ पृ॰ १८ ।] तत्र किं भावयेत् केन भावयेत्कथ भावयेदित्याकाङ्क्षाया स्वर्ग भावयेत् यागेन भावयेत् अग्न्यन्वाधानप्रयाजावघातादिभिरुपकार सम्पाद्य भावयेदित्येव भाव्यकरणेतिकर्त्तव्यतासमर्थनेन आकाङ्क्षापूरणात् प्रकरणाम्नात सकल शब्दसन्दर्भ भावनावाचिन आख्यातस्यैव प्रपञ्च । भाव्याद्यशत्रयवती सेयमर्थभावनेत्युच्यते । सा सर्वापि शब्दभावना या भाव्या विधायको लिङादि करणम् अर्थवादसम्पादित स्तुतिरितिकर्तव्यता । सेय शब्दभावना लिङादिभिरेव गम्यते । अर्थभावना सर्वैराख्यातप्रत्ययैर्गम्यत इत्युक्तम् – [जैमिनिन्या॰ पृ॰ ७६ ।] ↩︎
-
अमावम्याया क्रियमाणो यज्ञविशेषो दर्श, पौर्णमास्याञ्च विधीयमान यज्ञानुष्ठान पौर्णमास इति । ↩︎
-
“कथमिति कथमिति यमुपपन्नकर्त्तव्यता” [श्र॰] । ↩︎
-
यज्ञे कर्त्तव्यताविशेष – [आ॰ टि॰] । आरादुपकारकरूपा प्रयाजादि – [न्यायरत्नमा॰ पृ॰ १२० ।] ↩︎
-
आर्थीभावनायाम् । ↩︎
-
लाकुटिकप्राया – [आ॰ टि॰] । द्वारपालसदृशा इत्यर्थ । ↩︎
-
इच्छास्मृत्यादीनाम् । ↩︎
-
प्रवर्तनाव्यपदेश । ↩︎
-
“–धाने” [श्र॰] । ↩︎
-
लकुट-दण्डधारिणाम् द्वारपालादीनाम् । ↩︎
-
“साध्यत्वहेतुव्यापा–” [श्र॰] । ↩︎
-
“–हेतुर्व्यापार” [आ॰] । ↩︎
-
पुरुषरूपेण कार्येण तस्यास्तित्व सूच्यते – [आ॰ टि॰] । ↩︎
-
“अभिधानात्मको” [ब॰] , [श्र॰] । ↩︎
-
आख्यातविभक्ति – [आ॰ टि॰] । ↩︎
-
प्रयोजनेच्छाजनितक्रियाविषयव्यापार आर्थीभावना । सा चाख्यातत्वाशेनोच्यते आख्यातसामान्यस्य व्यापारवाचित्वात् । साप्यंशत्रयमपेक्षते साध्य साधनमितिकर्त्तव्यताञ्च किं भावयेत्केन भावयेत्कथ भावयेदिति । तत्र साध्याकाङ्क्षाया स्वर्गादिफल साध्यत्वेनान्वेति, इतिकर्त्तव्यताकाङ्क्षाया प्रयाजाद्यङ्गजातमितिकर्तव्यतात्वेनान्वेति । – [अर्थसं॰ पृ॰ १९-२३ ।] प्रवृत्तिश्चार्थभावनैव – [मीमासार्थ॰ पृ॰ ९ ।] स्वर्गेच्छाजनितो यागविषयो य प्रयत्न स भावना । स एव चाख्याताशेनोच्यते । यजत इत्याख्यातश्रवणे यागे यतेत इति प्रतीतेर्जायमानत्वाततश्च प्रयत्न एवार्थी भावना । यथाहु– [न्यायसु॰ पृ॰ ५७९] प्रयत्नव्यतिरिक्तार्थीभावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ – [मीमांसान्या॰ पृ॰ १८५-८७ ।] ↩︎
-
आर्थीभावना । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥ – [तन्त्रवा॰ २ । १ । १ । बृहदा॰ भा॰ बा॰ टी॰ पृ॰ ५९० । शास्त्रदी॰ २ । १ । १ । न्यायकु॰ प्र॰ ५ । १३ । जैमिनिन्या॰ पृ॰ ७५ । मीमांसावाल॰ पृ॰ ७५ ।] “सर्वाख्यातस्य गोचरा” – [मीमांसार्थ॰ पृ॰ ८ ।] प्रकृत पाठ – [अष्टसह॰ पृ॰ १९ । तत्त्वार्थश्लो॰ पृ॰ २६२ ।] अर्थात्मा भावना त्वन्या सर्वत्राख्यातगोचर । – [तन्त्ररह॰ पृ॰ ४७ । मानमेयो॰ पृ॰ २७२ ।] “सा चाख्यातस्य” – [वैयाकरणभू॰ द॰ पृ॰ १५६ । मुक्ता॰ दिन॰ पृ॰ ५१५ ।] व्याख्या–विधेयाया भावनाया पुरुषार्थरूपभाव्यनिष्ठत्वसूचनाय इच्छायोनित्व सूचयितुम् इच्छार्थाद् अर्थयते णिजन्तादर्थयत इति कर्तृविवक्षायामेरजित्यच्प्रत्ययोत्पादनेन अर्थिन पुरुषस्य अर्थशब्देन अभिधानाद् भावनायाश्च पुरुषधर्मत्वात् धर्मधर्मिणोश्चात्यन्त भेदाभावात् तादात्म्य विवक्षित्वा अर्थात्मा चासौ भावना चेति विग्रह कार्य । अन्यामिति अर्थभावनापेक्षित्व शब्दभावनाया सूचितम – [न्यायसु॰ पृ॰ ५६० ।] ↩︎
-
अतीतादौ – [आ॰ टि॰] । यदा हि सर्वाख्यातानुवर्तिनी करोतिधातुवाच्या पुरुषव्यापाररूपा भावनाऽवगता भवति, तदा तद्विशेषा सामान्याख्यातव्यतिरिक्तशब्दविशेषवाच्या विधिप्रतिषेधभूतभविष्यद्वर्तमानादय प्रतीयन्ते । तथा च सर्वत्र सामान्यत करो- त्यर्थोऽवगम्यते । किं करोति ? पचति । किमकार्षीदपाक्षीत् । किं करिष्यति पक्ष्यति । किं कुर्यात् पचेत् । किन्न कुर्यान्न पचेदिति । – [तन्त्रवा॰ २ । १ । १ ।] ↩︎
-
आख्याते । ↩︎
-
सिद्धकर्तृक्रियावाचिन्याख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थोऽवगम्यते ॥ तस्माल्लब्धात्मककर्तृव्यापारवचनानि करोत्यर्थवन्त्याख्यातानि । – [तन्त्रवा॰ २ । २ । १ ।] ↩︎
-
नैतत्सारम्, न प्रयोगानिरूप्यत्वात् वैयर्थ्यात् पूर्वदोषत । अप्रवृत्ते फलायोगाद् रूपोक्तेर्व्यापृति श्रुते ॥ – [विधिवि॰ पृ॰ १६ ।] असत्त्वादप्रवृत्तेश्च नाभिधापि गरीयसी । बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभ ॥ – [न्यायकु॰ ५ । १३ ।] ↩︎
-
सज्ञापुरस्सरा व्यापारणा प्रेषणम्, निकृष्टविषयो नियोग इत्यर्थ । यत्पुनरभ्यर्हित व्यापारयति तदध्येषणम्, अभ्यर्हितविषय प्रबोधनमित्यर्थः । – [वाक्यप॰ प्र॰ तृ॰ का॰ पृ॰ २५७ ।] प्रवर्त्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपाद्यमान कार्य प्रैष इति व्यपदिश्यते । समेन आमन्त्रणम् । हीनेनाव्येषणमिति । – [प्रक॰ प॰ पृ॰ १८० ।] ↩︎
-
न हि प्रेषणाभ्यनुज्ञालक्षणा शब्दस्य व्यापारो निरूप्यते तस्य पुरुषधर्मत्वात् । न हि प्रेषणाध्येषणाभ्यनुज्ञालक्षण शब्दस्य प्रयोगो व्यापारो निरूप्यते । ननु शब्दोच्चारणानन्तर तदवगमात्तैनोक्तमिति कथ प्रेषणादिलक्षण शब्दप्रयोगो न निरूप्यत इत्याह–तस्य पुरुषधर्मत्वात् । सत्य शब्दविज्ञानानन्तरमुपलभ्यते । न त्वसौ शब्दस्य, अभिप्रायभेदत्वात् । प्रेषणादे अचेतनत्वेन शब्देऽसम्भवात् । – [विधिवि॰, टी॰ पृ॰ १६ ।] ↩︎
-
शब्दस्य अचेतनत्वात् पुरुषाभिप्रायरूपा प्रेषणादय उपचरिता एव सम्भाव्यन्ते न तु मुख्या इति । ↩︎
-
प्रेषणाध्येषणादिधर्मात्मकपुरुष । ↩︎
-
“हि शब्दे न तत्सं–” [आ॰] , “हि तच्छब्दे सभाव्यते” [ब॰] । ↩︎
-
प्रेषणाध्येषणरूपम् । ↩︎
-
न प्रवर्तेत पुरुष, प्रवर्तयतोऽपि शब्दस्याननुरोध्यत्वात् । न हि सर्वस्मिन् प्रवर्तयितरि प्रवृत्ति प्रेक्षावताम् अपि त्वनुविधेये । न चार्थानर्थप्राप्तिपरिहाराद्यनुविधानकारण स्वाम्यादाविव शब्दे समस्ति । फलात्प्रवृत्तौ तद्वैयर्थ्यम् । – [विधिवि॰ पृ॰ १८ ।] ↩︎
-
“न चाचेतनशब्दे” [आ॰] । ↩︎
-
अर्थानर्थप्राप्तिपरिहारादिप्रयोजनानुसन्धानम् । ↩︎
-
स्यान्मत पवनादिरिव लङादि प्रेरयति पुरुषम्, तदसत्, अभिधानवैयर्थ्यात्, अप्रतीतव्यापारस्यापि वाय्वादेरिव स्वभावत प्रेरकत्वात्, पूर्वोक्तदोषापाताच्च । न हि प्रवृत्तिं प्रति कारकत्वे शब्दस्य सदपि तद्व्यापाराभिधानमङ्गम्, अनभिहितव्यापारस्यापि तस्य कारकत्वात्, कारकस्यानपेक्षितज्ञानत्वात् । – [विधिवि॰ पृ॰ १८ ।] ↩︎
-
प्रायश्चित्तवैयर्थ्यम् – [आ॰ टि॰] । ↩︎
-
“अस्य सद्भा–” [ब॰] । ↩︎
-
शब्दभावनाया । ↩︎
-
प्रवृत्ते । लिङादिशब्दानन्तरभाविनी प्रवृत्तिरेव प्रमाणमिति चेन्न, तन्निबन्धनत्वेन प्रवृत्तेरन्यत्रादृष्टत्वात् । त य न्निबन्धना हि प्रवृत्तिर्दृष्टा तदेव ता दृष्ट्वा शक्यमनुमातुम्, न पुनरप्रतिपन्नपूर्वकरणभाव शब्दव्यापारविशेष । – [वाक्यार्थमा॰ पृ॰ २७ ।] ↩︎
-
शब्दभावना – [आ॰ टि॰] । ↩︎
-
“–नुमान यु–” [ब॰] । ↩︎
-
“पुन प्रतिप–” [श्र॰] । ↩︎
-
शब्दभावनाख्य – [आ॰ टि॰] । ↩︎
-
लिङादिशब्द एव प्रमाणमिति साहसम्, अगृहीतसम्बन्धस्य शब्दस्यावाचकत्वात् । अनवधारिते हि सम्बन्धिनि सम्बन्धबोधवैधुर्यात् । – [प्रक॰ पं॰ पृ॰ १७२ ।] ↩︎
