त्रावर्तनम् असम्भवः। परतात्पर्यविषये शब्दतात्पर्यसञ्चारेण दूष णवचनं च्छ(छ)लम्। तत् त्रिविधं वाक्छलं सामान्यच्छलम् उपचारच्छलं चेति। मुख्यवृत्त्या प्रयुक्ते वृत्तिमात्रेण दूषणाभिधानं वाक्छलम्। तद्द्वेधा शक्त्यन्तरे तात्पर्यसञ्चारेण लक्ष्यान्तरे च तात्पर्यसञ्चारेण। शक्त्युपचारा पुरस्कारे चक्षुतात्पर्यविषये शब्दतात्पर्यकल्पनया दोषाभिधानं सामान्यच्छलम्॥ उपचारवृत्त्या प्रयुक्ते वृत्तिमात्रेण दूषणाभि धानम् उपचारच्छलम्॥ तदपि द्वेधा शक्यन्तरे तात्पर्यसञ्चारेण ल क्ष्यान्तरे च तात्पर्यसञ्चारेण॥ व्याप्तिपक्षधर्मत्वान्यतरापुरस्कारे प्र वृत्तमुत्तरं जातिः। स्वव्याघातकमुत्तरं जातिरिति वा॥ स(सा) चतुर्विंश तिप्रकारा॥ साधर्म्यसमा, वैधर्म्यसमा, उत्कर्षसमा, अपकर्ष समा, वर्ण्यसमा, अवर्ण्यसमा, विकल्पसमा, साध्यसमा, प्राप्तिस मा, अप्राप्तिसमा, प्रसङ्गसमा, प्रतिदृष्टान्तसमा, अनुत्पत्तिसमा, संशयसमा, प्रकरणसमा, अहेतुसमा, अर्थापत्तिसमा, अवि शेषसमा, उपपत्तिसमा, उपलब्धिसमा, अनुपलब्धिसमा, नित्यस मा, अनित्यसमा, कार्यसमेति॥ साधर्म्यमात्रेण प्रतिरोधाभिधानं साधर्म्यसमा, वैधर्म्यमात्रेण प्रतिरोधाभिधानं वैधर्म्यसमा। दृ ष्टान्तेऽदृष्टस्य पक्षधर्म_तया अनिष्टविशेषापादनं उत्कर्षसमा। व्या पकाभिमतधर्मव्यावृत्त्या प्रकृतानुमानविषयापनयनम् अपकर्षस मा। पक्षवत्साध्यसाधनवत्तया दृष्टान्तस्य हेतुना वर्णनीयत्वापा दनं वर्ण्यसमा। पक्षवत्साध्यवत्तया अवर्णनीयत्वापादनम् अव र्ण्यसमा। व्यभिचारशङ्कोद्भावनं विकल्पसमा। पक्षसाध्यधर्महे त्वोश्च तल्लिङ्गसाध्यत्वापादनं साध्यसमा। प्राप्तावविशेषेण प्रतिक्षेपः प्राप्तिसमा। अप्राप्तावतिप्रसङ्गेन प्रतिषेधः अप्रा प्तिसमा। अनवस्थाभासप्रशक्तिः प्रसङ्गसमा। प्रतिदृष्टान्त मात्रेण साध्यापनयनं प्रतिदृष्टान्तसमा। प्रागुत्पत्तेक्का(त्तेः का)रणभा वात्प्रत्यवस्थानम् अनुत्पत्तिसमा। निर्णयकारणवत्संशयकारणे न प्रत्यवस्थानं संशयसमा। अनधिकबलेन प्रमाणान्तरेण हेतोर्बाधकाभिधानं प्रकरणसमा। त्रैकाल्यासिद्धेर्हेतुभावस्य दूषणं अहेतुसमा। अर्थापत्त्याभासेनानुपेक्षिताभिधानम् अर्था पत्तिसमा। अविशेषापादकधर्मक्रान्तस्य समुदायस्यैक_ _ धर्म इति वामभागे समासे दृश्यते। _ अधस्तनीये समासे श्रीगणेशाय नमः इति लिखितं दृश्यते।
नरोत्तमभट्टरचितः
॥लक्षणसङ्ग्रहः॥
॥ॐ स्वस्ति॥श्री गणेशाय नमः॥