(२) द्वितीयं परिशिष्टम्। (अ)
श्रीमदुदयनाचार्यविरचिता
लक्षणावली
॥श्रीनृसिंहो विजयति॥
प्रणम्य पार्वतीनाथं
नित्यविज्ञानमीश्वरम्।
द्रव्यादिसर्वमेयानां
करिष्ये लक्षणावलीम्।।
[पदार्थनिरूपणम्] अभिधेयः पदार्थः। स द्विविधः। भावाभावभेदात्। तत्र नञर्थविषयत्वरहितप्रत्ययविषयो भावः। स च षोढा द्रव्यादिभेदेन। तत्रानित्यद्रव्यगुणकर्मसामान्य- विशेषाः समवेताः। नित्यद्रव्यसमवायाभावाः समवेतत्वरहिताः। द्रव्यगुणकर्माणि समवेतवन्ति। सामान्यविशेष- समवायाभावाः समवेतरहिताः।
[द्रव्यनिरूपणम्] तत्र गुणात्यन्ताभावानधिकरणं द्रव्यम्। मूर्तत्वरहितसमवेतसमवेतत्वरहितमूर्तत्वरहितामूर्तत्वरहित- समवेतजातिमद्वा_। गन्धासमवेतगगनारविन्दसमवेतजातिमद्वा_। समवेतसमवेतसमवेतं वा_। तच्च नवधा भिद्यते पृथिव्यादिभेदेन। तमो द्रव्यं न भवति आलोकनिरपेक्षचक्षुर्ग्राह्यत्वात्। आलोकाभाववत्तमःशब्दवाच्यत्वेन विप्रतिपत्तिविषयतया पक्षत्वम्, आलोकाभावशब्दवाच्यतया सम्प्रतिपत्तिविषयतया साध्ययोगित्वेन सपक्षत्वमिति न पक्षसपक्षयोरैक्यदोषः। तमःशब्दो द्रव्यवाचको न भवति आलोकशब्दान्यत्वे_ सति आलो कनिरपेक्षचक्षुर्ग्राह्यवाचित्वात्। आलोकाभावशब्दवत्।
_ पार्वतीकान्तं—पा० ३ पुस्तके । _ मूर्तत्वरहितं यत् समवेतं गुणादिकं तत् समवेतत्वरहिता मूर्तत्वरहितसमवेतामूर्तत्वरहितसमवेता या जातिः तद्वत्। _ गन्धासमवेता गगनसमवेतारविन्दसमवेता च या जातिः तद्वदित्यर्थः। सत्तामादाय गुणादावतिव्याप्तिरतो गन्धासमवेतेति। _ समवेतं समवेतं यत्र तत् समवेतसमवेतं गुणादिकं तत् समवेतं यत्र तत् समवेतसमवेतसमवेतमित्यर्थः। _ आलोकशब्दस्यालोकनिरपेक्षचक्षुर्ग्राह्यालोकवाचित्वात् तत्र च द्रव्यवाचकत्वाद् व्यभिचार इति सत्यन्तम्। _ करकायामसमवेता वाजिनि विषाणे च समवेता या जातिः तद्वतीत्यर्थः॥
[पृथिवीनिरूपणम्] तत्र गन्धात्यन्ताभावरहिता पृथिवी। करकासमवेतवाजिविषाणसमवेतजातिमती वा_। सा द्विविधा नित्यानित्यभेदात्। नित्यः परमाणुरनित्या कार्यरूपा। पृथिवीत्वं नित्यवृत्तिघटपटवृत्तिजातित्वात् सत्तावदिति तत्सिद्धिः। न च पक्षासिद्धिः। घटो गगनवृत्तित्वरहितपटवृत्तिजातिमान् घटपटव्यतिरेकित्वरहितत्वात् पटवदिति पृथिवीत्वसिद्धिः। न च सत्ताऽसिद्धिः, गगनं द्रव्यत्वेतरजातिमत् भूतत्वाद् घटवदित्यनुमानात् सत्तासिद्धिः। न च द्रव्यत्वासिद्धिः, गगनादि रूपावृत्तिजातिमद् गुणवत्त्वाद् घटवदिति द्रव्यत्वसिद्धिः। कार्यं त्रिविधं शरीरादिभेदेन। तत्र भोगायतनम् अन्त्यावयवि शरीरम्। शरीरसंयुक्तम् अपरोक्षप्रतीतिसाधनम् अतीन्द्रियम् इन्द्रियम्। ज्ञानकरण- जन्यत्वरहितज्ञानत्वम् अपरोक्षत्वम्। अतीन्द्रियत्वं नामाज्ञातसाधनत्वम्। प्रतीयमानतया भोगसाधनं विषयः। इति पृथिवीप्रकरणम्।