-
“–शब्दस्तत्र” [ब॰] , “–शब्दास्तत्र” [श्र॰] । ↩︎
-
सम्बन्धाग्रहणम् । ↩︎
-
“शब्दो व्यापा–” [श्र॰] । ↩︎
-
पुरुषप्रवृत्तिरूपम् । ↩︎
-
“कारणत्वा–” [ब॰] । ↩︎
-
स्यान्मत शब्दो विधिज्ञान जनयित्वा तत्कर+++(विधिज्ञानरूपकरण । ↩︎
-
“तत्कारणानु–” [ब॰] । ↩︎
-
पुरुषप्रेरणा । ↩︎
-
“–रणरूप” [ब॰] । ↩︎
-
तुलना–यश्चासौ व्यापार क्रियते चाभिधीयते च, स किं पूर्वमभिधीयते तत क्रियते, पूर्व वा क्रियते पश्चादभिधीयते, युगपदेव वा अस्य करणाभिधाने इति । न तावत्पूर्वमभिधीयते अनुत्पन्नस्य अभिधानानुपपत्ते, न ह्यजाते पुत्रे नामधेयकरणम्, अर्थासस्पर्शी च शब्द स्यात् । तत एव न युगपदुभयम्, अनुत्पन्नत्वानपायात् प्रयत्नगौरवप्रसङ्गाच्च । नापि कृत्वा अभिधानम्; विरम्य व्यापारासंवेदनात् । – [न्यायम॰ पृ॰ ३४५ ।] ↩︎
-
“न शब्दः” [ब॰] । ↩︎
-
वाच्यवाचकसम्बन्ध । ↩︎
-
प्रवृत्ति – [आ॰ टि॰] । ↩︎
-
“–त्वाप्रतीतिरि–” [श्र॰] । ↩︎
-
प्रेक्षापूर्वकारी । ↩︎
-
अन्यथा–शब्दमात्रे समाश्वासे प्रेक्षापूर्वकारित्वविरोधात् । ↩︎
-
“तत पौरु–” [ब॰] । ↩︎
-
अथ मतम्–अभिधैव भावना विधिर्लिङाद्यर्थ इति, अत्रोच्यते–प्रवृत्ते सर्वतोऽर्थे वा प्रसङ्गात् कार्यतो गते । अस्थानान्नियतेर्हेतोरभावाच्चाभिधैव न ॥ विधिरित्यनुषज्यते । अभिधा चेद्विधि सर्वशब्दाना यथास्वमभिधेयेषु तद्भाव इति घटादिशब्देभ्योऽपि प्रवृत्तिप्रसङ्गः अस्याविशेषात् । – [विधिवि॰ पृ॰ २१ ।] ↩︎
-
शब्दस्वरूपमात्रस्य । ↩︎
-
लिङ्लोट्तव्यपञ्चमलकाराणा विधिर्वाच्य । – [न्यायसु॰ पृ॰ ५६० ।] लिङ्कृत्लोट्तव्यप्रत्ययमात्रगता शब्दभावना – [जैमिनिन्या॰ पृ॰ ७५ ।] ↩︎
-
शब्दभावनया । ↩︎
-
तुलना–यत्तावदुक्त शब्दव्यापार शब्दभावनेति; तत्र शब्दात्तद्व्यापारोऽनर्थान्तरभूतोऽर्थान्तरभूतो वा ? – [अष्टसह॰ पृ॰ ३१ । तत्त्वार्थश्लो॰ पृ॰ २६२ ।] या तु शब्दभावनैव लिङाद्यर्थ इति कौमारिलकुसृति सा तु प्रतीतिविसवादादिप्रतिहता । न हि विधिवाक्यश्राविपुरुषो लिङादिस्वव्यापारमभिधत्ते अतो मया प्रवर्तितव्यमिति मन्यते – [न्यायपरि॰ पृ॰ ३९८ । तन्त्ररह॰ पृ॰ ४८ ।] तस्माल्लिङादिजन्यबोधविषयाऽभिधाया इष्टसाधनत्वादिज्ञाननिरपेक्षायाः प्रवर्त्तकत्व निर्युक्तिकमेव । – [वैयाकरणभू॰ द॰ पृ॰ १५७ ।] ↩︎
-
“–रूपापि” [श्र॰] , “–रूपोविधि–” [ब॰] । ↩︎
-
प्रभाकरमतानुयायिन । ↩︎
-
तुलना–कोऽय नियोगो नाम ? निशब्दो नि शेषार्थ योगार्थो युक्ति निरवशेषो योग नियोग । निरवशेषत्वम् अयोगस्य मनागप्यभावात्, अवश्यकर्तव्यता हि नियोग । नियोगप्रामाणिका हि नियोगप्रतिपत्तिमात्रत प्रवर्तन्ते । – [प्रमाणवातिकालं॰ पृ॰ १४ ।] नियुक्तोऽहमनेन वाक्येनेति निरवशेषो योग नियोग, तत्र मनागप्ययोगाशकाया सभवाभावात् । – [तत्त्वार्थश्लो॰ पृ॰ २६१ । अष्टसह॰ पृ॰ ५ ।] यदपि दर्शनम्– प्रमाणान्तरापोचर शब्दमात्रालम्बनो नियुक्तोऽस्मीति प्रत्यात्मवेदनीय सुखादिवत् अपरामृष्टकालत्रयो लिङादीनामर्थो विधिरिति । – [विधिवि॰ पृ॰ ४८ ।] ↩︎
-
तुलना–केषाञ्चिल्लिङादिप्रत्ययार्थ शुद्धोऽन्यनिरपेक्ष कार्यरूपो नियोग । – [अष्टसह॰ पृ॰ ६ । तत्त्वार्थश्लो॰ पृ॰ २६१ ।] ↩︎
-
शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि । आवापोद्वापभेदेन तथा कार्ये लिङादय ॥ लिङादियुक्तवाक्यश्रवणे तद्भावभाविन्या प्रवृत्त्या विशिष्टकार्यावगतिमनुमाय वाक्यस्य तावद्धेतुतामध्यवस्यति । तत्रापि कोऽर्थभाग केन शब्दाशेनाभिहित इति विवेचने लिङाद्यावापेन कार्यावगतिदर्शनात् तदुद्धारे चादर्शनात् त एव कार्यावगति कुर्वन्तीति शब्दान्तरवत् लिङादीना कार्यवाचकत्वव्युत्पत्तिसिद्धि कार्यमेव हि सर्वत्र प्रवृत्तावेककारणम् । प्रवृत्त्यव्यभिचारित्वाल्लिङाद्यर्थोऽभिधीयते ॥ [पृ॰ १७९] कार्यस्यैव प्रधानत्वाद् वाक्यार्थत्व च युज्यते । वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम् ॥ – [प्रक॰ पं॰ पृ॰ १८८ ।] अत कृत्स्नो वेद कार्यपरत एव प्रमाणम् । इदमेव कार्यं मानान्तरागोचरत्वादपूर्वमिति, स्वात्मनि पुरुष नियुञ्जानो नियोग इति गीयते । – [तन्त्ररह॰ पृ॰ ६६ ।] लिङादेरवगम्यमान कार्यरूप प्रेरणात्मा च वाक्यार्थो नियोग । – [न्यायमं॰ पृ॰ ३५५ ।] ↩︎
-
नियोग – [आ॰ टि॰] । तुलना–प्रत्ययार्थो नियोगश्च यत शुद्ध प्रतीयते । कार्यरूपश्च तेनात्र शुद्ध कार्यमसौ मत ॥ विशेषण तु यत्तस्य किञ्चिदन्यत्प्रतीयते । प्रत्ययार्थो न तद्युक्त धात्वर्थ स्वर्गकामवत् ॥ प्रेरकत्वं तु यत्तस्य विशेषणमिहेष्यते तस्याप्रत्ययवाच्यत्वात् शुद्धे कार्ये नियोगता ॥ – [अष्टसह॰ पृ॰ ६ । तत्त्वार्थश्लो॰ पृ॰ २६१ । प्रमाणवार्तिकालं॰ पृ॰ २९ ।] ↩︎
-
परेषा शुद्धा प्रेरणा नियोग इत्याशय । – [अष्टसह॰ पृ॰ ६ । तत्त्वार्थश्लो॰ पृ॰ २६१ ।] तत्र शुद्धा प्रेरणा नियोग इति पक्षे प्रेरणाया नियोज्यतारूपत्वात् यागनिरूपितनियोज्यतावान् स्वर्गकाम इत्येवमाद्यो बोध । ततो नियोज्येन नियोजकाक्षेपात् यागविषयक स्वर्गकामीय नियोजकमित्यौपादानिकोऽपूर्वविषयो द्वितीय इत्यादि बोध्यम् । – [अष्टसह॰ यशो॰ पृ॰ ४९अ ।] ↩︎
-
“स्व प्रबुद्ध्यते” – [अष्टसह॰, तत्त्वार्थश्लो॰ ।] ↩︎
-
प्रयोक्तु – [आ॰ टि॰] । ↩︎
-
आस्ता तावत्क्रिया लोके गमनागमनादिका । अन्त स्तनपानादिस्तृप्तिकार्यपि या क्रिया ॥ सा यावन्मम कार्येयमिति नैवावधार्यते । तावत् कदापि मे तत्र प्रवृत्तिरभवन्न हि ॥ – [प्रक॰ पं॰ पृ॰ १७७ ।] ↩︎
-
“ज्ञान पूर्व स्वसिद्ध्यै” – [तत्त्वार्थश्लो॰ पृ॰ २६१ ।] ↩︎
-
“सर्व” [श्र॰] । ↩︎
-
“–ति इति कार्य–” [श्र॰] । ↩︎
-
तुलना – [ प्रमाणवार्तिकालं॰ पृ॰ ३० । अष्टसह॰ पृ॰ ६ । तत्त्वार्थश्लो॰ पृ॰ २६१ ।] ↩︎
-
“न तावत्प्रे–” [ब॰] , “नचैतत्प्रे–” [श्र॰] । ↩︎
-
प्रवर्तकत्वम् – [आ॰ टि॰] । ↩︎
-
“कार्यप्रेरणयो योग” – [तत्त्वार्थश्लो॰ ।] ↩︎
-
विनियो ज्यत्वम् – [आ॰ टि॰] । ↩︎
-
“–विनिर्मुक्तपरमा–” [आ॰] । ↩︎
-
ज्ञानम् – [आ॰ टि॰] । ↩︎
-
ज्ञातम् – [आ॰ टि॰] । ↩︎
-
यन्त्रारूढो दृष्टान्ततया यत्र स यन्त्रारूढो विषयारूढत्वाभिमानो नियोग इत्यर्थ । यजेत् स्वर्गकाम इत्यतो यागारूढत्वाभिमानवान् स्वर्गकाम इति बोध । – [अष्टसह॰ यशो॰ पृ॰ ४९ब् ।] ↩︎
-
“इत्यन्ये” [श्र॰] , [ब॰] । ↩︎
-
“तदेव स्व” [आ॰] । ↩︎
-
स्वस्वामिभावो ज्ञापित – [आ॰ टि॰] । “स्व निरूप्यते” – [प्रमाणवार्तिकाल॰ ।] ↩︎
-
“निरुध्यते” [आ॰] [ब॰] । ↩︎
-
“–ता इति पुरुष” [श्र॰] । ↩︎
-
“नियोग स्यादबाधित” – [तत्त्वार्थश्लो॰ ।] कार्यस्य सिद्धौ जाताया तद्युक्त पुरुष सदा । भवेत्साधित इत्येव पुमान् वाक्यार्थ उक्यते ॥ – [प्रमाणवार्तिकाल॰ पृ॰ ३० । अष्टसह॰ पृ॰ ६ । तत्त्वार्थश्लो॰ पृ॰ २६२ ।] ↩︎
-
“नियोग्यस्य” [श्र॰] । ↩︎
-
“–न्नः निरपे–” [ब॰] । ↩︎
-
