(३) तृतीयं परिशिष्टम्। आचार्यश्री विजयचन्द्रगुप्तसूरिकृततर्कसङ्ग्रहगतानां लक्षणानां वर्णानुक्रमेण सूचिः लक्ष्यम् लक्षणम् अजहल्लक्षणा लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा। अतिदेशः एकत्र श्रुतस्यान्यत्र सम्बन्धः। अतिव्याप्तिः लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वम्, लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्य तावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम्। अत्यन्ताभावः त्रैकालिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताकाभावत्वम्, तादात्म्यभिन्नसम् बन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। अधर्मः वेदनिषिद्धकर्मजन्यो गुणः। अनित्यत्वम् ध्वंसप्रागभावान्यतरप्रतियोगित्वम्। अनुपसंहारी अनैकान्तिकः अन्वयव्यतिरेकदृष्टान्तरहितो हेतुः। अनुभवः स्मृतित्वावच्छिन्नप्रतियोगिताकभेदवत्त्वे सति ज्ञानत्वम्। अनुमानम् अनुमितिकरणम्। अन्यतमत्वम् तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नं यत् तदन्यत्वम्, भेदकूटावच्छिन्नप्रति योगिताकभेदवत्त्वम्। अन्यतरत्वम् तद्भिन्नत्वे सति तद्भिन्नं यत् तदन्यत्वम्, भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्त् वमन्यतरत्वम्। अन्यथासिद्धिः अवश्यक्लृप्तनियतपूर्ववर्तिनैव कार्यसम्भवे तत्सहभूतत्वम्। अन्योन्याभावः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। अन्वयव्यतिरेकी अन्वयेन व्यतिरेके ण च व्याप्तिमान्। अपक्षेपणम् अधोदेशसंयोगहेतुः। अपरत्वम् अल्पदेशवृत्तित्वम्। अपरत्वम् अपरव्यवहारासाधारणकारणम्। __ लक्षणसङ्ग्रहः अनुमितिः परामर्शजन्यत्वे सति हेत्वविषयकज्ञानत्वम्। अयथार्थः तदभाववति तत्प्रकारकोऽनुभवः। अयथार्थानुभवः तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतानिरूपकानुभवत्वम्। अयुतसिद्धः ययोर्द्वयोर्मध्य एकमविनश्यदवस्थमपराश्रितमवतिष्ठते। अवच्छेदकः अन्यूनानतिप्रसक्तो धर्मः। गौणसमनियतधर्मः। अवयवत्वम् प्रतिज्ञाद्यन्यतमत्वम्। अवसरसङ्गतित्वम् प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्यनन्तरमवश्यवक्तव्यत्वम्। अव्याप्तिः लक्ष्यैकदेशावृत्तित्वम्, लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेद कसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्। असमवायिकारणम् कार्येण स्वकार्यसमवायिकारणेन वा सहैकस्मिन्नर्थे समवेतं सत् यत्कारणम्, समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवाय-स्वसमवायिसमवेतत् वान्यतरसम्बन्धावच्छिन्नकारणताश्रयत्वे सत्यात्मविशेषगुणभिन्नत्वम्, आत्मविशेषगुणभिन्नत्वे सति समवायस्वसमवायिसमवायित्वान्यतरसम्बन्धा वच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम्। असम्भवः लक्ष्यमात्रावृत्तित्वम्। लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम्। असाधारणकारणम् कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्। असाधारणानैकान्तिकलक्षणम् सर्वसपक्षविपक्षव्यावृत्तः, के वलव्यतिरेकिभिन्नत्वविशिष्टः पक्षमात्रवृत्तिः। आकाङ्क्षा पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम्, अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे यत्पदप्रकारकज्ञान-व्यतिरेकप्रयुक्तो यादृशशाब्दबोधाऽभावः तादृशशाब्दबोधे तत्पदे तत्पदवत्त्वम्। आकाशः समवायेन शब्दाश्रयत्वम्। आकुञ्चनम् शरीरस्य सन्निकृष्टसंयोगहेतुः। आत्मा