सम्पादकीयम्

कृतिपरिचयः

त्रिविधा हि शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षा च। तत्र नाममात्रेण वस्तुसङ्कीर्तनमुद्देशः। असाधारणधर्मो लक्षणम्। लक्षितस्य लक्षणं सम्भवति न वेति विचारः परीक्षा। उद्देशेन लक्ष्यनिर्देशे कृते हि तदसाधारणधर्मरूपस्य लक्षणस्य निर्वचनं भवति। तदनन्तरं लक्ष्यलक्षणयोः सम्बन्धविचारात्मिका परीक्षा प्रवर्तत इति त्रिष्वेतेषु लक्षणस्य प्राधान्यं निःसन्दिग्धम्। लक्ष्यस्येतरपदार्थेभ्यो भेदो व्यवहारश्च लक्षणेनैव निर्वहतीति तदेव तत्प्रयोजनम्। तदुक्तम्— व्यावृत्तिर्व्यवहारश्च लक्षणस्य प्रयोजनम्। यथा पृथिव्या गन्धवत्त्वं लक्षणम्। तेन पृथिवीतरभेदवती गन्धवत्त्वादित्यनयानुमित्या व्यतिरेकव्याप्त्या पृथिव्यां जलादिभेदः साध्यते। पृथिवी पृथिवीतिव्यवहारविषया गन्धवत्त्वादित्यनयानुमित्या अन्वयव्याप्त्या घटादिषु पृथिवीव्यवहारः प्रसाध्यते। एवं लक्षणेनैव यथार्थं पदार्थज्ञानं जायत इति लक्षणाधिगतये यतन्ते धीधनाः।

सम्पादनप्रयोजनम्

न्याय-वैशेषिकदर्शनयोर्लक्षणप्रधानानि तर्कामृत-तर्क सङ्ग्रह-लक्षणावलीप्रमुखानि बहूनि शास्त्राण्युप- लभ्यन्ते। तेष्वेकतमोऽयं श्रीनरोत्तमभट्टविरचितो लक्षणसङ्ग्रहाभिधो ग्रन्थः पूर्वमप्रकाशितत्वादत्र सम्पादयिषितः। ग्रन्थः तत्कर्ता च अपरिचितौ वर्तेते। Encyclopedia of Indian Philosophies - New Catalogues Catalogorum इत्यादिष्वनयोरुल्लेखो न प्राप्यते। रत्नाकरभट्टस्य शिष्योऽयमिति मङ्गलाचरणे ग्रन्थसमाप्तिप्रशस्तौ च स्वयमेतावदेवोल्लिखितं ग्रन्थकृतेत्यधिकं जीवनवृत्तादिकमस्य न ज्ञायते। ग्रन्थसमाप्तिप्रशस्तौ कपिलभट्टस्यापि नाम दृश्यते किन्तु तत्सम्बन्धविषये कश्चनोल्लेखो नास्ति। ग्रन्थेऽस्मिन् न्यायसूत्राणामाद्यं प्रमाणप्रमेयादिकं सूत्रमुद्दिश्य लक्षणानि विवृतानि। तदङ्गभूतानां पदार्थानां लक्षणानि तु अवसरादिभिः सङ्गतिभिः तत्र तत्र विवृतानि। यथा— प्रमाणपदार्थनिरूपणावसरे करणत्व-कारणत्व- व्यापारत्वान्यथासिद्धत्वादीनाम्, अर्थपदार्थनिरूपणावसरे साधर्म्यस्य, अपवर्गनिरूपणावसरे विचारादीनाम्,
हेत्वाभासनिरूपणावसरेऽतिव्याप्त्यादीनां दोषाणां निरूपणम्। वैशेषिकपद्धतिमनुकुर्वतोदयनाचार्येण स्वीयां लक्षणावल्यां सप्तपदार्थानुद्दिश्य लक्षणानि विवृतानि। तत्र चानुमानप्रमाणमप्यपन्यस्तमिति परीक्षाप्रधानेयमिति निश्चीयते। लक्षणसङ्ग्रहे तु केवलं लक्षणानामेव विवरणं कृतं नरोत्तमभट्टेनेत्यनयोर्विशेषः। नव्यन्याये प्रवेशेप्सूनामेषा कृतिरुपकरिष्यतीति मन्ये।