नियोज्य प्रेरणाञ्चानपेक्षमाणस्य – [आ॰ टि॰] । तुलना–प्रेरणारहितं कार्यं नियोज्येन निवर्जितम् । नियोगो नैव कस्यापि नियोग इति कीर्त्यते ॥ वृत्तिर्नियोगशब्दस्य शुद्धे कार्ये यदा मता । सञ्ज्ञामात्रान्नियोगत्व भवत्केन निवार्यते ॥ युक्तस्तु पुरुषः कार्ये यत्र नैव प्रतीयते ॥ नियोगः स कथन्नाम सिद्धातीतादिबोधवत् ॥ नियोजकस्य धर्मोऽय नियोगो लोकसम्मत । तदेव कार्यमिति चेत्; सिद्धत्वान्नास्य साध्यता ॥ साध्यत्वेन नियोगोऽयमिति चेद्व्यपदिश्यते । विषये तस्य तत्त्वेनोपचारात् प्रकीर्त्तनम् । असिद्धस्य च तस्यास्तु कथ प्रेरकरूपता ॥ साध्यत्वेनावबोधोऽस्य प्रेरकत्व यदीष्यते । अप्रसिद्धस्य साध्यत्वं बोध सिद्धात्मकस्य च ॥ परस्परविरुद्धत्वमेकस्य कथमिष्यते । साध्यरूपतया तस्य प्रतीति प्रेरिका यदि । नियोगत्व प्रतीते स्यान्न नियोगस्य तत्त्वत ॥ – [प्रमाणवार्तिकालं॰ पृ॰ ३२३३ ।] प्रेरणानियोज्यबर्जितस्य नियोगस्यासभवात् । तस्मिन्नियोगकरणे स्वकम्बलस्य कूर्दालिकेति नामान्तरकरणमात्र स्यात् । – [तत्त्वार्थश्लो॰ पृ॰ २६५ । अष्टसह॰ पृ॰ ९ ।] ↩︎
-
नियोज्यप्रेरणाकार्यरूपस्य – [आ॰ टि॰] । ↩︎
-
नियोगरूपता – [आ॰ टि॰] । ↩︎
-
“नियोज्यनिर–” [आ॰] । ↩︎
-
नियोज्यफलरहितायाः प्रेरणाया प्रलापमात्रत्वात् । – [तत्त्वार्थश्लो॰ पृ॰ २६५ । अष्टसह॰ पृ॰ १० ।] ↩︎
-
नियोज्यविरहे नियोगविरोधात् । – [अष्टसह॰ पृ॰ १० । तत्त्वार्थश्लो॰ पृ॰ २६६ ।] ↩︎
-
अत्रापि नियोज्याभावात् – [आ॰ टि॰] । ↩︎
-
नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्तकत्वोपचारायोगात्, कदाचित् क्वचित् परमार्थतस्तस्य तथानुपलम्भात् । – [तत्त्वार्थश्लो॰ पृ॰ २६६ । अष्टसह॰ पृ॰ १० ।] ↩︎
-
ततो भिन्नस्य सम्बन्धस्य सम्बन्धिनिरपेक्षस्य नियोगत्वाघटनात् । सम्बन्ध्यात्मन सम्बन्धस्य नियोगत्वमित्यपि दुरन्वयम्; प्रेर्यमाणपुरुषनिरपेक्षयो सम्बन्ध्यात्मनोरपि कार्यप्ररणयीर्नियोगत्वानुपपत्ते । – [अष्टसह॰ पृ॰ १० । तत्त्वार्थश्लो॰ पृ॰ २६६ ।] ↩︎
-
सम्बन्धिभ्या भिन्नस्य । ↩︎
-
[पृ॰ १५० ।] ↩︎
-
तुलना–यन्त्रारूढतया भोग्यभोक्त्रो सम्बन्ध उच्यते । न सम्बन्धोऽस्ति भोग्यात्मा रूढश्च न नरस्तदा ॥ प्रतीतिकाले सर्वस्य साध्यत्वेनास्वरूपता । तदेव तस्य रूपञ्चेत साध्यत्वस्य हानित ॥ – [प्रमाणवार्तिकाल॰ पृ॰ ३४ ।] तदपि न परमात्मवादप्रतिकूलम्, पुरुषाभिमानमात्रस्य नियोगत्ववचनात्तस्य च अविद्योदयनिबन्धनत्वात् । – [अष्टसह॰ पृ॰ १० । तत्त्वार्थश्लो॰ पृ॰ २६६ ।] ↩︎
-
“नियोक्तूतानुपपन्ना” [श्र॰] । ↩︎
-
नियोक्तृताया । ↩︎
-
यथाहि समीरण अभिप्रायशून्योऽपि सलिल समीरयति तथैव अभिप्रायरहितस्यापि नियोक्तृता स्यादित्युक्ते प्राह । ↩︎
-
प्रायश्चित्तवैयर्थ्यादि – [आ॰ टि॰] । ↩︎
-
“–पद्येत्” [आ॰] । ↩︎
-
“–तिचेत्य–” [श्र॰] , “–ति इत्य–” [आ॰] । ↩︎
-
तुलना–अपि च नियोक्तृव्यापारो नियोगो न नियोक्तुर्विनाऽवकल्पते । न चास्य सभव, अपौरुषेयत्वाभ्युपगमात् । – [विधिवि॰ पृ॰ ६० ।] ↩︎
-
तुलना–सर्वत्र च वाक्यार्थे अष्टप्रकारो भेद –प्रमाण किं नियोग स्यात् प्रमेयमथवा पुन । उभयेन विहीनो वा द्वयरूपोऽथवा पुन ॥ शब्दव्यापाररूपो वा व्यापार पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा । – [प्रमाणवार्तिकाल॰ पृ॰ ३१ । तत्त्वार्थश्लो॰ पृ॰ २६२ । अष्टसह॰ पृ॰ १० ।] ↩︎
-
“–दूषणगण प्र–” [ब॰] । ↩︎
-
“उभयदोषानुषङ्गः” [ब॰] , [श्र॰] । ↩︎
-
तुलना–नियुज्यमानविषयनियोक्तॄणा यदीष्यते । धर्मो नियोग सर्वत्र न शब्दार्थोऽवतिष्ठते ॥ नियोज्यधर्मभावे हि तस्यानुष्ठेयता कुत । सिद्धोऽपि यद्यनुष्ठेयो नानुष्ठाविरतिर्भवेत् ॥ – [प्रमाणवार्तिकाल॰ पृ॰ १६ ।] सोऽपि विषयस्वभावो वा स्यात्, फलस्वभावो वा, नि स्वभावो वा ? – [अष्टसह॰ पृ॰ ८ । तत्त्वार्थश्लो॰ पृ॰ २६२ ।] ↩︎
-
तुलना–विषयधर्मतायामपि विषयस्यापरिनिष्पत्तेः स्वरूपाभावात् कथ शब्दादसौ प्रत्येतु शक्यः ? – [प्रमाणवार्तिकालं॰ पृ॰ १७ । अष्टसह॰ पृ॰ ८ ।] ↩︎
-
विषयस्वभाव । ↩︎
-
भविष्यतो यागादेर्विषयस्य । ↩︎
-
“–तानुसारेण प्र–” [आ॰] , [ब॰] । ↩︎
-
वाक्यप्रयोगकाले । तुलना–अथ तद्वाक्यकाले विद्यमानोऽसौ, तर्हि न नियोगो वाक्यस्यार्थ, तस्य यागादिनिष्पादनार्थत्वात्, निष्पन्नस्य च यागादे पुनर्निष्पादनायोगात् । – [अष्टसह॰ पृ॰ ८ ।] ↩︎
-
विषयनियोगयोः – [आ॰ टि॰] । ↩︎
-
“अथ कि–” [श्र॰] । ↩︎
-
यागादे । ↩︎
-
तुलना–द्वितीयपक्षेऽपि नासौ नियोग, फलस्य भाव भावि त्वेन नियोगत्वाघटनात्, तदा असन्निधानाच्च । तस्य वाक्यार्थत्वे निरालम्बनशब्दवादाश्रयणात् कुत प्रभाकरमतसिद्धि ? – [तत्त्वार्थश्लो॰ पृ॰ २६२ । अष्टसह॰ पृ॰ ८ ।] ↩︎
-
सुगतमत । ↩︎
-
“इत्यप्येतेन” [ब॰] , [श्र॰] । ↩︎
-
स हि प्रवर्तकस्वभावो वा स्यादतत्स्वभावो वा ? – [तत्त्वार्थश्लो॰ पृ॰ २६४ । अष्टसह॰ पृ॰ ८ ।] ↩︎
-
तुलना–नियुक्तेन निवृत्तिश्चेत् ? सर्वस्यात प्रसज्यते । तत्स्वभावतया काशमनाकाश न कस्यचित् ॥ स्वभावोऽपि विषर्यासादन्यथा यदि गम्यते । विपर्यासाविपर्यासव्यवस्था क करिष्यति ॥ – [प्रमाणवार्तिकाल॰ पृ॰ १५ ।] ↩︎
-
“तथागता–” [श्र॰] । ↩︎
-
“–स्वभावात्” [आ॰] । ↩︎
-
सौगतादीनाम् । तुलना–तेषा विपर्यासादप्रवर्तक इति चेत्, परेषामपि विपर्यासात् प्रवर्तकोऽस्तु । शक्य हि वक्तुम्–प्राभाकरा विपर्यस्तत्वात् शब्दनियोगात् प्रवर्तन्ते नेतरे, तेषामविपर्यस्तत्वादिति । सौगतादयो विपर्यस्ता तन्मतस्य प्रमाणबाधितत्वात् न पुन प्राभाकराः इत्यपि पक्षपातमात्रम्; तन्मतस्यापि प्रमाणबाधितत्वाविशेषात् । – [अष्टसह॰ पृ॰ ९ । तत्त्वार्थश्लो॰ पृ॰ २६४ ।] ↩︎
-
प्राभाकराणामपि । ↩︎
-
“इति वक्तु” [आ॰] , [श्र॰] । ↩︎
-
तुलना–पदार्थ एव वाक्यार्थो न च सोऽनन्यगोचरः । तत्र पदार्थस्यैव पदार्थान्तरोपकल्पितविशेषस्य वाक्यार्थत्वादपदार्थत्वे तदनुपपत्ति । – [विधिवि॰ पृ॰ ४९ ।] ↩︎
-
तत्र विधि प्रेरणम् भृत्यादेर्निकृष्टस्य प्रवर्त्तनम् । निमन्त्रण नियोगकरणम्, आवश्यके प्रेरणेत्यर्थ । आमन्त्रण कामचारानुज्ञा । अधीष्ट सत्कारपूर्वको व्यापार । – [वैयाकरणभू॰ पृ॰ १४२ ।] ↩︎
-
“–लक्षणप्रयो–” [आ॰] । ↩︎
-
नैयायिकाअपि । विधिर्विधायक । यद् वाक्य विधायक चोदक स विधि, विधिस्तु नियोगोऽनुज्ञा वा । यथा अग्निहोत्र जुहुयात् स्वर्गकाम इत्यादि । – [न्यायभा॰ २ । १ । ६३ ।] यद्वाक्य विधत्ते इदं कुर्यादिति स नियोग । अनुज्ञातु यत्कर्त्तारमनुजानाति तदनुज्ञावाक्यम् । – [न्यायवा॰ पृ॰ २६९ ।] विधिर्वक्तुरभिप्राय प्रवृत्त्यादौ लिङादिभिः । अभिधेयोऽनुमेया तु कर्त्तुरिष्टाभ्युपायता ॥ प्रवृत्त्यादी इत्यादिपदान्निवृत्ति, विषयसप्तमीयम्, तेन प्रवृत्तिनिवृत्तिविषय आप्ताभिप्रायो लिङर्थ इत्यर्थ । प्रवर्त्तकमिष्टसाधनताज्ञानमेव लिङर्थस्त्वाप्ताभिप्रायो लाघवादिति भाव । – [न्यायकुसु॰, प्रका॰ ५ । १५ ।] ↩︎
-
अपौरुषेये प्रैषादिर्नृधर्मो नावकल्पते । लोके हि प्रतीत प्रेषणाध्येषणाभ्यनुज्ञालक्षणोऽभिप्रायातिशय प्रयोक्तृधर्मो लिङर्थ, तस्यापीरुषेयेषु वेदवाक्येष्वसभव । प्रतीते सभव इति चेत्, न, पौरुषेयत्वापत्ते । – [विधिवि॰ पृ॰ २३ ।] आज्ञादिस्तु न वेदार्थ पुधर्मत्वेन युज्यते । – [न्यायसु॰ पृ॰ ३७ ।] ↩︎
-
वेदे । ↩︎
-
पुरुषाभिप्रायरूपाणा प्रैषादीनाम् । ↩︎
-
द्रष्टव्यम् – [पृ॰ ५८० टि॰ ४ ।] ↩︎
-