[जलनिरूपणम्] पृथिवीवृत्तित्वरहितहिमकरकावृत्तिजातिमज्जलम्। तन्नित्यानित्यभेदाद् द्विविधम्। जलत्वं नित्यवृत्तिहि- मकरकावृत्तिजातित्वात् सत्तावदिति तत्सिद्धिः। करका गगनवृत्तित्वरहितहिमवृत्तिजातिमती स्नेहाधिकरणत्वाद् हिमवदिति करकायां तत्सिद्धिः। अनित्यं त्रिविधं शरीरादिभेदेन। शरीरं वरुणलोके । जलपरमाणवः पारम्पर्येण शरीरारम्भकाः, इन्द्रियारम्भकत्वात् पार्थिवपरमाणुवत्। इन्द्रियारम्भकत्वं तु रसनस्याप्यत्वात् सिद्धम्। रसनमाप्यं रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वात्। सक्तुरसाभिव्यञ्जकसलिलवदिति। रसनसिद्धिः तु रसोपलब्धिः करणसाध्यापरोक्षप्रतीतित्वाद् रूपोपलब्धिवदिति। विषयः तु सरित्समुद्रादिर्हिमकरकादिः। न च करकायाः काठिन्यात् पार्थिवत्वमाशङ्कनीयम्, अनन्तरमेव स्वभावापगमादिति। इत्यापःप्रकरणम्।
[तेजोनिरूपणम्]
रसात्यन्ताभावसमानाधिकरणरूपाधिकरणं तेजः करकावृत्तित्वरहितविद्युदाकरजवृत्तिजातिमद्वा।
विद्युत्तेजः करकावृत्तित्वरहिताकरजवृत्तिजातिमती वा। विद्युद्व्यतिरिक्ताकरजान्यत्वरहितत्वाद् आकरजवत्।
आकरजं सुवर्णादि। ननु सुवर्णादिकं पार्थिवं नैमित्तिकद्रवत्वाधिकरणत्वाद् घृतवत्। अनेन पार्थिवत्वसिद्धौ
आकरजवृत्तिजातिमत्त्वसाधनेऽपि विद्युत्तेजसो न तैजसत्वसिद्धिरिति चेन्न, सुवर्णादिकम् अपार्थिवम् अत्यन्ता-
ग्निसंयोगेऽपि अनुच्छिद्यमानद्रवत्वाधिकरणत्वादिति प्रत्यनुमानेनापार्थिवत्वसिद्धौ असांसिद्धिकद्रवत्वेन
तत्सिद्धिः। अन्यथा पार्थिवत्वे द्रवत्वमत्यन्ताग्निसंयोगे उच्छिद्येतेति तर्कोऽनुसरणीयः। तच्च द्विविधम्।
नित्यमनित्यं चेति। तेजस्त्वं नित्यवृत्ति विद्युदाकरजवृत्ति जातित्वात् सत्तावदिति नित्यत्वसिद्धिः। साधितं
तेजस्त्वम्। अनलं त्रिविधम्। शरीरादिभेदेन। शरीरमादित्यलोके तस्यापि पूर्ववत्सिद्धिः। इन्द्रियं रूपोपलम्भकं
चक्षुः। रूपोपलब्धिः करणसाध्या क्रियात्वाच्छिदिक्रियावादिति तत्सिद्धिः। कर्तृप्रेर्यं करणम्। धातुवाच्या
क्रिया। चक्षुः तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वाद् आलोकवत्। विषयः तु भौमादिः। इति
तेजःप्रकरणम्।
[वायुनिरूपणम्] रूपात्यन्ताभावाधिकरणस्पर्शाधिकरणो वायुः। विप्रतिपन्नः स्पर्शो रूपरहितद्रव्यवृत्तिः स्पर्शत्वरहित- शब्दान्यत्वरहितत्वात् शब्दवदिति वायुसिद्धिः। स च द्विविधः। नित्यानित्यभेदेन। वायुत्वं नित्यवृत्ति नित्यवृत्ति- त्वरहितवायुत्वान्यत्वरहितत्वात् पृथिवीत्ववदिति तत्सिद्धिः। कार्यं त्रिविधं शरीरादिभेदेन। वायुत्वं शरीरवृत्ति बाह्येन्द्रियवृत्तिजातित्वात् सत्तावदिति तत्सिद्धिः। स्पर्शोपलम्भकमिन्द्रियं वायवीयं रूपादिषु पञ्चसु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात्, व्यजनपवनवदिति। विषयः तूपलभ्यमानस्पर्शाधिष्ठानभूतः प्राणः तु शरीरादि- प्रेरणहेतुर्वायुः। इति वायुप्रकरणम्।
