वर्णानुक्रमेण सूचिः

(१) प्रथमं परिशिष्टम्। लक्षणसङ्ग्रहगतानां लक्षणानां वर्णानुक्रमेण सूचिः लक्ष्यम् लक्षणम् परिच्छेदः अज्ञाननिग्रहस्थानलक्षणम् कथायां प्रकृतविषये स्वाज्ञानाविष्करणम्।
स्वीयविपर्ययाविष्करणं तदित्येके । ३६६ अतिव्याप्तिलक्षणम् अलक्ष्यवृत्तित्वम्। ३१५ अत्यन्ताभावलक्षणम् उत्पत्तिविनाशशून्यः संसर्गाभावः, नित्यसंसर्गाभावत्वम्। २६० अधोदिग्लक्षणम् अपक्षेपणसंयोगाश्रयो(या) दिग्। १७९ अधर्मकर्तृत्वलक्षणम् धर्मान्यत्वे सत्यधर्मजनकवृत्तिपदार्थविभाजकोपाधिमत्त्वम्। १२० अधर्मलक्षणम् निषिद्धपरदारगमनादिजन्यतावच्छेदकजातिमान्। २३२ अधिकनिग्रहस्थानलक्षणम् कृतकर्तव्यम् अभिधीयमानम्। ३६३ अधिकरणसिद्धान्तलक्षणम् पक्षधर्मताबललभ्यार्थाभ्युपगमः। २९७ अननुभाषणनिग्रहस्थानलक्षणम् उक्तस्य ज्ञातस्याप्रत्युच्चारणम्। ३६५ अनन्तत्वलक्षणम् अनित्यावृत्तिपदार्थविभाजकोपाधिमत्त्वम्। १२४ अनन्वितार्थकनिग्रहस्थानलक्षणम् अनन्वितार्थम्। ३६१ अनवस्थालक्षणम् पूर्वस्योत्तरोत्तरापेक्षित्वम्। ३०३ अनादित्वलक्षणम् आदिमदवृत्तिपदार्थविभाजकोपाधिमत्त्वम्। १२३ अनित्यधर्मत्वम् नित्यधर्ममात्रावृत्तिविभक्तोपाधिमत्त्वम्। १२५ अनित्यसमाजातिलक्षणम् विपक्षस्य सपक्षत्वापादनम्। ३४७ अनुत्पत्तिसमाजातिलक्षणम् प्रागुत्पत्तेक्का(त्तेः का)रणभावात् प्रत्यवस्थानम्। ३३७ अनुपपत्तिसमाजातिलक्षणम् उभयत्र कारणोपपत्त्या प्रत्यवस्थानम्। ३४३ अनुपलब्धिप्रमाणलक्षणम् अनुपलब्ध्या जानामीत्यनुभवसिद्धजातिविशेषवती
अनुपलब्धिः तत्करणम्। ७७ अनुपलब्धिसमाजातिलक्षणम् अनुपलब्ध्यादेः स्वात्मनि तदतद्रूपविकल्पेनानिष्टापादनम्। ३४५ अनुपसंहारिव्यभिचारिलक्षणम् अवृत्तिसाध्यहेत्वन्यतरत्वम् अवृत्तिसाध्यकत्वं वा। ५७ __ लक्षणसङ्ग्रहः अनुभवलक्षणम् स्मृतिव्यतिरिक्तज्ञानम्। ७ अनुमानप्रमाणलक्षणम् अनुमितिकरणम्, व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानम्। २३ अनुमितिलक्षणम् अनुमिनोमीत्यनुभवसिद्धजातिविशेषवती। २४ अनुव्यवसायलक्षणम् सुखादेर्ज्ञानविषयीभावपरामर्शः। २१९ अनेकत्वलक्षणम् अनेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वम्। ११३ अन्यथासिद्धत्वलक्षणम् अवश्यक्लृप्तपूर्ववर्तिन एव कार्यसम्भवे
तत्सहचरितत्वमिति नव्याः, अन्यत्र क्लृप्तपूर्ववर्तिन एव
कार्यसम्भवे तत्सहचरितत्वम्, यत्रान्यं प्रति पूर्ववर्तित्वे
गृहीत एव यत्रान्यं प्रति पूर्ववर्तिता गृह्यते, यं पुरस्कृत्य यस्य पूर्ववर्तिता गृह्यते, यमादायैव यस्य पूर्ववर्तिता गृह्यत इतीतराः(रे),
जनकपूर्ववर्तित्वे गृहीते एव यत्र जन्यपूर्ववर्तिताग्रहः। १३ अन्योन्याभावलक्षणम् तादात्म्यसम्बन्धावच्छिन्नप्रतियोगितात्मकत्वम्,
तादात्म्यारोपजन्यप्रतीतिविषयाभावः। २५६ अन्वयलक्षणम् साध्येन साधनस्य जात्युपाधौ व्याप्तिः। ३८ अन्वयव्यतिरेकिहेतुलक्षणम् यत्र साध्यहेत्वोः तदभावयोर्व्याप्तिर्गृह्यते, अन्वयव्यतिरेक्युभयान्यो(हेतुः)। ४४ अपकर्षसमाजातिलक्षणम् व्यापकाभिमतधर्मव्यावृत्त्या प्रकृतानुमानविषयापनयनम्। ३२८ अपक्षेपणकर्मलक्षणम् अधोदेशसंयोगहेतुः। २४३ अपरत्वलक्षणम् अपरत्वजातिमद् अपरव्यवहारासाधारणकारणम्। २०० अपरसामान्यलक्षणम् सामान्यान्तराव्यापकम्। २४९ अपवर्गलक्षणम् आत्यन्तिको दुःखध्वंसः, समानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंसः। २७२ अपवादलक्षणम् तस्य(उत्सर्गस्य) एकदेशे बाधः। ३०८ अपसिद्धान्तनिग्रहस्थानलक्षणम् स्वसिद्धान्तातिक्रमः। ३७२ अपानलक्षणम् मूत्रपुरीषयोरधोनयनाद् अपानः। १७५ अप्रतिभानिग्रहस्थानलक्षणम् उत्तरावसरे तद्विपरीतो व्यापारः। ३६७ अप्राप्तकालनिग्रहस्थानलक्षणम् अवयवविपर्यासवचनम्। ३६२ अप्राप्तिसमाजातिलक्षणम् अप्राप्तावतिप्रसङ्गेन प्रतिषेधः। ३३४ परिशिष्टानि __ अबाधितविषयत्वलक्षणम् विषयः साध्यं तस्याबाधितत्वं यस्य हेतोः। ४९ अभिधेयत्वलक्षणम् अभिधानप्रतिपाद्यता, शब्दसङ्गत्युपाधिजो धर्मः। १०९ अभ्युपगमसिद्धान्तलक्षणम् परतन्त्रे साधितः स्वतन्त्रे चाधिकृतः सिद्धान्तः। २९७ अयुतसिद्धलक्षणम् विशेषणतान्यसम्बन्धेन यावदुभयसत्त्वं
ययोराश्रयाश्रयिभावः तौ। २५३ अयोगिप्रत्यक्षत्वलक्षणम् अयोगिप्रत्यक्षवृत्तिविभक्तोपाधिमत्त्वम्। १२७ अर्थान्तरनिग्रहस्थानलक्षणम् प्रकृतानुपयोगि। ३५८ अर्थापत्तिप्रमाणलक्षणम् अर्थापयामीत्यनुभवसिद्धजातिविशेषवती अर्थापत्तिः।
तत्करणम्। ७६ अर्थापत्तिसमाजातिलक्षणम् अर्थापत्त्याभासेनानुपेक्षिताभिधानम्। ३४१ अवर्ण्यसमाजातिलक्षणम् पक्षवत्साध्यवत्तयावर्णनीयत्वापादनम्। ३३० अवान्तरमहत्त्वलक्षणम् जन्यमहत्त्ववद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्। १४४ अवान्तराणुत्वलक्षणम् जन्याणुत्ववद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्। १४३ अविज्ञातार्थकनिग्रहस्थानलक्षणम् वादिना त्रिरभिहितमपि परिषत्प्रतिवादिभ्यां दुर्बोधम्। ३६० अविशेषसमाजातिलक्षणम् अविशेषापादकधर्मक्रान्तस्य समुदायस्य
एकत्वाद्यविशेषप्रसङ्ग(ङ्गा)पादनेन प्रत्यवस्थानम्। ३४२ अव्याप्तिलक्षणम् लक्ष्यैकदेशवृत्तित्वम्। ३१५ अव्याप्यवृत्तित्वलक्षणम् स्वात्यन्ताभावसमानाधिकरणत्वम्। १९८ असत्प्रतिपक्षत्वलक्षणम् सत्प्रतिपक्षः साध्याभावसाधको हेतुः तदभावः। ५० असत्सपक्षत्वलक्षणम् अनिश्चितसाध्यसाधनसहचारकत्वम्। ४३ असमवेतत्वलक्षणम् समवायवृत्त्या अनाधेयत्वम्। १२८ असम्भवलक्षणम् लक्ष्यमात्रावृत्तित्वम्। ३१५ असाधारणधर्मजसंशयलक्षणम् उक्तनित्यव्यावृत्तशब्दत्वादिदर्शनजः शब्दो नित्योऽनित्यो वेति। २८३ असाधारणव्यभिचारिलक्षणम् सपक्षविपक्षव्यावृत्तत्वम्, साध्यव्यापकीभूताभावप्रतियोगित्वम्। ५६ असिद्धहेत्वाभासलक्षणम् व्यभिचाराद्यन्यपरामर्शप्रतिबन्धकाभावा[व]च्छेदकधर्मवत्त्वम्। ६० अस्तित्वलक्षणम् विधिसुखप्रत्ययवेद्यत्वम्। १०८ अहेतुसमाजातिलक्षणम् त्रैकाल्यासिद्धेर्हेतुभावस्य दूषणम्। ३४० __ लक्षणसङ्ग्रहः आकाङ्क्षालक्षणम् पदस्य पदान्तरव्यतिरेकप्रयुक्ताननुभावकत्वम्। ७१ आकाशलक्षणम् शब्दाश्रयः। १७६ आकुञ्चनकर्मलक्षणम् वक्रतासम्पादकं कर्म। २४४ आत्माश्रयलक्षणम् अव्यवधानेन स्वापेक्षणम्। ३०० आत्यन्तिकत्वलक्षणम् दुःखसमानाधिकरणदुःखतत्प्रागभावासमानकालीनत्वम्। २७३ आभिमानिकसुखलक्षणम् द्रव्यपाण्डित्यगर्वजम्। २२४ आभ्यासिकसुखलक्षणम् सूर्यनमस्काराद्यभ्यासाज्जायमानं शरीरलाघवादिरूपम्। २२३ आलोकप्रकाश्यत्वलक्षणम् आलोकान्यत्वे सति तज्जन्यप्रत्यक्षविषयद्रव्यवृत्ति- द्रव्यत्वापरजातिमत्त्वम्। १५२ आश्रयासिद्धहेत्वाभासलक्षणम् पक्षे पक्षतावच्छेदकं यत्र नास्ति सः। ६३ आश्रितत्वलक्षणम् स्वाभाविक्याधारसन्निकृष्टता, समवायादिसम्बन्धेन वृत्तिमत्त्वम्। १११ इच्छालक्षणम् इच्छामीत्यनुभवसिद्धेच्छात्वजातिमती। २२६ इतरेतराश्रयलक्षणम् द्वयोरन्योन्यापेक्षणम्। ३०१ इन्द्रियलक्षणम् स्मृत्यजनकज्ञानकारणमनःसंयोगाश्रयत्वम्,
शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम्। ८८ ईश्वरलक्षणम् दुःखासमानाधिकरणज्ञानवान्, नित्यज्ञानाश्रयः। १८३ उत्कर्षसमाजातिलक्षणम् दृष्टान्तेऽदृष्टस्य पक्षधर्मतयानिष्टविशेषापादनम्। ३२७ उत्क्षेपणकर्मलक्षणम् ऊर्ध्वदेशसंयोगहेतुः। २४२ उत्तरादिग्लक्षणम् (उदयाचलाभिमुखस्य पुंसो)वामभागावच्छिन्ना दिग्। १७९ उत्सर्गलक्षणम् भूयोदर्शनम्। ३०७ उदानलक्षणम् अन्नपानादेरूर्ध्वं नयनाद् उदानः। १७५ उदाहरणावयवलक्षणम् पक्षधर्माभिधानप्रयोजकजिज्ञासाजनकज्ञानजनकन्यायावयवत्वम्। २९३ उद्देशलक्षणम् नाम्ना सङ्कीर्तनमात्रम्। ९९ उद्भूतानुद्भूतलक्षणम् उद्भूतत्वं जातिः तदभावोऽनुद्भूतत्वम्, अनुद्भूतत्वं

जातिः तदभाव उद्भूतत्वम्, उद्भूतत्वं प्रत्यक्षप्रयोजको
धर्मः तदभावोऽनुद्भूतत्वम्। १९१ परिशिष्टानि __ उपचारच्छललक्षणम् उपचारवृत्त्या प्रयुक्ते वृत्तिमात्रेण दूषणाभिधानम्। ३२१ उपनयावयवलक्षणम् न्यायैकदेशजन्यपक्षधर्मत्वजिज्ञासानिवर्तकवाक्यत्वम्। २९४ उपमानलक्षणम् उपमितिकरणम्। ६७ उपमितिलक्षणम् उपमिनोमीत्यनुभवसिद्धो जातिविशेषः,
शब्दविषयकत्वाव्यभिचारिजातिमत्परोक्षत्वम्। ६८ उपलब्धिसमाजातिलक्षणम् निर्दिष्टकारणाभावेऽपि साध्योपलम्भात् प्रत्यवस्थानम्। ३४४ उपाधिलक्षणम् यद्धर्मविशिष्टसाध्यव्यापकं तद्धर्मविशिष्टसाधनाव्यापकत्वम्,
स्वानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वम्,
स्वावच्छिन्नानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्याप कतावच्छेदकत्वम्। ६५ ऊर्ध्वादिग्लक्षणम् उत्क्षेपणजन्यसंयोगाश्रयो(या) दिग्। १७९ ऐतिह्यप्रमाणलक्षणम् अज्ञातकर्तृकं प्रसिद्धवाक्यम्। ७९ कथालक्षणम् नानावक्त्रकपूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः,
वादिप्रतिवाद्यन्यतरसाधनदूषणान्यतरत्वम्। ३११ कर्मलक्षणम् संयोगविभागयोरसमवायिकारणजातीयम्। २४० कर्मवत्त्वलक्षणम् कर्मसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। १३४ कल्पनागौरवलक्षणम् समर्थानल्पकल्पना। ३०६ कल्पनालाघवलक्षणम् समर्थाल्पकल्पना। ३०५ कारणलक्षणम् अनन्यथासिद्धनियतपूर्ववृत्तित्वम्, अनन्यथासिद्धपूर्ववृत्तित्वम्। १२ कार्यत्वलक्षणम् कारणाधीनः स्वात्मलाभ इति के चित्, अभूत्वा
भावित्वम्, प्राक्प्रध्वंसाभावोपलक्षिता वस्तुनः सत्तैवानित्यत्वमिति के चित्, उत्पत्तिविनाशयोगः,
विनाशावच्छिन्नस्वरूपत्वम्। १२१ कार्यसमाजातिलक्षणम् परानुमानाङ्गसाधनाय स्वकल्पितहेतुदूषणम्। ३४८ काललक्षणम् कालादिकपरत्वापरत्वानुमेयः। १७७ के वलव्यतिरेकिहेतुलक्षणम् अनवगतसाध्यसाधनसहचारोऽसत्सपक्षो वा हेतुः। ४२ के वलान्वयित्वलक्षणम् अत्यन्ताभावाप्रतियोगित्वम्। ४१ के वलान्वयिहेतुलक्षणम् के वलान्वयिसाध्यकम्। ४० __ लक्षणसङ्ग्रहः क्षणिकत्वलक्षणम् तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम्। १५७ गन्धलक्षणम् घ्राणेन्द्रियमात्रग्राह्यजातिमान्। १८८ गमनकर्मलक्षणम् अनियतदिग्देशसंयोगादिकारणम्। २४६ गुणलक्षणम् कर्मद्रव्यभिन्नत्वे सति जातिमत्त्वम्,
सामान्यवान् संयोगविभागहेतुजातीयेतरः। १८५ गुरुत्वलक्षणम् गुरुत्वजातिमत्, आद्यपतनासमवायिकारणम्, अतीन्द्रियं पतनानुमेयं तदित्युदयनाचार्याः, अधोदेशावच्छेदेन प्रत्यक्षमेव तदिति लीलावतीकारः। २०३ घ्राणेन्द्रियलक्षणम् गन्धग्राहकं पार्थिवम् इन्द्रियम्। ९० चक्रकलक्षणम् पूर्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वम्। ३०२ चक्षुरिन्द्रियलक्षणम् रूपग्राहकं तेजसम् इन्द्रियम्। ९२ चेष्टालक्षणम् प्रयत्नवदात्मसंयोगासमवायिकारणकक्रिया। ८७ छललक्षणम् परतात्पर्यविषये शब्दतात्पर्यसञ्चारेण दूषणवचनम्। ३१६ जललक्षणम् स्नेहवद्, अप्त्वजातिमद्, शीतस्पर्शवद्,