सम्पादनसामग्री

अस्यैकैव पाण्डुलिपिः पुण्यपत्तननगरस्थ-भाण्डारकरप्राच्यविद्याशोधसंस्थाने वर्तते। क्रमाङ्कोऽस्याः —३९२,३९९/१८७५-७६तमोऽस्ति। पाण्डुलिपावस्यां द्वे कृ ती स्तः। लक्षणसङ्ग्रहः पदार्थदीपिका च।

लक्षणसङ्ग्रहस्य नरोत्तमभट्टः पदार्थदीपिकायाश्च कौण्डभट्टः कर्ता। एकादिद्वाविंशतितमपत्रपर्यन्तं पदार्थदीपिका लिखिता। तदनन्तरं आ दशमं पत्रं लक्षणसङ्ग्रहो लिखितः। लक्षणसङ्ग्रहस्याक्षराणि स्थूलानि स्पष्टानि च वर्तन्तेऽन्यस्य पुनर्विपरीतानीति उभयोः प्रतिलेखको भिन्नो वर्तत इत्यनुमीयते। अत्र तु लक्षणसङ्ग्रहस्यैव सम्पादनं कृतम्। अस्य दश पत्राणि सन्ति। सम्पादनार्थं चित्रप्रतिकृति(स्के न कापी)रेवोपलब्धेति पत्रप्रमाणं नावगम्यते। प्रतिपत्रं प्रायः षड्विंशतिः पङ्क्तयः, प्रत्येकासु पङ्क्तिषु च प्रायोऽष्टाविंशतिरक्षराणि सन्ति।

सम्पादनप्रकारः

१) अत्राशुद्धत्वेनोपलक्षितः पाठः सम्मार्ज्य तत्रैव वृत्ताकारे () कोष्ठके शुद्धः पाठो दर्शितः। यत्रापि च पाठे स्वल्पोऽपि सन्देहः तत्र प्रश्नचिह्नं कृतम्।
२) लिपिकृतोऽनवधानादिना भ्रष्टः पाठः चतुष्कोणे [ ] कोष्ठके दर्शितः।
३) पुनरावृत्तः पाठो धनुराकारे { } कोष्ठके न्यस्तः।
४) सर्वथा सन्दिग्धाः पाठा अधोरेखयाङ्किताः।
५) विषयस्य सुखावबोधार्थं समग्रो ग्रन्थः परिच्छेदैर्विभक्तः। परिशिष्टनिर्माणार्थं च परिच्छेदानां क्रमः कल्पितः। परिच्छेदशीर्षकाणि चतुष्कोणे [ ] कोष्ठके न्यस्तानि। शीर्षके १.१ इत्यादयोऽङ्का न्यायसूत्रीयपदार्थ-तदुपप्रकारसूचका ज्ञेयाः। क्रमाङ्कश्च तत्पूर्वं वृत्ताकारे ( ) कोष्ठके दर्शितः।
६) पाण्डुलिपौ दृश्यमानाः सन्धयः(मनस्संयोग इत्यादिकाः) पठनसौकर्यार्थं परावर्तिताः(मनःसंयोग इत्यादिकाः)।
७) पाण्डुलिपौ समासभागे_ ग्रन्थकृता प्रतिलेखकेनान्येन वा केनचित् टिप्पण्यो नियोजिताः। कुत्रचित् पुनर्द्वयोः पङ्क्त्योर्मध्यभाग एव ता लिखिताः। अमूः टिप्पण्यः पादटीपे सम्पाद्य प्रकाशिताः। पत्रस्य त्रुटितत्वेन भ्रष्टः पाठो यथामति पूरितः। सर्वथानवगम्यमानः पाठो रिक्तस्थानेन सूचितः। तत्र यावन्त्यक्षराणि न पठ्यन्ते तावन्ति बिन्दुद्वयचिह्नानि स्थापितानि। अशुद्धत्वेनावगम्यमानः पाठोऽधोरेखयाङ्कितः।
८) सम्पादककृताः टिप्पण्यो वाक्यान्ते सं. सङ्के तपूर्वकं प्रदर्शिताः।
९) प्रतिलिपिकृतानवधानादिना विस्मृतत्वेनाभासमानः पाठोऽपि ग्रन्थान्तरसाहाय्येन प्रपूर्य टिप्पण्यां न्यस्तः। (द्रष्टव्यः परिच्छेदः-३५२)
१०) परिशिष्टे लक्षणानां स्पष्टतार्थं क्वचित् मूलपाठ आंशिकं परिवर्तनं कृतम्।

