ख्याति-तत्त्व-समीक्षणम्

ख्यातितत्त्वसमीक्षणम्

अभिवन्द्य गुरूनादौ शिष्यधीपद्मिनीरवीन्।
तत्प्रसादादनिर्वाच्यख्यातिचिन्तां समारभे॥१॥

आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा।
तथाऽनिर्वचनख्यातिः ख्यातिरेवं हि पञ्चधा॥२॥

अवान्तरविधास्त्वासां बहुधा दर्शनेष्विह।
सुधीभिः कल्पिताः शिष्यबुद्धिवैशद्यहेतवे॥३॥

निवर्तनीयमास्माकं मिथ्याज्ञानं ह्यनर्थदम्।
तत्त्वज्ञानेन सर्वेषां दर्शनानामिदं मतम्॥४॥

ततश्च प्रक्रियाभेदैः मिथ्याज्ञानं निरूपितम्।
तत्त्वज्ञानं ततो भेत्तुं दर्शनेषु यथायथम्॥५॥

एवं स्थिते निबन्धेऽस्मिन् सरलेन पथा मया।
भावोऽनिर्वचनख्यातिवादस्य प्रविविच्यते॥६॥

यत्नोऽयं सूक्ष्मबुद्धीनां प्रमोदं जनयेन्न वा।
सुकुमारमतीनां तु तोषमावक्ष्यति ध्रुवम्॥७॥

रज्जुसर्पस्तथा शुक्तिरूप्यं मरुमरीचिका।
एवमाद्या निदर्श्यन्ते शास्त्रे भ्रमनिरूपणे॥८॥

रज्जौ सर्पभ्रमं त्वेकमुपादायोपपाद्यते।
वादोऽनिर्वचनख्यातेर्विस्पष्टप्रतिपत्तये॥९॥

प्रसिद्ध एव लोकेऽस्मिन् व्यवहारानुवर्तिनाम्।
प्रमा-भ्रमविभागोऽयं धियः शास्त्रेष्वनूद्यते॥१०॥

मन्दान्धकारपतिता रज्जुः क्वचन दृश्यते।
सर्परूपेण, सा भ्रान्तिरित्येवं कथ्यते बुधैः॥११॥

द्रष्टा च पुरुषो भ्रान्तः सर्पं दृष्ट्वा पुरः स्थितम्।
भयेन सहसाऽऽविष्टो वेपमानः पलायते॥१२॥

स यदा बुध्यते रज्जुरेवेयमिति नास्त्यहिः।
तदा भयं परित्यज्य स्वस्थतां प्रतिपद्यते॥१३॥

सर्पप्रतीतिकालेऽपि रज्जुरेव पुरः स्थिता।
न कदाऽप्यहितां याता, मिथ्यैव खलु सर्पता॥१४॥

आसीदत्र मम भ्रान्तिः सम्प्रत्यपगता च सा।
सम्यक् पश्याम्यहं रज्जुं बाधबुद्धिरियं मता॥१५॥

बाधितं पूर्वविज्ञानं मिथ्याज्ञानं विपर्ययः।
अप्रमा च भ्रमश्चेति लोके शास्त्रे च गीयते॥१६॥

तत्त्वज्ञानं च तत् प्रोक्तं यस्य बाधो न दृश्यते।
भ्रम-प्रमाविभागोऽयं सर्वशास्त्रेषु संमतः॥१७॥

भ्रमस्वरूप-तद्धेतु-विषयादौ परं स्थितः।
मतभेदो हि शास्त्राणां लेशेनात्र स कथ्यते॥१८॥

केचिदाहुरिमं सर्पं बिलादौ क्वचन स्थितम्।
इतरे चिन्तकाः आहुरन्तर्विज्ञानसंस्थितम्॥१९॥

न सर्पो बहिरन्तर्वा शून्यमित्यपरे जगुः।
नैतदेकं हि विज्ञानं किन्तु ज्ञानद्वयं मतम्॥२०॥