मीमासकवैयाकरणादयः । एतच्चतुष्टयानुगतप्रवर्त्तनात्वेन वाच्यता लाघवात् । उक्तञ्च–अस्ति प्रवर्त्तनारूपमनुस्यूत चतुर्प्वपि । तत्रैव लिङ् विधातव्य किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादान चतुर्णामादितः कृतमिति । प्रवर्त्तनात्वञ्च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्यास्ति इति तदेव विध्यर्थ । – [वैयाकरणभू॰ पृ॰ १४५ ।] तत्र च प्रैपादीना विशेषाणा व्यभिचारित्वेन अवाच्यत्वात् सर्वानुयायिन प्रवर्त्तनासामान्यस्य वाच्यत्वेऽवगते – [न्यायसु॰ पृ॰ ३० ।] तत्र चावापोद्वापाम्या प्रवर्तनाया विधिशक्तिम्वधारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना स च व्यापार प्रैषादिरूपो विविध इति प्रत्येक व्यभिचारित्वाद्विधिशब्दवाच्यत्वानुपपत्ते प्रवर्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । – [मीमासान्याय॰ पृ॰ १८० ।] ↩︎
-
“–प्रेषणावीना” [श्र॰] । ↩︎
-
न च प्रवर्तनामात्रमविशेषमकर्त्तृकम् यदपि मतम्–अनेकसामर्थ्यपरिकल्पनादोषाद् व्यभिचाराच्च प्रैपादीनामवाच्यत्वादव्यभिचारात्प्रवर्तनामात्र लोके लिङाद्यर्थ तस्य वेदेप्युपपत्तिरिति; इदमप्यचतुरस्रम्, निर्विशेषसामान्यायोगात्, अकर्त्तृकत्वे व्यापारानुपपत्तेश्च । न तावत् प्रैषादयो विशेषा सम्भविन । नाप्यन्यो विशेष कश्चिदुपदर्श्यते । तदुपदर्शने वा सामान्यस्याभिधानमस्मिन्नवसरे व्यर्थम् । तदेतदपास्तसकलभेद प्रवर्तनासामान्य ब्राह्मण्यमिव समुज्झितकठादिभेद स्यात् । प्रवर्तना च प्रवर्तयितुर्व्यापार, स तमन्तरेण नातिविराजते, पुरुषस्याभावात् शब्दस्य च प्रवर्तकत्वनिषेधात् प्रवर्त्तयितुरभाव । – [विधिवि॰ पृ॰ २५-२६ ।] ↩︎
-
“सामान्यस्यासम्भ–” [श्र॰] । ↩︎
-
[पृ॰ ५८८ पं॰ १० ।] ↩︎
-
प्रेषणायाः विधित्वे अध्येषणायां विधित्वं न स्यात् अध्येषणाया विधित्वे च प्रेषणायां विधित्वाभावः इति परस्परं व्यभिचारः । प्रेषणादिषु प्रत्येकं शक्तिकल्पने गौरवमिति भावः । ↩︎
-
“–युक्तं यथास्व–” [ब॰] । ↩︎
-
जयन्तभट्टप्रभृतयः । फलस्यैवेष्यमाणस्य पश्यन् प्रेरकता मतः ।तस्मात्पुंसः प्रवृत्तौ प्रभवति न विधिर्नापि शब्दो लिङादिः । व्यापारोप्येतदीयो न हि पटुरभिधा भावनानामधेया ॥ न श्रेयःसाधनत्वं विधिविषयगतं नापि रागादिरेवं । तेनाख्यत्काम्यमानं फलममलमतिः प्रेरकः सूत्रकारः ॥क्वचित्साक्षात्पदोपात्तं कचित्प्रकरणागतम् । क्वचिदालोचनालभ्यं फलं सर्वत्र गम्यते ॥तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् । क्रियादीनाञ्च तादर्थ्यात् तस्य वाक्यार्थतेष्यते ॥प्राधान्ययोगादथवा फलस्य वाक्यार्थता तत्र सतां हि यत्नः । प्रयोजनं सूत्रकृता तदेव प्रवर्तकत्वेन किलोपदिष्टम् ॥ – [न्यायमं॰ पृ॰ ३६२–६५ ।] ↩︎
-
यदि मन्येत फलं प्रवर्त्तकं तद्व्यापारः प्रवर्त्तना, फलार्थिनः पुरुषस्य तत्साधने प्रवृत्तेः अन्यथाऽभावात् । न कश्चिद्व्यापारविशेषः प्रवर्तना अपि तु प्रवृत्तिसमर्थं व्यापारमात्रं च प्रयोजकव्यापारः, भिक्षा वासयति कारीषोऽग्निरध्यापयतीति दर्शनात्; तदसत्; अर्थिता व्यापृतिः पुंसो नियमः किन्निबन्धनः । फलसाधनता कर्मनिश्चेया साध्यता कदा ॥ – [विधिवि॰ पृ॰ २६ ।] ↩︎
-
आत्मनः – [आ॰ टि॰] । ↩︎
-
पुरुषधर्मत्वात् । फलार्थिता चेत् प्रवृत्तिहेतुः; सेच्छा तद्योगो वा इच्छासमवायो वा “कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम्” इति वचनात् पुरुषधर्म इति न फलं व्यापृतिः । – [विधिवि॰ पृ॰ २७ ।] ↩︎
-
अथ तदिच्छोपहारमुखेन फलस्य प्रवृत्तिहेतुर्धर्मः प्रीत्यात्मता फलव्यापारः प्रवर्त्तना; सापि तत्रैव न कर्मणि । फलव्यापाराच्च प्रवर्त्तमानः सर्वत्र प्रवर्तेत नियमनिमित्ताभावात् । – [विधिवि॰ पृ॰ २७ ।] ↩︎
-
इच्छोत्पादनमुखेन । ↩︎
-
सूरिः – [आ॰ टि॰] । ↩︎
-
फले एव । ↩︎
-
फलात् – [आ॰ टि॰] । ↩︎
-
कर्मणः – [आ॰ टि॰] ↩︎
-
फलम् । ↩︎
-
कर्मणि यागादौ । ↩︎
-
तत्साधनत्वात् कर्मण्येव प्रवर्तते न सर्वत्र, तत एव तर्हि तत्साधनत्व प्रवृत्तिहेतु कर्मणि न फलरूपम् तच्च कर्मसमवायीति कर्म प्रवर्तक स्यात् । चोदयति–तत्साधनत्वात् कर्मण्येव प्रवर्तते सर्वत्र सर्वेषा फलसाधनत्वाभावात् । परिहरति–तत एव तत्साधनत्वे सति प्रवृत्तिभावादेव । भवतु तर्हि तत्साधनत्व प्रवृत्तिहेतु कर्मणि, न फलरूपम् । भवतु को दोष ? इत्यत आह–ततश्च कर्मसमवायि न फलसमवायीति कर्मैव प्रवर्तक स्यात् । – [विधिवि॰, टी॰ पृ॰ २७-२८ ।] ↩︎
-
फलसाधनभूतस्य यागस्यैव प्रवर्त्तकत्व स्यात्, यागस्य तत्साधनत्वे निश्चिते सत्येव प्रवृत्तिदर्शनात् । ↩︎
-
एव तर्हि तत्साध्यता प्रवृत्तिहेतु, सा च फलसमवायिनीति न दोष, तथाहि समभिलषितस्य तृप्त्यादे कर्मविशेषेण साध्यत्वात्तत्रैव प्रवृत्ति, का पुनरिय साध्यता ? यदि रूप फलस्य; सर्वत्र प्रवृत्तिप्रसङ्ग । एतदुक्त भवति–फलसमवायिन्यपि साध्यता साधनाधीननिरूपणतया साधनमपि गोचरयति न पुनरसाधनमपि तेनैव तस्माद्विशेषात् साधन एव प्रवर्त्तयति न तु सर्वत्रेति । तदेतद् दूषयति–का पुनरिय साध्यता ? यदि रूप फलस्य, ततस्तस्य साधनाधीननिरूपणत्वाभावान्न साधने प्रवर्त्तयेत् प्रवर्त्तयेद्वा सर्वत्रैव अन्यत्वाविशेषात् । – [विधिवि॰, टी॰ पृ॰ २८ ।] ↩︎
-
ज्योतिष्टोमादियागजन्यता हि स्वर्गादिफलसमवायिनी अत वस्तुत यागसाध्यताया प्रवृतिहेतुत्वे फलस्यैव प्रवर्तकत्व फलितमिति भाव । ↩︎
-
“–साध्यतया प्रवृत्ति–” [श्र॰] । ↩︎
-
नियतकर्मसाध्यता । ↩︎
-
“तच्छक्ति–” [श्र॰] । ↩︎
-
फलभूतस्वर्गस्वरूपस्य । ↩︎
-
ज्योतिष्टोमादिवत् ↩︎
-
गोवधादौ – [आ॰ टि॰] । ↩︎
-
“नहि भु–” [श्र॰] । ↩︎
-
शक्तिविशेष । ↩︎
-
“स्वसत्ताकाले” [श्र॰] , [ब॰] । ↩︎
-
कदा पुनरय शक्तिभेद साध्यताभिधान ? फलस्य भावसमये न तावत्, वैयर्थ्यादप्रवृत्तिहेतुत्वाच्च । न खलूत्पन्नस्योत्पाद यद्योगिनी शक्तिरर्थवती । नापि सिद्धे फले तत्साधने कश्चित्प्रवर्तते । – [विधिवि॰ पृ॰ २९ ।] ↩︎
-
उत्पन्नस्य उत्पत्तिविरोधात्, अनुत्पन्नस्यैव हि समुत्पादो दृश्यते । ↩︎
-
अभावकालेप्यसत् कथ शक्तिमत् खपुष्पवत्– [विधिवि॰ पृ॰ २९ ।] ↩︎
-
“साध्यताशक्ति–” [श्र॰] , [ब॰] । ↩︎
-
साध्यतारूपशक्तिविशेषाधारत्वे । ↩︎
-
“तदाश्रयसत्त्वे वा” [ब॰] । ↩︎
-
फलस्य । ↩︎
-
शक्त्याधारत्वे सत्त्वमेव स्यादिति भाव । ↩︎
-
“तत्” [श्र॰] । ↩︎
-
निष्पन्नेऽपि फले प्रवृत्तौ प्रवृत्त्यनुपरमः स्यात् । ↩︎
-
पुत्रकामनया क्रियमाणे पुत्रेष्टियज्ञे न हि पुत्र स्वर्गादिवत् विद्यमानोऽस्ति । ↩︎
-
प्रवत्त्यविरामप्रसङ्गात् । ↩︎
-
अर्थितारहितम् – [आ॰ टि॰] । ↩︎
-
“अर्थिनोऽ–” [आ॰] । ↩︎
-
साध्यतावच्छिन्नात् फलात् । ↩︎
-
“अर्थिनमपि” [आ॰] । ↩︎
-
“–येदविशे–” [श्र॰] , [ब॰] । ↩︎
-
“–मानस्य प्रेर–” [आ॰] । ↩︎
-
अविद्यमानफलस्य । ↩︎
-
असत्त्वात् । ↩︎
-
प्रेरकत्वे सत्त्वमेव स्यादिति भाव । ↩︎
-
पुरुषनिष्ठ । ↩︎
-