परिशिष्टानि

प्रथमे परिशिष्टे लक्षणसङ्ग्रहे प्रस्तुतानां लक्षणानां वर्णानुक्रमेण सूचिः पुरस्कृ ता। लक्षणसङ्ग्रह उपचतुःशतानि लक्षणानि सन्ति। तेषां वर्णानुक्रमेण सूचिरत्र प्रस्तुता। येनाधिजिगमित्सूनां सन्दर्भान्वेषणे साहाय्यं स्यात्।

_ पत्रस्य परितो वर्तमानस्य रिक्तस्थानस्य समास इति सञ्ज्ञा। हांसियो इति भाषायाम्।

द्वितीये परिशिष्टे प्रथमभागे समानविषयिण्युदयनाचार्यकृता लक्षणावली प्रस्तुता। तेनाधिजिगमित्सूनां तुलनात्मकाध्ययने साहाय्यं स्यात्। लक्षणावल्यां प्राय एकषष्टिप्रमितानि लक्षणानि सन्ति। द्वितीयस्य परिशिष्टस्य द्वितीयभागे तेषामपि वर्णानुक्रमेण सूचिः प्रस्तुता। तृतीये परिशिष्ट आचार्यश्रीविजयचन्द्रगुप्तसूरिभिः कृते तर्कसङ्ग्रहविवरणस्य परिशिष्टे वर्तमानानां लक्षणानां वर्णानुक्रमेण सूचिः प्रस्तुता। परिशिष्टेऽस्मिन् षट्षष्ट्यधिकशतप्रमितानि लक्षणानि सन्ति। तुरीये परिशिष्टे सन्दर्भग्रन्थसूचिरुपदर्शिता। पञ्चमे परिशिष्टे हस्तप्रतेः चित्राणि न्यस्तानि।

कृतज्ञताभिव्यक्तिः

प्रस्तावेऽत्र परमगुरुचरणानां परमपूज्यपादानामाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, पितृगुरुदे-वानां परमपूज्यमुनिप्रवरश्रीसंवेगरतिविजयानाम्, सर्वेषां विद्यागुरूणामनन्तोपकारान् स्मरन् बद्धाञ्जलिराशी-र्याचमानो बन्धुमुनिवरस्य श्रीप्रशमरतिविजयस्य परमपूज्यसाध्वीवर्याश्रीहर्षरेखाश्रीशिष्या-साध्वीश्रीजिनरत्नाश्री- साध्वीश्रीमधुरहंसाश्री-साध्वीश्रीधन्यहंसाश्रीणां श्रुतभवनसंशोधनके न्द्रवर्तिनां कार्यसम्पादकानां च निरन्तरं निरपेक्षं च साहाय्यं समुपबृंहतेऽयं जनः। पुण्यपत्तनविद्यापीठस्याचार्या ‘झा’ इत्योपाह्वा श्रीमत्युज्ज्वलामहोदया सम्पादनमेनं प्रस्तुत्या शोभितवतीति तां प्रत्यपि कार्तज्ञ्यमावेदयामि। तदेवं लक्षणसङ्ग्रहाभिधो ग्रन्थो यथामति सम्पाद्यात्र प्रस्तुतो विदुषां बोधवृद्ध्यै सम्पद्यतामिति शुभमभिलषन् सम्पादनेऽस्मिन् दृश्यमानाः छद्मस्थसुलभाः क्षतयो विद्वांसः सम्मार्क्ष्यन्ति निर्देक्ष्यन्ति चेति निवेदयँश्च विरमति
परमगुरुवराचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां विनेयान्यतमः पितृगुरुमुनिप्रवर-श्रीसंवेगरतिविजयानामनुजस्य मुनिप्रवरश्रीप्रशमरतिविजयस्य च सतीर्थ्यः -वैराग्यरतिविजयः

वैक्रमीये त्रिसप्तत्यधिके द्विसहस्रतमेऽब्दे
चैत्रशुक्लैकादशीतिथौ श्रुतभवने।