स्मरणं ह्यत्र सर्पे स्यात् अनुभूतिः पुरःस्थिते।
ज्ञानद्वयं ह्यसंसर्गाग्रहादेवं प्रतीयते॥२१॥

ज्ञानद्वयमपि ह्येतत् प्रत्येकं विषयं स्वकम्।
विषयीकुरुते तेन न ज्ञानमिह बाध्यते॥२२॥

व्यवहारः परं बाध्यो भ्रमत्वं तत इष्यते।
इत्येवमाहुरख्यातिं प्राभाकरमतानुगाः॥२३॥

अन्ये सर्पमनिर्वाच्यं पुरोदेशगतं विदुः।
एवं हि ख्यातयो भिन्नाः संक्षेपेण निरूपिताः॥२४॥

कैश्चित् सर्पस्य सत्यत्वमसत्त्वं कैश्चिदिष्यते।
अनिर्वाच्यत्वमन्यैस्तु त्रैविध्यमिह लक्ष्यते॥२५॥

अत्र केचिन्मूलभूताः स्वीकार्याः सर्ववादिभिः।
विषयाः प्रविविच्यन्ते प्रकृतस्योपपत्तये॥२६॥

चेतनव्यवहारो हि सर्वो ज्ञानपुरस्सरः।
विना ज्ञानप्रकाशेन जगदन्धं भवेद् ध्रुवम्॥२७॥

तेनावभासकं ज्ञानं प्रकाशयति यं यथा।
विषयः सोऽवगन्तव्यः तथैवासति बाधके॥२८॥

उत्पन्ने सति विज्ञाने पूर्वज्ञानस्य बाधके।
विषयस्यान्यथाभावं पुरुषः प्रतिपद्यते॥२९॥

वस्तुतो भ्रान्तिरूपाऽपि प्रतीतिर्जायते यदा।
तदा तद्विषयो बाधात् प्रागस्तीत्येव गम्यते॥३०॥

द्रष्टा च पुरुषः सर्वः रज्जौ सर्पभ्रमे सति।
यथाज्ञानं पुरोदेशे सर्पसत्तां हि मन्यते॥३१॥

‘नायं सर्प’ इति ज्ञाने सर्पाभावावभासके।
उत्पन्ने पूर्वविज्ञानस्याप्रमात्वं स बुध्यते॥३२॥

उत्सर्गतः प्रमात्वं हि स्वत एव धियो विदुः।
अप्रामाण्यं तु तस्याः स्याद् बाधदोषादिबुद्धितः॥३३॥

विषयेन्द्रियसंसर्गाद् या बुद्धिर्जायतेऽत्र सा।
अक्षसंबद्धविषया प्रत्यक्षप्रमितिर्मता॥३४॥

सर्पभ्रमस्थले रज्ज्वा संयुक्ते सति चक्षुषि।
रज्जुबुद्धिर्न संजाता, सर्पभानं च जायते॥३५॥

अवश्यं हि भवेत् किञ्चित् कारणं तन्नियामकम्।
रज्जुप्रमास्थलादत्र को हेतुरधिको भवेत्॥३६॥

अन्वेषणे कृते चैवमन्वयव्यतिरेकतः।
संस्कारसहितं दोषं हेतुं तत्र लभामहे॥३७॥

दोषे सति भवेद् भ्रान्तिः, तदभावे च नेत्यतः।
दोषोऽसाधारणो हेतुः अप्रमाया इतीष्यते॥३८॥

दण्डभ्रान्तिः कदाचित् स्यात् सर्पभ्रान्तिः कदाचन।
अत उद्बुद्धसंस्कारोऽपीष्यते तत्र कारणम्॥३९॥

उद्बुद्धे दण्डसंस्कारे दण्डभ्रान्तिः प्रजायते।
उद्बुद्धे सर्पसंस्कारे सर्पभ्रान्तिश्च जायते॥४०॥