अस्तु तर्हि कर्म प्रवर्तकम्, अभिमतसाधनता तस्य प्रवर्तना, प्रवृत्तिहेतुरूपत्वात्; न, विषयत्वात् । तदेतद् दूषयति “न” तस्य विषयत्वात्, प्रवृत्तिकर्त्तु प्रयोजक प्रवर्त्तक । सिद्धश्च स भवति । तदिह सिद्ध चेत् कर्म प्रवृत्ते प्राक् प्रवृत्ते भावनाया विषयो न भाव्यम् । न जातु गगनमस्या भाव्य भवितुमर्हति । विषयश्चेत् कर्म, असिद्धत्वात् कथ प्रवर्त्तकमित्यर्थ । – [विधिवि॰, टी॰ पृ॰ ३५ ।] ↩︎
-
न हि घटस्य ज्ञानविषयत्वे ज्ञानस्वभावता युक्ता – [आ॰ टि॰] । ↩︎
-
“विधिर्विष–” [श्र॰] , “विधिविष–” [ब॰] । ↩︎
-
विधिस्वभावम् । ↩︎
-
कर्मणि यागादी । ↩︎
-
“–र्तकेन भवि–” [श्र॰] , [ब॰] । ↩︎
-
असत प्रवृत्तिक्रियाया कर्तृत्वरूपस्य प्रवर्त्तकत्वस्य असम्भवात् । ↩︎
-
कर्मणा । ↩︎
-
“सह पौरु–” [श्र॰] । ↩︎
-
याग इति – [आ॰ टि॰] । ↩︎
-
कारीषादि – [आ॰ टि॰] । ↩︎
-
सामान्येन – [आ॰ टि॰] । ↩︎
-
विशेषरूपेण – [आ॰ टि॰] । ↩︎
-
वेदवाक्येनाभिधेयम् । ↩︎
-
सङ्केत-अर्थ-शब्दानाम् । ↩︎
-
ननु विधेर्लिङादिवाक्यताभ्युपगमात् तदुच्चारणात् प्रागसिद्धत्वे सति अगृहीतसम्बन्धत्वेन बाच्यत्वायोगाल्लिङाद्युच्चारणात् प्रागेव सिद्धे तत्परत्व न युक्तमित्याशक्य शब्दश्रवणानन्तरभाविप्रवृत्तिहेतुप्रेषणाध्येषणादिव्यापारानुवृत्तप्रवर्त्तनासामान्याभिधानेन तद्विशेषापेक्षायामपोरुषेये वेदे पुरुषधर्मस्य प्रेषणादेरसम्भवात् तद्व्यतिरिक्तविध्याख्यस्य विशेषस्य परिशेष्याल्लक्षणया गम्यमानस्य सम्बन्धग्रहणानपेक्षत्वेन प्राक् सिद्ध्यनपेक्षणादविरुद्धा शब्दव्यापरतेति – [न्यायसु॰ पृ॰ ५५९, तथा पृ॰ ३० । मीमासान्याय॰ पृ॰ १८० ।] ↩︎
-
विधि । ↩︎
-
लक्षणाया । ↩︎
-
सम्बन्धवत् । ↩︎
-
[पृ॰ ५७० ।] ↩︎
-
यदपि समर्थनम्–अप्राप्तसम्बन्धया क्रियया आत्मन सम्बन्धस्य प्रतीत्या प्रवृत्ति यथाऽद्य तवेद कर्मेति लोके । अतश्च अज्ञातज्ञापनमप्रवृत्तप्रवर्त्तनमुभयविधप्राप्तिप्रतिषेधेन अप्राप्तक्रियाकर्तृसम्बन्धो विधिरिति विधिविदामुद्गारा । – [विधिवि॰ पृ॰ ४० ।] ↩︎
-
“तदेव कर्म” [श्र॰] । ↩︎
-
नैतत्सारम्, यस्मात्–न प्रवृत्तिर्योगधियो लोकेऽभिप्रायवेदनात् । मृषा भवेत्तथा काम किं मुधैष प्रयस्यति ॥ प्रतिपद्यतानामायमात्मन क्रियायोग शब्दात्, त च तथाभावे तथेति निश्चिनोतु विपर्यये नैतदेवमिति । प्रवर्तते तु कस्मात् ? लोके त्वद्य तवेद कर्मेति वचनादधिगतवक्त्रभिप्रायो यो यदभिप्रायानुरोधी स प्रवर्तितुमर्हति अन्यथा सर्वस्य प्रवृत्ते । – [विधिवि॰ पृ॰ ४१–४२ ।] ↩︎
-
“तदविरोधितया” [ब॰] । ↩︎
-
वाक्यप्रयोक्तृपुरुषस्य अभिप्रायानुरोधात् प्रवृत्तिर्भवति अत अभिप्रायानुरोध एव विध्यर्थ स्यादिति भाव । ↩︎
-
“तदेवं कर्म” [श्र॰] । ↩︎
-
प्रयोक्तृपुरुषाभावात् अभिप्रायानुरोधितायाः अभावात् । ↩︎
-
मण्डनमिश्रादय । मण्डनमिश्रा हि “इद मच्छ्रेय साधनम्” इत्यवगमस्यैव प्रवृत्तिहेतुता स्वीकुर्वन्ति; तथा चोक्त तै–पुँसा नेष्टाभ्युपायत्वात् क्रियास्वन्य प्रवर्त्तक । प्रवत्तिहेतु धर्मञ्च प्रवदन्ति प्रवर्तनाम् ॥ प्रवत्तिसमर्थो हि कश्चिद् भावातिशयो व्यापाराभिधान प्रवर्तना । सा च क्रियाणामपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र प्रवर्तते कश्चित् । याप्याज्ञादिम्य प्रवृत्ति साऽपि कथचिदपेक्षितनिबन्धनत्वमुपाश्रित्यैव अन्यथाऽभावात् । – [विधिवि॰ पृ॰ २४३ ।] तथा चोक्तम्-तया धात्वर्थकार्यत्वे पद श्रुत्योपदर्शिते । भावनाया विधिश्रुत्या पुषार्थांशसाध्यतेति ॥ श्रेयःसाधनता ह्येषा नित्य वेदात् प्रतीयते [मी॰ श्लो॰ पृ॰ ४९ ।] इति च । तस्मादिष्टसाधनतैव विधि लिङाद्यभिधेयेति तद्युक्ताया भावनाया फलमेव भाव्य धात्वर्थस्तु करणमिति [पृ॰ ४६] तेनाभिधाव्यापारप्रवर्तनाभिधानवत् प्रवर्तनारूपेण इष्टसाधनता शब्दोऽभिधत्ते न स्वरूपेणेति न प्रतीतिविरोध । इदमेव भगवतो मण्डनमिश्रस्यापि ऽपुँसा नेष्टाभ्युपायत्वत् क्रियास्वन्यः प्रवर्तक । प्रव्र्त्तिहेतु धर्मञ्च प्रवदन्ति प्रवर्तनाम् । एवङ्कारञ्च प्रवर्तनाप्रत्यय इत्यादि वदतोऽभिमतम् । तदेव शब्दकर्तृक प्रवर्तनारूपेष्टसाधनत्वाभिधानमेव शब्दभावनेति गीयते । – [न्यायरत्नमा॰ पृ॰ ४७, ५३–५४ ।] इष्टसाधनत्वमेव विधितत्त्वम् [तन्त्ररह॰ पृ॰ ४५ ।] तथा च प्रवर्तनत्वानुरोधात् विधेरपि इष्टसाधनत्वादिकमेवार्थः – [मुक्ता॰ पृ॰ ५१६ ।] ↩︎
-
ज्योतिष्टोमादियागे । ↩︎
-
लोके । ↩︎
-
विधित्वेन । ↩︎
-
श्रेय साधनतापरनाम्न्या इष्टसाधनताया । ↩︎
-
उद्धृतमिदम् – [तौताति॰ पृ॰ १३४ ।] ↩︎
-
तुलना–किञ्च, भावनागत श्रेयःसाधनत्व प्रवर्त्तकमिष्यते तै, तच्च न पृथगभिधातु युक्तम् । भावनाया त्र्यशत्वेन तत्स्वरूपावगमसमये एतदशयो स्वर्गयागयो साध्यसाधनभावावगतिसिद्धे । – [ न्यायमं॰ पृ॰ ३६१ ।] ↩︎
-
श्रेय साधनत्वप्रसङ्गात् । ↩︎
-
“विहितानुष्ठानस्य तत्सा–” [ब॰] । ↩︎
-
यज्ञो हि वेदे विहितोऽत स श्रेय साधनमित्युक्ते सत्याह । तुलना–विधिपूर्वकस्य पश्वादिवधस्य विहितानुष्ठानत्वेन हिसाहेतुत्वाभावात् असिद्धो हेतुरिति चेत्, तर्हि विधिपूर्वकस्य सधनवधस्य खारपटिकाना विहितानुष्ठानत्वेन हिंसाहेतुत्व मा भूदिति सधनवधात् स्वर्गो भवतीति वचन प्रमाणमस्तु – [तत्त्वार्थश्लो॰ पृ॰ १२ ।] ↩︎
-
चौरशास्त्रविहितत्वात् । ↩︎
-
उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् – [शाबरभा॰ १ । १ । ५ ।] “ननु चोदनाया प्रामाण्य प्रतिज्ञात कथमुपदेशस्य साध्यते ? अत आह–चोदना चोपदेशश्च विधिश्चैकार्थवाचिन । – [मी॰ श्लो॰ सू॰ ५ श्लो॰ ११ ।] उपदेशो नियोज्यार्थकर्माप्रस्थितचोदना । प्रथितो गुरुवैद्यादौ नित्येऽपि न न कल्प्यते ॥ यद्यप्याज्ञाऽभ्यर्थना वेदेऽनुपपन्ना, उपदेशस्तु युज्यते । सोऽपि तद्वदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते । तथाहि–आज्ञाऽभ्यर्थने हि नियोक्त्रर्थमनाहितनियोज्यफल कर्म गोचरयत । नियोज्यार्थ तूपदेशः । अनुज्ञा तु यद्यप्येव क्वचित् तथापि प्रवृत्तपुरुषविषयत्वान्नोपदेश । नियोज्यार्थकर्मगोचरमप्रवृत्तप्रवर्तनमुपदेशमाचक्षते धीराः । न हि गामभ्याज माणवकमध्यापय कुरुयथाभिमतमित्युपदेशप्रतीति । नापि भैक्ष्य चेत् चर ज्वरित पथ्यमश्नीयादिति प्रतीति, भूयसा चैष पौरुषेयेषु कामार्थशास्त्रादिष्वाज्ञादिभिरनारूषितो लोके प्रज्ञायते, गोपालादिवच सु च मार्गाख्यानपरेषु अनेन पथा गच्छेति । प्रदर्शनार्थञ्चेदम्, अतोऽर्थशब्दाभिधोच्चारणादिज्ञानञ्च कर्मकर्तृकरणभावसाधनेन उपदेशशब्देन उच्यते । प्रेषणादिवत् तैरपि हि यथाविवक्षितमर्थादयो निर्दिश्यन्ते सिद्धान्तमुपक्रमते–उच्यते–उपदेशो नियो उपदेशस्तु युज्यते तस्य अपौरुषयेऽपि सभवात् । न ह्यसौ नियोजकार्थकर्मेति वक्ष्यति, येन चेतनकर्तृक स्यात्, न चासौ न लौकिक अप्रेरणात्मको वा येनाविधि स्यादित्याहसोऽपि तद्वदेव आज्ञावदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते । एतदुक्त भवति–आज्ञाभ्यर्थनोपदेशा कर्मणि प्रवृत्तिजननेन तद्गोचरयन्तो भवन्ति प्रेरणात्मतया समाना । तेषामाज्ञाभ्यर्थनाभ्या गोचरीक्रियमाण कर्म अनादृतनियोज्यप्रयोजनमाज्ञापयितुरभ्यर्थयमानस्य वा प्रयोजनायावकल्प्यते । उपदेशगोचरस्तु कर्म अनादृतोपदेशकप्रयोजनमुपदेष्टव्यार्थमेवेत्ययम् आज्ञाऽभ्यर्थनाभ्यामुपदेशस्य भेद, प्रेरणात्मकत्व चेति नियोज्यार्थ कर्म यस्योपदेशस्य न तु नियोक्त्रर्थ स तथोक्त इत्यक्षरयोजना । अप्रस्थितस्य अप्रवृत्तस्य पुस प्रस्थापना चोदना ननूपदेशो विधि, स चार्थभेदाभिधायक, शब्द इति क्वचित्क्वचिदुच्चारणमाह शब्दस्योच्चारणमिति । क्वचिदर्थं विध्युद्देशेनैकवाक्यत्वादिति । वक्चिद्वचनम् चोदनेति क्रियाया प्रवर्तक वचनमिति । क्वचित् ज्ञान शास्त्र शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमिति, वार्तिककारश्च अभिधा भावनामाहुरित्यभिधामिति । अत आह–प्रदर्शनार्थं चेद विशिष्ट शब्दो विधिरिति । अतोऽर्थशब्दाभिधोच्चारणादिज्ञान च कर्मकर्तृकरणभावसाधनेनोपदेशशब्देन यथायथमुच्यते – [विधिवि॰, टी॰ पृ॰ २३८–२४१ ।] ↩︎