ज्ञानाधिकरणम्। आपः शीतस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। आप्तलक्षणम् प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्। आरोपः बाधकालीनेच्छाजन्यं ज्ञानम्। आश्रयासिद्धहेत्वाभासः पक्षतावच्छेदकाभाववत्पक्षकत्वम्। इच्छा इच्छात्वजातिमत्त्वम्। परिशिष्टानि __ उत्क्षेपणम् ऊर्ध्वदेशसंयोगहेतुः। उदाहरणवाक्यम् व्याप्तिप्रतिपादकदृष्टान्तवचनम्। उद्देशः नाममात्रेण वस्तुसङ्कीर्तनम्। उपनयवाक्यम् उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकवचनम्। उपमानम् उपमितिकरणम्। उपमितिः सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानम्। उपाधिः साध्यव्यापकत्वे सति साधनाव्यापकत्वम्। करणम् व्यापारवदसाधारणकारणम्। कर्म संयोगभिन्नत्वे सति संयोगासमवायिकारणम्। कारणम् अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वम्। कार्यम् प्रागभावप्रतियोगित्वम्। कालः विभुत्वे सत्यतीतादिव्यवहारहेतुत्वम्। के वलव्यतिरेकी व्यतिरेकमात्रव्याप्तिकत्वम्। के वलान्वयी अन्वयमात्रव्याप्तिकत्वम्, के वलान्वयिसाध्यकत्वम्, स्वविरोधिवृत्तिमदभावाप्र तियोगित्वम्, एकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वमिति नव्याः। गन्धः घ्राणग्राह्यो गुणः। गमनम् उत्क्षेपणादिचतुष्टयभिन्नं कर्म। गुणसामान्यम् द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वम्। गुरुत्वम् आद्यपतनासमवायिकारणम्। गौणीलक्षणा सादृश्यविशिष्टे लक्षणा। ग्रन्थः सङ्क्षेपेणोद्देशलक्षणपरीक्षा यस्मिन्। चेष्टा हिताहितप्राप्तिपरिहारानुकूलक्रिया। जहदजहल्लक्षणा शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका लक्षणा । जहल्लक्षणा लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा । जीवः सुखादिसमवायिकारणत्वम्। जीवनयोनिः जीवनादृष्टजन्यो गुणः। तर्क ः तर्क्यन्ते प्रमितिविषयीक्रियन्ते इति तर्काः। व्याप्यारोपेण व्यापकारोपः। __ लक्षणसङ्ग्रहः तेजः उष्णस्पर्शवत्। उष्णस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। दिशः विभुत्वे सति प्राच्यादिव्यवहारहेतुत्वम्। दुःखम् सर्वेषां प्रतिकूलवेदनीयम्, इतरद्वेषानधीनद्वेषविषयत्वम्। दोषसामान्यम् यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वम्। अनु मितितत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितज्ञाननिष्ठप्रतिबन्धकता यद्विषयकत्वावच्छिन्ना तत्त्वम्। द्रव्यत्वम् गुणवत्त्वम्, क्रियाश्रयत्वम्। द्रव्यसामान्यम् द्रव्यत्वजातिमत्त्वम्, गुणवत्त्वम्, समवायिकारणत्वम्। द्वेषः द्वेषत्वजातिमत्त्वम्, द्विष्टसाधनताज्ञानजन्यगुणत्वम्। धर्मः वेदविहितकर्मजन्यो गुणः। निगमनवाक्यम् पक्षे साध्यस्याबाधितत्वप्रतिपादकवचनम्। नित्यत्वम् ध्वंसभिन्नत्वे सति ध्वंसाप्रतियोगित्वम्। निमित्तकारणम् समवायिकारणभिन्नत्वे सत्यसमवायिकारणभिन्नत्वविशिष्टकारणत्वम्। निर्विकल्पकज्ञानम् निष्प्रकारकं ज्ञानम्, प्रकारतादिविषयतात्रयशून्यत्वे सति ज्ञानत्वम्। निवृत्तिः द्वेषजन्यो गुणः। न्यायत्वम् प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। पक्षः सन्दिग्धसाध्यवान्, अनुमित्युद्देश्यत्वम्। पक्षधर्मता व्याप्यस्य पर्वतादिवृत्तित्वम्। पदम् निरूपकतासम्बन्धेन शक्तिविशिष्टम्। परत्वम् अधिकदेशवृत्तित्वम्। परत्वम् परव्यवहारासाधारणकारणम्। परमात्मा नित्यज्ञानवान्। परामर्शः