रज्जुबुद्धिर्न संजाता तत्र दोषवशाद् ध्रुवम्।
उद्बुद्धात् सर्पसंस्कारात् सर्पभ्रान्तिर्भवेत् ततः ॥४१॥

इत्थं च दोषसंस्कारावुभौ जनयतो भ्रमम्।
विना ताभ्यां न कुत्रापि भ्रमः संलक्ष्यते यतः ॥४२॥

रज्ज्वज्ञानमपि प्रोक्तं सर्पविभ्रमकारणम्।
रज्जुज्ञानं यतस्तत्र सर्पभ्रान्तेर्निवर्तकम्॥४३॥

अज्ञानं दोषसंस्कारौ इति हेतुत्रयं भ्रमे।
अन्वयव्यतिरेकाभ्यां सार्वत्रिकमिति स्थितम्॥४४॥

भ्रमो वा स्यात् प्रमा वा स्याज्ज्ञानं सविषयं मतम्।
भ्रमस्य विषयः कः स्यादितीदं चिन्त्यतेऽधुना॥४५॥

‘अयं सर्प’ इति ह्येष प्रत्यक्षाभिमतो भ्रमः।
लोकानुभवसंसिद्ध इत्यख्यातिर्न युज्यते॥४६॥

विज्ञानाकारताऽर्थस्य योगाचारोदिता बुधैः।
विषय-ज्ञानयोर्भेदं व्यवस्थाप्य निराकृता॥४७॥

‘निराकारा च नो बुद्धिः’ इति शाबरभाषितम्।
अर्थाकारज्ञानवादनिराकृतिपरं मतम्॥४८॥

‘अर्थेनैव विशेषो हि निराकारतया धियाम्’।
उक्तं ह्युदयनाचार्यैः युक्तियुक्तमिदं वचः॥४९॥

ज्ञानाकारस्ततः सर्पो बहिर्वदवभासते।
इति विज्ञानवाद्युक्तः ख्यातिपक्षो न युज्यते॥५०॥

भासमानो ह्ययं सर्पो नासन् भवितुमर्हति।
सर्पत्वादिविशेषैर्हि युक्तः सन्नवभासते॥५१॥

न हि शून्यस्य केनापि धर्मवत्ताऽभ्युपेयते।
स्वीकारे धर्मवत्त्वस्य शून्यताव्याहतिर्भवेत्॥५२॥

अतोऽसत्ख्यातिवादोऽपि सर्वमानविरोधतः।
निरूपणासहत्वाच्च स्वीकर्तुं न हि शक्यते॥५३॥

अन्यथाख्यातिवादोऽपि वेदविद्भ्यो न रोचते।
तार्किकप्रक्रिया तत्र गुर्वी संलक्ष्यते यतः॥५४॥

‘अयं सर्प’ इति ह्यस्मिन् प्रत्यक्षाभिमते भ्रमे।
देशान्तरस्थितः सर्पः कथं भासितुमर्हति॥५५॥

इन्द्रियैः संनिकृष्टोऽर्थः प्रत्यक्षविषयो मतः।
भ्रान्तस्य चक्षुषा योगः सर्पे दूरस्थिते न हि॥५६॥

ननु तार्किकसंमत्या संनिकर्षो द्विधा स्थितः।
लौकिकोऽलौकिकश्चेति संयोगादिस्तु लौकिकः॥५७॥

अलौकिकस्तु संबन्ध इन्द्रियाणां त्रिधा मतः।
सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा॥५८॥

नास्ति सर्पेऽक्षसंयोगो यद्यप्युक्तभ्रमस्थले।
तथाप्यलौकिको योगः सर्पेण सह विद्यते॥५९॥

सादृश्यदर्शनोद्बुद्धसंस्कारजनिता स्मृतिः।
सर्पस्य विद्यते सैव संनिकर्षो भवेदिति॥६०॥