सांसिद्धिकद्रवत्ववद्, अपाकजाभास्वररूपवद्,
तारतम्यरहितमधुररसवद्। १६८ जल्पलक्षणम् यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपालम्भवा[न्]। ३१३ जागरणलक्षणम् स्वप्नवहनाड्यसंयुक्तमनःसंयोगजन्यं ज्ञानम्। २१२ जातिलक्षणम् व्याप्तिपक्षधर्मत्वान्यतरापुरस्कारे प्रवृत्तम् उत्तरम्, स्वव्याघातकम् उत्तरम्। ३२३ जीवनयोनियत्नलक्षणम् सर्वदा प्राणसञ्चारकार्यात्मविशेषगुणजनकमनःसंयोगः। २३० जीवात्मलक्षणम् सुखाद्याश्रयाहम्प्रत्ययवेद्यः। १८२ ज्ञेयत्वलक्षणम् ज्ञाप्यज्ञापकसम्बन्धोपाधिज्ञानयोग्यत्वम्। ११० तत्त्वज्ञानलक्षणम् ततो(निदिध्यासनाद्) यथाभूतदेहाद्यतिरिक्तात्मज्ञानम्। २७९ तर्क लक्षणम् व्याप्यारोपप्रयुक्तो व्यापकारोपः। २१३ तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वलक्षणम् चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वम्। १५८ तेजोलक्षणम् उष्णस्पर्शवद्, भास्वररूपवद्, तेजस्त्ववद्। १७० परिशिष्टानि __ त्वगिन्द्रियलक्षणम् स्पर्शग्राहकं वायवीयम् इन्द्रियम्। ९३ दक्षिणदिग्लक्षणम् उदयाचलाभिमुखस्य पुंसो दक्षिणभागावच्छिन्ना दिग्। १७९ दिग्लक्षणम् दैशिकपरत्वापरत्वासाधारणकारणम्। १७८ दुःखलक्षणम् दुःखत्वजातिमत्, निरुपाधिद्वेषास्पदम्। २२५ दृष्टान्तलक्षणम् व्याप्तिसंवेदनस्थानम्, सम्प्रतिपत्तिविषयः। २८६ दोषलक्षणम् प्रवृत्तिजनकप्रत्यक्षात्मविशेषगुणत्वम्। २६६ द्रव्यलक्षणम् द्रव्यत्वजातिमद् गुणाश्रयः, गुणात्यन्ताभावानधिकरणत्वम्, गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वम्। १६२ द्रव्यसमवायिकारणत्वलक्षणम् द्रव्यसमवायिकारणवृत्तिद्रव्यविभाजकोपाधिमत्त्वम्, द्रव्यसमवायिकारणवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्। १४२ द्वेषलक्षणम् द्वेष्मीत्यनुभवसिद्धजातिमान् क्रोधापरपर्यायः। २२७ द्व्यणुकलक्षणम् नित्यद्रव्यजन्यमणु च स्पर्शवन्नित्यसमवेतम्। १६६ धर्मकर्तृत्वलक्षणम् अधर्मान्यत्वे सति धर्मजनकवृत्तिपदार्थविभाजकोपाधिमत्त्वम्। ११९ धर्मलक्षणम् विहितयज्ञादिजन्यतावच्छेदकजातिमान्। २३१ ध्वंसलक्षणम् उत्पत्तिमान् अभावः, प्रतियोगिजन्यः प्रतियोगिसमवायिवृत्तिर्ध्वस्तव्यवहारहेतुरिति के चित्। २५९ ध्वनिलक्षणम् सङ्गीतशास्त्रसिद्धानेकभेदवान्। २३९ निगमनावयवलक्षणम् एतच्चतुष्टया(प्रतिज्ञाद्य)वयवेतरावयवत्वम्। २९५ निग्रहस्थानलक्षणम् पराजयहेतुः, कथकाशक्तिसूचकम्। ३४९ नित्यत्वलक्षणम् विनाशरहितत्वम्, नित्यवृत्तिविभक्तोपाधिमत्त्वम्। १२५ नित्यसमाजातिलक्षणम् व्यावर्तकधर्मस्य तदतद्रूपविकल्पेन व्यावर्तकत्वखण्डनम्। ३४६ निदिध्यासनलक्षणम् व्यासङ्गेन देहाद्यतिरिक्तात्माकारमनोऽनुसन्धानम्। २७८ निद्रालक्षणम् मनःसंयोगजन्यं ज्ञानम्। २१४ निमित्तकारणलक्षणम् उभया(समवाय्यसमवाय्य)न्यकारणम्। १७ निरनुयोज्यानुयोगनिग्रहस्थानलक्षणम् अतन्निग्रहस्थानोद्भावनावसरे तन्निग्रहस्थानोद्भावनम्,