[आकाशनिरूपणम्] शब्दात्यन्ताभावानधिकरणं नभः संयोगजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणं वा। शब्दः क्वचिदाश्रितो गुणत्वाद्रूपवत्। न च शब्दस्य स्पर्शवदाश्रयः स्पर्शासहकारित्वाद् बुद्धिवदिति। न च कालाद्याश्रयो बाह्येन्द्रियग्राह्यत्वाद् रूपवदिति परिशेषात्तत्सिद्धिः। इत्याकाशप्रकरणम्।
[कालनिरूपणम्] अनियतपरत्वासमवायिसमवायित्वरहितपरत्वासमवायिसमवायिमूर्तत्वरहितः कालः। गगनम् अनियतप- रत्वासमवायिसमवायित्वरहितमूर्तत्वरहितज्ञानसमवायित्वरहितत्वद्रव्यान्यद् अमूर्तत्वादात्मवदिति तत्सिद्धिः। इति कालप्रकरणम्।
[दिङ्निरूपणम्] अनियतपरत्वासमवायिसमवायिनी मूर्तत्वरहिता दिक् । कालो विशेषगुणरहितो मूर्तद्रव्यान्यो मूर्तत्वरहितत्वाद् आकाशादिवदिति तत्सिद्धिः। इति दिक्प्रकरणम्।
[आत्मनिरूपणम्] ज्ञानात्यन्ताभावरहित आत्मा। परत्वासमवायिसमवायित्वरहितशब्दासमानाधिकरणकार्याश्रयो वा। ज्ञानं क्वचिदाश्रितं गुणत्वाद्रूपवदिति तत्सिद्धिः। न च शरीरेन्द्रियाणां तदाश्रयत्वं कार्यत्वाद् घटवदिति। कार्यस्य तदाश्रयत्वे स्वर्गाद्यर्थितया ज्योतिष्टोमाद्युपदेशो न स्यात्। न च मनसः तदाश्रयत्वं करणत्वाच्चक्षुर्वत्। स द्विविधः। ईश्वरानीश्वरभेदात्। अङ्कुरादिकं सकर्तृकं कार्यत्वाद् घटवदिति ईश्वरसिद्धिः। द्वितीयः त्वहम्प्रत्ययवेद्यः स च नाना व्यवस्थावचनादिति। इत्यात्मप्रकरणम्।
[मनोनिरूपणम्] स्पर्शरहितत्वे सति मूर्तं मनः। विशेषगुणात्यन्ताभावाधिकरणत्वे सति मूर्तं वा। पृथिवीवृत्तिपृथिवीत्व-
रहितवृत्तिवृत्तित्वरहितगुणत्वव्याप्यजातिमान् विशेषगुणः। आत्मप्रतीतिः करणसाध्यापरोक्षप्रतीतित्वाद् रूपोपलब्धिवदिति तत्सिद्धिः। इति मनःप्रकरणम्। ।इति द्रव्यपदार्थः।
[गुणपदार्थनिरूपणम्] संयोगाजन्यसंयोगासमवायिसमवेतत्वरहितसंयोगासंयोगसमवेतवान् गुणः। विभागाजन्यविभागासम- वायिसमवेतत्वरहितविभागाविभागसमवेतवान् गुणः। रूपं संयोगाजन्यसंयोगासमवायिसमवेतत्वरहित- संयोगसमवेतत्वरहितसंयोगसमवेतवद् रूपत्वरहितसंयोगान्यत्वरहितत्वात् संयोगवदिति गुणत्वसिद्धिः। चतु- र्विंशतिप्रकारो रूपादिभेदेन।
[रूपनिरूपणम्]
रसासमवेतनीलपीतसमवेतवद् रूपम्। गुणत्वे सति चक्षुर्मात्रग्राह्यं वा। तत्सप्तप्रकारम्। न च रूपग्राहकं
चक्षुश्चक्षुर्मात्रग्राह्यं रूपमित्यन्योन्याश्रयत्वम्। नयनगोलकाधिष्ठानत्वेन चक्षुर्निरूपणात्। शुक्लो रसासमवेतनील-
समवेतवान् शुक्लत्वरहितनीलान्यत्वरहितत्वान्नीलवदिति रूपत्वसिद्धिः। नीलं स्वमात्रसमवेतवत् स्वमात्रसम-