चक्षुषा संनिकृष्टस्य भानं सर्पस्य संभवेत्।
इन्द्रियासंनिकृष्टोऽहिः प्रत्यक्षे नैव भासते ॥६१॥

मैवम् , ज्ञानस्य योगाच्चेत् सर्पचाक्षुषमुच्यते।
यद्यद् योग्यं स्मृतं तत्तत् चाक्षुषं हि प्रसज्ज्यते ॥६२॥

ज्ञानस्य संनिकर्षत्वे न च मानं समीक्ष्यते।
‘सुरभीद’मिति ज्ञानं चाक्षुषं नेष्यते यतः॥६३॥

चक्षुषा सौरभं दृष्टमिति कोऽपि न बुध्यते।
चक्षुषा सौरभस्यातः संनिकर्षो न कल्प्यते॥६४॥

अनुमानादिना चात्र सौरभज्ञानसंभवात्।
ज्ञानस्य संनिकर्षत्वं न तदर्थमपेक्ष्यते ॥६५॥

सर्पस्यान्यत्र सद्भावं भ्रमो नैवावगाहते।
न च बाधोऽपि, भातस्य पुरोदेशे निषेधनात्॥६६॥

भ्रमो हि भुजगस्यात्र सद्भावमवगाहते।
तत्रैव भुजगाभावं बाधश्चेन्नावगाहते॥६७॥

बाधत्वमेव हीयेत विरोध्यनवगाहनात्।
अन्यथाख्यातिवादोऽतः न प्रामाणिक इष्यते॥६८॥

परिशेषादनिर्वाच्यवादं स्वीकुर्वते बुधाः।
यथाऽवभासते सर्पस्तथैवास्ति पुरःस्थितः॥६९॥

तथाहि भासमानोऽयं न सत्यो बाधदर्शनात्।
‘नायं सर्प’ इति ह्यत्र बाधः सर्वस्य संमतः॥७०॥

नाप्यसन् शशशृङ्गादिसमो भवितुमर्हति।
अपरोक्षतया भानात् , न ह्यसद् भासते तथा॥७१॥

इत्थं च भासमानोऽयं सदसद्भ्यां विलक्षणः।
अनिर्वाच्य इति प्रोक्तो वेदान्तेषु विचक्षणैः॥७२॥

अनिर्वाच्यत्वमेवात्र शास्त्रे मिथ्यात्वशब्दितम्।
न त्वत्यन्तमसत् क्वापि मिथ्येत्येवं विवक्षितम्॥७३॥

भ्रमात् पूर्वमयं सर्पः पुरोदेशे न विद्यते।
बाधोत्तरं च नास्त्येव, भ्रमकाले पुरःस्थितः॥७४॥

नन्वयं कुत आयातो, बाधकाले क्व निर्गतः।
अकस्माद् भ्रमकाले स्यात् कथमस्य पुरःस्थितिः॥७५॥

इति शङ्का न कर्तव्याः अनिर्वाच्ये भुजङ्गमे।
यतो विभ्रमकालीनः प्रातिभासिक इष्यते॥७६॥

नान्यतोऽयं समायातो, नापि बाधे क्वचिद् गतः।
भ्रमेण सममुत्पन्नः बाधकाले विनश्यति॥७७॥

दोषेण सहिताऽविद्या संस्कारसचिवा सती।
उत्पादयति तं सर्पं भ्रमेण सह तत्क्षणे॥७८॥

सर्पभ्रमस्य यो हेतुः अविद्यादिः स इष्यते। अनिर्वाच्यस्य सर्पस्याप्यतो नाधिककल्पना॥७९॥

नन्वनिर्वाच्यसर्पस्य नोत्पत्त्यादि प्रमाणवत्।
‘इहेदानीमयं सर्पो नूत्न उत्पन्न आगतः’ ॥८०॥

‘भ्रमकाले स्थितः सर्पः इदानीं नष्ट’ इत्यपि।
न हि कोऽपि तदुत्पत्तिं तन्नाशं वाऽवगच्छति ॥८१॥