अनुयोगानर्हानुयोगो वात्यमा(?)न्निग्रहस्थानोद्भावनम्। ३७१ निरर्थकनिग्रहस्थानलक्षणम् अवाचकप्रयोगः। ३५९ __ लक्षणसङ्ग्रहः निर्गुणत्वलक्षणम् गुणवदवृत्तिपदार्थविभाजकोपाधिमत्त्वम्। ११६ निर्णयलक्षणम् प्रमाणतर्काभ्यां स्वपरपक्षसाधनोपालम्भपूर्वको यथार्थाध्यवसायः। ३१० निर्विकल्पकप्रत्यक्षप्रमाणलक्षणम् विशिष्टशब्दाभिलापायोग्यम्, विशेषणविशेष्यवैशिष्ट्यावगाहि। २२ निष्क्रियत्वलक्षणम् कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वम्, कर्मवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिशून्यभावत्वम्। ११७ न्यायलक्षणम् क्रमिकप्रतिज्ञाद्यवयवसमुदायः। ३० पक्षतालक्षणम् अनुमितीच्छाभावविशिष्टसाध्यनिर्णयाभावः। ४६ पक्षलक्षणम् पक्षतावान्। ४५ पतनगुरुत्वलक्षणम् गुरुत्वप्रयोज्यपतनत्वव्याप्यजातिमत्त्वम्। १५१ पदलक्षणम् शक्तम्। ७० पदार्थलक्षणम् प्रमितिविषयः। ९६ परत्वलक्षणम् परत्वजातिमत्, परव्यवहारासाधारणकारणम्। २०० परत्वापरत्ववत्त्वलक्षणम् परत्वादिसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। १३२ परममहत्त्वलक्षणम् अपकर्षानाश्रयपरिमाणवत्त्वम्। १३८ परमाणुलक्षणम् कार्यद्रव्याजन्यं मूर्तं (?) च नित्यः क्रियावान्। १६५ परसामान्यलक्षणम् सकलसामान्यव्यापकम्। २४८ परापरसामान्यलक्षणम् कस्यचित्सामान्यस्य व्यापकं कस्यचिच्च व्याप्यम्। २५० परामर्शलक्षणम् व्याप्तिविशिष्टपक्षधर्मताज्ञानम्। २६ परार्थानुमानाङ्गनिगमनलक्षणम् एतन्न्याय(क्रमिकप्रतिज्ञाद्यवयवसमुदाय)घटक- तस्माद्वह्निमानिति-शब्दवृत्तितादृशोपाधिमत्त्वम्, पक्षे साध्योपसंहाररूपं तस्मात्तथेति वाक्यम्। ३५ परार्थानुमानाङ्गप्रतिज्ञालक्षणम् एतन्न्याय(क्रमिकप्रतिज्ञाद्यवयवसमुदाय)घटक-पर्वतो वह्निमान्-इतिशब्दवृत्त्यवयवभाजकोपाधिमत्त्वम्, पर्वतो वह्निमानिति-साध्यविशिष्टपक्षबोधकं वचनम्। ३१ परार्थानुमानाङ्गहेतुलक्षणम् एतन्न्याय(क्रमिकप्रतिज्ञाद्यवयवसमुदाय) घटकधूमादितिशब्दवृत्तितादृशोपाधिमत्त्वम्, कुत इत्याकाङ्क्षाशमकं धूमादिति पञ्चम्यन्तं लिङ्गवचनम्। ३२ परिशिष्टानि __ परार्थानुमानाङ्गावयवलक्षणम् प्रतिज्ञाद्यन्यतमत्वम्। ३६ परार्थानुमानाङ्गोदाहरणलक्षणम् एतन्न्याय(क्रमिकप्रतिज्ञाद्यवयवसमुदाय)घटक-यो धूमवान्
सोऽग्निमानिति-शब्दवृत्तितादृशोपाधिमत्त्वम्, धूमोऽस्तु
वह्निर्मास्त्वित्याशङ्काशमकं यत्र धूमस्तत्राग्निर्यथा महानसे इत्यादि सव्याप्तिकं दृष्टान्तवचनम्। ३३ परार्थानुमानाङ्गोपनयलक्षणम् एतन्न्यायघटक(क्रमिकप्रतिज्ञाद्यवयवसमुदाय) वह्निव्याप्यधूमवानयमितिशब्दवृत्तितादृशोपाधिमत्त्वम्, हेतूदाहरणाभ्यां पर्यवसित-विशिष्टपरामर्शजनकं तथा चायमिति वाक्यम्। ३४ परार्थानुमानप्रमाणलक्षणम् न्यायपूर्वकम्[अनुमानम्]। २९ परिमाणलक्षणम् परिमाणत्ववत् मानव्यवहारासाधारणकारणम्। १९४ पर्यनुयोज्योपेक्षणनिग्रहस्थानलक्षणम् निग्रहस्थानज्ञानावसरेऽपि तदनुद्भावनम्। ३७० पुनरुक्तनिग्रहस्थानलक्षणम् अनुवादं विना शब्दार्थयोः पुनर्वचनम्। ३६४ पृथक्त्वलक्षणम् पृथक्त्वजातिमत्, पृथग्व्यवहारासाधारणकारणम्। १९५ पृथिवीलक्षणम् पृथिवीत्वजातिमती, गन्धवती, गन्धसमानाधिकरणजलाद्यवृत्तिजातिमत्त्वम्। १६३ प्रकरणसमाजातिलक्षणम् अनधिकबलेन प्रमाणान्तरेण हेतोर्बाधकाभिधानम्। ३३९ प्रतिज्ञान्तरनिग्रहस्थानलक्षणम् पूर्वानुक्तविशेषणवतः पूर्वोक्तसाधनीयांशस्य प्रतिपादनम्। ३५३ प्रतिज्ञावयवलक्षणम् हेत्वभिधानप्रयोजकजिज्ञासाजनकज्ञानजनकत्वे सति