-
कर्मकरणभावसाधनेषु क्रमशः । ↩︎
-
“च प्रविषयो” [ब॰] । ↩︎
-
“–उच्चारमुच्यते” [श्र॰] । ↩︎
-
ठकशास्त्रीयवाक्येष्वपि ↩︎
-
परान्ग्रहप्रवृत्त । ↩︎
-
अग्निष्टोमेन यजेत स्वर्गकाम इत्यादि विधिवाक्यस्य । ↩︎
-
“–त ओषधं” [आ॰] । ↩︎
-
“–पदेशप्रतीते” [आ॰] । ↩︎
-
ननूक्तमुपदेश इति विशिष्टस्य शब्दस्योच्चारणम्; यद्येवमव्युत्पन्नस्यापि प्रवृत्तिप्रसङ्ग । उच्यते–विशिष्ट पुरुषार्थस्य शुद्धस्योपायमाह य । पुरुषार्थो यदा येन यो नरेणाभिकाङ्क्ष्यते ॥ पुरुषार्थस्योपायमनवगतमवगमयन्नुत्कर्षाद्विशिष्ट शब्द उक्त, अन्यथा सर्व एव शब्दः शब्दान्तराद् भिन्न इत्यविशेषणमेव स्यात् । अतो नाऽविदितार्थस्य प्रवृत्ति । – [विधिवि॰ पृ॰ २४० ।] ↩︎
-
पुरुषार्थोपायताम् । ↩︎
-
तुलना–ननु कर्त्तव्यमिति प्रतिपत्ते प्रवृत्ति । अत्र केचिदाम्नाय प्रति श्राद्धमानिन प्राहु–ननु कर्तव्यमिति प्रतिपत्तेः प्रवृत्ति । इदमाकूतम्–कार्यदर्शनोन्नेयप्रवृत्तय खल्वमी लिङादय । कार्यञ्च प्रवृत्तिलक्षण वृद्धानां लिङादिश्रवणसमनन्तरमुपलभ्यते । तच्च बुद्धिपूर्वक स्वतन्त्रप्रवृत्तित्वात् अस्मत्प्रवृत्तिवत् । अनुमिता च बुद्धि अस्मत्प्रवृत्तिहेतुबुद्धिगोचरचारिणी प्रवृत्तिहेतुबुद्धित्वात् अस्मत्प्रवृत्तिहेतुबुद्धिवत् । तस्याश्च विषय स्वयमेव चक्षुरुन्मीत्य पिण्डिकरोग डिण्डिकरागं परित्यज्य पर्यालोचयन्तः शब्दव्यापारपुरुषाशयतत्समीहिततत्साधनताव्युदासेन कर्त्तव्यतामेव प्रतिपद्यामहे । तथाहि–स्तनपानादावपि न जातु समीहितोपाय इत्येव प्रवृत्ता स्म, किन्तु कर्त्तव्यमेतदिति लिङादिश्रवणानन्तरा प्रवृत्ति कर्त्तव्यताभिधानमेव लिङादीनामापादयति । तथा च विदितसङ्गतितया लिङादयो वेदेऽपि तामेवाभिदघते । – [विधिवि॰ टी॰ पृ॰ २४४ ।] ↩︎
-
“–द्य प–” [श्र॰] , [ब॰] । ↩︎
-
“–क्त सर्वत्र” [आ॰] । ↩︎
-
तुलना–नन्वपेक्षितोपायतामन्तरेण कर्त्तव्यमिति शतशोऽप्यभिधीयमान न प्रवृत्तये कल्प्यत इत्यत आह–कथ हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ? शब्दस्तावत्कर्तव्यताया विदितसङ्गति तामवगमयति । तथा नैमित्तिकनिषेधाधिकारयोरसौ प्रतीयमाना न शक्या नेति वक्तुम् । – [विधिवि॰ टी॰ पृ॰ २४५ ।] ↩︎
-
ब्राह्मणवधादिनिषिद्धे कर्मणि । ↩︎
-
कर्त्तव्यताप्रतिपत्ति । ↩︎
-
कर्तव्यताप्रतीते । ↩︎
-
श्रेय साधनताम् । ↩︎
-
श्रेयःसाधनताविशिष्टकर्तव्यताप्रतीतेर्विधित्वम् । ↩︎
-
“–ताया विधि–” [ब॰] , [श्र॰] । ↩︎
-
वैयाकरणानाम् । अभ्यासात्प्रतिभाहेतु शब्द सर्वोऽपरै स्मृत । बालाना च तिरश्चा च यथार्थप्रतिपादने ॥ ११९ ॥ विच्छेदग्रहणेऽर्थाना प्रतिभाऽन्यैव जायते । वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥ १४५ ॥ इदं तदिति साऽन्येषामनाख्येया कथञ्चन । प्रत्यात्मवृत्तिसिद्धा सा कर्त्रापि न निरूप्यते ॥ १४६ ॥ उपश्लेषमिवार्थाना सा करोत्यविचारिता । सार्वरूप्यमिवापन्ना विषयत्वेन वर्त्तते ॥ १४७ ॥ साक्षाच्छब्देन जनिता भावनानुगमेन वा । इतिकर्त्तव्यताया ता न कश्चिदतिवर्त्तते ॥ १४८ ॥ प्रमाणत्वेन ता लोक सर्वः समनुपश्यति । समारम्भा प्रतीयन्ते तिरश्चामपि तद्वशात् ॥ १४९ ॥ – [वाक्यप॰ २ । ११९, १४५-४९ ।] ↩︎
-
सर्वस्य श्रोतु प्रवृत्तिप्रसङ्गादेव । ↩︎
-
प्रतिभासमानाकारो यो निर्णय तद्रूपा प्रतिभा – [आ॰ टि॰] । ↩︎
-
तुलना–न हीदमित्थमनेन कर्त्तव्यमित्यनुपजातप्रतिभाभेद प्रवर्तते प्रत्यक्षाद्यवगतेऽप्यर्थे । तत्र हि प्रमाणकार्यसमाप्ति । प्रतिभानेत्रो हि लोक इतिकर्त्तव्यतासु समीहते । – [विधिवि॰ पृ॰ २४७–४८ ।] ↩︎
-
यागादौ – [आ॰ टि॰] । ↩︎
-
साधनविशेषमुद्दिश्य कर्त्तुमध्यवसिते – [आ॰ टि॰] । ↩︎
-
“क्रियाविशेषो न पुरुषं प्रवर्त्तयति सर्वस्य प्रवृत्तिप्रसङ्गात् परिस्फुरणं” [ब॰] । ↩︎
-
व्याख्या–न हि ते प्रतिभाविद ये सवेदनमनिश्चयात्मक प्रतिभामाचख्यु । सशयो हि स । वय तु साध्यसाधनेतिकर्तव्यतावच्छिन्नायाः क्रियायाः प्रतिपत्तावनुकूला तत्प्रतिपत्त्या कार्येऽनुष्ठानलक्षणे कर्त्तव्ये सहकारिणी कर्त्तव्यमिति प्रज्ञा प्रतिभामध्यगीष्महि । – [विधिवि॰ टी॰ पृ॰ २४७ ।] नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा – [तत्त्वस॰ प॰ पृ॰ २८६ ।] ↩︎
-
“सिद्धे प्र–” [श्र॰] । ↩︎
-
तुलना– आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु घर्मादिनिबद्धेषु ग्रन्थोपनिबद्धेषु च आत्ममनसो सयोगाद् धर्मविशेषाच्च यत् प्रातिभ यथार्थनिवेदन ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम् । कदाचिदेव लौकिकाना यथा कन्यका ब्रवीति श्वो मे भ्राताऽऽगन्तेति हृदय मे कथयतीति । – [प्रश॰ भा॰ पृ॰ २५८ ।] प्रमाण प्रतिभ श्वो मे भ्राताऽऽगन्तेति दृश्यते । – [न्यायम॰ पृ॰ १०६ ।] प्रतिभा ऊह तदभव प्रातिभम् – [योग॰ तत्त्ववै॰ ३ । ३३ ।] प्रातिभ स्वप्रतिभोत्थमनौपदेशिकं ज्ञानम् । – [योगवा॰ ३ । ३३ ।] तत्र दृष्टकारण विनैब अकस्माद् व्यवहितविप्रकृष्टातीतानागतसूक्ष्माद्यर्थस्फुरणे सामर्थ्यं प्रतिभा । – [योगसं॰ पृ॰ ५५ ।] इन्द्रियलिङ्गाद्यभावे यदर्थप्रतिभान सा प्रतिभा – [प्रश॰ कन्द॰ पृ॰ २५८ ।] प्रज्ञा नवनबोल्लेखशालिनी प्रतिभाऽस्य धी । – [अलं॰ चि॰ पृ॰ २ ।] ↩︎
-
आलोचनाज्ञान – [आ॰ टि॰] । ↩︎
-
निर्णयरूपतया । ↩︎
-
अग्निहोत्र जुहुयात् इत्यादि प्रवर्तक हि वाक्य चोदना । ↩︎
-
“–प्यप्रस्फुरणात्” [ब॰] । ↩︎
-
आदिपदेन प्रत्यक्षव्यापार-शब्दौ ग्राह्यौ । ↩︎
-
यथा क्रमं स्मृत्यनुमानशब्दानाम् – [आ॰ टि॰] । ↩︎
-
प्रतिभाख्यम् । ↩︎
-
“केचित्तु भ–” [ब॰] । ↩︎
-
एव च सति लिङादे कोऽयमर्थ परिगृहीत इति चेत्, यज् देवपूजायामिति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यता व्युत्पत्तिसिद्धा लिङादयोऽभिदधतीति न किञ्चिदनुपपन्नम् । – [वेदार्थ॰ पृ॰ २२५ ।] ↩︎
-
भक्तिस्तु निरतिशयानन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानविशेष एव । – [सर्वद॰ पृ॰ ३४४ । वेदार्थ॰ पृ॰ १५२ ।] ↩︎
-
राज्यशासनम् । ↩︎
-
श्रद्धया । ↩︎
-
“भक्तिं सैव न त–” [ब॰] । ↩︎
-
शास्त्रम् । ↩︎
-
“प्रवृत्तेर्निमि–” [श्र॰] । ↩︎
-
आत्मा वा अरे द्रष्टव्यः ओतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् । – [बृहदा॰ २ । ४ । ५, ४ । ५ । ६ ।] ↩︎
-
आत्मदर्शनश्रवणमनननिदिध्यासनेषु । ↩︎