उत्पन्नश्चेत् पुरः सर्पः कंचित् कालं च तिष्ठति।
कालत्रयनिषेधोऽस्य कथं तत्रैव युज्यते॥८२॥

‘नास्ति कालत्रयेऽप्यत्र सर्प’ इत्येव बुध्यते।
सर्वोऽपि बाधकाले, तत् त्वन्मते नोपपद्यते॥८३॥

अत्रोच्यते समाधानं ग्रन्थकृद्भिरुदीरितम्।
अनिर्वाच्यत्वसिद्धान्ते शृणु तत् त्वं समाहितः॥८४॥

प्रक्रिया श्रुतिमूला या साऽऽदर्तव्या मनीषिभिः।
यतः प्रमाणमूर्धन्या श्रुतिः सर्वविपश्चिताम्॥८५॥

स्वप्नाधिकारपठिता बृहदारण्यकस्थिता।
अभावं स्वप्नदृश्यानां सृष्टिं च प्राह वै श्रुतिः॥८६॥

‘न रथा रथयोगा वा पन्थानो वाऽत्र सन्त्यतः।
स्वप्नदृक् तान् सृजत्यत्र सृष्ट्वा पश्यत्यविद्यया’॥८७॥

इति सृष्टिं वदन्ती नः प्रक्रियामनुमन्यते।
लोको हि स्वप्नमिथ्यात्वे नैव विप्रतिपद्यते॥८८॥

अतीतं पितरं स्वप्ने दृष्ट्वा स्वयमुपस्थितम्।
विस्मितः स्वप्नदृक् सद्यः उत्थाय प्रतिपद्यते॥८९॥

‘अहो अद्य मया दृष्टश्चिरादुपरतः पिता।
स्वप्ने, तथाप्यवैम्येतत् मिथ्या पितृसमागमः’॥९०॥

स्वप्नदर्शनमिथ्यात्वं शबरस्यापि संमतम्।
शाङ्कराणामपीष्टं तत् जगन्मिथ्यात्ववादिनाम्॥९१॥

मन्यते सूत्रकारोऽपि ‘मायामात्र’मिति ब्रुवन्।
केषांचिद् द्वैतिनामत्र वैमत्येऽपि न नः क्षतिः॥९२॥

सति चैवं समारोप्यसर्पोत्पत्तिर्न गृह्यते।
पूर्वसिद्धपुरोवर्तितादात्म्येन प्रतीतितः॥९३॥

पुरोवर्तिगता पूर्वसिद्धताऽऽरोपिता यतः।
भ्रमकाले तदुत्पत्तिं भ्रान्तः कोऽपि न पश्यति॥९४॥

बाधकाले च तन्नाशग्रहणं न भवेद् यतः।
कालत्रयस्थिताभावज्ञानं तत्प्रतिबन्धकम्॥९५॥

भ्रमकाले स्थितस्यापि तत्रैव स्यान्निषेध्यता।
कालत्रये, यतश्चायं निषेधासमसत्त्वकः॥९६॥

यत्रास्ति भुजगाभावः तत्रैव प्रातिभासिकः।
भुजगः प्रथते यस्मात् तेनैवेदं सुनिश्चितम्॥९७॥

सामानाधिकरण्यं हि निषेधप्रतियोगिनोः।
समसत्ताकयोरेव विरुद्धं, न त्वतादृशोः॥९८॥

रज्जौ भ्रान्त्या गृहीतश्च भुजगः प्रातिभासिकः।
तत्रैव तदभावस्तु व्यावहारिक इष्यते॥९९॥

सर्पस्य तदभावेन विरोधोऽतो न विद्यते।
अतोऽनिर्वचनख्यातिवादो वेदान्तिसंमतः॥१००॥

इत्येवमूहनीयाऽत्र वादे विद्भिः परिष्क्रिया।
ज्ञेयोऽनिर्वचनख्यातिवादस्यान्यत्र विस्तरः॥१०१॥