न्यायावयवत्वम्। २९१ प्रतिज्ञाविरोधनिग्रहस्थानलक्षणम् एककर्तृकवाक्यावयवयोः परस्परं विरोधः। ३५५ प्रतिज्ञासंन्यासनिग्रहस्थानलक्षणम् उक्तापलापः। ३५६ प्रतिज्ञाहानिनिग्रहस्थानलक्षणम् स्वीकृतोक्तिपरित्यागः। ३५१ प्रतितन्त्रसिद्धान्तलक्षणम् एकमात्राभ्युपगमः सिद्धान्तः। २९७ प्रतिदृष्टान्तसमाजातिलक्षणम् प्रतिदृष्टान्तमात्रेण साध्यापनयनम्। ३३६ प्रतिबन्दिलक्षणम् चोद्यपरिहारसाम्यम्। ३०४ प्रत्यक्षगुणवत्त्वलक्षणम् प्रत्यक्षगुणवद्वृत्तिद्रव्यविभाजकोपाधिमत्त्वम्। १५५ प्रत्यक्षप्रमाणलक्षणम् साक्षात्काररूपप्रमाकरणम्। १९ __ लक्षणसङ्ग्रहः प्रत्यक्षविषयत्वलक्षणम् चाक्षुषप्रत्यक्षविषयवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्। १४८ प्रमाणलक्षणम् प्रमायाः करणम्। ४ प्रमेयलक्षणम् अन्यज्ञानानुपयोगिनिःश्रेयसाङ्गज्ञानविषयत्वम्। ८१ प्रयोजनलक्षणम् यदिच्छाप्रयुक्तः पुरुषः प्रवर्तते। २८५ प्रवृत्तिलक्षणम् अदृष्टजनकानित्ययत्नत्वम्। २६१ प्रसङ्गसमाजातिलक्षणम् अनवस्थाभासप्रसक्तिः। ३३५ प्रसारणकर्मलक्षणम् ऋजुतासम्पादकं कर्म। २४५ प्रागभावलक्षणम् भविष्यतीति विषयो विनाश्यभावः, प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगिजनको भविष्यतीति व्यवहारहेतुरिति के चित्। २५८ प्राणलक्षणम् मुखनासिकाभ्यां निष्क्रमणात् प्राणः। १७५ प्राप्तिसमाजातिलक्षणम् प्राप्तावविशेषेण प्रतिक्षेपः। ३३३ प्रेत्यभावलक्षणम् आत्मनः शरीरदोषपर्यन्तेन विश्लेषपूर्वकः सम्बन्धः। २७० फललक्षणम् प्रवृत्तिसाध्यम्। २७१ बाधहेत्वाभासलक्षणम् सपक्षे साध्याभावनिर्णयो बाधः। तथाविधः। ६६ बाह्येन्द्रियग्राह्यत्वलक्षणम् बाह्येन्द्रियप्रत्यक्षवृत्तिद्रव्यत्वापरजातिमत्त्वम्। १४७ बुद्धिक्रियालक्षणम् आत्मधर्मोत्पादनद्वारा तादृशः(अदृष्टहेतुरनित्यः) प्रयत्नः। २६४ बुद्धिलक्षणम् जानामीति व्यवसायगम्यबुद्धित्वजातिमती। २०७ भक्तिलक्षणम् आराध्यत्वेन ज्ञानम्। २१६ भावत्वलक्षणम् समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावत्त्वम्। ९८ भावनालक्षणम् अनुभवजन्या स्मृतिहेतुः, स्मृतिजनकः स्वजन्यस्मृतिनाश्यो [गुणः]। २३६ भास्वरत्वलक्षणम् परप्रकाशत्वावच्छेदकजातिविशेषो भास्वरत्वम्। तद्वत्। १९० भूतत्वलक्षणम् बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्, संस्कारत्वान्यबहिरिन्द्रियग्राह्यगुणत्वव्याप्यजातिमद्विशेषगुणवत्त्वम्,
आत्मावृत्तिविशेषगुणवत्त्वम्। १४० भोगलक्षणम् शरीरिसमवेतसुखदुःखान्यतमसाक्षात्कारः। ८६ परिशिष्टानि __ भोगायतनत्वलक्षणम् यदवच्छिन्न आत्मनि भोगो जायते। ८५ भौमत्वलक्षणम् अबिन्धनव्यावृत्या काष्ठेन्धनाग्निवृत्तिजातिविशेषः। १७३ मतानुज्ञानिग्रहस्थानलक्षणम् स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः, स्वपक्षे दोषमनुद्धृत्य परस्य दोषापादनम् इत्येके , अनिष्टरूपेणेष्टापादनम् इत्यन्ये, प्रसङ्गाभासमात्रम् इत्यपरे,
दूषणबुद्ध्या सत्प्रसङ्ग इति मणिकाराः। ३६९ मननलक्षणम् वादिदुस्तर्क जालजनितासम्भावनाविपरीत- भावनानिवारकन्यायानुसन्धानम्। २७७ मनोलक्षणम् आत्मतद्गुणादिप्रत्यक्षकारणम्, स्पर्शरहितत्वे सति क्रियावत्त्वम्। १८४ मानोरथिकसुखलक्षणम् विषयध्यानजं [सुखम्]। २२२ मिथ्याबुद्धिलक्षणम् असद्विषयिणीति वाचस्पतिमिश्राः,
विशेष्यासम्बन्धविशेषणविषयकत्वम् इत्याचार्यादयः। २०९ मोहलक्षणम् विपर्ययः। २६९ यत्नलक्षणम् यते इत्यनुभवसिद्धयत्नत्वजातिमान्। २२८ यथार्थत्वलक्षणम् तद्वति तदवगाहित्वम्। ६ योग्यतालक्षणम् एकपदार्थेऽपरपदार्थस्य प्रकृतसंसर्गवत्त्वम्। ७२ रसनेन्द्रियलक्षणम् रसग्राहकम् आप्यमिन्द्रियम्। ९१ रसलक्षणम् रसनेन्द्रियमात्रग्राह्यजातिमान्। १८७ रागलक्षणम् अदृष्टजनकप्रयत्नजनके च्छा। २६८ रूपलक्षणम् चक्षुर्मात्रग्राह्यजातिमद्गुणत्वम्। १८६ लक्षणस्य लक्षणम् असाधारणधर्मवचनम्। १६१ लक्षणालक्षणम् शक्यसम्बन्धः। सा च स्वशक्येन सह नियमरूपा व्याप्तिरेव। ७४ वर्णलक्षणम् ककारादिः। २३९ वर्ण्यसमाजातिलक्षणम् पक्षवत्साध्यसाधनवत्तया दृष्टान्तस्य हेतुना वर्णनीयत्वापादनम्। ३२९ वाक्क्रियालक्षणम् वचनोत्पादनद्वारादृष्टहेतुरनित्ययत्नः। २६३ वाक्छलम् मुख्यवृत्त्या प्रयुक्ते वृत्तिमात्रेण दूषणाभिधानम्। ३१८ वादलक्षणम् तत्त्वनिर्णयफला वीतरागकथा। ३१२ __ लक्षणसङ्ग्रहः वायुलक्षणम् वायुत्ववान्, नीरूपस्पर्शवान्। १७४ विकल्पसमाजातिलक्षणम् व्यभिचारशङ्कोद्भावनम्। ३३१ विक्षेपनिग्रहस्थानलक्षणम् उभयानुमत्या प्रवर्तितायां कथायां व्याजेन कथाविच्छेदनम्, आवश्यकप्राणिधर्मातिरिक्तव्यासङ्गेन कथाविच्छेदः। ३६८ विचारलक्षणम् देहाद्यतिरिक्तव्यापकात्मनिर्णायकम् इतरपक्षाणाम्
आभासत्वप्रतिपादकं च न्यायसमूहानुसन्धानम्। २७४ वितण्डालक्षणम् स्वपक्षस्थापनाहीना पक्षदूषणमात्रावसाना विजिगीषुकथा। ३१४ विपक्षलक्षणम् निर्णीतसाध्याभावसाधकः। ४८ विपर्ययलक्षणम् प्रतियोगिव्यधिकरणतदभाववति तत्प्रकारको निर्णयः,
अयथार्थनिश्चयात्मकं जाग्रज्ज्ञानम् इति के चित्। २११ विप्रतिपत्तिजसंशयलक्षणम् वादिविरुद्धार्थकवाक्याज्जायमानः तमो द्रव्यं न वा इति । २८४ विभागलक्षणम् विभक्ताविति प्रतीतिसिद्धविभागत्वजातिमान्,
विभक्तप्रत्ययासाधारणकारणम्, संयोगनाशको गुणः। १९९ विरुद्धहेत्वाभासलक्षणम् साध्यासमानाधिकरणत्वम्, साध्यव्यापकाभावप्रतियोगिहेतुकत्वम्। ५८ विशेषगुणत्वलक्षणम् स्वाश्रयव्यवच्छेदोचितावान्तरसामान्यविशेषवत्त्वम्,
गुणत्वापरजातिमत्तया नियतैकद्रव्यव्यवच्छेदकत्वम्। १५४ विशेषलक्षणम् निःसामान्यत्वे सत्येकद्रव्यमात्रसमवेतत्वम्। २५१ विषयलक्षणम् शरीरेन्द्रियव्यतिरिक्तमात्मोपभोसाधनं द्रव्यम्, विषयतासम्बन्धेन साक्षात्कारवत्त्वम्। १६७ वेगलक्षणम् वेगेन गच्छतीति प्रत्यक्षसिद्धवेगत्वजातिमान्। २३५ वेगवत्त्वलक्षणम् वेगवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्। १३४ वैधर्म्यदृष्टान्तलक्षणम् साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तिमान्। २८९ वैधर्म्यसमाजातिलक्षणम् वैधर्म्यमात्रेण प्रतिरोधाभिधानम्। ३२६ वैयात्यलक्षणम् अप्रतिसमाधेयप्रश्नपरस्परायां मौनम्। ३०९ वैषयिकसुखलक्षणम् विषयसाक्षात्कारजम् [सुखम्]। २२१ व्यतिरेकलक्षणम् तादृक्साधनाभावेन तादृक्साध्याभावस्य व्याप्तिः। ३९ व्यभिचारिहेत्वाभासलक्षणम् प्रतियोगिव्यधिकरणसाध्याभाववद्वृत्तित्वम्, परिशिष्टानि __ साध्यसमानाधिकरणधर्मसमानाधिकरणं(णत्वं) वा व्यभिचारः। तद्वान्। ५३ व्याघातलक्षणम् विरुद्धसमुच्चयः। २९९ व्यानलक्षणम् रसस्य गर्भनाडीवितननाद् व्यानः। १७५ व्यापारलक्षणम् तज्जन्यत्वे सति तज्जन्यजनकः। ११ व्याप्तिलक्षणम् साध्यसमानाधिकरणस्वसमानाधिकरणयावत्कत्वम्,
यद्धर्मावच्छिन्नसमानाधिकरणा यावन्तो यत्साध्यतावच्छेदकविशिष्ट समानाधिकरणाः तत्साध्यसमानाधिकरणा। २५ व्याप्यत्वासिद्धहेत्वाभासलक्षणम् व्याप्त्यभाववान्, सोपाधिकः। ६४ शक्तिः अस्मात् पदादयमर्थो बोद्धव्य इतीश्वरसङ्के तः। ७० शब्दप्रमाणलक्षणम् शब्दात् प्रत्येमीत्यनुभवसिद्धशब्दत्वजातिविशेषवती शाब्दी।
तत्करणम्। ६९ शब्दलक्षणम् शब्दं शृणोमीत्यनुभवसिद्धशब्दत्वजातिमान्। २३८ शरीरक्रियालक्षणम् भोगावच्छेदद्वारा तादृशः(अदृष्टहेतुरनित्यः) प्रयत्नः। २६५ शरीरलक्षणम् आत्मनो भोगायतनम्, चेष्टाश्रयः। ८४ शरीरारम्भकत्वलक्षणम् शरीरारम्भकवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्। १४५ श्रद्धालक्षणम् वेदबोधितफलावश्यम्भावनिर्णयः। २१७ श्रवणलक्षणम् न्यायनिर्णीततात्पर्यकश्रुत्यादिभिरात्मनिर्णयः। २७६ श्रवणेन्द्रियलक्षणम् अदृष्टविशेषोपगृहीतकर्णशष्कुल्यवच्छिन्नं नभः। ९४ संयोगलक्षणम् संयुक्तावित्यनुभवसिद्धजातिमान्, संयुक्तप्रत्ययस्यासाधारणकारणम्। १९७ संशयलक्षणम् एकस्मिन् धर्मिणि विरोधविषयनानार्थावमर्शः,
