*स्वविवृतिकं लघीयस्त्रयम्
*तदलङ्कारभूतश्च
*न्यायकुमुदचन्द्रः
कल्याणावसथः सुवर्णरचितः विद्याधरैः सेवितः,
तुङ्गाङ्गो विबुधप्रियो बहुविधश्रीको गिरीन्द्रोपमः ।
भ्राम्यद्भिर्न बृहस्पतिप्रभृतिभिः प्राप्तं यदीयं पदम्,
न्यायाम्भोनिधिमन्थनः चिरमसौ स्थेयात् प्रबन्धः परः ॥
–प्रभाचन्द्रः
न्यायकुमुदचन्द्रसम्पादकप्रशस्तिः ।
भजति सागरमण्डलमुद्धुरे सुकृतिभिः “खुरई”विकसत्पुरे ।
सुपरवार“जबाहरलालतः” समजनिष्ट ““महेन्द्रकुमारकः”” ॥ १ ॥
कवीनाश्रितवीनाख्यनगरे ““धर्मदासतः”” ।
नाभिनन्दनसद्विद्यालये संस्कृतशिक्षणम् ॥ २ ॥
प्रारम्भिकमुपादाय विशेषाधिजिगांसया ।
विद्वत्सुन्दरमिन्दूरविद्यालयमवाप्तवान् ॥ ३ ॥
““बंशीधरात्”” धर्ममधीत्य ““जीवन्धराच्च”” तर्कं श्रमतः सतर्कम् ।
स्याद्वादविद्यालयमेत्य तस्मिन्नश्रान्तमश्राम्यमहं चिराय ॥ ४ ॥
न्यायमध्यापयन्नन्तेवासिनोऽपि निरन्तरम् ।
अभूवमुत्तमश्रेण्यां न्यायाचार्यस्ततः परम् ॥ ५ ॥
गवेषणापूर्णधियेह टिप्पणीतिहाससम्यक्तुलना मया श्रमात् ।
विलिख्य तत्रानवधानदूषणं सुधीजनः शोधयितेत्युपेक्ष्यते ॥ ६ ॥
रसरस६६यु४ग२नेत्रे वीरनिर्वाणवर्षे,
प्रथमदलनवम्यां भौमवारान्वितायाम् ।
कृतिरियमगमन्मे पूर्णतां मासि भाद्रे,
गुरुचरणकृपौघेनान्तरेणान्तरायम् ॥ ७ ॥