व्याप्तिविशिष्टपक्षधर्मताज्ञानम्, पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरू पितव्याप्तिनिष्ठप्रकारतानिरूपकं ज्ञानम्। परार्थानुमानम् न्यायप्रयोज्यानुमानम्। परिमाणम् मानव्यवहारासाधारणकारणम्। परीक्षा लक्षितस्य लक्षणं सम्भवति न वेति विचारः। परिशिष्टानि __ पाकः विजातीयतेजःसंयोगः। पृथक्त्वम् पृथग्व्यवहारासाधारणकारणम्। पृथ्वी गन्धवत्त्वम्, गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्, गन्धत्वावच्छिन्नस मवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावन्निरूपितद्रव्यत्वव्याप्यजा तित्वावच्छिन्नसमवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वम्। प्रतिज्ञावाक्यम् साध्यविशिष्टपक्षबोधकवचनम्। प्रतिबन्धकत्वम् प्रकृतकार्यानुकूलकारणविघटकत्वम्, कारणीभूताभावप्रतियोगित्वम्। प्रतियोगी यस्याभावः सः। प्रत्यक्षम् प्रत्यक्षज्ञानकरणम्, इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्, ज्ञानाकरणकं ज्ञानम्। प्रत्यभिज्ञा पुरोवर्तिनि पूर्वदृष्टस्याभेदावगाहिज्ञानम्। प्रध्वंसः सादिरनन्तोऽभावः। प्रमा तद्वति तत्प्रकारकोऽनुभवः। प्रमाणम् प्रमाकरणत्वम्। प्रयत्नः प्रयत्नत्वजातिमान्। प्रवृत्तिः इच्छाजन्यो गुणः। प्रसारणम् शरीरस्य विप्रकृष्टसंयोगहेतुः। प्रागभावः अनादिः सान्तोऽभावः। बाधितहेत्वाभासः यस्य साध्याभावः प्रमाणान्तरेण निश्चितः, यस्य हेतोः साध्यरूपो विषयः पक्षे बाधितः। बालः अधीतव्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रः। बुद्धिः सर्वव्यवहारहेतुर्गुणः। भावना अनुभवजन्यत्वे सति स्मृतिहेतुत्वम्, अनुभवत्वावच्छिन्नकारणतानिरूपितका र्यताश्रयत्वे सति स्मृतिहेतुत्वम्। भूतत्वम् बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्। मनः सुखदुःखादिसाक्षात्कारकारणत्वे सतीन्द्रियत्वम्। मूर्तत्वम् क्रियाश्रयत्वम्। मोक्षः स्वसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः। __ लक्षणसङ्ग्रहः यथार्थानुभवः तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे सत्यनुभवत्वम्। योग्यता अर्थाबाधः। रसः रसनग्राह्यो गुणः। रूपम् चक्षुर्मात्रग्राह्यो गुणः, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वे सति विशेषगुणत्वम्, चक्षुर्मात्रग्राह्यजातिमद्गुणत्वम्। लक्षणम् असाधारणधर्मः, अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यम्। लक्षणा शक्यसम्बन्धः। लक्ष्यत्वम् लक्षणाज्ञानजन्योपस्थितीयविशेष्यताश्रयत्वम्। वाक्यम् पदसमूहः। वायुः रूपरहितत्वे सति स्पर्शवत्त्वम्, समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नप्रति योगिताकाभावत्वावच्छिन्नस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरण तावन्निरूपितसमवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधि करणतावन्निरूपितसमवायसम्बन्धावच्छिन्नद्रव्यत्वव्याप्यजातित्वावच्छिन्ना धेयतानिरूपिताधिकरणताश्रयत्वम्। विपक्षः निश्चितसाध्याभाववान्। विपर्ययः मिथ्याज्ञानम्। विभागः स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मविशिष्टधर्मिणां प्रतिपादनम्। विभागः संयोगनाशकत्वविशिष्टगुणत्वम्। विभुत्वम् सर्वमूर्तद्रव्यसंयोगित्वम्। विरुद्धहेत्वाभासः सत्प्रतिपक्षभिन्नत्वविशिष्टसाध्याभावव्याप्तो हेतुः। विशेषाः नित्यद्रव्यवृत्तयो व्यावर्तकाः। विषयः शरीरेन्द्रियभिन्नत्वे सत्युपभोगसाधनम्। वेगः द्वितीयादिपतनासमवायिकारणम्। व्यतिरेकव्याप्तिः