वेतत्वरहितनीलान्यत्वरहितत्वाद् घटवदिति नीलत्वजातिसिद्धिः। नीलत्वरहितघटत्वात्यन्ताभावत्वरहितः
स्वशब्दार्थः।
[रसनिरूपणम्] गुणत्वे सति रसनग्राह्यो रसः। स च षोढा माधुर्यादिभेदेन। क्षीरेक्षुगुडसलिलेषु माधुर्यादिसाम्येऽपि अवान्तरजातिभेदस्य विद्यमानत्वाद् विशेषगुणत्वसिद्धिः।
[गन्धनिरूपणम्] गुणत्वे सति घ्राणग्राह्यो गन्धः। जलादावौपाधिकी गन्धप्रतीतिर्न स्वभावत इति विशेषगुणत्वसिद्धिः। जलं न गन्धाधिकरणं पाकजरूपानधिकरणत्वात्तेजोवत्। वायोः पक्षतुल्यत्वान्न व्यभिचारः।
[स्पर्शनिरूपणम्]
गुणत्वे सति त्वगिन्द्रियग्राह्यः स्पर्शः। स त्रिविधः। शीतोष्णानुष्णाशीतभेदात्। नन्वनुष्णाशीतस्पर्शस्य
कथं विशेषगुणत्वं तस्य पृथिवीवायुसाधारणत्वात् पाकजत्वापाकजत्वाभ्याम् अवान्तरजातिभेदेन विशेषगुणत्वे
नैमित्तिकद्रवत्वस्याप्यत्यन्ताग्निसंयोगे सत्युच्छेदानुच्छेदाभ्याम् अवान्तरजातिसद्भावेन विशेषगुणता स्यात्।
ततः च नैमित्तिकद्रवत्वस्य सामान्यगुणपाठो निरर्थकः स्यात्। अनुष्णाशीतस्पर्शस्य वा पाठः स्यात्। ततः च
वायोर्बाह्येन्द्रियग्राह्यविशेषगुणपाठो निरर्थकः स्यात्। सेयमुभयतःपाशा रज्जुः, मैवम्, अवान्तरजातिभेदस्य क्
षीरेक्षुगुडमाधुर्यादिवदनुभवसिद्धत्वात्। अन्यथा महान्धकारे स्पर्शोपलम्भमात्रेण वायुर्वातीति प्रत्ययो न स्यात्।
न चैवं सति नैमित्तिकद्रवत्वस्यावान्तरजातिभेदानुभवः। वायुस्पर्शः पृथिवीवृत्तित्वरहितगुणत्वव्याप्यजातिमान् अपाकजस्पर्शत्वात् तेजःस्पर्शवदित्यनुमानात्।
[सङ्ख्यानिरूपणम्] पृथक्त्वासमवेतसर्वान्योन्याभावसमानाधिकरणैकद्रव्यसमवेतवती सङ्ख्या। आदाविन्द्रियसन्निकर्ष- घटनाद् एकत्वसामान्यधीरेकत्वोभयगोचरा गतिरतो द्वित्वं ततो जायते द्वित्वत्वप्रमितिः स्वतोऽपि परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया।
[परिमाणनिरूपणम्] सङ्ख्यासमवेतत्वरहितसङ्ख्यासमवायिकारणसमवेतवत् परिमाणम्।
[पृथक्त्वनिरूपणम्] शब्दासमवायिकारणसमवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणसमवेतपरिमाणा- समवायिसमवेतत्वरहिताधिकरणं पृथक्त्वम्।
[संयोगनिरूपणम्] विभागासमवेतत्वाभावाविरोधिसमवेतप्रध्वंसप्रतियोगित्वानधिकरणसमवेतत्वानधिकरणगुणत्व- साक्षाद् व्याप्यजात्यधिकरणं संयोगः।
[विभागनिरूपणम्] विभागासमवेतसर्वान्योन्याभावसमानाधिकरणसमवेतशब्दासमवायिसमवेतवान् वा संयोगः। संयोगास- मवेतसर्वान्योन्याभावसमानाधिकरणसमवेतशब्दासमवायिसमवेतवान् विभागः।
[परत्वापरत्वनिरूपणम्] विशेषणतया परप्रत्ययनिमित्तं परत्वम्। विशेषणतयापरप्रत्ययनिमित्तमपरत्वम्।
[बुद्धिनिरूपणम्] अर्थप्रकाशो बुद्धिः।
[सुखनिरूपणम्] यस्मिन् सत्यनुरागः तत् सुखम्।
[दुःखनिरूपणम्] यस्मिन् सत्यनुद्वेषः तद्दुःखम्।