विरुद्धनानाधर्मवैशिष्ट्यज्ञानम्। २८० संशयसमाजातिलक्षणम् निर्णयकारणवत्संशयकारणेन प्रत्यवस्थानम्। ३३८ संसर्गाभावलक्षणम् अन्योन्याभावभिन्नाभावः, संसर्गजन्यप्रतीतिविषयाभावः। २५५ संस्कारलक्षणम् संस्कारत्वजातिमान्। २३३ सङ्ख्यालक्षणम् सङ्ख्यात्वजातिमती, एकादिप्रत्ययस्य तद्व्यवहारस्य चासाधारणकारणम्। १९२ __ लक्षणसङ्ग्रहः सत्प्रतिपक्षहेत्वाभासलक्षणम् तुल्यबलसाध्याभावसाधकहेत्वन्तरसहितो [हेतुः]। ५९ सन्निधिलक्षणम् पदजन्यपदार्थोपस्थितिः। ७३ सपक्षलक्षणम् निर्णीतसाध्यहेतुसहचारकः। ४७ समवायलक्षणम् अयुतसिद्धानां सम्बन्धः। २५२ समवायिकारणलक्षणम् स्वसमवेतानन्यथासिद्धनियतपूर्ववर्तित्वम्,
समवायेन कार्याधारत्वम्(कारणत्वम्)। १५ समवायित्वलक्षणम् समवायसम्बन्धेन सम्बन्धित्वं समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वं वा। ११४ समानलक्षणम् आहारस्य पाकार्थम् औदर्यस्य वह्नेः सम(मं) सर्वत्र नयनात् समानः। १७५ सम्भवप्रमाणलक्षणम् सम्भावनया जानामीति प्रतीतिसिद्धजातिविशेषवती साम्भवी।
तत्करणम्। ७८ सर्वगतत्वलक्षणम् सर्वमूर्तसंयोगित्वम्। १३७ सर्वतन्त्रसिद्धान्तलक्षणम् वादिभ्याम् अभ्युपगतस्यार्थकथोपयोगिनोऽभ्युपगमः। २९७ सविकल्पकप्रत्यक्षप्रमाणलक्षणम् अयं घटोऽयं दण्डीत्यादिशब्दाभिलापयोग्यम्, विशेषणविशेष्यवैशिष्ट्यावगाहि [ज्ञानम्]। २१ साक्षात्कारत्वम् जन्यधीजन्यमात्रवृत्तिशून्यज्ञानत्वम्, साक्षात्करोमीति प्रतीतिसाक्षिकजातिविशेषः। १९ साधर्म्यदृष्टान्तलक्षणम् साधनधर्मप्रयुक्तसाध्यधर्मवान्। २८८ साधर्म्यसमाजातिलक्षणम् साधर्म्यमात्रेण प्रतिरोधाभिधानम्। ३२५ साधारणधर्मजसंशयलक्षणम् स्थाणुपुरुषसाधारणोच्चत्वदर्शनजः। २८२ साधारणव्यभिचारिलक्षणम् साध्यवदन्यवृत्तित्वम्, साध्यासमानाधिकरणसमानाधिकरणत्वम्। ५५ साध्यसमाजातिलक्षणम् पक्षसाध्यधर्महेत्वोः च तल्लिङ्गसाध्यत्वापादनम्। ३३२ सामान्यच्छललक्षणम् शक्त्युपचारापुरस्कारे चक्षुःतात्पर्यविषये शब्दतात्पर्यकल्पनया दोषाभिधानम्। ३२० सामान्यलक्षणम् नित्यमेकम् अनेकसमवेतम्। २४७ सिद्धान्तलक्षणम् कथानुकूलः प्रामाणिकत्वप्रकारार्थनिश्चयः। २९६ सुखलक्षणम् सुख्यहमित्यनुव्यवसायगम्यसुखत्वजातिमत्,
धर्ममात्रजन्यतावच्छेदकजातिमद्, निरुपाधिप्रेमास्पदम्। २१८ परिशिष्टानि __ स्थितस्थापकलक्षणम् अन्यथाकृतस्य यथावस्थितस्थापकः। २३७ स्नेहलक्षणम् सङ्ग्रहरूपकार्यानुमेयो गुणः। २०६ स्पर्शलक्षणम् त्वगिन्द्रियमात्रग्राह्यजातिमान्। १८९ स्मृतिलक्षणम् संस्कारमात्रजं ज्ञानम्, गृहीतमात्रविषयः संस्कारजः प्रत्ययः, स्मरामीत्यनुभवसिद्धजातिमती। ८ स्वप्नलक्षणम् संशयविपर्ययात्मकस्मरणमेवेति नैयायिकाः, दुष्टमनोजन्यं ज्ञानम् इत्यन्ये। २१४ स्वरूपासिद्धहेत्वाभासलक्षणम् पक्षे हेतुस्वरूपाभावः। ६२ स्वार्थानुमानप्रमाणलक्षणम् स्वानुमितिहेतुः। २८ हेत्वन्तरनिग्रहस्थानलक्षणम् अविशिष्टसाधनभागमभिधाय पुनर्विशेषणवत्तद्वचनम्। ३५७ हेत्ववयवलक्षणम् व्याप्त्यभिधानप्रयोजकजिज्ञासाजनकज्ञानजनकन्यायावयवत्वम्। २९२ हेत्वाभासलक्षणम् एतादृश(सपक्षवृत्तित्वादि)रूपशून्या हेतुवदाभासमानाः,

अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वम्। ५१