साध्याभावव्यापकीभूताभावप्रतियोगित्वम्। व्यापकत्वम् अधिकदेशवृत्तित्वम्, स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदक- धर्मवत्त्वम्। परिशिष्टानि __ व्यापारः द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकत्वम्। व्याप्तिः हेतुव्यापकसाध्यसामानाधिकरण्यम्, साध्याभावाधिकरणनिरूपितवृत्तित्वाभा वः, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगि ताकप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नाधे यतानिरूपिताधिकरणतावद्भिन्नाधिकरणवृत्त्यभावत्वावच्छिन्नाधेयतानिरूपि ताधिकरणतावन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तितात्वावच्छिन्नप् रतियोगिताकाभावः। व्याप्यः व्याप्त्याश्रयः। व्याप्यत्वासिद्धहेत्वाभासः सोपाधिको हेतुः। शक्तिः अस्मात् पदादयमर्थो बोधव्य इतीश्वरसङ्के तः, घटादिविशेष्यकघटादिपदजन्य बोधविषयत्वप्रकारके श्वरेच्छा, अर्थस्मृत्यनुकूलपदपदार्थसम्बन्धत्वम्। शक्यत्वम् शक्तिज्ञानजन्योपस्थितीयविशेष्यताश्रयत्वम्। शब्दः श्रोत्रेन्द्रियग्राह्यो गुणः, श्रोत्रेन्द्रियग्राह्यजातिमत्त्वम्। शब्दः आप्तवाक्यम्। शरीरम् भोगायतनम्, चेष्टाश्रयत्वम्। संयोगः संयुक्तव्यवहारहेतुः। संशयः एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानम्, एकधर्मावच्छिन्नवि शेष्यतानिरूपितभावाभावोभयनिष्ठप्रकारतानिरूपकं ज्ञानम्। संस्कारः सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान्। सङ्ख्या एकत्वादिव्यवहारहेतुः। सत्प्रतिपक्षहेत्वाभासः साध्याभावसाधकं हेत्वन्तरं यस्य स। सन्निधिः पदानामविलम्बेनोच्चारणम्। सपक्षः निश्चितसाध्यवान्। सप्रसङ्गसङ्गतित्वम् अवश्यनिरूपणीयत्वे सति स्मृतस्योपेक्षानर्हत्वम्। समवायः नित्यत्वे सति सम्बन्धत्वम्, अयुतसिद्धयोः सम्बन्धः। समवायिकारणम् यत्समवेतं सत्कार्यमुत्पद्यते, समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म् यसम्बन्धावच्छिन्नकारणताश्रयत्वम्। समूहालम्बनम् नानामुख्यविशेष्यताशालिज्ञानम्। __ लक्षणसङ्ग्रहः सम्बन्धत्वम् विशिष्टप्रतीतिनियामकत्वम्। सविकल्पकज्ञानम् सप्रकारकं ज्ञानम्, प्रकारतादिविषयतात्रयनिरूपकं ज्ञानम्। साधनाव्यापकत्वम् साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वम्। साधारणकारणम् कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्। साधारणानैकान्तिकम् पक्षवृत्तित्वे सति सपक्षवृत्तित्वे सति साध्याभाववद्वृत्तित्वम्। साध्यव्यापकत्वम् साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम्। सामानाधिकरणम् एकाधिकरणवृत्तित्वम्, तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नाधेयतानिरूपिता धिकरणतावन्निरूपिततत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नाधेयतावत्त्वम्। सामान्यम् नित्यत्वे सत्यनेकसमवेतत्वम्। सुखम् सर्वेषामनुकूलवेदनीयम्, इतरेच्छानधीनेच्छाविषयत्वम्। स्थितिस्थापकः अन्यथाकृतस्य पुनः तदवस्थापादको गुणः। स्नेहः चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वम्। स्पर्शः त्वगिन्द्रियमात्रग्राह्यो गुणः। स्मृतिः संस्कारमात्रजन्यं ज्ञानम्, संस्कारजन्यत्वे सति संस्कारेतरेन्द्रियार्थसन्निकर्षाजन् यत्वविशिष्टज्ञानत्वम्। स्वरूपासिद्धहेत्वाभासः पक्षे हेतोरभावः। स्वार्थानुमानम् न्यायाप्रयोज्यानुमानम्। हेतुवाक्यम् पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनम्।