[इच्छानिरूपणम्] प्रार्थना इच्छा।
[द्वेषनिरूपणम्] ज्वलनात्मको द्वेषः।
[प्रयत्ननिरूपणम्] प्रयत्न उत्साहः।
[गुरुत्वनिरूपणम्] आद्यपतनासमवायिकारणं गुरुत्वम्।
[द्रवत्वनिरूपणम्] आद्यस्यन्दनासमवायिकारणं द्रवत्वम्।
[स्नेहनिरूपणम्] पृथिवीवृत्त्यवृत्तिरससमानाधिकरणवृत्तिशब्दावृत्तिगुणत्वसाक्षाद्व्याप्यजातिमान् स्नेहः। द्रवत्वनिष्ठत्वरहि- तात्मविशेषगुणनिष्ठत्वरहितपरत्वापरत्वात्यन्ताभावप्रतियोगिसत्तावान्तरजातिमदसमवायिकारणं स्नेहः। द्रवत्वर हितध्वंसान्यत्वविशेषगुणमात्रजनकरहितात्यन्ताविशेषगुणरहितभावत्वं समवायिकारणं स्नेहः। सङ्ग्रहादिहेतुः।
[संस्कारनिरूपणम्] गगनसमवेतसमवेतत्वरहितो मूर्तामूर्तसमवेतसमवेतवान् संस्कारः।
[धर्माधर्मनिरूपणम्] विहितक्रियया साध्यः पुङ्गुणो धर्मः। निषिद्धक्रियया साध्यः पुङ्गुणोऽधर्मः।
[शब्दनिरूपणम्] गुणत्वे सति श्रोत्रग्राह्यः शब्दः। ।इति गुणपदार्थः।
[कर्मपदार्थनिरूपणम्] संयोगासमवेतसंयोगासमवायिसमवेतवत् कर्म। तच्च पञ्चविधम्। उत्क्षेपणादिभेदेन।
[उत्क्षेपणनिरूपणम्] तत्राधोदेशविभागोर्ध्वदेशसंयोगजनकं कर्म उत्क्षेपणम्।
[अपक्षेपणनिरूपणम्] ऊर्ध्वदेशविभागाधोदेशसंयोगजनकं कर्मापक्षेपणम्।
[आकु ञ्चननिरूपणम्] अग्रदेशविभागमूलदेशसंयोगजनकं कर्माकुञ्चनम्।
[प्रसारणनिरूपणम्] मूलदेशविभागाग्रदेशसंयोगजनकं कर्म प्रसारणम्।
[गमननिरूपणम्] उत्क्षेपणाकुञ्चनं च प्रयत्नजनिष्ठम्। न च गमनस्यापि प्रसङ्गाद् अप्रयत्नजं कर्म गमनम्। ननु पञ्चैव कर्माणीति नोपपद्यते भ्रमणादीनां सत्त्वादिति चेन्न भ्रमणादयोऽपि कर्मविशेषा इत्युक्तं शास्त्रकृद्भिः।
[सामान्यपदार्थनिरूपणम्] समवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणसमवेतं सामान्यम्।
[विशेषपदार्थनिरूपणम्] समवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणरहिताः समवेतरहितसमवेता विशेषाः।
[समवायपदार्थनिरूपणम्] नित्यः सम्बन्धः समवायः।
[अभावपदार्थनिरूपणम्] समवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणाभावो वा। नञर्थविषयप्रत्ययविशेषोऽभावः। स च चतुर्धा भिद्यते। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्या भावः चेति।
[प्रागभावनिरूपणम्] उत्तरैकावधिरभावः प्रागभावः।
[प्रध्वंसाभावनिरूपणम्] पूर्वैकावधिरभावः प्रध्वंसाभावः।
[अन्योन्याभावनिरूपणम्] तादात्म्यप्रतियोगिकोऽभावोऽन्योन्याभावः।
[अत्यन्ताभावनिरूपणम्] उभयावधिरहितसंसर्गाभावोऽत्यन्ताभावः।
तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः।
वर्षेषूदयनः चक्रे सुबोधां लक्षणावलीम्।
विद्यासन्ध्योदयोद्रेकादविद्यारजनीक्षये।
यदुदेति नमः तस्मै कस्मैचिद्विश्वतस्त्विषे।
॥इति श्रीमदुदयनाचार्यविरचिता लक्षणावली समाप्ता॥