-
“तत्तच्छब्द–” [श्र॰] । ↩︎
-
भक्ति । ↩︎
-
शब्दश्रवणमात्रनिबन्धना । ↩︎
-
भक्ति न शब्दश्रवणमात्रहेतुका शब्दश्रवणेऽपि अनुत्पद्यमानत्वात् । ↩︎
-
“–मतफलं” [श्र॰] । ↩︎
-
“तस्यै एव” [ब॰] । ↩︎
-
समर्थेश्वराराधनाया । ↩︎
-
“–त्वप्रतिसिद्धेः” [आ॰] । ↩︎
-
यदि । वेद ईश्वराराधनरूपा भक्ति विदधीत तदा धर्मेऽपि ईश्वरस्यैव प्रामाण्य स्यात् तथा च वेदस्य अपौरुषेयत्वव्याधातः, ईश्वरस्य निग्रहानुग्रहकरणवत् वेदकर्तृत्वमपि स्यादिति भाव । ↩︎
-
निरुपाधिपूर्वत्वविशिष्टस्य ब्रह्मणः । ↩︎
-
[पृ॰ १५०–।] ↩︎
-
ब्रह्मणि । ↩︎
-
ईश्वरात् । ↩︎
-
वेदवाक्यादेर्वा । ↩︎
-
“–णादिवद्भक्तिः” [श्र॰] । ↩︎
-
अतः सिद्ध न तार्किकरीत्या इष्टसाधनत्वे लिङाद्यर्थत्वमपि तु पूर्वोक्तरीत्या प्रवर्त्तकेच्छाया एव । – [भाट्टरह॰ पृ॰ ८ ।] ↩︎
-
“–तयो विधिप्रभृतयो वि–” [आ॰] । ↩︎
-
तुलना–अपरे पुनर्लिङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषमुद्योग नाम वाक्यार्थमाचक्षते; तत्स्वरूप तु न वय जानीम, कोऽयमात्मस्पन्दो नाम बुद्धिर्वा स्यात् प्रयत्नो वा इच्छाद्वेषयोरन्यतरो वा । – [न्यायम॰ पृ॰ ३६५ ।] ↩︎
-
विषय अग्निष्टोमादियाग । ↩︎
-
इच्छाप्रयत्नादीनामपि । ↩︎
-
विषयफलादिसापेक्षाणाम् । ↩︎
-
“तुतत्प्र–” [ब॰] , [श्र॰] । ↩︎
-
इच्छाप्रयत्नादीनामेव । ↩︎
-
विधित्वप्रसङ्गात्, तच्च पूर्व निराकृतमिति । ↩︎
-
सामान्यविशेषात्माऽर्थ एव । ↩︎
-
“–ज्ञानं वक्त्र–” [श्र॰] । ↩︎
-
“दिग्भा–” [श्र॰] । ↩︎
-
श्रुति आगमज्ञानम् । ↩︎
-
चेद् यदि भवेत् । क ? अनाश्वास अविश्वास । क्व ? सर्वत्र अविसवादिश्रुतिप्रामाण्ये । केषाम् ? प्रतिबन्धमपश्यता शब्दार्थयो सहजयोग्यतालक्षण सम्बन्धमनीक्षमाणाना सौगतानाम् । कस्मात् ? विसवादात् । कस्या ? श्रुते आगमस्य । कथम् ? प्रायः क्वचित्कदाचिदित्यर्थ । तदा सोऽनाश्वास सम समान । कासाम् ? अक्षलिङ्गधियाम्, अक्षमिन्द्रिय लिङ्ग हेतु ताभ्या जनिता धियो ज्ञानानि तासामपि प्रसक्तमित्यर्थ क्वचित्कदाचिद्विसवाददर्शनात् । – [लघी॰ ता॰ पृ॰ ४७ ।] ↩︎
-
इन्द्रियज्ञानस्य लक्षणे “अभ्रान्तम्” इति विशेषण सौगतै प्रयुज्यते– कल्पनापोढमभ्रान्त प्रत्यक्षम् । [न्यायबि॰ १ । ४] इत्यभिधानात् । ↩︎
-
प्रत्यक्षलक्षणे “अव्यभिचारि” इति विशेषणं नैयायिकापेक्षया ज्ञेयम् । इन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मक ज्ञान प्रत्यक्षम् । [न्यायसू॰ १ । १ । ४] इत्युक्तत्वात् । ↩︎
-
अभ्रान्तादिविशेषणविशिष्टे । ↩︎
-
“–र्थभि–” [ज॰ वि॰] । ↩︎
-
“–धानमवि–” [ई॰ वि॰] । ↩︎
-
तुलना–स्वभावेऽध्यक्षतः सिद्धे परैः पर्यनुयुज्यते । तत्रोत्तरमिदं वाच्य न दृष्टेऽनुपपन्नता । – [प्रमाणवार्तिकालं॰ पृ॰ ६८ ।] न हि दृष्टेऽनुपपन्नता । – [धवला॰ टी॰ पृ॰ ३२० ।] ↩︎
-
तुलना– विवक्षाप्रभव वाक्य स्वार्थे न प्रतिबध्यते । यतः कथं तत्सूचितेन लिङ्गेन तत्त्वव्यवस्थिति । वक्त्रभिप्रायमात्र वाक्य सूचयन्तीत्यविशेषेणाक्षिपन् न पारम्पर्येणापि तत्त्व प्रतिपद्येत । न च वक्त्रभिप्रायमेकान्तेन सूचयन्ति श्रुतिदुष्टादेरन्यत एव प्रसिद्धे । – [सिद्धिवि॰ पृ॰ २६४ ।] ↩︎
-
“श्रुतकल्प–” [ई॰ वि॰] । ↩︎
-
“–स्य ज्ञानस्य” [श्र॰] । ↩︎
-
“प्रतिसम्बन्धं” [आ॰] । ↩︎
-
“–श्वास तासामपि” [श्र॰] । ↩︎
-
“–रीतिविशे–” [आ॰] । ↩︎
-
अभ्रान्तादिविशेषणसहितत्वे । ↩︎
-
इन्द्रियज्ञानादिकम् । ↩︎
-
“इन्द्रियस्य” [श्र॰] । ↩︎
-
अभ्रान्तादिविशेषणयुक्तस्यैव । ↩︎
-
अर्थमन्तरेणापि अतीतानागतादौ शब्दप्रयोगदर्शनात् । ↩︎
-
“–शात् शक–” [आ॰] । ↩︎
-
तुलना–स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थं गमयेत् । तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । – [न्यायबि॰ पृ॰ ४० ।] ↩︎
-
“–त्तिप्रतिबन्ध–” [ब॰] । ↩︎
-
“–वादकत्वं त–” [श्र॰] । ↩︎
-
“–त तज्ज्ञान–” [ब॰] , [श्र॰] । ↩︎
-
श्रुतस्य । तुलना–अपि चान्यविवक्षायामन्यशब्ददर्शनात् विवक्षायामपि क्वचिद्व्यभिचारात् सर्वत्रानाश्वासात् कथं विवक्षाविशेषसूचका अपि ते स्यु । – [सन्मति॰ टी॰ पृ॰ २६६ ।] ↩︎
-
“–प्राये प्रामा–” [आ॰] , [श्र॰] । ↩︎
-
“–न्नाह येन हि” [आ॰] । ↩︎
-
“स्वभावत” [ब॰] । ↩︎
-
“–ण श्रु–” [ब॰] । ↩︎
-
श्रुतिदुष्ट श्रुतिकटु । श्रुतिकटु परुषवर्णरूपम् दुष्टम् । – [काव्यप्र॰ पृ॰ २६७ ।] “या भवत प्रिया” इत्यत्र शृङ्गाररसवर्णनावसरे निषिद्धस्य रेफस्य प्रयोगादेव श्रुतिकटुत्व ज्ञेयम् । “प्रिया” इत्यत्र रेफसयोग स्पष्ट एव । ↩︎
-
कल्पनादुष्टञ्च विरुद्धकल्पनायुक्तत्वात् अनुचितकल्पनाशालित्वाद्वा बोध्यम् । “पर प्रहृत्य” इत्यत्र हि यदा वीर्यवान् पुरुष पर प्रहृत्य प्रहारानन्तर विश्रान्त विशेषेण श्रान्त क्लान्तः तदा तस्य बीर्यवत्त्वेन वर्णनमनुचितमेव । यदि हि प्रहारानन्तर क्लान्त कथ वीर्यवान् ? क्लान्तत्ववीर्यवत्त्वयोर्विरोधात् । ↩︎
-
“श्रुतविकल्पना–” [आ॰] , [श्र॰] । ↩︎
-
“–दिग्रहपरिग्रहः” [श्र॰] । ↩︎
-
अयमर्थ–आप्तोक्तेर्बहिरर्थाविनिश्चये सुगतेतरवचनयो सत्येतरव्यवस्था का अर्थाविषयत्वाविशेषात् । हेतुवादाच्च बहिरर्थाविनिश्चये साधनेतरता कुत बहिरर्थशून्यत्वाविशेषादिति । – [लघी॰ ता॰ पृ॰ ४८ ।] सत्येतरव्यवस्था हि वाह्यार्थप्राप्त्यप्राप्तिनिबन्धनैव, तथा चोक्तम्– [आप्तमीमासायाम् का॰ ८७] बुद्धिशब्दप्रमाणत्व बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैव युज्यतेऽर्थाप्त्यनाप्तिषु । तुलना–वाक्यानामविशेषेण बवत्रभिप्रेतवाचिनाम् । सत्यानृतव्यवस्था न तत्त्वमिथ्यात्वदर्शनात् ॥ मिथ्यादर्शनज्ञानात् मिथ्यार्थत्व गिरा मतम् । – [सिद्धिवि॰ पृ॰ ५०२ ।] ↩︎
-
“सर्वर्थान्” [ज॰ वि॰] । ↩︎
-
तुलना–नान्तरीयकताभावाच्छब्दाना वस्तुभि सह नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचका ॥ ३ । २१२ ॥ वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्य तत्र शब्दस्य नार्थतत्त्व- निबन्धनम् ॥ १ । ४ ॥ यद्यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितबाह्यार्थं तत्तथा वाचक मतम् ॥ १ ॥ ६७ ॥ – [प्रमाणवा॰ ।] साक्षाच्छब्दा न बाह्यार्थप्रतिबन्धविवेकत । गमयन्तीति च प्रोक्त विवक्षासूचकास्त्वमी ॥ – [तत्त्वसं॰ पृ॰ ७०२ ।] यथोक्तम्–वक्तुरभिप्राय सूचयेयु शब्दाः । – [तर्कभा॰ मो॰ पृ॰ ४ ।] ↩︎
-
अन्यविवक्षायामन्यशब्दोच्चारणमपि प्रतीयते यथा देवदत्तविवक्षाया यज्ञदत्तोच्चारण गोत्रस्खलनेऽनुभूयते । ↩︎
-
आप्त खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्करणमर्थस्य आप्तिः तया प्रवर्तते इत्याप्तः । – [न्यायभा॰ १ । ७ ।] आप्ति साक्षादर्थप्राप्तिः यथार्थोपलम्भ तया वर्तत इत्याप्त साक्षात्कृतधर्मा यथार्थप्राप्त्या श्रुतार्थग्राही । आगमो ह्याप्तवचनमाप्त दोषक्षयाद्विदु । क्षीणदोषोऽनृतं वाक्य न ब्रूयाद्धेत्वसभवात् । स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जित । पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेय स तादृश । – [साङ्ख्यका॰ माठर॰ पृ॰ १३ ।] यो यत्राविसवादकः स तत्राप्तः परोऽनाप्त तत्त्वप्रतिपादनमविसवाद तदर्थज्ञानात् । – [अष्टश॰, अष्टसह॰ पृ॰ २३६ ।] ↩︎
-
तत्र पक्षादिवचनानि साधनम् – [न्यायप्र॰ पृ॰ १ ।] ↩︎
-
साधनदोषोद्भावनानि दूषणानि – [न्यायप्र॰ पृ॰ ८ ।] ↩︎
-
तद्वत् प्रमाण भगवान् यथाभिहितस्य सत्यचतुष्टयस्याविसंवादनात्तस्यैव परैरज्ञातस्य प्रकाशनाच्च । – [प्रमाणवा॰, मनोरथ॰ १ । ९ ।] “तायित्वाच्च भगवत सुगतस्य प्रामाण्य तथाहि–ताय स्वदृष्टमार्गोक्ति वैफल्याद्वक्ति नानृतम् । दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगत । तस्मात्प्रमाणं तायो वा चतु सत्यप्रकाशनम् ॥–दुःखहेतुनिवर्तकत्वेन स्वयं दृष्टस्य मार्गस्योक्तिर्देशना ताय करणे कार्योपचारात् । तया हि सत्त्वान् तायते तद्योगात्तायित्वम् । स च वैफल्याद्वक्ति नानृतम् । आत्मसुखाद्यभिलाषादिना कश्चिदसत्य वदति अज्ञानाद्वा । प्रहीणात्मदर्शनस्य साक्षात्कृततत्त्वस्य तदुभय नास्ति । विशेषत सत्याभिधानहेतुरेव कृपास्तीत्याह–दयालुत्वाच्च परार्थञ्च सर्वस्य मार्गाभ्यासादेरारम्भेऽभियोगत परार्थमेवोद्दिश्य भगवानभिसम्बुद्ध कथन्तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्काऽपि । तस्मात्तायित्वात् प्रमाण भगवान् । यथादृष्टार्थप्रवक्तृत्व हि संवादित्वमेवेति प्रथमप्रमाणलक्षणयोगात् प्रामाण्यमनेनोक्तम् । द्वितीयलक्षणयोगमप्याह–तायो वा चतु सत्यप्रकाशनम् । परैरज्ञातस्य सत्यचतुष्टयस्य प्रकाशन वा तायः तद्योगात् तायी प्रमाण भगवानुक्त । – [प्रमाणवा॰, मनोरथ॰ १ । १४७-४८ ।] तत सुगतमेवाहु सर्वज्ञं मतिशालिनः । प्रधानपुरुषार्थज्ञ त चैवाहुर्भिषग्वरम् ॥ – [तत्त्वस॰ पृ॰ ८७८ ।] ↩︎
-
“अनुपदेशात् लिगावि–” [ब॰] । ↩︎
-
चत्वार्यायसत्यानि, तद्यथा दुःख समुदयो निरोधो मार्गश्चेति । – [धर्मस॰ पृ॰ ५ ।] सत्यान्युक्तानि चत्वारि दुःख समुदयस्तथा । निरोधो मार्ग एतेषा यथाभिसमय क्रम ॥ – [अभिधर्मको॰ ६ । २ ।] ↩︎
-
“च” [ब॰] । ↩︎
-
अथवा साध्यते येन परेषामप्रतीतोऽर्थ इति साधन त्रिरूपहेतुवचनसमुदाय, तस्याङ्ग पक्षधर्मादिवचनं अथवा तस्यैव साधनस्य यन्नाङ्ग प्रतिज्ञोपनयनिगमनादि – [वादन्याय॰ पृ॰ ६१ ।] ↩︎
-
“–वस्था वा” [श्र॰] । ↩︎
-
वक्त्रभिप्राये । ↩︎
-
तुलना–विचित्राभिसन्धितया व्यापारव्याहारादिसाकर्येण क्वचिदप्यतिशयानिर्णये कैमर्थक्याद्विशेषेष्टि ज्ञानवतोऽपि विसवादात् क्व पुनराश्वास लभेमहि । – [अष्टश॰, अष्टसह॰ पृ॰ ७१ ।] चेद्यदि, वागाप्तवचनम्, अर्थव्यभिचारिणी बाह्यार्थाविसवादिनी स्यात् । कस्मात् ? चित्राभिसन्धे चित्र सत्यासत्यादिरूपो नानाभिसन्धिरभिप्रायो विवक्षा तस्मात् । कस्य ? पुसो वक्तु “सरागा अपि वीतरागवच्चेष्टन्ते” इति वचनात् । तर्हि विजातीयादपि कारणात् कार्य दृष्टमविरुद्ध स्यात् । ततस्तत् कारणभेदि कारण प्रतिनियत स्वात्मलाभनिबन्धन भिनत्ति विजातीयाद्विशिनष्टीत्येव शील किं शक्य स्यात् ? न स्यादेवेत्यर्थ । तस्य यत कुतश्चिदुत्पत्तेरविरोधात् । न खल्वनियतकारणजन्य कार्य कारणभेद गमयत्यशक्ते । – [लघी॰ ता॰ पृ॰ ४९ ।] ↩︎
-
“कार्यदृष्ट” [ई॰ वि॰] । ↩︎
-
तुलना–न चैव वादिन किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुल कार्यस्वभावानियमोषलम्भात् । सति काष्ठादिसामग्रीविशेषे क्वचिदुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि सभवात् । यज्जातीयो यत मप्रेक्षितस्तज्जातीयात्तादृगिति दुर्लभनियमताया धूमधूमकेत्वादीनामपि व्याप्यव्यापकभाव कथमिव निर्णीयेत वृक्ष शिशपात्वादिति लताचूतादेरपि क्वचिदेव दर्शनात् प्रेक्षावता किमिव नि शक चेत स्यात् – [अष्टश॰, अष्टसह॰ पृ॰ ७२ । सन्मति॰ टी॰ पृ॰ २६६ ।] ↩︎
-
तुलना–चैतसेभ्य सम्यक्मिथ्याप्रवृत्तयस्ते चातीन्द्रियस्वप्रभवकायवाग्व्यवहारानुमेया स्यु व्यवहाराश्च प्रायशो बुद्धिपूर्वमन्यथापि कर्तु शक्यते पुरुषेच्छावृत्तित्वात्तेषा च चित्राभिसन्धित्वात् । तदय लिङ्गसकरात् कथमनिश्चिन्वन् प्रतिपद्येत ? दुर्बोधत्वात् दुप्राप्यत्वादन्यगुणदोषनिश्चायकाना प्रमाणानाम् चैतसेभ्य इत्यादिना व्याचष्टे । चेतसि भवा चैतसा गुणदोषा । चैतसेभ्य गुणेभ्यः कृपावैराग्यबोधादिहेतुभ्य सम्यक्प्रवृत्तय यथार्थप्रवृत्तय, चैतसेभ्यो दोषेभ्य रागादिभ्यो मिथ्याप्रवृत्तयो विपरीतप्रवृत्तयो भवन्ति । ते चेति परेषा चैतसा गुणदोषा चेतोधर्मत्वेनातीन्द्रिया ततो न प्रत्यक्षगम्या । किन्तु स्वस्माद् गुणदोषरूपात् प्रभव उत्पादो यस्य कायवाक्कर्मण तेन कार्यलिङ्गेनानुमेया । तच्च नास्ति । यस्माद् व्यवहाराश्च कायवाक्कर्मलक्षणा प्रायशो बाहुल्येन बुद्धिपूर्वमिति कृत्वा प्रतिसख्याने अन्यथापि कर्त्तु शक्यन्ते । तथाहि सरागा अपि वीतरागवत् आत्मान दर्शयन्ति वीतरागाश्च सरागवत् । किं कारणम् ? पुरुषेच्छावृत्तित्वात् व्यवहाराणा तेषा चेति पुसा चित्राभिसन्धित्वात् चित्राभिप्रायत्वात् ततो यथेष्टं व्यवहारा प्रवतन्ते इति नास्ति गुणदोषप्रभवाणा व्यवहाराणा विवेकनिश्चय । तदिति तस्मादयमनुमाता पुमान् लिङ्गमकरात् लिङ्गव्यभिचारादनिश्चिन्वन् क्षीणदोष कथमागमस्य कर्तार प्रतिपद्येत नैवेति निगमनीयम् । – [प्रमाणवा॰ स्ववृ॰, टी॰ १ । २२२ ।] यथा रक्तो ब्रवीति तथा विरक्तोऽपि । एव न वचनमात्रात्, नापि विशेषात् प्रतिपत्ति अभिप्रायस्य दुर्बधित्वात् व्यवहारसकरेण सर्वेषा व्यभिचारात् । विरक्तो हि रक्तवच्चेष्टते रक्तोऽपि विरक्तवदित्यभिप्रायो दुर्बोध – [प्रमाणवा॰ स्ववृ॰, टी॰ १ । १४ ।] क्षीणावरण समधिगतलक्षणोऽपि सन् विचित्राभिसन्धिरन्यथा देशयेदिति विप्रलम्भशकी – [प्रमाणसं॰ पृ॰ ११६ । अष्टसह॰ पृ॰ ७१ । तत्त्वार्थश्लो॰ पृ॰ ९ । सूत्रकृतागटी॰ पृ॰ ३८४ । लघी॰ ता॰ पृ॰ ४९ ।] ↩︎
-
“–भावे तेन बहि–” [आ॰] , [ब॰] । ↩︎
-
“–न प्रति–” [श्र॰] । ↩︎
-
“क्वचित्किमि–” [श्र॰] । ↩︎
-
[पृ॰ ४३५ ।] ↩︎
-
“अध्यक्षत्वे–” [आ॰] । ↩︎
-
आदिपदेन तृण-अरणिनिर्मथनादयो ग्राह्या । ↩︎
-
तुलना–यत्नत परीक्षित कार्य कारण नातिवर्तते इति चेत् स्तुतम् प्रस्तुतम् – [अष्टश॰, अष्टमह॰ पृ॰ ७२ । प्रमेयरत्नमा॰ ३ । १०१ । लघी॰ ता॰ पृ॰ ४९ ।] अथ सुविवेचित कार्यं कारण न व्यभिचरतीति न्यायाद् । – [सन्मति॰ टी॰ पृ॰ २६६ ।] ↩︎
-
“भावौ बोक्त–” [ब॰] , “भादौ चोक्त–” [श्र॰] । ↩︎
-
अदृष्टे तादात्म्यतदुत्पत्ती यस्य तत् अदृष्टतादात्म्यतदुत्पत्ति तस्य अगृहीतस्वभावकार्यादिरूपस्य श्रुतज्ञानस्य इत्यर्थ । अत्र अदृष्टतादात्म्यतदुत्पत्तिशब्द श्रुतस्य विशेषणत्वात् नपुसकलिङ्गोऽपि भादौ इत्यादि सुत्रानुसारेण भादौ अजादौ सुपि उक्तपुस्कमिगन्त नप् नपुसक वा पुवद् भवति इति पुल्लिङ्गे प्रयुक्त, नपुसकलिङ्गे तु नुमागमे सति “अदृष्टतादात्म्यतदुत्पत्तिन” इति प्रयोगः स्यात् इति भाव । ↩︎
-
श्रुतस्य । ↩︎
-
अस्मिन् ग्रन्थे । ↩︎
-
पभाचन्द्रेण ग्रन्थकृता । ↩︎
-
न्यायकुमुदचन्द्र तत्कर्त्ता प्रभाचन्द्रश्च अनेन विशेषणेन सूचित । ↩︎
-
जिन पतिर्यस्य । ↩︎
-
“चतुर्थपरि–” [आ॰] । ↩︎
-
“–यप्रमा –” [श्र॰] । ↩︎
-
“–श प्रथमः परिच्छेदः” [ब॰] । ↩︎